||श्रीः||
क्रम-दीपिका
श्रीमद्-भगवत्-श्री-कृष्णाराधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता
(१)
प्रथमः पटलः
वेणु-वाद-विनोद-लालसं
दिव्य-गन्ध-परिलिप्त-वक्षसम् |
वल्लवी-हृदय-वित्त-हारिणं
भावये कम् अपि गोप-नन्दनम् ||
विशिष्ट-शिष्टाचारानुमित-श्रुति-बोधित-कर्तव्यताक-प्रारिप्सित-प्रतिबन्धक-दुरित-निवृत्त्य्-असाधारण-कारणम् इष्ट-देवताऽनुस्मरण-पूर्वकं मङ्गलम् आशीर्-व्याजेन कृतं शिष्य-शिक्षार्थम् आदौ निबध्नाति कलात्तमायेत्य् आदिना |
कलात्त-माया-लवकात्त-मूर्तिः
कल-क्वणद्-वेणु-निनाद-रम्यः |
श्रितो हृदि व्याकुलयंस् त्रिलोकीं
श्रिये ऽस्तु गोपी-जन-वल्लभो वः || क्र. दी. १.१ ||
गोपी-जन-वल्लभो युष्माकं श्रिये सम्पदे ऽस्तु भूयाद् इति योजना | गोपीजनस्य गोपाङ्गना-जनस्य वल्लभः स्वामी | तथा च गोपी-जनस्यैवाविज्ञात-विनय-प्रकरस्यापि वल्लभः किं पुनः साधकस्याशेष-पूजा-विधान-कोविदस्येति भावः | यद् वा गोपी प्रकृतिर् जनो महद्-आदिर् अनयोर् वल्लभः प्रेरक इत्य् अर्थः |
कीदृशः कलायां ज्ञान-स्वरूपे स्वस्मिन् आत्तायाः प्राप्ताया अध्यस्ताया मायाया लवकेन लेशेन विक्षेपात्म-स्वभावेन आत्ता प्राप्ता मूर्तिर् येन स तथोक्तः | एतेन तस्य शरीर-सम्बन्धे ऽपि न स्वरूपानुसन्धान-प्रच्युतिर् आवरण-शक्तेर् अप्रामाण्याद् इति भावः |
अथ वा कला बन्धने, तथा च बन्धनात्मक-संसार-प्रवर्तनार्थं स्वीकृत-माया-लेशात्मक-जल-तत्त्वात्मनाङ्गीकृत-मूर्तिर् इति | तोयेन जीवान् विससर्ज भूम्याम् इति |
अथवा, संमोहन-मन्त्र-रूपकं काम-बीजं सकल-गोपाल-मन्त्राणां बीजम् उदाहरति कलेति | कश् च लश् च कलौ ताभ्याम् अत्तौ गृहीतौ सम्बद्धौ माया-लवकौ चतुर्थ-स्वरानुस्वारौ ताभ्याम् आत्ता स्वीकृता बीज-रूपा मूर्तिर् येन सः तथोक्तः कल इत्य् अत्राकार उच्चारणार्थः |
पुनः कीदृशः | कलम् अव्यक्तं मधुरं यथा स्यात् तथा क्वणन् शब्दायमानः वेणुर् वंशः कल-क्वणंश् चासौ वेणुश् चेति कल-क्वणद्-वेणुः | तस्य निनादेन रम्यः सर्व-मुख-प्रद इत्य् अर्थः |
पुनः कीदृशः | हृदि श्रितः हृत्-पङ्कजे स्थितः हृदि ध्येय इत्य् अर्थः | यद् वा सर्व-प्राणिनां हृदये ऽन्तर्यामि-रूपेण स्थित इत्य् अर्थः |
किं कुर्वन् | त्रयाणां लोकानां समाहारस् त्रिलोकी | त्रैलोक्यं व्याकुलयन् कर्तव्येषु विचार-शून्यं कुर्वन् मायया मोहयन्न् इत्य् अर्थः | तद् उक्तं गीतायां -
ईश्वरः सर्व-भूतेषु हृद्-देशे ऽर्जुन तिष्ठति |
भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया || इति |
अत्र लघु-दीपिका-कारः कलात्त-मायेत्य्-आदिना गोपी-जन-वल्लभ इत्य् अनेन च बीज-सहितो ऽत्र दशाक्षरः सूचितः | कल-क्वणद् इत्य् आदिना ध्यानं सूचितं | त्रिलोकीं व्याकुलयन्न् इत्य् अनेन च वश्यादि-प्रयोगाः सूचिताः इत्य् आह || क्र. दी. वि. १.१ ||
______________________________
गुरु-नमस्कार-पूर्वकं कर्तव्यं प्रतिजानीते--
गुरु-चरण-सरोरुह-द्वयोत्थान्
महित-रजः-कणकान् प्रणम्य मूर्ध्ना |
गदितम् इह विविच्य नारदाद्यैर्
यजन-विधिं कथयामि शार्ङ्ग-पाणेः || क्र. दी. १.२ ||
इह ग्रन्थे शार्ङ्ग-पाणेः श्री-कृष्णस्य यजन-विधिं पूजाहोमादिकरण-प्रकारं विविच्य विवेचनं कृत्वा कथयामि आसमाप्तेर् वर्तमानत्वात् | तथा च, प्राचीन-ग्रन्थेभ्यः स्व-ग्रन्थस्योपादेयता दर्शिता | कीदृशम् ? नारद-गौतम-प्रभृतिभिर् गदितम् | एतेन स्वोक्तेः स्वातन्त्र्यं निराकृतम् इति भावः | किं कृत्वा ? मूर्ध्ना मस्तकेन महिताः पूजिता ये रजः-कणका धूलि-लेशास् तान् प्रणम्य कीदृशान् गुरु-चरण-द्वयम् एव पद्म-द्वयं तद्-उत्थान् तद्-उद्भवान् | एतेन गुरु-भर्त्-भत्त्य्-अतिशयः सूचितः | तथा गुरु-ध्यानं शिरसि कर्तव्यम् इत्य् अपि सूचितम् || क्र. दी. वि. १.२ ||
______________________________
मन्त्रान्तरेभ्यो गोपाल-मन्त्रस्यातिशायितं वक्तुं भूमिकां रचयति-
क्षिति-सुर-नृप-विट्-तुरीयजानां
मुनि-वनवासि-गृहस्थ-वर्णिनां च |
जप-हुत-यजआदिभिर् मनूनां
फलति हि कश्चन कस्यचित् कथञ्चित् || क्र. दी. १.३ ||
हि यतः मनूनां गोपाल-मन्त्र-व्यतिरिक्तानां मध्ये कश्चन मन्त्रोराश्यादिना शोधितः क्षिति-सुर-प्रभृतीनां वर्णानां मध्ये मुनि-वनवासि-प्रभृतीनाम् आश्रमाणां चकारात् स्त्रीणां मध्ये कस्यचित् कथंचिज् जनस्य भाग्य-वशाज् जप-होमादिभिर् आदि-शब्देन तर्पणादेः परिग्रहः | फलति फलं ददातीति योजना | हि शब्दो ऽत्रावधारण इति कश्चित् क्षितिसुरो ब्राह्मणः | नृपः क्षत्रियः | विट् वैश्यः | तुरीयः शूद्रः | मुनिर् यतिः | वनवासी वानप्रस्थः | गृहस्थः कृत-दार-परिग्रहः | वर्णी ब्रह्मचारी || क्र. दी. वि. १.३ ||
______________________________
अधुना गोपाल-मन्त्रस्य सर्वेषु सिद्धत्वम् आह-
सर्वेषु वर्णेषु तथाश्रमेषु
नारीषु नानाह्वय-जन्मभेषु |
दाता फलानाम् अभिवाञ्छितानां
द्राग् एव गोपालक-मन्त्र एषः || क्र. दी. १.४ ||
सिद्धादि-गणनानिरपेक्ष एवैष प्रथोपस्थितो वक्ष्यमाण-दशाक्षर-गोपाल-मन्त्रो न तु गोपाल-विषयको मन्त्र-गणो ऽतिप्रसङ्गात् |
स्वाहा-प्रणव-संयुक्तं मन्त्रं शूद्रे ददद् द्विजः |
शूद्रो निरय-गामी स्याद् द्विजः शूद्रो ऽभिजायते ||
इत्य् आगम-विरोधात् | लक्षणापत्तेश् च | वाञ्छितानां स्वाभिमतानां फलानां द्राग् एव झटित्य् एव दाता केषु सर्वेषु वर्णेषु ब्राह्मणादिषु सर्वाश्रमेषु ब्रह्मचारि-प्रभृतिषु नारीषु नानाह्वय-जन्मभेषु नाना-प्रकार-नामसु तह्ता नाना-प्रकार-जन्म-नक्षत्रेषु स्तस्व् अपीत्य् अर्थः || क्र. दी. वि. १.४ ||
______________________________
एवं सत्य् अपि गुरु-चरण-शुश्रूषा-परोपस्थिताय मन्त्रो देय इति व्यनक्ति-
नूनम् अच्युत-कटाक्ष-पातेन
कारणं भवति भक्तिर् अञ्जसा |
तच्-चतुष्टय-फलाप्तये ततो
भक्तिमान् अधिकृतो हरौ गुरौ || क्र. दी. १.५ ||
यस्मान् नूनं निश्चितम् अच्युत-कटाक्ष-पातेन श्री-कृष्ण-कृपावलोकने भक्तिर् अञ्जसा तत्त्वतः कारणं ततस् तस्मात् कारणात् तच् चतुष्टय-फलाप्तये प्रसिद्ध-धर्मादि-पुरुषार्थ-चतुष्टय-रूप-फल-प्राप्त्य्-अर्थं हरौ विष्णौ गुरौ मन्त्र-दातरि च भक्ति-युक्त-पुरुषो दीक्षादाव् अधिकृतो ऽधिकारी भवतीत्य् अर्थः | एतेन गुरु-देवतयोर् अभेदेन ध्यानं कर्तव्यम् इति सूचितम् || क्र. दी. वि. १.५ ||
______________________________
अधुना पूजा-क्रमम् आह-
स्नातो निर्मल-शुद्ध-सूक्स्म-वसनो धौताङ्घ्रि-पाण्याननः
स्वाचान्तः सपवित्र-मुद्रित-करः श्वेतोर्ध्व-पुण्ड्रोज्ज्वलः |
प्राची-दिग्-वदनो निबद्ध्य-सुदृढं पद्मासनं स्वस्तिकं
वासीनः स्व-गुरून् गणाधिपम् अथो वन्देत बद्धाञ्जलिः || क्र. दी. १.६ ||
स्नातः स्व-गृह्योक्त-विधिना आगमोक्त-विधिनापीति केचित् | निर्मले विशदे प्रक्षालिते सूक्ष्मे वस्त्रे यस्य स तथोक्तः | धौतेति प्रक्षालित-पाणि-पाद-वदनः | स्वाचान्तः स्मृत्य्-उक्त-विधिना कृताचमनः | स-पवित्रेति पवित्र-सहितः मुद्रा-युक्त-हस्तः सुपवित्रेति-पाठे अतिशोभन-पवित्रेण मुद्रितः मुद्रा-सम्बद्धो तिलकेनोज्ज्वलः | प्राची-दिग्-वदनः पूर्वाभिमुखः |
अत्र प्राग्-वदनस्य कण्ठोक्तत्वात् प्राग्-वदनं मुख्यं तद्-असम्भवे तूदङ्मुखत्वं रात्रौ तु सर्व-पूजास्वेदोदङ्मुखत्वं पुराणे च तथैवाभिधानात् | अनन्तरं सुदृढं यथा स्यात् तथा पद्मासनं स्वस्तिकं वा कृत्वा | तत्र पद्मासनं प्रसिद्धं, स्वस्तिकं लक्षणं तु -
जानूर्वोर् अन्तरे सम्यक् कृत्वा पाद-तले उभे |
ऋजु-काय-समासीनं स्वस्तिकं तत् प्रचक्षते ||
आसीन उपविष्टः स्व-गुरून् गणेशं च वन्देत | अथो शब्दश् चार्थे ऽनुक्त-समुच्चयेन तेनाग्रे दुर्गां पृष्ठे क्षेत्र-पालं वन्देत तद् उक्तं गौतमीये वामे गुरुं दक्षिणतो गणेशं दुर्गां पुरः क्षेत्रपतिं च पश्चात् | इति |
प्रयोगश् च गुं गुर्भ्यो नमः, गं गणपतये नमः, दुं दुर्गायै नमः, क्षें क्षेत्रपालाय नमः | बद्धाञ्जलिः कृताञ्जलि-पुटः सन्न् इत्य् अर्थः | अत्र शारदा-तिलकोक्त-क्रमेणैतद् बोद्धव्यं दक्षिणे पूजा-द्रव्य-स्थापनं वामे जल-कुम्भ-स्थापनं पृष्ठे कर-प्रक्षालन-पात्र-स्थापनं पुरतो दीप-चामराद्य्-उपकरण-स्थापनम् इति || क्र. दी. वि. १.६ ||
______________________________
भूत-शुद्धेः पूर्वं कृत्यम् आह-
ततो ऽस्त्र-मन्त्रेण विशोध्य पाणी
त्रिताल-दिग्-बन्ध-हुताश-शालान् |
विधाय भूतात्मकम् एतद्-अङ्गं
विशोधयेच् छुद्ध-मतिः क्रमेण || क्र. दी. १.७ ||
ततस् तद्-अनन्तरं भूतात्मकं पृथिव्यादि-पञ्च-महाभूतमयम् एतद् अङ्गं शरीरं शुद्ध-मतिः विशद-मतिः विशोधयेद् देवतात्मकं कुर्याद् इत्य् अर्थः | नादेवो देवम् अर्चयेद् इति वचनात् | क्रमेण वक्ष्यमाण-प्रकारेण | किं कृत्वा ? अस्त्र-मन्त्रेणैव अस्त्राय फड् इत्य् अनेन तन्-मन्त्राङ्गास्त्र-मन्त्रेणैव वा, गन्ध-पुष्पाभ्यां हस्तौ संशोध्य कर-न्यासं कृत्वास्त्र-मन्त्रेणैवोर्ध्वोर्ध्वं ताल-त्रयं कुर्यात् | तद् उक्तं शारदायाम्-कर-न्यासं समासाद्य कुर्यात् ताल-त्रयं ततः इति |
अनन्तरम् अस्त्र-मन्त्रेणैव छोटिकया दश-दिग्-बन्धनं अस्त्र-मन्त्रेणैव वह्नि-प्राकारं जलेनात्मनः परिवेष्टन-रूपं विधाय कृत्वा | अत्र सम्प्रदायः हृत्-पद्म-कर्णिका-स्थं दीप-शिखा-निभं जीवात्मानं हंस इति मन्त्रेण सुषुम्णा-वर्त्मना मस्तकोपरि सहस्र-दल-कमलावस्थित-परमात्मनि संयोज्य पृथव्य्-आदि-पञ्च-विंशति-तत्त्वानि तत्र विलीनानि विभाव्य भूत-शुद्धिं कुर्यात् || क्र. दी. वि. १.७ ||
______________________________
भूत-शुद्धिम् आह-
इडा-वक्त्रे धूम्रं सतत-गति-बीजं सलवकं
स्मरेत् पूर्वं मन्त्रो सकल-भुवनोच्छोषण-करम् |
स्वकं देहं तेन प्रतत-वपुषापूर्य-सकलं
विशोष्य व्यामुञ्चेत् पवनम् अथ मार्गण-खमणेः || क्र. दी. १.८ ||
इडा-वक्त्रे वाम-नासा-पुटे सलवकं बिन्दु-सहितं सतत-गति-बीजं वायु-बीजं यम् इति रूपं पूर्वं प्रथमं मन्त्री साधकः स्मरेत् | किम् भूतम् ? धूम्रं कृष्ण-वर्णं | पुनः किम्भूतम् ? सकलेति | पञ्च-भूत-मय-देह-शोषकं तथा च वाम-नासा-पुटेन वायुम् आकर्षन् षोडश्-वारं वायु-बीजं जपेद् इति भावः | अनन्तरं सकलं सर्वं स्वकीयं शरीरं तेन बीज-मयेन वायुना प्रतत-वपुषा विस्तीर्ण-शरीरेणापूर्य पूरयित्वा देह-स्थ-वायोर् बाह्येनैक्यं विचिन्त्य विशोषं नीत्वा चतुः-षष्ठि-वारं वायु-बीजं कुम्भकेन जप्त्वा खमणेः सूर्यस्य मार्गेण पिङ्गलया दक्षिण-नासा-पुटेन रेचनेनैव वायु-बीजं द्वात्रिंशद्-वारं जपन् वायुं व्यामुञ्चेत् त्यजेद् इत्य् अर्थः || क्र. दी. वि. १.८ ||
______________________________
तेनैव मार्गेण विलीन-मारुतं
बीजं विचिन्त्यारुणम् आशुशुक्षणे |
आपूर्य देहं परिदह्य वामतो
मुञ्चेत् समीरं सह भस्मना बहिः || क्र. दी. १.९ ||
तेनैव ख-मणेः सूर्यस्य मार्गेण दक्षिण-नासा-पुटेन विलीनः सम्बद्धो मारुतो वायुर् यत्र तद् आशुशुक्षणेर् वह्नेर् बीजं रम् इति अरुणम् अरुण-वर्णं विचिन्त्य वायुनापूर्य तद्-बीजस्य षोडश-वार-जपेन पूरकं कृत्वानन्तरं कुम्भकेन चतुर्गुणं रं-बीजं जपन् देहं परिदह्य तद्-ऊर्ध्वं रम् इति द्वात्रिंशद्-वारं जपन् वामत इडा-मार्गेण वाम-नासा-पुटेन भस्मना सह बहिः समीरं वायुं मुञ्चेद् इत्य् अर्थः || क्र. दी. वि. १.९ ||
______________________________
उत्पत्तिं दर्शयति-
ट-परम् अतीव शुद्धम् अमृतांशु-पथेन विधुं
नयतु ललाट-चन्द्रम् अमुतः सकलार्ण-मयीम् |
ल-पर-जपान् निपात्य रचयेच् च तया सकलं
वपुर् अमृतौघ-वृष्टिम् अथ वक्त्र-कराङ्गम् इदम् || क्र. दी. १.१० ||
टस्य परष् ट-परः ठ-कारस् तम् अतीव शुद्धं श्वेतं विधुं चन्द्र-बीज-रूपम् अमृतांशु-पथेन वाम-नासा-पुटेन षोडश-वार-जपेन ललाट-चन्द्रं ब्रह्म-रन्ध्र-स्थ-चन्द्रं नयतु प्रापयतु | ननु, सर्व-शरीरस्य दग्धत्वात् कथम् अमृतांशु-पथेन चन्द्र-बीज-नयनम् इति चेन्, न | पूर्वोक्तस्य भावनात्मकत्वात् | अथानन्तरम् अमुतः अमृतांशोर् ललाट-चन्द्राद् ब्रह्म-रन्ध्र-स्थ-शशङ्कात् सकलार्ण-मयीम् मातृका-मयीम् अमृत-समूह-वृष्टिं ल-परो व-कारः वरुण-बीजम् इति यावत् तज्-जपेन कुम्भकेन चतुः-षष्ठि-वार-जपेन निपात्य उत्पाद्य तथा मातृका-मय्या वृष्ट्या इदं सकलं शरीरं रचयेद् आरचयेत् | कीदृशम् ? वपुर् वक्त्र-कराङ्गं वक्त्रं च करश् च अङ्गम् अवयव-रूपं यत्र तत् तथा वक्त्र-कराढ्यम् इति पाठे वक्त्राढ्यं कराढ्यं चेत्य् अर्थः | अनन्तरं दक्षिण-नासा-पुटेन वायुं रेचयेत् लम् इति पृथ्वी-बीजं पीत-वर्णं द्वात्रिंशद्-वारं जपन् तत् शरीरं सुदृष्टं चिन्तयेत् | तद्-अनु सो ऽहम् इत्य् आत्म-मन्त्रेण ब्रह्म-रन्ध्राज् जीवं हृदयाम्भोजम् आनयेद् इति सम्प्रदायः || क्र. दी. वि. १.१० ||
______________________________
अधुना मातृका-न्यासं दर्शयति-
शिरो-वदन-वृत्त-दृक्-श्रवण-घोण-गण्डोष्ठक-
द्वयेषु स-शिरोमुखेषु च इति क्रमाद् विन्यसेत् |
हलश् च कर-पाद-सन्धिषु तद्-अग्रकेष्व् आदरात्
स-पार्श्व-युग-पृष्ठ-नाभ्य्-उदरकेषु याद्यान् अथ || क्र. दी. १.११ ||
हृदय-कक्ष-ककुत्-कर-मूल-दोः-
पद-युगोदर-वक्त्रागतान् बुधः |
हृदय-पूर्वम् अनेन पथान्वहं
न्यसतु शुद्ध-कलेवर-सिद्धये || क्र. दी. १.१२ ||
अत्र शिरः-शब्दो ललाटस्योपलक्षकः ललाट-मुखम् आवृतेति शारदादर्शनात् एकत्राक्षर-द्वयस्यापि न्यासापाताच् च | वदन-वृत्तं मुख-मण्डलं दृक्-श्रवण-घोण-गण्डोष्ठ-दन्तानां द्वयम् इति समासः | द्वयम् इति दृग्-आदाव् अपि सर्वत्र सम्बध्यते | घोणा नासिका, दद्-द्वये दन्त-पङ्क्ति-द्वये इत्य् उक्तेषु स्थानेषु अचः षोडश-स्वरान् क्रमेणैकाक्षर-क्रमेण विन्यसेत् तथा हलश् च कादीनि व्यञ्जनानि च तत्र कादीनि विंशत्य्-अक्षराणि आदरात् आदर-पूर्वकं कर-पाद-सन्धिषु तद्-अग्रकेषु च विन्यसेत् | अनन्तरं य-कारादीनि पञ्चाक्षराणि स-पार्श्व-युग-पृष्ठ-नाभ्य्-उदरकेषु पार्श्व-युगेन सह वर्तते यत् पृष्ठ-नाभ्य्-उदरं तत्र विन्यसेत् | तथानन्तरम् अनेन वक्ष्यमाण-मार्गेण याद्यान् वर्णान् हृदयादि-स्थान-गतान् अत्रापि कर-पद्-युगयोर् उदर-वक्त्रयोश् च हृदय-पूर्वं यथा स्यात् तथा अन्वहं प्रतिदिनं न्यसतु | कर-पद्-युगादीनां पूर्वैः पदैः समस्तानाम् अपि हृदय-पूर्वम् इति क्रिया-विशेषणेन सह सम्बन्धः सापेक्षत्वाद् अत्रासमास इति तु तुल्य-प्रधान-सापेक्ष-विषयं द्रष्टव्यम् | किम्-अर्थं शुद्ध-कलेवर-सिद्धये शुद्ध-शरीर-सम्पादनार्थम् इत्य् अर्थः || क्र. दी. वि. १.११-१२ ||
______________________________
इत्य् आरचय्य वपुर् अर्ण-शतार्धकेन
सार्ध-क्षपेश-स-विसर्गक-सोभयैस् तैः |
विन्यस्य केशव-पुरःसर-मूर्त-युक्तैः
कीर्त्यादि-शक्ति-सहितैर् न्यसतु क्रमेण || क्र. दी. १.१३ ||
अथ कथयाम्य् अर्णानां मूर्तीः
शक्तीः समस्त-भुवन-मयीः |
केशव-कीर्ती नारायण-कान्ती
माधवस् तथा तुष्टिः || क्र. दी. १.१४ ||
इत्य् उक्त-प्रकारेण वपुः शरीरम् अर्ण-शतार्धेन पञ्चाशद्-वर्णैः आरचय्य रचयित्वा अनन्तरं तैर् एव पञ्चाशद्-वर्णैः सार्ध-क्षपेश-स-विसर्गक-सोभयैः | अर्ध-क्षपेशेन सह वर्तन्त इति सार्ध-क्षपेशाः अर्ध-चन्द्र-सहिताः तैः सानुस्वारैर् इत्य् अर्थः | स-विसर्गकैः विसर्ग-सहितैः सोभयैर् अनुस्वार-विसर्ग-सहितैः विन्यस्य तथादौ शरीर-सम्पादनार्थं शुद्धेर् मातृकाक्षरैर् विन्यस्य तद्-अनन्तरं तेष्व् एव ललाटादिषु मातृका-स्थानेषु अं नम इत्य् आदीन् क्षं नम इत्य् अन्तान्, तथा अः नम इत्य् आदीन् क्षः नम इत्य् अन्तान् वर्णान् विन्यसेद् इत्य् अर्थः | एवं चतुर्विधो मातृका-न्यास उक्तः |
ननु, कथम् अर्ण-शतार्धकेनेत्य् उक्त-वर्णानाम् एक-पञ्चाशत्त्वाद् इत्य् उच्यते क्ष-कारेणाक्षर-द्वयस्यैकी-करणात् | ल-त्वेन ल-कार-द्वयस्यैकीकरणाद् वा | लोक-प्रसिद्धेर् वा प्रकरणेनैक-पञ्चाशत्-सङ्ख्यायास् तात्पर्ये ऽधिगते पञ्चाशद्-वर्ण एव क-पञ्चाशत्-सङ्ख्या-पर इति प्रपञ्च-सार-विवरणे श्री-प्रेमानन्द-भट्टाचार्य-शिरोमणयः | वस्तुतस् तु अर्ण-शतार्धं च क चार्ण-शतार्धकं तेनाक्षराणाम् एक-पञ्चाशत्त्व्म् आयातम् | असम-विभागे वा अर्ध-शब्दः | केशव-न्यासम् आह-विन्यस्य केशवेति | केशवः पुरःसरः प्रथमो यासां मूर्तीनां ताः तथा च केशवादि-मूर्ति-सहितैः कीर्त्यादि-शक्ति-युक्तैश् च मातृकाक्षरैर् ललाटादिषूक्त-स्थानेषु यथा-क्रमं न्यासः कार्यः || क्र. दी. वि. १.१३-१४ ||
______________________________
गोविन्दः पुष्टि-युतो विष्णु-धृती सूदनश् च मध्वाद्यः |
शान्तिस् त्रिविक्रमश् च क्रिया-युतो वामनो दया-युक्तः || क्र. दी. १.१५ ||
सूदनश् च मध्वाद्यः मधुसूदनः इत्य् अर्थः || क्र. दी. १.१५ ||
______________________________
श्रीधर-युता च मेधा हृषीक-नाथश् च हर्षया युक्तं |
अम्बुज-नाभ-श्रद्धे दामोदर-संयुता तथा लज्जा || क्र. दी. १.१६ ||
हृषीक-नाथो हृषीकेश इत्य् अर्थः | अम्बुजनाभः पद्मनाभः || क्र. दी. वि. १.१६ ||
______________________________
लक्ष्मीः स-वासुदेवा सङ्कर्षणकः सरस्वती-युक्तः |
प्राद्यो द्युम्नः प्रीति-समेतो ऽनिरुद्धको रतिर् इमाः स्वरोपेताः || क्र. दी. १.१७ ||
प्राद्यो द्युम्नः प्रद्युम्नः || क्र. दी. वि. १.१७ ||
______________________________
चक्रिजये गदिदुर्गे शार्ङ्गी प्रभयान्वितस् तथा खड्गी |
सत्या शङ्खी-चण्डा हलिवाण्यौ मुसलियुग्-बलासिन्किआ || क्र. दी. १.१८ ||
शूली विज्या पाशी विरजा विशान्वितो ऽम्बुशीर् भूयः |
विमदा मुक्न्द-युक्ता नन्दज-सुनन्दजे स्मृतिश् च नन्दि-युता || क्र. दी. १.१९ ||
नर-ऋद्धी नरक-जितासमृद्धिर् अथ शुद्धि-युग् घरिः कृष्णः |
बुद्धि-युतः सत्य-युत-भक्तिर् मति-युक्तः स्यात् ततः शौरिः || क्र. दी. १.२० ||
क्षमया शूरो रमया जनार्दनो मेच-भू-धरः क्लेदी |
विश्वाद्य-मूर्ति-युक्ता क्लिन्ना वैकुण्ठ-युक् तथा वसुदा || क्र. दी. १.२१ ||
क्लेदी क्लेदिनीत्य् अर्थः | छन्दो-भङ्ग-भयात् तथोक्तः | विश्वादि-मूर्तिर् इति विश्व-मूर्तिर् इत्य् अर्थः || क्र. दी. वि. १.१८-२१ ||
______________________________
पुरुषोत्तमश् च वसुधा बलिना च वरा बलानुजोपेता |
भूयः परायणाख्या बालः सूक्ष्मा वृषघ्न-सन्ध्ये च || क्र. दी. १.२२ ||
सवृषा प्रज्ञा प्रभा वराहो निशा च विमलो ऽमोघा |
नरसिंह-विद्युते च प्रणिगदिता मूर्तयो हलां शक्ति-युताः || क्र. दी. १.२३ ||
अमोघेति च्छेदः || क्र. दी. वि. १.२२-२३ ||
______________________________
पूर्वोक्त-केशवादि-मूर्ति-कीर्त्यादि-शक्ति-न्यास-प्रकारं दर्शयति-
वर्णनुक्त्वा सार्ध-चन्द्रान् पुरस्तान्
मूर्तीः शक्तीर् ङे ऽवसाना नतिं च |
उक्त्वा न्यस्येत् यादिभि सप्त-धातून्
प्राणं जीवं क्रोधम् अप्य् आत्मने ऽन्तान् || क्र. दी. १.२४ ||
पुरस्तात् प्रथमं वर्णान् अ-कारादि-क्षकारआन्तान् उक्त्वा कथम्भूतान् वर्णान् सार्ध-चन्द्रान् स-बिन्दून् अनन्तरं मूर्तीः केशवाद्याः शक्तीः कीर्त्याद्याः ङे ऽवसानाः इत्य् उभयेन सम्बध्यते तन् न हृदय-ग्राहि प्रयासत्तेः लाघवाच् च अं केशवाय कीर्त्यै नम इति प्रयोगे केशवायेत्य् अत्र नमः-पदस्य योगाभावाच् चतुर्थ्य्-अनुपपत्तिः न हि विष्णवे सूर्याय नम इति भवति | भवति च विष्णवे नमः सूर्याय नम इति (तथा च केशवाय नमः कीर्त्यै नम इति) प्रयोगापत्तिः उभयत्र वा च-कारो देयः समुच्चय-ख्यापनार्थः | स श्रिये चामृताय चेतिवत् तथा मातृकाक्षराणाम् अपि उभय-सम्बन्धार्थं द्विः-प्रयोगापत्तिः | अं केशव-कीर्तिभ्यां नम इति प्रयोगे तु नैते दोषाः पतन्ति तत्र द्वन्द्व-समास-वशात् सहितावस्थितयोर् एवोपस्थितौ चतुर्थ्य्-अर्थान्वय-सम्भवात् वर्नान्वय-सम्भवाच् च अग्नीषोमयोर् इव सहितावस्थितयोर् देवतात्वम् | कथं तर्हि यादिषु त्वग्-आदि-प्रयोगः कार्यम् ? इत्य् उच्यते यं त्वग्-आत्मने पुरुषोत्तम-वसुधाभ्याम् नमः, रं असृग्-आत्मने बलि-पराभ्यां नम इत्य् एवं रूप इति | मन्त्रम् उक्तावलि-कारेण तथैवाभिधानात् | आत्मने इत्य् अस्य सुब्-अन्त-प्रतिरूपक-निपातत्वेनादोषाद् इति तु प्रपञ्च-सार-विवरणे परमानन्द-भट्टाचार्याभ्याः | तथा च अं केशव-कीर्तिभ्यां नम इति प्रयोगः मन्त्रम् उक्तावली-कार-लघु-दीपिका-कार-त्रिपाठि-रुद्रोपाध्याय-विद्याधराचार्य-परमानन्द-भट्टाचार्य-संमतः | अं केशवाय कीर्त्यै नम इति प्रयोगः पद्मपादाचार्य-प्रभृतीनां संमत इति | ज्ञात्वा यथा-गुरु-सम्प्रदायं व्यवहर्तव्यम् इति | अत्रैव न्यास-विशेषम् आह-यादिभिर् इति य-काराद्यैर् दशभिर् अक्षरैः सह सप्त धातून् त्वग्-असृङ्-मांस-मेदो ऽस्थि-मज्ज-शुक्राख्यान् आत्मने ऽन्तान् आत्मने इति शब्दः अन्ते येषां ते तथा प्राणं जीवं क्रोधं च आत्मने ऽन्तं हृदयादिषु यथा-स्थानेषु विन्यस्येद् इत्य् अर्थः | प्राणं शक्तिम् इत्य् अपि पाठान्तरम् || क्र. दी. वि. १.२४ ||
______________________________
केशवादि-न्यासे ध्यानम् आह-उद्यद् इति |
उद्यत्-प्रद्योतन-शत-रुचिं तप्त-हेमावदातं
पार्श्व-द्वन्द्वे जलधि-सुतया विश्व-धात्र्या च जुष्टम् |
नाना-रत्नोल्लसित-विविधाकल्पम् आपीत-वस्त्रं
विष्णुं वन्दे दर-कमल-कौमोदकी-चक्र-पाणिम् || क्र. दी. १.२५ ||
अहं विष्णुं वन्दे | कीदृशं ? उद्यन्न् उदयं गच्छन् प्रद्योतनः सूर्यस् तस्य यच्-छतं तस्येव रुचि-दीप्तिर् यस्य तं पुनः तप्तेति वह्नि-मध्य-निक्षिप्त-काञ्चनवद् गौरं | पुनः कीदृशं पार्श्व-द्वन्द्वे इति दक्षिण-वाम-पार्श्व-द्वये जलधि-सुतया लक्ष्म्या तथा विश्व-धात्र्या पृथिव्या जुष्टं सेवितम् | पुनः किम्भूतं ? नाना-विध-रत्नेन शोभितो नाना बहु-प्रकार आकल्पो भूषणं यस्य | पुनः कीदृशं ? आपीतेति आसम्यक् प्रकारेण पीते वस्त्रे यस्य तं | पुनः कीदृशं ? दरः शङ्खः पद्मं कमलं कौमोदकी गदा चक्रम् एतानि पाणौ यस्य तम् | अत्र ऊर्ध्वाधः क्रमेण वाम-भागे शङ्ख-पद्मे दक्षिण-भागे गदा-चक्रे इति बोध्यम् || क्र. दी. वि. १.२५ ||
______________________________
ध्यान-न्यासयोः फलम् आह-ध्यात्वैवम् इति |
ध्यात्वैवं परम-पुमांसम् अक्षरैर् यो
विन्यस्योद्दिनम् अनु केशवादि-युक्तैः |
मेधायुः-स्मृति-धृति-कीरित्-कान्ति-लक्ष्मी
सौभाग्यैश् चिरम् उपबृंहितो भवेत् सः || क्र. दी. १.२६ ||
एवम् उक्त-प्रकारं परम-पुमांसं विष्णुं ध्यात्वा यो ऽनुदिनं प्रत्यहं केशवादि-सहितैर् मातृकाकाऐर् विन्यस्येत् स पुरुषः | मेधादिभिश् चिरं बहु-कालम् उपबृंहित उपचितो भवति मेधा धारणावती बुद्धिः आयुर् जीवनं स्मृतिः स्मरणं धृतिर् धैर्यं कीर्तिर् उत्कृष्ट-कर्म-कथा कान्तिः सौन्दर्यं लक्ष्मीर् ऐश्वर्यं सौभाग्यं सर्व-प्रियत्वम् || क्र. दी. वि. १.२६ ||
______________________________
न्यास-विशेषम् आह-अमुम् इति |
अमुम् एव रमा-पुरः-सरं
प्रभजेद् यो मनुजो विधिं बुधः |
समुपेत्य रमां प्रथीयसीं
पुनर् अन्ते हरितां व्रजत्य् असौ || क्र. दी. १.२७ ||
यः पण्डितो मनुष्यः अमुम् एव विधिं केशवादि-न्यास-प्रकारं रमा-पुरःसरं श्री-बीजम् आदौ दत्त्वा प्रभजेत् करोति असौ पुमान् इह लोके प्रथीयसीं महतीं रमां लक्ष्मीं समुपेत्य प्राप्य पुनर् अन्ते अवसाने हरितां विष्णुत्वं व्रजति प्राप्नोतीत्य् अर्थः || क्र. दी. वि. १.२७ ||
______________________________
तत्त्व-न्यासं दर्शयति-इत्य् अच्युतीत्य् आदि |
इत्य् अच्युती-कृत-तनुर् विदधीत तत्त्व-
न्यासं म-पूर्वक-पराक्षर-नत्य्-उपेतम् |
भूयः पराय च तद्-आह्वयम् आत्मने च
नत्य्-अन्तम् उद्धरतु तत्त्व-मनून् क्रमेण || क्र. दी. १.२८ ||
इति पूर्वोक्त-प्रकारेण अच्युतीकृत-तनुः सम्पादित-विष्णु-शरीरः तत्त्व-
न्यासं वक्ष्यमाण-प्रकारं विदधीत कुर्यात् | प्रकारं दर्शयति-मः पूर्वो यस्य स म-पूर्वः | कः परो यस्य स क-परः | नत्य्-उपेतं नमः-शब्द-सहितम् | तथा च म-कारादि-व्युत्क्रमेण क-कार-पर्यन्तम् एकैकाक्षरं नमः-पद-सहितं कृत्वा भूयो ऽनन्तरं परायेति-पदं दत्त्वा अनन्तरं तद्-आह्वयं तेषां तत्त्वानाम् आद्वयं वक्ष्यमाणं नाम दत्त्वा अनन्तरं आत्मने इति पदं दत्त्वा अनन्तरं नत्य्-अन्तम् नमः-पदम् अन्ते दत्त्वा क्रमेण तत्त्व-मनून् तत्त्व-मन्त्रान् उद्धरतु || क्र. दी. वि. १.२८ ||
______________________________
अधुना तत्त्वानां नामानि न्यासं स्थानं च दर्शयति-
सकल-वपुषि बीजं प्राणम् आयोज्य मध्ये
न्यसतु मतिम् अहङ्कारं मनश् चेति मन्त्री |
कमुख-हृदय-गुह्याङ्घ्रिष्व् अथो शब्द-पूर्वं
गुण-गणम् अथ कर्तादि-स्थितं श्रोत्र-पूर्वम् || क्र. दी. १.२९ ||
सकल-वपुषि सर्वाङ्ग-व्यापके जीवं प्राणं च मन्त्रे आयोज्य तेन न्यस्यतु तथा च मं नमः पराय जीवात्मने नमः भं नमः पराय प्राणात्मने नमः इति द्वयं सर्व-शरीरे विन्यस्येद् इत्य् अर्थः | इति तत्त्व-पदं दत्त्वा मं नमः पराय जीव-तत्त्वात्मने नमः इति केचित् तत्-प्रयोगान् कुर्वन्ति तन् न प्रमाणाभावात् मूर्ति-पञ्जर-न्यासे ऽपि मूर्ति-पद-प्रयोगापत्तेः | अत्र मकरादीनां बिन्दु-साहित्यं सम्प्रदायावगतं बोद्धव्यम् | मध्ये हृदये मतिम् अहङ्कारं मनश् च मन्त्र आयोज्य तेन मन्त्री न्यस्यतु तथा बं नमः पराय मन आत्मने नमः फं नमः पराय अहङ्कारात्मने नमः पं नमः पराय मन आत्मने नमः इति त्रयं हृदि विन्यस्येद् इत्य् अर्थः | अथो ऽनन्तरं कमुख-हृदय-गुह्याङ्घ्रिषु पञ्चसु स्थानेषु शब्द-पूर्वं गुण-समुदायं शब्द-स्पर्श-रूप-रस-गन्धात्मकं मन्त्रे आयोज्य तेन न्यस्यतु तथा च नं नमः पराय रूपात्मने नमः इति हृदये, थं नमः पराय रसात्मने नमः इति गुह्ये, तं नमः पराय गन्धात्मने नमः पादयोर् विन्यस्येद् इत्य् अर्थः | अथानन्तरं श्रोत्र-त्वग्-दृक्-जिह्वा-घ्राणात्मकं कर्णादि-स्थितं कर्ण-त्वग्-दृक्-जिह्वा-घ्राणेषु स्थितं यथा स्यात् तथा न्यस्यतु तथा च णं नमः पराय श्रोत्रात्मने नमः इति श्रोत्रयोः ढं नमः पराय त्वग्-आत्मने नमः इति त्वचि, डं नमः पराय दृग्-आत्मने नमः इति नेत्रयोः | ठं नमः पराय जिह्वात्मने नमः इति जिह्वायां | टं नमः पराय घ्राणात्मने नमः इति घ्राणयोर् इति विन्यस्येत् || क्र. दी. वि. १.२९ ||
______________________________
वाग्-आदीति |
वाग्-आदीन्द्रिय-वर्गम् आत्म-निलयेष्व् आकाश-पूर्वं गणं
मूर्ध्यास्ये हृदये शिरे चरणयोर् हृत्-पुण्डरीकं हृदि |
बिम्बानि द्विषड्-अष्ट-युग्-दश-कला-व्याप्तानि सूर्योडु-राड्
वह्नीनां च यतस् तु भूत-वसुम् उष्यन्त्य् आक्षरैर् मन्त्रवित् || क्र. दी. १.३० ||
वाग्-आदीन्द्रिय-वर्गं वाक्-पाणि-पाद-पायूपस्थात्मकं कर्मेन्द्रिय-पञ्चकं मन्त्रे आयोज्य आत्म-निलयेषु मुख-पाणि-पाद-पायूपस्थेषु न्यस्यतु | तथा च अं नमः पराय वाग्-आत्मने नमः इति मुखे | झं नमः पराय पाण्य्-आत्मने नमः इति पाण्योः | जं नमः पराय पादात्मने नमः इति पादयोः | छं नमः पराय पाय्व्-आत्मने नमः इति पायौ | चं नमः पराय उपस्थात्मने नमः इत्य् उपस्थे विन्यस्येद् इत्य् अर्थः | आकाश-पूर्वं गणम् आकाश-वाय्व्-अग्नि-जल-पृथिव्य्-आत्मकं मन्त्रे आयोज्य मूर्धन्य् आस्ये हृदये शिवे लिङ्गे चरणयोर् न्यस्यतु | तथा च ङं नमः पराय आकाशात्मने नमः इति शिरसि | धं नमः पराय वाय्व्-आत्मने नमः इति मुखे | गं नमः परायाग्न्य्-आत्मने नमः इति हृदये | खं नमः पराय जलात्मने नमः इति लिङ्गे | कं नमः पराय पृथिव्य्-आत्मने नमः इति पादयोर् न्यस्येद् इत्य् अर्थः | हृत्-पुण्डरीकम् इत्य् आदेर् अयम् अर्थः | हृत्-पुण्डरीकं तथा सूर्योड्डराद्-वह्नीनां बिम्बानि सूर्य-चन्द्राग्नीनां मण्डलानि त्रीणि द्विषड्-अष्ट-युग्-दश-कला-व्याप्तानि द्वादश-षोडश-दश-कला-युक्तानि यतस् तु भूत-वसु-मुन्य्-अक्ष्य्-अक्षरैः यतो य-काराद् यो भूत-वर्णः पञ्चम-वर्णः श-कारः वसु-वर्णो ऽष्तमार्णो ह-कारः मुनि-वर्णः सप्तमः स-कारः अक्षि-वर्णो द्वित्य-वर्णो रेफः | एतैश् च सहितानि मन्त्रे आयोज्य हृदि न्यस्यतु | तथा च-शं नमः पराय हृत् पुण्डरीकात्मने नमः | हं नमः पराय द्वादश-कला-व्याप्त-सूर्य-मण्डलात्मने नमः | सं नमः पराय षोडश-कला-व्याप्त-चन्द्र-मण्डलात्मने नमः | रं नमः पराय दश-कला-व्याप्त-वह्नि-मण्डलात्मने नमः इति चतुष्टयं हृदये न्यस्यतु || क्र. दी. वि. १.३० ||
______________________________
अथ परमेष्ठि-पुमांसौ विश्व-निवृत्ती सर्व-हत्य्-उपनिषदं
न्यसेद् आकाशादि-स्थान-स्थानषोय-बलवार्थिः सलावः || क्र. दी. १.३१ ||
अथानन्तरं परमेष्ठि-पुमांसौ विश्व-निवृत्ती सर्व इत्य् उपनिषदो रहस्यान् षोपर-बलार्णैर् इति ष-कारः रेफस्य उप समीपं तेन रेफ-समीप-वर्तिनौ य-कार-ल-कारौ लक्ष्येते व-कारो ल-कारश् च एतैः सलवकैर् बिन्दु-सहितैः सहितान् आकाशादि-स्थाने न्यस्येद् आकाशादि न्यास-स्थानेषु मूर्ध्न्यास्ये हृदये लिङ्गे चरणयोर् न्यस्येत् || क्र. दी. वि. १.३१ ||
______________________________
अत्रैव विशेषम् आह-वासुदेव इति |
वासुदेवः सङ्कर्षणः प्रद्युम्नाश् चानिरुद्धकः
नारायणश् च क्रमशह् परमेष्ठ्यादिभिर् युतः || क्र. दी. १.३२ ||
क्रमशः क्रमेण परमेष्ट्य्-आदिभिः सहिता वासुदेवादयो न्यस्नीया तथा च षं नमः पराय वासुदेवाय परमेष्ठ्यात्मने नमः इति शिरसि | यं नमः पराय सङ्कर्षणाय पुरुषात्मने नमः इति मुखे, लं नमः पराय प्रद्युम्नाय विश्वात्मने नम इति हृदये | वं नमः पराय अनिरुद्धाय निवृत्त्यात्मने नम इति लिङ्गे, लं नम इति हृदये | वं नमः पराय अनिरुद्धाय निवृत्य्-आत्मने नम इति लिङ्गे | लं नमः पराय नारायणाय सर्वात्मने नम इति चरणयोः | विन्यस्येद् इत्य् अर्थः | केचित् तु परमेष्ठ्यादेर् अनन्तरं वासुदेवादेः प्रयोगं कुर्वन्ति || क्र. दी. वि. १.३२ ||
______________________________
ततः कोप-तत्त्वं क्षरौ विन्दु-युक्तं
नृसिंहं न्यसेत् सर्व-गात्रेषु तज्-ज्ञः |
क्रमेणेति तत्त्वात्मको न्यास उक्तः
स्वासान् निकृद्-विश्व-मूर्त्य्-आदिषु स्यात् || क्र. दी. १.३३ ||
ततस् तद्-अनन्तरं क्रमेण गुरूपदेश-क्रमेण तज्-ज्ञः नृसिंह-बीज-ज्ञः क्षरौ क्ष-कार-रेफ-औ-कार इति मिलित-स्वरूपं बिन्दु-युक्तं तथा कोप-तत्त्वं नृसिंहं च मन्त्रे आयोज्य सर्व-गात्रेषु न्यस्येत् | तथा च-क्ष्रौं नमः पराय नृसिंहाय कोपात्मने नमः इति सर्व-गात्रेषु न्यस्येद् इत्य् अर्थः | तत्त्व-न्यासम् उपसंहरति इत्य् उक्त-प्रकारेण तत्त्वात्मको न्यासः कथितो भवति | कीदृशः ? विश्व-मूर्त्य्-आदिषु स्व-सान्निध्य-कृत् कृष्ण-सान्निध्य-कृत् बिम्बादिष्व् इति केचिद् बिम्बं प्रतिमा मूर्तिः शरीरम् आदि-पदेन मणि-मन्त्रादि-सकलस्य परिग्रहः एतेषु हरेः सान्निध्यं करोतीत्य् अर्थः | क्वचिन् मर्त्यादिष्व् इति पाठः || क्र. दी. वि. १.३३ ||
______________________________
एतन्-न्यास-प्रयोजनम् आह-इति कृत इति |
इति कृतो ऽधिकृतो भवति ध्रुवं
सकल-वैष्णव-मन्त्र-जपादिषु |
पवन-संयवलतत्त्व-मनुना चरेत्
तत्त्वम् इह जप्तुम् असौ मनुच्छति || क्र. दी. १.३४ ||
तत्त्व-न्यासे कृते ध्रुवं निश्चितम् अधिकृतो भवति न केवलं गोपाल-विषय-मन्त्र-कथनाद् अत्रैव अपि तु सकल-वैष्णव-मन्त्र-जपादिष्व् अपीत्य् अर्थः | अधुना प्राणायाम-प्रकारम् आह-पवन-संयमनम् इति | असौ साधकः यं मनुम् इह व्यवहार-भूमौ जप्तुम् इच्छति अमुना मन्त्रेण पवन-संयमनं प्राणायामं चरतु कुर्याद् इत्य् अर्थः || क्र. दी. वि. १.३४ ||
______________________________
अत्रैव प्रकारान्तरम् आह-अथवेति |
अथवाखिलेषु हरि-मन्त्र-
जप-विधिषु मूल-मन्त्रतः |
संयमनम् अमलधीर् मरुतो
विधिनाभ्यसंश् चरतु तत्त्व-सङ्ख्यया || क्र. दी. १.३५ ||
मूल-मन्त्रतो मूल-मन्त्रेण | वक्ष्यमाण-दशाक्षरेणेति केचित् | वस्तुतस् तु सप्ताक्षर-गोपी-जन-वल्लभ-मन्त्रेण तस्यैव मूल-मन्त्रत्वेनाभिधानात् तद्-वचनस्य प्रयोजनान्तराभावात् तत्त्व-सङ्ख्ययाष्टाविंशति-वारं चतुर्विंशति-वारम् इति केचित् || क्र. दी. वि. १.३५ ||
______________________________
पुरतो जपस्य परतो ऽपि
विहितम् अथ तत्-त्रयं बुधैः |
षोडश य इह समाचरेद् दिनेशः
परिपूयते स खलु मासतो ऽं हंसः || क्र. दी. १.३६ ||
पुरतो जपादौ पश्चाच् च तत्-त्रयं बुधैर् विहितं प्राणायाम-त्रयं, रेचकादि-त्रयम् इति केचित् | एतेन जपाङ्गत्वाच् च तत्राद्य्-अन्ते ऽयं दर्शितः || क्र. दी. वि. १.३६ ||
सनातनः: जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु कालः | तत् त्रयं प्राणायाम-त्रयम् इति सङ्ख्या | यो जनो दिनशः प्रत्यहं षोडश-प्राणायामान् आचरेत्, स मासतः मासेनैकेन अंहसः पापात् परिपूयते शुद्धो भवतीति सामान्यतः फलम् | परं च सर्वं पुर्वं लिखितम् एव || (हरि-भक्ति-विलास ५.१३२)
______________________________
अत्रैव प्रकारान्तरम् आह-अथवेति |
अयवाङ्ग-जन्म-ममुनानुसुसंयमं
सकलेषु कृष्णमनुजापकर्मसु |
सहिऐक-सप्त-कृति-वारम् अभ्यसेत्
तनुयात् समस्त-दुरिताप-हारिणा || क्र. दी. १.३७ ||
कृतीति कृति-च्छन्दसो विंशत्य्-अक्षरत्वात् सहितम् एकं यत्र तादृश-सप्त-कृति-वारम् | अथवा सहितानि मिलितानि एक सप्त-कृतयः उभयत्राष्टाविंशति-वारम् इत्य् अर्थह् | सर्वेषु कृष्ण-मनुजापकर्मसु अङ्ग-जन्म-मनुना काम-बीजेन प्राणायामम् अभ्यसंस् तनुयात् | प्रथमम् एकं ततः सप्त ततो विंशति ततो ऽभ्यास-पाटवे ऽष्टाविंशति-वारम् इत्य् अर्थः | कश्चित् तु प्रथमं सप्त ततो विंशतिस् तत एकं ततो ऽष्टाविंशति-वारम् अभ्यास-क्रमेणेति तात्पर्यम् आह तत्र प्रमाणं स एव प्रष्टव्यः || क्र. दी. वि. १.३७ ||
______________________________
मन्त्र-विशेष-प्राणायाम-प्रकारम् आह-अष्टाविंशतीति |
अष्टाविंशति-सङ्ख्यम् इष्ट-फलदं मन्त्रं दशार्णं जपन्
नायच्छेत् पवनं सुसंयत-मतिस् त्व् अष्टौ दशार्णेन चेत् |
अभ्यस्यन्न् अविवारम् अन्यम् अनुभिर् वर्णानुरूपं जपन्
कुर्याद् रेचक-पूर्वकम् अनिपणः प्राण-प्रयोगं नरः || क्र. दी. १.३८ ||
सुसंशित-मतिर् विमल-बुद्धिः अष्टाविंशति-संख्यं दशार्णं दशाक्षर-मन्त्रं जपन् प्रायच्छेत् प्राणायामं कुर्यात् कीदृशं दशार्णम् इष्ट-फलदं स्वाभिमत-फलदं तत्र दशाक्षर-मन्त्रस्य वार-चतुष्टयं जपेन रेचकम् | अष्ट-वार-जपेन पूरकं षोडश-वार-जपेन कुम्भकं कुर्याद् इति गुरु-सम्प्रदायः | अष्टादशार्णे चेत् प्राणायामः क्रियत इति शेषः | तदा रविवारं द्वादश-वारम् अभ्यस्यन् प्राणायामं कुर्याद् इति गुरु-सम्प्रदायः | अन्य-मनुभिर् अन्य-मन्त्रैश् चेत् प्राणायामः क्रियते | तदा वर्णानुरूपं मन्त्र-वर्णानां तारतम्येन जपं कुर्वन् कुर्यात् | अत्र स्वल्पाक्षरैर् मन्त्रैर् बहु-वारम् अनल्पाक्षरैर् मन्त्रैः स्वल्प-वारं जपेद् इत्य् अर्थः | कीदृशः ? साधकः रेचक-पूरक-कुम्भकाख्य-कर्म-कुशल इत्य् अर्थः | रेचकस्य त्यागस्य पूर्वकर्मणी पूरक-कुम्भके तत्र निपुणा इति रुद्रधरः | तच् चिन्त्यम् एवम् अपि रेचके नैपुण्यालाभात् प्रपञ्च-सारानुसारिणो ऽस्य ग्रन्थस्य शारदा-ग्रन्थानुयायित्वाच् च || क्र. दी. वि. १.३८ ||
______________________________
अधुना प्राणायाम-प्रकारं दर्शयति-रेचयेन् मारुतम् इति |
रेचयेन् मारुतं दक्षया दक्षिणः
पूरयेद् वामया मध्य-नाड्या पुनः |
धारयेद् ईरितं रेचकादि-त्रयं स्यात्
कलादन्त-विद्याख्य-मात्राच्युकम् || क्र. दी. १.३९ ||
दक्षिणो विचक्षणः पुरुषः दक्षया दक्षिण-नाड्या मारुतं वायुं रेचयेत् त्यजेत् तथा वामया वाम-नाड्या त्यक्त-वायुं पूरयेद् मध्यया सुषुम्णया नाड्या मारुतं वायुं धारयेद् इत्य् उक्त-प्रकारेण रेचकादि-त्रयं रेचक-पूरक-कुम्भकाख्य-त्रितयम् ईरितं कथितं रेचकादिष्व् अवधि कालम् आह-कलाद् अन्तेति | कलाः षोडश, दन्ता द्वात्रिंशद्, विद्याः चतुःषष्ठि-रूपा एतत्-सङ्ख्याक-मात्रात्मकम् इत्य् अर्थः | अत्र भैरव-त्रिपाठिनो यत्र मन्त्र-गणनया प्राणायामः | तत्र कुम्भक-काल एवोक्तः श्वासाभ्यास-क्रमेण प्राणायाम-सङ्ख्यया मन्त्र-जपः कार्यो निर्गम-प्राणायामे तु रेचकादि-गणना कार्येत्य् आहुः | मात्र-शब्देन च वामाङ्गुष्ठे कनिष्ठाद्य्-अङ्गुलीनां प्रत्येकं पर्व-त्रय-स्पर्श-कालः कथ्यते वाम-हस्तेन वाम-जानु-मण्डलस्य प्रादक्षिण्येन स्पर्श-कालश् च | यद् अत्र रुद्रोपाध्यायैर् उक्तं यद्यप्य् अत्र रेचकं प्रथमम् उक्तं तद्-अनन्तरं पूरकं तथापि प्रथमं पूरकम् अनन्तरं कुम्भकं ज्ञेयं यतो गृहीत-घृतस्य त्यागो भवति | यत् पुनर् व्यत्यासेन कथनं तद्-गोपनाय एवं कला-दन्तेत्याद्य् अपि व्यत्यासेन बोद्धव्यम् | इड्योत्कर्षयेद् वायुम् इत्य् आदि शारदा-दर्शनात् | एवं च गृहीत-चतुर्-गुणेन धारणं तद्-अर्धेन त्याग इत्य् अपि दर्शितं भवतीति, तन् न प्रपञ्च-सारानुसारिणो ग्रन्थस्यास्य शारदानुयायित्वात् प्रपञ्च-सारे रेचकादित्वस्यैवोक्तत्वात् पूरकादित्वस्याष्टाङ्गयोगान्तर्भूत-प्राणायाम-विषयत्वात् | यद् उक्तं गृहीतस्य त्यागो भवति तत्रोच्यते स्वाभाविक-वायु-धारणस्यात्रापि सत्त्वाद् अन्यथा शरीर-पातापत्तेः | यद् उक्तं व्यत्यासेन गोपनार्थं कथनम् इति तद् अयुक्तम् | मन्त्र-भिन्नस्यानुष्ठान-भागस्य ऋजु-मार्गेणैव वक्तुं युक्तत्वात् | यद् उक्तं गृहीत-चतुर्गुणेनैव धारणं तद्-अर्धेन त्याग इति तद् अप्य् अयुक्तं प्रमाणाभावात् | दक्षिणामूर्ति-संहितायाम् अङ्गुली-नियमो ऽपि प्राणायामे कथितो, यथा-
कनिष्ठानामिकाङ्गुष्ठैर् यन् नासापुट-धारणम् |
प्राणायामः स विज्ञेयस् तर्जनी-मध्यमे विना || इति || क्र. दी. वि. १.३९ ||
सनातनः: तद् एव क्रम-दीपिकोक्त्या संवादयन् तत्रैव किंचिद् विशेषं च दर्शयति-रेचयेद् इति | दक्षया दक्षिण-नाड्या, दक्षिणः विद्वान् जनः | मध्य-नाड्या सुषुम्णया धारयेत् | एवं रेचक-पूरक-कुम्भकाख्यं त्रयं स्यात् | रेचकादिषु त्रिषु क्रमेणावधिकालम् आह-कलाः षोडश | दन्ता द्वात्रिंशत् | विद्याश् चतुःषष्ठिस् तत्-तत्-सङ्ख्यक-मात्रात्मकम् इत्य् अर्थः | मात्रा च-वामाङ्गुष्ठेन वाम-कनिष्ठाद्य्-अङ्गुलीनां प्रत्येकं पर्व-त्रय-सम्पर्क-कालः | वाम-हस्तेन वाम-जानु-मण्डलस्य प्रादक्षिण्येन स्पर्श-कालो वा | तत्राप्य् अङ्गुलि-नियमो ऽप्य् उक्तः-
कनिष्ठानामिकाङ्गुष्ठैर् यन् नासा-पुट-धारणम् |
प्राणायामः स विज्ञेयस् तर्जनी-मध्यमे विना || इति |
तत्र तेषु प्राणायामेषु पुर्वं रेचकादिषु सङ्ख्योक्ता | अत्र च प्राणायामेष्व् इति भेदः || [हरि-भक्ति-विलासे ५.१३१]
______________________________
प्रकृतम् उपसंहरन्न् आत्म-यागार्थं देहे पीठ-कल्पनां दर्शयति-प्राणायामम् इत्य् आदिना |
प्राणायामं विधायेत्य् अथ निज-वपुषा कल्पयेद् योग-पीठम् |
न्यस्येद् आधार-शक्ति-प्रकृति-कमठ-क्षमा-क्षीर-सिन्धून् |
श्वेतद्वीपं च रत्नोज्ज्वल-महित-महा-मण्डपं कल्प-वृक्षम् |
हृद्-देशे ऽंश-द्वयोरू-द्वय-वदन-कटी-पार्श्व-युग्मेषु भूयः || क्र. दी. १.४० ||
धर्माद्य्-अधर्मादि च पाद-गात्र-
चतुष्टयं हृद्य् अथ शेष-मन्त्रम् |
सूर्येन्दु-वह्नीन् प्रणवआंश-युक्तान्
स्वाद्य्-अक्षरैः सत्त्व-रजस्-तमांसि || क्र. दी. १.४१ ||
इति पूर्वोक्त-प्रकारेण प्राणायामं विधाय कृत्वा अथानन्तरं निज-वपुषा निज-शरीरेण याग-पीथं पूजा-पीठं कल्पयेत् कल्पना-प्रकारम् आह-न्यस्येद् इति | हृद्-देशे हृदि आधार-शक्त्य्-आदि-कल्प-वृक्षान्तं न्यसेत् | कमठः कूर्मः शेषो ऽनन्तः क्षीर-सिन्धुः क्षीर-समुद्रः रत्नेन उज्ज्वलः महितो यः महा-मण्डपः रत्न-मण्डपः इति यावत् तथा चाधार-शक्तये नमः प्रकृत्यै नम इति नवकं न्यसेद् हृदीत्य् अर्थह् | भूयो ऽअनन्तरं अंस-द्वयोर् उद्वय-वदन-कटी-पार्श्व-युग्मेषु धर्माद्य्-अधर्मादि-पाद-गात्र-चतुष्टयं विन्यस्येत् | पाद-गात्रयोश् चतुष्टयं पाद-गात्र-चतुष्टयम् इत्य् उभयत्र सम्बध्यते | पाद-चतुष्टयं गात्र-चतुष्टयं धर्मादि-धर्म-ज्ञान-वैराग्यैश्वर्य-रूप-पाद-चतुष्टयम् | अंस-द्वयोर् उद्वये च धर्माय नमः दक्षिणोरौ, इत्य् एवं प्रादक्षिण्य-क्रमेण विन्यसेत् | शारदायां मुख-पार्श्व-नाभि-पार्श्वेष्व् इति क्रम-दर्शनात् | एतच् च भैरव-त्रिपाठिनो ऽपि संमतम् | एतेषु यथाश्रुत-क्रमेणैवेति विद्याधराचार्याः | अथानन्तरं शेषम् अनन्तम् अब्जं पद्मं सूर्येन्दु-वह्नीन् सूर्य-सोमाग्नि-मण्डलानि | कीदृशान् ? तान् प्रणवांश-युक्तान् प्रणवस्योङ्कारस्यांशाः | अवयवा अ-कारो-कार-म-कारास् तैर् युक्तान् सहितान् तत्रादौ स-बिन्दु-प्रणवांशादि-साहित्यं सम्प्रदायतो बोद्धव्यम् | स्वाद्य्-अक्षरैः स-बिन्दु-स्वीय-स्वीय-प्रथमाक्षरैः सहितानि सत्त्व-रजस्-तमांसि तथा च हृत्-पद्मे अनन्ताय नमः, पद्माय नमः, अं द्वादश-कला-व्याप्त-सूर्य-मण्डलात्मने नमः, उं षोडश-कला-व्याप्त-चन्द्र-मण्डलात्मने नमः, मं दश-कला-व्याप्त-वह्नि-मण्डलात्मने नमः, सं सत्त्वाय नमः, रं रजसे नमः, तं तमसे नमः || क्र. दी. वि. १.४०-४१ ||
______________________________
आत्मादि-त्रयम् आत्म-बीज-सहितं व्योमाग्नि-माया-लवैर्
ज्ञानात्मानम् अथाष्ट-दिक्षु परितो मध्ये च शक्तीर् नव |
न्यस्त्वा पीठम् अनुं च तत्र विधिवत् तत्-कर्णिका-मध्यगं
नित्यानन्द-चिति-प्रकाशम् अमृतं संचिन्तयेन् नाम तत् || क्र. दी. १.४२ ||
आत्मादि-त्रयम् आत्मान्तरात्मा परमात्मेति लक्ष्यम् | कीदृशम् ? आदि-बीज-सहितं स-बिन्दुं स्वीय-स्वीय-प्रथमाक्षर-रूप-बीज-सहितम् इति विद्याधराचार्याः | आदिः प्रणवस् तत्-सहितम् इति त्रिपाठिनः | व्योम ह-कारः | अग्निः रेफः | माया दीर्घः ईः | लवो बिन्दुः | एतैः सह ज्ञानात्मानं भुवनेश्वरी-बीज-सहितं हृत्-पद्मे न्यसेद् इति पूर्वेणान्वयः | तथा च आं आत्मने नमः | अं अन्तरात्मने नमः | पं परमात्मने नमः | ह्रीं ज्ञानात्मने नमः | इति हृदि विन्यसेत् | अथानन्तरं अष्ट-दिक्षु परितः प्रादक्षिण्येन मध्ये च कर्णिकायां नव-शक्तीर् विमलोत्कर्षिण्याद्या न्यस्येत् | पद्मस्य पूर्वादि-केसरेषु प्रादक्षिण्येन विमलायै नमः | उत्कर्षिण्यै नमः | ज्ञानायै नमः | क्रियायै नमः | योगायै नमः | प्रह्वयै नमः | सत्यायै नमः | ईशानायै नमः | कर्णिकायाम् अनुग्रहायै नमः | इति न्यसेत् | पीठ-मन्त्रं च तत्र न्यस्यः | एतस्योपरि वक्ष्यमाणं पीठ-मन्त्रं-ॐ नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-यौगपद्य-पीठात्मने नमः इति मन्त्रं न्यसेत् | तद् उक्त-रूपे पीठे विधिवद् गुरूपदिष्ट-मार्गेण तत् सर्वोपनिषत्-प्रसिद्धं धाम ब्रह्म-चैतन्यं चिन्तयेत् | कीदृशम् ? तत्-कर्णिका-मध्य-गं हृत्-पद्म-कर्णिका-मध्य-स्थम् इत्य् अर्थः | एतद्-ध्यानोपयोगि-रूपम् उक्तं स्वाभाविक-रूपम् आह | कीदृशम् ? नित्येति अविनाशि-चैतन्यं स्वतः-प्रकाश-स्वरूपम् | पुनः कीदृशम् ? अमृतं शुद्ध-स्वरूपम् इत्य् अर्थः | तत्राधार-शत्त्यादयः सर्वे मन्त्राः प्रणवादि-चतुर्थी नमो ऽन्ताः सम्प्रदायतो बोद्धव्याः || क्र. दी. वि. १.४२ ||
______________________________
पीठ-शक्तीर् दर्शयति-
विमलोत्कर्षणी ज्ञाना क्रिया योगेति शक्तयः |
प्रह्वी सत्या तथेशानाऽनुग्रा नवमी तथा || क्र. दी. १.४३ ||
विमलेति || क्र. दी. वि. १.४३ ||
______________________________
पीठ-मन्त्रम् उद्धरति-तारम् इत्य् आदिना |
एवं हृदयं भगवान् विष्णुः सर्वान्वितश् च भूतात्मा |
ङे ऽन्ताः स-वासुदेवाः सर्वात्म-युतं च संयोगं || क्र. दी. १.४४ ||
योगावधश् च पद्मं पीठात् ङे-युतो नतिश् चान्ते |
पीठ-महा-मनुर् व्यक्तः पर्याप्तो ऽयं सपर्यासु || क्र. दी. १.४५ ||
तारः प्रणवः | हृदयं नमः | भगवान् इति च विष्णुर् इति च सर्वान्वितः सर्व-पद-सहितः भूतात्मा सर्व-भूतात्मेति | एते त्रयः स-वासुदेवाः वासुदेवेन सह चत्वारः प्रत्येकं ङे ऽन्ताश् चतुर्थ्य्-अन्ताः कार्याः | सर्वात्म-युतश् च संयोगः सर्वात्म-संयोग इति स्वरूपं योगावधौ योग-शब्दान्ते पद्म-पद्मेति स्वरूपं ङे-युतः पीठात्मा चतुर्थ्य्-अन्तः पीठात्मा एतस्यान्ते नतिर् नमः-शब्दः | उपसंहरति पीठेति अयं पीठ-महा-मनुर् उक्तः कथितः | कीदृशः ? सपर्यासु पूजासु पर्याप्तः समर्थः || क्र. दी. वि. १.४४-४५ ||
सनातनः: तारः प्रणवः | ततो हृदयं नम इति पदम् | ततश् च भगवान् इति विष्णुर् इति च | सर्वान्वितः सर्व-शब्द-युक्तो भूतात्मा सर्व-भूतात्मेति | एते त्रयः स-वासुदेवा वासुदेव-सहिताः प्रत्येकं ङे ऽन्ताश् चतुर्थ्य्-अन्ताः | ततश् च सर्वात्मना युतं संयोगं सर्वात्म-संयोगम् इति नपुंसकत्वम् आर्षम् | ततश् च योगस्यावधौ अन्ते पद्मं योग-पद्मम् इति | तद्-अन्ते ङे-युक्तश् चतुर्थ्य्-अन्तः पीठात्मा | तद्-अन्ते च नतिः नमः-शब्दः | एवं ॐ नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-योग-पद्म-पीठात्मने नम इति सिद्धम् | तथा च शारदा-तिलके-
नमो भगवते ब्रूयाद् विष्णवे च पदं वदेत् |
सर्व-भूतात्मने वासुदेवायेति वदेत् ततः ||
सर्वात्म-संयोग-पदाद् योग-पद्म-पदं पुनः |
पीठात्मने हृद्-अन्तो ऽयं मन्त्रस् तारादिर् ईरितः || इति |
सनत्-कुमार-कल्पे च-
ॐ नमः पदम् आभाष्य तथा भगवते-पदम् |
वासुदेवाय इत्य् उक्त्वा सर्वात्मेति पदं तथा ||
संयोग-योगेत्य् उक्त्वा च तथा पीठात्मने पदम् |
वह्नि-पत्नी-समायुक्तः पीठ-मन्त्र इतीरितः || इति || [ह.भ.वि. ५.१४४-५]
______________________________
कर-शोधनं दर्शयति-करयोर् इत्य् आदिना |
करयोर् युगलं विधाय
मन्त्रात्मकमभ्यानभिराम्यमान-मार्गात् |
सकलं विदधीत मन्त्र-
वर्णैः परमं ज्योतिर् अनुत्तमं हरेस् तत् || क्र. दी. १.४६ ||
करयोर् युगलम् अभिधास्यमान-मार्गात् | व्यापय्येत्य् आरभ्य विधिः समीरितः करे इत्य् अन्तं वक्ष्यमाण-प्रकारेण मन्त्र-वर्णैर् मन्त्रात्मकं मन्त्र-स्वरूपं विधाय कृत्वा आभ्यां कराभ्यां सकलं पूर्वोक्तं वक्ष्यमाणं च न्यास-पूजादिकं विदधीत कुर्यात् | मन्त्र-वर्ण-करण-क-कार-शोधने हेतुम् आह-परमम् इत्य् आदिना | यस्मात् तन्-मन्त्र-वर्णं हरेः कृष्णस्य परमं तेजः-स्वरूपम् इत्य् अर्थः | कीदृशं ? पुनः अनुत्तमं नास्त्य् उत्तमं यस्मात् तथेत्य् अर्थः | सकलं विदधीतेति परत्रापि काकाक्षि-गोलक-न्यायेन योजनीयम् | तथा च तद् हृदय-पङ्कज-स्थं हरेर् अनुत्तमं ज्योतिस् तेजः सकलं विदधीत षड्-अङ्ग-न्यासेन सावयवं कुर्याद् इति लघु-दीपिका-कारः || क्र. दी. वि. १.४६ ||
इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायां प्रथमः पटलः ||१||
**************************************************************************
(२)
द्वितीय-पटलम्
करयोर् युगलं विधायेत्य् आदिना सूचितं मन्त्रम् उद्धर्तुम् आदौ गोपाल-मन्त्रेष्व् अपि मौलीभूतौ दशाक्षराष्टादशाक्षरौ प्रथमं संस्तौति-वक्ष्ये मनुम् इति |
वक्ष्ये मनुं त्रिभुवन-प्रथितात्म-भावम्
अक्षीण-पुण्य-निचयैर् मुनिभिर् विमृग्यम् |
पक्षीन्द्र-केतु-विषयं वसु-धर्म-काम-
मोक्ष-प्रदं सकल-कर्मणि कर्म-दक्षम् || क्र. दी. २.१ ||
मन्त्रं वक्ष्ये उद्धरिष्यामि | कीदृशं ? त्रिभुवनेति त्रिभुवने त्रैलोक्ये प्रथितः ख्यातो ऽनुभावः प्रभावो यस्य तथा तम् | पुनः कीदृशं ? मुनिभिर् मुमुक्षुभिर् विमृग्यम् अन्वेषणीयम् | किम्भूतैर् मुनिभिः ? अक्षीणेति अक्षीणः स-पूर्णः पुण्य-निचयः सुकृत-समूहो येषां तथा तैः | पुनः कीदृशम् ? पक्षीति पक्षीन्द्रो गरुडः स एव केतुः चिह्नं यस्य स पक्षीन्द्र-केतुः श्री-कृष्णः तद्-विषयं तत्-प्रतिपादकम् | पुनः कीदृशम् ? वस्त्व् इति वसु धनं तथा च पुरुषार्थ-चतुष्टय-प्रदम् इत्य् अर्थः | पुनः कीदृशम् ? सकलेति अशेष-वश्य-कर्म-कुशलम् || क्र. दी. वि. २.१ ||
______________________________
अतिगुह्यम् अबोध-तूल-राशि-
ज्वलनं वाग्-आधिपत्य-दं नराणाम् |
दुरितापहरं विषापमृत्यु-
ग्रह-रोगादि-निवारणैक-हेतुम् || क्र. दी. २.२ ||
पुनः कीदृशम् ? अतिगुह्यम् | पुनः कीदृशम् ? अबोधेति अबोधो मिथ्या-ज्ञान-रूपः स एव तूल-प्रचयः | तत्र ज्वलनो वह्निर् इव तं समस्ताज्ञान-नाशकम् इत्य् अर्थः ? पुनः कीदृशम् ? नराणां साधकानां वाग्-अधिपत्य-दं वागैश्वर्य-प्रदम् | पुनः कीदृशम् ? दुरितापहरं दुःख-प्रापकानिष्ट-निवारकम् | पुनः कीदृशम् ? विषं स्थावरं जङ्गमं च अपमृत्युर् अकाल-मरणं ग्रहो नव-ग्रह-जनितानिष्टं रोगो वात-पित्तादि-जनित-शरीर-दौस्थ्यम् एवम् आदीनाम् अशुभादीनां निवारणे एको ऽद्वितीयो हेतुः कारणम् || क्र. दी. वि. २.२ ||
______________________________
जयदं प्रधने ऽभयदं विपिने
सलिल-प्लवने सुख-तारणदम् |
नर-सप्ति-रथ-द्विप-वृद्धि-करं
सुत-गो-धरणी-धन-धान्य-करम् || क्र. दी. २.३ ||
पुनः कीदृशम् ? प्रधने संग्रामे जयदम् | विपिने ऽभयदं भय-हरम् | सलिल-प्लवने तोयम् अन्तरणे सुख-सन्तरण-दातारं सप्तिर् हयः तथा च मनुष्याणाहयरथ-द्विपादीनाम् उपचय-करं तथा सुतादि-प्रदम् || क्र. दी. वि. २.३ ||
______________________________
बल-वीर्य-शौर्य-निचय-प्रतिभा-
स्वर-वर्ण-कान्ति-सुभगत्व-करम् |
ब्रह्माण्ड-कोटि-मणिम् आदि-गुणा-
ष्टकदं किम् अत्र बहुनाखिल-दम् || क्र. दी. २.४ ||
बलं शरीर-सामर्थ्यं वीर्यं शुक्रं प्रभावो वा, शौर्यं पराभिभावकं तेजः, एतेषां निचयः समूहः | प्रतिभा बुद्धिः स्फूर्ति-रूपा स्वरो ध्वनिः | वर्णो गौरत्वादिः | कान्तिर् दीप्तिः प्रतिभा-स्वर-वर्ण-कान्तिर् इत्य् एकपदं तथा च प्रतिभा-स्वर-वर्ण-कान्तिर् देदीप्यमान-वर्ण-शोभेति कश्चित् सुभगत्वं समस्त-लोकादरकत्वम् एतेषां कर्तारं दातारम् इत्य् अर्थः | पुनः क्षुभिता समोहिताण्ड-कोटिर् ब्रह्माण्ड-कोटिर् येन तथा तं संसार-मोहकम् इत्य् अर्थः | पुनः अणिमादि-गुणाष्टक-दम् अणिम-लघिम-गरिम-महिमेशित्व-वशित्व-प्राकाम्य-प्राप्त्य्-आख्य-गुणाष्टक-प्रदम् इत्य् अर्थः | पुनः किं बहुना, अत्र जगति अखिलदं समस्ताभीष्ट-प्रदम् इत्य् अर्थः || क्र. दी. वि. २.४ ||
______________________________
अथ दशाक्षर-मन्त्र-राजम् उद्धरति-शार्ङ्गीत्य् आदिना |
शार्ङ्गी सो ऽतुर-दन्तः परो रामाक्षि-युक् द्वितीयार्णम् |
शूली सौरिर् बालो बलानुज-द्वयम् अथाक्षर-चतुष्टयम् || क्र. दी. २.५ ||
शूर-तुरीयः सानन आवृत्तः स्यात् सुशोभो ऽष्तमो ऽग्नि-सखः |
तद्-दयिताक्षर-युग्मं तद्-उपरिगस् त्व् एवम् उद्धरेन् मन्त्रम् || क्र. दी. २.६ ||
शार्ङ्गी ग-कारः कीदृशो ऽयं सोत्तरदन्त उत्तर-दन्त-पङ्क्तौ न्यस्यमानः उत्तर-दन्त ओ-कारस् तेन सहित एतेन प्रथमाक्षरम् उद्धृतः | शूरः प-कारः | कीदृशो ऽयं वामाक्षि-युक् वामाक्षि चतुर्थ-स्वरः तेन सहित एतेन द्वितीयाक्षरम् उद्धृतम् अक्षर-चतुष्कं क्रमेण पुनः कथ्यते शूली ज-कारः बालो ब-कारः बलानुज-द्वयं संयुक्त-ल-कार-द्वयं ल्ल इति स्वरूपम् इत्य् अक्षर-चतुष्कम् उद्धृतम् शूर-तुरीयः शूरस्य प-कारस्य चतुर्थः | कीदृशो ऽयं सानन-वृत्तः आनन-वृत्तेनाकारेण सह वर्तते इति सानन-वृत्तः अयं च सप्तमः स्याद् मन्त्रस्य सप्तमो भवतीत्य् अर्थः | अष्टमो ऽग्नि-सखो वायुः य-कार इति यावत् | तथा च मन्त्रस्याष्टमो वर्णो य इति बोद्धव्यः | तद्-उपरिगं पूर्वोक्त-वर्णानन्तर्य्-विशिष्टं तद्-दयिताक्षर-युगलं स्वाहेति स्वरूपम् इत्य् अक्षर-द्वयम् उद्धृतम् || क्र. दी. वि. २.५-६ ||
______________________________
प्रकाशित इति-
प्रकाशितो दशाक्षरो मनुस् त्व् अयं मधु-द्विषः |
विशेषतः पदारविन्द-युग्मं भक्ति-वर्धनः || क्र. दी. २.७ ||
मधुद्विषः श्री-गोपाल-कस्यायं दशाक्षरो मन्त्र उद्धृतः | कीदृशो विशेषतो विशेषेण पदारविन्द-युग्म-भक्ति-वर्धनः श्री-गोपाल-कृष्ण-चरणाब्ज-युगले या भक्तिर् आराध्यत्वेन ज्ञानं तत् समृद्धिकारक इत्य् अर्थः || क्र. दी. वि. २.७ ||
______________________________
मन्त्रस्य ऋष्य्-आदिकं दर्शयति-नारद इति |
नारदो मुनिर् अमुष्य कीर्तितश्
छन्द उक्तम् ऋषिभिर् विराड् इति |
देवता-सकल-लोक-मङ्गलो
नन्द-गोप-तनयः समीरितह् || क्र. दी. २.८ ||
अमुष्य पूर्वोक्त-मन्त्रस्य मुनिः ऋषिर् नारदः कीर्तितः कथितः | ऋषिभिर् गौतमादिभिर् विराट्-छन्द उक्तम् | देवता नन-गोप-तनयः श्री-गोपाल-कृष्ण उक्तः | कीदृशः ? सकल-लोक-मङ्गलः सर्व-जन-कल्याण-हेतुः | एतेन ऋष्य्-आदीनां शिरसि रसनायां हृदि क्रमेण न्यासः कार्य इति सूचितं प्रपञ्च-सारे | तथा विधानात् प्रयोगश् च दशाक्षर-गोपाल-मन्त्रस्य नारद-ऋसये नमः शिरसि | विराट्-छन्दसे नमो मुखे | श्री-गोपाल-कृष्णाय देवतायै नमः हृदि इत्य् एवम्भूतः | अस्य मन्त्रस्य नारद-ऋषिः | एवं छन्दो-देवतयोर् अपि योज्यम् इति केचित् || क्र. दी. वि. २.८ ||
______________________________
अधुनास्य मन्त्रस्य पञ्चाङ्गानि दर्शयति-अङ्गानीत्य् आदिना-
अङ्गानि पञ्च हुत-भुग् दयिता-समेतैश्
चक्रैर् अमुष्य मुख-वृत्त-विषूपपन्नैः |
त्रैलोक्य-रक्षण-युजाप्य् असुरान्तकाख्य-
पूर्वेण चेह कथितानि विभक्ति-युक्तैः || क्र. दी. २.९ ||
हृदये नतिः शिरसि पावक-प्रिया
स-वषट्-शिखाहुम् इति वर्मणि स्थितम् |
स-फड्-अस्त्रम् इत्य् उदितम् अङ्ग-पञ्चकं
स-चतुर्थि-वौषड्-उदितं दृशोर् यदि || क्र. दी. २.१० ||
अमुष्य इह शास्त्रे अङ्गानि पञ्च कथितानि | कानि तानि ? तत्राह हृदये नतिर् इति | हृदये नतिर् नमः-पदं शिरसि पावक-प्रिया स्वाहेति स-वषट् वषट्-पद-सहिता शिखेत्य् अर्थः | हुम् अपि वर्मणि स्थितं वर्मणि कवचे हुम् अपि पदं स्थितम् इत्य् अर्थः | स-फड् अस्त्रं फट्-पद-सहितम् अस्त्रम् इत्य् अर्थः | इत्य् अनेन प्रकारेण स-चतुर्थि यथा स्यात् तथैवम् अङ्ग-पञ्चकम् उदितं कथितं चतुर्थ्या च हृदयादीनां योगः कार्यः | कैः सह चक्रैश् चक्र-शब्दैः | कीदृशैः ? मुख-वृत्त-विसूपपन्नैर् मुख-वृत्तम् आ-कारः वि इति सु इति स्वरूपम् एतैः प्रत्येकम् उपपन्नैः सम्बद्धईह् त्रैलोक्य-रक्षण-युजापि त्रैलोक्य-रक्षणं युनक्तीति तद्-युग् एतादृशेन चक्रेण अपि-शब्दाच् चक्रैर् इति विभिद्यान्वयः कार्यः | तथा च चक्रेणेति असुरान्तकाख्य-पूर्वेण चक्रेणेत्य् अर्थः | च समुच्चये | पुनः कीदृशैः विभक्ति-युक्तैः ? चतुर्थी-युक्तैस् तस्या एव प्रकृतत्वाद् एतस्यापि पदस्य विभिद्यान्वयः कार्यः दृशोर् यदि इति यदि क्वचिन् मन्त्रे दृशोर् न्यासो ऽस्ति तदा तत्र वौषड् इति उदितं कथितम् |
अत्र ज्वाला-चक्रायेत्य् अपि योज्यम् इति लघु-दीपिका-कारः | प्रयोगश् च-आचक्राय स्वाहा हृदयाय नमः | वि-चक्राय स्वाहा शिरसे स्वाहा सु-चक्राय स्वाहा शिखायै वषट् | त्रैलोक्य-रक्षण-चक्राय स्वाहा कवचाय हुं | ज्वाला-चक्राय स्वाहा नेत्र-द्वयाय वौषट् असुरान्तक-चक्राय स्वाहा अस्त्राय फड् इति अङ्गुलीष्व् अङ्ग-मन्त्र-न्यासे तु तत्-तद्-अङ्ग-मन्त्रान्ते अङ्गुष्ठाभ्यां नमः तर्जनीभ्यां स्वाहा इत्य् आदि योज्यम् | आगमान्तरे ह्रीं अङ्गुष्ठाभ्यां नमः ह्रीं तर्जनीभ्यां स्वाहा | तत इत्य् आदि-दर्शनात् तेनाङ्गुष्ठादिषु हृदयाय नमः इत्य् आदि-प्रयोगाश् चिन्त्याः | असमवेतार्थकत्वाद् मानाभावाच् चेति केचित् | अन्ये तु यथा-श्रुताङ्ग-मन्त्रस्यैव न्यासैर् अङ्गुलीष्व् अतिदेशान् आहुर् आच्यार्याः || क्र. दी. वि. २.९-१० ||
______________________________
दशाङ्गानि दर्शयति-
मन्त्रार्णैर् दशभिर् उपेत-चन्द्र-खण्डैर्
अङ्गानां दशकम् उदीरितं नमो ऽन्तम् |
हृद्-छीर्षं तद्-अनु शिखातनुत्र-मन्त्रं
पार्श्व-द्वन्द्व-सकटि-पृष्ठम्-मूर्ध-युक्तम् || क्र. दी. २.११ ||
मन्त्रार्णैर् मन्त्राक्षरिर् नमो ऽन्तं यथा स्याद् एवम् अङ्गानां दशकम् उदीरितं कथितं कीदृशैर् उपेत-चन्द्र-खण्डैः सानुस्वारैः स्थानान्य् आहुः-हृदयं शीर्षं मस्तकं तत्-पश्चात् शिखा प्रसिद्धा तनुत्रं कवचं अस्त्रं दश-दिक्षु पार्श्व-युगल-कटि-पृष्ठ-मूर्ध-सहितं पूर्वोक्तम् इत्य् अर्थः | कटिर् नाभेर् अध इति त्रिपाठिनः | प्रयोगस् तु ग्ॐ हृदयाय नम इति पीं शिरसे स्वाहा इत्य् आदि || क्र. दी. वि. २.११ ||
______________________________
अधुनास्य मन्त्रस्य बीज-शक्त्य्-अधिष्ठातृ-देवता-प्रकृति-विनियोगान् दर्शयति वक्ष्य इत्य् आदिना |
वक्ष्ये मन्त्रस्यास्य बीजं च शक्ति-
चक्री शक्री वाम-नेत्र-प्रदीप्तः |
स-प्रद्युम्नो बीजम् एतत्-प्रदिष्टं
