close


  • अभिज्ञानशाकुन्तलम्-सहृदयसमाख्यानम्

                                   

                           ।। प्रथमोऽङ्क: ।।

                         ।। अभिज्ञानशाकुन्लव्याख्याआरम्भ: ।।

      संसूच्छद्धेणुनादश्रवणहृदां संभ्रमादाद्रुतानामावेष्ठ्यासेदुषीणां व्रजहरिणदृशां मण्डलेना?भिवीत:

      एकैकस्या: पुरस्तातुभयतश्चात्तमायाशरीर: शैलूषो गोपवेष: कलयतु कुशालं रामलीलागुरुर्न: ।।

      सर्वंमेव लौककं वज्ञतुजातं स्पर्धामोहादिकलिलमपि सरसकाव्येषु निपूणनटकर्मसु बिम्बिलं ह्लादैकरसमिति स्थितं तावत् तत्नापि दृष्टे वस्तु सविशेषं भावनालग्रं दृष्टं येनाहु: ; "" सन्दर्भेषु दशरूपकं श्रेम:'' इति यदुपज्ञं चायमाभण्क: ; "" नाटकान्तं कवित्च '' मिति ! तदेयं महाकविप्रणीतं "" नाटकेषु शकुन्तले'' ति प्रततोत्कर्षं शाकुनतलं नाम नाटकं प्रयोक्ष्यमाण: "" यद्यप्थङ्गोनि भूयांसि पूर्वरङ्गस्य नाटके

तथाप्यवश्यं कर्तंव्या नान्दी विघ्रोपशान्तये '' इति निर्दिष्टां नान्दीमाशीरूपामादौ सूत्रधार: प्रयुङ्क्ते यासूष्टिरितृयादिना या जलरूपा तनु: स्त्रष्टु: आदौ भवा आह्मा सृज्यत इति सूष्टि: प्रथमं सुज्यामित्यर्थ: "" अपएव ससर्जादौ '' इति स्मरणात् या चाग्रिमयी तनु: विधिना शास्त्विधानेन विधौ यज्ञादिकर्मणि वा हुतं प्रक्षिप्तं हूयत इति हवि: अज्यादिद्व्यं "" अर्चिशुचिहुसूपिच्छदिच्छ र्दिभ्यइसि: '' वहति उद्देश्यदेवतां प्रापयति "" अग्रिमुखा वै देवा: '' इति श्रुते: या चयजमान्रूपा तनु: होत्रो होमस्य कनर्नौ ये द्वे रवीन्दुरूपे तनू कालं यथासंख्यमहोरान्नरूपं विधत्त: विभजत: अथवा मासादिरूपं तिथिनक्षत्रपक्षादिरूपं यथासंख्यं विभजत इत्यर्थ: श्रुतिविषय: श्रवणग्राह्म: गुण: शब्दरूपो यस्यास्सा या नभोमयी तनु: सर्वेषां भूतानां चिदचिद्रपाणां  वस्तूनां प्रकृतिर्मूलकारणमित्याहु: येन भूतधात्रीव्यपदेश इति भाव:   ""निपातेनाप्यभिहिते कर्मणि कर्मविभक्ति: परिगणनस्य प्रायिकत्वात् '' इति वामनोक्या इति शब्देनाख कर्मणोऽभिहितत्वात् प्रकृतिरिति प्रथमा प्राणिनो जन्तव: यया वायुरूपया तन्वा प्राणवन्त: वायोर्जगत्प्रात्वात् धान्येन धनवानित्यादिवद्ययेतृयभेदे तृतीया ताभि: पृथिवीजलानलनिलव्योमरवीन्दुयजमानरूपाभिरष्टाभिस्तनुभि: प्रपन्न: प्राप्त: ईश: वस्सामाजिकान् अवतु रक्षतु एवं जगच्छरीरत्वोक्या परमेश्वरस्य स्वत एव जगद्रक्षणस्वाभाव्यं व्यज्यते हविर्वहनहोतृत्वादिभिश्च सर्वक्रियाराध्याराधकरूपत्वं विश्वव्याप्त याच परमात्मत्वं प्राणनहेतुत्व्रेन जीवरूपेणानुप्रवेशनं

इत्यादिकमभिव्यञ्चितं भवति वायो: प्रत्यक्षस्पर्शाश्रयत्वान्नभसश्च तथाविधशब्दाश्रयत्वान्नीलं नभ ?इति प्रतीतृया नीलत्वेनालङ्कारिकैरभ्युपगमाद्वा प्रत्यक्षाभिरित्युपपन्नं सुश्लिष्टस्सामाजिकरज्जनाय भूयादित्यर्थत: प्रार्थितं भवति ""रङ्गं प्रसाद्य भधुरै: श्लोकै: काव्यार्थसूचकै: '' ""अर्थतशशब्दातो वापि मनाक्काव्यार्थसूचनं'' इत्याद्यनुरोधात् व्याख्यातृसम्प्रदायाच्च प्राप्तं काव्यार्थसूचनं यथा ईशो जगन्नियन्त राजा अवतु रक्षतु सीप्यष्टाभिस्तनुभिर्दिक्पालांशै: प्रवन्न: प्राप्त: ""अष्ठभिर्लोकपालानां मात्ना भेर्निर्मितो नृप: '' इति स्मरणात् प्रत्यक्षाभिरिति विशेषणेनातीन्द्रियाणामपि दिगोशांशानामयमेक: प्रत्यक्षावतार इति व्यतिरेको व्यज्यते स्त्रष्टु: भुवनान्तरसूष्टिकतर्तु: कौशिकस्य आद्यां प्रथमा सृष्टि: शकुन्तलेत्यर्थ: आद्यशब्दोयमभ्यर्हितार्थ: विधिहुतं !शास्त्रसिद्धेन गान्धर्वविवाहेन आहितं हवि: दुष्यन्ततेजतोरूपं वहतिइति "" दुष्यन्तेनाहितं तेजो दधानां भूतये भुव: '' इति वक्ष्यमाणं गर्मधारणं व्यज्यते "" वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति'' इत्यादिश्रुतिषु निषेकस्याहुतिव्यपदेशात् या होत्रीति धर्मपत्नीत्वं व्यज्यते येद्वे अनसूयाप्रियंवदेकालं सङ्केतकालं विधत्त: निवेदयत: ""चक्कवाअवहुए आमन्देहि सहअरं उवट्टिदा रअणी'' इत्यादिना सङ्केतकाज्ञापनात् श्रुतिविषयगुणा प्रतृयादेशानन्तरं ""स्त्रीसंस्थानं चाप्सरस्तीर्थमारदाक्षिप्यैनां ज्बोतिरेकं तिरोभूत् '' इति वक्ष्यमाण प्रकारेण तिरोभावाददृश्येत्यर्थ: विश्वं व्याप्य विश्वं अतिरिच्य हेमक्टे मारीचारमे देवभूमौ स्थिता सर्वाणि भूतानि प्रकृतय: प्रजा: यस्यास्सा पुन: पतिसमागमाद्गाज्ञीभावं प्राप्तेत्यर्थ: यया भरतजननन्या प्रजातन्तुप्रवर्तनादराजकत्वपरिहारेण / द्वाविंशत्या पदैर्वापि सा नान्दी परिकीर्तिता ।।'' इति

नान्द्यां पदनियमउक्त: सचात्र व्यभिचरीति तथापि यैर्नान्द्यां पदनियमो नाङ्गोकृत:तन्मतेनेदं नियमेपि ""

श्लोकपादां पदं केचित् सुप्तिडन्तमथापरे नरेवान्तरवाक्यैकस्वरूपं परसूचिरे '' इत्युक्त्या अवान्तरवाक्यैरष्टभिर्नियता नान्दीयमित्यव्यभिचार: स्त्रग्धरावृत्तम्

      नान्द्यन्त इति नन्दिन इयमिति वा नान्दी देवताऽस्या इति वा नान्दी तदुक्तं भावप्रकाशे "" नन्दी वृषी वृषाङ्कस्य  जगदादौ जगत्पते: नृत्यत: कल्पनायीगाज्जगाम किल रङ्गतां तस्य तद्गपूसम्बद्धा पूजा नान्दीति कथ्यत '' इति अथवा नन्द्यते समृद्विंनीयत इति, नन्दयति सम्यानिति वा नान्दी यथा भावप्रकाशे "" देवतादिनमस्कारमङ्गलाराम्भपाठकै: या किया नन्द्यते नाठ्यारम्भे नान्दीरूप: योयमन्त: पूर्वरङ्गावसानं तस्मिन् अथवा नान्द्या: अन्ते अवतसान इति षष्ठीतत्पुरूषु इति नांद्यन्तशब्दो द्वेधा व्याख्यातो   

नावप्रकाशे सूत्रं काव्यार्थसूचनं धारयतीति सूत्रधार: सच स्थापकशब्दिती नान्दीप्रयोक्तुरन्य एव नट इत्येके तदुक्तं दशरूपके "" पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गंते प्रश्यि तद्वदपर: काव्यमास्थापयेनट: '' इति, ""नान्द्यन्तेऽनुप्रविष्टेन सूत्रधारेण धीमता प्रस्तावनाय रङ्गस्य वृत्तिर्योजृया हि भारती '' इति तन्मते सूत्रधार इत्यनन्तरं प्रविश्य पुष्पाज्जलिं विकीर्यं पठतीत्यध्याहार्यं ये तु नान्दीप्रयोक्तैव सूत्रधर आसुखं प्रस्तौतीत्याहु: तेषां मेते पठतीत्येतावदध्याहार्यम्

      नेपथ्येति भूमिकापरिग्रहस्थानाभिमुखभित्यर्थ: भगवन्तोऽवरैर्वाच्या विद्वद्देवर्षिलिङ्गिन: विप्रामात्याग्रजाश्राया नटीसून्नभृतौ मिथ: ' इति वचनात् नटीसूत्रधारयो: परस्परमार्यशब्देन सम्बोधनं नेपथ्यविधानं भूमिकाविरचनं अवसितं समाप्तं स्यतेरवपूर्वात्कर्मणिक्त: नियुजृयते प्रवर्त्यते अस्सिन्निति नियोग: व्यापार: परितस्सीदन्त्यस्यामिति परिषत् सम्पदादित्वात्किपू अभिलक्ष्यं रूपं दृश्यप्रब्न्धो नाटकादियैस्तेभिरूपा: "" रूपं दृश्यतयोच्यत '' इति दशरूपके "" रूपं तु श्लोकशब्दयो: पशावाकारसौन्दर्ये नाणके ।नाटकादिके ग्रन्थावृत्तौ स्वभावे '' इति हैम: नाठ्यकलाभिज्ञैरित्यर्थ: "" अभिरूपो बुधे रम्ये '' इति मेदिनी भूयिष्टा प्रचुरा का?लिदासेन ग्रयितं विराचितं वस्तु कथाशरीरं यस्य तेन "" यत्तत्रानुचितं किञ्चिन्नायकस्य रसस्य वा विरुद्धं तत्परित्याजृयमन्यथा वप प्रकल्पयेत्, '' ""एकाहरितैकार्थ मित्थमासन्ननायकं पातृनैस्त्रिचतुरैरङ्कं तेषामन्ते निर्गम: '' इत्याद्युकं दशरूपके भावप्रकाशे "" सूच्यमेव भवेत्कॢञ्चिद्दृश्यं श्रव्यमथापरं नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तर: विरसं लौकिकापेतमशास्त्रीयं यद्भवेत् तद्वस्तु संसूच्यो वस्तुविस्तर: विरसं लौकिकापेतमशास्त्रीयं यद्भवेत् तद्वस्तु सूचनीयं स्यीत् '' "" युद्धं राज्यभ्रंशं मरणं नगरोपरोधनं चैव अप्रतृयक्षकृतानि प्रवेशकैस्संविधेयानि'' त्या दि अत इदेतिहासप्रसिद्धेऽपि वस्तुनि राज्ञ: परिणयविस्मरणादिकं लोकविरुद्धमिति दुवांसश्शापादिकं कवेस्संविधानमित्याद्यूहनीयं नवशब्?देन  भासौमिल्लदिकृ तीनां सामाजिकैदृदैष्टपूर्वतृवं क्कालिदासकृतेरिदं प्रथमदर्शनत्वं व्यजृयेत अतश्च सामाजिकादरणीयतृवं दर्शितं भवति नाटकेन करणेन उपस्थातव्यं प्रवर्तितव्यं तत तस्मातृ अभिरूपाणां साभाजिकानामाराधनीयत्वात् महाकवे: काव्यरयाभिनवस्याभिनेयत्वाच्चेत्यथं: प्रतिपात्रं क्शिषाकैकस्मिन्नपि पात्रे "" अव्ययं विभक्ती'' त्यादिता यथार्थेऽव्थयीभाव: योग्यतावीप्सा पदार्थानतिवृनतिवृत्तिसादृश्यानि'' यथार्था इत्युक्ते यत्न: अवधानं आधीयतां न्यस्यतां निस्कृ?तप्राणो वाग्वापारो नटाश्रय: इत्युक्तलक्षणाया भारतीवृत्तेरङ्गेषु प्ररोचना वीथीप्रहसनासमुखेषु प्ररो चवनारूमङ्गं भवति उन्मुखीकरणं तत्र प्रशंसात: प्ररोचेन 'ति लक्षणात् अत्र हि निरूपपदेन कालिदासनामग्रहणेन कवे: सुप्रसिद्धतां व्वञ्चयता, नवशब्देन नाटकान्तरवैलक्षण्यातात्पर्यं गर्मीकुर्वता सुष्टुकुता कवि काव्ययो: प्रशंसा अग्रिमेण "" सुविहितप्पओअदाए '' इति नटीवचनेन नटप्रशंसा कृता भवति सुविहित: पात्रेषुम्यक् प्रतिष्ठापित: प्रयोग: नाठ्यं येन तथाभूततया पूर्वमेव किमपीति क्रियापिवशेषणं परिहीयत इति कर्मकर्तरि लकार: अल्पमपि वैकल्यं भवेद्येन प्रतिपात्रं यत्नाधानापेक्षेति भाव: भूतार्थां यथावस्थितं विषयम्

      परितोषादिति विदुषां सदसद्विवेकिनां आपरितोषात् प्रीतिं यावत् पदद्वयं चेदं ""आड्यर्यादाभिविध्यो: '' इति विभाषाधिकारात् प्रयोग विज्ञानं नाठ्यकौशलं साधु निर्दोषं बलवत् दृढं

स्वरादिपाठादव्ययं शिक्षितानां अभ्यस्तवतामपि शिक्षतेरत्राविवक्षितकर्मत्वेनाकर्मकत्वात् कर्तरिक्त: चेत: मन: श्रात्मनि स्वस्मिन् विषये अप्रत्य विस्त्रंभरहितम् विदुषामपि निजरूप प्रतिपत्तिं: परतएव संभवति ज्ञस्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मा ' दिति न्यायादिति भाव: यत्तु आपरितोषादिति ल्यब्लीपे पञ्चमी आपरितोष: सम्यक्परितेष: विदुषां सम्यक्परितोषसुद्दिश्येत्यर्थ: साधुमन्य इति काकु: साध्येव मन्धइत्यर्थ: तत्र हेतु: बलवच्दिक्षितानां चेत: आत्मनिविषये अप्यप्रतृययं अपि: प्रक्षे सप्रत्ययमेवेत्यर्थ: अशिक्षितानां हि स्वस्मिन्नप्रत्यय: नतु सुशिक्षितानामिति भाव: इति व्याख्यानं तत् श्लोकस्वरसविरोधात् , कथयामि ते भूतार्थंमिति प्रकमवैरूप्यात् काकुपरिल्पनक्केशात् गहांसमुच्चयप्रश्रशङ्कासंभावनास्वपि इति कोशत: प्रश्रार्थस्यापे: प्रति षेधपर्यवसानानौचित्याद्भिन्नक्रमेणान्वयक्लेशाच्च मनोरमम् अनन्तरकरणीयं अनुपदकर्तव्यं तावत् प्रथमं प्रतिपात्रमाधीयतां यत्न ' इति तु नाट्यपरिसमासिं यावदनुष्ठेयमिति भाव: अस्या: परिषद: श्रुतिप्रसादनत: श्रव:प्रीणनात् कतममिति "" रंगं प्रसा़ मधुरै: श्लोकै: काव्यार्थंसूचकै: ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् '' इत्युक्तमनुस्मृतृय प्रश्र: अधिकृत्य विषयीकृत्य नातिचिरप्रवृत्तमिति नजर्थसय नेत्यव्ययस्य सप्सुपेति समास: समग्रगुणमित्यर्थ: अत एव उपभीगस्य जलक्रीडादिरूपस्य क्षमं योग्यं अतिचिरप्रबृत्तत्वे वर्षतुंधर्मसङ्करात् अचिरप्रवृत्तत्वे वसन्तधर्मानत्ययाचच समग्रोपभोगाह्रतृवमिति भाव: ""भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रय: '' इति वचनात् प्रथमं सूत्रधारस्वयमारभते

      सुभगेति सुभगस्सुख: सलिलावगाह्मो येषु ते पाटलाया: पुष्पं पाटलं ""अवयवे प्राणयोषधिवृक्षेम्य: '' इति विकारावयवयो: प्राप्तस्याण: ""पुष्पमूलेषु बहुल:'' मिति वक्तव्याल्लोपे "" पुप्पे क्लीबेऽपि पटला'7 इति कोशात् पाटलमिति रूपं तस्य संसर्गेण सुरभयो घ्राणतर्पणा वनवता येषु ते, पच्छोषु प्रभूतच्छायेषु प्रदेशेषु सुलभा निद्रा चेषु ते परिणामेषु सार्येसमयेषु रमणीया आतपापगमेन प्रदेशेषु सुलभा निद्रो येषु ते परिणामेषु सायेसमयेषु रमणीया आतपापगमेन हिमामभावेन सुखीवहाश्च भवनित ""कृत्यल्युटो बहुल'' मिति बहुलग्रहणात्कर्यनीयर अत्र राज्ञश्शकुन्तलासमागमस्य ग्रीष्माकलिकल्योपक्षेप्स्यमानतृवादिहापि ग्रीष्मवर्णनं सलिकावगाहशम्देन चक्रावतारे अंगुलीयकत्यनिमग्रत्वं, सुभगशव्देन पुलल?भिेन सुखावहत्वं पाटलसंसर्गपदेन शकुम्तलाया भानुमतीग्रहणं, सुरभिवनवातपदेन मारीचाश्रमावस्थानं, छायाशब्देन दुर्वासश्शाप: निद्रापदेन दुष्यन्तस्य परिणयविस्मरणे परिणामरमणीया इति सुखाचसानतृवमासूत्रितम् आर्यवृत्तम्

