close


  • ज्ञानामृतसारसंहिता अथवा नारदपाञ्चरात्रम्

ज्ञानामृतसारसंहिता

श्री-नारद-पञ्च-रात्रम्

 

प्रथमैक-रात्रे प्रथमोऽध्यायः

 

ॐ नमो भगवते वासुदेवाय

 

अथ मङ्गलाचरणम्

 

नारायणं नमस् कृत्य नरं चैव नरोत्तमम् |

देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् ||

 

गणेश-शेष-ब्रह्मेश-दिनेश-प्रमुखाः सुराः |

कुमाराद्याश् च मुनयः सिद्धाश् च कपिलादयः || ज्ञा. सा. सं_,१.१ ||

लक्ष्मी सरस्वती दुर्गा सावित्री राधिका परा |

भक्त्या नमन्ति यं शश्वत् तं नमामि परात् परं || ज्ञा. सा. सं_,१.२ ||

ध्यायन्ते सततं सन्तो योगिनो वैष्णवास् तथा |

ज्योतिर्-अभ्यन्तरे रूपम् अतुलं श्याम-सुन्दरम् || ज्ञा. सा. सं_,१.३ ||

ध्यायेत् तं परमं ब्रह्म परमात्मानम् ईश्वरम् |

निरीहम् अति-निर्लिप्तम् निर्गुणं प्रकृतेः परं || ज्ञा. सा. सं_,१.४ ||

सर्वेशं सर्व-रूपं च सर्व-कारण-कारणम् |

सत्यं नित्यं च पुरुषं पुराणं परम् अव्ययम् || ज्ञा. सा. सं_,१.५ ||

मङ्गल्यं मङ्गलार्हं च मङ्गलं मङ्गलालयम् |

स्वेच्छा-मयं परं धाम भगवन्तं सनातनम् || ज्ञा. सा. सं_,१.६ ||

स्तुवन्ति वेदा यं शश्वन्न् आनन्तं जानन्ति यस्य ते |

तं स्तौमि परमानन्दं सानन्दं नन्द-नन्दनम् || ज्ञा. सा. सं_,१.७ ||

भक्त-प्रियं च भक्तेशं भक्तानुग्रह-विग्रहं |

श्रीदं श्रीशं श्री-निवासं श्री-कृष्णं राधिकेश्वरम् || ज्ञा. सा. सं_,१.८ ||

ज्ञानामृतं ज्ञान-सिन्धोः संप्राप्य शङ्कराद् गुरोः |

परावराच् च परमाद् योगीन्द्राणां गुरोर् गुरोः || ज्ञा. सा. सं_,१.९ ||

वेदेभ्यो दधि-सिन्धुभ्यश् चतुर्भ्यः सुमनोहरम् |

तज् ज्ञान-मन्थ-दण्डेन संनिर्मथ्य नवं नवम् || ज्ञा. सा. सं_,१.१० ||

नवनीतं समुद्धृत्य नत्वा शम्भोः पदाम्बुजम् |

विधि-पुत्रो नारदो ऽहं पञ्च-रात्रं समारभे || ज्ञा. सा. सं_,१.११ ||

 

ॐ नारायणाश्रमे पुण्ये पुण्य-क्षेत्रे च भारत |

सिद्धे नारायण-क्षेत्रे वट-मूले सुपुण्यदे || ज्ञा. सा. सं_,१.१२ ||

कृष्णांशं कृष्ण-भक्तं च पलं कृष्ण-परायणम् |

श्री-कृष्ण-चरणाम्भोज-ध्यानैकतान-मानसम् || ज्ञा. सा. सं_,१.१३ ||

जपन्तं परमं ब्रह्म कृष्ण इत्य् अक्षर-द्वयम् |

सुखासने सुखासीनं कृष्ण-द्वैपायनं मुनिम् || ज्ञा. सा. सं_,१.१४ ||

पप्रच्छ शुकदेवश् च सर्व-ज्ञं पितरं मुनिः |

कारणण् च पुराणानां पुराणं परम् अव्ययम् || ज्ञा. सा. सं_,१.१५ ||

 

श्री-शुक उवाच

भगवन् सर्व-तत्त्व-ज्ञ वेद-वेदाङ्ग-पारग |

यद् यत् प्रकारं ज्ञानं च निगूढं श्रुति-सम्मतम् || ज्ञा. सा. सं_,१.१६ ||

तेषु यत् सार-भूतं चाप्य् अज्ञानान्ध-प्रदीपकम् |

तत् तत् सर्वं समालोच्य मां बोधयितुम् अर्हसि || ज्ञा. सा. सं_,१.१७ ||

 

अथ श्री-कृष्ण-भक्ति-प्रशंशा

 

स पिता ज्ञान-दाता यो ज्ञानं तत् कृष्ण-भक्तिदम् |

सा भक्तिः परमा शुद्धा कृष्ण-दास्य-प्रदा च या || ज्ञा. सा. सं_,१.१८ ||

तद् एव दास्यं शस्तं यत् साक्षाच् चरण-सेवनं |

नित्यं गोलोक-वासं च पुरतः स्तवनं हरेः || ज्ञा. सा. सं_,१.१९ ||

शश्वन् निमेष-रहितं तत्-पाद-पद्म-दर्शनम् |

शश्वत् तत्-सार्धम् आलाप-सेवा-कर्म-नियोजनम् || ज्ञा. सा. सं_,१.२० ||

तेन सार्धम् अविच्छेद-स्थानं परं शोभनम् |

भक्तानां वाञ्च्छितं वस्तु सार-भूतं श्रुतौ श्रुतम् || ज्ञा. सा. सं_,१.२१ ||

 

पुत्रस्य वचनं श्रुत्वा व्यासदेवो जहास सः |

विज्ञाय ज्ञानिनं पुत्रं परमाह्लादम् आप ह || ज्ञा. सा. सं_,१.२२ ||

पुत्रं शुभाशिषं कृत्वा सर्व-ज्ञः सर्व-भावनः |

यथाप्राप्तं गुरु-मुखात् प्रवक्तुम् उपचक्रमे || ज्ञा. सा. सं_,१.२३ ||

 

श्री-व्यास उवाच

शुक धन्यो ऽसि मान्यो ऽसि पुण्य-रूपो ऽसि भारते |

पुत्रेण भवतास्माकं कुलं मुक्तं च पावनम् || ज्ञा. सा. सं_,१.२४ ||

स पुत्रः कृष्ण-भक्तो यो भारते सुयशस्-करः |

पुनाति पुंसां शतकं जन्म-मात्रेण लीलया || ज्ञा. सा. सं_,१.२५ ||

माता-महानां शतकं मातरं मातृ-मातरम् |

सोदरान् बान्धवांश् चैव भृत्यान् पत्नीं सहात्मजाम् || ज्ञा. सा. सं_,१.२६ ||

यत्-कन्यां प्रतिगृह्णाति तद्-आदि-पुरुष-त्रयम् |

कन्या-प्रदाता श्वशुरो जीवन्-मुक्तः सभार्यकः || ज्ञा. सा. सं_,१.२७ ||

स्वयं विधाता भगवान् परं कृष्ण-परायणः |

कृष्ण-भक्तो वसिष्टस् तु तत् सुतो वैष्णवः स्वयम् || ज्ञा. सा. सं_,१.२८ ||

वैष्णवस् तत् सुतः शक्तिः कृष्ण-ध्यानैक-मानसः |

पराशरश् च तत्-पुत्रः कृष्ण-पादाब्ज-सेवया || ज्ञा. सा. सं_,१.२९ ||

जीवन्-मुक्तो महा-ज्ञानी योगीन्द्राणां गुरोर् गुरुः |

अहं वेद-विभक्ता च श्री-कृष्ण-पाद-सेवया || ज्ञा. सा. सं_,१.३० ||

गुरुर् मे भगवान् साक्षाद् योगीन्द्रो नारदो मुनिः |

गुरोर् गुरुर् मे शम्भुश् च योगीन्द्राणां गुरोर् गुरुः || ज्ञा. सा. सं_,१.३१ ||

तेषां पुण्येन पुत्रस् त्वं पुण्य-राशिश् च मूर्तिमान् |

पद्मानां मम पुंसां च प्रकाशो भास्करः स्वयम् || ज्ञा. सा. सं_,१.३२ ||

श्री-कृष्ण-चरणाम्भोजं पादाब्जं नारदेशयोः |

सरस्वतीं नमस् कृत्य ज्ञानं वक्ष्ये सनातनम् || ज्ञा. सा. सं_,१.३३ ||

श्रूयताम् पञ्च-रात्रं च वेद-सारम् अभीप्सितम् |

पञ्च-संवादम् इष्टं च भक्तानाम् अभिवाञ्च्छितम् || ज्ञा. सा. सं_,१.३४ ||

प्राणाधिकं प्रियं शुद्धं परं ज्ञानामृतं शुभं |

अथ षट्-संवादाः ?wहत्? हि गोलोके शत-शृङ्गे च पर्वते || ज्ञा. सा. सं_,१.३५ ||

सुपुण्ये विरजा-तीरे वट-मूले मनोहरे |

पुरतो राधिकायाश् च ब्रह्माणं कमलोद्भवम् || ज्ञा. सा. सं_,१.३६ ||

तम् उवाच महा-भक्तं स्तुवन्तं प्रणतं सुतम् |

पञ्च-रात्रम् इदं पुण्यं श्रुत्वा च जगतां विधिः || ज्ञा. सा. सं_,१.३७ ||

प्रणम्य राधिकां कृष्णं प्रययौ शिव-मन्दिरम् |

भक्त्या तम् पूजयाम् आस शङ्करः परमादरम् || ज्ञा. सा. सं_,१.३८ ||

सुखासने सुखासीनं स्वस्थं भक्तं च पूजितम् |

पप्रच्छ वार्तां विनयी विनयेन सुखावहाम् || ज्ञा. सा. सं_,१.३९ ||

सर्वं तं कथयाम् आस पञ्च-रात्रादिकं शुभम् |

वसन्तं वट-मूले च स्वर्गे मन्दाकिनी-तटे || ज्ञा. सा. सं_,१.४० ||

योगीन्द्रैर् अपि सिद्धेन्द्रैर् मुनीन्द्रैश् च स्तुतं प्रभुं |

ज्ञानामृतं तम् उक्त्वा स ब्रह्म-लोकं जगाम ह || ज्ञा. सा. सं_,१.४१ ||

शम्भुश् च कथयाम् आस स्व-शिष्यं नारदं मुनिम् |

नारदः कथयाम् आस पुष्करे सूर्य-पर्वणि || ज्ञा. सा. सं_,१.४२ ||

मां भक्तम् अनुरक्तं च पुण्याहे मुनि-संसदि |

पञ्च-रात्रम् इदं शुद्धं भ्रमान्ध-ध्वंस-दीपकम् || ज्ञा. सा. सं_,१.४३ ||

 

अथ पञ्च-रात्र-पद-व्याख्या

 

रात्रं च ज्ञान-वचनं ज्ञानं पञ्च-विधं स्मृतम् |

तेनेदं पञ्च-रात्रं च प्रवदन्ति मनीषिणः || ज्ञा. सा. सं_,१.४४ ||

ज्ञानं परम-तत्त्वं च जन्म-मृत्यु-जरापहम् |

ततो मृत्युञ्जयः शम्भुः संप्राप कृष्ण-वक्त्रतः || ज्ञा. सा. सं_,१.४५ ||

ज्ञानम् द्वितीयं परमं मुमुक्षूणां च वाञ्च्छितम् |

परं मुक्ति-प्रदं शुद्धं यतो लीनं हरेः पदे || ज्ञा. सा. सं_,१.४६ ||

ज्ञानं शुद्धं तृतीयं च मङ्गलं कृष्ण-भक्तिदम् |

तद्-दास्यम् अधीष्टं च यतो दास्यं लभेद् धरेः || ज्ञा. सा. सं_,१.४७ ||

चतुर्थं यौगिकं ज्ञानं सर्व-सिद्धि-प्रदं परम् |

सर्वस्वं योगिनां पुत्र सिद्धानां च सुख-प्रदम् || ज्ञा. सा. सं_,१.४८ ||

अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा |

ईशित्वं च वशित्वं च तथाकामावसायिता || ज्ञा. सा. सं_,१.४९ ||

सावज्ञं दूर-श्रवणं पर-काय-प्रवेशनम् |

काय-व्यूहं जीव-दानं पर-जीव-हरं परम् || ज्ञा. सा. सं_,१.५० ||

सर्ग-कर्तृत्व-शिल्पं च सर्ग-संहार-कारणम् |

सिद्धं च षोडश-विधं ज्ञानिनां च यतो भवेत् || ज्ञा. सा. सं_,१.५१ ||

ज्ञानं च परमं प्रोक्तं तद् वै वैषयिकं नृणां |

यद् इष्ट-देवी माया सा परं संमोह-कारणं || ज्ञा. सा. सं_,१.५२ ||

विषये बद्ध-चितं च सर्वम् इन्द्रिय-सेवनम् |

पोषनं स्व-कुटुम्बानां स्वात्मनश् च निरन्रतम् || ज्ञा. सा. सं_,१.५३ ||

प्रथमं सात्त्विकं ज्ञानं द्वितीयं च तद् एव च |

नैर्गुण्यं च तृतीयं च ज्ञानं च सर्वतः परम् || ज्ञा. सा. सं_,१.५४ ||

चतुर्थम् च राजसिकं भक्तस् तन् नाभिवाञ्च्छति |

पञ्चमं तामसं ज्ञानं विद्वांस् तन् नाभिवाञ्च्छति || ज्ञा. सा. सं_,१.५५ ||

ज्ञानं पञ्च-विधं प्रोक्तं पञ्च-रात्रं विदुर् बुधाः |

पञ्च-रात्रं सप्त-विधं ज्ञानिनां ज्ञानदं परम् || ज्ञा. सा. सं_,१.५६ ||

ब्राह्मं शैवं च कौमारं वासिष्टं कापिलं परम् |

गौतमीयं नारदीयम् इदं सप्त-विधं स्मृतम् || ज्ञा. सा. सं_,१.५७ ||

 

अथ ग्रन्थ-प्रशंसा

 

