close


  • श्रीमदष्टावक्रगीता

 

                     ॥ श्री ॥

          ॥ अथ श्रीमदष्टावक्रगीता ॥

 

जनक उवाच

कथं ज्ञानं अवाप्तोऽति कथं मुक्तिर्भविष्यति   ।

वैराग्यं च कथं प्राप्तं एतद्ब्रूहि मम प्रभो   । । १.१  । ।

 

अष्टावक्र उवाच

मुक्तिं इच्छसि चेत्तात विषयान्विषवत्त्यज   ।

क्षमार्जवदयातोष-सत्यं पीयूषवद्भज   । । १.२  । ।

न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान्  ।

एषां साक्षिणं आत्मानं चिद्-रूपं विद्धि मुक्तये   । । १.३  । ।

यदि देहं पृथक्कृत्य चिति विश्राम्य तिष्ठसि   ।

अधुनैव सुखी शान्तो बन्ध-मुक्तो भविष्यसि   । । १.४  । ।

न त्वं विप्रादिको वर्णो नाश्रमी नाक्ष-गोचरः   ।

असङ्गोऽसि निराकारो विश्व-साक्षी सुखी भव   । । १.५  । ।

धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो   ।

न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा   । । १.६  । ।

एको द्रष्टासि सर्वस्य मुक्त-प्रायोऽसि सर्वदा   ।

अयं एव हि ते बन्धो द्रष्टारं पश्यसीतरं  । । १.७  । ।

अहं कर्तेत्यहं-मान-महा-कृष्णाहि-दंशितः   ।

नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव   । । १.८  । ।

एको विशुद्ध-बोधोऽहं इति निश्चय-वह्निना   ।

प्रज्वाल्याज्ञान-गहनं वीत-सोकः सुखी भव   । । १.९  । ।

यत्र विश्वं इदं भाति कल्पितं रज्जु-सर्पवथ् ।

आनन्द-परमानन्दः स बोधस्त्वं सुखं चर   । । १.१०  । ।

मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि   ।

किं वदन्तीह सत्येऽयं या मतिः सा गतिर्भवेथ् । । १.११  । ।

आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः   ।

असङ्गो निस्पृहः शान्तो भ्रमात्संसारवानिव   । । १.१२  । ।

कूटस्थं बोधं अद्वैतं आत्मानं परिभावय   ।

आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यं अथान्तरं  । । १.१३  । ।

देहाभिमान-पाशेन चिरं बद्धोऽसि पुत्रक   ।

बोधोऽहं ज्ञान-खड्गेन तन्निष्कृत्य सुखी भव   । । १.१४  । ।

निःसङ्गो निष्क्रियोऽसि त्वं स्व-प्रकाशो निरञ्जनः   ।

अयं एव हि ते बन्धः समाधिं अनुतिष्ठसि   । । १.१५  । ।

त्वया व्याप्तं इदं विश्वं त्वयि प्रोतं यथार्थतः   ।

शुद्द्ध-बुद्ध-स्वरूपस्त्वं, मा गमः क्षुद्र-चित्ततां  । । १.१६  । ।

निरपेक्षो निर्विकारो निर्भरः शीतलाशयः   ।

अगाध-बुद्धिरक्षुब्धो भव चिन्-मात्र-वासनः   । । १.१७  । ।

साकारं अनृतं विद्धि निराकारं तु निश्चलं  ।

एतत्-तत्त्वोपदेशेन न पुनर्-भव-सम्भवः   । । १.१८  । ।

यथैवादर्शं अध्यस्थे रूपेऽन्तः परितस्तु सः   ।

तथैवास्मिन्शरीरेऽन्तः परितः परमेश्वरः   । । १.१९  । ।

एकं सर्व-गतं व्योम बहिरन्तर्यथा घटे   ।

नित्यं निरन्तरं ब्रह्म सर्व-भूत-गणे तथा   । । १.२०  । । 

 

_______________________________________________________________________

 