      इसीति भ्रमरै: ईषच्चुम्बितानि अत्यर्थसुकुमारतया भ्रमद्भिरेव सद्भिमंनागास्वादितानि सा हि भ्रमरवृत्तिर्यदानिष्पीड्य रसादानं सुकुमारकेसरशिखानि कोमलकिंजल्काग्राणि शिरीषकुसुमानि ग्रीष्मकालिकानि प्रमदा: दयमाना: क्लेशभयादनतिस्पृशन्त्यस्सत्य: अवतंसयन्ति कर्णपूरीकुर्वन्ति अत्र शरीष कुसुमशव्देन शकुन्तला गम्यते ईषच्चुम्बितशब्देन सकृद्धाजसमागम: शोभन: कुमार: केसरशिखेव प्राधान्यादुत्सङ्गलाळित्वाच्चेति पुत्रलाभ: प्रमदाअवतंसयन्ति इति सर्वान्त:पुरसम्भावितत्वमित्वेवं प्रकृतार्थ: सूचितो भवति रागेणस्वरसंयोगविशेषेण अनुबद्धा अनुस्युता चित्तवृत्तिर्मनप्रवत्तिर्यस्यासौ रङ्ग "" मच्चा: क्रो शन्ती '' तृयादिवदौपचारिक: प्रयोग: सामाजिका इत्यर्थ: आलिखित: चित्रार्पितइव रसपारवश्यान्निष्पंद हत्यर्थ: कतमत् बहुषुकिंरूपं "अद्ड तरादिभ्य: पञ्चम्य:' इत्यदादेश: प्रक्रियते अभिनीयत इति प्रकरणं रूपकमित्यर्थ: रूपकविशेषपरस्यापि सामान्यवृत्त्याऽत्र प्रकरणशव्दस्य प्रयोग: आराधयाम: प्रीणयाम: प्रथममेव पूर्वरङ्गात्प्रागेव आर्यमिश्रै: सामाजिकै: "" शिरसा प्रथम गृहीता '7 मितृयादिषु दर्शनात ""इदं प्रयोक्ष्ये युष्माभिरनुज्ञा दीयतामिति संप्राथषि:सूत्रधारेण प्रार्थनीयन्ते ते स्मृता: त्वया प्रयोग: क्रितामित्युत्कण्ठितचेतस: ये सूखिणं प्रार्ययन्ते ते सभ्या: प्रार्थनीया स्मृता: '' इत्यादिलक्षणानुसाराच्च सामाजिकाभिमतज्ञानान्तरमेव पूवैरङ्गविधानं प्रसिद्धं येनाभिनेयवस्तुसदृशनान्शन्द्यदिप्रकाभिमतज्ञानानन्तरमेव पूवैरङ्गविधानं प्रसिद्धं येगिभिनेयवतुसदृशनान्द्यादिप्रवर्तनमितृयवसेयं एतेन कालिदासग्रांथतवस्तुनेत्यादिपूर्ववाक्ये अभिज्ञानशाकुन्तलनामधेयेनेति पाठकरूपनं केषां?चिद्धृथेतिस्पष्टं शकुन्तलाया इदं शाकुन्तलं चरितं

उपचारारात्तद्विषयंनिबन्धनमपि शाकुन्तलं ""तस्येदं'' इत्यण् अभिज्ञानप्रधानं शाकुन्तलमिति मध्यमपइलीपी समास: महाभारतगृहीतस्यापीतिवृत्तस्य अभिज्ञानांगुलीयकवृतृतान्तश्चारुतृवातिशयाय हि कविना स्वयमुत्प्रेक्षित: प्रयोगेण अभिनयेन अधिक्रियतां प्रवत्?र्यतां अनुबोधित: स्मारित: अस्मिन् गीतश्रव्रणक्षणे तत्सर्वं परिषदादेश: अस्मदारग्भश्चेत्यादिकं विस्मृर्त चित्तपारवश्यादिति भाव: ।।

      तवेति----हारिणा मनोहरेण तव सम्बन्धिना गीतस्य गेयप्रबन्धस्य रागेण स्यरर चनाविशेषेण प्रसमं बलात् हृत: अनन्यमना: कृतोस्मि सामाजिकाराधनप्रवृत्ततया जागरूकोपि परवश: कृत इति प्रसभशब्दार्थ:

किमुत सामाजिका इत्यर्थापतिृतर्व्यज्यते कथमिब एष सनिहितप्रवेश: दुष्यन्तो नाम राजा अतिरंहसा अतिशयितवेगेन सारं चित्रवर्णमङ्गं यस्य तेन कृष्णसारेणेव "" सारङ्ग: पशुपक्षिणा: '' इति शकन्ध्वादि: इदं प्रयोगतिशयो नामामुखाङ्गं तल्लक्षणमुक्तं भावप्रकाशे "" एषोऽयमित्युपक्षेपात् सूत्नधारप्रयोगत: पात्रप्रवेशो यत्नैष प्रयोगतिशयो मत: एव राजेव दुष्धन्त इत्यादौ प्रतीयते '' इति

      प्रस्तावनेति तल्लक्षणमुक्तं भावप्रकाशे "" नटी विदूषको कापि परिपार्श्विक एव वा सूत्रधारेण सहितास्मल्लापं यत्नप्रकुर्वते वित्रैवाक्यै: स्वकायार्यैप्रस्तुताक्षेपिभिर्मिथ: आमुखं तत्तु विज्ञोयं नान्ना प्रस्तावनेति सा"" इति

      आयुष्मन्निति "" रथो सूतेन चायुष्मान् पूज्यैश्शिष्यात्मजुजा: '' इति दशरूपके ।।

कृष्णेति कृष्णश्चासौ सारश्शबलश्चेति कृष्णसार: वर्णोवर्णेने ' स्मास: तस्मिन् मृगे अधिज्यं अधिरोपितमौर्वीकं प्रादिभ्यो धातुजस्य वायो वाचोत्तरपत्लोप: ' इति समास: कर्वणि प्रभवतीति कार्मुकं ""र्क्मण उकञ्र'' धनु: येन तस्मिरस्तृवयि च्क्षु: ददत अर्पयन् "" नाभ्यस्ताच्छतु '' रिति निषेधान्नुमभाव: अहं मूगानुसारिणं दक्षाध्वरध्वंसे रुगानुगामिनं पिनाकिनं साक्षातृपश्यामीव पिनाकिवृत्तान्तस्य प्रत्यक्षायमाणत्ववर्णंनाद्भाविकमलङ्कार: तदुक्तं "" भाविकं भूतभाव्यथंसाक्षात्कारस्य वर्णन '' मिति तच्च धनुर्धंरत्वमृगानुसारित्वरूपसामान्यधर्मभावितामुपमासुजीवतीति तयोरङ्गाङ्गिभावेन संकर: ।। वयमिति "" अस्मदो द्वयोश्च '' इति बहुवचनम् ।।

      ग्रीवेति अनुपतति अनुयायिनि स्यन्दने ऊस्मद्रथे ग्रीवाया: कन्धराया: भङ्गेन तिर्यगावर्जनेन अभिरामं मनोहीरे यथा तथा मुहु: पुन: बद्ध न्यस्ता दृदश्टि: येन सा शरस्य पतनाद्भिया भयेन हेतुना ""भयभीतभीतिभीरितिवाच्य'' मिति पश्चमीतत्पुरुष: पश्चार्धेन शरीत्यापारभागेन "" अपरास्य पश्चभावो वक्तव्य '' इति सिद्धम् भूयसा बाहुरुयेन मृद्वादीनां धर्मपरतृवमुक्तं भूयसा पश्चार्धेनेति वा पूर्वकायं शरीरस्य पूर्वभागं "पूर्वापराधरोतृतरमेकदेशिनैकाधिकरणे ' प्रविष्ट: संक्षिप्ताङ्गइत्यर्थ: "प्रविशन्तीवचांगानि ' इत्यादिषु लज्जाभया दिभिरङ्गसंकोचे प्रवेशव्यपदेशो दृश्यते अर्धावलीढै: असमग्रास्वादितै: कतएव श्रमेण  विवृतातू मुखात् मुखात् वक्त्रबिलात् भ्रंशिभि: दर्भै: गृहीतपूवै: कुशाग्रासै: कीणवत्मां परिक्षिप्तमार्ग: अत्र किरतेरास्तरणार्थत्वादूदर्माणां करणत्वं मार्गस्य कर्मत्वं "" अवाकिरन्वयोवृद्धास्तं लाजै: पौरयोषित: '' इतृयादिवत् प्रक्षेपार्थत्वे तु दर्भाणां कर्मत्वं मार्गस्याधिकरणत्वं स्यात् अयं मृग: इदानीं उर्व्या स्तोकमल्पं प्रयाति सकुदुत्पतने दूरलङ्धनादिति भाव: स्वभावोक्तिरलङ्कार: ""सूक्ष्मवस्तु स्वभावयथाद्वणंनं स्वभावोक्ति ''रिति तल्लक्षणं प्रयत्नप्रेक्षणीय: द्रग्गत इत्यर्थ: उत्त्वातिनी निम्रोन्नतस्थलवती रश्मिसंयमनात् प्रग्रहाणामाविमोक्षणात् विप्रकृष्टं व्यवहितं अन्तरं मध्यप्रदेशो यस्य : दु:खेनासाद्यते प्राप्यत इति दुरासद: "" ईषुद्दस्सुषु कृच्छ्राकृच्छ्राथैषु खलू'' अमीशव: प्रग्रहा: " अमीशु: प्रग्रहे रश्मौ ' इत्यमर: निरूप्य अभिनीय स्त्रग्धरा वृत्तम

      मुक्तेष्विति रश्मिषु प्रग्रहेषु "" रश्मि: पुमान् दीधितौ स्यात् पक्ष्मप्रग्रहयोरपि '7 इति मेदिनी मुक्तेषु शिथिलितेषु सत्सु निरायता: पूर्वचरणप्रसारणाद्वेगदीर्धाकृता: पूर्वकाया: शरीरपूर्वभागा: येषां ते ""पूर्वापराधरोत्तरमेकदेशिनैककाधिकरणे '' निष्कम्पा: चक्रभ्रम्यारूढतृणादिवद्वेगानुरोधातृ पूथक्चलनरहि?ता: चामारशिखा: कर्णचखमरान्ता: येषां ते निभृता:निश्चला: ऊर्ध्वा: उन्नताश्च कर्णा वेषां ते आतृमना स्वेन हेतुना उत्थितैरपिव रजोभिरलङ्घनीया: अनतिक्रमणीया: रजद्गमातृ पूर्वमेव पदोतृक्षेपादिति भाव: अमी

रथंवहन्तीति रथ्या: युग्या: ""तद्वहति रथयुगप्रासङ्गं '' इति यत्प्रत्यय: अमी रथंवहन्तीति रथ्या: युग्या: "' तद्वहति रथयुगप्रासङ्गं '' इति यत्प्रत्यय: मृगस्य जवे अक्षमया ईर्ष्ययेव धावन्तीति हेतूत्प्रेक्षा सा वेगस्वभावोक्त्या संसृज्यते वसन्ततिलकं वृत्तम्

      हरित: हरित्संज्ञान् हरितवर्णान् वा हयान् सूर्याश्वान् "" हरिद्दिशि स्त्रियो पुंसि हयवर्णविशेषयो: अस्त्रियां स्या त्तृणे'' इति मेदिनो ""विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्या परित: स्फरन्तृया रत्नै: पुनर्यत्र रुचा रुचं स्वामानियिरे बंशकरीरनीलै: '' इत्यादित: सूया्रश्वानां हरितवर्णत्वं प्रसिद्धम्

      यदिति यत् वस्तु आलोके प्रथमदर्शने सूक्षृमं दूरत्वादल्पाक्षचारं तत् वस्तु सहसा अनन्तरक्षण एव विपुलतां सन्निकर्षान्महत्वं व्रजति प्राप्रोति सूक्ष्मत्वविपुलत्वयो: अव्यवहितपूर्वोत्तरक्षणानुभवेन वेगातिशयो व्यज्यते किंच यत् तरुगुल्मादिकं वस्तु अर्धे मध्ये विच्छिन्नं विभागेनावस्थितं तदपि कृतसन्धानं कृतासंयोगमिव भवति तदपि वस्तुनोरन्तरं ज्ञटित्यतिलङ्धनान्नावसीयत इति भाव: अपि यत् शाखादिकं वस्तु प्रकृत्या स्वभावत: वकं कुटिलं तदपि नयनयो: समरेखमृज्जरूपं भवति। ज्ञटिदित्यनेन शुक्लपीतांदिरूपमात्रप्रतिभानादिति भाव: रथजवाद्धेतोमे किंचित् किमपि वस्तु क्षणं क्षमात्रीदति आसन्नं दूरीभवत्यचिरेणेति भाव: अत्न सूक्ष्मत्वस्थूलत्वादीनां विरोधप्रतिभानसय वेगातिशयेन परिहारात् विरोधाभासालङ्कार: तदनुप्राणिता वेगस्वभावकथनरूपा स्वभावोक्ति: शिखरिणीवृतृतम्

      व्यापाद्यमानं हन्थमानं सन्तं पश्य वर्तमानसामीप्याद्वर्तमाननिर्देष: तेनबाणस्य लक्ष्यादनपराधस्मृचित:

तेनबाणस्य लक्ष्यादनपराधस्समचित:

      बाणपाते बाणस्य पतनावधौ वर्तत इति तथाभूतसय नातिविप्रकृष्टस्य नचातिसन्निकष्टस्येत्यर्थ: अन्तरे कृष्णसारस्य तव मध्य इत्यर्थ: संप्राप्त: अतो बाणाप्रयोगावसर इति भाव: निगृहृमन्तां रश्मिसंयमनेन स्थाप्यन्तां तृतीय: त्रित्वसंख्यापूरण: "" त्रेस्संप्रसारणं '' इति पूरणार्थे तीयप्रत्यय: रेफत्य संप्रसरणमृकार:, "संप्रसारणाच्च इति पूर्वरूपं आत्मनश्चेति पूरणप्रतृययान्तेन समासविधानादातृमना तृतीय इति समस्तं पदं विखलासा प्राक्तं वैखानसं वानप्रस्थधर्म: तदधीते वेदपेति वैखानस: "प्रोक्तल्लुक्' '' पुष्पमूलफलैवांपि केवलैर्वर्तयेंत्सदा कालपक्कै: स्व यं शीणैवैखानसमते स्थित:'' इत्युक्तलक्षणो भुनिरित्युक्तलक्षणो भुनिरिर्त्य: हस्तमुद्यम्येति प्रतिर्षधव्यंजनमिदम्

      खल्विति हिंसाभीरुत्वमाविकर्तुं प्रथमं निषेधप्रयोग: द्विरुक्तं मृदुनि अस्मिन् मृगत्य हरिणस्य शरीरे अयं निशिततर इत्यर्थ: बाणो खलु सन्निपातृय: नैव प्रयोज्य: कथमिव तूलराशौ गिग्रिरिव यथा स्फुलिङ्गकणपातमात्रेण महानपि तूलराशिर्निरवशेषीभवति तथास्यादित्यर्थ: क्कचित्पुष्पराशाविति पाठ: अनुकभ्यिता हरिण: हरिणका: अनुकंपायां ' इति : तेषां स्म्बन्धि अतिलोलं अकारणभंगुरं जीवितं क्क निशितनिपाता: तीक्ष्णधारा: क्ठोरपतना वा वज्रस्य कुलिशस्यव सार: स्थिरांशो येषां तथाभूता: सारपुंखा इति पाठे दृढमुष्टिदेशा इत्यर्थ: वज्रधारइति साधीयान् पाठ: ते तव शराश्च क्क वज्रसारा इति विशेषणेन गिरिदलनक्षमत्वं व्यंजितं अत्यन्तुदर्बले निशितायुधप्रयोगो नोचित इति भाव: अयं विरूपघटनारूपो विषमभेद: तूलराशविवाग्रिरिति वाक्यार्थोमा मूदुनीति विशेषणस्य अनुचिताचरणरूपप्रतीयमानार्थगर्भन्वात् परिकरश्च ' विशेषणसाभिप्रायत्वं परिकर: ' इत्यलङ्कारसस्वे "सभिप्रायतृवं प्रीयमानाथगेभींकार: ' इति तत्रैव व्याख्यातं एतेषां म्रयाणामलङ्काराणां तिलतण्डुलवत पृथगवस्थानातृ संसृष्टि: ।। मालिनीवृत्तम् ।।

      तदिति तत् समगस्यावध्यत्वात साधु सम्यकृ कृतसन्धानं सायकं प्रतिसंहर सन्धानाद्विमोच्य अथावा तस्माध्विति पृथग्वाक्यं यद्दयनीये वस्तुनि क्ठोररस्मारंभ: तत्साघु विपरीतलक्षणयानुचितमित्यर्थ: : क्षत्नियाणामित्यर्थ: शस्त्रं आयुधं आर्तानां विपन्नानां त्राणाय रक्षणार्थं तु अनागसि निरपराधे विषये प्रहतुं पातयितुं क्षतात्किल त्रायत इतृयुदग्र: "अत्रस्य शब्दो भुवनेषुरूढ: इतृयेतदिहानुसन्धेयं अनुष्टुप् वृत्तम्

      जन्मेति यस्य तव पुरो: यायातस्य शर्मिष्ठासूनो: नाममात्नग्रहणादेवास्युगुणोतरत्वं सुप्रसिद्धमिति व्य़ञ्जितम् वंशे जन्म तस्य तव इदं पूज्यापूजनं युक्तरूपं प्रशस्तं युक्तं "प्रशंसायां रूपम् '' एवं गुणेपेतं

त्वत्सदृशगुणयुक्तं चक्रं राजमण्डले वर्तितुं शीलमस्थेति वा, चक्रं स्वसैन्यं वर्तयितुं सर्वत: प्रवर्ततितुं शीलमस्येति वा चक्रवर्ती ""सुप्यजातौ णिनिस्ताच्छील्ये '' तथाभूतं पुनातीति पुत्र: " पुवो हस्वश्च ' अथवा पुतो नाम नरकातृ त्रायत इति पुत्र: तं आप्रुहि " आशिषि लोट् ' "पुखं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवत: पितेव ' इति रघुवंशे अत्र इतिवृत्ते राज्ञोऽपत्यलाभ: फलं तच्च शकुन्तलालिनिगन्धनं तदर्थश्च राज्ञा आश्रमप्रवेश: इत्युपक्षेपो गुखसन्धेरङ्गम् अनुष्टुम् वृत्तम्

      मालिन्या नाम नद्यास्तीरे अनुभानितीरं विभक्त्यार्थेऽव्ययीभाव: कार्यातिपात: विलम्बेन राजकृत्यस्य अतिक्रम: अन्यकार्यातिपात इति पाठो साधु: आतिथ्यस्वीकारस्यार्यत्वेनान्प्यशब्दानर्यक्यातृ अत्र अस्मिन्नाश्रमे यद्यपि "कर्तुरीप्सिततमं कर्मं' इत्यत्र पुन: कर्मग्रहणत्याधरनिवृत्त्यर्थतया गृहं प्रविशतीत्यादिवत् कर्मणि द्वितीयया भाव्यम् तथापि अत्नेत्यस्य प्रतिगृह्मतामतिथिसत्कार इत्यनेनान्वयान्न दोष: सत्कार: आदर: प्रीतिप्रदर्शनव्यापार इति यावत् "आदरानादरयोस्सदसती ' इति गतिसंज्ञायाम् " कुगतिप्रादय" ' इति समास: प्रवेशे राज्ञ: प्रयोजनमप्याह अपि चेति

      रम्या इति प्रतिहतविघ्रा: स्वतेजसैव निस्तराक्षसाधुपप्लवा: अत एव रमयन्ति प्रीणयन्ीति रम्या: मनोज्ञा: "कृतृलयुटोबहुलं ' इति बहुलग्रहणात् कर्तंरि यत् तपोधनानां क्रिया: इष्ट्यादिकर्माणि समवलोक्य मौर्ब्या: किण: ब्रणग्रन्थिरेव अङ्कश्चिह्लं यस्यासौ मे भुज: किं परिमाणमस्येति कियत् इति रक्षणक्रियाविशेणं क्रिमिदंभ्यो वा :' इति परिमाणार्थत्य वतोर्वस्य घादेशे "इदं किमोरोशू कि ' इति किरूपतृवे " यस्येति ' इति इकारलोपे कियदिति रूपिसिद्धि: रक्षतीति ज्ञात्यसि पाल्यानां क्षेमसात्कार: पालयितु: प्रयोजनमिति भाव: अत्र तपोधनानामित्येन पालनावश्यंभावस्सूचित: मौर्वीकिणाङ्क इत्यनेन स्वयासमनवेक्ष्य लोकतन्त्रनिर्वहण क्षवं व्यज्यते तक्तश्च साभिप्रायविशेषणतृवातृ उभयत्र परिकरालंकार: ।।