षट् पञ्च-रात्रं वेदाश् च पुराणानि च सर्वशः |

इतिहासं धर्म-शास्त्रं शात्रं च सिद्धि-योग-जम् || ज्ञा. सा. सं_,१.५८ ||

दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्करात् |

ज्ञानामृतं पञ्च-रात्रं चकार नारदो मुनिः || ज्ञा. सा. सं_,१.५९ ||

पुण्यं च पाप-विघ्नं भक्ति-दास्य-प्रदं हरेः |

सर्वस्वं वैष्णवानां च प्रियं प्राणाधिकं सुत || ज्ञा. सा. सं_,१.६० ||

सार-भूतं च सर्वेषां वेदानां परमाद्भुतम् |

नारदीयं पञ्च-रात्रं पुराणेषु सुदुर्लभम् || ज्ञा. सा. सं_,१.६१ ||

सर्वान्तरात्मा भगवान् ब्रह्म-ज्योतिः सनातनम् |

परिपूर्णतमः श्रीमान् यथा कृष्णः सुरेषु च || ज्ञा. सा. सं_,१.६२ ||

यथा देवीषु पूज्या सा मूल-प्रकृतिर् ईश्वरी |

वैष्णवानां च सिद्धानां ज्ञानिनां योगिनां शिवः || ज्ञा. सा. सं_,१.६३ ||

विश्वस्तानां इन्द्रियानाम् मनश् च शीघ्र-गामिनाम् |

ब्रह्मा च वेद-विदुषां पूज्यानां च गणेश्वरः || ज्ञा. सा. सं_,१.६४ ||

सनत्-कुमारो भगवान् मुनीनां प्रवरो यथा |

बृहस्पतिर् बुद्धिमतां सिद्धानां कपिलो यथा || ज्ञा. सा. सं_,१.६५ ||

योगीन्द्रानां सतां शुद्ध ऋषिर् नारायणो यथा |

कवीनां च यथा शुक्रः पण्डितानां बृहस्पतिः || ज्ञा. सा. सं_,१.६६ ||

सरिताम् च यथा गङ्गा समुद्राणां जलार्णवः |

वृन्दावनं वनानां च वर्षानां भारतं यथा || ज्ञा. सा. सं_,१.६७ ||

पुष्करं तत्र तीर्थानां पूज्यानां वैष्णवो यथा |

आत्माकाशो यथाप्तानां यथा काशी पुरीषु च || ज्ञा. सा. सं_,१.६८ ||

वृक्षाणां कल्प-वृक्षश् च सुरभी काम-धेनुषु |

पुष्पाणां पारिजातश् च पत्राणां तुलसी यथा || ज्ञा. सा. सं_,१.६९ ||

मन्त्राणां कृष्ण-मन्त्रश् च यथा विद्या धनेष्व् अपि |

यथा तेजस्विनां सूर्यो मिष्टानाम् अमृतं यथा || ज्ञा. सा. सं_,१.७० ||

आधाराणां च स्थूलानां महा-विष्णुर् यथा सुत |

सूक्ष्माणां परमाणुश् च गुरुणां मन्त्र-तन्त्र-दः || ज्ञा. सा. सं_,१.७१ ||

पुत्रश् च स्नेह-पात्राणां नक्षत्राणां यथा शशी |

यथा घृतं च गव्यानां शस्यानां धान्यम् ईप्सितम् || ज्ञा. सा. सं_,१.७२ ||

शास्त्राणां च यथा वेदाः साश्रमाणां यथा द्विजः |

तैजसानां यथा रत्नं मुक्तामाणिक्यहीरकम् || ज्ञा. सा. सं_,१.७३ ||

यथा छन्दसि गायत्री दुर्गा शक्तिमतीष्व् अपि |

पति-व्रतासु लक्स्मीश् च क्षमाशीलासु मेदिनी || ज्ञा. सा. सं_,१.७४ ||

सौभाग्यासु सुन्दरीषु राधा कृष्ण-प्रियासु च |

हनुमान् वानराणां च पक्षिणां गरुडो यथा || ज्ञा. सा. सं_,१.७५ ||

वाहनानां बलवतां शङ्करस्य यथा वृषः |

शालग्रामश् च यन्त्राणां पूजासु कृष्ण-पूजनम् || ज्ञा. सा. सं_,१.७६ ||

एकादशी व्रतानां च तपःस्व् अनशनं यथा |

यज्ञानां जप-यज्ञश् च सत्यं धर्मेषु पुत्रक || ज्ञा. सा. सं_,१.७७ ||

सुशीलं च गुणानां च पुण्येषु कृष्ण-कीर्तनम् |

शोभाशु सुख-दृश्येषु प्रभा तेजःसु सर्वतः || ज्ञा. सा. सं_,१.७८ ||

पोष्ट्रीणां उपकर्तृणां मित्राणां जननी यथा |

लोकानाम् अपि लोकेशः शेषो नागेषु पूजितः || ज्ञा. सा. सं_,१.७९ ||

सुदर्शनं च शस्त्राणां विश्वकर्मा च शिल्पिनाम् |

धर्मिष्ठेषु दयावत्सु देवर्षिसु महत्सु च || ज्ञा. सा. सं_,१.८० ||

विष्णु-भक्तेषु विज्ञेषु यथैव नारदो मुनिः |

एवं च सर्व-शास्त्रेषु पञ्च-रात्रं च पूजितम् || ज्ञा. सा. सं_,१.८१ ||

यथा निपीय पीयूषं न स्पृहा चान्य-वस्तुषु |

पञ्च-रात्रम् अभिज्ञाय नान्येषु च स्पृहा सताम् || ज्ञा. सा. सं_,१.८२ ||

सर्वार्थ-ज्ञान-बीजं चाप्य् अज्ञानान्ध-प्रदीपम् |

वेदसारोद्धृतं तत्त्वं सर्वेषां समभीप्सितम् || ज्ञा. सा. सं_,१.८३ ||

 

इति श्री-नारद-पञ्च-रात्रे ग्रन्थ-प्रशंसनं नाम प्रथमोऽध्यायः

प्रथमैक-रात्रे द्वितीयोऽध्यायः

 

शुक उवाच

कुत्र वा पञ्च-रात्रं च नारदस्य च धीमते |

प्रदत्तं शम्भुना तात तन् मे व्याख्यातुम् अर्हसि || ज्ञा. सा. सं_,२.१ ||

 

अथ नारदस्य तपो-वर्णनम्

 

व्यास उवाच

अधीत्य सर्वान् वेदांश् च वेदाङ्गाण् पितुर् अन्तिके |

जगाम तीत्र्हं केदारं सुप्रशस्तं च भारते || ज्ञा. सा. सं_,२.२ ||

हिमालयस्य पूर्वे य गङ्गा-तीरे मनोहरे |

सिद्धे नारायण-क्षेत्रे सर्वेषां अभिवाञ्च्छिते || ज्ञा. सा. सं_,२.३ ||

तपश् चकार स मुनिर् दिव्यं वर्ष-सहस्रकम् |

पित्रोक्तेनैव विधिना सततं संयुतः शुचिः || ज्ञा. सा. सं_,२.४ ||

शुश्रावाकाश-वाणीं च तपसो ऽन्ते महा-मुनिः |

स्वल्पाक्षरां च बह्व्-अर्थां परिणाम-सुखावहाम् || ज्ञा. सा. सं_,२.५ ||

 

अथ नारदं प्रति दैव-वाणी

 

अशरीरिष्य् उवाच

आधारितो यदि हरिस् तपसा ततः किम् |

नाधारितो यदि हरिस् तपसा ततः किम् |

अन्तर् बहिर् यदि हरिस् तपसा ततः किम् |

नान्तर् बहिर् यदि हरिस् तपसा ततः किम् || ज्ञा. सा. सं_,२.६ ||

विरम विरम ब्रह्मन् किं तपस्यासु वत्स |

व्रज व्रज द्विज शीघ्रं शङ्करं ज्ञान-सिन्धुम् |

लभ लभ हरि-भक्तिं वैष्णवोक्तां सुपक्वां |

भव-निगड-निबन्ध-छेदिनीं कर्तनीं च || ज्ञा. सा. सं_,२.७ ||

 

इति श्रुत्वा च स मुनिर् विमनाः स्वर्-णदी-तटे |

चकारार्थानुसन्धानं न प्रसन्नम् च तन् मनः || ज्ञा. सा. सं_,२.८ ||

रुरोद स्वर्-णदी-तीरे स्मारं स्मारं हरेः पदम् |

ददर्श पुरतस् तातं ब्रह्माणं सकुमारकम् || ज्ञा. सा. सं_,२.९ ||

ननाम सहसा मूर्ध्ना पितरं तं सहोदरम् |

पाद्यम् अर्घ्यं च प्रददौ जवेन सादरं मुनिः || ज्ञा. सा. सं_,२.१० ||

श्लोक-द्वयार्थं पप्रच्छ कुमारं जगतां विधिम् |

सुखासीनं सुस्थिरं च सस्मितं च गत-श्रमम् || ज्ञा. सा. सं_,२.११ ||

स्वात्मारामं पूर्ण-कामं ज्ञानिनां च गुरोर् गुरुम् |

साश्रु-नेत्रः पुलकितो भक्त्या प्रणत-कन्धरम् || ज्ञा. सा. सं_,२.१२ ||

नारदस्य वचः श्रुत्वा दृष्ट्वा तं कातरं विधिः |

पुत्रेण सार्द्धम् आलोच्य व्याख्यां कर्तुं समारेभे || ज्ञा. सा. सं_,२.१३ ||

 

अथ दैव-वाण्यर्थः

 

ब्रह्मोवाच

हे वत्स पूर्व-श्लोकार्थं निगूढं श्रुति-सम्मतम् |

वेदार्थं द्वि-विधं शुद्धं व्याख्यां कुर्वन्ति वैदिकाः || ज्ञा. सा. सं_,२.१४ ||

आराधितो यदि हरिर् येन पुंसा स्व-भक्तितः |

किं तस्य तपसा व्यर्थं तीर्थ-पूतस्य नारद || ज्ञा. सा. सं_,२.१५ ||

कृष्ण-मन्त्रोपासकस्य जीवन्-मुक्तस्य भारते |

तपश् चोपहास-बीजं तथा चर्वित-चर्वणम् || ज्ञा. सा. सं_,२.१६ ||

मन्त्र-ग्रहण-मात्रेण पुरुषाणां शतं सुत |

पुनाति स्व-स्व-भक्तं च चान्धवंश् चावलीलया || ज्ञा. सा. सं_,२.१७ ||

नहि धर्मो नहि तपः श्री-कृष्ण-सेवनात् परम् |

परिश्रमं च विफलं तपसा वैष्णवस्य च || ज्ञा. सा. सं_,२.१८ ||

कृष्ण-मन्त्रोपासकस्य तीर्थ-पूतस्य पुत्रक |

तीर्थ-स्नानम् अनशनं वेदेषु च विडम्बनम् || ज्ञा. सा. सं_,२.१९ ||

पूर्व-कर्मानुरोधेन यत् पापं वैष्णवस्य च |

मन्त्र-ग्रहण-मात्रेण नष्टं वह्नौ यथा तृणम् || ज्ञा. सा. सं_,२.२० ||

पवित्रः परमो वह्निः पवित्रं चामलं जलं |

पवित्रं भारतं वर्षं तीर्थं यत् तुलसी-दलम् || ज्ञा. सा. सं_,२.२१ ||

पुनाति लीलयैतानि शुद्धः कृष्ण-परायणः |

उपस्पर्श च भक्तस्याप्य् एते वाञ्च्छन्ति सादरम् || ज्ञा. सा. सं_,२.२२ ||

भक्तस्य पाद-रजसा सद्यः पूता वसुन्धरा |

नहि पूत-स्त्रि-भुवने श्री-कृष्ण-सेवकात् परः || ज्ञा. सा. सं_,२.२३ ||

शालिग्राम-शिला-चक्रे करोति कृष्ण-पूजनम् |

तत्-पादोदक-नैवेद्यं नित्यं भुङ्क्ते च यः पुमान् || ज्ञा. सा. सं_,२.२४ ||

स वैष्णवो महा-पूतस् तन्-मन्त्रोपासकः शुचिः |

पुनाति पुंसां शतकं जन्म-मात्रात् सबान्धवम् || ज्ञा. सा. सं_,२.२५ ||

वत्स श्लोकस्यैक-पादं व्याख्यातं च यथागमम् |

व्याख्यातं करोम्य् अन्य-पादं यथाज्ञानं मिशामय || ज्ञा. सा. सं_,२.२६ ||

नाराधितो यदि हरिर् येन पुंसाधमेन च |

किं तस्य तपसा व्यर्थं निष्फलं तत्-परिश्रमः || ज्ञा. सा. सं_,२.२७ ||

व्रतान्य् एव हि दानानि तपांस्य् अनशनानि च |

वेदोपयुक्ता यज्ञाश् च कर्माणि च शुभानि च |

न निष्पुनात्य् अभक्तं च सुराकुम्भम् इवापगा || ज्ञा. सा. सं_,२.२८ ||

अभक्त-स्पर्श-मात्रेण तीर्थानि कम्पितानि च |

अभक्त-भार-दुःखेन कम्पिता सा वसुन्धरा || ज्ञा. सा. सं_,२.२९ ||

श्लोकार्धं कथितं वत्स किंचिद् एव यथागमम् |

तस्यार्धस्यापि व्याख्यानं करोमीति निशामय || ज्ञा. सा. सं_,२.३० ||

वेद-सारं कृष्ण-मतं ममापि नहि कल्पना |

अन्तर् बहिर् यदि हैर् येषां पुंसां महात्मनां || ज्ञा. सा. सं_,२.३१ ||

स्वप्ने जागरणे शश्वत् तपस् तेषां च निष्फलम् |

स एव विष्णु-तुल्यो हि तद्-अंशो भारते मुने || ज्ञा. सा. सं_,२.३२ ||

तस्य रक्षा-निबन्धेन तद्-अभ्यासे सुदर्शनम् |

ध्यान-मात्रेण निष्-पापः पुनाति भुवन-त्रयम् || ज्ञा. सा. सं_,२.३३ ||

दत्वा चक्रं च रक्षार्थं न निश्चिन्तो जनार्दनः |

स्वयं तन् निकटं याति द्रष्टुं रक्षणाय च || ज्ञा. सा. सं_,२.३४ ||

तत्-परो हि प्रियो नास्ति कृष्णस्य परमात्मनः |

नहि भक्तात् परश् चात्मा प्राणाश् चावयवादयः |

न लक्ष्मी राधिका वाणी स्वयंभुः शम्भुर् एव च || ज्ञा. सा. सं_,२.३५ ||

भक्त-प्राणो हि कृष्णश् च कृष्ण-प्राणा हि वैष्णवाः |

ध्यायन्ते वैष्णवाः कृष्णं कृष्णश् च वैष्णवांस् तथा || ज्ञा. सा. सं_,२.३६ ||

व्याख्यातम् च त्रि-पादं च हे मुनीन्द्र यथागमम् |

शेष-पादस्य व्याख्यानं करोमीति निशामय || ज्ञा. सा. सं_,२.३७ ||

नान्तर् बहिर् यदि हरिर् येषां पुंसां च नारद |

तेषाम् अपि तपो व्यर्थम् अन्तर्-मलिन-चेतसां || ज्ञा. सा. सं_,२.३८ ||

किं तज्-ज्ञानेन तपसा व्रतेन नियमेन च |

तीर्थ-स्नानेन पुण्येनापि अभक्त-मूढ-चेतसां || ज्ञा. सा. सं_,२.३९ ||

कृष्ण-भक्ति-विहीनेभ्यो द्विजेभ्यः श्वपचो महान् |

शूकरो म्लेच्छ-निवहः स्व-धर्माचरेण च || ज्ञा. सा. सं_,२.४० ||

स्व-धर्म-हीना विप्राश् चाप्य् अभक्ष्य-भक्षणेन च |

नित्यं नित्यं विधर्मेण पतिताः श्वपचाधमाः || ज्ञा. सा. सं_,२.४१ ||

ब्रह्मणानां स्व-धर्मश् च सन्ततं कृष्ण-सेवनम् |

नित्यं ते भुञ्जते सन्तस् तन्-नैवेद्यं पादोदकम् || ज्ञा. सा. सं_,२.४२ ||

न दत्वा हरये यस् तु यदि भुङ्क्ते द्विजाधमः |

अन्नं विष्ठा-समं मूत्र-समं तोयं विदुर् बुधाः || ज्ञा. सा. सं_,२.४३ ||

भुङ्क्ते स्व-भक्ष्यं कोलश् च म्लेच्छश् च श्वपचाधमः |

विप्रो नित्यम् अभक्ष्यं च भुङ्क्ते च पतितस् ततः || ज्ञा. सा. सं_,२.४४ ||

श्लोकम् एकं च व्याख्यातं यथा-ज्ञानं च नारद |

सन्निबोध परस्यार्धं व्याख्यानं च यथोचितं || ज्ञा. सा. सं_,२.४५ ||

तपसो विरम ब्रह्मन् व्यर्थं भक्त-तपो ध्रुवम् |

शङ्करश् च गुरुं कृत्वा हरि-भक्तिं लभाचिरम् || ज्ञा. सा. सं_,२.४६ ||

सुपक्वा हरि-भक्तिश् च तरणी भव-तारणे |

गुरुर् एव परं ब्रह्म कर्ण-धार-स्वरूपकः || ज्ञा. सा. सं_,२.४७ ||

इत्य् एवम् उक्त्वा त्वां देवी प्रजगाम सरस्वती |

व्याख्यातस् तद्-अभिप्रायः किं भूयः कथयामि ते || ज्ञा. सा. सं_,२.४८ ||

 

ब्रह्माणश् च वचः श्रुत्वा जहास योगिनां गुरुः |

सनत्-कुमारो भगवान् उवाच पितरं शुक || ज्ञा. सा. सं_,२.४९ ||

 

सनत्-कुमार उवाच

पूर्व-श्लोकस्य व्याख्यानं न बुद्धं शिशुना मया |

पुत्रं शिष्यम् अबोधं च युक्तं बोधयितुम् पुनः || ज्ञा. सा. सं_,२.५० ||

आराधितो हरिर् येन तस्य व्यर्थं तपो यदि |

नाराधितो हैर् येन तस्य व्यर्तं तपो यदि || ज्ञा. सा. सं_,२.५१ ||

तस्यारहितौ तौ द्वौ तपसश् च स्थलं कुतः |

तपः कुर्वन्ति ये तात त्वं मां बोधय बालकम् || ज्ञा. सा. सं_,२.५२ ||

 

पुत्रस्य वचनं श्रुत्वा सन्दिग्धो जगतां गुरुः |

दध्यौ कृष्ण-पदाम्भोजं परं कल्प-तरुं शुक || ज्ञा. सा. सं_,२.५३ ||

क्षणं संचित्य पादाब्जं प्राप राद्धान्तम् ईप्सितम् |

व्याख्यां कर्तुं समारेभे विधाता जगताम् अपि || ज्ञा. सा. सं_,२.५४ ||

 

अथ नैवेद्य-प्रशंसा

 