मन्त्र-प्राद्युम्नो जगन्-मोहनो ऽयम् || क्र. दी. २.१२ ||
अस्य मन्त्रस्य पूर्वोक्तस्य स-शक्ति-शक्त्य्-आदि-सहितं बीजं वक्ष्ये बीजम् आह-चक्रीति क-कारः | कीदृशो ऽयं शक्री शक्रो ल-कारः तद्-युक्तः | पुनः कीदृशः ? वाम-नेत्र-प्रदीप्तः वाम-नेत्रं चतुर्थ-स्वरस् तत्-सहितः | पुनः कीदृशः ? स-प्रद्युम्नः प्रद्युम्नो बिन्दुः तत्-सहितः तथा चक्रीम् इति सिद्धं भवति | एतद् अस्य बीजं प्रदिष्टं कथितम् | अयम् एव प्राद्युम्नो मन्त्र इत्य् अर्थः | किम्भूतः ? जगन्-मोहनो विश्व-वश्य-करः || क्र. दी. वि. २.१२ ||
______________________________
शक्तिम् आह-हंस इति |
हंसो मेदो वक्र-वृत्ताभ्युपेतः
पोत्री नेत्राद्य्-अन्वितो ऽसौ युगार्णा |
प्रोक्ता शक्तिः सर्व-गीर्-वाण-वृन्दैर्
वन्दस्याग्नेर् वल्लभा काम-देयम् || क्र. दी. २.१३ ||
हंसः स-कारः | किम्भूतः ? मेदो व-कारः वक्त्र-वृत्तम् आ-कारः आभ्याम् उपेतः सम्बद्धः तथा पौत्री ह-कारः | किम्भूतः ? नेत्रादिर् आकारस् तेनान्वितः | तथा च स्वाहेति सिद्धम् असौ युगार्णो वर्ण-द्वयात्मिका शक्तिः प्रोक्ता तथेयं वह्नेर् वल्लभा किम्भूता कामदा आकाङ्क्षित-प्रदा | कथम्भूतस्य वह्नेर् गीर्वाण-वृन्दैर् वन्द्यस्य सर्वदेव-समूहैः पूज्यस्य || क्र. दी. वि. २.१३ ||
______________________________
विनियोगम् आह-विनियोग इति |
विन्योगस्य मन्त्रस्य पुरुषार्थ-चतुष्टये |
कृष्णं प्रकृतिर् इत्य् उक्तो दुर्गाधिष्ठातृ-देवता || क्र. दी. २.१४ ||
अस्य मन्त्रस्य पुरुषार्थ-चतुष्टय-साधनाय विनियोग इत्य् अर्थः | प्रकृतिर् मूल-कारणं मन्त्रोत्पादकः मन्त्र-स्वरूप इत्य् अर्थः | अधिष्ठातृ-देवताम् आह-दुर्गाधिष्ठातृ-देवतेति || क्र. दी. वि. २.१४ ||
______________________________
मन्त्रार्थम् आह-गोपायतीत्य् आदिना |
गोपायेति सकलम् इदं गोपायति परं पुमांसम् इति गोपी |
प्रकृतेस् तस्या जातं जन इति नदादिकं पृथिव्य्-अन्तम् || क्र. दी. २.१५ ||
इदं सकलं नाम-रूपाभ्यां व्याकृतं जगद् गोपायति रक्षति तत्-कारणत्वात् स्वार्थे आयः | तथा परं पुमांसं नित्य-शुद्ध-बुद्धम् उक्तानन्दाद्वयात्मकं ब्रह्म-स्वरूपं गोपायति गुप् गोपन-कुत्सनयोः अज्ञातत्वेन विषयीकरोतीति व्युत्पत्त्या महद्-आदि-पृथिव्य्-अन्तं महत्-तत्त्वादि-पृथिवी-पर्यन्तं सकलं कार्य-जातं जन उच्यते || क्र. दी. वि. २.१५ ||
______________________________
अनयोर् गोपी-जनयोः समीरणाद् आश्रितो व्याप्त्या |
वल्लभ इत्य् उपदिष्टं सान्द्रानन्दं निरञ्जनं ज्योतिः || क्र. दी. २.१६ ||
स्वाहेत्य् आत्मानं गमयामीत्य् अतेजसे तस्मै |
यः कार्य-कारणेशः परमात्मेत्य् अच्युतैकतास्य मनोः || क्र. दी. २.१७ ||
अनयोः गोपी-जनयोर् अविद्या तत्-कार्ययोः समीरणाद् अन्तर्यामित्वेन स्वस्य कार्ये प्रेरणाद् नियमनादि इति यावद् आश्रयत्वतो अधिष्ठातृत्वेन व्याप्त्या व्यापकत्वेन वल्लभः स्वामीत्य् उपदिष्टं कथितम् | परं ज्योतिर् ब्रह्म-चैतन्यम् | कीदृशं ज्योतिः ? सान्द्रानन्द-निरतिशयानन्दैक-स्वरूपम् | पुनः कीदृशं ? निरञ्जनं माया-कालुष्य-रहितं स्वाहेति तस्मै स्व-तेजसे स्व-प्रकाश-चिद्-रूपाय परमात्मने स्वात्मानं जीवैक-स्वरूपं गमयामि समर्पयामि तद्-आत्मकतां प्रापयामीति स्वाहा-शब्दार्थः | प्रथम इति-शब्दः स्वाहा-शब्दोपस्थापकः | द्वितीयस् तु प्रकार-प्रदर्शकः | तस्मै कस्मै तत्राह-य इति | यः कार्य-कारणयोर् जन-प्रकृत्योर् ईशः स्वामी अधिष्ठाता तथा परमात्मा निरुपाधि-चैतन्यत्वाच् चेत्य् अनेन प्रकारेणास्योपासकस्याच्युतैकताच्युतेन सहाभिन्नता भवति || क्र. दी. वि. २.१६-१७ ||
______________________________
प्रकारान्तरेणार्थम् आह-अथवेति |
अथवा गोपीजन इति समस्त-जगद्-वन-शक्ति-समुदायः |
तस्य स्वानन्यस्य स्वामी वल्लभ इति ह निर्दिष्टः || क्र. दी. २.१८ ||
अथवा गोपीजन इति शब्देन सकल-विश्व-रक्षण-शक्ति-समुदायः कथ्यते | तत्र गोपी-पदेन शक्तिर् उच्यते | जन-पदेन तस्याः समूहः | तस्य शक्ति-समूहस्य स्वानन्यस्य स्वाभिन्नस्य शक्ति-शक्तिमतोर् अभेद-विवक्षया स्वामी नियन्ता आश्रयो वल्लभ इति हस्य स्फुटं निर्दिष्ट उदित इत्य् अर्थः | स्वाहा-शब्दार्थस् तु पूर्वोक्त एव बोद्धव्यः | लघु-दीपिका-कारस् तु-अवन-शक्ति-समुदायः अवनं स्थितिः तत्र कारण-भूतानां शक्तीनां समुदायः समूहः जगत्-पालिन्य्-आदि-गणः | उक्तं च महद्भिः जगत्-पालिनीत्य् आद्याः प्रोक्तास् ताः स्थितये कला इति तस्य स्वामी नायक इत्य् अर्थः || क्र. दी. वि. २.१८ ||
______________________________
प्रकारान्तरेणार्थम् आह-अथवेति |
अथवा व्रज-युवतीनां दयिताय जुहोमि मां मदीयम्
अपीत्य् अर्पयेत् समस्तं ब्रह्मणि सुगणे समस्त-सम्पत्त्यै || क्र. दी. २.१९ ||
गोपी-जनो गोपाङ्गना-जनस् तस्य वल्लभो निरतिशय-प्रेम-विषयः तस्मै व्रज-युवतीनां गोप-रमणीनां दयिताय हृदयानन्द-दायिने स्वाहा जुहोमि | किं मां स्वात्मानं मदीयम् अपि आत्मीय-सुहृद्-आदिकम् अपि इत्य् अनेन प्रकारेण स-गुणे ब्रह्मणि संसार-प्रवर्तके परमेश्वरेश्वरे सर्वं समर्पयेत् | किम् अर्थम् ? समस्त-सम्पत्त्यै सर्वैश्वर्याय || क्र. दी. वि. २.१९ ||
______________________________
अष्टादशाक्षर-मन्त्रोद्धाराय तद्-अन्तर्भूतौ कृष्ण-गोविन्द-शब्दौ प्रथमतो विविच्य दर्शयति-कृष्-शब्द इति |
कृष्-शब्दः सत्तार्थो
णश् चानन्दात्मकस् ततः कृष्णः |
भक्ताघ-कर्षणाद् अपि
तद्-वर्णत्वाच् च मन्त्र-मय-वपुषः || क्र. दी. २.२० ||
गो-शब्द-वाचकत्वाज् ज्ञानं
तेनोपलभ्यते गोविन्दः |
वेत्तीति शब्द-राशिं गोविन्दो
गो-विचारनाद् अपि च || क्र. दी. २.२१ ||
कृष्-शब्दः सत्तार्थः | तत्र शक्तः | कृष् सत्तायाम् इत्य् अत्र क्विब्-अन्तः सत्ता-वाचक इति काश्चित् | कृट् णश् च ण-कारश् च आनन्दात्मक आनन्द-वाची | नन्द आनन्द इति धातोर् एक-देश-ग्रहणाद् इति कश्चित् | ततो द्वन्द्वे कृते ऽत्रादर्शं आद्यचि-कृते च कृष्णः सद्-आनन्द इत्य् अर्थः | प्रकारान्तरेण कृष्ण-शब्दं व्युत्पादयति भक्तेति भक्तानाम् अघ-कर्षणात् पाप-परिमार्जनात् कृष्ण इत्य् अर्थः | भक्तादि-कर्षणाद् इति पाठे आदि-शब्देनाभक्त-ग्रहणं भक्तस्य कर्षणं स्व-स्थान-नयनम् अभक्तस्य कर्षणं नरक-नयनम् इत्य् अर्थः | प्रकारान्तरेण व्युत्पत्तिम् आह-तद्-वर्णेति | कृष्ण-वर्ण-शरीरत्वात् कृष्णः मन्त्रमय-शरीरस्य वाच्य-वाचकयोर् अभेदेन विवक्षया | गो इत्य् आदि | गौर् ज्ञानं गो-शब्दस्य वाचकत्वात् ज्ञान-वाचकत्वात् तेन ज्ञानेनोपलभ्यते प्राप्यते ज्ञायते इति गोविन्दः | विद् लाभे इत्य् अस्य धातोः प्रकारान्तरम् आह-वेत्तीति | गो-शब्दः शब्द-वाची | विद् ज्ञाने धातुः | गां शब्द-राशिं शब्द-समुदायं मातृकां वेत्तीति गोविन्दः | प्रकारान्तरम् आह-गो-विचारणाद् गो-शब्द-विचारणाद् गोविन्दः | अथवा गाव इन्द्रियाणि तेषां विचारणाद् विशेषेषु प्रति-नियत-विषयेषु प्रवर्तनाद् गोविन्दः | अथवा गावः पशु-विशेषा इति | तथा च श्रुतिः-पशवो दिव्-पादश् चतुष्पादश् च इति | तेषां विशेषेषु पुण्य-पापेषु चारणात् प्रवर्तनाद् गोविन्दः | अथवा, गावः पशु-विशेषाः तेषां रक्षनाद् गोविन्दः | अपि-शब्दश् चार्थे || क्र. दी. वि. २.२०-२१ ||
______________________________
इदानीं मन्त्रम् उद्धरति-
एते ऽभिख्ये ऽनुक्रमतस् तूर्य-विभक्त्या
मन्त्रात् पूर्वं मन्मथ-बीजाद् अथ पश्चात् |
स्यातां चेद् अष्टादश-वर्णो मनु-वर्यो
गुह्याद् गुह्यो वाञ्छित-चिन्तामणिर् एषः || क्र. दी. २.२२ ||
एते अभिख्ये नामनी कृष्ण-गोविन्दाख्ये अनुक्रमेण तुर्य-विभक्त्या प्रत्येकं चतुर्थी-विभक्त्या सह मन्त्रात् पूर्वोक्त-दशाक्षर-गोपाल-मन्त्राद् आदौ मन्मथ-बीजात् पश्चात् काम-बीजानन्तरम् अथ चेद् यदि स्यातां भवतः तदा एषो ऽष्टादशार्णो मन्त्र-श्रेष्ठो भवति | एतस्य बलाद् एव दशाक्षरे ऽपि काम-बीज-साहित्यं केचिद् इच्छन्ति | कीदृशः ? गुह्याद् गुह्यः | गुह्याद् अपि गुह्यः | पुनः कीदृशः ? वाञ्छितस्य चिन्ता-मात्रेणाभीष्ट-प्रद इत्य् अर्थः || क्र. दी. वि. २.२२ ||
______________________________
ऋष्य्-आदिकम् अप्य् आह-पूर्वेति |
पूर्व-प्रदिष्टे मुनि-देवते ऽस्य छन्दस् तु गायत्रम् उशन्ति सन्तः |
अङ्गानि मन्त्रार्ण-चतुष्कैर् वर्मावसानानि युगार्णम् अस्त्रम् || क्र. दी. २.२३ ||
अस्य मन्त्रस्य पूर्व-प्रदिष्टे प्रथम-मन्त्र-सम्बन्धितया कथिते मुनि-देवते बोद्धव्ये | पुनः सन्तो गायत्र-छन्द उशन्ति वदन्ति | अङ्गानीति मन्त्रार्ण-चतुश् चतुष्कैर् मन्त्र-सम्बन्धि-वर्णानां चतुर्भिश् चतुर्भिर् अक्षरैः कृत्वा षोडशाक्षरैर् वर्मावसानानि कवचान्तानि चत्वार्य् अङ्गानि भवन्ति | अवशिष्टं युगार्णम् वर्ण-द्वयम् अस्त्राख्यम् अङ्गं भवति | प्रयोगश् च-क्लीं कृष्णाय हृदयाय नमः गोविन्दाय शिरसे स्वाहा, गोपी-जन-शिखायै वषट्, वल्लभाय कवचाय हुं, स्वाहा अस्त्राय फट् || क्र. दी. वि. २.२३ ||
______________________________
बीजादिकम् आह-बीजम् इति |
बीजं शक्तिः प्रकृतिर् विनियोगश् चापि पूर्ववद् अमुष्य |
पूर्वतरस्य मनोरथं कथयामि न्यासम् अखिल-सिद्धि-करम् || क्र. दी. २.२४ ||
अमुष्यास्य मन्त्रस्य बीजं शक्तिः प्रकृतिर् विनियोगः पूर्व-मन्त्रे यानि बीजादीनि कथितानि तान्य् अत्रापि ज्ञातव्यानीत्य् अर्थः | पूर्वतरस्येति अथानन्तरं पूर्वतरस्य मनोर् दशाक्षर-गोपाल-मन्त्रस्याखिल-सिद्धि-करं समस्त-सिद्धि-दायकं न्यासं कथयामीति प्रतिज्ञा || क्र. दी. वि. २.२४ ||
______________________________
अधुना न्यास-क्रमं दशार्णस्य कथयति-व्यापय्येति |
व्यापय्यार्थो हस्तयोर् मन्त्रम्
अन्तर् बाह्ये पार्श्वे तार-रुद्धं बुधेन |
न्यासो वर्णैस् तार-युग्मान्तरस्थैर्
बिन्दूत्तंसैर् हार्द-हृद्यैर् विधेयः || क्र. दी. २.२५ ||
अथो ऽनन्तरं बुधेन पण्डितेन वर्णैर् मूल-मन्त्राक्षरैर् न्यासो विधेयः कार्यः | किं कृत्वा ? मूल-मन्त्रं हस्तयोर् अन्तर् मध्ये तथा हस्तयोर् एव बाह्ये पृष्ठे तथा हस्तयोर् एव पार्श्वे व्यापय्य व्यापकतया विन्यस्येत्य् अर्थः | कीदृशं मन्त्रम् ? तार-रुद्धं प्रणव-पुटितम् | कीदृशैः वर्णैः तार-युग्मान्तरस्थैः प्रणव-द्वय-मध्य-गतैः | पुनः कीदृशैः ? बिन्दूत्तंसैर् बिन्दुः शिरो ऽलङ्कारो येषां ते तथा सानुस्वारैर् इत्य् अर्थः | पुनः कीदृशैः ? हार्द-हृद्यैर् हार्देन नमः-पदेन हृद्यैर् मनोज्ञैः सहितैर् इत्य् अर्थः | प्रयोगश् च-ॐ ग्ॐ ॐ नमः दक्षाङ्गुष्ठ-पर्व-त्रये ॐ पीं ॐ नमः तर्जन्याम् इत्य् आदि | ॐ ल्लं ॐ नमो वाम-कनिष्ठिकायाम् इत्य् आदि || क्र. दी. वि. २.२५ ||
______________________________
उक्त-वर्ण-न्यास-स्थानम् आह-शाखास्व् इत्य् आदिना |
शाखासु त्रीणि पर्वाण्य् अधि दशसु पृथग्-दक्षिणाङ्गुष्ठ-पूर्वं
वामाङ्गष्ठावसानं न्यसतु विमल-धीः सृष्टिर् उक्ता करस्था |
अङ्गुष्ठ-द्वन्द्व-पूर्वा स्थितिर् उभय-करे संहृतिर् वाम-पूर्वा
दक्षाङ्गुष्ठान्तिकैतत् त्रयम् अपि सृजति स्थित्य्-उपेतं च कार्यम् || क्र. दी. २.२६ ||
दशसु शाखासु अङ्गुलीषु पृथक् कृत्वैकं त्रीणि पर्वाणि अधि पर्व-त्रयं व्याप्य, त्रिपाठिनस् तु त्रीणि पर्वाणि इति पर्व-त्रये अधीति उपरि अङ्गुल्य्-अग्रे च पृथग् एकैकशः | तथा च प्रथम-पर्वणि ॐ द्वितीये ॐ तृतीये ॐ अङ्गुल्य्-अग्रे नमः इति एवम् अन्यत्रापीत्य् आहुः | दक्षिणाङ्गुष्ठ-पूर्वं प्रथम-न्यासादौ यथा स्यात् तथा वामाङ्गष्ठावसानं वामाङ्गष्ठो ऽवसाने न्यासान्ते यथा स्याद् एवं विशद-धीर् विमल-बुद्धीर् न्यसतु | एवं च करस्था सृष्टिर् उक्ता करे सृष्टि-न्यास-प्रकार उक्त इत्य् अर्थः | अङ्गुष्ठ-द्वन्द्व-पूर्वा स्थितिर् उभय-करे हस्त-द्वये दक्षिण-करे ऽङ्गुष्ठादिक-निष्ठासु विन्यस्य वाम-करे ऽप्य् अङ्गुष्ठादिक-निष्ठास्व् अङ्गुलिषु न्यसेद् अयं स्थिति-न्यास उक्तः | संहृतिर् वाम-पूर्वा दक्षेति संहृतिः संहारः वामाङ्गुष्ठ-पूर्वा दक्षिणाङ्गुष्ठावसाना अयं च संहार-न्यास उक्तः | एतत् त्रयम् अपि सृष्टि-स्थिति-संहारात्मकं त्रयम् अपि सृजति स्थित्य्-उपेतं कार्यं च सृष्ट्य्-आदि-न्यास-पञ्चकं कार्यम् इत्य् अर्थः || क्र. दी. वि. २.२६ ||
______________________________
तत इति |
ततः स्थिति-क्रमाद् बुधो दशाङ्गकानि विन्यसेत् |
तद्-अङ्ग-पञ्चकं तथा विधिः समीरितः करे || क्र. दी. २.२७ ||
ततस् तद्-अनन्तरं स्थिति-क्रमात् स्थिति-न्यास-क्रमेण दशस्व् अङ्गुलीषु बुधः पण्डितः दशाङ्गकानि पूर्वोक्त-मन्त्र-दशाङ्गानि विन्यसेत् | तद्-अङ्ग-पञ्चकं तथेति तथा तेन प्रकारेण स्थिति-क्रमेण तद्-अङ्ग-पञ्चकं पुर्वोक्त-पञ्चकं पूर्वोक्ताङ्ग-पञ्चकं दशसु अङ्गुलीषु विन्यसेत् | कर-न्यास-जातम् उपसंहरति विधिर् इति | एवं चायं विधिः प्रकारः करे हस्त-द्वये समीरितः कथित इत्य् अर्थः || क्र. दी. वि. २.२७ ||
______________________________
मातृका-न्यास-विशेषं दर्शयन् तत्त्व-न्यासं च क्रमेणाह-पुटितैर् इति |
पुटितैर् मनुनाथ मातृआर्णैर्
अभिविन्यस्य स-बिन्दुभिः पुरोवत् |
अणु-संहृति-सृष्टि-मार्ग-भेदाद्
दश-तत्त्व्वानि च मन्त्र-वर्ण-भाञ्जि || क्र. दी. २.२८ ||
अथान्तर-मनुना दशार्णेन पुटितैर् मातृकाक्षरैः स-बिन्दुभिः सानुस्वारैः पुरोवत् पूर्ववद् यथा पूर्वं ललाटादिषु न्यास एवम् अभिविन्यस्य अनु पश्चान् मातृका-न्यास-विशेष-करणानन्तरं वक्ष्यमाणानि दश-तत्त्वानि विन्यसेत् | कीदृशानि मन्त्र-वर्ण-भाञ्जि मन्त्राक्षर-युक्तानि | कथं दश-तत्त्वानि विन्यसेत् ? तत्राह-संहृति-सृष्टि-मार्ग-भेदात् प्रथमं संहार-क्रमेण तद्-अनन्तरं सृष्टि-क्रमेणेत्य् अर्थः || क्र. दी. वि. २.२८ ||
______________________________
संहार-सृष्टि-प्रकारं दर्शयति-संहृताव् इति |
संहृतावन-गतो मनु-वर्यः
सृष्टि-वर्त्मनि भवेत् प्रतियातः |
उद्धृतिः खलु पुरोक्तवद् एषां
न्यास-कर्म कथयाम्य् अधुनाहम् || क्र. दी. २.२९ ||
असौ मनु-वर्यः मनु-श्रेष्ठः संहृतौ संहार-न्यासे अनुगतो यथैवास्ति तथैव सृष्टि-मार्गे सृष्टि-कर-न्यासे प्रतियातो भवेत् तद्-विपरीतो भवेत् | उद्धार-प्रकारम् आह-उद्धृतिर् इति | एषां तत्त्वानां खलु निश्चयेन उद्धृतिर् उद्धारः पूर्वोक्तवद् यथा पूर्वम् उक्त-तत्त्व-न्यासे | नत्य्-उपेतं भूयः पराय च तद्-आह्वयम् आत्मने च नत्य्-अन्तम् उद्धरतु तत्त्व-मनून् क्रमेण इति प्रकारेणेत्य् अर्थः | अधुना न्यासं कथयामीति साम्प्रतं न्यास-सम्बन्धि-तत्त्व-नाम-कथनं तत्-स्थान-कथनं च करोमीत्य् अर्थः || क्र. दी. वि. २.२९ ||
______________________________
तत्त्व-नामान्य् आह-महीति |
मही-सलिल-पावकानिलवियन्ति गर्वो महान्
पुनः प्रकृति-पुरुषौ पर इमानि तत्त्वान्य् अथ |
पदान्धु-हृदयास्यकान्य् अधि तु पञ्च मध्ये द्वयं
त्रयं सकल-गं ततो न्यसतु तद्-विपर्यासतः || क्र. दी. २.३० ||
मही पृथिवी | सलिलं जलं | पावकः तेजः | अनिलो वायुः | वियद्-आकाशः | गर्वो ऽहङ्कारः | महान् महत्-तत्त्वम् | प्रकृतिः पुरुषः | परश् च इमानि पृथिव्य्-आदीनि तत्त्वानि तत्त्व-पद-वाच्यानि | न्यास-स्थानम् आह-अथेति | अथानन्तरं पञ्च तत्त्वानि पृथिव्य्-आदीनि न्यसतु | कुत्र पदान्धु-हृदयास्यकान्य् अधि पादयोः | अन्धौ लिङ्गे | हृदये | आस्ये मुखे | के शिरसि | अधि सप्तम्य्-अर्थे मध्ये हृदये तत्त्व-द्वयं त्रयं सकल-गं सकलाङ्ग-व्यापकं ततस् तद्-अनन्तरं तद्-विपर्यासतः उक्त-संहार-विपरीत-रीत्या न्यसतु | प्रयोगश् च-ॐ ग्ॐ नमः पराय पृथिव्य्-आत्मने नमः इति पाद-द्वये इत्य् आरभ्य ॐ हां नमः पराय परमात्मने नमः इत्य् अन्तः संहारः ॐ हां नमः पराय परमात्मने नमः इत्य् आरभ्य ॐ ग्ॐ नमः पराय पृथिव्य्-आत्मने नमः पाद-द्वये इति सृष्टि-न्यासः | सृष्टि-न्यासे त्रयं सर्व-शरीरे, महद्-अहङ्कारौ हृदि आकाशः शिरसि | वाय्व्-अग्नि-सलिल-मह्यः मुख-हृदय-लिङ्ग-पाद-द्वयेषु, ज्ञेयाः | केचित् तु तत्त्व-पदान्तर्-भावेन न्यासम् इच्छन्ति तच् चिन्त्यम् || क्र. दी. वि. २.३० ||
______________________________
गुप्ततमो ऽयम् इति |
गुप्ततमो ऽयं न्यासः सम्प्रोक्तस् तत्त्व-दशक-परिक्प्तः |
कार्यो ऽन्य्ष्व् अपि सद्भिर् गोपाल-मनुषु झटिति फल-सिद्ध्यै || क्र. दी. २.३१ ||
अयं प्रोक्तः कथितो न्यासः सद्भिः पण्डितैः अन्येष्व् अपि गोपाल-मन्त्रेषु उद्धृत-दशाक्षर-व्यतिरिक्तेष्व् अपि कार्यः | कीदृशः ? गुह्यतमः अतिशयेन गुप्तः | पुनः कीदृशः ? तत्त्व-दशक-परिक्प्तः तत्त्वानां दशकं तत्त्व-दशकं तेन परिक्प्त उद्घाटित इत्य् अर्थः | किम् अर्थम् ? झटिति फल-सिद्ध्यै शीघ्र-फल-प्राप्त्यै || क्र. दी. वि. २.३१ ||
______________________________
न्यासान्तरम् आह-आकेशाद् इति |
आकेशाद् आपादं दोर्भ्यां
ध्रुव-पुटितम् अथ मनु-वरं न्यसेद् वपुषि |
त्रिशो मूर्धन्य् अक्ष्णोः श्रुत्योर् घ्राणे
मुख-हृदय-जठर-शिव-जानुपत्सु तथाक्षराणि || क्र. दी. २.३२ ||
अथानन्तरं दोर्भ्यां हस्ताभ्यां ध्रुव-पुटितम् प्रणव-पुटितं मनु-वरं मन्त्र-श्रेष्ठं दशाक्षरं गोपाल-मन्त्रम् आकेशाद् आपादं केशादि-पाद-पर्यन्तं त्रिशः स्व-देहे विन्यसेद् इति विद्याधराचार्य-त्रिपाठि-प्रभृतयः | एतेषां मत आकेशाद् आपादद् इति पाठः | अधुना सृष्टि-स्थिति-संहार-क्रमेण मन्त्राक्षर-न्यासम् आह-मूर्धनीत्य् आदि | तथा दशाक्षराणि प्रणव-पुटितानि मूर्धादि-वक्ष्यमाण-स्थानेषु विन्यसेत् | स्थानान्य् आह-मूर्धनीति | मूर्ध्नि चक्षुषोर् उभय-नेत्रे एकम् एवाक्षरं श्रुतयोः कर्णयोः अत्राप्य् -एकम् एव घ्राणे नासा-युग्मे तत्राप्य् एकम् एव मुखं हृदयं जठरं शिवं लिङ्गम् जानु-द्वये एकं, पाद-द्वये एकम् एतेषु दशसु स्थानेषु दशाक्षराणि विन्यसेद् इत्य् अर्थः || क्र. दी. वि. २.३२ ||
______________________________
उक्ता सृष्टिः शिष्टैर् एषा स्थितिर् अपि
मुनिभिर् अभिहिता हृदादि-मुखान्तिका |
संहारो ऽङ्घ्र्य्-आदि-मूर्धान्तस् त्रितयम् इति
विरचयेच् च सृष्टिम् अनु स्थितिम् || क्र. दी. २.३३ ||
शिष्टैर् आगम-ज्ञैर् एषा सृष्टिर् उक्तेत्य् अर्थः | स्थितिर् अपि स्थिति-न्यासो ऽपि मुनिभिर् नारदादिभिर् हृदयादि-मुखान्तिका अभिहिता हृदयम् आरभ्य मुख-पर्यन्तं कथिता | तत्र क्रमः हृदय-जठर-लिङ्ग-जानु-पाद-मूर्धाक्षि-श्रवण-घ्राण-मुखानीति संहारो ऽङ्घ्र्य्-आदि-मूर्धान्तः कार्यः | तत्र मन्त्राक्षराणि प्रतिलोमेन देयानीतीदं त्रितयं विरचयतु अनु पश्चाद् एतत् त्रितय-करणानन्तरं पुनः सृष्टिम् स्थितिम् च विरचयतु | तथा च पञ्च न्यासाः कार्या इत्य् अर्थः | प्रयोगस् तु ग्ॐ नमः पीं नमः इत्य् आदि ||३३||
______________________________
येषाम् आश्रमिणां यद्-अन्तो न्यासस् तद् दर्शयति -न्यास इति |
न्यासः संहारान्तो मस्करि-वैखानसेषु विहितो ऽयम् |
स्थित्य्-अन्तो गृहमेधिषु सृष्ट्य्-अन्तो वर्णिनाम् इति प्राहुः || क्र. दी. २.३४ ||
अयं न्यासः मस्करि-वैखानसेषु संहारान्तो विहितः मस्करी सन्न्यासी वैखानसो वानप्रस्थः, तथा ताभ्यां न्यास-त्रयं कार्यम् इत्य् अर्थः | गृह-मेधिषु गृहस्थेषु अयं न्यासः स्थित्य्-अन्तो विहितः | तथा गृहस्थैः पञ्च न्यासाः कार्या इत्य् अर्थः | वर्णिनां ब्रह्मचारिणाम् अयं न्यासः सृष्ट्य्-अन्तो विहितः | तथा च ब्रह्मचारिभिर् न्यास-चतुष्टयं कार्यम् इत्य् अर्थः | इति पूर्वोक्तम् अर्थ-जातं प्राहुः प्राचीना आगमज्ञा इति शेषः || क्र. दी. वि. २.३४ ||
______________________________
वैराग्येति |
वैराग्य-युजि गृहस्थे संहारं केचिद् आहुर् आचार्याः |
सहजानौ वन-वासिनि स्थितिं च विद्यार्थिनां सृष्टिम् || क्र. दी. २.३५ ||
केचिद् आचार्याः वैराग्य-युक्त-गृहस्थे संहारान्तं न्यासम् आहुः | किं च सहजानौ वन-वासिनि सपत्नीके स्थितिं स्थित्य्-अन्तं न्यासम् आहुः | तथा ब्रह्मचारि-भिन्नानां विद्यार्थिनाम् अपि सृष्टिम् सृष्ट्य्-अन्तं न्यासम् आहुर् इत्य् अर्थः || क्र. दी. वि. २.३५ ||
______________________________
उक्ताक्षर-न्यासाङ्गुलि-नियमं दर्शयति-शिरसीत्य् आदिना |
शिरसि विहिता मध्या सैवाक्ष्णि तर्जनिकान्विता
श्रवसि रहिताङ्गुष्ठा ज्येष्ठान्वितोषकनिष्ठका |
नसि च वदने सर्वाः सज्यायसी हृदि तर्जनी
प्रथमज-युता मध्या नाभौ श्रवो-विहिता शिवे || क्र. दी. २.३६ ||
ता एवाङ्गुलयो जान्वोः साङ्गुष्ठास् तु पद-द्वये |
स्थानार्णयोर् विनिमयो भवेन् नास्त्य् अङ्गुलि-स्थानयोः || क्र. दी. २.३७ ||
मध्या मध्याङ्गुलिः शिरसि मूर्ध्नि विहिता न्यास-करणत्वेन तथा मध्याङ्गुल्या न्यासः शिरसि कार्य इत्य् अर्थः | सैव मध्या तर्जनिकान्विताक्ष्णि नयन-युगले विहिता | तथा च मध्यमा-तर्जनीभ्याम् अक्ष्णोर् न्यासः कार्यः | श्रवसि श्रोत्र-युगले रहिताङ्गुष्ठा अङ्गुष्ठ-रहिता सर्वाङ्गुलयो विहिताः | नसि नासा-युगले ज्येष्ठान्विता अङ्गुष्ठ-युक्ता उपकनिष्ठका अनामिका विहिता | वदने सर्वाङ्गुलयो विहिताः | हृदि सज्यायसी ज्येष्ठा-सहिता साङ्गुष्ठ-तर्जनी विहिता | नाभौ जठरे नाभि-पदेन जठरम् उपलक्षितम् इति विद्याधरः | नाभि-पदस्य मुख्य एवार्थ इति लघु-दीपिका-प्रभृतयः | प्रथमज-युता अङ्गुष्ठ-युक्ता मध्यमा विहिता | शिवे लिङ्गे तथा विहिता यथा जठरे साङ्गुष्ठा मध्या तथेत्य् अर्थ इति केचित् | श्रवो विहिता शिव इति पाठे श्रोत्र-युगले या अङ्गुष्ठ-रहितास् ताः शिवे विहिता इत्य् अर्थः | जान्वोस् ता एवाङ्गुलयः अङ्गुष्ठेन रहिताः सर्वाङ्गुलय इत्य् अर्थः | पद-द्वये साङ्गुष्ठाः सर्वाङ्गुलयो विहिताः | स्थानार्णयोर् इत्य् आदिना स्थानआक्षरअयोर् विनिमयो विपर्ययो भवति | यथा-ग्ॐ सृष्टौ मूर्ध्नि | स्थितौ हृदये | संहृतौ पादयोर् न्यास इति | एवम् अङ्गुली-स्थानयोर् विपर्ययो नास्ति | किन्तु सृष्टौ स्थितौ संहृतौ वा यत्र स्थाने याङ्गुलिर् विहिता तयैवाङ्गुल्या तत्र स्ताने न्यासः कार्य इत्य् अर्थः | || क्र. दी. वि. २.३६-३७ ||
______________________________
इदानीं विभूति-पञ्जर-न्यासम् आह-वच्मीति |
वच्म्य् अपरं न्यास-वरं भूत्य्-अभिधं भूतिकरम् |
मन्त्र-दशावृत्ति-मयं गुप्ततमं मन्त्रि-वरैः || क्र. दी. २.३८ ||
अपरं भूत्य्-अभिधं भूतिर् इति नाम यस्य तद् भूति-नामकं वच्मि कथयामि | कीदृशम् ? न्यास-वरं न्यास-श्रेष्ठम् इत्य् अर्थः | पुनः भूति-करम् ऐश्वर्य-करम् | पुनः मन्त्र-दशावृत्ति-मयं मन्त्रस्य दशावरण-घटितम् | पुनः साधक-श्रेष्ठैर् गुप्ततमम् अतिगुह्यम् || क्र. दी. वि. २.३८ ||
______________________________
न्यास-स्थानम् आह-आधारेत्य् आदिना |
आधार-ध्वज-नाभि-हृद्-गल-मुखांसोरु-द्वये कन्धरा-
नाभ्योः कुक्षि-हृदोरुरोज-युगले पार्श्वापर-श्रोणिषु |
कास्याक्षि-श्रुतिनः कपोल-कर-पत्-सन्ध्य्-अग्र-शाखासु के
तत्-प्राच्यादि-दिशासु मूर्ध्नि सकले दोष्णोश् च सक्थ्नोस् तथा || क्र. दी. २.३९ ||
शिरो ऽक्ष्यास्य-कण्ठाख्य-हृत्-तुन्द-कन्दा-
न्धु-जानु-प्रपत्स्वित्थमर्णान्मनूत्थान् |
न्यसेच् छ्रोत्र-गण्डांस-वक्षोज-पार्श्व-
स्फिग्-ऊरु-स्थली-जानु-जङ्घाङ्घ्रि-युक्षु || क्र. दी. २.४० ||
आधारो वृषणस्याधस् त्रिकोणं मूलाधार-स्थानम् | ध्वजो लिङ्गम् | नाभिः हृधयं गलः मुखं अंसोरु-द्वयम् | एतेष्व् एकावृत्तिः | कन्धरा घाटा कन्धरा कण्ठ इति लघु-दीपिका-कारः | नाभि-कुक्षि-हृदयम् उरोज-युगलं स्तन-द्वयम् | पार्श्वेति पार्श्व-युगम् | अपरं पृष्ठ-देशः | श्रोणिर् जघन-देशः | श्रोणिः कटिः | अपरं श्रोण्याः अपरभागः इति त्रिपाठिनः | एतेषु द्वितीयावृत्तिः | कं शिरः | आस्यं मुखम् | अक्षिणी नेत्र-युगलम् | श्रुती श्रवण-द्वयम् | न इति नासिका-द्वयं कपोल-द्वयम् एतेषु तृतीया वृत्तिः | कर-पदेति कर-पदयोः प्रत्येकं सन्धि-चतुष्टयं सन्धिष्व् अङ्गुल्य्-अग्रेषु अङ्गुलीषु च | अत्र दक्षिण-करे चतुर्था वृत्तिः | एवं वाम-करे पञ्चमा वृत्तिः | इति पक्ष-द्वयं च विद्याधरस् तु करयोर् एका वृत्तिः, पादयोर् एका वृत्तिर् इत्य् आह | तच् चिन्त्यम् | मूल-ग्रन्थात् तथाप्रतीतेः | पादयोः सन्धिष्व् अङ्गुल्य्-अग्रेष्व् अङ्गुलीषु च | अत्रापि दक्षिण-पादे षष्ठा वृत्तिः | वाम-पादे सप्तमा वृत्तिः | अत एव हस्त-पादयोर् न्यास-चतुष्टयम् इति त्रिपाठिनः | के मस्तक-मध्ये तत्-प्राच्यादि-दिशासु मस्तक-पूर्वादि-चतुर्दिक्षु सकले मूर्ध्नि सकले मस्तके प्रादक्षिण्येन व्यापकतया दोष्णोश् च बाहु-युगे तथा सक्थ्नोर् ऊरु-मूलस्याधिष्ठानयोर् मध्य-प्रदेशयोर् एतेष्व् अष्टमा वृत्तिः | मस्तकस्य पूर्वादि-दिशास्व् एका वृत्तिः | एका वृत्तिर् मूर्धादिष्व् इति विद्याधराचार्याः | तच् चिन्त्यम् |
तथा पद-स्वरसात् शिरः-प्रभृतिष्व् एकावृत्ति-प्रतीतेः | शिरो मस्तकम् | अक्षीति नेत्र-युगलम् | आस्यं मुखम् | कण्ठं | हृदयं | तुन्दम् उदरम् | कन्दो मूलाधारः | स्वाधिष्ठानम् इति त्रिपाठिनः | अन्धुं लिङ्गं | जानु | प्रपद् इति पाद-युगलं तेषु, एतेषु नवमावृत्तिः | श्रोत्र-युगले गण्ड-युगले | अंस-युगले | स्तन-युगले | पार्श्व-युगले | स्फिग्-युगले नितम्ब-युगले | एवम् उरु-जानु-जङ्घाङ्घ्रि-युगले | एतेषु दशमावृत्तिः | इत्थम् अनेन प्रकारेण मनूत्थान् मन्त्र-सम्बन्धिनो वर्णान् न्यसेत् | प्रयोगश् च - ग्ॐ नमो मूलाधारे, पीं नमः लिङ्गे, जं नमः नाभौ इत्य् आदि || क्र. दी. वि. २.३९-४० ||
______________________________
न्यास-फलम् आह-इतीति |
इति कथितं विभूति-पञ्जरं
सकल-सुखार्थ-धर्म-मोक्षदम् |
नर-तरुणी-मनो ऽनुरञ्जनं
हरि-चरणाब्ज-भक्ति-वर्धनम् || क्र. दी. २.४१ ||
अनेन प्रकारेण विभूति-पञ्जरं कथितम् | कीदृशम् ? सकल-सुखार्थ-धर्म-मोक्षदं पुरुषार्थ-चतुष्टय-प्रदम् | पुनर् नर-तरुणी-मनो-रञ्जनं पुरुष-नारी-चित्ताह्लादकं न केवलं सर्वानुरञ्जनम् | अपि तु हरि-चरणाब्जे भक्ति-वर्धनम् || क्र. दी. वि. २.४१ ||
______________________________
मूर्ति-पञ्जर-न्यासम् आह-स्फूर्तय इति |
स्फूर्तये ऽथास्य मन्त्रस्य कीर्त्यते मूर्ति-पञ्जरम् |
आर्ति-ग्रह-विषारि-घ्नं कीर्ति-श्री-कान्ति-पुष्टिदम् || क्र. दी. २.४२ ||
अथानन्तरम् अस्य दशाक्षर-मन्त्रस्य स्फूर्तये उद्दीपनाय मूर्ति-पञ्जरं कीर्त्यते | किम्भूतम् ? आर्तिः पीडा | ग्रहो ग्रह-जनितम् अशुभं विषं स्थावरं जङ्गमं च | अरिः शत्रुः | तान् हन्तीत्य् अर्थः | पुनः कीदृशम् ? कीर्त्य्-आदि-दम् | कीर्तिः प्रख्यातिः | श्री-सम्पत्तिः सौन्दर्यं पुष्टिर् बलं प्रददातीति तथा || क्र. दी. वि. २.४२ ||
______________________________
अधुना न्यासम् उद्धरति-केशवादीति |
केशवादि-युग-षट्क-मूर्तिभिर्
धातृ-पूर्व-मिहिरान् नमो ऽन्तकान् |
द्वादशाक्षर-भवाक्षरैः स्वरैः
क्लीब-वर्ण-रहितैः क्रमान् न्यसेत् || क्र. दी. २.४३ ||
केशवादिभिः पूर्वोक्त-युग-षट्क-मूर्तिभिः सह धातृ-पूर्व-मिहिरास् तान् क्रमेण न्यसतु | कीदृशान् ? नमो ऽन्तकान् नमः-पदान्तान् | पुनः कैः सह ? द्वादशाक्षर-भवाक्षरैर् वक्ष्यमाण-द्वादशाक्षर-मन्त्र-सम्बन्धिभिर् द्वादशाक्षरैः सह | एतद् उक्तं भवति-आदौ स्वराः | ततो नमः-पदम् इति | प्रयोगस् तु ॐ अं ॐ केशव-धातृभ्यां नमः | ॐ अं ॐ केशव-धात्रे नम इति त्रिपाठिनः || क्र. दी. वि. २.४३ ||
______________________________
अथ मूर्ति-पञ्जर-न्यासे न्यास-स्थानम् आह-भालोदरेति |
भालोदर-हृद्-गल-कूप-तले
वामेतर-पार्श्व-भुजान्त-गले |
वाम-त्रय-पृष्ठ-ककुत्सु तथा
मूर्धन्य् अनु षड्-युग-वर्ण-मनुम् || क्र. दी. २.४४ ||
भाले ललाटे | उदरे | हृदये | गल-कूप-तले कण्ठे | वामेतरे वामाद् इतरद् दक्षिणं दक्षिण-पार्श्वे भुजान्ते गले चेति | वाम-त्रये वाम-पार्श्वे वाम-भुजान्ते गले च | पृष्ठे ककुदि | अथानन्तरं अन्व् इति पाठे ऽप्य् अयम् एव बोद्धव्यः | तथा तेन प्रकारेण मूर्ध्न्य् षड्-युग-वर्ण-मनुं द्वादशाक्षर-मन्त्रं न्यसेद् इत्य् अर्थः || क्र. दी. वि. २.४४ ||
______________________________
मस्तके सम्पूर्ण-मन्त्र-न्यासस्य प्रयोजनम् आह-चैतन्येति |
चैतन्यामृत-वपुर् अर्क-कोटि-तेजा
मूर्धस्थो वपुर् अखिलं स वासुदेवः |
औधस्यं सुविमल-पायसीव सिक्तं
व्याप्नोति प्रकटित-मन्त्र-वर्ण-कीर्णम् || क्र. दी. २.४५ ||
स प्रसिद्धो वासुदेवो मूर्धस्थो मस्तक-स्थः सन् वपुर् अखिलं समस्तं वपुः शरीरं व्याप्नोति स्व-तेजसेत्य् अर्थः | किम्भूतो वासुदेवः ? चैतन्यामृतं तद् एव वपुर् यस्य स तथा | यद् वा चैतन्यं स्व-प्रकाशम् अमृतं मोक्षस् तद् एव वपुर् यस्य स तथा | पुनः कीदृशः ? अर्क-कोटिर् इव तेजो यस्य स तथा | वपुर् कीदृशम् ? प्रकटित-मन्त्र-वर्ण-कीर्णम् प्रकटिता ये मन्त्र-वर्णा द्वादशाक्षरोद्गतास् तैर् आकीर्णं व्याप्तम् | किम् इव ? सुविमल-पायसि सुनिर्मले जले सिक्तं निक्षिप्तम् औधस्यं दुग्धम् इव || क्र. दी. वि. २.४५ ||
______________________________
शरीर-न्यास-जातम् उपसंहरति-सृष्टि-स्थितीति |
सृष्टि-स्थिती दश-पञ्चाङ्ग-युग्मं
मुन्य्-आदिक-त्रितयं कास्य-हृत्सु |
विन्यस्यतु ग्रथयित्वा च मुद्रा-
भूयो दिशां दशकं बन्धनीयम् || क्र. दी. २.४६ ||
मूर्ति-पञ्जरस्य पूर्व-कृत्यं दर्शयति सृष्टि-स्थितीत्यादि इति रुद्रधरः | तच् चिन्त्यम् | तत्र प्रमाणाभावात् | मूर्धन्य् अक्ष्णोर् इत्य् आदिना पूर्वम् उक्ते सृष्टि-स्थिती पुनः स्व-देहे विन्यस्य तथा दश-पञ्चाङ्ग-युग्मं दशाङ्गं पञ्चाङ्गं च विन्यस्य | ऋष्य्-आदि-त्रितयं कास्य-हृत्स्य विन्यसेद् इत्य् अर्थः | वक्ष्यमाण-मुद्रां ग्रथयित्वा बद्ध्वा भूयः पुनर् अपि दिशां दशकं बन्धनीयम् | ॐ सुदर्शनायास्त्राय फट् इत्य् अनेन वक्ष्यमाणेन मन्त्रेणेत्य् अर्थः || क्र. दी. वि. २.४६ ||
______________________________
द्वादशाक्षर-मन्त्रोद्धारम् आह-तारम् इत्य् आदिना |
तारं हार्दं विश्व-मूर्तिश् च शार्ङ्गी
मांसान्तस् ते वाय-मध्ये सुदेवाः |
षड्-द्वन्द्वार्णो मन्त्र-वर्यः स उक्तः
साक्षाद् द्वारं मोक्ष-पुर्याः सुगम्यम् || क्र. दी. २.४७ ||
तारं प्रणवम् | हार्दं हृदयं नमः इति यावत् | विश्व-मूर्तिर् भ-कारः | शार्ङ्गी ग-कारः | मांसान्ते मांसो ल-कारः | तस्यान्तो व-कार इति | ते इति स्वरूपम् | वा इति स्वरूपम् | य इति स्वरूपम् | तयोर् वाययोर् मध्ये सुदेवाः सु-दे-वेत्य्-अक्षर-त्रयम् | तथा च ॐ नमो भगवते वासुदेवायेति प्रसिद्धः षड्-द्वन्द्वार्णो मन्त्र-वर्यो द्वादशाक्षरो मन्त्र-श्रेष्ठ उक्तः कथितः | कीदृशः ? मोक्ष-पुर्याः साक्षाद् अव्यवधानेन सुगम्यं द्वारं सुगम उपाय इत्य् अर्थः || क्र. दी. वि. २.४७ ||
______________________________
द्वादशाक्षरादित्यान् दर्शयति--धात्र्-अर्यमेत्य् आदिना |
धात्र्-अर्यम-मित्राख्या वरुणांशुभगा विवस्वद्-इन्द्र-युताः |
पूषाह्वय-पर्जन्यौ त्वष्टा विष्णुश् च भानवः प्रोक्ताः || क्र. दी. २.४८ ||
धाता अर्यमा मित्रः वरुणः अंशुः भगः विवस्वान् इन्द्रः पूषाः पर्जन्यः त्वष्टा विष्णुर् एते द्वादश भानवः कथिताः || क्र. दी. वि. २.४८ ||
______________________________
अधुनाष्टादशाक्षर-मन्त्र-न्यासम् आह-अथ तु युगेत्य् आदि |
अथ तु युग-रन्ध्रार्णस्याहं मनोर् न्यसनं ब्रुवे
रचयतु कर-द्वन्द्वे पञ्चाङ्गम् अङ्गुलि-पञ्चके |
तनुम् अनु मनुं व्यापय्याथ त्रिशः प्रणवं सकृन्
मनुजलिपयो न्यास्या भूयः पदानि च सादरम् || क्र. दी. २.४९ ||
अनन्तरं पुनर् युग-रन्ध्रार्णस्य युग-रन्ध्रे राज-दन्तत्वाद् रन्ध्र-शब्दस्य पर-निपातः | युग-रन्ध्रम् अक्षराणां यत्र स युग-रन्ध्रार्णः तस्य | रन्ध्रं नव | तथा चाष्टादशाक्षरस्य मनोर् मन्त्रस्याहं न्यसनं न्यासं ब्रुवे कथयामीति प्रतिज्ञा | कर-द्वये अङ्गुलि-पञ्चके पञ्चाङ्गं पूर्वोक्तं मन्त्राक्षरैः परिक्प्तं कर-न्यासं कुर्यात् | कनिष्ठायाम् अस्त्र-न्यासो द्रष्टव्यः | अथानन्तरं तनुम् अनु लक्ष्यीकृत्य त्रिशः त्रि-वारं मन्त्रं व्यापय्य व्यापकतया विन्यस्य पुनः प्रणवं सकृद् एक-वारं विन्यस्य अनन्तरं मनुज-लिपयो न्यास्या मन्त्राक्षराणि न्यसतु | भूयो ऽनन्तरं सादरं यथा स्याद् एवं पदानि पञ्च पदानि न्यास्यानि || क्र. दी. वि. २.४९ ||
______________________________
मन्त्राक्षर-न्यास-स्थानम् आह-कच-भुवीति |
कच-भुवि ललाटे भ्रू-युग्मान्तरे श्रवणाक्षिणोर्
युगल-वदन-ग्रीवाहृन्-नाभि-कट्य्-उभयान्धुषु |
न्यसतु शितधीर्जान्वङ्घ्र्योर् अक्षरान् शिरसि ध्रुवं
नयन-मुख-हृद्-गुह्याङ्घ्रिष्व् अर्पयेत् पद-पञ्चकम् || क्र. दी. २.५० ||
कचस्य केशस्य भूर्-उत्पत्ति-स्थानं शिरः तत्र | ललाटे भ्रू-युग्मान्तरे भ्रू-मध्ये श्रवणाक्ष्णोर् युगले नो नासिका-युगले च | वदने ग्रीवायां हृदि नाभौ कट्य्-उभये वाम-कटिर् दक्षिण-कटिश् च | अन्धौ लिङ्गे | एतेषु तथा जाव्य्-अङ्घ्र्योश् च शितधिर् निर्मल-मतिः
अक्षराणि मन्त्र-सम्बन्धीनि न्यसतु | अत्र जान्वोर् एकम् अक्षरं न्यसेत् | अङ्घ्र्योर् एकम् अक्षरं न्यसेत् | तथा शिरसि मस्तके ध्रुवं न्यसेत् | पद-पञ्चक-न्यास-स्थानान्य् आह-नयनेति | नयन-युगलं मुखं हृदयं गुह्यं अङ्घ्रिश् च - एतेषु मन्त्र-सम्बन्धि पद-पञ्चकं क्लीम् इत्य् एकम्, अन्यानि स्पष्टानि अर्पयेन् न्यसेत् || क्र. दी. वि. २.५० ||
______________________________
पञ्चाङ्गानीति |
पञ्चाङ्गानि न्यसेद् भूयो मुन्य्-आदीन् अप्य् अन्यत् सर्वम् |
तुल्यं पूर्वेणाथो वक्ष्ये मुद्रा बन्ध्या मन्वोर् याः स्युः || क्र. दी. २.५१ ||
पञ्चाङ्गानि भूयः पुनर् अपि शरीरे न्यसेत् | तथा मुन्य्-आदीन् ऋष्य्-आदीन् | अन्यत् सर्वं केशवादि-जातं पूर्वेण तुल्यं समानम् एव | अत्र दश-तत्त्वादि-न्यासेषु मन्त्रस्य द्विर् आवृत्ति-विशेष इति लघु-दीपिका-कारः | अथो ऽनन्तरं मन्वोर् दशाक्षराष्टादशाक्षरयोर् या मुद्रा बन्ध्या बन्धनीयाः स्युर् भवेयुस् ता मुद्रा वक्ष्ये कथयामि || क्र. दी. वि. २.५१ ||
______________________________
हृदयाद्य्-अङ्ग-न्यास-मुद्राः प्रदर्शयति-अनङ्गुष्ठा इत्य् आदि |
अनङ्गुष्ठा ऋजवो हस्त-शाखा
भवेन् मुद्रा हृदये शीर्षके च |
अधो ऽङ्गुष्ठा खलु मुष्टिः शिखायां
कर-द्वन्द्वाङ्गुलयो वर्मणि स्युः || क्र. दी. २.५२ ||
नाराचमुष्ट्य्-उद्धत-बाहु-युग्म-
काङ्गुष्ठ-तर्जन्य्-उदितो ध्वनिस् तु |
विष्वग्-विषक्तः कथितास्त्र-मुद्रा
यत्राक्षिणी तर्जनी-मध्यमे तु || क्र. दी. २.५३ ||
अनङ्गुष्ठा अङ्गुष्ठ-रहिता ऋजवो ऽवक्रा हस्त-शाखा हस्ताङ्गुलयो हृदये मुद्रा भवेत् | शीर्षके च शिरसि ता एव मुद्रा ज्ञेयाः | खलु निश्चये | अधो ऽङ्गुष्ठा मुष्टिः अधो ऽङ्गुष्ठो यस्यां मुष्टौ एवं कृता मुष्टिः शिखायां मुद्रा भवेत् | वर्मणि कवचे कर-द्वन्द्वाङ्गुलयः स्युः मुद्रा-पद-वाच्या भवन्ति | ध्वनिः शब्दो ऽस्त्र-मुद्रा कथिता | किम्भूतो ध्वनिः ? नाराचवद् बाणवद् मुष्ट्योद्धतो यो बाहुस् तस्य युग्मकं द्वयं तस्याङ्गुष्ठ-तर्जनीभ्यां करणाभ्याम् उदितः | पुनः कीदृशः ? विष्वग् दश-दिक्षु विषक्तः विस्तीर्णः यत्र मन्त्रे ऽक्षिणी भवतः नेत्राङ्गम् अस्ति तत्र तर्जनी-मध्यमे मिलिते मुद्रा || क्र. दी. वि. २.५३ ||
______________________________
वेणु-मुद्राम् आह-ओष्ठ इति |
ओष्ठे वाम-कराङ्गुष्ठो लग्नस् तस्य कनिष्ठिका |
दक्षिणाङ्गुष्ठ-संयुक्ता तत्-कनिष्ठा प्रसारिता || क्र. दी. २.५४ ||
तर्जनी-मध्यमानामाः किञ्चित् संकुच्य चालिताः |
वेणु-मुद्रेह कथिता सुगुप्ता प्रेयसी हरेः || क्र. दी. २.५५ ||
वाम-हस्ताङ्गुष्ठो ऽधरे लग्न इति सम्बन्धः कार्यः | तस्य वाम-हस्तस्य या कनिष्ठिका पञ्चमी अङ्गुली सा दक्षिणाङ्गुष्ठ-संयुक्ता दक्षिण-हस्ताङ्गुष्ठे सम्बद्धा कार्या | तत्-कनिष्ठिका दक्षिण-हस्त- कनिष्ठिका प्रसारिता अकुटिला कार्या | उभय-हस्त-तर्जनी-मध्यमानामिकाः किञ्चित् संकुच्य चालिताश् चालनीया | इत्थम् इह शास्त्रे वेणु-मुद्रा कथिता सुगुप्ता ग्रन्थान्तरे ऽत्यन्त-गुप्ता | यतो हरेः परमेश्वरस्य श्री-कृष्णस्य प्रेयसी वल्लभा || क्र. दी. वि. २.५४-५५ ||
______________________________
नोच्यन्त इति |
नोच्यन्ते ऽत्र प्रसिद्धत्वान् माला-श्री-वत्स-कौस्तुभाः |
उच्यते ऽच्युत-मुद्राणां मुद्रा बिल्व-फलाकृतिः || क्र. दी. २.५६ ||
माला-श्री-वत्स-कौस्तुभ-मुद्राः प्रसिद्धत्वान् नोच्यन्ते मया ग्रन्थ-कर्त्राप्रसिद्धम् इह प्रकाश्यत इति शेषः | अत एव गले वनमालाभिनयनं वनमाला-मुद्रा | उत्तानित-वाम-तर्जनी-कनिष्ठोपरि अधोमुख-दक्षिण-कर-कनिष्ठिका-तर्जनीके संयोज्य दक्षिण-कराणामिका-मध्यमाङ्गुली-द्वयं वाम-कराङ्गुष्ठोपरि कृत्वा वाम-कर-मध्यमोपकनिष्ठिके दक्षिण-हस्ताङ्गुष्ठस्याधः कुर्याद् एषा श्रीवत्स-मुद्रा | वाम-कनिष्ठिकया दक्षिण-कनिष्ठिकां निष्पीड्य वामानामिकया दक्षिण-तर्जनीं निष्पीड्य शिष्ट-वामाङ्गुली-त्रयम् उपरि कृत्वा वाम-तर्जनी-सहित-दक्षिण-हस्ताङ्गुलि-त्रय-मुखम् एकत्र योजयेद् एषा कौस्तुभ-मुद्रा || क्र. दी. वि. २.५६ ||
______________________________
बिल्व-मुद्राम् आह-अङ्गुष्ठम् इति |
अङ्गुष्ठं वामम् उद्दण्डितम् इतर-कराङ्गुष्टकेनाथ बद्ध्वा
तस्याग्रं पीडयित्वाङ्गुलिभिर् अपि तथा वाम-हस्ताङ्गुलिभिः |
बद्ध्वा गाढं हृदि स्थापयतु विमल-धीर् व्याहरन् मार-बीजं
बिल्वाख्या मुद्रिकैषा स्फुटम् इह कथिता गोपनीया विधिज्ञैः || क्र. दी. २.५७ ||
वामाङ्गुष्ठं उद्दण्डितम् दण्डाकारम् ऊर्ध्वं कृत्वाधः कर्तव्यं तथानन्तरम् इतर-कराङ्गुष्टेन बद्ध्वा तस्य च पीठे दक्षिण-कराङ्गुष्ठस् तिरङ्-कार्य इत्य् अर्थः | तस्याग्रं दक्षिण-कराङ्गुष्ठाग्रम् अङ्गुलिभिः पीडयित्वा धृत्वा ता अपि दक्षिण-कराङ्गुलयो ऽपि वाम-हस्ताङ्गुलीभिर् गाढं यथा स्याद् एवं बद्ध्वा विमल-धीः शुद्ध-बुद्धिः हृदि हृदये स्थापयेत् | मार-बीजं काम-बीजं व्याहरन् उच्चारयन् | इत्थं बिल्वाख्या एषा स्फुटम् व्यक्तं यथा स्याद् एवम् इह-शास्त्रे कथिता विधिज्ञैः प्रकार-ज्ञैर् गोपनीया || क्र. दी. वि. २.५७ ||
______________________________
एतस्याः फलम् आह-मन इति |
मनो-वाणी-देहैर् यद् इह च पुरा वापि विहितं
त्वमत्या मत्या वा तद् अखिलम् असौ दुष्कृति-चयम् |
इमां मुद्रां जानन् क्षपयति नरस् तं सुर-गणा
नमन्त्य् अस्याधीना भवति सततं सर्व-जनता || क्र. दी. २.५८ ||
असौ नरो मनुष्यः इमां मुद्रां जानन् तद् अखिलं सम्पूर्णं दुष्कृति-चयं पाप-राशिं क्षपयति दूरीकरोति यन् मनसा वाचा देहेनामत्याज्ञानेन मत्या ज्ञानेन वा दिवा-रात्रि-विहितं दिवसे रात्रौ वा कृतम् | यद् इह च पुरा वापि विहितम् इति पाठे इह जन्मनि जन्मान्तरे वा विहितम् इत्य् अर्थः | न केवलं पापं दूरीकरोति अपि तु सुर-गणा देवा नमन्ति | तथास्य मुद्राकर्तुः सततं सर्वदा सर्व-जन-समूहो वश्यो भवतीत्य् अर्थः || क्र. दी. वि. २. ५८ ||
सनातनः (हरि-भक्ति-विलासे ६.४२) : असौ नर इमां बिल्वाख्यां मुद्रां जानन् तत्-तद्-दुष्कृत-निचयं पाप-समूहम् अखिलं निःशेषं क्षपयति विनाशयति | कम् ? यं मनो-वाक्-कायैः इह अस्मिन् पुरा पूर्व-जन्मनि च अमत्या अज्ञानेन मत्या वा ज्ञानेन विहितम् | दिवारात्रि-विहितम् इति पाठे दिने रात्रौ च कृतम् | यत् तदो नपुंसकत्वं महाकवि-स्वातन्त्र्याद् अव्ययत्वाद् वा | यद् वा, यत् यस्मात् क्षपयति तत् तस्मान् नमन्तीत्य् अन्वयः | मुद्रा-लक्षणानि च गुह्यत्वान् न लिखितानि | तथा चोक्तम्-
गुरुं प्रकाशयेद् विद्वान् मन्त्रं नैव प्रकाशयेत् |
अक्ष-मालां च मुद्रां च गुरोर् अपि न दर्शयेत् || इति |
अत्र च तद्-विज्ञानार्थम् उद्दिश्यन्ते | तथा चागमे-
सम्यक् सम्पुटितैः पुष्पैः कराभ्यां कल्पितो ऽञ्जलिः |
आवाहनी समाख्याता मुद्रा देशिक-सत्तमैः ||
अधो-मुखी-कृतैः सर्वैः स्थापनीति निगद्यते |
आश्लिष्ट-मुष्टि-युगला प्रोन्नताङ्गुष्ठ-युग्मका |
सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्र-वेदिभिः |
अङ्गुष्ठ-गर्भिणी सैव संनिरोधे समीरिता ||
अङ्गैर् एवाङ्ग-विन्यासः सकली-करणी मता |
सव्य-हस्त-कृता मुष्टिर् दीर्घाधोमुख-तर्जनी ||
अवगुण्ठन-मुद्रेयम् अभितोभ्रामिता यदि |
अन्योन्याभिमुखाः सर्वाः कनिष्ठानामिकाः पुनः ||
तथा तर्जनी-मध्याश् च धेनु-मुद्रा प्रकीर्तिता |
अन्योन्य-ग्रथिताङ्गुष्ठा प्रसारित-कराङ्गुलिः |
महा-मुद्रेयम् उदिता परमीकरणे बुधैः ||
वामाङ्गुष्ठं विधृत्यैवं मुष्टिना दक्षिणेन तु |
तन्-मुष्टैः पृष्ठतो देशे योजयेच् चतुरङ्गुलीः ||
कथिता शङ्ख-मुद्रेयं वैष्णवार्चन-कर्मणि |
अन्योन्याभिमुखाङ्गुष्ठ-कनिष्ठ-युगले यदि ||
विस्तृताश् चेतराङ्गुल्यस् तदासौ दर्शिनी मता |
अन्योन्य-ग्रथिताङ्गुल्य उन्नतौ मध्यमौ यदि |
संलग्नौ च तदा मुद्रा गदेयं परिकीर्तिता ||
पद्माकाराव् आभिमुख्येन पाणी
मध्य्ऽङ्गुष्ठौ शायितौ कर्णिकावत् |
पद्माख्येयं सौव संलग्न-मध्या
स्पृष्टाङ्गुष्ठा बिल्व-संज्ञैव मुद्रा ||
अग्रे तु वाम-मुष्टेश् च इतरा तु यदा मता |
तदेयं कृतिभिर् मुद्रा ज्ञेया मुषल-संज्ञिता ||
वामस्थ-तर्जनी-प्रान्तं मध्यमान्ते नियोजयेत् |
प्रसार्य तु करं वामं दक्षिणं करम् एव च ||
नियोज्य दक्षिण-स्कन्धे बाण-प्रेरणवत् ततः |
तर्जन्य्-अङ्गुष्ठकाभ्यां च कुर्याद् एषा प्रकीर्तिता ||
शार्ङ्ग-मुद्रेति मुनिभिर् दर्शयेत् कृष्ण-पूजने |
कनिष्ठानामिके द्वे तु दक्षाङ्गुष्ठ-निपीडिते |
शेषे प्रसारिते कृत्वा खड्ग-मुद्रा प्रकीर्तिता ||
पाशाकारां नियोज्यैव वामाङ्गुष्ठाङ्ग-तर्जनीम् |
दक्षिणे मुष्टिम् आदाय तर्जनीं च प्रसारयेत् ||
तेनैव संस्पृशेन् मन्त्री वामाङ्गुष्ठस्य मूलकम् |
पाश-मुद्रेयम् उद्दिष्टा केशवार्चन-कर्मणि ||
तर्जनीम् ईषद् आकुञ्च्य शेषेणापि निपीडयेत् |
अङ्कुशं दर्शयेत् तद्वद् गृहीत्वा दक्ष-मुष्टिना ||
अन्योन्य-पृष्ठे संयोज्य कनिष्ठे च परम्परम् |
तर्जन्य्-अग्रं समं कृत्वा कनिष्ठाग्रं तथैव च ||
ईषद् आलम्बितं कृत्वा इतरौ पक्षवत् ततः |
प्रसार्य गारुडी मुद्रा कृष्ण-पूजा-विधौ स्मृता ||
अन्योन्य-सम्मुखे तत्र कनिष्ठा-तर्जनी-युगे |
मध्यमानामिके तद्वद् अङ्गुष्ठेन निपीडयेत् ||
दर्शयेद् धृदये मुद्रां यत्नाच् छ्रीवत्स-संज्ञिताम् |
अन्योन्याभिमुखे तद्वत् कनिष्ठे संनियोजयेत् |
तर्जन्य्-अनामिके तद्वत् करौ त्व् अन्योन्य-पृष्ठगौ ||
उत्सिक्तान्योन्य-संलग्नौ वक्षः-स्थित-कराङ्गुलीः |
विधाय मध्य-देशे तु वाम-मध्यम-तर्जनी |
संयोज्य मणिबन्धे तु दक्षिणे योजयेत् ततः ||
वामाङ्गुष्ठे तु मुद्रेयं प्रसिद्धा कौस्तुभाह्वया |
क्वचिच् च-
अनामा पृष्ठ-संलग्ना दक्षिणस्य कनिष्ठिका |
कनिष्ठ्यान्यया बद्धा तर्जन्या दक्षया तथा ||
वामानां च बध्नीयाद् दक्षाङ्गुष्ठस्य मूलके |
अङ्गुष्ठ-मध्यमे वामे संयोज्य सरलाः पराः ||
चतस्रो ऽन्योन्य-संलग्ना मुद्रा कौस्तुभ-संज्ञिता ||
ओष्ठे वाम-कराङ्गुष्ठो लग्नस् तस्य कनिष्ठका |
दक्षिणाङ्गुष्ठ-संयुक्ता तत्-कनिष्ठा प्रसारिता |
तर्जनी-मध्यमानामाः किंचित् सङ्कुच्य चालिताः ||
वेणु-मुद्रेयम् उद्दिष्टा सुगुप्ता प्रेयसी हरेः |
अङ्गं प्रसारितं कृत्वा स्पृष्ट-शाखं वरानने |
प्राङ्मुखं तु ततः कृत्वा अभयं परिकीर्तितम् ||
दक्षं भुजं प्रसारित्वा जानूपरि निवेशयेत् |
प्रसृतं दर्शयेद् देवि वरः सर्वार्थ-साधकः ||
उत्तान-तर्जनीभ्यां तु ऊर्ध्वाधः प्रक्रमेण तु |
मालावत् क्रम-विस्तारा वनमाला प्रकीर्तिता ||
क्रम-दीपिकायां (२.५७)-
अङ्गुष्ठं वामम् उद्दण्डितम् इतर-कराङ्गुष्टकेनाथ वध्वा
तसाग्रं पीडयित्वाङ्गुलिभिर् अपि तथा वाम-हस्ताङ्गुलिभिः |
बद्ध्वा गाढं हृदि स्थापयतु विमल-धीर् व्याहरन् मार-बीजं
बिल्वाख्या मुद्रिकैषा स्फुटम् इह कथिता गोपनीया विधिज्ञैः ||
अगस्त्य-संहितायां च-
आवाहिनीं स्थापनीं सन्निधीकरणीं तथा |
सुसंनिरोधिनीं मुद्रां सम्मुखी-करणीं तथा ||
सकली-करणीं चैव महा-मुद्रान् तथैव च |
शङ्ख-चक्र-गदा-पद्म-धेनुकोस् तु भगारुडाः ||
श्रीवत्सं वन-मालां च योनि-मुद्रां च दर्शयेत् ||
मूलाधाराद् द्वादशान्तम् आनीतः कुसुमाञ्जलिः |
त्रि-स्थान-गत-तेजोभिर् विनीतः प्रतिमादिषु ||
आवाहनीया मुद्रा स्याद् एषार्चन-विधौ मुने |
एषैवाधो-मुखी मुद्रा स्थापने शय्यते पुनः ||
उन्नताङ्गुष्ठ-योगेन मुष्टीकृत-कर-द्वयम् |
सन्निधी-करणं नाम मुद्रा देवार्चने विधौ ||
अङ्गुष्ठ-गर्भिणी सैव मुद्रा स्यात् संनिरोधिनी |
उत्तान-मुष्टि-युगला सम्मुखी-करणी मता ||
अङ्गैर् एवाङ्ग-विन्यासः सकली-करणी तथा |
अन्योन्याङ्गुष्ट-संलग्ना विस्तारित-कर-द्वयी ||
महा-मुद्रेयम् आख्याता न्यूनाधिक-समापनी |
कनिष्ठानामिका-मध्यान्तःस्थाङ्गुष्ठान्तरे ऽग्रतः ||
गोपिताङ्गुलि-मध्ये समन्तान् मुकुली-कृता |
कर-द्वयेन मुद्रा स्याच् छङ्काख्येयं सुरार्चने ||
अन्योन्याभिमुख-स्पर्श-व्यत्ययेन तु वेष्टयेत् |
अङ्गुलीभिः प्रयत्नेन मण्डली-करणं मुने ||
चक्र-मुद्रेयम् आख्याता गदा-मुद्रा ततः परम् |
अन्योन्याभिमुखाश्लिष्टाङ्गुलिः प्रोन्नत-मध्यमा ||
अथाङ्गुष्ठ-द्वयं मध्ये दत्त्वापि परितः करौ |
मण्डली-करणं सम्यग्-अङ्गुलीनां तपोधन ||
पद्म-मुद्रा भवेद् एषा धेनु-मुद्रा ततः परम् |
अनामिका-कनिष्ठाभ्यां तर्जनीभ्यां च मध्यमे |
अन्योन्याभिमुखाश्लिष्टे ततः कौस्तुभ-संज्ञितः ||
कनिष्ठान्योन्य-संलग्ने ऽभिमुखे ऽपि परस्परम् |
वामस्य तर्जनी-मध्ये मध्यानामिकयोर् अपि ||
वामानामिक-संस्पृष्टा तर्जनी-मध्य-शोभिता |
पर्यायेण नताङ्गुष्ठ-द्वयी कौस्तुभ-लक्षणा ||
कनिष्ठान्योन्य-संलग्ना विपरीतं वियोजिता |
अधस्तात् स्थापिताङ्गुष्ठा मुद्रा गरुड-संज्ञिता ||
तर्जन्य्-अङ्गुष्ठ-मध्यस्था मध्य्मानामिका-द्वयी |
कनिष्ठानामिका-मध्या तर्जन्य्-अग्रे कर-द्वयी ||
मुने श्रीवत्स-मुद्रेयं वनमाला भवेत् ततः |
कनिष्ठानामिका-मध्या मुष्टिर् उन्नीत-तर्जनी ||
परिभ्रान्ता शिरस्य् उच्चैस् तर्जनीभ्यां दिवौकसः |
मुद्रा योनिः समाख्याता सङ्कोचित-कर-द्वयी ||
तर्जन्य्-अङ्गुष्ठ-मध्यान्तः-स्थितानामिक-युग्मका |
मध्य-मूल-स्थिताङ्गुष्ठा ज्ञेया शस्तार्चने मुने || इति |
______________________________
अस्त्र-मन्त्रम् आह-प्रणवेति |
प्रणव-हृदोर् अवसाने स-चतुर्थि-
सुदर्शनं तथास्त्र-पदं च |
उक्त्वा फड्-अन्तम् अमुना कलयेन्
मनुनास्त्र-मुद्रया दश-हरितः || क्र. दी. २.५९ ||
प्रणव ॐकारः | हृत् नमः | एतयोर् अवसाने ऽन्ते स-चतुर्थि-सुदर्शनं चतुर्थी-विभक्ति-सहितं सुदर्शनम् इति पदम् एतस्यान्ते तथास्त्र-पदं चतुर्थ्य्-अन्तम् अस्त्र-पदम् | पुनः कीदृक् ? फड्-अन्तम् फट्-शब्दान्तम् उक्त्वा अमुना मनुना अनेन मन्त्रेण अस्त्र-मुद्रया दश-हरितः कल्पयेत् दश-दिग्-बन्धनं कुर्याद् इत्य् अर्थः || क्र. दी. वि. २.५९ ||
______________________________
प्राक् कृतं न्यास-जातम् उपसंहरन् अग्निम् अपटले वक्ष्यमाणं ध्यानं सूचयति-इतीति |
इति विधाय समस्त-विधिं जगज्-
जनि-विनाश-विधान-विशारदम् |
श्रुति-विमृग्यम् अजं मनु-विग्रहं
स्मरतु गोप-वधू-जन-वल्लभम् || क्र. दी. २.६० ||
इत्य् अनेन प्रकारेण समस्त-विधिं पूर्वोक्तम् अखिल-न्यासादिकं विधाय निर्वर्त्य गोप-वधू-जन-वल्लभं कृष्णं स्मरतु चिन्तयतु | कीदृशं कृष्णम् ? जगद्-उत्पत्ति-स्थिति- विनाश-करण-दक्षम् | पुनः कीदृशम् ? श्रुति-विमृग्यम् उपनिषद्-गम्यम् | पुनः कीदृशम् ? अजम् उत्पत्ति-रहितम् | पुनः कीदृशम् ? मनु-विग्रहं मनु-शरीरम् इत्य् अर्थः || क्र. दी. वि. २.६० ||
इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायां द्वितीयः पटलः |
||२||
**************************************************************************
(३)
तृतीय-पटलः
इदानीं मन्त्र-द्वय-साधारणं देवता-ध्यानम् आह-
अथ प्रकट-सौरभोद्गलित-माध्वीकोत्फुल्लसत्-
प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः |
प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैः
स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम् || क्र. दी. ३.१ ||
अथानन्तरं सित-मतिः निर्मल-मतिः वृन्दावनं स्मरेच् चिन्तयेत् | किम्भूतम् ? द्रुमैः वृक्षैः शिशिरितं शीतली-कृतम् | द्रुमैः कीदृशैः ? प्रकटेति उद्भट-सौरभम् | अथ च उद्गलितो माध्वीको मधु यस्मिन् तत् | अथ च उत्फुल्लं प्रफुल्लम् | अथ च सद्-देदीप्यमानम् एतादृशं प्रसूनं पुष्पं तथा नव-पल्लवः अनयोर् यः प्रकरः समूहः | तेन नम्राः शाखा येषां ते तथा तैः | प्रकट-सौरभाकुलित-मत्त-भृङ्गोल्लसत्-प्रसूनेति पाठे प्रकट-सौरभेणाकुलितं सर्वतो व्याप्तम् | अथ च मत्त-भृङ्गोल्लसन् मत्त-भ्रमरेण शोभमानम् एतादृशं यत् प्रसूनम् इत्य् अर्थः | पुनः कीदृशैः ? प्रफुल्ला विकसिता या नव-मञ्जरी तया ललिता मनोहरा या वल्लरी लताग्र-शाखा तस्याश् चेष्टितं चलनं येषु तैः | पुनः कीदृशं ? शिवं कल्याण-प्रदम् || क्र. दी. वि. ३.१ ||
सनातनः: इतः-प्रभृति ये ३६-श्लोकाः प्राप्यन्ते ते श्री-हरि-भक्ति-विलासे उद्दृताः श्री-सनातन-गोस्वामि-प्रभुपादानां व्याख्याताश् च | तेषां व्याख्यायास् तु अत्रत्याया नातिविसादृश्यत्वात् सात्र नोद्ध्रियते | तत्रैव ते द्रष्टव्याः |
______________________________
पुनः कीदृशम् ?
विकाशि-सुमनो-रसास्वादन-मञ्जुलैः सञ्चरच्-
छिलीमुखोद्गतैर् मुखरितान्तरं झङ्कृतैः |
कपोत-शुक-शारिकापर-भृतादिभिः पत्रिभिर्
विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम् || क्र. दी. ३.२ ||
वृन्दावनं झङ्कृतैः शब्द-विशेषैर् मुखरितान्तरं शब्दायमानाभ्यन्तरम् | कीदृशैः ? झङ्कृतैः विकाशिन्याः प्रफुल्लायाः सुमनसः पुष्पस्य यो रसः मधु तस्य यद्-आस्वादनम् अवलेहनं तेन मञ्जुलैर् मनोहरैः | पुनः कीदृशैः ? सञ्चरेति सञ्चरन्तो भ्रमन्तो ये शिलीमुखोद्गतैर् भ्रमरास् तेषां मुखेभ्य उद्गतैः समुत्थितैः | पुनः कीदृशम् ? वृन्दावनं कपोतेति पारावत-शुक-शारिका-कोकिल-प्रभृतिभिः पक्षिभिर् इतस् ततो विराणितं शब्दायितम् | पुनः कीदृशम् ? भुजग-शत्रुर् मयूरस् तस्य नृत्येनाकुलं व्याप्तम् ||२||
______________________________
पुनः कीदृशम् ?
कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर्
विनिद्र-सरसी-रुहोदर-रजश् चयोद्धूसरैः |
प्रदीपित-मनोभव-व्रज-विलासिनी-वाससां
विलोलन-परैर् निषेवितम् अनारतं मारुतैः || क्र. दी. ३.३ ||
मारुतैर् वायुभिः अनारतं सर्वदा निषेवितम् | कीदृशैर् मारुतैः ? कलिन्देति कलिन्द-दुहितुर् यमुनायाश् चलन्त्यो या लहर्यः तासां या विप्रुषो जल-बिन्दवः तासां वाहिभिः | एतेन वायोः शैत्यम् उक्तम् | पुनः कीदृशैः ? विनिद्रेति विनिद्रं प्रफुल्लं यत् सरसीरुहं पद्मं तस्य यद् उदरम् अभ्यन्तरं तत्र यो रजश् चयो धूली-समूहः तेन उद्धूसरैः, एतेन सौरभ्यम् उक्तम् | पुनः कीदृशैः ? प्रदीपितेति प्रदीपितो ऽतिशयितो मनोभवः कामो यासां व्रज-विलासिनीनां गोप-सुन्दरीणां तासां यानि वासांसि वस्त्राणि तेषां विलोलन-परैः चालना-शक्तैः | एतेन मान्यम् उक्तम् || क्र. दी. वि. ३.३ ||
______________________________
पुनः कीदृशम् ?
प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौ-
क्तिक-प्रकर-कोरकं कमल-राग-नाना-फलम् |
स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदं
तद्-अन्तरम् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् || क्र. दी. ३.४ ||
तद्-अन्तर् अपि वृन्दावन-मध्ये कल्पकाङ्घ्रिपम् अपि चिन्तयेत् | कीदृशम् ? उदञ्चितम् उच्छ्रितम् | पुनः कीदृशम् ? स्थविष्ठम् स्थूलतरम् | पुनः कीदृशम् ? प्रवालो विद्रुमः स एव नव-पल्लवः किसलयं यस्य तम् | पुनः कीदृशम् ? मरकतो यो मणि-विशेषः स एव छदं पत्रं यस्य तम् | पुनः कीदृशम् ? वज्रं हीरकं मौक्तिकं मुक्ताः | अनयोर् यः प्रकरः समूहः स एव कोरकः पुष्प-कलिका यत्र तम् | पुनः कीदृशम् ?
कमल-रागः पद्म-राग-मणिः स एव नाना-विधं फलं यत्र तम् | पुनः कीदृशम् ? अखिलैर् ऋतुभिः षड्भिर् अपि ऋतुभिः सततं सेवितं सदा परिगृहीतम् | एतेन सर्व-पुष्पान्वितत्वं दर्शितम् | पुनः कीदृशम् ? कामदम् आकाङ्क्षित-प्रदम् || क्र. दी. वि. ३.४ ||
______________________________
सुहेम-शिखरावलेर् उदित-भानुवद्-भास्वराम्
अधो ऽस्य कनक-स्थलीम् अमृत-शीकरासारिणः |
प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां
स्मरेत् पुनर् अतन्द्रितो विगत-षट्तनङ्गां बुधः || क्र. दी. ३.५ ||
बुधः पण्डितः अतन्द्रितः निरालस्यः आलस्य-रहितः सन् अस्य कल्प-वृक्षस्याधस्तात् | कनक-स्थलीं सुवर्ण-मयीं भूमिम् | पुनः स्मरेत् चिन्तयेत् | किम्भूतां सुहेमेति | शोभमाना सुवर्ण-शृङ्ग-पङ्क्तिर् यस्य | तथा तस्माद् उदयाचलाद् उदित-भानुवत् प्रकटित-सूर्यवत् प्रकटित-सूर्यवत् भास्वरां देदीप्यमानां सुहेम-शिखराचले ऽप्य् उदितेति पाठे शोभनं हेम-शृङ्गं यत्र अचले पर्वते तस्मिन् अपि-शब्दो भिन्न-क्रमः कनक-स्थलीम् इत्य् अस्यानन्तरं द्रष्टव्यम् | अस्य कीदृशस्य अमृतेति ? अमृतस्य यः शीकरः कणस् तस्यासारो यः समूहः पतनं तच्-छालिं यथा स्यात् तथा तस्यामृत-कण-समूह-संवर्षिणः | कीदृशीम् ? प्रदीप्तैः पीप्यमान-मणिभिः पद्म-रागादिभिः बद्ध-भूमिम् | पुनः कीदृशीम् ? कुसुमेति कुसुम-रेणु-पुञ्जैर् उज्ज्वलाम् | पुनः कीदृशीम् ? विगतेति विगता दूरीभूता षट्-तरङ्गाः काम-क्रोधादयः अशनायापि पासाशोक-मोह-जरा-मृत्यवो वा यस्यास् ताम् || क्र. दी. वि. ३.५ ||
______________________________
तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग-
पीठे ऽष्ट-पत्रम् अरुणं कमलं विचिन्त्य |
उद्यद्-विरोचन-सरोचिर् अमुष्य मध्ये
सञ्चिन्तयेत् सुख-निविष्ठम् अथो मुकुन्दम् || क्र. दी. ३.६ ||
तस्याः कनक-स्थल्याः यद्-रत्न-कुट्टिमं रत्न-बद्ध-भू-भागः | तत्र निविष्टं स्थितं महिष्ठं महद् योग-पीठं तत्राष्ट-पत्रम् अष्टौ पत्राणि यत्र तत् तथारुणं लोहितम् | अत एवोद्यतादित्य-सन्निभम् | एवम्भूतं पद्मं विचिन्त्य | अथानन्तरम् अमुष्यारुण-वर्णाष्ट-दल-कमलस्य मध्ये मुकुन्दम्ं कृष्णं चिन्तयेत् | कीदृशम् ? सुख-निविष्ठं सुखासीनम् आदि-कुलकम् अत आरभ्य || क्र. दी. वि. ३.६ ||
______________________________
पुनः कीदृशम् ?
सूत्राम-रत्न-दलिताञ्जन-मेघ-पुञ्ज-
प्रत्यग्र-नील-जलजन्म-समान-भासम् |
सुस्निग्ध-नील-घन-कुञ्चित-केश-जालं
राजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-चूडम् || क्र. दी. ३.७ ||
सूत्राम-रत्नम् इन्द्रनील-मणिः दलिताञ्जनं भिन्नाञ्जनं घृष्ट-कज्जलम् इति मेघ-पुञ्जो मेघ-समूहः प्रत्यग्र-नील-जलजन्म नवीन-नील-पद्मम् एषां समाना भा दीप्तिर् यस्य तम् | पुनः कीदृशम् ? सुस्निग्धेति सुस्निग्धाः सुचिक्कणा नीलाः श्यामा घना निविडाः कुञ्चिताः कुटिलाः ये केशास् तेषां जालं समूहो यत्र तम् | पुनः कीदृशम् ? राजन्न् इति | राजत् शोभमानं मनोज्ञं मनोहरं यच्-छिति-कण्ठ-शिखण्डं मयूर-पिच्छं तद् एव चूडायां यस्य तम् || क्र. दी. वि. ३.७ ||
______________________________
पुनः कीदृशम् ?
रोलम्बलालित-सुर-द्रुम-सूनु-कल्पि-
तोत्तंसम् उत्कच-नवोत्पल-कर्ण-पूरम् |
लोलालक-स्फुरित-भाल-तल-प्रदीप्त-
गोरोचना-तिलकम् उच्चल-चिल्लि-मालम् || क्र. दी. ३.८ ||
रोलम्बो भ्रमरस् तेन लालितं प्रीत्या सेवितं यत् सुर-द्रुम-प्रसूनं पारिजात-पुष्पं तेन कल्पितः रचित उत्तंसः शिरो-भूषणं येन स तथा तम् | पुनः कीदृशम् ? उत्कचं विकसितम् यन् नवोत्पल-कर्ण-पूरम् | तद् एव कर्णाभरणं यस्य स तथा तम् | पुनः कीदृशम् ? लोलाश् चञ्चला अलकाः केश-विशेषास् तैः स्फुरितं शोभमानं यद्-भाल-तलं ललाट-तलं तत्र प्रदीप्तं गोरोचना-तिलकम् यस्य स तथा तम् | पुनः कीदृशम् ? उच्चल- चिल्लि-मालं चञ्चल-भ्रू-लताकम् || क्र. दी. वि. ३.८ ||
______________________________
पुनः कीदृशम् ?