आर्यावृत्तम्

      दुहितरं पुत्रीं शकुन्तलां शकुन्तलामित्यपि क्कचित्पाठ: अस्या: शकुन्तलाया: प्रतिकूलं इष्टमाप्तिविरोधि, दैवमदृदष्टं, निवर्तयितुं तपसा प्रशमयितुं सोमतीर्थं नाम सिद्धिक्षेत्रं विरोधिदैवप्रशमेन विवाहोपपतिृतरभिव्यजृयते तां शकुन्तलां तयोरदृष्ट: कामोभूच्छण्वतो: सततं गुणान् ' इति रीत्या नामश्रवणमात्नेणापि राज्ञो मनस्सङ्गो जात इति गम्यते महर्षे: कण्व्त्स्य विदिता ज्ञाता भक्ति: यस्यं तं करिष्यति मद्भक्तिमावेदयिप्यतीत्यर्थ: विंदितभक्तिर्मांमढर्षे: कथयिष्यतीति पाठान्तरं साधयाम: गच्छाम: पुनीमहे " अस्समदोद्वयोश्च ' इति चकारदेकत्वेऽपि बहुवचनं क्रियाफलस्य कर्तृगामित्वादात्वादात्मनेपदं "प्वादीनां हस्व: ' अकथितोऽपि अनुक्तोऽपि यथा तपोवनस्याभोग: तथा ज्ञायतएव तपोवनत्वेन गृह्मत एवेतृयर्थ: यथायमाभेगस्तपोवनस्थेतीपि पाठे अकथितोपवीति पुल्लिङ्गप्रयोगश्चिन्त्य वाक्यार्थस्यैव कर्मतृवात् तत्र सामान्ये नपुंसकौचित्यात् पश्यतीति अत्र भवच्छव्दप्रयोगात् उपपदं स्थानि वा समानाधिकरणं युष्मत्पदं नास्तीतृयत: शेषे प्रथम: इहेति " इदमो : ' इति सप्तम्यर्थव्रलादेशो :

      नीवारा इति शुका: गर्भेषु येषां तेषां कोटराणां तरुविवराणां मुखेभ्य: अग्रभागेभ्य: भ्रष्टा: प्रच्युता: नीवारा तृणाघान्यानि तरूणां वृक्षाणां अध: मूलसथले सन्तीति शेष: अस्तिर्भवन्तिपरो1़प्रयुज्यमानोऽप्यस्ति ' इति शाब्दिका:     तापसधान्यभूतनीवारदर्शनं तपोवनत्वे लिङ्गमिति भाव: क्कचित् क्कति ' इति किम: क्केति रूपं त्रलर्थे प्रस्त्रिग्धा: प्रकर्षेण स्नेहवन्त: तैलकृष्णिकायुक्ता इत्यर्थं: अत्र भट्टभिनवगुप्तवादा: प्रशब्द: प्रकर्षं द्योतयन्निंगुदी फलानां सरसत्वमाचक्षाणाआश्रमस्य सौन्दयांतिशयं ध्वनयति तापसस्य फलविषयोऽभिलाषातिरेको ध्वन्यते इति त्वसत् अभिज्ञानाशाकुन्तले हि राज्ञ इयमुक्तिर्नं तापसस्येत्यलं' इत्याहु: उपला: इङ्गदीफलानि भिन्दन्तीति तथोक्त: सूच्यन्त एव आत्मनैव निबेद्यन्त इत्यर्थ: कर्मकर्तरि लकार: प्रस्त्रिग्धा इति हेतुगर्भ विशेषणं स्थालोपचति ' "प्राणाहरश्शर: ' इत्यादिवत् कर्तृत्वोपचारादुक्तमिंगुदीफलभिद इति मृगा: हरिणा: निसर्गभीरवो1़पीति भाव: विश्वामृपोपगमात् विस्त्रम्भप्राप्ते: मुनिषु चिरप्राप्तविस्त्रम्भत्वादकुतोभयत्वादित्यर्थ: अभिन्नगतय: सत्यि रथादौ भयहेतौ दृष्टे भयवशाद्गतिभेदमकुर्वन्त इत्यर्थ: शब्दं रथनिर्घोषादिकं सहन्ते तूद्विजन्म इत्यर्थ: तोयाधाराणां

जलाशयानां पन्थान: अवतारमार्गाग्श्च ऋक्प्रब्धू: पथामानक्षे' हत्यप्रयस्मासान्त: वल्कलशिखानां स्नानार्द्राणां निष्यन्दरेखाभि: जलस्त्रृतिराजिभि: अङ्किता: चिह्निता रजोगाढतया दृश्या इत्यर्थ: अङ्कयतेर्लक्षणार्थात् कर्मणिक्त: एतैर्लक्षणैर्लक्ष्यत इति भाव: शार्दूलविक्रीडितं वृत्तम्

      उपपन्नं युज्यते अन्तरे अवताशं : काला ध्नोरत्यन्तसंयोग 'इति द्वितीया "अन्तरमवकाशावधिपरिधानान्तद्विर्घ्भेदतादर्थ्ये छिदात्मोर्यावनाबहिरवसरमध्वेन्तरातृमनि ' इत्यमर:

      कुल्येति पवनेन चपलैश्चञ्चलै: कुल्याम्भोभि: सारिणीजलै: शखिन आश्रमदगुमा: धौतमुला: किसकयरुचां पल्लवकान्तीनां राग: रक्तिमा आज्यधूमस्योद्गमेनोत्थानेन भिन्न: निवर्तित: अर्वाक् इतस्स न्निकृष्टे एते हरिशिशव: नष्ट: शङ्का: व्यपगतसाध्वसा: सन्त: छिन्नधर्माकुरायां ऋषिनिर्लूननवकुशायां उपवनं वनस्य समीपे या भू: तस्थां मन्दमन्दं चरन्ति अतश्च तपोवनमिति शायत  इतिभाव: मन्दाक्रांता वृत्तम् उपरोध: मार्गनिरीथांद्युपद्रव: मा भूत् "माडि लुङ्' "नमाङ्योग' इत्याडीगमप्रतिषेध: एतावत्येव प्रदेशे यावदवतरामि अवत?रिष्यामि 6 यावत्पुरानिपातयो ' रिति लद्र विनीत: शान्त: विश्वह्मनीय इत्यथं: वेष3 रूपं यस्मिन् कर्मणि तद्यथा तथा प्रवेश्यानि प्रवेष्टुं योग्यानि आयुधीभरणादिधारणं नोचितमित्यर्थ: यावदुपावर्ते तावत् क्रियान्तामित्यन्वय: व्रन्ति गच्छन्त्यवश्यमिति वाजिन: आवश्यकाधमर्ण्यया:' इति णिनि:

वाजा: पक्षा: एषां बभूवुरिति वाजिन: अश्वा: आर्द्रषृष्टा: जलासिक्तशरीरोपरिभागा: स्वेदस्य रज प्रसरस्य चापनोदनेन पुनयनित्साहार्थ पृष्टसेक: संस्कार: निमित्तं शुभसूचकं बाहुस्पन्दादिकमित्यर्थ:

      शान्मिति इदं पुरो वतिं स्थानं शान्तं उपरतविषयं पह्मत इति पदं आश्रमएव पदं आश्रमिगतं शान्तत्वमुपचारादाश्रमे प्रयुक्तं बाहु: अर्थादृक्षिणभुज: स्फुरति स्पन्दते इह आश्रमपदे अस्य बाहुस्फुरणस्य फलं कुत: राज्ञो नार्थ इह सम्भवतीत्यर्थ: नियतिगतेरचिन्त्यहेतुताभिसन्धायाहअथवेति भवतिव्यानां अवश्यभाविनां, बहुलग्रहणात् कर्तरि तव्यप्रयोगभूप्राप्ताविति धातुग्रहणे प्राप्तव्य नामित्यर्थ: द्वाराणि मार्गा सर्वत्न भवन्ति आक्षेपालंकार: "आक्षेप: स्वयमुक्तस्य प्रतिषेधो विचारणत्' इति तल्लक्षणं आर्यांवृत्तम् ।। नेपथ्य इति आश्रमपश्मत्र यवतिकान्तरितं नेपथ्यं भवति इदो इति सख्यौ प्रति शकुन्तलावचनं सेच्नीयवृक्षभेदात् इदो इदो इति द्विरुक्तं दक्षिणेनेत्येनबन्तमव्ययं एनपा द्वितीया ' इत्येनबन्तयोगाद् वृक्षवा' टिकामिति पाक्षिकी द्वितीया " वट वेष्टने' इति धातोर्ण्वुलि वाद्धिकाशब्दो निष्पन्न: वृक्ष्वीथ्या दक्षिणत इत्यर्थ: " अमात्यगणिकागेहोपवने वृक्षवाटिके 'ति कोशेऽपि केवलयोगोऽत्न ग्राह्म: आलाप इवेति विप्रकर्षत: स्त्रीकण्ठस्य काकलीत्वाच्चास्फुटश्रणमिवशब्देन प्रतीयते स्वप्रमाणानुरूपै: बालिकाऽऽकासदृशै: तनुभिरितृथ: , सेचनघटै: जलसेकार्थै: कनशै: अश्वघासादिवत्तादर्थ्यषष्टीसमास: बलापादपेभ्य: अचिरप्ररूढेभ्य: वृक्षेभ्य: पादै: पिबन्तीति पादपा: " सुपि सथ: ' इत्यत्र सुपीतियोगवियोगात् आतोधातो: कप्रत्यय: महावृक्षाणां हि सिचनमनपेक्षितं कन्यानामसुकरं अतावोलपदं भिवर्तंन्ते अभ्यागच्दन्ति निरूप्य दृष्ट्वा रूपयतिदंर्शनार्थश्चुरादिषु पठित: मघु माधुर्यमस्यास्तीति मधुरं रसवत् स्वादुनिप्रयेषु मधुरोन्यवत् ' इति विश्व:

      शुद्धान्तेति शुद्ध: विविक्त: अन्त: प्रदेशो यस्य : अथवा शुद्धा: उपदाशुद्धा: रक्षिण: अन्ते समीपे यस्य : शुद्धान्त: अन्त:पुरां अत्रान्त:पुरस्त्रीजन उपचर्यते शुद्धान्तस्य दुर्लभभिदमीदृशं वपु: आश्रमवासिन: वर्षवातातपव्रतोपवासादिक्लिष्टस्येत्यर्थं: जनस्य यदि भवति उद्यानलता: प्रयत्नसंवर्धिता इत्यर्थं: वनलताभि: यदृच्छारूडाभि: कर्त्रीभि: गुणै: रूपगन्धादिभिर्हेतुभि: दूरीकृता: पराजिता: खलु केचित्तु आश्रमवासिनो जनस्येदं वपु: शुद्धान्तदुर्लभं यदि शुद्धान्तदुर्लभमेव अव्ययानामनेकार्थत्वा दत्र यदिरवधारणार्थ: अत एव " अधिवास्य यदि स्वकैर्यशोभिश्चिरमेनामुपर्भुजते नरेन्द्रा: ' इत्यादय: प्रयोगा: तद्यथा, तनलताभिरुद्यानलता: गुणणैर्दूरीकृता: खलु इति व्याचक्षते नचैत्तदुपपद्यते वनलातानां उद्यानलतातिशायित्वस्य अप्रसिद्धत्वादविवक्षितत्वाच्च अन्यथा हि सर्वत्र निसर्गस्यैव प्रकृष्टत्वेन यत्न एय वृथा स्यात् किंचिदपि शिल्पं शोमेत चोद्यानलतासु निसगंरम्यत्वस्य काचिदिस्ति क्षति: नह्मेता: कृत्रिमा: यत्नस्तु दोषापोहेन गुणमेव प्रगुणयति सहि संस्कारो यद्गुणवति गुणत्न्तराधानं किंच "सर्वंथा

अप्सरस्सम्भवैषा ' इति राज्ञो निगमनचनेन रूपस्यासमान्यत्वं दर्शंयता विरुध्ये "मघुरमासां दर्शन ' मिति सामान्यत: प्रक्रमस्तु शकुन्तलायामेव चक्षु:प्रीत्यादूरे वयोवेषसाम्यामात्रदर्शंनात् अत्र चेदं वपूरितृयेकवचनं अग्रेच वक्ष्यति " इदं किलाव्याजमनोहरं वपुरिति यद्यर्थोक्तौ कल्पनमित्युक्तलक्षणातिशयोक्ति: खल्वियं " धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि ' इतृयादिवत् सिद्धेप्यर्थे यदि प्रयीग: साध्यस्यापि सिद्धकल्पतां व्यंजयति आर्यावृत्तम्

यावत् प्रतिपालयामि प्रतीक्षिप्ये झटिति प्रवेशे तासां विस्त्रब्धभाषणं व्याहन्थेतेति भाव: यथाभूत: उक्त: यथोक्त: सुप्सुपेति समास: उक्तप्रकारइत्यर्थ: व्यापार: सेकरूपो यस्यास्सा हलविलेखन इति धातो: बहुलग्रहणादप्रत्यथे सति हलेतिरूपं "हण्डे हञ्जे हलाह्लाने नीचां नेटीं सखीं प्रति' इत्यमर: त्वत्तोऽपीत्यपिशब्देन शकुन्तलाया अत्यर्थप्रियत्वं व्यज्यते "ध्रुवमपोयेऽपादान' मिति सूत्रं अपायशब्दो वैज्ञानिकं विभागमभिप्रति इदमेव चाभन्धाय"माघुरा: पाटलिपुत्रेभ्या आढ्यतरा: ' इतृयदौ पञ्चमी भाष्ये समर्थिता नवमालिकाकुसुमपेशलेति कुसुमकोमलाया तलासे?कनियोगोपि श्रमायेति भाव: किमुत पादपसेक इत्यर्थपत्तिर्व्यज्यते ममापीति तातस्यापत्यस्नेह इव ममैतेषु सोदर्यस्नेहो येन श्रम इत्यर्थ:   समानोदरे शयित इत्यर्थे "विभाषोदरे ' अति समानशब्दस्य सभावविकल्पात् " सोदराद्य: ' इति सिद्धं सोदर्येति सोद रेति पाठे सह उदरेण वर्तत इति व्युत्पत्त्यातुल्योगार्थेन सहशब्देन समास: "वोपसर्जंनस्य ' इति सहशब्दस्य पक्षे : रूपयति अभिनयति कथमिति विस्मथे सा " दुहितरं शकुन्तलातिथिसत्काराये 'ति वैखानसवचनावगता मुनिपुत्र्था एवंरूपत्वंसम्भावितमिति भाव: असाधुदर्शी सम्यग्ज्ञानरहित:

      इदमिति : अव्याजमनोहरं कृत्रिमभूवणविभ्रादिनिमित्तसन्तरे णाचित्ताकर्षकं "व्याजशाढ्येऽपदेशे ' इति विश्व: "अपदेश: पुमान् लक्ष्ये निमितृतव्याजयोरपि ' इत्यभिधानादत्र निमितृतपर्यायत्वं इदं किल एतादृशमपि वपु: तपस: बहुतरायाससाव्यत्य धर्मस्य क्षमं सहनं सायितुं कर्तु इच्छति : ऋषि: नीलोत्पलपत्रस्य अत्यर्थसुकुमारस्थेत्यर्थ: धारयाप अञ्चलेन समिल्लतां समिद्यष्टिं छेत्तुं लवितुं व्यवस्यति आरभते सुकुमारस्य परुषे कर्मणि नियोजनसम्यग्दर्शंनफलमिति भाव: अत्र शकुन्तलायास्तप:प्रवर्तनस्य नीलोत्पलपत्रधारयासमिच्छेदनस्य सदृशायोर्वाक्यार्थंयो:, इच्छति व्यत्यजीत्यैक्यारोवाद्वाक्यार्थवृत्तिनिदर्शनालङ्कार: ध्रुवमिति सम्भावनायां ऋषिरित्यनेनात्रानभिज्ञत्वं सहजमिति व्यज्यते एवं साभिप्राय विशेषणत्वात् परिकराकङ्कार: विशेष्यसाभिप्रायत्वमते अपं परिकारांकुर: निदर्शनया चास्य संवृष्टि: वंशस्थं वृत्तम् ।।

      विस्त्रब्धं तिरोधानादविदितं अदयं दृढं पिनद्वेन बद्वेन ?पिपूवन्निह्मतेर्बन्धनार्थात् क्तपत्यये, " विष्ट भागुरि' रियादिना अपेरकारलोपे पिनद्धेति रूपं कंचुकव्लकलस्य पश्चाद्गन्थिबन्धाभिपायेण शिथिलयेति सखीप्रार्थनोपदर्शनं अत्र वल्कनग्रन्थिदार्ढ्ये धरत इति घरौ " पवाह्मव् ' पयस: क्षीरस्य धरौ स्तनौ तथो: विस्तारयितृ प्रतिक्षणविजृम्भणनिमित्तं यूनो भाव: यौवनं "हायनान्तयुवादिभ्योऽण् ' उपालभस्वेति उपालंभो द्वेधा निन्दापूर्वं: स्तुतिपूर्वश्च यथा "अविवेकि कुचद्वन्द्वं हन्तु नाम जगत्?त्रयं श्रुतिप्रणयिणोरक्षोरयुक्तं जनमारणं ' इति 9 पूर्वार्धे निन्दापूर्वं उपालम्भ: उत्तरार्धे स्तुतिपूव्रं इति विवेक: प्रकृते स्तुतिपूर्व: नवयौवनेन पयोधरयो प्रतिक्षविजृम्भणात् वल्कलबन्धो दृढीभवतीति स्तुतिपर्यवसनातृ अतश्च अज्ञातयोवना ना मुग्धाभेद इति ष्यज्यते अस्या: शकुन्तलाया: वपुषश्शरीरस्य अस्य वपुष इति तु युक्त: पाठ: महार्हवसनाभरणयोग्यस्येत्यर्थ: अननुरूपं विसदृशं काममित्यर्धाङ्गीकारे यद्यपीत्यर्थ: "'अकामानुमतौ कामं ' इतृयभिधानात्: अकङ्कारश्रियं पुन: अलङ्कारशोभां तु पुष्णातीति पुष्णात्येत्यर्थ: अननुरूपयाप्यलङ्कारशोभावहत्वमलङ्कार्यगुणातिशयादित्याह

      सरसिजमिति सरस्यां जायतइति सरसिजं "सप्तम्यां जनेर्ह:" "ङ्याषोस्संज्ञाच्छन्दसोर्बहुल' मिति पाक्षिको हस्वश्च अथवा सप्तम्यन्तसरश्शब्दादेव जायतेरिदं रूपं "तत्पुरुषे कृति बहुलं 'इत्यलुक्समास: कमलं शैवले जलतील्यापि गर्हायामपि: गर्हासमुच्चयप्रश्रशङ्कासंभावनास्वपि' रितृयमर: अनुहिमांशो: चन्द्गस्य लक्ष्मीं तनोति परभागतया शोभन्तरमादधातीत्यर्थं: केवलमविरोधिनेव गुणोत्तरस्य शोभापरिपोष:

