close


  • श्रीश्रीहरिनामामृतव्याकरणम्

 

श्रीश्रीलजीवगोस्वामिप्रभुपादेन विरचितं सवृत्तिकं श्रीश्रीहरिनामामृतव्याकरणं

॥ प्रथमं प्रकरणम् ॥

 
 उद्बोधिका

अथ श्रीगौडीयसम्प्रदायाचार्यवर्यैः श्रीश्रीकृष्णचैतन्यचरणाब्जभृङ्गैर्भक्त्सिद्धान्तामृतसुरधुनीराजहंसैर्विश्ववैष्णवराजसभापात्रराजप्रवरैरखिलशास्त्रसिन्धुपारीणैर्निखिलकविकुलनीराजितपदपङ्कजैः षड्गोस्वामिनामन्यतमैः श्रीश्रीलश्रीजीवगोस्वाम्प्रभुपादैः शब्दब्रह्मामृताकूपारं समुन्मथ्य जीवनिकायहिताय श्रीहरिनामामृतं समुद्दिधीर्षुभिर्व्याकरणमिषेण सर्वेभ्य एव जीवेभ्यः सुमहती कृपा वितीर्णा ।

वेदपुरुषः श्रीनारायणोऽनादिबहिर्मुखतानिसर्गवशानां तत्तदासक्तिनिष्ठानां श्रेयसे परोक्षवादमवलम्ब्य कर्मज्ञानविग्रहच्छलेन ब्रह्मद्वारा ब्रह्माण्डेषु यथा तत्तत्काण्डान्याविर्भावितवान्, तदुन्मुखेषु स्वरूपप्रदर्शनेन तीव्रविरहार्तिप्रशमनाय तद्द्वारा च निखिलजीवनिकायनिःश्रेयसपद्धतिं बोधयितुं भक्तिकाण्डमपि तथा सम्प्रकाशयामास । तत्र श्रुतिप्रतिपादितविषयज्ञानाय शिक्षाकल्पव्याकरणच्छन्दोज्योतिषनिरुक्ताख्यानां षण्णां वेदाङ्गानां प्राथमिकाभ्यास एवावश्यकर्तव्यतया नियमितस्तत्त्वदर्शिभिर्महादेशिकवरैः । तेषु व्याकरणाख्यं शब्दशास्त्रं वेदपुरुषवदनारविन्दजमिति तत्पूर्णज्ञानमन्तरेण का कथा श्रौतविद्यायां, गीर्वाणवाण्यामपि प्रवेशाधिकारः सर्वतो निरुद्ध एव ।

किं च, निर्गुणविशुद्धसत्त्वे परव्योमजचिन्मयशब्दब्रह्मावतारं ऋते निखिलापराविद्यापराकाष्ठाभिज्ञानामपि सर्ववेदान्तसारं निगमकल्पतरुगलितफलमन्धतमस्तितीर्षूणामध्यात्मदीपं वेदपुराणकाव्येति त्रिवृदेकाधारं प्रभुमित्रप्रियवद्धितकारकं श्रीमद्भागवतं प्रवचनमेधाभूरिश्रुताद्यक्षप्रयासैरप्यनधिगम्यं तिष्ठेत्, यदृते परमश्रेयःश्रीभगवत्प्रीत्युदयः कथम्चित्कदापि नैव सम्भवेत। अतः स्वयंभगवता श्रीविश्वम्भरलीलया प्रत्यक्षरं प्रतिधातु प्रतिशब्दं च विद्वद्रूढिवृत्त्या केवलं श्रीकृष्णाभिधेयत्वं प्रतिपादितम् । तच्छक्त्याविष्टैः श्रीश्रीलसनातनगोस्वामिप्रभुपादैरपि श्रीश्रीसङ्क्षेपहरिनामामृते सङ्केतितप्रणाल्या तदनुगवरैः श्रीश्रीमज्जीवगोस्वामिचरणैस्तन्महाकारुण्यार्चाविग्रह इवैतत्श्रीश्रीहरिनामामृताख्यं शब्दानुशासनं स्वीयचिदास्वादनपारिपाटितो जीवोपकृतये सज्जनलीलाविलासस्मृतये च प्रकटितम् । सूत्रेषु वृत्तिषूधारणेषु च श्रीहरिनामरूपगुणलीलापरिकराणां स्वस्वसाधनोचितभगवत्कृपास्फूर्तिवैशिष्ट्यानुभूतिरेवास्य मुख्यप्रयोजनमिति ग्रन्थारम्भपद्यचतुष्टये तथोपसंहृतिस्रग्धरायुगले च सुव्यक्तम् ।

प्रचरत्स्वपीन्द्रचन्द्रकाशकृत्स्नापिशलिशाकटायनपाणिन्यमरजैनेन्द्रप्रमुखानामादिशाब्दिकानां शर्ववर्महेमचन्द्रानुभूतिस्वरूपाचार्यवोपदेवक्रमदीश्वरपद्मनाभदत्तप्रभृईनां च नव्यानां प्रणीतेषु निबन्धेषु एतच्छब्दशास्त्रप्राकट्यस्यैतदेव वैशिष्ट्यं—सूत्रादिषु साङ्केत्यादिभिरपि गृहीतं श्रीनाम तदभ्यासपरेभ्यः सर्वापराधादुन्मुच्य स्वान्तर्बहिश्च निखिललोकलावण्यनिर्मुक्तिं स्वमूर्तिं प्रकाश्य क्रमवशात्स्वरूपोद्बोधनपूर्विकां भगवद्रूपगुणलीलादिषु तेषां प्रवेशयोग्यतां समुत्पाद्येदिति । नृमात्रस्यात्राधिकारित्वेऽपि दिव्यज्ञानेन प्रयोजनवतां वैकुण्ठानुभूतिसमुत्सुकानां श्रीमद्भागवतरसास्वादलिप्सूनां परविद्यानुशीलनाभिकाङ्क्षाणां सतामवश्यमेव व्याकरणामृतमेतद्रसिककार्ष्णवदनविनिर्गतं कर्णपुटयुगलेन सादरं पानीयम्, पुनः पुनरावृत्त्या च स्नानादिना सत्कर्तव्यम् । समासेनैतद्वक्तव्यं यदखिलरसामृतमूर्तिः श्रीहरिरेव मनुजाभ्युपपत्तये श्रीहरिनामामृतमूर्त्या क्षितितले स्वावतारं प्रकटितवान। शब्दशास्त्रान्तरपाठकवाचकानामिवास्याध्ययनाध्यापनादौ नास्ति सुदुर्लभमानवजीवनकालात्ययः, परं तु सुरभारतीव्युत्पत्तिवासनामात्रपरायणानामप्यज्ञातभावेनैव सुकृतिपुञ्जसञ्चयात्सद्भक्तिसोपानपरम्परायां क्रमोन्नयनं प्रतिपदं च तथा सदा तद्भावभावितत्वं सम्पद्येत, यथा भौमदेहाप्ययावसरे तत्स्मृत्यनपगमात्श्रीहरिसाहित्यानन्दाप्तिः सुघटैव स्यात। अतो व्याकरणमरुणीवृति जीवनलुब्धाः सदाघसंविग्नाः के वा स्वैरमवतीर्णस्येतस्यानायासलभ्यस्य श्रीहरिनामामृतस्य पानावगाहनादितो विरमेयुः ?

द्विनवत्यधिकैकत्रिंशत्शत (३१९२)सूत्रयुते सप्तप्रकरणात्मकेऽस्मिन्व्याकरणे प्रतिप्रकरणमङ्गलाचरणश्लोके श्लेषप्रयोगेण भक्तिपरव्याख्यामुररीकृत्य व्याकरणोद्दिष्टतात्पर्यमपि संसूचितम् । तत्र तावत्प्रथमप्रकरणे संज्ञा सन्धिश्च, द्वितीये विष्णुपदप्रकरणे शब्दरूपविशेषणलिङ्गसर्वनामाव्ययशब्दाः, तृतीये आख्यातप्रकरणे धातुप्रक्रिया उपसर्गविधौ किञ्चित्विशिष्टं च, चतुर्थे कारकप्रकरणे कारकविवेक उपपदविभक्तिर्लकारार्थनिर्णय आत्मनेपदपरस्मैपदविधानं च, पञ्चमे कृदन्तप्रकरणे कृत्प्रत्यया उणादिप्रत्ययाश्च, षष्ठे समासप्रकरणे समासप्रकाराः समासाश्रयविधिः पूर्वपरनिपाता द्विरुक्तविधिश्च, सप्तमे तद्धितप्रकरणे समासान्तस्त्रीप्रत्ययाः सोपपत्ति सोदाहरणं च निरूपिताः ।

व्याकरणेऽस्मिन्खलु पाणिन्यादिवैयाकरणसम्मतप्रत्याहारादिकमनादृत्य अवरोहमार्गेण सिद्धवर्णसमाम्नायमेवोररीकृत्य श्रीहरिनाममयाः संज्ञाः संज्ञा निबद्धाः । विदितमस्त्वेतत्—मात्रालाघवमात्रेण पुत्रोत्सवं मन्यमानानां वैयाकरणान्तराणां तिरस्कारेण श्रीहरिनामाक्षरलाभादत्र सूत्रेषु मात्राबाहुल्यमेव पुरस्कृतम् । वैदिकप्रकरणाभाववत्त्वे उणादिप्रत्ययसङ्क्षिप्तत्वेऽपि च (कृदन्तप्रकरणं, ३६६३७५तमसूत्राणि) प्रक्रियाकौमुदीसारस्वतव्याकरणप्रभृतीनां भ्रमप्रमादादिकं प्रदर्शयद्भिः, तथा स्थलविशेषेषु नैकसाहित्यव्याकरणादिग्रन्थेभ्यो बहुश उदाहरणादिकं समुद्धृत्य मतान्तराणि समुल्लिख्य समालोच्य च श्रीश्रीमज्जीवगोस्वामिचरणैर्व्याकरणविचिकित्सायां विशुद्धं मतं समुपन्यस्तम् । किं च, प्राचीनवैयाकरणवत्स्त्रीप्रत्ययप्रकरणं पृथक्तया अपठित्वा नाममयप्रत्ययसादृश्यात्तद्धितप्रकरण एव पठितमित्यपि विदुषामवधेयम् ।

ग्रन्थोपसंहारे श्रीश्रीलश्रीजीवगोस्वामिपादैर्ग्रन्थनिर्मितावेतत्कारणमुट्टङ्कितं, यत्श्रीगोपालदासस्य कृते व्याकरणस्यास्य प्रकाशनमिति । श्रीश्रीगोविन्ददेवसेवाधिकारिणां श्रीहरिदासपण्डितपादानां शिष्यप्रवरेण श्रीराधाकृष्णगोस्वामिना विरचितायां श्रीसाधनदीपिकायां नवमकक्षायां श्रीगोपालदाससम्बन्धे वृत्तान्तमेतत्प्रकटितम्—

तत्र शिष्यपरम्पराश्रवणमाह—गोपालदासनामा कोऽपि वैश्यः श्रीजीवगोस्वामिपादानां प्रियशिष्यः । हरिनामामृते तन्नाम स्पष्टमेवोट्टङ्कितम् । तद्यथा—हरिनामामृतसंज्ञं यदर्थमेतत्प्रकाशयामासे । उभयत्र मम मित्रं स भवतु गोपालदासाख्यः ॥ इति ।

मुर्शिदाबादबहरमपुरतः श्रीरामनारायणविद्यारत्नप्रकाशिते श्रीश्रीहरिनामामृतव्याकरणे टीकाद्वयं दृश्यते । तत्र राढदेशीयस्वर्णमुखीग्रामनिवासिश्रीहरेकृष्णाचार्यो बालतोषणीनाम्नीं टीकां समासप्रकरणस्य ऊनषष्ट्यधिकद्विशततमसूत्रावधि विरच्य टीकायामसमाप्तायामेव संसारविषयं हित्वा व्रजं गतः । तदनन्तरं वीरभूमस्थकेन्दुबिल्वग्रामे निवसता तुर्याश्रमिश्रीमद्गोपीचरणदासवेदान्तभूषणेन १२५३तमबङ्गाब्दे (१७६८तमशकाब्दे) समासप्रकरणावशिष्टटीकां बालतोषणीति नाम्नैव समाप्य तद्धितोद्दीपनीनाम्नी अन्त्यस्य तद्धितप्रकरणस्य टीका चक्रे । जयपूरीयश्रीगोविन्ददेवमन्दिरग्रन्थागारे श्रीराधाकृष्णदासकृतटीकासहितस्य श्रीश्रीहरिनामामृतव्याकरणस्य बङ्गाक्षरमयीइ करलिपिरेका वर्तते ।

श्रीश्रीलजीवपादैः श्रीधामवृन्दावनात्श्रीश्रीलश्रीनिवासाचार्यप्रभूणां सविधे सम्प्रेषिते पत्रद्वये श्रीश्रीहेतुविशेषस्य शोधनप्रेषणादिकं समुल्लिखितमिति श्रीलनरहरिचक्रवर्तिठक्कुरकृतश्रीभक्तिरत्नाकरे चतुर्दशतरङ्गप्रारम्भे द्रष्टव्यम् ।

वैष्णवव्याकरणकृतानि व्याकरणान्यधः संसूच्यन्ते—

(१) श्रीश्रीलसनातनगोस्वामिपादकृतं सङ्क्षेप(लघु)हरिनामामृतव्याकरणं श्रीहरेकृष्णाचार्यकृतबालतोषणीटीकाप्रारम्भे संसूचितं, संस्करणेऽस्मिन्परिशिष्टतया प्रथममेव प्राकाश्यं नीतम् । एतद्व्याकरणं श्रीश्रीलरूपगोस्वामिपादै रचितमित्यपि कैश्चिदभिमन्यते । ढाकाविश्वविद्यालयग्रन्थागारे प्राकृतपादसहितस्य श्रीलघुहरिनामामृतव्याकरणस्य १७४७ शकाब्दीया षट्त्रिंशत्पत्रात्मिका काचित्करलिपिः [४५१७], श्रीश्रीलरूपगोस्वामिप्रभुपादनाम्न्यारोपितस्य श्रीसङ्क्षेपहरिनामामृतव्याकरणस्य चैका षोडशपत्रात्मिका करलिपिः [द्.र्. १६२] वर्तेते ।

(२) श्रीश्रीलरूपगोस्वामिप्रभुपादकृता प्रयुक्ताख्यातचन्द्रिका श्रीभक्तिरत्नाकरे (१.८१६, ८२५) समुल्लिखिता । अद्यापि नोपलब्धा पुस्तिकैषा । सा तु भट्टमल्लकृताख्यातचन्द्रिकावत्क्रियाकोश इति कैश्चिदनुमन्यते ।

(३४) श्रीश्रीलजीवगोस्वामिप्रभुकृतौ श्रीश्रीहरिनामृतव्यकरणधातुसङ्ग्रहौ संस्करणेऽस्मिन्मुद्रितौ ।

(५) तत्कृतैव सूत्रमालिका नाद्याप्युपलब्धा ।

(६७) श्रीश्रीमद्बलदेवविद्याभूषणपादकृतौ व्याकरणकौमुदीपदकौस्तुभौ श्रीवृन्दावनीयश्रीराधारमणदेवसेवकवरश्रीमद्वनमालिलालगोस्वामिनां तदनुजवाराणसीवास्तव्यमहामहोपध्यायश्रीदामोदरलालगोस्वामिनां च ग्रन्थागारे आस्तामिति वार्ता । व्याकरणकौमुदी च श्रीधामवृन्दावनस्थश्रीराधाचरणविद्यावागीशमहोदयस्य ग्रन्थालये वर्तत इत्यपि श्रुतम् । पदकौस्तुभस्तु पाणिनीयसूत्रानुसारेण सङ्क्षेपतो बालबोधाय वृत्तमत्तया रचित इति ज्ञायते ।

एतद्व्यतिरिक्तानि वैष्णवै रचितानि कानिचित्व्याकरणानि ग्रन्थान्तरेभ्यः  ज्ञायन्ते, अत्र विव्रियन्ते च—

(८) श्रीश्रीमदद्वैतजनकेन श्रीमत्कुवेरतर्कपञ्चाननेन वर्धमानकृतसूत्रसारप्रक्रियामवलम्ब्य कातन्त्रसारांशं च क्रोडीकृत्य प्रणीतं सूत्रसारव्याकरणम् ।

(९) श्रीधामनवद्वीपवास्तव्यश्रीकाशीनाथविद्यानिवासेन श्रीवासुदेवसार्वभौमभ्रातुष्पुत्रेण रचितं शिशुबोधाख्यं व्याकरणम् ।

(१०) श्रीनवद्वीपनिवासिश्रीकाशीश्वरभट्टाचार्येण मुग्धबोधप्रक्रियां कातन्त्रपरिभाषादिकं चानुसृत्य कृतं शब्दरत्नाकराख्यं व्याकरणं  ।
 
(११) श्रीयदुनन्दनदासकृतजुमरकौमुदीग्रन्थस्यैका करलिपिः मद्रदेशस्थ आडियार्ग्रन्थशालायां सुरक्षितास्ते ।

(१२) श्रीश्रीलपरमानन्दसेनकविकर्णपूरगोस्वामिपादेषु श्रीचैतन्यामृताख्यव्याकरणस्य प्रणेतृत्वं कैश्चिदारोप्यते  ।

(१३) श्रीकृष्णलीलाशुकमुनिविरचिता श्रीभोजदेवकृतस्य सरस्वतीकण्ठाभरणाख्यव्याकरणस्य टीका  देवकृतस्य दैवव्याकरणस्य पुरुषकारनाम्नी टीका च४ । तेनैव विरचितेऽष्टसर्गात्मके श्रीगोविन्दाभिषेककाव्ये हेमचन्द्राचार्यकृतकुमारपालचरितकाव्यवत्प्राकृतभाषाव्याकरणस्य प्रयोगाः प्रदर्शिताः ।

(१४) श्रीविट्ठलनाथदीक्षितपुत्रेण श्रीवल्लभाचार्यसम्प्रदायिना श्रीगोविन्दनाथेन प्रणीतं श्रीगोविन्दव्याकरणम् ।

(१५) श्रीभरतमल्लिकविरचितः कारकोल्लासः खलु श्रीहरिनामामृतीयकारकप्रकरणमनुसृत्य लिखित इति तत्रोक्तोदाहरणादिकात्सुष्ठु ज्ञायते । कलिकातास्थसंस्कृतसाहित्यपरिषद्ग्रन्थमालायां मुद्रित एषः ।

स्थूलबङ्गाक्षरमुद्रितसूत्रादिकं नानाग्रन्थशालारक्षितप्राचीनकरलिपिसंवादितपाठान्तरैः संस्कृतं परिशिष्टद्वये श्रीश्रीसङ्क्षेपहरिनामृतव्यकरणेन श्रीश्रीलजीवगोस्वामिपादरचितधातुसङ्ग्रहेण च सहितं विषयश्लोकसूत्रसंज्ञापरिभाषान्यायधृतग्रन्थतत्प्रणेतृकारिकापद्यपद्यांशनामकृष्णनामसविवरणधातुविशेषशब्दगणस्त्रीप्रत्ययणत्वषत्वविधानादेशागमधात्ववयवधात्वनुबन्धकृत्प्रत्ययोणादिशब्दसमासान्ततद्धितप्रत्ययेतरव्याकरणादिस्थसंज्ञाप्रत्ययादिलक्ष्यसूचीभिः, श्रीहरिनामामृतस्थसंज्ञाशब्दानां पाणिनीयादिव्याकरणोक्तसंज्ञाशब्दानां च तारतम्यप्रदर्शकसूचीपत्रेण, तथा गणपाठाव्ययशब्दसङ्ग्रहस्वादितिबादिविष्णुभक्तिरूपलिङ्गानुशासनसङ्ग्रहश्लोकबङ्गीयसंस्कृतसमितिपरिगृहीतपरीक्षाप्रश्नावल्युत्तरमालादिभिः समलङ्कृतमेतदपूर्वसंस्करणं पाठार्थिनां गवेषकाणां च सुखबोधार्थं प्रथममेव सम्प्रकाशितम् । परितुष्यतुतमामनेन स्वैरक्रीडनेन भगवान्शिखिपिञ्छमौलिः ।

एतद्ग्रन्थस्य प्रकाशे विविधसेवनविधौ पण्डितवरश्रीमन्नन्दलालविद्यासागरकाव्यतीर्थः, पण्डितश्रीराधागोविन्ददासकाव्यपुराणरागतीर्थः, पण्डितश्रीमन्मथमन्मथदासकाव्यतीर्थः, श्रीबलदेवदासकाव्यव्याकरणतीर्थः, श्रीनिखिलप्रभुदासः, श्रीहरिजनदासब्रह्मचारी, श्रीकानाइलालदासश्च धन्यवादभाजनं भवन्ति । श्रीधामनवद्वीपस्थश्रीहरिबोलकुटीरसेवाधिकारिणः श्रीमद्हरिदासदासमहोदयाः श्रीश्रीसङ्क्षेपहरिनामृतव्यकरणस्य संशोधनविषये कृतसाहायका अस्माकं सबहुमानसाधुवादमर्हन्ति । मुद्रणसौष्ठवपरिपाटिषु श्रीगोविन्ददासब्रह्मचारिसेवाव्रतस्य प्राणबुद्धिवाक्यैः सेवाप्रयासः श्रीभगवच्चरणानुचरविश्ववैष्णवराजसभासभाजनभाजनानां सर्वतो निःश्रेयसाशंसनमर्हति । एतत्संस्करणस्य परिशुद्धिविविधसौष्ठवविधानादिषु सर्वविधसूचिकानिर्माणे च परमस्नेहालयाध्यापकस्य एम्.ए. इत्युपाह्वानस्य श्रीअच्युतानन्ददासकाव्यतीर्थस्य कायमनोवचोभिः सर्वतोमुखिनी सेवा परमधन्यवादार्हा । मुद्रणाक्षरयोजनादिदोषादत्र ये केचिद्भ्रमा भवेयुस्ते सारग्राहिभिः सुधीभिः संशोध्य पठनीयाः ।

जीवजीवनः खलु श्रीजीवचरणो व्याकरणव्युत्पित्सूनां बालानां जीवानां च हिताभिलाषपरतया स्वहृदयकमलकोशादुद्घाट्य बहिः प्रदर्शयन्श्रीहरिनामामृतासवमेतत्प्रकाशयामास । एतदेव श्रीमन्महाप्रभोः फेलालवं स्वादं स्वादं श्रीभागवतसाहित्यमनुबोभूयमाना जीवा अमरत्वं गच्छन्तः सुखं श्रीभक्तिरसाम्बुधौ विहरस्त्वित्याशास्ते दीन आश्रवः ।

इति सम्पादकः ।
श्रीश्रीलसनातनगोस्वामिप्रभुपादविरहतिथिः
वामनः ३०, श्रीगौराब्दः ४६१
—ओ)०(ओ—

(क) – ढाकाविश्वविद्यालयसंरक्षितलिपिशालायाः २४०१सङ्ख्यककरलिपिः ।
(ख) – श्रीपाटगोपीवल्लभपुरस्थग्रन्थागाररक्षिता करलिपिः ।
(ग) – मुर्शिदाबादबहरमपुरतः प्रकाशितः श्रीरामनारायणविद्यारत्नसम्पादितो ग्रन्थः ।
(घ) – ४४२श्रीचैतन्याब्दे श्रीगौडीयमठतः प्रकाशितो ग्रन्थः ॥

—ओ)०(ओ—


 
श्रीश्रीलजीवगोस्वामिप्रभुपादविरचितं

श्रीश्रीहरिनामामृतव्याकरणं

ग्रन्थारम्भः
पाठान्तराणां साङ्केतिकचिह्नानि—

प्रथमं प्रकरणम्

॥ श्रीश्रीराधाकृष्णाभ्यां नमः ॥

कृष्णमुपासितुमस्य स्रजमिव नामावलिं तनवै ।
त्वरितं वितरेदेषा तत्साहित्यादिजामोदम् ॥१॥
आहतजल्पितजटिलं दृष्ट्वा शब्दानुशासनस्तोमम् ।
हरिनामावलिवलितं व्याकरणं वैष्णवार्थमाचिन्मः ॥२॥
व्याकरणे मरुनीवृति जीवनलुब्धाः सदाघसंविग्नाः ।
हरिनामामृतमेतत्पिबन्तु शतधावगाहन्ताम् ॥३॥
श्रीहरिं मधुरं नत्वा हरिनामामृतं रसम् ।
व्याकरणं च तद्भक्त्या पिबन्तु व्रजवासिनः ॥४॥
साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥५॥ इति


(१)
।[ प्रथमं ]।
संज्ञासन्धिप्रकरणम्

१.१. अथ संज्ञाप्रकरणं—

१. नारायणादुद्भूतोऽयं वर्णक्रमः ।

अ आ इ ई उ ऊ ऋ è ÿ ÿÿ ए ऐ ओ औ अमः । क ख ग घ ङ । च छ ज झ ञ । ट ठ ड ढ ण ।
त थ द ध न । प फ ब भ म । य र ल व श ष स ह क्ष ॥