ब्रह्मोवाच

धन्यो ऽहं भवतः पुत्रात् ज्ञानिनां च गुरोर् गुरोः |

विष्णु-भक्ताच् च धर्मिष्ठात् सत्-पुत्राच् च पिता सुखी || ज्ञा. सा. सं_,२.५५ ||

धन्यो ऽसि पण्डितो ऽसि त्वं हरि-भक्तो ऽसि पुत्रक |

ममापि सफलं जन्म जीवनं च त्वया बुध || ज्ञा. सा. सं_,२.५६ ||

निबोध पूर्व-श्लोकार्थं पुनर् व्याख्यां करोमि च |

तथापि चेन् न सन्तोषो भवान् व्याख्यां करिष्यति || ज्ञा. सा. सं_,२.५७ ||

आशब्दः सम्यग्-अर्थे च राधितः प्राप्त-वाचकः |

संप्राप्तश् च हरिर् येन व्यर्थस् तस्य तपः-श्रमः || ज्ञा. सा. सं_,२.५८ ||

येन सम्यक्-प्रकारेण संप्राप्तो हरिर् ईश्वरः |

स्वप्ने ज्ञाने च ज्ञातस् तेषां व्यर्थस् तपः-श्रमः || ज्ञा. सा. सं_,२.५९ ||

श्री-कृष्ण-विमुखं मूढं द्विजम् एव नराधमम् |

तीर्थं दानं तापः पुण्यं व्रतं नैव पुनाति तम् || ज्ञा. सा. सं_,२.६० ||

यश् च मूढतमो लोके यश् च भक्तिं परां गतः |

ताव् उभौ सुख-सेधेते तपः कुर्वन्ति मध्यमाः || ज्ञा. सा. सं_,२.६१ ||

देवान् अन्यांश् च भजते हरिं जानाति तत्-परः |

तपः करोति तं प्राप्तुम् आकाङ्क्षन् मध्यमो जनः || ज्ञा. सा. सं_,२.६२ ||

प्राक्तनाद् अनुरागी च गृही संसार-संवृतः |

तपः करोति श्री-कृष्ण-पाद-पद्मार्थम् ईप्सितम् || ज्ञा. सा. सं_,२.६३ ||

परं श्री-कृष्ण-भजनं ध्यानं तन्-नाम-कीर्तनम् |

तत्-पादोदक-नैवेद्य-भक्षणं सर्व-वाञ्च्छितम् || ज्ञा. सा. सं_,२.६४ ||

अतीव मूढो विप्रश् च प्राक्तनाद् गुरु-दोषतः |

तामसो हि न जानाति श्री-कृष्णं त्रि-गुणात् परम् || ज्ञा. सा. सं_,२.६५ ||

अज्ञानाद् अथ वा ज्ञानात् सत्-सङ्गाद् एव प्राक्तनात् |

भुङ्क्ते नैवेद्यं ईशस्य कृष्णस्य परमात्मनः || ज्ञा. सा. सं_,२.६६ ||

स च मुक्तो भवेत् पुत्र मुच्यते सर्व-पातकात् |

स याति दिव्य-यानेन गोलोकं लोकम् उत्तमम् || ज्ञा. सा. सं_,२.६७ ||

शृणु वत्स प्रवक्ष्यामि पूर्वाख्यानं पुरातनम् |

अतीव सुश्रवं चारु मधुरं मुक्तिदं परम् || ज्ञा. सा. सं_,२.६८ ||

कान्यकुब्जः सुक्षुब्धश् च ब्राह्मणो ग्राम-याजकः |

देवलो वृष-वाहश् च महा-मूढश् च पातकी || ज्ञा. सा. सं_,२.६९ ||

स्वप्ने ज्ञाने न जानाति पुण्यं वा कृष्ण-पूजनम् |

कृष्ण-भक्त-सहालाप-दर्शन-स्पर्शनं शुभं || ज्ञा. सा. सं_,२.७० ||

बभूव प्राक्तनात् तस्य क्षण-मात्रं सुदुर्लभम् |

तेन पुण्येन नैवेद्यं लेभे कृष्णस्य ब्राह्मणः || ज्ञा. सा. सं_,२.७१ ||

पितुः पुण्येन पुत्रश् च मार्गे पतितम् अल्पकम् |

स्वयं भुक्तावशेषं च पतितं वैष्णवाज् जनात् || ज्ञा. सा. सं_,२.७२ ||

सुस्निग्धाक्षत-जीर्णं च रजसा मिश्रितं परम् |

गच्छतस् तत्र विप्रस्य पतितं भक्ष्य-वस्तु च || ज्ञा. सा. सं_,२.७३ ||

नैवेद्योपरि कृष्णस्य त्वरायुक्तस्य पुत्रक |

तद्-वस्तु भुक्तं विप्रेण कृष्ण-नैवेद्य-मिश्रितम् || ज्ञा. सा. सं_,२.७४ ||

सपुत्रेण क्षुधार्तेन तौ ययतुर् गृहम् |

विप्रोच्छिष्टं च बुभुजे तस्य पत्नी पति-व्रता || ज्ञा. सा. सं_,२.७५ ||

परम्परानुसंबन्धात् पवित्रा सा बभूव ह |

जीवन्-मुक्तो ब्राह्मणश् च बभूव स सपुत्रकः || ज्ञा. सा. सं_,२.७६ ||

कालेन तेन पुण्येन व्याघ्र-भुक्तश् च कानने |

सार्धं च व्याघ्र-पुत्राभ्यां गोलोकं प्रययौ द्विज |

पति-व्रता सह-मृता भर्ता सार्धं जगाम सा || ज्ञा. सा. सं_,२.७७ ||

 

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे ब्रह्म-सनत्-कुमार-संवादे नैवेद्य-प्रशंसनं नाम द्वितीयोऽध्यायः

प्रथमैक-रात्रे तृतीयोऽध्यायः

 

 

सनत्-कुमार उवाच

 

अहो तात किम् आश्चर्यं कृष्णस्य परमात्मनः |

परं नैवेद्य-माहात्म्यं विस्तराद् वद साम्प्रतम् || ज्ञा. सा. सं_,३.१ ||

 

अथ श्री-कृष्ण-महिम-वर्णनम्

 

ब्रह्मोवाच

एकदा ब्राह्मणो हृष्टः प्रफुल्ल-वदनेक्षणः |

पुत्रेण सार्धं प्रययौ बान्धवस्य गृहं मुदा || ज्ञा. सा. सं_,३.२ ||

निमन्त्रितो विवाहेन महा-संभार-संभृतः |

भुक्त्वा पीत्वा च तद्-गृहे स्व-गृहं प्रययौ मुदा || ज्ञा. सा. सं_,३.३ ||

सपुत्रो ब्राह्मणो मार्गे क्षुत्-पिपासार्दितः सुतः |

ददर्श चन्द्र-भागां तां नदीम् अति-मनोहराम् || ज्ञा. सा. सं_,३.४ ||

उवाच पुत्रः पित्रं स्नात्वा भोक्ष्यामि चेति भोः |

क्षुत्-पिपासा बलवती वर्धते तात वर्त्मनि || ज्ञा. सा. सं_,३.५ ||

पुत्रस्य वचनं श्रुत्वा तम् उवाच द्विजः स्वयम् |

भयंकरं वनम् इदं समीपे सरितः सुतः || ज्ञा. सा. सं_,३.६ ||

सुशीघ्रं गच्छ ग्रामान्तं पुरो रम्य-सरोवरम् |

तत्र स्नात्वा च भोक्ष्यावो गच्छ वत्स यथासुखम् || ज्ञा. सा. सं_,३.७ ||

तातस्य वचनं श्रुत्वा जहास च चुकोप ह |

पितरं वक्तुम् आरेभे रक्त-पण्ग्कज-लोचनः || ज्ञा. सा. सं_,३.८ ||

 

शिशुर् उवाच

बालो ऽहं दश-वर्षीयस् त्वं च वृद्धश् च ज्ञानदः |

पिता ददाति पुत्राय ज्ञानं सर्वत्र भू-तले || ज्ञा. सा. सं_,३.९ ||

अहो दुरत्ययः कालो वृध्हो वदति बालवत् |

कथं प्राक्तनम् उल्लङ्घ्य ब्रूहि तात दुरत्ययम् || ज्ञा. सा. सं_,३.१० ||

प्राक्तनात् सुख-दुःखं च रोगं शोकं भयं पितः |

सुमृत्युर् अपमृत्युर् वा चिरायुर् अल्प-जीवनः || ज्ञा. सा. सं_,३.११ ||

यत्र काले च यन्-मृत्युर् भवनं शुभ-कर्म च |

न्यूनाधिकं क्षणं नास्ति निषेकः केन वार्यते || ज्ञा. सा. सं_,३.१२ ||

यस्य हस्ते च यन्-मृत्युर् विधात्रा लिखितः पुरा |

न च तं खण्डितुं शक्तः स्वयं विष्णुश् च शङ्करः || ज्ञा. सा. सं_,३.१३ ||

तात व्यर्थम् अधीतं ते दुर्बुद्धेर् जन्म निष्फलम् |

सुबुद्धेः सफलं जन्म तत्-क्षणम् जीवनं सुखम् || ज्ञा. सा. सं_,३.१४ ||

येन शुक्ली-कृता हंसाः शुकाश् च हरिती-कृताः |

मयूराश् चित्रिता येन स मे रक्षां करिष्यति || ज्ञा. सा. सं_,३.१५ ||

येन कृष्णेन विश्वानि चासंख्यानि कृतानि च |

चराचरं च यो रक्षेत् स मे रक्षां करिष्यति || ज्ञा. सा. सं_,३.१६ ||

घोरारण्ये सुखं शेते यो हि कृष्णेन रक्षितः |

निर्बन्धो ऽपि यस्य मरणं तस्य मन्दिरे || ज्ञा. सा. सं_,३.१७ ||

यः शेते नाग-शय्यासु प्राक्तनान् मङ्गलाहितः |

यो नाग-भक्षितो भोगात् स भृतो गरुडान्तिके || ज्ञा. सा. सं_,३.१८ ||

न समुद्रे च म्रियते नाग्नि-राशौ विषानले |

न शस्त्रेण न चास्त्रेणायुर्-मर्माणि रक्षति || ज्ञा. सा. सं_,३.१९ ||

नाप्राप्त-कालो म्रियते विद्धः शर-शतैर् अपि |

तृणाग्रेणापि संस्पृष्टः प्राप्त-कालो न जीवति || ज्ञा. सा. सं_,३.२० ||

कश्चिद् गर्भे च म्रियते कश्चिद् भूमिष्ट-मात्रतः |

कश्चिद् यौवन-काले च कश्चिद् एव हि वार्द्धके || ज्ञा. सा. सं_,३.२१ ||

कश्चिद् चिरायु रोगी चाप्य् अरोगी चापि कश्चन |

कश्चिद् धनी दरिद्रश् च कश्चिद् एव हि कर्मणा || ज्ञा. सा. सं_,३.२२ ||

कश्चित् कल्पान्त-जीवी च चिर-जीवी च कश्चन |

प्राक्तनाद् अमरः कश्चिन् निषेको बलवत्तरः || ज्ञा. सा. सं_,३.२३ ||

कश्चिद् याति च राजेन्द्रो दिव्य-यानेन कर्मणा |

कश्चित् कीट-पतङ्गेषु कश्चित् पश्वादि-योनिषु || ज्ञा. सा. सं_,३.२४ ||

कश्चिद् एव हि सन्न्यासी कश्चिच् च नर-घातकः |

कश्चिद् गजेन्द्र-गामी च पशु-यायी च कश्चन || ज्ञा. सा. सं_,३.२५ ||

कश्चिद् सूक्ष्मांशुका-धारी कश्चिज् जीर्ण-पटी जनः || ज्ञा. सा. सं_,३.२६ ||

कश्चिन् नग्नो ऽअप्य् अनाहारी सुधा-भोजी च च कश्चन |

कश्चिच् च सुन्दरः श्रीमान् गलत्-कुष्टी च कश्चन || ज्ञा. सा. सं_,३.२७ ||

कश्चित् कुब्जश् चाङ्ग-हीनो बधिरः काण एव च |

कश्चिद् दीर्घो मध्यमश् च कश्चित् खञ्जश् च वामनः || ज्ञा. सा. सं_,३.२८ ||

कश्चित् कृष्णश् च गौरश् च श्यामलश् च स्व-कर्मणा |

कश्चिद् भक्त्या च प्राप्नोति कृष्ण-दास्यं सुदुर्लभम् || ज्ञा. सा. सं_,३.२९ ||

ब्रह्मणः परमं स्थानं जन्म-मृत्यु-जरा-हरम् |

कश्चित् प्राप्नोति परमं ब्रह्म-लोकं निरामयम् || ज्ञा. सा. सं_,३.३० ||

कश्चित् स्वर्गम् इन्द्र-पदं शिव-लोकं स्वकर्मणा |

कश्चित् वर्गम् इन्द्र-लोकं यम-लोकं च कश्चन || ज्ञा. सा. सं_,३.३१ ||

कश्चिच् च नरके घोरे प्राप्नोति क्लेशम् उल्वणम् |

तादितो यम-दूतेन क्षुधितस् तृषितः सदा || ज्ञा. सा. सं_,३.३२ ||

भुङ्क्ते विण्-मूत्र-कीटं तन्-मलं श्लेष्मं गरं वसाम् |

क्षुर-धारे तप्त-तैले वह्नौ शिते जले स्थले || ज्ञा. सा. सं_,३.३३ ||

प्राप्नोति दारुणं दुःखम् आकल्पं पातकी पितः |

तथा भोगावशेषे च लब्धा जन्म स्व-कर्मणा || ज्ञा. सा. सं_,३.३४ ||

व्याधि-युक्तः प्रमुच्येत तया चेद् ईश्वरेच्छया |

यद्-भयाद् वाति वातो ऽयं सूर्यस् तपति यद्-भयात् || ज्ञा. सा. सं_,३.३५ ||

वर्षतीन्द्रो दहत्य् अग्निर् मृत्युश् चरति जन्तुषु |

यस्याज्ञया सृष्टि-विधौ मूर्मो ऽनन्तं दधाति च || ज्ञा. सा. सं_,३.३६ ||

स च सर्वं च ब्रह्माण्डं लीलया चेश्वरेच्छया |

यस्याज्ञया महा-भीता सर्वाधारा वसुन्धरा || ज्ञा. सा. सं_,३.३७ ||

धरा सा सर्वस्याद्या रत्नवांश् च हिमालयः |

स्वयं विधाता भगवान् ध्यायते यम् अहर्-निशम् || ज्ञा. सा. सं_,३.३८ ||

यं ध्यायते च भजते स्वयं मृतुञ्जयः शिवः |

सहस्र-वक्त्रो ऽयं स्तौति ध्यायते भजते सदा || ज्ञा. सा. सं_,३.३९ ||

स्वय्ं सरस्वती स्तौति यम् ईश्वरम् अभीप्सितम् |

सेवते पाद-पद्मं च स्वयं पद्मालया पितः || ज्ञा. सा. सं_,३.४० ||

माया भीता च यं स्तौति दुर्गा दुर्गति-नाशिनी |

स्तुवन्ति वेदाः सततं सावित्री वेद-मातृका || ज्ञा. सा. सं_,३.४१ ||

सिद्धेन्द्राश् च मुनीन्द्राश् च योगीन्द्राः सनकादयः |

राजेन्द्राश् चासुरेन्द्राश् च सुरेन्द्रा मनवस् तथा || ज्ञा. सा. सं_,३.४२ ||

ध्यायन्ते च भजन्ते च भक्ताः सन्तो हि सन्ततम् |

केचिद् विदन्ति यं ब्रह्मां भगवन्तं सनातनम् || ज्ञा. सा. सं_,३.४३ ||

केचित् प्रधानं सर्वाद्यं केचिच् च ज्योतिर् ईश्वरम् |

केचिच् च सर्व-रूपं च सर्व-कारण-कारणम् || ज्ञा. सा. सं_,३.४४ ||

केचित् स्वेच्छाभयं रूपं भक्तानुग्रह-विग्रहम् |

केचित् सुरुचिरं श्याम-सुन्दरं मनोहरम् || ज्ञा. सा. सं_,३.४५ ||

सानन्दं परमानन्दं गोविन्दं नन्द-नन्दनम् |

भज तात परं ब्रह्म स्मर शश्वत् सुरेश्वरम् || ज्ञा. सा. सं_,३.४६ ||

 