अपि तर्हि विरुद्वेनापीति निदशंयितुं तेजस्तमसोरिव विरुद्धयोर्लक्ष्मचन्द्रयोर्ग्रंहणं अतएव मलिनमपीति विशेषणं निसर्गशोभिनि प्रत्यनीकरूपमपि परमभागाय भवतीति भाव: तथा इयं तन्वी वल्कलेनाप्यधिकमनोज्ञा अत्नोपपादकमर्थानतरं न्यस्यति किमिवेति मधुराणां रम्याणामाकृतीनां किमिव हि मंडनं सर्वंमेव मण्डनमित्यर्थ: आश्रयगुणादगुणमपि गुणवद्भवति योजयितुरेव तु विसदृशयोजनं द्षणमिति भाव: अत्र केचित् प्रश्रार्थमपिमादय शैव लेनानुविद्वं सरसिजमपि रम्यं रम्यमित्यर्थ: लक्ष्महिमांशोर्लक्ष्मीमपि तनोति तनोतीत्यर्थं: इयं तन्वी वल्कलेन अप्यधिकमनोज्ञा मनोज्ञेत्यर्थ: मधुराणामाकृतीनां किं कुत्सितं वस्तु मण्डनं भवतीति व्याचक्षते तत्र पुनरलंकारश्रियं पुष्णातीति प्रकमवैरूप्यं तावत् वर्ण्यंवस्तुनि कश्चिदतिशय: प्रतिपादित: स्यात् प्रश्रार्थस्यापे: प्रतिक्षोपार्थयोजनानौचितृयं प्रथममेवाक्तं अपिशब्दस्य व्युक्रमेणान्वया स्वरसश्च यदपि, सरसिजमपि रस्थं हिमांशोरपि लक्ष्मलक्ष्मीं तनोति गर्हायामपि: न्यून्गुणयोरपि शोभा दृश्यतइत्यर्थ: इयमधिकुगुणा वल्कलेनाप्यधिकमनोज्ञेति किमु वक्तव्यमित्यर्थ शिष्टं स्पष्अमिति तदप्यपास्तप्रायं समान्येन विशेषसमर्थनरूपोऽथन्तिरन्यास: रम्यं, लक्ष्मीं तनोति, अधिकमनोज्ञेति शब्दमेदेनेकस्यैव सामान्यस्य ग्रहणात् प्रविस्तूपालङ्कार: " वाक्ययोरेकसामान्ये प्रतिवस्तूपमामता' इति तल्लक्षणं मालिनी वृत्तम् ।।

      कठिनमिति कटिनं परुस्पर्शमपि मगाक्ष्या: शकुन्तलायास्सम्बन्धिवल्व लं कान्तरूपं मनोज्ञाकारमेव अत: मनसि मच्चित्ते स्वरुपमपि रुचिभङ्गंरसाहानिं नादधाति करीति यथा विवचानि सरसिजानि यस्यां तस्या इति कान्तरूपत्वस्थाने विशेषणं कमलिन्या: स्तोकमीषन्निर्मुक्त: निर्गत: कण्ठ: पाब्लो वृन्तोपस्भिागो यस्य तत् कर्वशं कटिनं वृन्तजालं प्रसवबन्धनस्यावयवसमूहइव तदपि कटनं तथापि कमलिन्या: शोभावहमित्यर्थं:

      त्वरयतीव सेकार्थं क्षिप्रमाह्वयतीवेत्युत्प्रेक्षा सा आह्नानव्रियोपयोगितया पल्लवानामंगुल्यात्मना पिरणामात् परिणामालंकारानुप्राणिता यावत्संभावयामि सेच्नेनानुग्रहीष्यामि मूहूर्तं ?ञ्चित्कालं अल्यान्तसंयोगे द्वितीया लतासनाधइवेति तव लतासदृश्यादित्यर्थ: यावत् प्रतिभाति प्रतिभास्यतीत्यर्थ: प्रियमपीति हितं मनोहारिच दुर्लभं वच' इति न्यायेन प्रियत्वसत्वयोस्सहावस्थान विरोधो1़पिना दर्शित: पुन: प्रियंवदेति पादे केवलप्रिया?यवादिनी भवतीत्यर्थ: ।।

      अधरइति अधर: किसलयस्य पल्लवास्येव रागो यस्य : बाहू कोमलविद्वपानुकारिणौ ललितलताशाखासदृशौ अङ्गेषु अवयवेषु सन्नद्धं सम्बद्धं यौवनमिति यौवनकालिको लावण्यविशेष उपचर्यते कुसुममिव लोभनीयं स्पृहणीयं अत्र किसलयादियपलताधर्मबन्धेन लतासादृश्यप्रतिपादनात् वाक्यार्थोपमा आर्यावृत्तम्

      सह मिलित्वा करोति फलं निष्पादयतीति सहकार: स्वयमात्मनैव वृणीत इति स्वयंवरा " संज्ञायां भृतृवृजिधारिसहितपिक्षम: ' इति खच्र " अरुर्द्विषदजंतस्य मुम् ' इति भुमागम: स्वयंवरा सा वधूष्च स्वयमेव शाखाभिरासादनादिति भाव:' इति मुमागम: स्वयंवरा सा वधूश्च स्वयमेव शाखाभिरासादनादिति भाव: ज्येत्स्त्र अत्या अस्तीति ज्योत्स्री ज्योत्स्त्रादिभ्य उपसैख्यानादण " ब्ढ्ढिनञू ' ?इत्यादिना ङीए "संज्ञापूर्वो विधिरनिसय ' इत्युक्त्या वृद्ध्यभाव: वनज्योत्स्त्री वनस्य प्रकाशिकेत्यर्थं: नामैव नामधेयं "भागरूपनामभ्यो धेय: ' विस्मृताऽसि विस्मृतवत्यसि " गतृयथांकर्मकश्लिषशीङू स्थासवसजनरुडजीर्यतिभ्यश्च' इति सूत्रे चकाराद्व्यवसितप्रतिपन्नादिष्वपि कर्तरि क्त इति वामनोक्त्या विस्मृतेति कर्तरि क्त: जइ इति यद्यातृमानं विस्सरिष्यामि तदानीमेनामपि विस्मृता स्यामिति विपरिणामेनान्वय: " तह जइ ' इति पाठे तथा यदि एनां विस्मृता स्यां चेत् तर्ह्मातृमानमपि विस्मरिष्यामीत्यर्थ: उभयमष्यसम्भवीति भाव: नवं कुसुममेव यौवनं यस्या: सा नवकुसुमा लता नवयौवना वधूरिव प्रथमसङ्गमोचितेत्यर्थ: बद्धपल्लवतया आरब्धकिसलयतया उपभोगे लतासंश्वलेषरूपे क्षमश्श्याक्त: प्रदर्शित: " कुसुमंस्त्रीरजोनेत्ररोगयो: फलपुष्पयो: ' इति, "पल्लव: किसलये बले विटपे विस्तरेऽकक्तरागे शृङ्गारषिङृगयो' रिति चाभिबानातृ अत्र विशेषणसाम्यादप्रस्तुतवधूवरवृतृतान्तप्रतीतेस्समासोक्तिरलङ्कार:

?किं निमित्तं किमर्थंमित्यर्थं "निमित्तपर्यायप्रयोगे सर्वासां प्रायद्रर्नंनं ' इत्युक्त्या प्रथमाप्रयोग: विभावयामि जानामि खल्विति जिज्ञासाव्यञ्जकं "खलुस्याद्वाक्यभूषायां जिज्ञासायां सान्त्वने वीप्सामाननिषेधेषु पूरणे पादवाक्ययो:' इति मेदिनी अपि नामेति सम्भावनायां अपि नाम लभेण किं प्रासिप्तस्संभवेदित्यर्थ: आत्मगत: मनसि स्थित: स्वविषय इति वा स्वमनोरथ एव मदपदेशेन प्रकाश्यत इत्यर्थं: आवर्जयति अधोमुखोकरोति इदं क्रियाच्छलेनाकारगोपनार्थ एष मनोरथ: अनुरूपवराभिलाष: दु:खेन लभ्यत इति दुर्लभ:" ईषहु:सुषु कृच्छ्राकुच्छ्रार्थेषु खल्' अस्यास्तुल्यरूपो वरो सम्भवतीत्यर्थ: समान: वर्ण: ब्राह्मणत्वादिजाति: यस्य तत् सवर्णं "समानस्यच्छन्दस्यमूर्धप्रभृत्युदर्केषु' इत्यत्र समानस्येति योगविभाग त्  

सपक्षसधर्मादिवत्सिद्धि: सदृशार्यस्य सहशब्दस्य वा सदृशी वर्णो यस्येत्यस्वपदविग्रहे " सहस्थ सस्संज्ञाया ' मिति सभाव: सवर्णं भवतीत्यसवर्णं क्षेत्रं पत्नीशरीरयो ' रित्यमर: तत्र सम्भवो जन्म यस्यास्सा: येन परिग्रहयोग्या स्यादिति भाव: कृतं साध्यं नास्तीत्यर्थ: "गम्यमानापि क्रिया कारकविभक्ते: प्रयोजिका' इति गम्यमानसाधनक्रियापेक्षया करणातृवातृसंदेहेनेति तृतीया

      असंशयमिति असंशयं नि:संदेहं यथा तथा क्षतात् त्रायत इति क्षत्न: पृषोदरादित्वासाघु: तस्य कर्तृं:, परिग्रहक्षमा विवाहयोग्या भवति यद्यस्मात् कारणात् आर्थं पापपराङ्मुखं "कर्तव्यमाचरन् काममकर्रांव्यमनाचान् तिष्टति प्रकृताचारे तु आर्य इति स्मृत: ' इति हि वसिष्ट: मे मन: अस्यां शकुन्तलायां अभिलाषि सानुसागं नन्वकृत्यवर्जनादार्यत्वं पुनरार्यकृतस्वात् कर्मंणां कृत्यत्वं अत आह-सतामिति सतां साधूनां सन्देहपदेषु हानोपादानसंशयविषयेषु वस्तुषु अर्थेषु अन्त:करणप्रवृत्तय: मनस:स्वरसगतय: प्रमीयते अनेनेति प्रमाणम् निश्चयसाधनं हि "प्रतृयक्षानुमानशब्दा: प्रमाणम् "'जात्याकृतिव्यक्तय: पदार्थ: ' इतृयादिवत् संख्याविशेषस्याविवक्षणादोत्सर्गिकमेकवचनं अयमातृमत्तुष्टिर्नाम प्रमाणालङ्कार: अस्याचलङ्कारस्यायमेव श्लोक: कुवलयानन्देऽप्युदाहृत: केचिदत्रात्मप्रशंसादोषमसहमाना व्याचक्षते यदार्यमित्यत्रयदा आर्यमिति पदच्छेद: यदा असंशयं क्षत्रपिरग्रहक्षमा शकुन्तला भवति यत्तदोर्नितृयसमृबन्धात्तदेतृयाक्षिप्यते तदानीमेव अस्यामभिलाषि मे मन: आर्य स्यातृ अन्यथा अनार्यंमेव स्यादित्यर्थ: नन्वस्ति मन: प्रवृत्ति: प्रमाणमिति चेदाह---सतामिति सन्देहपदेषु वस्तुष्वन्त: करणप्रवृत्तय: सतां हि प्रमाणम् तु मादृशानामित्यर्थ इति अत्र यदा आर्यमिति क्लिष्ट: पदच्छेद: अथवा कृतं सन्देहेनेति प्रक्रमविरोधश्च नचात्मनैवातृरूपावधारणामात्मस्तुतिर्भवतीति र्किविदिदं वंशस्थं वृत्तम्

      तत्त्वत: कथमियं कण्वदुहितेति परमार्थत: ससम्भ्रमं ससाध्सं सम्भ्रमस्याध्वसे1़पि स्यात् संवेगादरयोरपि' इति हैम: मधुकरोतीति मधुकर: " कृञोहे तुताच्दल्यानुलोभ्येषु' इति ताच्छील्पेट: अभिवर्तते अभिमुखमागच्छति "लक्षणेनाभिप्रती आभिमुख्ये 'इत्यभे: कर्मप्रवचनीयत्वाद्वदनमिति द्वितीया साधु बाधनमित्यादि सासूयमिवेत्यन्तं प्रतिक्षप्तमपि व्याख्यायते नाधनं भ्रमरपीडनमपि साधु मनोज्ञम्

      यत इति षट्रचरण: भ्रमर: यतो यत: अभिवर्तते ततस्तत: तत्र तत्र प्रेरितलोललोचना व्यापारितवच्चलनयना विनर्तितभ्रू: इयमकामापि आरण्यकत्वादजानत्यपि भ्यादेवोपदेष्टु सकाशात् "आयख्यातोपदेशे ' आख्यातोपदेशे' इत्यपादानत्वात् प़ञ्चमी भयाद्धेतोवां दृविभ्रमं शिक्षते परिचिनोति नैसर्गिकी चेष्टैव विलासादप्यतिरिच्यत इति भाव: सासूयमिव भ्रमरे शकुन्तलासङ्गिनि सेर्ष्यमिव अत्र तृवं खलु कृतीत्यनेन स्पृहाया एव व्यञ्जनात् सस्पृहमिति पूर्ववावक्यरथैव सग्बन्धो युज्यते तु सासूयमिवेत्यस्य तत्र समृबन्धो भवेत् ततश्वच ज्ञायते प्रक्षिप्तमेतावदिति वंशस्थंवृत्तम्

      चलापाङ्गमिति हे मधुकर चलापांगां कातरललोचनान्तां अत एव वेपथुमीं सकम्पां दृष्टिं बहुश: अनेकवारं स्पृशसि पराभृशसि रहसि भवं रहस्यं दिगादित्वाद्यत् तदाख्यातुं शीलं अस्येति रहस्याख्यायीव " सुप्यजातौ णिनिस्ताच्छील्ये ' कर्णान्तिकचर: श्रवणसमीपचारी सन् मृदु स्वनसि कर्णविवरान्त:स्वनस्य बहिरप्रसरान्मदुत्वं करौ व्याधून्वत्या: त्वदपनीदनार्थं विक्षिपन्त्यास्सतृया:,रते: सर्वस्वभूतं अधरं पिबसि अधदानं हि स्त्रीणां विर्स्वंभातिशयलक्षणं येन रतिर्महतीं भूमिमारोहतोत्युक्तं रतिसर्वस्वमिति

अतएवोक्तमन्धत्रापि कविना " अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्मते रसोस्य' इति इहापि व्क्ष्यते "मुहुरंगुलिसंवृताधरोष्ट ' मितृयादि " मितृयादि "सीत्कारं शिक्षयति व्रणयतृयधरं तनोति रोमाच्चं नागरिक: किं मिलितो नाहि सखि हैमन: पवन: " 'सन्द्रष्टाधरपल्लवा सचकितं हस्ताग्रमाधून्वती मा मा मुञ्च शठेति कोपवचनैरानतिंतभ्रलता सीत्काराञ्चितलोचना सपुलकं यैश्चुंबिता मानिनी प्राप्तं तैरमृतं श्रमाय मथितो मूढैस्सुरै: सागर:' इत्यादितो नागरिकरतेरधरपानप्राणत्वं स्फुटं वयं तत्त्वान्वैषात् क्षत्रपरिग्रहयोग्यकुलविशेषादिपरमार्थान्वेषणाद्धेतो: हता: नष्टस्वार्था अभूमा त्वं खलु अविख्चार्थं स्वैरप्रवृत्तस्त्वमेव कृती धन्य: कृत्याकृत्यविचार: कार्यंहानये वरमविमृश्यकारित्वमिति भाव: अत्र दृष्टिं स्पृशसीत्यनेन मधुकरस्य कुवलयभ्रम: चलापाङ्गामिति विशेषणेन कर्णान्त विश्चान्ततया कर्णावतंसताबुद्धिश्च भ्रमदार्ढ्यहेतु: प्रतीयते येन तत्नैव स्वननं अधरं पिबसीतृयेन अरविन्दजपाकुसुमादिभ्रमो1़भिव्यज्यते इति वस्तुना भ्रान्तिभदलं ?कारध्वनि: सात्त्विकवेपथुमतीं दृष्टिं पश्चादुपेत्याच्छादयितुं स्पृशति तथा " अप्यवस्तुनि कथाप्रवृत्तये प्रश्रतत्परमनङ्गशासनं वीक्षितेन परिगृह्म पार्वतीमूर्धकम्पयमुत्तरं ददौ ' इत्युक्तरीत्या रहस्यमविवक्षितमपि व्याजीकृतृय कपोलमूलस्पर्शलोभाद्यत्किंचिदेव कर्णान्तिके रणति ससीत्कारव्याधूतहस्तायाश्चाधरमपि रतिसर्वस्वभूतमन्त: पिबति तथा त्वमपि सर्वमेव नागरिककामिभोगं भुक्तवानसि केवले शास्त्रविचारपरतन्त्रतया वयंविप्रलब्धा: स्म इति अत्र भ्रमरस्वनस्य रहस्याख्यानत्वेनाध्यवसानात् उत्प्रेक्षा प्रस्तुतभ्रमरवृत्तान्तेन विशेषाणसामान्यादप्रस्तुतकामिचरितप्रतीतेश्च समासोक्ति: तत्त्वान्वेषस्य गुणस्य दोषत्वकल्पनाल्लेशाल्लेशालङ्कारश्च "लेशास्तु दोषगुणयोर्गुणदोषतृवकल्पनमि'ति हि तल्लक्षणम् ते चात्न संसृज्यन्ते तदुपस्कृतया भ्रमरस्वभावोक्या परिपुष्यमाणो रसोऽङ्गी ध्वन्यते ध्वनिकृद्भि: "रसबन्धेष्वतृयादृतमना: कविर्यमलङ्कारं तदङ्गतया विवक्षति ' इत्यारभ्य हममेव श्लोकमुदाहत्य " अत्र हि भ्रमरस्वभावोक्तिरलङ्कारो रसानुगुण' हत्युपन्यस्तं अयं श्लोक: भट्टाभिनवगुप्तपादैर्व्याख्यात: यथा " हे मधुकर वयमेव विधाभिलाषचाटुप्रवणा अपि तत्त्वान्वेषाद्वस्तुवृत्तेऽन्विष्यमाणे हता: आयासमात्रपात्रीभूता जाता: त्वं खल्विति निपातेनायत्नसिद्धं तवैव चरितार्थंत्वमिति शकुन्तलां प्रत्यभिलाषिणो दुष्यन्तस्येयमुक्ति: तथाहि कथमेतदीयकटाक्षगोचरा भूयास्म, कथमेषास्मदभिप्रायव्यञ्जकं रहोवचनमाकर्ण्यात् कथं नु इठादनिच्छन्तृया अपि परिचुम्बनं विधेयास्मेति यदस्सामकं मनोराजृयपदवीमधिशेते तत्तवायत्नसिद्धं भ्रमरोहि नीलोत्पलधिया तदाशङ्काकातरां दृष्टिं पुन: पुन: स्पृशति श्रवणावकाशपर्यन्तत्वाच्च नेत्नयोरुत्पलशङ्कानपगमात्तत्रैव ध्वन्यमान आस्ते सहजसौकुमार्यत्रासकातराथाश्च रतिनिधानभूतं विकसितारिवन्कुवलयामोदमधुरमधरं विबति' इति चलापाङ्गं दृष्टा इति पाठे चलापाङ्गं यथा तथा दृष्ट:सन् वेपथुमतीं शकुन्तलां स्पृशसीति व्याख्येयम् शिखरिणी वृत्तम् ।।