एते “वर्णाः” “अक्षराणि” “अलः” च । एषामुद्भवस्थानानि —

ऽकवर्गहविसर्गाणां कण्ठः ।
इईचवर्गयशानां तालु ।
उऊपवर्गाणामोष्ठः ।
ऋèटवर्गरषाणां मूर्धा ।
ÿÿÿतवर्गलसानां दन्ताः ।
एदैतोः कण्ठतालू ।
ओदौतोः कण्ठोष्ठम् ।
वकारस्य दन्तोष्ठम् ।
अनुस्वारस्य शिरो नासिका वा इत्यादीनि ॥१॥

२. तत्रादौ चतुर्दश सर्वेश्वराः ।

तस्मिन्वर्णक्रमे आदौ चतुर्दश वर्णाः सर्वेश्वरनामानो भवन्ति । अ आ इ ई उ ऊ ऋ è ÿ ÿÿ ए ऐ ओ औ । एते “स्वराः” “अचऊ” इति प्राचीनानाम् । एते स्वतन्त्रोच्चारणाः । कादीनामुच्चारणं चैषामधीनमिति सर्वेश्वराः । एवमन्यत्रापि ज्ञेयम् ।  

मात्रालाघवमात्रं पुत्रोत्सव  इति परेऽभिमन्यन्ते ।
हरिनामाक्षरलाभाद्वयं त्वमूदृक्तिरस्कुर्मः ॥२॥

३. दश दशावताराः ।

तत्रादौ दश वर्णा दशावतारनामानो भवन्ति—अ आ इ ई उ ऊ ऋ è ÿ ÿÿ ।

एते “समानाः”, “अकः” च प्राचीनानाम् ॥३॥

४. तेषां द्वौ द्वावेकात्मकौ ।

तेषां दशावताराणां मध्ये क्रमेण द्वौ द्वौ वर्णौ प्रत्येकं प्रपञ्चं चैकात्मकौ ज्ञेयौ, यथा—अ आ इति द्वौ एकात्मकौ, इ ई इति द्वौ एकात्मकौ, एवमु ऊ इत्यादि । अत्र “सवर्ण”संज्ञा च । प्रत्येकमेकात्मकत्वं स्पष्टमेवेति प्रपञ्चार्थमिदं सूत्रम् ॥४॥

५. पूर्वो वामनः ।

तेषामेकात्मकानां पूर्वपूर्वो वर्णो वामननामा । अ, इ, उ, ऋ, ÿ । एते ह्रस्वाः, निर्ह्रस्वाश्च ॥५॥

६. परस्त्रिविक्रमः ।

तेषामेकात्मकानां परपरो वर्णः त्रिविक्रमनामा । आ, ई, ऊ, è, ÿÿ । एते दीर्घाः ॥६॥

७. त्रिमात्रो महापुरुषः ।

त्रिमात्रत्वेन उच्चार्यमाणो वर्णो वामनस्त्रिविक्रमश्च महापुरुषसंज्ञः स्यात। एष दूराह्वाने गाने रोदनादौ च प्रसिद्धः ।  प्लुतसंज्ञश्च, यथोक्तम्—

एकमात्रो भवेद्ह्रस्व्ल्द्विमात्रो दीर्घ उच्यते ।
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् ॥
(सौरशास्त्रीयवचनम्)
आदित्रयस्य कुक्कुटरुतौ क्रमेण प्रसिद्धिः ।  अत्र महापुरुषे वामनमपि त्रिविक्रममुच्चारयन्ति लिखन्ति च तज्ज्ञाः । आगच्छ भो विष्णुमित्र३ आगच्छ । आगतोऽस्मि भो विश्वपा३, आगतोऽस्मि ॥७॥

८. ऽवर्जिताः सर्वेश्वरा ईश्वराः ।

ऽ इति वर्णद्वयवर्जिताः सर्वेश्वराः ईश्वरनामानः—इ ई उ ऊ ऋ è ÿ ÿÿ ए ऐ ओ औ । एते “नामिनः”, “इचश्” च ॥८॥

९. दशावतारा ईशाः ।

ऽवर्जिता दशावतारा ईशनामानः । इ ई उ ऊ ऋ è ÿ ÿÿ । एते इकः ॥९॥

१०. ऽइईउऊ अनन्ताः ।

“अणः” च ॥१०॥

११. इईउऊ चतुःसनाः ।
“इणः” च ॥११॥

१२. उऊऋè चतुर्भुजाः ।
“उकः” च ॥१२॥

१३. एऐओऔ चतुर्व्यूहाः ।

“सन्ध्यक्षराणि”, “एचः” च । एते सर्व एव त्रिविक्रमाः ॥१३॥

१४. अमिति विष्णुचक्रम् ।

अकार उच्चारणार्थः । बिन्दुस्वरूपो वर्णो विष्णुचक्रनामा, “अनुस्वारः”, “बिन्दुः”, “लवः” च ॥१४॥

१५. अঁ इति विष्णुचापः ।

अर्धचन्द्राकृतिवर्णो विष्णुचापनामा, “अनुनासिकः” च । नासिकाभवोऽयम् । सानुनासिकस्तु मुखनासिकाभवः ॥१५॥

१६. अः इति विष्णुसर्गः ।

बिन्दुद्वयाकारो वर्णो विष्णुसर्गनामा, “विसर्गः”, “विसर्जनियः”, “विसृष्टः”, “अभिनिष्टानः” च ॥१६॥

१७. कादयो विष्णुजनाः ।

ककारादयो हकारान्तास्ता वर्णा विष्णुजननामानो भवन्ति । विष्णोः सर्वव्यापकतया सर्वेश्वरस्य जना इव तसाधीना इत्यर्थः । क ख ग घ ङ । च छ ज झ ञ । ट ठ ड ढ ण । त थ द ध न । प फ ब भ म । य र ल व श ष स ह । कषसंयोगे तु क्षः । एते “व्यञ्जनानि”, “हलः” च ॥१७॥

१८. यववर्जितास्तु बलाः ।
“रलः” च ॥१८॥

१९. ते मान्ताः पञ्च पञ्च विष्णुवर्गाः ।

ते ककारादयो मकारान्ता वर्णाः पञ्च पञ्च विष्णुवर्गा भवन्ति । एते “वर्गाः” च । क ख ग घ ङ इति कवर्गः । एवं चवर्गः, टवर्गः, तवर्गः, पवर्गश्च । एते
कुचुटुतुपुनामानश्च । “स्पर्शाः” तु सर्व एव ॥१९॥

२०. ञवर्जितास्तु विष्णुगणाः ।

“मयः” च । तत्र समानवर्गः, “सवर्गः” उच्यते । “सवर्णः” ॥२०॥

२१. कचटतपा हरिकमलानि ।

“प्रथमाः”, “चपः” च ॥२१॥

२२. खछठथफा हरिखड्गाः ।

“द्वितीयाः”, “छफः” च ॥२२॥

२३. गजडदबा हरिगदाः ।

“तृतीयाः”, “जबः” च ॥२३॥

२४. घझढधभा हरिघोषाः ।

“चतुर्थाः”‚ “झभः” च ॥२४॥

२५. ङञणनमा हरिवेणवः ।

“पञ्चमाः”, “अनुनासिकाः”, “ञमः” च ॥२५॥

२६. त एतद्वर्जिता विष्णुदासाः ।

हरिवेणुवर्जिता विष्णुवर्गा विष्णुदासनामानः । क ख ग घ, च छ ज झ, ट ठ ड ढ, त थ द ध, प फ ब भ । एते “झपः” च ॥२६॥

२७. यरलवा हरिमित्राणि ।

“अन्तःस्थाः”, “षणः” च । एते सविष्णुचापा निर्विष्णुचापाश्च ॥२७॥

२८. शषसहा हरिगोत्राणि ।

“उष्मानः”, “षिटः”, “शलः” च ॥२८॥

२९. शषसाः शौरयः ।

“शरः” च ॥२९॥

३०. विष्णुदासहरिगोत्राणि वैष्णवाः ।

एतानि वैष्णवनामानि—क ख ग घ । च छ ज झ । ट ठ ड ढ । त थ द ध । प फ ब भ । श ष स ह । एते “धुटः” “झलः” च ॥३०॥

३१. हरिगदाहरिघोषहरिवेणुहरिमित्राणि हश्च गोपालाः ।

एते गोपालनामानः—ग घ ङ, ज झ ञ, ड ढ ण, द ध न, ब भ म, य र ल व ह । एते “घोषवन्तः” “हशः” च ॥३१॥

३२. यादवा अन्ये ।

गोपालेभ्योऽन्ये विष्णुजनाः यादवनामानः—क ख च छ ट ठ त थ प फ श ष स । एते “अघोषाः”, “खरः” च ॥३२॥

३३. शौरिवर्जितास्तु सात्वताः ।

शौरिवर्जितास्तु यादवाः सात्वतनामानः । “खपः” च ॥३३॥

३४. अस्पर्शी प्रयत्नः सर्वेश्वराणां,
स्पर्शी विष्णुवर्गाणां, ईषत्स्पर्शी हरिमित्राणाम् ।*

३५. रादनुस्वाराच्च परं यवाभ्यां तु पूर्वं
विना यरामस्य पुनरविष्णुपदादावीषत्स्पर्शितरम् ।*

३६. उपेन्द्रात्क्वचित्विष्णुपदादौ च ।

उपेन्द्रसंज्ञा (आ.प्र. ४२), विष्णुपदसंज्ञा (वि.प्र. ७) च वक्ष्येते । त्रिविक्रममहापुरुषहरिगोत्राणां विवृतश्चेति ज्ञेयम् । तत्र रातिति क्रमेण दर्श्यते—अर्यमा, यंयम्यते, अय्यते, वाय्वग्नी, नारायणाय, नियमः, प्रयुङ्क्ते । अत्र पञ्चमषष्ठे एवोदाहरणे, अन्यानि तु प्रत्युदाहरणानि ॥३४३६॥

३७. वर्णस्वरूपे रामः ।

वर्णस्य स्वरूपमात्रे वाच्ये रामशब्दो देयः, तस्यैकपरिग्रहताख्यातेः, यथा अरामः, इराम इत्यादि । “अत्”, “इत्” इत्यादि च पानिनेः । अकार इत्यादि च कलापस्य । यथा च कराम इत्यादि । ककार इत्यादि तु प्राचाम् । ररामस्तु “रेफ” इति ॥३४॥

३८. तदादिद्वये द्वयम् ।

यो वर्णो निर्दिश्यते, तदादिद्वये वाच्ये द्वयशब्दो देयः । यथा, अद्वयं, इद्वयमिआत्म । अस्य लक्ष्मीनारायणवाचित्वाद्भगवन्नामता । तन्मन्त्रो हि “द्वय”मन्त्राख्यः पद्मपुराणे । “अवर्ण” इत्यादि च प्राचाम्, “अकार” इत्यादि च पाणिनेः ॥३५॥

३९. आदेशो विरिञ्चिः ।

विरिञ्चिर्ब्रह्मा यथैकं वस्तूपादाय अन्यत्करोति, तथा यो विधिः प्रवर्तते, स आदेशो विरिञ्चिः चोच्यते ॥३९॥

४०. आगमो विष्णुः ।

विष्णुर्यथा मध्यतः स्वयमाविर्भूय पोषको भवति, तथा यो विधिः प्रवर्तते, स आगमः विष्णुश्चोच्यते ॥४०॥

४१. लोपो हरः ।

हरो यथा नाशहेतुर्भवति, तथा यो विधिः प्रवर्तते, स “लोपः” हरश्चोच्यते । तत्र हरो द्विधा भवेत्—तत्रादर्शनमात्रहेतुर्हरः । आत्यन्तिकलयहेतुर्“महाहरः” । “लुक्” इत्यन्ये ॥४१॥

४२. सूत्राणि  षड्विधानि ।

संज्ञा च परिभाषा च विधिर्नियम एव च ।
अतिदेशोऽधिकारश्  च षड्विधं सूत्रलक्षणम् ॥ इति  ॥

प्रतिषेधोऽधिकारश्च इति केचित्पठन्ति च । अत्र नामकरणं संज्ञा, यथा—तत्रादौ चतुर्दश सर्वेश्वराः (स.प्र. २) इत्यादि । अन्यानि वक्ष्यन्ते ॥४२॥

४३. असिद्धरूपं न त्याज्यं, प्रतिज्ञेयं कृदन्तिका ।

अत्र व्याकरणे त्वन्यत्रैवासिद्धरूपं मध्ये मध्ये न त्यज्यते । तत्तच्च कृत्पर्यन्तं ज्ञेयम् । न समासतद्धितयोरित्यर्थः । दर्शनीयस्त्वग्रे ॥४३॥

॥ इति संज्ञादि ॥

—ओ)०(ओ—

सन्धिप्रकरणम्
सर्वेश्वरसन्धिः

यदिदं सन्धिनिर्माणं वर्णानामारभे मुदा ।
तेन मे कृष्णपादाब्जे मनःसन्धिर्विधीयताम् ॥

सन्धिरेकपदे नित्यं नित्यं धातूपसर्गयोः ।
अनित्यं सूत्रनिर्देशेऽन्यत्र चानित्यमिष्यते ॥

परिभाषेयम् । सा चानियमे नियमकारिणी ।

४४. सर्वप्रकरणव्यापी वर्णमात्रनिमित्तकः ।
वर्णो विकारः सन्धिः स्याद्विषयापेक्षकः क्वचित॥

किं च,

४५. अचो ये हलि संलग्नास्ते सर्वे परतो मताः ।
हल्च तत्स्यादरामान्तं यत्र नान्याच्न चाङ्घ्रिभित॥

ततश्च कृष्ण + अग्रे इति स्थिते, कार्यार्थमक्षरं विश्लेषयेन्मेलयेच्च इति न्यायेन अरामविश्लेषः, कृष्ण् + अ + अग्रे । ततश्च ॥४४॥

४६. दशावतार एकात्मके मिलित्वा त्रिविक्रमः ।

दशावतारनामा वर्ण एकात्मके वर्णे परे सति, तेन मिलित्वा त्रिविक्रमो भवति । ततश्च आरामस्य पुनर्मिलनं = कृष्णाग्रे । एवं राधा + आगता = राधागता । हरि + इति = हरीति । हरि + ईहा = हरीहा । विष्णु + उदयः = विष्णूदयः । विष्णु + ऊढा = विष्णूढा । नरभ्रातृ + ऋषिः = भ्रात्èषिः । गम्ÿ + ÿकारः = गम्ÿÿकारः ॥४६॥

४७. ऋद्वयÿद्वयोरेकात्मकत्वं वाच्यम् ।

ऋÿद्वयं ऋद्वयम् । ÿऋद्वयं ÿद्वयमित्यादि । ईदृशो विधिर्विरिञ्चिः—कर्तव्यत्वेनोपदेशो विधिः ॥४७॥

४८. अद्वयमिद्वये ए ।

ऽ इति द्वयम्, इई इति द्वये परे तेन मिलित्वा एरामो भवति । यादव + इन्द्रः = यादवेन्द्रः, गोकुल + ईशः = गोकुलेशः, मथुरा + ईशः = मथुरेशः ॥४१॥

४९. प्रादेषैष्ययोर्वा तथा ।

प्रातुत्तरस्मातेषएष्ययोः परयोस्तथा सन्धिर्वा भवति । प्र + एषः = प्रेषः, प्र + एष्यः = प्रेष्यः । पक्षे, एद्वये ऐ, प्रैषः, प्रैष्यः ॥४९॥

५०. उद्वये ओ ।

अ आ इति द्वयमु ऊ इति द्वये परे मिलित्वा ओरामो भवति । अद्वयमत्र पूर्वतोऽनुवर्तते । यदुक्तं—

कार्यिणा हन्यते कार्यी कार्यात्कार्येण हन्यते ।
निमित्तं च निमित्तेन यच्छेषमनुवर्तते ॥  इति ।

पुरुष + उत्तमः = पुरुषोत्तमः, सुपर्ण + ऊढः = सुपर्णोढः, द्वारका + उत्सवः = द्वारकोत्सवः ॥५०॥

५१. ओमि च तथा ।

कृष्ण + ओं = कृष्णोम् ॥५१॥

५२. ऋद्वये अर।

अ आ इति द्वयम्, ऋ è इति द्वये परे मिलित्वा अर्भवति । कृष्ण + ऋद्धिः = कृष्णर्द्धिः ॥५२॥

५३. ÿद्वये अल।

अ आ इति द्वयम्, ÿ ÿÿ इति द्वये परे मिलित्वा अल्भवति । यमुना + ÿकारायते = यमुनल्कारायते ॥५३॥

५४. पुनरद्वयसन्धौ आङादेशः परनिमित्तवद्वक्तव्यः ।

अतिदेशोऽयं—अन्यतुल्यत्वविधानमतिदेशः  । अत्रारामस्य ङित्त्वं क्रियायोगे इति वक्ष्यते (स.प्र. ७०) । आ + इहि = एहि, कृष्ण + एहि = कृष्णेहि । आ + ऊढा = ओढा । कृष्ण + ऊढा = कृष्णोढा । आ + ऋद्धिः = अर्द्धिः । कृष्ण + अर्द्धिः = कृष्णर्द्धिः । आ + ÿकारायते = अल्कारायते । यमुना + अल्कारायते = यमुनल्कारायते ॥५४॥

५५. एद्वये ऐ ।

ऽ इति द्वयमे अईति द्वये परे मिलित्वा ऐरामो भवति । कृष्ण + एकनाथः = कृष्णैकनाथः । कृष्ण + ऐश्वर्यं = कृष्णैश्वर्यम् ।

५६. स्वादीरेरिणोश्च तथा ।

स्व + ईरं = स्वैरम् । स्व + ईरी = स्वैरी, स्वैरिणी च । नाम्नो ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायात॥५६॥

५७. ओद्वये औ ।

ऽ इति द्वयमो औ इति द्वये परे मिलित्वा औरामो भवति । कृष्ण + ओदनं = कृष्णौदनम्; कृष्ण + औन्नत्यं = कृष्णौन्नत्यम् ॥५७॥

५८. प्रादूढोढ्योश्च तथा ।

प्र + ऊढः = प्रौढः, प्र + ऊढिः = प्रौढिः, ऊहमिति केचित्पठन्ति—प्रौहः । नेह प्रौढवान्, अर्थवद्ग्रहणेऽनर्थकस्य न ग्रहणमिति न्यायात॥५८॥

५९. इद्वयमेव यः सर्वेश्वरे ।

इ ई इति द्वयमेव सर्वेश्वरे परे यरामो भवति, न तु मिलित्वा । य इत्यत्र अराम उच्चारणार्थः । एवमन्यत्रापि । हरि + अर्चनं = हर्यर्चनम् । हरि + आसनं = हर्यासनम् । दधि + उपेन्द्रस्य = दध्युपेन्द्रस्य । रुक्मिणी + एषा = रुक्मिण्येषा ।

द्वित्वप्रकरणे एतावतैव सिद्धिः । विकल्पेन तु महान्तराणि वक्ष्यन्ते । तस्मादसिद्धरूपं न त्याज्यं (स.प्र. ४३) इति प्रतिज्ञा नात्र व्यभिचरति ।

कथं हरिहरीति ? हरिहरीति एकात्मकतामवलम्ब्य त्रिविक्रमविधेर्विशेषत्वेन बलवत्त्वात। तथा हि—समस्तव्यापि सामान्यम्, एकदेशव्यापि विशेषः । सामान्यविधिः उत्सर्गः । विशेषविधिः अपवादः इति स्थिते पूर्वपरयोः परविधिर्बलवान्, नित्यानित्ययोर्नित्यः, अन्तरङ्गबहिरङ्गयोरन्तरङ्गः, उत्सर्गापवादयोरपवादः । तेषु चोत्तरोत्तर इति । दशावतारे सामान्यत्वं चेत्तत्राद्वयमित्येव क्रियेत, विष्णुद्वय इत्यादावपि परपरसूत्रप्राप्तेः । तदेवमेते चान्ये च न्याया युक्त्या प्रसिद्ध्या च स्वीकृतत्वात्पूर्वमुत्तरं च ग्रन्थं व्याप्तुरस्ति ॥५९॥

६०. उद्वयं वः ।

उ ऊ इति द्वयमेव सर्वेश्वरे परे वरामो भवति । मधु + अरिः = मध्वरिः, विष्णु + आश्रितः = विष्ण्वाश्रितः ॥६०॥
६१. ऋद्वयं रः ।

ऋ è इति द्वयमेव सर्वेश्वरे परे ररामो भवति । रामभ्रातृ + उदयः = रामभ्रात्रुदयः, रामभ्रातृ + ऐश्वर्यं = रामभ्रात्रैश्वर्यम् ॥६१॥

६२. ÿद्वयं लः ।

ÿ ÿÿ इति द्वयमेव सर्वेश्वरे परे लरामो भवति । शक्ÿ + अर्थः = शक्लर्थः । श्रीपतेरेव । व्याडिगालवयोर्मतेन मध्ये एव यवरला भवन्ति—हरियर्चनं, मधुवरिः, भुवादीत्यादि ॥५०॥

६३. ए अय।

एरामो अय्भवति, सर्वेश्वरे परे—कृष्णे + उत्कर्षः = कृष्णयुत्कर्षः ॥६३॥

६४. ऐ आय।

ऐरामो आय्भवति, सर्वेश्वरे परे—यमुनायै + अर्घः = यमुनायायर्घः । गोप्यै + आसनं = गोप्यायासनम् ॥६४॥

६५. ओ अव।

ओरामो अव्भवति, सर्वेश्वरे परे—विष्णो + इह = विष्णविह ॥६५॥

६६. औ आव।

औरामो आव्भवति, सर्वेश्वरे परे—कृष्णौ + अत्र = कृष्णावत्र ॥६६॥
 
६७. एओभ्यामस्य हरो विष्णुपदान्ते ।

एओरामाभ्यां विष्णुपदान्ते स्थिताभ्यां परस्य अरामस्य हरो भवति, हरे + अत्र = हरेऽत्र, विष्णो + अत्र = विष्णोऽत्र ॥६७॥

६८. अयादीनां यवयोर्वा ।

अयायवावित्येषां विरिञ्चीनां यवयोर्वा हरो भवति विष्णुपदान्ते विषये, कृष्णयुत्कर्षः = कृष्ण उत्कर्षः । यमुनायायर्घः = यमुनाया अर्घः, गोप्यायासनं = गोप्या आसनम्, विष्णविह = विष्ण इह, कृष्णावत्र = कृष्णा अत्र । यवाविमावीषत्स्पर्शिनावीषत्स्पर्शितरौ च मतौ ॥६८॥

६९. तेषां न सन्धिर्नित्यम् ।

तेषां यवलोपिनां नित्यं सन्धिर्न भवति । प्रतिषेधोऽयम् । कृष्ण उत्कर्षः, यमुनायर्घÿह्, गोप्यासनम्, विष्ण इह इत्यादि ॥६९॥

७०. ओरामान्तानामनन्तानां चाव्ययानां सर्वेश्वरे ।

ओरामान्तानामनन्तानां केवलानामव्ययानां सर्वेश्वरे परे सति पूर्वस्य च परस्य च सन्धिर्न भवति—नो उपेन्द्रः । नो अच्युतः । कथं तद्धिते विप्रत्ययान्तस्य गोशब्दस्याव्ययत्वे सति गोऽभवतिति ? गोऽभवतित्यत्र लाक्षणिकप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति न्यायेन स्यात।

अरामादयः सम्बोधनादौ । तत्र सम्बोधने—अ अनन्त ! स्मरणे आ एवमच्युतलीला ! भर्त्सने—इ अच्युतं न भजसि । वाक्पूरणे—ई ईदृशः संसारः । आमन्त्रणे—उ अच्युत ! प्रतिषेधे—उ उपसन्नं मां त्यजसि । आङस्तु सन्धिर्भवत्येव—आ अनन्तं = आनन्तम् । अनन्तमर्यादां कृत्वेत्यर्थः ।

ईषदर्थे क्रियायोगे व्याप्तिमर्यादयोश्च यः ।
एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित॥ इति ॥७०॥

७१. ईदूदेतां द्विवचनस्य मणीवादिवर्जम् ।

द्विवचनस्थानीयानामीऊएरामाणां सम्बन्धे सर्वेश्वरे परे सन्धिर्न भवति । हरी अत्र । विष्णू अत्र । अमू अत्र । गङ्गे अत्र । भजेते अजितम् । अमूके अत्र स्तः । चान्द्रास्त्वत्र सन्धिमिच्छन्ति—अमूकेऽत्र स्तः । मणीवादौ तु सन्धिर्भवत्येव, विकल्प इत्येके—मणी इव = मणीव । एवं दम्पती + इव = दम्पतीव । रोदसी + इव = रोदसीव । जम्पती + इव = जम्पतीव ॥७१॥

७२. अदसोऽमीत्यस्य ।

अदस्शब्दसम्बन्धिनः अमी इत्यस्य पदस्य सर्वेश्वरे परे सन्धिर्न भवति—अमी अच्युतप्रियाः । अमी इति किं ? अमूकेऽत्र स्युः । ओरामान्ताद्या असन्धयः पाणिनीयानां प्रगृह्यसंज्ञाः  ॥७२॥