इत्य् एवम् उक्त्वा पितरं चन्द्र-भागा-नदी-जले |

स्नात्वा पपौ जलं स्वच्छं बुभुजे मिष्ट-मोदकम् || ज्ञा. सा. सं_,३.४७ ||

पिता तद्-वचनं श्रुत्वा सानन्दाश्रु मुमोच सः |

चुचुम्ब गण्डं पुत्रस्य समाश्लेषण-पूर्वकम् || ज्ञा. सा. सं_,३.४८ ||

पिता स्नात्वा समारेभे सन्ध्यां कर्तुं च पूजनम् |

सुस्नातं पितरं दृष्ट्वा पुत्रः स प्रययौ वनम् || ज्ञा. सा. सं_,३.४९ ||

पत्रं भोजन-पात्रार्थम् अर्हतुं चञ्चलः शिशुः |

चकार चयनं तूर्णं प्रशस्तं पत्र-पञ्चकम् || ज्ञा. सा. सं_,३.५० ||

सुन्दरं कुसुमं वन्यं पूजनार्थं पितुस् तथा |

ददर्श पुरतो बालः सुपक्वं वदरी-फलम् || ज्ञा. सा. सं_,३.५१ ||

चकार चयनं तानि फलानि शोभनानि च |

धात्री-फलं सुपक्वं च पक्वम् आम्रातकं तथा || ज्ञा. सा. सं_,३.५२ ||

सुपक्वं च कदम्बं च चकार चयनं पुनः |

सुपक्वं सुन्दरं रम्यं दाडिमं श्री-फलं तथा || ज्ञा. सा. सं_,३.५३ ||

रम्यं जम्बु-फलं चैव खर्जूरं सुमनोहरम् |

करञ्जकं च जाम्बीरं सुन्दरं चिकुरं तथा || ज्ञा. सा. सं_,३.५४ ||

तत् सर्वं चयनं कृत्वा ददर्श पुरतः सरः |

सुनिर्मलं जलं स्वच्छं श्वेत-पद्मं मनोहरम् || ज्ञा. सा. सं_,३.५५ ||

रुचिरं रक्त-कह्लारं प्रस्फुटं च जलान्तिके |

विहाय तानि सर्वाणि सरः-शिरसि सुस्थले || ज्ञा. सा. सं_,३.५६ ||

पपौ सरः-स्वच्छ-तोयं जहार पद्मम् उल्वणम् |

किंचित् सुरक्त-कह्लारं पक्वं पद्म-फलं तथा || ज्ञा. सा. सं_,३.५७ ||

सर्वम् आहरणं कृत्वा पितरं गन्तुम् उद्यतः |

प्रफुल्ल-वदनः श्रीमान् सस्मितो द्विज-बालकः || ज्ञा. सा. सं_,३.५८ ||

प्रफुल्ल-चम्पक-तरुं ददर्श पुरतः शिशुः |

मल्लिका-मालती-कुन्दयूथिका-माधवी-लताः || ज्ञा. सा. सं_,३.५९ ||

चकार चयनं स्फीतः पुष्पाणि सुन्दराणि च |

पुष्पेण फल-पत्रेण तस्य भारो बभूव ह || ज्ञा. सा. सं_,३.६० ||

बालो वोढुम् अशक्यन्तश् च ययौ गमन-मन्थरः |

न फलं बुभुजे सो ऽपि धर्माधर्म-भयेन च || ज्ञा. सा. सं_,३.६१ ||

पुरो ददर्श स शिशुर् घोरं व्याघ्रालयं भिया |

तात तातेति शब्दं च चकार ह पुनः पुनः || ज्ञा. सा. सं_,३.६२ ||

न ददर्श च तातं च शार्दुलं च ददर्श सः |

भिया सस्मार गोविन्द-पादारवैन्दम् ईप्सितम् || ज्ञा. सा. सं_,३.६३ ||

हरिं नर-हरिं रामं कृष्णं विष्णुं च माध्वम् |

दामोदरं हृषीकेशं मुकुन्दं मधु-सूदनम् || ज्ञा. सा. सं_,३.६४ ||

एतानि दश नामानि जपन् विप्र-शिशुर् भिया |

प्रययौ पुरतः शीघ्रं पुनर् एव सरोवरम् || ज्ञा. सा. सं_,३.६५ ||

सरसो निर्मले तीरे पुष्पाणि च फलानि च |

ददौ भक्त्या भगवते कृष्णाय परमात्मने || ज्ञा. सा. सं_,३.६६ ||

श्री-कृष्ण-पूजां कुर्वन्तं ध्यानमानां पदाम्बुजम् |

निकटं न ययौ व्याघ्रो दृष्ट्वा बालं च दूरतः || ज्ञा. सा. सं_,३.६७ ||

व्याघ्रं ददर्श बालश् च प्रकटास्यं भयानकम् |

विकृताकार-दशनं विकटाक्षं महोदरम् || ज्ञा. सा. सं_,३.६८ ||

दृष्ट्वा च दुरतो व्याघ्रम् उवास सरसस् तटे |

दध्यौ कृष्ण-पदाम्भोजं जन्म-मृत्यु-जरा-हरम् || ज्ञा. सा. सं_,३.६९ ||

मूलाधारं स्वाधिष्ठानं मणिपूरम् अनाहतम् |

विशुद्धं च तथाज्ञाख्यं षट्-चक्रं च विभाव्य च || ज्ञा. सा. सं_,३.७० ||

कुण्डलिन्या स्व-शक्त्या च सहितं परमेश्वरम् |

सहस्र-दल-पद्म-स्थं हृदये स्वात्मनः प्रभुम् || ज्ञा. सा. सं_,३.७१ ||

ददर्श द्विभुजं कृष्णं पीत-कौशेय-वाससम् |

सस्मितं सुन्दरं शुद्धं नवीन-जलद-प्रभम् || ज्ञा. सा. सं_,३.७२ ||

कोटि-कन्दर्प-सौन्दर्य-लीला-धाम-मनोहरम् |

कोटि-पार्वण-पूर्णेन्दु-प्रभा-जुष्टं च सुन्दरम् || ज्ञा. सा. सं_,३.७३ ||

सुख-दृश्यं सुरूपं च भक्तानुग्रह-कारकम् |

चन्दनोक्षित-सर्वाङ्गं रत्न-भूषण-भूषितम् || ज्ञा. सा. सं_,३.७४ ||

प्रफुल्ल-पद्म-नयनं राधा-वक्षः-स्थल-स्थितम् |

मालती-माल्य-सम्बद्ध-चूडा-चारु-सुशोभनम् || ज्ञा. सा. सं_,३.७५ ||

धृत-रत्नं रत्न-पद्मं दक्षिणेन करेण च |

वामेन मणि-निर्माण-दीप्त-दर्पणम् उज्ज्वलम् || ज्ञा. सा. सं_,३.७६ ||

रत्न-कुण्डाल-युग्मेन गण्ड-स्थल-विराजितम् |

कौस्थुभेन मणीन्द्रेण चारु-वक्षः-स्थलोज्ज्वलम् || ज्ञा. सा. सं_,३.७७|

मुक्ताराजि-विनिन्दैक-दन्त-राजि-विराजितम् |

आजानु-मालती-माला-वन-माला-विभूषितम् || ज्ञा. सा. सं_,३.७८ ||

वेदानन-सरस्वत्या स्तुतं ब्रह्मेश-वन्दितम् |

पद्मापद्मालया-माया-संसेवित-पदाम्बुजम् || ज्ञा. सा. सं_,३.७९ ||

परि-पूर्णतमम् ब्रह्म परमात्मानम् ईश्वरम् |

निर्लिप्तं साक्षि-भूतं च भगवन्तं सनातनम् || ज्ञा. सा. सं_,३.८० ||

सर्वेशां सर्व-रूपं च सर्व-कारण-कारणम् |

पुरुषं परमात्मैकं परेशं प्रकृतेः परं || ज्ञा. सा. सं_,३.८१ ||

एवं भूतं विभुं दृष्ट्वा मनसा प्रणनाम तम् |

तुष्टाव परया भक्त्या तम् ईशं सम्पुटाञ्जलिः || ज्ञा. सा. सं_,३.८२ ||

 

श्री-सुभद्र उवाच

हे नाथ दर्श्नं देहि मां भक्तं शरणागतम् |

श्रीद श्रीश श्री-निवास श्री-निधे श्री-निकेतन || ज्ञा. सा. सं_,३.८३ ||

श्रिया सेवित-पादाब्ज श्री-समुत्पत्ति-कारण |

वेदानिर्वचनियेश निरीह निर्गुणाधिप || ज्ञा. सा. सं_,३.८४ ||

सर्वाद्य सर्व-निलय सर्व-बीज सनातन |

शान्त सरस्वती-कान्त नितान्त सर्व-कर्मसु || ज्ञा. सा. सं_,३.८५ ||

सर्वाधार निराधार काम-पूर परात् पर |

दुष्पारासार-संसार-कर्ण-धार नमो ऽस्तु ते || ज्ञा. सा. सं_,३.८६ ||

 

इत्य् एवम् उक्त्वा स शिशु रुरोद च पुनः पुनः |

ध्यायेन तत्-पदाम्भोजं शरणं च चकार सः || ज्ञा. सा. सं_,३.८७ ||

इति विप्रकृतं स्तोत्रं त्रि-सन्ध्यं यः पठेन् नरः |

मुच्यते सर्व-पापेभ्यो विष्णु-लोकं स गच्छति || ज्ञा. सा. सं_,३.८८ ||

 

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे ब्रह्म-सनत्-कुमार-संवादे श्री-कृष्ण-महिमोपालम्भनं नाम तृतीयोऽध्यायः

प्रथमैक-रात्रे चतुर्थोऽध्यायः

 

 

ब्रह्मोवाच

ब्राह्मणस्य स्तवं श्रुत्वा परितुष्टो जनार्दनः |

कृपां चकार भगवान् भक्तेशो भक्त-वत्सलः || ज्ञा. सा. सं_,४.१ ||

एतस्मिन्न् अन्तरे तत्र भगवान् नन्द-नन्दनः |

नारायणर्षिः कृपया चाजगाम सरोवरम् || ज्ञा. सा. सं_,४.२ ||

ददर्श ब्राह्मण-वटुं तम् एव मुनि-पुङ्गवम् |

तेजसा सुख-दृश्येन सुन्दरं सुमनोहरम् || ज्ञा. सा. सं_,४.३ ||

पीत-वस्त्र-परीधानं नवीन-जलद-प्रभम् |

चन्दनोक्षित-सर्वाङ्गं वन-माला-विभूषितम् || ज्ञा. सा. सं_,४.४ ||

प्रसन्न-वदनं शुद्धं सस्मितं सर्व-पूजितम् |

विभान्तं च जपन्तं शुद्ध-स्फटिक-मालया || ज्ञा. सा. सं_,४.५ ||

दृष्ट्वा ननाम सहसा शिरसा विप्र-पुङ्गवः |

शुभाशिषं ददौ तस्मै दत्वा शिरसि हस्तकम् || ज्ञा. सा. सं_,४.६ ||

तम् उवाच मुनि-श्रेष्ठः कृपया दीन-वत्सलः |

हितं तथ्यं नीति-सारं परिणाम-सुखावहम् || ज्ञा. सा. सं_,४.७ ||

 

श्री-नारायणर्षिर् उवाच

अये विप्र महा-भाग सफलं जीवनं तव |

यस्मिन् कुले च जातो ऽसि तद्-धन्यं सुप्रशंसितम् || ज्ञा. सा. सं_,४.८ ||

भज त्वं परमानन्दं सानन्दं नन्द-नन्दनम् |

ध्रुवं यास्यसि गोलोकं परमानन्दम् ईप्सितम् || ज्ञा. सा. सं_,४.९ ||

तत् कुलं पावनं धन्यं यशस्यं च निरापदम् |

यस्मिन् स्वयं भवान् जातः पुण्यः कृष्ण-परायणः || ज्ञा. सा. सं_,४.१० ||

नैवेद्यं पतितं मार्गे जीर्नं श्वापद-भक्षितम् |

भुक्त्वा तवैषा बुद्धिश् च कृष्ण-भक्तिर् बभूव च || ज्ञा. सा. सं_,४.११ ||

कृष्ण-नैवेद्य-माहात्म्यं को वत्स कथितुं क्षमः |

यद् वक्तुं न हि शक्ताश् च वेदाश् चत्वार एव च || ज्ञा. सा. सं_,४.१२ ||

वरं वृणुष्व भद्रं ते सुभद्र द्विज-पुङ्गव |

सर्वं दातुम् अहं शक्तो यत् ते मनसि वाञ्च्छितम् || ज्ञा. सा. सं_,४.१३ ||

 

नारायण-वचः श्रुत्वा तम् उवाच शिषुः स्वयम् |

पुनः कम्पित-सर्वाङ्गः साश्रु-नेत्रः पुटाञ्जलिः || ज्ञा. सा. सं_,४.१४ ||

 

सुभद्र उवाच

देहि मे कृष्ण-पादाब्जे दृढं भक्तिं सुदुर्लभम् |

तद्-दास्यं तत्-पदे वासं जरा-मृत्यु-हरं परम् || ज्ञा. सा. सं_,४.१५ ||

अन्यं वरं न गृह्णामि न मे किंचित् प्रयोजनम् |

नाहं वरार्थी कामी च रागी वेतन-भुग् यथा || ज्ञा. सा. सं_,४.१६ ||

 

नारायणर्षिर् उवाच

श्री-कृष्णो यस्य भक्तिश् च तस्यात्र किं सुदुर्लभम् |

अणिमादिक-द्व-त्रिंशत्-सिद्धिः कर-तले परा || ज्ञा. सा. सं_,४.१७ ||

निर्विकल्पो ददात्य् अस्य नैव गृह्णाति वैष्णवः |

अनिमित्तां हरेर् भक्तिं भक्ता वाञ्च्छन्ति सन्ततम् || ज्ञा. सा. सं_,४.१८ ||

गृहाण मन्त्रं कृष्णस्य परं कल्प-तरुं वरम् |

भक्तिदं दास्यदं शुद्धं कर्म-मूल-निकृन्तनम् || ज्ञा. सा. सं_,४.१९ ||

लक्ष्मीर् माया-काम-बीजं ङे ऽन्तं कृष्ण-पदं तथा |

वह्नि-जायान्त-मन्त्रं च मन्त्र-राजं मनोहरम् || ज्ञा. सा. सं_,४.२० ||

 

इत्य् एवम् उक्त्वा तत्-कर्णे कथयाम् आस दक्षिणे |

वार-त्रयं मुनि-श्रेष्ठः शुद्ध-भावेन पुत्रक || ज्ञा. सा. सं_,४.२१ ||

येन स्तोत्रेण तुष्टाव सुभद्रः परमेश्वरम् |

आज्ञां चकार स ऋषिस् तद् एव पठितुं मुदा || ज्ञा. सा. सं_,४.२२ ||

कवचं च ददौ तस्मै जगन्-मङ्गल-मङ्गलम् |

ध्यानं च साम-वेदोक्तं सर्व-पूजा-विधि-क्रमम् || ज्ञा. सा. सं_,४.२३ ||

हरेर् दास्यं च तद्-भक्तिर् गोलोक-वासम् ईप्सितम् |

जन्म-द्वयान्तरे चैव कर्म-भोग-क्षये सति || ज्ञा. सा. सं_,४.२४ ||

 

सुभद्र उवाच

सत्यं कुरु महा-भाग वरं मे यदि दास्यसि |

वरं वृणोमि तत् पश्चात् यन् मे मनसि वाञ्च्छितम् || ज्ञा. सा. सं_,४.२५ ||

 

नारायणर्षिर् उवाच

ॐ सत्यं वत्स दास्यामि वरं वृणु यथेप्सितम् |

ममाशक्यं नास्ति किंचित् दाताहं सर्व-सम्पदाम् || ज्ञा. सा. सं_,४.२६ ||

 

सुभद्र उवाच

कण्ठे ते किं च कवचं कस्य वा सर्व-पूजितम् |

अमूल्य-रत्न-गुटिका-युक्तं च सुमनोहरम् || ज्ञा. सा. सं_,४.२७ ||

कवचं देहि मे देव स्व-सत्य-रक्षणं कुरु |

 

विप्रस्य वचनं श्रुत्वा शुष्क-कण्ठौष्ठातालुकः || ज्ञा. सा. सं_,४.२८ ||

वक्तुं न शक्तस् तद् वाक्यं दध्यौ कृष्ण-पदाम्बुजम् |

प्रददौ गुटिकां तस्मै नोवाच कवचं मुनिः || ज्ञा. सा. सं_,४.२९ ||

तम् उवाच महर्षिश् च वितुष्टश् चोन्मनाः सुत |

वत्स क्रोधो हि देवस्य वरं तुल्यं च वाञ्च्छितम् || ज्ञा. सा. सं_,४.३० ||

 

नारायणर्षिर् उवाच

त्रिंषत्-सहस्र-वर्षं च भुङ्क्ष्व राज्यं सुदुर्लभम् |

लभस्व दुर्लभां लक्ष्मीं मायया मोहितो भव || ज्ञा. सा. सं_,४.३१ ||

मद्-इष्ट-देव-कवचं गृहीतं येन हेतुना |

सप्त-कल्पान्त-जीवस्य परत्र च भविष्यति || ज्ञा. सा. सं_,४.३२ ||

सुचिरेणैव कालेन गोलोकं च प्रायस्यसि |

परे मृकण्डु-पुत्रस् त्वं मार्कण्डेयो भविष्यसि || ज्ञा. सा. सं_,४.३३ ||

मया दत्तं च कवचं त्वां च रक्षति पुत्रक |

तव कण्ठे स्थितिश् चाश्य प्रति जन्मनि जन्मनि || ज्ञा. सा. सं_,४.३४ ||

 