      सस्मितं किथं हस्तापनोद्याद्भमरात् परित्राणान्वेषणमिति नर्मगर्ममित्यर्थ: के केचिदपीति प्रतिषेधे किंशब्द: उभे मिलितृवापि परित्रातुमसमर्थे इत्यर्थ: दुष्यन्तं राजानं आक्रन्द आहृवय क्रदि आहृनाने रोदने चे ति धातु: अत्र हि सेनाशस्त्रादिमता राज्ञा भवितव्यमिति भाव: तपोवनानि राजरक्षितानि नामेति प्रसिद्धौ आत्मानं दर्शयितुयम्रतो भाव: तपोवनानि राजरक्षितानि नामेति प्रसिद्धौ आत्मानं दर्शयितुमग्रतो भवितुमित्यर्थ: : इति त्बरातिशयात् द्विर्वचनम् विचार्य विचिन्तृय विरमतीति " व्याङ्परिभ्यो रम ' इति परमस्मैपदं अपदान्तर इति विद्यते पदस्यान्यस्य अन्तरमवकाशो यस्मिन् तस्मिन् पूर्वपदन्यासाव्यहितपदन्यास इत्यर्थ: "संक्तके त्वव्यहितमपादान्तरमित्यिप' इत्यमर: पदान्तर इति  पाठे अन्यस्मिन् पदनन्यासे इत्यर्थ सदृष्टिक्षेपं भ्रमरमार्गे दृष्टिं प्रसायं पदन्यासमात्रेण मधुकरनिवृत्तिसंभावंन र्मापध्यात्

      इति दुष्टं विनीता: शिक्षिता: दुर्विनीतास्तेषां अपथवृतानां शासतरि शमयितरि पोरवे दुष्यन्ते वसुमतीं शासति रक्षतिसति, कोऽयं सुग्धासु बालिकासु तपस्वि कन्यासु प्रशानस्वि यर्थ: अविनयं बलादास्कन्दनरूपं दुराचरितं आचरति तपस्विकन्याखित्यनेने "तपष्षङ्भागामक्षय्यं ददातृयारण्यको जन: '

इति वक्ष्यमाणं सविशेषपालनीयत्वं व्यजृयते अख पौरव इति परोक्षनिर्देशनं राजभावगोपनार्थं आर्यावृत्तम् :

      सम्भ्रान्ता: महापुरुषदर्शनादनिभृता: सौम्यदर्शनत्वात्किचिदिवेति अत्याहिर्त महती भीति: "अतृयाहितं महामभीति: कर्म जीवानपेक्षिच' इतृयमर:इयमिति शकुन्तलानिर्देष: दर्शयति अंगुल्या निर्दिशति अपीति प्रक्षे तपोधनत्वात्तपसि कुशलानुयोग: साध्वसेन त्रासापरनाम्रा व्यभिवारिभावेन "गर्जितादेर्मन: क्षोभस्त्रास' इति दशरूपके: अवनतं मुखं यत्यास्सा प्रथमदर्शन एव चक्षु:प्रीत्युदयो र्गम्यते साध्वसादवचनेति पाठान्तरं अतिथिविशेषस्य विशिष्टातिथे: लाभेने तपो वर्धत इति प्रश्रस्थेन सम्बन्ध: अतिथिविशेषस्य विशिष्टातिथे: लाभेन तपो वर्धत इति प्रश्रस्थेन सम्बन्ध: अतिथीनामाराधनं प्रथमं तप: तच्चेदृशप्रकृष्टातिथिलाभेनाभिवृद्धमित्यर्थ: राजभावापरिच्चानादार्थंव्यपदेश: शोभनमागतं आगमनं स्वागतं अर्घायेदमर्ध्यं ' पादावर्घाभ्यां चेति यत् ' इदं तावत् सेचनकलशस्थं तु अर्ध्याययोग्यमित्यर्थ: गुरुनियोगात् प्राधिान्याच्च शकुन्तलानियोजनं सुष्टु नृत्यन्त्यनयेति सूनूता " हलश्च ' इति घञ्र संज्ञापूर्वस्य विधेरनित्यत्वादगुण: "अन्येषामपि दृश्यत ' इति दीर्धश्च तया सत्यप्रियया ' वाक् चतुर्थी सूनृता ' अन्येषामपि दृश्यत' इति दीर्घश्च तया सत्यप्रियया " वाक् चतुर्थीं सूनृता' इति मनु: अतिथय इदं आतिथ्यं "अतिथेर्व्य:" 'क्रमादातिथ्यातिथेये अतिथ्यर्थेत्र साधुनि' इत्यमर: प्रभूता छाया यस्यां तस्यां अत एव शीतलायां  " सञ्जकुव्जादिवत् समास: सप्तपर्णस्य वेदिकायां अधस्तन्निर्मितभूर्मा परिश्रमस्य विनोदनमयनं यूयमपि केवलमहमित्यर्थ: अनेन वृक्षसे चनरूपेण परिश्रान्ता अत उपविशतेत्यर्श: पर्युपासनं सेवनं तपोवनविरोधिनो विकारस्य मन्मथविकारस्य गमनीया प्राप्या अत्र दर्शनमात्रेण निर्विकारस्यापि विकारोदयाद्राज्ञो रम्यताविशेषो व्यज्यते सुहृदां भावस्सौहार्दं " हृद्भगसिन्ध्वन्ते पूर्वपदस्य ' इत्युभयपदवृद्धि: समाभ्यां परस्परसदृशाभ्यां वयोरूपाभ्यां रमणीयं वयोरूपग्रहणादनुरागो व्यज्यते रूपसाम्यं चात्रावयवन्यूनातिरेकाभावरूपं सामान्याकाररामणीयकं तेन शकुन्तलाया विलक्षणसौन्दर्यत्वाविरोध: जनान्तिकमिति "त्रिपताकाकरेणान्यानपवर्यान्तरा कथां अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम्'

इति दशरूपके जनानामन्ते समीपे भवमिति व्युत्पत्ति: चतुरा गंभीरा आकृतिराकार: अभिप्राय इत्यर्थ: यस्य :, अवसरोचितवेदित्वाच्चतुरत्वं, गूढाकारतया र्गाभीर्यं मधुरं सुशब्दतया श्रोलहृद्यं, प्रियं रुचिरार्थतया चिताकर्षकं श्चालपन् भाषमाण: प्रभवन् प्रभुरिव राजेवेत्यर्थ: अन्यरयैवं गांभीर्यं माधुर्यंच नोपपद्यत हतिभाव:, कौतूहलं जिज्ञासा मधुरालापेन सरसवचने जनित: विश्वास: विस्त्रम्भ: मां मन्त्रयते आलापयति चुरादेर्हेतुमण्णिच् अन्यथाऽस्मादृदशजनस्य वागवसरो भवतीत्यर्थ: कतम: कहूनां मध्ये :, "वा बहूनां जातिपरिप्रश्र' इति डतमच् " जातिरिप्रश्र' इति नप्रत्याख्यातमाकरे अलं कृत इति---कुलालङ्करणं विदितोसीति भाव: विरेहेण प्रोपितस्य तव वियोगेन पर्युत्सुका: दर्शनोतृकण्ठिता: जना: यस्मिन् : कृत इति " तमाहितौत्सुक्यमदर्शनेन प्रजा: प्रजा: प्रजार्थव्रतकर्शिताङ्गं नेस्त्रै: पपुस्तृप्तिमनान्नुवद्भिर्नवोदयं नाथमिवौपधीनां' इति न्यायेन सकृतृपश्यतामपि चित्तहरस्य चिरविरहे पादोपजीविनां किमुतेति भाव: किं निमित्तं वेति वाकारश्चार्थे आत्मा शरीरं तपोवनपरिश्चमस्य फलूलाशनपादचारादे: पात्रतां विषयतां नीत: प्रापित: एवमन्वयो देशस्तपोवनप्रवेशप्रयोजनं चेति त्नितयं पृष्टं मा उत्ताम्येति नञर्थे मेत्यव्यं,नतु माङ् अतो लुङ् चिन्तितं जिज्ञासितं मन्त्रयते पृच्छति इदानीं प्रश्रानन्तरं कथमित्यादि - आत्मनिवेदने सभ्भ्रमाद्विस्त्रब्धालापविच्छदे: - आन्यथा करणे चात्मापहारो दोष इत्यर्थ: धर्माधिकारे वर्णाश्रमधर्मप्रत्यवेक्षणध्यापारो नियुक्त: नियमित: राजपुरुषत्वप्रतीत्या विस्त्रम्भविच्छेद: पौरवेण राजा स्वपित्राधर्माधिकारे नियुक्ते: अभिषिक्त इति वस्तुवृत्त्यानात्मा बोर्ध्यं पुरुवंश: उक्त: देशोपि तत एवोक्तकल्प:, तृतीयमुत्तरयति सोहमिति अविघ्रानां कियाणां यज्ञादिकर्मणामुपलम्भाय साक्षात्करणार्थं धर्मस्यारण्यमिति तादर्थ्यंषष्ठीसमास: तपोवनमित्यर्थ: इदानीं आगो त्वयि, धम्रचरिण इति - स्वरक्षणे परतन्त्रा इति भाव: सनाथा इति अन्यथा प्रतिकर्तुमनीश्वरा: प्रत्यूहप्रतिहता अनाथा: स्युरिति भाव: शृङ्गारलजृजां रतित्वमारूढत्यानुरागस्य सम्बन्धिनीं व्याभिचारिभावरूपां लज्जां अभिनयति मुखनमनक्षितिलेक्षलनादिभिर्दर्शयति आकारं इङ्गितं आकाराविङ्गिताकृती ' इत्यमर: तत:

तातसन्निधनिं किं भवेत् किमपराद्धं मया यत्तातो मृष्येदिति भाव: अतिथिविशेषं विशिष्टमतिथिं जीवितसर्वस्वेन स्वजीवनार्थेन सर्वेणापि द्रव्येण कृत: अर्थ: आतिथ्यरूरूपं प्रयोजनं यस्य तं करिष्यति, विशिष्टातिथिदर्शने जीवितमपि नगणयन्ति शिष्टा इति भाव: जीवितभूतेन सर्वस्वेन तृवयैव दत्तया कृतार्थे करिष्यतो व्यज्यते तदिदभमिसन्धायाह--किमपीति वयमपीति यथा यूयमस्समि,षयं पृष्टवत्यस्तथे त्यपि शञदार्थ: सखीगतं प्राप्तं सखीविषयमिति यावत् अभ्यर्थना प्रश्र: अनुग्रह: खलु अत: प्रश्टव्यमित्यर्थ: अथ वा अभ्यर्थ्यत इत्यभ्यथंना कुशलप्रश्राद्यनुग्रह: प्रार्थनीय: खत्वित्यर्थ: राज्ञ: शकुन्तलाविषया प्रार्थनानुग्रहरूपेत्यपि प्रतीयते भगवान् असंकुचितज्ञान: "" उत्पत्तिं प्रलयच्चैव भूतानामागिं गतिं वेत्ति विद्यामविद्याच्च वाच्यो भगवानिति '' इत्युक्तलक्षण: शाश्वते नित्ये ब्रह्मणि ब्रह्मचर्ये ब्रह्मशब्द उपचाराद्वेदग्रहणार्थे व्रते ब्रह्मचर्यरूपे वर्तते प्रकाश: प्रसिद्ध: तदात्मजाकाश्यपतनयेत्येतत् कथं कृतं गोत्रप्रयुक्तं नामधेयं यस्य : कुशगोत्रज इत्यर्थ: महान् प्रभाव: स्वर्गान्तरसर्गादिरूपो यस्यस: अस्ति श्रूयते "प्रकाशं रूयते ' " असदीप्ता ' विति भौवादिवात् क्तिचि अस्तीति तिडन्त्प्रतिरूपकमर्व्य " अस्याह कालसामान्ये तिङन्तप्रतिरूपकौ ' इति त्रिकाण्डशेष: प्रभवतृयस्मादिति प्रभवस्तं पितरमित्यर्थ: तेन कौशिकेन उज्झितायास्त्यक्तायास्सत्या: कौतूहलं जिज्ञासा अपत्यत्यागकारणं जिज्ञास्यत इत्यर्थं: काश्यपसंवर्धनोक्त्या मातापितृभ्यामुभाभ्यामप्युज्ज्ञितत्वं व्यज्यते तत्र बलवता हेतुना भाव्यमिति भाव: किलेत्यैतिह्मे किमपि कुतो वा हेता: जातशङ्कैरुत्पननभयै: किमपीत्यनेन तस्य देवपदानिच्छया शङ्कानिमित्ताभावस्मूचित: अप्सरा ?इति "स्त्रियां बहुष्वप्सरस ' इत्यमर: प्रायोवादेन " अनचि चे' ति सूत्नेअप्सरा' इति भाष्यप्रयोगात् अत एव " स्त्रियां बहुष्वप्सरा अपि ' इति शब्दार्णव: अन्यसमाधिमीरुतृवमिति अन्तरेणापि निमितृतमिति भाव: वसन्तावतारसमये वसन्तप्रादुभविकाले उन्मादियितृ चितृतविभ्रमकरं अवबम्यते अनुकृतमपि ज्ञायत एव मेनकासङ्ग, अपत्यजन्म, तपोव्ययनिर्विण्णेन पित्रा, शापभीतया मात्रापरित्यगा:, आनृशंस्याच्च काश्यपेन संवर्धनमित्येतावदम्यूह्मत इत्यर्थ: सवथानियतं अप्सरास्संभवो यस्यास्सा राजषिंसम्भवत्वात्परिग्रहार्हत्वं हृदयस्थितं

      मानुषीष्विति कथं वा मानुषषु अस्य लोकोत्तरस्येत्यर्थ: रूपस्य "अविध्यारोप्यविक्षेप्यबन्धनीयैरभूषितं यद्भूषितवदाभाति तद्रूपमिति कथ्यते ' इत्युकृतलक्षणस्य सभवस्समम्भावना स्यात् अमानुषं रूपं मानुषीषु सम्भवतीति भाव: प्रभया तरलं ज्योतिवैद्युतं तेज: वसुधातलान्नोदेति " जातेरस्त्रीविषयादयोपधा' दिति ङीषि " योपधप्रतिषेधे हयगवयमनुष्यमतस्यानामप्रतिषेध' इति वाच्याच्च मनुष्यशब्दग्रहणे " हलस्तद्धितस्ये'ति यकारलोये मानुषी शब्दसिद्धि: ।। वसन्ततिलकम् वृत्तम् 

      मनोरथ: शकुन्तलाभिलाष: लब्धावकाश: प्राप्तावसर: क्षत्रपरिग्रहयोग्यत्वादिति भाव: परिहासेनोदाहृतामुक्तां " जह पणजोसिणी अत्तणो अनुरूपेण पाअवेणसंगदा एव्वंणम अहंवि अत्तणो अनुरूवं लहेअहंति ' इत्युक्तरूपामित्यर्ध: द्वेधमित्यव्ययं द्विधेत्यर्थे " द्विव्योश्च धमुञू' द्वैधमेव द्वैधं " धमु अन्तात्स्वार्थे डदर्शन ' मिति इप्रत्यये नपुंसको द्वैधशब्द: ततश्चाद्वैधस्य द्वैधस्यभावो द्वैधीभाव: संशय: धृतद्वैधीभावं कातरमलाभीतं चेत्यर्थ: श्रुत्वा स्थितस्येति शेष: तेन समानकर्तृकत्वविरोध: वरप्रार्थनामात्रस्य मनोरथानुकृलत्वेति पररिहासीक्त्या विसंवादश्शंक्य इति भाव: सस्मितमिति शकुन्तलाभावज्ञानादिति भाव: तर्जयतीति - स्वविषयप्रस्तावकोपादिति भाव: शृङ्गारचेष्टप्युक्ता भवति सच्चरित्रश्रवणलोभादिति अनुरागाकारगोपनार्थं अलं विचार्यं चिन्तयितव्यमित्यर्थ: "अल खल्वो: प्रतिषेधयो: प्राचांक्का" "समासेऽनञ् पूर्वे क्त्वो ल्यप् ' अविद्यमाना नियन्त्नणा प्रतिबन्धो यस्य तथाविधोऽनुयोगो यस्य :, तपस्विनं गोपनीयाभावात् प्रष्टुं विचारणीयमित्यर्थ:

      वैखानसामिति अनया शकुन्तलया वैखानसं व्रतं वानप्रस्थधर्म: फलमूलाशनतपश्चरणादि: किमाप्रदानादिववाहान्निषेवितव्यं आहो अथ वा अत्यन्तं यावज्जीवमेव मदिरासदृशीनीक्षणानीति बिंबाधरादिवन्मध्यमपदलोपी समास:, मदावहानीत्यर्थ: तैरेव हेतुभिर्वल्लभाभि: स्त्रिग्धभि: हरिणाङ्गनाभिस्समं निवतस्यति वैखानसव्रतस्य किं प्रदानमवधिरुच जीवितेवेत्यर्थ: किं मुनियुत्नायैव

दातव्येति नियम: उत यथासंभवमिति विकल्पाभिप्राय: द्वैधीभावविवरणमेतत् अन्ये तु अतृयन्तमेवेत्यनन्तरं निषेवितव्यमित्यनुषज्यते तेन परिणयतदभावयोर्विकल्प: आहो मदिरेक्षणवल्लभ इयं आभिर्हरिणाङ्गनामिस्समं निवत्स्यति आरण्यकपरिगहीता भविष्यतीत्यर्थ: किं प्रदास्यते, उत , प्रदीयमानापि किमारण्यकायैव तापसाय प्रदास्यत उतान्यस्मा इति विकल्पान् कल्पयन्ति अत्यन्तमातृमसदृशेक्षणवल्भाभिरिति पाठान्तरम् वसन्ततिलकं वृत्तम्

      अय अन: वयं धर्माचरणे विहितानुष्ठानेपि किं पुन: कामाचरिष्विति भाव: परवशा: पितृपरतन्त्र: गुरो: पुन: तातस्य तु, अस्याश्शकुन्तलाया अनुरूपवरप्रदाने अमानुषरूपतृवाद्विशिष्टवरार्पणे सङ्कल्प: न्श्चिय: इयं प्रार्थना शकुन्तलाविषयिण्याशंसा दु:खेनावप्यत इति दुरवापा दुर्लंभा नभवति अनुरूप ग्रहणादस्माकं सुलभेति भाव: दुरवापेति पाठे एवंरूपो वरो लभ्येतेति भाव:

      भवेति हृदये संप्रति साभिलाषं भव सन्दिह्मत इति सन्देहस्सन्दिह्ममानविषय: शकुन्तलाविवाहरूपस्तस्य निर्णयो निश्चयो जात: अप्सरस्सम्भवत्वात् प्रदेयत्वाच्चेति भाव: यद्वस्तु अग्रिमाशङ्कसे रूपासाम्याद्भम्यासि तदि?दं वस्तु स्पर्शक्षममादकत्वात् स्पर्शयोग्यं रत्नं केवलं नाग्रि: प्रत्युतधार्यं भूषणमपीत्यर्थ: ललितालङ्कार: "ललितं वर्ण्यवाक्यार्थप्रतिबिम्बस्य वर्णन "मिति लक्षणातृ आर्या वृत्तम्