७३. महापुरुषस्य च ।

महापुरुषस्य च सम्बन्धे सर्वेश्वरे परे सन्धिर्न भवति ॥७३॥

७४. दूराह्वानादावन्त्यसर्वेश्वरस्य महापुरुषत्वं मतम् ।

आगच्छ हरे३ आगच्छ । तिष्ठ हरे३, अत्र तिष्ठ । सर्वेश्वरे परे निषेधादत्र तु सन्धिः । गच्छ आ३च्युतदत्त, गच्छा३च्युतदत्त ! आदि महापुरुषमिदं सम्बोधनम् । तथा हि तत्सूत्राणि  दूराह्वानादौ यत्नविशेषे वाक्यस्यान्ते सम्बोधनपदस्य संसारो महापुरुषः । क्रिय्नयावच्छिन्नः पदसमूहो वाक्यम् ॥७४॥

७५. अन्त्यसर्वेश्वरादिवर्णाः संसारसंज्ञाः ।

“टि”संज्ञाश्च । आगच्छ हरे३, तिष्ठ हरे३ । आदिपदेन गाने रोदने विचारे च इति सारस्वतादयः । सम्बोधनमात्रे च इति काशिका । कृष्णं भजस्व वैष्णवा३ ! वाक्यस्यान्ते एव, न त्विह—हरे आगच्छ । कृष्णा३ एहीति प्रक्रियाकौमुद्यां [पा. ६.१.१२५] भ्रमः ।

सारस्वतप्रक्रियायां भ्रमा ये सन्ति भूरयः ।
लिखितुं ते न शक्यन्ते ज्ञेयास्त्वस्यानुसारतः ॥

सर्वेषाममतं यत्स्यात्स भ्रमः परिचीयते ।
बहूनाममतं यत्तत्केषांचिन्मतमिष्यते ॥७५॥

७६. हैहेप्रयोगे तु हैहयोरेवानन्त्ययोरपि ।

है३ कृष्ण ! हे३ कृष्ण ! कृष्ण है३ ! कृष्ण हे३ ॥७६॥

७७. प्रत्यभिवादवाक्ये संसारः, न तु स्त्रीशूद्रविषये ।

अभिवादये विष्णुमित्रोऽहमित्यनन्तरं गुरुराह—आयुष्मानेधि विष्णुमित्रा३ ॥७७॥

पूर्वोक्तविधीनां स्थानविशेषमाह—

७८. गुरोरनृतोऽनन्तस्याप्येकैकस्य प्राचाम् ।

ऋरामवर्जितस्य गुरोरनन्तस्यापि वर्णस्य यः संसारस्तस्यैककस्य सम्बोधने महापुरुषः स्यात। प्राचामाचार्याणां मते, न त्वन्येषाम् ॥७८॥

७९. वामनो लघुः ।

८०. त्रिविक्रमो गुरुः ।

८१. सत्सङ्गात्पूर्वो वामनोऽपि गुरुः ।

८२. मिथः संलग्नो विष्णुजनः सत्सङ्गसंज्ञः ।

“संयोगः” च । वी३ष्णुमित्र विष्णूतृतीयित्र । मतान्तरे विष्णुमित्रा३ इत्येव । अनृतः किं ? कृष्णमी३त्र । कृष्णमित्रा३ । आगच्छ इति सर्वस्यादौ योज्यम् । वाक्याधिकारात॥८२॥

८३. पृष्टप्रतिवचने हेर्वा ।

अकार्षीर्मालां विष्णुमित्र ? अकार्षं ही३, अकार्षं हि ॥८३॥

८४. आक्षेपगर्भे निगृहीतपरमतस्यानुवादे वाक्यस्य संसारो वा ।

अनित्या हरिभक्तिः इत्यात्था३ ? पक्षे तु न ॥८४॥

८५. आम्रेडितस्य संसारो भर्त्सने पर्यायेण ।

अवैष्णवा३, अवैष्णव, अवैष्णव, अवैष्णवा३ ॥८५॥

८६. अङ्गेत्यनेन युक्तस्याख्यातस्य संसारो भर्त्सने साकाङ्क्षता चेत।

हरिं विनाङ्ग प्रीणीही३, इदानीं दुःखमाप्स्यसि । इदानीमित्यादिराकाङ्क्षा । एतां विना तु न स्यात।

८७. विचारे पूर्ववाक्यस्य संसारः ।

तमालो नु३, कृष्णो नु ॥८७॥

८८. प्रतिश्रवणे च संसारः ।

प्रतिश्रवणमभ्युपगमः, प्रतिज्ञानं, श्रवणाभिमुख्यं च । हरिमन्त्रं देहि । हरिमन्त्रं ददामी३ । हरिभक्तिर्नित्या भवितुमर्हती३ । विष्णुमित्र भोः ! किमात्था३ ? एवमन्येऽपि ज्ञेयाः । विचारप्रश्नपूजासु चतुर्व्यूहस्य वक्ष्यते ॥८८॥

८९. पूर्वार्धस्य त्वरामः स्यादिदुतावुत्तरस्य हि ।
विभक्तावयवात्तस्माच्छरामो द्विर्भवत्युत ॥

हरा३ इच्छत्रमेतत्ते ? पटा३ उच्छत्रमित्यपि ॥८९॥

९०. ओरामस्य बुद्धनिमित्तस्येतौ सन्धिर्वा ।

बुद्धनिमित्तको य ओरामस्तस्य सन्धिर्वा स्यात। इतिशब्दे परे । बुद्धसंज्ञा वक्ष्यते (वि.प्र. २४) । विष्णो इति विष्णविति वा । बुद्धनिमित्तस्य इति किं ? गवित्ययमाह—अत्रानुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादसत्यर्थवत्त्वे विष्णुभक्तिर्नोपपद्यते । विष्णुभक्ति (वि.प्र १) संज्ञा च वक्ष्यते ॥९०॥

९१. ईशस्यानेकात्मके वामनश्च ।

ईशसंज्ञस्य एकात्मकान्यसर्वेश्वरे परे सन्धिर्वा स्यात्, त्रिविक्रमस्य वामनश्च वा, हरि आसनं, रुक्मिणि एषा, रुक्मिणी एषा इति च । अन्यत्र चानित्यमिष्यते इति मध्ये विलम्बोच्चारणे सन्धिर्न स्यादित्यर्थः । सूत्रेषु संहितासंज्ञेषु शीघ्रोच्चारणेऽपि विकल्प्यते ॥९१॥


९२. ऋद्वयाद्वययोरृति ।

अनयोरृति परे सन्धिर्वा स्यात्, त्रिविक्रमस्य वामनश्च वा—स्रष्टृऋषभः, यादवऋषभः । हिमऋतावपि ताः स्म भृशस्विदः इति माघः (६.६१) । मालाऋषभस्य, मालऋषभस्य इति च । पक्षे यथाप्राप्तं हर्यासनमित्यादि ॥९२॥

९३. न नित्यसमासे न चाविष्णुपदान्ते निषेधवामनौ ।

हर्यर्थं, कुमार्यौ ॥९३॥

९४. उञः सन्ध्यभावः, ऊं वश्चेतौ ।

९५. विष्णुगणाद्वो वा सर्वेश्वरे ।

उ इति ऊ इति विति । किमु उक्तं किमूक्तम् । किमु इति, किम्वितीत्यपि बोद्धव्यम् । विष्णुगणातिति किं ? नञूक्तम् । अद्येव हलीषा प्रार्च्छति ऋणार्णम्, सोऽग्रम्, गवेन्द्र इत्यादयस्ताख्यातसमासयोर्वक्ष्यन्ते, दुर्गमत्वात॥९४९५॥

॥ इति सर्वेश्वरसन्धिः ॥

—ओ)०(ओ—

अथ विष्णुजनसन्धिः

९६. विष्णुदासो विष्णुपदान्ते हरिघोषे च हरिगदा ।

विष्णुपदान्ते विषये, हरिघोषे च परे सति अविष्णुपदान्ते च, विष्णुदासनामा वर्णः सवर्गतृतीयः स्यात्, “स्थाने सदृशतमः“ इति न्यायेन—वाक्+ अच्युतस्य = वागच्युतस्य, वाक्+ गोविन्दस्य = गोविन्दस्य; षट्+ गोपिकाः = षड्गोपिकाः; भगवत्+ इच्छा = भगवदिच्छा; ककुभ्+ विष्णोः = ककुब्विष्णोः । विष्णुपदान्तादन्यत्र (चतुर्थ्यां) कंसजित्+ ए = कंसजिते ॥६१॥

९७. हरिवेणौ हरिवेणुर्वा ।

विष्णुपदान्ते वर्तमानो विष्णुदासो हरिवेणौ परे हरिवेणुर्वा स्यात। स च #निवर्गपञ्चमः—जगत्+ नाथः = जगन्नाथः; जगद्नाथः । कृष्णगुप्+ ञुङुरे = कृष्णगुम्ञुङुरे ॥९७॥

९८. यादवमात्रे हरिकमलम् ।

विष्णुदासो यादवे परे तद्वर्गप्रथमः स्यात्—वाक्+ कृष्णस्य = वाक्कृष्णस्य । अत्र विष्णुपदान्ते हरिगदाबाधनार्थमिदं सूत्रम् । मात्रग्रहणादविष्णुपदान्ते च । उदाहरणस्त्वग्रे  ॥६३॥

९९. ततः शश्छो वा ।

विष्णुदासात्परः शरामश्छरामो वा स्यात्  । सुवाक्शौरिः, सुवाक्छौरिर्वा । अप्शायी अप्छायी ॥६४॥

१००. न श्च्युतेरिति वाच्यम् ।

वाक्श्चोतति ॥१००॥

१०१. हो हरिघोषः ।

विष्णुदासात्परो हरामस्तद्वर्गचतुर्थवर्णो वा स्यात्—वाक्+ हरेः = वाग्घरेः । अच्+ हलौ = अज्झलौ, अझलौ । षट्+ हरेः = षड्ढरेः, षदरेः । तत्+ हलिनः = तद्धलिनः तद्हलिनः । ककुभ्+ हरस्य = ककुब्भरस्य, ककुभरस्य ॥१०१॥

१०२. दतौ प्रवर्णौ‚ लचटवर्गेषु नित्यम् ।

दरामस्तरामश्च ले परे । चवर्गे टवर्गे च परे । परो यो वर्णः, स एव नित्यं स्यात्—तद्+ लक्ष्मीपतेः = तल्लक्ष्मीपतेः । तत्+ चतुर्भुजस्य = तच्चतुर्भुजस्य । कंसजित्+ छादयति (यादवमात्रे, सं.प्र. ९८ इत्यादिना) = कंसजिच्छादयति । तत्जनार्दनस्य = तज्जनार्दनस्य । कंसजित्+ झङ्कारः = कंसजिझ्झङ्कारः, (विष्णुदासो, सं.प्र. ९६ इत्यादिना) कंसजिज्झङ्कारः । तद्ञरामः, तञ्ञरामः वा । तन्मते पूर्वत्रासिद्धं [पा. ८.२.१] इति न्यायेन तद्वर्गतृतीयस्यैव स्थितिरिति । एवं परामेऽपि । कंसजित्+ टीकते = कंसजिट्टीकत । कंसजित्+ ढौकते = कंसजिड्ढौकते ॥६६॥

१०३. तश्च शे ।

तरामः शरामे परे चरामः स्यात्—तत्+ शौरेः = तच्शौरेः । पक्षे छत्वम्—तच्छौरेः ॥६७॥

१०४. नोऽन्तश्चछयोः शरामः,
विष्णुचक्रपूर्वो विष्णुचापपूर्वो वा ।

नरामो विष्णुपदान्तश्चछयोः परयोः शरामः स्यात। स च विष्णुचक्रपूर्वो विष्णुचापपूर्वो वा—भगवान्+ चलति = भगवांश्चलति । भगवाঁश्चलति, भगवान्+ छादयति = भगवांश्छादयति, भगवाঁश्छादयति ॥१०४॥

१०५. टठयोः षरामः ।

नरामो विष्णुपदान्तष्टठयोः परयोः षरामः स्यात। स च विष्णुचक्रपूर्वो विष्णुचापपूर्वो वा—भगवान्+ टीकते = भगवांष्टीकते, भगवाঁष्टीकते । भगवान्+ ठक्कुरः = भगवांष्ठक्कुरः, भगवाঁष्ठक्कुरः ॥१०५॥

१०६. तथयोः सरामः ।

नरामो विष्णुपदान्तस्तथयोः परयोः षरामः स्यात। स च विष्णुचक्रपूर्वो विष्णुचापपूर्वो वा—भगवान्+ तरति = भगवांस्तरति, भगवाঁस्तरति । भगवान्+ थूत्करोति = भगवांस्थूत्करोति, भगवाঁस्थूत्करोति ॥१०६॥

१०७. न त्से ।

त्से परे नरामो विष्णुपदान्तो विष्णुचक्रपूर्वो विष्णुचापपूर्वो वा सरामो न स्यात्, भगवान्त्सरुः । कान्कानित्यत्र कांस्कानिति वाच्यं वा ॥१०७॥

१०८. प्रशानो नस्य चादौ हरिवेणुः ।

विष्णुपदान्तस्य प्रशानो नरामस्य चछटठतथेषु परेषु परवर्णानुरूपो हरिवेणुर्भवति—प्रशान्+ चतुर्भुजः = प्रशाञ्चतुर्भुजः । प्रशान्+ छादयति = प्रशाञ्छादयति । प्रशान्+ टीकते = प्रशाण्टीकते । प्रशान्+ ठक्कुरः = प्रशाण्ठक्कुरः । प्रशान्+ तरति = प्रशान्तरति ॥१०८॥

१०९. ले लराम एव ।

नरामो विष्णुपदान्तो ले परे लरामः स्यात्—भगवान्+ लीलायते = भगवाঁल्लीलायते । अत्र स्थाने सदृशतमः इति न्यायेन सानुनासिक एव लरामः स्यात। अत्र यवला हि द्विविधा मताः । सानुनासिकाः, निरनुनासिकाश्च ॥१०९॥

११०. डढणेषु णरामः ।

नरामो विष्णुपदान्तो डढणेषु परेषु णरामः स्यात्—गरुत्मन्+ डयसे = गरुत्मण्डयसे । चक्रिन्+ ढौकसे = चक्रिण्ढौकसे । शार्ङ्गिन्+ णंकुरु = शार्ङ्गिण्णंकुरु ॥११०॥

१११. जझञशरामेषु ञरामः ।

नरामो विष्णुपदान्तो जझञशरामेषु ञरामः स्यात। भगवान्+ जयति = भगवाञ्जयति । भगवान्+ झषरूपी = भगवाञ्झषरूपी । भगवान्+ ञुङुवे = भगवाञ्ञुङुवे । भगवान्+ शूरः = भगवाञ् शूरः । छत्वे भगवाञ्छूरः ॥१११॥

११२. शे चान्तो वा ।

नरामो विष्णुपदान्तः शरामे परे चरामान्तो ञरामः स्याद्वा—भगवान्+ शूरः = भगवाञ्च्शूरः, भगवाञ्शूरः, छत्वे भगवाञ्च्छूरः ॥११२॥

११३. मो विष्णुचक्रं विष्णुजने ।

मरामो विष्णुपदान्तो विष्णुजने परे विष्णुचक्रं स्यात्—कृष्णं स्मरति = विष्णुचक्रस्य पूर्वोर्धगामित्वं लोकात्, कृष्णं स्मरति । विष्णुजनादन्यत्र तु न—कृष्णं + इच्छ = कृष्णमिच्छ । कथं किम्बुक्तं कृष्णगुम्ञुङुवे ? असिद्धरूपं न त्याज्यमिति प्रतिज्ञासिद्ध्यर्थमिदं तत्रैव कर्तुं योग्यमपि यन्न कृतम् । तस्मात्तत्राकरणान्न विष्णुचक्रमिति ॥११३॥

११४. विष्णुचक्रस्य हरिवेणुर्विष्णुवर्गे विष्णुपदान्तस्य तु वा ।

विष्णुचक्रस्य परवर्णानुरूपो हरिवेणुः स्यात्, विष्णुवर्गे परे; विष्णुपदान्तस्य तु विकल्पः । अविष्णुपदान्तोदाहरणं वक्ष्यते (आ.प्र. गन्ता मन्ता इत्यादौ) । कृष्णं कीर्तयति, कृष्णङ्कीर्तयति वा । कृष्णं भजति, कृष्णम्भजति वा । संसारं तरति, संसारन्तरति वा । अत्र तथयोः सरामनिषेधो वक्तव्यः । विष्णुवर्गे इति किं ? संवत्सरः ॥११४॥

११५. यवलेषु सविष्णुचापपररूपं च मन्यन्ते ॥

सঁवत्सरः, षঁष्यम्यते, सঁल्लुनाति ॥११५॥

११६. द्विः सर्वेश्वरमात्राच्छः ।

अविष्णुपदान्तादपि सर्वेश्वरात्परश्छरामो द्विर्भवति—कृष्ण + छत्रं = कृष्णच्छत्रम् ॥११६॥

११७. विष्णुपदान्तात्त्रिविक्रमाद्वा ।

विष्णुपदान्तात्त्रिविक्रमात्परश्छरामो द्विर्वा भवति—यमुनाछाया, यमुनाच्छाया वा ॥११७॥
११८. आङ्माङ्भ्यां नित्यम् ।

आङ्माङ्भ्यां परश्छरामो नित्यं द्विर्भवति । ङरामस्याप्रयोगः—आच्छादयति, माच्छिदत॥११८॥

११९. वामनात्ङणना द्विः सर्वेश्वरे ।

वामनात्परा ङणना विष्णुपदान्ताः सर्वेश्वरे परे द्विः स्युः—पर्यङ्+ अनन्तः = पर्यङ्ङनन्तः, सुगण् + अनन्तः = सुगण्णनन्तः, कुर्वन्+ अस्ति = कुर्वन्नस्ति ॥११९॥

१२०. विष्णुजने विष्णुजनो वा, हरौ विना ।

वामनात्परो विष्णुजनो विष्णुजने परे द्विर्वा स्यात्, हरौ तु द्विर्न भवतः—
दध्युपेन्द्रस्य, दद्ध्युपेन्द्रस्य वा ॥१२०॥

१२१. हरिमित्राद्विष्णुगणो, विष्णुगणाद्धरिमित्रं, शौरितः सात्वतः, सात्वताच्छौरिर्द्विर्वा सर्वेश्वरे इति वाच्यम् ।

यमुनल्क्कारायते, दध्युपेन्द्रस्य, भगवांश्च्छादयति, सुवाक्श्शौरेः । अत्र छोऽपि न मन्यते । पक्षे पूर्ववत॥१२१॥

१२२. ररामात्सर्वेश्वरे तु हरिगोत्रं विना ।

ररामात्परो विष्णुजनो, विष्णुजने परे, द्विर्वा स्यात। सर्वेश्वरे परे तु हरिगोत्रं विना—हर्य्यासनं हर्यासनं वा । कार्ष्ष्णं कार्ष्णं वा ॥१२२॥

१२३. हाच्च सर्वेश्वरतः परादिति व्यक्तव्यम् ।

सर्वेश्वरतः परात्हादुत्तरो विष्णुजनो द्विर्वा स्यात्—ब्रह्मा ब्रह्म्मा वा । नेह—ह्नुते । सर्वेश्वरे तु इत्यादि किं ? परामर्शः, व्यर्थभानव्याः, अर्हति ॥१२३॥

१२४. हस्तु विष्णुजने च न ।

अर्ह्यते । विष्णुजने (सं.प्र. १२०) इत्यादौ द्वित्वप्रकरणे, सर्वत्र साकल्यस्य इति अद्वित्वपक्षानुल्लेखस्तस्यां प्रमादः ॥१२४॥

१२५. विष्णुजनाद्विष्णुदासस्यादर्शनं सवर्गे विष्णुदासे ।

विष्णुजनात्परस्य विष्णुदासस्यादर्शनं वा स्यात्, सवर्गे विष्णुदासे परे—भगवाञ्च्छूरः, भगवाञ्छूरो वा । अस्य पूर्वत्राकरणं, विकल्पेनावश्यकत्वाभावात॥१२५॥

१२६. अव्यक्तानुकरणशब्दानांअद्भागस्य हर इतौ, हरिगदानिषेधश्च ।

पटत्+ इति = पटिति । घटत्+ इति = घटिति ॥१२६॥

१२७. नैकसर्वेश्वरत्वे ।

स्रत्+ इति = स्रदिति ॥१२७॥

१२८. न द्विस्त्रिरुक्तावन्त्यस्य, तरामस्य तु वा ।

पटत्पटत्+ इति = पटत्पटदिति, पटत्पटेति वा । कथं बडभी वलभी, पर्यङ्कः पल्यङ्कः, रघुः लघुः, कपिरिका कपिलिका इत्यादि ? डलयो रलयोश्च प्राय एकत्वश्रवणात्  ॥१२८॥

१२९. सरामे टनाभ्यं तुग्वेति वक्तव्यम् ।

षट्+ साधवः = षट्त्साधवः, भगवान्+ साधुः = भगवान्त्साधुः ॥१२९॥

१३०. शौरौ णङाभ्यां टकौ वेति वक्तव्यम् ।

सुगण् + शङ्करः = सुगण्ट्शङ्करः । प्राङ्+ स्वभूः = प्राङ्क्स्वभूः । प्राङ्+ षष्ठः = प्राङ्क्षष्ठः ॥१३०॥

॥ इति विष्णुजनसन्धिः ॥

—ओ)०(ओ—


अथ विष्णुसर्गसन्धिः

१३१. विष्णुसर्गो जिह्वामूलीयः कखयोर्वा ।

विष्णुसर्गः कखयोः परयोर्जिह्वामूलीयो वा स्यात। स च वज्राकृतिलेखो जिह्वामूलभवो वर्णविशेषः । अस्य विष्णुजनवत्परोर्ध्वगामित्वं, लोकात। एवमुपध्मानीयस्य च । कः कृष्णः । क  कृष्णः । कृष्णः खेलति, कृष्ण  खेलति ॥१३१॥

१३२. पफयोरुपध्मानीयः ।

विष्णुसर्गः पफयोर्परयोरुपध्मानीयो वा स्यात। स च गजकुम्भाकृतिलेख ओष्ठभवो वर्णविशेषः । कृष्णः परमः, कृष्ण ? परमः वा; कृष्णः फलं, कृष्ण ? फलं वा ॥१३२॥

१३३. न शौरिपरेषु तेषू ।

शौरिर्परेषु तेषु कखपफेषु परेषु विष्णुसर्गस्थाने जिह्वामूलीयादिर्न स्यात। कृष्णः क्षीरस्यति, कृष्णः प्साति । अत्र समासकार्ये षसौ च वक्ष्येते (समा.प्र. ३२५), यथा निष्कृष्णः, रक्षस्पाशः ॥१३३॥

१३४. चछयोः शरामः ।

विष्णुसर्गः चछयोः परयोः शरामः स्यात। कृष्णः + चरति = कृष्णश्चरति; कृष्णः + छादयति = कृष्णश्छादयति ॥१३४॥

१३५. टठयोः षरामः ।

विष्णुसर्गः टठयोः परयोः षरामः स्यात। कृष्णः + टीकते = कृष्णष्टीकते; कः + ठरामः = कष्ठरामः ॥१३५॥

१३६. तथयोः सरामः ।

विष्णुसर्गः तथयोः परयोः सरामः स्यात। कृष्णः + तरति = कृष्णस्तरति, कृष्णः + थूत्करोति = कृष्णस्थूत्करोति ॥१३६॥

१३७. न त्से ।

कः त्सरुः ॥१३७॥

१३८. शौरिषु शौरिर्वा ।

विष्णुसर्गः शौरिषु परेषु परो वा यो वर्णः स एव वा स्यात्— कृष्णः शरणम्, कृष्णश्शरणं वा । हरेः षण्डः, हरेष्षण्डो वा । हरेः सुरभिः, हरेस्सुरभिर्वा ॥१३६॥

१३९. सात्वतपरत्वे लोप्यश्च ।

सात्वतः परो येभ्यस्तेषु शौरिषु परेषु विष्णुसर्गः, पक्षे लोप्यश्च स्यात्—हरेः स्थलं = हरे स्थलं, हरेस्स्थलं वा ॥१३९॥

१४०. आदरामगोपालयोरुर्नित्यम् ।

अरामात्परो विष्णुसर्ग उरामः स्यात। अरामगोपालयोः परयोः—कृष्णः + अत्र = कृष्णोऽत्र, कृष्णः + गच्छति = कृष्णो गच्छति । अरामनिर्देशात्महापुरुषे तु न—आगच्छ तीर्थश्रवा३ अत्र । विष्णुसर्गलोपो वक्ष्यते ॥१४०॥

१४१. अद्वयभोभगोअघोभ्यो लोप्यः,
सर्वेश्वरे तु यश्च, न च लोप्ये सन्धिः ।

अ आ इति वर्णद्वयात्भोःभगोःअघोःशब्देभ्यश्च परो विष्णुसर्गो लोप्यः स्यात्,
सर्वेश्वरगोपालयोः परयोः । सर्वेश्वरे तु परे पक्षे यरामश्च स्यात। तस्मिन्लोप्ये सति पुनः सन्धिर्न स्यात्—कृष्णः + इह = कृष्ण इह, कृष्णयिह वा । कृष्णाः + अत्र = कृष्णा अत्र, कृष्णायत्र वा । भोः + अनन्त = भो अनन्त, भोयनन्त वा । भगोः + अनन्त = भगो अनन्त, भगोयनन्त वा । अघोः + अवैष्णव = अघो अवैष्णव, अघोयवैष्णव वा ।