जनक उवाच

अहो निरञ्जनः शान्तो बोधोऽहं प्रकृतेः परः   ।

एतावन्तं अहं कालं मोहेनैव विडम्बितः   । । २.१  । ।

यथा प्रकाशयाम्येको देहं एनं तथा जगथ् ।

अतो मम जगत्सर्वं अथवा न च किंचन   । । २.२  । ।

सशरीरं अहो विश्वं परित्यज्य मयाधुना   ।

कुतश्चित्कौशलादेव परमात्मा विलोक्यते   । । २.३  । ।

यथा न तोयतो भिन्नास्तरङ्गाः फेन-बुद्बुदाः   ।

आत्मनो न तथा भिन्नं विश्वं आत्म-विनिर्गतं  । । २.४  । ।

तन्तु-मात्रो भवेदेव पटो यद्वद्विचारितः   ।

आत्म-तन्मत्रं एवेदं तद्वद्विश्वं विचारितं  । । २.५  । ।

यथैवेक्षु-रसे क्ळ्प्ता तेन व्याप्तैव शर्करा   ।

तथा विश्वं मयि क्ळ्प्तं मया व्याप्तं निरन्तरं  । । २.६  । ।

आत्माज्ञानाज्जगद्भाति आत्म-ज्ञानान्न भासते   ।

रज्ज्वज्ञानादहिर्भाति तज्-ज्ञानाद्भासते न हि   । । २.७  । ।

प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः   ।

यदा प्रकाशते विश्वं तदाहं भास एव हि   । । २.८  । ।

अहो विकल्पितं विश्वं अज्ञानान्मयि भासते   ।

रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा   । । २.९  । ।

मत्तो विनिर्गतं विश्वं मय्येव लयं एष्यति   ।

मृदि कुम्भो जले वीचिः  कनके कटकं यथा   । । २.१०  । ।

अहो अहं नमो मह्यं, विनाशो यस्य नास्ति मे   ।

ब्रह्मादि-स्तम्ब-पर्यन्तं जगन्नाशेऽपि तिष्ठतः   । । २.११  । ।

अहो अहं नमो मह्यं एकोऽहं देहवानपि   ।

क्वचिन्न गन्ता नागन्ता व्याप्य विश्वं अवस्थितः   । । २.१२  । ।

अहो अहं नमो मह्यं दक्षो नास्तीह मत्-समः   ।

असंस्पृश्य शरीरेण येन विश्वं चिरं धृतं  । । २.१३  । ।

अहो अहं नमो मह्यं यस्य मे नास्ति किंचन   ।

अथवा यस्य मे सर्वं यद्वाङ्-मनस-गोचरं  । । २.१४  । ।

ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवं  ।

अज्ञानाद्भाति यत्रेदं सोऽहं अस्मि निरञ्जनः   । । २.१५  । ।

द्वैत-मूलं अहो दुःखं नान्यत्तस्यास्ति भेषजं  ।

दृश्यं एतन्मृषा सर्वं एकोऽहं चिद्-रसोऽमलः   । । २.१६  । ।

बोध-मात्रोऽहं अज्ञानादुपधिः कल्पितो मया   ।

एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम   । । २.१७  । ।

न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्ता निराश्रया   ।

अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितं  । । २.१८  । ।

स-शरीरं इदं विश्वं न किंचिदिति निश्चितं  ।

शुद्ध-चिन्-मात्र आत्मा च तत्कस्मिन्कल्पनाधुना   । । २.१९  । ।

शरीरं स्वर्ग-नरकौ बन्ध-मोक्षौ भयं तथा   ।

कल्पना-मात्रं एवैतत्किं मे कार्यं चिदात्मनः   । । २.२०  । ।

अहो जन-समूहेऽपि न द्वैतं पश्यतो मम   ।

अरण्यं इव संवृत्तं क्व रतिं करवाण्यहं  । । २.२१  । ।

नाहं देहो न मे देहो जीवो नाहम्, अहं हि चिथ् ।

अयं एव हि मे बन्ध आसीत्या जीविते स्पृहा   । । २.२२  । ।

अहो भुवन-कल्लोलैर्विचित्रैर्द्राक्समुत्थितं  ।

मय्यनन्त-महाम्भोधौ चित्त-वाते समुद्यते   । । २.२३  । ।

मय्यनन्त-महाम्भोधौ चित्त-वाते प्रशाम्यति   ।

अभाग्याज्जीव-वणिजो जगत्पोतो विनश्वरः   । । २.२४  । ।

मय्यनन्त-महाम्भोधवाश्चर्यं जीव-वीचयः   ।

उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः   । । २.२५  । ।

 

_______________________________________________________________________

 

 

अष्टावक्र उवाच

अविनाशिनं आत्मानं एकं विज्ञाय तत्त्वतः   ।

तवात्म-ज्ञस्य धीरस्य कथं अर्थार्जने रतिः   । । ३.१  । ।

आत्माज्ञानादहो प्रीतिर्विषय-भ्रम-गोचरे   ।

शुक्तेरज्ञानतो लोभो यथा रजत-विभ्रमे   । । ३.२  । ।

विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे   ।

सोऽहं अस्मीति विज्ञाय, किं दीन इव धावसि   । । ३.३  । ।

श्रुत्वापि शुद्ध-चैतन्यं आत्मानं अतिसुन्दरं  ।

उपस्थेत्यन्त-संसक्तो मालिन्यं अधिगच्छति   । । ३.४  । ।

सर्व-भूतेषु चात्मानं सर्व-भूतानि चात्मनि   ।

मुनेर्जानत आश्चर्यं ममत्वं अनुवर्तते   । । ३.५  । ।

आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः   ।

आश्चर्यं काम-वशगो विकलः केलि-शिक्षया   । । ३.६  । ।

उद्भूतं ज्ञान-दुर्मित्रं अवधार्यातिदुर्बलः   ।

आश्चर्यं कामं आकाङ्क्षेत्कालं अन्तं अनुश्रितः   । । ३.७  । ।

इहामुत्र विरक्तस्य नित्यानित्य-विवेकिनः   ।

आश्चर्यं मोक्ष-कामस्य मोक्षादेव विभीषिका   । । ३.८  । ।

धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा   ।

आत्मानं केवलं पश्यन्न तुष्यति न कुप्यति   । । ३.९  । ।

चेष्टमानं शरीरं स्वं पश्यत्यन्य-शरीरवथ् ।

संस्तवे चापि निन्दायां कथं क्षुभ्येत्महाशयः   । । ३.१०  । ।

माया-मात्रं इदं विश्वं पश्यन्विगत-कौतुकः   ।

अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः   । । ३.११  । ।

निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः   ।

तस्यात्म-ज्ञान-तृप्तस्य तुलना केन जायते   । । ३.१२  । ।

स्वभावादेव जानानो दृश्यं एतन्न किंचन   ।

इदं ग्राह्यं इदं त्याज्यं स किं पश्यति धीरधीः   । । ३.१३  । ।

अन्तस्-त्यक्त-कषायस्य निर्द्वन्द्वस्य निराशिषः   ।

यद्-ऋच्छय्-आगतो भोगो न दुःखाय न तुष्टये   । । ३.१४  । ।

 

_______________________________________________________________________

 

 

अष्टावक्र उवाच

हन्तात्म-ज्ञस्य धीरस्य खेलतो भोग-लीलया   ।

न हि संसार-वाहीकैर्मूडैः सह समानता   । । ४.१  । ।

यत्पदं प्रेप्सवो दीनाः शक्राद्याः सर्व-देवताः   ।

अहो तत्र स्थितो योगी न हर्षं उपगच्छति   । । ४.२  । ।

तज्-ज्ञस्य पुण्य-पापाभ्यां स्पर्शो ह्यन्तर्न जायते   ।

न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गति   । । ४.३  । ।

आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना   ।

यद्-ऋच्छया वर्त्तमानं तं निषेद्धुं क्षमेत कः   । । ४.४  । ।

आ-ब्रह्म-स्तम्ब-पर्यन्ते भूत-ग्रामे चतुर्-विधे   ।

विज्ञस्यैव हि सामर्थ्यं इच्छानिच्छा-विवर्जने   । । ४.५  । ।

आत्मानं अद्वयं कश्चिज्जानाति जगदीश्वरं  ।

यद्वेत्ति तत्स कुरुते न भयं तस्य कुत्रचिथ् । । ४.६  । ।

 

_______________________________________________________________________

 

 

अष्टावक्र उवाच

न ते सङ्गोऽस्ति केनापि किं शुद्धस्त्यक्तुं इच्छसि   ।

सङ्घात-विलयं कुर्वन्नेवं एव लयं व्रज   । । ५.१  । ।

उदेति भवतो विश्वं वारिधेरिव बुद्बुदः   ।

इति ज्ञत्वैकं आत्मानं एवं एव लयं व्रज   । । ५.२  । ।

प्रत्यक्षं अप्यवस्तुत्वाद्विश्वं नास्त्यमले त्वयि   ।

रज्जु-सर्प इव व्यक्तं एवं एव लयं व्रज   । । ५.३  । ।

सम-दुःख-सुखः पूर्ण आशा-नैराश्ययोः समः   ।

सम-जीवित-मृत्युः सन्नेवं एव लयं व्रज   । । ५.४  । ।

 

_______________________________________________________________________

 

 

अष्टावक्र उवाच

आकाशवदनन्तोऽहं घटवत्प्रकृतं जगथ् ।

इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः   । । ६.१  । ।

महोदधिरिवाहं स प्रपञ्चो वीचि-संनिभः   ।

इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः   । । ६.२  । ।

अहं स शुक्ति-सङ्काशो रूप्यवद्विश्व-कल्पना   ।

इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः   । । ६.३  । ।

अहं वा सर्व-भूतेषु सर्व-भूतान्यथो मयि   ।

इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः   । । ६.४  । ।

 