      सरीषमिव कृतमककोपमभिनीयेत्यर्थ: असमृबद्धप्रलापिनीं अयुक्तवादिनीं अकृतसत्कारं अर्ध्यादिभिरसत्कृतं स्वच्छन्दतो गन्तु स्वेच्छया गमनं " सर्वे चाव्यकृतो भावार्थ' इति भावार्थे तुमुन्, गमनमिति पाठान्तरं अयुक्तं अयं ह्माश्रमिणां धर्म: यदतिथिपुर्युपासनमित्यर्थ: ग्रहीतुं गच्छन्ती हस्तावबल्म्बेन निवारयितुमिच्छन् तु तथा कुर्वन्नित्यर्थ: आत्मानं मन: निगृह्म नियम्य विवेकेन निवर्त्येति याव् कामिजनस्य वित्तवृत्ति: मन:प्रवृत्ति: चेष्टाप्रतिरूपिका क्रियासदृशी विषयेणैकीभूते मनसि शरीरेणाकृतमपि ककृतवदृभातीत्यर्थ:

      अनुयास्यन्निति मुनितनयां शकुन्तलामनुयास्यन् अनुयमिष्यन्नेव सहसा तत्क्षणं विनयेन विदेचनेन वारितप्रसर: निषिद्धग्रवृत्ति: अत एव स्थानादासनादनुच्चलन्ननुत्तिष्टन्नपि का कथा गतप्रत्यागतयोरिति भाव: गत्वातामनुगम्य पुन: प्रतिनिवृत्त इव मन: प्रवृत्तिर्गतिरिव निवृत्तिश्च प्रत्यावृत्तिरिव प्रतिभातीत्यर्थ: शरीरवृत्तेश्चित्तवृत्तिपरतन्त्रत्वादिति भाव: आर्यावृत्तम्

      द्वे वृक्षसेचने वृक्षद्वयसेच्नमित्यर्थं: मे मह्मं धारयसि ऋणं वहसि ""धारेरुत्तमर्ण'' इति संप्रदानत्वान्म इति चतुर्थी शकुन्तलाभागं वृक्षद्वयं स्त्रेहात्तस्या: क्लेशं वारयितुं स्वयं सखी सिक्तवती पूर्वमिति व्यक्तं भवति।

मोचयितृवाऋणादपकृष्य लक्षये चिह्नैर्जानामि ।।

      स्त्रस्तेति अस्या: बाहू घटोत्क्षेपणात् सेचनकलशोद्वहनाद्धेतो: स्त्रस्त्रांसौ श्चमशिथिलस्कन्धौ अतिमात्रलोहिततलौ प्रमाणाधिकअतिमात्रदीर्घइत्यर्थ: श्वास: अद्यापि चिरत्यक्तेऽपि सेचनकर्मणि स्तनयोर्वेवथुं कंपं जनयति, यथा स्तनवेपथुर्नं विरमति तथा प्रवर्ततइत्यर्थ: कर्णशिरीषं अवतंसभूतं रुणद्ध्यावृणोतीति कर्णशिरीषरीधिकर्णावर्तसव्यापीत्यर्थ: कर्णशिरीषेण रोधवत्प्रतिबद्धमिति वा घर्मांभसां जालकं कोरकाकरा बिन्दव: वदने बद्धं रचितमिवेत्यर्थ: बन्धे स्त्रंसिनि व्यायामश्लथे सति मूर्धजा: एकेन हस्तेन यमिता: बद्धा: हस्तान्तरस्य कलशव्यावृतत्वादिति भाव: अत एव पर्याकुला: विषमनिवेशा: पर्याकुलतृवादेकहस्तयामितत्वमवसीयत इत्यर्थं: सेकश्रमोपि शी?भां नातिक्रामतीति विशेषणैर्व्यजृयते इदमात्ररहस्यं घटा योषित् "" घटा घटनगोष्ठीभघटनासु योषिति '' इति मेदिनी तस्या उतृक्षेपणादिति पुरुषायितं व्यज्यते तत्र भूतले भुजावष्टंभेन योषित: स्त्रस्तांसत्वं, करतलयोरतिमात्नलोहितत्वं, अधोमुखतया श्वासातिरेक: स्तनचांचल्यं, स्वेदोद्गम:, केशविस्त्रंसनं, हस्तान्तरस्यावलंबनार्थातृवादेक्हस्तेन केशपाशबन्धश्च संभवतीति शार्दूलविक्रीडितं वृत्तम्

      अनृणां करोमि प्रतिनिधिद्रव्यदानादित्यादि: बंगुलौ भवमंगुलीयं ""जिह्नामूलांगुलेश्छ:' अंगुलीयमेवांगुलीयकं नाममुद्राया: राजनामन्यासस्याक्षराणि अवलोकयत: प्रभवन्निव दृश्यत इति

चिन्तितमवितथमित्यभिप्रायेणेति भाव: अलमन्यथा संभाव्य मदीयत्वेनांगुलीयकं संभावनीयमित्यर्थ: किं तर्हिराज्ञ: परिग्रह: स्वं ?हं तु राजपुरुष इत्युक्तमिति भाव: परमार्थत्स्तु राजकीयत्वोपन्यासेन राजत्वमातृमनो दर्शितं भवति राजपरिग्रहोयमिति शकुन्तलाया: स्वपरिणेयतृवमपि सूचयति विधेयप्राघान्यादयमिति पुंलिंगनिर्देश: आर्यस्यांगुनीवियोगं नार्हंतीति वचनेन राजभावो विहित इति व्यञ्जितं वचनेनैवेति खल्वप्रमाणं महद्वचनमिति भाव: अनुक?म्पिना दयाशीलेन अथवा महाराजेनेत्याकारज्ञातां प्रकाशयितुं तस्मै संप्रति ऋणं धारयसीत्यपि विवक्षितं आत्मनश्शरीस्य यदि प्रभविष्यामि नियन्त्री भविष्यामि अन्तोमुखे मनसि शक्यं स्वेच्छया स्पन्दितुमपीत्यर्थ: विसर्जयितव्यस्य गच्छेति विसर्जंनस्य रोद्धव्यस्य " देजुत्तं गंदु ' मिति निरोधस्य " कृत्यल्युटो बहुल ' मिति बहुलग्रहणाद्भावे तव्यप्रत्यय: यथा व्यमस्यां शकुन्तलायां विषये स्म इति विपरिणमनीयं तथा इतृयमस्मान् प्रति अस्मद्विषये "" लक्षणेनाभिप्रती आभिमुख्य '' इति कर्मप्रवचनीयतृवाद्द्वितीया किं नुखलु लब्ध: अवकाश: अङृगीकरणरूपं स्थानं यस्यास्सा

      वाचमिति सा शकुन्तलाया यद्यपि मद्वचोभिस्सह स्वां वाचं मिश्रयति सङ्मयति तथापि मयि भाषमाणे सल्लपति सत्यभिमुखं श्रवणाभिलाषेणेत्यर्थ: कर्णं ददाति अवधत्ते मदाननसंमुखी कामं यद्यपि तिष्ठति तथाप्यस्या दृष्टिर्भूंयिष्टमत्यर्थं अन्यविषया तु नैव भवति श्रवणादर्शनयोर्मत्परत्वेन प्रार्थंनावकाशो भवेत्येवत्यर्थं: वसन्ततिलकं वृत्तम्

      भो भो इत्यादि कस्यचिदारण्यकस्य वाक्यं तपोवनसत्त्वानां हरिणादीनां रक्षणार्थं सन्निहिता: आश्रमस्थिता: मृग्यन्ते अन्विष्यन्ते मृगादयोऽत्रेति मृगया " परिचर्यापरिसयरिसर्यामृगयाटाट्यानामुपसङ्ख्यानं' तदर्थं विहर्तु सञ्चरितुं शीलमस्येति तथोक्त:

      तुरगेति। तथा हि राज्ञि प्रत्यासन्ने सति हीत्यर्थ: तुरगाणां सेनाश्वानां खुरै हत: क्षुण्ण: ?परिणतसय अस्तोन्मुखस्य अरुणस्य सूर्यस्थेव प्रकाशो यस्य : अथवा प्रौढसन्ध्यारोगसवण्र: " अरुणो1़व्याक्तरागेऽर्के सन्ध्यारागेऽर्कसारथौ' इति मेदिनी रेणु विटपविषक्तानि वृक्षशाखालग्रानि जलार्द्रवल्कलानि विशोषणाया निक्षिप्तानि येषां तेषयां तेषु आश्रमर्द्रुमेषु शलभसमूह: खद्योतसंघ इव ?तति पुष्पिताग्रा वृत्तम्

      तीव्रेति तीव्राघातेन गाढप्रहारेण प्रहिते भग्रे तरुस्कन्धे वृक्षशाखायां लग्र: वेधादन्त: प्रविष्अ: एको दन्तो यस्य : दन्तस्यूतशाखाकर्षीत्यर्थ: पादाकृष्टानां उन्मार्गगामितया पादवेष्टनादुन्मूल्याहृतानां व्रततिवलयानां लतीमण्डलानामासङ्गेन सञ्जातपाश: उदितश्वृङ्खलाबन्ध: भिन्नानि ध्वंसितानि सारङ्गाणां मूगाणां यूथानि येन : अथवा त्यक्तराजयूथ: " सारङ्ग पुंसि हरिणे चातके मतङ्गते ' इति मेदिनो स्यन्दनालोकेन रथदर्शनेन भीत: गज: वन्य: नस्तपसो मूर्त: मूर्तिमान्. विघ्र इव धर्मारण्यं तपोवनं व्रजति गच्छति पूर्वंश्लोकार्थसमुच्चयार्थश्चकार: के चित्तु तीव्राघातप्रतिहततरुरिति पदच्छेदमिच्छन्ति स्कन्धे निजांसदेशे लग्रैकदन्त: परिवृत्य दर्शनादिति व्याचक्षते परिवृत्यदर्शगे गजानां स्कन्धदेशे दन्तसक्रन्तिर्न भवतृयेव नहि वृषमहिषादि शृङ्गवङ्गजदन्त उपरि स्थित: स्वभावोक्तिरलङ्कार: सा मूर्तो विघ्रस्तपस ?वेत्प्रेक्षया संमृज्यते मन्दाक्रान्ता वृत्तम्

      किंचिदिवे?ि रक्षितुस्सन्निहितत्वद्धैयाच्च नातिभीता इति भाव: उपरुन्धन्ति पीडयन्ति पर्याकुला: भीता: उटजगमनाय उटजं गन्तुं " तुमर्थाच्च भाववचना'दिति चतुर्थी असंपादितसत्कारं अकृतातिथ्यिं लज्जामहे, सत्कारार्थं पुनर्दर्शनमिच्छाम इतृयभिधातुं शकुम इत्यर्थ: सव्याजं दर्भांकुरक्षतादिव्याजमुत्पाद्येत्यर्थ क्कचित् "शकुन्तला अणसूए अहिणवकुससूइपरिक्खदं मे चळणं कुरवअसाहापरिळरगं वक्कळं दाव पडिवाळेहि जावणं मिएमि ' इत्यधिक पाठो दृश्यते विलम्बहेतुद्वयमुपन्यस्य मोएमीत्येकस्य परिहारोक्तिरोक्तिविरोधात्सख्या चाप्रतिवचनादं प्रक्षिप्त: मन्दमौत्सुक्यं यस्य : मन्दोत्सुकोऽस्मीति पाठे मन्दमुत्सुकत्वं यस्य इति व्याख्येयं उक्तार्थानामप्रयोगात् त्वप्रत्ययस्याप्रयोग:

      गच्छतीति शरीरं पुर: सैनिकस्थानाभिमुखंगच्दति चेत: असंस्तुत शरीरेणापरिचितं असङ्गतं

सदित्यर्थ: पश्चात् शकुन्तलादिशि धावति वेगेन प्रवर्तते तद्यथा प्रतिवातं वायो: प्रतिमुखं नीयमानस्य केतोर्ध्वंजस्य सम्बन्धि चीनांशुकं सूक्ष्मं वस्त्रमिव ध्वजदण्डमात्नं वायो: प्रतिमुखं गच्छति अंशुकं तु पश्चाद्वायुमनुगतमाकर्षतीत्यर्थ: आर्यावृत्तम्

     

            ।। इति शाकुन्तलव्याख्याने सहृदयसमाख्याने प्रथमोऽङ्क: ।।

 

                          ________________

 

 

 

 

                             

                                   

            ।। अथ द्वितीयाङ्कस्य व्याख्याप्रारम्भ: ।।

      अथ शकुन्तलासक्तचित्तस्य राज्ञस्तापसक्रियापालनव्याजमाश्रमावस्थानहेतुमुपक्षेप्तुं मृगयानिवर्तनेन संनाप्रतिप्रेषणार्थं विदूषकप्रवेश: प्रस्तूयते---तत' इत्यादिना " हास्यप्रायी विदूषक ' इति विदूषकलक्षणम् विषण्ण: अनुधावनाखिन्न: हा इति खे दे मूगयाशीलस्य अविरतमृयातत्परस्य वयसा तुल्यो वयस्य: "नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवच्यानाम्यसमसम्बिते "ष्विति तुल्यार्थे यत्प्रत्यय: तस्य भावेन सखितृवेन हतोस्मि दु:खायैव राजसखत्वमिति भाव: तदेव विशदयति अयमिति--प्रतिवाक्यमावृत्तेनेदं शब्देन नानादिक्षु विपरिधावतां दृश्यादृश्यनामनुसरणेन क्लेशबाहुल्यं व्यज्यते मज्झंदिणे वीतिप्रभाते हि सुप्तोत्थिता एकत्र मृगा लभ्येरन् तु मध्यन्दिन इति विरोधोऽपिनाद्योतित: ग्रीष्मेण सन्तापेन विरला: असंश्लिष्टा: पत्राणां परिम्लानतया गगनमध्यरथे सवितरि मूलमात्रविश्रान्ततया चाल्पा इत्यर्थ: पादपानां छाया यासु तासु आहिण्ड्यते ?परिभ्रम्यते वनेषु परिभ्रमणं ग्रीष्मसमय: मध्यन्दिनं वराहाद्यनुधावंन चेति महतीयं दु:खण्रम्परेति भाव: पत्राणां तटद्रुमनिपतितानां सङ्करेण मग्रानां व्यामिश्रतया कषायाणि तुवराणि " तुवरस्तु कषायोऽस्त्री ' त्यमर: ईंषदुष्णानि कदुष्णानि " कवं चोष्ण' इति सूत्ने चकारेण " को: कत्तत्पुरुषेची "ति कदादेश: सभुच्चीयते गिरिनदीजलानि रुजाकरायपीत्यर्थ: तप्त्य पिपासो: पानीयमपि विरसमित्यर्थ: " गिरिनद्यादीनां वे 'ति णत्वविकल्प: पीयन्ते पुनस्त्यज्यन्त इत्यर्थं: पिपासा हि शक्यते सोदुमिति भाव: अनियतवेलं अनिश्चितकालं मूगयाविरामे सतृयेव भीजनावसरादिति भाव: शूल्यै: शूले संस्कृतै: " शूलोरवाद्यत् ' यात्रसंस्कारानवकाशात् शूलेन गृहीतृवाग्रौ तप्तैर्वृतादिविरहादस्त्रिग्धैरित्यर्थ: मांसैर्भूयिष्टं प्रचुरं ?था तथा एव अकालिकेन संत्कारविकलेन भोजनेनापि सुखमिति भाव: तुरगानुधावनेन स्वयमश्वारोहाक्षमत्वादेकाकिनश्च पश्चदवस्थाने कातरादिति भाव: संक्षुभिताश्शिथिलिता: सन्धय: जानुकटीकन्धरादिसन्धानानि यस्य तस्य मे रात्रिमपि नतु दिवैव केवलमित्यर्थ: अकर्मकधातुभियोगे देश: कालो गन्तव्योध्वा कम्रसंज्ञ ' इति परिभाषणानू द्वितीया "कालाध्वनोरतृयन्तसंयोगे ' इति वा तदा कृत्स्त्रां रात्रिमित्यर्थ: शयिया "कालाध्वनोरत्यन्तसंयोगे ' इति वा तत: रात्रावतीतायां महत्येवषत्यूषे प्रत्युषप्रारम्भ एवेत्यर्थं: दास्या: पुत्रैरिति निन्दायां "पुत्रेन्यतरस्या' मिति प्रष्ट्या आक्रीशे पाक्षिकालुग्विधानात् श्वगणलुब्धै: श्वगणग्राहिभि: किरातै: शाकपार्थिवादि: पाक्षिकालुग्विधानात् श्वगणलुब्धै: श्वगणग्राहिभि: किरातै: शाकपार्थिवादि: मनुष्यश्रमानवेक्षिभिरटविकैरित्यर्थ: शकुनिलुब्धकैरिति पाठे पक्षिवेधिभिरित्यर्थ: प्रतिबोधित: उन्निद्र कृतोस्मि निष्कामति नापैति निष्क्रामति नापैति गण्डस्य व्रणविशेषस्य पिटका व्रणान्तरं, मममृगवादु:खरूपं प्रथममेव व्रणमसहमानस्य व्रणान्तरमपि जात?मित्यर्थ: " गण्ड: स्यात् पुंसि खइगिनि ग्रहयोगप्रभेद वीध्यङ्गे पिटकस्त्रिषु' इतृयमरश्च तदेव पिटकास्थानापन्ननं दु:खान्तरमाह---हियो किलेति किलशब्द: स्वयमननुभूतत्वार्थ: अस्मास्विति बहुवचनं सैनिकसंग्रहार्थं अवहीनेषु  अनुधावनाक्षमतया विरहितेषु मम अधन्यतया कर्त्र्या दर्शिता राज्ञो विषयीकककृता का नाम तवाधन्यतेत्याह---संपदमिति कहं वीति---पूर्वमपि नगरमगनकथामात्रमेवासीदिति भाव: तमेव राजानमेव सविशेषं सातिशयं अक्ष्णो: प्रभातमिति अनिमीलिताक्षस्यैव सतारे भे प्रभातमासीदित्यर्थ: कृतं परिजनरचितं आचारपरिकर्म अरणाधिकरणयोश्चेति'ति ल्युद् राजधनु: तत्. हस्तेषु यासां ताभि: यवनीभि: राज्ञां शलग्राहिण्यो यवन्य:, चामरग्राहिण्यश्च किरात्यो भवन्ति "किराती चामरधरा यवनी शस्त्रधारिणी' इति शब्दार्णवे यवनकिरातौ म्लेच्छजातिविशेषै यवशब्दाज्जातिलक्षणो ङीष् परिवृत: आटविबलान्तर्भावात्परिवेष्टित: इत एवागच्छतीति सएव सूगयाखेद: पुनरुप स्थित इति भाव: अङ्गभङ्गे

अवयवोपघातेन विकल: दु:स्य इव एवमपि वैकल्याभिनयेनापि जहणामेति सम्भावनायां अपि नाम विश्रमं प्राप्नुयामित्यर्थं: दण्डकाष्टं दण्डरूपं काष्टं शिंशुपावृक्षवत्सामान्यविशेषयोस्समास:   अवलग्बय

अवष्टभ्य प्रवेशक: "तद्वदेवानुदात्तोक्त्या नीचपात्रयोजित: प्रवेशोङ्कद्वयस्यान्त: शेषार्थस्योपसूचक: ' इत्युक्तलक्षण: तत इति यथोट्टिष्ट: निटिंष्टप्रकार: प्रकारार्थस्य यथाशब्दस्य सुप्सुपेति समास: परिवार: यवन्यादिपरिजनो यस्य : ।।