आपूर्ण-शारद-गताङ्क-शशाङ्क-बिम्ब-
कान्ताननं कमल-पत्र-विशाल-नेत्रम् |
रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त-
गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम् || क्र. दी. ३.९ ||
आपूर्णः सम्पूर्णः शारदः शरत्-सम्बन्धी गताङ्कः शशाङ्क-बिम्बश् चन्द्र-मण्डलस् तद्वत् कान्तं मनोहरम् आननं मुखं यस्य तथा तम् | पुनः कीदृशम् ? कमल-पत्रवद् विशाले विस्तीर्णे नेत्रे यस्य स तथा तम् | पुनः कीदृशम् ? रत्नेति रत्नैः स्फुरन्च् छोभमानं यन् मकर-कुण्डलं मकराकार-कुण्डलं तस्य ये रश्मयः तैः प्रदीप्ता शोभमाना गण्ड-स्थली स एव मुकुरो दर्पणो यस्य तथा तम् | पुनः कीदृशम् ? उन्नतेति उन्नता मनोहरा नासा यस्य स तथा तम् || क्र. दी. वि. ३.९ ||
______________________________
पुनः कीदृशम् ?
सिन्दूर-सुन्दरतराधरम् इन्दु-कुन्द-
मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् |
वन्य-प्रवाल-कुसुम-प्रचयावक्प्त-
ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कण्ठम् || क्र. दी. ३.१० ||
सिन्दूरवन् मनोहरो अधरो यस्य स तथा तम् | पुनः कीदृशम् ? इन्दु-कुन्देति इन्दुश् च कुन्दं कुन्द-पुष्पं मन्दारः शुक्ल-मन्दारः अर्क-पुष्पं वा तद्वन् मन्द-हसितम् ईषद्-धास्यं तस्य द्युतिर् दीप्तिः तथा दीपिता शोभिता आशा दिशो येन स तथा तम् | पुनः कीदृशम् ? वन्येति वन्यं वन्योद्भवं यत् प्रवाल-कुसुमं नव-पल्लव-पुष्पं तस्य यः समूहस् तेनावक्प्तं सम्पादितं यद् ग्रैवेयकं कण्ठाभरणं तेनोज्ज्वलो देदीप्यमानो मनोहरः कम्बु-कण्ठः त्रिरेखाङ्कितः कण्ठो यस्य स तथा तम् || क्र. दी. वि. ३.१० ||
______________________________
पुनः कीदृशम् ?
मत्त-भ्रमर-जुष्ट-विलम्बमान-
सन्तान-कप्र-सव-दाम-परिष्कृतांसम् |
हारावली-भगण-राजित-पीवरोरो-
व्योम-स्थली-लसित-कौस्तुभ-भानुमन्तम् || क्र. दी. ३.११ ||
मत्ताः कृत-मधु-पाना भ्रमन्तश् चरन्तौ ये भ्रमरास् तैर् जुष्टं सेवितम् | अथ च विलम्बमानम् एवम्भूतं यत्-सन्तान-कप्र-सव-दाम कल्प-वृक्ष-पुष्प-दाम तेन दाम्ना परिष्कृतः स्वलङ्कृतो अंसो यस्य स तथा तम् | पुनः कीदृशम् ? हारावल्य् एव भगणो नक्षत्र-समूहः | तेन राजितं शोभितं पीवरं मांसलं यद्-उरो हृदयं तद् एव व्योम-स्थल आकाश-भूमिः तया लसितः शोभितः कौस्तुभ एव भानुः सूर्यस् तेन युक्तम् | अत्र रूपकालङ्कार एव नोपमालङ्कारः नक्षत्र-गण-सूर्ययोर् असम्बन्धत्वात् | एवं च सत्य् एक-काले द्वयोः शोभा लभ्यत इति भावः || क्र. दी. वि. ३.११ ||
______________________________
पुनः कीदृशम् ?
श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांसम्
आजानु-पीन-परिवृत्त-सुजात-बाहुम् |
आबन्धुरोदरम् उदार-गम्भीर-नाभिं
भृङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् || क्र. दी. ३.१२ ||
श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांसम् आजानु-पीन-परिवृत्त-सुजात-बाहुम् आबन्धुरोदरम् उदार-गम्भीर-नाभिं भृङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् || क्र. दी. वि. ३.१२ ||
______________________________
पुनः कीदृशम् ?
नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि-
ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् |
द्व्याङ्ग-राग-परिपञ्जरिताङ्ग-यष्टिम्
आपीत-वस्त्र-परिवीत-नितम्ब-बिम्बम् || क्र. दी. ३.१३ ||
नाना-मणिभिर् इन्द्रनीलादिभिर् घटिताः सम्बद्धाः | अङ्गदा बाहु-वलयास् तथा कङ्कणा ऊर्मिर् मुद्रिका ग्रैवेयं ग्रीवालङ्कारः रसनया क्षुद्र-घण्टिकया सह आसमन्तात् वर्तते यौ नूपुरौ तुन्द-बन्धः उदर-बन्धनार्थं सुवर्ण-डोरकम् एते अलङ्कारा यस्य स तथा तम् | पुनः कीदृशम् ? दिव्यः परमोत्कृष्टो यो ऽनुरागः सुगन्धि-चूर्णं तेन पिञ्जरिता नाना-वर्णा अङ्ग-यष्टि-रङ्ग-लता यस्य स तथा तम् | पुनः कीदृशम् ? आपीतम् अतिशयेन पीतं यद् वस्त्रं तेन परितो वीतो वेष्टितो नितम्ब-बिम्बो येन स तथा तम् | यद्यपि स्त्री-कट्यां नितम्ब-पद-प्रयोगः कोशे दृश्यते तथापि तद्वन् मनोहरतया पुंस्कट्याम् अपि प्रयोगो न विरुद्धः || क्र. दी. वि. ३.१३ ||
______________________________
पुनः कीदृशम् ?
चारूरु-जानुम् अनुवृत्त-मनोज्ञ-जङ्घ-
कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् |
माणिक्य-दर्पण-लसन्-नखराजि-राजद्-
रक्ताङ्गुलि-च्छदन्-सुन्दर-पाद-पद्मम् || क्र. दी. ३.१४ ||
कान्तौ कमनीयौ उन्नतौ उच्चौ यौ प्रपदौ पादाग्रौ ताभ्यां निन्दिता तिरस्कृता कूर्मस्य कच्छपस्य कान्तिः दीप्तिर् येन स तथा तम् | पुनः कीदृशम् ? माणिक्य-घटितो यो दर्पणस् तद्वल् लसन्ती शोभमाना नख-पङ्क्तिः तथा राजन्त्यः शोभमाना या रक्ताङ्गुलयस् ता एव च्छदनानि पत्राणि तैः सुन्दरं पाद-पद्मं यस्य स तथा तम् || क्र. दी. वि. ३.१४ ||
______________________________
पुनः कीदृशम् ?
मत्स्याङ्कुशार-दर-केतु-यवाब्ज-वज्र-
संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् |
लावण्य-सार-समुदाय-विनिर्मिताङ्ग-
सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् || क्र. दी. ३.१५ ||
मत्स्यो मीनः अङ्कुशो अस्त्र-विशेषः अरिश् चक्रो दरः शङ्खः केतुर् ध्वजः यवः प्रसिद्धः अब्जं पद्मं वज्रः कुलिशाकारस् त्रिकोणः एतैः सुलक्षितं सम्यक् विहितं यद् अरुणतराङ्घ्रि-तलं लोहिततर-चरण-तलं तेनाभिरामः सर्व-जन-प्रियस् तम् | पुनः कीदृशम् ? लावण्यस्य सौन्दर्यस्य यः सार-समुदाय उत्कृष्ट-भाग-समुदायः तेन विनिर्मितं घटितं यद् अङ्ग-सौन्दर्यं तेन निन्दिता तिरस्कृता मनोभवस्य कामदेवस्य कान्तिः शरीर-शोभा येन स तथोक्तम् || क्र. दी. वि. ३.१५ ||
______________________________
पुनः कीदृशम् ?
आस्यारविन्द-परिपूरित-वेणु-रन्ध्र-
लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः |
शश्वद्-द्रवी-कृत-विकृष्ट-समस्त-जन्तु-
सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम् || क्र. दी. ३.१६ ||
शश्वन् नित्यं द्रवी-कृतानयती-कृता विकृष्टा आकृष्टा समस्त-जन्तोः प्राणिनः सन्तान-सन्ततिः सन्तान-परम्परा येन स तथा तम् | कैः ? आस्यम् एवारविन्दं पद्मं तेन परिपूरितं यद् वेणु-रन्ध्रं वंशी-रन्ध्रम् अत्र लोलन्ती चञ्चला या कराङ्गुलिस् तया समीरिताः समुत्पादिता ये दिव्या उत्कृष्टा रागा ध्वनयः स्वरास् तैर् इत्य् अर्थः | पुनः कीदृशम् ? अनन्तेति | अपरिमितानन्द-समुद्रम् || क्र. दी. वि. ३.१६ ||
______________________________
पुनः कीदृशम् ?
गोभिर् मुखाम्बुज-विलीन-विलोचनाभि-
रूधोभर-स्खलित-मन्थर-मन्दगाभिः |
दन्ताग्र-दष्ट-परिशिष्ट-तृणाङ्कुराभिर्
आलम्बि-वालधि-लताभिर् अथाभिवीतम् || क्र. दी. ३.१७ ||
अथानन्तरं गोभिर् अभिवीतं सर्वतो-वेष्टितम् | किम्भूताभिः ? मुखाम्बुजे परमेश्वर-मुख-पद्मे विलीने सम्बद्दे लोचने यासां तास् तथा ताभिः | पुनः कीदृशाभिः ? ऊधोभरेति स्तन-गौरव-स्खलन-सालसाल्प-गमन-शीलाभिः | पुनः कीदृशाभिः ? दन्ताग्रेण दष्टः परिशिष्ट-तृणाङ्कुरो भक्षणावशिष्ट-तृणाङ्कुरो याभिस् तास् तथा ताभिः | पुनः कीदृशाभिः ? आलम्बीति आलम्बिनी लम्बमाना वालधि-लता यासां तास् तथा ताभिः || क्र. दी. वि. ३.१७ ||
______________________________
पुनः कीदृशम् ?
स-प्रस्रव-स्तन-विचूषण-पूर्ण-निश्च-
लास्यावट-क्षरित-फेनिल-दुग्ध-मुग्धैः |
वेणु-प्रवर्तित-मनोहर-मन्द्र-गीत-
दत्तोच्च-कर्ण-युगलैर् अपि तर्णकैश् च || क्र. दी. ३.१८ ||
तर्णकैश् चैक-वार्षिकैश् चाभिवीतम् इति पूर्वेणान्वयः | कीदृशैः ? प्रस्रवेण क्षरद्-दुग्धेन सह वर्तते यत् स्तन-विचूषणं दन्तोष्ठेन स्तनाकर्षणं तेन परिपूर्णो निश्चलः स्थिरश् च य आस्यावटः मुख-विवरं ततः क्षरितं गलितं यत् फेनिलं स-फेनं दुग्धं तेन मुग्धैर् मनोहरैः | पुनः कीदृशैः ? वेण्व् इति | वेणुर् वंशी तेन प्रवर्तिता चालिता मनोहरा आह्लाद-कारिणी मन्द्रानल्पा या गीतिर् गानं तत्र दत्तम् उच्चं कर्ण-युगलं यैस् तथा तैः || क्र. दी. वि. ३.१८ ||
______________________________
पुनः कीदृशम् ?
प्रत्यग्र-शृङ्ग-मृदु-मस्तक-सम्प्रहार-
संरम्भ-वल्गन-विलोल-खुराग्र-पातैः |
आमेदुरैर् बहुल-सास्न-गलैर् उदग्र-
पुच्छैश् च वत्सतर-वत्सतरी-निकायैः || क्र. दी. ३.१९ ||
वत्सतरः त्रैवार्षिको बलीवर्दः | वत्सतरी त्रैवर्षिकी गौः | एतयोर् निकायैः समूहैः प्रत्यग्रं नवीनं शृङ्गं यस्मिन्न् एवम्भूतं यत् मृदु मस्तकं तत्र यः सम्प्रहारः अभिघातः अन्य-वत्सतरस्य युध्यतः तेन यः संरम्भः क्रोधातिशयस् तेन यद् वल्गनम् इतस् ततो विचलनं तेन विलोलः अनवस्थितः खुराग्र-पातो येषां ते तथा तैः | पुनः कीदृशैः ? आमेदुरैः सुस्निग्धैः पुष्टैर् इति वा | पुनः कीदृशैः ? बहुलातिशयिता सास्ना यत्र स एवम्भूतो गलो येषां ते तथा तैः | सास्ना च गल-कम्बलः | पुनः कीदृशैः ? उदग्र-पुच्छैः || क्र. दी. वि. ३.१९ ||
______________________________
पुनः कीदृशम् ?
हम्बा-रव-क्षुभित-दिग्-वलयैर् महद्भि-
रप्य् उक्षभिः पृथु-ककुद्भर-भार-खिन्नैः |
उत्तम्भित-श्रुति-पुटी-परिपीत-वंश-
ध्वानामृतोद्धृत-विकाशि-विशाल-घोणैः || क्र. दी. ३.२० ||
महद्भिर् उक्षभिर् बलीवर्दैर् अप्य् अभिवीतम् | कीदृशैः ? हम्बा-रवेण स्वर-विशेषेण क्षुभितः क्षोभं प्रापितो दिग्-वलयो दिक्-समूहो यैस् ते तथा तैः | पुनः कीदृशैः ? पृथुर् अतिशयितो यः ककुद्भरः अपर-गल-भरः स एव भारस् तेन खिन्नैः अलसैः | पुनः कीदृशैः ? उत्तम्भितेति ऊर्ध्वं स्तम्भिता उत्थापिता या श्रुति-पुटी तया परिपीतम् अतिशयेन श्रुतं यद् वंशस्य ध्वानामृतं शब्द-रूपामृतं तेनोद्वृत्ता ऊर्ध्वं प्रापिता विकाशिनी प्रस्फुटा विशाला दीर्घा घोणा नासा येषां ते तथा तैः || क्र. दी. वि. ३.२० ||
______________________________
पुनः कीदृशम् ?
गोपैः समान-गुण-शील-वयो-विलास-
वेशैश् च मूर्च्छित-कल-स्वन-वेणु-वीणैः |
मन्द्रोच्चतार-पट-गान-परैर् विलोल-
दोर्-वल्लरी-ललित-लास्य-विधान-दक्षैः || क्र. दी. ३.२१ ||
गोपैश् चाभिवीतम् | कीदृशैः ? समानेति गुण उदयादिः शीलं धैर्यादि वयो बाल्यादि विलासः क्रीडनं वेशः संस्थान-विशेषः समानाः तुल्याः गुण-शीलादयो येषां ते तथा तैः | पुनः कीदृशैः ? मूर्च्छां प्रापितः कलो ऽव्यक्त-मधुरः स्वरो रागो यत्र वेणुश् च वीना च | वेणु-वीणैर् मूर्च्छित-कल-स्वरे वेणु-वीणे येषां तैः तथा | तद् उक्तम्-
स्वरः सम्मूर्छितो यत्र रागतां प्रतिपद्यते |
मूर्छनाम् इति तां प्राहुः कवयो ग्राम-सम्भवाम् |
सप्त-स्वरास् त्रयो ग्रामा मूर्छनास् त्व् एक-विंशतिः ||
पुनः कीदृशैः ? मन्द्रोच्चेति मन्द्रं नीचैः उच्चम् अतिशायितं तारो यति-विशेषस् तेन पटु स्पष्टं यद् गानं तत्-परैस् तद्-आसक्तैः | पुनः कीदृशैः ? विलोलेति विलोला या दोर्-वल्लरी बाहु-लता तया यल् ललितं मनोहरं लास्यं नृत्यं तस्य विधानं करणं तत्र दक्षैः कुशलैः || क्र. दी. वि. ३.२१ ||
______________________________
पुनः कीदृशम् ?
जङ्घान्त-पीवर-कटीर-तटी-निबद्ध-
व्यालोल-किङ्किणि-घटारटितैर् अटद्भिः |
मुग्धैस् तरक्षु-नख-कल्पित-कण्ठ-भूषैर्
अव्यक्त-मञ्जु-वचनैः पृथुकैः परीतम् || क्र. दी. ३.२२ ||
पृथुकैर् बालकैः परीतं वेष्टितम् | कीदृशैः ? जङ्घा-समीपे पीवरा मांसला या कटीर-तटी कटी-स्थली तस्यां निबद्धा व्यालोला चञ्चला या किङ्किणि-घटा काञ्ची-समूहः, तस्य रटितैः शब्दैर् अटद्भिः | पुनः कीदृशैः ? मुग्धैर् मनोहरैः | पुनः किम्भूतैः ? तरक्षु-नखेन व्याघ्र-नखेन कल्पिता सम्पादिता कण्ठ-भूषा कण्ठालङ्कारो यैस् ते तथा तैः | बालकानां रक्षार्थं कण्ठे व्याघ्र-नख-बन्धनं क्रियते यतः | पुनः कीदृशैः ?
अव्यक्तम् अस्पष्टम् अथ च मञ्जुलं मनोहरम् एवम्भूतं वचनं येषां ते तथा तैः || क्र. दी. वि. ३.२२ ||
______________________________
पुनः कीदृशम् ?
अथ सुललित-गोप-सुन्दरीणां
पृथु-निविरीष-नितम्ब-मन्थराणाम् |
गुरु-कुच-भर-भङ्गुरावलग्न-
त्रिवलि-विजृम्भित-रोम-राजि-भाजाम् || क्र. दी. ३.२३ ||
अथानन्तरं मनोहर-गोप-स्त्रीणाम् आलीभिः पङ्क्तिभिः समन्तात् सर्वतः सततं नित्य-सेवितम् इत्य् अष्टम-श्लोकेनान्वयः | किम्भूतानाम् ? पृथु बृहन् निविरीषो निविडो यो नितम्बः कटि-पश्चाद्-भागः, तेन मन्थराणां गमनाशक्तानाम् | पुनः किम्भूतानाम् ? गुरुर् अतिशयितो यः कुच-भरः स्तन-गौरवं तेन भङ्गुरम् ईषन् नां यद् अवलग्नं मध्य-प्रदेशः तत्र यद्-बलि-त्रयं तत्र विजृम्भिता वितता रोम-पङ्क्तिर् यासां तासाम् || क्र. दी. वि. ३.२३ ||
______________________________
पुनः कीदृशीनाम् ?
तद्-अतिमधुर-चारु-वेणु-वाद्या-
मृत-रस-पल्लविताङ्गजाङ्घ्रि-पानाम् |
मुकुल-विसर-रम्य-रूढ-रोमोद्-
गम-समलङ्कृत-गात्र-वल्लरीणाम् || क्र. दी. ३.२४ ||
तस्य श्री-कस्यातिमधुरं अतिप्रीति-दायकं चारु मनोहरं यद् वेणु-वाद्यां वंशी-रवः स एवामृत-रसः अमृत-रूप-जलं तेन पल्लवितो वृद्ध्य्-उन्मुखः अङ्गजाङ्घ्रिपः काम-वृक्षो यासां तास् तथा तासाम् | अङ्गजाङ्घ्रिपस्येति पाठः | पुनः किम्भूतानाम् ? मुकुल-विसरः कलिका-समूहः तद्वद् रम्यो मनोहरो यो रूढ उपचितो रोमोद्गमो रोमोत्थानं तेन समलङ्कृता गात्र-वल्लरी देह-लता यासां तास् तथा तासाम् || क्र. दी. वि. ३.२४ ||
______________________________
पुनः किम्भूतानाम् ?
तद्-अतिरुचिर-मन्द-हास-चन्द्रा-
तप-परिजृम्भित-राग-वारिणाशेः |
तरलतर-तरङ्ग-भङ्ग-विप्रुट्-
प्रकर-सम-श्रम-बिन्दु-सन्ततानाम् || क्र. दी. ३.२५ ||
तस्य कृष्णस्यातिमनोहरो य ईषद्-धासः स एव चन्द्र-रश्मिस् तेन परिजृम्भित उच्छलितो यो राग-समुद्रस् तस्यातिचञ्चलो यस् तरङ्गः कल्लोलः तदीया ये जल-कणाः तेषां यः समूहस् तेन समस् तुल्यो यः श्रम-बिन्दुर् घर्म-जल-बिन्दुः तेन सन्ततानां व्याप्तानाम् || क्र. दी. वि. ३.२५ ||
______________________________
पुनः किम्भूतानाम् ?
तद्-अतिललित-मन्द-चिल्लि-चाप
च्युत-निशितेक्षण-मार-वाण-वृष्ट्या |
दलित-सकल-मर्म-विह्वलाङ्ग-
प्रविसृत-दुःसह-वेपथु-व्यथानाम् || क्र. दी. ३.२६ ||
तस्य श्री-कृष्णस्यातिमनोहरो मन्दः अनतिदीर्घो यश् चिल्लि-चापो भ्रू-लता सैव धनुस् तस्माद् उद्गतं तीक्ष्णं कटाक्षः स एव काम-बाणस् तस्य वृष्ट्यात्यन्त-पातेन दलितं चूर्णितं यत् सकलं मर्म तेनानायत्तं यद् अङ्गं तत्र प्रसृता व्याप्ता दुःसहा कम्प-वेदना यासां तास् तथा तासाम् || क्र. दी. वि. ३.२६ ||
______________________________
पुनः किम्भूतानाम् ?
तद्-अतिरुचिर-कर्म-रूप-शोभा-
मृत-रस-पान-विधान-लालसाभ्याम् |
प्रणय-सलिल-पूर-वाहिनीनाम्
अलस-विलोल-विलोचनाम्बुजाभ्याम् || क्र. दी. ३.२७ ||
प्रणयेनैव प्रेम्णैव यो जल-प्रवाहस् तं वहन्ति यास् तथा तासाम् | काभ्याम् ? लज्जादिनार्ध-निमीलित-पद्मलोचनाभ्यां स-विलास-चञ्चलित-नेत्र-पद्माभ्याम् इत्य् अपि पाठः | किम्भूतानाम् ? तस्य परमेश्वरस्यातिरुचिरं यत् कर्म शृङ्गार-चेष्टा-विशेषः रूप-शोभा कामिनी-मनो-रञ्जिका कान्तिः ते एवामृत-रसौ तयोर् यत् पानम् अत्यन्त-चक्षुर्-व्यापारस् तत्-करणे साकाङ्क्षाभ्याम् | सुभग-कम्रेति पाठान्तरम् | सुभगः सुन्दरः कम्रः कमनीयः सुभग-कमनीययोर् एक-पर्याययोर् ग्रहणम् अद्भुतत्वाद् रूपस्येति त्रिपाठिनः || क्र. दी. वि. ३.२७ ||
______________________________
पुनः किम्भूतानाम् ?
विश्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-श्रवन्-
माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः |
मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-काञ्च्य्-उछ्वसन्-
नीवी-विश्लथमान-चीन-सिचयान्ताविर्नितम्ब-त्विषाम् || क्र. दी. ३.२८ ||
विश्रंसन् स्खलन् यः केश-पाशस् तस्मात् प्रभ्रंश्यद् यद् विकसितं पुष्पं तस्माद् गलन्ती या माध्वी पुष्प-रसः तत्रात्यन्तासक्तो यश् चञ्चरीको भ्रमरस् तस्य समूहेन मुहुर् वारं वारं संसेवितानाम् | पुनः किम्-भूतानां मारेति |
काम-कृतोन्मादेन या मत्तता तया स्खलन्ती अस्पष्टा मृद्वी कोमला मनोहरा गीर्वाणी यासां तास् तथा तासाम् उन्माद-मदौ शृङ्गार-विशेषौ | तद् उक्तं शृङ्गार-तिलके-
श्वास-प्ररोदनोत्कम्पैर् बहुधालोकनैर् अपि |
व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ||
एवं मदस्यापि लक्षणं बोद्धव्यम् इति केचित् | पुनः कीदृशीनाम् ? आलोला चञ्चला या काञ्ची-रसना तथा उच्छ्वसन्ती दृढा भवन्ती या नीवी वस्त्र-ग्रन्थिः | नीवी स्त्री-वसन-ग्रन्थाव् इति कोषात् | तया विश्लथमानं चीन-सिचयं चीन-देशोत्पन्नं सूक्ष्म-वस्त्रं तस्यान्ते मध्ये आविः प्रकटा नितम्ब-त्विट् नितम्ब-कान्तिर् यासां तास् तथा तासाम् || क्र. दी. वि. ३.२८ ||
______________________________
पुनः किम्भूतानाम् ?
स्खलित-ललित-पादाम्भोज-मन्दाभिघात-
क्वणित-मणि-तुलाकोट्याकुलाशा-मुखानाम् |
चलद्-अधर-दलानां कुड्मलत्-पक्ष्मलाक्षि-
द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम् || क्र. दी. ३.२९ ||
स्खलितम् अनायत्तं ललितं मनोहरं यत् पाद-पद्मं तस्य यो मन्द ईषद् अभिघातः आभिघात-क्वणित-मणि-तुलाकोट्याकुलाशा-मुखानाम् चलद्-अधर-दलानां कुड्मलत्-पक्ष्मलाक्षि-द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम् || क्र. दी. वि. ३.२९ ||
______________________________
पुनः किम्भूतानाम् ?
द्राघिष्ठ-श्वसन-समीरणाभि-ताप-
प्रम्लानी-भवद्-अरुणोष्ठ-पल्लवानाम् |
नानोपायन-विलसत्-कराम्बुजानाम्
आलीभिः सतत-निषेवितं समन्तात् || क्र. दी. ३.३० ||
दीर्घो यः श्वास-वायुस् तेन यो ऽभितापः तेन प्रम्लानी-भवन् रक्तौष्ठ-पल्लवो यासां तास् तथा तासाम् | पुनः किम्भूतानाम् ? विविधोपायनेन शोभमानानि हस्त-कमलानि यासां तास् तथा तासाम् || क्र. दी. वि. ३.३० ||
______________________________
पुनः कीदृशम् ?
तासाम् आयत-लोल-नील-नयन-व्याकोश-नीलाम्बुज-
स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विलासास्पदम् |
तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादनीं
बिभ्राणं प्रणयोन्मदाक्षि-मधुकृन्-मालां मनोहारिणीम् || क्र. दी. ३.३१ ||
मुकुन्दं तासां गोप-सुन्दरीणाम् आयतं दीर्घं लोलं चञ्चलं नीलं श्यामं यन् नयनं तद् एव व्याकोशं नीलोत्पलं प्रफुल्लं नीलाम्बुजं तेषां स्रग्भिर् मालाभिः सम्परिपूजिता अधिकतरम् अर्चिता सकला तनुर् यस्य स तथा तम् | पुनः कीदृशम् ? विविध-विलास-स्थानम् | पुनः कीदृशम् ? तन्-मुग्धाननेति तासां यन् मनोहरं मुखं तद् एव पद्म-समूहस् तस्मात् विगलन् स्रवन् यो माध्वी-रसो मकरन्दः तम् आस्वादयितुं शीलं यस्याः ताम् प्रणयेन प्रीत्या उद्गत-मदं यद् अक्षि-युगलं सैव भ्रमर-माला पङ्क्तिस् तां मनोहारिणीं बिभ्राणम् || क्र. दी. वि. ३.३१ ||
______________________________
अधुना परमेश्वर-ध्यानानन्तरम् उपासकामर-प्रभृतीनां ध्यानम् आह-
गोपी-गोप-पशूनां बहिः
स्मरेद् अग्रतो ऽस्य गीर्वाण-घटां |
वित्तार्थिनीं विरिञ्चि-त्रिनयन-
शतमन्यु-पूर्विकां स्तोत्र-पराम् || क्र. दी. ३.३२ ||
अस्य परमेश्वरस्याग्रतो गोपी-गो-पशूनां बहिर् गीर्-वाण-घट-देव-समूहं स्मरेत् यद्यपि बहिः-शब्द-योगे पञ्चमी ज्ञापिता तथापि ज्ञापक-सिद्धं न सर्वत्रेति षष्ठी-प्रयोगे ऽपि न दोषः | किम्-भूताम् ? वित्तार्थिनीं ज्ञानार्थिनीं वा धनार्थिनीं यद् वा परमेश्वर-चित्तापहरण-परां यद् वा धर्म-काम-मोक्षार्थिनीम् | पुनः किम्-भूताम् ? विरञ्चिर् ब्रह्मा ईशः शक्रः तत्-प्रमुखाम् | पुनः किम्-भूताम् ? स्तवन-पराम् || क्र. दी. वि. ३.३२ ||
______________________________
तद्-दक्षिणतो मुनि-निकरं
दृढ-धर्म-वाञ्छम् आम्नाय-परम् |
योगीन्द्रान् अथ पृष्ठे मुमुक्ष-
माणान् समाधिना सनकाद्यान् || क्र. दी. ३.३३ ||
तस्य परमेश्वरतो दक्षिणतो दक्षिण-विभागे तद्वद् इति पाठे तेनैव प्रकारेण मुनि-निकरं मुनि-समूहं स्मरेत् | कीदृशम् ? आम्नाय-परं वेदाध्ययन-परम् | पुनः कीदृशम् ? निश्चला धर्म-वाञ्छा यस्य तं यत् तु मननात् मुनिर् इत्य् अभिधानात् एषां धर्म-वाञ्छा न युक्ता तेन मुनि-शब्दो ऽत्र ऋष्य्-उपलक्षक इति तन् न, धर्म-शब्देनात्रात्म-ज्ञानाभिधानात् | तद् उक्तं याज्ञवल्क्येन-अयं तु परमो धर्मओ यद् योगेनात्म-दर्शनम् इति |
अथानन्तरं परमेश्वरस्य पश्चाद्-भागे सनकाद्यान् योगेश्वरान् स्मरेत् | किम्-भूतान् ? मोक्षैक-परान् | पुनः किम्-भूतान् ? समाधिनोपविष्टान् || क्र. दी. वि. ३.३३ ||
______________________________
सव्ये सकान्तान् अथ यक्ष-सिद्ध-
गन्धर्व-विद्याधर-चारणांश् च |
सकिन्नरान् अप्सरसश् च मुख्याः
कामार्थिनो नर्तन-गीत-वाद्यैः || क्र. दी. ३.३४ ||
अथानन्तरं देव-वाम-भागे स-स्त्रीकान् यक्षादीन् स्मरेत् | किम्-भूतान् ? किन्नर-सहितान् | पुनः किम्-भूतान् ? सर्व-नर्तन-गीत-वाद्यैः करण-भूतैर् वाञ्छितार्थिनः | तथा प्रधान-भूता अप्सरसः उर्वशी-मुख्याः स्मरेत् || क्र. दी. वि. ३.३४ ||
______________________________
शङ्खेन्दु-कुन्द-धवलं सकलागमज्ञं
सौदामनी-तति-पिशङ्ग-जटा-कलापम् |
तत्-पाद-पङ्कज-गताम् अचलाञ्च भक्तिं
वाञ्छन्तम् उज्झिततरान्य-समस्त-सङ्गम् || क्र. दी. ३.३५ ||
नभसि आकाशे धातृ-सुतं ब्रह्म-पुत्रं स्मरेत् | कथम्-भूतम् ? शङ्खादिवत् श्वेतं निर्मलम् | पुनः कीदृशम् ? सम्पूर्णागम-वेत्तारम् | पुनः कीदृशम् ? सौदामनी विद्युत् तस्यास् ततिः दीप्तिस् तद्वत् पिशङ्गा कपिला या जटा तस्याः कलापः समुदायो यत्र तम् | पुनः कीदृशम् ? भक्तिम् इच्छन्तम् | किम्-भूताम् ? स्थिराम् | पुनः कीदृशम् ? अत्यन्त-परित्यक्त-परमेश्वर-भिन्न-सकल-सम्बन्धम् || क्र. दी. वि. ३.३५ ||
______________________________
पुनः कीदृशम् ?
नाना-विध-श्रुति-गणान्वित-सप्त-राग-
ग्राम-त्रयी-गत-मनोहर-मूर्छनाभिः |
संप्रीणयन्तम् उदिताभिर् अमुं महत्या
सञ्चिन्तयेन् नभसि धातृ-सुतं मुनीन्द्रम् || क्र. दी. ३.३६ ||
अमुं नाना-प्रकारः षट्-त्रिंशद्-भेदात्मको यः श्रुति-गणः नाद-समूहस् तेनान्विता ये सप्त रागाः निषाद-र्षभ-गान्धार-षड्ज-मध्यम-धैवत-पञ्चमाख्याः स्वराः तत्र त्रयाणां ग्रामाणां समाहारो ग्राम-त्रयी तत्र ग्राम-त्रय्यां गताः प्राप्ताः या मूर्छना मनोहरा एकत्रिंशति-प्रकारास् ताभिः संप्रीणयन्तम् |
सप्त-स्वरास् त्रयो ग्रामा मूर्छनास् त्व् एकविंशतिः |
संमूर्छितः स्वरो यत्र रागतां प्रतिपद्यते |
मूर्छनाम् इति तां प्राहुः कवयो ग्राम-सम्भवाम् ||
किम्भूताभिः ? महत्या सप्त-तन्त्री-युक्तया नारद-वीणया उदिताभिर् उद्गताभिः || क्र. दी. वि. ३.३६ ||
______________________________
अधुना प्रकृतम् उपसंहरन् आत्म-पूजा-क्रमम् आह-
इति ध्यात्वात्मानं पटु-विशद-धीर् नन्द-तनयं
पुरो बुद्ध्यैवार्घ्य-प्रभृतिभिर् अनिन्द्योपहृतिभिः |
यजेद् भूयो भक्त्या स्व-वपुषि बहिष्ठैश् च विभवैर्
विधानं तद् ब्रूमो वयम् अतुल-सान्निध्य-कृद् अथ || क्र. दी. ३.३७ ||
इति पूर्वोक्त-ध्यान-प्रकारेण पटु-विशद-धीः समर्था विचार-क्षमा अथ च निर्मला एवम्भूता बुद्धिर् यस्य स तथा आत्मानं नन्द-तनयं गोपाल-कृष्ण-रूपं ध्यात्वा आत्म-नन्द-तनययोर् अभेदं चिन्तयित्वा पुरः प्रथमतो बुद्ध्यैव मनसैवार्घ्य-प्रभृतिभिर् अनिन्द्योपहृतिभिः अर्घ्य-पाद्यादिभिर् उपहृतिभिर् अनिन्दितोपचारैः यथोपदेशं पूजयेत् | त्रिपाठिनस् तु अभिनन्द्येति पाठे धृत्वा पूजयेद् इत्य् अर्थम् आहुः | भूयः पुनर् अपि स्व-शरीरे साक्षाद् बाह्योपचारैर् अर्घ्यादिभिः पूजयेत् | अथानन्तरं तद्-विधानं बहिष्ठ-विभवार्चन-प्रकारं वयं ब्रुमः | कीदृशम् ? परमेश्वरात्यन्त-सान्निध्य-दातारम् || क्र. दी. वि. ३.३७ ||
______________________________
शङ्ख-पूरण-विधिं दर्शयति-
आरचय्य भुवि गोमयाम्भसा
स्थण्डिलं निजम् अमुत्र विष्टरम् |
न्यस्य तत्र विहितास्पदो ऽम्भसा
शङ्खम् अस्त्र-मनुना विशोधयेत् || क्र. दी. ३.३८ ||
भुवि पृथिव्यां स्थण्डिलं पूजा-स्थलं गोमय-सहितेन जलेनारचय्य उपलिप्य अमुत्र स्थण्डिले निजं स्वीयं विष्टरम् आसनं वस्त्र-कम्बलादिकं न्यस्य संस्थाप्य तत्र विष्टरे विहितास्पदः कृतासनो जलेन शङ्खम् अस्त्र-मनुना मूलमन्त्रास्त्र-मन्त्रेण अस्त्राय फड् इति मन्त्रेण वा प्रलेपयेत् || क्र. दी. वि. ३.३८ ||
______________________________
तत्र गन्ध-सुमनोक्षतान् अथो
निक्षिपेद् धृदय-मन्त्रम् उच्चरन् |
पूरयेद् विमल-पाथसा सुधीर्
अक्षरैः प्रतिगतैः शिरो ऽन्तकैः || क्र. दी. ३.३९ ||
वाम-भाग-कृत-वह्नि-मण्डलाधारके शङ्खे सुधीः सुबुद्धि-साधकः हृदय-मन्त्रं मूल-मन्त्रम् एव हृदय-मन्त्रम् केवलं हृदयाय नम इति वा उच्चार्य गन्ध-पुष्प-यव-तण्डुलान् निक्षिपेत् | तथा विमल-पाथसा निर्मल-जलेन पूरयेत् | मन्त्रम् आह-प्रतिगतैर् इति | प्रतिलोम-गतैः प्रतिलोम-पठितैर् मातृकाक्षरैः क्ष-काराद्यैर् अकारान्तैः शिरो ऽन्तकैः स-बिन्दुकैः | बिन्द्व्-अन्तकैर् इति लघु-दीपिकाकारः | स्वाहान्तैर् इति विद्याधराचार्यः विक्राय स्वाहेय्त् अन्तैर् इति त्रिपाठिनः || क्र. दी. वि. ३.३९ ||
______________________________
पीठेति-
पीठ-शङ्ख-सलिलेषु मन्त्र-विद्
वह्नि-वासर-निशा-कृतां क्रमात् |
मण्डलानि विषकश्रवोक्षरैर्
अर्चयेद् वदन-पूर्व-दीपितैः || क्र. दी. ३.४० ||
पीठे शङ्खे सलिले च यथा-क्रमं वह्नि-सूर्य-चन्द्राणां मण्डलानि विषं म-कारः कं शिरस् तत्र न्यस्यमानो ऽकारः श्रवः श्रोत्रं तत्र न्यस्यमानो-कार एभिर् अक्षरैर् मन्त्र-विद् उपासकः क्रमेण पूजयेत् | कीदृशैः ? वदन-पूर्व-दीपितैः वदन-पूर्वे शिरसि न्यस्यमानम् अं बिन्दुर् इति यावत् तेन दीपितैः सानुस्वारैर् इत्य् अर्थः | प्रयोगस् तु-मं वह्नि-मण्डलाय दश-कलात्मने नमः | अं अर्क-मण्डलाय द्वादश-कलात्मने नमः | उं सोम-मण्डलाय षोडश-कलात्मने नमः || क्र. दी. वि. ३.४० ||
______________________________
तत्र तीर्थ-मनुनभिवाहयेत्
तीर्थम् उष्ण-रुचि-मण्डलात् ततः |
स्वीय-हृत्-कमलतो हरिं तथा
गालिनीं च शिखया प्रदर्शयेत् || क्र. दी. ३.४१ ||
तत्र शङ्ख-जले वक्ष्यमाण-तीर्थ-मन्त्रेण सूर्य-मण्डल-तीर्थम् आवाहयेत् तथा ततः स्वीय-हृत्-पद्मात् कृष्णम् आवाहयेत् | अनन्तरं शिखा-मन्त्रेण वक्ष्यमाणां गालिनीं मुद्रां प्रदर्शयेत् च-कारात् धेनु-मुद्रां च | वाम-हस्त-तले दक्षिण-तर्जन्या ताडनं प्रबोधनम् || क्र. दी. वि. ३.४१ ||
______________________________
तज्-जलं नयन-मन्त्र-वीक्षितं
वर्मणा समवगुण्ठ्य दोर्-युजा |
मूल-मन्त्र-सकलीकृतं न्यसेद्
अङ्गकैश् च कलयोद्दिशो ऽस्त्रतः || क्र. दी. ३.४२ ||
तज्-जलं शङ्ख-जलं वौषड् इति नयन-मन्त्रेण वीक्षितं यत्र नयन-मन्त्रः सम्भवति तत्रैव नयन-मन्त्रेण वीक्षणम् इति त्रिपाठिनः | वर्मणा हुम् इति कवच-मन्त्रेणागुण्ठ्य मूल-मन्त्र-सकलीकृतं मूल-मन्त्राङ्ग-सम्बन्धम् | एतस्यैव विवरणं न्यसेद् इति | देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकली-कृतिर् इति रुद्रधरः | यद् वा, मूल-मन्त्र-ध्यानेन सदैवतम् इति त्रिपाठिनः | अङ्गकैश् च न्यसेद् इति मूल-मन्त्रस्य षड्-अङ्ग-न्यासं कुर्याद् इत्य् अर्थः | अनन्तरं शङ्खस्य दश दिशः अस्त्र-मन्त्रेण छोटिकया बध्नीयात् || क्र. दी. वि. ३.४२ ||
______________________________
अक्षतादि-युतम् अच्युतीकृतं
संस्पृशन् जपतु मन्त्रम् अष्टशः |
किं च निक्षिपतु वर्धनी-जले
प्रोक्षयेन् निज-तनुं ततो ऽम्बुना || क्र. दी. ३.४३ ||
तज्-जलम् अभग्न-तण्डुल-चन्दन्-पुष्प-सहितं विष्णु-स्वरूपतां नीतं स्पृशन् मूल-मन्त्रम् अष्ट-कृत्वो जपेत् | अनन्तरम् अर्ध-जलस्य किञ्चित् स्व-दक्षिण-भाग-स्थापित-वर्धनी-जले प्रोक्षणीय-पात्र-जले निक्षिपेत् | तद् उक्तम्-
दक्षिणे प्रोक्षणी-पात्रम् आदायाद्भिः प्रपूजयेत् |
किञ्चिद् अर्घ्याम्बु सङ्गृह्य प्रोक्षण्य् अम्भसि योजयेत् || इति |
तद्-अनन्तरम् अर्ग्ध-पात्र-जलेन वार-त्रयं निज-शरीरं प्रोक्षयेत् | वर्धनी-घट-जलेनेति विद्याधराचार्याः || क्र. दी. वि. ३.४३ ||
______________________________
त्रिः करेण मनुनाखिलं तथा
साधनं कुसुम-चन्दनादिकम् |
शङ्ख-पूरण-विधिः समीरितो
गुप्त एष यजनाग्रणीर् इह || क्र. दी. ३.४४ ||
तथा मूल-मन्त्रेण दक्ष-हस्तेन पुष्प-चन्दनादिकं पूजोपकरण-द्रव्यं वार-त्रयं प्रोक्षयेत् | उपसंहरति शङ्खेति | एष शङ्ख-पूरण-प्रकारः समीरितः उक्तः | कीदृशः ? इह आगम-शास्त्रे यजनाग्रणीः प्रथम-विधाने यः श्रेष्ठतरः || क्र. दी. वि. ३.४४ ||
______________________________
अधुना तीर्थ-मन्त्रं दर्शयति-
गङ्गे च यमुने चैव गोदावरि सरस्वति |
नर्मदे सिन्धु-कावेरि जले ऽस्मिन् सन्निधिं कुरु || क्र. दी. ३.४५ ||
एष तीर्थम् अनुप्रोक्तो दुरितौघ-निवारणः |
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोर् इतरेतरम् || क्र. दी. ३.४६ ||
तर्जनी-मध्यमानामाः संहता भुग्न-संजिताः |
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता || क्र. दी. ३.४७ ||
एष तीर्थावाहन-मन्त्रः कथितः दुरितेति पाप-समूह-विनाशकः | अधुना गालिनी मुद्राया लक्षणम् आह-कनिष्ठेत्य् आदिना | हस्तयोर् अन्योन्य-कनिष्ठाङ्गुष्ठकौ सम्बन्धौ तथा तर्जनी-मध्यमानामिकाः संहताः कृत्वा भुग्नाः किञ्चिद् आकुञ्चिताः परस्पर-संसक्ताः कार्या इत्य् अर्थः | एवं च सति एषा गालिनी मुद्रा प्रोक्ता | शङ्खस्योपरि चालिता सती देवता-प्रीतिं सम्पादयतीत्य् अर्थः || क्र. दी. वि. ३.४५-४७ ||
______________________________
अधुना स्व-देहे पीठ-पूजा-क्रमम् आह-
अथ मूर्धनि मूल-चक्र-मध्ये
निज-नाथान् गण-नायकं समर्च्य |
न्यसन-क्रमतश् च पीठ-मन्त्रैर्
जल-गन्धाक्षत-पुष्प-धूप-दीपैः || क्र. दी. ३.४८ ||
अथानन्तरं मूर्धनि स्वकीय-शिरसि मूल-चक्र-मध्ये मूलाधार-चक्रे यथा-क्रमं स्व-नाथान् स्व-गुरून् गणपतिं च पूजयित्वा पूर्वोक्त-न्यास-क्रमेण पीठ-मन्त्रैर् आधार-शक्तिम् आरभ्य पीठ-मन्त्रान्तं तत्-तन्-मन्त्रैर् जल-गन्धाक्षत-पुष्प-धूप-दीपैः स्व-शरीरे पीठ-पूजनं कुर्यात् || क्र. दी. वि. ३.४८ ||
______________________________
प्रयजेद् अथ मूल-मन्त्र-तेजो
निज-मूले हृदये भ्रुवोश् च मध्ये |
त्रितयं स्मरतः स्मरेत् तद्-एकी-
कृतम् आनन्द-घनं तडिल्-लताभम् || क्र. दी. ३.४९ ||
अथानन्तरं तन्-मूलाधार-हृदय-भ्रू-मध्य-गत-तेजस्-त्रितयं मूल-मन्त्रात्मकं परं ज्योतिः स्मरतः काम-बीजेन क्लीम् इत्य् अनेनैकीभूतं चिन्तयेत् | कीदृशं ? आनन्द-घनं चिद्-आनन्दम् | पुनः कीदृशं ? विद्युत्-प्रभम् || क्र. दी. वि. ३.४९ ||
______________________________
तत्-तेजो ऽङ्गैः सावयवी-कृत्य विभूत्याद्य्-
अङ्गान्तं विन्यस्य यजेद् आसन-पूर्वैः |
भूषान्तैर् भूयो जल-गन्धादिभिर् अर्चां
कुर्याद् भूत्य्-आद्य्-अङ्ग-विधानावधि मन्त्री || क्र. दी. ३.५० ||
तद् एकीकृतं तेजः पञ्चाङ्गैः सावयवी-कृत्य शरीर-युक्तं सम्पाद्य तत्र विभूत्याद्य्-अङ्गान्तं विभूति-पञ्जरम् आरभ्याङ्ग-न्यास-पर्यन्तं स्व-शरीरे विन्यस्य आसनादि-भूषान्तैर् उपचारैर् देवं पूजयेत् | भूयः पुनर् अपि जल-गन्धादिभिर् विभूति-पञ्जर-मूर्ति-पञ्जर-करस्थ-सृष्टि-स्थिति-दश-पञ्चाङ्ग-न्यास-स्थानेषु न्यास-क्रमेणैव तन्-मन्त्रैर् एव पूजयेत् || क्र. दी. वि. ३.५० ||
______________________________
भूयो वेणुं वदन-स्थं वक्षो-देशे वन-मालाम् |
वक्षोजो ऽर्धं प्रयजेच् च श्रीवत्सं कौस्तुभ-रत्नम् || क्र. दी. ३.५१ ||
भूयः पुनर् अपि मुख-स्थं वेणुं पूजयेत् हृदये च वनमालां कण्ठम् आरभ्य पाद-द्वयम् अवलम्बिनीं पत्र-पुष्प-मयीं मालाम् | तद् उक्तम्-
कण्ठम् आरभ्य या तिष्ठेत् पाद-द्वय-विलम्बिनी |
पत्र-पुष्प-मयी माला वन-माला प्रकीर्तितेति |
स्तनस्योपरि श्रीवत्सं कौस्तुभं च प्रपूजयेत् || क्र. दी. वि. ३.५१ ||
______________________________
श्रीखण्ड-निःस्यन्द-विचर्चिताङ्गो
मूलेन भालादिषु चित्रकाणि |
लिख्याद् अथो पञ्जर-मूर्ति-मन्त्र-
रनामया दीप-शिखाकृतीनि || क्र. दी. ३.५२ ||
अथानन्तरं मूल-मन्त्रेण चन्दन-पङ्क-लिप्ताङ्गः पूजक एव ललाटादिषु मूर्ति-पञ्जर-न्यास-स्थानेषु चित्रकाणि तिलकानि दीप-शिखाकाराणि अनामिकया मूर्ति-पञ्जर-मन्त्रैः अं ॐ केशव-धातृभ्यां नम इत्य् आदिना द्वादश-मूर्तिभिर् लिख्यात् कुर्याद् इत्य् अर्थः || क्र. दी. वि. ३.५२ ||
______________________________
अधुना पुष्पाञ्जलि-विधिं दर्शयति-
पुष्पाञ्जलिं वितनुयाद् अथ पञ्च-कृत्वो
मूलेन पाद-युगले तुलसी-द्वयेन |
मध्ये हयारि-युगलेन च मूर्ध्नि पद्म-
द्वन्द्वेन षड्भिर् अपि सर्व-तनौ च सर्वैः || क्र. दी. ३.५३ ||
अथानन्तरं पञ्च-कृत्वः पञ्च-वारान् मूल-मन्त्रेण पुष्पाञ्जलिं वितनुयात् | तुलसी-द्वयेन श्वेत-कृष्ण-तुलसी-द्वयेन पाद-युगले क्रमेण दक्षिण-वाम-पादयोर् इत्य् अञ्जलि-द्वयं मध्ये हृदि हयारि-युगलेन श्वेत-रक्त-कर-वीराभ्याम् इत्य् एको ऽञ्जलिः मूर्ध्नि पद्म-द्वयेन श्वेत-रक्त-पद्माभ्यां इत्य् अपरो ऽञ्जलिः सर्वतनौ सर्वैश् च षड्भिर् अपि तुलसी-द्वय-करवीर-द्वय-पद्म-द्वयैश् चाञ्जलिं तनुयाद् इति पञ्चमो ऽञ्जलिः || क्र. दी. वि. ३.५३ ||
______________________________
अधुना श्वेत-कृष्ण-तुलस्य्-आदीनां प्रदान-विभागं दर्शयति-
श्वेतानि दक्ष-भागे सित-चन्दन-पङ्किलानि कुसुमानि |
रक्तानि वाम-भागे ऽरुण-चन्दन-पङ्क-सिक्तानि || क्र. दी. ३.५४ ||
श्वेतानि तुलस्य्-आदीनि पुष्पाणि श्वेत-चन्दन-पङ्क-युक्तानि दक्षिण-विभागे देयानि रक्तानि तुलस्य्-आदीनि रक्त-चन्दन-पङ्क-युक्तानि वाम-विभागे देयानि || क्र. दी. वि. ३.५४ ||
______________________________
उपचारं दर्शयति-
तद्वच् च धूप-दीपौ समर्प्य धिनुयात् सुधा-रसैः कृष्णम् |
मुख-वासाद्यं दत्त्वा समर्चयेत् साधु-गन्धाद्यैः || क्र. दी. ३.५५ ||
धूप-दीपौ समर्प्य सुधा-रसैर् ब्रह्म-रन्ध्र-स्थित-शशाङ्क-बिम्ब-गलितामृत-द्रवैर् धिनुयात् प्रीणयेत् | सुधा-रसैर् मन्त्र-कृत-जलैर् इति रुद्रधरः | श्री-कृष्णम् प्रीणयेत् | अनन्तरं मुख-वासाद्यं गन्ध-वटिकां दत्त्वा गन्ध-पुष्पैः पूजयेत् || क्र. दी. वि. ३.५५ ||
______________________________
ताम्बूल-गीत-नर्तन-वाद्यैः
सन्तोष्य चुलुक-सलिलेन |
ब्रह्मार्पणाख्य-मनुना
कुर्यात् स्वात्मार्पणं मन्त्री || क्र. दी. ३.५६ ||
ततस् तद्-अनन्तरं मन्त्री साधकः उपासकः ताम्बूल-गीतादिभिः श्री-कृष्णं परितोष्य चुलुकोदकेन ब्रह्मार्पण-मन्त्रेण वक्ष्यमाण-स्वात्म-समर्पणं कुर्याद् इत्य् अर्थः || क्र. दी. वि. ३.५६ ||
विमर्शः : ब्रह्मार्पण-मन्त्रो, यथा-
ब्रह्मार्पणं ब्रह्म-हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् |
ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म समाधिना || इति ||
______________________________
अथाशक्तं प्रत्य् आह-
अथवा सङ्कुचित-धियाम् अयं विधिर् मूर्ति-पञ्जरारब्धः |
यद्य् अष्टादश-लिपिना सार्ण-पदाङ्गैश् च वेणु-पूर्वैः प्रोक्तः || क्र. दी. ३.५७ ||
अथवा मन्दमतीनां पूजकानां पूजा-प्रकारो मूर्ति-पञ्जरादिभिर् उक्त इयं दशाक्षरेण पूजा अष्टादशाक्षर-पूजाम् आह | यद्य् अष्टादशाक्षर-मन्त्रेण पूजा तदा कच-भुवि ललाटादि-स्थानेषु मन्त्राक्षर-न्यास-पद-पञ्चाङ्ग-न्यासैर् वेण्व्-आदिभिश् च प्रोक्तः || क्र. दी. वि. ३.५७ ||
______________________________
जप-विधिं दर्शयति-
सुप्रसन्नम् अथ नन्द-तनूजं
भावयन् जपतु मन्त्रम् अनन्यः |
सार्थ-संस्मृति-यथाविधि-सङ्ख्या-
पूरणे ऽसुयमनं विधधीत || क्र. दी. ३.५८ ||
अथानन्तरं मन्त्रार्थ-स्मरण-पूर्वकं मूल-मन्त्रं जपतु | किं कुर्वन् ? सुप्रसन्नं पूर्वोक्त-रूपम् आत्म-भिन्नं कृष्णं हृदि भावयन् | पुनः किम्भूतः ? अनन्यस् तत्-परः यथोक्त-जप-सङ्ख्या-पूरणे सति असुयमनं प्राणायामं कुर्यात् जपारम्भे चात्र विद्याधराचार्यः बाह्य-पूजा-शक्तौ आत्म-पूजानन्तरं जपं कुर्यात् शक्तौ तु पूजानन्तरम् इत्य् आह || क्र. दी. वि. ३.५८ ||
______________________________
प्रयोग-पूर्व-कृत्यम् आह-
प्रणव-पुटितं बीजं जप्त्वा शतं सहिताष्टकं
निज-गुरु-मुखाद् आत्तान् योगान् युनक्तु महामतिः |
सद्-अमृत-चिद्-आनन्दात्माथो जपं च समापयेद्
इति जप-विधिः सम्यक् प्रोक्तो मनु-द्वितयाश्रितः || क्र. दी. ३.५९ ||
काम-बीजं प्रणव-पुटितं सहिताष्टकं शतम् अष्टोत्तर-शतं जप्त्वा निज-गुरु-मुखात् प्राप्तान् योगान् आत्म-पर-देवता-समावेश-लक्षणान् अष्टम-पटले वक्ष्यमाणान् महामतिर् युनक्तु करोतु | प्रकृतम् उपसंहरति-अनन्तरं सद्-अमृत-चिद्-आनन्दात्मामुं जपं समापयेत् इत्य् अनेन प्रकारेण मनु-द्वितीयाश्रितः दशाक्षराष्टादशाक्षराश्रितः पूजा-प्रकारः सम्यक् प्रकारेणोक्तः || क्र. दी. वि. ३.५९ ||
______________________________
य इमं भजते विधिं नरो
भवितासौ दयितः शरीरिणाम् |
अपि वाक्-कमलैक-मन्दिरं
परमं ते समुपैति तन्-महः || क्र. दी. ३.६० ||
यो नरो मनुष्य इमं पूजा-प्रकारं सेवते ऽसौ शरीरिणाम् वल्लभो भविष्यति | तदा सरस्वती-लक्ष्म्योर् आवासो भविता अन्ते देह-पातानन्तरं तेजः समुपैति तद्-रूपो भवतीत्य् अर्थः || क्र. दी. वि. ३.६० ||
सनातनः : विधिं विधानं पुरश्चरण-लक्षणम् | अचिरात् शीघ्रं कमलायाः सर्व-सम्पत्तेर् एकं मुख्यं मन्दिरं च भाजनं भवति | अपि वाक्-कमलैक-मन्दिरम् इति पाठान्तरे वाचः सरस्वत्याः कमलायाश् चैक-मन्दिरम् अपि भवति || क्र. दी. वि. ३.६० || (ह्ब्व् १७.१५)
इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायां
तृतीयः-पटलः
||३||
**************************************************************************
(४)
चतुर्थ-पटलम्
अथ मन्त्र-जपादौ दीक्षितस्यैवाधिकारः तद्-उक्तम् आगमान्तरे -
द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु |
यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ||
तथात्रादीक्षितानां तु मन्त्रदेवार्चनादिषु |
नाधिकारो ऽस्त्य् अतः कुर्याद् आत्मानं शिवसंस्तुतम् || इति |
अतो मन्त्र-जप-प्रधानाङ्ग-भूतां दीक्षां कथयामीत्य् आह-
कथ्यते सपदि मन्त्र-वर्ययोः
साधनं सकल-सिद्धि-साधनम् |
यद् विधाय मुनयो महीयसां
सिद्धिम् ईयुर् इह नारदादयः || क्र. दी. ४.१ ||
सपदि साम्प्रतं मनु-वर्ययोः दशाक्षराष्टाक्षरयोः साध्यते वाञ्छितम् अनेनेति | साधनं दीक्षणं कथ्यते | कीदृशम् ? सकल-फल-साधनं यत् कृत्वा नारदादयो मुनयः महतीं सिद्धिम् इह जगति प्राप्तवन्तः || क्र. दी. वि. ४.१ ||
-ओ)O(ओ-
दीक्षाया गुरु-साध्यत्वादौ गुरु-लक्षणम् आह-
विप्रं प्रध्वस्त-काम-प्रभृति-रिपु-घटं निर्मलाङ्गं गरिष्ठां
भक्तिं कृष्णाङ्घ्रि-पङ्केरुह-युगल-रजोरागिणीम् उद्वहन्तम् |
वेत्तारं वेद-शास्तागम-विमल-पथां सम्मतं सत्सु दान्तं
विद्यां यः संविवित्सुः प्रवण-तनु-मना देशिकं संश्रयेत || क्र. दी. ४.२ ||
यो विद्यां संविवितुर् मन्त्रं सम्यक् ज्ञातुम् इच्छति स एतादृशं देशिकं गुरुं संश्रयेत् सेवेत | कीदृशम् ? विप्रं ब्राह्मण-जातम् उपदेशे क्षत्रियादेर् अनधिकारात् |
पुनः कीदृशम् ? प्रकर्षेण दूरीभूता कामाद्य्-अरि-षड्-वर्ग-घटा तया पूतं शरीरं यस्य तथा तं काम-क्रोधौ लोभ-मोहौ मद-मत्सरौ एते रिपवः कामादयः लोभाद्य्-उपहत-चित्तस्य निरन्तरं प्रत्यवायोत्पत्त्या सेव्यत्वाभावात् |
पुनः कीदृशम् ? श्री-कृष्ण-चरण-कमल-युगले यद्-रजस्- तत्र राग-युक्ताम् अतिशायितां भक्तिं धारयन्तम् अभ्यक्तस्य पुरुषार्थानवाप्तेः |
पुनः कीदृशम् ? वेद-शास्त्रागम-सम्बन्धि-विमल-मार्गाणां ज्ञातारम् अन्यथा आगम-शास्त्र-विचारानुपपत्तेः | पुनः कीदृशम् ? सत्सु जनेषु मध्ये सम्मतं सज्जनत्वेन प्रसिद्धम् अन्यथा खलत्वात् शुश्रूषानर्हत्वात् सच्-छब्दार्थ एव न स्यात् |
पुनः किम्भूतम् ? दान्तं वशीकृतेन्द्रियम् अवशीकृतेन्द्रियस्य देवता-पराङ्मुखत्वात् | कीदृशः ? प्रणतानम्रा विनीतातनुः कायो मनो हृदयं च यस्य स तथा अत्राधिकं मत्-कृत-शारद-तिलके ऽवगन्तव्यम् || क्र. दी. वि. ४.२ ||
सनातनः (ह्ब्व् १.३४) - निर्मलाङ्गं व्याधि-रहितं, वेद-शास्त्रागमानां ये विमलाः पन्थानो मार्गास् तेषां वेत्तारम् | सत्सु सतां मतं सम्मतम् | विद्यां संसार-दुःख-तरणाद्य्-उपायं मन्त्रम् | प्रवणा नम्रा विनीता देशिकैक-परा वा तनुर् मनश् च यस्य तथाभूतः सन् | देशिकं गुरुम् | एवं प्रवण-तनु-मनस्-त्वादि श्रुत्य्-उक्त-समित्पाणित्वादि च गुरूपसत्तेर् आद्य-प्रकारो ज्ञेयः || क्र. दी. वि. ४.२ ||
-ओ)O(ओ-
गुरु-सेवा-प्रकारम् आह-
सन्तोषयेद् अकुटिलाद्रेतरान्तरात्मा
तं स्वैर् धनैश् च वपुषाप्य् अनुकूलवाण्या |
अब्द-त्रयङ्कमलनाभधियाऽतिधीरस्
तुष्टे विवक्षतु गुराव् अथ मन्त्र-दीक्षाम् || क्र. दी. ४.३ ||
अथानन्तरम् उक्त-लक्षणं गुरुं वत्सर-त्रयं पद्मनाभ-बुद्ध्या सन्तोषयेत् | कैः ? स्वीय-द्रव्यैः तथा शरीरेण तथा प्रिय-वचनेन | कीदृशः ? सुधीरः पण्डितः | पुनः कीदृशः ? अवक्रो ऽतिस्निग्धो अन्तरात्मा अन्तःकरणं यस्य स तथा अथानन्तरं तुष्टे गुरौ मन्त्र-दीक्षां विवक्षतु वक्तुम् इच्छतु शिष्य एव यत् त्व् अन्यत्रोक्तम् -
एकाब्देन भवेद् विप्रो भवेद् अब्द-द्वयान् नृपः |
भवेद् अब्द-त्रयैर् वैश्यः शूद्रो वर्ष-चतुष्टयैः || इति |
अन्यथा तु -
त्रिषु वर्षेषु विप्रस्य षड्-वर्षेषु नृपस्य च |
विशो नवसु वर्षेषु परीक्षेतेति शस्यते |
समास्व् अपि द्वादशसु तेषां ये वृषलादयः || इति बोद्धव्यम् |
विहित-नक्षत्रादिकं मत्-कृत-शारदा-तिलकोद्योते बोद्धव्यम् || क्र. दी. वि. ४.३ ||
-ओ)O(ओ-
कलावत्य्-आदि-भेदेन दीक्षाया बहु-विधत्वात् मया पुनर् अत्र प्रपञ्च-सारोक्ता क्रियावती दीक्षैव सङ्क्षेपेण प्रदर्श्यते इत्य् आह-
प्रपञ्च-सार-प्रथिता तु दीक्षा
संस्मार्यते सम्प्रति-सर्व-सिद्ध्यै |
ऋते यया सन्तत-जापिनो ऽपि
सिद्धिं न वै दास्यति मन्त्र-पूगः || क्र. दी. ४.४ ||
सम्प्रति दीक्षा क्रियावती संस्मार्यते तस्याः स्मरण-मात्रं क्रियते न तु सम्यग् अभिधीयते | अत्र हेतुः यतः प्रपञ्च-सारे विविच्योक्ता | किम् अर्थम् अभिधीयते ? सर्वेषां फलानां प्राप्त्यै यया दीक्षया विना सर्वदा जप-कर्तुः पुरुषस्य मन्त्र-समूहः फलं यस्मान् न ददाति | यद् आहुः -
मन्त्र-वर्गानुसारेण साक्षात्-कृत्येष्ट-देवताम् |
गुरुश् चेद् बोधयेच् छिष्यं मन्त्र-दीक्षेति सोच्यते || इति |
-ओ)O(ओ-
अथ शोधित-शालादि-स्थाने मण्डप-पूर्व-कृत्यं वास्तु-बलिम् आह-
अथ पुरो विदधीत भुवः स्थलीम्
अधि यथाविधि वास्तु-बलिं बुधः |
अचल-दोर्-मितम् अत्र तु मण्डपं
मसृण-वेदिकम् आरचयेत् ततः || क्र. दी. ४.५ ||
अथानन्तरं प्रथमं भुवः स्थलीम् अधि पृथिव्याम् उपरि यथाविधि यथोक्त-प्रकारेण वास्तु-बलिं बुधो पुरो दद्यात् | अत्र बलि-दानादि-विधिश् च मत्-कृत-शारद-तिलकोद्द्योते बोद्धव्यः | ततस् तद्-अनन्तरम् अत्र संस्कृत-भूमौ मण्डपं कुर्यात् | कीदृशम् ? अचल-दोर्-मितम् सप्त-हस्त-परिमितम् | तु-शब्दो अनुक्त-समुच्चयार्थः | तेन पञ्च-हस्त-परिमितं नव-हस्त-मितं चेति बोद्धव्यम् | पुनः कीदृशं ? मसृण-वेदिकं चिक्कण-वेदिकम् उक्तृष्ट-वेदिकम् इत्य् अर्थः || क्र. दी. वि. ४.५ ||
______________________________
त्रिगुण-तन्तु-युजा कुश-मालया
परिवृतं प्रकृति-ध्वज-भूषितम् |
मुख-चतुष्क-पयस्-तरु-तोरणं
सित-वितान-विराजितम् उज्ज्वलम् || क्र. दी. ४.६ ||
पुनः कीदृशं ? कुश-मालया वेष्टितम् | किम्भूतया ? श्वेत-रक्त-श्याम-वर्ण-तन्तु-युक्तया यद् वा त्रिगुणी-कृत-सूत्र-युक्तया | पुनः कीदृशं ? अष्टभिर् ध्वजैर् शोभितं प्रकृतिर् अष्ट-सङ्ख्यया | पुनः कीदृशं ? मुख-चतुष्के द्वार-चतुष्टये पयस्-तरुभिर् क्षीर-वृक्षैः तोरणं बहिर् द्वारं यत्र तादृशम् | क्षीर-वृक्षास् तु अश्वत्थोदुम्बर-प्लक्ष-न्यग्रोधाख्याः | पुनः कीदृशं ? शुभ्र-चन्द्रातपेन शोभितम् | पुनः कीदृशं ? उज्ज्वलं निर्मलम् || क्र. दी. वि. ४.६ ||
______________________________
कुण्ड-विधिम् आह-
वसु-त्रिगुणिताङ्गुल-प्रमित-खात-तारायातं
वसोर् वसुपतेर् अथो ककुभि-धिष्ण्यम् अस्मिन् बुधः |
करोतु वसु-मेखलं वसु-गणार्ध-कोणं प्रतीच्य्-
अवस्थित-गजा-धर-प्रतिम-योनि-संलक्षितम् || क्र. दी. ४.७ ||
अथानन्तरम् अस्मिन् मण्डपे बुधः वसोर् वह्नेर् धिष्ण्यं कुण्डं करोतु | कीदृशं ? वसुर् अष्ट-सङ्ख्या अष्टौ वसवः इति प्रसिद्धेः | तेषां वसूनां त्रिगुणानि चतुर्विंशाङ्गुलानि, तैः प्रमितं तत्-प्रमाणं खातस्य गर्तस्य उच्चत्वं विस्तारश् च यत्र तादृशम् | कुत्र ? वसुपतेः कुबेरस्य ककुभि दिशि उत्तरस्याम् | पुनः कीदृशं ? वसु-मेखलम् | अत्र वसु-शब्देन अग्निर् उच्यते | स च गार्हपत्याहवनीयेत्य् आदि त्रिविधः | पुनः कीदृशं ? वसु-गणार्ध-कोणं चतुष्कोणम् | पुनः कीदृशं ? पश्चिम-दिश्य् अवस्थितं गजो ऽष्त-सदृश-द्वादशाङ्गुलायामा या योनिस् तया भूषितम् | तद् उक्तम्-द्वादशाङ्गुलि-रूपत्वाद् योनिः स्याद् द्वादशाङ्गुलिः इति | अपरो ऽत्र विशेषः शारदा-तिलकतो ऽवगन्तव्यः || क्र. दी. वि. ४.७ ||
______________________________
अधुना राशि-मण्डल-विधिं-
ततो मण्डपे गव्य-गन्धाम्बु-सिक्ते
लिखेन् मण्डलं सम्यग् अष्ट-च्छदाब्जम् |
स-वृत्त-त्रयं राशि-पीठाङ्घ्रि-वीथि-
चतुर्धार-शोभोपशोभास्र-युक्तम् || क्र. दी. ४.८ ||
ततो मण्डपानन्तरम् अस्मिन् मण्डपे सम्यक् यथोक्त-प्रकारेण मण्डलं लिखेत् | कीदृशे ? गव्यैः पञ्च-गव्यैः शारदा-तिलकोक्त-वैष्णव-गन्धाष्टक-जलेन प्रोक्षिते | कीदृशं ? अष्ट-दल-पद्म-सहितम् | पुनः कीदृशं ? वृत्त-त्रय-सहितम् | पुनः राशयो मेषादयः पीठं कलस-स्थापन-स्थानं तस्याङ्घ्रि-पीठ-पात्र-चतुष्टयं चतस्रो वीथयः चत्वारि-द्वाराणि शोभा उपशोभा अस्रं कोणम् एतैर् युक्तम् | अयम् अर्थः-सार्ध-हस्त-द्वय-प्रमाणेन समं चतुर्-अस्रम् भू-भागं परिष्कृत्य तत्र पूर्वापरायतानि सप्तदश-सूत्राणि पालयेत् | एवं सति षट्-पञ्चआशद् उत्तरं द्वि-शतं कोष्ठानां भवति | तत्र कोष्ठ-विभागो मध्ये षोडशभिः कोष्ठैर् वृत्त-त्रयान्वितं पद्मं लिखेत् | (तत्र च पद्मोपरि-शिष्टे पीठं तद्-अङ्गं च लिखेत् | तद्-बहिर् अष्टाधिक-चत्वारिंशता-द्वादश-राशीन् लिखेत् | तद्-बहिः षट्-त्रिंशता-पीठं पीठाङ्गं च लिखेत् | (तद्-बहिर् अशीतिभिः पदैर् लिखेत् |) अत्रेदं बोद्धव्यं पद्मस्य दलाग्र-स्थं वृत्तं पीठ-शक्तिश् च एतयोर् मध्ये पूर्व-दक्षिण-पश्चिमोत्तरं सूत्र-चतुष्टयं दद्यात् | अनन्तरं द्वादशाधिकैः शतपदैर् द्वार-शोभोपशोभा-कोणानि विलिखेत् | तत्र सर्वस्यां दिशि द्वारं षट्-पदम् | तत्र प्रकारः बाह्य-पङ्क्ति-गत-मध्य-कोष्ठ-द्वयं तद्-अन्तर्गत-पङ्क्ति-गतमध्य-कोष्ठ-द्वयम् इति द्वारस्यैकस्मिन् भागे कोष्ठ-चतुष्टयेनैका शोभा भवति | तत्र बाह्य-पङ्क्ति-गतम् एक-कोष्ठं तद्-अन्तर्गत-पङ्क्ति-गतं कोष्ठ-त्रयम् इति | एवं कोष्ठ-चतुष्टयेनैकोपशोभा भवति | अत्र बाह्य-पङ्क्ति-गत-कोष्ठ-त्रय-तद्-अन्तर्गत-पङ्क्ति-गतम् एकं कोष्ठम् इति तथा कोष्ठ-षट्केन कोणम् इति | एवम् अपरस्मिन् भागे ऽपि शोभोपशोभा-कोणानि बोद्धव्यानि | एवं दिक्-चतुष्टये ऽपि मिलित्वा द्वादशाधिकं शतं भवतीति | अत्रानुक्तं शारदा-तिलके बोध्यम् || क्र. दी. वि. ४.८ ||
______________________________
ततो देशिकः स्नान-पूर्वं विधानं
विधायात्म-पूजावसानं विधिज्ञः |
स्व-वामाग्रतः शङ्खम् अप्य् अर्घ्य-पाद्या-
चमाद्यानि पात्राणि सम्पूरितानि || क्र. दी. ४.९ ||
विधायान्यतः पुष्प-गन्धाक्षताद्यं
कर-क्षालनं पृष्ठतश् चापि पात्रम् |
प्रदीपावली-दीपिते सर्वम् अन्यत्
स्व-दृग्-गोचरे साधनं चाददीत || क्र. दी. ४.१० ||
तद्-अनन्तरं विधिज्ञः आगमोक्त-प्रकारज्ञः देशिको गुरुः स्नान-पूर्वकं विधानं स्व-गृह्योक्तादि-स्नान-विधिम् आत्म-पूजा-पर्यन्तं समाप्य स्व-वामाग्रे शङ्खार्घ्य-पाद्या-चमानीय-पात्राणि जलादि-स्वच्छ-द्रव्यैः सम्पूरितानि | कृत्वा यथोत्तरं स्थापयित्वान्यतो दक्षिण-भागे पुष्पाणि पूजा-द्रव्याणि निधाय कर-प्रक्षालण-पात्रम् एकं पृष्ठ-देशे निधाय सर्वम् अन्यत् साधनम् उपकरणं स्व-दृग्-गोचरे चक्षुर्-गोचरे प्रदीप-श्रेणि-विराजिते स्थापयेत् | अत्रापरो विशेषः श्री-परमानन्द-भट्टाचार्य-कृते प्रपञ्च-सार-विवरणे द्रष्टव्यः || क्र. दी. वि. ४.९-१० ||
______________________________
वायव्याशादीश-पर्यन्तम् अर्च्य-
पीठस्योदग्-गौरवी पङ्क्तिर् आदौ |
पूज्यो ऽन्यत्राप्य् आम्बिकेयः कराब्जैः
पाशं दन्तं शृण्य-भीती दधानः || क्र. दी. ४.११ ||
पीठस्य राशि-पीठस्य उदक् उत्तर-भागे वायव्य-कोणाद् ईशान-कोण-पर्यन्तं गुरु-सम्बन्धिनी पङ्क्तिर् आदौ प्रथमतः पूज्या | प्रयोगस् तु ॐ गुरुभ्यो नमः इति | अन्यत्र दक्षिण-भागे आम्बिकेयो गणपतिः पूज्यः | कीदृशं ? हस्त-पद्मैः स्व-दन्तं शृणिम् अङ्कुशम् अभयं दधानः || क्र. दी. वि. ४.११ ||
______________________________
अधुना कलश-स्थापन-प्रकारं दर्शयति यतो देशिक इत्य् आदिना-
आराध्याधार-शक्त्य्-आद्य्-अमर-चरण-पावध्यथो मध्य-भागे
धर्मादीन् वह्निर् अक्षः-पवन-शिव-गतान् दिक्ष्व् अधर्मादिकांश् च |
मध्ये शेषाब्ज-बिम्ब-त्रितय-गुण-गणात्मादिकं केशराणां
वह्नेर् मध्ये च शक्तीर् नव-समभियजेत् पीठ-मन्त्रेण भूयः || क्र. दी. ४.१२ ||
अथानन्तरं मण्डल-मध्य-भागे आधार-शक्तिम् आरभ्य कल्प-वृक्ष-पर्यन्तम् आराध्य पूजयित्वा पीठ-न्यास-क्रमेण वह्नीति अग्न्य्-आदि-कोण-गतान् धर्मादीन् पूर्वादि-चतुर्दिक्षु अधर्मादीन् तथा मध्ये शेषं पद्मं तथा सूर्य-सोम-वह्नीनां बिम्ब-त्रयं द्वी̀अदश-षोडश-दश-कला-व्याप्तं मण्डल-त्रयं तथात्मादि-चतुष्टयं पूजयेत् | अथ केशराणां मध्ये कर्णिकायां च्च विमलाद्या नव-शक्तीः पूर्वादि-क्रमेण पूजयेत् | भूयः पुनर् अपि पूर्वोक्तेन पीठ-मन्त्रेण पीठं पूजयेद् इत्य् अर्थः || क्र. दी. वि. ४.१२ ||
______________________________
ततः शालीन् मध्येकमलम् अमलांस् तण्डुल-वरान्
अपि न्यस्येद् दर्भांस् तद् उपरि च कूर्चाक्षत-युतान् |
न्यसेत् प्रादक्षिण्यात् तद्-उपरि कृशानोर् दश कला-
य-काराद्य्-अर्णाद्या यजतु च सुगन्धादिभिर् इमाः || क्र. दी. ४.१३ ||
तद्-अनन्तरं मध्ये-कमलं कमल-मध्ये शालीन् आढक-परिमितान् तथा शुभ्रान् शाल्य्-अष्ट-भाग-परिमितान् तण्डुलान् श्रेष्ठान् न्यस्येत् स्थापयेत् | यद् उक्तं-
शालीन् वै कर्णिकायां च निक्षिप्याढक-संमितान् |
तण्डुलांश् च तद्-अष्टांशान् दर्भैः कूर्चैः प्रविन्यसेत् || इति |
तद्-उपरि तण्डुलोपरि कूर्चाक्षत-युक्तान् दर्भान् विन्यसेत् | कुश-त्रय-घटितो ब्रह्म-ग्रन्थिः कूर्च-शब्देनोच्यते कूर्चः कुश-मुष्टिर् इति त्रिपाठिनः | तद्-उपरि कूर्चोपरि कृशानोर् वह्नेर् दश कला य-कारादयो दश-वर्णा आद्याः प्रथमा यासां ताः प्रादक्षिण्येन न्यसेत् तद्-अनन्तरं इमा दश कला गन्धादिभिः पूजयेत् |
ताश् च-
धूम्रार्चिर्-ऊष्मा-ज्वलिनी-ज्वालिनी-विस्फुलिङ्गिनी |
सुश्रीः सुरूपा कपिला हव्य-वहा कव्यवहा || इति |
प्रयोगस् तु धूम्रार्चिषे नम इति || क्र. दी. वि. ४.१३ ||
______________________________
न्यसेत् कुम्भं तत्र त्रिगुणित-लसत्-तन्तु-कलितं
जपंस् तारं धूपैः सुपरिमलितं जोङ्कटमयैः |
कभाद्यैः कुम्भे ऽस्मिन् ठ-ड-वसितिभिर् वर्ण-युगलैः
तथान्यस्याभ्यर्च्यास् तद्-अनु ख-मणेर् द्वादश कलाः || क्र. दी. ४.१४ ||
तत्र दश-कला-मये कूर्चे ती̀अरम् ओङ्कारम् उच्चरन् कुम्भं न्यसेत् | कुम्भस् तु सुवर्णादि-निर्मितः | तद् उक्तम्-
सौवर्णं राजतं वापि मृण्मयं वा यथोदितम् |
क्षाणयेद् अस्त्र-मन्त्रेण कुम्भं सम्यक् सुरेश्वरि || इति |
कीदृशम् ? ग्रीवायां त्रिगुणिता लसन्तः शोभमाना ये तन्तवः कन्या-कर्तित-कार्पास-सूत्राणि तैः कलितम् अस्त्र-मन्त्रेण वेष्टितम् | पुनः कीदृशम् ? जोङ्कट-मयैः कृष्णागुरु-प्रधानैर् धूपैः सुधूपितं तद्-अनन्तरं खमणेः सूर्यस्य द्वादश-कला अस्मिन् कुम्भे न्यस्य अनन्तरं पूज्याः | कैः ? वर्ण-युगलैः | कीदृशैः ? कभाद्यैः क-कार-भ-काराद्यैः | पुनः कीदृशैः ? ठ-ड-वसितिभिः ठ-कार-ड-कारावसानैः | अयम् अर्थः-अनुलोम-पठित-क-काराद्य्-एकैकम् अक्षरं प्रतिलोम-पठित-भ-काराद्य्-एकैकम् अक्षरेण सहितं तपिन्य्-आदिषु द्वादश-कलासु संयोज्य न्यासादिकं कार्यम् | ताश् च-
तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः |
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा || इति |
प्रयोगस् तु-कं भं तपिन्यै नमः | खं वं ताइन्यै नमः इत्य् आदि कार्यम् ||१४||
______________________________
एवं सङ्कल्प्याग्निम् आधार-रूपं
भानुं तद्वत् कुम्भ-रूपं विधिज्ञैः |
न्यस्येत् तस्मिन्न् अक्षताद्यैः समेतं
कूर्चं स्वर्णै रत्न-वर्यैः प्रदीप्तम् || क्र. दी. ४.१५ ||
एवम् अनेन प्रकारेणाधार-रूपम् अग्निं सङ्कल्प्य तद्वत् कुम्भ-रूपं भानुं विचिन्त्य तस्मिन् कुम्भे विधिज्ञ आगमोक्त-प्रकाराभिज्ञः मूल-मन्त्रेणाक्षताद्यैः सहितं कूर्चं पूर्वोक्त-लक्षणैः सुवर्ण-रत्न-वर्यैर् नव-रत्नैः शोभितं न्यसेत् | तद् उक्तं भैरवेण-
एतान् नयित्वा तन्-मध्ये शुक्ल-पुष्पं सिताक्षतम् |
नव-रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् || इति || क्र. दी. वि. ४.१५ ||
______________________________
अथ क्वाथ-तोयैः क्षकारादि-वर्णैर्
अकारावसानैः समापूरयेत् तम् |
स्वमन्त्र-त्रिजापावसानं पयोभिर्
गवां पञ्च-गव्यैर् जलैः केवलैर् वा || क्र. दी. ४.१६ ||
अथानन्तरं पीठ-कुम्भयोर् ऐक्यं विचिन्त्य पञ्चाशद्-वर्णैर् ओषधि-तोयैः पलाश-त्वग्-जलैः क्षीर-द्रुम-त्वक्-क्वाथ-जलैर् वा सर्वौषधि-जलैर् वा गवां पयोभिर् वा पञ्च-गव्यैर् वा केवल-जलैः कर्पूरादि-जलैर् वा तीर्थ-जलैर् वा क्ष-कारादि-वर्णैर् अकारावसानैर् विलोम-मातृकाभिः स्व-मन्त्र-त्रिजपावसानं मूल-मन्त्र-वार-त्रय-जपी̀अन्तं यथा स्याद् एवं पूरयेत् || क्र. दी. वि. ४.१६ ||
______________________________
कलश-जले ऽस्मिन् वसु-युग-सङ्ख्याः
स्वर-गण-पूर्वा न्यसतु तथैव |
उडुप-कलास् ताः सलिल-सुगन्धा-
क्षत-सुमनोभिस् तद्-अनु यजेत || क्र. दी. ४.१७ ||
तस्मिन् कलश-जले उडुप-कलाश् चन्द्र-कलाः वसु-युग-सङ्ख्याः षोडश-सङ्ख्याः स्वर-गण-पूर्वा अ-कारादि-वर्ण-पूर्वा न्यसतु | तद्-अनु तद्-अनन्तरं ताश् चन्द्र-कलास् तथैव तेनैव क्रमेण पुष्पाञ्जलिभिः पूजयेत् | ताश् चोक्ताः-
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर् धृतिः |
शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्गदा |
पूर्णा पूर्णामृता च || इति |
______________________________
अधुना वैष्णव-गन्धाष्टकम् आह-
उदीच्य-कुष्ट-कुङ्कुमाम्बु-लोह-सज्जटामुरैः |
सशीतम् इत्य् उदीरितं हरेः प्रियाष्ट-गन्धकम् || क्र. दी. ४.१८ ||
उदीच्यम् उशीरं कुष्टं कुङ्कुमम् अम्बु-बाला नेत्र-बाला लोहः कृष्णागुरुर् जटया सह मुरा जटा मांसी च एतैः सह शीतं चन्दनम् इति हरेः प्रिय-कारि-गन्धाष्टकम् उक्तम् || क्र. दी. वि. ४.१८ ||
______________________________
शङ्ख-पूरणम् आह-
क्वाथ-तोय-परिपूरितोदरे
संविलोड्य विधिनाष्ट-गन्धकम् |
सोम-सूर्य-शिखिनां पृथक्-कलाः
सेच-कर्म विनियोजयेत् क्रमात् || क्र. दी. ४.१९ ||
उदरे शङ्खे विधिनागमोक्त-प्रकारेण मूल-मन्तेण पूर्वोक्त-क्वाथ-जलेन परिपूरिते गन्धी̀अष्टकं नमो-मन्त्रेण सविलोड्य दत्त्वा सोम-सूर्य-वह्नीनां कलाः पृथक् समावाह्य सेच-कर्म प्राण-प्रतिष्ठा-कर्म क्रमेण विनियोजयेत् कुर्यात् || क्र. दी. वि. ४.१९ ||
______________________________
तद्वद् आक्षर-भवास् तु कादिभिष्
टादिभिः पुनर् उकारजाः कलाः |
पादिभिर् मलिपिजास् तु बिन्दुजाः
षादिभिः स्वर-गणेन नाद-जाः || क्र. दी. ४.२० ||
पूर्वोक्त-प्रकारेण आक्षर-भवा अ-काराक्षर-भवा दश कलाः कादिभिः क-कारादिभिर् दशभिर् अक्षरैः सहिताः पुनर् उ-कार-जा उ-काराक्षर-भवा दश कलाः टादिभिर् दशभिर् अक्षरैः सहितास् तथा मलिपि-जा म-काराक्षर-भवा दश कलाः पादिभिर् दशभिर् अक्षरैः सहितास् तथा बिन्दुजा बिन्दु-प्रभवाः चतस्रः कलाः षादिभिश् चतुर्-अक्षरैः सहिताः तथा नादजा नाद-प्रभवाः षोडश्च कलाः स्वर-समूहेन षोडशभिः स्वरैः सहिताः शङ्ख-सलिले न्यस्याः | ताश् च-
सृष्टिर् ऋद्धिः स्मृतिर् मेधा कान्तिर् लक्ष्मीर् धृइत्ः स्थिरा |
स्थितिः सिद्धिर् अकारोत्थाः कला दश समीरितः ||
जरा च पालिनी शान्तिर् ऐश्वरी रति-कामिके |
वरदा ह्लादिनी प्रीतिर् दीर्घा चोकार-जाः कलाः ||
तीक्ष्णा रौद्रा भया निद्रा तन्तीर् क्षुत् क्रोधनी क्रिया |
उत्कारी चैव मृत्युश् च मकाराक्षरजाः कलाः ||
निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च |
इन्धिका दीपिका चैव रेचिका मोचिका परा ||
सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्य् आयनी तथा |
व्यापिनी व्योम-रूपा च अनन्ता नाद-सम्भवाः || इति |
प्रयोगश् च कं सृष्ट्यै नम इत्य् आदि || क्र. दी. वि. ४.२० ||
______________________________
समावाहनान्ते ऽसुसंस्थापनात् प्राक्
ऋचस् तत्र तत्राभिजप्या बुधेन |
समभ्यर्च्य तास् ताः पृथक् तच् च पाथो
ऽर्पयेन् मूल-मन्त्रेण कुम्भे यथावत् || क्र. दी. ४.२१ ||
समावाहनस्यान्ते ऽसुसंस्थापनात् प्राक् प्राण-प्रतिष्ठायाः पूर्वं तत्र तत्र स्थाने पण्डितेन धार्याश् चाभिजप्याः पठनीयाः | अयम् अर्थः-शङ्ख-जले ऽकार-प्रभव-क-कारादि-कलावाहनानन्तरं प्राण-प्रतिष्ठायाः पूर्वं हंसः शुचिषद् इति ऋचं पठेत् | उ-कार-प्रभव-टदि-कलावाहनानन्तरं प्रतद् विष्णुः इति ऋचं पठेत् | म-कारादि-प्रभव-प-कारादि-कलावाहनानन्तरं तत् सवितुर् इत्य् आदि ऋचं पठेत् | नाद-प्रभव-त-कारादि-कलावाहनानन्तरं विष्णोर् योनिर् इत्य् आदि ऋचं पठेत् | अनन्तरं मूल-मन्त्रं शङ्ख-जले विलोमेन जपेत् | तास् ताः कलाः पृथग् एकैकशः यथावत् यथा-विधि सम्पूज्य तच् च पी̀अथः तच्-छङ्खोदकं मूल-मन्त्रं पठित्वा कुम्भे विनिक्षिपेत् || क्र. दी. वि. ४.२१ ||
______________________________
सहकार-बोधि-पनस-स्तवकैः
शतमन्यु-वल्लिक्-कलितैः कलशम् |
पिदधातु पुष्प-फल-तण्डुलकैर्
अभिपूर्णयापि शुभ-चक्रिकया || क्र. दी. ४.२२ ||
सहकार आम्रः | बोधिर् अश्वत्थः | पनसः कण्टकि-फल-वृक्षः | एतेषां स्तवकैः पल्लवैः शतमन्यु-वल्लि-कलितैर् इन्दवल्ली-बद्धैः कलशं कलश-मुखं सुरद्रुम-धिया पिदधातु समाच्छादयतु तथा पुष्पादिभिः परिपूर्णया शुभ-चक्रिकया शोभमान-शरावेण तद्-उपरि पिदधात् || क्र. दी. वि. ४.२२ ||
______________________________
अभिवेष्टयेत् तद्-अनु कुम्भ-मुखं
नव-निर्मलांशुक-युगेन बुधः |
समलङ्कृते ऽत्र कुसुमादिभिर् अप्य्
अभिवाहयेत् परतरं च महः || क्र. दी. ४.२३ ||
तद् अनु तद्-अनन्तरं नूतन-मल-रहित-वस्त्र-द्वयेन परित्ः कुम्भ-मुखम् अभिवेष्टयेत् | अनन्तरं कुम्भे पुष्पादिभिर् अलङ्कृते परमोत्कृष्टं महस् तेजः पूज्य-देवता-स्वरूपम् आवाहयेत् आवाहनादिकं कुर्यात् | यथा श्री-कृष्णेहागच्छेह तिष्ठ इह संनिधेहि || क्र. दी. वि. ४.२३ ||
______________________________
सकली-विधाय कलश-स्थम् अमुं
हरिम् अर्ण-तत्त्व-मनु-विन्यसनैः |
परिपूजयेद् गुरुर् अथावहितः
परिवार-युक्तम् उपचार-गणैः || क्र. दी. ४.२४ ||
अमुं कलशस्थं हरिं सकलीकृत्य देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकलीकृतिर् इति | उत्तमाङ्गं विधाय वर्ण-तत्त्वम् अन्व् इति अक्षर-मय-तत्त्व-मन्त्र-न्यासैः सहेति रुद्रधरः | अर्ण इति सृष्टि-संहार-भेदेन अङ्गुल्यारोपण-भेदेन च मन्त्र-वर्ण-विन्यासो ऽर्ण-न्यासो मनु-न्यासः मनु-पुटित-मातृका-न्यास इत्य् अर्थः | इत्य् आदि-न्यासैस् तत्-तेजो-रूप-धरं सकलं सगुणं शरीरं कुर्याद् इति भैरव-त्रिपाठिनः | विद्याधरो ऽप्य् एवम् आह-पीट्ःअ-न्यास-कर-न्यासौ विनापि प्रथम-द्वितीय-पटल-प्रोक्त-न्यासादि-जातैर् इति | केचित् अष्टादशाक्षरे पक्षे तत्त्व-न्यास-स्थाने मन्त्राक्षर-न्यासो द्रष्टव्यः | अथानन्तरम् अवहितः सावधानो गुरुः स-परिवारं आवरण-समेतम् उपचार-गणैः षोडश-पञ्चोपचारान्यतमोपचारेण पूजयेत् || क्र. दी. वि. ४.२४ ||
______________________________
पूजा-क्रमम् आह-
दत्त्वासनं स्वागतम् इत्य् उदीयः
तथाध्यपाद्याचमनीयकानि |
देयानि पूर्वं मधुपर्क-यूञ्जि
नन्दात्मजायाचमनान्तकानि || क्र. दी. ४.२५ ||
स्थानं च वासश् च विभूषणानि
साङ्गाय तस्मै विनियोज्य मन्त्री |
गात्रे पवित्रैर् अथ गन्ध-पुष्पैः
पूर्वं यजेन् न्यास-विधानतो ऽस्य || क्र. दी. ४.२६ ||
तस्मै साङ्गाय नन्दात्मजाय कृष्णाय आसनं पद्मादि-कुसुम-रूपं दत्त्वा स्वागतम् इत्य् उदीर्य स्वागतम् इति शब्दम् उच्चार्य अनन्तरं पूर्वं प्रथमतो ऽर्घ्य-पाद्याचमनीयकानि मधुपर्क-सहितानि देयानि आचमनान्तकानि मधु-पर्कं दत्त्वा पुनर् आचमनीयं देयं स्नानं गन्ध-जलादिभिः कार्यं वासो वस्त्र-युगलं शरीरे देयं विभूषणानि कुण्डलादीनि यथा-स्थानं विनियोज्यानि | अथानन्तरम् अस्य परमेश्वरस्य गात्रे शरीरे पूर्वं प्रथमतः पवित्रैः शुद्धैर् गन्ध-पुष्पैर् न्यास-प्रकारेण यजेत् पूजयेत् || क्र. दी. वि. ४.२५-२६ ||
______________________________
पूजा-प्रकारम् एवाह-
सृष्टि-स्थिती स्वाङ्ग-युगं च वेणुं
मालाम् अभिज्ञान-वराश्म-मुख्यौ |
मूलेन चात्मार्चनवत् प्रपूज्य
समर्चयेद् आवरणानि भूयः || क्र. दी. ४.२७ ||
वर्ण-न्यास-मन्त्रैर् यथा-क्रमं पूजयेत् | ॐ ग्ॐ ॐ नमः इत्य् आदि | सृष्टि-स्थिती पूर्वोक्तं स्वाङ्ग-युगं पञ्चाङ्ग-दशाङ्ग-न्यासौ वेणुं मालां वनमालाम् अभिज्ञान-वरं श्रीवत्सलाञ्छनम् इति अश्म-मुख्यः कौस्तुभः | एतानि सम्पूज्य मूलेन चात्मार्चनवत् यथात्मनि परमेश्वर-पूजा मूल-मन्त्रेण पञ्च-कृत्वः तुलस्यादि-पुष्पाञ्जलिभिः पद-द्वयादिषु कृता तथा कुम्भस्थम् अपि सम्पूज्य भूयः पुनर् अपि आवरणानि वक्ष्यमाणानि पूजयेत् | अष्टादशार्ण-पक्षे सृष्ट्य्-आदि-स्थानेषु वर्ण-न्यास-पद-न्यासानां पूजा कार्येति बोद्धव्यम् || क्र. दी. वि. ४.२७ ||
______________________________
आवरण-पूजा-क्रमम् आह-
दिक्ष्व् अथ दाम-सुदामौ वसुदामः किङ्किणी च सम्पूज्याः |
तेजो-रूपास् तद्-बहिरङ्गानि च केशरेषु समभियजेत् || क्र. दी. ४.२८ ||
अथानन्तरं कर्णिकायां देवस्य पूर्वादि-चतुर्-दिक्षु दामादयश् चत्वारः पूज्याः | कीदृशाः ? तेजो-रूपा देदीप्यमानाः | प्रयोगस् तु-ॐ दामाय नम इत्य् आदि | द्वितीयावरणम् आह तद्-बहिर् इति | कर्णिका-कोणेषु अङ्गानि समभियजेत् || क्र. दी. वि. ४.२८ ||
______________________________
पूजा-विधानम् आह-
हुतवह-निरृति-समीर-शिव-दिक्षु हृदादि-वर्म-पर्यन्तम् |
पूर्वादि-दिक्ष्व् अथास्त्रं क्रमेण गन्धादिभिः सुशुद्ध-मनाः || क्र. दी. ४.२९ ||
अग्न्य्-आदि-कोण-चतुष्टयेषु हृदयादि-कवचान्तानि चत्वार्य् अङ्गानि अथानन्तरं पूर्वादि-चतुर्-दिक्षु अस्त्रम् अङ्गं पूजयेत् || क्र. दी. वि. ४.२९ ||
______________________________
अङ्ग-देवता-ध्यानम् आह-
मुक्तेन्दु-कान्त-कुवलय-
हरि-नील-हुताश-सभाः प्रमदाः |
अभय-वर-स्फुरित-कराः
प्रसन्न-मुख्यो ऽङ्गदेवताः स्मर्याः || क्र. दी. ४.३० ||
अङ्ग-देवता ध्येयाः | किम्भूताः ? प्रमदाः स्त्री-स्वभावाः | पुनः किम्भूताः ? मुक्ताः इन्दुकान्तश् चन्द्रकान्त-मणिः कुवलयं नील-पद्मं हरिनीलः इन्द्रनील-मणिः हुताशो वह्निश् च एतेषां समानाभा प्रभा वर्णो यासान्तास् तथा | किम्भूताः ? अभयेन वरेण च शोभिताः करा यासां ताः | किम्भूताः ? प्रसन्न-वदनाः || क्र. दी. वि. ४.३० ||
______________________________
तृतीयम् आवरणम् आह-
रुक्मिण्य्-आद्या महिषीर्
अष्टौ सम्पूजयेद् दलेषु ततः |
दक्षिण-कर-धृत-कमला
वसु-भरित-सुपात्र-मुद्रितान्य-कराः || क्र. दी. ४.३१ ||
ततस् तद्-अनन्तरं दलेषु पूर्वादि-पत्रेषु रुक्मिण्य्-आद्याः अष्टौ महिषीर् मुख्या महा-देवीः सम्पूजयेत् | किम्भूताः ? दक्षिण-करैर् धृतानि कमलानि याभिस् तास् तथा | पुनः किम्भूताः ? वसु-पूरित-पात्रैर् मुद्रिताः पूरिता अन्ये वाम-करा यासां तास् तथा || क्र. दी. वि. ४.३१ ||
______________________________
अष्टौ वर्णयति-
रुक्मिण्य्-आख्या सत्या स-नाग्निजित्य्-आह्वया सुनन्दा च |
भूयश् च मित्रविन्दा सुलक्ष्मणा ऋक्षजा सुशीला च || क्र. दी. ४.३२ ||
ऋक्षजा जाम्बवती || क्र. दी. वि. ४.३२ ||
______________________________
तासां रूपाणि दर्शयति-
तपनीय-मरकताभाः सुसित-
विचित्राम्बरा द्विशस् त्व् एताः |
पृथु-कुच-भरालसाङ्ग्या विविध-
मणि-प्रकर-विलसिताभरणाः || क्र. दी. ४.३३ ||
एता रुक्मिण्य्-आद्या द्विशः युग्मशः क्रमेण काञ्चन-मरकतयोर् इवाभा दीप्तिर् यासां तास् तथा | पुनः किम्भूताः ? शोभमानानि शुक्लानि नाना-प्रकाराणि वस्त्राणि यासां तास् तथा | पुनः किम्भूताः ? अचला ये कुचास् तेषां गौरवेण अलसानि निष्क्रियाणि अङ्गानि यासां तास् तथा | पुनः किम्भूताः ? नाना-प्रकारो मणि-प्रकर इन्द्रनीलादि-समूहस् तेषु विशेषेण शोभितानि आभरणानि यासाम् || क्र. दी. वि. ४.३३ ||
______________________________
चतुर्थावरणम् आह-
ततो यजेद् दलाग्रेषु वसुदेवं च देवकीम् |
नन्द-गोपं यशोदां च बलभद्रं सुभद्रिकाम् |
गोपान् गोपीश् च गोविन्द-विलीन-मति-लोचनान् || क्र. दी. ४.३४ ||
ततस् तद्-अनन्तरं दलाग्रेषु पूर्वादि-क्रमेण वसुदेवादीन् सम्पूजयेत् | कीदृशाः ? गोविन्दे विलीना सम्बद्धा मतिर् लोचनं येषां ते तथा || क्र. दी. वि. ४.३४ ||
______________________________
एतेषाम् आयुधा निदर्शयति-
ज्ञान-मुद्राभय-करौ पितरौ पीत-पाण्डरौ |
दिव्य-माल्याम्बरालेप-भूषणे मातरौ पुनः || क्र. दी. ४.३५ ||
ज्ञान-मुद्रा अभयं च करेषु ययोस् तौ पितरौ वसुदेव-नन्द-गोपौ | कीदृशौ ? हरिद्राभ-श्वेतौ मातरौ देवकी-यशोदे | कीदृश्यौ ? दिव्यानि देवार्हाणि माल्याम्बर-भूषणानि ययोस् तादृश्यौ || क्र. दी. वि. ४.३५ ||
______________________________
धारयन्त्यौ च वरदं पायसापूर्ण-पात्रकम् |
अरुणाश्यामले हार-मणि-कुण्डल-मण्डिते || क्र. दी. ४.३६ ||
वरदं वर-दानं मुद्रा-विशेषं पायसा-पूर्ण-पात्रं च धारयन्त्यौ | पुनः किम्भूते ? अरुणा-श्यामले | पुनः कीदृश्यौ ? हार-कुण्डलाभ्यां शोभिते || क्र. दी. वि. ४.३६ ||
______________________________
बलः शङ्खेन्दु-धवलो मुसलं लाङ्गलं दधत् |
हालालोलो नील-वासा हेलावान् एक-कुण्डलः || क्र. दी. ४.३७ ||
बलो बलभद्रः शङ्खेन्दु-धवलः श्वेतः लाङ्गलं मुसलं बिभ्राणः | पुनः कीदृशः ? हाला माध्वी तस्याः पाने लोलः चञ्चलः अमृष्य-कारी | पुनः कीदृशः ? नील-वासाः | पुनः कीदृशः ? हेलावान् लीलावान् | पुनः कीदृशः ? एक-कुण्डल-धारी || क्र. दी. वि. ४.३७ ||
______________________________
कलाय-श्यामला भद्रा सुभद्रा भद्र-भूषणा |
वराभय-युता पीत-वसना रूढ-यौवना || क्र. दी. ४.३८ ||
सुभद्रा कलाय-श्यामला भद्रा समीचीना भद्र-भूषणा शोभमानाभरणा | पुनः किम्भूता ? वराभय-युता | पुनः किम्भूता ? पीत-वसना | पुनः किम्भूता ? प्रौढ-यौवना || क्र. दी. वि. ४.३८ ||
______________________________
वेणु-वीणा-वेत्र-यष्टि-शङ्ख-शृङ्गादि-पाणयः |
गोपा गोप्यश् च विविध-प्रभृतात्त-कराम्बुजाः |
मन्दारादींश् च तद्-बाह्ये पूजयेत् कल्प-पादपान् || क्र. दी. ४.३९ ||
वेणुर् वंशी | वीना तन्त्री | वेत्रं यष्टिः शङ्खः शृङ्गादि नाना-वस्तु पाणौ करे येषाम् एवं विशिष्टा गोपाः गोप्यः पुनर् नाना-प्रकारं यत्-प्राभृतम् उपढौकनं तेनात्तम् आयत्तं वशीकृतं कराब्जं यासां ताः |
पञ्चमावरणम् आह-मन्दारादीन् इति | तद्-बाह्ये तद्-अनन्तरं मन्दारादीन् अग्रे वक्ष्यमाणान् कल्प-वृक्षान् पूजयेत् || क्र. दी. वि. ४.३९ ||
______________________________
मन्दार-सन्तानक-पारिजात-
कल्प-द्रुमाख्यान् करिचन्दनं च |
मध्ये चतुर्दिक्ष्व् अपि वाञ्छितार्थ-
दानैक-दक्षान् फल-नम्र-शाखान् || क्र. दी. ४.४० ||
तान् एवाह मन्दारेति | कुत्र कः पूजनीयः तत्राह मध्ये इति | मध्ये कर्णिकायां प्रथम-परित्यागे मानाभावात् प्रथम-निर्दिष्टवत् पूजा चतुर्दिक्षु पूर्वादि-चतुर्-दिक्षु एतादृशान् वाञ्छिता आकाङ्क्षिता ये अर्थास् तेषां दाने एकं अद्वितीया दक्षाः तान् तथा फलैः नम्राः शाखा येषु तान् | यद् वा, आकाङ्क्षित-दाने अद्वितीय-समर्थान् तथा फलैः नम्राः शाखा येषु तान् || क्र. दी. वि. ४.४० ||
______________________________
षष्ठावरणम् आह-
हरि-हव्य-वाट्-तरणिज-क्षपाचराप्य्
अतिवायुसोम-शिव-शेष-पद्मजान् |
प्रयजेत् स्वदिक्ष्व् अमल-धीः स्वजात्य् अधी-
श्वरहेति-पत्र-परिवार-संयुतान् || क्र. दी. ४.४१ ||
हरिर् इन्द्रः हव्य-वाड्-अग्निः तरणिजो यमः क्षपाचरो निशाचरो निरृतिः अप्पतिर् वरुणः वायुः सोमः ईशः शेषो ऽनन्तः पद्मजो ब्रह्मा एतान् स्व-दिक्षु पूर्वादि-दिक्षु निर्मल-मतिः पूजयेत् | अत्र निरृति-वरुणयोर् मध्ये ऽनन्तं सोमेशानयोर् मध्ये ब्रह्माणं स्वादिक्ष्व् अतिकथनात् अन्यत्र कल्पित-पूर्वादि-दिक्षु पूजावगम्यते | तद् उक्तम् आगमान्तरे-
देवाग्रे स्वस्य वाप्य् अग्रे प्राची प्रोक्ता च देशिकैः |
प्राची प्राच्य् एव विज्ञेया मुक्तये देवतार्चनम् || इति |
कीदृशान् ? स्व-जातिः इन्द्रत्वादिः | अधीश्वरो ऽधिपतिः हेतिः शस्त्रं पत्रं वाहनं परिवारो गणः एतैः संयुक्तान् एतेषां च बीजानि उच्चारयितव्यानि | प्रयोगस् तु लं इन्द्राय सर्व-सुराधिपतये सायुधाय सवाहनाय सपरिवाराय नम एवम् अन्यत्राप्य् ऊहनीयः || क्र. दी. वि. ४.४१ ||
______________________________
इदानीं वर्णम् आह-
कपिश-कपिल-नील-श्यामल-श्वेत-धूम्रा-
मल-सित-शुचि-रक्ता वर्णतो वासवाद्याः |
कर-कमल-विराजत्-स्वायुधा दिव्य-वेशा
विविध-मणि-गणो ऽस्र-प्रस्फुरद्-भूषणाढ्याः || क्र. दी. ४.४२ ||
कपिशः कनक-वर्णः कपिलस् ताम्र-वर्णाभः श्यामलः कृष्णः श्वेतः शुक्लः धूम्रो ऽसित-भेदः अमल-सितः श्वेतः शुचिर् अपि श्वेत एव रक्तो लोहित एते वासवाद्याः वर्णतो वर्णेन यथा-क्रमं पूर्वोक्त-क्रमतः | पुनः कीदृशः ? हस्त-पद्मे शोभमानानि आयुधानि येषां ते | पुनः उत्कृष्ट-वेशा नाना-प्रकार-मणि-समूहानां पद्म-रागादीनाम् उस्रेण किरणेन प्रस्फुरद्-देदीप्यमानं यद् भूषणं तेनाढ्या उपचिताः शोभमाना इत्य् अर्थः || क्र. दी. वि. ४.४२ ||
______________________________
सप्तमावरणम् आह-
दम्भोलि-शक्त्य्-अभिध-दण्ड-कृपाण-पाश-
चण्डाङ्कुशाह्वय-गदा-त्रिशिखारि-पद्माः |
अर्च्या बहिर् निज-सुलक्षित-मौलि-युक्ताः
स्व-स्वायुध-भय-समुद्यत-पाणि-पद्मः || क्र. दी. ४.४३ ||
दम्भोलिर् वज्रं शक्त्य्-अभिधं शक्ति-नामकम् अस्त्रं दण्डः कृपाणः खड्गः चण्डाङ्कुशाह्वयः उग्राङ्कुशाख्यः गदा त्रिशिखं त्रिशूलम् अरि चक्रं पद्म्ं च एतानि वह्नि-वासवादितो बहिः सम्पूज्यानि | दम्भोलि-प्रभृतयः कीदृशाः ? निज- सुलक्षित-मौलि-युक्ताः वज्रादि-लाञ्छित-मुकुटाः | पुनः स्व-स्वायुधैर् अस्त्रैर् अभयेन च समुद्यतं सुलक्षितं हस्त-पद्मं येषां ते तथा || क्र. दी. वि. ४.४३ ||
______________________________
वज्रादीनां वर्णम् आह-
कनक-रजत-तोयदाभ्र-चम्पा-
रुणहिम-नील-जवा-प्रवाल-भासः क्रमतः |
क्रमत इति रुचा तु वज्र-पूर्वा-
रुचिर-विलेपन-वस्त्र-माल्य-भूषाः || क्र. दी. ४.४४ ||
वज्र-पूर्वाः वज्राद्याः रुचा वर्णेन क्रमतो ऽनुक्रमेणैवंरूपा ज्ञेयाः | पुनः कीदृशाः ? काञ्चनं रौप्यं तोयदो मेघः अभ्रं चम्पक-पुष्पम् अरुणो रक्तः हिमं श्वेतः नीलः श्यामलः जवा औण्ड्र-पुष्पं प्रवालो नव-पल्लवः एवम्भूता दीप्तिर् येषां ते तथा | पुनः कीदृशाः ? रुचिरं मनोहरं विलेपनं चन्दनादि वस्त्रं माल्यं भूषणं च येषां ते तथा || क्र. दी. वि. ४.४४ ||
______________________________
पूर्वोक्तम् उपसंहरति-
कथितम् आवृति-सप्तकम् अच्युता-
र्चन-विधाव् इति सर्व-सुखावहम् |
प्रयताद् अथवाङ्ग-पुरन्दरा-
शनि-मुखैस् त्रितयावरणं त्व् इदम् || क्र. दी. ४.४५ ||
इति पूर्वोक्त-प्रकारेण विष्णु-पूजा-विधौ आवरण-सप्तकं कथितम् | कीदृशं ? सकल-सुखार्थ-दायकम् | अशक्तं प्रत्याह प्रयजताद् इति | पूर्वोक्ताशक्तः त्रितयावरणम् आवरण-त्रय-सहितं प्रयजेत् | कैः ? अङ्गम् इन्द्र-वज्रम् एतन्-मुखैर् एतत् प्रधानैर् इत्य् अर्थः || क्र. दी. वि. ४.४५ ||
______________________________
प्रकृतम् उपसंहरन् पूजान्तरम् आह-
इत्य् अर्चयित्वा जल-गन्ध-पुष्पैः
कृष्णाष्टकेनाप्य् अथ कृष्ण-पूजाम् |
कुर्याद् बुधस् तानि समाह्वयानि
वक्ष्यामि तादादि-नमो ऽन्तिकानि || क्र. दी. ४.४६ ||
इति पूर्वोक्त-प्रकारेण जल-गन्ध-पुष्पैः पूजयित्वा अथानन्तरं कृष्णाष्टकेन वक्ष्यमाणेन बुधः पण्डितः कृष्ण-पूजां कुर्यात् तानि | समाह्वयानि नामानि प्रणवादि-नमो ऽन्तिकानि वक्ष्यमाणानि ॐ कृष्णाय नम इत्य् आदीनि || क्र. दी. वि. ४.४६ ||
______________________________
तान्य् एव दर्शयति-
श्री-कृष्णो वासुदेवश् च नारायण-समाह्वयः |
देवकी-नन्दनो यदु-श्रेष्ठो वार्ष्णेय इत्य् अपि || क्र. दी. ४.४७ ||
असुरान्तक-शब्दान्ते भारहारीति सप्तमः |
धर्म-संस्थापकश् चाष्टौ चतुर्थ्य्-अन्ताः क्रमाद् इमे || क्र. दी. ४.४८ ||
असुरान्तक-शब्दान्ते भार-हारीत्य् अर्थः | इमे कृष्णादयः शब्दाः क्रमाद् एकैकशः प्रणवाद्याश् चतुर्थ्य्-अन्ता नमो ऽन्तकाश् च विज्ञेयाः || क्र. दी. वि. ४.४७-४८ ||
______________________________
अत्यन्ताशक्तं प्रत्याह-
एभिर् एवाथवा पूजा कर्तव्या कंस-वैरिणः |
संसार-सागरोत्तीर्त्यै सर्व-कामाप्तये बुधैः || क्र. दी. ४.४९ ||
अथवा एभिर् एव कृष्णादिभिः शब्दैः कंसवैरिणः श्री-कृष्णस्य पूजा बुधैः | पण्डितैः कर्तव्या | किम् अर्थम् ? संसार एव सागरः तस्य उत्तीर्त्यै उत्तरणाय | पुनः किम् अर्थम् ? सकल-मनोरथ-प्राप्त्य्-अर्थम् || क्र. दी. वि. ४.४९ ||
______________________________
धूप-दान-विधिं दर्शयति-
साराङ्गारे घृत-विलुलितैर् जर्जरै संविकीर्णैर्
गुग्गुल्वाद्यैर् घन-परिमलैर् धूपम् आपाद्य मन्त्री |
दद्यान् नीचैर् दनुज-मथनायापरेणाथ दोष्णा
घण्टां गन्धाक्षत-कुसुमकैर् अर्चितां वादयानः || क्र. दी. ४.५० ||
साराङ्गारे दृढ-काष्ठाङ्गारे | खादिराङ्गारे इति त्रिपाठिनः | संविकीर्णैः क्षिप्तैः गुग्गुल्व्-आद्यैः गुग्गुलु-शर्करा-मधु-चन्दनागुरु-शीरैः घृत-विलुलितैर् धृत-प्लुतैः जर्जरैः कुट्टनेन चूर्णितैर् घन-परिमलैर् निविड-सौरभ-शालिभिः धूपम् आपाद्य कृत्वा मन्त्री उपासकः नीचैर् नाभि-प्रदेशे दनुज-मथनाय गोपाल-कृष्णाय दद्यात् | किं कुर्वन् ? अथानन्तरम् अपरेण वामेन दोष्णा हस्तेन गज-ध्वनि-मन्त्र-मातः स्वाहेति घण्टां वादयन् | किम्भूताम् ? गन्धाक्षत-पुष्पैः पूजिताम् || क्र. दी. वि. ४.५० ||
______________________________
दीप-दाने विधिं दर्शयति-
तद्वद् दीपं सुरभि-घृत-संसिक्त-कर्पूर-वर्त्या
दीप्तं दृष्ट्याद्य्-अतिविशदधीः पद्म-पर्यन्तम् उच्चैः |
दत्त्वा पुष्पाञ्जलिम् अपि च विधायार्पयित्वा च पाद्यं
साचामं कल्पयतु विपुल-स्वर्ण-पात्रे निवेद्य || क्र. दी. ४.५१ ||
तद्वद् आपाद्य दीपं कुर्यात् | कया ? सुरभि सुगन्धि यद् घृतं तेन सिक्ता उक्षिता कर्पूर-सहिता वर्तिस् तया | कीदृशम् ? दृष्ट्या दीप्तम् | दृष्टि-मनोहरम् इति रुद्रधरः | पद्म-पर्यन्तं मस्तक-पर्यन्तम् उच्चैर् उपरि दत्त्वा दृष्ट्यादीति दक्षिणावर्तेन पद्म-पर्यन्तम् | चरण-कमल-पर्यन्तम् इति त्रिपाठिनः | पाद-पर्यन्तम् इति क्वचित् पाठः | अनन्तरं पुष्पाञ्जलिम् अपि शिरसि दत्त्वा पाद्याचमनीये च दत्त्वा विपुल-स्वर्ण-पात्रे बृहत्-कनक-भाजने नैवेद्यं कल्पयतु सम्पादयतु | साचामम् आचमन-सहितं प्रथमं वदनेत्य् आदिभिर् आचमनं दत्त्वा अनन्तरं नैवेद्यं ददात्व् इत्य् अर्थः || क्र. दी. वि. ४.५१ ||
______________________________
नैवेद्य-स्वरूपं दर्शयति-
सुरभितरेण दुग्ध-हविषा सुशृतेन सिता-
समुपदेशकै रुचिर-हृद्य्-अविचित्र-रसैः |
दधि-नव-नीत-नूतन-सितोपल-पूप-पुलि-
घृत-गुड-नारिकेल-कदली-फल-पुष्प-रसैः || क्र. दी. ४.५२ ||
अतिसुरभिणा दुग्धान्नेन सुशृतेन सुपक्वेन सिता-समुपदेशकैः शर्करा-व्यञ्जनैः सह | शर्करया सह उपदंशकैर् व्यञ्जनैर् इति त्रिपाठिनः | अस्मिन् पक्षे शुचितेन सिता-समुपदंशकैर् इति पाठः | रुचिर इच्छी̀अकरः हृद्यः सुस्वादः विचित्रो मधुरादि-रसो येषु तैः नूतनं श्रेष्ठं सितोपलं खण्डादि-प्रसिद्धं पुष्प-रसो मधु एतैर् द्रव्यैर् नैवेद्यं कल्पयतु || क्र. दी. वि. ४.५२ ||
______________________________
किं विशिष्टं नैवेद्यं कल्पयतु, तत्राह-
अस्त्रोक्षितं तद्-अरि-मुद्रिकयाभिरक्ष्य
वायव्यतीयपरिशोषितमग्निदोष्णा |
सन्दह्य वाम-कर-सौधरसाभिपूर्णं
मन्त्रामृतीकृतम् अथाभिमृषन् प्रजप्यात् || क्र. दी. ४.५३ ||
मनुम् अष्टशः सुरभि-मुद्रिकया
परिपूर्णम् अर्चयतु गन्ध-मुखैः |
हरिम् अर्चयेद् अथ कृत-प्रसवाञ्जलिर्
आस्यतो ऽस्य प्रसरेच् च महः || क्र. दी. ४.५४ ||
मूल-मन्त्रास्त्र-मन्त्रेणास्त्राय फड्-इत्य् अनेन वा उक्षितं सिक्तं चक्र-मुद्रयाभिरक्ष्य वायव्येति वायु-बीज-जप्तोदक-प्रोक्षण-परिशोषित-दोषम् अग्नि-दोष्णा सन्दह्येति रम् इति वह्नि-बीजाभिजप्त-दक्षिण-करेण स्पृष्ट्वा दोषान् दग्ध्वा वाम-कर-सौध-रसाभिपूरणम् इति वाम-हस्तेन पिधाय बं-बीज-जपेनामृत-रसाभिपूर्णं विचिन्त्य मूल-मन्त्रेणामृत-रूपं विचिन्त्याथानन्तरं तद् एतादृशं नैवेद्यम् अभिमृशन् स्पृष्ट्वा मनुं मन्त्रम् अष्टशः अष्ट-वारं प्रजपतु सुरभि-मुद्रिकया धेनु-मुद्रिकया परिपूर्णं नैवेद्यं विचिन्त्य गन्ध-मुखैः चन्दनाद्यैः पूजयतु | दान-प्रकारं दर्शयति-हरिम् इत्य् आदिना | कृत-प्रसवाञ्जलिर् हरिं प्रत्यर्चयेत् नैवेद्य-ग्रहणायास्यतस् तेजो निःसरत्व् इति प्रार्थयेत् | अथानन्तरम् अस्य हरेर् आस्यतो मुखतस् तेजो निःसरेत् प्रसरत्व् इति चिन्तयेत् | नैवेद्ये संयोजयेद् इति त्रिपाठिनः || क्र. दी. वि. ४.५३-५४ ||
______________________________
वीतिहोत्रदयितान्तम् उच्चरन्
मूल-मन्त्रम् अथ निक्षिपेज् जलम् |
अर्पयेत् तद् अमृतात्मकं हविर्
दोर्-युजा सुकुसुमं समुद्धरन् || क्र. दी. ४.५५ ||
अथानन्तरं वीति-होत्र-दयितान्तं स्वाहा-कारान्तं मूल-मन्त्रम् उच्चरन् किंचिज् जलं तद्-उपरि क्षिपेत् प्रोक्षयेत् | अत्र स्वाहान्ते ऽपि मन्त्रे पुनः स्वाहा-पद-प्रयोगः कार्यः एतद्-बलाद् एव अनन्तर-दोर्-युजा हस्त-द्वयेन स-कुसुमं स-पुष्पं समुद्धरन् उत्तोलयन् तद्-अमृतात्मकं हविः समर्पयेत् || क्र. दी. वि. ४.५५ ||
______________________________
नैवेद्यार्पण-मन्त्रम् आह-
निवेदयामि भगवते जुषाणेदं हविर् हरे |
निवेद्यार्पणमन्त्रो ऽयं सर्वार्चासु निजाख्यया || क्र. दी. ४.५६ ||
अयं मन्त्रः सर्वासु देवानां पूजासु निजाख्ययेति हरे इत्य् अस्मिन् स्थाने यस्मै देवाय दीयते तन्-नाम-ग्रहणंकर्तव्यम् इति निजाख्या-शब्दार्थः | निवेद्याख्ययेति केचित् || क्र. दी. वि. ४.५६ ||
______________________________
भोजनोपयोगि-मुद्रा-विशेषं दर्शयति-
ग्रास-मुद्रां वाम-दोष्णा विकचोत्पल-सन्निभाम् |
प्रदर्शयेद् दक्षिणेन प्राणादीनां च दर्शयेत् || क्र. दी. ४.५७ ||
वाम-दोष्णा ग्रास-मुद्रां दर्शयेत् | किम्भूताम् ? प्रफुल्लोत्पल-सदृशीम् | अनन्तरं दक्षिण-हस्तेन प्राणादीनां वक्ष्यमाणां मुद्रां दर्शयेद् इति || क्र. दी. वि. ४.५७ ||
______________________________
स्पृशेत् कनिष्ठोपकनिष्ठे द्वे
अङ्गुष्ठ-मूर्ध्ना प्रथमेह मुद्रा |
तथापरा तर्जनी-मध्यमे स्याद्
अनामिक-मध्यमिके च मध्या || क्र. दी. ४.५८ ||
अनामिक-तर्जनी-मध्यमाः स्यात्
तद्वच् चतुर्थी-स-कनिष्ठिकास् तः |
स्यात् पञ्चमी तद्वद् इति प्रदिष्टा
प्राणादि-मुद्रा निज-मन्त्र-युक्ताः || क्र. दी. ४.५९ ||
कनिष्ठोपकनिष्ठे कनिष्ठानामिके द्वे स्वाङ्गुष्ठ-मूर्ध्ना स्पृशेत् | इह मुद्रा प्रथमा तथा तर्जनी-मध्यमे स्वाङ्गुष्ठ-मूर्ध्ना स्पृशेत् अनामिक-मध्यमिके च तेन स्पृशेद् एवं व्यान-मुद्रा अनामा-तर्जनी-मध्यमास् तेन स्पृशेत् | चतुर्थी उदानस्य तास् तिस्रः कनिष्ठा-सहिताः | तद्वत् स्वाङ्गुष्ठ-मूर्ध्ना यदि स्पृशेत् तदा समान-मुद्रा इत्य् अनेन प्रकारेण प्राणादि-मुद्राः प्रदिष्टाः कथिताः | किम्भूताः ? यथायोग्य-स्व-मन्त्र-सहिताः मन्त्र-साहित्येन तासां मुद्रात्वं भवति बिल्व-मुद्रावद् इत्य् अर्थः || क्र. दी. वि. ४.५८-५९ ||
______________________________
के ते मन्त्रा इत्य् आकाङ्क्षायां प्राणादीनां मन्त्रान् आह-
प्राणापान-व्यानोदान-समानाः क्रमाच् चतुर्थ्य्-अन्ताः |
ताराधारा वध्वा चेद्धाः कृष्णाध्वनस् त्व् इमे मनवः || क्र. दी. ४.६० ||
प्राणादयः पञ्च क्रमाच् चतुर्थी-विभक्ति-सहिताः तथा तारा-धाराः ॐकाराधाराः प्रणवाद्या इत्य् अर्थः | तथा कृष्णाध्वनो ऽग्नेर् वध्वा प्रियया इद्धा उद्दीप्ताः सम्बद्धाः स्वाहा-कारान्ता इत्य् अर्थः | एवं च सति ॐ प्राणाय स्वाहा इत्य् आद्याः पञ्च मन्त्रा भवतीत्य् अर्थः || क्र. दी. वि. ४.६० ||
______________________________
निवेद्य-मुद्रां प्रदर्शयन् मन्त्रं च दर्शयति-
ततो निवेद्य मुद्रिकां प्रधानया कर-द्वये |
स्पृशन्न् अनामिकां निजं मनुं जपन् प्रदर्शयेत् || क्र. दी. ४.६१ ||
ततस् तद्-अनन्तरं निवेद्य-मुद्रां प्रदर्शयेत् | किं कुर्वन् ? कर-द्वये करयोर् अनामिकां प्रधानयाङ्गुष्ठेन स्पृशन् | पुनः किं कुर्वन् ? निजं स्वीयं मनुं मन्त्रं प्रजपन् || क्र. दी. वि. ४.६१ ||
______________________________
मन्त्रम् उद्धरति-
नन्दजो ऽम्बु-मनु-बिन्दु-युङ् नतिः
पार्श्व-रा-मरुद्-अवात्मने नि च |
रुद्ध-ङे-युत-निवेद्यम् आत्म-भूर्
मास-पार्श्वम् अनिलस् तथाऽमि-युक् || क्र. दी. ४.६२ ||
नन्दजः ठ-कारः अम्बुः व-कारः मनुः औ-कारः बिन्दुः एतैर् युक्ता नतिर् नमः पार्श्वः प-कारः रा इति स्वरूपं मरुत् य-कारः अवात्मने इति अनि स्वरूपं रुद्धं इति स्वरूपं ङे चतुर्थी अनिरुद्ध-शब्दश् चतुर्थी-युक्त इत्य् अर्थः | निवेद्यम् इति त्रयः आत्म-भूः क-कारः मांसो ल-कारः पार्श्वः प-कारः ल-कार-य-काराभ्यां युक्तो ऽनिलो य-कारः अमीति स्वरूपं तथा ठ्वौं नमः पर्यावात्मने अनिरुद्धाय नैवेद्यं कल्पयामि इति मन्त्रः || क्र. दी. वि. ४.६२ ||
______________________________
मण्डलम् अभितो मन्त्री
बीजाङ्कुर-भाजनानि विन्यस्य |
पिष्टमयान् अपि दीपान्
घृत-पूर्णान् विन्यसेत् सुदीप्त-शिखान् || क्र. दी. ४.६३ ||
मण्डल-परितो बीजाङ्कुर-पात्राणि संस्थाप्य तथैव पिष्ट-कृतान् घृत-परिपूर्णान् प्रज्वलित-शिखान् प्रदीपान् स्थापयेत् || क्र. दी. वि. ४.६३ ||
______________________________
दीक्षाङ्ग-होम-विधिं दर्शयति-
अथ संस्कृते हुतवहे ऽमल-धीर्
अभिवाह्य सम्यग् अभिपूज्य हरिम् |
जुहुयात् सिताघृत-युतेन पयः
परिसाधितेन सित-दीधितिना || क्र. दी. ४.६४ ||
अष्टोत्तरं सहस्रं समाप्य
होमं पुनर् बलिं दद्यात् |
राशिष्व् अधिनाथेभ्यो
नक्षत्रेभ्यस् ततश् च करणेभ्यः || क्र. दी. ४.६५ ||
अथानन्तरं शास्त्रोक्त-संस्कारैः संस्कृते वह्नौ निर्मल-बुद्धिः यथोक्त-रूपं हरिम् आवाह्य गन्धादिभिश् च यथाविधि सम्पूज्याष्टोत्तर-सहस्रं जुहुयात् | केन सित-दीधितिना भक्तेन कीदृशेन पयः-परिसाधितेन दुग्ध-परिपाचितेन परमान्नेनेत्य् अर्थः | पुनः कीदृशेन ? सिता-घृत-युतेन शर्करा-घृत-सहितेन अनन्तरं यथोक्त-होमं समाप्यावशिष्ट-परमान्नेन राशिषु मेषादिषु अधिनाथेभ्यो राशि-देवताभ्यो मङ्गलादिभ्यः नक्षत्रेभ्यो ऽश्विन्यादिभ्यः करणेभ्यो ववादिभ्यो बलिं दद्यात् | प्रयोगस् तु मेष-वृश्चिकाधिपतये मङ्गलाय एष बलिर् नमः एवं वृष-तुलाधिपतये शुक्राय मिथुन-कन्याधिपतये बुधाय कर्कटाधिपतये चन्द्राय सिंहाधिपतये सूर्याय दनुर्-मीनाधिपतये गुरवे मकर-कुम्भाधिपतये शनये एव बलिर् नमः | एवं अश्वनी-भरणी-कृत्तिकापादीय-मेष-राशये एष बलिर् नम इत्य् आदि | एवं वववालकीलवतैतिल-गर-वणिज-विष्टिभ्यः एष बलिर् नमः || क्र. दी. वि. ४.६४-६५ ||
______________________________
पूजानन्तरं प्रकारम् आह-
सम्पाद्य पानीय-सुधां समर्प्य
दत्त्वाम्भ उदास्य मुखार्चिर् आस्ये
नैवेद्यम् उद्धृत्य निवेद्य विष्वक्
सेनाय पृथ्वीम् उपलिप्य भूयः || क्र. दी. ४.६६ ||
पानीयम् एव धेनु-मुद्रया सुधां कृत्वा पानार्थं कृष्णाय समर्प्याम्भो दत्त्वा जलम् आचमनार्थं दत्त्वा मुखार्चिर्-देव-मुखान् नैवेद्ये ऽवतारितं तेज आस्ये देव-मुखे उद्वास्य निवेश्य नैवेद्यम् उत्तोल्य विश्वक्सेनाय देव-गणाय नैवेद्यं समर्प्य पृथिवीम् उपलिप्य || क्र. दी. वि. ४.६६ ||
______________________________
गण्डूष-दन्त-धवनाचमनास्य-हस्त-
मृज्यानुलेपमुखवासकमाल्य-भूषाः |
ताम्बूलम् अप्य् अभिसमर्प्य सुवाद्य-नृत्य-
गीतैः सुतृप्तम् अभिपूजयतात् पुनर् एव || क्र. दी. ४.६७ ||
भूयः पुनर् अपि गण्डूषं चुलूकोदकं दन्त-धवनं दन्त-काष्ठम् | दन्त-धवनं दन्त-धावनम् इति त्रिपाठिनः | आचमनं शेषाचमने द्विर्-आचमनम् आस्य-हस्तयोर् मृज्यं मुख-हस्तयोः प्रोञ्छन-वस्त्रम् अनुलेपश् चन्दनादिः मुखं वास्यते सुरभि क्रियते अनेनेति मुख-वासं कर्पूरादि माल्यं पुष्पं भूषालङ्करणं ताम्बूलम् अपि समुच्चये एतानि समर्प्य पुनर् एव यथा-पूर्वं पूजा कृता एवं सुवाद्य-नृत्य-गीतैः सुतृप्तं हरिं नत्वा भिपूजयेत् || क्र. दी. वि. ४.६७ ||
______________________________
गन्धादिभिः सपरिवारम् अथार्घम् अस्मै
दत्त्वा विधाय कुसुमाञ्जलिम् आदरेण |
स्तुत्वा प्रणम्य शिरसा चुलुकोदकेन
स्वात्मानम् अर्पयतु तच् चरणाब्ज-मूले || क्र. दी. ४.६८ ||
कैः ? गन्धादिभिः सपरिवारं पूर्वोक्तावरण-सहितम् अथानन्तरम् अस्मै हरये अर्घ्यं दत्त्वा आदरेण पुष्पाञ्जलिं दत्त्वा स्तुत्वा शिरसा प्रणम्य सच्-चरणारविन्द-मूले स्वात्मानं चुलुकेन अर्घ-शेष-जलेन समर्पयतु || क्र. दी. वि. ४.६८ ||
______________________________
आत्मनः समर्पण-मन्त्रम् आह इत इत्य् आदिना स्वात्म-समर्पणे इत्य् अन्तेन ग्रन्थेन-
इतः पूर्वं प्राण-बुद्धि-देह-धर्माधिकारतो जाग्रत्-स्वप्न-सुषुप्त्य्-अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्याम् उदरेण शिश्ना यत् स्मृतं यद् उक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये सम्यग् अर्पये ॐ तत् सद् इति च प्रोक्त-मन्त्रः स्वात्म-समर्पणे ||
______________________________
एतच् च मन्त्र-त्रयं स्पष्टत्वान् न लिख्यते-
अनुस्मरन् कलशगम् अच्युतं जपेत्
सहस्रकं मनुम् अथ साष्टकं बुधः |
वपुष्य् अथो दितिजाजितः समावृतीर्
विलाप्य तास् तद् अपि नयेत् सुधात्मताम् || क्र. दी. ४.६९ ||
अथानन्तरं बुधः पण्डितः कलशगं कुम्भादि-निष्ठं हरिं चिन्तयन् साष्टकम् अष्ट-सहितं सहस्रं मनुं मन्त्रं जपेत् | अथानन्तरं दितिज-जितः श्री-कृष्णस्य वपुषि शरीरे ताः पूर्वोक्ताः समावृतीः आवरण-देवता विलाप्य् विलीना इति विचिन्त्य तद् अपि देव-वपुः सुधात्मताम् अमृततां नयेत् || क्र. दी. वि. ४.६९ ||
______________________________
ध्वज-तोरण-दिक्-कलशादि-गताम्
अपि मण्डप-मण्डल-कुण्ड-गताम् |
अभियोज्य चितिं कलशे कुसुमैः
परिपूज्य जपेत् पुनर् अष्टशतम् || क्र. दी. ४.७० ||
कलशे चितिं मन्त्र-देवतां चैतन्य-रूपम् अभियोज्य कुसुमैः पुष्पैः सम्पूज्य पुनर् अष्ट-सहितं शतं जपेत् | किम्भूताम् ? चितिं ध्वज-तोरण-दिक्-कलशादि-गतां न केवलं ध्वजादि-गताम् अपि तु मण्डले मण्डपे कुण्ड-गताम् || क्र. दी. वि. ४.७० ||
______________________________
अथ शिष्य उपोषितः प्रभाते
कृत-नैत्यः सुसिताम्बरः सुवेशः |
धरणी-धन-धान्य-गोकुलैर्
धिनुयाद् विप्र-वरान् हरेः प्रसत्त्यैः || क्र. दी. ४.७१ ||
अथानन्तरम् उपोषितः कृतोपवासः शिष्यः प्रभाते प्रातः-काले कृत-नित्य-कृत्यः शुक्ल-वस्त्र-धरः सुवेशः शोभन-भूषणः धरणी पृथिवी धनं सुवर्णादि धान्यं व्रीह्य्-आदि गौर् दोग्ध्री दुकूलं पट्ट-वस्त्रम् एतैर् यथा-योग्यं विप्र-वरान् ब्राह्मण-श्रेष्ठान् धिनुयात् प्रीणयेत् | किम्-अर्थम् ? हरेः श्री-कृष्णस्य प्रसादार्थम् || क्र. दी. वि. ४.७१ ||
______________________________
भूयः प्रतर्प्य प्रणिपत्य देशिकं
तस्मै परस्मै पुरुषाय देहिने |
तां वित्त-शाठ्यं परिहृत्य दक्षिणां
दत्त्वा तनुं स्वां च समर्पयेत् सुधीः || क्र. दी. ४.७२ ||
भूयः पुनर् अपि प्रतर्प्य ब्राह्मणान् सन्तोष्य पुनः कथनम् अत्यन्त-तर्पणार्थं परीत्येति पाठे प्रदक्षिणी-कृत्येत्य् अर्थः | देशिकं गुरुं प्रणिपत्य नमस्कृत्य तस्मै गुरवे देहिने देह-धारिणे परस्मै पुरुषाय श्री-कृष्णाय धन-शाठ्यं परिहृत्य वैभवानुसारेण तां प्रसिद्धां वित्तार्धं चतुर्थांशं वा दत्त्वा न तु दक्षिणाम् इव मन्त्रादानानन्तरम् एव तत्-प्रसङ्गात् स्वां स्वीयां तनुं सुबुद्धिः समर्पयेत् || क्र. दी. वि. ४.७२ ||
______________________________
अथाभिषेक-मण्डपे सुखोपविष्टम् आसने |
गुरुर् विशोधयेद् अमुं पुरेव शोषणादिभिः || क्र. दी. ४.७३ ||
अथानन्तरं गुरुर् अमुं शिष्यं पुरेव पूर्ववद् एव शोषणादिभिर् भूत-शुद्ध्य्-आदिभिर् विशोधयेत् | कीदृशम् ? अभिषेक-मण्डपे आसने सुखोपविष्टम् || क्र. दी. वि. ४.७३ ||
______________________________
पीठ-न्यासावसानं वपुषि विमल-धीर् न्यस्य तस्यासिकाया
मन्त्रेणाभ्यर्च्य दूर्वाक्षत-कुसुम-युतां रोचनां के निधाय |
आशीर्वादैर् द्विजानां विशद-पटु-रवैर् गीत-वादित्र-घोषैर्
माङ्गल्यैर् आनयत्तं कलशम् अभिवृतस् तत्-समीपं प्रतीतः || क्र. दी. ४.७४ ||
तस्य शिष्यस्य वपुषि शरीरे पीठ-न्यासावसानं पीठ-न्यास-पर्यन्तं सकलं न्यासं विन्यस्य आसिकाया आसनस्य मन्त्रेणासनं पूजयित्वा रोचनां मस्तके निधाय तिलकं कारयित्वा | कीदृशीं रोचनाम् ? दूर्वाक्षत-पुष्प-सहिताम् | अनन्तरं द्विजानाम् आशीर्वादैर् गीति-मङ्गलादि-शब्दैः | कीदृशैर् एतैः ? विशद-पटु-रवैः स्पष्टोत्तम-शब्दैः तथा अन्यैर् अपि माङ्गल्यैर् मङ्गलस्योपयुक्तैः सहितं तं कलशम् अभिवृत आचार्यत्वेन वृतः तत्-समीपं शिष्य-समीपम् आनयेत् | कीदृशः ? शिष्यात्मीयतया प्रतीतो विश्वासान्वितो यः कश्चिद् इत्य् अर्थः || क्र. दी. वि. ४.७४ ||
______________________________
तेनाभिलीन-मणि-मन्त्र-महौषधेन
धाम्ना पेरण परमामृत-रूप-भाजा |
सम्पूरयन् वपुर् अमुष्य ततो वितन्वन्
तत्-सामरस्यमभिषेचयताद् यथावत् || क्र. दी. ४.७५ ||
कुम्भस्य पल्वलान् शिष्य-शिरसि निधाय तेन कलसेनेत्य् अर्थाद् यथावत् यथा-युक्त-प्रकारेणाभिषेचयेत् अभिषेचनं कुर्यात् | तद् उक्तम्-
विधिवत् कुम्भम् उद्धृत्य तन्-मुखस्थान् सुर-द्रुमान् |
शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् || इति |
किम्भूतेन ? अभिलीनः संलीनः मणिर् नव-रत्नानि मन्त्रः ऋक् महौषधं दिव्य-पिप्पली-प्रभृति यत्र तेन | कीदृशेन ? परेण धाम्ना पर-तेजः-स्वरूपेण | पुनः कीदृशेन ? परमामृत-रूप-भाजा परमामृत-रूप-मयेन | किं कुर्वन् ? अमुष्य शिशोर् वपुः शरीरं पूरयन् | किं कुर्वन् ? ततस् तद्-अनन्तरं तत्-सामरस्यं तेन तेन तेजो-रूपेण कलशैक्यं वितन्वन् || क्र. दी. वि. ४.७५ ||
______________________________
अभिषेकम् आह-
क्षाद्यैर् आन्तैर् वर्णैर् अभिपूर्ण-तनुस् त्रिर् उक्त-मन्त्रान्तैः |
परिहित-सिततर-वमन-द्वितीयो वाचंयमः समाचान्तः || क्र. दी. ४.७६ ||
क्ष-आदिर् येषां तैः आन्तैः अ-कारान्तो येषां तैर् वर्णैर् मातृकाक्षरैर् मूल-मन्त्र-त्रि-जपावसानैर् अभिषिक्त-शरीरः शिष्यः धृत-नवीनातिशुक्ल-वसन-युगलः मौनी कृत-द्विर्-आचमनः || क्र. दी. वि. ४.७६ ||
______________________________
बहुशः प्रणम्य देशिक-नामानं हरिम् अथोपसङ्गम्य |
तद्-दक्षिणत उपास्ताम् अभिमुखम् एकाग्र-मानसः शिष्यः || क्र. दी. ४.७७ ||
बहु-वारं देशिक-नामानं गुरु-रूपं हरिम् नत्वा अथानन्तरम् उपसङ्गृह्य गुरु-चरणौ व्यत्यस्त-हस्त-द्वयं कृत्वा तद्-दक्षिणतो गुरु-दक्षिणे अभिमुखं गुरु-संमुखम् एकाग्र-मानसः एक-चित्तस् तिष्ठेत् उपविशेत् || क्र. दी. वि. ४.७७ ||
______________________________
न्यासैर् यथाविधि तम् अच्युत-साद्विधाय
गद्न्हाक्षतादिभिर् अलङ्कृत-वर्ष्मणो ऽस्य |
ऋष्य्-आदि-युक्तम् अथ मन्त्र-वरं यथावद्
ब्रूयात् त्रिशो गुरुर् अनर्घ्यम् अवाम-करेण || क्र. दी. ४.७८ ||
अथानन्तरं यथा-विधि यथोक्त-प्रकारेण न्यासैः पञ्चाङ्ग-न्यासादिभिः ते शिष्यम् अच्युत-साद्-विधाय श्री-कृष्ण-रूपं कृत्वा गन्धाक्षत-पुष्पैः विभूषित-शरीरस्यास्य अवाम-कर्णे दक्षिण-कर्णे ऋषि-च्छन्दो-देवता-सहितम् अनर्घ्यम् अमूल्यं मन्त्र-वरं मन्त्र-श्रेष्ठं त्रिशः त्रि-वारं ब्रूयात् यथावत् यथोक्त-प्रकारेण स च प्रकारः प्रथमं दक्षिण-हस्ते गुरुर् जलं ददाति अमुक-मन्त्रं ददामीति अनेन शिष्यो ऽपि ददस्व इति ब्रूयात् ततो मन्त्रं दद्याद् इति अत्रावश्यं वार-त्रयं गुरुणा मन्त्रः पठनीयः दत्ते यावच् छिष्यस्य मन्त्रः स्वायत्तो भवति तावत् पठनीय इति || क्र. दी. वि. ४.७८ ||
______________________________
मन्त्र-ग्रहणानन्तरं शिष्य-कृत्यं दर्शयति-
गुरुणा विधिवत् प्रसादितं
मनुम् अष्टोर्ध्व-शतं प्रजप्य भूयः |
अभिवाद्य ततः शृणोतु सम्यक्
समयान् भक्ति-भरेण नम्र-मूर्तिः || क्र. दी. ४.७९ ||
यथा-विधि गुरुणा हेतुना प्राप्तं मन्त्रं प्रसाधितम् अनुग्रहेण दत्तम् इति त्रिपाठिनः | अष्टौ ऊर्ध्वं यस्य तस्य तद् अष्टाधिक-शतं प्रजप्य भूयः पुनर् अपि गुरुम् अभिवाद्यं नमस्कृत्य दण्डवत् प्रणम्य ततो गुरुतः समयान् आचारान् सम्यक् कृत्वा शृणोतु यत् तु विद्याम् अष्ट-कृत्वो जपेद् इति तत्-तन्-न्यून-सङ्ख्या-कल-जप-निषेध-परम् | कीदृशः ? भक्त्यातिशयेन नम्र-शरीरः || क्र. दी. वि. ४.७९ ||
______________________________
मन्त्र-दानानन्तरं गुरु-कृत्यम् आह-
दत्त्वा शिष्याय मनुं न्यस्याथ गुरुः कृतात्म-यजन-विधिः |
अष्टोत्तरं सहस्रं स्व-शक्तिहान्य-नवाप्तये जप्यात् || क्र. दी. ४.८० ||
अथानन्तरं गुरुः शिष्याय मन्त्रं दत्त्वा न्यस्य न्यासादिकं कृत्वा कृतात्म-यजन-विधिः कृताभ्यन्तर-यागः अष्टाधिकं सहस्रं स्व-सामर्थ्य-हान्य्-अनवाप्तये स्व-सामर्थ्य-रक्षार्थं दत्त-मन्त्रं जपेत् || क्र. दी. वि. ४.८० ||
______________________________
शिष्य-कृत्यम् आह-
कुम्भादिकं च सकलं गुरवे समर्प्य
सम्भोजयेद् द्विज-वरान् अपि भोज्य-जातैः |
कुर्वन्त्य्ह् अनेन विधिना य इहाभिषेकं
ते सम्पदां निलयनं हि त एव धन्याः || क्र. दी. ४.८१ ||
कुम्भादिकं सकलं मण्डल-सहितं मण्डपावस्थित-द्रव्यं गुरवे समर्प्य दत्त्वा भोज्य-समूहैर् द्विज-श्रेष्ठान् सन्तोषयेत् एतत्-करणस्य फलम् आह-इह जगति अनेन विधिना अनया परिपाट्या ये अभिषेकं कुर्वन्ति ते सम्पदां सर्व-समृद्धीनां निलयनं स्थानं त एव धन्याः पुरुषार्थ-भागिनः || क्र. दी. वि. ४.८१ ||
______________________________
उक्तम् अर्थम् उपसंहरति-
सङ्क्षिप्य किंचिद् उदिता दीक्षा
संस्मरणाय हि विशद-धियाम् |
एतां प्रविश्य मन्त्री सर्वान्
जपेज् जुहोतु यजेच् च मनून् || क्र. दी. ४.८२ ||
किंचित् सङ्क्षिप्य दीक्षा उक्ता कथिता विशद-धियां निर्मल-बुद्धीनां संस्मरणाय एतां दीक्षां प्रविश्य प्राप्य मन्त्री साधकः सर्वान् मन्त्रान् जपेत् यजेज् जुहोतु || क्र. दी. वि. ४.८२ ||
इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायां
दीक्षा-पूजा-नाम चतुर्थ-पटलः
||४||
**************************************************************************
(५)
पञ्चमः पटलः
अधुना दीक्षितस्य मन्त्र-विधिं दर्शयति-
चैत्रे कृत्वैतन् मासि कर्माच्छ-पक्षे
पुण्य-र्क्षे भूयो देशिकात् प्राप्य दीक्षाम् |
तेनानुज्ञातः पूर्व-सेवां द्वितीये
मासि द्वादश्याम् आरभेतामलायाम् || क्र. दी. ५.१ ||
चैत्रे मासि पुण्य-र्क्षे शुभ-नक्षत्रे अच्छ-पक्षे शुक्ल-पक्षे एतत् कर्म मन्त्र-दीक्षात्मकं कर्म कृत्वा भूयः पुनर् अपि देशिकात् गुरोर् दीक्षां मन्त्रोपदेशं प्राप्यानन्तरं तेन गुरुणानुज्ञातः द्वितीये मासि वैशाखे द्वादश्याम् तिथौ पूर्व-सेवां पुरश्चरणम् आरभेत् | चैत्रे दुःखाय दीक्षा स्यात् इति वचनं गोपाल-मन्त्र-भिन्न-दीक्ष-विषयम् || क्र. दी. वि. ५.१ ||
______________________________
कृत्वा स्नानाद्यं कर्म देहार्चनान्तं
वर्त्माश्रित्य प्राग् ईरितं मन्त्रि-मुख्यः |
शुद्धो मौनी सन् ब्रह्मचारी निशाशी
जप्याच् छान्तात्मा शुद्ध-पद्माक्ष-दाम्ना || क्र. दी. ५.२ ||
कृत्वेति | मन्त्रि-मुख्यः साधकः स्नानम् आरभ्यात्म-योगान्तं कर्म कृत्वा प्राग् ईरितं वर्त्माश्रित्य पूर्वोक्त-पूजा-प्रकारम् आश्रित्य शुद्धो गायत्री-जपेन निष्पापो ब्राह्मणाद्य्-उक्त-बाह्यान्तर-शौच-युक्तो मौनी वाग्-यतो ब्रह्मचारी अष्ट-विध-मैथुन-त्यागी निशाशी रात्रि-भोजी शान्तात्मा अनुद्धत-चित्तः शुक्ल-पद्म-बीज-मालया जप्यात् |
अत्रैवम् आगमान्तरोक्तं बोद्धव्यम् | शुभे दिने क्रोशं क्रोश-द्वयं वा क्षेत्रं विहारार्थं परिकल्प्य क्षीर-द्रुम-भव-वितस्ति-परिमिताष्ट-कीलकाः प्रत्येकम् एकदैव वा दश-कृत्वः शत-कृत्वो वा जपित्वा अष्ट-दिग्-देवताः सम्पूज्य मध्ये क्षेत्रे क्षेत्र-पाल-बलिं दत्त्वा पूजां कृत्वा पूर्वाद्य्-अष्ट-दिक्षु तान् निखन्यात् तत्र तत्र तत्-तन्-नाम्ना दिक्-पति-बलिं च दत्त्वा दीपकं च दत्त्वा जप-पूर्व-दिवसे एक-भोजनम् उपवासो वा गुरुं ब्राह्मणांश् च तर्पयेत् |
तथा च सनत्-कुमार-कल्पे-
विप्रांश् च भोजयेद् अन्न-भोजनाच्छादनादिभिः |
बहुभिर् वस्त्र-भूषाभिः सम्पूज्य गुरुम् आत्मनः |
आरभेत जपं पश्चात् तद्-अनुज्ञा-पुरःसरम् || इति |
ततो ऽग्रिम-दिने स्नानादिकं कृत्वा सङ्कल्पं कुर्यात् ॐ अद्य्ॐ नम इत्य् आद्य् उच्चार्यामुक-मन्त्रस्य सिद्धि-काम इयत् सङ्ख्याक-जप-तद्-दशांशामुक-द्रव्य-होम-तद्-दशांशामुक-द्रव्य-तर्पण-तद्-दशांशामुकाभिषेक-तद्-दशांश-ब्राह्मण-सम्प्रदानक-भोज्य-दानात्मक-पुरश्चरण-कर्म करिष्ये इति सङ्कल्पं कुर्यात् | ततो मन्त्र-र्षि-छन्दो-देवतानां काम-स्थाने पुरश्चरण-जपे विनियोग इति | जपे चायं नियमः-
नैरन्तर्य-विधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् |
शयनं दर्भ-शय्यायां शुचिः प्रयत-मानसः |
दिवसातिक्रमे दोषः सिद्धि-बाधः प्रजायते ||
नारदीये-
शनैः शनैर् अविस्पष्टं न द्रुतं न विलम्बितम् |
न न्यूनं नाधिकं वापि जपं कुर्याद् दिने दिने ||
तथान्यत्र-
अनन्य-मानसः प्रातः कालान् मध्यन्दिनावधि |
नारदीये तथैव च-
न वदन् न स्वपन् गच्छन् नान्यत् किम् अपि संस्मरन् |
न क्षुज्-जृम्भण-हिक्कादि-विकली-कृत-मानसः ||
मन्त्र-सिद्धिम् अवाप्नोति तस्माद् यत्न-परो भवेत् |
उष्णीषो कञ्चुकी नग्नो मुक्त-केशः तथैव च ||
प्रसारित-पाणि-पादो नोच्च-पादासनो भवेत् ||
तथा वैशम्पायन-संहितायाम्-
स्नानं त्रि-सवनं प्रोक्तम् अशक्तौ द्विः सकृत् तथा |
अस्नातस्य फलं नास्ति न वा तर्पयतः पितॄन् ||
नासत्यम् अभिभाषेत नेन्द्रियाणि प्रलोभयेत् |
शयनं दर्भ-शय्यायां शुचिः प्रयत-मानसः ||
तद्-वासः क्षालयेन् नित्यम् अन्यथा विघ्नम् आवहेत् |
नैकवासा जपेन् मन्त्रं बहु-वस्त्री कदाचन ||
उपर्य्-अधो बहिर् वस्त्रे पुरश्चरण-कृद् भजेत् ||
तथा नारदीये-
स्त्री-शूद्राभ्यां न सम्भाषेद् रात्रौ जप-परो न च |
जपेन् न सन्ध्या-कालेषु प्रदोषे नोभयेषु च |
ब्राह्मणानीत-वस्त्र-शुद्ध-जलेन कर्मकृद् भवेत् || इति || क्र. दी. वि. ५.२ ||
______________________________
अपि तु कृत्यम् आह-
तन्वन् शुश्रूषां गोषु ताभ्यः प्रयच्छन्
ग्रासं भूतेषु प्रोद्वहश् चानुकम्पाम् |
मन्त्राधिष्ठात्रिं देवतां वन्दमानो
दुर्गां दुबोध-ध्वान्त-भानुं गुरुं च || क्र. दी. ५.३ ||
गोषु शुश्रूषां गो-परिचर्यां धूम-कण्डूयनादि-रूपां सेवां विस्तारयन् | किं कुर्वन् ? ताभ्यो गोभ्यो ग्रास ं प्रयच्छन् गोपाल-मन्त्र एव ग्रासादिकम् अत्रोपादानाद् अन्यत्रानुक्तेश् च | भूतेषु प्राणिषु करुणां धारयन् मन्त्राधिष्ठातृ-देवतां दुर्गाम् अज्ञानान्धकार-सूर्यं गुरुं च वन्दमानः || क्र. दी. वि. ५.३ ||
______________________________
कुर्वन्न् आत्मीयं कर्म वर्णाश्रम-स्थं
मन्त्रं जप्त्वा त्रिः स्नान-काले ऽभिषिञ्चेत् |
आचामन् पाथस्-तत्त्व-सङ्ख्या-प्रजप्तं
भुञ्जानश् चान्नं सप्त-जप्ताञ्चनादि || क्र. दी. ५.४ ||
स्वीयं वर्णाश्रमोक्तं कर्म कुर्वन् आत्मीयं आत्मनो यो वर्णो ब्राह्मणादिर् यो वाश्रमो ब्रह्मचर्यादिस् तत्र तत्रस्थं कर्म विहितं तत् तत् कुर्वन्न् इत्य् अर्थः | मन्त्र-जप्त-जलेन काले वार-त्रयं स्वात्मानम् अभिषिञ्चेत् तत्त्व-सङ्ख्या-प्रजप्तं द्वात्रिंशत्-सङ्ख्या-प्रजप्तं पञ्च-विंशति-प्रजप्तं वा तथा जलम् आचामन् इत्थम् एवान्नं भुञ्जानः | पुनः कीदृशः ? सप्त-जप्तम् अञ्जनादि-कज्जलादि यस्य स तथा आदि-शब्देन गन्ध-माल्यादीनां परिग्रहः | अञ्जनाद्य इति क्वचित् पाठः || क्र. दी. वि. ५.४ ||
______________________________
जप-स्थानम् आह-
अद्रेः शृङ्गे नद्यास् तटे बिल्व-मूले
तोये हृदघ्ने गोकुल-विष्णु-गेहे |
अश्वत्थाधस्ताद् अम्बुधेश् चापि तीरे
स्थानेष्व् एतेष्व् आसीन एकैकशस् तु || क्र. दी. ५.५ ||
प्रजपेद् अयुत-चतुष्कं दशाक्षरं मनु-वरं पृथक् क्रमशः |
अष्टादशाक्षरं चेद् अयुत-द्वयम् इत्य् उदीरिता सङ्ख्या || क्र. दी. ५.६ ||
पर्वत-शृङ्गे नदी-तीरे बिल्व-वृक्ष-समीप-देशे हृदय-प्रमाण-जले गोष्ठे विष्णु-प्रतिमाधिष्ठित-गेहे पिप्पल-वृक्ष-समीप-देशे समुद्रस्य तीरे अष्टसु स्थानेषु आसीन उपविष्टः एकैकशः एकैकस्मिन् स्थाने स्थानेषु क्रमशः क्रमेण पृथक् अयुत-चतुष्कं कृत्वा दशाक्षर-मन्त्रं जपेत् यदाष्टादशाक्षर-मन्त्रः तदायुत-द्वयं कृत्वा इति जप-सङ्ख्योदीरिता अत्र न प्रतिस्थानम् अयुत-चतुष्कायुत-द्वय-जपः किन्तु यथा जप्तव्यं येन सर्वत्र जपेन तावत्य् एव सङ्ख्या भवति अन्यथाष्टसु स्थानेषु जपेनाष्टादशाक्सरे षोडशायुत-जपः स्यात् | प्रपञ्च-सारे ऽपि-अयुत-द्वितयावधि-जपः स्याद् इति | यद्यप्य् अष्टादशाक्षरे इयं सङ्ख्या तथापि तुल्य-न्यायाद् दशाक्षरे ऽपि इयम् एव व्यवस्थेति रुद्रधरः || क्र. दी. वि. ५.५-६ ||
______________________________
उक्तेषु स्थानेषूउय् क्रमेणाहार-नियमम् आह-
शाकं मूलं फलं गो-स्तन-भव-दधिनी भैक्षम् अन्नं च सक्तुं
दुग्धान्नं चेत्य् अदानः क्षिति-धर-शिखरादौ क्रमात् स्थान-भेदे |
एकं चैषाम् अशक्तौ गदितम् इह मया पूर्वासेवा-विधानं
निर्वृत्ते ऽस्मिन् पुनश् च प्रजपतु विधिवत् सिद्धये साधकेशः || क्र. दी. ५.७ ||
क्षिति-धर-शिखरादौ पूर्वोक्त-पर्वत-शृङ्गादौ स्थान-विशेषे क्रमाद् एकैकं क्रमेण विहितं शाकं वास्तुकादि मूलं शूरणादि फलं आम्रादि गो-स्तन-भवं दुग्धं दधि च द्वन्द्वः भैक्षं भिक्षात उपलब्धम् अन्नं च प्रशस्तं हैमतिकं सितास्विन्नं सक्तुं भृष्ट-यव-चूर्णं दुग्धान्नं पायसं अदानो भक्षमाणो जपं कुर्यात् मितोदनम् |
शस्तान्नं च समश्नीयान् मन्त्र-सिद्धि-समीहया |
तस्मान् नित्यं प्रयत्नेन शस्तान्नाशी भवेन् नरः || इति |
अशक्तं प्रत्य् आह-एकम् इति | अशक्तौ चैषाम् अद्रि-शृङ्गाद्य्-अष्ट-स्थानानां मध्ये एकं स्थानं समाश्रित्य शाकाद्य्-अष्ट-विधेष्व् एकं भोजनम् आश्रित्य जपं कुर्यात् | तद् उक्तं नारदीये-
मृदु कोष्णं सुपक्वं च कुर्याद् वै लघु-भोजनम् |
नेन्द्रियाणां यथा वृद्धिस् तथा भुञ्जीत साधकः ||
यद् वा तद् वा परित्याज्यं दुष्टानां सङ्गमं तथा ||
इह ग्रन्थे पूर्व-सेवाविधानं मया गदितं कथितम् अस्मिन्न् निवृत्ते सम्पूर्णे पुरश्चरण-जपे पुनश् च प्रजपतु सिद्धये विशिष्ट-फल-सिद्धये विधिवत् यथोक्त-प्रकारेण अत्र केचिद् अस्मिन् पूर्व-सेवारम्भे कर्मणि निर्वृत्ते समाप्ते पुनः पुरश्चरण-जपं करोत्व् इत्य् आहुः || क्र. दी. वि. ५.७ ||
______________________________
देहार्चनान्ते दिनशो दिनादौ
दीक्षोक्त-मार्गान्यतरं विधानम् |
आश्रित्य कृष्णं प्रयजेद् विविक्ते
गेहे निषण्णो हुत-शिष्ट-भोजी || क्र. दी. ५.८ ||
देहार्चनान्ते देह-पूजावसाने दिनशः प्रतिदिनं दिनादौ प्रातर् दीक्षोक्त-मार्गेषु षोडश-पञ्चोपचारादिषु अन्यतरम् एकं वर्त्माश्रित्य कृष्णं प्रयजेत् पूजयतु आवरण-भेदाद् वर्त्म-भेदः | कीदृशः ? विविक्त एकान्ते गृहे निषण्ण उपविष्टः | पुनः कीदृशः ? हुत-शिष्ट-भोजी प्रात्यहिक-जप-दशांश-होमावशिष्ट-भोजी || क्र. दी. वि. ५.८ ||
______________________________
प्रकारान्तरम् अपि महते फलाय पुरश्चरणम् आह-दश-लक्षम् इति रुद्रधरः | वयं तु पश्यामः | प्रकृत-यथोक्त-पुरश्चरणम् आह-
दश-लक्षम् अक्षय-फल-प्रदं मनुं
प्रतिजप्य शिक्षित-मतिर् दशाक्षरम् |
जुहुयाद् गुडाज्य-मधु-सम्प्लुतैर् नवैर्
अरुणाम्बुजैर् हुतवहे दशायुतम् || क्र. दी. ५.९ ||
शुद्ध-मतिः साधकः अक्षय-फलदं मोक्ष-फलं दशाक्षरं मनुं दश-लक्षं प्रतिजप्य हुतवहे संस्कृताग्नौ अरुणाम्बुजैर् अरुण-कमलैर् दशा-युतं लक्षम् एकं जुहुयात् | कीदृशैः ? गुडाज्य-मधु-सम्प्लुतैः गुड-घृत-मधु-संयुक्तैः || क्र. दी. वि. ५.९ ||
______________________________
शुषिर-युगल-वर्णं चेन् मनुं पञ्च-लक्षं
प्रजपतु जुहुयाच् च प्रोक्त-क्प्त्यार्ध-लक्षम् |
अमल-मतिर् अलाभे पायसैर् अम्बुजानां
सहित-घृत-सितैर् एवारभेद् धोम-कर्म || क्र. दी. ५.१० ||
शुषिर-युगल-वर्णं शुषिरं छिद्रं नव-सङ्ख्यात्मकं तस्य युगलं द्वन्द्वं अष्टादशाक्षरं जपेत् तदा पञ्च-लक्षं प्रजपतु प्रोक्त-क्प्त्या पूर्वोक्त-परिपाट्या चार्ध-लक्षम् जुहुयात् यथोक्त-होम-द्रव्यालाभे द्रव्यान्तरम् आह अमल-मतिर् इति शुद्ध-मतिः अम्बुजानां पद्मानाम् अलाभे ऽप्राप्तौ पायसैः परमान्नैर् होमम् आरभेत | कीदृशैः ? सहिते घृत-सिते येषु तैः घृत-शर्करा-सहितैर् इत्य् अर्थः | स्वाहान्तेन होम-पूजेति सर्वत्र बोद्धव्यं होमादेश् चानुष्ठान-प्रकारो मत्-कृत-होमानुष्ठान-पद्धतेर् अवगन्तव्यः | नारदीये, यथा-
जपस्य तु दशांशेन होमः कार्यो दिने दिने |
अथवा लक्ष-पर्यन्तं होमः कार्यो विपश्चिता || इति || क्र. दी. वि. ५.१० ||
______________________________
होमाशक्तं प्रत्याह-
असक्तानां होमे निगम-रसनागेन्द्र-गुणितो
जपः कार्यश् चेति दिव्ज-नृप-विशाम् आहुर् अपरे |
सहोमश् चेद् एषां सम इह जपो होम-रहितो
य उक्तो वर्णानां स खलु विहितस् तच्-चल-दृशाम् || क्र. दी. ५.११ ||
तावद् द्रव्याद्य्-असम्पत्त्या होम-कर्मणि असमर्थानां ब्राह्मण-क्षत्रिय-वैश्यानां यथा-साङ्ख्यं निगमा वेदाश् चत्वारः रसाः षट् नागेन्द्रा अष्टौ एतैर् गुणितैर् जप्यो ऽनुष्ठेय इत्य् अपरे आचार्या आहुः | तत्र कृत एव जपः एतैर् गुणित इति रुद्रधरः | वस्तुतस् तु-
होमाशक्तौ जपं कुर्याद् धोम-सङ्ख्या-चतुर्गुणम् |
षड्-गुणं चाष्ट-गुणितं यथा-सङ्ख्यं द्विजातयः ||
इति पुरश्चरण-चन्द्रिकोक्तम् एव युक्तं पश्यामः |
होम-कर्मण्य् अशक्तानां विप्राणां द्विगुणो जपः |
इतरेषां तु वर्णानां त्रिगुणो हि विधीयते || इति |
एतेषां मतापेक्षया अपर इत्य् उक्तम् | एतेषां च मते तर्पणादि-व्यतिरेकेण मूल-भूत-जप-द्विगुण-जपेनैव पुरश्चरण-सिद्धिर् भवति तथैव ग्रन्थान्तरे ऽभिधानात् | एषां ब्राह्मणादीनां होम-सहितश् चेज् जपः तदा त्रयाणाम् अपि अयुत-चतुष्टयादि-समानम् एव वर्णानां ब्राह्मणादीनां होम-रहितो य उक्तो जपः | अत्र होम-रहितो यश् चतुर्गुणो जप इति भैरव-त्रिपाठिनः | स एव तच्-चल-दृशां तत्-पत्नीनां विहितः || क्र. दी. वि. ५.११ ||
सनातनः : होमे असमर्थानां विप्र-क्षत्रिय-वैश्यानां यथा-सङ्ख्यं निगमादेवाश् चत्वारः, रसाः षट् नागेन्द्रा अष्टौ, एतैर् गुणितो जपः कार्यः | त्व्-अर्थे वा-शब्दः | अपर इति-होम-कर्मण्य् असुगमम् एवेति || (ह्ब्व् १७.२०५ टीका)
______________________________
शूद्रं प्रत्य् आह-
यं वर्णम् आश्रितो यः शूद्रः स च तन्-नत-भ्रुवाम् |
विदधीत जपं विधिवच् छ्रद्धावान् भक्ति-भरावनम्र-तनुः || क्र. दी. ५.१२ ||
ब्राह्मणादीनां मध्ये यं वर्णं शूद्रः समाश्रितः स तन्-नत-भ्रुवां तेषाम् एव द्विजात्य्-आदीनां स्त्रीणां विहितं जपं विधिवत् कथित-प्रकारेण विहितं कुर्यात् | कीदृशः ? श्रद्धा-युतः | पुनः कीदृशः ? भक्ति-भरेण भक्त्य्-अतिशयेन नम्रो तनुः शरीरं यस्य स तथा | जपश् चायं होम-रहित इति रुद्रधरः || क्र. दी. वि. ५.१२ ||
______________________________
पुरश्चरणोत्त्तर-कृत्यम् आह-
पुनर् अभिषिक्तो गुरुणा विधिवद् विश्राण्य दक्षिणां तस्मै |
अभ्यवहार्य च विप्रान् विभवैः सम्प्रीणयेच् च भक्ति-युतः || क्र. दी. ५.१३ ||
गुरुणा पुनर् अपि विधिवत् यथोक्त-विधिना अभिषिक्तः कृताभिषेकः तस्मै गुरवे दक्षिणां विश्राण्य दत्त्वा विप्रान् अभ्यवहार्य भोजयित्वा भक्ति-युतः सन् सम्प्रीणयेत् धन-धान्यादिभिः प्रीतिं कुर्यात् || क्र. दी. वि. ५.१३ ||
______________________________
सिद्ध-मन्त्रस्य कृत्यम् आह-
इति मन्त्र-वर-द्वितयान्यतरं
परिसाध्य जपादिभिर् अच्युत-धीः |
प्रजपेत् सवन-त्रितये दिनशो
विधिनाथ मुकुन्दम् अमन्द-मतिः || क्र. दी. ५.१४ ||
इत्य् अनेन प्रकारेण मन्त्र-द्वितयान्यतरं मन्त्र-द्वितययोर् मध्ये एकं जपादिभिर् जप-पूजा-होम-तर्पणादिभिः परिसाध्य साधयित्वा अच्युत-धीर् अच्युते श्री-कृष्णे धीर् बुद्धिर् यस्य स तथा | यद् वा, अच्युता न क्षरिता विष्णौ बुद्धिर् यस्य स तथा सवन-त्रितये सन्ध्यादि-त्रये दिनशः प्रतिदिनं विधिना उक्त-प्रकारेण मुकुन्दं कृष्णं प्रयजेत् पूजयतु अमन्द-मतिः शुद्ध-मतिः || क्र. दी. वि. ५.१४ ||
______________________________
पूजायां प्रातः-कालिक-ध्यानम् आह-
अथ श्रीमद्-उद्यान-संवीत-हैम-
स्थलोद्भासि-रत्न-स्फुरन्-मण्डपान्तः |
लसत्-कल्प-वृक्षाध उद्दीप्त-रत्न-
स्थली-धिष्ठिताम्भोज-पीठाधिरूढम् || क्र. दी. ५.१५ ||
सप्त-श्लोकान्तं कुलकम् | अथानन्तरं भक्ति-नम्रः भक्त्य्-अतिशयेन नम्र-देहः प्रगे प्रातः-काले कथित-रूपं कृष्णम् अनुस्मृत्य ध्यात्वा तद्-अङ्गेन्द्र-वज्रादिभिः तस्य कृष्णस्याङ्गानि पूर्वोक्तानि हृदयादीनि इन्द्रादयो दश दिक्-पालाः वज्रादयस् तद्-आयुधानि च तैः सह पूजयित्वा तं कृष्णं सिता शर्करा मोचा कदली-विशेषः हैयङ्गवीनं सद्यो-जात-घृतम् | एभिस् तथा दध्ना विमिश्रेण दधि-संयुक्तेन दोग्धेन पायसेन च मन्त्री सम्प्रीणयेत् | कीदृशं ? श्रीमत् शोभा-युक्तं यद् उद्यानं क्रीडा-वनं तेन संवीतं वेष्टितं यद्-धैम-स्थलं लसत्-काञ्चन-भूमिस् तत्रोद्भासीनि उद्गत-किरणानि यानि यानि रत्नानि तैः स्फुरत् देदीप्यमानो यो मण्डपस् तस्यान्तर्-मध्ये देदीप्यमानो यः कल्प-वृक्षस् तस्याधश् छायायाम् उद्गता दीप्तिर् यस्य तादृशं रत्न-मयं यत् स्थानं तद्-अधिष्ठितं तत्रावस्थितं यद् अम्भोजं पद्यं तद् एव पीठं तत्राधिरूढम् उपविष्टम् || क्र. दी. वि. ५.१५ ||
______________________________
महा-नील-नीलाभम् अत्यन्त-बालं
गुड-स्निग्ध-वक्त्रान्त-विस्रस्त-केशम् |
अलि-व्रात-पर्याकुलोत्फुल्ल-पद्म-
प्रमुग्धाननं श्रीमद् इन्दीवराक्षम् || क्र. दी. ५.१६ ||
पुनः कीदृशं ? महा-नील इन्द्र-नीलः | तद्वन् नीलाभं श्यामम् | पुनर् अत्यन्त-बालं पञ्च-वार्षिकम् | पुनः, गुडाः कुटिलाः स्निग्धाः चिक्कणाः कर्णान्ते कपोले विस्रस्ताः पर्याकुलाः | वक्त्रान्तेति पाठे विस्रस्ता मुखावलम्बिताः केशा यस्य तम् | अलि-व्रातेन भ्रमर-समूहेन पर्याकुलं चञ्चलं व्याप्तं वा यत् फुल्लं विकसितं पद्मं तद्वत् प्रमुग्धं मनोहरं आननं मुखं यस्य तम् | पुनः कीदृशं ? श्रीमत् दोष-रहितं यद् इन्दीवरं नील-पद्मं तत्-सदृशे अक्षिणी यस्य तम् || क्र. दी. वि. ५.१६ ||
______________________________
पुनः कीदृशं ?
चलत्-कुण्डलोल्लासि-सम्फुल्ल-गण्डं
सुघोणं सुशोणाधरं सुस्मितास्यम् |
अनेकाश्मरश्म्य्-उल्लसत्-कण्ठ-भूषा-
लसन्तं वहन्तं नखं पौण्डरीकम् || क्र. दी. ५.१७ ||
चञ्चले ये कुण्डले ताभ्याम् उन्नतौ उल्लसितौ शोभमानौ सम्फुल्लौ विकाशितौ गण्डौ यस्य तम् | पुनः शोभमाना घोणा नासा यस्य तम् | पुनः सुशोणो लोहितो ऽधरो यस्य तम् | पुनः शोभनं यत् स्मितम् ईषद्-धासस् तद्-युक्तम् आस्यं यस्य तम् | पुनः अनेकानि यान्य् अश्मानि इन्द्रनील-प्रभृतीनि रत्नानि तेषां ये रश्मयः किरणाः तैर् उल्लसन्ती या कण्ठ-भूषा तया लसन्तं शोभमानम् | पुनः पौण्डरीकं व्याघ्र-सम्बन्धि-नखं वहन्तं धारयन्तम् || क्र. दी. वि. ५.१७ ||
______________________________
पुनः कीदृशं ?
समुद्धूसरोरः-स्थलं धेनु-धूल्याः
सुपुष्टाङ्गम् अष्टापदाकल्प-दीप्तम् |
कटीर-स्थले चारु-जङ्घान्त-युग्मे
पिनद्धं क्वणत्-किङ्किणी-जाल-दाम्ना || क्र. दी. ५.१८ ||
धेनु-धूल्या गो-रजसा समुद्धूसरं धूसरितम् उरः-स्थलं यस्य तं गवाम् अनुगमनात् सुष्ठु पुष्टम् अङ्गं यस्य तम् | कीदृशं ? अष्टापदाकल्प-दीप्तं सुवर्ण-घटितालङ्कारेण शोभमानम् | पुनः कीदृशं ? क्वणत्-किङ्किणी-जाल-दाम्ना शब्दायमान-क्षुद्र-घण्टिका-समूह-मालया कटि-स्थले श्रोणि-तटे चारु-जङ्घान्त-युग्मे मनोहर-गुल्फ-द्वयोर्ध्व-प्रदेशे पिनद्धं बद्धम् || क्र. दी. वि. ५.१८ ||
______________________________
पुनः कीदृशं ?