अत्राद्वयात्पर ईषत्स्पर्शी, ईषत्स्पर्शितरश्चयरामो ज्ञेयः । ओरामात्परस्त्वीषत्स्पर्शितर एव । गोपाले न यरामः—कृष्णागच्छति, भो गोविन्द, भगो गोविन्द, अघो हरिविमुख । आदरामगोपालयोः इति विशेषविधानानाह—कृष्णोऽत्र कृष्णो गच्छति ।

सैष इति पादपूरणे । सः + एषः = स एषः ।
सैष दाशरथी रामः, सैष राजा युधिष्ठिरः ।
सैष कर्णो महात्यागी । सैष भीमो महाबलः ॥१४१॥

१४२. एषसपरो विष्णुजने ।

एतच्छब्दस्य एष इत्यस्मात्, तच्छब्दस्य स इत्यस्माच्च परो विष्णुसर्गो लोप्यः स्याद्विष्णुजने परे,  एषः + कृष्णः = एष कृष्णः; सः + रामः = स रामः ॥१४२॥

१४३. न तु नञ्समासाकप्रत्यययोः ।

अनेषः कृष्णः, असो रामः, एषकः, कृष्णः, सको रामः । स इत्यस्य साहचर्यात्  एषणमेष इत्यस्मान्न स्यात्—एषो भवति ॥१४३॥

१४४. र ईश्वरात्सर्वेश्वरगोपालयोः ।

ईश्वरात्परो विष्णुसर्गो ररामः स्यात। सर्वेश्वरगोपालयोः परयोः—हरेः + इदं = हरेरिदम्, हरिः + गच्छति = हरिर्गच्छति ॥१४४॥

१४५. अनीश्वरादपि ररामजः ।

स एव विष्णुसर्गो यदि ररामजातस्तदा ईश्वरादनीश्वरादपि च परो ररामः स्यात्, सर्वेश्वरगोपालयोः परयोः—प्रातः + अत्र = प्रातरत्र । गीः + मुकुन्दस्य = गीर्मुकुन्दस्य । भ्रातः + व्रजे = भ्रातर्व्रजे । भ्रातः + गोविन्दं पश्य = भ्रातर्गोविन्दं पश्य ॥१४५॥

१४६. अह्नो विष्णुसर्गस्य रो रात्रिरूपरथान्तरादन्येषु ।

रात्रिरूपरथान्तरादन्येषु परेषु अह्नो विष्णुसर्गस्य स्थाने रो भवति—अहः + अहः = अहरहः, अहः + गणः = अहर्गणः । सर्वेश्वरगोपालयोरेव । नेह—अहःपतिः । रात्रादौ  तु न—अहोरात्रिः । एकदेशविकृतमनन्यवत्—अहोरात्रः । अहोरूपम् । अहोरथन्तरं साम ॥१४६॥

१४७. रो रे लोप्यः, पूर्वश्च त्रिविक्रमः ।

रो ररामे परे लोप्यः स्यात। ररामात्पूर्वो वामनश्च त्रिविक्रमः स्यात। भ्रातः + रामानुजं पश्य = भ्राता रामानुजं पश्य । हरिः + राधाप्रियः = हरी राधाप्रियः ॥१४७॥

॥ इति विष्णुसर्गसन्धिः ॥

इति श्रीश्रीसंक्षेपहरिनामामृताख्ये वैष्णवव्याकरणे
संज्ञासन्धिप्रकरणं प्रथमं समाप्तम् ॥१॥

(२)

[द्वितीयम्]
अथ विष्णुपदप्रकरणम्

य एकः सर्वरूपाणां सर्वनाम्नां तथाश्रयः ।
तस्य विष्णोः पदं सर्वं विष्णुभक्त्या निरूप्यते॥

अथ नामजानि विष्णुपदानि

नाम्ना जातानि यानि विष्णुपदानि, अथानन्तरं तानि निरूप्यन्ते.

१. अधातुविष्णुभक्तिकमर्थवन्नाम ।

भूसनन्ताद्या धातवः । स्वादितिबाद्या विष्णुभक्तयः, विभक्तय इति प्राञ्चः । तान्धातून्, ता विष्णुभक्तीश्च वर्जयित्वा यदर्थयुक्तं शब्दरूपम् । तन्नामसंज्ञं स्यात। लिङ्गमित्येके । प्रातिपदिकमित्यन्ये । ते चार्था द्रव्यगुणजातिक्रियाः । तद्युक्तं तदभिधायकं शब्दरूपमित्यर्थः ।

(१) द्रव्यं पश्यमारभ्य मृनयपर्यन्तं सर्वं वस्तु ।
(२) गुणस्तदाश्रयी ऐश्वर्यादिशब्दस्पर्शादिको धर्मः ।
(३) जातिः समानत्वं ब्राह्मणत्वं गोत्वादि ।
(४) क्रिया धात्वर्थः सत्त्वाहारज्ञानविहारप्रभृतिः ।

अर्थवद्ग्रहणात्कृष्ण इत्यादौ प्रत्यक्षरं नामत्वं न स्यात। गवित्ययमाह इत्यत्र च ॥१॥

२. प्रकृतिः पूर्वा ।

सा च नामधातुभेदाद्द्विविधा ॥२॥

३. प्रत्ययः परः ।

स च स्वाद्याख्यातकृत्तद्धितभेदाच्चतुर्विधः ॥३॥

४. तत्र नाम्नः—सुमौ जस्;
अमौ शस्; टा भ्यां भिस्; ङे भ्यां भ्यस्;
ङसि भ्यां भ्यस्; ङसोसाम्; ङि ओस्सुप॥

एते सुंइत्यादय एकविंशतिर्विष्णुभक्तयः । प्रत्येकं नाम्नः परे स्युः । तासु च—सुमौ जस्प्रथमा ; अमौ शस्द्वितीया ; टा भ्यां भिस्तृतीया ; ङे भ्यां भ्यस्चतुर्थी ; ङसि भ्यां भ्यस्पञ्चमी ; ङ ओसां षष्ठी ; ङि ओस्सुप्सप्तमी ॥

अत्र प्रथमाया एकवचनं, सुं, द्विवचनमौ, बहुवचनं जस्; द्वितीयैकवचनमम्, द्विवचनमौ, बहुवचनं शसित्यादि ज्ञेयम् । एताः “स्वादयः”, “स्यादयः” इत्यन्ये । “सुप्” इत्येके ॥४॥

५. तत्र जटशङपा इतः, उंश्च सों ङसेरिश्च ।

एति, गच्छति, न तिष्ठतीति “इत्”, “अनुबन्धः” च । स च उच्चारणार्थश्चिह्नार्थो विध्यादिनिमित्तश्च क्वचित। इतश्चैते—सिद्धोपदेशे विरिञ्चौ च सविष्णुचापसर्वेश्वर इत्, अन्त्यो विष्णुजनश्च “अतित्” इत्यादौ । आङ्– माङ्– उञ् – नञ्सु च । विरिञ्चौ तु क्वचित। धात्वादिञिटुडु । प्रत्ययाद्या जटणाः । शवर्गावतद्धिते । स विष्णुभक्तौ तनसमा इति । सिद्धोपदेशाः धातुप्रत्ययविष्णवः । अरामादिभेदाः सविष्णुचापास्तु वैदिका उच्यन्ते ॥५॥

६. नामसंज्ञश्चतुर्विधः ।

यथा पुंलिङ्गः पुरुषोत्तमसंज्ञः । स्त्रीलिङ्गो लक्ष्मीसंज्ञः । नपुंसकलिङ्गो ब्रह्मसंज्ञः । अलिङ्गः अव्ययसंज्ञः  ॥६॥

—ओ)०(ओ—

तत्र सर्वेश्वरान्ताः पुरुषोत्तमलिङ्गाः

तत्र अरामान्तः कृष्णशब्दः । तत्र प्रथमैकवचने कृष्णसुमिति स्थिते, उराम उच्चारणार्थः ॥
७. विष्णुभक्तिसिद्धं विष्णुपदम् ।

विष्णुभक्तिसिद्धं नाम्नो धातोर्वा रूपं विष्णुपदसंज्ञं स्यात। “पदम्” इति प्राञ्चः ॥७॥

गङ्गास्रोतोवदेवास्य भवेद्विधिरतःपरम् ।
नारोहति परः पूर्वं यत्रोपाधिर्न विद्यते ॥७॥

८. सररामयोर्विष्णुसर्गो विष्णुपदान्ते ।

सररामयोः स्थाने विष्णुसर्गः स्यात। विष्णुपदान्ते विषये—कृष्णः ।

एवं सूत्रं ततो वृत्तिरिति वस्तरशङ्कया ।
सूत्रेणैवार्थसिद्धिस्तु यथा स्यात्क्रियते तथा ॥
साधनानुक्रमार्थं च नाधिकारेण सूत्र्यते ।
अन्यथा प्रक्रिया भिन्ना मृग्येताज्ञप्रबोधनी ॥
प्राङ्निमित्तं तथा कार्यी कार्यं परनिमित्तकम् ।
अत्र क्रमेण वक्तव्यं प्रायः सूत्रेषु सर्वतः ॥
क्रमाच्च पञ्चमी ६ई प्रथमा सप्तमी तथा ।
क्वचित्परनिमित्तस्य स्थाने विषयसप्तमी ॥
कार्यपूर्वे पञ्चमी स्यात्कार्यस्थाने तु षष्ठिका ।
कार्ये तु प्रथमा वाच्या, सप्तमी विषये परे ॥
विना योगे निषेधार्थं द्वितीया क्वचिदिष्यते ।
सर्वाङ्गासम्भवो यत्र स्वल्पान्यङ्गानि तत्र तु ॥
अतो बालकबोधायपदं विच्छिद्य मूर्धनि ।
अङ्का देया विष्णुभक्तिव्यक्त्यर्थं सर्वसूत्रतः ॥

यथा सररामयोः इति कार्यस्थानं, विष्णुसर्गः इति कार्यं, विषयुपदान्तः विषयः । परनिमित्तं पूर्वनिमित्तं चात्र नास्ति । तत्तच्च, यथा—इद्वयमेव यः सर्वेश्वरे (स.प्र. ५९) इत्यत्र परनिमित्तं सर्वेश्वरः । ततः शश्छो वा (स.प्र. ९९) इत्यत्र पूर्वनिमित्तं विष्णुदासः । विष्णुजने (स.प्र. १२०) इत्यादौ, हरौ विना इति तौ निषिद्धौ ।

तदेवं प्रथमाया एकवचने कृष्णः । द्विवचने कृष्ण + औ, ओद्वये औ (स.प्र. ५७), कृष्णौ । बहुवचने कृष्ण + जस्, जित्चिह्नार्थः, शसादिभेदज्ञापनाय । एवमुत्तरत्रापि । त्रिविक्रमविष्णुसर्गौ—कृष्णाः ॥८॥

द्वितीयवचने कृष्ण + अम् ।

९. दशावतारादं शसोररामहरः ।

कृष्णम् । हरोऽयं ज्ञापयति—सूत्रे प्रत्ययरूपान्निमित्तादन्यस्य हरोऽपि महाहरः इति । तेनैकात्मकमात्रनिमित्तत्वान्न त्रिविक्रमः । द्वितीयाद्वित्वे कृष्ण + औ = कृष्णौ । पूर्ववद्बहुत्वे कृष्ण + शस्, शित्, अरामहरः । एकदेशविकृतमनन्यवत। तथापि तन्नामैवेत्यर्थः ॥८॥

ततश्च—
१०. दशावतारस्य त्रिविक्रमः शसि, तस्मात्सो नः पुंसि ।

अराम उच्चारणार्थः, कृष्णान॥९॥

तृतीयैकत्वे टा—
११. अरामान्तः कृष्णसंज्ञः ।

१२. कृष्णात्टा इनः ।

टा इति सूत्रबलेन लुप्तषष्ठी, स्पष्टतार्थमसन्धिः । एवमन्यत्रापि । कृष्ण + इन, अद्वयमिद्वये ए (स.प्र. ४८) = कृष्णेन ॥१२॥

द्वित्वे कृष्ण + भ्याम्—
१३. कृष्णस्य त्रिविक्रमो गोपाले ।

एकवर्णो विधिरन्ते प्रवर्तते = कृष्णाभ्याम् ॥१३॥

बहुत्वे कृष्ण + भिस्—
१४. कृष्णायांद्भाइ।

एद्वये ऐ (स.प्र. ५५), विष्णुसर्गः = कृष्णैः ॥१४॥

चतुर्थ्येकत्वे—
१५. कृष्णात्ङेर्यः ।

कृष्णस्य त्रिविक्रमः (वि.प्र. १३) = कृष्णाय । द्वित्वे = कृष्णाभ्याम् ॥१५॥

बहुत्वे भ्यस्—
१६. कृष्णस्य ए वैष्णवे बहुत्वे ।

कृष्णेभ्यः ॥१६॥

पञ्चम्येकत्वे कृष्ण + भिस्—
१७. कृष्णात्ङसेरात।

कृष्णात। पञ्चमी द्वित्वबहुत्वयोश्चतुर्थीव—कृष्णाभ्याम्, कृष्णेभ्यः ॥१७॥

षष्ठ्येकत्वे कृष्ण + ङस्—
१८. कृष्णात्ङसः स्य ।

कृष्णस्य ॥१८॥

द्वित्वे ओस्—
१९. कृष्णस्य ए ओसि ।

ए अय्(स.प्र. ६३)—कृष्णयोः ॥१९॥

बहुत्वे आम्—
२०. वामनगोपीराधाभ्यो नुडामि ।

ईदृशौ विधिर्विष्णुः । उटावितौ । टिदागमः परसम्बन्धी । किदागमः पूर्वसम्बन्धी ॥२०॥

२१. तत्र टिन्मितौ सर्वत्रागमौ श्नमं विना, उगन्तकिच्च ।

यथा, “नुक्”, “पुक्”, “तुक्”, “घुक्”, इत्यादि । ततो “नामि” स्थिते ॥२१॥

२२. वामनस्य त्रिविक्रमो नामिः नृशब्दस्य तुवा, न

कृष्णानाम् । कृष्णस्य त्रिविक्रमो (वि.प्र. १३) इत्यनेनैव सिद्धत्वेऽपि सूत्रस्य प्रयोजनं, हरीणां (वि.प्र. ३६) इत्यादावेव । सप्तम्येकत्वे कृष्णङि, ङ्, इत्, कृष्णे, अद्वयमिद्वये ए (स.प्र. ४८)—कृष्णे । द्वित्वे ओस्—कृष्णयोः ॥२०॥

बहुत्वे सुप्, पराम इत्, कृष्णस्य ए (वि.प्र. १६)—

२३. ईश्वरहरिमित्रकङेभ्यो प्रत्ययविरिञ्चिसस्य षो, नुम्विष्णुसर्गव्यवधानेऽपि, न तु विष्णुपदाद्यन्तसातीनाम् ।

कृष्णेषु ॥२३॥

अथ सम्बोधनं, तत्र हेशब्दः सम्बोधनसूचकः—

२४. सम्बोधने सुर्बुद्धसंज्ञः ।

“सम्बुद्धिः” च ॥२४॥

२५. एओवामनेभ्यो बुद्धस्यादर्शनम् ।

हे कृष्ण ! द्वित्वबहुत्वयोः पूर्ववत। हे कृष्णौ ! हे कृष्णाः ! अत्र प्रथमैव । हेशब्दाद्यभावेऽपि—कृष्ण ! कृष्णौ ! कृष्णाः ! विष्णुभक्तिहरेऽपि तदर्थावृतत्वान्नामत्वातिक्रमः । ततः कृष्ण यासि, कृष्ण भासि, इत्यादौ, नामविशेषस्य विहितं त्रिविक्रमादिकं न स्यात। एवं रामः, रामौ, रामाः इत्यादि ॥२५॥

२६. रषऋद्वयेभ्यो नस्य णः, सर्वेश्वरहषवकवर्गपवर्गव्यवधानेऽपि, समानविष्णुपदे, न तु विष्णुपदान्तस्य ।

रामान्, रामेण इत्यादि । वामननारायणगोविन्दवैकुण्ठवासुदेवऽदयोऽपि अरामान्ताः कृष्णतुल्याः । कुर्वन्नस्तीत्यादौ द्वित्वे पूर्वनरामस्य न णत्वं, तत्राकरणात। अ इति शब्दोऽपि आद्यन्तवदेकस्मिनिति न्यायेन अरामान्तः । अः, औ, आः, इत्यादि । सम्बोधने, अन्यत्र चानित्यमिष्यते (स.प्र १) इति हे अ, अ हे वा । दूराह्वाने है हयोरेव महापुरुषत्वं मतम्—हे अ३, अ हे३ वा ॥२६॥

२७. शसादयो यदुसंज्ञाः ।

२८. अत्र पाददन्तमासयुष इत्येतेषां
पद्दत्मास्यूषनित्येते विरिञ्चयो यदुषु वा ।

यथासङ्ख्यामनुदेशः, समानां कार्यिणां कार्याणां च प्रकृतीनां प्रत्ययानां च तुल्यसङ्ख्यानां सतां यद्विधानं, तद्यथासङ्ख्यं स्यात। प्रथमस्य प्रथमं, द्वितीयस्य द्वितीयं, इत्यादिक्रमेणेत्यर्थः । प्रयोगाश्च पक्षे विष्णुजनान्तवज्ज्ञेयाः । यथा—पदः पादान्, पदा पादेन, पद्भ्यां पादाभ्यामित्यादि ।

अथ धातुस्वरूप आरामान्तो विश्वपाशब्दः । विश्वपाः, विश्वपौ विश्वपाः । विश्वपाम्, विश्वपौ ॥२८॥

विश्वपाशस्—

२९. आरामहरो यदुसर्वेश्वरे, न त्वापः ।

विश्वपः । विश्वपाटा, ट्, इत्= विश्वपा, विश्वपाभ्याम्, विश्वपाभिः ॥
विश्वपाङे, ङ्, इत्= विश्वपे, विश्वपाभ्याम्, विश्वपाभ्यः ॥
विश्वपाङसि, इङ्गाव्, इतौ = विश्वपः, विश्वपाभ्याम्, विश्वपाभ्यः ॥
विश्वपाङस्= विश्वपः, विश्वपोः, विश्वपाम् ॥
विश्वपाङि = विश्वपि, विश्वपोः, विश्वपासु ॥
हे विश्वपाः ! इत्यादि ।

एवं सोमपाप्रभृतयः । आरामहरविधिर्वा हाहाअब्जादीनामिति क्रमदीश्वरादयः । हाहः हाहान्, अब्जः अब्जान। हाहाः अब्जाः इति केचित। एवमग्रेगाः उदधिक्राः ॥२७॥

इरामान्तो हरिशब्दः—

३०. इउरामान्तो हरिसंज्ञः ।

अग्निः, घिः, च । हरिः ॥३०॥

३१. हरित औ पूर्वसवर्णः ।

हरित इति पञ्चम्यास्तस्तद्धितः, हरी ॥३१॥

३२. इद्वयस्य ए, उद्वयस्य ओ, ऋद्वयस्य अर्, ÿद्वयस्य अल्गोविन्द संज्ञः ।

गुणसंज्ञश्च ॥३२॥

३३. ङितो वृष्णिसंज्ञाः ।

३४. हरेर्गोविन्दो जसि वृष्णिषु बुद्धे च ।

हरयः । हरिम्, हरी, हरीन॥३४॥

३५. हरितष्टा ना, न तु लक्ष्म्याम् ।

हरिणा, हरिभ्याम्, हरिभिः ॥
हरये, हरिभ्याम्, हरिभ्यः ॥३५॥

३६. एओभ्यां ङसिङसोररामहरः ।

हरेः, हरिभ्याम्, हरिभ्यः॥
हरेः, हर्योः, हरीणाम् ॥३६॥

३७. हरितः ङेरौ च।

चराम इत॥३७॥

३८. अन्त्यसर्वेश्वरादिवर्णाः संसारसंज्ञाः ।

३९. संसारस्य हरश्चिति ।

डितिति प्राञ्चः । हरौ, हर्योः, हरिषु ॥ हे हरे । एवमग्निरविकविगिरिप्रभृतयः । त्रिशब्दो वाच्यलिङ्गो नित्यबहुवचनान्तः । तस्य पुंसि—त्रयः, त्रीन्, त्रिभिः, त्रिभ्यः, त्रिभ्यः ॥३९॥

४०. त्रेस्त्रयो नामि स्वार्थे ।

त्रयाणाम् । तदन्तत्वेऽपि—परमत्रयाणां, अस्वार्थे तु—प्रियत्रीणाम् । त्रिषु ॥४०॥

कतिशब्दोऽपि तद्वत्—

४१. षणान्तसङ्ख्यातः कतेश्च जस्शसोर्महाहरः स्वार्थे ।

अत्र आत्यन्तिकलयात्प्रत्ययकार्यं न गोविन्दः । कति, कति, कतिभिः इत्यादि । कतेरिति यतितत्योरुपलक्षणम् । यति ते नाग शीर्षाणि, तत ते नाग वेदनाः इति प्रयोगात। एवं परमकतीत्यादि । अस्वार्थे तु प्रियकतयः ॥४१॥

अथ सखिशब्दः—

४२. ऋरामसखिभ्यामुशनस्पुरुदंशसनेहसित्येतेभ्यश्च सोराच्, बुद्धं विना ।

संसारस्य हरः ॥४२॥

४३. अद्वयस्य आ, इद्वयस्य ऐ, उद्वयस्य औ, ऋद्वयस्य आर्, ÿद्वयस्य आल्, वृष्णीन्द्रसंज्ञः, एओस्थाने ऐ औ च ।

“वृद्धि”संज्ञश्च ॥४३॥

४४. स्वादयः पञ्च पाण्डवाः ।

“घुटः,” “सुटः” च ॥४४॥

४५. सख्युर्वृष्णीन्द्रः सुवर्जं पाण्डवेषु ।

ऐ आय्(स.प्र. ६४),
…सखायौ, सखायः,
सखायं, सखायौ, सखीन॥४५॥

४६. न सखिर्हरिसंज्ञष्टादौ, पतिस्त्वसमासे ।

सख्या, सखिभ्याम्, सखिभिः ।
सख्ये, सखिभ्याम्, सखिभ्यः ॥४६॥

४७. ख्यत्याभ्यां ङसिङसोरुस।

खिशब्दखीशब्दयोः । तिशब्दतीशब्दयोः कृतयरामादेशयोरिदं ग्रहणम् । सख्युः, सखिभ्याम्, सखिभ्यः । सख्युः, सख्योः, सखीनाम् ॥४७॥

४८. सखिपतिभ्यां ङेरौ ।

सख्यौ, सख्योः, सखिषु । हे सखे हे सखायौ हे सखायः । तदन्तत्वेऽपि—बहुसख्या, बहुसख्ये, बहुसख्युः, बहुसख्यौ इत्याहुः । पञ्चम्यां सुसखेरागच्छतीति भाष्यादौ । एतद्दृष्ट्वैव, सख्युः समासे घिसंज्ञोऽस्तीति प्रक्रियायां [पा. ७.३.११८], समास इत्युपलक्षणमिति कृष्णपण्डितः । तेन प्रकृतेः पूर्वत्र बहुप्रत्ययेऽपि बहुसखेः इत्यादि । पतिशब्दस्य प्रथमाद्वितीययोर्हरिबवत। तृतीयादौ सखिशब्दवत। समासान्तस्य तु हरिशब्दवदेव, बहुपतिना, बहुपतये इत्यादि ।

ईरामान्तो दैत्यप्रमीशब्दः । दैत्यान्प्रमीनाति हिनस्तीति क्विबन्तो विष्णुवाची । दैत्यप्रमीः, दैत्यप्रम्यौ, दैत्यप्रम्यः । धातुत्वादत्र सर्वत्र सर्वेश्वरे यराम एव वक्ष्यते (वि.प्र. ५०) । तस्यैवोदाहरणमिदं वातप्रमीभेदज्ञापनार्थमत्र लिखितम् । एवमन्यत्रापि ज्ञेयम्—
दैत्यप्रम्यम्, दैत्यप्रम्यौ, दैत्यप्रम्यः
दैत्यप्रम्या, दैत्यप्रमीभ्याम्, दैत्यप्रमीभिः
दैत्यप्रम्ये, दैत्यप्रमीभ्याम्, दैत्यप्रमीभ्यः
दैत्यप्रम्यः, दैत्यप्रमीभ्याम्, दैत्यप्रमीभ्यः
दैत्यप्रम्यः, दैत्यप्रम्योः, दैत्यप्रम्याम्
दैत्यप्रम्यि, दैत्यप्रम्योः, दैत्यप्रमीषु

सम्बोधने पूर्ववत। एवं वातप्रमीशब्द ईप्रत्ययान्तत्वातम्शस्ङिषु विशेष इति केचित। वातप्रमीम् । “यावत्सम्भवस्तावद्विधिः” इति न्यायेन दशावतारस्य (वि.प्र. १०) इति त्रिविक्रमे कृते, “तस्मात्सो नः” —वातप्रमीन। ङौ—वातप्रमी । वातप्रमी हूहूप्रबृतेर्धातुत्वं वा इत्यन्ये । वातप्रम्यम्, वातप्रमीम्, हूह्वम्, हूहूम् ।

उरामान्तो विष्णुशब्दः । हरिसूत्रैरेव साधनम्—
विष्णुः, विष्णू, विष्णवः
विष्णुम्, विष्णू, विष्णून्
विष्णुना, विष्णुभ्याम्, विष्णुभिः
विष्णवे, विष्णुभ्याम्, विष्णुभ्यः
विष्णोः, विष्णुभ्याम्, विष्णुभ्यः
विष्णोः, विष्ण्वोः, विष्णूनां
विष्णौ, विष्ण्वोः, विष्णुषु
हे विष्णो !