_______________________________________________________________________

 

 

जनक उवाच

मय्यनन्त-महाम्भोधौ विश्व-पोत इतस्-ततः   ।

भ्रमति स्वान्त-वातेन न ममास्त्यसहिष्णुता   । । ७.१  । ।

मय्यनन्त-महाम्भोधौ जगद्-वीचिः स्वभावतः   ।

उदेतु वस्तं आयातु न मे वृद्धिर्न च क्षतिः   । । ७.२  । ।

मय्यनन्त-महाम्भोधौ विश्वं नाम विकल्पना   ।

अतिशान्तो निराकार एतदेवाहं आस्थितः   । । ७.३  । ।

नात्मा भावेषु नो भावस्तत्रानन्ते निरन्जने   ।

इत्यसक्तोऽस्पृहः शान्त एतदेवाहं आस्तितः   । । ७.४  । ।

अहो चिन्-मात्रं एवाहं इन्द्र-जालोपमं जगथ् ।

अतो मम कथं कुत्र हेयोपादेय-कल्पना   । । ७.५  । ।

 

_______________________________________________________________________

 

 

अष्टावक्र उवाच

तदा बन्धो यदा चित्तं किंचिद्वाञ्छति षोचति   ।

किंचिन्मुञ्चति गृह्णाति किंचिद्धृष्यति कुप्यति   । । ८.१  । ।

तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति   ।

न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति   । । ८.२  । ।

तदा बन्धो यदा चित्तं सक्तं कास्वपि दृष्टिषु   ।

तदा मोक्षो यदा चित्तं असक्तं सर्व-दृष्टिषु   । । ८.३  । ।

यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा   ।

मत्वेति हेलया किंचित्मा गृहाण विमुञ्च मा   । । ८.४  । ।

 

_______________________________________________________________________

 

 

अष्टावक्र उवाच

कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा   ।

एवं ज्ञात्वेह निर्वेदाद्भव त्याग-परोऽव्रती   । । ९.१  । ।

कस्यापि तात धन्यस्य लोक-चेष्टावलोकनाथ् ।

जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः   । । ९.२  । ।

अनित्यं सर्वं एवेदं ताप-त्रितय-दूषितं  ।

असारं निन्दितं हेयं इति निश्चित्य शाम्यति   । । ९.३  । ।

कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणां  ।

तान्युपेक्ष्य यथा-प्राप्त-वर्ती सिद्धिं अवाप्नुयाथ् । । ९.४  । ।

नाना मतं महर्षीषां साधूनां योगिनां तथा   ।

दृष्ट्वा निर्वेदं आपन्नः को न शाम्यति मानवः   । । ९.५  । ।

कृत्वा मूर्ति-परिज्ञानं चैतन्यस्य न किं गुरुः   ।

निर्वेद-समतायुक्त्या यस्तारयति संसृतेः   । । ९.६  । ।

पश्य भूत-विकारांस्त्वं भूत-मात्रान्यथार्थतः   ।

तत्-क्षणाद्बन्ध-निर्मुक्तः स्व-रूप-स्थो भविष्यसि   । । ९.७  । ।

वासना एव संसार इति सर्वा विमुञ्च ताः   ।

तत्-त्यागो वासना-त्यागात्स्थितिरद्य यथा तथा   । । ९.८  । ।

 

_______________________________________________________________________

 

 

अष्टावक्र उवाच

विहाय वैरिणं कामं अर्थं चानर्थ-सङ्कुलं  ।

धर्मं अप्येतयोर्हेतुं सर्वत्रानादरं कुरु   । । १०.१  । ।

स्वप्नेन्द्र-जालवत्पश्य दिनानि त्रीणि पञ्च वा   ।

मित्र-क्षेत्र-धनागार-दार-दायादि-सम्पदः   । । १०.२  । ।

यत्र यत्र भवेत्तृष्णा, संसारं विद्धि तत्र वै   ।

प्रौढ-वैराग्यं आश्रित्य वीत-तृष्णः सुखी भव   । । १०.३  । ।

तृष्णा-मात्रात्मको बन्धस्, तन्-नाशो मोक्ष उच्यते   ।

भवासंसक्ति-मात्रेण प्राप्ति-तुष्टिर्मुहुर्-मुहुः   । । १०.४  । ।

त्वं एकश्चेतनः शुद्धो जडं विश्वं असत्तथा   ।

अविद्यापि न किंचित्सा का बुभुत्सा तथापि ते   । । १०.५  । ।

राज्यं सुताः कलत्राणि शरीराणि सुखानि च   ।

संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि   । । १०.६  । ।

अलं अर्थेन कामेन सुकृतेनापि कर्मणा   ।

एभ्यः संसार-कान्तारे न विश्रान्तं अभून्मनः   । । १०.७  । ।

कृतं न कति जन्मानि कायेन मनसा गिरा   ।

दुःखं आयासदं कर्म तदद्याप्युपरम्यतां  । । १०.८  । ।

 

_______________________________________________________________________

 

 

अष्टावक्र उवाच

भावाभाव-विकारश्च स्व-भावादिति निश्चयी   ।

निर्विकारो गत-क्लेशः सुखेनैवोपशाम्यति   । । ११.१  । ।

ईश्वरः सर्व-निर्माता नेहान्य इति निश्चयी   ।

अन्तर्-गलित-सर्वाशः शान्तः क्वापि न सज्जते   । । ११.२  । ।

आपदः सम्पदः काले दैवादेवेति निश्चयी   ।

तृप्तः स्वस्थेन्द्रियो नित्यं न वाञ्छति न शोचति   । । ११.३  । ।

सुख-दुःखे जन्म-मृत्यू दैवादेवेति निश्चयी   ।

साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते   । । ११.४  । ।

चिन्तया जायते दुःखं नान्यथेहेति निश्चयी   ।

तया हीनः सुखी शान्तः सर्वत्र गलित-स्पृहः   । । ११.५  । ।

नाहं देहो न मे देहो बोधोऽहं इति निश्चयी   ।

कैवल्यं इव संप्राप्तो न स्मरत्यकृतं कृतं  । । ११.६  । ।

आ-ब्रह्म-स्तम्ब-पर्यन्तं अहं एवेति निश्चयी   ।

निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्त-विनिर्वृतः   । । ११.७  । ।

नानाश्चर्यं इदं विश्वं न किंचिदिति निश्चयी   ।

निर्वासनः स्फूर्ति-मात्रो न किंचिदिव शाम्यति   । । ११.८  । ।

 

_______________________________________________________________________

 

 