हसन्तं हसद्-बन्धु-जीव-प्रसून-
प्रभां पाणि-पादाम्बुजोदार-कान्त्या |
करे दक्षिणे पायसं वाम-हस्ते
दधानं नवं शुद्ध-हैयङ्गवीनम् || क्र. दी. ५.१९ ||
पाणि-पादाम्बुजोदार-कान्त्या हस्त-चरण-पद्म-विपुल-शोभया हसद्-बन्धु-जीव-पुष्प-कान्तिं हसन्तम् उपहसन्तम् | पुनः कीदृशं ? दक्षिणे करे हस्ते पायसं सव्य-हस्ते वाम-करे नवं नूतनं शुद्धं निष्कलुषं हैयङ्गवीनम् नवनीतं ह्यो गो-दोहनोद्भवं घृतं दधानं धारयन्तम् || क्र. दी. वि. ५.१९ ||
______________________________
पुनः कीदृशं ?
महीभार-भूताम् अराराति-यूथान्
अनः-पूतनादीन् निहन्तुं प्रवृत्तम् |
प्रभुं गोपिका-गोप-गो-वृन्द-वीतं
सुरेन्द्रादिभिर् वन्दितं देव-वृन्दैः || क्र. दी. ५.२० ||
मही-भार-भूताम् अराराति-यूथान् पृथिवी-भार-रूप-दैत्य-समूहान् अनः-पूतनादीन् शकटासुर-प्रभृतीन् निहन्तुं प्रवृत्तम् | पुनः कीदृशं ? प्रभुं समर्थम् ईश्वरम् | पुनः कीदृशं ? गोपिका गोप-स्त्री, गोपः गौः एतेषां समूहेन वीतं वेष्टितम् | पुनः कीदृशं ? इन्द्रादिभिर् देव-समूहैर् नमस्कृतम् || क्र. दी. वि. ५.२० ||
______________________________
प्रगे पूजयित्वेत्त्यनुस्मृत्य कृष्णं
तद्-अङ्गेन्द्र-वज्रादिकैर् भक्ति-नम्रः |
सिता-मोच-हैयङ्गवीनैश् च दध्ना
विमिश्रेण दौग्धेन सम्प्रीणयेत् तम् || क्र. दी. ५.२१ ||
पूर्व-श्लोके व्याख्यातम् अपि क्रमानुरोधेन व्याख्याते प्रगे प्रातः-काले उक्त-प्रकारेण कृष्णम् अनुस्मृत्य ध्यात्वा उपचारैः सम्पूज्य अङ्गाद्य्-आवरणैः सह सम्पूज्य नैवेद्यं दद्यात् | नैवेद्य-द्रव्यम् आह-सितेति | सिता शर्करा मोचा कदली हैयङ्गवीनं दौग्धेन पायसेन || क्र. दी. वि. ५.२१ ||
______________________________
प्रातः सवन-पूजा-फलम् आह-
इति प्रातर् एवार्चयेद् अच्युतं यो
नरः प्रत्यहं शश्वद् आस्तिक्य-युक्तः |
लभेताचिरेणैव लक्ष्मीं समग्राम्
इह प्रेत्य शुद्धं परं धाम भूयात् || क्र. दी. ५.२२ ||
इत्य् अनेन प्रकारेण प्रत्यहं शश्वत् सर्वदा आस्तिक्य-युक्तः सन् यो नरः प्रातः-काले अच्युतम् अर्चयेत् तम् एवावश्यं पूजयति स इह लोके अचिरेणैवाल्प-कालेनैव समग्रां सम्पूर्णां लक्ष्मीं सम्पदं लभते प्राप्नोति प्रेत्य देहं परित्यज्य परं शुद्धं ब्रह्माख्यं महः भूयात् प्राप्नोति तत्-सरूपो भवतीत्य् अर्थः || क्र. दी. वि. ५.२२ ||
______________________________
प्रातः पूजायाम् एव नैवेद्यं तर्पणं च दर्शयति-
अहो-मुखे ऽनुदिनम् इत्य् अभिपूज्य शौरिं
दध्नाथ वा गुड-युतेन निवेद्य तोयैः |
श्रीमन्-मुखे समनुतर्प्य च तद्-धिया तं
जप्यात् सहस्रम् अथ साष्टकम् आदरेण || क्र. दी. ५.२३ ||
अथवा शब्दः पाद-पूरणे इति पूर्वोक्त-प्रकारेण अह्नो-मुखे प्रातः-काले अनुदिनं प्रत्यहं शौरिं कृष्णम् अभिपूज्य गुड-सहितेन दध्ना नैवेद्यं दत्त्वा जलैस् तद्-धिया गुड-सहित-बुद्ध्या श्रीमतः कृष्णस्य मुखे समनुतर्प्य अथानन्तरं तं मन्त्रम् आदरेण साष्टकं सहस्रं अष्टोत्तर-सहस्रं जपेत् || क्र. दी. वि. ५.२३ ||
______________________________
मध्यन्दिन-सवन-ध्यानम् आह-
मध्यं-दिने जप-विधान-विशिष्ट-रूपं
वन्द्यं सुरर्षि-यति-खेचर-मुख्य-वृन्दैः |
गो-गोप-गोप-वनिता-निकरैः परीतं
सान्द्राम्बुद-च्छवि-सुजात-मनोहराङ्गम् || क्र. दी. ५.२४ ||
चतुर्थ-श्लोक-स्थ-क्रियया योजना एवम् अनेन प्रकारेण मध्यन्दिने मध्याह्ने नन्दजं कृष्णं ध्यात्वा इन्दिरा श्रीस् तस्या आप्त्य्-अर्थं अर्चयतु | कीदृशं ? जप-विधानेन विशिष्टं रूपं यस्य तं जपार्थं यत् ध्यानम् | अथ प्रकट-सौरभेत्य् आदि तृतीय-पटलोक्त-ध्यानं तद् एवात्रापीति त्रिपाठिनः | पुनः कीदृशं ? वन्द्यं श्रेष्ठम् | पुनः कीदृशं ? सुरा इन्द्रादय ऋषयो नारदादयः यतयः सनकादयः खेचराः स्वर्ग-वासिनः एतेषां मुख्याः श्रेष्ठाः तेषां वृन्दैः समूहैः तथा गौः गोपः गोप-स्त्री च एतेषां निकरैः समूहैः परीतं वेष्टितं सान्द्रो निविडो यो अम्बुदो मेघस् तद्वच् छविर् यस्य तत् | अथ च सुजातं दोष-रहितम् | अथ च मनोहरं नेत्रोत्सव-कारकम् अङ्गं यस्य || क्र. दी. वि. ५.२४ ||
______________________________
पुनः कीदृशं ?
मयूर-पत्र-परिक्प्त-वतंस-रम्य-
धम्मिल्लम् उल्लसित-चिल्लिकम् अम्बुजाक्षम् |
पूर्णेन्दु-बिन्दु-वदनं मणि-कुण्डल-श्री-
गण्डं सुनासम् अतिसुन्दर-मन्द-हासम् || क्र. दी. ५.२५ ||
मयूरस्येदं मायूरं पत्रं पक्षः मायूरं च तत्-पत्रं चेति मायूर-पत्रं तेन परिक्प्तो यो वतंसः शिरो-भूषणम् | वष्टि-भागुरिरल्लोपम् अवाप्योरुपसर्गयोः इत्य् अकार-लोपः | तेन रम्यो धम्मिल्लः केश-पाशः यस्य तम् | पुनः कीदृशं ? अम्बुजवत् पद्मवत् अक्षिणी यस्य स तथा तम् | पुनः कीदृशं ? सम्पूर्णो य इन्दु-बिम्बश् चन्द्र-मण्डलं तद्वद् वदनं मुखं यस्य स तथा तम् | पुनः कीदृशं ? मणि-मयं यत् कुण्डलं तेन श्री-युक्तौ शोभा-सहितौ गण्डौ यस्य तम् | पुनः कीदृशं ? शोभना नासा यस्य तम् | पुनः कीदृशं ? मनोहरेषद्-हास्य-युक्तम् || क्र. दी. वि. ५.२५ ||
______________________________
पुनः कीदृशं ?
पीताम्बरं रुचिर-नूपुर-हार-काञ्ची-
केयूरकोमिकटकादिभिर् उज्ज्वलाङ्गम् |
दिव्यानुलेपन-पिशङ्गितमसराजद्-
अम्लान-चित्र-वनमालम् अनङ्ग-दीप्तम् || क्र. दी. ५.२६ ||
पीताम्बरं वस्त्रं यस्य तम् | पुनः कीदृशं ? मनोहर-नूपुरादिभिः शोभितम् अङ्गम् यस्य तं हारो मुक्तावली काञ्ची क्षुद्र-घण्टिका केयूरम् अङ्गदम् ऊर्मिर् मुद्रिका कटकः कङ्कण आदि-पदेन किरीटादीनां परिग्रहः | पुनः कीदृशं ? देव-सम्बन्धिनानुलेपनेन कुङ्कुमादिना पिशाङ्गितं पिञ्जरितम् अंसे स्कन्धे राजन्ती शोभमाना अम्लाना अक्लिष्टा चित्रा नाना-प्रकारिका वनमाला पत्र्-पुष्प-मयी आपाद-लम्बिनी माला यस्य तम् | पुनः कीदृशं ? अनङ्गवत् कामवत् दीप्तम् || क्र. दी. वि. ५.२६ ||
______________________________
पुनः कीदृशं ?
वेणुं धमन्तम् अथवा स्व-करे दधानं
सव्येतरे पशुप-यष्टिम् उदार-वेषम् |
दक्षे मणि-प्रवरम् ईप्सित-दान-दक्षं
ध्यात्वैवम् अर्चयतु नन्दजम् इन्दिराप्त्यै || क्र. दी. ५.२७ ||
वेणुं धमन्तम् वादयन्तम् | अथवा पक्षान्तरे स्व-करे सव्येतरे वामे गो-रक्षण-दण्डं दधानं तथा दक्षे दक्षिणे ईप्सित-दान-दक्षं मणिं दधानम् | पुनः कीदृशं ? उदार-वेषम् | उद्भट-वेषम् इति रुद्र-धरः | वस्तुतस् तु वेणुं वादयन्तं तद् एव दर्शयति अथेति वाम-करे सव्यं दक्षिण-वामयोर् इत्य् अभिधानात् द्वयोर् एवात्र-तन्त्रेण सङ्ग्रहः तत्र सव्ये द्वितीय-वाम-हस्ते पशुप-यष्टिं परशुरकार्थं यष्टिं दण्डं तथा सव्ये दक्षिणे हस्ते मणि-प्रवरम् मणि-श्रेष्ठं चिन्तामणिं दधानम् | कीदृशं ? मणि-प्रवरम् ईप्सित-दान-दक्षं वाञ्छितार्थ-दान-क्षमम् इत्य् अर्थः || क्र. दी. वि. ५.२७ ||
______________________________
आवरण-नैवेद्य-दान-प्रकारम् आह-
दामादिकाङ्ग-दयितासुहृदङ्घ्रिपेन्द्र-
वज्रादिभिः समभिपूज्य यथा-विधानम् |
दीक्षा-विधि-प्रकथितं च निवेद्य-जातं
हैमे निवेदयतु पात्र-वरे यथावत् || क्र. दी. ५.२८ ||
दाम आदिर् यस्य | आदि-पदेन सुदामादीनां परिग्रहः | अङ्गानि पूर्वोक्तानि पञ्च दयिता रुक्मिण्य्-आद्याः सुहृदो वसुदेवाद्याः अङ्घ्रिपा मन्दराद्याः पूर्वोक्ता इन्द्रादयो दश दिक्पालाः वज्रादीनि च तेषां आयुधानि पूर्वोक्तानि | एतैर् यथा-विधानं यथोक्त-प्रकारेण कृष्णं सम्पूज्य दीक्षा-विधाने कथितं नैवेद्य-समूहं हैमं सुवर्ण-मये पात्र-श्रेष्ठे यथावत् निवेदयतु || क्र. दी. वि. ५.२८ ||
______________________________
होमादिकम् आह-
अष्टोत्तरं शतम् अथो जुहुयात् पयो ऽन्नैः
सर्पिः-प्लुतैः सुसित-शर्करया विमिश्रैः |
दद्याद् बलिं च निज-दिक्षु सुरर्षि-योगि-
वर्गोपदैवत-गणेभ्य उदग्र-चेताः || क्र. दी. ५.२९ ||
अनन्तरं पयो ऽन्नैः पायसैः सर्पिः-प्लुतैः सुसित-शर्करया विमिश्रैः अतिशुभ्र-शर्करया मिलितैः अष्टाधिकं शतम् जुहुयात् होमं कुर्यात् | साहचर्यात् कल्पना-लाघवाच् च होमोक्त-द्रव्येणैव निज-दिक्षु स्व-स्व-दिक्षु सुरर्षि-योगि- वर्गोपदैवत-गणेभ्यो बलिं दद्यात् | तत्र सुरा विरञ्चि-प्रभृतयः पूर्व-दिक्-स्थाः ऋषयो नारदादयो दक्षिण-दिक्-स्थाः योगि-वर्गः सनकादिः पश्चिम-दिक्स्थाः उपदेव-गणाः यक्ष-सिद्ध-गन्धर्व-विद्याधराद्याः उत्तर-दिक्-स्था इति त्रिपाठिनः | उपदेव-गणाः दश-दिक्-पाला इति रुद्रधरः | उदग्र-चेता उद्भट-चित्तः सोत्साह इत्य् अर्थः || क्र. दी. वि. ५.२९ ||
______________________________
नवनीत-मिलित-पायस-धियार्चनान्ते जलैर् मुखे तस्य |
सन्तर्प्य जपतु मन्त्री सहस्रम् अष्टोत्तर-शतं वापि || क्र. दी. ५.३० ||
अर्चनान्ते पूजावसाने तस्य देवस्य मुखे नवनीतेन मिलितं सम्बद्धं यत् पायसं तद्-बुद्ध्या जलैः सन्तर्प्य तर्पणं कृत्वा मन्त्री साधकः अष्टाधिकं सहस्रम् शतं वा जपतु || क्र. दी. वि. ५.३० ||
______________________________
एतत्-फलम् आह-
अह्नो मध्ये वल्लवी-वल्लभं तं
नित्यं भक्त्याभ्यर्चयेत् यो नराग्र्यः |
देवाः सर्वे तं नमस्यन्ति शश्वत्
वर्तेरन् वै तद्-वशे सर्व-लोकाः || क्र. दी. ५.३१ ||
यो नराग्र्यो नर-श्रेष्ठः अह्नो मध्ये मध्याह्ने तं वल्लवी-वल्लभं गोपी-प्रियं नित्यं सर्वदा भक्त्या सात्त्विकेन भावेनार्चयेत् | तं नर-श्रेष्ठं सर्वे देवाः नमस्यन्ति | तथा शश्वत् सर्वदा सर्वे जना एव तद्-वशे वर्तेरन् तद्-वश्याः स्युर् इत्य् अर्थः || क्र. दी. वि. ५.३१ ||
______________________________
मेधायुः-श्री-कान्ति-सौभाग्य-युक्तः
पुत्रैर् मित्रैर् गोमही-रत्न-धान्यैः |
भोगैश् चान्यैर् भूरिभिः सन्निहाढ्यो
भूयान् भूयो धाम तच् चाच्युताख्यम् || क्र. दी. ५.३२ ||
तथा इह लोके मेधा धारणावती बुद्धिः आयुः जीवनं, श्रीः लक्ष्मीः | कान्तिः शरीर-शोभा, सौभाग्यं सर्वजन-प्रियता | एतैः युक्तः सम्बद्धः तथा पुत्रैर् औरसैः मित्रैः सुहृद्भिर् गौः प्र्थिवी रत्नं धान्यं व्रीह्यादिः | एतैश् चतथान्यैर् भूरिभिः प्रचूरैः सुखैर् आढ्यः उपचितः सन् पुनः देहावसाने अच्युताख्यं कृष्ण-नामकं तेजो महो भूयान् तद्-रूपो भवतीत्य् अर्थः || क्र. दी. वि. ५.३२ ||
______________________________
तृतीय-काल-पूजा-व्यवस्थाम् आह-
तृतीय-काल-पूजायाम् अस्ति काल-विकल्पना |
सायाह्ने निशि वेत्य् अत्र वदन्त्य् एके विपश्चितः || क्र. दी. ५.३३ ||
तृतीय-काल-पूजायाम् कालस्य वेलायां विकल्पना विकल्पो ऽस्ति तम् एवाह-सायाह्ने सन्ध्यायां निशि रात्रौ वेति अत्र एके विपश्चितो वदन्ति || क्र. दी. वि. ५.३३ ||
______________________________
किं तत्राह-
दशाक्षरेण चेद् रात्रौ सायाह्ने ऽष्टादशार्णतः |
उभयीम् उभयेनैव कुर्याद् इत्य् अपरे जगुः || क्र. दी. ५.३४ ||
चेद् यदि दशाक्षरेण मन्त्रेण पूजादिकं तदा रात्रौ यद् अष्टादशार्णतो अष्टादशाक्षरेण मन्त्रेण तदा सायाह्ने इत्य् एकेषां मतम् | अपरे च पुनः उभयीम् उभय-पूजाम् उभयेनैव दशाक्षरेणाष्टादशाक्षरेण च तत् कुर्याद् इति जगुः कथयन्ति | तथा चैच्छिको विकल्प इति भावः || क्र. दी. वि. ५.३४ ||
______________________________
सायाह्न इत्य् आदि | अत्र नव-श्लोकान्तं कुलकम् |
सायाह्ने द्वारवत्यां तु चित्रोद्यानोपशोभिते |
द्व्यष्ट-साहस्र-सङ्ख्यातैर् भवनैर् अभिसंवृते || क्र. दी. ५.३५ ||
हंस-सारस-सङ्कीर्णैः कमलोत्पल-शालिभिः |
सरोभिर् अमलाम्भोभिः परीते भवनोत्तमे || क्र. दी. ५.३६ ||
उद्यत्-प्रद्योतन-द्योत-सद्युतौ मणि-मण्डपे |
मृद्वास्तरे सुखासीनं हेमाम्भोजासने हरिम् || क्र. दी. ५.३७ ||
नारदाद्यैः परिवृतम् आत्म-तत्त्व-विनिर्णये |
तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परम् अक्षरम् || क्र. दी. ५.३८ ||
सायाह्ने एवम् एतादृश-वेष-धारिणं हरिं ध्यात्वार्चयेत् | कीदृशं ? मृद्वास्तर-कोमलासन-रूपे हेमाम्भोजासने कनक-पद्मासने समासीनम् उपविष्टं कुत्रावस्थितं मणि-मण्डपे | किं विशिष्टे ? उद्गच्छन् यः प्रद्योतनः सूर्यः तस्य द्योतस्य समाना द्युतिर् यस्य तस्मिन् | कुत्र ? भवनोत्तमे गृह-श्रेष्ठे | किं विशिष्टे ? चित्रोद्यानोपशोभिते बहुधोपवन-सेविते | पुनः किं विशिष्टे ? द्वारवत्यां विद्यमाने | पुनः किं विशिष्टे ? भवनैर् गृहैर् अभिसंवृते | कीदृशैः ? द्व्यष्ट-साहस्र-सङ्ख्यातैः |
पुनः किं विशिष्टे ? सरोभिः सरोवरैः परीते | कीदृशैः ? अमलाम्भोभिर् निर्मल-जलैः | पुनः कीदृशैः ? हंस-सारस-सङ्कीर्णैः हंसादि-पक्षि-गणैर् व्याप्तैः | पुनः कीदृशैः ? कमलोत्पल-शालिभिः पद्मोत्पल-सहितैः |
हरिं कीदृशं ? नारदाद्यैर् मुनिभिः परिवृतम् वेष्टितम् | किम्-अर्थम् ? आत्म-तत्त्व-विनिर्णये आत्म-तत्त्व-निश्चये निमित्ते | पुनः कीदृशं ? तेभ्यो नारदादिभ्यः स्वं धाम ज्ञान-स्वरूपम् आत्मानं कथयन्तम् | पुनः कीदृशं ? परम-विद्या-तत्-कार्य-रहितम् | पुनः कीदृशं ? अक्षरम् अविनाशि || क्र. दी. वि. ५.३५-३८ ||
______________________________
पुनः कीदृशं ?
इन्दीवर-निभं सौम्यं पद्म-पत्रोरुणेक्षणम् |
स्निग्ध-कुन्तल-सम्भिन्न-किरीट-मुकुटोज्ज्वलम् || क्र. दी. ५.३९ ||
इन्दीवर-निभं नीलाम्भोज-सदृशं सौम्यं उग्रता-रहितम् | पुनः कीदृशं ? पद्म-पत्रवद् आयते दीर्घे ईक्षणे यस्य तम् | पुनः स्निग्धाः चिक्कणा ये कुन्तलाः केशास् तैः सम्भिन्ने मिलिते किरीट-मुकुटे ताभ्याम् उज्ज्वलं देदीप्यमानम् | तत्र किरीट-शब्देन ललाटाश्रितः त्रि-शृङ्गो ऽलङ्कार-विशेषः कथ्यते | मुकुट-शब्देन च मूर्ध्नि मध्य-भागाश्रितं तच् च दीप-शिखा-कारो ऽलङ्कार-विशेषः कथ्यते || क्र. दी. वि. ५.३९ ||
______________________________
पुनः कीदृशं ?
चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् |
श्रीवत्स-वक्षसं भ्राज-कौस्तुभं वनमालिनम् || क्र. दी. ५.४० ||
चारु मनोहरं प्रसन्नं फल-दायि वदनं यस्य तम् | पुनः स्फुरती देदीप्यमाने मकराकृती कुण्डले यस्य तम् | पुनः श्रीवत्सो विप्र-पाद-प्रहार-कृत-चिह्न-विशेषो वक्षसि यस्य तम् | पुनः भ्राजन् देदीप्यमानः कौस्तुभो मणि-विशेषो यस्य तम् | पुनः वनमाला-धारिणम् || क्र. दी. वि. ५.४० ||
______________________________
काश्मीर-कपिशोरस्कं पीत-कौशेय-वाससम् |
हार-केयूर-कटक-रसनाद्यैः परिष्कृतम् || क्र. दी. ५.४१ ||
काश्मीरेण कुङ्कुम-वर्णम् उरो यस्य तम् | पुनः पीत-वस्त्र-धारिणम् | पुनः हारः मुक्ताहारः केयूरम् अङ्गदं बाह्व्-अलङ्कारः | कटकः कङ्कणः | रसना क्षुद्र-घण्टिका आदि-शब्देनाङ्गुलीयकादेः परिग्रहः एतैः परिष्कृतं शोभितम् || क्र. दी. वि. ५.४१ ||
______________________________
पुनः कीदृशं ?
हृत-विश्वम्भराभूरि-भारं मुदित-मानसम् |
शङ्ख-चक्र-गदा-पद्म-राजद्-भुज-चतुष्टयम् || क्र. दी. ५.४२ ||
हृतो ऽपनीतो विश्वम्भरायाः पृथ्व्या भूरि-भारो बृहद्-भारो ऽसुरादि-लक्षणो येन तम् | पुनः मुदितं हृष्टं मानसं यस्य तम् | पुनः शङ्ख-चक्र-गदा-पद्मैः शोभितं बाहु-चतुष्टयम् यस्य तम् || क्र. दी. वि. ५.४२ ||
______________________________
एवं ध्यात्वार्चयेन् मन्त्री तद्-अङ्गैः प्रथमावृतिम् |
द्वितीयां महिषीभिस् तु तृतीयायां समर्चयेत् || क्र. दी. ५.४३ ||
नारदं पर्वतं जिष्णुं निशठोद्धव-दारुकान् |
विश्वक्सेनं च सैनेयं दिक्ष्व् अग्रे विनता-सुतम् || क्र. दी. ५.४४ ||
अत्र पूजायां अङ्गैः पूर्वोक्तैः पञ्चाङ्गैः प्रथमावरणं भवति | द्वितीयावरणं महिषीभिः रुक्मिण्य्-आदिभिः | तृतीयायाम् आवृतौ दिक्षु प्रवादि-दिक्षु वक्ष्यमाणान् नारदादीन् अग्रे च विनता-सुतं गरुडं पूजयेत् | पर्वत-नामा मुनि-विशेषः | जिष्णुर् अर्जुनः | निशठो यादव-विशेषः | उद्धवो ऽपि तथा | दारुकः कृष्ण-सारथिः | विश्वक्सेनः भाण्डागारिकः सैनेयः सात्यकिः || क्र. दी. वि. ५.४३-४४ ||
______________________________
लोकेशैस् तत्-प्रहरणैः पुनर् आवरण-द्वयम् |
इति सम्पूज्य विधिवत् पायसेन निवेदयेत् || क्र. दी. ५.४५ ||
लोकेशैर् इन्द्रादिभिर् एकम् आवरणम् | तत्-प्रहरणैस् तद्-आयुधैर् वज्रादिभिर् अपरावरणम् | एवं क्रमेणावरण-द्वयम् इत्य् अनेन प्रकारेण पञ्चावरणकेन सम्पूज्य विधिवद् दीक्षा-कथितं पायसं दद्यात् || क्र. दी. वि. ५.४५ ||
______________________________
तर्पण-प्रकारं जप-सङ्ख्यां च दर्शयति-
तर्पयित्वा खण्ड-मिश्रैर् दुग्ध-बुद्ध्या जलैर् हरिम् |
जपेद् अष्ट-शतं मन्त्री भावयन् पुरुषोत्तमम् || क्र. दी. ५.४६ ||
खण्डेन शर्करया विमिश्रं मिलितं यद् दुग्धं तद्-बुद्ध्या जलैः कृष्णं तर्पयित्वा पुरुषोत्तमं भावयन् ध्यायन् मन्त्री साधकः अष्टाधिक-शतं जपेत् | यद्यपि तर्पणस्य क्त्वा-प्रत्ययेन पूर्व-कालता प्रतीयते तथापि प्रथमं जपः तद् अनु तर्पणं कार्यं तथैवानुक्रमात् सम्प्रदायाच् चेति रुद्रधरः || क्र. दी. वि. ५.४६ ||
______________________________
पूजासु होमं सर्वासु कुर्यान् मध्यन्दिने ऽथवा |
आसनाद् अर्घ्य-पर्यन्तं कृत्वा स्तुत्वा नमेत् सुधीः || क्र. दी. ५.४७ ||
सर्वासु तिसृष्व् अपि पूजासु होमं कुर्यात् | पक्षान्तरम् आह-अथवेति | मध्यन्दिने मध्याह्न्-पूजायां वा होमं कुर्याद् इत्य् अर्थः | आसनाद् इति | आसन-मन्त्राद् आरभ्यार्घ्य-पर्यन्तं कृत्वा स्तुत्वा स्तवनं कृत्वा नमेत् दण्डवत् प्रणमेत् | अवसानार्घ्यम् अवशेषयित्वा मध्ये होमं कृत्वा ततः पूजाशेषार्घ्यम् अवसानार्घ्य-संज्ञकं पराङ्मुखार्घ्यापर-पर्यायं दद्याद् इत्य् अर्थः || क्र. दी. वि. ५.४७ ||
______________________________
समर्प्यात्मानम् उद्वास्य तत् स्वे हृत्-सरसीरुहे |
विन्यस्य तन्-मयो भूत्वा पुनर् आत्मानम् अर्चयेत् || क्र. दी. ५.४८ ||
आत्म-समर्पण-मन्त्रेण स्वात्मानं परमेश्वरे समर्प्य तत् परमेश्वर-तेजः पूजा-स्थानाद् उद्वास्य उद्वृत्त्य स्वकीय-हृदय-पद्मे विन्यस्य तन्-मयो भूत्वा पुनर् आत्मानम् पूजयेत् || क्र. दी. वि. ५.४८ ||
______________________________
सायाह्न-पूजा-फलम् आह-
सायाह्ने वासुदेवं यो नित्यम् एव यजेन् नरः |
सर्वान् कामान् अवाप्यान्ते स याति परमां गतिम् || क्र. दी. ५.४९ ||
यो नरः सायाह्ने वासुदेवं नित्यं सर्वदा एवं कथित-प्रकारेण यजेत् पूजा-तर्पण-होमादिभिः परितोषयेत् सर्वान् कामान् वाञ्छितान् अर्थान् अवाप्य देहावसाने परां गतिं विष्णु-सायुज्यं प्राप्नोति || क्र. दी. वि. ५.४९ ||
______________________________
रात्रौ चेन् मन्मथाक्रान्त-मानसं देवकी-सुतम् |
यजेद् रास-परिश्रान्तं गोपी-मण्डल-मध्यगम् || क्र. दी. ५.५० ||
चेद् यदि रात्रौ पूजा क्रियते तदा रासः क्रीडा-विशेषस् तेन परिश्रान्तं देवकी-नन्दनं यजेत् मन्मथेन आक्रान्तं मानसं हृदयं यस्य तम् | पुनः गोपीनां मण्डलं गोष्ठी-विशेषः तस्य मध्ये स्थितम् || क्र. दी. वि. ५.५० ||
______________________________
रास-क्रीडां दर्शयति-
पृथुं सुवृत्तं मसृणं वितस्ति-
मात्रोन्नतं कौ विनिखन्य शङ्कुम् |
आक्रम्य पद्भ्याम् इतरेतरात्त-
हस्तैर् भ्रमो ऽयं खलु रास-गोष्ठी || क्र. दी. ५.५१ ||
इतरेतरात्त-हस्तैः परस्पर-गृहीत-हस्तैः अयं भ्रमो भ्रमणं रास-गोष्ठी | किं कृत्वा ? कौ पृथिव्यां पृथुं स्थूलं सुवृत्तं वर्तुलाकारं मसृणं स्निग्धं वितस्ति-मात्रोत्थितं द्वादशाङ्गुल-प्रमाणेनोर्ध्वं स्थितं शङ्कु काष्ठ-खण्डं विनिखन्य | पुनः किं कृत्वा ? पद्भ्यां शङ्कुम् आक्रम्य नियन्त्र्य || क्र. दी. वि. ५.५१ ||
______________________________
ध्यानम् आह-
स्थल-नीरज-सून-पराग-भृता
लहरी-कण-जाल-भरेण सता |
मरुता परितापहृताध्युषिते
विपुले यमुना-पुलिने विमले || क्र. दी. ५.५२ ||
द्वादश-श्लोकान्तं कुलकम् | कल्याण-मय-स्वरूपम् अजं विचिन्त्य प्रथमोदित-पीठ-वरे पूर्वोक्त-दीक्षा-सम्बन्धि-पूजा-पीठ-श्रेष्ठे विधिवत् यथाविधि प्रयत्नेन पूजयेत् | कीदृशं ? यमुना-पुलिने यमुना-तटे इतरेतर-बद्ध-कर-प्रमदा-गण-कल्पित-रास-विहार-विधौ अन्योन्य-बद्ध-हस्त-स्त्री-समूह-परिकल्पित-क्रीडा-विशेष-विधौ मणि-शङ्कुगं मणिमय-शङ्कु-मध्य-गतम् | कीदृशे ? पुलिने वायुनाधुयुषिते आक्रान्ते | कीदृशेन ? स्थल-नीरजं स्थल-कमलं तं पुष्प-पराग-भृता तत्-केशर-संनिकृष्ट-पुष्प-रजो-युक्तेन अनेन सौगन्ध्यं वर्णितं पुनः लहरी-तरङ्गस् तस्य कण-जालं बिन्दु-समूहः तस्य भरेण प्रकर्षेण सताम् | उत्कृष्टेन युक्तेनेति त्रिपाठिनः | अनेन शैत्यम् उक्तम् | पुनः परिताप-हृता खेद-विनाशकेन अनेन मान्द्यम् उक्तम् | पुनः कीदृशे पुलिने ? विपुले विस्तीर्णे पुनः विमले शुद्धे || क्र. दी. वि. ५.५२ ||
______________________________
पुनः कीदृशं ?
अशरीर-निशात-शरोन्मथित-
प्रमदा-शत-कोटिभिर् आकुलिते |
उडुनाथ-करैर् विशदीकृत-दिक्-
प्रसरे विचरद्-भ्रमरी-निकरे || क्र. दी. ५.५३ ||
अशरीरः कामः तस्य यो निशात-शरस् तीक्ष्ण-बाणस् तेन उन्मथिता व्यग्रीकृता याः
प्रमदास् तासां शत-कोटिभिर् आकुलितीकृते इतस् ततो ऽव्याप्तेः | पुनः कीदृशे ? उडुनाथश् चन्द्रस् तस्य करैः किरणैर् विशदीकृतः प्रकाशितो दिक्-
प्रसरो दिग्-अवकाशो यत्र तस्मिन् | पुनः कीदृशे ? विचरन्ती भ्रमन्ती या भ्रमरी तस्या निकरः समूहो यत्र तस्मिन् || क्र. दी. वि. ५.५३ ||
______________________________
पुनः कीदृशं ?
विद्याधर-किन्नर-सिद्ध-सुरैः
गन्धर्व-भुजङ्गम-चारणकैः |
दारोपहितैः सुविमान-गतैः
स्वस्थैर् अभिवृष्ट-सुपुष्प-चयैः || क्र. दी. ५.५४ ||
विद्याधर-प्रभृतयो यथा प्रसिद्धाः तथा भुजङ्गमः हस्त-पादादि-शरीरान्वितो नाग-लोक-स्थः सर्पः एतैर् दारोपहितैः सस्त्रीकैः शोभन-विमान-गतैः आकाश-निष्ठैः कृत-पुष्प-वृष्टि-समूहैः आकुलिते || क्र. दी. वि. ५.५४ ||
______________________________
पुनः कीदृशं कृष्णम् ?
इतरेतर-बद्ध-कर-प्रमदा-
गण-कल्पित-रास-विहार-विधौ |
मणि-शङ्कु-गम् अप्य् अमुनावपुषा
बहुधा विहित-स्वक-दिव्य-तनुम् || क्र. दी. ५.५५ ||
अमुना वपुषा अनेन मणि-शङ्कु-गअतेन शरीरेण नाना-प्रकार-कृत-स्वीय-दिव्य-शरीरम् || क्र. दी. वि. ५.५५ ||
______________________________
पुनः कीदृशं ?
सुदृशाम् उभयोः पृथग्-अन्तरगं
दयिता-गण-बद्ध-भुज-द्वितयम् |
निज-सङ्ग-विजृम्भद्-अनङ्ग-शिखि-
ज्वलिताङ्ग-लसत्-पुलकालि-युजाम् || क्र. दी. ५.५६ ||
सुदृशाम् कामिनीनाम् उभयोर् द्वयोः पृथक् द्वय-द्वय-क्रमेण अन्तरगं मध्य-गतम् | पुनः कीदृशं ? दयिता-गणेन नारी-समूहेन बद्धं स्व-हस्तेनान्यो ऽन्यं ग्रथितं भुज-द्वितयं यस्य तम् एतेनैतद् उक्तं भवति कामिन्योर् मध्ये कामिनीनाम् एव हस्तेन गृहीत-हस्तः परमेश्वर इति अपि समुच्चयेन केवलं शङ्कुगं कामिनीनाम् अपि अन्तरेण युक्तम् इति भावः | कीदृशाम् ? निज-सङ्गेन गोपाल-कृष्ण-सङ्गेन विजृम्भमाणः प्रज्वलितो यो अनङ्ग-शिखी कामाग्निस् तेन ज्वलितं प्रदीप्तं यद् आङ्गं तत्र लसन्ती शोभमाना या पुलकाली रोमाञ्च-पङ्क्तिस् तया युज्यन्ते इति तद्-युजस् तासाम् || क्र. दी. वि. ५.५६ ||
______________________________
पुनः कीदृशं ?
विविध-श्रुति-भिन्न-मनोज्ञतर-
स्वर-सप्तक-मूर्च्छन-ताल-गणैः |
भ्रममाणम् अमूभिर् उदार-मणि-
स्फुट-मण्डन-शिञ्जित-चारुतरम् || क्र. दी. ५.५७ ||
अमूभिर् गोपीभिः सह भ्रममाणम् भ्रमीकुर्वाणं | कैः ? विविधो नाना-प्रकारः श्रुतिर् नाम-स्वरारम्भकावयवः शब्द-विशेषः तेन भिन्नं सङ्गतं मनोज्ञतरम् अति-हृदय-ग्राहि यत् स्वर-सप्तकं निषादेत्य् आदि तस्य या मूर्च्छना एकविंशति-प्रकारिका भाग-तालाश्वताल-परितालादयः ऊन-पञ्चाशत् एतेषां गणैः समूहैः | पुनः कीदृशं ? उदार उदूढो यो मणिस् तस्य स्फुटं प्रव्यक्तं अतितेजस्वितया यन् मण्डनं तस्य शिञ्जितं शब्दितं तेन चारुतरं हृदयङ्गमम् ||५७||
______________________________
पुनः कीदृशं ?
इति भिन्न-तनुं मणिभिर् मिलितं
तपनीय-मयिर् इव भारकतम् |
मणि-निर्मित-मध्यग-शङ्कु-लसद्-
विपुलारुण-पङ्कज-मध्य-गतम् || क्र. दी. ५.५८ ||
इति भिन्न-तनुम् | अनेन प्रकारेण गोपीभिर् मिलित-देहं गोपाल-कृष्णं कम् इव तपनीय-मयैः सुवर्ण-मयैः मणिभिर् मिलितं ग्रथितं मरकत-मणिम् इव | पुनः कीदृशं ? मणि-निर्मितो मध्य-गतो यः शङ्कुः तल् लग्नं लसद् देदीप्यमानं यद् विपुलं बृहद्-अरुण-पङ्कजं तस्य मध्य-गतम् || क्र. दी. वि. ५.५८ ||
______________________________
पुनः कीदृशं ?
अतसी-कुसुमाभ-तनुं तरुणं
तरुणारुण-पद्म-पलाश-दृशम् |
नव-पल्लव-चित्र-सुगुच्छ-लसच्-
छिखि-पिच्छ-पिनद्ध-कच-प्रचयम् || क्र. दी. ५.५९ ||
अतसी-प्रसिद्धा तस्याः कुसुमानीवाभा दीप्तिर् यस्यास् तनोस् तादृशी तनुर् यस्य तम् | पुनः कीदृशं ? तरुणेति नूतनारुण-पद्म-पत्र-सदृश-नेत्रम् | पुनः कीदृशं ? नवेति नूतन-पल्लव-नाना-विध-स्तवक-शोभमान-मयूर-पुच्छ-सम्बद्ध-केश-समूहम् || क्र. दी. वि. ५.५९ ||
______________________________
पुनः कीदृशं ?
चटुल-भ्रुवम् इन्दु-समान-मुखं
मणि-कुण्डल-मण्डित-गण्ड-युगम् |
शश-रक्त-सदृक्-दशन-च्छदनं
मणि-राजद्-अनेक-विधाभरणम् || क्र. दी. ५.६० ||
चटुल-भ्रुवं चलद्-भ्रू-लताकम् | पुनः कीदृशं ? शुक्ल-पक्षीय-पूर्ण-चन्द्र-सदृशाननम् | पुनः कीदृशं ? मणि-मय-कुण्डल-शोभित-गण्ड-द्वयम् | पुअन्ः कीदृशं ? शश-शोणित-तुल्याधरम् | पुनः कीदृशं ? मणिना शोभमान-नाना-प्रकाराभरणम् || क्र. दी. वि. ५.६० ||
______________________________
पुनः कीदृशं ?
असन-प्रसव-च्छदनोज्ज्वलसद्-
वसनं सुविलास-निवास-भुवम् |
नव-विद्रुम-भद्र-कराङ्घ्रि-तलं
भ्रमराकुल-दाम-विराजि-तनुम् || क्र. दी. ५.६१ ||
असनो वृक्ष-विशेषः तस्य प्रसवः पुष्पं तस्य छेदनं पत्रं च तद्वद् उज्ज्वलं शोभमानं मनोहरं वस्त्रं यस्य तम् | पुनः कीदृशं ? शोभन-क्रीडा-विचित्र-स्थानम् | पुनः कीदृशं ? नवो नूतनो यो विद्रुमः प्रवालस् तद्वत् भद्रं मनोहरं कराङ्घ्रि-तलं यस्य तम् | पुनः कीदृशं ? भ्रमरैर् आकुलं व्याप्तं यत् पुष्प-दाम-माला तेन विराजितं भुज-द्वयं यस्य तं यद् वा मालया विराजिता तनुर् यस्य तम् || क्र. दी. वि. ५.६१ ||
______________________________
पुनः कीदृशं ?
तरुणी-कुच-युक्-परिरम्भ-मिलद्-
घुसृणारुण-वक्षसम् उक्ष-गतिम् |
शिव-वेणु-समीरित-गान-परं
स्मर-विह्वलितं भुवनैक-गुरुम् || क्र. दी. ५.६२ ||
युवतीनां स्तन-द्वयालिङ्गन-सम्बद्ध-कुङ्कुमारुणितम् उरः-स्थलं यस्य तम् | पुनः कीदृशं ? उक्ष-गतिं वृषभ-गतिम् | पुनः कीदृशं ? शिवः कल्याण-प्रदो यो वेणुर् वंशस् तेन समीरितं सम्पादितं यद् गानं गीतं तत्-परं तद्-आसक्तम् | पुनः कीदृशं ? स्मरेण कामेन विह्वलितम् अनायत्तम् | पुनः कीदृशं ? भुवन-त्रयस्य एकम् अद्वितीयं गुरुम् || क्र. दी. वि. ५.६२ ||
______________________________
प्रथमोदित-पीठ-वरे विधिवत्
प्रयजेद् इति रूपम् अरूपम् अजम् |
प्रथमं परिपूज्य तद्-अङ्ग-वृत्तिं
मिथुनानि यजेद् रसगानि ततः || क्र. दी. ५.६३ ||
इति रूपम् अजं प्रथमोदिते पीठ-वरे पूर्व-कथित-देवता-क्Lप्त-पीठे यजेत् अरूपं निर्गुणम् | आवरणानि दर्शयति-प्रथमम् इति | तद्-अङ्ग-वृत्तिं पूर्वोक्ताङ्गावरणं प्रथमं परिपूज्य ततस् तद्-अनन्तरं मिथुनानि केशव-कीर्त्यादीनि रासगानि रास-क्रीडा-गतानि || क्र. दी. वि. ५.६३ ||
______________________________
दल-षोडशके स्वरम् ऊति-गणं
सह-शक्तिकम् उत्तम-रास-गतम् |
सरमा-मदनम् स्व-कला-सहित-
मिथुनाह्वम् अथेन्द्र-पवि-प्रमुखान् || क्र. दी. ५.६४ ||
दल-षोडशके षोडश-पत्रे पूजयेत्-मिथुनम् एव कथयति स्वर-मूर्ति-गणम् इति स्वर-भवा अकारादि-वर्ण-भवाः केशवादि-षोडश-मूर्तयः | स्वर-मूर्ति-गणं कीदृशं ? सह-शाक्तिकं कीर्त्यादि-शक्ति-सहितम् | पुनः कीदृशं ? उत्तमो यो रासः तत्र गतम् | क्वचिद् उत्तर-रास-गतम् इति पाठः | तत्र मध्य-रासे परमेश्वर-पूजा उत्तरादि-रासे केशवादिकं पूजयेत् |
पुनः कीदृशं ? रमा श्री-बीजं मदनः काम-बीजं एताभ्यां सहितम् | पुनः कीदृशं ? स्वकीया याः कलाः षोडश-स्वराः तैः सहितम् | प्रयोगश् च-श्रीं क्लीं अं केशव-कीर्तिभ्यां नमः इत्य् आदि | पुनः कीदृशं ? मिथुनाह्वम् मिथुन-संज्ञकम् | अथानन्तरम् इन्द्र-पवि-प्रमुखान् इन्द्रादीन् वज्रादींश् च पूजयेद् इत्य् अर्थः || क्र. दी. वि. ५.६४ ||
______________________________
पूर्वोक्तावृति-सङ्ख्या-पूर्वकं नैवेद्यं कथयति-
इति सम्यग् अमुं परिपूज्य हरिं
चतुरावृति-संवृतम् आर्द्र-मतिः |
रजतारचिते चषके स-सितं
सुशृतं सुपयो ऽस्य निवेदयतु || क्र. दी. ५.६५ ||
अनेन प्रकारेण चतुरावरण-वेष्टितम् अमुं हरिं सम्यक् यथाविधि सम्पूज्य श्रद्धावान् रजता-रचिते रूप्य-निर्मिते चषके पात्रे अस्य हरेः स-सितं स-शर्करं स-घृतं घृत-सहितं पाठान्तरम् | सुशृतम् आवर्तितं पयो दुग्धं निवेदयतु || क्र. दी. वि. ५.६५ ||
______________________________
विभवे सति कांस्यमयेषु पृथक्
चषकेषु तु षोडशसु क्रमशः |
मिथुनेषु निवेद्य पयः स-सितं
विदधीत पुरोवद् अथो सकलम् || क्र. दी. ५.६६ ||
विभवे सति यदि तादृशम् ऐश्वर्यं भवति तदा कांस्य-घटितेषु पृथक् एकैकं षोडशस-चषकेषु क्रमेण मिथुन-गणेषु स-सितं पयो निवेद्य अथानन्तरं पुरोवत् निवेदयामि भगवते इत्य् आद्य्-उक्त-प्रकारेण सकलं पूजा-विशेषं समापयेत् || क्र. दी. वि. ५.६६ ||
______________________________
रास-पूजा-फलम् आह-
सकल-भुवन-मोह्नं विधिं यो
नियतम् अमुं निशि निश्य् उदार-चेताः |
भजति स खलु सर्व-लोक-पूज्यः
श्रियम् अतुलां समवाप्य यात्य् अनन्तम् || क्र. दी. ५.६७ ||
अमुं विधिं रास-पूजा-प्रकारं सकल-भुवन-मोह्नं सकल-भुवन-वश्यकरं नियतम् अबाधेन यो निशि निशि प्रति-रजनि उदार-चेताः प्रसन्न-मनाः सन् सम्यक् भजति कुर्यात् स सर्व-लोक-पूज्यः सन् अतुलाम् अतिशयितां श्रियं समृद्धिं समवाप्य अनन्तं विष्णुं याति प्राप्नोति || क्र. दी. वि. ५.६७ ||
______________________________
निशि वा दिनान्त-समये
प्रपूजयेन् नित्यशो ऽच्युतं भक्त्या |
सम-फलम् उभयं हि ततः
संसाराब्धिं समुत्तितीर्षति यः || क्र. दी. ५.६८ ||
यः पुमान् संसार-सागरं तरितुम् इच्छति सो ऽच्युतं भक्त्या निशि वा दिनान्त-समये वा सन्ध्यायां पूजयेन् नित्यशः प्रत्यहं हि यतः उभय-निशा-सन्ध्या-पूजन-द्वयं सम-फलम् ततस् तस्माद् धेतोः निशि वा दिनान्ते वा पूजयेद् इत्य् अर्थः || क्र. दी. वि. ५.६८ ||
______________________________
उक्तम् उपसंहरति-
इत्य् एवं मनु-विग्रहं मधु-रिपुं यो वा त्रिकालं यजेत्
तस्यैवाखिल-जन्तु-जात-दयितस्याम्भोधिजा-वेश्मनः |
हस्ते धर्म-सुखार्थ-मोक्ष-तरवः सद्-वर्ग-सम्प्रार्थिताः
सान्द्रानन्द-महा-रस-द्रव-मुचो येषां फल-श्रेणयः || क्र. दी. ५.६९ ||
इत्य् अमुना प्रकारेण यः पुमान् मन्त्र-शरीरं मधुसूदनं त्रि-कालं वा पूजयेत् तस्य नाना-विध-प्राणि-समूह-वल्लभस्य अम्भोधिजा-वेश्मनो लक्ष्मी-निवासस्य धर्मादि-पुरुषार्थ-चतुष्टय-वृक्षा हस्ते भवन्तीति शेषः | कीदृशाः ? सतां वर्गः समूहः तेन प्रार्थिताः | संसर्गीति पाठे ससर्गिभिर् निकटस्थैर् यद्यपि मोक्षस्य फलं नास्ति तथापि मोक्ष-पदेन तद्-धेतु-भूतं तत्त्व-ज्ञानम् उक्तं येषां वृक्षाणां फल-पङ्क्तयः नित्यानन्द-ब्रह्म स्वरूप-महा-रस-द्रवदाः || क्र. दी. वि. ५.६९ ||
______________________________
अथोच्यते पूर्व-समीरितानां
पूजावसाने परम् अस्य पुंसः |
कल्पस् तु काम्येष्व् अपि तर्पणानां
विनापि पूजां खलु यैः फलं तत् || क्र. दी. ५.७० ||
अथानन्तरं परमस्य पुंसः श्री-गोपाल-कृष्णस्य पूजावसाने पूजानन्तरं पूर्व-समीरितानां शीमन्-मुख-इत्य्-आदि-कथितानां नित्य-तर्पणानां कल्पः प्रकारः काम्येष्व् अपि तर्पणेषु प्रकार उच्यते यैस् तर्पणैः पूजां विनापि तत्-फलं पूजा-फलं प्राप्नोति यथा-पूजा तथैव तर्पणम् || क्र. दी. वि. ५.७० ||
______________________________
सन्तर्प्य पीठ-मन्त्रैः सकृत् प्रथमम् अच्युतं तत्र |
आवाह्य पूजयेत् तं तोयैर् एवाखिलैः समुपहारैः || क्र. दी. ५.७१ ||
प्रथमं पीठ-मन्त्रैर् आधार-शक्त्यादि-मन्त्रैः पीठाङ्ग-भूत-देवतां सकृत्-सकृद् एकैक-वारं सन्तर्प्य अनन्तरं तत्र तोय-मये पीठे अच्युतम् आवाह्य जलैर् एव गन्धादि-सकलोपचारात्मकैः पूजयेत् || क्र. दी. वि. ५.७१ ||
______________________________
बद्ध्वाथ धेनु-मुद्रां तोयैः सम्पाद्य तर्पण-द्रवम् |
तद् बुद्ध्याञ्जलिना तं सुवर्ण-चषकी-कृतेन तर्पयतु || क्र. दी. ५.७२ ||
ततो धेनु-मुद्रां बद्ध्वा तोयैस् तर्पणाढ्यं सम्पाद्य तद्-द्रव्य-रूपतया तोयं भावयित्वा तद्-बुद्ध्या तत्-कथित-द्रव्य-तर्पण-द्रव्य-बुद्ध्या तं कृष्णं तर्पयतु केनाञ्जलिना कीदृशेन सुवर्ण-चषकतया विचिन्तितेनेत्य् अर्थः || क्र. दी. वि. ५.७२ ||
______________________________
विंशतिर् अष्टोपेता काल-त्रय-तर्पणेषु सङ्ख्योक्ता |
भूयः स्वकाल-विहितान् सकऋत् तर्पयेच् च परिवारान् || क्र. दी. ५.७३ ||
काल-त्रय-तर्पणेषु त्रिकाल-तर्पणेषु एकस्मिन् काले ऽष्तोपेता अष्टाविंशतिः तर्पणस्य सङ्ख्योक्ता पुनः स्व-काल-विहितान् स्वस्मिन् प्रातर् मध्याह्नादौ ये ये विहिताः परिवारा आवरण-देवतास् तान् सकृद् एकैक-वारं सन्तर्पयेत् || क्र. दी. वि. ५.७३ ||
______________________________
काल-त्रयस्य तर्पण-द्रव्यम् आह-
प्रातर् दधि-गुड-मिश्रं मध्याह्ने पायसं स-नवनीतम् |
क्षीरं तृतीय-काले ससितोपलम् इत्य् उदीरितं द्रव्यम् || क्र. दी. ५.७४ ||
गुड-सहितं दधि प्रातः-काले नवनीत-सहितं पायसं मध्याह्ने ससितोपलम् शर्करा-विकार-सहितं क्षीरं तृतीय-काले इत्य् अमुना प्रकारेण द्रव्यं तर्पण-द्रव्यं कथितम् || क्र. दी. वि. ५.७४ ||
______________________________
तर्पण-मन्त्रम् आह-
तर्पयामि-पदं योज्यं मन्त्रान्ते स्वेषु नामसु |
द्वितीयान्तेषु तु ततः पूजाशेषं समापयेत् || क्र. दी. ५.७५ ||
मन्त्रान्ते मूल-मन्त्रावसाने स्वकीयानि तर्पणीय-देवतानां नामानि तेषु तत्-समीपेषु द्वितीयान्तेषु अमुक-देवताम् इत्य् आदि-रूपेषु तर्पयामीति-पदं योज्यम् अनन्तरं पूजाशेषं समापयेत् || क्र. दी. वि. ५.७५ ||
______________________________
उत्तर-कृत्यम् आह-
अभ्युक्ष्य तत्-प्रसादाद्भिर् आत्मानं प्रतिवेदपः |
तज् जप्त्वा तम् अथोद्वास्य तन्-मयः प्रजपेन् मनुम् || क्र. दी. ५.७६ ||
तत्-प्रसादाद्भिः परमेश्वर-प्रसाद-तत्-तर्पण-जलैः आत्मानं शरीरं सिक्त्वा तज् जप्त्वा मन्त्रं जप्त्वा अपः प्रपिबेत् | अथानन्तरं तं देवम् उद्वास्य स्व-हृदये संयोज्य तन्-मयः सन्-मन्त्रं जपेत् || क्र. दी. वि. ५.७६ ||
______________________________
स-प्रकारं स-द्रव्यं काम्यं तर्पणम् आह-
अथ द्रव्याणि काम्येषु वक्ष्यन्ते तर्पणेषु तु |
तानि प्रोक्त-विधानानाम् आश्रित्यान्यतरं भजेत् || क्र. दी. ५.७७ ||
अथानन्तरं काम्येषु तर्पणेषु यानि नारदादिभिः कथितानि द्रव्याणि तानि वक्ष्यन्ते प्रोक्त-विधानानाम् त्रिकालोक्त-विधानानाम् अनन्तरम् एकं विधानम् आश्रित्य काम्य-तर्पण-कर्म भजेत् || क्र. दी. वि. ५.७७ ||
______________________________
द्रव्यैः षोडशभिर् अमुं प्रतर्पयेद् एकशश् चतुर्-वारम् |
स चतुः-क्षीराद्य्-अन्तैः सकृज्-जलाद्य्-अन्तम् अच्युतं भक्त्या || क्र. दी. ५.७८ ||
षोडशभिर् द्रव्यैर् अमुं श्री-कृष्णम् एकशश् चतुर्-वारम् तद्-द्रव्य-बुद्ध्या जलैर् एव तर्पयेत् | कीदृशैः ? चत्वारि क्षीराणि आद्यं येषां तैह् | षोडश-द्रव्याणाम् आदौ दुग्धाञ्जलि-चतुष्टयम् अन्ते च चतुष्टयम् इत्य् अर्थः | सकृज्-जलाद्य्-अन्तम् इति क्रिया-विशेषणम् | तथा च प्रथमम् एक-वारं जलेन ततश् चतुर्वारं ततः चतुर्वारं क्षीरैः ततः सकृज् जलेन इति पर्यवसन्नम् || क्र. दी. वि. ५.७८ ||
______________________________
षोडश-द्रव्याण्य् आह-पायसम् इति |
पायस-दाधिक-कृसरं गौडान्नपयोदधीनि नवनीतम् |
आज्यं कदलीमोचारजस्वलाचोचमोदकापूपम् || क्र. दी. ५.७९ ||
पृथुकं लाजोपेतं द्रव्याणां कथितम् इह षोडशकम् |
लाजान्ते ऽन्त्य-क्षीरात् प्राक् समर्प्य सितोपला-पुञ्जैः || क्र. दी. ५.८० ||
पायसं परमान्नम् | दाधिकं दध्ना परिष्कृतम् अन्नम् | कृसरं मुद्गौदनं गौडान्नं गुडोदक-पक्वम् अन्नम् | पयो दुग्धं दधि प्रसिद्धं नवनीतम् आज्यं घृतं कदली चम्पा-कदली मोचा स्वर्ण-कदली रजस्वला कदली-विशेषः | चोचो ऽपि कदली-विशेषः | मोदको लड्डुकः | अपूपम् पूलिका पृथक् चिपिटकं लाज-समेतं लाज-सहितम् इति द्रव्याणां षोडशकं कथितम् इह ग्रन्थेति लाजेति | लाज-तर्पणानन्तरम् अन्त्य-चतुः-क्षीर-तर्पणात् पूर्वं सितोपला-पुञ्जैः श्वेत-शर्करा-समूहैः भावनया तोय-भावापन्नैः सकृत् सन्तर्पयेत् || क्र. दी. वि. ५.७९-८० ||
______________________________
उक्त-काम्य-तर्पणस्य फलम् आह-
प्रगे चतुः-सप्तति-वारम् इत्य् अमुं
प्रतर्पयेद् यो ऽनुदिनं नरो हरिम् |
अनन्यधीस् तस्य समस्त-सम्पदः
करे स्थिता मण्डलतो ऽभिवाञ्छिताः || क्र. दी. ५.८१ ||
इत्य् अनेन प्रकारेण प्रगे प्रातः-काले चतुः-सप्तति-वारम् अमुं हरिं कृष्णं यो नरो ऽनुदिनं प्रत्यहम् अनन्य-धीः एकाग्र-चित्तः सन् सन्तर्पयेत् तस्य पुंसः मण्डलतः एकोनपञ्चाशद्-दिवसात् अर्वाग् इति त्रिपाठिनः अष्ट-चत्वारिंशद्-दिवसाभ्यन्तर इति लघु-दीपिका-कारः | पञ्चत्रिंशद्-दिवसाभ्यन्तर इति रुद्रधरः | अभिवाञ्छिता आकाङ्क्षिताः सकल-सिद्धि-समृद्धयः हस्त-स्थिता भवन्ति अत्र सितोपला-पुञ्जस्य गणना न कार्या || क्र. दी. वि. ५.८१ ||
______________________________
काम्य-तर्पणानन्तरम् आह-
धारोष्ण-पक्व-पयसी-दधि-नवनीते घृतं च दौग्धान्नम् |
मत्स्यण्डी-मध्व्-अमृतं द्वादशशः तर्पयेन् नवभिर् एभिः || क्र. दी. ५.८२ ||
धारोष्णं पयः तदानीन्तनम् एव निष्पादितं दुग्धं तथा पक्वम् पयः साधितं दुग्धं धारोष्ण-पक्वे च पयसी च अमू धारोष्ण-पक्व-पयसी | दधि प्रसिद्धं नवनीतं घृतं दौग्धान्नं पायसं मत्स्यण्डी शर्करा-विशेषः स-शर्करं विनष्ट-दुग्धम् इति त्रिपाठिनः | मधु प्रसिद्धम् अमृतम् एतैर् नवभिर् द्रव्यैर् द्वादशश-वारं तर्पयेत् || क्र. दी. वि. ५.८२ ||
______________________________
एतस्य फलम् आह-
तर्पण-विधिर् अयम् अपरः पूर्वोदित-सम-फलो ऽष्तश-सङ्ख्यः |
कार्मण-कर्मणि कीर्तौ जन-संवनने विशेषतो विहितः || क्र. दी. ५.८३ ||
अयं तर्पण-प्रकारः पूर्वोक्त-तर्पण-प्रकाराद् भिन्नः | कीदृशः ? पूर्व-कथित-तर्पण-फल-सम-फलः | पुनः कीदृशः ? अष्टोत्तर-शत-प्रमाणकः ततो नवभिर् द्रव्यैर् द्वादश-कृत्वा तर्पणेनाष्टोत्तर-सङ्ख्या भवति | पुनः कीदृशः ? कार्मण-कर्मणि वश्य-करण-कर्मणि तथा कीर्तौ सत्-कथायां जन-संवनने लोक-वशी-करणे लोक-प्रियत्वेन वा विशेषेण विहितः || क्र. दी. वि. ५.८३ ||
______________________________
तर्पणानन्तरम् आह-
सखण्ड-धारोष्ण-धियामुकुन्दं
व्रजन् पुर-ग्रामम् अपि प्रतर्प्य |
लभेत भोज्यं सरसं स-भृत्यैर्
वासांसि धान्यानि धनानि मन्त्री || क्र. दी. ५.८४ ||
सखण्ड-धारोष्ण-धियामुकुन्दं व्रजन् पुर-ग्रामम् अपि प्रतर्प्य लभेत भोज्यं सरसं स-भृत्यैर् वासांसि धान्यानि धनानि मन्त्री || क्र. दी. वि. ५.८४ ||
______________________________
तर्पणस्याशेष-फल-दातृतां तर्पणोत्तर-कृत्यं च दर्शयति-
यावत् सन्तर्पयेन् मन्त्री तावत्-सङ्ख्यं जपेन् मनुम् |
तर्पणेनैव कार्याणि साधयेद् अखिलान्य् अपि || क्र. दी. ५.८५ ||
अखिलानि समस्तानि कार्याणि वाञ्छितानि तर्पणेनैव विनापि पूजा-होमं साधयेत् | अत्र यावत्-सङ्ख्यं तर्पणं करोति तावत्-सङ्ख्यं मन्त्रं जपेत् || क्र. दी. वि. ५.८५ ||
______________________________
प्रयोगान्तरम् आह-
द्विजोभिक्षावृत्तिर् य इह दिनशो नन्द-तनयः
स्वयं भूत्वा भिक्षाम् अटति विहरन् गोप-सुदृशाम् |
अमा चेतोभिः स्व्वैर् ललित-ललितैर् नर्म-विधिभिर्
दधि-क्सीराज्याढ्यां प्रचुरतर-भिक्षां स लभते || क्र. दी. ५.८६ ||
भिक्षा-वृत्तिर् जीवनोपायो यस्य स द्विजो त्रैवर्णिको दिनशः प्रतिदिनं स्वयं नन्द-तनयो भूत्वा तद्-रूपेणात्मानं विचिन्त्य इह भिक्षाम् अटति याचते | किं कुर्वन् ? स्वकीयैर् ललित-ललितैः अतिमनोहरैः नर्म-विधिभिः क्रीडा-कर्मभिर् गोप-सुदृशां गोप-स्त्रीणां चेतोभिः सार्धं विहरन् अमा-शब्दः सहार्थे स-दधि-दुग्ध-घृत-प्रचुरां बहु-भिक्षां प्राप्नोति || क्र. दी. वि. ५.८६ ||
______________________________
मध्ये कोणेषु षट्स्व् अप्य् अनल-पुटस्यालिखेत् कर्णिकायां
कन्दर्पं साध्य-युक्तं विवर-गत-षड्-अर्णं द्विशः केशरेषु
शक्ति-श्री-पूर्वकानि द्वि-नव-लिपि-मनोर् अक्षराणि च्छदानां
मध्ये वर्णान् दशानां दश-लिपि-मनु-वर्यस्य चैकेकशो ऽब्जम् || क्र. दी. ५.८७ ||
दश-दल-पद्मं विलिख्य कर्णिकायां षट्-कोणं वह्नि-गृहं विलिख्य वह्नि-गृह-युग्मस्य मध्ये षट्-कोणेषु विलिखेत् | लेखन-प्रकारम् आह-कर्णिकायां मध्ये साध्य-नाम-सहितम् अमुकस्यामुकं सिध्यत्व् इत्य् अनेन सहितं कन्दर्पं काम-बीजं विलिखेत् | तथा विवर-गतं षड्-अर्णं षट्-कोण-गत-वक्ष्यमाण-षड्-अक्षरं विलिखेत् तथा केशरेषु दश-दल-मूलेषु द्विशः द्वौ द्वौ कृत्वा द्वि-नव-लिपि-मनोर् अष्टादशाक्षर-मन्त्रस्य शक्ति-श्री-पूर्वकानि भुवनेश्वरी-बीज-श्री-बीजाद्यान्य् अक्षराणि विलिखेत् | तथा दशानां पात्राणां मध्ये दश-लिपि-मनु-वर्यस्य दशाक्षर-मन्त्र-श्रेष्ठस्य वर्णान् एकैकशो विलिखेत् ततो ऽब्जं पद्मम् || क्र. दी. वि. ५.८७ ||
भू-सद्मनाभिवृतम् अस्रगमन्मथेन
गोरोचनाभिलिखितं तपनीय-सूच्या |
पट्टे हिरण्य-रचिते गुलिकी-कृतं तद्
गोपाल-यन्त्रम् अखिलार्थदम् एतद् उक्तम् || क्र. दी. ५.८८ ||
भू-बिम्बेन चतुर्-अस्रेण वेष्टितं कुर्यात् | कीदृशेन ? भू-सद्मना अस्रग-मन्मथेन कोण-गत-काम-बीजेन एतद् अखिलार्थदं गोपाल-यन्त्रम् उक्तं कीदृशम् ? सुवर्ण-शलाकया गोरोचनादिना सुवर्ण-रचिते पट्टे लिखितम् | अनन्तरं वर्तुलीकृतम् || क्र. दी. वि. ५.८८ ||
______________________________
सम्पात-सिक्तम् अभिजप्तम् इदं महद्भिर्
धार्यं जगत्-त्रय-वशीकरणैक-दक्षम् |
रक्षा-यशः-सुत-मही-धन-धान्य-लक्ष्मी
सौभाग्य-लिप्सुभिर् अजस्रम् अनर्घ्य-वीर्यम् || क्र. दी. ५.८९ ||
इदं मन्त्रं सम्पात-सिक्तम् आहूति-दान-शेष-पुरः-स्थित-घृत-सिक्तं तथा मन्त्रेणाभिमन्त्रितम् रक्षा-भय-निवारणं यशः सत्-कथा-प्रकाशः सुतः पुत्रः मही पृथिवी धनं सुवर्णादि लक्ष्मीः सर्व-सम्पत्तिः सौभाग्यं सर्व-जन-प्रियत्वम् एतत् प्राप्तुम् इच्छद्भिर् महद्भिः शौच-युक्तैः सततं धारणीयम् | अयम् अर्थः-यथोक्तं यन्त्रं सम्पाद्य प्राण-प्रतिष्ठां कृत्वा पञ्चामृतादिभिः अभिषिच्य अष्टोत्तर-शतं सहस्रं वा सम्पात-घृत-सिक्तं कृत्वा यथोक्त-सङ्ख्यं जप्त्वा धारयेद् इति कीदृशं ? जगत्-त्रय-वशीकरणैक-कुशलम् | पुनः अनर्घ्य-वीर्यं महा-प्रभावम् || क्र. दी. वि. ५.८९ ||
______________________________
यन्त्रस्य दर्शयति धारणाद् अन्यत्राप्य् उपयोगम्-
भूतोन्मादापस्मृति-विष-मूर्च्छा-विभ्रम-ज्वरार्तानाम् |
ध्यायन् शिरसि प्रजपेन् मन्त्रम् इमं झटिति शमयितुं विकृतिम् || क्र. दी. ५.९० ||
भूतः शम्शान-देश-वर्ती अदृश्य-रूपो ऽनिष्ट-कारी उन्मादश् चित्त-विभ्रमः अपस्मृतिर् अपस्मारण-योगः विषं मूर्छाकारि-स्थावरं जङ्गमं च मूर्च्छा अचेष्टा विभ्रमः प्रसादः ज्वरो रोग-विशेषः एतैर् आर्तानां पीडितानां शिरसि मस्तकोपरि इदं यन्त्र-रूपं ध्यायन् इमं गोपाल-मन्त्रं जपेत् किं कर्तुम् ? विकृतिं झटिति शीघ्रं शमयितुं नाशयितुम् || क्र. दी. वि. ५.९० ||
______________________________
यन्त्रे षड्-अक्षर-मन्त्रम् उद्धरति-
स्मर-त्रिविक्रमाक्रान्तश् चक्रीष्णाय-हृद् इत्य् असौ |
षड्-अक्षरो ऽयं सम्प्रोक्तः सर्व-सिद्धि-करो मनुः || क्र. दी. ५.९१ ||
स्मरः काम-बीजं त्रिविक्रमः ऋ-कारः तेन क्रान्तः सम्बद्धः चक्री क-कारः तथा कृ इति ष्णायेति स्वरूपं हृन् नमः इत्य् अनेन प्रकारेणासौ षड्-अक्षरो ऽयं मन्त्रः सम्प्रोक्तः सर्व-सिद्धि-करः अखिल-कामदः || क्र. दी. वि. ५.९१ ||
______________________________
शक्ति-बीजम् उद्धरति-
क्रोडो ऽग्नि-दीप्तो मायावी-लव-लाञ्छित-मस्तकः |
सैषा शक्तिः परा सूक्ष्मा नित्या संवित्-स्वरूपिणी || क्र. दी. ५.९२ ||
क्रोडो ह-कारः | कीदृशः ? अग्निना रेफेण दीप्तः | पुनः मायावी दीर्घ-ई-कारः तद्-युक्तः | पुनः लवेन बिन्दुना लाञ्छितं मस्तकं यस्य सः | तथा सानुस्वार इत्य् अर्थः | एषा शक्तिः परा उत्कृष्टा सूक्ष्मा मृणाल-तन्तु-सदृशी नित्या जन्म-नाश-रहिता संवित्-स्वरूपिणी स्व-प्रकाश-स्वरूपिणी || क्र. दी. वि. ५.९२ ||
______________________________
श्री-बीजम् उद्धरति-
अस्थ्य्-अग्नि-गोविन्द-लवैर् लक्ष्मी-बीजं समीरितम् |
आभ्याम् अष्टादश-लिपिः स्याद् विंशत्य् अक्षरो मनुः || क्र. दी. ५.९३ ||
अस्थि श-कारः अग्निः रेफः गोविन्दो दीर्घ-ई-कारः लवो बिन्दुः एतैः संयुक्तैः श्री-बीजं समीरितं कथितम् | आभ्याम् शक्ति-श्री-बीजाभ्यां सहितः पूर्वोक्ताष्टादशाक्षर-मन्त्रः विंशत्य् अक्षरो भवति || क्र. दी. वि. ५.९३ ||
______________________________
परमेश्वर-पूजा-स्थान-नियतिं दर्शयति-
शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु च |
नित्यं पूजा हरेः कार्या न तु केवल-भूतले || क्र. दी. ५.९४ ||
शालग्रामे प्रसिद्धे मणौ गोमेद-पद्मरागादौ यन्त्रे ऽस्मिन्न् एव गोपाल-यन्त्रे मण्डले सर्वतो-भद्रादौ सोम-सूर्याग्नि-मण्डले वेति रुद्रधरः | प्रतिमासु सुवर्णादि-गोपाल-प्रतिमायाम् | अत्र हरेर् नित्यं सर्वदा पूजा कार्या न तु केवलायां भूमौ || क्र. दी. वि. ५.९४ ||
______________________________
कथित-प्रकाराणां फलं दर्शयति-
इति जप-हुत-पूजा-तर्पणाद्यैर् मुकुन्दं
य इह भजति मवोर् एकम् आश्रित्य नित्यम् |
स तु सुचिरम् अयत्नात् प्राप्य भोगान् विशेषान्
पुनर् अमलतरन्तद्धाम विष्णोः प्रयाति || क्र. दी. ५.९५ ||
इति श्री-केशव-भट्टाचार्य-विरचितायां क्रम-दीपिकायां पञ्चमः पटलः |
इति कथित-प्रकारैर् जप-होम-पूजा-तर्पणैः आदि-पदाद् अभिषेकादिना यो मुकुन्दं नित्यं सेवते | किं कृत्वा ? मन्वोर् दशाष्टादशाक्षरयोर् एकं गृहीत्वा इह लोके अयत्नात् सुचिरं सर्व-कालं सर्वान् भोगान् प्राप्य पुनर् अन्ते प्रसिद्धं निर्मलं तेजः प्राप्नोति तद्-धामाभवतीत्य् अर्थः || क्र. दी. वि. ५.९५ ||
इति श्री-विद्याविनोद-गोविन्द-भट्टाचार्य-विरचिते क्रम-दीपिकाया विवरणे
पञ्चमः पटलः
||५||
**************************************************************************
(६)
षष्ठ-पटलम्
अथैवं साधित-मन्त्रयोः प्रयोगादीन् दर्शयति-
विनियोगान् अथो वक्ष्ये मन्त्रयोर् उभयोः समान् |
तद्-अर्थ-कारिणो ऽनन्त-वीर्यान् मन्त्रांश् च कांश्चन || क्र. दी. ६.१ ||
अथो ऽनन्तरं मन्त्रयोर् दशाष्टादशाक्षरयोः समान् ध्यान-विशेषेण विनियोगान् तथा तद्-अर्थ-कारिणो ऽनन्त-वीर्यान् बहु-फल-दातॄन् कांश्चिन् मन्त्रान् वक्ष्ये || क्र. दी. वि. ६.१ ||
______________________________
प्रयोगार्थं दशाष्टादशाक्षरयोर् ध्यानम् आह-
वन्दे तं देवकी-पुत्रं सद्यो-जातं द्यु-सप्रभम् |
पीताम्बरं कर-लसच्-छङ्ख-चक्र-गदाम्बुजम् || क्र. दी. ६.२ ||
उक्त-रूपं प्रसिद्धं देवकी-पुत्रं सद्यो-जातं बालकं द्यु-सप्रभम् आकाश-समान-कान्तिं श्यामं पीत-वस्त्रं करे लसन्ति शोभमानानि शङ्ख-चक्र-गदा-पद्मानि यस्य तं वन्दे नमस्करोमि || क्र. दी. वि. ६.२ ||
______________________________
एवं ध्यात्वा जपेल् लक्षं मन्त्रं ब्राह्मे मुहूर्तके |
स्वादु-प्लुतैश् च कुसुमैः पलाशैर् अयुतं हुनेत् || क्र. दी. ६.३ ||
एवम् अमुना प्रकारेण ब्राह्मे मुहूर्तके उदयात् प्राक् दण्ड-द्वये दण्ड-चतुष्टय इति कश्चित् मन्त्रम् उभयोर् एक-लक्षं जपेत् | अनन्तरं पलाश-पुष्पैः स्वादु-प्लुतैर् घृत-मधु-शर्करा-सहितैर् दश-सहस्रं जुहुयात् || क्र. दी. वि. ६.३ ||
______________________________
फलम् आह--
मन्वोर् अन्यतरेणैवं कुर्याद् यः सुसमाहितः |
स्मृतिं मेधां मति-बलं लब्ध्वा स कविराड् भवेत् |
स्यान् मनुस् तत् समजपध्यान-होम-फलो ऽपरः || क्र. दी. ६.४ ||
मन्वोर् दशाष्टा-दशाकरयोर् अन्यतरेण एकेन सुसमाहितः सुसंयतः सन् य एवं कुर्यात् स स्मृतिं स्मरणं मेधां धारणावतीं बुद्धिं मतिं सम्यक् ज्ञानं बलं महा-प्राणत्वम् एतत् सर्वं प्राप्य कविराट् कवि-श्रेष्ठो भवति स्याद् इति अपरो ऽग्रे वक्ष्यमाण-मन्त्रः कथित-मन्त्र-द्वय-समान-जप-ध्यान-होम-फलो भवति || क्र. दी. वि. ६.४ ||
______________________________
मन्त्रम् आह-
श्रीमन्-मुकुन्द-चरणौ सदेति शरणं ततः |
अहं प्रपद्य इत्य् उक्तो मौकुन्दो ऽष्टादशाक्षरः || क्र. दी. ६.५ ||
श्रीमन्-मुकुन्द-चरणौ सदेति स्वरूपं ततस् तद्-अनन्तरं शरणम् इति स्वरूपम् अहं प्रपद्य इति स्वरूपम् इत्य् अनेन प्रकारेण मौकुन्दो मुकुन्द-सम्बन्धी अष्टाद्शाक्षरो मन्त्रः कथितः || क्र. दी. वि. ६.५ ||
मन्त्रोद्धारः: श्री-मुकुन्द-चरणौ सदा शरणम् अहं प्रपद्ये |
______________________________
ऋष्य्-आदिकम् आह-
नारदो ऽस्य तु गायत्री मुकुन्दश् चषि-पूर्वकाः |
प्रातः प्रातः पिबेत् तोयं जप्तं यो ऽष्तोत्तरं शतम् |
अनेन षड्भिर् मासैः स भवेच् छ्रुतधरो नरः || क्र. दी. ६.६ ||
अस्य मन्त्रस्य नारदो मुनिर् गायत्री-छन्दो मुकुन्दो देवता ऋषि-पूर्वकाः ऋष्य्-आद्याः ऋषि-च्छन्दो देवता इत्य् अर्थः | ते च नारदादयः | प्रयोगम् आह-प्रातः प्रत्यहम् अष्टोत्तरं शतं जप्तं मन्त्र-जप्तं जलं पिबेत् | स नरो अनेन विधानेन षड्भिर् मासैः श्रुत-धरो भवेत् || क्र. दी. वि. ६.६ ||
______________________________
प्रयोगान्तरम् आह-
उपसंहृत-दिव्याङ्गं पुरोवन् मातुर् अङ्कगम् |
चलद्-दोश् चरणं बालं नीलाभं संस्मरन् जपेत् || क्र. दी. ६.७ ||
उपसंहृत-दिव्याङ्गं त्यक्त-चतुर्बाहु-रूपं धृत-बाहु-द्वयं पुरोवत् यथा-वसुदेव-सद्मनि भीतेन दिव्याङ्गम् उपसंहृतं मातुर् अङ्कगं देवकी-क्रोडे स्थितं चलद्-दोश्-चरणं चञ्चल-हस्त-पादं बालं शिशुं नीलाभं कं संस्मरेत् || क्र. दी. वि. ६.७ ||
______________________________
अयुतं तावद् एवाज्यैर् जुहुयाच् च हुताशने |
स लभेद् अचलां भक्तिं श्रद्धां शान्तिं च शाश्वतीम् || क्र. दी. ६.८ ||
अयुतं जपेत् तावद् एवाग्नाव् आज्यैर् घृतैर् जुहुयात् यः स स्थिरां परमेश्वर-विषयिणीम् आराध्यत्व-बुद्धिं शुद्धां शास्त्र-बोधिते ऽर्घे ऽवश्यम्भावि-निश्चयात्मिका शान्तिं मोक्ष-रूपां शाश्वतीं नित्यां प्राप्नोति दशाष्टादशाक्षरयोर् विशेष-ध्यानम् इदं प्रयोगार्थम् इति भैरव-त्रिपाठिनः || क्र. दी. वि. ६.८ ||
______________________________
मन्त्रान्तरम् आह-
मनुनैतत्-समस्तान्ते मरुन्-नमित-शब्दितः |
बाल-लीलात्मने हुं फट् नम इत्य् अमुनाथवा || क्र. दी. ६.९ ||
अथवामुना वक्ष्यमाण-मन्त्रेणैतत्-प्रयोग-जातं साधयेत् | मन्त्रम् आह-समस्तेति | स्वरूपम् अस्यान्ते मरुन्-नमित इति स्वरूपम् | एतस्माच् छब्दात् बाल-लीलात्मने हुं फड् इति स्वरूपं नम इति स्वरूपम् | अयम् अप्य् अष्टादशाक्षरः दशाष्टादशाक्षर-समानः || क्र. दी. वि. ६.९ ||
मन्त्रोद्धारः: समस्त-मन्रुन्-नमितः बाल-लीलात्मने हुं फट् स्वाहा |
______________________________
ऋष्य्-आदीन् आह-
नलकूवर-गायत्री-बाल-कृष्णा इतीरिताः |
ऋस्याद्याः सिद्धयः सर्वाः स्युर् जपाद्यैर् इहामुना || क्र. दी. ६.१० ||
अस्य मन्त्रस्य ऋष्य्-आद्याः ऋषिः छन्दो देवता नलकूवर-प्रभृतयः | तत्र नलकूवरो मुनिर् गायत्री छन्दः बाल-कृष्णो देवता इति | इह भुवने जपाद्यैः सर्वाः सिद्धयो भवन्ति || क्र. दी. वि. ६.१० ||
______________________________
लम्बितं बाल-शयने रुदन्तं वल्लवी-जनैः |
प्रेक्ष्यमाणं दुग्ध-बुद्ध्या तर्पयेत् सो ऽश्नुते ऽशनम् || क्र. दी. ६.११ ||
बाल-शयने आन्दोलिकायां लम्बितं स्थितं रुदन्तं क्रन्दमानं वल्लवी-जनैर् गोपीभिः प्रेक्ष्यमाणं दृश्यमानं प्रेर्यमाणम् इति पाठे चाल्यमानम् इत्य् अर्थः | दुग्ध-बुद्ध्या जलेन तर्पयेत् | अशनं भक्ष्य-वस्तु अश्नुते प्राप्नोति || क्र. दी. वि. ६.११ ||
______________________________
मन्त्रान्तरम् आह-
अमुना वान्न-रूपान्ते रस-रूप-पदं वदेत् |
तुष्ट-रूप नमो द्वन्द्वम् अन्नाधिपतये मम |
अन्नं प्रयच्छ स्वाहेति त्रिंशद्-अर्णो ऽन्नदो मनुः || क्र. दी. ६.१२ ||
अमुना मन्त्रेण पूर्वोक्तं कुर्यात् | मन्त्रम् आह-अन्न-रूप इति शब्दान्ते रस-रूप इति स्वरूपं तुष्ट-रूपेति स्वरूपं नमो द्वन्द्वम् इति नमो नम स्वरूपम् आन्नाधिपतये ममान्नं प्रयच्छ स्वाहेति त्रिंशद्-अक्षरो अन्नद-मन्त्रः दशाष्टाडशाक्षर-समानः || क्र. दी. वि. ६.१२ ||
मन्त्रोद्धारः: अन्न-रूप रस-रूप तुष्ट-रूप नमो नमः अन्नाधिपतये मनान्नं प्रयच्छ स्वाहा |
______________________________
ऋष्य्-आदीन् आह-
नारदानुष्टुब्-अन्नाधिपतयो ऽस्यर्षि-पूर्वकाः |
भूत-बाल-ग्रहोन्माद-स्मृति-भ्रंशाद्य्-उपद्रवैः |
पूतना-स्तन-पातारं ग्रस्त-मूर्ध्नि स्मरन् जपेत् || क्र. दी. ६.१३ ||
अस्य मन्त्रस्य नारदो मुनिः, अनुष्टुप्-छन्दः, अन्नाधिपतिर् देवता | प्रयोगम् आह-भूतेति | भूत-पिशाचादिर् बाल-ग्रहो रोग-विशेषः | उन्मादश् चित्त-भ्रमः स्मृति-भ्रंशः सम्मोहः | एतैर् उपद्रवैर् उपतापैर् ग्रस्त-मूर्ध्नि उपतप्त-मस्तके पूतना-स्तन-पायिनं कृष्णं स्मरन् मन्त्रं जपेत् || क्र. दी. वि. ६.१३ ||
______________________________
तां पूतनां रुदतीं क्रन्दमानां भावयेत्-
सासु-चूषण-निर्भिन्न-सर्वाङ्गीं रुदतीं च ताम् |
आविश्य सर्वे मुक्त्वा तं विद्रवन्ति द्रुतं ग्रहाः || क्र. दी. ६.१४ ||
पुनः कीदृशीम् ? सासु-चूषनं सह प्राणेन यत् चूषणं समाकर्षणं तेन निर्भिन्नम् अनायतं सर्वाङ्गं यस्याः सा | तथा तां किं भूत्वा जपेत् ? आविश्य अहम् एव हरिर् इति भावयित्वा | अनन्तरं तं ग्रस्तं सर्वे ग्रहा उपद्रवा मुक्त्वा परित्यज्य द्रुतं शीघ्रं विद्रवन्ति पलायन्ते | अत्र दशाष्टादशाक्षरयोर् विशेष-ध्यानम् इदं प्रयोगार्थम् इति त्रिपाठिनः || क्र. दी. वि. ६.१४ ||
______________________________
प्रयोगान्तरम् आह-
जुहुयात् खर-मञ्जर्या मञ्जरीभिर् विभावसौ |
सुस्नातः पञ्च-गव्याद्भिः पूतनाहन्तुर् आनने || क्र. दी. ६.१५ ||
खर-मञ्जर्या अपामार्गस्य मञ्जरीभिर् अग्र-भागैः पञ्च-गव्य-जलैः सिक्तैर् विभावसौ वह्नौ पूजना-हन्तुः कृष्णस्यानन-रूपे जुहुयात् || क्र. दी. वि. ६.१५ ||
______________________________
प्राशयेच् छिष्ट-गव्यं तत्-कलशेनाभिषेचयेत् |
साध्यं सहस्र-जप्तेन सर्वोपद्रव-शान्तये || क्र. दी. ६.१६ ||
होमावशिष्टं पञ्च-गव्य-साध्यं प्राशयेत् सहस्र-जप्तेन पूर्वोक्त-विधिना साधितेन कलशेन वाभिषेचयेत् सर्वोपद्र-निवृत्त्य्-अर्थम् || क्र. दी. वि. ६.१६ ||
______________________________
मन्त्रान्तरम् आह-
अमुनैतद् द्वादशार्णं हुं फट् स्वाहान्तकेन वा |
ऋष्य्-आद्या ब्रह्म-गायत्री-ग्रह-घ्न-हरयो ऽस्य तु || क्र. दी. ६.१७ ||
एतत्-पूर्वोक्त-प्रयोग-द्वयं वक्ष्यमाण-मन्त्रेण वा कुर्यात् | मन्त्रम् आह-द्वादशेति-पूर्वोक्त-वासुदेव-द्वादशाक्षरान्ते हुं फट् स्वाहेति षोडशाक्षरो मन्त्रः दशाष्टादशाक्षर-समानः | ऋष्य्-आदिकम् आह-ऋष्याद्या इति | ऋषि-प्रभृतयो ब्रह्मादयः | तत्र ब्रह्मा ऋषिः | गायत्री च्छन्दः | ग्रहघ्न-रूपो हरिर् देवता || क्र. दी. वि. ६.१७ ||
मन्त्रोद्धारः: ॐ नमो भगवते वासुदेवाय हुं फट् स्वाहा |
______________________________
निज-पादाम्बुजाक्षिप्त-शकटं चिन्तयन् जपेत् |
अयुतं मन्त्रयोर् एकं सर्व-विघ्नोपशन्तये || क्र. दी. ६.१८ ||
निज-चरण-कमल-निक्षिप्त-शकटं हरिं चिन्तयेत् | मन्त्रयोः पूर्व-मन्त्रापर-मन्त्रयोर् एकम् अयुतं जपेत् | किम्-अर्थम् ? सकल-विघ्नोपशमनार्थं दशाष्टादशाक्षरयोर् एव सर्व-विघ्न-शान्त्य्-अर्थं विशेष-ध्यानम् इति त्रिपाठिनः || क्र. दी. वि. ६.१८ ||
______________________________
अङ्गान्य् अमीषां मन्त्राणाम् आचक्रादिभिर् अर्चना |
अङ्गैर् इन्द्रादि-वज्राद्यैर् उदिता सम्पदे सदा || क्र. दी. ६.१९ ||
अमीषां कथित-मन्त्राणाम् आचक्रादिभिर् दशाक्षर-कथितैर् अङ्गानि कार्याणि अर्चना पूजास् तु अङ्गैस् तथेन्द्राद्यैस् तद्-आयुधैश् चेति सम्पत्त्य्-अर्थं सदा कथिता || क्र. दी. वि. ६.१९ ||
______________________________
मृत्युञ्जय-विधिं दर्शयति-
बालो नील-तनुर् दोर्भ्यां दध्य्-उत्थं पायसं दधत् |
हरिर् वो ऽव्याद् द्वीपि-नख-किङ्किणी-जाल-मण्डितः || क्र. दी. ६.२० ||
दशाष्टादशाक्षरयोर् वारोग्यार्थं विशेष-ध्यानम् आह-बाल इत्य् आदिनेति त्रिपाठिनः | हरिर् वो युष्मान् रक्षतु | कीदृशो बालः ? पञ्च-वर्षीयः | पुनः कीदृशः ? नील-तनुः | पुनः कीदृशः ? हस्ताभ्यां दध्य्-उत्थं नवनीतं पायसं परमान्नं च धारयेत् | पुनः कीदृशः ? व्याघ्र-नख-क्षुद्र-घण्टिका-समूहाभ्याम् अलङ्कृतः || क्र. दी. वि. ६.२० ||
______________________________
ध्यात्वैवाग्नौ जुहुयात् शतवीर्याङ्कुर-त्रिकैः |
पयः-सर्पिः-प्लुतैर् लक्षम् एकं तावज् जपेन् मनुम् || क्र. दी. ६.२१ ||
एवम्भूतं हरिं ध्यात्वा वह्नौ शतवीर्याङ्कुरैर् दुर्वाङ्कुरैस् त्रिभिः | कीदृशैः ? पयो दुग्धं सर्पि-घृतं ताभ्यां प्लुतैः सिक्तैः एकं लक्षं जुहुयात् लक्षम् एकं जपेत् || क्र. दी. वि. ६.२१ ||
______________________________
गुरवे दक्षिणां दत्त्वा भोजयेद् द्विज-पुङ्गवान् |
स ह्य् अब्दानां शतं जीवेन् न रोगो नात्र संशयः || क्र. दी. ६.२२ ||
अनन्तरं गुरवे दक्षिणां दत्त्वा ब्राह्मणान् भोजयेच् च स वर्षाणां शतं रोग-रहितः सन् जीवेत्-अत्र संशयो नास्ति || क्र. दी. वि. ६.२२ ||
______________________________
मन्त्रान्तरम् आह-
अत्रापरो मनुर् द्वादशार्णान्ते पुरुषोत्तम |
आयुर् मे देहि सम्भाष्य विष्णवे प्रभविष्णवे || क्र. दी. ६.२३ ||
नमो ऽन्तो द्व्य्-अधिक-त्रिंशद्-अर्णो ऽस्यार्षिस् तु नारदः |
छन्दो ऽनुष्टुप्-देवता च श्री-कृष्णो ऽङ्गान्य् अतो ब्रुवे || क्र. दी. ६.२४ ||
एतादृशे कार्ये ऽपरो मन्त्रो ऽस्ति | मन्त्रम् आह-द्वादशाक्षर-वासुदेव-मन्त्रान्ते पुरुषोत्तम इति स्वरूपम् आयुर् मे देहीति स्वरूपं विष्णवे प्रभविष्णवे इति स्वरूपम् | नम इत्य् अन्तो द्व्य्-अधिक-त्रिंशद्-अर्णो द्वात्रिंशद्-अक्षरो मन्त्रः कथितस् तु | पुनर् अस्य मन्त्रस्य नारद ऋषिर् अनुष्टुप्-छन्दो देवता श्री-कृष्णः इति अतो ऽनन्तरम् अङ्गानि ब्रुवे वदामि || क्र. दी. वि. ६.२३-२४ ||
मन्त्रोद्धारः: ॐ नमो भगवते वासुदेवाय पुरुषोत्तम् आयुर् मे देहि विष्णवे प्रभविष्णवे नमः |
______________________________
रवि-भूतेन्द्रिय-वसु-नेत्रार्णैश् चात्मने युतैः |
महानन्द-पद-ज्योतिर् माया-विद्या-पदैः क्रमात् || क्र. दी. ६.२५ ||
द्वादश-पञ्च-पञ्चाष्ट-द्वि-सङ्ख्यातैर् मन्त्राक्षरैर् आत्मनेपदान्तैर् महानन्दादि-पदैः सह क्रमेण पञ्चाङ्गानि | सहानन्देत्य् अपि क्वचित् पाठः || क्र. दी. वि. ६.२५ ||
______________________________
एतस्य पुरश्चरणादिम् आह-
जप्त्वा लक्षम् इमं मन्त्रम् अयुतं पायसैर् हुनेत् |
पूर्ववद् दूर्वया जुह्वद् आयुर् दीर्घतरं लभेत् || क्र. दी. ६.२६ ||
इमं मन्त्रं लक्षं जप्त्वा पायसैर् अयुतं हुनेत् जुहुयात् | एवं मन्त्रं संसाध्य पूर्ववद् दूर्वयाङ्कुरकैः दुग्ध-घृत-मिलितैर् लक्षम् एकं जुहुयात् | जपैश् च दीर्घतरम् अतिशयम् आयुः प्राप्नोति || क्र. दी. वि. ६.२६ ||
______________________________
दारयन्तं बकं दोर्भ्यां कृष्णं संगृह्य तुण्डयोः |
स्मरन् शिशूनाम् आतङ्के स्पृष्ट्वाऽयतरम् अभ्यसेत् |
तज्-जप्त-तिलजाभ्यङ्गाद् भवेयुः सुखिनश् च ते || क्र. दी. ६.२७ ||