चालनी तित{उ}ः पुमानित्यमरः । प्रकृतौ सन्धिं विनैव सिद्धोऽयमूणादाविति प्रकृत्यङ्गयोर्न सन्धिः । तित{उ}ः, तितऊ, तित{अ}वः इत्यादि ॥४८॥

कृष्णश्रीः—

४९. धातोरीदूतोरियुवौ सर्वेश्वरे बहुलम् ।

ईरामस्य इय्, ऊरामस्य उव। प्रत्ययवर्णेन तदादिर्गृह्यते । ततः सर्वेश्वरादौ विष्णुभक्तावित्यर्थः । एवमन्यत्रापि । एतद्विधसूत्रस्य नामप्रकरणपाठात्लुप्तकृत्प्रत्ययस्य धातुत्वेऽपि नामत्वम् । ततः प्रत्ययाश्च—कृष्णश्रियौ, कृष्णश्रियः । परत्वादम्शसोरपि—कृष्णश्रियमित्यादि ।

भावे क्विपि—भूः, भुवौ, भुवः । बाहुल्यात्न सर्वत्र, यथोक्तम्—

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः
क्वचिद्विभाषा क्वचिदन्यदेव ।
विधेर्विधानं बहुधा समीक्ष्य
चतुर्विधं बाहुलकं वदन्ति ॥  (अभियुक्तोक्तिः) ॥४९॥

तेन—

५०. सहजानेकसर्वेश्वरस्य क्विबन्तस्य केवलधात्वक्षरसत्सङ्गास्पृष्टयोरीदूतोर्यवौ ।

तत्र कृत्समासे—विश्वनीः, विश्वन्यौ, विश्वन्यः इत्यादि । षष्ठीबहुत्वे—विश्वन्याम् ॥४७॥

५१. नीराधाभ्यां ङेराम् ।

विश्वन्याम्, विश्वन्योः, विश्वनीषु । एवं प्रकृष्टं ध्यायतीति क्विपि निपातात्—प्रधीः, प्रध्यौ । केवलक्विबन्ते मालीयतीति—मालीः, माल्यौ । ङौ—माल्यि ।

सहज इति किं ? पश्चाद्योगे तु न स्यात। विश्वस्य नीः—विश्वनीः, विश्वनियौ, विश्वनियः । आमि ङौ च विश्वनियाम् । अनेक इति किं ? नीः, नियौ, नियः । धात्वक्षरसत्सङ्गास्पृष्टयोः इति किं ? कृष्णप्रीः, कृष्णप्रियौ; कृष्णपटप्रूः, कृष्णपटप्रुवौ । केवल इति किं ? इह तु स्यादेव—उन्नीः, उन्न्यौ, उन्न्यः ॥५१॥

५२. सुधीभुवोरियुवावेव ।

सुष्ठु ध्यायतीति क्विपि निपातनात्—सुधीः, सुधियौ, सुधियः । कृष्णभूः, कृष्णभुवौ, कृष्णभुवः ॥५२॥

५३. वर्षापुनर्दृन्करकारकाराभ्यो भुवो व एव ।

कर एव कारः, सोऽपि गृह्यते इति विस्तरादुभयोरुपादानम् । वर्षाभूः, वर्षाभ्वौ, वर्षाभ्वः । दृभूः, दृन्भ्वौ । एवं खल्पूप्रभृतयः ।

कृष्णसुखीयति—कृष्णसुखीः, कृष्णासुख्यौ, कृष्णसुख्यः ।

अनन्तीयति—अनन्तीः, अनन्त्यौ, अनन्त्यः ।

ख्यत्याभ्यां (वि.प्र. ४७) इति त्रिविक्रमग्रहणात्ङसिङसोरुस्—कृष्णसुख्युः, अनन्त्युः । नरामादेशस्यतरामस्थानिवत्त्वात्—लून्युः । कृष्णसुख्युः इत्याद्येके ॥५३॥

अथ ऋरामान्ताः । तत्र पितृशब्दः । ऋरामसखिभ्यां (वि.प्र. ४२) इत्यादि—

५४. ऋरामस्य गोविन्दः पाण्डवेषु ङौ च ।

पिता, पितरौ, पितरः;
पितरम्, पितरौ, पित्èन्;
पित्रा, पितृभ्याम्, पितृभिः
पित्रे, पितृभ्याम्, पितृभ्यः ॥५४॥

५५. ऋरामतो ङसिङसोरस्य उच।

पितुः, पितृभ्याम्, पितृभ्यः
पितुः, पित्रोः, पित्èणाम्
पितरि, पित्रोः, पितृषु ॥५५॥

५६. बुद्धे गोविन्दः ।

५७. राधाविष्णुजनाभ्यामीपश्च त्रिविक्रमात्सोर्हरः ।

हे पितः ! एवं जामातृप्रभृतयः ।

नृशब्दः—
ना, नरौ, नरः
नरम्, नरौ, न्èन्
न्रा, नृभ्याम्, नृभिः
 
नृशब्दस्य तु वा (वि.प्र. २२)—नृणां, न्èणाम् ॥५६५७॥

कर्तृशब्दस्य भेदः—

५८. स्वसृतुल्तृन्प्रत्ययान्तानां वृष्णीन्द्रः सुवर्जं पाण्डवेषु ।

कर्ता, कर्तारः; कर्तारम्, कर्तारौ । यदुषु पितृवत। हे कर्तः !

लेष्टृ—लेष्टा, लेष्टारौ, लेष्टारः; लेष्टारम्, लेष्टारौ । हरिमित्रादिरेवायं—हरिवेण्वादिस्त्वपपाठः ।

लेष्टृत्वष्टृतृशब्दान्तास्तृल्तृनन्ता बुधैर्मताः ।
पितृमातृभ्रातृयाट्र्जामातृदुहित्èर्विना ॥५८॥

५९. क्रोष्टुशब्दस्य पाण्डवेषु तृल्प्रत्ययान्तस्यैव रूपं, बुद्धं विना, टादिसर्वेश्वरे तु विकल्पः ।

क्रोष्टा, क्रोष्टारौ, क्रोष्टारः
क्रोष्टारम्, क्रोष्टारौ, क्रोष्टून्
क्रोष्ट्रा, क्रोष्टुना, क्रोष्टुभ्याम्, क्रोष्टुभिः
क्रोष्ट्रे, क्रोष्टवे इत्यादि ।

कृतेऽप्यकृते यः स्यात्, स नित्यः । नित्यस्य बलवत्त्वात्पूर्वस्त्वामि नुडेव (वि.प्र. २०)—क्रोष्टूनां, क्रोष्ट्èणामित्येके । हे क्रोष्टो ! लक्ष्म्यास्तु—क्रोष्ट्री ॥५९॥

ऐरामान्तः कृष्णरैशब्दः—

६०. राय आ सभोः ।

कृष्णराः, कृष्णरायौ, कृष्णरायः; कृष्णरायमित्यादि । एवं रैशब्दश्च । नेह—तद्धिते रैत्वं, क्यनि—रैअयति । पाणिनीयेऽपि रायो हलि [पा. ७.२.८५] इत्यादि विष्णुभक्त्यनुवृत्तेः ॥६०॥

ओरामान्तो गोशब्दो बलीवर्दादिषु पुरुषोत्तमलिङ्गः—

६१. ओ औ पाण्डवेषु ।

गौः, गावौ, गावः ॥६१॥

६२. ओ आ अम्शसोर्न च सो नः ॥

अन्यथा वातप्रमीनितिवत्, गा इत्यत्र सो न स्यात।

गाम्, गावौ, गाः;
गवा, गोभ्यां, गोभिः;
गवे, गोभ्यां, गोभ्यः;

एओभ्यां ङसिङसो [वि.प्र. ३६] इत्यादिना अरामहरः ।

गोः, गोभ्यां, गोभ्यः;
गोः, गवोः, गवामित्यादि ।

सर्वविधिभ्यो हरो, हरात्सर्वेश्वरादेशो बलवान। अन्तरङ्ग इत्यादि च विधानसामर्थ्यात्न सोर्हरः—हे गौः !

औरामान्तो ग्लौशब्दः—ग्लौः, ग्लावौ, ग्लावः इत्यादि ॥६२॥

॥ इति सर्वेश्वरान्ताः पुरुषोत्तमलिङ्गाः ॥

—ओ)०(ओ—

 

अथ सर्वेश्वरान्ता लक्ष्मीलिङ्गाः

६३. आरामान्तलक्ष्मी राधासंज्ञा ।

श्रद्धासंज्ञा च । तत्र राधाशब्दः । राधाविष्णुजनाभ्यां (वि.प्र. ५७) इति—राधा ॥६३॥

६४. राधाब्रह्मभ्यामौ ई ।

अद्वयमिद्वये ए (स.प्र. ४८)—राधे, राधाः ॥६४॥

६५. राधाया ए टौसोबु‚द्धे च्ÿ

राधया, राधाभ्याम्, राधाभिः ॥६५॥

६६. राधातो याप्वृष्णिषु।

एद्वये ऐ (स.प्र. ५५)—

राधायै, राधाभ्याम्, राधाभ्यः
राधायाः, राधाभ्याम्, राधाभ्यः
राधायाः, राधयोः, राधानाम् ।

णेरां (वि.प्र. ५१), लाक्षणिकप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति न लुट्—

राधायाम्, राधयोः, राधासु ।

सम्बोधने—प्रकृत्याश्रितं प्रकृतावपि पूर्वपूर्वमन्तरङ्गं, प्रकृतेर्बहिराश्रितं बहिरङ्गम् । स्वल्पाश्रितमन्तरङ्गं, बह्वाश्रितं बहिरङ्गम् । अन्तरङ्गबहिरङ्गयोरन्तरङ्गो विधिर्बलवान्  इति न्यायेन प्रथममेत्वे कृते, एओवामनेभ्यो बुद्धस्यादर्शनं (वि.प्र. २५) इति—हे राधे ।

एवं रमारामाश्रद्धामालादयः, अम्बादयश्च । लक्ष्मी (वि.प्र. ६३)ग्रहणान्नेह राधासंज्ञा । समासे वामनो वक्ष्यते (समा.प्र. ५६)—प्रियराधाय कृष्णाय ॥६६॥

६७. अम्बादीनां गोप्याश्च वामनो बुद्धेः ।

हे अम्ब ! हे अक्व ! हे अत्त ! हे अल्ल ! हे अप्प ! हे अब्ब ! एते एवाम्बादयः । नेह—हे अम्बाडे ! हे अम्बाले ! हे अम्बिके ! इत्यादि ॥६७॥

अथ जरा—
६८. जराया जरवा सर्वेश्वरे ।

जरा, जरसौजरे, जरसः जराः
जरसं जरामित्यायांद्ÿ एवं निर्जरशब्दोञपि विकल्प्यते॥६१;
इरामान्तो भक्तिशब्दो पाण्डवेषुहरिशब्दवत्शसि भक्तफलः
भक्त्यात्म इत्यायांद्ÿ


६९. अत्र निशानासिकयोर्निश्नसावादेशौ यदुषु वा वाच्यौ, प्रयोगाश्च पक्षे विष्णुजनान्तवज्ज्ञेयाः ।

यथा निशः निशाः, निज्भ्यामित्यादि ।

इरामान्तो भक्तिशब्दः । तस्य पाण्डवेषु हरिशब्दवत। शसि—भक्तीः, पुंसि (वि.प्र. १०) इति विशेषणान्निरामो न स्यात। न तु लक्ष्म्यां (वि.प्र. ३५) इति न नादेशः । भक्त्या, भक्तिभ्याम्, भक्तिभिः ॥६९॥

७०. हरित आप्वा वृष्णिषु लक्ष्मां, नित्यं गोप्याः ।

वृष्णिनिमित्तापो न षाप।

भक्त्यै, भक्तये, भक्तिभ्याम्, भक्तिभ्यः ।
भक्त्याः, भक्तेः, भक्तिभ्यम्, भक्तिभ्यः ।
भक्त्याः, भक्तेः, भक्त्याः, भक्तीनाम् ।

आवन्तरेऽपि नीराधाभ्यां ङेरां (वि.प्र. ५१)—भक्त्याम्, भक्तौ, भक्त्योः, भक्तिषु
हे भक्ते !

एवं बुद्धिमतिभूतिकृतिधृतिरुचिप्रभृतयः ।

अथ धेनुशब्दः—
धेनुः, धेनू, धेनवः ।
धेनुम्, धेनू, धेनूः, इत्यादि ।
वृष्णिषु—
धेन्वै धेनवे, धेन्वाः धेनोः, धेन्वां धेनौ ।

अशन्यादीनां लक्ष्मीत्वपक्षेऽपि एवमेव ज्ञेयम् । अत्र हरेः स्वभावलक्ष्मीत्वे सत्येवेति वाच्यम् । तेन नेह—प्रियहरये, पिर्यविष्णवे श्रियै । एवं प्रियहरीः । नादेशस्तु (वि.प्र. ३५), न प्रियहर्या । पटुप्रभृतीनां तु विकल्पः इति केचित्—पटवे, पट्वै ॥७०॥

त्रिशब्दस्य लक्ष्म्याम्—

७१. लक्ष्मीस्थयोस्त्रिचतुरोस्तिसृचतसृ विष्णुभक्तौ ।
७२. तिसृचतस्रो रः सर्वेश्वरे।

तिस्रः, तिस्रः, तिसृभिः, तिसृभ्यः, तिसृभ्यः, तिसृणां, तिसृषु ॥७१७२॥

ईरामान्तो गोपीशब्दः । ईरिति लक्ष्मीविहितप्रत्ययः—

७३. ईऊलक्ष्मीर्गोपीसंज्ञा ।

नदीसंज्ञा च ।
गोपी, गोप्यौ, गोप्यः ।
गोपींः गोप्यौ, गोपीः ।
गोप्या, गोपीभ्याम्, गोपीभिः ।
गोप्यै, गोपीभ्याम्, गोपीभ्यः ।
गोप्याः, गोपीभ्याम्, गोपीभ्यः ।
गोप्याः, गोप्योः, गोपीनां,
गोप्याम्, गोप्योः, गोपीषु,
हे गोपि !

अत्र वामनविधानसामर्थ्यान्न गोविन्दः । एवं नदीमहीप्रभृतयः । सखी च—सखी सख्यौ । अत्र नाम्नो ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति परिभाषा नेष्यते । ङौ—सख्याम् । एवं सुपथी इत्यत्र नात्वम् । त्रिविक्रमात्(वि.प्र. ५७) इति विशेषणान्नेह सोर्हरः—अतिगोपिः । पुंसि वृष्णिषु अतिगोपये इत्यादि । लक्ष्म्यां—अतिगोप्यै अतिगोपये इत्यादि ।

अवीतन्त्रीतरीलक्ष्मीईधीणीणामुणादिना ।
शब्दानां तु भवत्येषां सुलोपो न कदाचन ॥

लक्ष्मीः, लक्ष्म्यौ, लक्ष्यः इत्यादि गोपीवत। तन्त्री वीणायामिति तु तन्त्रयतेरणन्तत्वादीपि सिद्धा ॥७३॥

गौरादित्वात्स्त्रीशब्द ईरन्तः । ततः सोर्हरः—

७४. स्त्रीभ्रुवोरियुवौ सर्वेश्वरे, स्त्रिया अम्शसोर्वा ।

स्त्री, स्त्रियौ, स्त्रियः ।
स्त्रियं स्त्रीम्, स्त्रियौ, स्त्रियः स्त्रीः ।
स्त्रिया, स्त्रीभ्यां, स्त्रीभिः ।

नित्यं गोप्याः (वि.प्र. ७०)—

स्त्रियै, स्त्रीभ्यां, स्त्रीभ्यः ।
स्त्रियाः, स्त्रीभ्यां, स्त्रीभ्यः ।
स्त्रियाः, स्त्रियोः, विरिञ्चितो विष्णुर्बलवान्—स्त्रीणाम् ।
स्त्रियां, स्त्रियोः, स्त्रीषु ।
हे स्त्रि ।

गौणत्वे पुंसि तु—अतिस्त्रिः । नाम्ना तु क्वचितिति तदन्तविधिः स्यात। तत्र क्वचिद्(वि.प्र. ६७) ग्रहणात्गोविन्दं नानुडौ च वर्जं स्त्रिया इयादेश इति विस्तरः । मतान्तरं तु न भ्;स्यादिमतमिति च ।

अतिस्त्रियौ, अतिस्त्रियः ।
अतिस्त्रियमतिस्त्रिम्, अतिस्त्रियौ, अतिस्त्रियः अतिस्त्रीन।
अतिस्त्रिणा
अतिस्त्रये,
अतिस्त्रेः, अतिस्त्रियोः, अतिस्त्रीणां
अतिस्त्रौ

लक्ष्म्यां शस्टापरत्वे—अतिस्त्रियः अतिस्त्रीः, अतिस्त्रिया । वृष्णिषु पक्षे—अतिस्त्रियै, अतिस्त्रये, अतिस्त्रियाः, अतिस्त्रियाम् ॥७४॥

श्रीशब्दः—श्रीः, धातोरीदूतौ (वि.प्र. ४९) इति श्रियौ, श्रियः इत्यादि ।

७५. नेषुवस्थानं गोपी, स्त्रियं विना, वृष्णिष्वामि च वा ॥

श्रियै, श्रिये, श्रीभ्याम्, श्रीभ्यः; श्रियाः, श्रियः; श्रियाः, श्रियः, श्रियोः; श्रीणां, श्रियां; श्रियां, श्रियि, श्रियोः, श्रीषु; हे श्रीः रू एवं धीप्रभृतयः । भ्रूप्रभृतयश्च । भ्रूः, भ्रुवौ, भ्रुवः; एवं सुभ्रूः । बुद्धे वामनः इति केचितिति केचित्—

आः कष्टं बत ही चित्रं हूं मातर्दैवतानि धिक।
हा पितः क्वासि हे सुभ्रु रू बह्वेवं विललाप सः ॥ [भट्टि ६.११] इति ।

पश्चात्प्रशब्दयोगे प्रकृष्टा धीः—प्रधीः, प्रधियौ, प्रधियः; ङे—प्रधियै प्रधिये । अत्र यादेशतस्यां भ्रमः, तन्मते एव गतिकारकपूर्वत्वाभावात। प्रादीनां क्रियायोगे एव हि गतिसंज्ञा । केवलाव्ययपूर्वत्वेऽपीति त्वपाणिनीयम् । पुनर्भूशब्दस्य पुनर्व्यूढावाचकस्य नित्यस्त्रीत्वे—हे पुनर्भु रू क्वचिद्भिनपदत्वेऽपि णत्वं वाच्यम् । पुनर्भूणाम् । वधूप्रभृतीनां लक्ष्मीशब्दवत्—वधूः, वध्वौ, वध्वः; हे वधु !

किं च, अनिषुवां पश्चात्पुंस्त्वेऽपि गोपीसंज्ञामाहुः । ततो बहुप्रेयसीशब्दः शसं विना पुंस्यपि गोपीशब्दवत। एवमतिलक्ष्मीः, लक्ष्मीशब्दवत। अवयवस्त्रीविषयत्वात्सिद्धमिति भाष्यम् । ईप्रत्ययान्तवातप्रमीवतिति तु प्रक्रियाकारः । बहुप्रेयसीः इति गौणत्वान्सोर्हरः । वृष्णिषु गोपीसंज्ञत्वं च न इति विस्तरः । इदमपाणिनीयम् ।

तथा गोपीमिच्छतीति क्यन्नन्तात्क्विपि—गोपी कृष्णः । सौ गोपीवत। शस्प्रयन्तं धातुवत्पुनर्गोपीवत। वानमत्वे तु गोपीसंज्ञत्वं नेच्छन्ति । सखीमतिक्रान्तस्य अतिसखेः इति भाष्यम् । अनिषुवां [वि.प्र. ७५] इति किं ? अतिश्रिये गोपीसङ्घाय । कश्चित्त्वत्र आपिच्छति । ईऊरामयोरस्वाभाविकलक्ष्मीत्वे गोपीसंज्ञत्वं न विश्वन्ये श्रियै । मातृशब्दः पितृवत्—माता, मातारौ, मातरः; शसि तु मात्èः । स्वसृशब्दः  कर्तृशब्दवत्—श्वसा, श्वसारौ, श्वसारः । शसि तु, स्वस्èः । रैशब्दः स्त्रियां पीत्येके इति क्षीरस्वामी । तेन पूर्ववत। गोशब्दः पूर्ववत। द्योशब्दः गोवत्, नौशब्दः ग्लौवत॥७५॥

॥ इति सर्वेश्वरान्ता लक्ष्मीलिङ्गाः ॥

—ओ)०(ओ—

अथ सर्वेश्वरान्ता ब्रह्मलिङ्गाः

तत्र अरामान्तो गोकुलशब्दः—

७६. ब्रह्मकृष्णात्सोरम् ।

दशावतारादं शसोररामहरः (वि.प्र. ९)—गोकुलम् । राधाब्रह्मभ्यामौ ई (वि.प्र. ६४)—गोकुले ॥७६॥

७७. ब्रह्मतो जस्शसोः शिः ।

शित। एकवर्णत्वादन्ते प्राप्ते “शित्सर्वस्य” शिदादेशः सर्वस्य भवति ॥७७॥

७८. सर्वेश्वरवैष्णवान्तयोर्नुं शौ ।

उमावितौ ॥७८॥

७९. अन्त्यसर्वेश्वरात्परं मितः स्थानम् ।

८०. अन्त्यात्पूर्ववर्ण उद्धवसंज्ञः ।

“उपधा” इति प्राञ्चः  ॥८०॥

८१. अब्रह्मपाण्डवाः शिशश्च कृष्णस्थानसंज्ञः ।

“घुट्”संज्ञा इत्येके । सर्वनामसंज्ञा इत्यन्ये ॥८१॥

८२. नान्तधातुवर्जितसान्तसत्सङ्गमहदपामुद्धवस्य त्रिविक्रमः कृष्णस्थाने, बुद्धं विना ।

नान्तस्य धातुवर्जितसान्तसत्सङ्गस्य महतः अपश्चेति विच्छेदः—गोकुलानि । एवं द्वितीयायाम् । तृतीयादौ पुरुषोत्तमवत। बुद्धस्थानीयत्वादमपि बुद्धसंज्ञः—हे गोकुल ! एवं कुलफलमूलादयः ॥८२॥

८३. हृदयस्य हृद्यदुषु वा ।

“शीर्षस्य शीर्षन्वा” इत्येके । प्रयोगाश्च पक्षे विष्णुजनान्तवज्ज्ञेयाः । यथा—हृन्दि हृदयाणि, हृदा हृदयेन । उभयत्रापि शीर्षाणि । जराया जरवा सर्वेश्वरे (वि.प्र. ६८)—निर्जरम्, निर्जरसम्; निर्जरे निर्जरसी । नुमः पूर्वं जरसादेशं मन्यन्ते ॥८३॥

८४. अविष्णुपदान्तस्य नस्य मस्य च विष्णुचक्रं वैष्णवे ।

निर्जराणि निर्जरांसि; पुनस्तद्वत। बुद्धे—हे निर्जर ! हे निर्जरसं ! इत्यपि केचित॥८४॥

इरामान्तो दधिशब्दः—

८५. ब्रह्मतः स्वमोर्महाहरः ।

दधि । कथं गोकुलं ? तत्राकरणात॥८५॥

८६. ब्रह्मेशान्तान्नुक्सर्वेश्वरे, न त्वामि ।

उकावितौ । दधिनी, दधीनि । पुनस्तद्वत॥८६॥

८७. दधिअस्थिसक्थिअक्षिशब्दानामिरामस्य अन्टादि सर्वेश्वरे ।

८८. अकृष्णस्थानसर्वेश्वरो भगवत्संज्ञः, तद्धिते यश्च ।

अत्र पाणिनीयानां (यचि भम्, १.४.१८) प्रकृतेर्भसंज्ञा ॥८८॥

८९. बमसत्सङ्गहीनस्यानोऽरामहरो भगवति, न तु ये, ईङ्योस्तु वा ।

दध्ना, दधिभ्यां, दधिभिः
दध्ने, दधिभ्यां, दधिभ्यः इत्यादि ।

ङौ—दध्नि, दधनि ॥८९॥

९०. ब्रह्मणो गोविन्दो वा बुद्धे ।

हे दधे ! हे दधि ! एवमस्थिसक्थिअक्षि । अतिक्रान्तं दधि येन यया वा—अतिदध्ना गोपालेन गोपाल्या वा । स्वभावतो ब्रह्मैव दधिशब्दो गृह्यते । ततो दधातीति दधिः, तेन दधिना । इरामस्य इति किं ? पद्माक्षेण ।

वारि, वारिणी, वारीणि
वारि, वारिणी, वारीणि,
वारिणा, वारिभ्याम्, वारिभिः
वारिणे इत्यादि । वारीणाम् ।

मधु, मधुनी, मधूनि ॥९०॥


९१. ब्रह्मान्तत्रिविक्रमस्य वामनः ।

विश्वनि, वश्वनिनी, विश्वनीनि ।

गोकुलाभ्यामित्यादौ तु न वामनः, त्रिविक्रमविधेरुभयाश्रितत्वेन बहिरङ्गत्वात। “क्वचिदन्तरङ्गकार्ये क्रियमाणे तदनिमित्तं बहिरङ्गसिद्धं स्यात्” इति वक्ष्यमाणन्यायेन, तत्राकरणेन वा ॥९१॥

९२. समानार्थतया पुरुषोत्तमतार्हमीशान्तं ब्रह्मपुरुषोत्तमवद्वा टादिसर्वेश्वरे ।

विश्वन्या, विश्वनिना । आमि—विश्वन्याम्, विश्वनीनाम् । अत्र पुरुषोत्तमे ब्रह्मणि च विश्वप्रेरकत्वं समानम् । असमानार्थे तु पुंसि वृक्षे, यथा—पीलवे । ब्रह्मणि फले च तथा न, किन्तु केवलं पीलुने । पूर्वत्र तद्वृक्षत्वं, उत्तरत्र तज्जातत्वमित्यर्थभेदः ॥९२॥

कृष्णरैशब्दस्य वामन इराम एव, यतः—

९३. एऐस्थाने इरामः, ओऔस्थाने उरामो वामनः स्यात।

कृष्णरि, कृष्णरिणी, कृष्णरीणि
कृष्णराया कृष्णरिणा ।

एकदेशविकृतमनन्यवत्—कृष्णराभ्यां, कृष्णरायाम् ।

सभोः (वि.प्र. ६०) अन्यत्र नात्वं—कृष्णरीणाम् । टामोः—कृष्णराणा, कृष्णराणामित्येव जुमरमतम् । आमि तु कृष्णराणामित्येवोज्ज्वलदत्तमतम् । येषां विष्णुजनादिविष्णुभक्तिमात्रेऽप्यात्वम्, तेषामपि सन्निपातलक्षणत्वेन नात्वमिति प्रक्रियाकारेण तन्न गृहीतम् । सन्निपातलक्षणं वक्ष्यते (आ.प्र. १८७) ।

सुद्योशब्दस्य—सुद्यु, सुद्युनी, सुदूनि । टादौ—सुद्युवा सुद्युना । हे सुद्यो ! हे सुद्यु !