      काममिति प्रिया कामं सुलभा पितृपरतन्त्रत्वाद्यद्यदि दुर्लभा मनन्तु दुर्लभताज्ञानमनादृतृयेति तु शबदार्थ: तस्या: भावदर्शने आयस्यति प्रयतत इति तथाभूतं, विरमसतीति भाव: किं दुर्लभाया भावदर्शनेनेत्यतआह अकृतेति' मनसिज: " सप्तम्यां जनेर्ड:' "तत्पुरुषे कृति बहुतेति' मनसि जायत इति मनसिज: "सप्तम्यां जनेर्ड:' "तत्पुरुषे कृतिबहुल" मिति बहुलग्रहणादलुक तस्मिन् बकृतार्थे अकृतवृत्ये सत्यपि असमागमादिति भाव: उभयो: कामिनो प्रार्थना पररपराभिलाष: उभयपुत्र इतिवत् वृत्तिविषये उभयशब्दस्थाने उभयशब्दप्रयोग: " कपोल्लोलोभयकालपख, ' इति रघुवंशे कामनामात्रम्पीत्यर्थ: रतिं प्रीतिं कुरुते अकृतार्थेपि हि मदन इति पाठान्तरे तथाहीति ह्मर्थ: पररपरप्राप्तिनिराशयोर्वरं श्?रीरनशोपि स्मानुरागयो:' इति न्यायेनेतरतानुराग्? ज्ञानमात्रं कामिनां सुखयेति भाव तद्भावदर्शनाश्वासीति पाठे तु तस्या: भावदर्शेने प्रेम्णोऽवगतत्वेन आश्वासि तृप्तइत्यर्थ: "अकामां कामयानस्य शरीरमुपतप्यते इच्छन्तीं कामयानस्य प्रीतिभंवति शीभना ' इति रामायणम् आर्यावृत्तम्

      स्मितमिति आत्मोपहासरूपमित्यर्थ: स्मितशब्दोयं हाससामान्यपर: एवमिति आत्ममाभिप्रायेण स्वबुद्ध्या संभाविता अध्यवसिता इष्टजनस्य प्रार्थितजनस्य चित्तवृत्ति: उत्कण्ठादिरूपो भाव: येन : प्रार्थयिता जन: कामी विडम्बयत इति स्वाभिप्रायनुरोधेन पंरचित्तोत्प्रेक्षणं कामिनां केवलं ?वितथार्थं प्रत्युत विडम्बनास्थानमपीत्यर्थ: तदाह---

      स्त्रिग्धमिति अन्यत: अन्यत्र विषयान्तरेति प्रेरयन्त्या व्यापारयन्त्या सतृया तया प्रियया स्त्रिग्धं स्नेहयुक्तं यथा तथा वीक्षितं दृष्टमिति यत् एवं निम्बयोर्गुरुतया भरेण हेतुना विलासातृ "तात्कालिको विशेषस्तु विलासोङ्??क्रियादिषु' इत्युक्तलक्षणादङ्गक्रियाविशेषदिव मन्दं यथा तथा यातं गतं इति यत्, मा गा इति " इला जुत्तं दे गन्दुं रुक्खसेअहणाइ दुवे धोसि' इति सखीनिषेधोऽयमर्थतोनूदित: " इणो गालुङी ' ति गादेश: " माङ्योग ' इत्यडागमप्रतिषेध: " माङि लुङ्र ' इति विध्यादौ लुङ्र उपरुद्धया प्रतिषिद्धया सत्स सा उपरुद्धवती सखी सासूयं सकोपमुक्ता "का तुमं विसज्जिदव्यस्स वा रोहिदव्वस्स वा ' इति प्रत्युक्ताइति यदपि, तत्सर्वं स्त्रिग्धदशनमन्दगमनसखी प्रतिवचनरूपं त्रितयमिपि चेष्टितं अहमेव परमयनं परायणं विषयो यस्य तत् किल मदेकविषयमेव, मद्वुध्येति भाव: " आश्रये तत्पराभीष्टे परायणपदं विदु ' रिति शाश्वत: " पूर्वपदात् संज्ञायामग ' इति णत्वं वस्तुतोन्यपरम?पि सर्वमिष्टजनचेष्टितं स्वाभिप्रायानुरोधेन स्वपरं मया लोकतन्त्रनिष्णातेनपि व्यवसीयते किमुत परैरिति भाव:   अहो जानतोपि व्यामोह इत्याश्चर्यमित्यर्थ: उक्तार्थसमर्थनं सामान्यमर्थान्तरं न्यस्यति कामी स्वतां स्वीयतां पश्यति स्वाभिप्रायेण जानाति अर्थान्तरन्यासालङ्कार: अन्यतोपीतृयपिना किभुत स्वविषये सतीत्यर्थापित्तिरलङ्कारो व्यज्यते शार्दूलविक्रीडितं वृत्तम्

      तथा स्थित एव दण्डकाष्टमवलम्ब्य स्थित एव हस्तपादौ हस्तसहितौ पादाविति मध्यमपदलोपी समास: शाकपार्थिवादेराकृतिगणत्वात् अतो नैकवद्भाव: प्रसरत: व्याप्रियेते वाङ्मात्रेण उपचर्यस इति शेष: बाहूद्यमनाक्षमतृवादिति भाव: गात्रोपघात: अवयवानां कुण्ठत्वं स्वयं आत्मना आकृलीकृतृय कलुषीकृत्य नखल्ववगच्छामीत्येतदनन्तरं भिन्नार्थंमभिधीयतामिति क्कचिातृपठो दृश्यते तत्र भिन्नार्थमितृयस्य स्पष्टार्थमित्यर्थ: कुब्जस्य गडुलस्य लीलां क्रियां नतिरूपां " लीलाविलासक्रिययो' रित्यमर: विडम्बयति अनुकरोति यत् तत्र वेतसस्य कुब्जलीलाविडम्बने नदीवेग: कारणं नद्यां दहन्त्यामेव तदुत्त्पत्तेरिति भाव: मह विभवं इति कुजलीलाविडमृबने कारणमिति शेष: आकुलप्रदेशेषु विषमप्रदेशेषु वनयचरस्येव वृत्तिर्यंस्य तेन भवितव्यमवश्यं भाव्यं अहं पुन: अहं तु अज्ञज्ञतमृगयागन्धो ब्राह्मण इति पुनश्शब्दार्थ: सत्यं परमार्थमेव तु मषा विडम्बनमित्यर्थं: शुनामिव पदानि येषां तेषां श्वापदानां समुत्सारणै संक्षुभिता: शिथिलीकृता: सन्धिबन्धा: अवयवसन्धानप्रदेशा येषां तेषां गात्राणां शरीरावयवानां विषये "गात्रं

गजाग्रजंघादिभागे स्वाङ्गेकलेबरे ' इति विश्व: अनीश: आकुञ्चनप्रसारणाद्यशक्त: सैनिकाकृतेपि श्वापदसमुत्सारणे कातरस्य पृथगवस्थातुमसमर्थस्य अनुधावनसाम्यादवयसंक्षोभ: एकाहमपि तावत् " उतृतमैकाभ्यां ' इत्यहृलादेशप्रतिषेधात् " राजहस्सखिभ्य' इति टच्र विश्रमितुं क्कचिदवस्थातुं काश्पसुतां शकुन्तलां सूगयायां विक्लबं निरुत्साहम्

      नेति ? अधिज्यं अधिरोपितमौर्वीकं आहितसायकं संहितबाणमपि इदं धनु: मूगेषु हिरणेषु लक्ष्यभूतेषु विषये नमयितुं शक्तोस्मिं का कथा बाणममोक्ष इति भाव: धनुर्नमनं हि शरप्रयोगारंभ: यै: मृगै: प्रियाया: सहवसतिं सहवासमुपेत्य मुग्धविलोकितस्य सुन्दरावतीकनस्य उपदेश: कृतइव आरण्यकत्वातृ भ्रूविलासानभिज्ञाया: शकुन्तलाया: ईदृशो मन्मनोहारिणि विलोकिते विषये मूगैरेवाचर्यमनुष्टितमिवेत्युप्रेक्षा प्रियाया: गुरुभूतेषु कथं धनुर्नमनमिति भाव: केचित्तु प्रियायास्सकाशात् आख्यातोपदेश इति पञ्चमी कृत: लब्धइवेत्यर्थ: ततश्च मूगाणां शिष्यत्वमसीयत इति मन्यते "" प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेविप्रेक्षितमायताक्ष्या तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृढीतं नु मृगाङ्गनाभि: '' इति कुमारसम्भवादुभयमप्युपपन्नं अत्र "" तस्यापरेष्वपि सगेषु शरान्मुमुक्षो: कर्णन्तमेत्य बिभिदे निबिडीपि मुष्टि: त्रासातिमात्रचटुलै: स्मरयत्सु नेत्रै: पौढप्रियानविभ्रमचेष्ठितानि'' इति रधुवंशोक्तप्रकारेण मृगाङ्गनादशनेन सादृश्यतृ शकुन्तलास्मरणमेव धनुर्नमनप्रयत्नं विहन्तीति स्मृतिमदलङ्कारध्वनि: पुष्तिाग्रा वृत्तम्

      अतृत भवमिति अन्यपरस्य सती मया स्वदु:खनिवेदनं आत्ण्यरुदितप्रायमित्यर्थं: अनतिक्रमणीयं सुह्णदो वचनमिति चिन्यन्नेव तूष्णीं स्थित इत्यर्थ: चिमिति आत्मश्रमापनोदनस्य प्रत्युपकारो ब्राह्मणसुकभोयमाशीर्वाद इति भाव: सविशेषं वक्तव्यान्तरवत् तु समाप्व्तमित्यर्थ: अन्यस्मिन् मृगयातिरिक्ते अनायासे तु ममृगयावतृ सायासे कर्मणि शकुन्तलासंग्रह इति भाव: सह अयते प्रर्वत इति सहायस्तेन सहकारिणा यत्न यस्मिन् कर्मणि वक्ष्यामि निप्रोक्ष्ये तत्र सहायेन भवितव्यमितृयनुकुष्यते क्षण: उद्यम इत्यर्थ: गृहीत: अङ्गीकृत: साहायकं कर्तुमुद्युक्तोत्यर्थ: "निर्व्यापारस्थितौ कालविविशेषोत्सवयो: क्षण' इत्यमर: द्वारे नियुक्त: दौवरिक: " तत्र नियुक्त' इति प्राग्वहतीय: ठक् "द्वारादीना ' मित्यैच् प्रविचश्येति कार्यत्याल्पत्वात् प्रविशतीयनुक्ति: रैवतकेति प्रतीहारनामग्रहणं आहूयतामिति "वचिस्वपियजादीनां कितीं'ति ह्वपतेर्यकि संप्रसारणं आज्ञाव्चनाय आज्ञां वक्तुमित्यथं: " तुमर्थाच्च भाववचना "दिति च्तुर्थी उत्कण्ठ: काश्?र्यादयो यस्य तस्मिन्निति व्याचक्षते केवलमेकान्तं गुणायैव अनवसादरूपव्यायवगता: दोषा: यस्यास्तथाभूतापीति मृगयाविशेषणं गुणानेवाह--तथा हीति

      अनपवरतेति अनवरतविश्रान्तं धनुर्ज्याया: धनुरारूढांया मौर्व्या: " धनुर्ज्याध्वनौ धनु: श्रुतिरारूढै: प्रतिपत्त्या' इति चामन: आस्फालनेन आकर्षणेन व्यायामेन क्ररपूर्वं मेदस्संक्षयातृ कठोवक्ष:स्कन्धादिभागमित्यर्थ: रविकिरणानां सहिष्णु सहनशीलं ऊर्जस्वित्नादिति भाव: "अलंकृञ्निराकृञ्प्रजनोत्पतोम्मदरुच्यपत्रपिवृतुवृधुसहचर इष्णुच् ' इति सहिष्णशब्दस्साधु: ।अत एव स्वेदलेशै: स्वेदकणै: अभिन्नमसंसृष्टं महापुरुस्यातिस्वेदो नास्त्येवेत्यत उक्तं लेशैरिति' अपचितमपि श्रमेण कृशमित्यनवगम्यं अव्यायामत्वात् कृताभ्यासतृवेन दृढत्वादिति यावत् अलक्ष्यं कृशमित्यनवगम्यं अव्यायतस्य हि महदुपचयापचयतारतम्यं स्यात तु व्यायतस्ये ति भाव: अत: प्राण: बलमेव सार: स्थिरांशो यस्य तत् गात्नं शरीरं गिरिचरोनागो गजइव बिभर्ति उपमालङ्कार: मालिनीवृत्तम् ।।

      निगृहीत: निरुद्ध: शुनामिव पदानि पादा: येषां तेषां श्वापदानां व्याघ्रवराहादीनां "शुनो दन्तदंष्ट्राकर्णकन्दवराहपुच्छपदेषु दीर्घो वाच्च' इति श्वापदशब्दसिद्धि: प्रचार: वनान्तरधावनं यस्मिन् तथाभूतं प्रत्यूषे प्रचारात् प्रागेव परितो निरुद्वमित्यर्थ। किं कुत: अद्यपि एतावत्यामपि वेलायां स्थोयते मूगया नारभ्यते किमितीति पाठे इतिर्हेत्वर्थ: कस्य हेतोरित्यर्थ: मूगयां अपवदति निन्दतीति मृगयापवादी तेन अपवादस्तु निन्दायामाज्ञाविस्त्रंभयोरपी' ति विश्व: भग्रोत्साह: कुण्ठितोद्योग: स्थिरा प्रतिज्ञा मूगयापवादविषदियी यस्य : स्वामिन: राज्ञा: चित्तवृत्तिं  मृगयासक्तिरूपमभिप्रायं अनुवर्तिष्ये चिरपरिश्चान्तस्य विराममिच्छतोऽपि

स्वेनैव प्रतिषेधाभ्युयगमो मे सवाधिकारविरुद्ध इति भाव: वैधेय: विधेयं विधानं तदधीन: "तस्येद' मित्यण् विधिपरतन्त्र इत्यर्थ: 'अज्ञे मूढयथाजातमृर्खवैधेयाबालिशा' इत्यमर: निदर्शनं प्रमाणं निर्णायक: अथवा स्वामिन: शरीमेवात्न मृगयागुणानां निदर्शनं किमस्य मूर्खस्य निन्दयेति भाव:

तदाह--

      मेद ?त्ति वपु: मेदस: वसाया: " मेदस्तु वपा वसे' त्यमर: छेदेन अपनयेन कुशोदरं तनुमध्यमत एवोत्थान उद्योगे योग्यं समर्थं भवति येनालस्यांगमेजयत्वादिरुत्थानपरिन्थी दोषस्तस्य मेदसो विगमोनाम प्रथमो गुण इति भाव: किञ्च भयक्रोधयोस्सतो: विकृतिमत् प्राप्तान्यथाभावं सत्त्वानां मूगव्याघ्रादीनां प्राणिनामपि चित्तं लक्ष्यते मुखनयनादविकाराणां भयक्रोधलक्षणानामनुदर्शनादयं भीरुरयं क्रोधन इति सत्त्वेष्वपि व्युत्पत्तिजांयत इत्यर्थ: गुणान्तरञ्चेदं यदभिनवानेकप्राणिचित्तपरिज्ञानमिति भाव: अपि चलं अस्थिरेपि लक्ष्ये शरव्ये इषव: बाणा: सिद्ध्यन्ति अवितथा भवन्तीति यत् सच धन्विनां धनुरेषामस्तीति धनिवनस्तेषामुत्कर्षोतिशय: चललक्ष्यवेधित्वं विशेषान्तारमित्यर्थ: मिथ्या वृथैव हि मगयां व्यसनं वदन्ति नीतिविद इतिशेष: ईदृक् मृगयासदृश: विनोद: दु:खापनोदनं वस्तु कुत:क्कन्यदस्ति आश्रयदोष एवारोपितो मृगयायांनीतिविद्भिर्यद्दु:खापनोदसाधनं दु:खसाधनं गण्यत इति भव: "मृगयाक्षा दिवावस्वप्र: परिवाद: स्त्रियो मद: तौर्यत्रिकं वृथाठ्या कामजो दशको णण' इति मनु: मृगयारूपस्य दोषस्य गुणत्वकल्पनाल्लेशालङ्कार: "लेशस्तु दोषगुणयोर्गुणदीषत्वकल्पन' मिति लक्षणम् शार्दूलविक्रिडितं वृत्तम्।।

      अत्रभवान् राजा प्रकृतिमापन्न: निवृत्तमृगयापिशाचावेश इत्यर्थ: त्वं ताव् त्वमेव केवलनं नासिकामिषे लीलुपस्य गृघ्रो: जीर्णऋक्षस्येति उत्थानाक्षमतया चिरोपीषितस्य यदृच्छोपनतपारणाकाङ्क्षिण्? इत्यर्थ: मुखे चक्त्रबिले आश्रमस्य सन्निकृष्टे समीपदेशो नाभिनन्दामि आश्रमोपरोधप्रसङ्गन्नाङृगीकरोकरोमि

      गाहन्तामिति महिषा: शृङ्गैर्विषाणैर्मुहु: पुन: पुनस्ताडितं आमस्तकनिमज्जनादुन्नमितमुखानां तिरश्चीनै: शृङ्गैश्चलद्भिराहतमित्यर्थ: निपीयतेऽस्मिन्निति निपानं सर: तस्य सलिलं गाहन्तां विलोडयन्तु मृगकुलं हरिणयूथं छायासु बद्धकदम्बकमारचितमण्डलं मण्डलीभूय निषण्णं सदित्यर्थ: रोमन्थं चर्वितचर्वणं अभ्यस्य तु परिचिनोतु विस्त्रम्भादकातरं भवत्विति भाव: वराहाणां ततिभि: समूहै: नल्वले वेशन्तेषु जात्येकवचनं विस्त्रब्धं विमुक्तुणबन्धनं सद्धिश्रान्तिं निर्व्यापारत्वं लभतां प्राप्तेतु चिरपरित्यक्तं स्वं स्वं विस्त्रब्धव्यापवारचापव्यापारोपरमादारभन्तां सत्त्वा इति भाव: ।। धुनषो विश्रमविधिना स्वस्य  महत्यपि कर्मण्यश्रमो व्यजृयते अयं श्लोक: " अस्पृष्टा दोषमात्राभि: समग्रगुणगुम्फिता विपञ्चिस्वरसौभाग्या वैदर्भी रीतिरिष्यते ' इति लक्षयता वामनेनोदाहत: "विस्त्रब्धं तनुतां वराहविततिर्मुस्तार्मुस्ताक्षतिं पल्वल ' इति पाठान्तरम् शार्दूलविक्रीडितं वृत्तम्

      प्रभवतीति प्रभविष्णु: " कर्तरि भुव: खिष्णुच् खुकञौ ' "रुच्यर्थानां प्रीयमाण ' इति चतुर्थी पूर्वगतान् सत्त्वप्रचारात्पर्वंमेव निरोधाय प्रस्थितान् वनग्राहिण: वनरोधकानाटविकान् निवर्तंय मूगयात्रिरामाद्वनग्रहणं मा भूदिति भाव: यथा येन प्रकारेण सेनां समवयन्तीति सैनिका: "समवायान् समवैती'ति टक् निषेद्धव्या: निवर्तयितव्या: कुत:? तदाह---

      शमेति शमश्चित्तोपरम् एव प्रधानो येषां तेषु तपोधनेषु ग्रढं बहिरनाविष्कृतं दाहो भस्मीकरणमतृमा स्वभावो यस्य तत्  तेज: शक्तिविशेष: अस्ति व्ययाभावादेव पुञ्चितं निवसतीत्यर्थ: तदन्तर्हितं तेज: स्पर्शानुकृला: स्पर्शयोग्या: सुखस्पशां इत्यर्थ: सूर्यकान्ता नाम मणय इव अन्येन क्षात्रादिना तेजसाभिभवादतिलंघनाद्धेतोर्वंमन्ति युगपदुत्सूजन्ति यथा सुखस्पर्श एव सन्तस्सूर्यकान्तमणयस्समर्यंतेजसाभिभूता: प्रज्वलन्ति तथा मृदउव: सन्तो मुनय: परतेजसा परिभवं मृष्यन्तीत्यर्थ: तेज: पदश्लेषोत्थापितेयमुपमा उपजातिवृत्तम् ।।

      ध्वंसिन: नाशित:, उत्साहवृत्तान्त: मृगयो़मवातां परिजनं परिवारं यवनीरूपं मृगयावेषं बाणासनग्रहणवनपुष्पमालाधारणादिरूपं नियोगं स्वाधिकारं अशून्यं कुरु भजस्वेत्यर्थं: मक्षिकाणामभावो ?