शिशूनां बालानाम् आतङ्के भये समुपस्थिते तान् बालान् स्पृष्ट्वा कृष्णं स्मरन् अन्यतरम् उक्तेष्व् एकं मन्त्रम् अभ्यसेज् जप्यात् | कीदृशं कृष्णम् ? कराभ्यां तुण्डयोः संगृह्य बक-नामानम् असुरं विदारयन्तम् | तन्-मन्त्र-जप्त-तैलाभ्यङ्गात् ते बालाः सुखिनो भवन्ति | स्मरन्न् इति शुशु-नामानं कृष्णं स्मरन्, के शिरसि स्पृष्ट्वा जप्याद् इति बोद्धव्य-मन्त्र-दशाष्टादशाक्षरयोर् विशेष-ध्यानम् इति त्रिपाठिनः || क्र. दी. वि. ६.२७ ||
______________________________
अस्मिन्न् एव बाल-रक्षार्थे ऽन्यो ऽपि मन्त्रो ऽस्तीत्य् आह-
अत्राप्य् अन्यो मनुर् बाल-वपुषे वह्नि-वल्लभा |
गोरक्षायां क्वणद्-वेणुं चारयन्तं पशूंस् तथा || क्र. दी. ६.२८ ||
बाल-वपुषे इति स्वरूपं वह्नि-वल्लभेति स्वाहा अस्मिन्न् अर्थे गोरक्षायां च विशेष-ध्यानम् आह-क्वणद् इति | वेणु-वादन-परं पशूंश् चारयन्तं कृष्णं स्मरन् जप्यात् || क्र. दी. वि. ६.२८ ||
______________________________
अस्मिन्न् एव बाल-रक्षार्थे गो-रक्षायां च मन्त्रान्तरम् आह-
उक्त्वा गोपालक-पदं पुनर् वेशधराय च |
वासुदेवाय वर्मास्त्र-शिरांस्य् अष्टादशाक्षर || क्र. दी. ६.२९ ||
गोपालक इत्य् उक्त्वा पुनर् वेशधराय इत्य् उक्त्वा वासुदेवायेति वदेत् वर्म हुम् अस्त्रं फड् इति शिरः स्वाहा एतानि वदेत् | एवं सति अष्टादशाक्षरो भवति || क्र. दी. वि. ६.२९ ||
मन्त्रोद्धारः: गोपालक-वेश-धराय वासुदेवाय हुं फट् स्वाहा |
______________________________
मनोर् नारद-गायत्री-कृष्ण-र्ष्यादिर् अनेन वा |
कुर्याद् गोपाल-संरक्षाम् आचक्राद्य्-अङ्गिना बुधः || क्र. दी. ६.३० ||
अस्य पूर्वोक्तस्य च मनोर् नारदो मुनिर् गायत्री-च्छन्दः श्री-कृष्णो देवता अनेन वा मन्त्रेण उक्त-द्रव्यादिना वा गोपाल-रक्षां कुर्यात् | कीदृशेन ? आचक्राद्य्-अङ्ग-युक्तेन || क्र. दी. वि. ६.३० ||
______________________________
विष-हरण-प्रयोगम् आह-
कुम्भी-नसादि-क्ष्वेडार्तौ दष्ट-मूर्ध्नि स्मरन् हरिम् |
नृत्यन्तं कालिय-फणारङ्गे ऽन्यतरम् अभ्यसेत् || क्र. दी. ६.३१ ||
दृशा पीयूष-वर्षिण्या सिञ्चन्तं तत् तनुं बुधः |
तर्जयन् वाम-तर्जन्या तं द्राङ् मोचयते विषात् || क्र. दी. ६.३२ ||
कुम्भी-नसादि-क्ष्वेडार्तौ सर्प-विष-पीडायाम् | कुम्भीनसास् तु ते सर्पा ये स्युर् दृष्टि-विषोल्बणाः इति धरणिः | आदि-पदाद् वृश्चिकादि-सङ्ग्रहो दष्ट-मूर्ध्नि आर्त-मस्तके स्पृष्ट्वा कालियो नाग-विशेषस् तस्य फणा सैवअ रङ्ग-भूमिस् तत्र नृत्यन्तं स्मरन् अन्यतम-मन्त्रम् अभ्यसेत् जपेत् | कीदृशं ? हरिं तत् तनुं शरीरम् अमृत-वर्षिण्या दृष्ट्या सिञ्चन्तम् | किं कुर्वन् ? स्मरेत् वाम-तर्जन्यातर्जयन् | एवं सति तं दष्टं मन्त्री द्राक् शीघ्रं विषान् मोचयेत् | अत्र दशाष्टादशाक्षरयोर् विशेष-ध्यानम् इति त्रिपाठिनः || क्र. दी. वि. ६.३१-३२ ||
______________________________
प्रयोगान्तरम् आह-
आपूर्व-कलशं तोयैः स्मृत्वा कालिय-मर्दनम् |
जप्त्वाष्ट-शतम् आसिञ्चेद् विषिणं स सुखी भवेत् || क्र. दी. ६.३३ ||
कलशं तोयैर् आपूर्यानन्तरं कालिय-मर्दनं देवं स्मृत्वाष्टाधिकं शतं जप्त्वा तेन कलशेन विष-युक्तम् आसिञ्चेत् | अनन्तरं विषात् सुखी भवति || क्र. दी. वि. ६.३३ ||
______________________________
कालिय-मर्दन-मन्त्रम् आह-
काव्य-मध्ये लियस्यान्ते फणामध्येदि-वर्णकान् |
उक्त्वा पुनर् वदेन् नृत्यं करोति तम् अनन्तरम् || क्र. दी. ६.३४ ||
नमामि देवकी-पुत्र इत्य् उक्त्वा नृत्य-शब्दतः |
राजानम् अच्युतं ब्रूयाद् इति दन्त-लिपिर् मनुः || क्र. दी. ६.३५ ||
काव्य इत्य् अक्षर-द्वयोर् मध्ये लियस्येति स्वरूपम् एतस्यान्ते फणा-मध्यादि इति स्वरूपम् इत्य् अन्तान् वदेद् अनन्तरं नृत्यं करोति तम् इति | अनन्तरं नमामि देवकी-पुत्रम् इति वदेत् | अनन्तरं नृत्य-शब्दतः नृत्य-शब्दान्ते राजनम् अच्युतम् इति ब्रूयाद् इत्य् अनेन प्रकारेण दन्त-लिपिर् द्वात्रिंशद्-अक्षरो मन्त्रः कथितः || क्र. दी. वि. ६.३४-३५ ||
मन्त्रोद्धारः:
कालिय-व्यफणा-मध्ये इति नृत्यं करोति तं |
देवकी-पुत्रं नमामि नृत्य राजानम् उच्यतम् ||
______________________________
अस्य मन्त्रस्य अङ्गादीनि दर्शयति-
अस्याङ्गान्यङ्घ्रिभिर् न्यस्तैः समस्तैर् नारदो मुनिः |
छन्दो ऽनुष्टुब् देवता च कृष्णः कालिय-मर्दनः || क्र. दी. ६.३६ ||
अस्य मन्त्रस्य व्यस्तैर् एकैकम् अङ्घ्रिभिश् चतुर्भिः पादैः समस्तैर् मन्त्रात्मकैश् चाङ्गानि पञ्चाङ्गानि कथितानि मुनिः नारदः छन्दो ऽनुष्टुप् कालीय-मर्दनः कृष्णो देवता || क्र. दी. वि. ६.३६ ||
______________________________
पुरश्चरणम् आह-
जप्यो लक्षं मनुर् अयं होतव्यं सर्पिषायुतम् |
अङ्ग-दिक्पाल-वज्राद्यैर् अर्चनास्य समीरिता || क्र. दी. ६.३७ ||
अयं मन्त्रः लक्षं जप्यः सर्पिषा घृतेन पुनर् अयुतं होतव्यम् | अङ्ग-दिक्-पाल-वज्राद्यैस् त्रिभिर् आवरणैर् अर्चना पूजा कथिता ||
______________________________
प्रयोगम् आह-
क्रिया सर्वा च कर्तव्या विसघ्नी पूर्वम् ईरिता |
सदृशो ऽनेन जगति नहि क्ष्वेड-हरो मनुः || क्र. दी. ६.३८ ||
पूर्व-मन्त्र-कथिता विषघ्नी सर्वा क्रिया अमुनैव मन्त्रेण कर्तव्या हि यतः जगति संसारे अनेन मन्त्रेण सदृशः समानः क्ष्वेड-हरः विषहरो नास्ति || क्र. दी. वि. ६.३८ ||
______________________________
विषघ्नं प्रयोगान्तरम् आह-
अङ्गैः शुकतरोः पिष्टैर् गुलिका धेनु-वारिणा |
आननस्याञ्जनालेपैर् विषघ्नी साधितामुना || क्र. दी. ६.३९ ||
शुकतरोः करञ्ज-वृक्षस्येति भैरव-त्रिपाठिनः | किंशुक-वृक्षस्येति लघु-दीपिका-कारः | अङ्गैस् त्वग्भिर् इति रुद्रधरः | पञ्चाङ्गैर् इति त्रिपाठिनः | धेनु-वारिणा स-वत्सा गो-मूत्रेण पिष्टैः सम्पादिता गुलिका अमुना मन्त्रेण साधिता सती विषघ्नी भवति कैर् आननस्याञ्जनालेप-प्रकारैः || क्र. दी. वि. ६.३९ ||
______________________________
अधुना प्रयोगान्तरं दर्शयति-
उद्दण्ड-वाम-दोर्-दण्ड-धृत-गोवर्धनाचलम् |
अन्य-हस्ताङ्गुली-व्यक्त-स्वर-वंशार्पिताननम् || क्र. दी. ६.४० ||
ध्यायन् हरिं जपन् मन्वोर् एकं छत्रं विना व्रजेत् |
वर्ष-वाताशनिभ्यः स्याद् भयं तस्य नहि क्वचित् || क्र. दी. ६.४१ ||
उत्तालितो यो वाम-बाहु-दण्डस् तेन धृतो गोवर्धनाचलो येन तम् अन्य-हस्ताङ्ग्कुलिभिः व्यक्त-स्वरो यस्य वंशस्य तत्रार्पितम् आननं येन तम् एवम्भूतं हरिं चिन्तयन् मन्वोर् दशाष्टादशाक्षरयोर् एकं जपन् छत्रं विना व्रजेत् यस् तस्य वृष्टि-वायु-वज्रादिभ्यो भयं क्वापि न विद्यते || क्र. दी. वि. ६.४०-४१ ||
______________________________
प्रयोगान्तरम् आह-
मोघ-मेघौघ-यत्नापगतेन्द्रं तं स्मरन् हुनेत् |
लवणैर् अयुत-सङ्ख्यातैर् अनावृष्टिर् न संशयः || क्र. दी. ६.४२ ||
मोघो निष्फलो यो मेघ-समूहस् तस्य यत्नः तेनापगतः इन्दोर् यस्मात् तम् एतादृशं हरिं चिन्तयन् अयुत-सङ्ख्यातैर् लवणैर् जुहुयात् अनन्तरम् अनावृष्टिर् भवति नात्र संशयः || क्र. दी. वि. ६.४२ ||
______________________________
प्रयोगान्तरम् आह-
क्रीडन्तं यमुना-तोये मज्जन-प्लवनादिभिः |
तच्-छीकर-जलासारैः सिच्यमानं प्रिया-जनैः || क्र. दी. ६.४३ ||
ध्यात्वायुतं पयः-सिक्तैर् हुनेद् वानीर-तर्पणैः |
वृष्टिर् भवत् काले ऽपि महती नात्र संशयः || क्र. दी. ६.४४ ||
यमुना-जले मज्जनोन्मज्जनैः क्रीडन्तं क्रीडां कुर्वन्तम् | पुनः कीदृशं ? प्रिया-जनै रुक्मिणी-प्रभृतिभिस् तच्-छीकर-जलासारैः यौम्ना-जल-धारा-रूपैः सिच्यमानम् एवम्भूतं कृष्णं ध्यात्वा वानीर-तर्पणैः वेतस-समिद्भिः पयः-सिक्तैर् दुग्धोक्षितैर् अयुतं जुहुयात् | एवं सति अकालो ऽपि महती-वृष्टिर् भवति नात्र संशयः || क्र. दी. वि. ६.४३-४४ ||
______________________________
अनेनैव ध्यानेन प्रयोगान्तरम् आह-
अमुम् एव स्मरन् मूर्ध्नि विष-स्फोट-ज्वरादिभिः |
स-दाह-मोहैर् आर्तस्य जपेच् छान्तिर् भवेत् क्षणात् || क्र. दी. ६.४५ ||
दाह-मोह-सहितैर् वुष-स्फोट-ज्वरादिभिर् आर्तस्य मूर्ध्नि मस्तके अमुम् एव पूर्वोक्त-रूपं ध्यात्वा जपेत् अनन्तरं तस्य पीडितस्य क्षणाद् शान्तिः स्वास्थ्यं भवति || क्र. दी. वि. ६.४५ ||
______________________________
एतस्याम् एवार्तौ प्रकारान्तरम् आह-
अथवा गरुडारूढं बल-प्रद्युम्न-संयुतम् |
निज-ज्वर-विनिष्पिष्ट-ज्वराभिष्टुतम् अच्युतम् || क्र. दी. ६.४६ ||
ध्यात्वा ज्वराभिभूत्यस्य मूर्ध्न्य् अन्यतरम् अभ्यसेत् |
शान्तिं व्रजेद् असाध्यो ऽपि ज्वरः सोपद्रवः क्षणात् || क्र. दी. ६.४७ ||
अथवा ज्वराभिभूत्यस्य मस्तके ऽच्युतम् ध्यात्वा अन्यतरम् द्वयोर् मध्ये एकं मन्त्रम् अभ्यसेत् जपेत् | कीदृशं ? अच्युतं गरुडारूढं | पुनः कीदृशं ? बल-प्रद्युम्नाभ्यां संयुतम् | पुनः कीदृशं ? निज-ज्वरेण वैष्णव-ज्वरेण शीताख्येनायुध-रूपेण विनिष्पिष्टश् चूर्नितो यो रौद्र-ज्वर उष्णाख्यायुध-रूपस् तेन स्टुतम् | अनन्तरं अस्यासाध्यो ऽपि ज्वरः शीघ्रम् एव नाशं गच्छति | कीदृशो ज्वरः ? उपद्रवो गात्र-पीडादि तत्-सहितः || क्र. दी. वि. ६.४७ ||
______________________________
अनेनैव ध्यानेन प्रयोगान्तरम् आह-
ध्यात्वैवम् अग्नाव् अभ्यर्च्य पयोक्तैश् चतुरङ्गुलैः |
जुहुयाद् अमृताखण्डैर् अयुतं ज्वर-शान्तये || क्र. दी. ६.४८ ||
एवं पूर्वोक्त-रूपं कृष्णं ध्यात्वा वह्नौ सम्पूज्य ज्वर-शान्त्य्-अर्थं चतुर्-अङ्गुल-परिमितैर् दुग्धासिक्तैर् अमृताखण्डैर् गुड्ची-खण्डैर् अयुतं जुहुयात् || क्र. दी. वि. ६.४८ ||
______________________________
प्रयोगान्तरम् आह-
निशात-शर-निर्भिन्न-भीष्मताप-नुदं हरिम् |
स्मृत्वा स्पृशन् जपेद् आर्तं पाणिभ्यां रोग-शान्तये || क्र. दी. ६.४९ ||
निशातस् तीक्ष्णो यः शरस् तेन निर्भिन्नो बिद्धो यो भीष्मस् तस्य यस् तापस् तं हरति | एवम्भूतं हरिम् ध्यात्वा आर्तं ज्वरादि-पीडितं पाणिभ्यां स्पृष्ट्वा ज्वर-नाशार्थं मन्वोर् एकतरं जपेत् || क्र. दी. वि. ६.४९ ||
______________________________
प्रयोगान्तरम् आह-
अपमृत्यु-विनाशाय सान्दीपनि-सुत-प्रदम् |
ध्यात्वामृत-लता-खण्डैः क्षीराक्तैर् अयुतं हुनेत् || क्र. दी. ६.५० ||
सान्दीपनिः कृष्ण-गुरुः | तस्य सुत-प्रदं कृष्णं ध्यात्वा अमृत-लता-खण्डैः गुड्ची-खण्डैः क्षीराक्तैर् दुग्ध-सिक्तैर् अयुतं हुनेत् जुहुयात् | कस्मै ? अपमृत्युर् अकाल-मरणं तस्य विनाशाय निवृत्तये || क्र. दी. वि. ६.५० ||
______________________________
प्रयोगान्तरम् आह-
मृत-पुत्राय ददतं सुतान् विप्राय सार्जुनम् |
ध्यात्वा लक्षं जपेद् एकं मन्वोः सुत-विवृद्धये || क्र. दी. ६.५१ ||
मृत-पुत्राय विप्राय पुत्रान् ददतं सार्जुनम् अर्जुन-सहितं ध्यात्वा मन्वोर् एकं लक्षं जपेत् | किम्-अर्थम् ? सुत-वृद्धि-निमित्तम् || क्र. दी. वि. ६.५१ ||
______________________________
प्रयोगान्तरम् आह-
पुत्र-जीवेन्धन-युते जुहुयाद् अनले ऽयुतम् |
तत्-फलैर् मधुराक्तैः स्युः पुत्रा दीर्घायुषो ऽस्य तु || क्र. दी. ६.५२ ||
जीवापुत्रेति यस्य प्रसिद्धिः तस्य इन्धनेन युते सम्पादिते वह्नौ तत्-फलैः पुत्र-जीवाफलैर् मधुराक्तैस् त्रि-मध्व्-अक्तैर् मन्वोर् एकेनायुतं जुहुयात् | अनन्तरम् अस्य होम-कर्तुः पुत्ताः दीर्घायुषो भवन्ति || क्र. दी. वि. ६.५२ ||
______________________________
प्रयोगान्तरम् आह-
क्षीर-द्रुक्-क्वाथ-सम्पूर्णम् अभ्यर्च्य कलशं निशि |
जप्त्वायुतं प्रगे नारीम् अभिषिञ्चेद् द्विषट्-दिनम् || क्र. दी. ६.५३ ||
सा बन्ध्यापि सुतान् दीर्घ-जीविनो गद-वर्जितान् |
लभते नात्र सन्देहस् तज्-जप्ताज्याशिनी सती || क्र. दी. ६.५४ ||
कलश-पूरण-विधानेन क्षीर-वृक्ष-क्वाथेन सम्पूर्णम् कलशं निशि रात्रौ सम्पूज्यायुतं जप्त्वा प्रगे प्रातः-काले पुत्रार्थिनीं स्त्रियं द्विषट्-दिनम् द्वादश-दिनानि व्याप्याभिषिञ्चेत् | अनन्तरं साभिषिक्ता बन्ध्यापि अपत्य-जनन-समय-योग्या अजनितापत्यो ऽपि पुत्रान् दीर्घायुषो रोग-रहितान् प्राप्नोति | किम्भूता सती ? मन्त्र-जप्ताज्य-भोजिनी सती | अत्रार्थे सन्देहो नास्ति || क्र. दी. वि. ६.५३-५४ ||
______________________________
प्रयोगान्तरम् आह-
प्रातर् वाचं-यमा नारी बोधि-च्छद-पुटे जलम् |
मन्त्रयित्वाष्टोत्तर-शतं पिबेत् पुत्रीयती ध्रुवम् || क्र. दी. ६.५५ ||
प्रातः-काले वाचं-यमा मौनिनी पुत्रीयती आत्मनः पुत्रम् इच्छन्ती बोधि-च्छद-पुटे पिप्पल-पत्र-पुटे जलं मन्वोर् अन्यतरेणाष्टोत्तर-शतं जप्तं मासं व्याप्य पिबेत् | अनन्तरं पुत्रं प्राप्नोतीति शेषः | जल-पान-मन्त्रम् आह-देवकी-पुत्रेति | अत्र प्रसङ्गात् अस्मिन् ग्रन्थे अनुक्तो ऽपि सन्तान-गोपाल-मन्त्रः कथ्यते | तद् यथा-
देवकी-पुत्र गोविन्द वासुदेव जगद्-गुरो |
देहि मे तनयं कृष्ण त्वाम् अहं शरणं गतः ||
अस्य मन्त्रस्य नारदो मुनिर् अनुष्टुप्-छन्दः सन्तान-प्रदो गोपाल-कृष्णो देवता पदैर् व्यस्तैर् वा पञ्चाङ्गानि | ध्यानं यथा-
शङ्ख-चक्र-धरं कृष्णं रथस्थं च चतुर्भुजम् |
सर्वाभरण-सन्दीप्तं पीतवाससम् अच्युतम् ||
मयूर-पिच्छ-संयुक्तं विष्णु-तेजोपबृंहितम् |
समर्पयन्तं विप्राय नष्टान् आनीय बालकान् |
करुणामृत-सम्पूर्ण-दृष्ट्येक्षन्तं च तं द्विजाम् || इति || क्र. दी. वि. ६.५५ ||
______________________________
प्रयोगान्तरम् आह-
प्रहितां काशि-राजेन कृत्यां छित्वा निजारिणा |
तत्-तेजसा तन्-नगरीं दहन्तं भावयन् हरिम् || क्र. दी. ६.५६ ||
स्व-स्नेहाक्तैर् हुनेद् रात्रौ सर्षपैः सप्त-वासरम् |
कृत्या कर्तारम् एवासौ कुपिता नाशयेद् ध्रुवम् || क्र. दी. ६.५७ ||
प्रहितां प्रेषितां काशीश्वरेण कृत्यां घातकर्तीं निजारिणा निज-चक्रेण छित्वा अनन्तरं तत्-तेजसा तस्य काशीश्वर-राजस्य नगरीं दहन्तं कृष्णं भावयन् स्व-स्नेहाक्तैर् सर्षप-तैल-युक्तैः सर्षपैः सप्त-दिनानि व्याप्य रात्रौ मन्वोर् एकतरेण जुहुयात् | अथानन्तरं असौ कृत्या क्रुद्धा सती ध्रुवं निश्चितं कर्तारम् एव नाशयेत् || क्र. दी. वि. ६.५७ ||
______________________________
प्रयोगान्तरम् आह-
आसीनम् आश्रमे दिव्ये बदरी-षण्ड-मण्डिते |
स्पृशन्तं पाणि-पद्माभ्यां घण्टाकर्ण-कलेवरम् || क्र. दी. ६.५८ ||
ध्यात्वाच्युतं तिलैर् लक्षं हुनेत् त्रि-मधुराप्लुतैः |
मुक्तये सर्व-पापानां शान्तये कान्तये तनोः || क्र. दी. ६.५९ ||
बदरी-षण्डो बदरी-समूहस् तेन मण्डिते शोभिते दिव्ये उत्कृष्टे आश्रम आसीनम् उपविष्टं तथा हस्त-पङ्कजाभ्यां घण्टाकर्णस्य महादेव-मूर्तेः कस्यचित् महादेव-भक्तस्य वा कलेवरम् शरीरं स्पृशन्तम् अच्युतं ध्यात्वा तिलैस् त्रि-मधुराप्लुतैर् घृत-मधु-शर्करा-मिश्रितैर् मन्वोर् एकेन लक्षं जुहुयात् | किम्-अर्थम् ? मोक्षाय तथा सकल-पापानां विनाशार्थं तथा तनोर् देहस्य कान्तये दीप्त्य्-अर्थम् || क्र. दी. वि. ६.५८-५९ ||
______________________________
प्रयोगान्तरम् आह-
द्वेषयन्तं रुक्मि-बलौ द्यूतासक्तौ स्मरन् हरिम् |
जुहुयाद् इष्टयोर् द्विष्ट्यै गुलिका गोमयोद्भवाः || क्र. दी. ६.६० ||
द्यूतासक्तौ द्यूत-कर्म कुर्वन्तौ रुक्मि-बलभद्रौ द्वेषयन्तं परस्परं द्वेषम् उत्पादयन्तं हरिं स्मरन् गोमयोत्पन्ना गुलिका मन्वोर् एकेन जुहुयात् | अत्र सहस्र-होमो बोद्धव्यः | अनुक्तायां तु सङ्ख्यायां सहस्रं तत्र निर्दिशेत् इति वचनात् | किम्-अर्थम् ? इष्टयोर् मित्रयोर् द्विष्ट्यै विद्वेषणार्थम् || क्र. दी. वि. ६.६० ||
______________________________
प्रयोगान्तरम् आह-
ज्वलद्-वह्नि-मुखैर् बाणैर् वर्षन्तं गरुडध्वजम् |
धावमानं रिपु-गणम् अनुधावन्तम् अच्युतम् || क्र. दी. ६.६१ ||
ध्यात्वैवम् अभ्यसेन् मन्वोर् एकं सप्त-सहस्रकम् |
उच्चाटनं भवेद् एतद्-रिपूणां सप्तभिर् दिनैः || क्र. दी. ६.६२ ||
ज्वलन् देदीप्यमानो यो वह्निस् तद्वन् मुखं येषां तैर् बाणैर् वर्षन्तं ताडयन्तं तथा गरुडारूढं तथा धावमानं शत्रु-समूहम् अनुपश्चाद् धावन्तं हरिं ध्यात्वा मन्वोर् दशाष्टादशाक्षरयोर् एकं सप्त-सहस्रकम् अभ्यसेत् जपेत् | एवं कृते सति एतस्य शत्रूणां सप्तभिर् दिनैर् उच्चाटनं भवति स्व-देशाद् अपयानं भवति || क्र. दी. वि. ६.६२ ||
______________________________
प्रयोगान्तरम् आह-
उत्क्षिप्तवत्सकं ध्यायन् कपित्थ-फल-हारिणम् |
अयुतं प्रजपेत् साध्यम् उच्चाटयति तत्-क्षणात् || क्र. दी. ६.६३ ||
उत्क्षिप्त ऊर्ध्वं क्षिप्तो वत्सो वत्स-रूपो वत्सकासुरो येन तथा कपित्थस्य फलं हरतीति कृष्णं ध्यात्वा मन्वोर् मध्ये एकं अयुतं जपेत् | अनन्तरं तत्-क्षणात् शीघ्रम् एव साध्यम् उच्चाटनीयम् उच्चाटयति || क्र. दी. वि. ६.६३ ||
______________________________
प्रयोगान्तरम् आह-
आत्मानं कंस-मथनं ध्यात्वा मञ्चान् निपातितम् |
कंसात्मानम् अरिं कर्षन् गतासुं प्रजपेन् मनुम् || क्र. दी. ६.६४ ||
अयुतं जुहुयाद् वास्य जन्मोडुतरु-तर्पणैः |
अपि सेवित-पीयूषो मिर्यते ऽरिर् न संशयः || क्र. दी. ६.६५ ||
आत्मानं कंस-मथनं कृष्णं ध्यात्वा कंस-मथनात् मनोर् ऐक्यं विचिन्त्य तथा रिपुं कंस-स्वरूपं अपगत-प्राणं ध्यात्वा रिपु-कंसयोर् अभेदं विचिन्त्येति भावः | मञ्चाद् अधः-कृतं आकर्षयन् आकर्षणं भावयन् मन्वोर् एकम् अयुतं जपेत् | अस्य रिपोः जन्मोडुतरुतर्पणैः समिद्भिर् जुहुयाच् च |
कारस्करो ऽथ धात्री स्याद् उदुम्बर-तरुः पुनः |
जम्बू-खदीर-कृष्णाख्या वंश-पिप्पल-संज्ञकौ ||
नाग-रोहित-नामानौ पलाश-प्लक्ष-संज्ञकौ |
अम्बष्ठ-बिल्वार्जुनाख्यं विकङ्कत-महीरुहः ||
बहलः सवलः खर्जुर् भण्डिलः पनसार्ककौ |
शमीक-दम्बाम्र-निम्ब-मधुका ऋक्ष-शाखिनः ||
इति सप्तविंशति-नक्षत्राणां वृक्षाः | जन्म-नक्षत्र-वृक्ष एवं कृते सेइव्त-पीयूषो ऽपि म्रियते नात्र संशयः || क्र. दी. वि. ६.६४-६५ ||
______________________________
इदं प्रयोजनं प्रकारान्तरेणापि भवतीति दर्शयति-
अथवा निम्ब-तैलाक्तैर् हुनेद् अधोभिर् अक्षजैः |
अयुतं प्रयतो रात्रौ मरणाय रिपोः क्षणात् || क्र. दी. ६.६६ ||
निम्ब-तैल-सिक्तैर् अक्षजैः विभीतक-समिद्भिः प्रयतः पवित्रः सन् रात्रौ मन्वोर् एकेन अयुतं हुनेत् | किम्-अर्थम् ? शत्रोः शीघ्र-विनाशाय || क्र. दी. वि. ६.६६ ||
______________________________
अस्मिन्न् एवार्थे प्रयोगान्तरम् आह-
दोषारिष्ट-दल-व्योष-कार्पासास्थि-कणैर् निशि |
हुनेद् एरण्ड-तैलाक्तैः स्मशानस्थो ऽरि-शान्तये || क्र. दी. ६.६७ ||
दोषा हरिद्रा अरिष्ट-दलं विभीतक-पत्रम् इति रुद्रधरः | भल्लातक-पत्रम् इति रुद्रधअः | निम्ब-पत्रम् इति भैरव-त्रिपाठिनः | व्योषं त्रिकटुकं कार्पासास्थि कार्पासा-बीजं कणं पिप्प्लई एतैर् मिलितैर् एरण्ड-तैल-सिक्तैः स्मशानस्थः मृत-संस्कार-स्थानस्थः सन् निशि रात्रौ मन्वोर् एकेन जुहुयात् | किम्-अर्थं ? शत्रु-नाशार्थम् || क्र. दी. वि. ६.६७ ||
______________________________
रागान् मारण-प्रयोगे प्रायश्चित्तम् आह-
न शस्तं मारणं कर्म कुर्याच् चेद् अयुतं जपेत् |
हुनेद् वा पायसैस् तावत् शान्तये शान्तमासः || क्र. दी. ६.६८ ||
मारणं कर्म शिष्ट-जनस्य न प्रशस्तं तथापि यदि वा रागात् कुर्यात् तदा मन्वोर् मध्ये एकं मन्त्रं अयुतं जपेत् परमान्नेन वा अयुतं जुहुयात् | शान्तये पाप-नाशाय शान्त-मानसो निर्मत्सरः || क्र. दी. वि. ६.६८ ||
______________________________
प्रयोगान्तरम् आह-
जय-कामो जपेल् लक्षं पारिजात-हरं हरिम् |
स्मरन् पराजयस् तस्य न कुतश्चिद् भविष्यति || क्र. दी. ६.६९ ||
जय-कामः पुमान् बलाद् इन्द्र-सकाशात् स्वर्गस्थ-पारिजातापहारिणं कृष्णं भावयन् मन्वोर् एकं लक्षं जपेत् | एवं कृते तस्य भङ्गः कस्माद् अपि न भविष्यतीति || क्र. दी. वि. ६.६९ ||
______________________________
प्रयोगान्तरम् आह-
पार्थे दिशन्तं गीतार्थं व्याख्या-मुद्राकरं हरिम् |
रथस्थं भावयन् जप्याद् धर्म-वृद्ध्यै शमाय च || क्र. दी. ६.७० ||
पार्थे ऽर्जुने गीतार्थं दिशन्तं कथयन्तं तथा व्याख्या-मुद्रां करे यस्य तम् उत्तान-तर्जन्य्-अङ्गुष्ठ-युता व्याख्या-मुद्रा तथा रथारूढं हरिं भावयन् मन्वोर् एकं लक्षं जपेत् | किम्-अर्थम् ? धर्मोत्पत्त्य्-अर्थं मोक्षार्थं च || क्र. दी. वि. ६.७० ||
______________________________
प्रयोगान्तरम् आह-
लक्षं पलाश-कुसुमैर् हुनेद् यो मधुराप्लुतैः |
व्याख्याता सर्व-शास्त्राणां स कविर् वादिराड् भवेत् || क्र. दी. ६.७१ ||
यः पलाश-पुष्पैर् घृत-मधु-शर्करा-मिश्रैर् मन्वोर् एकेन लक्षं जुहुयात् स सकल-शास्त्राणां व्याख्याता कविराट् कवि-श्रेष्ठश् च भवेत् || क्र. दी. वि. ६.७१ ||
______________________________
प्रयोगान्तरम् आह-
विश्वरूप-धरं प्रोद्यद्-भानुकोटि-सम-द्युतिम् |
द्रुत-चामीकर-निभम् अग्नि-सोमात्मकं हरिम् || क्र. दी. ६.७२ ||
अर्काग्नि-द्योत-दास्याङ्घ्रि-पङ्कजं दिव्य-भूषणम् |
नानायुध-धरं व्याप्त-विश्वाकाशावकाशकम् || क्र. दी. ६.७३ ||
राष्ट्र-पूर्-ग्राम-वास्तूनां शरीरस्य च रक्षणे |
प्रजपेन् मन्त्रयोर् एकतरं ध्यात्वैवम् आदरात् || क्र. दी. ६.७४ ||
विश्वरूप-धरम् एतद् व्याचष्टे उद्यद्-आदित्य-कोटि-समान-कान्तिं तथा द्रवीभूत-सुवर्ण-तुल्यं तथा अग्नि-सोम-स्वरूपं | सूर्य-सोमात्मकम् इति त्रिपाठिनः | तथा सूर्याग्निवद् उज्ज्वलं मुखं पाद-पद्मं यस्य | तथा चारु-भूषणं तथा विविध-शस्त्र-धरं तथा व्याप्त-संसाराकाशाभ्यन्तरम्, एतादृशं हरिं ध्यात्वा आदरात् मन्त्रयोर् एकं जपेत् | किम्-अर्थम् ? राष्ट्रौ देशे पूर् नगरं ग्रामो ऽल्प-जन-वास-स्थानं वास्तु एक-गृह-स्वामि-वासः | क्षेत्रम् इति गोविन्द-मिश्राः | वस्त्व् इति पाठे हिरण्यादि | एतेषां शरीरस्य च रक्षणे रक्षा-निमित्तम् || क्र. दी. वि. ६.७२-७४ ||
______________________________
प्रयोगान्तरम् आह-
अथवा व्यस्त-सर्वाङ्घ्रि-रचिताङ्गार्जुन-र्षिकम् |
त्रिष्टुप्-छन्दसिकं विश्वरुप-विष्ण्व्-अधिदैवतम् || क्र. दी. ६.७५ ||
जपेद् गीता-मनुं स्थाने हृषीकेशाद्यम् आज्यकैः |
हुनेद् वा सर्व-रक्षायै सर्व-दुःखोपशान्तये || क्र. दी. ६.७६ ||
अथवा स्थाने हृषीकेशाद्यं गीता-मनुं जपेत् | किम्भूतं मनुम् ? व्यस्तम् एकैकं सर्वे समस्ता ये अङ्घ्रयः पाद-चतुष्टयं तैः रचितम् अङ्गं पञ्चाङ्गम् | अर्जुनः ऋषिर् यत्र तं व्यस्त-सर्वाङ्घ्रि-रचिताङ्गश् चार्जुन ऋषिकश् चेति द्वन्द्वः तं त्रिष्टुप्-छन्दो यत्र तं विश्वरूपो विष्णुर् अधिदेवता यस्य तम् | आज्यकैर् घृतैर् हुनेद् वा वाशब्दः समुच्चये हुनेत् | टीकान्तरे उक्त-प्रयोगेषु यत्र जप-होमयोः सङ्ख्या न उक्ता तत्र संनिधानोक्ता गृह्यते तद्-अभावे ऽष्तोत्तरं सहस्रं शतं वा अष्टौ सहस्राणीत्य् एके | जगन्-मोहनाख्य-तन्त्रे-
लक्षं वाप्य् अयुतं वापि सहस्रं शतम् एव च |
कार्याणां गौर्वान् मन्त्री तत्-तद्-धोमं समाचरेत् || क्र. दी. वि. ६.७५-७६ ||
इति श्री-केशव-भट्टाचार्य-विरचितायां क्रम-दीपिकायां
षष्ठः पटलः |
||६||
**************************************************************************
(७)
सप्तम-पटलम्
अनेक-मन्त्र-कथनार्थं सप्तम-पटलम् उपक्रामति-वक्ष्य इत्य् आदिना |
वक्ष्ये ऽक्षय-धनावाप्त्यै प्रतिपत्तिं श्रियः पतेः |
सुगुप्तां धन-नाथाद्यैर् धन्यैर् या क्रियते सदा || क्र. दी. ७.१ ||
श्रियः पतेर् गोपालस्य प्रतिपत्तिं ध्यानं मन्त्र-पूजा-ध्यानादि-प्रकारं वा वक्ष्ये | या प्रतिपत्तिर् धन-नाथाद्यैः कुबेर-प्रभृतिभिर् महाधनैः क्रियते | कस्यै ? अक्षयम् अविनाशि यद् धनं तत्-प्राप्त्यै | सुगुप्ता नात्यन्त-प्रकटितां द्विजैर् इत्य् अर्थः || क्र. दी. वि. ७.१ ||
______________________________
द्वारवत्याम् इत्य् आदि सप्त-श्लोकैर् मध्य-कुलकम् |
द्वारवत्यां सहस्रार्क-भास्वरैर् भवनोत्तमैः |
अनल्पैः कल्प-वृक्षैश् च परीते मण्डपोत्तमे || क्र. दी. ७.२ ||
अच्युतो ध्येयः कुत्र ? द्वारवत्यां मणि-मण्डपे मणि-सिंहासनाम्बुजे आसीनो द्वारका-नगरी-गत-मणि-मण्डपावस्थित-मणि-मय-सिंहासनोपविष्टः मणि-मण्डपे | कीदृशे ? भवनोत्तमैः गृहोत्तमैः कल्प-वृक्षैश् च परीते वेष्टिते | किम्भूतैः ? सहस्र-सूर्याः तद्वद् भास्वरैर् दीप्तैर् अनल्पैर् विस्तरैः || क्र. दी. वि. ७.२ ||
______________________________
ज्वलद्-रत्न-मय-स्तम्भ-द्वार-तोरण-कुड्यके |
फुल्ल-स्रग्-उल्लसच्-चित्र-वितानालम्बि-मौक्तिके || क्र. दी. ७.३ ||
पुनः कीदृशे ? ज्वलन्ति दीप्तानि यानि रत्नानि तन्-मयं तत्-प्रधानं स्तम्भः गृहाधार-भूतं द्वार-तोरणं कुड्यं भित्तिर् यत्र तस्मिन् प्रफुल्ला विकासनीया स्रक् पुष्प-माला उल्लसच्-छोबमानं पवित्रं नाना-प्रकारं वितानं तत्रालम्बि मौक्तिकं यत्र तत्र || क्र. दी. वि. ७.३ ||
______________________________
पुनः कीदृशे मणि-मण्डपे ?
पद्म-राग-स्थली-राजद्-रत्न-नद्योश् च मध्यतः |
अनारत-गलद्-रत्न-सुधस्य स्वस्-तरोर् अधः || क्र. दी. ७.४ ||
पद्म-राग-मयी या स्थली राजद् देदीप्यमान-रत्न-मयी च या नदी तयोर् मध्ये स्वस्-तरोः पारिजातस्याधः | स्वस्-तरोर् किम्भूतस्य ? अनारतं सर्वदा गलन्ती रत्नमयी सुधा अमृतं यस्य तस्य || क्र. दी. वि. ७.४ ||
______________________________
पुनः कीदृशे मणि-मण्डपे ?
रत्न-प्रदीपावलिभिः प्रदीपित-दिग्-अन्तरे |
उद्यद्-आदित्य-सङ्काशे मणि-सिंहासनाम्बुजे || क्र. दी. ७.५ ||
रत्न-प्रदीपावलिभिर् ज्वलद्-रत्नैः प्रदीपितम् उद्भासितं दिशाम् अन्तरालम् अवकाशो यत्र मणि-सिंहासने | किम्भूते ? उद्यत् प्रादुर्भवन् य आदित्यस् तस्य सङ्काशे सदृशे || क्र. दी. वि. ७.५ ||
______________________________
अच्युतः किम्भूतह् ?
समासीनो ऽच्युतो ध्येयो द्रुत-हाटक-संनिभः |
समानोदित-चन्द्रार्क-तडित्-कोटि-सम-द्युतिः || क्र. दी. ७.६ ||
द्रुत-हाटक-संनिभः द्रवी-भूत-स्वर्ण-तुल्यः समानोदिता एकदोद्गता या चन्द्रार्कानां कोटिः तडिताम् अपि कोटिः तत्-सम-द्युतिर् यस्य सः || क्र. दी. वि. ७.६ ||
______________________________
पुनः किम्भूतह् ?
सर्वाङ्ग-सुन्दरः सौम्यः सर्वाभरण-भूषितः |
पीत-वासाश् चक्र-शङ्ख-गदा-पद्मोज्ज्वलद्-भुजः || क्र. दी. ७.७ ||
सर्वाङ्गेन मुखादिना सुन्दरो रम्यः सौम्यो ऽनुद्धतः सर्वाभरणेनअ कुण्डलाद्य्-अलङ्कारेण भूषितः | पीत-वासाः पीत-वाससी यस्य सः | चक्र-शङ्ख-गदा-पद्मर् उज्ज्वला दीप्ता भुजा यस्य सः || क्र. दी. वि. ७.७ ||
______________________________
पुनः कीदृशः ?
अनारतोच्छ्लद्-रत्न-धारौध-कलशं स्पृशन् |
वाम-पादाम्बुजाग्रेण मुष्णता पल्लव-च्छविम् || क्र. दी. ७.८ ||
वाम-पादाम्बुजाग्रेण अनारतं सर्वदा उच्छलन्ती या रत्न-धारा तस्या ओघः प्रवाहो यत्र स चासौ कलसश् चेति कर्मधारयः | तं स्पृशन् वाम-पादाम्बुजाग्रेण | किम्भूतेन ? पल्लव-च्छविम् मुष्णता किशलय-कान्तिं चोरयता || क्र. दी. वि. ७.८ ||
______________________________
अष्ट-महिषी-ध्यानम् आह-
रुक्मिणी-सत्यभामे ऽस्य मूर्ध्नि रत्नौघ-धारया |
सिञ्चन्त्यौ दक्ष-वाम-स्थे स्व-दोः-स्थ-कलशोत्थया || क्र. दी. ७.९ ||
रुक्मिणी-सत्यभामे ध्येये | किम्भूते ? अस्य हरेर् मूर्ध्नि शिरसि रत्न-प्रवाह-धारया सिञ्चन्त्यौ | कीदृशे ? दक्ष-वाम-स्थे | अत्र रुक्मिणी दक्षिणे सत्या वामे | किम्भूतया धारया ? स्व-हस्त-स्थ-घटोद्भवया || क्र. दी. वि. ७.९ ||
______________________________
नाग्नजिती-सुनन्दे च ध्येये | एते कीदृशे ?
नाग्नजिती सुनन्दा च दिशन्त्या कलशौ तयोः |
ताभ्यां च दक्ष-वाम-स्थे मित्रविन्दा-सुलक्ष्मणे || क्र. दी. ७.१० ||
तयो रुक्मिणी-सत्यभामयोः स्थाने रत्न-घटौ दिशन्त्यौ ददत्यौ | कीदृशे ? दक्ष-वाम-स्थे | तथा मित्रविन्दा-सुलक्षणे दक्षिण-वाम-स्थे ध्येये | किम्भूते ? ताभ्यां नाग्नजिती-सुनन्दाभ्यां कलशं दिशन्तीभ्यां कलशं ददत्यौ || क्र. दी. वि. ७.१० ||
______________________________
रत्न-नद्या समुद्धृत्य रत्न-पूर्णौ घटौ तयोः |
जाम्बवती सुशीला च दिशन्त्यौ दक्ष-वाम-गे || क्र. दी. ७.११ ||
तथा दक्ष-वामे जाम्बवती-सुशीले च ध्येये | किम्भूते ? रत्न-नद्या रत्न-पूर्णौ घटौ समुद्धृत्य तयोर् सुलक्ष्मणा-मित्रविन्दयोर् दिशन्त्यौ || क्र. दी. वि. ७.११ ||
______________________________
बहिः षोडश-साहस्र-सङ्ख्याताः परितः स्त्रियः |
ध्येयाः सकल-रत्नौघ-धारा-युक्-कलशोज्ज्वलाः || क्र. दी. ७.१२ ||
तद्-बहिः षोडश-साहस्र-सङ्ख्याताः प्रिया ध्येयाः | किम्भूताः ? कनकं सुवर्णं रत्नानि पद्मादीनि तेषाम् ओघः समूहः | तस्य धारां युनक्तीति तद्-युक् यः कलशः तेन दीप्ताः || क्र. दी. वि. ७.१२ ||
______________________________
तद्-बहिश् चाष्ट-निधयो ध्येयाः | कीद्र्शाः ?
तद् बहिश् चाष्ट-निधयः पूरयन्तो धनैर् धराम् |
तद्-बहिर् वृष्णयः सर्वे पुरोवच् च सुरादयः || क्र. दी. ७.१३ ||
धरां पृथ्वीं धनैः पूरयन्तः तद्-बहिर् वृष्णयो यादवा ध्येयाः | अनन्तरं पुरोवत् दिक्षु स्थिताः सुरादयो देवर्षि-सिद्ध-विद्याधर-गन्धर्व-प्रभृतयो रत्नाभिषेकं कुर्वन्तो ध्येयाः || क्र. दी. वि. ७.१३ ||
______________________________
ध्यात्वैवं परमात्मानं विंसत्य्-अर्णं मनुं जपेत् |
चतुर्-लक्षं हुनेद् आज्यैश् चत्वारिंशत्-सहस्रकम् || क्र. दी. ७.१४ ||
एवं परमात्म-रूपं अशरीरिणं ध्यात्वा विंसत्य्-अक्षरं मन्त्रं चतुर्-लक्षं जपेत् | आज्यैर् घृतैश् चत्वारिंशत्-सहस्रकम् हुनेत् जुहूयात् || क्र. दी. वि. ७.१४ ||
______________________________
विंशत्य्-अक्षर-मन्त्रम् उद्धरति-
शक्ति-श्री-पूर्वको ऽष्टादशार्णो विंशति-वर्णकः |
मत्रेणानेन सदृशो मनुर् नहि जगत् त्रये || क्र. दी. ७.१५ ||
शक्तिर् भुवनेश्वरी-बीजं श्रीः श्री-बीजं एतद्-बीज-द्वय-पूर्वकः पूर्वोक्ताष्टादशाक्षर-मन्त्र एव विंशत्य्-अक्षरो भवतीत्य् अर्थः | अनेन मन्त्रेण सदृशो मन्त्र जगत्-त्रये नास्ति || क्र. दी. वि. ७.१५ ||
______________________________
ऋष्य्-आदिकं दर्शयति-
ऋषिर् ब्रह्मा च गायत्री-च्छन्दः कृष्णस् तु देवता |
पूर्वोक्तवद् एवास्य बीज-शक्त्य्-आदि-कल्पना || क्र. दी. ७.१६ ||
अस्य मन्त्रस्य बीज-शक्त्य्-आदि-कल्पना पूर्वोक्तवत् दशाक्षरवत् तथा च दशाक्षरस्य यद् बीजादिकं तद् अस्यापीत्य् अर्थः || क्र. दी. वि. ७.१६ ||
______________________________
पूजा-प्रकारम् आह-
कल्पः सनत्-कुमारोक्तो मन्त्रस्यास्योच्यते ऽधुना |
पीठ-न्यासादिकं कृत्वा पूर्वोक्त-क्रमतः सुधीः || क्र. दी. ७.१७ ||
अस्य मन्त्रस्य सनत्-कुमार-कथितः पूजा-प्रकारः सम्प्रति मया कथ्यते | पूर्वोक्त-क्रमतः दशाक्षरोक्त-प्रकारेण पीठ-न्यास-प्राणायामादिकं कृत्वा || क्र. दी. वि. ७.१७ ||
______________________________
कर-द्वन्द्वाङ्गुलि-तलेष्व् अङ्ग-षट्कं प्रविन्यसेत् |
मन्त्रेण व्यापकं कृत्वा मातृकां मनु-सम्पुटाम् || क्र. दी. ७.१८ ||
संहार-सृष्टि-मार्गेण दश-तत्त्वानि विन्यसेत् |
पुनश् च व्यापकं कृत्वा मन्त्र-वर्णास् तनौ न्यसेत् || क्र. दी. ७.१९ ||
उभय-कराङ्गुलिषु उभय-कर-तलेषु च षड्-अङ्गानि क्रमान् न्यसेत् | मन्त्रेणेति विंशत्य् अक्षर-मन्त्रेण व्यापकं सर्वतनौ न्यासं कृत्वा मातृकां मातृका-न्यासं मनु-सम्पुटां विंशत्य्-अक्षर-पुटित-प्रत्यक्षरां पूर्वोक्त-मातृका-स्थानेषु विन्यसेत् | प्रयोगश् च-ह्रीं अं ह्रीं नम इत्य् आदिः | एवं भ-पर्यन्तं द्विर्-आवृत्तिः | ततो ह्रीं श्रीं ह्रीं श्रीं नमः | क्लीं क्रीं पं क्लीं क्रीं नम इत्य् आदिः | संहार-सृष्टि-मार्गेण दश-तत्त्वानि मही-सलिल-प्रभृतीनि विन्यसेत् | पुनर् अपि विंशत्य्-अक्षर-मन्त्रेण व्यापक-न्यासं कृत्वा विंशति-मन्त्राक्षराणि तनौ स्व-शरीरे न्यसेत् || क्र. दी. वि. ७.१९ ||
______________________________
अक्षर-न्यास-स्थानान्य् आह-
मूर्ध्नि भाले भ्रुवोर् मध्ये नेत्रयोः कर्णयोर् नसोः |
आनने चिबुके कण्ठे दोर्-मूले हृदि तन्दुके || क्र. दी. ७.२० ||
नाभौ लिङ्गे तथाधारे कट्योर् जान्वोश् च जङ्घयोः |
गुल्फयोः पादयोर् न्यसेत् सृष्टिर् एषा समीरिता || क्र. दी. ७.२१ ||
मस्तके भाले ललाटे भ्रू-मध्ये इत्य् आदाव् एकैकम् अक्षरं न्यसेत् | आधारे लिङ्गाधस् त्रिकोण-स्थाने एष सृष्टि-न्यास-प्रकार उक्तः || क्र. दी. वि. ७.२१ ||
______________________________
स्थितिर् हृद्-आदिकं सान्ता संहृतिश् चरणादिका |
विधायैवं पञ्च-कृत्वः स्थित्य्-अन्तं मूर्ति-पञ्जरम् |
सृष्टि-स्थिती च विन्यस्य षड्-अङ्ग-न्यासम् आचरेत् || क्र. दी. ७.२२ ||
हृद्-आदिकांसां ता स्थितिः हृदयम् आरभ्यांस-पर्यन्त-न्यासः स्थितिः संहृतिश् चरणादिकापादावारभ्यमूर्धान्त-न्यासः विधायेति | एवं पञ्च-वारान् स्थित्य्-अन्तं न्यासं कृत्वा इति गृहस्थाभिप्रायेण तथा पूर्वोक्त-मुर्ति-पञ्जर-न्यासं कृत्वा पुनः सृष्टि-स्थिती विन्यस्य सृष्टि-स्थिति-प्रकारेण मन्त्र-वर्णान् विन्यस्य षड्-अङ्ग-न्यासम् आचरेत् || क्र. दी. वि. ७.२२ ||
______________________________
षड्-अङ्गानि दर्शयति-
गुणाग्नि-वेद-करण-करणाक्ष्य्-अक्षरैर् मनोः |
मुद्रां बद्ध्वा किरीटाख्यां दिग्-बन्धं पूर्ववच् चरेत् |
ध्यात्वा जप्त्वार्चयेद् देहे मूर्ति-पञ्जर-पूर्वकम् || क्र. दी. ७.२३ ||
मनोर् मन्त्रस्य गुणास् त्रयः अग्नयस् त्रयः वेदाश् चत्वारः करणम् अन्तः-करण-चतुष्टयं | पुनः करण-चतुष्टयम् अक्षि-द्वयम् एतैर् अक्षरैर् मन्त्र-सम्भवैः षड्-अङ्गानि कार्याणीत्य् अर्थः | मुद्राम् इति किरीटाख्यां किरीटाभिधां बद्ध्वा कृत्वा किरीटाद्याम् इति पाठे कौस्तुभ-श्रीवत्स-मुद्रयोः परिग्रहः पूर्ववद् अस्त्र-मन्त्रेण दिग्-बन्धनं कुर्यात् |
आत्म-पूजाम् आह-ध्यात्वेति | पूर्वोदितं ध्यानं कृत्वा अष्टोत्तर-शतं च जप्त्वा मूर्ति-पञ्जर-पूर्वकम् देहे पूजयेत् तथाचाभ्यन्तरे प्रथमं परमेश्वरा-राधनं तद् अनु मूर्ति-पञ्जरस्य तद् अनु सृष्टि-स्थिति-न्यासं तद् अनु षड्-अङ्गस्येति ||२३||
______________________________
बाह्य-पूजा-प्रकारम् आह-
अथवा ह्ये ऽर्चयेद् विष्णुं तद्-अर्थं यन्त्रम् उच्यते |
गोमयेनोपलिप्योर्वीं तत्र पीठं निधापयेत् || क्र. दी. ७.२४ ||
अथात्म-पूजानन्तरं बाह्ये विष्णुं पूजयेत् | तत्-पूजार्थं पूजा-स्थानम् उच्यते | गोमय-जलेन पृथिवीम् उपलिप्य तत्र लिप्त-स्थाने पीठं पूजाधार-प्रियं पात्रं स्थापयेत् || क्र. दी. वि. ७.२४ ||
______________________________
विलिप्य गन्ध-पङ्केन लिखेद् अष्ट-दलाम्बुजम् |
कर्णिकायां तु षट्-कोणं स-साध्यं तत्र मन्मथम् || क्र. दी. ७.२५ ||
अनन्तरं तत्-पीठं चन्दन-पङ्केन विलिप्य तत्राष्ट-दल-पद्मं विलिख्य कर्णिकायां पद्मं विलिख्य मध्य-स्थाने षट्-कोण-पुटितं वह्नि-पुर-द्वयं लिखेत् | तत्र षट्-कोण-मध्ये स-साध्यं कर्म-सहितं साध्य-नाम-सहितं मन्मथं काम-बीजं लिखेत् | साध्य-ग्रहणात् धारणार्थम् अप्य् एतद् बोद्धव्यम् इति त्रिपाठिनः || क्र. दी. वि. ७.२५ ||
______________________________
शिष्टैस् तं सप्तदशभिर् अक्षरैर् वेष्टयेत् स्मरम् |
प्राग्-रक्षो ऽनिल-कोणेषु श्रियं शिष्टेषु संविदम् || क्र. दी. ७.२६ ||
शिष्टैः सप्त सप्तदशभिर् अक्षरैस् तं काम-बीजं वेष्टयेत् | षट्-कोणस्य पूर्व-नैरृति-वायव्य-कोणेषु श्रियं श्री-बीज-त्रयं लिखेत् | शिष्टेषु त्रिषु कोणेषु पश्चिमेशानाग्नि-कोणेषु संविदम् भुवनेश्वरी-बीजं विलिखेत् || क्र. दी. वि. ७.२६ ||
______________________________
षड्-अक्षरं सन्धिषु च केशरेषु त्रिशस् त्रिशः |
विलिखेत् स्मर-गायत्रीं माला-मन्त्रं दलाष्टके || क्र. दी. ७.२७ ||
षड्शः संलिख्य तद्-बाह्ये वेष्टयेन् मातृकाक्षरैः |
भू-बिम्बं च लिखेद् बाह्ये श्री-माये दिग्-विदिक्ष्व् अपि || क्र. दी. ७.२८ ||
सन्धिषु षट्-कोण-सन्धिषु षड्-अक्षरं काम-बीज-पूर्वक-कृष्णाय नम इति षड्-अक्षरं लिखेत् | केशर-स्थाने काम-गायत्रीं वक्ष्यमाणां त्रिशो ऽक्षर-त्रयं कृत्वा विलिखेत् | पत्राष्टके वक्ष्यमाणां माला-मन्त्रं षड्शः षड्-अक्षराणि कृत्वा विलिख्य पद्म-बाह्ये मातृकाक्षरैर् वेष्टयेत् | मातृकावेष्टन-बाह्य एव वक्ष्यमाण-स्वरूपं भू-बिम्बं च लिखेत् | भू-बिम्ब-दिग्-विदिक्षु श्री-माये दिक्षु श्री-बीजं कोणेषु भुवनेश्वरी-बीजं लिखेद् इत्य् अर्थः || क्र. दी. वि. ७.२८ ||
______________________________
एतद्-यन्त्रं हाटकादि-पट्टेष्व् आलिख्य पूर्ववत् |
साधितं धारयेद् यो वै सो ऽर्च्येत त्रदशैर् अपि || क्र. दी. ७.२९ ||
एतद् यन्त्रं पूजायाम् अप्य् उपयुक्तं यो धारयेत् स देवैर् अपि पूज्यते | किं कृत्वा ? सुवर्ण-रजत-ताम्रादि-पट्टेषु यथा-कथित-द्रव्येणालिख्य पूर्ववद् यः पूजासु | यद् वा, पूर्व-मन्त्रवत् कृत-प्राण-प्रतिष्ठादि-क्रियम् | कीदृशम् ? साधितं यथा-कथित-प्रकारेण सम्पादित-प्रजप्तं च || क्र. दी. वि. ७.२९ ||
______________________________
काम-गायत्रीम् उद्धरति-
स्याद् गायत्री काम-देव-पुष्प-बाणौ च ङे ऽन्तकौ |
विद्महे-धीमहि-युतौ तन् नो ऽङ्गः प्रचोदयात् |
जप्याज् जपादौ गोपाल-मनूनां जन-रञ्जनीम् || क्र. दी. ७.३० ||
काम-देव-पुष्प-बाण-शब्दौ क्रमेण चतुर्थ्य्-अन्तौ | किम्भूतौ ? विद्महे-धीमहि-शब्द-सहितौ | तद्-अनु तन् नो ऽनङ्गः प्रचोदयाद् इति स्वरूपम् | एवं सति काम-गायत्री स्याद् भवति | जप्याद् इति गोपाल-मन्त्राणां जपादौ जपोपक्रमे एतां काम-गायत्रीं जप्यात् | यत इयं जन-रञ्जनीं वश्यकरीम् इत्य् अर्थः || क्र. दी. वि. ७.३० ||
______________________________
माला-मन्त्रम् उद्धरति-नत्य्-अन्त इत्य् आदिना |
नत्य्-अन्ते काम-देवाय ङे ऽन्तं सर्व-जन-प्रियम् |
उक्त्वा सर्व-जनान्ते तु संमोहन-पदं तथा || क्र. दी. ७.३१ ||
ज्वल ज्वल प्रज्वलेति प्रोक्तो सर्व-जनस्य च |
हृदयं च मम ब्रूयात् वशं कुरु-युगं शिरः |
प्रोक्तो मदन-मन्त्रो ऽष्त-चत्वारिंशद्भिर् अक्षरैः || क्र. दी. ७.३२ ||
नमः-शब्दान्ते काम-देवायेति स्वरूपं तद्-अनु चतुर्थ्य्-अन्ते सर्व-जन-प्रिय-शब्दम् उच्चार्य तद्-अनु सर्व-जन-शब्दम् उक्त्वा संमोहन-पदं वदेत् | तद्-अनु ज्वल ज्वल प्रज्वलेति स्वरूपम् उक्त्वा सर्व-जनस्य हृदयं ममेति स्वरूपम् उक्त्वा वशम् इति स्वरूपम् उक्त्वा कुरु कुरु इति स्वरूपम् उक्त्वा शिरः स्वाहा इति वदेत् | एवं च सति अष्ट-चत्वारिंशद् अक्षरकैर् मदन-मन्त्रः || क्र. दी. वि. ७.३१-३२ ||
______________________________
विनियोगं दर्शयति-
जपादौ मार-बीजाद्यो जगत्-त्रय-वशीकरः |
भू-गृहं चतुरस्रं स्यात् कोण-वज्राद्य्-अलङ्कृतम् || क्र. दी. ७.३३ ||
यत्र यथोद्भूत एव जप-पूजा-होमादौ तु यदि काम-बीजाद्यो भवति तदा जगत्-त्रय-वशीकरण-क्षमः यदाय मन्त्रः स्वतन्त्रेण जप्यते तदेति त्रिपाठिनः | भू-गृहम् उद्धरति-भू-गृहम् इति | कोण-संलग्नाष्ट-वज्रालङ्कृत-चतुरस्रं कोण-चतुष्टय-सहितं भू-विलम्बम् इति पाठो वा || क्र. दी. वि. ७.३३ ||
______________________________
यन्त्रे पूजा-प्रकारम् आह-
पीठं पूर्ववद् अभ्यर्च्य मूर्ति-सङ्कल्प्य पौरषीम् |
तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् || क्र. दी. ७.३४ ||
पूर्ववद् दशाक्षरवत् गुर्वापीठ-पूजान्तम् अभ्यर्च्य तत्र पौरुषीं पुरुषाकृतिं मूर्तिं पारमेश्वरीं विचिन्त्य तत्र मूर्ताव् अच्युतम् आवाह्य सकलीकृत्य भक्त्या पूजयेत् | सुषुम्णा प्रवाह-नाड्या पुष्प-युक्तम् उत्तान-पाणी-हृदय-स्थ-मूर्तेस् तेजः संयोज्य तेजो देवता ब्रह्म-रन्ध्रेण देव-शरीर-गतं विचिन्त्य स्व-स्व-मुद्रया बाह्ये संस्थाप्य सन्निधाप्य सण्निरुद्ध्यावगुण्ठ्य देवताङ्गे षड्-अङ्ग-न्यासं कृत्वा षोडशोपचारैः सम्पूजयेद् इत्य् अर्थः || क्र. दी. वि. ७.३४ ||
______________________________
आसनादि भूषणान्तं पुनर् न्यास-क्रमात् यजेत् |
सृष्टि-स्थिती षड्-अङ्गं च किरीटं कुण्डल-द्वयम् || क्र. दी. ७.३५ ||
चक्र-शङ्ख-गदा-पद्म-माला-श्रीवत्स-कौस्तुभान् |
गन्धाक्षत-प्रसूनैश् च मूलेनाभ्यर्च्य पूर्ववत् || क्र. दी. ७.३६ ||
आसनादि विभूषान्तं यथा स्याद् एवं पूजयेत् आसनम् आरभ्य भूषान्तैर् उपचारैः पूजयेद् इत्य् अर्थः | पुनर् न्यास-क्रमात् सृष्ट्य्-आदीन् यजेत् | प्रथमं सृष्ट्य्-आदीनां न्यासं विधाय ततस् तान् पूजयेत् | अथवा न्यास-क्रमाद् यथा तेषां न्यासः कृतस् तेन क्रमेणेत्य् अर्थः |
गन्धाक्षतेति | अक्षता यवा गन्धाक्षत-पुष्पैश् च पूर्ववत् मूल-मन्त्रेण कृष्णं पूजयित्वा सप्तावृतीः सम्पूजयेद् इत्य् अर्थः || क्र. दी. वि. ७.३६ ||
______________________________
आवरणान्य् आह-
आदौ वह्नि-पुर-द्वन्द्व-कोणेष्व् अङ्गानि पूजयेत् |
सहृच्-छिरः शिखा-वर्म-नेत्रम् अस्त्रम् इति क्रमात् || क्र. दी. ७.३७ ||
प्रथमं वह्नि-पुर-युगल-सम्बन्धि-षट्-कोणेषु आग्नेय-कोणम् आरभ्य षड्-अङ्गानि पूजयेद् इत्य् अर्थः | अङ्गान्य् आह-सहृद् इति | सह-हृद् आवर्तत इति सहृत् हृदयं शिरः शिखा-वर्म-कवचं नेत्रम् अस्त्रं चेति प्रथमावरणम् || क्र. दी. वि. ७.३७ ||
______________________________
द्वितीयावरणम् आह वासुदेव इति-
वासुदेवः सङ्कर्षणः प्रद्य्म्नश् चानिरुद्धकः |
अग्न्य्-आदि-दल-मूलेषु शान्तिः श्रीश् च सरस्वती || क्र. दी. ७.३८ ||
रतिश् च दिग्-दलेष्व् अर्च्यास् ततो ऽष्तौ महिषीर् यजेत् |
रुक्मिण्य्-आद्या दक्ष-सव्ये क्रमात् पत्राग्रकेषु च || क्र. दी. ७.३९ ||
अग्न्य्-आदि-कोण-दल-मूलेषु केशर-स्थानेषु वासुदेवादयः पूज्यास् तथैव पूर्वादि-चतुर्-दिक्षु दल-मूलेषु शान्त्य्-आदयः पूज्या इत्य् अर्थः | तृतीयावरणम् आह-ततो ऽष्टाव् इति | तद्-अनन्तरम् अष्टौ महिष्यः पूज्या इत्य् अर्थः | ता हि रुक्मिण्य्-आद्या इति | पूजा-स्थानम् आह-दक्ष-सव्ये इति | परमेश्वरस्य दक्षिण-भागे चतस्रः वाम-भागे चतस्रः क्रमेण पूज्या इत्य् अर्थः || क्र. दी. वि. ७.३८-३९ ||
______________________________
चतुर्थावरणम् आह-तत इति |
ततः षोडश-साहस्रं सकृद् एवार्चयेत् प्रियाः |
इन्द्रनील-मुकुन्दाद्यान् मकरानङ्ग-कच्छपान् || क्र. दी. ७.४० ||
पद्म-शङ्खादिकांश् चापि निधीन् अष्टौ क्रमाद् यजेत् |
तद् बहिश् चेन्द्र-वज्राद् ये आवृती सम्प्रपूजयेत् || क्र. दी. ७.४१ ||
पूर्वादि-दलाग्रेषु षोडश-सहस्रं प्रियाः देव-पत्नीः सकृद् एव एक-क्रमेणैवार्चयेत् | पञ्चमम् आवरणम् आह-इन्द्रनीलाद्यान् अष्टौ निधीन् पूर्वादि-क्रमेण पूजयेत् | अत्रेन्द्रादि-शब्दानन्तरं प्रत्येकं चतुर्थ्य्-अन्तं निधि-पदं देयम् | प्रयोगश् च-ॐ इन्द्र-निधये नमः इत्य् आदिः | षष्ठ-सप्तमावरण-द्वयम् आह-तद् बहिर् इति | तद्-बाह्ये इन्द्रादिकं वज्रादिकं च पूजयेत् || क्र. दी. वि. ७.४०-४१ ||
______________________________
आवरणानि सन्दर्श्य नैवेद्यं दर्शयति-
इति सप्तावृत्ति-वृतम् अभ्यर्च्याच्युतम् आदरात् |
प्रीणयेद् दधि-खण्डाज्य-मिश्रेण तु पयो ऽन्धसा || क्र. दी. ७.४२ ||
इत्य् अनेन प्रकारेण सप्तावरण-वेष्टितं कृष्णम् आदर-पूर्वकं सम्पूज्य दधि-शर्करा-घृत-सहितेन पायसेन प्रीणयेद् इत्य् अर्थः || क्र. दी. वि. ७.४२ ||
______________________________
राजोपचारं दत्त्वाथ स्तुत्वा नत्वा च केशवम् |
उद्वासयेत् स्व-हृदये परिवार-गणैः सह || क्र. दी. ७.४३ ||
छत्र-चामरादीनि दत्त्वा अथानन्तरं स्तवं कृत्वा अष्टाङ्ग-पञ्चाङ्गान्यतरेण प्रणम्य परिवार-गणैः सह केशवं हृदये उद्वासयेत् उत्तोल्य स्थापयेत् || क्र. दी. वि. ७.४३ ||
______________________________
न्यस्त्वात्मानं समभ्यर्च्य तन्-मयः प्रजपेन् मनुम् |
रत्नाभिषेक-ध्यानेज्या-विंशत्य्-अर्णाश्रितेरिता || क्र. दी. ७.४४ ||
जप-होमार्चनैर् ध्यानैर् यो ऽमुं प्रभजते मनुम् |
तद् वेश्म पूर्यते रत्नैः स्वर्ण-धान्यैर् अनारतम् || क्र. दी. ७.४५ ||
न्यस्त्वा पूजा पूर्वोक्तं सृष्ट्य्-आदि-न्यासं कृत्वा आत्म-पूजां विधाय तन्-मयः पूज्य-देव-स्वरूपो भूत्वा पूजाङ्ग-मन्त्रं जपेत् | पर्कृतम् उपसंहरति-रत्नेति | ध्यानं च इज्या च पूजा च इत्य् अर्थः | तथा च यस्यां पूजायां कृष्णस्य रत्नाभिषेक-ध्यानं तत्र कृष्णस्य विंशत्य्-अक्षरोक्ता पूजेयम् उक्ता | फलं दर्शयति-जपेति | जपादिभिर् यो अमुं मन्त्रं सेवते तस्य गृहं पद्म-रागादिभिः रत्नैः काञ्चनैर् धान्यैश् चानारतम् अनवरतं पूर्यते || क्र. दी. वि. ७.४४-४५ ||
______________________________
पृथ्वी पृथ्वी करे तस्य सवसस्य् अकुलाकुला |
पुत्रैर् मित्रैः सुसम्पन्नः प्रयात्य् अन्ते परां गतिम् || क्र. दी. ७.४६ ||
______________________________
प्रयोगं दर्शयति-
वह्नाव् अभ्यर्च्य गोविन्दं शुक्ल-पुष्पैः स-तण्डुलैः |
आज्याक्तैर् अयुतं हुत्वा भस्म तन्-मूर्ध्नि धारयेत् |
तस्यान्नादि-समृद्धिः स्यात् तद्-वशे सर्व-योषितः || क्र. दी. ७.४७ ||
यथोक्त-प्रकारेणाग्निम् आधाय तत्र यथोक्त-प्रकारेण गोविन्दं सम्पूज्य घृताक्तैस् तण्डुल-सहितैः शुक्ल-पुष्पैर् दश-सहस्राणि हुत्वा होमाग्नि-भस्म यः पुमान् मूर्धनि धारयेत् तस्य नाना-समृद्धिः सम्पत्तिर् भवति सर्वाश् च स्त्रियस् तद्-आयत्ता भवन्ति || क्र. दी. वि. ७.४७ ||
______________________________
प्रयोगान्तरम् आह-
आज्यैर् लक्षं हुनेद् रक्त-पद्मैर् वा मधुराप्लुतैः |
श्रिया तस्यैन्द्रम् ऐश्वर्यं तृणलेशायते ध्रुवम् || क्र. दी. ७.४८ ||
घृतैः केवलैः घृत-मधु-शर्करायुतैः रक्त-पद्मैर् वा यो लक्षं जुहोति तस्य साधकस्य श्रिया लक्ष्म्या कृत्वा इन्द्र-सम्बन्धि ऐश्वर्यं तृण-समानं भवति ध्रुवम् उत्प्रेक्षायाम् || क्र. दी. वि. ७.४८ ||
______________________________
प्रयोगान्तरम् आह-
शुक्लादि-वस्त्र-लाभाय शुक्लादि-कुसुमैर् हुनेत् | त्रिमध्वक्तैर् दश-शतम् आज्याक्तैर् वाष्ट-संयुतम् || क्र. दी. ७.४९ ||
शुक्लादि-वस्त्र-प्राप्त्य्-अर्थं घृत-मधु-शर्करा-सहितैः शुक्ल-पुष्पैः घृआक्तैर् वा अष्टधिक-दश-शतं जुहुयात् || क्र. दी. वि. ७.४९ ||
______________________________
प्रयोगान्तरम् आह-
क्षौद्र-सिक्तैः सितैः पुष्पैर् अष्टोत्तर-सहस्रकम् |
हुनेन् नित्यं स षड्-मासान् पुरोधा नृपतेर् भवेत् || क्र. दी. ७.५० ||
मधु-मिश्रितैः शुक्ल-पुष्पैर् अष्टाधिक-सहस्रं प्रत्यहं यो जुहुयात् स षट्के अतीते राज्ञः पुरोहितो भवति || क्र. दी. वि. ७.५० ||
______________________________
दशाष्टादश-वर्णोक्तं जप-ध्यान-हुतादिकम् |
विदध्यात् कर्म चानेन ताभ्याम् अप्य् अत्र कीर्तितम् || क्र. दी. ७.५१ ||
दशाष्टादशाक्षरयोर् उक्तं जप-ध्यान-होमादिकम् अनेन मन्त्रेण कुर्यात् | अत्र मन्त्रे कथितं प्रयोगादिकं ताभ्यां च कुर्यात् || क्र. दी. वि. ७.५१ ||
______________________________
मन्त्रान्तरम् आह-
श्री-शक्ति-स्मर-कृष्णाय गोविन्दाय शिरो मनुः |
रव्य्-अर्णो ब्रह्म-गायत्री-कृष्ण-र्ष्य्-आदिर् अथास्य तु || क्र. दी. ७.५२ ||
श्री-बीजं शक्ति-बीजं स्मरः काम-बीजं कृष्णाय गोविन्दायेति स्वरूपं शिरः स्वाहेति स्वरूपं रव्यार्णो मन्त्रः ऋषिर् आदौ येषां ते ऋष्य्-आदयो ब्रह्म-गायत्री-कृष्णा ऋष्य्-आदय इत्य् अर्थः | अस्य ब्रह्मा ऋषिः गायत्री-च्छन्दः कृष्णो देवता इत्य् अर्थः | बीज-शक्त्यादि-पूर्ववत् || क्र. दी. वि. ७.५२ ||
______________________________
बीजैस् त्रिवेद-युग्मार्णैर् अङ्ग-षट्कम् इहोदितम् |
विंशत्य्-अर्णोदित-जप-ध्यान-होमार्चन-क्रियाः |
मन्त्रो ऽयं सकलैश्वर्य-काङ्क्षिभिः सेव्यताम्बुधैः || क्र. दी. ७.५३ ||
इह मन्त्रे अङ्ग-षट्कं षड्-अङ्गं कथितं कैस् त्रिभिर् बीजैर् अङ्ग-त्रयं तथा त्रिवेद-युग्मार्णैः त्रिभिश् चतुर्भिर् द्वाभ्यां चापराङ्ग-त्रयम् इति | विंशेति | अयं मन्त्रः विंशत्य्-अक्षर-मन्त्रोक्त-जप-ध्यान-होम-पूजा-सहितः सकलैश्वर्य-कामैः पण्डितैर् उपास्यताम् || क्र. दी. वि. ७.५३ ||
______________________________
मन्त्रान्तरम् आह-
श्री-शक्ति-काम-पूर्वो ऽङ्गजन्म-शक्ति-रमान्तकः |
दशाक्षरः सरावादौ स्याच् चेच् छक्ति-रमा-युतः |
मन्त्रौ विकृतिर् अव्यर्णावाचक्राद्य्-अङ्गिनाव् इमौ || क्र. दी. ७.५४ ||
श्री-बीजं भुवनेश्वरी-बीजं काम-बीजं च | एते पूर्वे यस्य दशाक्षरस्य तथाङ्ग-जन्म काम-बीजं शक्तिर् भुवनेश्वरी-बीजं रमा-श्री-बीजम्-एते अन्ते यस्य दशाक्षरस्य | एवं भूताद्य्-अन्त-विशिष्टो दशाक्षरो षोडशाक्षर-मन्तोर् भवति तथा स एव दशाक्षरो मन्त्रः आदौ शक्ति-रमा-युतः भुवनेश्वरी-श्री-बीज-सहितश् चेत् तदा द्वादशाक्षर-मन्त्रो भवति | एवं च सति इमौ विकृतिर् अव्यार्णौ षोडशाक्षर-द्वादशाक्षरौ मन्त्रौ आचक्राद्य्-अङ्गिनौ दशाक्षरोक्तानि आचक्राद्य्-अङ्गानि ययोस् तादृशौ ज्ञेयौ || क्र. दी. वि. ७.५४ ||
______________________________
विंशत्य्-अर्णोक्त-यजन-विधौ ध्यायेद् अथाच्युतम् |
वरदाभय-हस्ताभ्यां श्लिष्यन्तं स्वाङ्कगे प्रिये |
पद्मोत्पल-करे ताभ्यां श्लिष्टं चक्र-दरोज्ज्वलम् || क्र. दी. ७.५५ ||
विंशत्य्-अक्षर-कथित-पूजा-प्रकाराव् एतौ अथानन्तरम् अच्युतं चिन्तयेत् | कीदृशं ? स्वाङ्कगे स्व-क्रोड-स्थिते प्रिये लक्ष्मी-सरस्वत्यौ | यद् वा, रुक्मिणी-सत्यभामे श्लिष्यन्तम् आलिङ्गन्तम् | काभ्याम् ? वरदाभय-हस्ताभ्यां वरं ददातीति वरदः | न विद्यते भयं यस्मात् स वरदाभयौ च तौ हस्तौ चेति वरदाभय-हस्तौ ताभ्याम् इत्य् अर्थः | प्रिये कीदृशे ? पद्मं सामान्य-पङ्कजम् उत्पलं नील-पद्मं ते करयोर् ययोस् ते तादृग्-विधे | पुनः कीदृशं ? ताभ्यां प्रियाभ्यां श्लिष्टम् आलिङ्गितम् | पुनः कीदृशं ? शङ्ख-चक्राभ्याम् उज्ज्वलम् || क्र. दी. वि. ७.५५ ||
______________________________
पुरश्चरण-जपादिकम् आह-
दश-लक्षं जपेद् आज्यैस् तावत्-सहस्र-होमतः |
सिद्धाव् इमौ मनू सर्व-सम्पत्-सौभाग्यदौ नृणाम् || क्र. दी. ७.५६ ||
दश-लक्ष-सङ्ख्यं जपेद् आज्यैर् घृतैस् तावत्-सहस्र-होमतो दश-सहस्र-होमतः सिद्धौ इमौ मन्त्रौ मनुष्याणां सर्वैश्वर्य-सर्व-जन-प्रिय-प्रदौ भवतः || क्र. दी. वि. ७.५६ ||
______________________________
इदानीं क्रमेण मन्त्रम् उद्धरति-
मार-शक्ति-रमा-पूर्वः शक्ति-श्री-मार-पूर्वकः |
श्री-शक्ति-मार-पूर्वश् च दशार्णो मनवस् त्रयः || क्र. दी. ७.५७ ||
अन्नाद्यः काम-भुवनेश्वरी-श्री-बीज-पूर्वा दशाक्षरः भुवनेश्वरी श्रीर् मारः पूर्वो यस्येति द्वितीयः श्री- भुवनेश्वरी-काम-बीज-पूर्वो दशाक्षर इति तृतीयः ||
______________________________
एतेषां मनु-वर्याणाम् अङ्ग-र्ष्यादि-दशार्णवत् |
शङ्ख-चक्र-धनुर्-बाण-पाशाङ्कुश-धरो ऽरुणः |
वेणुं धमन् धृतं दोर्भ्यां कृष्णो ध्येयो दिवाकरे || क्र. दी. ७.५८ ||
आद्ये मनौ ध्यानम् एवं द्वितीये विंशद्-अर्णवत् |
दशार्णवत् तृतीये ऽङ्ग-दिक्-पालाद्यैः समर्चना || क्र. दी. ७.५९ ||
पञ्च-लक्षं जपेत् तावद् अयुतं पायसैर् हुनेत् |
ततः सिध्यन्ति मनवो नृणां सम्पत्ति-कान्ति-दाः || क्र. दी. ७.६० ||
एतेषाम् इत्य् आदि सुगमम् | दिवाकरे सूर्य-मण्डले || क्र. दी. वि. ७.५८-६० ||
______________________________
स्पष्टं मन्त्रान्तरम् उद्धरति-
अष्टादशार्णो भारान्तो मनुः सुत-धन-प्रदः |
ऋष्य्-आद्य्-अष्टादशार्णोक्तं मारारूढ-स्वरैः क्रमात् |
अङ्गान्य् अस्य मनोर् अङ्ग दिक्पालाद्यैः समर्चना || क्र. दी. ७.६१ ||
काम-बीजान्तः पूर्वोक्ताष्टादशाक्षर-मन्त्रः सुत-धन-प्रदः मारारूढैर् नपुंसक-रहित-काम-बीज-सहितैः दीर्घ-स्वर-षट्कैः क्रां क्रीम् इत्य् आदि षट्कैः क्रमाद् अस्य मनोः षड्-अङ्गानि || क्र. दी. वि. ७.६१ ||
______________________________
ध्यानम् आह-
पाणौ पायस-पक्वम् आहित-रसं बिभ्रन् मुदा दक्षिणे
सव्ये शारद-चन्द्र-मण्डल-निभं हैयङ्गवीनं दधत् |
कण्ठे कल्पित-पुण्डरीक-नखरम् उमत्य् उद्दाम-दीप्तिं वहन्
देवो दिव्य-दिगम्बरो दिशतु वः सौख्यं यशोदा-शिशुः || क्र. दी. ७.६२ ||
पाणौ पायस-पक्वं सुपक्वं पायसं सुस्वाद्व् इत्य् अर्थः | अत्युद्दाम-दीप्तिम् अत्युद्भट-कान्ति | दिव्य इति दिव्यश् चासौ दिगम्बरश् चेति समासः | दिव्य-देव-स्वरूप इति || क्र. दी. वि. ७.६२ ||
______________________________
दिनशो ऽभ्यर्च्य गोविन्दं द्वात्रिंशल्-लक्षमानतः |
जप्त्वा दशांशं जुहुयात् सिताज्येन पयो ऽन्धसा || क्र. दी. ७.६३ ||
सिताज्येन पयो ऽन्धसाशर्करा-घृत-सहितेन परमान्नेन || क्र. दी. वि. ७.६३ ||
______________________________
पद्मस्थं देवम् अभ्यर्च्य तर्पयेत् तन्-मुखाम्बुजे |
क्षीरेण कदली-पक्वैर् दध्ना हैयङ्गवेन च || क्र. दी. ७.६४ ||
सुतार्थी तर्पयेद् एवं वत्सराल् लभते सुतम् |
यद् यद् इच्छति तत् सर्वं तर्पणाद् एव सिद्ध्यति || क्र. दी. ७.६५ ||
क्षीरेणेत्य् आदिना तर्पणं यद् उक्तं तज्-जलेनैव क्षीरादि-द्रव्य-बुद्ध्या कार्यम् || क्र. दी. वि. ७.६४-६५ ||
______________________________
मन्त्रान्तरम् उद्धरति-
वाग्-भवं मार-बीजं च कृष्णाय भुवनेश्वरी |
गोविन्दाय रमा गोपीजनवल्लभ-ङे-शिरः || क्र. दी. ७.६६ ||
वाग्-भवम् ऐम् इति बीजं मार-बीजं क्लीं कृष्णायेति स्वरूपं भुवनेश्वरी-बीजं ह्रीं गोविन्दायेति स्वरूपं रमा-श्री-बीजं गोपी-जन-वल्लभ इति स्वरूपं ङे चतुर्थ्य्-एक-वचनं शिरः स्वाहा शुक्लः श-कारश् चतुर्दश-स्वरूपेणोपेत औ-कार-सहितः शुक्र इति पाठे दन्त्य-स-कारः सं शुक्रात्मने नम इति | न्यास-विधानात् सर्गी विसर्ग-सहितः | तद्-ऊर्ध्वत इति तस्य ऊर्ध्वं तस्य एकविंशत्य्-अक्षरस्य ऊर्ध्वतः प्रथम-बीजम् एतद् इति रुद्रधरः || क्र. दी. वि. ७.६६ ||
______________________________
चतुर्दशस्व् अरोपेतः शुक्लः सर्गी तद्-ऊर्ध्वतः |
द्वाविंशत्य्-अक्षरो मन्त्रो वाग्-ईशत्वस्य साधकः || क्र. दी. ७.६७ ||
वाग्-भवम् ऐम् इति बीजं मार-बीजं क्लीं कृष्णायेति स्वरूपं भुवनेश्वरी-बीजं ह्रीं गोविन्दायेति स्वरूपं रमा-बीजं गोपी-जन-वल्लभ इति स्वरूपं ङे चतुर्थ्य्-एक-वचनं शिरः स्वाहा शुक्लः श-कारश् चतुर्दश-स्वरेणोपेत औ-कार-सहितः शुक्र इति पाठे दन्त्य-स-कारः सं शुक्रात्मने नम इति | न्यास-विधानात् सर्गी विसर्ग-सहितः तद् ऊर्ध्वत इति तस्य ऊर्ध्वं तस्य एकविंशत्य्-अक्षरस्य ऊर्ध्वतः प्रथम-बीजम् एतद् इति रुद्रधरः |
तद्-ऊर्ध्वतः-स्वाहा-कारोर्ध्वतः इति लघु-दीपिकाकारः | अनेन बीजेन सह द्वाविंशत्य्-अक्षरो मन्त्रो भवति | कीदृशो ऽयम् ? वचनेश्वरत्व-दाता || क्र. दी. वि. ७.६६-६७ ||
______________________________
अष्टादशार्णवत् सर्वं अङ्ग-र्ष्य्-आदिकम् अस्य तु |
पूजा च विंशत्य्-अर्णोक्ता प्रतिपत्तिस् तु कथ्यते || क्र. दी. ७.६८ ||
अस्य ऋषि-च्छन्दोधिष्टातृ-देवता-बीज-शक्त्य्-अङ्गानि सर्वाणि अष्टादशार्णवत् यथाष्टादशाक्षर-मन्त्रे तथात्रापीत्य् अर्थः | पूजा पुनः विंशत्य्-अक्षर-कथिता बोद्धव्या प्रतिपत्तिर् ध्यानं कथ्यते पुनः || क्र. दी. वि. ७.६८ ||
______________________________
वामोर्ध्व-हस्ते दधतं विद्या-सर्वस्व-पुस्तकम् |
अक्षमालां च दक्षोर्ध्वे स्फाटिकीं मातृका-मयीम् || क्र. दी. ७.६९ ||
शब्द-ब्रह्म-मयं वेणुम् अधः-पाणि-द्वयेरितम् |
गायन्तं पीत-वसनं श्यामलं कोमल-च्छविम् || क्र. दी. ७.७० ||
बर्हि-वर्ह-कृतोत्तंसं सर्वज्ञं सर्व-वेदिभिः |
उपासितं मुनि-गणैर् उपतिष्ठेद् धरिं सदा || क्र. दी. ७.७१ ||
श्लोक-त्रयेणात्रादि-कुलकम् | हरिम् उपतिष्ठेत् ध्यायेत् | वामोर्ध्व-हस्ते विद्या-सर्वस्व-पुस्तकं वेदान्त-पुस्तकं धारयन्तं दक्षोर्ध्वे पञ्चाशत्-सङ्ख्य-मातृकाक्षर-समितां पञाशत्-स्फटिक-बद्धाम् अक्ष-मालां धारयन्तम् | पुनः कीदृशं ? अधः स्थित-कर-द्वयेन ईरितं वादितं शब्द-ब्रह्म-मयं शब्द-ब्रह्म-स्वरूपं वेणु-रन्ध्रं दधानम् | पुनः कीदृशं ? वेणुनैव गायन्तम् | पुनः कीदृशं ? पीत-वस्त्रे यस्य तं श्याम-वर्णं च | पुनः कीदृशं ? कोमला मनोहरा छविर् यस्य स तथा तम् | पुनः कीदृशं ? बर्ही मयूरस् तस्य बर्हं पिच्छं तेन कृत उत्तंसः शिरोभूषणं येन तम् | पुनः कीदृशं ? सर्व-साक्षिणं | पुनः कीदृशं ? सर्वदा उपासितं सेवितम् | कैः ? सर्व-वेदिभिः अतीतानागतज्ञैः मुनि-गणैः सनकादिभिः || क्र. दी. वि. ७.६९-७१ ||
______________________________
पुरश्चरणम् आह-
ध्यात्वैवं प्रमदा-वेश-विलासं भुवनेश्वरम् |
चतुर्लक्षं जपेन् मन्त्रम् इमं मन्त्री सुसंयतः || क्र. दी. ७.७२ ||
एवं पूर्वोक्तं भुवनेश्वरं श्री-कृष्णं प्रमदा स्त्री तस्या वेशः संस्थान-विशेषः | तस्य विलास आह्लादो यस्य तं प्रमदा-रूप-धारिणम् इत्य् अर्थः | यद् वा, स्त्री-रूप-धरं स्त्री-विलासं च ध्यात्वा इमं मन्त्रं लक्ष-चतुष्टयं जपेत् सुसंयतः सन् पूर्वोक्त-पुरश्चरणवान् || क्र. दी. वि. ७.७२ ||
______________________________
होमम् आह-
पलाश-पुष्पैः स्वाद्वक्तैश् चत्वारिंशत् सहस्रकम् |
जुह्यात् कर्मणानेन मनुः सिद्धो भवेद् ध्रुवम् || क्र. दी. ७.७३ ||
घृत-मधु-शर्करान्वितैः पलाश-पुष्पैश् चत्वारिंशत्-सहस्रकं जुहुयात् | अनेन विधिना अवश्यं मन्त्रः सिध्यति || क्र. दी. वि. ७.७३ ||
______________________________
फलं दर्शयति-
यो ऽस्मिन् निष्णात-धीर् मन्त्री वर्तते वक्त्र-गह्वरम् |
गद्य-पद्य-मयी वाणी तस्य गङ्गा-प्रवाहवत् || क्र. दी. ७.७४ ||
यो मन्त्री अस्मिन् मन्त्रे निष्णात-धीर् दत्त-मतिर् वर्तते तस्य साधकस्य वक्त्र-गह्वरात् मुख-मध्यतो गद्य-पद्य-मयी वाणी प्रवर्तते गङ्गा-प्रवाहवत् विशुद्धानवर-तत्त्वेन गङ्गा-प्रवाहेणोपमा || क्र. दी. वि. ७.७४ ||
______________________________
सर्व-वेदेषु शास्त्रेषु सङ्गीतेषु च पण्डितः |
संवित्तिं परमां लब्ध्वा चान्ते भूयात् परं पदम् || क्र. दी. ७.७५ ||
सर्वेषु ऋग्-वेदादिषु शास्त्रेषु वेदान्तेषु पण्डितो विवेक-बुद्धि-युक्तः सन् संवित्तिम् उत्कृष्ट-ज्ञानं प्राप्य अन्ते देहावसाने विष्णु-लोकं प्राप्नोति || क्र. दी. वि. ७.७५ ||
______________________________
मन्त्रान्तरम् आह-
तारं हृद् भगवान् ङे ऽन्तो नन्द-पुत्र-पदं तथा |
अनन्दान्ते वपुषे ऽस्थ्य्-अग्निम् आयान्ते दश-वर्णकः || क्र. दी. ७.७६ ||
अष्टाविंशत्य् अक्षरो ऽयं ब्रुवे द्वात्रिंशद्-अक्षरम् |
नन्द-पुत्र-पद ङे ऽन्तं श्यामलाङ्गं पदं तथा |
ङे ऽन्ता बाल-वपुः कृष्ण-गोविन्दा दश-वर्णकः || क्र. दी. ७.७७ ||
तारं प्रणवः हृत् नमः ङे ऽन्तश् चतुर्थ्य्-अन्तो भगवान् भगवत इति स्वरूपं नन्द-पुत्रं तथा ङे ऽन्तं चतुर्थ्य्-अन्तं नन्द-पुत्रायेति पदान्ते आनन्द इति शब्द-शेषे वपुषे इति स्वरूपम् | अस्थि श-कारः अग्नी रेफः माया दीर्घ-ई-कारः तथा च श्री-बीजम् अस्यान्ते दशार्णकः दशाक्षर-मन्त्रः एतेनायं मन्त्रः अष्टाविंशत्य्-अक्षरो भवति |
अधुना द्वात्रिंश-मन्त्रम् उद्धरति-नन्देति | नन्द-पुत्र-पदं चतुर्थ्य्-अन्तं श्यामलाङ्गं पदम् अपि चतुर्थ्य्-अन्तं बाल-वपुः कृष्ण-गोविन्द-शब्दाश् च प्रत्येकं चतुर्थ्य्-अन्ताः | अनन्तरं पूर्वोक्त-दशाक्षर-मन्त्रः | एतेन द्वात्रिंशद्-अक्षरो मन्त्रो भवति || क्र. दी. वि. ७.७६-७७ ||
विमर्शः-ॐ नमो भगवते नन्द-पुत्राय आनन्द-वपुषे श्रीं गोपी-जन-वल्लभाय स्वाहा || क्र. दी. वि. ७.७६ ||
नन्द-पुत्राय श्यामलाङ्गाय बाल-वपुषे कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा || क्र. दी. वि. ७.७७ ||
______________________________
ऋष्य्-आदिकं दर्शयति |
अनयोर् नारद ऋषिः छन्दस् त्रिष्टुब्-अनुष्टुभौ |
आचक्राद्यैर् अङ्गम् अङ्ग-दिक्-पालाद्यैश् च पूजनम् || क्र. दी. ७.७८ ||
अनयोर् नारद ऋषिः | यथा-क्रमं त्रिष्टुब्-अनुष्टुप्-छन्दसी आचक्राद्यैः पूर्वोक्तैर् अङ्ग-पञ्चकम् अङ्ग-दिक्-पाल-वज्राद्यैर् आवरण-पूजनं पीठ-पूजा तु पूर्ववत् || क्र. दी. वि. ७.७८ ||
______________________________
ध्यानं दर्शयति-
दक्षिणे रत्न-चषकं वामे सौवर्ण-वेत्रकम् |
करे दधानं देवीभ्याम् आश्लिष्टं चिन्तयेद् धरिम् || क्र. दी. ७.७९ ||