कर्तृ—पृथग्विधानेन ब्रह्मकार्यस्य बलवत्त्वान्न वृष्णीन्द्रः—कर्तृणि, कर्त्èणि । टादौ—कर्त्रा, कर्तृणा । हे कर्तः ! हे कर्तृ !

एवं प्रियक्रोष्टुणी, प्रियक्रोष्टूनि । अत्रापि तृभावः इति तस्यां भ्रमः । तृभावात्पूर्वं विप्रतिषेधेन नुम्नुटौ भवतः इति काशिका । परत्वान्नुमा क्रोष्टुभावो बाध्यते इति पदचन्द्रिका । आगमविधिर्बलवानिति कातन्त्रो विस्तरश्च ।

प्रियास्तिस्रो यस्मिन्गोकुले तत्प्रियत्रि । महाहरत्वेऽपि तिसृभावः काशिकादौ दृश्यते—प्रियतिसृ । यद्येवं, तर्हि विष्णुभक्तावित्यस्य प्रत्युदाहरणं तु त्रित्वमिति तद्धितादावेव ज्ञेयम् । प्रियतिसृणी, प्रियतिस्èणि, प्रियतिस्रा, प्रियतिसृणा । ङसिङसोः—प्रियतिस्रः, रविधानस्य नित्यत्वात। एवं प्रियचतसृ । विस्तरकरस्तु विकल्पयति । तेन प्रियत्रि, प्रियचतुः इत्यपि ।

सानुआदिशब्दानां स्वत एव द्विलिङ्गता—सानुने, सानवे । स्नुः प्रस्थः सानुरस्त्रियामित्यमरः । मधुशब्दानन्तरं, एवमम्बुसान्वादयः [पा. ७.१.७५?] इति प्रक्रिया तु चिन्त्या ॥९३॥

॥ इति सर्वेश्वरान्ता ब्रह्मलिङ्गाः ॥

—ओ)०(ओ—

अथ विष्णुजनान्ता पुरुषोत्तमलिङ्गाः

अथ चरामान्ताः केचन शब्दाः वाच्यलिङ्गाः । तत्र “प्रत्यच्”, प्रतिपूर्वादञ्च्धातोः क्विप्प्रत्ययः । क्विप्लोपः, नलोपश्च । षत्वम् । ततः प्रत्यच्शब्दात्स्वादयः ।

९४. अचश्चतुर्भुजानुबन्धानां च नुं कृष्णस्थाने ।

राधाविष्णुजनाभ्यां (वि.प्र. ५७) इति सोर्हरः ॥९४॥

९५. तवर्गस्य चवर्गश्चवर्गयोगे ।

९६. सत्सङ्गान्तस्य हरो विष्णुपदान्ते ।

९७. चवर्गस्य कवर्गो विष्णुपदान्ते, वैष्णवे त्वसवर्गे ।

प्रत्यङ॥९५९७॥

९८. विष्णुजनस्य द्वित्वं वा विरामे ।

विरामः परवर्णादर्शनम् । प्रत्यङ्ङ। सवर्गे तु—प्रत्यञ्चौ, प्रत्यञ्चः । प्रत्यञ्चं, प्रत्यञ्चौ । कथं तच्शौरेः, भगवाञ्च्शूरः ? तत्राकरणात॥९८॥

९९. अचोऽरामहरो भगवति, पूर्वस्य त्रिविक्रमश्च ।

निमित्तोपाये नैमित्तिकस्याप्यपायः इति न्यायेन यरामस्य इरामः । ततस्त्रिविक्रमः—प्रतीचः, प्रतीचा ॥९९॥

१००. पूर्वस्य विष्णुपदवत्त्वं स्वादितद्धितयोरयसर्वेश्वराद्योः ।

प्रत्यभ्यामित्यादि । चवर्गस्य (वि.प्र. ९७) इत्यादौ वैष्णवग्रहणं केवलधात्वर्थं, अन्येषामपि सूत्राणां तत्पर्यन्तव्याप्तेर्ज्ञापकम् । एवं प्राच। तथा पित्रचित्यस्य शसि—पित्èचः । अनन्तस्यैव त्रिविक्रमः इति तु तस्यां भ्रमः, तदधिकारनिवृत्तेः । तिर्यच्—तिर्यङ्, तिर्यञ्चौ, तिर्यञ्चः; तिर्यञ्चम्, तिर्यञ्चौ ।

१०१. तिर्यचस्तिरश्चिरुदच उदीचिर्भगवति ।

इराम इत।
तिरश्चः;
तिरश्चा, तिर्यग्भ्याम्, तिर्यग्भिः ।

एवमुदच्—उदङ।
उदञ्चम्, उदञ्चौ, उदीचः ।
उदीचा, उदग्भ्यामित्यादि ।

क्रुञ्—
क्रुङ्, क्रुञ्चौ, क्रुञ्चः ।
क्रुञ्चम्, क्रुञ्चौ, क्रुञ्चः ।
क्रुञ्चा, क्रुङ्भ्याम्,
क्रूङ्षु

एवमञ्चु पूजार्थे । प्रत्यञ्चः, प्राञ्चः ॥१०१॥

ओव्रसचू छेदने धातुर्दन्त्यमध्यः । ओउरामावितौ—

१०२. सस्य शश्चवर्गयोगे ।

ततो व्रश्चिति स्थिते—तस्य दैत्यशब्दपूर्वस्य क्विप्प्रत्ययलोपे ररामस्य ऋरामः । दैत्यवृश्च्, सोर्हरः ॥१०२॥

१०३. छशो राज्यज्भ्राज्परिव्राज्सृज्मृज्भ्रस्ज्व्रश्चां च
यो विष्णुपदान्ते वैष्णवे च ।

अथ नैमित्तिकापाये दन्त्यमध्य एव ॥१०३॥

१०४. स्कोः सत्सङ्गाद्योर्हरो विष्णुपदान्ते वैष्णवे च ।

१०५. षस्य डो विष्णुपदान्ते हरिघोषे च ।

१०६. विष्णुदासस्य हरिकमलं वा विरामे ।

दैत्यवृट्दैत्यवृड्, दैत्यवृश्चौ, दैत्यवृश्चः ।
दैत्यवृड्भ्याम् । दैत्यवृट्सु ।

जलमुच। सत्सङ्गान्तहरेणैव सुलोपसिद्धौ राधाविष्णुजनाभ्यां (वि.प्र. ५७) इत्यत्र विष्णुजनग्रहणबलात्नात्र स्कोः (वि.प्र. १०४) इति हरः—

जलमुक्, जलमुग्, जलमुचौ, जलमुचः, जलमुग्भ्याम् ॥१०६॥

१०७. पाणिनीयप्रत्याहारवाचिनामच्शब्दादीनामुञ्नञनुकरणस्य च न कवर्गादिकम् ।

अच्, अचौ, अचः । अज्भ्याम् । सस्य श (वि.प्र. १०२) अच्शु, छत्वे—अच्छु ।

उञ्, उञौ, उञः ।

यदुराज्—यदुराट्, यदुराड्, यदुराजौ, यदुराजः ।

भ्रस्ज्धातोः क्विपि भृज्ज्—सत्सङ्गान्तस्य हरो (वि.प्र. ९६) भृट्, भृड्, भृज्जौ, भृज्जः ॥१०७॥
 
१०८. स्रज्दिश्दृशृत्विजुष्णिष्दधृषनुदकपूर्वस्पृश्तादृशित्यादीनां को विष्णुपदान्ते ।

ऋतौ यजति—ऋत्विक्, ऋत्विजौ ॥१०८॥

यजुः पुंसि—

१०९. युजोऽसमस्तस्य नुं कृष्णस्थाने, न तु समाधौ ।

अत्र सुटीति तस्यां भ्रमः । युङ्, युञ्जौ, युञ्जः; युग्भ्याम् । समस्तस्य समाध्यर्थस्य च न नुम् । कृष्णयुक्, कृष्णयुग्, कृष्णयुजौ, कृष्णयुजः; कृष्णयुग्भ्याम् । युक्युग्, युजौ ॥१०९॥

ऊर्जः पुंसि—

११०. रात्सस्यैव सत्सङ्गानहरविधिः ।

नियमोऽयम्—बहुत्र प्राप्तौ सङ्कोचनं नियमः । ऊर्कूर्गूर्जौ ऊर्जः । विश्वसृज्—विश्वसृट्विश्वसृड्, विश्वसृजौ विश्वसृजः । “यत्वं न” इति केचित्—विश्वसृक्विश्वसृट्सु ।

कंसजित्, कंसजितौ कंसजितः । कंसजिद्भ्याम्, कंसजित्सु ।

उरामानुबन्धो महतु । तस्य पुंसि नान्तधातुवर्जित (वि.प्र. ८२) इति त्रिविक्रमः । अचश्चतुर्भुजः (वि.प्र. ९४) इति नुम् । सोर्हरः । सत्सङ्गान्तस्य हरः । अत्राकरणात्, क्वचिदन्तरङ्गे इत्यादि वक्ष्यमाणन्यायात्, ब्रह्मेशान्तान्नुक्(वि.प्र. ८६) इत्यत्र ज्ञापकेन सर्वेश्वरेण त्वागमनरामहराभावस्य नाम्नि निश्चयात्नस्य हरो न स्यात्—

महान्, महान्तौ, महान्तः
महान्तम्, महान्तौ, महतः
महता, महद्भ्याम्,
हे महन्! ॥११०॥

भगवतु—
१११. अत्वसन्तोद्धवस्य त्रिविक्रमो बुद्धवर्जितसौ, धातुं विना ।

भगवान्, भगवन्तौ, भगवन्तः
भगवन्तं, भगवन्तौ, भगवतः
भगवता, भगवद्भ्याम् ॥१११॥

११२. भगवतुअघवतुभवतुत्तं
भगोसघोस्भोसिति निपाता वा बुद्धे ।

पूर्वपरयोः सहैवादेशो निपातः । हे भगोः ! हे भगवन्! हे अघोः ! हे अघवन्! हे भोः ! हे भवन्! कथं भोः वैष्णवाः ! अव्ययत्वात। भगवत्शब्दात्भगवानिवाचरति क्यङन्तात्क्विपि भगवत। तस्मात्स्वादौ प्रकृतवदेव रूपं स्यात्, नामावस्थायां चतुर्भुजानुबन्धत्वात। भगवान।

ददतृजक्षतृ इत्यादिशब्दानां तु कृदन्तप्रकरणे (१६सङ्ख्यकसूत्रे) नुम्निषेधौ वक्ष्यते—ददत्, ददतौ, ददतः । ददद्भ्याम् । जक्षत्, जक्षतौ, जक्षतः । जक्षद्भ्याम् ।

ऋरामानुबन्धो—भवतृ, तत्पुंसि—भवन्, भवन्तौ, भवन्तः, भवद्भ्याम् । हे भवन्!

मुरं मथ्नातीति—मुरमत्मुरमद्, मुरमथौ ।

कृष्णं वेत्तीति कृष्णविद। तत्पुंसि—कृष्णवित्, कृष्णविद्, कृष्णविदौ ॥११२॥

सुपाच्छब्दस्य—सुपात्सुपाद।

११३. पाच्छब्दस्य वामनो भगवति ॥

सुपदः । एवं पाद्शब्दस्य पदादेशेऽपि पदः इत्यादि । आमि नुटं बाधित्वा विरिञ्चिरेव । विरिञ्चितो विष्णुर्बलवान्, विष्णुतः सर्वविरिञ्चिः इति न्यायेन—पदाम् ।

निशाहृदयमासयुषदोषां विष्णुजने तु विरीञ्चिर्नास्ति, भाष्यचान्द्रादिष्वधृतत्वातिति वर्धमानः । विरिञ्चिसद्भावे तु षस्य डः इतिवत्, शस्य जो मन्तव्यः । छशो राजित्यादिकं च धातुपरमेव, ततो निज्भ्याम्, निच्शु निच्छु ॥११३॥

कृष्णपूर्वस्य बुध्धातोः कृष्णं बुध्यतीति क्विपि कृष्णबुध्, तत्पुंसि—

११४. जवर्झरिगदादेरेकसर्वेश्वरस्य धातोर्हरिघोषान्तस्यादौ हरिघोषत्वं विष्णुपदान्ते, सध्वोश्च ।

कृष्णभुत्, कृष्णभुद्, कृष्णबुधौ, कृष्णबुधः । एवं तत्तद्भुदादयः । जवर्जिति किं ? जभ्–जप्, जभौ, जभः इत्यादि । एकसर्वेश्वरस्य इति किं ? क्यन्क्विबन्तस्य धातोर्दामरुधः—दामरुत।

धातुपदेन धात्ववयवोऽपि गृह्यते । तेन गोविन्देन भातीति कप्रत्ययान्तस्य गोविन्दभः, तस्य णिक्विबन्तस्य गोविन्दभ्, गोविन्धप्, गोविन्दभौ, गोविन्दभः । एवं पुण्ड्रभ्, पुण्ड्रप। अत्र प्रक्रियाकलापकाशिकाभाषावृत्तयो विचार्याः । किन्तु प्रक्रियायामधोक्गोविन्धप्च प्रश्नपदं भवेत। कालापे दामरुत्, जप्च । काशिकादौ न संशयः ॥११४॥

राजन्, नान्त (वि.प्र. ८२) इति त्रिविक्रमः, सोर्हरः ।

११५. नामान्तस्य नस्य हरो विष्णुपदान्ते, बुद्धं विना ।

प्रथमतो नलोपाभावः, पथिन्मथिन्(वि.प्र. ११८) इत्यादौ वक्ष्यमाणनलोपवैयर्थ्यात्—

राजा, राजानौ, राजानः
राजानम्, राजानौ,

वमसत्सङ्गहीनस्य (वि.प्र. ८९) इति अरामहरः । तवर्गस्य चवर्गः (वि.प्र. ९५) जञोः सत्सङ्गे ज्ञः—राज्ञः, राज्ञा ।

“क्वचिदन्तरङ्गे कार्ये क्रियमाणे तदनिमित्तं बहिरङ्गमसिद्धं स्यात्” इति न्यायेन नस्य हरासिद्धेः, कृष्णस्य त्रिविक्रमो गोपाले (वि.प्र. १३) इत्यादिकं न प्राप्नोतीत्यर्थः, किन्तु नवयोर्हरे कृष्णसंज्ञा न वाच्या—

राजभ्याम्, राजभिः,
राज्ञे राजभ्यां राजभ्यः,
राज्ञः, राजभ्यां राजभ्यः,
राज्ञं, राज्ञोः, राज्ञां
राज्ञि, राज्ञोः, राजसु
हे राजन्!

युष्शब्दस्य, यदुषु वा (वि.प्र. २८) इत्यादिना युषन्नादेशे—आदेशः स्थानिवत्क्वचित्नामधातुप्रत्ययविष्णुपदानामादेशस्य तज्जातिवद्भावः सर्वत्रैव, वर्णानां तद्व्यक्तिवद्भावश्च यत्र मंस्यते, तत्रैव इत्यर्थः । तेन नामत्वे सत्यनोऽरामहरः (वि.प्र. ८९)—युष्णः, युष्णा ।


एवं यजन्, आत्मन्, सुधर्मनित्यादयः । किन्तु वमसत्सङ्गहीनस्य (वि.प्र. ८९) इति विशेषणादरामहरो नास्ति—यजनः, यजना । एवं श्वन्, युवन्, मघवन। श्वा, श्वानौ, श्वानः ॥११५॥


क्वचिद्विशेषः—

११६. श्वन्युवन्मघवनित्येषां वस्य उर्भगवति ।

ईव्वर्जिततद्धिते तु न, युवतीत्यादिवर्जम् । वस्य इति सारामनिर्देशः । शुनः, शुना, श्वभ्याम्, श्वभिः । शसि—यूनः, यूना, युवभ्याम्, युवभिः । एवं मघोनः, मघोना । सौ च मघवन्मघवा वा इति तु कालापाः (शब्दप्रकरणम्, १६५) ।

वहति स्वेच्छया वायुरुद्गच्छति च भास्करः ।
हरिर्जक्षिति निःशङ्को मखेषु मघवानसौ ॥ इति भट्टिः (१८.१९)

मघवतुशब्दोऽप्यस्ति, मघवद्वज्रलज्जानिदानं स एवमुक्त्वा मघवन्तमिआत्म प्रयोगदर्शनात्—मघवान्, मघवन्तौ, मघवन्तः, मघवद्भ्याम् ।

अथ दिवसवाची प्रतिदिवन्शब्दः—प्रतिदिवा, प्रतिदिवानौ, प्रतिदिवानः, प्रतिदिवानम्, प्रतिदिवानौ ॥११६॥

११७. धातो रवप्रागिदुतोस्त्रिविक्रमो रवतो विष्णुजने,
न कुरछुरनामधातूनां, न च तद्धितये ।

नाम्नो जातो धातुः नामधातुः (विभुः, आ.प्र. ५०९५६३) इति वक्ष्यते । अत्र पाठाद्विष्णुजनो वर्णमात्रं गृह्यते, न केवलस्वादयः । कुरादिनिषेधान्नाम्नोऽन्यत्रापि ज्ञेयम् । ततः शसि—प्रतिदीव्नः, प्रतिदीव्ना ।

अरामहरस्य निमित्तत्वं मत्वैवात्र त्रिविक्रमविधानम्, ततो नासिद्धत्वम्—प्रतिदिवभ्याम् ।

तदेतत्प्रक्रियाकौमुद्यादौ (पा. ८.२.२) । अन्ये तु—प्रतिद्विनो नस्य विष्णुसर्गो विष्णुपदान्ते इति मन्यन्ते—प्रतिदिवाः, प्रतिदिवोभ्याम् ॥११७॥

११८. पथिन्मथिनृभुक्षिन्नित्येषां नस्य हरः सौ ।

११९. पथ्यादीनामिरामस्यारामः कृष्णस्थाने, थात्पूर्वं नुक्च ।

अविष्णुपदान्तस्य (वि.प्र. ८४) इति, विष्णुचक्रस्य हरिवेणुः (स.प्र. ११४) इति । अत्र नागरलिपावप्यविष्णुपदान्ते यद्विष्णुचक्रं, तन्नोचितम्—

पन्थाः, पन्थानौ, पन्थानः,
पन्थानं, पन्थानौ ॥११८११९॥

१२०. पथ्यादीनां संसारहरो भगवति ।

पथः पथा ।

एवकारेणैव सर्वत्र नियमात्, नामान्तस्य नस्य हरः (वि.प्र. ११५), तेन—
पथिभ्याम्, पथिभिः ।

एवं,
मन्थाः, मन्थानौ, मन्थानः ।
ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः ॥१२०॥

अथ शार्ङ्गिन्—

१२१. इन्हन्पूषनर्यमनित्येषामुद्धवस्य त्रिविक्रमः सुश्योरेव ।

शार्ङ्गी, शार्ङ्गिणौ, शार्ङ्गिणः
शार्ङ्गिणम्, शार्ङ्गिणौ, शार्ङ्गिणः
शार्ङ्गिभ्याम्; हे शार्ङ्गिन्!

एवं वनमालिन्, हलिन्, दण्डिन।

हनिति हन्धातुः । ततः कंसहन्—

कंसहा, कंसहनौ, कंसहनः
कंसहनम्, कंसहनौ ॥१२१॥

वमसत्सङ्गहीनस्य (वि.प्र. ८९) इति अरामहरः—

१२२. हनो हस्य घो णिन्नयोः ।

कंसघ्नः । कंसघ्ना, कंसहभ्याम् ।
ङौ—कंसहनि, कंसघ्नि ।
हे कंसहन्!

एवं,
पूषा, पुषणौ, पूषणः
पूषणम्, पूषणौ, पूष्णः
पूष्णि, पूषणि ।

पूषि च इत्येके ।

अर्यमा, अर्यमणौ ।

सङ्ख्याशब्दाः—पञ्चन्प्रभृतयो नित्यबहुवचनान्ताः त्रिषु सरूपाः । षनान्तसङ्ख्यातः कतेश्च (वि.प्र. ४१) इति पञ्च, पञ्च, पञ्चभिः, पञ्चभ्यः ॥१२२॥

१२३. रषनान्तसङ्ख्याभ्यो नुडामि स्वार्थे ।

१२४. नान्तोद्धवस्य त्रिविक्रमो नामि ।

पञ्चानां, पञ्चसु । एवं सप्तन्, अष्टन्, नवन्, दशन॥१२४॥

१२५. अष्टना विष्णुभक्तिषु वा ।
१२६. तस्मात्जस्शसोरौश्स्वार्थे ।

श इत। शित्सर्वस्य इति न्यायेन शिदादेशः सर्वादेशः ।

अष्टौ अष्ट, अष्टौ अष्ट
अष्टाभिः अष्टभिः, अष्टाभ्यः अष्टभ्यः
पक्षद्वयेऽपि—अष्टानां
अष्टासु, अष्टसु

एवं परमपञ्च, परमाष्टौ इत्यादि । अस्वार्थे तु—प्रियपञ्चा, प्रियपञ्चानौ, प्रियपञ्चानः । भगवति—प्रियपञ्च्ञः इत्यादि । आमि—प्रियपञ्च्ञाम् ।

अष्टनः परार्थत्वेऽप्यात्वं वा, न त्वौश।

प्रियाष्टा प्रियाष्टाष्टौ प्रियाष्टाः

भगवति—विश्वपावदेव ।

प्रियाष्टः । आमि—प्रियाष्टाष्टानाम् ।

पक्षे—प्रियाष्टा प्रियाष्टानौ, प्रियाष्टानः ।

भगवति—प्रियाष्टुः । आमि—प्रियाष्ट्नाम् ॥१२५१२६॥

अर्वन्—अर्वा ।


१२७. अनञ्पूर्वस्यार्वणोऽर्वतृ सुं विना ।

चतुर्भुजानुबन्धानां नुम् ॥१२७॥

१२८. नवर्जतवर्गस्थस्य नस्य न णत्वम् ।

अर्वन्तौ, अर्वन्तः
अर्वन्तम्, अर्वन्तौ, अर्वतः
अर्वता, अर्वद्भ्याम्,
हे अर्वन्!