पुनश् च गुटिका-युक्तं कृत्वा च कवचं मुनिः |

गले दधार भक्त्या च तद्-भक्तो धर्म-नन्दनः || ज्ञा. सा. सं_,४.३५ ||

वरं दत्वा च स मुनिर् ययौ गेहं स उन्मनाः |

विप्राय कवचं दत्वा नष्ट-वत्सा गौर् यथा || ज्ञा. सा. सं_,४.३६ ||

भ्रात्रा नरेण पित्रा च धर्मेण च महात्मना |

मात्रा मूर्त्या च पत्न्या च शान्त्या च भर्त्सितो मुनिः || ज्ञा. सा. सं_,४.३७ ||

विप्रः सम्प्राप्य कवचं मन्त्रं कल्प-तरुं परम् |

सरोवरात् समुत्थाय प्रज्वलन् ब्रह्म-तेजसा || ज्ञा. सा. सं_,४.३८ ||

क्षणं तस्थौ सरस्-तीरे वट-मूले मनोहरे |

जजाप परमं मन्त्रं सम्पूज्य जगद्-ईश्वरम् || ज्ञा. सा. सं_,४.३९ ||

अथ तत्-तात-विप्रो हि समन्विष्य सुतं चिरम् |

गत्वा च स्व-गृहं दुःखी शोकार्तः स रुरोद च || ज्ञा. सा. सं_,४.४० ||

समुद्यता तनुं त्यक्तुं तन्-माता पुत्र-वार्तया |

न तत्याज तनुं विप्रो दृष्ट्वा सुस्वप्नम् उत्तमम् || ज्ञा. सा. सं_,४.४१ ||

विप्रो विप्रा गृहं त्यक्त्वा पुत्रान्वेषण-पूर्वकम् |

प्रययौ काननं घोरं सर्वैश् च बान्धवैः सहः || ज्ञा. सा. सं_,४.४२ ||

सर्वं वनं समन्विष्य प्रययुस् ते सरोवरम् |

ददृशुस् ते शिशुं गृह्यं सूर्याभं वट-मूलके || ज्ञा. सा. सं_,४.४३ ||

चुचुम्ब गण्डं पुत्रस्य विप्रो विप्रा च सारदम् |

आशिश्लेष क्रमेणैव माता तातः पुनः पुनः || ज्ञा. सा. सं_,४.४४ ||

पुत्रश् च सर्व-वृत्तान्तं कथयाम् आस सादरम् |

श्रुत्वा पुत्रस्य विप्रश् च विप्रा बान्धवस् तथा || ज्ञा. सा. सं_,४. ४५ ||

ययुः सर्वे स्व-देशं च परमाह्लाद-मानसाः |

चन्द्र-भागां समुत्तीर्य विवेश नगरं परम् || ज्ञा. सा. सं_,४.४६ ||

नगर-स्थो नृपेन्द्रश् च दृष्ट्वा तेजस्विनं शिशुम् |

ददौ तस्मै स्व-कन्यां च रत्नालङ्कार-भूषितम् || ज्ञा. सा. सं_,४.४७ ||

युवतीं सुन्दरीं श्यामां तप्त-कञ्चन-संनिभाम् |

पति-व्रतां महा-भागां सुन्दरीं कमलाकलां || ज्ञा. सा. सं_,४.४८ ||

गजेन्द्राणां सहस्रं च प्रददौ यौतुकं मुदा |

अश्वानां दश-लक्षं च रत्नानां च सहस्रकम् || ज्ञा. सा. सं_,४.४९ ||

दासीनां निष्क-कण्ठीनां सौन्दरीणां सहस्रकम् |

वस्त्र-रत्न-सहस्रं च बहु-मूल्यं सुदुर्लभम् || ज्ञा. सा. सं_,४.५० ||

दासानां च सहस्रं च पदातीनां त्रि-लक्षकम् |

दश-लक्षं सुवर्णं च रत्न-मालां सुदुर्लभाम् || ज्ञा. सा. सं_,४.५१ ||

दत्वा तस्मै च कन्यां च रुरोद च सभार्यकः |

राजा च कन्यया सार्धं प्रययौ विप्र-मन्दिरम् || ज्ञा. सा. सं_,४.५२ ||

गत्वा चापि कियद् दूरं ददर्श नगरं नृपः |

अतीव सुन्दरं रम्यं विजित्य चामरावतीम् || ज्ञा. सा. सं_,४.५३ ||

शुद्ध-स्फटिक-संकाशं रत्न-सार-विनिर्मितम् |

त्रि-कोटि-चट्टालिका-गेहं नव-कोटि-सुमन्दिरम् || ज्ञा. सा. सं_,४.५४ ||

सप्त-प्राकार-युक्तं च परिखा-त्रय-सम्युक्तम् |

दुर्लङ्घ्यम् अति-दुर्गम्यं रिपूणाम् अपि पुत्रक || ज्ञा. सा. सं_,४.५५ ||

शिशोश् च स्वाश्रमं रम्यं सद्-रत्न-सार-निर्मितम् |

स्फुरत् वज्र-कपाटं च रत्नेन्द्र-कलशान्वितम् || ज्ञा. सा. सं_,४.५६ ||

सद्-रत्न-दर्पणाइर् दीपं रत्न-कुम्भैर् विराजितम् |

प्राङ्गणं रत्न-साराढ्यं रत्न-सोपान-शोभितम् || ज्ञा. सा. सं_,४.५७ ||

मनोहरं राज-मार्गं सिन्दूरादि-परिष्कृतम् |

प्राकारं मणि-भूषाढ्यम् उच्चैर् आकाश-स्पर्शि च || ज्ञा. सा. सं_,४.५८ ||

जगाम विस्मयं राजा दृष्ट्वा नगरम् उत्तमम् |

पित्रा मात्रा सह शिशुर् विस्मयं च ययौ मुदा || ज्ञा. सा. सं_,४.५९ ||

गजेन्द्राणां त्रि-लक्षं च श्वानां शत-लक्षकम् |

चतुर्-गुणं पदातीनाम् आययुस् ते ऽप्य् अनुव्रजम् || ज्ञा. सा. सं_,४.६० ||

वारणेन्द्रं पुरस् कृत्य वेश्यां च नर्तकं तथा |

द्विजांश् च पूर्ण-कुम्भांश् च पति-पुत्रवतीं सतीं || ज्ञा. सा. सं_,४.६१ ||

महा-पात्रः शिशुं दृष्ट्वा गजेन्द्रोपरि-संस्थितम् |

मूर्ध्ना ननाम वेगेनाप्य् अवरुह्य गजाद् अपि || ज्ञा. सा. सं_,४.६२ ||

शिशुं प्रवेशयां आस रत्न-निर्माण-मन्दिरम् |

रत्न-सिंहासनं तस्मै प्रददौ सादरं मुदा || ज्ञा. सा. सं_,४.६३ ||

कन्या-दात्रे च पित्रे च मात्रे च सादरं मुदा |

रत्न-सिंःआसनं रम्यं प्रददौ पात्र एव च || ज्ञा. सा. सं_,४.६४ ||

शिशुम् सिषेव पात्रश् च स्वयं च श्वेत-चामरैः |

दधार रत्न-छत्रं च हीराहार-परिष्कृतम् || ज्ञा. सा. सं_,४.६५ ||

उवास स स-भार्यां च सुधर्म्यां महेन्द्रवत् |

श्वसुरश् च ययौ गेहं शिशुना च पुरस्कृतः || ज्ञा. सा. सं_,४.६६ ||

त्रिंशत्-सहस्र-वर्षं च राजा राज्यं चकार सः |

कालान्तरे तत्-पिता च वने व्याघ्रेण भक्षितः || ज्ञा. सा. सं_,४.६७ ||

पति-व्रता महा-भागा माता सह-मृता सुत |

रत्न-यानेन रम्येण स-स्त्रीकः कृष्ण-मन्दिरम् || ज्ञा. सा. सं_,४.६८ ||

प्रययौ सादरं विप्रः कृष्ण-नैवेद्य-भक्षणात् |

तद्-अस्थि भुक्त्वा व्याघ्रश् च पूतः सद्यश् च सांप्रतम् || ज्ञा. सा. सं_,४.६९ ||

ताभ्यां सार्धं च प्रययौ गोलोकं सुमनोहरम् |

शिशुर् देहं परित्यज्य हिमाद्रौ स्वर्-णदी-तटे || ज्ञा. सा. सं_,४.७० ||

दत्वा पुत्राय राज्यं च स्वर्गाद् अपि सुदुर्लभम् |

मृकण्डु-पत्नी-गर्भे च लेभे जन्म स्व-कर्मणा || ज्ञा. सा. सं_,४.७१ ||

मार्कण्डेयो मुनि-श्रेष्ठो बभूव पर-जन्मनि |

सप्त-कल्पान्त-जीवी च नारायण-वरेण सः || ज्ञा. सा. सं_,४.७२ ||

बभूव सांप्रतं विप्रः कृष्ण-नैवेद्य-भक्षणात् |

श्व-भक्षितं च नैवेद्यं भुक्त्वा चेद् ईदृशी गतिः |

 

अकामतश् चाप्य् अज्ञातो जीर्ण-मार्ग-स्थितं सुत || ज्ञा. सा. सं_,४.७३ ||

यो भक्षेत् कामतो ज्ञातो नित्यं नैवेद्यम् ईप्सितम् |

न जानन्ति गतिस् तस्य वेदाश् चत्वार एव च || ज्ञा. सा. सं_,४.७४ ||

इति ते कथितं ब्रह्मन्न् इतिहासं पुरातनम् |

आश्चर्यं मधुरं रम्यं किं भूयः श्रोतुम् इच्छसि || ज्ञा. सा. सं_,४.७५ ||

 

श्री-नारद उवाच

श्रुतं नैवेद्य-माहात्म्यम् अतीव सुमनोहरम् |

ईश्वरस्यापि हे तात कृष्णस्य परमात्मनः || ज्ञा. सा. सं_,४.७६ ||

अधुना श्रोतुम् इच्छामि स्वात्म-सन्देह-भञ्जनम् |

नारायणर्षेर् कण्ठे च कवचं तस्य तद् वद || ज्ञा. सा. सं_,४.७७ ||

 

अथ कवच-प्रश्नः

 

सनत्-कुमार उवाच

ममाप्य् अस्तीति सन्देहो वचने प्रपितामह |

कस्य तत् कवचं ब्रह्मन्न् इदं वक्तुं त्वम् अर्हसि || ज्ञा. सा. सं_,४.७८ ||

स पिता स गुरुः स्वच्छः करोति भ्रम-भञ्जनम् |

शीघ्रं ब्रूहि महा-भाग नारदं मां सुत-प्रिय || ज्ञा. सा. सं_,४.७९ ||

 

पुत्रयोश् च वचः श्रुत्वा शुष्क-कण्ठौष्ठतालुकः |

उवाच वचनं ब्रह्मा स्मरन् कृष्ण-पदाम्बुजम् || ज्ञा. सा. सं_,४.८० ||

 

ब्रह्मोवाच

नारायणेन मुनिना जगन्-मङ्गल-मङ्गलम् |

विप्राय कवचं दत्तम् ध्यानं च पर्मात्मनः || ज्ञा. सा. सं_,४.८१ ||

तद् ब्रवीमि महा-भाग त्वाम् एव नारदं प्रति |

कण्ठ-स्थं कवचं वक्तुं नैव शक्नोमि सांप्रतम् || ज्ञा. सा. सं_,४.८२ ||

मत्-कण्ठे कवचं यस्य गोपनीयं सुदुर्लभम् |

नारायणर्षि-कण्ठे च तद् एव परमाद्भुतम् || ज्ञा. सा. सं_,४.८३ ||

तद् एव धर्म-कण्ठे च नरस्य च महात्मनः |

अगस्त्यस्य च कण्ठे च लोमशस्य महा-मुनेः || ज्ञा. सा. सं_,४.८४ ||

तुलस्याश् चापि संज्ञायाः सावित्र्याश् चापि पुत्रक |

अन्येषां च भाग्यवतां भारते च सुदुर्लभे || ज्ञा. सा. सं_,४.८५ ||

 

नारद उवाच

पश्चात् श्रोष्यामि कवचं जगन्-मङ्गल-मङ्गलम् |

ध्यानं पूजां विधानं च कृष्णस्य परमात्मनः || ज्ञा. सा. सं_,४.८६ ||

आदौ कथय भद्रं ते परं परम-भद्रकम् |

सुभद्र-प्राप्तं कवचं माहात्म्यं यस्य दुर्लभम् || ज्ञा. सा. सं_,४.८७ ||

 

ब्रह्मोवाच

सुभद्र-प्राप्तं कवचं पश्चात् श्रोष्यसि पुत्रक |

शङ्करस्य मुखाद् विप्र स्व-गुरोर् ज्ञानिनस् तथा || ज्ञा. सा. सं_,४.८८ ||

 

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे ब्रह्मा-नारद-संवादे

प्रथमैक-रात्रे कवच-प्रश्नो नाम चतुर्थोऽध्यायः

 

 

प्रथमैक-रात्रे पञ्चमोऽध्यायः

 

 

श्री-सनत्-कुमार उवाच

तवेच्छा यत्र कवचे ध्याने तद् वद साम्प्रतम् |

यच् छृणोमि शुभं तच् च केन श्रेयसि तृप्यते || ज्ञा. सा. सं_,५.१ ||

 

ब्रमोवाच

ध्यानं साम-वेदोक्तं दत्तम् नारायणेन वै |

कवचं च सुभद्राय धर्मिष्ठाय महात्मने || ज्ञा. सा. सं_,५.२ ||

नवीन-जलद-श्यामं पीत-कौशेय-वाससम् |

चन्दनोक्षित-सर्वाङ्गं सस्मितं श्यामसुन्दरम् || ज्ञा. सा. सं_,५.३ ||

मालती-माल्य-भूषाढ्यं रत्न-भूषण-भूषितम् |

मुनीन्द्रेश-सुसिद्धेश-ब्रह्मेश-शेष-वन्दितम् || ज्ञा. सा. सं_,५.४ ||

सर्व-स्वरूपं सर्वेशं सर्व-बीजं सनातनम् |

सर्वाद्यं सर्व-ज्ञं पुरुषं प्रकृतेः परम् || ज्ञा. सा. सं_,५.५ ||

निर्गुणं च निरीहं च निर्लिप्तम् ईस्वरं भजे |

ध्यात्वा मूलेन तस्मै च दद्यात् पाद्यादिकं मुदा || ज्ञा. सा. सं_,५.६ ||

ततः स्तोत्रं च कवचं भक्त्या च प्रपठेन् नरः |

जप्त्वा च मन्त्रं भक्त्या दण्डवत् प्रणमेद् भुवि |

इति ते कथितं वत्स किं भूयः श्रोतुम् इच्छसि || ज्ञा. सा. सं_,५.७ ||

 

श्री-सनत्कुमार उवाच

ब्रूहि मे कवचं ब्रह्मन् जगन्-मङ्गल-मङ्गलम् |

पूज्यं पुण्य-स्वरूपं च कृष्णस्य परमात्मनः || ज्ञा. सा. सं_,५.८ ||

 

अथ जगन्-मङ्गल-मङ्गल-कवचम्

 

ब्रह्मोवाच

शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतं |

श्री-कृष्णेनैव कथितं मह्यं च कृपया परा || ज्ञा. सा. सं_,५.९ ||

मया दत्तं च धर्माय तेन नारायणर्षये |

ऋषिणा तेन तद् दत्तं सुभद्राय महात्मने || ज्ञा. सा. सं_,५.१० ||

अति-गुह्यतमं शुद्धं परं स्नेहाद् वदाम्य् अहम् |

यद् धृत्वा पठनात् सिद्धाः सिद्धानि प्राप्नुवन्ति च || ज्ञा. सा. सं_,५.११ ||

एवम् इन्द्रादयः सर्वे सर्वैश्वर्यम् आप्नुयुः |

ऋषिश् छन्दश् च सावित्री देवो नारायणः स्वयम् || ज्ञा. सा. सं_,५.१२ ||

धर्मार्थ-काम-मोक्षेषु विनियोगः प्रकीर्तितः |

राधेशो मे शिरः पातु कण्ठं रधेश्वरः || ज्ञा. सा. सं_,५.१३ ||

गोपीशश् चक्षुषी पातु तालु च भगवान् स्वयम् |

गण्ड-युग्मं च गोविन्दः कर्ण-युग्मं च केशवः || ज्ञा. सा. सं_,५.१४ ||

गलं गदाधरः पातु स्कन्धं कृष्णः स्वयं प्रभुः |

वक्ष-स्थलं वासुदेवश् चोदरं चापि सो ऽच्युतः || ज्ञा. सा. सं_,५.१५ ||

नभिं पातु पद्म-नाभः कङ्कालं कंस-सूदनः |

पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकम् || ज्ञा. सा. सं_,५.१६ ||

पुण्डरीकः पाद-युग्मं हस्त-युग्मं हरिः स्वयम् |

नासां च नखरं पातु नरसिंहः स्वयं प्रभुः || ज्ञा. सा. सं_,५.१७ ||

सर्वेश्वरश् च सर्वाङ्गं सन्ततं मधु-सूदनः |

प्राच्यां पातु च रामश् च वह्नौ च वंशी-धरः स्वयम् || ज्ञा. सा. सं_,५.१८ ||

पातु दामोदरो दक्षे नैरृते च नरोत्त्मः |

पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयम् || ज्ञा. सा. सं_,५.१९ ||