हरिं चिन्तयेत् | कीदृशं ? दक्षिण-हस्ते रत्न-पात्रं वाम-हस्ते सुवर्ण-घटित-वेत्रं दधानम् | पुनः कीदृशं ? देवीभ्यां लक्ष्मी-सरस्वतीभ्यां रुक्मिणी-सत्यभामाभ्यां वा आलिङ्गितम् || क्र. दी. वि. ७.७९ ||
______________________________
जपेल् लक्षं मनु-वरौ पायसैर् अयुतं हुनेत् |
एवं सिद्ध-मनुर् मन्त्री त्रैलोक्यैश्वर्य-भाग् भवेत् || क्र. दी. ७.८० ||
मन्त्र-श्रेष्ठौ प्रत्येकं लक्षं जपेत् | अनन्तरं परमान्नेन दश-सहस्रं जुहुयात् अनेन सिद्धौ मन्त्रो यस्य मन्त्री लोक-त्रयिश्वर्य-भाजनं भवति || क्र. दी. वि. ७.८० ||
______________________________
मन्त्रान्तरम् आह-
तार-श्री-शक्ति-बीजाढ्यं नमो भगवते पदम् |
नन्द-पुत्र-पद-ङे ऽन्तं भूधरो मुख-वृत्त-युक् |
मासान्ते वपुषे मन्त्र ऊनविंशति-वर्णकः || क्र. दी. ७.८१ ||
तारं प्रणवः श्री-बीजं भुवनेश्वरी-बीजम् एतद्-बीज-त्रयाढ्य नमो भगवते इति स्वरूपं ततश् चतुर्थ्य्-अन्त-नन्द-पुत्र-पदं भूधरो ब-कारः मुख-वृत्तम् आ-कारः तद्-युक्तः मांसो ल-कारस् तद्-अन्ते वपुषे इति स्वरूपम् एतेन ऊनविंशति-वर्णको मन्त्र उद्धृतो भवति || क्र. दी. वि. ७.८१ ||
मन्त्रोद्धारः: ॐ श्रीं ह्रीं नमो भगवते नन्द-पुत्राय बाल-वपुषे ||
______________________________
ऋषिर् ब्रह्मानुष्टुप्-छन्दस् तथान्यद् उदितं समम् |
अयं च सर्व-सम्पत्ति-सिद्धये सेव्यताम्बुधैः || क्र. दी. ७.८२ ||
अस्य मन्त्रस्य ब्रह्मा ऋषिश् छन्दो ऽनुष्टुब् अन्यद् उदितम् | अन्यत् सर्वं समानं पूर्वोक्तवद् वेदितव्यम् इत्य् अर्थः || क्र. दी. वि. ७.८२ ||
______________________________
मन्त्रम् उद्धरति-
तारं हृत् भगवान् ङे ऽन्तो रुक्मिणी-वल्लभस् तथा |
शिरो ऽन्तः षोडशार्णो ऽयं रुक्मिणी-वल्लभाह्वयः || क्र. दी. ७.८३ ||
तारः प्रणवः हृन् नमः चतुर्थ्य्-अन्तो भगवान् तथा चतुर्थ्य्-अन्तो रुक्मिणी-वल्लभ-शब्दः शिरो ऽन्तः स्वाहा-शब्दान्तः एतेन रुक्मिणी-वल्लभाख्यः षोडशाक्षरो मन्त्रः कथितः || क्र. दी. वि. ७.८३ ||
विमर्शः : ॐ नमो भगवते रुक्मिणी-वल्लभाय स्वाहा ||
______________________________
सर्व-सम्पत्-प्रदो मन्त्रो नारदो ऽस्य मुनिः स्मृतः |
छन्दो ऽनुष्टिप् देवता च रुक्मिणी-वल्लभो हरिः |
एक-दृग्-वेद-मुनि-दृग्-वर्णैर् अस्याङ्ग-पञ्चकम् || क्र. दी. ७.८४ ||
अस्य ऋषिर् नारदः अनुष्टुप्-छन्दः रुक्मिणी-वल्लभो हरिर् देवतेति | एकेति | अस्य मन्त्रस्य पञ्चाङ्गानि भवन्ति | कैः ? मन्त्रस्य एक-द्वि-चतुः-सप्त-द्वि-वर्णैः || क्र. दी. वि. ७.८४ ||
______________________________
ध्यानम् आह-
तापिच्छ-च्छवि-रङ्ग-गाम् प्रियतमां सर्वण-प्रभाम् अम्बुज-
प्रोद्यद्-वाम-भुजां स्व-वाम-भुजयाश्लिष्यन् सचिन्ताश्मना |
श्लिष्यन्तीं स्वयम् अन्य-हस्त-विलसत्-सौवर्ण-वेत्रश् चिरं
पायाद् वो ऽसन-प्रसून-पीत-वसनो नाना-विभूषो हरिः || क्र. दी. ७.८५ ||
तापिच्छ-च्छविस् तमाल-कान्तिर् हरिर् वो युष्मान् पायात् रक्षतु | किं कुर्वन् ? अङ्कस्थां गौराङ्गीं प्रियतमां चिन्तामणि-रत्न-सहितेन हस्तेन आलिङ्गन् | आत्मानं देवं वा दक्षिण-करेण आश्लिष्यन्तीम् आल्लिङ्गन्तीम् | कीदृशो हरिः ? आलिङ्गनान्य-हस्ते काञ्चन-दण्डो यस्य | तथा पुनः कीदृशः ? असन-वृक्ष-पुष्पवत् पीते वस्त्रे यस्य सः | पुनः कीदृशः ? नाना-प्रकारो ऽलङ्कारो यस्य || क्र. दी. वि. ७.८५ ||
______________________________
पुरश्चरणम् आह-
ध्यात्वैवं रुक्मिणी-नाथं जप्याल् लक्षम् इमं मनुम् |
अयुतं जुहुयात् पद्मैर् अरुणैर् मधुराप्लुतैः || क्र. दी. ७.८६ ||
एवं पूर्वोक्तं रुक्मिणी-वल्लभं रुक्मिणी-नाथं ध्यात्वा इमं मन्त्रं लक्षम् एकं जपतु | घृत-मधु-शर्करासिक्तैः लोहित-पद्मैर् अपि दश-सहस्रं जुहुयात् || क्र. दी. वि. ७.८६ ||
______________________________
पूजां दर्शयति-
अर्चयेन् नित्यम् अङ्गैस् तं नारदाद्यैर् दिशाधिपैः |
वज्राद्यैर् अपि धर्मार्थ-काम-मोक्षाप्तये नरः || क्र. दी. ७.८७ ||
पीठ-पूजा पूर्ववत् | आवरण-पूजा तु कथ्यते-प्रत्यहं तं हरिं पूजयेत् | कैर् अङ्गैर् आचक्राद्यैः सायाह्न-पूजोक्तैः नारद-प्रभृतिभिश् च दिशाधिपैर् इन्द्राद्यैः तेषाम् आयुधैर् वज्राद्यैः | कीदृशं ? पुरुषार्थ-चतुष्टय-प्रदम् || क्र. दी. वि. ७.८७ ||
______________________________
मन्त्रान्तरम् उद्धरति-
लीला-दण्डावधौ गोपी-जन-संसक्त-दोः पदम् |
दण्डान्ते बाल-रूपेति मेघ-श्याम-पदं ततः || क्र. दी. ७.८८ ||
भगवान् विष्णुर् इत्य् उक्त्वा वह्नि-जायान्तको मनुः |
एकोनत्रिंशद्-अर्णो ऽस्य मुनिर् नारद ईरितः || क्र. दी. ७.८९ ||
छन्दो ऽनुष्टुप् देवता च लीला-दण्ड-धरो हरिः |
मन्व्-अब्धि-करणाग्न्य्-अब्धि-वर्णैर् अङ्ग-क्रिया मता || क्र. दी. ७.९० ||
लीला-दण्डावधौ लीला-दण्ड-शब्दान्ते गोपी-जन-संसक्त-दोः पदम् अनन्तरं दण्ड-शब्दान्ते बाल-रूपेति पदं तद् अनु मेघ-श्यामेति पदं ततः शब्दो ऽपि काकाक्षिवत् सम्बध्यते | तद् अनु भगवान् विष्णुः सम्बोधनान्तम् उक्त्वा स्वाहा-शब्दान्ते एकोनत्रिंशद्-अक्षरो मन्त्र उद्ध्रियताम् इत्य् अर्थः | अस्य मन्त्रस्य नारद ऋषिर् अनुष्टुप् छन्दो लीला-दण्डो हरिर् देवतेति | मन्व्-अब्धीति | अस्य मन्त्रस्याङ्ग-क्रिया मनुश् चतुर्दशः अब्धिश् चतुष्टयं करणं पञ्च अग्निस् त्रयश् चत्वारो ऽब्धिर् एतत्-सङ्ख्याकैर् मन्त्र-वर्णैर् मता संमता पञ्चाङ्गानीत्य् अर्थः || क्र. दी. वि. ७.९० ||
मन्त्रोद्धारः : लीला-दण्ड-गोपी-जन-संसक्त-दोर्-दण्ड-बाल-रूप-मेघ-श्याम भगवन् विष्णो स्वाहा |
______________________________
ध्यानम् आह-
संमोहयन् निज-कवामकरस्थ-लीला-
दण्डेन गोप-युवतीः सुर-सुन्दरीश् च |
दिश्यान् निज-प्रियतमांसग-दक्ष-हस्तो
देवः श्रियं निहत-कंस उरुक्रमो वः || क्र. दी. ७.९१ ||
संमोहयन् निज-कवामकरस्थ-लीला-दण्डेन गोप-युवतीः सुर-सुन्दरीश् च दिश्यान् निज-प्रियतमांसग-दक्ष-हस्तो देवः श्रियं निहत-कंस उरुक्रमो वः || क्र. दी. वि. ७.९१ ||
______________________________
पुरश्चरणम् आह-
ध्यात्वैवं प्रजपेल् लक्षम् अयुतं तिल-तण्डुलैः |
त्रि-मध्व्-अक्तैर् हुनेद् अङ्ग-दिक्-पालाद्यैः समर्चयेत् || क्र. दी. ७.९२ ||
एवं पूर्वोक्तं कृष्णं ध्यात्वा लक्षम् एकं जपेत् | तद् अनु घृत-मधु-शर्करा-सहितैस् तिल-तण्डुलैर् दश-सहस्रं जुहुयात् | अङ्गेति | पीठ-पूजा पूर्ववद् आवरण-पूजा-पञ्चाङ्गैर् इन्द्राद्यैश् चेति || क्र. दी. वि. ७.९२ ||
______________________________
प्रात्याहिक-पूजा-फलम् आह-
लीला-दण्डं हरिं यो वै भजते नित्यम् आदरात् |
स पूज्यते सर्व-लोकैस् तं भजेद् इन्दिरा सदा || क्र. दी. ७.९३ ||
यो मनुष्यः प्रत्यहं लीला-दण्ड-धरं हरिं सेवते स सर्व-जनैः पूज्यते | तम् इन्दिरा लक्ष्मीः सर्वदा भजते || क्र. दी. वि. ७.९३ ||
______________________________
मन्त्रान्तरम् उद्धरति-
त्रयोदश-स्वर-युतैः शार्ङ्गी भेदः सकेशवः |
तथा मांस-युगं भाय शिरः सप्ताक्षरो मनुः || क्र. दी. ७.९४ ||
त्रयोदश-स्वर ॐकारस् तेन युतः शार्ङ्गी ग-कारः मेदो व-कारः | कीदृशः ? स केशवः अ-कार-सहितः | तथा मांस-युगं ल-कार-द्वयम् इति भाय शिरः स्वाहा | अनेन सप्ताक्षरो मन्त्र उक्तः || क्र. दी. वि. ७.९४ ||
मन्त्र-स्वरूपः : गो-वल्लभाय स्वाहा ||
______________________________
ऋष्य्-आदिकम् आह-
आचक्राद्यैर् अङ्ग-क्प्तिर् नारदो ऽस्य मुनिः स्मृतः |
छन्द उष्णिग्-देवता च गो-वल्लभ उदाहृतः || क्र. दी. ७.९५ ||
आचक्राद्यैः पञ्चाङ्ग-करणम् | अस्य मन्त्रस्य नारद ऋषिः | उष्णिक् छन्दः | गो-वल्लभः कृष्णो देवतेति || क्र. दी. वि. ७.९५ ||
______________________________
ध्यानम् आह-
ध्येयो ऽच्युतः स कपिला-गण-मध्य-संस्थः
ता आह्वयन् दधद् अदक्षिण-दोष्णि वेणुम् |
पाशं सयष्टिम् अपरत्र पयोदनीलः
पीताम्बरो ऽहि-रिपु-पिच्छ-कृतावतंसः || क्र. दी. ७.९६ ||
अच्युतः कृष्णो ध्येयः | कीदृशः ? कपिला-गणो गो-विशेष-समूहस् तस्याभ्यन्तर-वर्ती | किं कुर्वन् ? ताः कपिला आह्वयन् अभिमुखीकुर्वन् | पुनः कीदृशः ? अदक्षिण-दोष्णि वाम-हस्तेन स-रन्ध्रं वंशं वहन् | अपरत्र दक्षिण-हस्ते दण्ड-सहित-गो-बन्धन-रज्जुं दधत् | पुनः कीदृशः ? पयोद-नीलौ मेघ-श्यामः पीत-वसनः | पुनः कीदृशः ? अहि-रिपुर् मयूरः | तस्य पिच्छं शिखण्डः | तेन कृतो ऽवतंसः कर्णालङ्कारः शिरो-भूषणं वा येन स तथा || क्र. दी. वि. ७.९६ ||
______________________________
पुरश्चरणम् आह-
मुनि-लक्षं जपेद् एतद् धुनेत् सप्त-सहस्रकम् |
गो-क्षीर-रङ्ग-दिक्-पाल-मध्ये ऽर्च्ये गो-गणाष्टकम् || क्र. दी. ७.९७ ||
इमं मन्त्रं मुनि-लक्षं सप्त-लक्षं जपेत् | गो-दुग्धैः सप्त-सहस्रं जुहुयात् | अङ्ग-पूजानन्त्रं दिक्पाल-पूजायाः प्राक् गो-गणाष्टकं पूजनीयं गो-गणाष्टकं च प्रथमादि यथा स्यात् |
सुवर्ण-वर्णा कपिला द्वितीया गौर-पिङ्गला |
तृतीया गौर-पिङ्गाक्षी चतुर्थी गुड-पिङ्गला ||
पञ्चमी अभ्र-वर्णा स्याद् एताः स्युर् उत्तमा गवाम् |
चतुर्थी पिङ्गला षष्ठी सप्तमी खुर-पिङ्गला |
अष्टमी कपिला गोषु विज्ञेयः कपिला-गणः || इत्य् अनेनोक्तम् || क्र. दी. वि. ७.९७ ||
______________________________
प्रयोगान्तरम् आह-
अष्टोत्तर-सहस्रं यः पयोभिर् दिनशो हुनेत् |
पक्षात् स गो-गणैर् आढ्यो दशार्णेनैष वा विधिः || क्र. दी. ७.९८ ||
गो-दुग्धैः प्रतिदिनं यो ऽष्ताधिकं सहस्रं जुहुयात् स पञ्चदश-दिनाभ्यन्तरे गो-समूहेन सम्पन्नो भवति | एष विधि-प्रयोगो दशाक्षर-मन्त्रेण वा कार्य इत्य् अर्थः || क्र. दी. वि. ७.९८ ||
______________________________
मन्त्रान्तरम् आह-
स-लवो वासुदेवो हृत् ङे ऽन्तं च भगवत्-पदम् |
श्री-गोविन्द-पदं तद्वत् द्वादशार्णो ऽयम् ईरितः || क्र. दी. ७.९९ ||
लवो बिन्दुः | तत्-सहितो वासुदेवः ॐकारः अर्थात् प्रणवः | ॐ नमः चतुर्थ्य्-अन्तं भगवत्-पदं तथा श्री-गोविन्द-पदं चतुर्थ्य्-अन्तम् | एतेन द्वादशाक्षरो मन्त्र उद्धृतः || क्र. दी. वि. ७.९९ ||
मन्त्र-स्वरूपः : ॐ नमो भगवते श्री-गोविन्दाय ||
______________________________
ऋष्य्-आदिकम् आह-
मनुर् नारद-गायत्री-कृष्ण-र्ष्य्-आदिर् अथाङ्गकम् |
एकाक्षि-वेद-भूतार्णैः समस्तैर् अपि कल्पयेत् || क्र. दी. ७.१०० ||
क्वचिन् मुनिर् इति पाठो न युक्तः | असमन्वयात् पौनरुकुत्याच् च किन्तु मनुर् इत्य् एव पाठः | अयम् इति पाठो युक्त्यालभ्यत इति रुद्रधरः || क्र. दी. वि. ७.१०० ||
______________________________
ध्यानम् आह-
वन्दे कल्प-द्रु-मूलाश्रित-मणि-मय-सिंहासने सन्निविष्टं
नीलाभं पीत-वस्त्रं कर-कमल-लसच्-छङ्ख-वेत्रं मुरारिम् |
गोभिः स-प्रश्रवाभिर् वृतम् अमर-पति-प्रौढ-हस्त-स्थ-कुम्भ-
प्रच्योतत्-सौध-धारा-स्नपितम् अभिनवाम्भोज-पत्राभ-नेत्रम् || क्र. दी. ७.१०१ ||
मुरारिं वन्दे | कीदृशं ? कल्प-वृक्ष-मूलावस्थिते पद्म-राग-मणि-घटिते सिंहासने उपविष्टम् | पुनः कीदृशं ? नीलाभं श्यामं तथा पीत-वस्त्रं तथा हस्त-पद्मे शोभमानौ शङ्ख-वेत्रौ यस्य | तं तथा स-प्रश्रवाभिः क्षीर-स्तनाभिः गोभिर् वृतं वेष्टितम् | तथा अमर-पतेर् इन्द्रस्य प्रौढो बलिष्ठो यो हस्तस् तद्-अवस्थितो यः कुम्भः घटस् तस्मात् प्रस्रवद् अमृत-धाराभिः स्नपितं तथाभिनवं नूतनं यद् अम्भोजं पद्मं तस्य पत्रवद् आभा कान्तिर् नयनयोर् यस्य तम् || क्र. दी. वि. ७.१०१ ||
______________________________
पुरश्चरणम् आह-
ध्यात्वैवम् अच्युतं जप्त्वा रवि-लक्षं हुनेत् ततः |
दुग्धैर् द्वादश-साहस्रं दिनशो ऽमुं समर्चयेत् || क्र. दी. ७.१०२ ||
एवं पूर्वोक्तम् अच्युतं ध्यात्वा द्वादश-लक्षं जप्त्वा दुग्धैर् द्वादश-सहस्रं जुहुयात् | प्रत्यहं वा अमुं पूजयेत् || क्र. दी. वि. ७.१०२ ||
______________________________
आयतनादिषु पूजा-विशेषं दर्शयति-
गोष्ठे प्रतिष्ठितं चात्म-गेहे वा प्रतिमादिषु |
समस्त-परिवारार्चास् ताः पुनर् विष्णु-पार्षदाः || क्र. दी. ७.१०३ ||
द्वाराग्रे बलि-पीठे ऽर्च्याः पक्षीन्द्रश् च तद्-अग्रतः |
चण्ड-प्रचण्डौ प्राग् धातृ-विधातारौ च दक्षिणे || क्र. दी. ७.१०४ ||
जयः स-विजयः पश्चाद् बलः प्रबल उत्तरे |
ऊर्ध्वं द्वार-श्रियं चेष्ट्वा द्वास्थेशान् युग्मशो ऽर्चयेत् || क्र. दी. ७.१०५ ||
पूज्यो वास्तु-पुमांस् तत्र तत्र द्वाः-पीथ-मध्य-गः |
द्वारान्तः-पार्श्वयोर् अर्च्या गङ्गा च यमुना निधी || क्र. दी. ७.१०६ ||
कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रेशम् अर्चयेत् |
अर्चयेद् वास्तु-पुरुषं वेश्म-मध्ये समाहितः |
देवतार्चानुरोधेन नैरृत्यां वा विचक्षणः || क्र. दी. ७.१०७ ||
गोष्ठे गो-स्थाने प्रतिष्ठितं स्थापितं | तथा आत्म-गेहे सुवर्णादि-घटित- प्रतिमादिषु प्रतिष्ठितं विष्णुं पूजयेद् इति पूर्वेणान्वयः | ताः पूर्वोक्ता एव समस्त-परिवार-पूजाः कार्याः | तथा वक्ष्यमाणाश् च विष्णु-पार्षदाः पूर्वादि-चतुर्द्वाराग्र-भागे बलि-दान-पीठे द्विशः पूज्या अत्र त्रिपाठिनः |
द्वादशाक्षर-गोविन्द-मन्त्रस्य पूजा-प्रसङ्गेन पूर्वोक्त-दीक्षा-पूजायां तथाइकाल-पूजाय्स्व् अपि पूर्वादि-चतुर्-द्वार-पूजा विशेषतः कर्तव्यत्वेन ज्ञातव्या समस्त-परिवारायाच्युताय नमो नमः | विष्णु-पार्षदेभ्यो नमो नमः | अनेन मन्त्र-द्वयेन पूर्वादि-चतुर्द्वाराग्र-भागे बलि-दान-पीठे पूजयेद् इत्य् अर्थः | पक्षीन्द्रो गरुडः | तद्-अग्रतः बलि-दान-पीठाग्रतः पूज्यः |
विष्णु-पार्षदान् दर्शयति-प्राग् इति | चतुर्-अस्र-चतुर्-द्वारोर्ध्व-भागे द्वार-श्रियं पूजयित्वा चण्डादीन् द्वौ द्वौ कृत्वा पूजयेत् | अनुक्रमेण पूर्व-द्वारम् आरभ्य द्वार-बलि-पीठयोर् मध्ये वास्तु-पुरुषाय नम इति पूजयेत् | द्वारान्त इति चतुर्-द्वार-मध्योभय-फलके गङ्गा-यमुने पूज्ये, तथा शङ्ख-निधि-पद्म-निधी च पूज्यौ | तद् अनु मण्डपे प्रविश्याग्नेयादि-कोणेषु पुनर् वास्तु-पुरुषं संयतः सन् पूजयेत् || क्र. दी. वि. ७.१०३-१०७ ||
______________________________
अस्त्रम् उद्धरति-
तारं शार्ङ्ग-पदं ङे ऽन्तं स-पूर्वं च शरासनम् |
हुं फट् नतिर् इत्य् उक्त्वास्त्र-मुद्रयाग्रे स्थितो हरेः || क्र. दी. ७.१०८ ||
पुष्पाक्षतं क्षिपेद् दिक्षु समासीनासने ततः |
विधेयम् एतत् सर्वत्र स्थापितेषु विशेषतः || क्र. दी. ७.१०९ ||
तारं प्रणवः | शार्ङ्ग-पदं ङे ऽन्तं चतुर्थ्य्-अन्तं स-पूर्वं स-शरासन-शब्दं चतुर्थ्य्-अन्तं हुं फट् नमः इत्य् उक्त्वा पुष्पाक्षतं चतुर्-दिक्षु अस्त्र-मुद्रया छोटिकया निक्षिपेत् | कीदृशः ? हरेर् अग्रे स्थितः | ततः आसने स्वोचिते उपविशेत् | एतत् सर्वं सर्व-पूजादौ कर्तव्यं स्थापितेषु प्रतिमादिषु पुनर् विशेषतः कर्तव्यम् एव || क्र. दी. वि. ७.१०८-१०९ ||
______________________________
पीठ-पूजाम् आह-
आत्मार्चनान्तं कृत्वाथ गुरु-पङ्क्ति-पुरोक्तवत् |
श्री-गुरून् परमाद्यांश् च महास्मत्-सर्व-पूर्वकान् || क्र. दी. ७.११० ||
स्व-देहे पूर्वोक्त-स्वरूपेण पीठम् आरभ्य सम्पूज्य हृदि भगवन्तम् अभ्यर्च्य अनन्तरं बाह्य-पीठे पूर्ववत् पूर्वोक्त-दीक्षा-प्रकरण-कथितोत्तर-दिग्-विभागे इतिवद् गुरु-पङ्क्तिं पूजयेत् | गुरु-पङ्क्तिम् एवाह-श्री-गुरून् इति | श्री-शब्द-पूर्वान् गुरून् परम-गुरून् | प्रयोगश् च-श्री-गुरुभ्यो नमः | श्रीअ-परम-गुरुभ्यो नमः | श्री-महा-गुरुभ्यो नमः | श्री-अस्मद्-गुरुभ्यो नमः | सर्व-गुरुभ्यो नमः || क्र. दी. वि. ७.११० ||
______________________________
तत्-पादुकान् आरदादीन् पूर्व-सिद्धान् अनन्तरम् |
ततो भागवतांश् चेष्ट्वा विघ्नं दक्षिणतो ऽर्चयेत् || क्र. दी. ७.१११ ||
तत् पादुकाभ्यः नारदादिभ्यः पूर्व-सिद्धेभ्यः भागवतेभ्य इति लघु-दीपिका-कारः | श्री-गुरु-पादुकाभ्यो नमः | श्री-परम-गुरु-पादुका-आदि-गुरु-पादुका-महा-गुरु-पादुका-अस्मद्-गुरु-पादुका-सर्व-गुरु-पादुकाभ्यो नम इति त्रिपाठिनः | एवं गुरु-पङ्क्ति-पीठस्योत्तरे समभ्यर्च्य दक्षिणे गणेशं पूजयेत् || क्र. दी. वि. ७.१११ ||
______________________________
पूर्ववत् पीठम् अभ्यर्च्य श्री-गोविन्दम् अथार्चयेत् |
रुक्मिणीं सत्यभामां च पार्श्वयोर् इन्द्रम् अग्रतः || क्र. दी. ७.११२ ||
पृष्ठतः सुरभिं चेष्ट्वा केशरेष्व् अङ्ग-देवताः |
अर्च्या हृदादि-वर्मान्ता दिक्ष्व् अस्त्रं कोणकेषु च || क्र. दी. ७.११३ ||
पूर्वोक्त-प्रकारेणाधार-शक्त्यादि-पीठ-मन्त्रान्तं सम्पूज्य देवम् आवाह्य अघ्यादिभिर् उपचारैः पूजयेत् | आवरण-पूजाम् आह-रुक्मिणीम् इति | गोविन्द-दक्षिण-वामयोः पार्श्वयोः कर्णिकायां रुक्मिणी सत्यभामा च सम्पूज्या देवाग्रे च इन्द्रं सम्पूज्य देव-पृष्ठे तु सुरभिं पूर्वादि-चतुर्दिक्-कोणेषु केशरेषु हृद्-आदि-वर्मान्ता अङ्ग-देवताः पूज्याः | केशरेषु कोणेषु पुनर्-अस्त्रम् अङ्गं पूजयेत् || क्र. दी. वि. ७.११२-११३ ||
______________________________
कालिन्दी-रोहिणी-नाग्नजित्य्-आद्याः षट् च शक्तयः |
दलेषु पीठ-कोणेषु वह्न्य्-आद्य्-अर्च्याश् च किङ्किणीः || क्र. दी. ७.११४ ||
दामानि यष्टि-वेणुश् च पुरः श्रीवत्स-कौस्तुभौ |
अग्रतो वनमालां च दिक्ष्व् अष्टासु ततो ऽर्चयेत् || क्र. दी. ७.११५ ||
पाञ्चजन्यं गदां चक्रं वसुदेवं च देवकीम् |
नन्द-गोपं यशोदां च स-गो-गोपाल-गोपिकाः || क्र. दी. ७.११६ ||
कालिन्द्य्-आद्याः शक्तयो देव-पत्न्यः पत्रेषु पूज्याः | आदि-पदेन सुनन्दा-मित्रविन्दा-सुलक्ष्मणा-परिग्रहः आग्नेयादि-पीठ-कोणेषु किङ्किणि-दामादीन् पूजयेत् | तत्र श्री-कृष्ण-क्षुद्र-घण्टिकाम् अग्नि-कोणे | गो-रक्षणार्थं दामानि नैरृते गो-प्रेरणार्थं लकुटं वायौ वंशम् ईशान-कोणे देवस्याग्रे श्रीवत्स-कौस्तुभौ | श्रीवत्स-कौस्तुभाग्रतः वनमालां तद्-उपरि अष्ट- दिक्षु पाञ्चजन्यादय इति | पाञ्चजन्याय नमः स-गो-गोपाल-गोपिकाभ्यो नम इत्य् अन्ताः पूज्याः आदि-पदेन गदा-चक्र-वसुदेव-देवकीनन्द-यशोदा-परिग्रहः || क्र. दी. वि. ७.११४-११६ ||
______________________________
इन्द्राद्याः कुमुदाद्याश् च विश्वक्सेनं तथोत्तरे |
कुमुदः कुमुदाक्षश् च पुण्डरीको ऽथ वामनः |
शङ्कु-कर्णः सर्व-नेत्रः सुमुखः सुप्रतिष्ठितः || क्र. दी. ७.११७ ||
इन्द्राद्याः स्व-स्व-दिक्षु पूज्याः तद्-अस्त्राणि वज्रादीन्य् आदि-शब्द-ग्राह्याणि तथा कुमुदाद्याश् चाष्ट-गजाः तत्-उपरि स्व-स्व-दिक्षु पूज्याः तद्-बहिर्-देवतोत्तरे विष्वक्सेनं पूजयेत् || क्र. दी. वि. ७.११७ ||
______________________________
पूजा-फलम् आह-
एक-कालं द्विकालं वा त्रि-कालं चेति गोष्ठगम् |
श्री-गोविन्दं यजेन् नित्यं गोभ्यश् च यवस-प्रदः || क्र. दी. ७.११८ ||
दीर्घ-जीवी निरातङ्को धेनु-धान्य-धनादिभिः |
पुत्रैर् मित्रैर् इहाढो ऽन्ते प्रयाति परं पदम् || क्र. दी. ७.११९ ||
गोष्ठगं व्रज-गं कृष्णं प्रत्यहं एक-कालं द्विकालं त्रि-कालं पूजयेत् | गोभ्यश् च ग्रास-प्रदः सन्निहित-लोके चिरायुर् निर्भयो धेनु-धान्य-सुवर्णादिभिः पुत्र-मित्रादिभिश् च सम्पन्नो भवति देह-पातान्ते च विष्णु-लोकं च गच्छति || क्र. दी. वि. ७.११८-११९ ||
______________________________
मन्त्रान्तरम् आह-
ऊर्ध्वद्-अन्त-युतः शार्ङ्गी चक्री दक्षिण-कर्ण-युक् |
मांसं नाथाय नत्य्-अन्तो मूल-मन्त्रो ऽष्त-वर्णकः || क्र. दी. ७.१२० ||
ऊर्ध्वद्-अन्तः ॐकारः तेन सहितः शार्ङ्गी ग-कारः चक्री क-कारः दक्षिण-कर्ण-युक् उ-कार-सहितः मांसी ल-कारः नाथायेति स्वरूपं नत्य्-अन्तो नमः पदान्तः अयम् अष्टाक्षरो मूल-मन्त्र-संज्ञकः || क्र. दी. वि. ७.१२० ||
______________________________
ऋष्य्-आदिकम् आह-
ऋषिर् ब्रह्मा च गायत्री-च्छन्दः कृष्णस् तु देवता |
युग-वर्णैः समस्तेन प्रोक्तं स्याद् अङ्ग-पञ्चकम् || क्र. दी. ७.१२१ ||
अस्य मन्त्रस्य ब्रह्मा ऋषिः गायत्री-च्छन्दः श्री-कृष्णो देवता च शब्दो ऽनुक्त-समुच्चये तेन बीज-शक्त्य्-अधिष्ठातृ-देवता दशाक्षरवत् तथा अस्य मन्त्रस्य मन्त्रोत्थ-वर्णानां चतुर्भिर् युग्म-वर्णैश् चतुरङ्ग-समग्रेण च मन्त्रेणाङ्ग-पञ्चकं ज्ञेयम् || क्र. दी. वि. ७.१२१ ||
______________________________
ध्यानम् आह-
पञ्च-वर्षम् अतिदृप्तम् अङ्गणे
धावमानम् अलकाकुलेक्षणम् |
किङ्किणी-वलय-हार-नूपुरैर्
अञ्जितं स्मरत गोप-बालकम् || क्र. दी. ७.१२२ ||
गोप-शिशुं नमत | कीदृशं ? पञ्च-वर्ष-वयःस्थं तथा अतिबलिष्ठं तथा प्राङ्गणे धावमानं तथा चातिचञ्चलेक्षणं तथा किङ्किणी क्षुद्र-घण्टिका वलयः कङ्कणः हारो मुक्ताहारः नूपुरस् तुलाकोटिर् एतैर् अञ्जितं भूषितम् || क्र. दी. वि. ७.१२२ ||
______________________________
पुरश्चरणम् आह-
ध्यात्वैवं प्रजपेद् अष्ट-लक्षं तावत् सहस्रकम् |
जुहुयात् ब्रह्म-वृक्षोत्थ-समिद्भिः पायसेन वा || क्र. दी. ७.१२३ ||
एवं पूर्वोक्तं ध्यात्वा अष्ट-लक्षं मन्त्रं जपेत् | तद् अनु पलाश-वृक्ष-समिद्भिः परमान्नेन वाष्ट-सहस्रं जुहुयात् || क्र. दी. वि. ७.१२३ ||
______________________________
पूजा-प्रकारम् आह-
प्रासादे स्थापितं कृष्णम् अमुना नित्यशो ऽर्चयेत् |
द्वार-पूजादि पीठार्चनान्तं कृत्वोक्त-मार्गतः || क्र. दी. ७.१२४ ||
धवल-गृहे स्थापितं कृष्णम् अमुना वक्ष्यमाण-प्रकारेण प्रत्यहं पूजयेत् | द्वार-पूजाम् आरभ्य पीठ-पूजा-पर्यन्तं पूर्वोक्त-मन्त्र-वर्त्मना कुर्यात् || क्र. दी. वि. ७.१२४ ||
______________________________
मध्ये ऽर्च-पद् धरिं दिक्षु विदिक्ष्व् अङ्गानि च क्रमात् |
वासुदेवः सङ्कर्षणः प्रद्युम्नश् चानिरुद्धकः || क्र. दी. ७.१२५ ||
रुक्मिणी सत्यभामा च लक्ष्मणा जाम्बवत्य् अपि |
दिग्-विदिक्ष्व् अर्चयेद् एतान् इन्द्र-वज्रादिकान् बहिः || क्र. दी. ७.१२६ ||
पद्म-मध्ये हरिं पूजयेत् | पूर्वादि-दिक्-केशरेषु हृद्-आद्य्-अङ्ग-चतुष्टयम् | आग्नेयादि-विदिक्-केशरेषु अस्त्रम् अङ्गम् पूजयेत् | वासुदेव इति | पूर्वादि-दिक्-पत्रेषु वासुदेवादीन् पूजयेत् | आग्नेयादि-विदिक्-पत्रेषु रुक्मिण्य्-आद्याः पूजयेत् | तद्-बाह्ये स्व-स्व-दिक्षु इन्दादीन्, तद् अनु वज्रादीन् पूजयेद् इत्य् अर्थः || क्र. दी. वि. ७.१२६ ||
______________________________
फलम् आह-
यो ऽमुं मन्त्रं जपेन् नित्यं विधिनेत्य् अर्चयेद् धरिम् |
स सर्व-सम्पत्-सम्पूर्णो नित्यं शुद्धं पदं व्रजेत् || क्र. दी. ७.१२७ ||
यः पुमान् उक्त-विधिना हरिम् अर्चयेत् | अमुं मन्त्रं जपेत् स सर्वैश्वर्यं सम्पन्नः सन् नित्यम् अविनाशि शुद्धम् अविद्या तत्-कार्य-रहितं पदं ब्रह्माख्यं प्राप्नोति || क्र. दी. वि. ७.१२७ ||
______________________________
मन्त्रान्तरम् आह-
तार-श्री-शक्ति-मारान्ते श्री-कृष्णाय-पदं वदेत् |
श्री-गोविन्दाय तस्योर्ध्वं श्री-गोपी-जन इत्य् अपि |
वल्लभाय ततस् त्रिः श्री-सिद्धि-गोपालको मनुः || क्र. दी. ७.१२८ ||
तारः प्रणवः श्रीः श्री-बीजं शक्ति-बीजं काम-बीजान्ते श्री-कृष्णायेति स्वरूपं तद् अनु श्री-गोविन्दायेति स्वरूपं तद् अनु श्री-गोपी-जन-वल्लभायेति स्वरूपं श्री-बीज-त्रयम् इति सिद्धि-गोपालको मन्त्र उद्धृतः |
______________________________
ध्यानम् आह-
माधवी-मण्डपासीनौ गरुडेनाभिपालितौ || क्र. दी. ७.१२९ ||
दिव्य-क्रीडासु निरतौ राम-कृष्णौ स्मरन् जपेत् |
चक्री वसु-स्वर-युतः सर्ग्य् एकार्णो मनुर् मतः || क्र. दी. ७.१३० ||
राम-कृष्णौ स्मरन् जपेत् | कीदृशौ ? माधवी-लता-मण्डप-समुपस्थितौ तथा गरुडेन सेवितौ | एकाक्षरादि-गोपाल-मन्त्रान् दर्शयति-चक्रीति | क-कारो वसु-स्वरः अष्टम-स्वरः ऋ-कारस् तेन सहित इति लघु-दीपिका-कारः | मुनिस्वरः सप्त-स्वरस् तेन सहित इति रुद्र-धरः | सर्गी विसर्ग-सहितः इत्य् एकाक्षरो मन्त्रः || क्र. दी. वि. ७.१२९-१३० ||
______________________________
कृष्णेति द्व्य्-अक्षरः काम-पूर्वस् त्र्य्-अर्णः स एव तु |
स एव चतुर्-अर्णः स्यात् ङे ऽन्तो ऽन्यश् चतुर्-अक्षरः || क्र. दी. ७.१३१ ||
वक्ष्यते पञ्च-वर्णः स्यात् कृष्णाय नम इत्य् अपि |
कृष्णायेति स्मर-द्वन्द्व-मध्ये पञ्चाक्षरो ऽपरः || क्र. दी. ७.१३२ ||
कृष्णेति स्वरूपं द्व्य्-अक्षरो मन्त्रः | स एव द्व्य्-अक्षरः काम-बीज-पूर्वश् चेत् तदा त्र्य्-अक्षरो मन्त्रो भवति-स एव त्र्य्-अक्षरः चतुर्थी-विभक्त्य्-अन्तश् चेत् तदा चतुर्-अक्षरो मन्त्रः अन्यः कृष्णायेति स्वरूपं स्मर-द्वन्द्व-काम-बीज-द्वयस्य मध्ये यदा भवति तदा अपरः पञ्चाक्षरो मन्त्रो भवति || क्र. दी. वि. ७.१३१-१३२ ||
______________________________
गोपालायाग्नि-जायान्तः षड्-अक्षर उदाहृतः |
कृष्णाय-काम-बीजाढ्यो वह्निजायान्तको ऽपरः || क्र. दी. ७.१३३ ||
षडक्षरः प्राग्-उदितः कृष्ण-गोविन्दकौ पुनः |
चतुर्थ्य्-अन्तौ सप्त-वर्णः सप्त-वर्णो ऽन्यः पुरो ऽदितः || क्र. दी. ७.१३४ ||
गोपालायेति स्वरूपं वह्निजाया स्वाहेति पद-द्वयेन षड्-अक्षरः कथितः | काम-बीज-सहित-कृष्णायेति स्वाहेति पद-द्वयेन च षड्-अक्षरो मन्त्र उद्धृतस् तयापरः षड्-अक्षरः प्राग् एव कथितः स च क्लीं कृष्णाय नमः इति | कृष्ण-गोविन्दकौ शब्दौ यदि चतुर्थ्य्-अन्तौ भवतस् तदा सप्ताक्षरो मन्त्रो ऽपरः सप्ताक्षरः प्राग् उदितः स च गो-वल्लभाय स्वाहेति || क्र. दी. वि. ७.१३३-४ ||
______________________________
श्री-शक्ति-मारः कृष्णाय मारः सप्ताक्षरो ऽपरः |
कृष्ण-गोविन्दकौ ङे ऽन्तौ स्मराढ्याव् अष्ट-वर्णकः || क्र. दी. ७.१३५ ||
श्री-शक्ति-माराः श्री-भुवनेश्वरी-मार-बीजानि कृष्णायेति मारान्तो ऽपरः सप्ताक्षरो मन्त्रः कृष्ण-गोविन्द-शब्दौ ङे ऽन्तौ चतुर्थ्य्-अन्तौ | कीदृशौ ? काम-बीजाढ्यौ इति वसु-वर्णः अष्टाक्षरो मन्त्रः || क्र. दी. वि. ७.१३५ ||
______________________________
दधि-भक्षण-ङे-वह्नि-जायाभिर् अपरो ऽष्तकः |
सुप्रसन्नात्मने प्रोक्त्वा मम इत्य् अपरो ऽष्तकः || क्र. दी. ७.१३६ ||
चतुर्थ्य्-अन्तो दधि-भक्षण-शब्दः वह्निजाया स्वाहा एतैर् वर्णैर् अपरो ऽष्ताक्षरो मन्त्रः सुप्रसन्नात्मने स्वरूपम् उक्त्वा नम इति वदेत् इत्य् अपरो ऽष्ताक्षरो मन्त्रः || क्र. दी. वि. ७.१३६ ||
______________________________
प्राक् प्रोक्तो मूल-मन्त्रश् च नवार्णः स्मर-संयुतः |
कृष्ण-गोविन्दकौ ङे ऽन्तौ नमो ऽन्तो ऽन्यो नवार्णकः || क्र. दी. ७.१३७ ||
प्राग्-उक्तश् चाष्टाक्षरो मूल-मन्त्रः स्मर-संयुतः काम-बीज-युक्तः सन् नवाक्षरो भवति | स च क्लीं गोकुल-नाथाय नम इति | कृष्ण-गोविन्दकौ ङे ऽन्तौ चतुर्थ्य्-अन्तौ स्मर-संयुतौ यदि भवतस् तदा नवाक्षरो मन्त्रो भवति | यद्य् एताव् एव नमो ऽन्तकौ नमः शब्दान्तौ भवतस् तदा परो नवाक्षरो मन्त्रः || क्र. दी. वि. ७.१३७ ||
______________________________
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमस् तु स्याद् दशार्णकः |
शिरो ऽन्तो बाल-वपुषे क्लीं कृष्णाय स्मृतो बुधैः || क्र. दी. ७.१३८ ||
उक्तं छन्दस् तु गायत्री देवता कृष्ण ईडितः |
क-ला-षड्ग-दीर्घकैर् अङ्गम् अथामुं चिन्तयेद् धरिम् || क्र. दी. ७.१३९ ||
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नम इति दश-वर्णको मन्त्रः शिरो ऽन्तः स्वाहान्तः बाल-वपुषे इति पदं क्लीं कृष्णायेति एकादशाक्षरो मन्त्रः बुधैः स्मृतः | उक्तानाम् ऋष्य्-आदिकम् आह-एतेषाम् एकाक्षरम् आरभ्यैकादशाक्षर-पर्यन्तानां द्वाविंशति मन्त्राणाम् ऋषिर् नारदः गायत्री-छन्दः श्री-कृष्णो देवता | अङ्गान्य् आह-कलेति | क-कार-ल-काराभ्यां षड्-दीर्घकैर् नपुंसक-रहित-षड्-दीर्घ-स्वरैः क्लां क्लीं क्लूं क्लौं कलः एभिर् इत्य् अर्थः || क्र. दी. वि. ७.१३९ ||
______________________________
ध्यानम् आह-
अव्याद् व्याकोप-नीलाम्बुज-रुचिर् अरुणाम्भोज-नेत्राम्बुजस्थो |
बालो जङ्घा-कटीर-स्थल-कलित-रणत्-किङ्किणीको मुकुन्दः |
दोर्भ्यां हैयङ्गवीणं दधद् अतिविमलं पायसं विश्व-वन्द्यो
गो-गोपी-गोप-वीतो रुरुनख-विलसत्-कण्ठ-भूषश् चिरं वः || क्र. दी. ७.१४० ||
अव्याद् व्याकोप-नीलाम्बुज-रुचिर् अरुणाम्भोज-नेत्राम्बुजस्थो बालो जङ्घा-कटीर-स्थल-कलित-रणत्-किङ्किणीको मुकुन्दः दोर्भ्यां हैयङ्गवीणं दधद् अतिविमलं पायसं विश्व-वन्द्यो गो-गोपी-गोप-वीतो रुरुनख-विलसत्-कण्ठ-भूषश् चिरं वः || क्र. दी. वि. ७.१४० ||
______________________________
एतेषां पुरश्चरणम् आह-
ध्यात्वैवम् एकम् एतेषां लक्षं जप्यान् मनुं ततः |
सर्पिः-सितोपलोपेतैः पायसैर् अयुतं हुनेत् || क्र. दी. ७.१४१ ||
यथोक्तं ध्यानं कृत्वा एतेषां मध्ये एकं मन्त्रं लक्षं जपेत् | तद् अनु घृत-खण्ड-सार-युक्तैः परमान्नैर् दश-सहस्रं जुहुयात् || क्र. दी. वि. ७.१४१ ||
______________________________
तर्पयेत् तावद् अन्येषां मनूनां हुत-सङ्ख्यया |
तर्पणं विहितं नित्यं यो ऽर्चयेत् सुसमाहितः || क्र. दी. ७.१४२ ||
वह्न्य्-आदी-शान्तम् अङ्गानि हृद्-आदि-कवचान्तकम् |
अर्चयेत् पुरतो नेत्रम् अस्त्रं दिक्षु वह्निः पुनः || क्र. दी. ७.१४३ ||
इन्द्रवज्रादयः पूज्याः सपर्यैषा समीरिता |
इत्य् एकम् एषां मन्त्राणां भजेद् यो मनु-वित्तमः || क्र. दी. ७.१४४ ||
कर-प्रचेयाः सर्वार्थात् तस्यासौ पूज्यते ऽमरैः |
सद्यः फल-प्रदं मन्त्रं वक्ष्ये ऽन्यं चतुर्-अक्षरम् || क्र. दी. ७.१४५ ||
स प्रोक्तः मार-युग्मान्तर-स्थ-कृष्ण-पदेन तु |
ऋष्य्-आद्यम् अङ्ग-षट्कं च प्राग्-उक्तं प्रोक्तम् अस्य तु || क्र. दी. ७.१४६ ||
तद् अनु तावद् दश-सहस्रं तर्पयेत् | एवं प्रकारेणैकस्मिन् मन्त्रे सिद्धे जाते तद् अन्येषां सकृत् पुरश्चरणानाम् एकविंशति मन्त्राणां जप-होम-सङ्ख्यया विनैव हुतायुतेन तर्पणम् एव पुरश्चरणं विहितं करणीयम् | एतेषां मन्त्राणां होम-सङ्ख्यया अयुतेनैव तर्पणं विहितम् |
पूजाम् आह-नित्यम् इति | नित्यं सर्वदा सुसमाहितः संयतः सन् पूजयेत् | वह्न्य्-आदी-शान्तम् आग्नेय-कोणम् आरभ्य ईशान-कोण-पर्यन्त-हृद्-आदि-कवच-पर्यन्तम् अङ्ग-चतुष्टयं पूजयेत् पुरतो ऽग्रे नेत्रम् अस्त्रं पूजयेत् |
पूर्वादि-चतुर्दिक्षु इन्द्रादीन् पूजयेत् | तद् अनु-वज्रादीन् इति उपसंहरति | एषां मन्त्राणां सपर्या पूजा कथिता |
फलम् आह-इत्य् एकम् इति | अमुना प्रकारेण यः साधकोत्तम एषां मन्त्राणां मध्ये एकं मन्त्रं भजेत् उपासीत तस्य सर्वे पुरुषार्था हस्त-प्राप्याः देवैश् चासौ पूज्यते |
मन्त्रान्तरम् आह-सद्य इति | तात्कालिक-फल-दायकम् अपरं चतुरक्षर-मन्त्रं वक्ष्ये स-चतुर्-अक्षरः काम-बीज-द्वय-मध्यस्थेन कृष्ण-पदेन कथितः |
ऋष्य्-आदिकम् अस्य ऋषिश् छन्दो दैवतम् अङ्ग-षट्कं च प्राग् उक्तं पूर्व-मन्त्र-समुहे कथितं बोद्धव्यम् || क्र. दी. वि. ७.१४२-१४६ ||
______________________________
ध्यानम् आह-
श्रीमत्-कल्प-द्रु-मूलोद्गत-कमल-लसत्-कर्णिका-संस्थितो यस्
तच्-चाख्यालम्बि-पद्मोदर-विगलद्-असङ्ख्यात-रत्नाभिषिक्तः |
हेमाभः स्व-प्रभाभिस् त्रि-भुवनम् अखिलं भासयन् वासुदेवः
पायाद् वः पायसादो ऽनवरत-नवनीतामृताशी वशी सः || क्र. दी. ७.१४७ ||
वासुदेवो वो युष्मान् पायात् | कीदृशः ? यः श्री-युक्त-कल्प-वृक्ष-मूलोद्गत-पद्मे शोभमाना या कर्णिका तत्रोपविष्टः | तथा कल्प-द्रुम-शाखालम्बि यत् पद्मं तस्योदरं ततो विगलन्ति प्रसरन्ति यानि असङ्ख्यातानि रत्नानि तैर् अभिषिक्तः | तथा सुवर्ण-गौरः तथाव-कान्तिभिः समस्तं त्रैलोक्यं भासयन् क्षीरान्नाशी तथा स्व-कान्तिभिः समस्तं त्रैलोक्यं भासयन् क्षीरान्नाशी तथा अनवरतम् अनुवेलं नूतनं नवनीतम् एवामृतं तद् अश्नातीति || क्र. दी. वि. ७.१४७ ||
______________________________
पुरश्चरणम् आह-
ध्यत्वैवं प्रजपेल् लक्षं चतुष्कं जुहुयात् ततः |
त्रिमध्वक्तेर् बिल्व-फलैश् चत्वारिंशत्-सहस्रकम् || क्र. दी. ७.१४८ ||
यथोक्तं ध्यानं कृत्वा लक्ष-चतुष्टयं जपेत् | तद् अनु घृत-मधु-शर्करायुतैर् बिल्व-फलैश् चत्वारिंशत्-सहस्रं जुहुयात् || क्र. दी. वि. ७.१४८ ||
______________________________
पूजाम् आह-
अङ्गैर् निधिभिर् इन्द्राद्यैर् वज्राद्यैर् अर्चनोदिता |
तर्पयेद् दिनशः कृष्णं स्वादु-त्रय-धिया जलैः || क्र. दी. ७.१४९ ||
षड्-अङ्गैर् निधिभिर् इन्द्राद्य्-अष्ट-निधिभिर् इन्द्राद्यैर् वज्राद्यैश् चानीलार्चना पूजा कथिता | तर्पणम् आह--तर्पयेद् इति | प्रतिदिनं स्वादु-त्रय-धिया घृत-मधु-शर्करा-बुद्ध्या जलैः कृष्णं पूजयेत् || क्र. दी. वि. ७.१४९ ||
______________________________
मन्त्रान्तरम् आह-
मारयोर् अस्य मांसाधोर् रक्तं चेद् अपरो मनुः |
षड्-अङ्गान्यस्य कल-षट्-दीर्घैर् मन्त्र-शिखामणेः || क्र. दी. ७.१५० ||
अस्य पूर्वोक्त-चतुरक्षर-मन्त्रस्य मारयोर् आद्य्-अन्त-काम-बीजयोर् मांसाधो ल-कारस्याधस्तात् चेद् यदि रक्तं रेफो भवति तदापरश् चतुरक्षरः क्लीं कृष्ण क्लीम् इति मन्त्रः | अस्य मन्त्र-शिखामणे मन्त्र-शिरो रत्नस्य कल-षट्-दीर्घ कला षड्-अङ्गानि कुर्याद् इति शेषः || क्र. दी. वि. ७.१५० ||
मन्त्र-स्वरूपम्: क्लीं क्लूं क्लें क्ल्ॐ क्लौं क्लः ||
______________________________
ध्यानम् आह-
आरक्तोद्यान-कल्प-द्रुम-शिखर-लसत्-स्वर्ण-दोलाधिरूढं
गोपाभ्यां प्रेङ्ख्यमानं विकसित-नव-बन्धूक-सिन्दूर-भासम् |
बालं नीलाल-कान्तं कटि-तट-विलुठत् क्षुद्र-घण्टावटाढ्यं
वन्दे शार्दूल-कामाङ्कुश-ललित-गला-कल्प-दीप्तं मुकुन्दम् || क्र. दी. ७.१५१ ||
मुकुन्दम् वन्दे | कीदृशं ? आरक्तम् अरुणं यद् उद्यानं तत्र यः कल्प-वृक्षस् तस्य शिखरम् अग्रं तत्र लसन्ती या शोभमाना सुवर्ण-मयी दोला तत्रोपविष्टं तथा गोपाङ्गनाभ्यां प्रेङ्ख्यमानं दोलायमानं विकसितं प्रफुल्लं नवीनं यद् बन्धु-जीव-पुष्पं सिन्दूरं तयोर् इव भावं यस्य तं तथा बालं शिशुं तथा कृष्ण-केशं तथा कटि-तटे इतस् ततो गच्छन्ती या क्षुद्र-घण्टिका घण्टा-क्षुद्र-घण्टिका समूहस् तेन सम्बद्धं तथा शार्दूलस्य व्याघ्रस्य कामाङ्कुशेन शोभमानं यत् कण्ठाभरणं तेन शोभमानम् || क्र. दी. वि. ७.१५१ ||
______________________________
एवं-
ध्यत्वैवं पूर्व-क्प्त्यैनं जप्त्वा रक्तोत्पलैर् नवैः |
मधुत्त्रय-प्लुतैर् हुत्वाप्य् अर्चयेत् पूर्ववद् धरिम् || क्र. दी. ७.१५२ ||
पूर्वोक्तं मुकुन्दं ध्यात्वा एनं मन्त्रं पूर्वोक्त-सङ्ख्यम् एव जप्त्वा रक्त-पद्मैर् नूतनैर् घृत-मधु-शर्करायुतैः पूर्वोक्त-सङ्ख्यम् एव हुत्वा पूर्वोक्त-प्रकारेण हरिं पूजयेत् || क्र. दी. वि. ७.१५२ ||
______________________________
आराद् उक्तं मन्त्रयोः प्रयोगं दर्शयति-
मधुर-त्रय-संयुक्तामारक्तां शालि-मञ्जरीम् |
जुहुयान् नित्यशो ऽष्टार्धं शतम् एकेन मन्त्रयोः || क्र. दी. ७.१५३ ||
तस्य मण्डलतः पृथ्वी पृथ्वी-सस्य-कुलाकुला |
स्याच् छालि-पुञ्ज-पूर्णं च तद्-वेश्माशु प्रजायते || क्र. दी. ७.१५४ ||
घृत-मधु-शर्करामिश्रितां लोहितां हैमन्तिक-धान्य-मञ्जरीम् अष्टोत्तर-शतमतयोर् मन्त्रयोर् मध्ये एकेन मन्त्रेण प्रत्येकं प्रत्यहं यो जुहुयात् तस्य पुंसः मण्डलतः एकोन-पञ्चाशद्-दिनाद् अर्वाक् षड्-विंशति-दिनाद् इति लघु-दीपिका-कारः | पञ्च-चत्वारिंशद्-दिनानन्तरम् इति रुद्रधरः | महती पृथिवी धान्यादि-समूह-व्याप्ता भवति तथा तद्-गृहं शालि-धान्य-समूह-व्याप्तं शीघ्रं भवति || क्र. दी. वि. ७.१५३-१५४ ||
______________________________
फलम् आह-
यस् त्व् एतयोर् नियतम् अन्यतरं भजेत
भव्नोर् जपार्चन-हुताद्रिभिर् आप्त-भक्तिः |
श्रीमान् स मन्मथ इव प्रमदासु वाग्मी
भूयात् तनोर् विपदि तच् च महोच्युताख्यम् || क्र. दी. ७.१५५ ||
यः पुमान् एतयोर् एकं नियतं नियतो भजेत साधयेत् | कैः ? जप-पूजा-होमादिभिः | कीदृशः ? प्राप्त-भक्तिः स लक्ष्मी-युक्तः स्त्रीषु कामदेववत् उत्कृष्ट-वचन-भाग् भवति | तनोर् विपदि शरीर-पातानन्तरं विष्णु-लोकं च गच्छति || क्र. दी. वि. ७.१५५ ||
______________________________
इति श्री-केशव-भट्टाचार्य-विरचितायां क्रम-दीपिकायां सप्तमः पटलः |
||७||
**************************************************************************
(८)
अष्टमं पटलम्
अथान्तरं वश्यकरः प्रयोगः कथ्यते-
अथोच्यते वश्य-विधिः पुरोक्त-
दशार्णतो ऽष्टादश-वर्णतश् च |
स्मृत्यैव यौ सर्व-जगत् प्रियत्वं
मनू मनुज्ञस्य सदा विधत्तः || क्र. दी. ८.१ ||
पूर्वोक्त-दशाक्षरस्याष्टदशाक्षरस्य च यौ मन्त्रौ स्मरण-मात्रेण साधकस्य सर्व-जन-वल्लभत्वं सर्वदा कुरुतः || क्र. दी. वि. ८.१ ||
______________________________
फुल्लैर् वन्य-पसूनैर् अमुम् अरुणतरैर् अर्चयित्वा दिनादौ
नित्यं नित्य-क्रियायां रतमथदिनमध्योक्त-क्प्त्या मुकुन्दम् |
अष्टोपेतं सहस्रं दश-लिपिम् अनुवर्य जपेद् यः स मन्त्री
कुर्याद् वश्यान्य् अवश्यं मुखर-मुख-भुवां मण्डलान् मण्डलानि || क्र. दी. ८.२ ||
पुष्पितैः वनोद्भव-पुष्पैर् अतिलोहितम् अमुं मुकुन्दं नित्यं सर्वदा नित्य-कर्मानुष्ठान-निष्ठं दिनादौ प्रति प्रत्यहः मध्याह्नोक्त-पूजा-प्रकारेण पूजयित्वा यो मन्त्री दशाक्षरं मन्त्र-श्रेष्ठम् अष्टाधिकं सहस्रं जपेत् | मण्डलाद् एव पञ्चाशद्-दिनाद् अर्वाक् मुखर-मुख-भुवां विद्वद्-ब्राह्मणानां मण्डलानि समूहान् अवश्यं वश्यानि कुर्याद् वशयतीत्य् अर्थः || क्र. दी. वि. ८.२ ||
______________________________
क्षत्रिय-वैश्य-शूद्रस्यापि प्रयोग-त्रयं दर्शयति-
जाती-प्रसूनैर् वर-गोप-वेषं
क्रीडा-रतं रक्त-हयारि-पुष्पैः |
नीलोत्पलैर् गीति-रतं पुरोवद्
इष्ट्वा नृपादीन् वशयेत् क्रमेण || क्र. दी. ८.३ ||
वर-गोप-वेषं श्रेष्ठ-गोप-रूप-धरं श्री-कृष्णं विचिन्त्य जाती-पुष्पैः पूर्वोक्त-प्रकारेण पूजयित्वा दशाक्षर-मन्त्रम् अष्टोत्तर-सहस्रं जप्त्वा क्षत्रियं वशयेत् क्रीडासक्तं ध्यात्वा रक्त-करवीर-पुष्पैः पूर्वोक्त-प्रकारेण पूजयित्वा दशाक्षर-मन्त्रम् अष्टोत्तरं सहस्रं जप्त्वा वैश्यं वशयेत् गीति-रतं गीतासक्तं ध्यात्वा नीलोत्पलैः पूर्वोक्त-प्रकारेण पूजयित्वा दशाक्षर-मन्त्रम् अष्टोत्तर-सहस्रं जप्त्वा शूद्रं वशयेत् इत्य् अनेन प्रकारेण नृपादीन् वशयेद् इत्य् अर्थः || क्र. दी. वि. ८.३ ||
______________________________
प्रयोगान्तरम् आह-
सित-कुसुम-समेतैस् तण्डुलैर् आज्य-सिक्तैर्
दश-शतम् अथ हुत्वा नित्यशः सप्त-रात्रम् |
कच-भुवि च ललाटे भस्म तद् धारयन्ना
वशयति मनुजस् त्रीं सापि नॄंस् तद्वद् एव || क्र. दी. ८.४ ||
श्वेत-पुष्प-सहितैः श्वेत-तण्डुलैर् घृत-मिश्रित-दशाक्षर-मन्त्रेण दश-शतं हुत्वा नित्यशः सप्त-दिन-पर्यन्तं तद् अनु तद् धोम भस्म कच भुवि शिरसि ललाटे च धारयन् ना पुरुषः मनुज-स्त्रीं मनुष्य-नारीम् इति रुद्र-धरः | तरुणीं स्त्रियं वशयतीति त्रिपाठितः | सापि स्त्री अनेन प्रयोगेण नॄन् वशयेद् इत्य् अर्थः || क्र. दी. वि. ८.४ ||
______________________________
प्रयोगान्तरम् आह-
ताम्बूल-वस्त्र-कुसुमाञ्जन-चन्दनाद्यं
जप्तं सहस्र-त्रयम् अन्यतरेण मन्वोः |
यस्मै ददाति मनु-वित् सजनो ऽस्य मङ्क्षु
स्यात् किङ्करा न खलु तत्र विचारणीयम् || क्र. दी. ८.५ ||
ताम्बूलं वस्त्रं पुष्पं कज्जलं चन्दनं च एतद् यद् अन्यद् वस्तु मन्वोर् दशाष्टादशाक्षरयोर् अन्यतरेणैकेन सहस्र-त्रयं संजप्तं यस्मै जनाय ददाति साधकः स नरो ऽस्य साधकस्य मङ्क्षु शीघ्रं वश्यो भवति | नात्र संशय इत्य् अर्थः || क्र. दी. वि. ८.५ ||
______________________________
प्रयोगान्तरम् आह-
राज-द्वारे व्यवहारे सभाया
द्यूते वादे चाष्ट-युक्तं शतं च |
जप्त्वा वाचं प्रथमाम् ईरयेद् यो
वर्तेतासौ तत्र तत्रोपविष्टान् || क्र. दी. ८.६ ||
राज-समीपे क्रय-विक्रये सदसि अक्ष-क्रीडादौ वादे च यो मन्वोर् एकम् अष्टोत्तर-शतं जप्त्वा प्रथमत एव यां वाचं वदति तयैव वाचा तत्र वादादौ उपविष्टान् असौ वर्तेत तज्-जयी भवतीत्य् अर्थः || क्र. दी. वि. ८.६ ||
______________________________
प्रयोगान्तरम् आह-
आसीनं मुरमथनं कदम्ब-मूले
गायन्तं मधुरतरं व्रजाङ्गनाभिः |
स्मृत्वाग्नौ मधु-मिलितैर् मयूरकेध्मैर्
हुत्वासौ वशयति मन्त्रवित् त्रिलोकीम् || क्र. दी. ८.७ ||
कदम्ब-मूले उपविष्टं मुरमथनं कृष्णं गोपीभिर् मधुरतरं गायन्तं ध्यात्वा वह्नौ मधु-स्नुतैर् मयूर-केध्मैर् अपामार्ग-समिद्भिर् हुत्वा असौ साधको लोक-त्रयं वशयति || क्र. दी. वि. ८.७ ||
______________________________
प्रयोगान्तरम् आह-
रास-मध्य-गतम् अच्युतं स्मरन्
यो जपेद् दश-शतं दशाक्षरम् |
नित्यशो झटिति मासतो नरो
वाञ्छिताम् अभिवहेत् स कन्यकाम् || क्र. दी. ८.८ ||
यो नरः पूर्वोक्त-रास-मध्य-गतं कृष्णं ध्यायन् दशाक्षरं मन्त्रं प्रत्यहं दश-शतं जपेत् स मासैकेन शीघ्रम् एव वाञ्छितां कन्यां प्राप्नोति ||८||
-ओ)O(-
प्रयोगान्तरम् आह-
तुङ्ग-कुन्दम् अधिरूढम् अच्युतं
वा विचिन्त्य दिनशः सहस्रकम् |
साष्टकं जपति सा हि मण्डलाद्
वाञ्छितं वरम् उपैति कन्यका || क्र. दी. ८.९ ||
उच्च-कदम्ब-वृक्ष-स्थं विचिन्त्य प्रत्यहम् अष्टोत्तर-सहस्रं दशाक्षरं या कन्यका जपति सा हि निश्चयेन मण्डलाद् एकोन-पञ्चाशद् दिनाद् अर्वाक् वाञ्छित-वरं प्राप्नोति || क्र. दी. वि. ८.९ ||
______________________________
समान-फलं प्रयोगान्तरम् आह-
नृत्यन्तं व्रज-सुन्दरी-जन-कराम्भोजानि संगृह्य तं
ध्यात्वाष्टादश-वर्णकं मनु-वरं लक्षं जपन् मन्त्रवित् |
लाजानम् अथवा मधु-प्लुततरैर् हुत्वायुतं चूर्णकैर्
उद्धोढुं प्रजपेच् च तावद् अचिराद् आकाङ्क्षितां कन्यकाम् || क्र. दी. ८.१० ||
अचिरात् शीघ्रं वाञ्छितां कन्यां परिणेतुं मन्त्रवित् साधकः गोप-युवती-हस्त-पद्मानि संगृह्य धृत्वा नृत्यन्तं तं प्रसिद्धं श्री-कृष्णं ध्यात्वा लक्ष-मात्र-परिमितम् अष्टादशाक्षरं मन्त्र-श्रेष्ठं जपेत् | अथवा लाजानां चूर्णैर् मधु-द्रुततरैर् घृत-मधु-शर्करा-प्रचुरान्वितैः मधुना द्रवीभूतैर् इति रुद्रधरः | दश-सहस्रं हुत्वा तावद् एव संख्यं जपेद् इत्य् अर्थः || क्र. दी. वि. ८.१० ||
______________________________
प्रयोगान्तरम् आह-
अष्टादशाक्षरेण द्विज-तरुजैस् त्रिमध्वक्तैर् अयुतम् |
कुशैस् तिलैर् वा स-तण्डुलैर् वशयितुं द्विजान् जुहुयात् || क्र. दी. ८.११ ||
द्विजान् ब्राह्मणान् वशयितुम् अष्टादशाक्षर-मन्त्रेण द्विज-तरुजैः पलाश-वृक्ष-समुद्भवैः समिद्भिस् त्रि-मधुराक्तैः घृत-मधु-शर्करा-मिश्रितैर् अयुतं दश-सहस्रं जुहुयात् अथवा त्रि-मध्व्-अक्तैः कुशैस् तिलैः तण्डुलैर् वा जुहुयात् || क्र. दी. वि. ८.११ ||
______________________________
प्रयोगान्तरम् आह-
कृतमाल-भवैर् वशयेन् नृपतीन्
मुकुलैश् च कुरुण्टकजैश् च तथा |
विशाम् इक्षुर् अकैर् अपि पाटलजैर्
इतरान् अपि तद्वद् अथो वशयेत् || क्र. दी. ८.१२ ||
कृत-माल-भवैः राज-वृक्ष-समुद्भवैः मुकुलैः कलिकाभिः हुत्वा नृपतीन् क्षत्रियान् वशयेन् | कुरुण्टकजैश् च झिण्टी-समुद्भवैः मुकुलैर् हुत्वा वेश्याण् वशयेत् | इक्षु-रसैः इक्षुरकैर् इति पाठे कोकिलाक्षोमथीन् अथ इत्य् अर्थः | पाटल-समुद्भवैः मुकुलैर् वा हुत्वा इतरान् शूद्रान् वशयेत् | अनुक्त-सङ्ख्या होमस्य बोद्धव्या तस्या एव प्रकरणत्वाद् इति || क्र. दी. वि. ८.१२ ||
______________________________
प्रयोगान्तरम् आह-
अभिनवैः कमलैर् अरुणोत्पलैः
समधुरैर् अपि चम्पक-पाटलैः |
प्रतिहुनेद् अयुतं क्रमशो ऽचिराद्
वशयितुं मुखजादिवराङ्गनाः || क्र. दी. ८.१३ ||
शीघ्रं मुखजादि-वराङ्गना ब्राह्मणादि-स्त्रियो वशयितुं चतुर्भिर् द्रव्यैः समधुरैर् मधुर-त्रय-मिलितैः क्रमशः प्रत्येकं सार्ध-सहस्र-द्वयं कृत्वा दश-सहस्रं प्रतिहुनेत् जुहुयात् | द्रव्याण्य् आह-नूतनैः श्वेत-पद्मैः रक्तोत्पलैश् चम्पक-पुष्पैः पाटल-पुष्पैः || क्र. दी. वि. ८.१३ ||
______________________________
प्रयोगान्तरम् आह-
हयारि-कुसुमैर् नवैस् त्रिमधुराप्लुतैर् नित्यशः
सहस्रम् ऋषि-वासरं प्रतिहुनेन् निशीथे बुधः |
सुगर्वित-धियं हठात् झटिति वारयोषाम् असौ
करोति निज-किङ्करीं स्मर-शिली-मुखैर् अर्दिताम् || क्र. दी. ८.१४ ||
हयारि-कुसुमैः करवीर-कुसुमैः नूतनैः त्रि-मधुर-मिश्रितैः प्रत्यहं सहस्रं ऋषि-वासरं सप्त-वासरं बुधः साधको निशीथे रात्रौ प्रत्यहं प्रतिदिनं जुहुयात् असौ अहङ्कारवतीं वारयोषां वेश्याकाम-वाणैः पीडितां हठात् बलात् झटिति शीघ्रं निज-दासीं करोति || क्र. दी. वि. ८.१४ ||
______________________________
प्रयोगान्तरम् आह-
पटु-संयुतैस् त्रिमधुरार्द्रतरैर्
अपि सर्षपैर् दश-शतं त्रितयम् |
निशि जुह्वतो ऽस्य हि शची-दयितो ऽप्य्
अवशो वशी भवति किं न्व् अपरे || क्र. दी. ८.१५ ||
लवण-संयुतैः कटु-संयुतैर् इति पाठे कटुक-संयुतैर् इत्य् अर्थः | मधुरार्द्रतरैर् घृत-मधु-शर्करा-स्निग्धैः | अपिः समुच्चये सर्षपैर् दश-शतं त्रितयं त्रि-सहस्रं निशि रात्रौ जुह्वतः पुरुषस्य शची-दयितः इन्द्रो ऽपि अवशो वशी भवति किं पुनर् अन्ये || क्र. दी. वि. ८.१५ ||
______________________________
प्रयोगान्तरम् आह-
अथ बिल्वजैः फल-समित् प्रसवच्-
छदनैर् मधु-द्रुततरैर् हवनात् |
कमलैः सिताक्षत-युतैश् च पृथक्
कमलां चिराय वशयेद् अचिरात् || क्र. दी. ८.१६ ||
बिल्व-वृक्षोद्भवैः फल-समित्-पुष्प-पत्रैः श्वेत-पद्मैर् अत्यन्त-मधुराप्लुतैः सिताक्षत-युतैः शर्करा-तण्डुल-मिश्रितैः सिताज्य-सहितैर् इति पाठे सिताशर्करा आज्यं घृतं तत्-सहितैः पृथक् एकैकं वस्तु-त्रि-सहस्र-होमात् चिर-कालम् अचिरात् शीघ्रं कमलां लक्ष्मीं वशयेत् | अत्र सङ्ख्या-समनन्तरोक्ता || क्र. दी. वि. ८.१६ ||
______________________________
प्रयोगान्तरम् आह-
अपहृत्य गोप-वनिताम्बराण्यामा
हृदयैः कदम्बम् अधिरूढम् अच्युतम् |
प्रजपेत् स्मरन् निशि सहस्रम् आनयेद्
द्रुतम् उर्वशीम् अपि हठाद् दशाहतः || क्र. दी. ८.१७ ||
हृदयैः अमा सह हठात् गोप-युवती-वस्त्राण्य् अपहृत्य गृहीत्वा कदम्ब-वृक्षम् अधिरूढं कृष्णं स्मरन् निशि रात्रौ सहस्रं जपेत् स दशाहतो दश-दिवस-मध्ये हठान् मन्त्रस्य बलात् उर्वशीम् अपि देव-वेश्याम् अपि वशम् आनयेत् निज-निकटम् इति शेषः || क्र. दी. वि. ८.१७ ||
______________________________
मन्त्रयोर् माहात्म्यम् आह-
बहुना किम् अत्र कथितेन मन्त्रयोर्
अनयोः सदृक् न हि परो वशी कृतौ |
अभिकृष्टि-कर्मणि विदग्ध-योषितां
कुसुमायुधास्त्र-मय-वर्ष्मणोर् इह || क्र. दी. ८.१८ ||
अत्र ग्रन्थे बहुना कथितेन किं प्रयोजनम् ? अनयोर् दशाष्टादशाक्षरयोः सदृक् समः वशीकरणे इह जगति अपरो नास्ति | किम्भूतयोर् नगर-स्त्रीणाम् आकर्षण-कर्मणि कामास्त्र-शरीरयोः || क्र. दी. वि. ८.१८ ||
______________________________
मोक्ष-साधक-प्रयोगान्तरम् आह-
वन्दे कुन्देन्दु-गौरं तरुणम् अरुण-पाथोज-पत्राभ-नेत्रं
चक्रं शङ्खं गदाब्जे निज-भुज-परिघैर् आयतैर् आदधानम् |
दिव्यैर् भूषाङ्ग-रागैर् नव-नलिन-लसन्-मालया च प्रदीप्तं
प्रोद्यत्-पीताम्बराढ्यं मुनिभिर् अभिवृतं पद्म-संस्थं मुकुन्दम् || क्र. दी. ८.१९ ||
मुकुन्दं वन्दे | कुन्द-पुष्पं चन्द्रश् च तद्वत् शुक्लं तथा युवानं तथा रक्त-पद्म-सदृश-लोचनं तथा दीर्घैर् निज-बाहु-परिघैर् मुद्-गराकार-स्व-बाहुभिः शङ्खं चक्रं गदां पद्मं च धारयन्तं तथा देव-योग्यालङ्काराङ्ग-रागैः नवानि यानि पद्मानि तेषां लसन्ती देदीप्यमाना या माला तया च प्रदीप्तं तथा देदीप्यमान-हरिद्राभ-वस्त्र-युक्तं तथा नारदादिभिर् वेष्टितं तथा पङ्कजासीनम् || क्र. दी. वि. ८.१९ ||
______________________________
एवं ध्यात्वा पुमांसं स्फुट-हृदय-सरोजम् आसीनामाद्यं
सान्द्राभोज-च्छविं वा द्रुत-कनक-निभं वा जपेद् अर्क-लक्षम् |
मन्वोर् एकं द्वितारान्तरितमथहुनेद् अर्क-साहस्रम् इध्मैः
क्षीर-द्रुत्यैः पयोक्तैः स-मधु-घृत-सितेनाथवा पायसेन || क्र. दी. ८.२० ||
एवं-विधं पूर्वोक्तं मुकुन्दं ध्यात्वा प्रफुल्ल-हृदय-पद्मासनोपविष्टं तथा आद्यं प्रथमं स-जल-जलद-श्यामं सान्द्राभोज-च्छविम् इति पाठे मसृण-पद्म-कान्तिं वा ध्यात्वा दिव्तारान्तरगं प्रणव-द्वय-मध्य-गतं मन्वोर् दशाष्टादशाक्षरयोर् एकम् अर्क-लक्षं द्वादश-लक्षं जपेत् | अथ जपानन्तरम् अर्क-सहस्रं इध्मैः समिद्भिः क्षीर-द्रुत्यैर् अश्वत्थोदुम्बर-प्लक्ष-न्यग्रोधान्यतम-समुद्भवैः पयोक्तैः दुग्ध-प्लुतैः अथवा घृत-मधु-शर्करा-सहितेन परमान्नेन जुहुयात् || क्र. दी. वि. ८.२० ||
______________________________
ततो लोकाध्यक्षं धुर्व-चिति-सद्-आनन्द-वपुषं
निजे हृत्-पाथोजे भव-तिमिर-सम्भेद-मिहिरम् |
निजैक्येन ध्यायन् मनुम् अमल-चेताः प्रतिदिनं
त्रि-साहस्रं जप्यात् प्रयजतु सायाह्न-विधिना || क्र. दी. ८.२१ ||
ततस् तद्-अनन्तरं लोकाध्यक्षं लोक-स्वामिनम् | अविनाशि-ज्ञानं तत्-सुख-स्वरूप-शरीरं संसारान्धकार-विच्छेद-सूर्यम् अमुं कृष्णं निज-हृदय-पद्मे निजैक्येन स्वाभेदेन भावयन् अमल-चेताः निर्मलान्तःकरणः प्रतिदिनं त्रि-सहस्रं सहस्र-त्रयं जुहुयात् तथा पूर्वोक्त-सायाह्न-पूजा-प्रकारेण पूजयतु होमम् अपि करोतु || क्र. दी. वि. ८.२१ ||
______________________________
विधिं यो ऽमुं भक्त्या भजति नियतं सुस्थिर-मतिर्
भवाम्भोधिं भीमं विषम-विषय-ग्राह-निकरैः |
तरङ्गैर् उत्तुङ्गैर् जनि-मृति-समाख्याइः प्रविततं
समुत्तीर्यानन्तं व्रजति परमं धाम स हरेः || क्र. दी. ८.२२ ||
स स्थिर-मतिः पुमान् अमुं विधिं प्रकारं नियतं सततं भक्त्या भजति सेवते स भवाम्भोधिं संसार-सागरं समुत्तीर्य हरेः अनन्यं न विद्यते अन्यो यस्मात् सर्व-मयम् उत्कृष्टं धाम प्राप्नोति | कीदृशं ? अम्भोधिर् इव भयङ्करं कैर् विषमा दुर्निवारा ये विषयाः शब्दादयं अथवा स्रक्-चन्दन-वनिताद्याः त एव ग्राह-रूपा मकर-कच्छपाद्यास् तेषां निकरैः समूहैः | तथा जन्म-मरण-नाम-धेयैस् तरङ्गैर् उत्तुङ्गैर् महद्भिर् विस्तीर्णम् || क्र. दी. वि. ८.२२ ||
______________________________
गृणंस् तस्य नामानि शृण्वंस् तदीयाः
कथाः संस्मरंस् तस्य रूपाणि नित्यम् |
नमंस् तत्-पदाम्भोरुहं भक्ति-नम्रः
स पूज्यो बुधैर् नित्य-युक्तः स एव || क्र. दी. ८.२३ ||
स पुरुषः बुधैः प्राज्ञैः पूज्यः स एव च नित्य-युक्तो नित्य-योग-भाक् | किं कुर्वन् ? अस्य श्री-कृष्णस्य नामानि गृणन् वदन्, तदीयाः कथा आकल्पयन् | तस्य श्री-कृष्णस्य रूपाणि मूर्तीः सर्वदा ध्यायन् | तत्-पदाम्भोरुहं श्री-कृष्ण-पाद-पद्मं भक्ति-नम्रः सेवाऽवनतः अधिक-नम्रत्व-ख्यापनार्थं पौनरुक्त्यम् || क्र. दी. वि. ८.२३ ||
______________________________
इदानीं परम-मन्त्र-द्वयं कथयति-
वक्ष्ये मनु-द्वमथातिरहस्यम् अन्यत्
संक्षेपतो भुवन-मोहन-नाम-धेयम् |
ब्रह्मेन्द्र-वामनयनेन्दुभिर् आदिमान्यस्
तत्-पूर्वको वियदृषीक-युतेशङे-हृत् || क्र. दी. ८.२४ ||
अथानन्तरम् अन्यत् मन्त्र-द्वयम् अतिगोप्यं जगन्-मोहन-संज्ञकं स्वल्पोक्त्या वक्ष्ये | ब्रह्म क-कारः | इन्द्रो ल-कारः | वाम-नयनं दीर्घ-ई-कारः | इन्दुर् अनुस्वारः | एतैः संयुक्तः काम-बीज-रूपः प्रथमो मन्त्र उद्धृतः | तत्-पूर्वकः वियत् ह-कारः ऋषीक इति स्वरूपं ताभ्यां युक्त ईश-शब्दः हृषीकेश इति स्वरूपं ङे चतुर्थ्य्-एक-वचनं हृन् नमः | क्लीं हृषीकेशाय नमः इति द्वितीयो मन्त्रः | अत्रायं पुरुषोत्तम-मन्त्र इति भैरव-त्रिपाठिनः || क्र. दी. वि. ८.२४ ||
______________________________
ऋष्य्-आदिकम् आह-
मन्वोस् तु संमोहन-नारदो मुनिः
छन्दस् तु गायत्रम् उदीरितं बुधैः |
त्रैलोक्य-संमोहन-विष्णु-रेतयोः
स्याद् देवता वच्म्य् अधुना षड्-अङ्गकम् || क्र. दी. ८.२५ ||
अनयोर् मन्त्रयोः संमोहन-नारदो मुनिः | छन्दः पुनर् गायत्रम् | मन्त्रज्ञैः कथितं त्रैलोक्य-संमोहन-विष्णुर् देवतेति || क्र. दी. वि. ८.२५ ||
______________________________
अधुना षड्-अङ्गं वदामि-
अक्लीब्-अदीर्घैः स-लवैस् तद् अपि च कलासनारूढैः |
उक्तं पूर्ववद् आसन-विन्यासान्तं समाचरेद् अथ तु || क्र. दी. ८.२६ ||
ऋ-ॠ---वर्जित-षट्-दीर्घ-स्वरैः बिन्दु-सहितैः कलेत्य् अक्षर-द्वय-सम्बद्धैः क्लां क्लीं क्लूं क्लैं क्लौं क्लः एभिस् तत् षड्-अङ्गम् उक्तम् | अथानन्तरं पूर्ववद् दशाक्षर-कथित-पूजा-पर्यन्तं कार्यम् || क्र. दी. वि. ८.२६ ||
______________________________
करयोः शाखासु तले न्यस्य षड्-अङ्गानि चाङ्गुलीषु शरान् |
मनु-पुटित-मातृकार्णैर् न्यस्याङ्गे ऽङ्गानि विन्यसेच् च शरान् || क्र. दी. ८.२७ ||
करयोः शाखासु अङ्गुलीषु उभय-कर-तले च षड्-अङ्गानि विन्यस्य पुनर् अङ्गुलीषु च काम-बाणान् विन्यस्य आद्य्-अन्त-स्थित-मन्त्र-मातृकाक्षैर् मातृका-स्थानेषु विन्यस्य दीर्घ-युक्त-काम-बीजैः षड्-अङ्गानि स्व-शरीरे विन्यस्य बाण-न्यासं च कुर्यात् || क्र. दी. वि. ८.२७ ||
______________________________
बाण-न्यास-स्थानान्य् आह-
कास्य-हृदय-लिङ्गाङ्घ्रिषुकर-शाखाभिर् नमो ऽन्तकान् ङे ऽन्तान् |
शोषण-मोहन-सन्दीपन-तापन-मादनान् क्रमशः || क्र. दी. ८.२८ ||
शिरो-वदन-हृदय-लिङ्ग-पादेषु अङ्गुलीभिः अङ्गुष्ठादिक-निष्ठ-कान्ताभिः एकैकया अङ्गुल्या चतुर्थी नमः-पद-सहितान् वक्ष्यमाणान् पञ्च-बाणान् क्रमेण विन्यसेत् || क्र. दी. वि. ८.२८ ||
______________________________
बाण-नामान्य् आह-
पञ्चैते सम्प्रोक्ता ह्रां-ह्रीं-क्लीं-क्लूं स आदिका बाणाः |
संमोहनम् अथ जगतं ध्यायेत् पुरुषोत्तमं समाहित-धीः || क्र. दी. ८.२९ ||
ह्रां-ह्रीं-क्लीं-क्लूं स एतानि पञ्च-बीजानि एकैकानि आदौ येषां एवं एते पञ्च-बाणाः शोषणादयः प्रोक्ताः | प्रयोगस् तु-ह्रां शोषणाय नमः इत्य् अङ्गुष्ठेन शिरसि ह्रीं मोहनाय नमः इति तर्जन्या मुखे इत्य् आदि अथानन्तरम् | संयत-चित्तः त्रिभुवन-वश्य-करं पुरुषोत्तमं चिन्तयेत् || क्र. दी. वि. ८.२९ ||
______________________________
ध्यानम् आह-
दिव्य-तरूद्यानोद्यद्-रुचिर-महा-कल्प-पादपाधस्तात् |
मणि-मय-भूतल-विलसद्-भद्र-पयो-जन्म-पीठ-निष्ठस्य || क्र. दी. ८.३० ||
विश्व-प्राणस्योद्यत्-प्रद्योतन-सम-द्युतेः सुपर्णस्य |
आसीनम् उन्नतांसे विद्रुम-भद्राङ्गम् अङ्गजोन्मथितम् || क्र. दी. ८.३१ ||
चक्र-दराङ्कुश-पाशान् सुमनो-बाणेक्षु-चाप-कमल-गदाः |
दधतं स्वदोर्भिर् अरुणायत-विपुल-विघूर्णिताक्षि-युग-नलिनम् || क्र. दी. ८.३२ ||
मणिमय-किरीट-कुण्डल-हाराङ्गद-कङ्कणोर्भिर् असनाद्यैः |
अरुणैर् माल्य-विलेपैर् आदीप्तं पीत-वस्त्र-परिधानम् || क्र. दी. ८.३३ ||
निज-वामोरु-निषण्णां श्लिष्यन्तीं वाम-हस्त-घृत-नलिनाम् |
किल्द्यद्-योनिं कमलां मदन-मद-व्याकुलोज्ज्वलाङ्गलताम् || क्र. दी. ८.३४ ||
सुरुचिर-भूषण-माल्यानुलेपनांसु-सित-वसन-परिवीताम् |
निज-मुख-कमल-व्यापृत-चटुलासित-नयन-मधुकरां तरुणीम् || क्र. दी. ८.३५ ||
श्लिष्यन्तं वाम-भुजा-दण्डेन दृढं धृतेक्षु-चापेन |
तज्-जनित-पर-निर्वृति-निर्भर-हृदयं चराचरैक-गुरुम् || क्र. दी. ८.३६ ||
सुर-दितिज-भुजग-गुह्यक-गन्धर्वाद्य्-अङ्गना-जन-सहस्रैः |
मद-मन्मथालसाङ्गैर् अभिवीतं दिव्य-भूषणोल्लसितैः || क्र. दी. ८.३७ ||
आत्माभेदतयेत्थं ध्यात्वैकाक्षरम् अथाष्ट-वर्णं वा |
प्रजपेद् दिन-कर-लक्षं त्रिमधुर-सिक्तैस् तु किंशुक-प्रसवैः || क्र. दी. ८.३८ ||
नव-श्लोकानां कुलकम् | इत्थम् एवं वासुदेवं ध्यात्वा एकाक्षर-काम-बीजम् अथवाष्टाक्षर-मन्त्रं दिनकर-लक्षं द्वादश-लक्षं जपेत् | कीदृशम् ? ध्यात्वा देव-सम्बन्धि-वृक्षोद्याने कल्प-वृक्षोद्याने उद्यन् वृद्धिं गच्छन् मनोहरो यः पारिजात-वृक्षस् तस्य तले गरुडस्योन्नतांसे उपविष्टम् | कीदृशस्य गरुडस्य ? पद्मरागादि-घटित-भू-भाग-शोभमान-श्रेष्ठ-पद्म-पीठोपविष्टस्य तथा सकल-जीव-भूतस्य परमेश्वरस्यांशत्वात् तथा उदित-सूर्य-सम-कान्तेः | कीदृशं वासुदेवम् ? प्रवाल-सुन्दराङ्गं, काम-व्याकुलितं स्व-दोर्भिः स्व-बाहुभिर् दक्षिण-वाम-क्रमेण चक्र-शङ्खाङ्कुश-पाश-पुष्प-शरेक्षु-चाप-पद्म-गदाः बिभ्राणं तथा रक्तं दीर्घं बृहद्-विघूर्णितं नेत्र-द्वय-रूपं पद्मं यस्य स तथा तम्, पद्म-रागादि-मणि-घटित-शिरो ऽलङ्कार-कर्ण-भूषणम् उक्ताहार-बाहु-भूषण-कर-मूल-भूषण-मुद्रिका-क्षुद्र-घण्टिका-प्रभृतिभिः रक्त-माल्य-गन्धैश् च देदीप्यमानं तथा पीते वाससी परिधानम् आच्छादनं यस्य स तथा तं तथा धृतेक्षु-चापेन वाम-बाहु-दण्डेन दृढं यथा स्याद् एवं श्रियम् आलिङ्गनम् |
कीदृशीम् ? स्वीय-वामोरु-देशे उपविष्टां, तथा आलिङ्गन्तीं, तथा वाम-हस्त-गृहीत-पद्मां, तथा सरसी-भूत-गुह्यां तथा कामेन व्याकुलीकृता अनायत्ती-कृता अङ्ग-लता यस्यास् तां मनोहराणि अलङ्कार-माल-चन्दनानि यस्यास् तां तथा श्वेत-वस्त्र-परिधानां तथा कृष्ण-मुख-पद्मे व्यापृतं सम्यग् व्यापार-युक्तं चटुलं मनोहरं चञ्चलं वा असितं श्यामं यन् नेत्रं स एव मधुकरो भ्रमरः यस्यास् तां तथा तरुई̀एईं युवतीम् | पुनः कीदृशीम् ? प्रियालिङ्गन-जनित-परम-सुख-पूर्ण-हृदयं तथा जगद्-गुरुं तथा देव-दैत्य-सर्प-देव-योनि-देव-गायन-विद्याधर-स्त्री-सहस्रैर् मदतया कामेन च स्तम्भ-युक्तम् अङ्गं येषां तैर् देवार्हण-भूषण-दीप्तैर् वेष्टितं कया युक्त्या आत्मैक्येन ध्यात्वा || क्र. दी. वि. ८.३०-३८ ||
______________________________
जुहुआत् तरणि-सहस्रं विमलैः सलिलैश् च तर्पयेत् तावत् |
विंशत्य्-अर्णे प्रोक्ते यन्त्रे दिनशो ऽमुम् अर्चयेत् भक्त्या || क्र. दी. ८.३९ ||
ध्यान-जपानन्तरं घृत-मधु-शर्करा-सहितैः पलाश-पुष्पैर् द्वादश-सहस्रं जुहुयात् | होमानन्तरं निर्मलैर् जलैर् द्वादश-सहस्रं तर्पणं कुर्यात् | विंशत्य्-अर्णेति | पूर्वोक्त-विंशत्य्-अक्षरोदित-पीठ-विधानेन तन्-मन्त्रोद्धृत-यन्त्रे अमुं कृष्णं भक्त्या प्रतिदिनं पूजयेत् || क्र. दी. वि. ८.३९ ||
______________________________
पूजा-प्रकारम् आह सार्धं चतुःश्लोकेन | गरुड-मन्त्रम् आह-
पीठ-विधौ पक्ष्य्-अन्ते राजाय-शिरो ऽमुनाभि-पूज्याहि-रिपुम् |
हरिम् आवाह्य स्कन्धे तस्यार्घाद्यैः समर्च्य भूषान्तै || क्र. दी. ८.४० ||
अङ्गानि च बाणांश् च न्यास-क्रमतः किरीटम् अपि शिरसि |
श्रवसोश् च कुण्डले ऽरि-प्रमुखानि प्रहरणानि पाणिषु च || क्र. दी. ८.४१ ||
श्रीवत्स-कौस्तुभौ च स्तनयोर् ऊर्ध्वे गले च वनमालाम् |
पीत-वसनं नितम्बे वामाङ्के श्रियम् अपि स्व-बीजेन || क्र. दी. ८.४२ ||
इष्ट्वाथ कर्णिकायाम् अङ्गानि विदिग्दशासु दिक्षु शरान् |
कोणेषु पञ्चमं पुनर् अग्न्य्-आदि-दलेषु शक्तयः पूज्याः || क्र. दी. ८.४३ ||
पूजा-विधौ पक्षि-शब्दान्ते राजायेति स्वरूपं शिरः स्वाहा अनेन प्रकारेण पीठ-मध्ये अहि-रिपुं गरुडं सम्पूज्य तस्य गरुडस्य पृष्ठे श्री-कृष्णम् आवाह्यावाहनादि यथावत् कृत्वार्घाद्यैर् भूषान्तैर् उपचारैश् च सम्पूज्य अङ्गानि च सम्पूज्य पञ्च-बाणांश् च सम्पूज्य भूषणानि च सम्पूज्य दिग्-दलेषु शक्तयः पूज्या इति अनेनान्वयः |
एतद् एव स्पष्टयति-न्यास-क्रमत इत्य् आदिना | यत्र परमेश्वराङ्गे यस्य न्यासः | तस्य पूजा बोद्धव्या तत्र शिरसि किरीटं अपि-पाद-पूरणे श्रोत्रयोः कुण्डले अरि-मुखानि चक्रादीनि प्रहरणानि आयुधानि हस्तेषु स्तनयो ऊर्ध्वं हृदि श्रीवत्स-कौस्तुभौ गले वन-मालाम् आपाद-लम्बिनीं पद्म-मालां नितम्बे कट्यां हरिद्राभ-वस्त्रं वामाङ्गे वाम-भागे लक्ष्मीं च स्व-बीजेन श्री-बीजेन इष्ट्वा सम्पूज्य कर्णिकायां दिग्-विदिशासु कोणेषु दिक्षु च अङ्गानि पूर्ववत् सम्पूज्य दिक्षु शरान् अग्न्य्-आदि-कोणेषु च पञ्चमं बाणं पूजयेत् पुनर् अग्न्य्-आदि-दलेषु अष्टौ शक्तयः पूज्याः || क्र. दी. वि. ८.४०-४३ ||
______________________________
शक्ति-वर्णान् आह-
लक्ष्मीः सरस्वती स्वर्णाभे अरुणतरे रति-प्रीत्यौ |
कीर्तिः कान्तिश् च सिते तुष्टिः पुष्टिश् च मरकत-प्रतिमे || क्र. दी. ८.४४ ||
स्वर्णाभे पीत-वर्णे अरुणतरे अतिरक्ते सिते शुक्ले मरकत-प्रतिमे हरिद्रा-वर्णे || क्र. दी. वि. ८.४४ ||
______________________________
एताः शक्तयः किम्भूताः ?