जनक उवाच

काय-कृत्य्-आसहः पूर्वं ततो वाग्-विस्तरासहः   ।

अथ चिन्तासहस्तस्मादेवं एवाहं आस्थितः   । । १२.१  । ।

प्रीत्य्-अभावेन शब्दादेरदृश्यत्वेन चात्मनः   ।

विक्षेपैकाग्र-हृदय एवं एवाहं आस्थितः   । । १२.२  । ।

सम्-आध्यास्-आदि-विक्षिप्तौ व्यवहारः समाधये   ।

एवं विलोक्य नियमं एवं एवाहं आस्थितः   । । १२.३ ???  । ।

हेयोपादेय-विरहादेवं हर्ष-विषादयोः   ।

अभावादद्य हे ब्रह्मन्नेवं एवाहं आस्थितः   । । १२.४  । ।

आश्रमानाश्रमं ध्यानं चित्तस्-वीकृत-वर्जनं  ।

विकल्पं मम वीक्ष्यैतैरेवं एवाहं आस्थितः   । । १२.५  । ।

कर्मानुष्ठानं अज्ञानाद्यथैवोपरमस्तथा   ।

बुद्ध्वा संयगिदं तत्त्वं एवं एवाहं आस्थितः   । । १२.६  । ।

अचिन्त्यं चिन्त्यमानोऽपि चिन्तारूपं भजत्यसौ   ।

त्यक्त्वा तद्-भावनं तस्मादेवं एवाहं आस्थितः   । । १२.७  । ।

एवं एव कृतं येन स कृतार्थो भवेदसौ   ।

एवं एव स्वभावो यः स कृतार्थो भवेदसौ   । । १२.८  । ।

 

_______________________________________________________________________

 

 

जनक उवाच

अकिंचन-भवं स्वास्थ्यं कौपीनत्वेऽपि दुर्लभं  ।

त्यागादाने विहायास्मादहं आसे यथा-सुखं  । । १३.१  । ।

कुत्रापि खेदः कायस्य, जिह्वा कुत्रापि खिद्यते   ।

मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखं  । । १३.२  । ।

कृतं किं अपि नैव स्यादिति सञ्चिन्त्य तत्त्वतः   ।

यदा यत्कर्तुं आयाति तत्कृत्वासे यथा-सुखं  । । १३.३  । ।

कर्म-नैष्कर्म्य-निर्बन्ध-भावा देह-स्थ-योगिनः   ।

संयोगायोग-विरहादहं आसे यथा-सुखं  । । १३.४  । ।

अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा   ।

तिष्ठन्गच्छन्स्वपन्तस्मादहं आसे यथा-सुखं  । । १३.५  । ।

स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा   ।

नाशोल्लासौ विहायास्मादहं आसे यथा-सुखं  । । १३.६  । ।

सुखादि-रूपा नियमं भावेष्वालोक्य भूरिशः   ।

शुभाशुभे विहायास्मादहं आसे यथा-सुखं  । । १३.७  । ।

_______________________________________________________________________

 

 

जनक उवाच

प्रकृत्या शून्य-चित्तो यः प्रमादाद्भाव-भावनः   ।

निद्रितो बोधित इव क्षीण-संस्मरणो हि सः   । । १४.१  । ।

क्व धनानि क्व मित्राणि क्व मे विषय-दस्यवः   ।

क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा   । । १४.२  । ।

विज्ञाते साक्षि-पुरुषे परमात्मनि चेश्वरे   ।

नैराश्ये बन्ध-मोक्षे च न चिन्ता मुक्तये मम   । । १४.३  । ।

अन्तर्-विकल्प-शून्यस्य बहिः स्व-च्छन्द-चारिणः   ।

भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते   । । १४.४  । ।

 

_______________________________________________________________________

 

 

अष्टावक्र उवाच

यथा-तथोपदेशेन कृतार्थः सत्त्व-बुद्धिमान्  ।

आजीवं अपि जिज्ञासुः परस्तत्र विमुह्यति   । । १५.१  । ।

मोक्षो विषय-वैरस्यं बन्धो वैषयिको रसः   ।

एतावदेव विज्ञानं यथेच्छसि तथा कुरु   । । १५.२  । ।

वाग्मि-प्राज्ञ-महोद्योगं जनं मूक-जडालसं  ।

करोति तत्त्व-बोधोऽयं अतस्त्यक्तो बुभुक्षुभिः   । । १५.३  । ।

न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान्  ।

चिद्-रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर   । । १५.४  । ।

राग-द्वेषौ मनो-धर्मौ न मनस्ते कदाचन   ।

निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर   । । १५.५  । ।

सर्व-भूतेषु चात्मानं सर्व-भूतानि चात्मनि   ।

विज्ञाय निरहं-कारो निर्ममस्त्वं सुखी भव   । । १५.६  । ।

विष्वं स्फुरति यत्रेदं तरङ्गा इव सागरे   ।

तत्त्वं एव न सन्देहश्चिन्-मूर्ते विज्वरो भव   । । १५.७  । ।

श्रद्धत्स्व तात श्रद्धत्स्व नात्र मोहं कुरुष्व भोः   ।

ज्ञान-स्वरूपो भगवानात्मा त्वं प्रकृतेः परः   । । १५.८  । ।

गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च   ।

आत्मा न गन्ता नागन्ता किं एनं अनुशोचसि   । । १५.९  । ।

देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः   ।

क्व वृद्धिः क्व च वा हानिस्तव चिन्-मात्र-रूपिणः   । । १५.१०  । ।

त्वय्यनन्त-महाम्भोधौ विश्व-वीचिः स्व-भावतः   ।

उदेतु वास्तं आयातु न ते वृद्धिर्न वा क्षतिः   । । १५.११  । ।

तात चिन्-मात्र-रूपोऽसि न ते भिन्नं इदं जगथ् ।

अतः कस्य कथं कुत्र हेयोपादेय-कल्पना   । । १५.१२  । ।

एकस्मिन्नव्यये शान्ते चिद्-आकाशेऽमले त्वयि   ।

कुतो जन्म कुतः कर्म कुतोऽहंकार एव च   । । १५.१३  । ।

यत्त्वं पश्यसि तत्रैकस्त्वं एव प्रतिभाससे   ।

किं पृथक्भासते स्वर्णात्कटकाङ्गद-नूपुरं  । । १५.१४  । ।

अयं सोऽहं अयं नाहं विभागं इति सन्त्यज   ।

सर्वं आत्मेति निश्चित्य निःसङ्कल्पः सुखी भव   । । १५.१५  । ।

तवैवाज्ञानतो विश्वं त्वं एकः परम्-आर्थतः   ।

त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन   । । १५.१६  । ।

भ्रान्ति-मात्रं इदं विश्वं न किंचिदिति निश्चयी   ।

निर्वासनः स्फूर्ति-मात्रो न किंचिदिव शाम्यति   । । १५.१७  । ।

एक एव भवाम्भोधावासीदस्ति भविष्यति   ।

न ते बन्धोऽस्ति मोक्षो वा कृत-कृत्यः सुखं चर   । । १५.१८  । ।

मा सङ्कल्प-विकल्पाभ्यां चित्तं क्षोभय चिन्-मय   ।

उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्द-विग्रहे   । । १५.१९  । ।