अनन्तश् चोत्तरे पातु ऐशान्याम् ईश्वरः स्वयम् |

जले स्थले चान्तरीक्षे स्वप्ने जागरणे तथा || ज्ञा. सा. सं_,५.२० ||

पातु वृन्दावनेशश् च मां भक्तं शरणागतम् |

इति ते कथितं वत्स कवचं परमाद्भुतम् || ज्ञा. सा. सं_,५.२१ ||

सुखदं मोक्षदं सारं सर्व-सिद्धि-प्रदं सताम् |

इदं कवचम् इष्टं च पूजा-काले च यः पठेत् || ज्ञा. सा. सं_,५.२२ ||

हरि-दास्यम् अवाप्नोति गोलोके वासम् उत्तमम् |

इहैव हरि-भक्तिं च जीवन्-मुक्तो भवेन् नरः || ज्ञा. सा. सं_,५.२३ ||

 

नारद उवाच

नारायणर्षिणा दत्तं कवचं यत् सुदुर्लभम् |

सुभद्राय ब्राह्मणाय तन् मे वक्तुम् इहार्हसि || ज्ञा. सा. सं_,५.२४ ||

 

ब्रह्मोवाच

मद्-इष्ट-देव्याः कवचं कथं तत् कथयामि ते |

मत्-कण्ठे पश्य कवचं सद्-रत्न-गुटिकान्वितम् || ज्ञा. सा. सं_,५.२५ ||

नारायणर्षिणा दत्तं कवचं गुटिकान्वितम् |

तथापीदं न कथितं निषिद्धं हरिणा स्मृतम् || ज्ञा. सा. सं_,५.२६ ||

तस्यर्षेश् चेष्ट-देव्याश् च नोक्तं तेनेदम् ईप्सितम् |

मह्यं न दत्ता गुटिका बान्धवैर् भर्त्सितेन च || ज्ञा. सा. सं_,५.२७ ||

आत्मनः कवचं मन्त्रं स्वयं दातुं न चार्हति |

प्राणा नष्टाश् च दानेन चेति वेद-विदो विदुः || ज्ञा. सा. सं_,५.२८ ||

शङ्करं गच्छ भगवन् जन्मान्तर-गुरुं तव |

स एव तुभ्यं कवचं दास्यस्य् एव न संशयः || ज्ञा. सा. सं_,५.२९ ||

त्वत्-प्राक्तनेन विप्रेन्द्र सत्-वरेण शुभेन च |

ध्रुवं प्राप्स्यसि त्वं वत्स कवचं तत् सुदुर्लभम् || ज्ञा. सा. सं_,५.३० ||

कुमार गच्छ वैकुण्ठं स्व-गुरुं पश्य सत्-वरम् |

नारायणश् च कवचं तुभ्यं दास्यसि निश्चितम् || ज्ञा. सा. सं_,५.३१ ||

सनत्-कुमारो भगवान् गत्वा वैकुण्ठम् ईप्सितम् |

संप्राप्य कवचं वत्स कवचं तत् सुदुर्लभम् || ज्ञा. सा. सं_,५.३२ ||

 

आज्ञया ब्रह्मणश् चापि नारदो गन्तुम् उद्यतः |

ब्रह्मा ययौ ब्रह्म-लोकं जन्म-मृत्यु-जरापहम् || ज्ञा. सा. सं_,५.३३ ||

 

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे पञ्चमोऽध्यायः

 

 

प्रथमैक-रात्रे षष्ठोऽध्यायः

 

 

श्री-शुक उवाच

सनत्-कुमारो वैकुण्ठं ब्रह्म-लोकं च ब्रह्मणि ?wहत्?|

गते ब्रह्मन् किं चकार भगवान् नारदो मुनिः || ज्ञा. सा. सं_,६.१ ||

 

व्यासो उवाच

मुनिस् तयोश् च गतयोः स रुरोद सरित्-तटे |

इतस् ततश् च बभ्राम मद्-वियोग-शुचास्पद || ज्ञा. सा. सं_,६.२ ||

स्व-मानसे समालोक्य मुनि-श्रेष्ठः स उन्मनाः |

ध्यायमानो हरि-पदं शिवं द्रष्टुं समुत्सुकः || ज्ञा. सा. सं_,६.३ ||

प्रणम्य पितरं भक्त्या कुमारं भ्रातरं तथा |

जगाम तपस-स्थानात् कैलासाभिमुखे मुनिः || ज्ञा. सा. सं_,६.४ ||

स्नात्वा च कृत-मालायां संपूज्य परमेश्वरम् |

भुक्त्वा फलं जलं पीत्वा प्रययौ गन्ध-मादनम् || ज्ञा. सा. सं_,६.५ ||

ददर्श ब्राह्मणं तत्र वट-मूले मनोहरे |

कटमस्तम् ध्यायमानं श्री-कृष्ण-चरणाम्बुजम् || ज्ञा. सा. सं_,६.६ ||

दीर्गं नग्नं गौराङ्गं दीर्घ-लोमभिर् आवृतम् |

निमीलिताक्षं सानन्दं सानन्दाश्रु-समन्वितम् || ज्ञा. सा. सं_,६.७ ||

पाद्मे पद्मेश-शेषादि-सुर-पूजित-वन्दिते |

श्री-पाद-पद्मे शोभाढ्ये शश्वत्-संन्यस्त-मानसम् || ज्ञा. सा. सं_,६.८ ||

बाह्य-ज्ञान-परित्यक्तं योग-ज्ञान-विशारदम् |

शिवस्य शिष्यं सद्-भक्तं योगीन्द्राणां गुरोर् गुरोः || ज्ञा. सा. सं_,६.९ ||

हृत्-पद्मे पद्म-नाभं च परमात्मानम् ईश्वरम् |

प्रदीप-कलिकाकारं ब्रह्म-ज्योतिः-सनातनम् || ज्ञा. सा. सं_,६.१० ||

साक्षि-स्वरूपं परमं भगवन्तम् अधोक्षजम् |

पश्यन्तं सस्मितं कृष्णं पुलकाङ्कित-विग्रहम् || ज्ञा. सा. सं_,६.११ ||

सद्-भावोद्रिक्त-चित्तं च सद्-भावं पुरुषोत्तमे |

दृष्ट्वा महर्षि-प्रवरं देवर्षि-विस्मयम् ययौ || ज्ञा. सा. सं_,६.१२ ||

इतस् ततश् च बभ्राम ददर्श स्वाश्रमं मुनेः |

अतीव सुरहः-स्थानं रम्यं रम्यं नवं नवम् || ज्ञा. सा. सं_,६.१३ ||

सुस्निग्धं सुन्दरं शुद्धं परं स्वच्छं सरोवरम् |

श्वेत-रक्तोत्पल-दलैः कमलैः कमनीयकम् || ज्ञा. सा. सं_,६.१४ ||

गुञ्जदिन्दिन्द-वरैर् ?wहत्? मकरन्दोदरैस् तथा |

व्याकुलैः संकुलैः शश्वद्-राजितैश् च विराजितम् || ज्ञा. सा. सं_,६.१५ ||

वन्यैर् वृक्षैर् बहु-विधैः फल-शाखा-सुशोभितैः |

करञ्जकैश् च करजैर् बिम्बैः शाखोटिकैस् तथा || ज्ञा. सा. सं_,६.१६ ||

तिन्तिडीभिः कपित्थैश् च वट-शिंशपा-चन्दनैः |

मन्दारैः सिन्धु-वारैश् च ताडि-पत्रैः सुशोभनैः || ज्ञा. सा. सं_,६.१७ ||

गुवाकैर् नारिकेतैश् च खर्जुरैः पनसैस् तथा |

तालैः शालैः पियालैश् च हिन्तालैर् वकुलैर् अपि || ज्ञा. सा. सं_,६.१८ ||

आम्रैर् आम्रातकैश् चैव जम्बीरैर् दाडिमैस् तथा |

श्री-फलैर् वदरीभिश् च जम्बुभिर् नागरङ्गकैः || ज्ञा. सा. सं_,६.१९ ||

सुपक्व-फल-शोभाड्यैः सुस्निग्धैः सुमनोहरैः |

तरुणैस् तरु-राजैस् च नाना-जातिभिर् ईप्सितम् || ज्ञा. सा. सं_,६.२० ||

मल्लिका-मालती-कुन्द-केतकी-कुसुमैः शुभैः |

माधवीनां लता-जालैश् चर्चितं चारु-चम्पकैः || ज्ञा. सा. सं_,६.२१ ||

कदम्बानां कदम्बैश् च स्वच्छैः श्वेतैश् च पुष्पितैः |

नागेश्वराणां वृन्दैश् च दीप्तं मन्दारकैर् वरैः || ज्ञा. सा. सं_,६.२२ ||

हंस-कारण्ड-वकुलैः पुंस्-कोकिल-कुलैस् तथा |

सन्ततं कूजितं शुद्धं सुव्यक्तं सुमनोहरम् || ज्ञा. सा. सं_,६.२३ ||

शार्दूलैः शरभैः सिंहैर् गण्डकैर् महिषैः परम् |

मनोहरैः कृष्ण-सारैश् चमरभिर् भाव-भूषितम् || ज्ञा. सा. सं_,६.२४ ||

महा-मुनि-प्रभावेन हिंसा-दोष-विवर्जितम् |

दस्यु-चौर-हिंस्र-जन्तु-भय-शोक-विवर्जितम् || ज्ञा. सा. सं_,६.२५ ||

सुपुण्यदं तीर्थ-वरं भारते सुप्रशंसितम् |

सिद्ध-स्थलं सिद्धिदं तं मन्त्र-सिद्धि-करं परं || ज्ञा. सा. सं_,६.२६ ||

दृष्ट्वाश्रमं मुनि-श्रेष्ठो जगाम मुनि-संसदि |

आसने च समासीनं ध्यान-हीनं ददर्श तम् || ज्ञा. सा. सं_,६.२७ ||

समुत्तस्थौ स वेगेन दृष्ट्वा देवर्षि-पुङ्गवम् |

दत्वामलं फलं मूलं संभाषां स चकार ह || ज्ञा. सा. सं_,६.२८ ||

प्रश्नं चकार स मुनि-वीणा-पाणिं नारदम् |

सस्मितः सस्मितं शुद्धं शुद्ध-वंश-समुद्भवम् || ज्ञा. सा. सं_,६.२९ ||

सद्-भाग्योपस्थितं दीप्तं ज्वलन्तं ब्रह्म-तेजसा |

अतिथिं ब्राह्मण-वरं ब्रह्म-पुत्रं च पूजितं || ज्ञा. सा. सं_,६.३० ||

 

मुनिर् उवाच

किं नाम भवतो विप्र क्व यासीति क्व चागतः |

क्व ते पिता स को वापि क्व वासः कुत्र संभवः || ज्ञा. सा. सं_,६.३१ ||

मां वा ममाश्रमं वापि पूतं कर्तुम् इहागतः |

मूर्तिमद्-ब्रह्म-तेजो हि मम भाग्याद् उपस्थितः || ज्ञा. सा. सं_,६.३२ ||

 

अथ वैष्णव-दर्शन-फलम्

 

न ह्य् अम्मयानि तीर्थानि न देवा मृच्छितामयाः |

ते पुनन्त्य् उरुकालेन वैष्णवो दर्शनेन च || ज्ञा. सा. सं_,६.३३ ||

सद्यः पूतानि तीर्थानि सद्यः पूता स-सागरा |

स-शैल-कानन-द्वीपा पाद-स्पर्शाद् वसुन्धरा || ज्ञा. सा. सं_,६.३४ ||

धन्यो ऽहं कृत-कृत्यो ऽहं सफलं मम जीवनम् |

सहसोपस्थितो गेहे ब्राह्मणो वैष्णवो ऽतिथिः || ज्ञा. सा. सं_,६.३५ ||

पूजितो वैष्णवो येन विश्वं च तेन पूजितम् |

आश्रमं वस्तु-सहितं सर्वं तुभ्यं निवेदितम् || ज्ञा. सा. सं_,६.३६ ||

फलानि च सुपक्वानि भुङ्क्ष्व भोगानि साम्प्रतम् |

सुवासितम् पिब स्वादु शीतलं निर्मलं जलम् || ज्ञा. सा. सं_,६.३७ ||

दुग्धं च सुरभी-दत्तं रम्यं मधुरितं मधु |

परिपक्वं फल-रसं पिब स्वादु मुहुर् मुहुः || ज्ञा. सा. सं_,६.३८ ||

सुख-बीज्ये सुतल्पे च शयनं कुरु सुन्दरे |

सुशीत-वात-सौगन्ध्य-पूतेन सुरभी-कृते || ज्ञा. सा. सं_,६.३९ ||

 

अथातिथि-पूजन-फलम्

 

अतिथिर् यस्य पुष्टो हि तस्य पुष्टो हरिः स्वयम् |

हरौ तुष्टे गुरुस् तुष्टो गुरौ तुष्टे जगत्-त्रयम् || ज्ञा. सा. सं_,६.४० ||

अधिष्ठातातिथिर् गेहे सन्ततं सर्व-देवताः |

तीर्थान्य् एतानि सर्वाणि पुण्यानि च व्रतानि च || ज्ञा. सा. सं_,६.४१ ||

तपांसि यज्ञाः सत्यं च शीलं धर्मः सुकर्म च |

अपूजितैर् अतिथिभिर् सार्धं सर्वे प्रयान्ति ते || ज्ञा. सा. सं_,६.४२ ||

 

अथातिथि-विमुखे दोषाः

अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते |

पितरस् तस्य देवाश् च पुण्यं धर्म-व्रताशनाः || ज्ञा. सा. सं_,६.४३ ||

यमः प्रतिष्ठा लक्ष्मीश् चाभीष्ट-देवो गुरुस् तथा |

निराशाः प्रतिगच्छन्ति त्यक्त्वा पापं च पूरुषम् || ज्ञा. सा. सं_,६.४४ ||

स्त्री-घ्नैश् चैव कृत-घ्नैश् च ब्रह्म-घ्नैर् गुरु-तल्प-गैः |

विश्वास-घातिभिर् दुष्टैर् मित्र-द्रोहिभिर् एव च || ज्ञा. सा. सं_,६.४५ ||

सत्य-घ्नैश् च कृत-घ्नैश् च पापिभिः स्थापिभिस् तथा |

दानापहारिभिश् चैव कन्या-विक्रियिभिस् तथा || ज्ञा. सा. सं_,६.४६ ||

सीमापहारिभिश् चैव मिथ्या-साक्षि-प्रदातृभिः |

ब्रह्म-स्वहारिभिश् चैव तथा स्थाप्यस्वहारिभिः || ज्ञा. सा. सं_,६.४७ ||

वृष-वाहैर् देवलैश् च तथैव ग्राम-याजिभिः |

शूद्रान्न-भोजिभिश् चैव शूद्र-श्राद्धाह-भोजिभिः || ज्ञा. सा. सं_,६.४८ ||

श्री-कृष्ण-विमुखैर् विप्रैर् हिंस्रैर् नर-विघातिभिः |

गुराव् अभक्तै रोगार्तैः शश्वन्-मिथ्या-प्रवादिभिः || ज्ञा. सा. सं_,६.४९ ||

विप्र-स्त्री-गामिभिः शूद्रैर् मातृ-गामिभिर् एव च |

अश्वत्थ-घातिभिश् चैव पत्नीभिः पति-घातिभिः || ज्ञा. सा. सं_,६.५० ||

पितृ-मातृ-घातिभिश् च शरणागत-घातिभिः |

ब्राह्मण-क्षत्र-विट्-शूद्रैः शिला-स्वर्णापहारिभिः || ज्ञा. सा. सं_,६.५१ ||

तुल्यो भवति विप्रेन्द्रातिथिर् एव त्व् अनर्चितः |

 

इत्य एवम् उक्त्वा मुनिः पूजयाम् आस नारदम् |

मिष्टं च भोजयाम् आस शाययाम् आस भक्तितः || ज्ञा. सा. सं_,६.५२ ||

 

श्री-नारद उवाच

नारदो ऽहं मुनि-श्रेष्ठ ब्राह्मणो ब्रह्मणः सुतः |

तपः-स्थलाद् आगतो ऽहं यामि कैलासम् ईप्सितम् || ज्ञा. सा. सं_,६.५३ ||

आत्मानं पावनं कर्तुं त्वां च द्रष्टुम् इहागतः |

पुनन्ति प्राणिनः सर्वे विष्णु-भक्त-प्रदर्शनात् || ज्ञा. सा. सं_,६.५४ ||

को भवान् ध्यान-पूतश् च नग्नश् च कट-मस्तकः |

किं ध्यायसे महा-भाग श्रेष्ठ-देवश् च को गुरुह् || ज्ञा. सा. सं_,६.५५ ||

 