?निर्मक्षिकं अर्थाभावेऽव्ययीभाव: विजनत्वमित्यर्थ: पादपत्यच्छायायां स्थित इति शेष: अविरलैर्नीरन्घ्रैर्लतावितानैर्लतामण्डपैस्सनाथे आसने शिलापीठे निषीदत्विति परिश्रमविनोदाथेति भाव: अहमपीति त्वय्यासीन एव ममाप्यासनाप्तिरिति भाव: सुखेनासीन: सुखासीन. अनवाप्तं चक्षुष: फलं दर्शनीयदर्शंनरूपं प्रयोजनं येन :दर्शनीयमिति शकृन्तलादर्शनमेव चक्षुष्मतां चक्षु: फलमिति भाव: अग्रत एवेति ननु दर्शनीयतमे सति भवति पुरत: कथं मया दर्शनीयं नदृष्टं भवतीत्यर्थ: सर्वोऽपि जन्तु: आत्मीयं स्वसम्बन्धिनं कान्तं सुन्दरमेव पश्यति स्नेहो ।ह स्वविषये गुणानेकीकरीतीति भाव: आश्रमस्य ललामभूषणमिव तथाभूतां तामेव हृदिस्थितामेव अधिकृत्य विष्यीकृत्य तटस्थदृष्टेरप्याकर्षकं यतृतदेव हि वस्तुतो गुणोत्तरमिति भाव: शकुन्तलावृत्तान्त: प्रथममेव विदूषकाय राज्ञा निवेटित इति ज्ञायते अत एवोक्तमत्र तामेवेति पूर्वं विदूषकवाक्यं " तावसकण्ण्आ सउन्दला णाम मह अधण्णदाए दसिदा' इति होदु दर्शनीया स्यादिप नाम अस्य राज्ञ: अवसरं शकुन्तलागुणर्णनावकाशं अद्य अन्त:पुरविरहे सति नेत: पूर्वमेवमिति:भाव: तापसकन्यकापि आरण्यकत्वान्मृगकल्पापीत्यर्थ: अभ्यर्थनीया प्रयत्नप्रार्थनीयां परिहार्ये हेये वस्तुनि गुणहीने विषय इत्यथ: पौरवाणामिति नागरिकाणां जितेन्द्रियाणामित्यमितृयभिप्रायगर्भं यज्जितेन्द्रियाणां राज्ञामपि चित्तहारि क्थमेतद्रुणोत्तरं भवतीति भाव: तत कथमतत् यदि परिहार्ये मन: प्रवृतिृत: तर्हि शकुन्तलायां तवायं मन: सङ्ग: कथं स्यात् ? हि तपस्विकन्या राजृस्पृहणीण भवितुमर्हतीत्यर्थं: राजा समाधत्तं

      निवारितेति लोको जन: नवामिन्दुकलासुन्मुख उद्गतवदनो दर्शनोत्कण्ठितो वा सन् निवारितो निषिद्धो निमेष: पक्ष्मपातो यासु ताभिरनिमेषाभिरिति यावत् नेत्रपड्क्तिभि: केन भावेन पश्यति दर्शनीयं स्वत एव दृष्टिं हरति तत्र किं स्थानकुलाद्यन्वेषणेनेति ।। अनुष्टुप् वृत्तम्

      सुरयुवतीति सुरयुवतौ मेनकायां सम्भव उत्पत्तिर्यसय तत् तया सुरयुवत्या उज्झितं त्यक्तं सदधिगतं लब्धं मुने: काश्यपस्यापत्यं सन्तति: यथाच्युतं नवमालिकातो विश्र्लिष्टं सदर्कस्यार्कवृक्षस्योपरि पतितं नवमालिकाकुसुममिव अतस्संसर्गमात्रेण तापसकन्यका भवति, दिव्याङ्गना कथं प्रार्थंनीयेति भाव: वाक्यार्थोपमालङ्कार: ।। आर्यावृत्तम् ।।

      पिण्डखर्जूरै: संघातभूतै: खर्जूरुलै: स्वादुतरैरिति भाव: उद्वेजितस्य एकरसासङ्गाज्जडीकृतरसनेन्द्रियस्य तिन्त्रिण्यां पिण्डखर्जूरसदृशे तिन्त्रिणोफले अभिरस्कारिण्?: दर्शंनीयं दृष्टमिति ह्मवरोधवधूतिरस्कार इति भाव: "जातौ जातौ युदस्कुष्टं तद्रत्नमिति कथ्यत ' इत्युक्तं इयमभ्यर्थना तापसकन्यकाप्रार्थना विदग्धवनितैकदर्शिनस्तवेदं विच्छित्तिविशेषमात्रं, नतु तापसकन्यकायां गुणान्तरं स्यादिति भाव: तावदत्यर्थं एनां शकुन्तलां श्यसि दृष्टवानसि येनादर्शंनेन एवं तिन्त्रिसदृशतृवेन सकृतृपश्यनपि नैवं वदेदिति भाव: विदूषक: परमार्थेनाह--तं इति भवतोपि नागरिकतमस्यापीत्यर्थ: यस्तु विस्मयं अदृष्ट पूर्वतृवादाश्चर्यं उतृपादयति जनयति ततृ खलु रमणीयं तदेव हि दर्शनाय वस्तु किं मादृशेन दृष्टवतेत्यर्थ: किं बहुना अङ्गपत्यङ्गदिवर्णंनेन प्रयो जनं नास्तीत्यर्थ: अशक्यवर्णनतृवादिति भाव: संक्षेपेणाह---

      चित्र इति विधिना ब्रहृमणैव कर्त्रा रूपोच्चये सौन्दर्यसारोद्ग्रहणेन वर्णदव्योकद्गहणेन उद्ग्रहीणेन उद्ग्रहीतेन रूपेण करणेनेति यावतृ चित्रे आलेख्ये निवेश्य संस्थानमाधाय परिकल्पितसत्त्वयोगा विहितप्राणयोजना किं करस्पष्टष्टं हि नैवमक्लिष्अं रूपं भवतीति भाव: चित्नातिशायित्वाभिसन्धनादाह मनसेति मनसा कृता नु मानसी सृष्टिर्वेत्यर्थ: विधिना रूपोच्चयेनेतीहापि सम्बध्यते मनस्सक्लालितेन रूपसारसमुच्चयेन सृष्टा किमित्यर्थ: कुत इदमवगतं ? तादाह---स्त्रीरत्नेति धातुर्ब्रहृमणो विभुत्वं सर्वथापि निर्माणकौशलं तस्या: शकुन्तलाया वपुरालोकसदृशं शरीरच्च अनुचिन्त्य आलीच्य सा स्त्रीरत्नसृष्टि: शकुन्तला?निर्मितिरपराविलक्षणा मे प्रतिभाति ।। चित्र इत्यनेन नयनाधरकपीलकुन्तलाद्यवयवेषु प्रत्यग्रच्छायतृवं मनसेतृयेन मनोहरतृवं व्यजृयते चित्रसृष्टित्वमानसमृष्ब्टित्वोत्प्रेक्षाद्वयोत्थापिता भेदकातिशयोक्ति: अपरोत्यनेन तस्याएव

सृष्टेरन्यत्वप्रतिपादनात् भेदकातिशयोक्ति: स्यात्तस्यैवान्यतृववर्णंनमि' ति लक्षणात् ।। वसन्तीतिलकं वृत्तम्

      रूपवतीनामवरोधवधूनां प्रत्यादिश्यतेनेति प्रतृयादेश: अपकर्षहेतु: इदं वक्ष्यमाणं मे मनसि वर्तते हृदयान्नापैति किं तदित्याह---

      अनाघ्रातमिति अनधं अपेताशेषदोषं अन्यत्सर्व " भेको ?हि दोषो गुणसन्निपाते निमज्जतीन्दो: किरणेष्विवाङ्क' इति न्यायेन स्तोकतया दोषाणामतस्?तोकतया गुणानां प्रशस्यते, इदं पुनरन्यदेवेति भाव: तस्या: शकुन्तलायारूपं अव्याजरमणीय: आकृतिविशेष: अनाघ्रातं कैश्चिदप्यननुभूतगन्धं पुष्पं कुसुमभूतं यथा हि' पुष्पं सोरभमयमेवं गुणमयमिति भाव: अनाघ्रतपदेन वनकुसुमवदगृहीतत्वादविदितं बहि:, यत्स्वयं वराणाम?िप सुलभं नरेन्द्रकन्यानामिति व्यज्यते तथा, कररुहैर्नखैरलूनमच्छिन्नं किसलयं अभिनवारागोदयात् नाग?रिकपरिग्रहे महाइंवेषभूषणविलासादीनां पुष्पभूतानां सम्भवाच्च पल्लवभू?तमिति भाव: कररुहैरलूनं किसलयं यथा काष्टपणांदिसंसृष्टं प्रयत्नदर्शनीयमेवमारण्यकमध्यगतं तन्न कस्यापि विदितमिति व्यज्यते तथा , अनाविद्धमनुल्लिखितं रत्नं रत्नशब्देन लावण्यरूपकान्तिविशेषशालितृवं राज्ञामपि शेखरायमाणत्वमक्लिष्टकान्तित्वं चाभिव्यज्यते आकरस्थं हि रत्नमविदितगुणं ग्राहकाणां दृष्टिपथं यातीत्युक्तमनाविद्धमिति एवं अनास्वादित: कैश्चिदप्यरसिती रसी यस्य तत् इदमेवं रसमित्येतावदप्यननुभूतपूवंमित्यर्थ: नवं मघु मद्यं यत इदं दृष्टमात्रमात्मानं विस्मारयत्यतोऽपूर्वं मधु तदप्यज्ञातगुणतृवादनुपयुक्तपूर्वमिति भाव: एकरसं नानारसमितृयादिवदत्र गुणमात्रपरो रसशब्द: अपि , पुण्यानां भोक्तृसुकृतानां समु?दितानां अखण्डं एकं फलमिवेत्युत्प्रेक्षा एकैकगुणं पुष्पादिकं, इदं तु समग्रगुणमिति व्यतिरेकादन्यदेवेदं किमपि प्रत्येकमदत्तफलानां चिरार्जितानां महाभागस्य भोक्तुर्भागधेयानां समवेतानां स्वर्गादिवदेकं फलमिति भाव: कस्तर्हिभोक्तेतृयाह---नेति कं पुन: पुरुषमिह रूपे विषये भोक्तारमनुभवितारं अनुभवितृत्वेनेत्यर्थ: विधिर्नियति: समुपंस्थस्यति आनुकूल्येन प्राप्स्यतीति जाने यां विना सदपि साम्राज्यादिकं वितथमिव, तां लब्ध्वैव कृतार्थो जन्मलाभ इति भाव: मनुष्यलोक एव स्वर्गोयं यदेवंविधस्य दिव्यरूपस्याप्तिरिति व्यञ्जितं माला रूपकोत्प्रेक्षयोस्संसृष्टि: शिखरिणी वृत्तम्

      तेन हि तथारूपतृवेन हि लधु क्षिप्रमेनां शकुन्तलां परित्रायतां रक्षतु किमत्याहितं यतस्त्रायेतेत्याह-मा खु इति इंगुदीतैलेन चिक्कणाशीर्षस्य संसृष्टंशिरोरुहस्य अमनोरमस्येतृयर्थ: अरण्ये भव आरण्यक: " अरण्यान्मनुष्यो ' इति वुञ् मा खलु पतिष्यति नतेदित्यर्थ: नञर्थे मेत्यव्ययं " लृट् शेषे चे 'ति चकारादनुक्तिमुच्चयाद्विध्यादिष्वपि लृट् परवती गुरुपराधीना अतो स्वेच्छय प्रवतितुं प्रभवति येन लघु पिरत्राणावसर इति भाव: गुरुर्वां सदृशवरलाने किमितृयुदासीत, अत: प्रार्थ्यतामितृयत आह चेति, गुरुरेव जन:, पितेत्यर्थ: अथेति प्रश्रद्योतकं अत्र भवन्तमन्तरेण त्वामुद्दिश्येत्यर्थ: " अन्तरान्तरेण युक्त ' इति द्वितीया अत्र ' अन्तरान्तरेण शब्दौ निपातौ साहचर्याट्टृश्येते आभ्यां योगे द्वितीयाविभक्तिर्भवत तत्रान्तराशब्दो मध्यमाधेयप्रधानमाचष्टे अन्तरेणशब्दस्तु तच्च विनार्थं अन्तरा त्वां मां कमण्डलु:, अन्तरेण त्वां मां  कमण्डलु: अन्तरेण पुरुषकार ? किञ्चिल्लभ्य' इति काशिकातोन्तरेणेत्यस्ययमर्थो यद्यपि लभ्यते तथापि रागस्याभूर्तस्य विषयिणो विषयाधेयतया तसय प्राधान्यमेव मध्यत्वमित्यभिप्रायदादव्ययानामनेककार्थत्वाद्वा दोष: अस्या: शकुन्तलाया: दृष्टिरागश्चक्षु:प्रीति: हि निदानं प्रणयस्येति भाव: निसर्गेण स्वभावत एव शालीन: अधष्ट: शलाप्रवेशमर्हतीति शालीन: " शालीनकौपीने अधृष्टाकार्ययो "रिति निपातनानात् खञ् तपस्विकन्याजन इति, हि राजकन्याजन इव प्रगल्भस्तपस्विकन्याजन: येन भावाविष्कार इति भाव: तथापि अधृष्टत्वे सतृयपि तु

      अभिमुख इति मय्यभिमुखे अवलोकयति सति ईक्षितं तया प्रथमप्रहितं दर्शनं संहृतमा क्षिप्तं अत: प्रथमदृष्टिपातो रागलक्षणमिति भाव: हसितमन्येन निमितृतेन कृतोदयं अवशात्प्रवृत्त एव हसिते निमित्तान्तरं व्याजीक्रियत इत्यर्थ: हसितोदयश्च रागलिङ्गमिति भाव: अत: उक्तहेतुभ्यां विनयेन लज्जनिबन्धनेनातृमसंयमनेन वारितवृत्तिर्निषिद्धप्रसर: पुन: पुन: प्रकान्तप्रसर एव निरुद्ध इत्यर्थ: मदनो नविवृत: निवारणादनाविष्कृत: संवृत: अवशप्रवृत्ततया निश्शेषं गूहित: लक्ष्यत एवात्या रागो

तु  निश्चरयतइति भाव: द्रुतविलम्वितं वृत्तम्

      दिट्टमत्तस्सेति प्रथमानुरागे खल्वेतावदेव बहुतरं सर्वासामेव स्त्रीणममिति भाव: मिथ इति मिथ: पृथक् मां विहायेत्यर्थ: सस्वीभ्यां सह प्रस्थाने आश्रमप्रतिगमनविषये शालीनतया अधृष्टतया प्रसथानक्षमतयेवेत्यर्थ: भूयिष्ठमत्यर्थं भाव आविष्कृत: प्रकटीकृत: प्रस्थानाक्षमतैवानुरागपिशुना संवृत्तेत्यर्थ:

      दर्भेति तन्वी शकुन्तला कति विदेव पदानि गत्वा अकाण्डे अनिमित्त एव चरणो दर्भांकुरेण कुशसूच्या क्षतो विद्ध इति स्थिता पदान्तरमगता द्रुमाणां पश्चादतिक्रान्ततरूणां शाखासु विटपेष्वसक्तं वस्तुतोननुषक्तमपि वल्कलमुत्तोरयचीरं विमोचयन्ती विमुच्यमानमभिनयन्ती सती विवृत्तवदना मदभिमुखीभूतमुखी आसीच्च अतश्च स्पष्टमाविध्कृतो भाव इति सम्बनध: वसन्ततिलकं वृत्तम्

      यद्येवं त्वयि चेद्वद्धरागा गृहीतं पथि साधु पाथेयं " तत्र साधु' रित्यधिकारे " पथ्यतिथिवसतिस्वपतेर्ढञ् ' येन : भवेति एकाकिन: शकुन्तलानुरोधेन कैश्चित मूगवधनिषेधप्रवृत्तैस्त्रिभिस्सेनागजादिभीतैश्च कतिपयैरित्यर्थ: इहस्थ: आश्रमस्थित: चिन्तय तावत् प्रथममालोचय किं च्चिनतनीयं ? किं तच्चिन्तनीयं ? आह---केनेतिअपदेशेन व्याजेन सकृत् पुनरेकवारमपि अनिमित्तं हि पुन:प्रवेश: सन्देहाय स्यात् इहस्थताज्ञानं तस्यैव दार्ढ्यायेति भाव: राजेति, राज्ञ: पाल्येषु किमपदेशान्तरेणेति भाव: तत: किं राज्ञोपि पाल्येषु नाप्राप्तावसरं दर्शनं युक्तमिति भाव: नीवाराणां षष्ज्ञ्ठं भागं राजग्राह्मं बलिं आरण्यका मुनय: उपहरन्तु ददात्वित्येवास्त्यपदेश इत्यर्थ: एतेषामारण्यकानां रक्षणे अन्यतृ नीवारषष्टांशादतिरिक्तं भागधेयं भाग: ग्राह्मांशा इति यावत् अत्र भागधेयमिति नपुंसकलिङ्गप्रयोगाद्वलिरित्यर्थो भवति " भागधेय: करो बलि 'रिति तस्य सुकृतविषेषस्य भूयांसोऽपि रत्नराशयो तुलामधिरो?हन्ति किंपुननींवारषइभाग इत्यर्थ: " भागरूपनामभ्यो धेय:'

      यदिति नृपाणां सम्बन्धि यत्फलं कररूपं वर्णेभ्य: वृत्तिकरेभ्य: "वर्णंवर्णक्रियाविस्तारगुणवचने ' ष्विति धातुपाठात् "सुवर्णं वर्णयती'त्युदाहरणाच्चवस्तुनि गुणाधानरूपवर्णक्रियालक्षितं क्रियामात्रमाश्रित्य प्रवृत्तो वर्णशब्दो वृत्तिकरानाचष्टे धर्मो हि द्विविधो वृत्तिनियत: केवलश्च, आद्यो वर्ण: अथापर आश्रम: तदाशयेनोक्तं रघुवंशोपि " तपो रक्षन् विघ्रेभ्यस्तस्करे अत्रोद्धाररूपस्य करस्य तत्त्रद्दव्यादुद्गम ऊर्ध्वक्रियारूप एवाभिमत