त्यजैव ध्यानं सर्वत्र मा किंचिद्धृदि धारय   ।

आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि   । । १५.२०  । ।

 

_______________________________________________________________________

 

 

अष्टावक्र उवाच

आचक्ष्व शृणु वा तात नाना-शास्त्राण्य्-अनेकशः   ।

तथापि न तव स्वास्थ्यं सर्व-विस्मरणादृते   । । १६.१  । ।

भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते   ।

चित्तं निरस्त-सर्वाशं अत्यर्थं रोचयिष्यति   । । १६.२  । ।

आयासात्सकलो दुःखी नैनं जानाति कश्चन   ।

अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिं  । । १६.३  । ।

व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि   ।

तस्यालस्यधुरीणस्य सुखं नान्यस्य कस्यचिथ् । । १६.४  । ।

इदं कृतं इदं नेति द्वन्द्वैर्मुक्तं यदा मनः   ।

धर्मार्थ-काम-मोक्षेषु निरपेक्षं तदा भवेथ् । । १६.५  । ।

विरक्तो विषय-द्वेष्टा रागी विषय-लोलुपः   ।

ग्रह-मोक्ष-विहीनस्तु न विरक्तो न रागवान्  । । १६.६  । ।

हेयोपादेयता तावत्संसार-विटपाङ्कुरः   ।

स्पृहा जीवति यावद्वै निर्विचारदशास्पदं  । । १६.७  । ।

प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि   ।

निर्द्वन्द्वो बालवद्धीमानेवं एव व्यव-स्थितः   । । १६.८  । ।

हातुं इच्छति संसारं रागी दुःख-जिहासया   ।

वीत-रागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति   । । १६.९  । ।

यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा   ।

न च ज्ञानी न वा योगी केवलं दुःखभागसौ   । । १६.१०  । ।

हरो यद्युपदेष्टा ते हरिः कमल-जोऽपि वा   ।

तथापि न तव स्वास्थ्यं सर्व-विस्मरणादृते   । । १६.११  । ।

 

_______________________________________________________________________

 

 

अष्टावक्र उवाच

तेन ज्ञान-फलं प्राप्तं योगाभ्यास-फलं तथा   ।

तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः   । । १७.१  । ।

न कदाचिज्जगत्यस्मिंस्तत्त्व-ज्ञो हन्त खिद्यति   ।

यत एकेन तेनेदं पूर्णं ब्रह्माण्ड-मण्डलं  । । १७.२  । ।

न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी   ।

सल्लकी-पल्लव-प्रीतं इवेभं निम्ब-पल्लवाः   । । १७.३  । ।

यस्तु भोगेषु भुक्तेषु न भवत्यधिवासितः   ।

अभुक्तेषु निराकाङ्क्षी तादृशो भव-दुर्लभः   । । १७.४  । ।

बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते   ।

भोग-मोक्ष-निराकाङ्क्षी विरलो हि महाशायः   । । १७.५  । ।

धर्मार्थ-काम-मोक्षेषु जीविते मरणे तथा   ।

कस्याप्युदार-चित्तस्य हेयोपादेयता न हि   । । १७.६  । ।

वाञ्छा न विश्व-विलये न द्वेषस्तस्य च स्थितौ   ।

यथा जीविकया तस्माद्धन्य आस्ते यथा सुखं  । । १७.७  । ।

कृतार्थोऽनेन ज्ञानेनेत्येवं गलित-धीः कृती   ।

पश्यन्शृण्वन्स्पृशन्जिघ्रन्नश्नन्नस्ते यथा सुखं  । । १७.८  । ।

शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च   ।

न स्पृहा न विरक्तिर्वा क्षीण-संसार-सागरे   । । १७.९  । ।

न जगर्ति न निद्राति नोन्मीलति न मीलति   ।

अहो पर-दशा क्वापि वर्तते मुक्त-चेतसः   । । १७.१०  । ।

सर्वत्र दृश्यते स्व-स्थः सर्वत्र विमलाशयः   ।

समस्त-वासना मुक्तो मुक्तः सर्वत्र राजते   । । १७.११  । ।

पश्यन्शृण्वन्स्पृशन्जिघ्रन्नश्नन्गृह्णन्वदन्व्रजन्  ।

ईहितानीहितैर्मुक्तो मुक्त एव महाशयः   । । १७.१२  । ।

न निन्दति न च स्तौति न हृष्यति न कुप्यति   ।

न ददाति न गृह्णाति मुक्तः सर्वत्र नीरसः   । । १७.१३  । ।

सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितं  ।

अविह्वल-मनाः स्व-स्थो मुक्त एव महाशयः   । । १७.१४  । ।

सुखे दुःखे नरे नार्यां संपत्सु च विपत्सु च   ।

विशेषो नैव धीरस्य सर्वत्र सम-दर्शिनः   । । १७.१५  । ।

न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता   ।

नाश्चर्यं नैव च क्षोभः क्षीण-संसरणे नरे   । । १७.१६  । ।

न मुक्तो विषय-द्वेष्टा न वा विषय-लोलुपः   ।

असंसक्त-मना नित्यं प्राप्ताप्राप्तं उपाश्नुते   । । १७.१७  । ।

समाधानासमाधान-हिताहित-विकल्पनाः   ।

शून्य-चित्तो न जानाति कैवल्यं इव संस्थितः   । । १७.१८  । ।

निर्ममो निरहंकारो न किंचिदिति निश्चितः   ।

अन्तर्-गलित-सर्वाशः कुर्वन्नपि करोति न   । । १७.१९  । ।

मनः-प्रकाश-सम्मोह-स्वप्न-जाड्य-विवर्जितः   ।

दशां कां अपि संप्राप्तो भवेद्गलित-मानसः   । । १७.२०  । ।

 

_______________________________________________________________________

 

 