मुनिर् उवाच

जीव-मुक्तो भवान् एव पुनासि भुवन-त्रयम् |

यस्य तत्र कुले जन्म तस्य तत्-तद्-वचोमनः || ज्ञा. सा. सं_,६.५६ ||

पुत्रे यशसि तोये च कवित्वेन च विद्यया |

प्रतिश्ह्ठायां च ज्ञायेत सर्वेषां मानसं नृणाम् || ज्ञा. सा. सं_,६.५७ ||

विधाता जगतां ब्रह्मा ब्रह्मैकतान-मानसः |

तत्-पुत्रो ऽसि महाख्यातो देवर्षि-प्रवरो महान् || ज्ञा. सा. सं_,६.५८ ||

लोमशो ऽ हं महा-भाग जगत्-पावन-पावन |

नग्नोऽल्पायुर् विवेकी च वाससा किं प्रयोजनम् || ज्ञा. सा. सं_,६.५९ ||

वृक्ष-मूले निवासे मे छत्रेण किं गृहेण च |

रौद्र-वृष्टि-वारणार्थं सांप्रतं कट-मस्तकः || ज्ञा. सा. सं_,६.६० ||

जल-बुद्बुद-विद्युद्वत्-त्रैलोक्यं कृत्रिमं द्विज |

ब्रह्मादि-तृण-पर्यन्तं सर्वं मिथ्याइव स्वप्नवत् || ज्ञा. सा. सं_,६.६१ ||

किं कलत्रेण पुत्रेण धनेन संपदा श्रिया |

किं वित्तेन च रूपेण जीवनाल्पायुषा मुने || ज्ञा. सा. सं_,६.६२ ||

इन्द्रस्य पतनेनैव लोमकोत्पाटनं मम |

मनोश् च पतनं तत्र मायया किं प्रयोजनम् || ज्ञा. सा. सं_,६.६३ ||

सर्व-लोमकोत्पाटनेन केशौघोत्पाटनेन च |

अल्पायुषो मम मुने मरणं निश्चितं भवेत् || ज्ञा. सा. सं_,६.६४ ||

ध्याये श्री-पाद-पद्मं तत्-पाद्म-पद्मेश-वन्दितम् |

परस्य प्रकृतेस् तस्य कृष्णस्य परमात्मनः || ज्ञा. सा. सं_,६.६५ ||

तस्य मे ऽभीष्ट-देवस्य सर्वेषां कारणस्य च |

गुरुर् मे जगतां नाथो योगीन्द्राणां गुरुः शिवः || ज्ञा. सा. सं_,६.६६ ||

मत्-कण्ठे कवचं यस्य मद्-गुरुः कथयिष्यति |

गुरोर् निषेधो यत्रास्ते तद् वक्तुं कः क्षमो भुवि || ज्ञा. सा. सं_,६.६७ ||

गुरोश् च वचनं यो हि पालनं न करोति च |

गुरूक्तम् उक्त्वा पापी स ब्रह्म-हत्यां लभेद् ध्रुवम् || ज्ञा. सा. सं_,६.६८ ||

स्व-गुरुं शिव-रूपं च तद्-भिन्नं मन्यते हि यः |

ब्रह्म-हत्यां लभेत् सो ऽपि विघ्नस् तस्य पदे पदे || ज्ञा. सा. सं_,६.६९ ||

अकर्तव्यं तु कर्तव्यं पालनीयं गुरोर् वचः |

अपालने सर्व-विघ्नं लभते नात्र संशयः || ज्ञा. सा. सं_,६.७० ||

आशिषा पाद-रजसा चोच्छिष्टालिङ्गेन च |

मुच्यते सर्व-पापेभ्यो जीवन्-मुक्तो भवेन् नरः || ज्ञा. सा. सं_,६.७१ ||

स्व-गुरुं शङ्करं पश्य गच्छ कैलासम् ईप्सितम् |

मुच्यते विघ्न-पापेभ्यो गुरोश् चरण-दर्शनात् || ज्ञा. सा. सं_,६.७२ ||

 

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथ्मैक-रात्रे

लोमश-नारद-संवादे षष्ठोऽध्यायः

 

 प्रथमैक-रात्रे सप्तमोऽध्यायः

 

 

संभाष्य लोमशं तस्माज् जगाम नारदो मुनिः |

पुष्प-भद्रा-नदी-तीरम् अतीव सुमनोहरम् || ज्ञा. सा. सं_,७.१ ||

यत्रास्ते शृङ्ग-कूटश् च शुद्ध-स्फटिक-सन्निभिः |

नाना-वृक्ष-समायुक्तैस् त्रिभिर् अन्यैः सरोवरैः || ज्ञा. सा. सं_,७.२ ||

हंसकारण्डवाकीर्णैर् भ्रमरैर् ध्वनि-सुन्दरैः |

पुंस्-कोकिल-निनादैश् च सन्ततं सुमनोहरैः || ज्ञा. सा. सं_,७.३ ||

शैत्य-सौगन्ध्य-मान्ध्यैश् च वायुभिः सुरभी-कृतैः |

समाधि-युक्तो यत्रास्ते मार्कण्डेयो महा-मुनिः || ज्ञा. सा. सं_,७.४ ||

स मुनिर् नारदं दृष्ट्वा भक्त्या च प्रणनाम च |

पप्रच्छ कुशलं शान्तं शान्तः सत्त्व-गुणाश्रयः || ज्ञा. सा. सं_,७.५ ||

 

मार्कण्डेयो उवाच

अद्य मे सफलं जन्म जीवनं चातिसार्थकम् |

ममाश्रमे पुण्य-राशिर् ब्रह्म-पुत्रश् च नारदः || ज्ञा. सा. सं_,७.६ ||

अहो देवर्षि-प्रवरो दीप्तमान् ब्रह्म-तेजसा |

क्व यासि कुत आयासि किं ते मनसि वर्तते || ज्ञा. सा. सं_,७.७ ||

मानसं प्राणिनाम् एव सर्व-कर्मैक-कारणम् |

मनोनुरूपं वाक्यं च वाक्येन प्रस्फुटं मनः || ज्ञा. सा. सं_,७.८ ||

 

मुनेश् च वचनं श्रुत्वा वीणा-पाणि स्वम् ईप्सितम् |

उवाच सस्मितं शान्तं वचः सत्यं सुधोपमम् || ज्ञा. सा. सं_,७.९ ||

 

नारद उवाच

हे बन्धो यामि कैलासं ज्ञानार्थं ज्ञानिनां वरम् |

द्रष्टुं महा-देवं च प्रणामं कर्तुम् ईश्वरम् || ज्ञा. सा. सं_,७.१० ||

 