दिव्याङ्ग-राग-भूषामाल्य-दुकूलैर् अलङ्कृताङ्ग-लताः |
स्मेराननाः स्मारार्ताधृत-चामर-चारु-कर-तला एताः || क्र. दी. ८.४५ ||
देव-योग्यानुलेपनालङ्कार-ग्रन्थित-पुष्प-सूक्ष्म-वस्त्रैर् भूषित-देहा अङ्ग-लता-शब्दः स्वरूप-वाची तथा ईसद्-धास्य-वदना तथा काम-बाण-पीडिताः तथा गृहीत-चामर-मनोहरास् ताः || क्र. दी. वि. ८.४५ ||
______________________________
लोकेशा बहिर् अर्च्याः कथितेत्य् अर्चा मनु-द्वयोद्भूता |
प्रायः पुरुषोत्तम-विधिर् एवं हि स नोच्यते ऽत्र बहुलत्वात् || क्र. दी. ८.४६ ||
तद् बहिर् इन्द्रादयः वज्रादयश् च पूज्याः इत्य् एवं पूजा मन्त्र-द्वय-सम्भवा कथिता प्रायो बाहुल्येन पुरुषोत्तम-मन्त्र-कथित-प्रकारो ऽप्य् एवं परं स इह स्पष्टीकृत्य नोच्यते बहु-वक्तव्यत्वात् प्रायः पुरुषोत्तम-विधेर् एवम् इहान्यतो ऽवगन्तव्यम् इति टीकान्तर-सम्मतं पाठान्तरम् || क्र. दी. वि. ८.४६ ||
______________________________
सम्मोहन-गायत्रीम् आह-
त्रैलोक्य-मोहनायेत्य् उक्त्वा विद्मह इति स्मरायेति |
तत् धीमहीति तन् नो ऽन्ते विष्णुस् तद् अनु प्रचोदयात् || क्र. दी. ८.४७ ||
त्रैलोक्य-मोहनायेति स्वरूपम् उक्त्वा तद्-अनन्तरं विद्मह इति स्मरायेति तद्-अनु धीमहीति तन् नो विष्णुः प्रचोदयाद् इति स्वरूपं वदेत् || क्र. दी. वि. ८.४७ ||
______________________________
प्रभावम् आह-
जप्यैषा हि जपादौ दुरित-हरी श्री-करी जपार्चन-हवनैः |
प्रोक्षयतु शुद्धि-विधये ऽर्चायाम् अनयात्म-याग-भू-द्रव्याणि || क्र. दी. ८.४८ ||
एषा गायत्री जपात् पूर्वं जपनीया स्व-मन्त्र-जप-पूजा-होमैः पुनः पाप-नाशिनी लक्ष्मी-प्रदा च भवति | अनया गायत्र्या च पूजायां शुद्ध्य्-अर्थम् आत्म-याग-भू-द्रव्याणि आत्मानं याग-भुवं द्रव्याणि च प्रोक्षयतु || क्र. दी. वि. ८.४८ ||
______________________________
मन्त्र-द्वय-साधारण-तर्पणम् आह-
मन्वोर् एकेन शतं तर्पयेन् मोहनी-प्रसून-युतैर् यः |
तोयैर् दिनशः प्रातः स तु लभते वाञ्छितान् अयत्नतः कामान् || क्र. दी. ८.४९ ||
यः पूर्वोक्त-मन्त्रयोर् एकेन मोहनी-पुष्प-मिश्रितैः शक्रासन-पद्मासन-पुष्प-सहितैर् जलैः प्रति प्रत्यहं शतं तर्पयेत् | स वाञ्छितान् कामान् अनायासेन प्राप्नोति || क्र. दी. वि. ८.४९ ||
______________________________
मन्त्र-द्वय-सम्बन्धि-प्रयोगान्तरम् आह-
हुत्वायुतं हुत-शेष-सम्पाताज्येन तावद् अभिजप्तेन |
भोजयतु स्वामीकं रमणी-रमणो ऽपि तां स्व-वशतां नेतुम् || क्र. दी. ८.५० ||
घृतेन वह्नाव् अयुतं आहुति-शेष-घृतेन मन्त्र-जप्तेन रमणी स्व-वशतां नेतुं प्रापयितुं आत्मीयं कामुकं भोजयतु कामुकः स्त्रियं भोजयतु || क्र. दी. वि. ८.५० ||
______________________________
अष्टादशार्ण-विहिता विधयः कार्या वश्यत आभ्याम् |
मन्वोर् अनयोः सदृग्भ्यो वैन मनुस् त्रैलोक्य-वश्य-कर्मणि जगति || क्र. दी. ८.५१ ||
अष्टादशाक्षर-मन्त्र-कथिता वश्य-कारिणः प्रयोगा आभ्यां मन्त्राभ्यां कार्या हि निश्चयेन जगति सकल-जगद्-आयत्तता-कार्ये अनयोः समानो ऽन्योमन्त्रो नास्ति || क्र. दी. वि. ८.५१ ||
______________________________
अत्रैकार्ण-जपादाव् अथवा कृष्णः स-वेणु-गतिर् ध्येयः |
अरुण-रुचिराङ्ग-वेशः कन्दर्पो वा सपाश-शृणि-चापेषु || क्र. दी. ८.५२ ||
अत्र समनन्तरोक्त-द्वय-मध्ये एकाक्षर-मन्त्रस्य जप-पूजा-होमादौ कृष्णो भावनीयः | कीदृक् ? स-वेणु-गतिर् इति वंशोत्थ-गान-परः | तथा लोहित-मनोहर-शरीराभरणः | अथवा, अत्रैव मन्त्र-जपादौ पाशाङ्कुश-धनुर्-बाण-धरः कामदेवो ध्येयः | मन्त्रस्यादि-देवात्मकत्वाद् इति भावः || क्र. दी. वि. ८.५२ ||
______________________________
प्रकृतम् उपसंहरति-
यस् त्व् एकतरं मनुम् एतयोर् विमल-धीः सदा भजति मन्त्री |
सो ऽमुत्रापि च सिद्धिं विपुलाम् इहातितराम् एति || क्र. दी. ८.५३ ||
यो मन्त्री अनयोर् मन्त्रयोर् एकं मन्त्र-श्रेष्ठं सदा जपादिभिः सेवते, स इह लोके ऽमुत्र च अत्यर्थं विपुलां सिद्धिं प्राप्नोति || क्र. दी. वि. ८.५३ ||
______________________________
अथ रुक्मिणी-वल्लभ-मन्त्रम् उद्धरति-
अथ सत्य-शौरि च तृतीय-तुर्यकाः
शिखि-वाम-नेत्र-शशि-खण्ड-मण्डिताः |
जय-कृष्ण-युग्मक-निरन्तरात्म-भू-
शिखि-शक्ति-डास्य-वृत-सक्त-वर्णकाः || क्र. दी. ८.५४ ||
प्रनिमध्यतो मुदित-चेतसे ततस्
त्यपरक्त-दृग्यगुरु-मारुताक्षराः |
स-चतुर्थि-कृष्ण-पदम् इक्षु-कार्मुको
दश-वर्णकश् च मनुवर्यकस् त्व् असौ || क्र. दी. ८.५५ ||
सलवाधर्राचल-सुतारमाक्षरैः
पुटितः क्रमो क्रम-गतैः समुद्गवत् |
इति दन्त-सूर्य-वसु-वर्ण उद्धृतः
कवितानुरञ्जन-रमाकरो ऽघ-हृत् || क्र. दी. ८.५६ ||
सत्यो द-कारः | शौरिर् ध-कारश् च | तृतीय-तुर्येति ज-कारः झ-कारश् च | एते चत्वारो वर्णाः प्रत्येकं शिखी रेफः वाम-नेत्रम् ई-कारः शशि-खण्डो बिन्दुः | एतैः शोभनाः सम्बद्धा इत्य् अर्थः | तथा च, द्रीं ध्रीं ज्रीं झ्रीं इति | तद् अनु जय-कृष्णेति त्रिपाठि-गोविन्द-मिश्र-प्रभृतयः | वस्तुतः जय-कृष्णेति पदस्य युग्मं तद्-अनु निरन्तरेति स्वरूपम् आत्म-भूः क-कारः शिखी रेफः शक्तिर् ई-कारः | तथा क्री-स्वरूपम् | तद् अनु ड-स्वरूपं आस्य-वृतम् आ-कारः डा-स्वरूपम् | सक्त इति स्वरूपं प्रनिमध्यतो प्रनीति अक्षरयोर् मध्ये मुदित-चेतसे इति ततो नि-शब्दान्ते त्येति स्वरूपं तद् अनु प-स्वरूपम् | रक्तो रेफः | दृग् इ-कारः प्रथमातिक्रमे कारणाभावात् ह्रस्व-इ-कारो लभ्यते | तथा च, प्रि इति स्वरूपं ततो य इति स्वरूपं गुरुर् आ-कारः | या इति स्वरूपम् | तद् अनु मारुतो य-कारः | तद्-अनु स-चतुर्थि-कृष्ण-पदम् कृष्णायेति स्वरूपम् | तद्-अनु इक्षु-कार्मुकः काम-बीजं | तद्-अनु पूर्वोक्त-दशाक्षर-मन्त्रः | तद् अनु लवो बिन्दुः तत्-सहिता धरा ऐ-कारः ऐं इति स्वरूपम् | अचलः पर्वतः तत्-सुता पार्वती भुवनेश्वरी-बीजम् इत्य् अर्थः | रमा श्री-बीजम् | एभिस् त्रिभिर् बीजैर् मन्त्रान्ते प्रतिलोम-पठितैः ऐं ह्रीं श्रीं अन्ते श्रीं ह्रीं ऐं इति समुद्गवत् सम्पुटवत् पुटितो ऽयं द्विपञ्चाशद्-वर्णो मन्त्रः सिद्धो भवति |
मन्त्र-वर्ण-सङ्ख्याम् आह-इतीति | दन्त = ३२, सूर्य = १२, वसु = ८ | एभिर् मिलितैः सङ्ख्या द्विपञ्चाशद्-वर्णात्मको (५२) मन्त्रो भवतीत्य् अर्थः | कीदृशः ? कवितालोकानुराग-लक्ष्मी सम्पादकः तथाघ-हृत् पाप-हर्ता || क्र. दी. वि. ८.५४-५६ ||
मन्त्र-स्वरूपम्-ऐं ह्रीं श्रीं द्रीं ज्रीं झ्रीं जय कृष्ण जय कृष्ण निरन्तर-क्रीडासक्त-प्रमुदित-चेतसे नित्य-प्रियाय कृष्णाय क्रीं गोपी-जन-वल्लभाय स्वाहा श्रीं ह्रीं ऐं ||
______________________________
अस्य मन्त्रस्य ऋष्य्-आदिकम् इत्य् आह-
मुख-वृत्त-नन्द-युत-नारदो मुनिः
छन्द उक्तम् अमृतादिकं विराट् |
त्रिजगद् विमोहन-समाह्वयो हरिः
खलु देवतास्य मुनिभिः समीरिता || क्र. दी. ८.५७ ||
मुख-वृत्तम् आ-कारः नन्देति स्वरूपम् आभ्यां युतो नारदः | तथा च आनन्द-नारद-ऋसिः अमृतादिकं विराट् छन्दस् त्रैलोक्य-मोहनो हरिर् देवता नारदादिभिर् मुनिभिः कथिता || क्र. दी. वि. ८.५७ ||
______________________________
अङ्ग-विधिं दर्शयति-
वसु-मित्र-भूधर-गजात्म-दिङ्मयैर्
ममनु-वर्णकैस् त्रिपुट-संस्थितैः पृथक् |
निज-जाति-युङ्-निगदितं षड्-अङ्गकं
क्रिययैव तत् खलु जनानुरञ्जनम् || क्र. दी. ८.५८ ||
वसुः = ८, मित्रः = १२, भूधरः = ७, गजः = ८, आत्मा = १, दिक् = १० | एतत् सङ्ख्याकैर् मन्त्राक्षरैस् त्रिपुट-संस्थितैः | तथा च ऐं ह्रीं श्रीं द्रीं व्रीं ज्रीं झ्रीं जय-कृष्ण ऐं ह्रीं श्रीं हृदयाय नमः | ऐं ह्रीं श्रीं जय-कृष्ण-निरन्तर-क्रीडासक्त ऐं ह्रीं श्रीं शिरसे स्वाहा - इत्य् आदि क्रिययैव षड्-अङ्ग-क्रिययैव सर्व-जनानुरागं जनयति || क्र. दी. वि. ८.५८ ||
______________________________
न्यासम् आह-
अथ संविशोध्य तनु-मुक्त-मार्गतः
विरचय्य पीठम् अपि च स्व-वर्ष्मणा |
करयोर् दशाक्षर-विधि-क्रमान् न्यसेत्
स षड्-अङ्ग-सायकम् अनङ्ग-पञ्चकम् || क्र. दी. ८.५९ ||
अथानन्तरं तनुं शरीरम् उक्त-मार्गतः पूर्वोक्त-भूत-शुद्ध्याः प्रकारेण संशोध्यानन्तरं स्व-वर्ष्मणा स्व-शरीरेण पीठम् आरचय्य करयोः कर-युगले दशाक्षरोक्त-प्रकारेण षड्-अङ्ग-षट्कं सायकान् च शोषणादीन् बाणान् अनङ्ग-पञ्चकं काम-बीज-मन्मथ-कन्दर्प-मकर-ध्वज-मनोभूत-संज्ञकं काम-पञ्चकं न्यसेत् || क्र. दी. वि. ८.५९ ||
______________________________
इमम् एवार्थं विविच्य दर्शयति-
मनुना त्रिशो न्यसतु सर्वतस् तनौ
स्मर-सम्पुटैस् तद् अनु मातृकाक्षरैः |
दश-तत्त्वकादि-दश-वर्ण-कीर्तितं
त्व् अथ मूर्ति-पञ्जर-वसानम् आचरेत् || क्र. दी. ८.६० ||
मनुना मूल-मन्त्रेण पूर्वं शरीरे त्रि-व्यापकं कुर्यात् | तद्-अनन्तरं प्रतिवर्णं काम-बीज-पुटितैर् मातृकाक्षरैः त्रिशो न्यसतु | दश-वर्ण-कीर्तितं दशाक्षरोक्त-दश-तत्त्वकान् न्यसेत् | तत्त्व-न्यासादि-मूर्ति-पञ्जरान्तं विन्यस्य || क्र. दी. वि. ८.६० ||
______________________________
सृजति स्थिती दश-षड्-अङ्ग-सायकान्
न्यसतात् ततो ऽन्यद् अखिलं पुरोक्तवत् |
प्रविधाय सर्व-भुवनैक-साक्षिणं
स्मरतान् मुकुन्दम् अनवद्य-धीर-धीः || क्र. दी. ८.६१ ||
सृष्टि-स्थिती समाचरेत् दशाङ्गानि षड्-अङ्गानि बाणांश् च देहे विन्यसेत् | तद्-अनन्तरम् आत्मार्चनाद्य्-अखिलं पूर्ववत् कृत्वा सकल-लोक-द्रष्टारं श्री-कृष्णं स्मरतात् चिन्तयतु, निर्मलास्थिरा बुद्धिर् यस्य स तथा तादृशः साधकः || क्र. दी. वि. ८.६१ ||
______________________________
ध्यानम् आह-
अथ भूधरोदधि-परिष्कृते महो-
न्नत-शाल-गोपुर-विशाल-वीथिके |
घन-चुम्ब्य्-उदग्रसित-सौध-सङ्कुले
मणि-हर्म्य-विस्तृत-कपाट-वेदिके || क्र. दी. ८.६२ ||
अथानन्तरं स्वके पुरे मणि-मण्डपे सुर-पादपस्य कल्प-वृक्षस्याधो मणि-मय-भूतले परिस्फुरत् पृथु-सिंह-वक्त्र-चरणाम्बुजासने स्थूल-सिंह-मुखाकार-पादान्वित-पीठ-पद्मासने समुपविष्टम् अच्युतम् अभिचिन्तयेत् | कीदृशे पुरे ? भूधराः पर्वताः उदधिः समुद्रः एतैः परिष्कृते वेष्टिते तथा महोन्नतः अत्युच्चः शालः प्रकारो गोपुरं बहिर्-द्वारं च यत्र तस्मिन् तथा विशाला महती वीथिका पन्थाः यत्र तत्र कर्मधारयः तथा मेघ-स्पर्शि अतिशुद्ध-धवल-गृह-व्याप्ते तथा मणि-मय-गृहे विस्तीर्णाः कपाटाः तथा वेदिका परिष्कृत-भूमिर् यत्र तत्र || क्र. दी. वि. ८.६२ ||
______________________________
पुनः कीदृशे पुरे ?
द्विज-भूप-विट्-चरण-जन्मनां गृहैर्
विविधैश् च शिल्पि-जन-वेश्मभिस् तथा |
इभसप्त्युरभ्रखरधेनुसैर्भच्-
छगलालयैश् च लसितैः सहस्रशः || क्र. दी. ८.६३ ||
सहस्रशो लोकैर् ब्राह्मण-क्षत्रिय-वैश्य-शूद्राणां नाना-प्रकार-गृहैः तथा शिल्पि-जनानां गृहस् तथा हस्त्य् अश्वमेष-गर्दभ-धेनु-महिष-च्छगलानां गृहैः शोभिते || क्र. दी. वि. ८.६३ ||
______________________________
पुनः कीदृशे ?
विवधापणाश्रित-महाजनाहृत-
क्रय-विक्रय-द्रविण-सञ्चयाञ्चिते |
जनमानसाहृति-विदग्ध-सुन्दरी-
जन-मन्दिरैः सुरुचिरैश् च मण्डिते || क्र. दी. ८.६४ ||
नाना-प्रकार-विपणि-समाश्रिते महा-जनाहृत-क्रय-विक्रय-द्रविण-संचय-व्याप्ते | पुनः कीदृशे ? जनानां चित्तापहरणे चतुराः ये वेश्या-जनास् तेषां गृहैः शोभमानैर् अलङ्कृते || क्र. दी. वि. ८.६४ ||
______________________________
पुनः कीदृशे पुरे ?
पृथु-दीर्घका-विमल-पाथसि स्फुरद्-
विकचारविन्द-मकरन्द-लम्पटैः |
वर-हंस-सारस्-रथाङ्गनामभिर्
विहगैर् विघुष्ट-ककुभि स्वके पुरे || क्र. दी. ८.६५ ||
स्थूल-सरोवर-निर्मलोदके देदीप्यमान-विकसित-कमल-मकरन्दाख्य-रस-लोलुपैः श्रेष्ठ-हंस-सारस-चक्रवाक-संज्ञकैः पक्षिभिर् ध्वनिता दिशो यस्मिन् || क्र. दी. वि. ८.६५ ||
______________________________
पुनः कीदृशे मणि-मण्डपे ?
सुरपादपैः सुरभि-पुष्प-लोलुप-
भ्रमराकुलैर् विविध-कामदैर् नॄणाम् |
शिव-मन्द-मारुत-चलच्-छिखैर् वृते
मणि-मण्डपे रवि-सहस्र-प्रभे || क्र. दी. ८.६६ ||
कल्प-वृक्षैः सुगन्धि-पुष्प-लुब्ध-भ्रमर-व्याप्तैर् मनुष्याणां विविध-कामदैः शुभ-मन्द-मारुत-चलद्-अग्र-भागैस् तैर् वेष्टिते | सूर्य-सहस्र-मान-प्रभे || क्र. दी. वि. ८.६६ ||
______________________________
पुनः कीदृशे ?
मणि-दीपिका-निकर-दीपितान्तरे
तनु-चित्र-विस्तृत-वितान-शालिनि |
ललिते पिकस्वर-विचित्र-दामभिः
सुसुगन्धि गन्ध-सलिलोक्षित-स्थले || क्र. दी. ८.६७ ||
मणिर् एव दीपिका तस्याः समूहे प्रकाशित-मध्य-भागे | पुनः कीदृशे ? सूक्ष्म-विचित्र-विस्तीर्ण-चन्द्रातप-युक्ते | पुनः कीदृशे ? विकसित-नाना-प्रकार-पुष्प-मालाभिः शोभिते अतिसुरभि-सलिल-सिक्त-स्थाने || क्र. दी. वि. ८.६७ ||
______________________________
पुनः कीदृशे ?
प्रमदा-शतैर् मद-विघूर्णितेक्षणैर्
मद-जालसैः कर-विलोल-चामरैः |
अभिसेविते स्खलित-मञ्जु-भाषितैः
स्तन-भार-भङ्गुर-कृशावलग्नकैः || क्र. दी. ८.६८ ||
स्त्री-शतैर् मद-विघूर्णित-नेत्रैर् मद-जनितालस्य-सहितैः हस्त-स्थित-चञ्चल-चामरैर् ईषत्-स्खलित-मनोहर-वचनैः स्तन-भार-नम्र-सूक्ष्म-मध्य-प्रदेशैः परितः सेविते || क्र. दी. वि. ८.६८ ||
______________________________
कथम्भूतस्य सुरपादपस्य ?
अविराम-धार-मणि-वर्य-वर्षिणः
श्रम-हानिदामृत-रस-च्युतो ऽप्य् अधः |
सुर-पादपस्य मणि-भूतलोल्लसत्
पृथु-सिंह-वक्त्रचरणाम्बुजासने || क्र. दी. ८.६९ ||
अविश्रान्त-मणि-श्रेष्ठ-धारा-वर्षिणः | पुनः कीदृशस्य ? श्रम-हानिकरामृत-रस-श्राविणः || क्र. दी. वि. ८.६९ ||
______________________________
कीदृशम् अच्युतम् ?
अभिचिन्तयेत् सुख-निविष्टम् अच्युतं
नव-नील-नीर-रुह-कोमल-च्छविम् |
कुटिलाग्र-कुन्तल-लसत्-किरीटकं
स्मित-पुष्प-रत्न-रचितावतंसकम् || क्र. दी. ८.७० ||
नूतन-नीलोत्पल-रम्य-कान्तिम् | पुनः कीदृशम् ? कुटिलाग्र-केशेषु स्फुरत् किरीटं यस्य तम् | पुनः कीदृशम् ? स्मितम् ईषद् विकसितं पुष्पं रत्नानि च ते रचितो ऽवतंसो येन तम् || क्र. दी. वि. ८.७० ||
______________________________
पुनः कीदृशम् ?
सुललाटम् उन्नसमुदञ्चित-भ्रुवं
विपुलारुणायत-विलोल-लोचनम् |
मणि-कुण्डलास्र-परिदीप्त-गण्डकं
नव-बन्धु-जीव-कुसुमारुणाधरम् || क्र. दी. ८.७१ ||
तथा शोभमान-ललाटं तथा उच्च-नासिकम् उद्गच्छद्-भ्रू-लताकम्, तथा स्थूलारुण-वर्ण-दीर्घ-चञ्चल-नयनं, तथा मणि-मय-कुण्डल-किरण-परिशोभित-गण्ड-स्थलं यथा नूतन-बन्धु-जीव-पुष्प-सदृशारुणाधरम् || क्र. दी. वि. ८.७१ ||
______________________________
पुनः कीदृशं परमेश्वरम् ?
स्मित-चन्द्रिकोज्ज्वलित-दिङ्मुखं स्फुरत्
पुलक-श्रमाम्बु-कण-मण्डिताननम् |
स्फुरद्-अंशु-रत्न-गण-दीप्त-भूषणोत्-
तम-हार-दामभिर् उपस्कृतांसकम् || क्र. दी. ८.७२ ||
हास-चन्द्र-किरण-धवली-कृत-दिङ्-मुखं तथा स्फुरद्-रोमाञ्च-जन्य-प्रस्वेद-बिन्दु-शोभित-वदनम् | पुनः कीदृशम् ? स्फुरद्-देदीप्यमान-किरण-रत्न-समूह-प्रकाशमान-भूषण-श्रेष्ठ-हार-मालाभिः शोभित-स्कन्धम् || क्र. दी. वि. ८.७२ ||
______________________________
पुनः कीदृशम् ?
घन-सार-कुङ्कुम-विलिप्त-विग्रहं
पृथु-दीर्घ-षड्-द्वय-भुजा-विराजितम् |
तरुणाब्ज-चारु-चरणाब्ज-मङ्गलोन्-
मथिताङ्गम् अङ्कग-कराम्बुज-द्वयम् || क्र. दी. ८.७३ ||
पुनश् चन्दन-कुङ्कुमाभ्यां परिलिप्त-शरीरं पुनः स्थूल-दीर्घ-द्वादश-हस्तैर् विराजितं तथा नूतनारुण-वर्ण-पद्म-सदृश-चरण-पद्मं पुनः काम-पीडित-देहं पुनः स्वाङ्के आरोपित-हस्त-द्वयम् || क्र. दी. वि. ८.७३ ||
______________________________
स्वाङ्क-स्थ-भीष्मक-सुतोरु-युगान्तर-स्थलं
तां तप्त-हेम-रुचिम् आत्म-भुजाम्बुजाभ्याम् |
श्लिष्यन्तम् आर्द्र-जघनाम् उपगूहमानाम्
आत्मानम् आयत-लसत्-कर-पल्लवाभ्याम् || क्र. दी. ८.७४ ||
पुनः स्वाङ्के स्थिताया रुक्मिण्या ऊरु-द्वयाभ्यन्तरे विद्यमानं | पुनस् तां रुक्मिणीं तप्त-सुवर्ण-कान्तिं स्वीय-हस्त-पद्माभ्याम् आलिङ्गन्तम् | कीदृशीं ताम् ? आर्द्र-जघनाम् पुनर् आत्मानम् श्री-कृष्णं दीर्घ-मनोहर-पाणि-पल्लवाभ्यां आलिङ्गन्तीम् || क्र. दी. वि. ८.७४ ||
______________________________
आनन्दोद्रेक-निघ्नां मुकुलित-नयनेन्दीवरां स्रस्त-गात्रीं
प्रोद्यद्-रोमाञ्च-सान्द्र-श्रम-जल-कणिका-मौक्तिकालङ्कृताङ्गीम् |
आत्मन्य् आलीन-बाह्यान्तर-करण-गणाम् अङ्गकैर् निस्तरङ्गैर्
मज्जन्तीं लीन-नाना-मतिम् अतुल-महानन्द-सन्दोह-सिन्धौ || क्र. दी. ८.७५ ||
पुनः स्वात्मानन्दोद्रेक-व्याप्तां | पुनः मुद्रित-नयन-नीलोत्पलां | पुनः प्रोद्यत्-तनु-पुलक-जन्य-निविड-प्रस्वेद-बिन्दु-रूप-मौक्तिक-शोभित-देहां | पुनः आत्मनि श्री-कृष्णे सम्यग्-विलीन-बाह्याभ्यन्तरेन्द्रिय-समूहां | पुनर् व्यापार-रहितैः शरीरआवयवैर् अतिशयित-महानन्द-समूह-सागरे निमग्नां | पुनः विगत-चञ्चल-मतिम् || क्र. दी. वि. ८.७५ ||
______________________________
पुनः कीदृशं परमेश्वरम् ?
सत्याजाम्बवतीभ्यां
दिव्य-दुकूलानुलेपनाभरणाभ्याम् |
मन्मथ-शर-मथिताभ्यां
मुख-कमल-चञ्चल-लोचन-भ्रमराभ्याम् || क्र. दी. ८.७६ ||
सत्यभ्हामा-जाम्बवतीभ्याम् आलिङ्गनम् | कथम्भूताभ्याम् ? उत्कृष्टानि पट्ट-वस्त्रानुलेपनाभरणानि ययोस् ताभ्यां | पुनः काम-शर-पीडिताभ्यां | पुनः कृष्ण-मुख-विषयक-चञ्चल-नेत्र-भ्रमराभ्याम् || क्र. दी. वि. ८.७६ ||
______________________________
भुजग-युगलाश्लिष्टाभ्यां
श्यामारुण-ललित-कोमलाङ्ग-लताभ्याम् |
आश्लिष्ट्म् आत्म-दक्षिण-
वाम-गताभ्यां करोल्लसत् कमलाभ्याम् || क्र. दी. ८.७७ ||
पुनः परमेश्वरस्य भुज-युगलेनालिङ्गिताभ्याम् | यथा-क्रम-नीलारुण-वर्णे मनोहरे कोमले चाङ्ग-लते ययोस् ताभ्यां | पुनः परमेश्वरस्य दक्षिण-वाम-गताभ्यां | पुनः पाणि-स्फुरित-पद्माभ्याम् || क्र. दी. वि. ८.७७ ||
______________________________
पुनः कीदृशम् ?
पृष्टगया कलिन्द-सुतया कर-कमल-युजा
सम्परिरब्धम् अञ्जन-रुचा मदन-मथितया |
पद्म-गदा-रथाङ्ग-दर-भृद्-भुज-युगलं
दोर्-द्वय-सक्त-वंश-विलसन्-मुख-सरसि-रुहम् || क्र. दी. ८.७८ ||
परमेश्वर-पृष्ठ-देश-वर्तिन्या यमुनया हस्त-धृत-कमलया समालिङ्गितम् | किम्भूतया श्यामया ? पुनः काम-पीडितया | पुनः कीदृशं परमेश्वरम् ? पद्म-गदा-शङ्ख-चक्र-युक्त-हस्त-चतुष्टयं हस्त-द्वय-धृत-वंश-विलसन्-मुख-कमलम् || क्र. दी. वि. ८.७८ ||
______________________________
दिक्षु बहिः सुरर्षि-यतिभिः खेचर-परिवृढैर्
भक्ति-भरावनम्र-तनुभिः स्तुति-मुखर-मुखैः |
सन्तत-सेव्यमानम् अमनोवचन-विषयकम्
अर्थ-चतुष्टय-प्रदम् अमुं त्रिभुवन-जनकम् || क्र. दी. ८.७९ ||
तृतीय-पटलोक्त-क्रमेणेत्य् अर्थः | पुनः बहिर् दिक्षु देवर्षि-यतिभिः खेचर-मुख्यैर् भक्त्य्-अतिशय-नम्र-देहैः | परिवृढैः प्रधानैः स्तुतिभिः वाचाल-वदनैर् निरन्तरं सेवितं पुनः मनसो वाचाम् अगोचरं पुनर् धर्मार्थ-काम-मोक्ष-फल-चतुष्टय-प्रदं पुनस् त्रैलोक्य-जनकम् || क्र. दी. वि. ८.७९ ||
______________________________
सान्द्रानन्द-महाब्धि-मग्नम् अमल-धाम्नि स्वके ऽवस्थितं
ध्यात्वैवं परमं पुमांसम् अनघात् सम्प्राप्य दीक्षां गुरोः |
लब्ध्वामुं मनुम् आदरेण सित-धीर् लक्षं जपेद् योषितां
वार्ताकर्णन-दर्शनादि-रहितो मन्त्री गुरूणाम् अपि || क्र. दी. ८.८० ||
पुनर् निविडानन्द-महा-समुद्र-मग्नम् | स्वीये निर्मले तेजसि-तद्-रूपेणावस्थितम् एवम् उक्त-रूपं परमेश्वरं विचिन्त्य निष्पापात् गुरोर् दीक्षा-मन्त्रोपदेश-विधिं प्राप्यामुं मन्त्रं लब्ध्वा तीक्ष्ण-बुद्धिः आदरात् लक्षम् एकं जपेत् | कीदृशः साधकः ? स्त्रीणां वृद्धानाम् अपि कथा-श्रवण-निरीक्षण-पराङ्मुखः || क्र. दी. वि. ८.८० ||
______________________________
होमं सेवां चाह-
जुहुयाच् च दशांशकं हुताशे
ससिताक्षौद्र-घृतेन पायसेन |
प्रथमोदित-पीठ-वर्यके ऽमुं
पर्यजेन् नित्यम् अनित्यता-विमुक्तये || क्र. दी. ८.८१ ||
हुताशे वह्नौ दशांशकं | अयुतम् एकं शर्करा-मधु-घृत-युक्तेन परमान्नेन जुहुयात् | किं च पूर्वोक्त-दशाष्टादशाक्षर-कथिते पीठ-श्रेष्ठे नित्यम् अमुं यजेत् | किम् अर्थम् ? अनित्यः संसारस् तस्य परिहरणाय || क्र. दी. वि. ८.८१ ||
______________________________
आरभ्याथ विभूति-न्यास-क्रमतः शरान्तम् अभ्यर्च्य |
मूर्त्य्-आद्य्-अङ्गान्तं चात्मानं विंशत्य्-अर्णोदित-यन्त्र-वरे || क्र. दी. ८.८२ ||
मध्य-बीजं परितो वरुणेन्दु-यमेन्द्र-दिक्षु संलिख्य |
बीज-चतुष्कं तद् अपि चत्वारिंशद्भिर् अक्षरैर् द्व्य्-अधिकैः || क्र. दी. ८.८३ ||
शिष्टैः प्रवेष्ट्य शिव-हरि-वस्व्-आद्य्-अश्रिष्व् अथ क्रमाद् विलिखेत् |
वाङ्-माया-श्री-मन्त्रास् तद्वद् रक्षो ऽम्बुपानिलाश्रिषु च || क्र. दी. ८.८४ ||
शेषं पूर्वोदितवद् विधाय पीठं यथावद् अभ्यर्च्य |
सङ्कलय्य मूर्तिम् अत्रावाह्याभ्यर्चयतु मध्य-बीजे तम् || क्र. दी. ८.८५ ||
आरभ्येत्य् आदि विभूति-पञ्जरम् आरभ्य न्यास-क्रमेण बाण-पर्यन्तं पूजयित्वा मूर्ति-न्यासम् आरभ्याङ्ग-न्यास-पर्यन्तं चात्म-रूपं सम्पूज्य पूर्वोक्त-विंशत्य्-अक्षर-मन्त्रोक्तं यन्त्र-श्रेष्ठ-कर्णिका-मध्य-स्थित-वह्नि-पुर-युग-मध्ये मध्यम-बीज-मध्ये बीजम् इति पाठ-स्वरसात् हल्-लेखा-बीजम् इति रुद्रधर-गोविन्द-मिश्र-प्रभृतयः | परस्तह्-मध्यम-बीजम् इति पाठे काम-बीजं विलिख्य तत्-परितश् च पश्चिमोत्तर-पूर्व-दक्षिण-दिक्षु बीज-चतुष्कं द्रीं त्रीं जीं झ्रीं इति बीज-चतुष्टयं विलिख्य तद् अपि बीज-चतुष्टयं द्वि-चत्वारिंशत् जपादि-स्वाहान्तैः शिष्टैर् मन्त्राक्षरैर् उपरि वेष्टयेत् | अनन्तरं शिव ईशानः हरिर् इन्द्रः पूर्वादि दिग् इत्य् अर्थः | वसुर् अग्निः आग्नेयादिक एवं नैरृती-वारुणी-वायवी-दिग् एतेषु कोणेषु क्रमेण वाग्-भव-भुवनेश्वरी-श्री-बीजानि त्रिर् आवृत्य विलिखेत् |
अवशिष्टं पीठ-विधानं पूर्ववत् समाप्य पीठं यथावत् पूजयित्वा तत्र पीठे कर्णिका-मध्य-स्थित-काम-बीजे रुक्मिणी-वल्लभ-मूर्तिं सङ्कल्प्य ध्यात्वा तम् आवाह्य पूजयेत् || क्र. दी. वि. ८.८२-८५ ||
______________________________
मुख-दक्ष-सव्य-पृष्ठग-बीजेष्व् अर्च्यास् तु शक्तयः क्रमशः |
रुक्मिण्य्-आद्याः षट्स्व् अथ कोणेष्व् अङ्गानि केशरेषु शरान् || क्र. दी. ८.८६ ||
अनन्तरं देवस्य सन्-मुख-दक्षिण-वाम-पृष्ठ-प्रदेश-गतेषु बीज-चतुष्टयेषु रुक्मिण्य्-आद्याः शक्तयः पूज्याः षट्-कोणेषु अङ्गानि केशरेषु शरान् पूजयेत् || क्र. दी. वि. ८.८६ ||
______________________________
लक्ष्म्य्-आद्या दल-मध्येष्व् अग्न्य्-आदिषु तद् बहिर् ध्वज-प्रमुखान् |
अग्रे केतुं श्याम पृष्ठे विपम् अरुणम् अमल-रक्त-रुची || क्र. दी. ८.८७ ||
पार्श्व-द्वये निधीशौ सन्तत-धाराभिवृष्ट-धन-पुञ्जौ |
हेरम्ब-शास्तृ-दुर्गा-विष्वक्सेनान् विदिक्षु वह्न्य्-आदि || क्र. दी. ८.८८ ||
विद्रुम-मरकत-दूर्वा-स्वर्णाभान् बहिर् अथेन्द्र-वज्राद्यान् |
यजन-विधानम् इतीरितम् आवृति-सप्तक-युतं मुकुन्दस्य || क्र. दी. ८.८९ ||
अग्न्य्-आदि-पत्र-मध्येषु लक्ष्म्य्-आद्या पूज्याः | तत्र बहिर्-भागे ध्वज-प्रभृतीन् पूजयेत् | अनन्तरं देवस्य सन्-मुखे श्याम-वर्ण-केतु-नामानं गणं पूजयेत् | देव-पृष्ठ-भागे अरुण-वर्णं गरुडं पूजयेत् | देव-पार्श्व-द्वये निर्मल-रक्त-रुचीर् निधीश्वरौ पूज्यौ कीद्र्शौ ? निरन्तर-धाराभिर् वृष्ट-धन-समूहौ |
वह्न्य्-आदि-विदिक्षु हेरम्बादीन् प्रवालादि-वर्णान् पूजयेत् | अनन्तरं बहिर्-दिक्षु इन्द्रादि-लोक-पालान् तथा वर्जार्द्य्-आयुधानि पूजयेत् | इति पूर्वोक्त-प्रकारेण मुकुन्दस्य श्री-कृष्णस्यावरण-सप्तकं पूजा-विधानं कथितम् इति || क्र. दी. वि. ८.८७-८९ ||
______________________________
इत्य् अर्चयन्न् अच्युतम् आदरेण
यो ऽमुं भजेन् मन्त्रवरं जितात्मा |
सो ऽभ्यर्च्य दिव्य-जनैर् जनानां
हृन्-नेत्र-पङ्केरुह-तिग्म-भानुः || क्र. दी. ८.९० ||
इति अमुना प्रकारेण यो जितेन्द्रियो अच्युतं कृष्णं भक्त्या पूजयन् अमुं मन्त्र-श्रेष्ठं सेवते स पुरुषः सुरैर् अपि पूज्यते | कीदृशः ? लोकानां हृदय-पद्म-लोचन-पद्मयोः सूर्यः सर्व-जन-वशीकरण-मन्त्रः समर्थ इत्य् अपि पाठः || क्र. दी. वि. ८.९० ||
______________________________
सित-शर्करोत्तर-पयः-प्रतिपत्त्या
परितर्पयेद् दिन-मुखे दिन-शस्तम् |
सलिलैः शतं शत-मख-श्रियम् एष
स्व-विभूत्य्-उदन्वति करोत्य् उद-बिन्दुम् || क्र. दी. ८.९१ ||
सित-शर्करा-प्रधान-प्रतिपत्त्या दुग्ध-बुद्ध्याः जलैर् एव दिन-मुखे प्रातः-काले प्रतिदिनं शत-कृत्वस् तं तर्पयेत् | अनन्तरं साधकः स्वाधिपत्य-समुद्रे इन्द्रस्य लक्ष्मीं जल-बिन्दुवत् || क्र. दी. वि. ८.९१ ||
______________________________
विदल-हलैः सुमनसः सुमनोभिर्
घनसार-चन्दन-बहु-द्रव-मग्नैः |
मनुनामुना हवनतो ऽयुत-सङ्ख्यं
त्रिजगत् प्रियः स मनुवित् कविराट् स्यात् || क्र. दी. ८.९२ ||
अनेन मन्त्रेण सुमनसो जाती-मालतीनाम् अधेयस्य सुमनोभिः पुष्पैः विकसि | तैः कर्पूर-युक्त-चन्दनस्य बहु-द्रव-व्याप्तैर् अयुत-सङ्ख्यं हवनतो ऽयुत-होमे न स मन्त्री त्रैलोक्यस्य प्रियः कवि-श्रेष्ठश् च भवति || क्र. दी. वि. ८.९२ ||
______________________________
ध्यानाद् एवास्य सद्यस् त्रिदश-मृग-दृशोर् वश्यतां यान्त्य् अवश्यं
कन्दर्पार्ताजपाद्यैः किम् अथ न सुलभं मन्त्रतो ऽस्मान् नरस्य |
स्पर्धाम् उद्धूय चित्रं महद् इदम् अपि नैसर्गिकीं शश्वद् एनं
सेवेते मन्त्रि-मुख्यं सरसिज-निलया चापि वाचाम् अधीशा || क्र. दी. ८.९३ ||
अस्य रुक्मिणी-वल्लभस्य ध्यानात् शीघ्रं त्रिदश-मृग-दृशः देवाङ्गना अवश्यं वश्यताम् आयात्ततां प्राप्नुवन्ति | कथम्भूताः ? काम-पीडिता | अथानन्तरं जप-होमादिनास्मात् मन्त्रात् साधकस्य किं न सुलभम् | अपि तु सर्वम् एव सुलभम् इत्य् अर्थः | किं च, इदम् अपि महच् चित्रं यत् सरसिज-निलया लक्ष्मीः वाचाम् अधीशा सरस्वती च स्वाभाविकीम् असूयां त्यक्त्वा नित्यम् एनं साधक-श्रेष्ठं सेवेते || क्र. दी. वि. ८.९३ ||
______________________________
आधि-व्याधि-जरापमृत्यु-दुरितैर् भूतैः समस्तैर् विषैर्
दौभाग्येन दरिद्रतादिभिर् असौ दूरं विमुक्तश् चिरम् |
सत्-पुत्रैः सुसुतासुमित्रनिवहैर् जुष्टोखिलाभिः सदा
सम्पद्भिः परिजुष्ट ईडित-यशा जीवेद् अनेकाः समाः || क्र. दी. ८.९४ ||
किं च मनो-दुःख-रोग-जरापमृत्यु-शोक-शून्यः सकल-प्राणिभिर् विषैः तथा दुरदृष्टेन तथा दरिद्रतादिभिर् अतिशयेन परित्यक्तो बहु-कालं व्याप्य-विशिष्ट-पुत्र-समेतः सत्-पुत्री-मित्र-समूहेन सेवितः सदा समृद्धः ईदित-यशाः स्तुत-यशाः असौ साधकः अनेकाः समा हायनानि जीवेत् || क्र. दी. वि. ८.९४ ||
______________________________
मन्त्रान्तरेभ्यो ऽस्यातिशयित्वम् आह-
अखिल-मनुषु मन्त्रा वैष्णवा वीर्यवन्तो
महिततर-फलाढ्यास् तेषु गोपाल-मन्त्राः |
प्रबलतर इहैषो ऽमीषु संमोहनाख्यो
मनुर् अनुपम-सम्पत्-कल्पनाकल्प-शाखी || क्र. दी. ८.९५ ||
सर्वेषु मन्त्रेषु वैष्णव-मन्त्रा अतिशयेन सवीर्याः तेष्व् अपि वैष्णव-मन्त्रेषु गोपाल-मन्त्रा अतिपूजित-फल-युक्ताः तेष्व् अपि गोपाल-मन्त्रेषु एष संमोहनाख्य-मन्त्रः प्रबलतरः प्रकृष्ट-बल-युक्तः | पुनः निरुपमैश्वर्य-दानैक-कल्प-वृक्षः || क्र. दी. वि. ८.९५ ||
______________________________
मनुम् इमम् अतिहृद्यं यो भजेद् भक्ति-नम्रो
जप-हुत-यजनाद्यैर् ध्यानवान् मन्त्रि-मुख्यः |
त्रुटित-सकल-कर्म-ग्रन्थिर् उद्बुद्ध-चेताः
व्रजति स तु पदं तन् नित्य-शुद्धं मुरारेः || क्र. दी. ८.९६ ||
यो मन्त्रि-मुख्यः साधक-श्रेष्ठः ध्यान-युक्तः भक्त्या आराध्यत्व-ज्ञानेन इमं मन्त्रं मनोहरं जप-ध्यान-होमादिभिर् भजेत् स मुरारेस् तत्-प्रसिद्धं पदं व्रजति प्राप्नोति मुरा अविद्या तस्या नाशकस्य पदम् | कीदृशं पदम् ? अविनाशि सर्व-कालुष्य-रहितम् | स कीदृशः ? विनाशित-सकल-कर्म-बन्धनः | पुनः कीदृशः ? उद्बुद्ध-चेता वस्तु-ग्रहणोन्मुख-चित्तः || क्र. दी. वि. ८.९६ ||
______________________________
अथ योगम् आह-
अङ्गीकृत्यैकम् एषां मनुम् अथ जप-होमार्चनाद्यैर् मनूनाम्
अष्टाङ्गोत्सारितारिः प्रमुदित-परिशुद्ध-प्रसन्नान्तरात्मा |
योगी युञ्जीत योगान् समुचित-विहृति-स्वप्न-बोधा हृतिः स्यात्
प्रागास्यश् चासने स्वे सुमृदुनि समुखं मीलिताक्षो निविष्टः || क्र. दी. ८.९७ ||
एषां मनूनां मन्त्राणां मध्ये एकं मनुम् मन्त्र-जप-होमादिभिः स्वीकृत्य वशीकृत्य अष्टाङ्गेन यम-नियम-प्राणायाम-प्रत्याहार-ध्यान-धारणा-समाधि-लक्षणेन उत्सारितास् त्यक्ताः काम-क्रोधादयो ऽरयो येन स तथा हर्षित-निर्मल-प्रसन्न-चित्तो योगी प्राग्-वदनः सन् योगान् चित्त-वृत्ति-निरोधादीन् करोतु | कीदृशो योगी ? यथोचित-विहार-निद्रा-प्रबोधाहारः | पुनः स्वकीये सुकोमले आसने समुपविष्टः | पुनः कीदृशः ? सुखेनानायसेन संमीलिते मुद्रिते अक्षिणी येन सः ||९७||
______________________________
विश्वं भूतेन्द्रियान्तःकरण-मयमिनेन्द्व्-अग्नि-रूपं समस्तं
वर्णात्मैतत् प्रधाने कल-नयन-मये बीज-रूपे ध्रुवेण |
नीत्वा तत्-पुंसि बिन्द्व्-आत्मनि तम् अपि परात्मन्य् अथो काल-तत्त्वे
तं वै शक्तौ चिद्-आत्मन्य् अपि नयतु च तां केवले धाम्नि शान्ते || क्र. दी. ८.९८ ||
एतद्-वर्णात्मकं समस्तं विश्वं भूतेन्द्रियान्तः-करण-रूपं सूर्येन्द्व्-अग्नि-रूपं प्रधाने प्रकृति-रूपे काम-बीजे प्रणवेन नीत्वा तत्र विलीनं विचिन्त्य तत् काम-बीजं बिन्द्व्-आत्मनि प्रसिद्धे ऽनुस्वाराख्ये तम् अपि बिन्द्व्-आत्मानं नादाख्ये काल-तत्त्वे परमात्मनि संहरेत् तम् अपि काल-तत्त्वं चिद्-रूपायां शक्तौ संहरेत् ताम् अपि शक्तिं केवले तेजो-मये स्व-प्रकाशे धाम्नि तेजसि शान्ते सर्वोपद्रव-रहिते नयतु || क्र. दी. वि. ८.९८ ||
______________________________
कीदृशे ?
निर्द्वन्द्वे निर्विशेषे निरतिशय-महानन्द-सान्द्रे ऽवसाना-
पेते ऽर्थे कृष्ण-पूर्वमल-रहित-गिरां शाश्वते स्वात्मनीत्थम् |
संहृत्याभ्यस्य बीजोत्तमम् अथ शनकैर् लीन-निश्वास-चेताः
प्रक्षीणापुण्य-पुण्यो निरुपम-पर-संवित्-स्वरूपः स भूयात् || क्र. दी. ८.९९ ||
निर्द्वन्द्वे शीतोष्णादि-द्वन्द्व-विशेष-रहिते विशेषो वैधर्म्यं तद्-रहिते अत्यन्तानन्द-घने अनन्ते कृष्ण-गोविन्दादि-निर्मल-शब्दानां प्रतिपाद्ये आत्म-स्वरूपे इत्थम् अमुना प्रकारेण संहृत्य संहारं कृत्वा काम-बीजं जपन् | अथानन्तरं स्वयम् एव निश्चल-श्वास-चित्तो भूत्वा प्रक्षीण-पाप-पुण्यश् च भूत्वा स योगी निरुपमः परम-संविन्-मयो भवति || क्र. दी. वि. ८.९९ ||
______________________________
मूलाधारे त्रि-कोणे तरुणतरणिभाभास्वरे विभ्रमन्तं
कामं बालार्क-कालानल-जठर-कुरङ्गाङ्क-कोटि-प्रभासम् |
विद्युन्-माला-सहस्र-द्युति-रुचिर-हसद्-बन्धु-जीवाभिरामं
त्रैगुण्याक्रान्त-बिन्दुं जगद्-उदय-लयैकान्त-हेतुं विचिन्त्य || क्र. दी. ८.१०० ||
त्रिकोणात्मके मूलाधारे उद्यद्-आदित्यवत् प्रकाशमाने भ्रममाणं काम-बीजं नूतनादित्य-प्रलय-कालीन-वह्नि-चन्द्र-कोटि-तुल्य-कान्तिं पुनस् तडिन्-माला-सहस्र-कान्तिं पुनः नूतन-पुष्पित-बन्धुकवन् मनोहरं सत्त्वादि-गुण-त्रयेण व्याप्तो ऽनुस्वार-संज्ञको बिन्दुर् येन तं पुनः विश्वोत्पत्ति-नाशैक-कारणम् || क्र. दी. वि. ८.१०० ||
______________________________
तस्योर्ध्वे विस्फुरन्तीं स्फुट-रुचिर-तडित्-पुञ्ज-भाभास्वराभाम्
उद्गच्छन्तीं सुषुम्णा-सरणिम् अनु-शिखाम् आललाटेन्दु-बिम्बम् |
चिन्-मात्रां सूक्ष्म-रूपां कलित-सकल-विश्वां कलां नाद-गम्यां
मूलं या सर्व-धाम्नां स्मरतु निरुपमां हुङ्कृतोदञ्चितेरः || क्र. दी. ८.१०१ ||
तस्य काम-बीजस्य उपरि बिद्नु-गत-कुण्डलिनीं शक्तिं दीप्यमानां चिन्तयतु | किम्भूताम् ? प्रव्यक्त-मनोहर-विद्युत्-सहस्रवत् प्रकाशमान-कान्तिं, पुनः ललाट-चन्द्र-बिम्बान्तं सुषुम्णा-रन्ध्रं यान्तीं, पुनः अनु अनुगता बीज-गत-बिइम्बात्मके वह्नि-शिखा ज्वाला यस्यां सा तथा ताम् | पुनः किम्भूताम् ? चित्-स्वरूपाम् | पुनः दुर्लक्षां | पुनर् आप्त-सकल-विश्वां | पुनः कला-रूपाम् | पुनः नादानुमेयां | पुनः सर्व-तेजसां मूल-भूताम् | कीदृशो ऽधिकारी ? हुङ्कारेण उदञ्चित ऊर्ध्वम् उत्पाटित इरो वायुर् अपानाख्यो येन स तथा || क्र. दी. वि. ८.१०१ ||
______________________________
नीत्वा ता शनकैर् अधोमुख-सहस्रारारुणाब्जोदर-
द्योतत्-पूर्ण-शशाङ्क-बिम्बम् अमुतः पीयूष-धारा-सृतिम् |
रक्तां मन्त्रमयीं निपीय च सुधा-निस्यन्द-रूपां विशेद्
भूयो ऽप्य् आत्म-निकेतनं पुनर् अपि प्रोत्थाय पीत्वा विशेत् || क्र. दी. ८.१०२ ||
तां कुण्डलिनीं शक्तिं शनकैर् यथा स्याद् एवम् अधोमुख-सहस्र-दलारुण-कमल-मध्य-द्योतमान-पूर्ण-चन्द्र-मण्डलं नीत्वा अस्माच् चन्द्र-बिम्बाद् अमृत-धारा-वृष्टिं रक्त-वर्णां वर्णात्मिकाम् अमृत-स्रव-रूपां पाययित्वा आत्म-निकेतनं मूलाधारे प्रवेशयेत् | भूयो ऽनन्तरम् अपि तथैव ताम् उत्थाप्य तथा कृत्वा पुनस् तथा निज-स्थानं प्रापयेद् इति || क्र. दी. वि. ८.१०२ ||
______________________________
एतादृशाभ्यासस्य फलम् आह-
यो ऽभ्यस्यत्य् अनुदिनम् एवम् आत्मनो ऽन्तं
बीजेशं दुरित-जरापमृत्यु-रोगान् |
जित्वासौ स्वयम् इव मूर्तिमान् अनङ्गः
संजीवेच् चिर-मलिनीलकेश-पाशः || क्र. दी. ८.१०३ ||
यः प्रत्यहम् अनेन प्रकारेण शरीर-मध्ये काम-बीजम् अभ्यस्यत्य् आत्मनो ऽन्तं मनो-लयान्तम् इदम् अभ्यस्यतीति क्रिया-विशेषणम् असौ साधकः दुरित-जरापमृत्यु-रोगान् पराभूय स्वयम् एव देह-धारि-कन्दर्पो भूत्वा चिर-कालं जीवति | कीदृशः ? भ्रमर-वर्णवत् श्याम-केश-समूहः || क्र. दी. वि. ८.१०३ ||
______________________________
स्फुट-मधुर-पदार्ण-श्रेणिर् अत्यद्भुतार्था
झटिति-वदन-पद्माद् विस्फुरत्य् अस्य वाणी |
अपि च सकल-मन्त्रास् तस्य सिध्यन्ति मङ्क्षु
व्युपरम-घन-सौख्यैकास्पदं वर्तते सः || क्र. दी. ८.१०४ ||
अस्य साधकस्य मुख-कमलान् शीघ्रं सरस्वती प्रभवती | किम्भूता ? प्रव्यक्त-मनोहर-पद-वर्ण-समूहात्मिका अत्याश्चर्य-विषया किन्तु अस्य साधकस्य मङ्क्षु अन्ये ऽपि मन्त्राः सिध्यन्ति किं च स साधकः अविश्रान्त-निविड-सुख-मात्र-स्थान्ं भूत्वा तिष्ठति || क्र. दी. वि. ८.१०४ ||
______________________________
भ्राम्यन्-मूर्तिं मूल-चक्राद् अनङ्ग
स्वाभिर् भाभीरक्त-पीयूष-युग्भिः |
विश्वाकाशं पूरयन्तं विचिन्त्य
प्रत्यावेश्यास् तत्र वश्याय साध्याः || क्र. दी. ८.१०५ ||
नार्यो नरो वा नगरी सभापि वा
प्रवेशितास् तत्र निशात-चेतसा |
स्युः किङ्करास् तस्य झटित्य् अनारतं
चिराय तन् निघ्न-धियो न संशयः || क्र. दी. ८.१०६ ||
मूल-चक्रान् मूलाधारे अत्र सप्तम्य्-अर्थे पञ्चमी भ्रमण-मूर्तिं काम-बीजं स्वकीयाभिर् दीप्तिभिर् लोहितामृत-युक्ताभिर् ब्रह्माण्ड-मध्य-प्रदेशे पूर्यमाणं ध्यात्वा निशात-चेतसा तीक्ष्ण-मतिना तत्र नारी-प्रभृतयः साध्यावश्यार्थं प्रत्यावेश्याः प्रक्षेप्तव्या | अनन्तरं तत्र प्रवेशिताः प्रवेश-प्रापिताः स्त्री-प्रभृतयस् तन्-निमग्न-धियस् तेन हृत-चित्ताः | तस्य साधकस्य शीघ्रं चिर-कालम् आज्ञा-कारिणो भवन्ति नात्र सन्देहः || क्र. दी. वि. ८.१०५-१०६ ||
______________________________
तरणि-दल-सनाथे शक्र-गोपारुणे यो
रवि-शशि-शिखि-बिम्ब-प्रस्फुरच्-चारु-मध्ये |
हृदय-सरसिजे ऽमुं श्यामलं कोमलाङ्गं
सुसुखम् उपनिविष्टं तं स्मरेद् वासुदेवम् || क्र. दी. ८.१०७ ||
तद्-द्वादश-दल-युक्ते हृदय-कमले इन्द्र-गोपाख्यो रक्त-कीट-विशेषः तद्वद् अरुणे सूर्य-वह्नि-चन्द्र-मण्डल-शोभित-चारु-मध्य-प्रदेशे अमुं श्याम-वर्णं कोमलाङ्गं सुकुमाराङ्गं सुख-प्रकारेणोपविष्टं वासुदेवं चिन्तयेत् || क्र. दी. वि. ८.१०७ ||
______________________________
पादाम्भोज-द्वये ऽङ्गुल्य्-अमल-किशलयेष्व् आबलौ सन्-नखानां
सत्-कूर्मोदार-कान्तौ प्रपद-युजि लसज्-जङ्घिका-दण्डयोश् च |
जान्वोर् ऊर्वोः पिशङ्गे नव-वसन-वरे मेखला-दाम्नि नाभौ
रोमावल्याम् उदारोदर-भुवि विपुले वक्षसि प्रौढ-हारे || क्र. दी. ८.१०८ ||
आदि-पुंसः श्री-कृष्णस्य पादाम्भोजम् आरभ्य हसितान्तेषु स्थानेषु वक्ष्यमाणेषु शनैर् यथा स्यात् तथा इति क्रमतः स्थान-क्रमतः स्थान-क्रमेण स्वीयं मनः स्थापयतु | तथा पाद-पद्म-द्वये प्रथमं मनः स्थापयेत् | तद्-अनन्तरं पूर्वं पूर्वं अपोह्यापर-स्थानेषु मनो निदध्याद् अङ्गुल्य एवामल-किशलया निर्मल-पल्लवास् तेषु | तद् अनु नखानां शोभमान-पङ्क्तौ तद्-अनु प्रपद-युजि पाद-द्वये | कीदृशे ? कूर्म-पृष्ठवद् उपरि-भागे उन्नते | तद्-अनु देदीप्यमान-जङ्घा-द्वये | तद्-अनु जानु-द्वये ऊरु-द्वये पीत-वर्णे नूतन-वस्त्रयोः श्रेष्ठे क्षुद्र-घण्टिका-मालायां नाभि-प्रदेशे तन्-निष्ठ-रोम-पङ्क्तौ च विपुलोदर-स्थाने महाहार-युक्ते विस्तीर्णे वक्षसि || क्र. दी. वि. ८.१०८ ||
______________________________
श्रीवत्से कौस्तुभे च स्फुट-कमल-लसद्-बद्ध-हृद्-दाम्नि बाह्वोर्
मूले केयूर-दीप्ते जगद्-अवन-पटौ दोर्-द्वये कङ्कणाढ्ये |
पाणि-द्वन्द्वाङ्गुलि-स्थे ऽतिमधुर-रव-संलीन-विश्वे च वेणौ
कण्ठे सत्-कुण्डलोस्रस्फुट-रुचिर-कपोल-स्थ-द्वन्द्वके च || क्र. दी. ८.१०९ ||
श्रीवत्से विप्र-पादावघात-तर्जन्योर्ध्व-रोमात्मके कौस्तुभे हृदय-निविष्ट-मणि-विशेषे विकसित-पद्म-मालायां केयूर-शोभित-बाह्वोर् मूले संसार-रक्षण-दक्षे कङ्कण-युक्ते बाहु-द्वये हस्त-द्वयाङ्गुलि-निष्ठे अतिमधुर-शब्देन मग्नं जगत्-त्रयं येन एवम्भूते वेणौ | तद्-अनु कण्ठे रम्य-कुण्डल-किरण-प्रकाशित-मनोहर-कपोल-स्थ-युगले || क्र. दी. वि. ८.१०९ ||
______________________________
कर्ण-द्वन्द्वे च घोणे नयन-नलिनयोर् भ्रू-विलासे ललाटे
केशेष्व् आलोल-बर्हेष्व् अतिसुरभि-मनोज्ञ-प्रसूनोज्ज्वलेषु |
शोणे विन्यस्त-वेणाव् अधर-किशलये दन्त-पङ्क्त्यां स्मिताख्ये
ज्योत्स्नायाम् आदि-पुंसः क्रम इति च शनैः स्वं मनः संनिधत्ताम् || क्र. दी. ८.११० ||
कर्ण-द्वये नासा-युगले नेत्र-पद्म-द्वये भ्रू-विक्षेपे ललाटे चञ्चल-मयूर-पुच्छ-युक्तेषु अतिसुगन्धित-मनोहर-पुष्पोज्ज्वलेषु केशेषु शोण-वर्णे आरोपित-वेणौ अधर-पल्लवे दन्त-पङ्क्त्यां स्मितम् आख्या नाम यस्या तस्यां ज्योत्स्नायाम् चन्द्र-कान्तौ ज्योत्स्ना-तुल्ये स्मिते || क्र. दी. वि. ८.११० ||
______________________________
यावन् मनो-विलयम् एति हरेर् उदारे
मन्द-स्मिते ऽभ्यसतु तावद् अनङ्ग-बीजम् |
अष्टादशार्णम् अथवापि दशार्णकं वा
मन्त्री शनैर् अथ समाहित-मातरिश्वा || क्र. दी. ८.१११ ||
हरेर् उदारे शोभमाने मन्द-स्मिते मनो यावद् विलयम् विशेषतो लयम् एति तावद् अनङ्ग-बीजम् अष्टादशार्णम् दशार्णं वा प्रजपतु | किम्भूतः ? समाहित-मातरिश्वा प्रत्याहरीकृतः प्राण-वायुः || क्र. दी. वि. ८.१११ ||
______________________________
आरोप्यारोप्य मनः पदारविन्दादि-मन्द-हसितान्तम् |
तत्र विलाप्य क्षीणे चेतसि सुख-चित्-सद्-आत्मको भवति || क्र. दी. ८.११२ ||
मनः पदारविन्दम् आरभ्य ईसद्-हास्य-पर्यन्तं समारोप्यानन्तरम् | तत्र विलाप्य लीनं कृत्वा क्षीणे शुद्धे चित्ते सति सुख-ज्ञान-सद्-आत्मको भवति साधकः || क्र. दी. वि. ८.११२ ||
______________________________
न्यास-जप-होम-पूजा-तर्पण-मन्त्राभिषेक-विनियोगानाम् |
दीपिकयैव मयोद्भाषितः क्रमः कृत्स्न-मन्त्र-गण-कथितानाम् || क्र. दी. ८.११३ ||
कृष्ण-मन्त्र-समूह-कथितानां न्यास-जपादीनां क्रम-दीपिकयैव क्रमः प्रकाशितः || क्र. दी. वि. ८.११३ ||
______________________________
संशय-तिमिर-च्छिदुरा सैषा क्रम-दीपिका करेण सद्भिः |
कर-दीपिकेव धार्या सस्नेहम् अहर्निशं समस्त-सुखाप्त्यै || क्र. दी. ८.११४ ||
सैषा क्रम-दीपिका साधु-जनैः स-स्नेहं यथा स्यात् तथा कर-दीपिकेव धार्या | किम्भूता ? संशय-रूपान्धकार-च्छेदयित्री अन्यापि तैलादि-स्नेह-सहितं यथा स्यात् तथा धार्यते अन्धकार-नाशिनी भवति | किम् अर्थं धार्या ? समस्त-सुख-प्राप्त्य्-अर्थम् || क्र. दी. वि. ८.११४ ||
______________________________
जगद् इदम् अनुबिद्धं येन यस्मात् प्रसूते
यद् अनु ततम् अजस्रं पाति चाधिष्ठिता यम् |
यद् उरु मह उदर्चिर् यं विधत्ते च गोपी
तम् अमृत-सुख-बोध-ज्योतिषं नौमि कृष्णम् || क्र. दी. ८.११५ ||
जगद् इदम् अनुविद्धम् अनुस्यूतं येन ज्योतिषा यस्मात् परमेश्वरात् इमं जन-लोकं संसाराख्यं प्रसूते प्रसूतिं प्रानोतीत्य् अर्थः | यस्मिन्न् इत्य् अपि पाठः | तथा परमेश्वरम् अधिष्ठातारम् आश्रिता सती अनुततं विस्तृतं जगत् अजस्रं सर्वदा पाति रक्षति यस्य परमेश्वरस्य ऊरु विपुलं महः तेजः तत् उदर्चिस् तत्-तेजसा उदित-दीप्तिः सती यं प्रतिबिम्ब-रूपेण धत्ते तम् उक्तानन्दं स्व-प्रकाशं नौमि स्तौमि || क्र. दी. वि. ८.११५ ||
______________________________
यश् चक्रं निज-केलि-साधनम् अधिष्ठान-स्थितो ऽपि प्रभुर्
दत्तं मन्मथ-शत्रुणावन-कृते व्यावृत्त-लोकात्तिकम् |
धत्ते दीप्त-नवेन शोभनम् अघापेतात्त-मायं ध्रुवं
वन्दे काय-विमर्दनं वध-कृतां भुञ्जद्-द्युकं यादवम् || क्र. दी. ८.११६ ||
यः परमेश्वरः श्री-कृष्णः वक्ष्यमाण-लक्षणं चक्रं धत्ते तं वन्दे इत्य् अन्वयः | कथम्भूतं चक्रम् ? निज-केलि-साधनं निज-युद्ध-क्रीडा-करणम् | कीदृशः परमेश्वरः ? अधिष्ठान-स्थितो ऽपि समाधि-स्थितो ऽपि | यद् वा, बाह्य-स्थितो ऽपि प्रभुः स्वामी | पुनः कीदृशैः ? मन्मथ-शत्रुणा महा-देवेन अवने अवन-कृते सर्व-लोक-रक्षार्थं दत्तम् | पुनर् दूरीकृतातिवृष्ट्य्-अनावृष्ट्य्-आद्य्-अपद्रवं, पुनः दीप्त-नवेन इव शोभनं देदीप्यमानम् | किं भूतं कृष्णम् ? पाप-रहितं स्वीकृत-मायं पुनर् ध्रुवम् अविनाशिनं पुनर् वध-कृताम् उपद्रव-कारिणां काय-विमर्दनं शरीर-नाशकं पुनः भुञ्जद्-द्युकं भुञ्जत्-स्वर्ग-लोकं पुनर् जात्यायाद् अवम् इत्य् अर्थः | अत्र पद्ये चक्र-बन्धे ग्रन्थ-कर्ता स्व-नाम प्रक्षिप्तवान् इति बोध्यम् || क्र. दी. वि. ८.११६ ||
इति श्रीमन्-महामहोपध्याय-श्री-केशव-काश्मीरि-भट्ट-गोस्वामि-विरचितायां
क्रम-दीपिकायां अष्टमः पटलः |
||८||
समाप्तो ऽयं ग्रन्थः