अष्टावक्र उवाच

यस्य बोधोदये तावत्स्वप्नवद्भवति भ्रमः   ।

तस्मै सुखैक-रूपाय नमः शान्ताय तेजसे   । । १८.१  । ।

अर्जयित्वाखिलानर्थान्भोगानाप्नोति पुष्कलान्  ।

न हि सर्व-परित्यागं अन्तरेण सुखी भवेथ् । । १८.२  । ।

कर्तव्य-दुःख-मार्तण्ड-ज्वालादग्धान्तरात्मनः   ।

कुतः प्रशम-पीयूष-धारासारं ऋते सुखं  । । १८.३  । ।

भवोऽयं भावना-मात्रो न किंचित्परम्-अर्थतः   ।

नास्त्यभावः स्व-भावनां भावाभाव-विभाविनां  । । १८.४  । ।

न दूरं न च सङ्कोचाल्लब्धं एवात्मनः पदं  ।

निर्विकल्पं निरायासं निर्विकारं निरञ्जनं  । । १८.५  । ।

व्यामोह-मात्र-विरतौ स्वरूपादान-मात्रतः   ।

वीतशोका विराजन्ते निरावरण-दृष्टयः   । । १८.६   । ।

समस्तं कल्पना-मात्रं आत्मा मुक्तः सनातनः   ।

इति विज्ञाय धीरो हि किं अभ्यस्यति बालवथ् । । १८.७  । ।

आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ   ।

निष्कामः किं विजानाति किं ब्रूते च करोति किं  । । १८.८  । ।

अयं सोऽहं अयं नाहं इति क्षीणा विकल्पनाः   ।

सर्वं आत्मेति निश्चित्य तूष्णी-भूतस्य योगिनः   । । १८.९  । ।

न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता   ।

न सुखं न च वा दुःखं उपशान्तस्य योगिनः   । । १८.१०  । ।

स्वाराज्ये भैक्ष-वृत्तौ च लाभालाभे जने वने   ।

निर्विकल्प-स्वभावस्य न विषेसोऽस्ति योगिनः   । । १८.११  । ।

क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता   ।

इदं कृतं इदं नेति द्वन्द्वैर्मुक्तस्य योगिनः   । । १८.१२  । ।

कृत्यं किं अपि नैवास्ति न कापि हृदि रञ्जना   ।

यथा-जीवनं एवेह जीवन्-मुक्तस्य योगिनः   । । १८.१३  । ।

क्व मोहः क्व च वा विश्वं क्व तद्ध्यानं क्व मुक्तता   ।

सर्व-सङ्कल्प-सीमायां विश्रान्तस्य महात्मनः   । । १८.१४  । ।

येन विश्वं इदं दृष्टं स नास्तीति करोतु वै   ।

निर्वासनः किं कुरुते पश्यन्नपि न पश्यति   । । १८.१५  । ।

येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेथ् ।

किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति   । । १८.१६  । ।

दृष्टो येनात्म-विक्षेपो निरोधं कुरुते त्वसौ   ।

उदारस्तु न विक्षिप्तः साध्याभावात्करोति किं  । । १८.१७  । ।

धीरो लोक-विपर्यस्तो वर्त्तमानोऽपि लोकवथ् ।

न समाधिं न विक्षेपं न लेपं स्वस्य पश्यति   । । १८.१८  । ।

भावाभाव-विहीनो यस्तृप्तो निर्वासनो बुधः   ।

नैव किंचित्कृतं तेन लोक-दृष्ट्या विकुर्वता   । । १८.१९  । ।

प्रवृत्तौ वा निर्वृत्तौ वा नैव धीरस्य दुर्ग्रहः   ।

यदा यत्कर्तुं आयाति तत्कृत्वा तिष्ठतः सुखं  । । १८.२०  । ।

निर्वासनो निरालम्बः स्वच्छन्दो मुक्त-बन्धनः   ।

क्षिप्तः संस्कार-वातेन चेष्टते शुष्क-पर्णवथ् । । १८.२१  । ।

असंसारस्य तु क्वापि न हर्षो न विषादिता   ।

स शीतल-मना नित्यं विदेह इव राजते   । । १८.२२  । ।

कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचिथ् ।

आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः   । । १८.२३  । ।

प्रकृत्या शून्य-चित्तस्य कुर्वतोऽस्य यद्-ऋच्छया   ।

प्राकृतस्येव धीरस्य न मानो नावमानता   । । १८.२४  । ।

कृतं देहेन कर्मेदं न मया शुद्ध-रूपिणा   ।

इति चिन्तानुरोधी यः कुर्वन्नपि करोति न   । । १८.२५  । ।

अतद्-वादीव कुरुते न भवेदपि बालिशः   ।

जीवन्-मुक्तः सुखी श्रीमान्संसरन्नपि शोभते   । । १८.२६  । ।

नाना-विचार-सुश्रान्तो धीरो विश्रान्तिं आगतः   ।

न कल्पते न जानाति न शृणोति न पश्यति   । । १८.२७  । ।

असमाधेरविक्षेपान्न मुमुक्षुर्न चेतरः   ।

निश्चित्य कल्पितं पश्यन्ब्रह्मैवास्ते महाशयः   । । १८.२८  । ।

यस्यान्तः स्यादहङ्कारो न करोति करोति सः   ।

निरहङ्कार-धीरेण न किंचिदकृतं कृतं  । । १८.२९  । ।

नोद्विग्नं न च सन्तुष्टं अकर्तृ स्पन्द-वर्जितं  ।

निराशं गत-सन्देहं चित्तं मुक्तस्य राजते   । । १८.३०  । ।

निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्त्तते   ।

निर्निमित्तं इदं किन्तु निर्ध्यायति विचेष्टते   । । १८.३१  । ।

तत्त्वं यथार्थं आकर्ण्य मन्दः प्राप्नोति मूढतां  ।

अथ वायाति सङ्कोचं अमूढः कोऽपि मूढवथ् । । १८.३२  । ।

एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशं  ।

धीराः कृत्यं न पश्यन्ति सुप्तवत्स्व-पदे स्थिताः   । । १८.३३  । ।

अप्रयत्नात्प्रयत्नाद्वा मूढो नाप्नोति निर्वृतिं  ।

तत्त्व-निश्चय-मात्रेण प्राज्ञो भवति निर्वृतः   । । १८.३४  । ।

शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपञ्चं निरामयं  ।

आत्मानं तं न जानन्ति तत्राभ्यास-परा जनाः   । । १८.३५  । ।

नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यास-रूपिणा   ।

धन्यो विज्ञान-मात्रेण मुक्तस्तिष्ठत्यविक्रियः   । । १८.३६  । ।

मूढो नाप्नोति तद्ब्रह्म यतो भवितुं इच्छति   ।

अनिच्छन्नपि धीरो हि पर-ब्रह्म-स्वरूप-भाक्  । । १८.३७  । ।

निराधारा ग्रहव्य-ग्रा मूढाः संसार-पोषकाः   ।

एतस्यानर्थ-मूलस्य मूल-च्छेदः कृतो बुधैः   । । १८.३८  । ।

न शान्तिं लभते मूढो यतः शमितुं इच्छति   ।

धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्त-मानसः   । । १८.३९  । ।

क्वात्मनो दर्शनं तस्य यद्दृष्टं अवलम्बते   ।

धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानं अव्ययं  । । १८.४०  । ।

क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै   ।

स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः   । । १८.४१  । ।

भावस्य भावकः कश्चिन्न किंचिद्भावकोऽपरः   ।

उभयाभावकः कश्चिदेवं एव निराकुलः   । । १८.४२  । ।

शुद्धं अद्वयं आत्मानं भावयन्ति कु-बुद्धयः   ।