पूजां गृहीत्वा चेत्य् उक्त्वा प्रययौ नारदो मुनिः |

मार्कण्डेयश् च शोकार्तः सद्विच्छेदः सुदारुणः || ज्ञा. सा. सं_,७.११ ||

हिमालयं च दुर्लघ्यं विलघ्यं चैव लीलया |

स्वर्ग-मन्दाकिनी-तीरं कैलासं प्रययौ मुनिः || ज्ञा. सा. सं_,७.१२ ||

ददर्श वट-वृक्षं च योजनायतम् उच्छ्रितम् |

शोभितं शतकैः स्कन्धैः रक्त-पक्व-फलान्वितैः || ज्ञा. सा. सं_,७.१३ ||

सुस्निग्धैः सुन्दरैः रम्यै रम्य-पक्षीन्द्र-संकुलैः |

सिद्धेन्द्रैश् च मुनीन्द्रैश् योगीन्द्रैः परिशोभितम् || ज्ञा. सा. सं_,७.१४ ||

प्रणतांस् तांश् च संभाष्य पार्वती-काननं ययौ |

सुन्दरं वर्तुलाकारं चतुर्-योजनम् ईप्सितम् || ज्ञा. सा. सं_,७.१५ ||

शोभितं सुन्दरै रम्यैः सप्तभिश् च सरोवरैः |

शश्वन्-मधुकरासक्त-पद्म-राजि-विराजितैः || ज्ञा. सा. सं_,७.१६ ||

नील-रक्तोत्पल-दल-पटलैः परिशोभितैः |

पुष्पोद्यानैश् च शतकैः पुष्पितैः सुमनोहरैः || ज्ञा. सा. सं_,७.१७ ||

मल्लिका-मालती-कुन्द-यूथिका-माधवी-लता |

केतकी-चम्पकाशोक-मन्दारक-विराजिका || ज्ञा. सा. सं_,७.१८ ||

नाग-पुन्नाग-कुटजपाटलाज्ञिण्ट्ज्ञिज्ज्ञिका |

विष्णु-क्रान्ता च तुलसी शोफली सप्तला तथा || ज्ञा. सा. सं_,७.१९ ||

एतेषां च समूहैश् च पुष्प-वल्ली-विराजितैः |

आम्रैर् आम्रातकैस् तालनारिकेलैः पियालकैः || ज्ञा. सा. सं_,७.२० ||

खर्जूरैश् च गुवाकैश् च पलासैर् जम्बुभिस् तथा |

दाडिम्बैश् चापि जम्बीरैर् निम्बैश् चैव वटैस् तथा || ज्ञा. सा. सं_,७.२१ ||

करञ्जैर् वदरीभिश् च परितः श्री-फलोज्ज्वलैः |

कदम्बानां कदम्बैश् च तिन्तिण्डीनां कदम्बकैः || ज्ञा. सा. सं_,७.२२ ||

अश्वत्थैः सरलैः शालैः शाल्मलीनां समूहकैः |

वट-शाखोटकैः कुन्दैः शंगुभिः सप्त-पर्णकैः || ज्ञा. सा. सं_,७.२३ ||

पिच्छिलैः पर्ण-शालैश् च गम्भारिभिश् च वल्गुकैः |

हिङ्गुलैर् अञ्जनैर् वल्कैर् भूर्ज-पत्रैः सपत्रकैः || ज्ञा. सा. सं_,७.२४ ||

अन्यैश् च दुर्लभैर् वन्यैः पुष्प-पत्रैर् विराजितम् |

कल्प-वृक्षैः पारिजातैश् चारु-चन्दन-पल्लवैः || ज्ञा. सा. सं_,७.२५ ||

सुस्निग्ध-स्थल-पद्मैश् च चित्रितैर् भूमि-चम्पकैः |

अन्यैश् च दुर्लभैर् वन्यैः पुष्प-पत्रैर् विभूषितम् || ज्ञा. सा. सं_,७.२६ ||

सिंहेन्द्रैः शरभेन्द्रैश् च गजेन्द्रैर् गण्डकेन्द्रैः |

शार्दूलेन्द्रैश् च महिषैर् अश्वैश् च वन्य-शूकरैः || ज्ञा. सा. सं_,७.२७ ||

शल्लकैर् बल्लकैर् मर्कैः कूटैश् च शशकैः शकैः |

कृष्ण-सारैश् च हरिणैश् चमरी-चामरोज्ज्वलम् || ज्ञा. सा. सं_,७.|२८ ||

पुंस्-कोकोल-कुलानां च गानैश् च विराजितम् |

मत्तानां पल्लव-स्थानां माधवेषु मनोहरम् || ज्ञा. सा. सं_,७.२९ ||

शुकानां राज-हंसानां मयूराणां च पुत्रकैः |

क्षेम-करी-खञ्जनानां राजिभिश् च मनोहरम् || ज्ञा. सा. सं_,७.३० ||

हरित्-पीत-रक्त-कृष्ण-सुपक्व-फल-पत्रकैः |

सुस्निग्धाक्षत-पत्रैश् च नूतनैर् अभिभूषितम् || ज्ञा. सा. सं_,७.३१ ||

हिंसा-भयादि-रहितं सर्वेषां पशु-पक्षिणां |

परस्परं च सुप्रीतं हिंस्राणां क्षुद्र-जन्तुभिः || ज्ञा. सा. सं_,७.३२ ||

तत्र क्रीडा-स्थलं रम्यं पार्वती-परमेशयोः |

मुनीन्द्रैर् इन्द्र-नीलैश् च पद्म-रागैः परिष्कृतम् || ज्ञा. सा. सं_,७.३३ ||

क्रोशायतं परिमितं वर्तुलं चन्द्र-विम्बवत् |

अम्लान-रम्भा-स्तम्भानां लक्ष-लक्षैश् च वेष्टितम् || ज्ञा. सा. सं_,७.३४ ||

चित्रितं सूक्ष्म-सूत्राक्तैर् नूतनैर् अभिभूषितम् |

नूतनाक्षत-पत्रैश् च ललितैः परिशोभितम् || ज्ञा. सा. सं_,७.३५ ||

रक्त-पीतासितैः स्निग्धैर् अम्लानैः सुमनोहरैः |

परितः परितः शश्वन् मालाजालैर् विभूषितम् || ज्ञा. सा. सं_,७.३६ ||

शय्या-भूतं सुतल्पैश् च स्निग्ध-चम्पक-चन्दनैः |

पुष्प-चन्दन-युक्तेन वायुना सुरभी-कृतम् || ज्ञा. सा. सं_,७.३७ ||

कस्तूरी-कुङ्कमासक्त-सुगन्धि-चन्दनैः सितैः |

मार्जितं चित्रितं चित्रैः परितो रङ्ग-वस्तुभिः || ज्ञा. सा. सं_,७.३८ ||

दृष्ट्वा तद् अद्भुतं शीघ्रं प्रययौ स्वर्-णदीं मुनिः |

शुद्ध-स्फटिक-संकासां सर्व-पाप-विनाशिनीम् || ज्ञा. सा. सं_,७.३९ ||

भवाब्धिघोर-तरणे तरणीं नित्यनूतनाम् |

कृष्ण-पाद-प्रसूतां च जगत्-पूज्यां पति-व्रतां || ज्ञा. सा. सं_,७.४० ||

स्नाट्वा कृष्णं च संपूज्य परमात्मानम् ईश्वरम् |

प्रकृतेः परिमिष्टं च निर्लिप्तं निर्गुणं परम् || ज्ञा. सा. सं_,७.४१ ||

साक्षिणं कर्मणाम् एव ब्रह्म ज्योतिः सनातनम् |

प्रययौ पुरतो रम्यं राज-मार्गं ददर्श सः || ज्ञा. सा. सं_,७.४२ ||

मणिभिः स्फटिकाकारैर् अमलैर् बहु-मूल्यकैः |

परिष्कृतं च सर्वत्र निर्मितं विश्व-कर्मणा || ज्ञा. सा. सं_,७.४३ ||

सतां पुण्यवतां दृष्टम् अदृष्टं कृत-पापिनाम् |

धनुः शतं परिमितं चित्र-राजि-विराजितम् || ज्ञा. सा. सं_,७.४४ ||

दध्यं सर्वाश्रमान्तं च प्रख्यात् कोटि-गुणोत्तरम् |

रथं ददर्श पुरतो मनोयायि मनोहरम् || ज्ञा. सा. सं_,७.४५ ||

अमूल्य-रत्न-निर्माण-विमाण-सार-सुन्दरम् |

धनुर् लक्षं परिमितं परितो वर्तुलाकृतम् || ज्ञा. सा. सं_,७.४६ ||

ऊर्ध्व-स्थितम् ऊर्ध्व-गं च सहस्र-चक्र-संयुतम् |

धनुर् लक्षो ऽपि सूतं च वह्नि-शुद्धांशुकान्वितम् || ज्ञा. सा. सं_,७.४७ ||

हीरासार-विनिर्माणं सुचारु-कलशोज्ज्वलम् |

रत्न-प्रदीप-दीप्ताढ्यं रत्न-दर्पण-भूषितम् || ज्ञा. सा. सं_,७.४८ ||

मुक्ताशुक्ति-निबद्धैश् च शोभितं श्वेत-चामरैः |

माणिक्य-सार-हारेण मणि-राजैर् विराजितम् || ज्ञा. सा. सं_,७.४९ ||

पारिजाट-प्रसूतानां मायाजालैः परिष्कृतम् |

ग्रीष्म-मध्याह्न-मार्तण्डं सहस्र-सदृशोज्ज्वलम् || ज्ञा. सा. सं_,७.५० ||

ईश्वरेच्छा-विनिर्माणं काम-पुरं च कामिनाम् |

सर्व-भोग-समाविष्टं कल्प-वृक्ष-परं वरम् || ज्ञा. सा. सं_,७.५१ ||

ससक्त-चित्रितै रम्यै रति-मन्दिर-सुन्दरैः |

गोलोकाद् आगतं पूर्वं क्रीडार्थं शङ्करस्य च || ज्ञा. सा. सं_,७.५२ ||

विवाहे परिनिष्पन्ने पार्वती-परमेशयोः |

रथं दृष्ट्वा च प्रययौ कियद् दूरं महा-मुनिः || ज्ञा. सा. सं_,७.५३ ||

अतीव रम्यं रुचिरं ददर्श शङ्कराश्रमम् |

रत्नेन्द्र-सार-निर्माणं शिविरैः शत-कोटिभिः || ज्ञा. सा. सं_,७.५४ ||

मितैस् तस्मात् शत-गुणैस् तत्र सुन्दर-मन्दिरैः |

युक्तं रत्न-कपाटैश् च रत्न-धातु-विचित्रितैः || ज्ञा. सा. सं_,७.५५ ||

परम-स्तम्भ-सोपानैर् वज्र-मिश्रैर् विभूषितम् |

ददर्श शिविरं शम्भोः परिखाभिस् त्रिभिर् युतम् || ज्ञा. सा. सं_,७.५६ ||

दुर्लघ्याभिरा-मित्राणां सुगम्याभिः सताम् अहो |

प्रकारैश् च त्रिभिर् युक्तं धनुर् लक्षोच्छ्रितं सुत || ज्ञा. सा. सं_,७.५७ ||

सम्मितं सप्तभिर् द्वारैर् नाना-रक्षक-रक्षितैः |

धनुः-शत-सहस्रं च चतुरस्रं च सम्मितम् || ज्ञा. सा. सं_,७.५८ ||

अमूल्य-रत्न-निर्माणं चतुः-शाला-शतैर् युतम् |

अतीव रम्यं पुरतो पुर-द्वारं ददर्श सः || ज्ञा. सा. सं_,७.५९ ||

पुरतो रत्न-भित्तौ च कृत्रिमं च सुशोभितम् |

पुण्यं वृन्दावनं रम्यं तन्-मध्ये रास-मण्डलम् || ज्ञा. सा. सं_,७.६० ||

सर्वत्र राधा-कृष्णं च प्रत्येकं रति-मन्दिरे |

रम्यं कुञ्ज-कुटीराणां सहस्रं सुमनोहरम् || ज्ञा. सा. सं_,७.६१ ||

सुगन्धि पुष्प-शय्यानां सहस्रं चन्दनोक्षितम् |

द्वार-पालं च तत्रैव मणि-भद्रं भयंकरम् || ज्ञा. सा. सं_,७.६२ ||

त्रि-शूल-पट्टिश-धरं व्याघ्र-चर्माम्बरं परम् |

तं संभाष्य विलोक्यैवं द्वितीय-द्वारम् ईप्सितम् || ज्ञा. सा. सं_,७.६३ ||

जगाम च मुनि-श्रेष्ठो ददर्श चित्रम् उत्तमम् |

कदम्बानां समूहं च तन्-मूलं च मनोहरम् || ज्ञा. सा. सं_,७.६४ ||

रत्न-भित्ति-समायुक्तं कालिन्दी-कूलम् उत्तमम् |

स्नातं गोपी-समूहं च नग्न-सर्वाङ्गम् अद्भुतम् || ज्ञा. सा. सं_,७.६५ ||

कदम्बाग्रे च श्री-कृष्णं वस्त्र-पुञ्ज-करं परम् |

तत्रैव शूल-हस्तं च महा-कालं ददर्श च || ज्ञा. सा. सं_,७.६६ ||

कृपालुं द्वार-पालं तं संभाष्य नारदो मुनिः |

प्रययौ शीघ्र-गामी स तृतीय-द्वारम् उत्तमम् || ज्ञा. सा. सं_,७.६७ ||

ददर्श तत्र पुरतः कृत्रिमं वट-मूलकम् |

गोपानां च समूहं च पीतम्बर-धरं परम् || ज्ञा. सा. सं_,७.६८ ||

बाल-क्रीडां च कुर्वन्तं तन्-मध्ये कृष्णम् उत्तमम् |

ब्राह्मणीभिः प्रदत्तम् च भुक्तवन्तं सुपायसम् || ज्ञा. सा. सं_,७.६९ ||

कुर्वन्तं च समाधानं मुनेः वाम-करेण च |

गृहीत्वा तद्-अनुज्ञां च चतुर्थं द्वारम् ईप्सितम् || ज्ञा. सा. सं_,७.७० ||

प्रययौ ब्रह्म-पुत्रश् च ददर्श चित्रम् उत्तमम् |

गोवर्धनं पर्वतं च तत्र कृष्ण-कर-स्थितम् || ज्ञा. सा. सं_,७.७१ ||

गोकुलं गोकुल-स्थानां गोपीनां चैव रक्षणम् |

व्याकुलं गोकुलं भीतं शक्र-वृष्टि-भयेन च || ज्ञा. सा. सं_,७.७२ ||

अभयं दत्तवन्तं च कृष्णं दक्ष-करेण च |

नन्दिनं द्वार-पालं च शूल-हस्तं च सस्मितम् || ज्ञा. सा. सं_,७.७३ ||

विलोक्य प्रययौ विप्रः पञ्चमं द्वाऋअम् उत्तमम् |

नाना-कृतिम-चित्राढ्यं वीर-भद्रान्वितं परम् || ज्ञा. सा. सं_,७.७४ ||

तत्रैव नीप-मूलं च यमुनाकुलम् एव च |

कालीय-दमनं तत्र कृतिमं च ददर्श ःअ || ज्ञा. सा. सं_,७.७५ ||

तद् दृष्ट्वा सस्मितस् तुष्टः षष्ट-द्वाऋअं जगाम सः |

द्वारे नियुक्तं बालं च शूल-हस्तं चतुर्-भुजम् || ज्ञा. सा. सं_,७.७६ ||

रत्न-सिंहासन-स्थं च सस्मितं स्व-गणाधिपम् |

ददर्श चित्रं तत्रैव मथुरा-गमनं हरेः || ज्ञा. सा. सं_,७.७७ ||

गोपिकानां विलापं च यशोदा-नन्दयोस् तथा |

व्याकुलं गोकुलं चापि रथ-स्थं शरणं हरिम् || ज्ञा. सा. सं_,७.७८| ||

अक्रूरं च तथा नन्दं निरानन्दं शुचाकुलम् |

तद् दृष्ट्वा सप्तम-द्वारं द्वार-पालं ददर्श सः || ज्ञा. सा. सं_,७.७९ ||

चित्रं कौतुक-युक्तं च मथुरायाः प्रवेशनम् |

सबलं गोप-सहितं श्री-कृष्णं प्रकृतेः परम् || ज्ञा. सा. सं_,७.८० ||

मथुरा-नागरीभिश् च बालकैर् वानिरर्गलैः |

वीक्षन्तं सादरं सर्वैर् नगर-स्थैर् मनोहरम् || ज्ञा. सा. सं_,७.८१ ||

धनुर् भङ्गं तथा शंभोः कंसादि-निधनादिकम् |

सभार्यं वसुदेवं च निगडान् मुक्तम् ईप्सितम् || ज्ञा. सा. सं_,७.८२ ||

द्वारे नियुक्तं देवेशं गणेशं गण-संयुतम् |

ध्यान-स्थं च विभान्तं च शुद्ध-स्फटिक-मालया || ज्ञा. सा. सं_,७.८३ ||

जपन्तं परमं शुद्धं ब्रह्म-ज्योतिः सनातनम् |

निर्लिप्तं निर्गुणं कृष्णं परमं प्रकृतेः परम् || ज्ञा. सा. सं_,७.८४ ||

दृष्ट्वा तं च सुर-श्रेष्ठं मुनि-श्रेष्ठो ऽपि नारदः |

साम-वेदोक्त-स्तोत्रेण पुष्टाव परमेश्वरम् |

साश्रु-नेत्रः पुलकितो भक्ति-नम्रात्मकंधरः || ज्ञा. सा. सं_,७.८५ ||

 

अथ गणपति-स्तोत्रम्

 

भो गणेश सुर-श्रेष्ठ लम्बोदर परात् पर |

हेरम्ब मङ्गलारम्भ गज-वक्त्र त्रि-लोचन || ज्ञा. सा. सं_,७.८६ ||

मुक्तिद शुभद श्रीद श्रीधर-स्मरणे रत |

परमानन्द परम पार्वती-नन्दन स्वयम् || ज्ञा. सा. सं_,७.८७ ||

सर्वत्र पूज्य सर्वेश जगत्-पूज्य महा-मते |

जगद्-गुरो जगन्-नाथ जगद्-ईश नमो ऽस्तु ते ||ज्ञा. सा. सं_,७.८८ ||

यत्-पूजा सर्व-परतो यः स्तुतः सर्व-योगिभिः |

यः पूजितः सुरेन्द्रैश् च मुनीन्द्रैस् तं नमाम्य् अहम् || ज्ञा. सा. सं_,७.८९ ||

परमाराधनेनैव कृष्णस्य परमात्मनः |

पुण्यकेन व्रतेनैव यं प्राप पार्वती सती || ज्ञा. सा. सं_,७.९० ||

तं नमामि सुर-श्रेष्ठं सर्व-श्रेष्ठं गरिष्ठकम् |

ज्ञानि-श्रेष्ठं वरिष्ठं च तं नमामि गणेश्वरम् || ज्ञा. सा. सं_,७.९१ ||

 

इत्य् एवम् उक्त्वा देवर्षिस् तत्रैवान्तर् दधे विभुः |

नारदः प्रययौ शीघ्रम् ईश्वराभ्यन्तरं मुदा || ज्ञा. सा. सं_,७.९२ ||

इदं लम्बोदर-स्तोत्रं नारदेन कृतं पुरा |

पूजा-काले पठेन् नित्यं जयस् तस्य पदे पदे || ज्ञा. सा. सं_,७.९३ ||

संकल्पितं पठेद् यो हि वर्षम् एकं सुसंयतः |

विशिष्ट-पुत्रं लभते परं कृष्ण-परायणम् || ज्ञा. सा. सं_,७.९४ ||

यशस्विनं च विद्वांसं धनिनं चिर-जीविनम् |

विघ्न-नाशो भवेत् तस्य महैश्वर्यं यशो ऽमलम् |

इहैव च सुखं भक्त्यान्ते याति हरेः पदम् || ज्ञा. सा. सं_,७.९५ ||

 

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे

गणपति-स्तोत्रं नाम सप्तमोऽध्यायः

 

 

प्रथमैक-रात्रे अष्टमोऽध्यायः

 

 

श्री-व्यास उवाच

अथ चाभ्यन्तरं गत्वा नारदो हृष्ट-मानसः |

ददर्श स्वाश्रमं रम्यम् अतीव सुमनोहरम् || ज्ञा. सा. सं_,८.१ ||

पयः फेन-निभ-शय्या-सहितं रत्न-मन्दिरम् |

साक्षाद् गोरोचनाभैश् च मणि-स्तम्भैर् विभूषितम् || ज्ञा. सा. सं_,८.२ ||

मणीन्द्र-सारसोपानैः कपाटैश् च परिष्कृतम् |

मुक्तामाणिक्य-हीराणां माला-राजि-विराजितम् || ज्ञा. सा. सं_,८.३ ||

शुद्ध-स्फटिक-संकाशं प्राङ्गणं मणि-संस्कृतम् |

सुन्दरं मन्दिर-चयं सद्-रत्न-कलशोज्ज्वलम् || ज्ञा. सा. सं_,८.४ ||

रत्न-पत्र-पटाकीर्णं वह्नि-शुद्धांशुकान्वितम् |

सुधानां च मधूनाम् च पूर्ण-कुम्भकं शतं शतम् || ज्ञा. सा. सं_,८.५ ||

दास-दासी-समूहैश् च रत्नालङ्कार-भूषितैः |

पार्वती-प्रिय-सङ्गैश् च स्व-कर्माकुल-सङ्कल्पम् || ज्ञा. सा. सं_,८.६ ||

तद् दृष्ट्वा च मुनि-श्रेष्ठस् तत् पराभ्यन्तरं ययौ |

रत्न-सिंहासन-स्थं च शङ्करं च ददर्श सः || ज्ञा. सा. सं_,८.७ ||

व्याघ्र-चर्माम्बर-धरं सस्मितं चन्द्र-शेखरम् |

प्रसन्न-वदनं स्वच्छं शान्तं श्रीमन्तम् ईश्वरम् || ज्ञा. सा. सं_,८.८ ||

विभूति-भूषिताङ्गं च परं गङ्गा-जटा-धरम् |

भक्त-प्रियं च भक्तेशं ज्वलन्तं ब्रह्म-तेजसा || ज्ञा. सा. सं_,८.९ ||

त्रि-नेत्रं पञ्च-वक्त्रं च कोटि-चन्द्र-सम-प्रभम् |

जपन्तं परमात्मानं ब्रह्म ज्योतिः सनातनम् || ज्ञा. सा. सं_,८.१० ||

निर्लिप्तं च निरीहं च दातारं सर्व-सम्पदाम् |

स्वेच्छा-मयं सर्व-बीजं श्री-कृष्णं प्रकृतेः परं || ज्ञा. सा. सं_,८.११ ||

सिद्धेन्द्रैश् च मुनीन्द्रैश् च देवेन्द्रैः परिसेवितम् |

पार्श्वद-प्रवर-श्रेष्ठ-सेवितं श्वेत-चामरैः || ज्ञा. सा. सं_,८.१२ ||

दुर्गा-सेवित-पादाब्जं भद्र-काली-परिष्टुतम् |

पुरतो हि वसन्तं तं स्कन्दं गण-पतीम् तथा || ज्ञा. सा. सं_,८.१३ ||

गले बद्ध्वा च वसनं भक्ति-नम्रात्मकंधरः |

योगीन्द्रं स्व-गुरुं शंभुं शिरसा प्रणनाम सः || ज्ञा. सा. सं_,८.१४ ||

तुष्टाव परया भक्त्या देवर्षिर् जगतां पतिम् |

स्व-गुरुं च पशु-पतिं वेदोक्तेन स्तवेन च || ज्ञा. सा. सं_,८.१५ ||

 

श्री-नारद उवाच

नमस् तुभ्यं जगन्-नाथ मम नाथ मम प्रभो |

भव-रूप-तरोर् बीज फल-रूप फल-प्रद || ज्ञा. सा. सं_,८.१६ ||

अबीजज प्रज प्राज सर्व-बीज नमो ऽस्तु ते |

सद्-भाव परमाभाव विभाव भावनाश्रय || ज्ञा. सा. सं_,८.१७ ||

भवेश भव-बन्धेश भावाब्धिनाविनायक |

सर्वाधार निराधार साधार धरणी-धर || ज्ञा. सा. सं_,८.१८ ||

वेद-विद्याधाराधार गङाधर नमो ऽस्तु ते |

जयेश विजयाधार जय-बीज जयात्मक || ज्ञा. सा. सं_,८.१९ ||

जगद्-आदे जयानन्द सर्वानन्द नमो ऽस्तु ते|

 

इत्य् एवम् उक्त्वा देवर्षिः शम्भोश् च पुरतः स्थितः |

प्रसन्न-वदनः श्रीमान् भगवांस् तम् उवाच सः || ज्ञा. सा. सं_,८.२० ||

 

श्री-महा-देव उवाच

वरं वृणु महा-भाग यत् ते मनसि वर्तते |

दास्यामि त्वां ध्रुवं पुत्र दाताहं सर्व-संपदाम् || ज्ञा. सा. सं_,८.२१ ||

सुखं मुक्तिं हरेर् भक्तिं निश्चलाम् अविनाशिनीम् |

हरेः पादं तद्-दास्यं सालोक्यादि-चतुष्टयम् || ज्ञा. सा. सं_,८.२२ ||

इन्द्रत्वम् अमरत्वं वा यमत्वम् अनिलेश्वरम् |

प्रजा-पतित्वं ब्रह्मत्वं सिद्धत्वं सिद्ध-साधनम् || ज्ञा. सा. सं_,८.२३ ||

सिद्धैश्वर्यं सिद्धि-बीजं वेद-विद्याधिपं परम् |

अणिमादिक-सिद्धिं च मनो-यायित्वम् ईप्सितम् || ज्ञा. सा. सं_,८.२४ ||

हरेः पदं च गमनं स-शरीरेण लीलया |

एतेषु वाञ्छितार्थेषु किं वा ते वाञ्छितं सुत || ज्ञा. सा. सं_,८.२५ ||

तन् मे ब्रूहि मुनि-श्रेष्ठ सर्वं दातुम् अहं क्षमः |

 

शङ्करस्य वचः श्रुत्वा तम् उवाच महा-मुनिः || ज्ञा. सा. सं_,८.२६ ||

 

श्री-नारद उवाच

देहि मे हरि-भक्तिं च तन्-नाम-सेवने रुचिः |

अति-तृष्णा गुणाख्याने नित्यम् अस्तु ममेश्वर || ज्ञा. सा. सं_,८.२७ ||

 

नारदस्य वचः श्रुत्वा जहास शङ्करः स्वयम् |

पार्वती भद्र-काली च कार्त्तिकेयो गणेश्वरः || ज्ञा. सा. सं_,८.२८ ||

सर्वं ददौ महा-देवो नारदाय च धीमते |

सर्व-प्रदस् तु सर्वेशः सर्व-कारण-कारणः || ज्ञा. सा. सं_,८.२९ ||

नारदेन कृतं स्तोत्रं नित्यं यः प्रपठेत् शुचिः |

हरि-भक्तिर् भवेत् तस्य तन्-नाम्नि गुणतो रुचिः || ज्ञा. सा. सं_,८.३० ||

दश-वार-जपेनैव स्तोत्र-सिद्धिर् भवेन् नृणाम् |

सर्व-सिद्धिर् भवेत् तस्य सिद्ध-स्तोत्रो भवेद् यदि || ज्ञा. सा. सं_,८.३१ ||

इह प्राप्नोति लक्ष्मीं च निश्चलां लक्ष-पौरुषीम् |

परि-पूर्णम् अहैश्वर्यम् अन्ते याति हरेः पदम् || ज्ञा. सा. सं_,