नञ्पूर्वस्य तु—अनर्वा, अनर्वाणौ ।

कृष्णगुप्, तस्य पुंसि—कृष्णगुप्, कृष्णगुब्, कृष्णगुपौ ॥१२८॥

मान्तः प्रशाम्, तस्य पुंसि—

१२९. धातोर्मो नो विष्णुपदान्ते मवयोश्च ।

अत्र झलि च इति तस्यां [पा. ८.२.६४] भ्रमः । सङ्गंस्यते इत्यादौ विधानबलान्नरामस्यैव स्थितिः स्यात। प्रशान। प्रशानो नस्य चादौ (स.प्र. १०८) इति ज्ञापकान्नस्य हरो न स्यात। प्रशामौ, प्रशामः, प्रशान्भ्याम् ॥१२९॥

चतुर्नित्यं बहुवचनान्तः, तस्य पुंसि—

१३०. चतुरनडुहोरां कृष्णस्थाने, बुद्धे त्वम् ॥

मित। चत्वारः, चतुरः । विष्णुसर्गे कृते पुना ररामः—चतुर्भिः । चतुर्भ्यः । रषणान्तः (वि.प्र. १२३) इति नुट्—चतुर्णाम् ॥१३०॥

१३१. ररामस्य न विष्णुसर्गः सुपि ।

चतुर्षु । प्रियचतुर्—प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारम् । अस्वार्थत्वादामि न नुट्—प्रियचतुराम् । हे प्रियचत्वः !

हल्शब्दस्य सुपि हल्षु । अभ्रतीति क्विपि अभ्रशब्दस्य सौ सत्सङ्गान्तहरे—अपब। “षणः प्रतिषेधो वाच्यः” इति तु तस्यां विकल्पितम् ।

“दैत्यवृश्चमाचष्टे” इति ण्यन्तात्क्विप्प्रत्ययः—दैत्यब्, दैत्यबौ ॥१३१॥


१३२. यवयोर्विष्णुपदान्तयोर्हरो गोपाले ।

नवयोर्हरे (वि.प्र. ११५) इति—दैत्यभ्याम्, दैत्यभिः, दैत्यब्सु ॥१३२॥

१३३. सर्वेश्वरे तु विकल्पः, हरे सति पुनर्न सन्धिश्च ।

दैत्यबायाति = दैत्य आयाति, दैत्यबायाति ।

प्रच्छ्धातोः क्विबन्तः शरामान्तः कृष्णप्राश्—कृष्णप्राट्, कृष्णप्राशौ, कृष्णप्राच्छौ इत्येके । एवं वाञ्छेर्वान्श्, हरविधेर्नित्यत्व्—वान्, वांशौ, वांशः । वाञ्छौ इत्येके । कृष्णस्पृश्—कृष्णस्पृक्, कृष्णस्पृशौ । उदक्पूर्वत्वे तु उदकस्पृट।

षरामान्तो दधृध्—दधृक्, दधृषौ, दधृषः । कंसद्विष्—यस्य डः (वि.प्र. १०५) इति कंसद्विट्कंसद्विड्, कंसद्विषौ ।

षष्नित्यं बहुवचनान्तः । षनान्त (वि.प्र. ४१) इति षट्षड्, षड्भिः, षड्भ्यः ॥१३३॥

रषनान्त (वि.प्र. १२३) इति नुट। षस्य डः (वि.प्र. १०५)—

१३४. नित्यं हरिवेणुविधिः प्रत्ययहरिवेणौ ।

मयट्येव इति तस्यां भ्रमः ॥१३४॥

१३५. षात्परस्य टवर्गयुक्तस्य च तवर्गस्य टवर्गः, न तु विष्णुपदान्ताट्टवर्गादनामनवतिनगरीणाम् ।

तेन नामष्टवर्गत्वं—षण्णाम्, षट्सु । नवतिनगर्योष्टवर्गत्वम्—षण्णवतिः, षड्णवतिः, षण्णगर्यः, षड्णगर्यः । नेह—षन्नरः, षड्नरः । षन्नावः, षड्नावः ।

दतौ परवर्णौ (स.प्र. १०२) इत्यादीनि तु सन्धिमात्रसुबोधाय पृथगुक्तानि । न तु विष्णुपदान्तातित्यादौ विष्णुपदान्तग्रहणफलं घट्टिः (कृ.प्र. ४३७) इत्यादौ दर्शयिष्यते ।

अस्वार्थत्वात्—प्रियषषः, प्रियषषाम् ॥१३५॥

सजुष्—
१३६. सजुषाशिषित्यनयोरिसुसन्तधातोश्च रो विष्णुपदान्ते, तस्य विष्णुसर्गश्च सुपि ।

धातुग्रहणफलं समासकार्ये सष्विधाने (समा.प्र. ३२८), सर्पिष्काम्यतीत्यत्र वक्ष्यते ॥१३६॥

१३७. इरुरन्तधातोरुद्धवस्य त्रिविक्रमो विष्णुपदान्ते ।

सजुः, सजुषौ, सजूर्भ्याम्; सजुःषु; शौरित्वं सजूष्षु ।

सनन्तधातोः क्विप्—पिपठिष्; विष्णुपदान्तत्वान्निमित्तत्वनिवृत्तेः षत्वापायः । पिपठीः, पिपठिषौ, पिपठिषः; पिपठीर्भ्याम्, पिपठीषु । एवं विश्वचिकीर्ष। रात्सस्यैव (वि.प्र. ११०) इति, विश्वचिकीः, विश्वचिकीर्षौ, विश्वचिकीर्भ्याम्, विश्वचिकीर्षु ॥१३७॥

१३८. सहजस्य मूर्धन्यजातकरामसम्बन्धिनश्च क्षरामस्य सत्सङ्गादिहरे डः, अन्यस्य तु को वक्तव्यः, दिशिदृशिअनुदकपूर्वस्पृशिजातस्य च ।

तत्र सहजे गोरक्ष्—गोरट्गोरड्, गोरक्षौ, गोरक्षः, गोरड्भ्याम्, गोरट्सु ॥१३८॥

१३९. रक्षेर्वा कः इति केचित।

गोरक। मूर्धन्यजे, विशिविष्ÿधात्वोः सनि वेष्टुमिच्छति विविक्ष्—विविट्, विविड्, विविक्षौ, विव्क्षः । बहुधातोर्विवक्ष्—वोढुमिच्छति—विवट्विवड्, विवक्षौ, विवक्षः । अन्यस्य तु—वच्धातोर्विवक्ष्—विवक्विवग्, विवक्षौ । दह्धातोर्दिधक्ष्—दिधक्दिधग्, दिधक्षौ, दिधक्षः । दिश्यादीनां—दिदिक्, दिदृक्, पिस्पृक। मन्यते च तदिदं पाणिनीयाः । कालापास्तु घकारचवर्गस्थानिकादन्यस्य षढादिस्थानिकस्यापि कस्य लोपमाहुः । तेन विवीः इत्याहुः ।

पिस्धातोः सरामान्तः सुपिस। तुस्धातोः सुतुस्—सुपीः, सुपिसौ, सुपिसः । सुतूः, सुतुसौ, सुतुसः । षत्वं—सुपीःषु, सुतुःषु ।

ऊरुश्रवस्—अत्वसन्तोद्धवस्य (वि.प्र. १११) इति त्रिविक्रमः ऊरुश्रवाः, ऊरुश्रवसौ, ऊरुश्रवसः । ऊरुश्रवोभ्याम्, ऊरुश्रवःसु । हे ऊरुश्रवः ! एवं विष्टरश्रवस्वेधसित्यादि ।

अथ दोषूणादिप्रत्ययान्तः—दोः, दोषौ, दोषः । दोषम्, दोषौ ॥१३९॥


१४०. दोषो दोषन्यदुषु वा ।

वमसत्सङ्ग (वि.प्र. ८९) इति अरामहरः—दोष्णः, दोषः; दोष्णा, दोषा, दोर्भ्याम्, दोषभ्यामित्यादि ।

पीतं वस्ते परिदधाति—पीतवस। धातुं विना (वि.प्र. १११) इति त्रिविक्रमाभावः—पीतवः, पीतवसौ ।

कंसं हिनस्तीति—कंसहिंस। अन्तरालपाठाद्विष्णुचक्रविष्णुसर्गयोः सर्वेश्वरत्वं विष्णुजनत्वं चास्तीति सत्सङ्गानत्वात्सस्य हरः । निमित्तायायान्नराम एव । धातुवर्जित (वि.प्र. ८२) इति विशेषणान्नात्र त्रिविक्रमः—कंसहिन्, कंसहिंसौ, कंसहिन्भ्याम् । यत्नविधौ तु नुमो विष्णुचक्रमेव गृह्यते, ततो नेह षत्वम्—कंसहिन्सु ॥१४०॥

वैकुण्ठध्वस्—

१४१. ध्वंसुश्रंसुवस्वनडुहां दो विष्णुपदान्ते ।

अत्र झलि च इति तस्यां (पा. ८.२.७२) भ्रमः, ध्वस्त इत्यादौ दोषश्च । ध्वंसु श्रंसु धातु । चतुर्भुजानुबन्धत्वं नामावस्थायामेव गृहीतम् । अचुपादानात्, तेनात्र न नुम्—वैकुण्ठध्वद्वैकुण्ठध्वत्वैकुण्ठध्वसौ, वैकुण्ठध्वद्भ्याम् । एवं वैकुण्ठश्रत।

अत्र वसुप्रत्ययः—विद्वसु । उदितत्वात्चतुर्भुजानुबन्धानां च नुं (वि.प्र. ९४), नान्त (वि.प्र. ८२) इति त्रिविक्रमः, सत्सङ्गान्तहरः (वि.प्र. ९६)—विद्वान्, विद्वांसौ, विद्वांसः; विद्वांसम्, विद्वांसौ ॥१४१॥

१४२. वसोर्वस्य उर्भगवति ।

वस्य इति सारामनिर्देशः । षत्वं—विदुषः, विदुषा, विद्वद्भ्याम्, विद्वद्भिः, विदुषे, हे विद्वन्!

आदिवस्प्रभृतयः—कृदन्तप्रकरणे (५.२०) साधयिष्यन्ते । रूपाणि, यथा—

आदिवान्, आदिवांसौ, आदिवांसः
आदिवंसम्, आदिवंसौ, आदुषः
आदुषा, आदिवद्भ्याम्…

एवं जक्षिवस। अथ जग्मिवस्—

जग्मिवान्, जग्मिवांसौ, जग्मिवांसः ।
जग्मिवांसम्, जग्मिवांसौ ।

तथा जगन्वस्—

जगन्वान्, जगन्वांसौ, जगन्वांसः ।

उभयत्र भगवति—जग्मुषः इत्यादि ॥१४२॥

पुंसः—

१४३. पुंसः पुमसुः कृष्णस्थाने ।

अत्र च सुटीति तस्यां (पा. ७.१.८९) भ्रमः । गौणत्वे ब्रह्मणि दोषश्च । उराम इत।

पुमान्, पुमांसौ, पुमांसः
पुमांसम्, पुमांसौ, पुंसः
पुंसा, पुंभ्यां (पुम्भ्याम्)…

नुमा सर्वोऽप्यनुस्वारो लक्ष्यते इति भाषावृत्तिकारादयः । अत्र औणादिकस्यास्य पुंसः इत्यादौ षत्वनिषेधो वाच्यः । अत्र तु षत्वं—पुंषु । नेत्यन्ये—पुंसु ।

उशनस्—उशना, उशनसौ, उशनसः ॥१४३॥

१४४. उशनसो नान्तत्वं सलोपित्वं विष्णुसर्गान्तित्वं च बुद्धे ।

हे उशनन्! हे उशन ! हे उशनः ! एवमनेहा अनेहसौ । पुरुदंशा, पुरुदंशसौ, हे अनेहः ! हे पुरुदंशः ! श्वेतवाह्पुरोडाशुक्थशास्प्रभृतयस्तु छान्दसाः ।

कृष्णवाह्—

१४५. हस्य ढः, नहो धः, दादेस्तु धातोर्घः, द्रुहमुहनशस्नुहस्निहां वा विष्णुपदान्ते वैष्णवे च ।

एते सर्वेऽपि धातवः । कृष्णवाट्कृष्णवाड्, कृष्णवाहौ, कृष्णवाहः ॥१४५॥

१४६. वाहो वा ऊठ्भगवति ।

ठित॥१४५॥

१४७. अद्वयादूठो वृष्णीन्द्रः ।

कृष्णौहः । कृष्णौहा, कृष्णवाड्भ्याम् । कृष्णवाट्सु । अत्र कंसद्विट्सु इत्यत्र च षढोः कः से (आ.प्र. १७०) इति न प्राप्नोति, अत्राकरणेन केवलधातुविषयत्वात। ततश्च कृष्णवाट्साद्भवतीत्यादौ कृदन्तधातोस्तद्धितेऽपि न स्यात। सम्मतरूपत्वात्पाणिनीयैरपि समाधेयमेवेदम् । असुपीत्युक्त्वापि । क्रमदीश्वरपद्मनाभाभ्यां तद्धिते तु समाधेयमेव । कृष्णपण्डितस्तु अपदान्ते इत्युक्त्वा सर्वमेव समादधे ॥१४७॥

अथ अनडुह्, चतुरनडुहोरां (वि.प्र. १३०)—

१४८. अनडुहो नुं च सौ ।

सत्सङ्गान्तहरः (वि.प्र. ९६) । असिद्धत्वान्न नस्य हरः—

अनुड्वान्, अनुड्वाहौ, अनड्वाहः
अनड्वाहम्, अनुड्वाहौ, अनडुहः
अनडुहा, अनडुद्भ्याम्,

बुद्धे त्वं (वि.प्र. १३०) हे अनुड्वन्!

गोदुह्—जवर्जहरिगदादे (वि.प्र. ११४) इत्यादि—

गोधुक्(गोधुग्), गोदुहौ,
गोधुग्भ्याम्, गोधुक्षु ।

घत्वे धातो (वि.प्र १४५) इति औपदेशिकत्वमेव गृह्यते, तेन दामलिडिवाचरतीति क्यङन्तात्क्विप्दामलिट।

कंसद्रुह्—

कंसध्रुक्(कंसध्रुग्), कंसध्रुट्(कंसध्रुड्), कंसद्रुहौ
कंसध्रुग्भ्याम्, कंसध्रुड्भ्याम्,

एवं कृष्णमुह्, कृष्णस्निह्, इत्यादयः । कृष्णाङ्घ्रिलिह्—हस्य ढः (वि.प्र. १४५) इति कृष्णाङ्ह्रिलिड्, कृष्णाङ्घ्रिलिहौ ॥१४८॥

तुरासाह्—
१४९. साढः षाट।

तुराषाट्(तुराषाड्), तुरासाहौ, तुरासाहः, तुराषाड्भ्याम् ॥१४९॥

॥ इति विष्णुजनान्ता पुरुषोत्तमलिङ्गाः ॥

—ओ)०(ओ—

विष्णुजनान्ता लक्ष्मीलिङ्गाः

तत्र चरामान्त ऋच। चवर्गस्य (वि.प्र. ९७) इति ।

ऋक्(ऋग्), ऋचौ, ऋचः
ऋग्भ्याम्, ऋक्षु,

एवं त्वच्, वाच्, स्रज्, दिश्, दृश्, इत्यादि—

स्रक्(स्रग्), स्रजौ, स्रजः

समिध्—समित्, समिद।

सीमन्—

सीमा, सीमानौ, सीमानः
सीम्नः, सीम्ना

ईङ्योस्तु वा (वि.प्र. ८९)—सीम्नि, सीमनि ।

अप्नित्यं बहुवचनान्तः । नान्त (वि.प्र. ८२) इति त्रिविक्रमः—आपः, अपः ॥

१५०. अपो दो भे ।

अद्भिः । अप्सु, हे आपः ! तदन्तत्वात्स्वद्भिः इत्यादि ।

ककुभ्—

ककुप्, ककुब्, ककुभौ, ककुब्भ्याम्, ककुप्सु ।

गिर्—इरुरन्तधातोः (वि.प्र. १३७)—

गीः, गिरौ, गिरः
गीर्भ्याम्, गीषु

एवं पुर्—पूः, पुरौ, पुरः ।

चतुरस्त्रियां चतस्रादेशः (वि.प्र. ७१)—

चतस्रः, चतस्रः, चतसृभिः, चतसृभ्यः, चतसृणां, चतसृषु ।

लक्ष्मीस्थयोः (वि.प्र. ७१) इति विशेषणात्समस्तस्यान्यलिङ्गत्वेऽपि तत्तदादेशः ।

प्रियास्तिस्रो यस्य सः—

प्रियतिसा, प्रियतिस्रौ, प्रियतिस्रः
प्रियचतसा, प्रियचतस्रौ, प्रियचतस्रः

ङसिङसोः—
प्रियतिस्रः, प्रियचतस्रः,
प्रियतिसृणाम्

समस्तमात्रस्य लक्ष्मीत्वे तु—प्रियत्रिः, प्रियत्री, प्रियत्रयः ॥१५०॥

दिव्—

१५१. दिवौ सौ ।

द्यौः, दिवौ, दिवः ।
दिवम्, दिवौ, दिवः
दिवा ॥१५१॥

१५२. दिव उर्विष्णुपदान्ते ।

द्युभ्याम्, द्युषु ।

दिश्—
दिक्(दिग्), दिशौ, दिग्भ्याम्, दिक्षु ।

एवं दृश्, अघद्विष्, कंसद्विड्वत। एवं विप्रुष।

अथ आशिष्, सजुष्(वि.प्र. १३६) इत्यादिना रः—आशीः, आशिषौ, आशिषः; आशीर्भ्याम्, आशीःषु ।

उष्णिह्—उष्णिक्, उष्णिग्, उष्णिहौ ।

उपानह्—नहो धः (वि.प्र. १४५) इति उपानत्(उपानद्), उपानहौ ॥१५२॥

॥ इति विष्णुजनान्ता लक्ष्मीलिङ्गाः ॥

—ओ)०(ओ—

विष्णुजनान्ता ब्रह्मलिङ्गाः

तत्रापि प्रत्यच्—

प्रत्यक्, प्रतीची, प्रत्यञ्चि
प्रतीचा, प्रत्यग्भ्याम्

एवं प्राच्—
प्राङ्, प्राञ्ची, प्राञ्चि

प्रत्यञ्च्प्राञ्च्शब्दयोस्तु—प्रत्यङ्, प्रत्यञ्ची, प्रत्यञ्चि ।

शौ ञरामद्वयं लेख्यम् । किन्तु मितस्थाने नरामसद्भावे नुं न दृश्यते, यथा—कंसहिंसो ब्रह्मणि कंसहिंसीति केवलं विष्णुचक्रं स्यात।

तिर्यच्—तिर्यक्, तिरश्ची, तिर्यञ्चि ।

ऊर्ज्—ऊर्क्(ऊर्ग्), ऊर्जी, ऊनर्जि ।

१५३. बहूर्जो नुम्प्रतिषेधः ।

बहूर्जि । अन्त्यात्पूर्वं नुमिच्छन्त्येके—बहूर्जीति ।

जगत्—जगत्, जगती, जगन्ति ।

अथ शतृप्रत्ययान्तः भवतृ—भवत। नुमीप्रत्यये कृदन्तप्रकरणे (५.१७) वक्ष्यते—भवन्ती, भवन्ति ।

तुदतृभातृकविष्यतृप्रभृतीनां विकल्पः—तुदत्, तुदती, तुदन्ती, तुदन्ति । एवं भात्, भाती, भान्ति, करिष्यत्, करिष्यती, करिष्यन्ती, करिष्यन्ति ।

महत्शब्दः—महत्, महती, महान्ति । ब्रह्मन्—ब्रह्म । वमसत्सङ्गहीनस्य (वि.प्र. ८९) इति विशेषणादरामहराभावः—ब्रह्मणी, ब्रह्मणि, ब्रह्मणा, ब्रह्मभ्याम् ॥१५३॥

१५४. नस्य हरो वा ब्रह्मणि बुद्धे ।

हे ब्रह्म, हे ब्रह्मन्! एवं शर्मन्, वर्मन्, चर्मन॥१५४॥

अथ अहन्—

१५५. अह्नो विष्णुसर्गो विष्णुपदान्ते ।

न समास पुंसीति वाच्यम् । अहः । ईङ्योस्तु वा (वि.प्र. ८९) धातुत्वाभावात्घत्वाभावः—अह्नी, अहनी, अहानि, अह्ना ॥१५५॥

१५६. अस्य स्वाद्यभाव एव रविधिर्वाच्यः ।

अहोभ्याम् । बुद्धेऽपि—हे अहः ! समासे पुंसि तु त्रिविक्रमो, न तु विष्णुसर्गः—दीर्घाहा निदाघः, बुद्धे तु—हे दीर्घाहन्! अत्र णत्वं वाच्यम्—दीर्घहाणौ, दीर्घाहाणः, दीर्घाह्णः ।

सुपथिन्—सुपथि, सुपथी, सुपन्थानि । शसि च—सुपन्थानि । पथ्यादीनां सुटि नुमिति तस्यां भ्रमः ।

दृष्टशार्ङ्गिन्—दृष्टशार्ङ्गि, दृष्टशार्ङ्गिणी, दृष्टशार्ङ्गीणि । एवं दृष्टकंसह्—दृष्टकंसह, दृष्टकंसहनी, दृष्टकंसघ्नी, दृष्टकंसहानि । एवं दृष्टपूषन्, दृष्टार्यमन।

स्वप्, स्वपी, नान्तधातुवर्जित (वि.प्र. ८९) इति त्रिविक्रमः—स्वाम्पि, स्वद्भ्याम् ।

वार्—वाः, वारी, वारि । अनीश्वरादपि ररामजः (स.प्र. १४५)—वार्भ्याम् ।

अत्रापि चतर्—चत्वारि ।

पयस्—पयः, पयसी, पयांसि, पयोभ्याम् ।

हविस्—हविः । औणादिकसरामोऽयं प्रत्ययः, अतः षत्वं—हविषी, हवींषि, हविर्भ्याम् । विष्णुसर्गः षत्वं—हविःषु, शौरित्वं—हविष्षु । एवं धनुस। अतिपुंस्—अतिपुम्, अतिपुंसी, अतिपुमांसि ।

स्वनडुह्— स्वनडुत्, स्वनडुही, स्वनड्वांहि ॥१५६॥

॥ इति विष्णुजनान्ता ब्रह्मलिङ्गाः ॥

इति लिङ्गत्रयं दर्शितं

—ओ)०(ओ—

अथ विशेषणलिङ्गाः

१५७.* अत्र कृष्णादिशब्दाः संज्ञाविशेषादौ नियतपुरुषोत्तमादयः ।

१५८.* सङ्ख्यादिशब्दातु वाच्यलिङ्गाः ।

१५९.* समानाधिकरणविशेषणरूपा विशेष्यलिङ्गविष्णुभक्तिवचनानि भजन्ते ।

१६०.*  जातिगुणक्रियाद्वारा यस्य विशेषः कथ्यते, तद्विशेष्यम् । येन तस्य विशेषः कथ्यते, तद्विशेषणम् ।

यथा, गोपः कृष्णः, गोपी राधा, क्षौमं वसनम्, श्यामः कृष्णः, गौरी राधा, पीतं वसनं, विहारी कृष्णः, विहारिणी राधा, विहारि गोकुलमित्यादि ॥

१६१. अव्ययविशेषणं ब्रह्म ।

यथा, महत्स्वः ॥

१६२. केचिच्छब्दा विशेषणत्वेऽपि स्वलिङ्गं न त्यजन्ति ।

यथा, प्रधानं कृष्णः, प्रधानं राधा, गतिः कृष्णः, आश्रयो राधा इत्यादि ॥

१६३. एकस्य विशेषणस्य विशेष्यमनेकं चेत्, प्रत्येकं वा समुदायस्य वा सङ्ख्यानुरूपं वचनम् ।

चास्य समुच्चयेतरेतरयोगभेदेन द्वैविध्यं, यथा रामः कृष्णश्च सुन्दरः, रामः कृष्णश्च प्रत्येकमित्यर्थः । सुन्दरौ वा, रामः कृष्ण इति द्वावित्यर्थः । तदिदं रामकृष्णसमासे विवरणीयं (समा.प्र. ११७) ॥

१६४. क्वचिद्बहूनां विशेषणत्वेऽप्येकत्वम् ।

यथा, धर्मे वेदाः प्रमाणमित्यादि ॥

१६५. विंशत्याद्याः सदैकत्वे अनावृत्तौ ।

विंशतिर्वैष्णवाः । तासामेवावृत्तौ तु, द्वे विंशती, तिस्रो विंशतयः । एवमेकविंशतिः इत्यादि । तदन्तत्वादूनविंशतिश्च । तत्र विशेषेण शब्देषु कृष्णनामाख्यशब्दा उच्यन्ते ॥

—ओ)०(ओ—
 


अथ कृष्णनामप्रकरणम्

१६६. सर्वादीनि कृष्णनामानि ।

सर्वनामानीत्यन्ये । सर्व, विश्व, उभ, उभय, अन्य, अन्यतर, ततर, ततम, यतर, यतम, कतर, कतम, एकतर, एकतम, इतर, त्वत्, त्व, नेम, सम, सिम, पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर, (त्यद्छान्दसः), तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, अस्मद्, भवतु, किम् ॥१६६॥