न तु जानन्ति संमोहाद्यावज्-जीवं अनिर्वृताः   । । १८.४३  । ।

मुमुक्षोर्बुद्धिरालम्बं अन्तरेण न विद्यते   ।

निरालम्बैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा   । । १८.४४  । ।

विषय-द्वीपिनो वीक्ष्य चकिताः शरणार्थिनः   ।

विशन्ति झटिति क्रोडं निरोधैकाग्र्य-सिद्धये   । । १८.४५  । ।

निर्वासनं हरिं दृष्ट्वा तूष्णीं विषय-दन्तिनः   ।

पलायन्ते न शक्तास्ते सेवन्ते कृत-चाटवः   । । १८.४६  । ।

न मुक्ति-कारिकां धत्ते निःशङ्को युक्त-मानसः   ।

पश्यञ्छृण्वन्स्पृशञ्जिघ्रन्नश्नन्नास्ते यथा-सुखं  । । १८.४७  । ।

वस्तु-श्रवण-मात्रेण शुद्ध-बुद्धिर्निराकुलः   ।

नैवाचारम्-अनाचारं औदास्यं वा प्रपश्यति   । । १८.४८  । ।

यदा यत्कर्तुं आयाति तदा तत्-कुरुते ऋजुः   ।

शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवथ् । । १८.४९  । ।

स्वा-तन्त्र्यात्सुखं आप्नोति स्वा-तन्त्र्याल्लभते परं  ।

स्वा-तन्त्र्यान्निर्वृतिं गच्छेत्स्वा-तन्त्र्यात्परमं पदं  । । १८.५०  । ।

अकर्तृत्वं अभोक्तृत्वं स्वात्मनो मन्यते यदा   ।

तदा क्षीणा भवन्त्येव समस्ताश्चित्त-वृत्तयः   । । १८.५१  । ।

उच्छृङ्खलाप्यकृतिका स्थितिर्धीरस्य राजते   ।

न तु सस्पृह-चित्तस्य शान्तिर्मूढस्य कृत्रिमा   । । १८.५२  । ।

विलसन्ति महाभोगैर्विशन्ति गिरि-गह्वरान्  ।

निरस्त-कल्पना धीरा अबद्धा मुक्त-बुद्धयः   । । १८.५३  । ।

श्रोत्रियं देवतां तीर्थं अङ्गनां भूपतिं प्रियं  ।

दृष्ट्वा सम्पूज्य धीरस्य न कापि हृदि वासना   । । १८.५४  । ।

भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः   ।

विहस्य धिक्-कृतो योगी न याति विकृतिं मनाक्  । । १८.५५  । ।

सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते   ।

तस्याश्चर्य-दशां तां तां तादृशा एव जानते   । । १८.५६  । ।

कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः   ।

शून्याकारा निराकारा निर्विकारा निरामयाः   । । १८.५७  । ।

अकुर्वन्नपि संक्षोभाद्व्यग्रः सर्वत्र मूढधीः   ।

कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः   । । १८.५८  । ।

सुखं आस्ते सुखं शेते सुखं आयाति याति च   ।

सुखं वक्ति सुखं भुङ्क्ते व्यवहारेऽपि शान्तधीः   । । १८.५९  । ।

स्वभावाद्यस्य नैवार्तिर्लोकवद्व्यवहारिणः   ।

महा-ह्रद इवाक्षोभ्यो गत-क्लेशः सुशोभते   । । १८.६०  । ।

निवृत्तिरपि मूढस्य प्रवृत्तिरुपजायते   ।

प्रवृत्तिरपि धीरस्य निवृत्ति-फलभागिनी   । । १८.६१  । ।

परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते   ।

देहे विगलिताशस्य क्व रागः क्व विरागता   । । १८.६२  । ।

भावनाभावना-सक्ता दृष्टिर्मूढस्य सर्वदा   ।

भाव्य-भावनया सा तु स्वस्थस्यादृष्टि-रूपिणी   । । १८.६३  । ।

सर्वारम्भेषु निष्कामो यश्चरेद्बालवन्मुनिः   ।

न लेपस्तस्य शुद्धस्य क्रियमाणेऽपि कर्मणि   । । १८.६४  । ।

स एव धन्य आत्म-ज्ञः सर्व-भावेषु यः समः   ।

पश्यन्शृण्वन्स्पृशन्जिघ्रन्नश्नन्निस्तर्ष-मानसः   । । १८.६५  । ।

क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनं  ।

आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा   । । १८.६६  । ।

स जयत्यर्थ-संन्यासी पूर्ण-स्वरस-विग्रहः   ।

अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते   । । १८.६७  । ।

बहुनात्र किं उक्तेन ज्ञात-तत्त्वो महाशयः   ।

भोग-मोक्ष-निराकाङ्क्षी सदा सर्वत्र नीरसः   । । १८.६८  । ।

महद्-आदि जगद्-द्वैतं नाम-मात्र-विजृम्भितं  ।

विहाय शुद्ध-बोधस्य किं कृत्यं अवशिष्यते   । । १८.६९  । ।

भ्रम-भूतं इदं सर्वं किंचिन्नास्तीति निश्चयी   ।

अलक्ष्य-स्फुरणः शुद्धः स्वभावेनैव शाम्यति   । । १८.७०  । ।

शुद्ध-स्फुरण-रूपस्य दृश्य-भावं अपश्यतः   ।

क्व विधिः क्व च वैराग्यं क्व त्यागः क्व शमोऽपि वा   । । १८.७१  । ।

स्फुरतोऽनन्त-रूपेण प्रकृतिं च न पश्यतः   ।

क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता   । । १८.७२  । ।

बुद्धि-पर्यन्त-संसारे माया-मात्रं विवर्तते   ।

निर्ममो निरहङ्कारो निष्कामः शोभते बुधः   । । १८.७३  । ।

अक्षयं गत-सन्तापं आत्मानं पश्यतो मुनेः   ।

क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा   । । १८.७४  । ।

निरोधादीनि कर्माणि जहाति जडधीर्यदि   ।

मनो-रथान्प्रलापांश्च कर्तुं आप्नोत्यतत्क्षणाथ् । । १८.७५  । ।

मन्दः श्रुत्वापि तद्-वस्तु न जहाति विमूढतां  ।

निर्विकल्पो बहिर्-यत्नादन्तर्-विषय-लालसः   । । १८.७६  । ।

ज्ञानाद्गलित-कर्मा यो लोक-दृष्ट्यापि कर्म-कृथ् ।

नाप्नोत्यवसरं कर्तुं वक्तुं एव न किंचन   । । १८.७७  । ।

क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन   ।

निर्विकारस्य धीरस्य निरातङ्कस्य सर्वदा   । । १८.७८  । ।

क्व धैर्यं क्व विवेकित्वं क्व निरातङ्कतापि वा   ।

अनिर्वाच्य-स्वभावस्य निःस्वभावस्य योगिनः   । । १८.७९  । ।

न स्वर्गो नैव नरको जीवन्-मुक्तिर्न चैव हि   ।

बहुनात्र किं उक्तेन योग-दृष्ट्या न किंचन   । । १८.८०  । ।

नैव प्रार्थयते लाभं नालाभेनानुशोचति   ।

धीरस्य शीतलं चित्तं अमृतेनैव पूरितं  । । १८.८१  । ।

न शान्तं स्तौति निष्कामो न दुष्टं अपि निन्दति   ।

सम-दुःख-सुखस्तृप्तः किंचित्कृत्यं न पश्यति   । । १८.८२  । ।

धीरो न द्वेष्टि संसारं आत्मानं न दिदृक्षति   ।

हर्षामर्ष-विनिर्मुक्तो न मृतो न च जीवति   । । १८.८३  । ।

निःस्नेहः पुत्र-दारादौ निष्कामो विषयेषु च   ।

निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः   । । १८.८४  । ।

तुष्टिः सर्वत्र धीरस्य यथा-पतित-वर्तिनः   ।

स्वच्छन्दं चरतो देशान्यत्रास्तमित-शायिनः   । । १८.८५  । ।

पततूदेतु वा देहो नास्य चिन्ता महात्मनः   ।

स्वभाव-भूमि-विश्रान्ति-विस्मृताशेष-संसृतेः   । । १८.८६  । ।

अकिंचनः काम-चारो निर्द्वन्द्वश्छिन्न-संशयः   ।

असक्तः सर्व-भावेषु केवलो रमते बुधः   । । १८.८७  । ।

निर्ममः शोभते धीरः सम-लोष्टाश्म-काञ्चनः   ।

सुभिन्न-हृदय-ग्रन्थिर्विनिर्धूत-रजस्-तमः   । । १८.८८  । ।

सर्वत्रानवधानस्य न किंचिद्वासना हृदि   ।

मुक्तात्मनो वितृप्तस्य तुलना केन जायते   । । १८.८९  । ।

जानन्नपि न जानाति पश्यन्नपि न पश्यति   ।

ब्रुवन्नपि न च ब्रूते कोऽन्यो निर्वासनादृते   । । १८.९०  । ।

भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते   ।

भावेषु गलिता यस्य शोभनाशोभना मतिः   । । १८.९१  । ।

क्व स्वाच्छन्द्यं क्व सङ्कोचः क्व वा तत्त्व-विनिश्चयः   ।

निर्व्याजार्जव-भूतस्य चरितार्थस्य योगिनः   । । १८.९२  । ।

आत्म-विश्रान्ति-तृप्तेन निराशेन गतार्तिना   ।

अन्तर्यदनुभूयेत तत्कथं कस्य कथ्यते   । । १८.९३  । ।

सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च   ।

जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे   । । १८.९४  । ।

ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः   ।

सबुद्धिरपि निर्बुद्धिः साहङ्कारोऽनहंकृतिः   । । १८.९५  । ।

न सुखी न च वा दुःखी न विरक्तो न सङ्गवान्  ।

न मुमुक्षुर्न वा मुक्तो न किंचिन्न च किंचन   । । १८.९६  । ।

विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान्  ।

जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः   । । १८.९७  । ।

मुक्तो यथा-स्थिति-स्वस्थः कृत-कर्तव्य-निर्वृतः   ।

समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतं  । । १८.९८  । ।

न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति   ।

नैवोद्विजति मरणे जीवने नाभिनन्दति   । । १८.९९  । ।

न धावति जनाकीर्णं नारण्यं उपशान्त-धीः   ।

यथा-तथा यत्र-तत्र सम एवावतिष्ठते   । । १८.१००  । ।

 

_______________________________________________________________________

 

 

जनक उवाच

तत्त्व-विज्ञान-सन्दंशं आदाय हृदयोदराथ् ।

नाना-विध-परामर्श-शल्योद्धारः कृतो मया   । । १९.१  । ।

क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता   ।

क्व द्वैतं क्व च वाद्वैतं स्वमहिम्नि स्थितस्य मे   । । १९.२  । ।

क्व भूतं क्व भविष्यद्वा वर्तमानं अपि क्व वा   ।

क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे   । । १९.३  । ।

क्व चात्मा क्व च वानात्मा क्व शुभं क्वासुभं यथा   ।

क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे   । । १९.४  । ।

क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा   ।

क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे   । । १९.५  । ।

क्व दूरं क्व समीपं वा बह्यं क्वाभ्यन्तरं क्व वा   ।

क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे   । । १९.६  । ।

क्व मृत्युर्-जीवितं वा क्व लोकाः क्वास्य क्व लौकिकं  ।

क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे   । । १९.७  । ।

अलं त्रि-वर्ग-कथया योगस्य कथयाप्यलं  ।

अलं विज्ञान-कथया विश्रान्तस्य ममात्मनि   । । १९.८  । ।

_______________________________________________________________________

 

जनक उवाच

क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः   ।

क्व शून्यं क्व च नैराश्यं मत्-स्वरूपे निरञ्जने   । । २०.१  । ।

क्व शास्त्रं क्वात्म-विज्ञानं क्व वा निर्विषयं मनः   ।

क्व तृप्तिः क्व वितृष्णत्वं गत-द्वन्द्वस्य मे सदा   । । २०.२  । ।

क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा   ।

क्व बन्धः क्व च वा मोक्षः स्वरूपस्य क्व रूपिता   । । २०.३  । ।

क्व प्रारब्धानि कर्माणि जीवन्-मुक्तिरपि क्व वा   ।

क्व तद्विदेह-कैवल्यं निर्विशेषस्य सर्वदा   । । २०.४  । ।

क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा   ।

क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा   । । २०.५  । ।

क्व लोकः क्व मुमुक्षुर्वा क्व योगी ज्ञानवान्क्व वा   ।

क्व बद्धः क्व च वा मुक्तः स्व-स्वरूपेऽहं अद्वये   । । २०.६  । ।

क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनं  ।

क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहं अद्वये   । । २०.७  । ।

क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा   ।

क्व किंचित्क्व न किंचिद्वा सर्वदा विमलस्य मे   । । २०.८  । ।

क्व विक्षेपः क्व चैकग्र्यं क्व निर्बोधः क्व मूढता   ।

क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे   । । २०.९  । ।

क्व चैष व्यवहारो वा क्व च सा परमार्थता   ।

क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा   । । २०.१०  । ।

क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा   ।

क्व जीवः क्व च तद्-ब्रह्म सर्वदा विमलस्य मे   । । २०.११  । ।

क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनं  ।

कूटस्थ-निर्विभागस्य स्वस्थस्य मम सर्वदा   । । २०.१२  । ।

क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः   ।

क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे   । । २०.१३  । ।

क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयं  ।

बहुनात्र किं उक्तेन किंचिन्नोत्तिष्ठते मम   । । २०.१४  । ।

 

 -----------------------------------------------------------------------------------------------------