तत्र पुंसि—सर्वः, सर्वौ—

१६७. कृष्णनामकृष्णतो जसः शीः ।

शिति । सर्वे, सर्वं, सर्वौ, सर्वान्, सर्वेण, सर्वाभ्यां, सर्वैः ॥१६७॥

सर्वङे—
१६८. कृष्णनामकृष्णतो ङेः स्मै ।

सर्वस्मै, सर्वाभ्यां, सर्वेभ्यः ॥१६८॥

१६९. कृष्णनामकृष्णतो ङसेः स्मात।

सर्वस्मात्, पञ्चम्यास्तस्प्रत्ययस्तद्धितः—सर्वतः, सर्वाभ्यां, सर्वेभ्यः, सर्वस्य, सर्वयोः ॥१६९॥

सर्वऽम्—
१७०. कृष्णनामकृष्णराधाभ्यां सुडामि ।

उडावितौ । कृष्णस्य ए वैष्णवे (वि.प्र. १६) षत्वम्—सर्वेषाम् ॥१७०॥

१७१. कृष्णनामकृष्णतो ङेः स्मिन।

सर्वस्मिन्, सर्वयोः, सर्वेषु । सप्तम्यां त्रप्रत्ययस्तद्धितः—सर्वत्र । हे सर्व ! ॥१७१॥

आदि (वि.प्र. १६६)शब्दः प्रसिद्धगणविशेषग्राहकः । ततश्च—
 
१७२. सर्वादिः कृष्णनामाख्यो गौणसंज्ञे विना भवेत।

तेन नेह—सर्वमतिक्रान्ताय अतिसर्वाय, दृष्टः सर्वो येन, तस्मै—दृष्टसर्वाय । सर्वो नाम कश्चित्, तस्मै सर्वाय ॥१७२॥

१७३. पूर्वादि च व्यवस्थायां सप्तकं कृष्णनामकम् ।

दिग्देशकालविभागोऽत्र व्यवस्था, तस्यां गम्यमानायाम् । पूर्वस्मै दिगन्तराय, देशादये वा । तथा, पूर्व्४ कालाय, दिनाय, पदार्थविशेषाय वा । अन्यत्र तु पूर्वाय, श्रेष्ठाय इत्यर्थः । दक्षिणाय प्रवीणाय । गौणसंज्ञे विना (वि.प्र. १७२) इत्येव अत्युत्तराय । उत्तराः कुरवः ॥१७३॥

१७४. समोऽतुल्ये कृष्णनाम ।

समस्मै, सर्व्४, इत्यर्थः । नेह—समाय, तुल्याय इत्यर्थः ॥१७४॥

१७५. स्वमज्ञातिधनाह्वये ।

स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने [अ.को. ३.३.२११], स्वस्मै—आत्मना, आत्मीयाय वा इत्यर्थः । नेह स्वाय ज्ञातये, धनाय वा इत्यर्थः ॥१७५॥

१७६. अन्तरो बाह्यपरिधानीययोर्न त्वसौ पुरि ।

अन्तरस्मै—बाह्याय इत्यर्थः, वस्त्रान्तरावृतपरिधानीयाय इति वा । बाह्यत्वेऽपि पुरि वर्तमानस्तु न—अन्तराय पुराय बाह्याय इत्यर्थः ॥१७६॥

१७७. पूर्वादीनि नव कृष्णनामानि जसि वा ।

पूर्वे पूर्वाः, स्वे स्वाः, अन्तरे अन्तराः । सर्ववद्विश्व आदयोऽपि अरामान्ताः । तत्र उभशब्दो नित्यं द्विवचनान्तः—उभौ, उभौ, उभाभ्यां, उभाभ्यां, उभाभ्यां, उभयोः, उभयोः । उभस्य सर्वादिषु पाठो हेत्वर्थे कृष्णनाम्नो योगे सर्वविष्णुभक्त्यर्थस्तस्य वृत्तिमात्रे पुंवद्भावार्थश्च । त्वत्त्वौ अन्यपर्यायौ । नेमोऽर्धपर्यायः । समादय उक्तार्थाः । सिमश्च सर्वार्थः । शक्तावबद्धमर्यादानां वाची इति तु मतभेदाः । अन्ये तु प्रसिद्धाः ॥१७७॥

१७८. पूर्वादिभ्यो नवभ्यः स्मात्स्मिनौ वा ।

पूर्वस्मात्पूर्वात्, पूर्वस्मिन्, पूर्वे ॥१७८॥

१७९. स कृष्णनाम तृतीयासमासे तद्वाक्ये च ।
 
मासेन पूर्वाय इति वाक्ये—मासपूर्वाय । केवलवाक्ये तु—मासेन पूर्व्४ धनं देहि ॥१७९॥

१८०. स कृष्णनाम द्वन्द्वे, जसि तु वा ।

पूर्वापराणां वैष्णवेतरे, वैष्णवेतराः ।

१८१. प्रथमचरमतयायाल्पार्ध
कतिपयनेमाः कृष्णनामानि जसि वा ।

प्रथमे, प्रथमाः । तयायौ प्रत्ययौ—द्वितये, द्वितयाः । द्वये, द्वयाः । शेषं कृष्णवत। उभयस्य द्विवचनाभावः—उभये, उभयाः । इहापि जसः कार्यं प्रति विभाषा इति काशिका (१.१.३३), उभय इति नित्यं भाषायामिति कालापाः (चतुष्ठवृत्तिः ३१), नेमे नेमाः । शेषं सर्ववत॥१८१॥


१८२. तीयस्य कृष्णनामता वृष्णिषु वा ।

द्वितीय्४, द्वितीयाय, द्वितीयस्मात्, द्वितीयात्, द्वितीयस्मिन्, द्वितीये । शेष कृष्णवत। एवं तृतीयः । अर्थवद्ग्रहणात्तु गोपजातीयाय ॥१८२॥

अथ तदादयः—

१८३. तदादिसप्तानां संसारस्यारामः स्वादौ,
दस्य च मः, तदादेस्तु सः सौ ।

सः, तौ, ते
तम्, तौ, तान्
तेन, ताभ्यां, तैः
तस्मै, ताभ्यां, तेभ्यः
तस्मातित्यादि ।

बुद्धस्यादर्शनं—हे स ! तदोः सः सावनन्त्ययोः इति सूत्रे [पा. ७.२.१०६] काशिकादावप्येतद्दर्शितम् । हे स ! हे असौ ! इति भाष्योदाहरणात्प्रक्रिया तु चिन्त्या । गौणसंज्ञयोस्तु न तदादिकार्यं, सर्वादिगणत्यागात्—अतितद्, अतितदौ, अतितदः । तद्धिते पञ्चम्यां—ततः । सप्तम्यां—तत्र ।

यद्—यः, यौ, ये । तद्धिते पञ्चम्यां—यतः । सप्तम्यां—यत्र ।

एतद्—एषः, एतौ, एते, एतम् । तद्धिते पञ्चम्यां—अतः । सप्तम्यां—अत्र ॥१८३॥

१८४. इदमोऽयं सौ, इयं तु लक्ष्म्यां, साकस्य त्वयकमियमकौ ।

अयम्, इमौ, इमे ।
इमम्, इमौ, इमान॥१८४॥

१८५. इदमोऽकरामस्य अनष्टौसोः ।

१८६. वैष्णवे त्वश।

१८७. सकरामस्य च कथितानुकथने ।

अनेन । शित्सर्वस्य इति सर्वादेशः—आभ्याम् । इमकाभ्यामहः कृष्णोऽर्चितः । अथ आभ्यां रात्रिमपि ॥१८५१८७॥

१८८. इदमदोभ्यामकरामाभ्यां नैस।

एभिः ।
अस्मै, आभ्यां, एभ्यः ।
अस्मात्, आभ्यां, एभ्यः ।

तद्धिते पञ्चम्यां—इतः ।

अस्य, अनयोः, एषाम् ।
अस्मिन्, अनयोः, एषु ।

तद्धिते सप्तम्यां—इह । संसारात्पूर्वमक्प्रत्यये, इदकम्शब्दो भवति । अयकम्, इमकौ, इमके सर्ववत॥१८८॥

१८९. एतदिदमोरेनः कथितानुकथने द्वितीयाटौस्सु ।

एतमिमं वा दीक्षय । अथो एनं पाचय । एनम्, एनौ, एनान। एनेन, एनयोः, एनयोः ॥१८९॥

अदस्सु, संसारस्यारामः—

१९०. अदसो दस्य सः, सोरौच।

असौ ॥१९०॥

१९१. अदो मात्परस्य सर्वेश्वरस्य उ ऊ यथेष्टसिद्धिः ।

वामनस्य वामनः, त्रिविक्रमस्य, त्रिविक्रमः । अमू ॥१९१॥

जसि अमे स्थिते—
१९२. अदस एत ई बहुत्वे, न तु कात।

अमी । अमूम्, अमू, अमून। मत्वे चोत्वे च कृते । हरितष्टा ना (वि.प्र. ३५)—अमुना । भ्यामि—कृष्णस्य त्रिविक्रमः (वि.प्र. १३), पश्चातू—अमूभ्याम्, अमीभिः । स्मैप्रभृतौ कृते पश्चादुरामः । अमुष्मै, अमूभ्याम्, अमीभ्यः । अमुष्मात्, अमूभ्याम्, अमीभ्यः । तद्धिते पञ्चम्याम्—अमुतः । अमुष्य । एत्वे अयादेशे च कृते पश्चादुरामः । अमूयोः, अमीषाम् । अमुष्मिन्, अमुयोः, अमीषु । तद्धिते—अमुत्र । चित्करणेन । हे असौ ! इति बुद्धस्यादर्शनं न स्यात। अदस औ सुलोपश्च [पा. ७.२.१०७] काशिकादावप्यस्य सम्मतिः, प्रसादे च । अक्प्रत्यये—असकौ, अमुकश्च इति मन्यन्ते । औप्रभृतौ मराममध्याः—अमुकौ, अमुके । एकः सर्ववत॥१९२॥

१९३. न द्वेर्मः ।

द्वौ, द्वौ, द्वाभ्यां, द्वाभ्यां, द्वाभ्यां, द्वयोः, द्वयोः ॥१९३॥

युष्मदस्मदौ त्रिष्वपि समानौ—

१९४. युष्मदस्मदोत्वमहमादयः स्वादिना सह ॥

तत्र युष्मच्छब्दस्य—त्वं, युवां, यूयं; त्वां, युवां, युष्मान्; त्वया, युवाभ्यां, युष्माभिः; तुभ्यं, युवाभ्यां, युष्मभ्यः; त्वत्, युवाभ्यां, युष्मभ्यः; युष्मत्; तव, युवयोः, युष्माकं; त्वयि, युवयोः, युष्मासु ।

अस्मच्छब्दस्य—अहं, आवां, वयं; मां, आवां, अस्मान्; मया, आवाभ्यां, अस्माभिः; मह्यं, आवाभ्यां, असभ्यं; मत्, आवाभ्यां, असभ्यं; अस्मत्, आवाभ्यां, असभ्यं; मम, आवयोः, अस्माकं; मयि, आवयोः, अस्मासु ।

युष्मदस्मदौ त्रिष्वपि समानौ—

१९५. अनयोर्विष्णुपदत्वे सत्येव संसारात्पूर्वमक्प्रत्ययः ।

त्वकम्, युवकाम्, यूयकम् । किन्तु त्रिसर्वेश्वरत्वे मध्यसर्वेश्वरात्पूर्वमक्—युवकाभ्यां, युष्मकाभिः, युष्मकभ्यम् । युष्मकाकम् । युष्मकासु ।

एवमस्मदोऽपि—
अहकम्, आवकाम्, वयकं
मकाम्, अस्मकान्,
मयका, आवकाभ्यां, अस्मकाभिः
मह्यकम्, अस्मकभ्यम्
अस्मकत।
ममक, आवकयोः, अस्मकाकम्,
मयकि, अस्मकासु ।

गौणत्वे —त्वामतिक्रान्तः इत्यर्थे—अतित्वत। युवामतिक्रान्तः इत्यर्थे—अतियुवत। युष्मानतिक्रान्तः इत्यर्थे—अतियुष्मत। एवं ममातिक्रान्तः इत्यर्थे—अतिमत। आवामतिक्रान्तः इत्यर्थे—अत्यावत। अस्मानतिक्रान्तः इत्यर्थे—अत्यस्मत। एवं प्रत्वदादयोऽपि ॥१९५॥

१९६. तेषामतित्वदादीनां सर्वेषां  
त्वमहमादय एव सुजस्ङेङस्सु ।

यथा—अतित्वम्, अतियूयम्, अतितुभ्यम्, अतितव, एवमत्यहमित्यादि ॥१९६॥


१९७. अन्यत्र वमपर्यन्तवर्जमक्षराणि प्रकृतपदवत्कार्याणि ।

यथा—अतित्वद्—औ इति स्थिते अद औभागस्य युवामित्यन्तस्थित आम्भाग आदिश्यते—अतित्वाम् । एवमम्—अतित्वाम् । पुनरौ—अतित्वाम् । शस्—अतित्वान। टा—

अतित्वया, अतित्वाभ्यां, अतित्वाभिः ।
अतित्वाभ्यां, अतित्वभ्याम्,
अतित्वत्, अततिवाभ्याम्,
अतित्व, अतित्वयोः, अतित्वाकम्,
अतित्वयि, अतित्वयोः, अतित्वासु ।

यथा च अतियुवच्छब्दात्—अतियुवाम्, अतियुवाम्, अतियुवाम्, अतियुवान्, अतियुवया ।

यथा च अतियुष्मच्छब्दात्—अतियुष्माम्, अतियुष्माम्, अतियुष्माम्, अतियुष्मान्, अतियुष्मया । आमि च—अतित्वाकमित्यादि । अतित्वयाकमित्यादि केषांचित। एवमस्मदोऽपि ॥१९७॥


१९८. विष्णुपादाद्वा, अन्वादेशे तु नित्यम् ।

अधिकारोऽयम् । उत्तरप्रकरणव्याप्यधिकारः । वां नौ पर्यन्ता ये विरिञ्चयो वक्ष्यन्ते, ते सर्वे विष्णुपदाद्वक्तव्याः । ते च अनन्वादेशे वा, अन्वादेशे तु नित्यमित्यर्थः । पुनः कथनम्—अन्वादेशः ॥१९८॥

१९९. युष्मान्युष्मभ्यं युष्माकमित्येषां वस्,
अस्मानस्मभ्यमस्माकमित्येषां नस।

हरिर्युष्मानवतु, हरिर्वोऽवतु । हरि युष्मभ्यं रोचताम्, हरिर्वो रोचताम् । हरिर्युष्माकं सर्वस्वम् । हरिर्वः सर्वस्वम् । हरिरस्मानवतु, हरिर्नः । हरिरस्मभ्यं रोचताम्, हरिर्नः । हरिरस्माकं सर्वस्वम्, हरिर्नः । अन्वादेशे तु नित्यं—हरिरस्मानवतु, अथो नस्तद्भक्ताः कृपयन्तु इत्यादि सर्वत्र योज्यम् ॥१९९॥

२००. तुभ्यम्तवयोस्ते, मह्यम्ममयोर्मे ।

हरिस्तुभ्यं रोचताम्, हरिस्ते । एवं हरिस्तव, हरिस्ते, हरिस्तुभ्यं रोचताम्, अथो हरिस्ते प्रेम ददातु । हरिर्मह्यम्, हरिर्मे । हरिर्मम, हरिर्मे ॥२००॥

२०१. त्वां मां त्वा मा ।

हरिस्त्वां पातु, हरिस्त्वा पातु । हरिस्मां पातु, हरिस्मा । अथो हरिस्त्वा पश्यतु, हरिर्मा रक्षतु ॥२०१॥
 
२०२. युष्मदस्मद्विष्णुपदयोर्  वांनौ द्वितीयाचतुर्थीषष्ठीद्वित्वे, न तु समासे ।

हरिर्युवां रक्षतु, हरिर्वाम् । हरिर्युवां रक्षतु, हरिर्वां पश्यतु । हरिर्युवाभ्यां रोचताम्, हरिर्वाम् । हरिर्युवयोः स्वामी, हरिर्वाम् ।

हरिरावां पातु, हरिर्नौ । हरिरावाभ्यां रोचताम्, हरिर्नौ । हरिरावयोः स्वामी, हरिर्नौ । समस्तत्वे तु न—हरिरस्मत्स्वामी ॥२०२॥

२०३. सपूर्वपदात्प्रथमान्ताद्वान्वादेशेऽपि ते विरिञ्चयः ।

व्रजे कृष्णो मम स्वम्, मे वा । अथो वृन्दावने कृष्णो मम स्वम्, मे वा ॥२०३॥

२०४. न ते वाक्यादौ श्लोकपादादौ च ।

हे वैष्णव ! त्वं सुखी भव । त्वां हरिः पातु । मां हरिः पातु । कृष्णैकशरणस्यास्य, तव हन्त कुतो भयं ? इत्यादि ॥२०४॥

२०५. न च चादिभिर्योगे ।

कृष्णो मम च सौख्याय, रामस्तव च शर्मणे । च, वा, ह, अह, एव  ॥२०५॥

२०६. परस्परयोगेऽपि न ।

हरिश्च मे स्वामी ॥२०६॥

२०७. न च दर्शनार्थैरचाक्षुषत्वे ।

चेतसा त्वामीक्षते वैष्णवाः ॥२०७॥

२०८.परस्परायोगेऽपि न ।

कृष्णश्चेतसा तव रूपमीक्षते । भक्तस्तव रूपं ध्यायतीति तु तस्यां विचार्यम् । दर्शनार्थधातुयोगाभावात। चाक्षुषत्वे तु—कृष्णस्त्वा पश्यतु ॥२०६॥

२०९. आमन्त्रितं पूर्वमसद्वत।

ततो नादेशाः [पा. ८.१.७२] इति काशिकादौ च मतम् । हे कृष्ण ! तवाहम् । हे रामकृष्णौ ! युवयोरहम् । कथमुचितं रचयामि देवि ते ? इति । आमन्त्रितस्य असद्वत्तेऽपि  तत्पूर्वपदस्य सत्त्वात॥२०९॥


२१०. सामान्यवचनतुल्याधिकरणे आमन्त्रिते क्रमस्थे चेत्पूर्वं सत॥

२११. बहुवचने चेद्वा ॥

तत्र आदेशाः । हे वैष्णव सप्रेमंस्ते कृष्णः । वैष्णवोऽत्र सप्रेमा तद्रहितश्च भवतीति सामान्यवचनः । तौ द्वौ तु तद्विशेष्यौ । तत्रान्वादेशे नित्यमादेशाः । अनन्वादेशे तु वा । सामान्यवचन इति किं ? ब्रह्मरात कृष्णज्ञ रू तव कृष्णः । ब्रह्मरात इत्येकस्य नाम, ततो न सामान्यवचनः । तत उभयमप्यामन्त्रितमसद्वत्[२०९सङ्ख्यकसूत्रेण] । एवं हरे कृपालोऽस्मान्पाहि । बहुवचने—वैष्णवाः श्रीभागवतज्ञाः रू वः कृष्णः, युष्माकं वा । अनन्वादेशेऽप्यादेशा वा । एतत्पाणिनीयमतं प्रक्रियाधृतम् । महान्तरं तु न किञ्चित। तथा हि तत्सूत्रत्रयम्—आमन्त्रितं पूर्वमविद्यमानवत्[पा. ८.१.७२], नामन्त्रिते समानाधिकरणे सामान्यवचनं [पा. ८.१.७३], विभाषितं विशेषवचने बहुवचनं [पा. ८.१.७४] इति । आमन्त्रिते इत्यादिषु परसप्तम्येव । मध्यमे सूत्रे सामान्यवचनस्याविद्यमानताखण्डनात्तन्मूला एवादेशाः । अन्तिमे तु तद्विकल्पात्तद्विकल्पः ।

भवतुशब्दो युष्मद्वाचको, भगवतुशब्दवत॥२१०२११॥


अथ किम्शब्दः—

२१२. किमः को विष्णुभक्तौ साकस्यापि ।

कः, कौ, के । कम्, कौ, कान्—सर्ववत। तद्धिते पञ्चम्यां—कुतः ? ७यां—क्व ? कुत्र ? ॥२१२॥
 
अथ कृष्णनाम्नां लक्ष्मीलिङ्गोदाहरणम्—

२१३. कृष्णनामराधातः स्याप्वृष्णिषु, पूर्वस्य च वामनः ।

पित्—सर्वस्यै । ङसि—सर्वस्याः । ङस्—सर्वस्याः । आमि, कृष्णनाम (वि.प्र. १७०) इति सुट्—सर्वासाम् । ङि—नीराधाभ्यां ङेरां (वि.प्र. ५१) इति सर्वस्याम् । तद्धिते पूर्ववत। एवं विश्वऽदयः ॥२१३॥

२१४. दिग्बहुव्रीहौ कृष्णनामता वा ।

उत्तरपूर्व्४, उत्तरपूर्वायै । तदादिसप्तानां संसारस्यारामे कृते पश्चादाप। तदादेस्तः सः सौ (वि.प्र. १८३)—सा, ते, ताः । ताम्, ते ताः । एवं यद्—या, ये, याः । एतद्—एषा, एते, एताः । इदं—इयं तु लक्ष्म्यां (वि.प्र. १८४) । इयं, इमे, इमाः । इमाम्, इमे, इमाः । इदमोऽकरामस्य अनष्टौ सोः (वि.प्र. १८५)—अनया । वैष्णवे त्वश्(वि.प्र. १८६)—आभ्यां, आभिः । अस्यै, अस्याः । सुट्(वि.प्र. १७०), अश्(वि.प्र. १८६), पश्चादाप्—आसाम् ।

अदस्शब्दस्य सौ पुंवत्—असौ । दस्य च मः (वि.प्र. १८३)—अमू, अमूः । अमूम्, अमू, अमूः । अमुया, अमूभ्याम्, अमूभिः । स्याप्वृष्णिषु, पूर्वस्य च वामनः (वि.प्र. २१३)—अमुष्यै, अमूभ्याम्, अमूभ्यः । अमुष्याः, अमूभ्याम्, अमूभ्यः । अमूष्याः, अमूयोः, अमूषाम् । अमूष्याम्, अमूयोः, अमूषु ॥

एकः सर्ववत। द्विशब्दस्य—द्वे, द्वे, द्वाभ्यां, द्वाभ्यां, द्वाभ्यां, द्वयोः, द्वयोः ।

भवतुशब्दादीप्—भवती, भवत्यौ ।

किम्शब्दस्य—का, के, काः । सर्ववत॥२१४॥

अथ ब्रह्मणि—

सर्वं सर्वे, सर्वाणि । पुनस्तद्वत। तृतीयादौ पुरुषोत्तमवत। उभाउ उभे ।

२१५. अन्यादिभ्यस्तुक्स्वमोर्ब्रह्मणि ।

उकवितौ । अन्यतन्यद्, अन्ये अन्यानि । अन्यादय एकादशैकतरवर्जम् । तत्ते तानि । इदम्, इमे, इमानि ॥२१५॥

२१६. द्वितीयैकत्वे कथितानुकथने इदमेतदोरेनदादेशो ब्रह्मणि वाच्यः ।

एतद्गच्छति । अथो एनत्पश्य ।

अदः । अमे इति स्थिते पश्चातू (वि.प्र. १९१)—अमू, अमूनि । पुनस्तद्वत। द्वे, द्वे । भवत्, भवती, भवन्ति । पुनस्तद्वत। किम्, के, कानि । पुनस्तद्वत॥२१६॥

२१७. अव्ययात्स्वादेर्महाहरः ।

स्वरादि, चादि, वदादि—तद्धिताः, क्त्वा, मान्तश्च कृदव्ययम् । अव्ययाः खलु—वाचकाः, द्योतकाश्च । तत्र वाचकाः—स्वः, प्रातः इत्यादयः । एषां विशेषणस्य ब्रह्मत्वमेव । सुन्दरः स्वः, सुन्दरे स्वः, सुन्दराणि स्वः इत्यादयः । अत्रैकवचनमेव इति तस्यां भ्रमः । द्वित्वादीनामनिवार्यत्वात्, अव्ययादपि सुपिति सुलोपे विरोधाच्च । द्योतकाः—च, वा, ह, अह, वै, तु, अपि, इत्यादयः, प्रादयश्च ॥२१७॥

२१८. चादयो निपातसंज्ञाः ।

एतेभ्यो द्योततया अर्था विद्यन्ते एषामित्यर्थत्वात्स्वाद्युत्पत्तिः, किन्तु प्रथमैकवचनमेव । वदादितद्धितेः—हरिवत्कृष्णीभवतीत्यादयः । क्त्वा, मान्तकृत्—कृत्वा, कर्तुं, कारं, कारम्, इत्यादि च । महाहरत्वं—ओ औ पाण्डवेषु (वि.प्र. ६१) न, अहो इत्यादि ज्ञेयम् ॥२१८॥


॥ इति कृष्णनामप्रकरणम् ॥

इति श्रीश्रीहरिनामामृताख्ये वैष्णवव्याकरणे नाम
विष्णुपदप्रकरणं द्वितीयं समाप्तं
॥२॥