श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः॥
श्रीमद्राघवेन्द्रतीर्थविरचित गीताविवृत्तिः ॥
॥लक्ष्मीनारायणं नत्वा पूर्णबोधान् गुरूनपि।
कुर्मः श्रीकृष्णगीताया भाष्याद्युक्तार्थसङ्ग्रहम्॥
``स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरा। इति भारतमाख्यानं कृपया मुनिना कृतं॥ इति भागवतोक्त्या वेदार्थज्ञानानधिकारिणां स्त्रीशूद्रादीनां धर्मज्ञानद्वारा मोक्षो भवेदिति भगवान् वेदव्यासः सम्भवसभाऽरण्यविराटोद्योगभीष्मद्रोणकर्णशल्यगदासौषुप्तिकशान्त्यानुशासनिकाश्वमेधिकमौसलमहाप्रस्थानस्वर्गारोहणभविष्यत्पर्वभेदेनाष्टा- दशपर्वात्मकं भारतं कृत्वा तत्र भीष्मपर्वणि भारतपारिजातमधुभूतां सर्व भारतार्थसङ्ग्रहभूतां श्रीकृष्णार्जुन संवादरूपां भगवद्गीतां निबबन्ध । तत्र पूर्वषट् के ज्ञानोपायोक्तिः । द्वितीय षट्के साधनोक्तिः। तृतीय षट्के प्रागुक्तस्य प्रपञ्चनं क्रियत इति विवेकः । तत्राद्याध्यायो द्वितीये कतिपय श्लोकस्य कृष्णेनार्जुनबोधने प्रसक्ति सम्पादनाय प्रवृत्ताः। तत्रायमर्थः। धृतराष्ट्र उवाच। किमित्याह। धर्मेति। ``धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः॥ मामकाः पाण्डवाश्बैव किमकुर्वत सञ्जय ॥1॥" धर्मसाधनभूमौ कुरुक्षेत्रे युयुत्सवः युद्धमिच्छन्त एव समवेता मिलिताः सन्तो मामका मदीयाः दुर्योधनादयः पाण्डवाश्च हे सञ्जय किमकुर्वतेति इति शब्दो योज्यः। पाण्डवानां भगवत्प्रियत्वं सर्वसाक्षिकमप्यजानन् धृतराष्ट्रः स्वपुत्राणां विजयविविदिषया सञ्जयं पप्रच्छेत्यर्थः॥ 1/1 ॥
गी.वि --- धृतराष्ट्रप्रश्नस्य सञ्जय उत्तरमुक्तवानित्याह वैशम्पायनो जनमेजयं प्रति। सञ्जय उवाच इत्यादिनवभिः श्लोकैः दुर्योधनकृतव्यापारं आह । दृष्वेत्यादिना॥ दुर्योधनस्तु राजा तदा युद्धार्थं मिलितसमये व्यूढं व्यूहात्मना रचितं पाण्डवसैन्यं दृष्ट्वा तु दृष्वैव इति वा तोरन्वयः। द्रोणाचार्यसमीपमागत्य वचनमुवाच॥ 2/1 ॥
गी.वि --- तद्वचनमेव अनुवदति सञ्जयः। पश्यैतां इत्यादिना। हे आचार्य, तव शिष्येण धीमता धृष्टद्युम्नेन व्यूढां पाण्डुपुत्राणां एतां महतीं चमूं सेनां पश्य॥3॥
गी.वि --- अत्र सेनायां महेश्वासाः महाधानुष्काः युधि भीमार्जुनसमाः शूराः सन्ति। ते क इत्यत आह॥ ``युयुधान" इत्यादिना। महारथ इति प्रत्येकमन्वेति ॥4॥ वीर्यवानिति विशेषणं नरपुङ्गवो नरश्रेष्ठ इत्यपि त्रयाणाम्॥5॥ महारथत्वं नाम `एको दशसहस्राणां योधयेद्यः स धन्विनां। शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः॥' (उद्योग पर्व). 168/141) इत्युक्तरूपम्। विक्रान्तः पराक्रमवान्। सौभद्रः अभिमन्युः। द्रौपदेयाः द्रौपदीपुत्राः॥ 6॥
गी.वि ----अस्माकं त्विति पाण्डवव्यावर्तकस्तुशब्दः। अस्माकं सम्बन्धिनो विशिष्टाः बलिष्ठाः मम सैन्यस्य नायकाः नेतारो ये तान् निबोध बुद्धिस्थान् जानीहि। ते तव सम्यग् ज्ञानार्थं तान् ब्रवीमि। द्विजोत्तम इत्याचार्यसम्बोधनम्॥ 7 ॥ तानाह द्वाभ्यां॥ ``भवानित्यादिना"। समितिञ्जयः युद्धे जयशीलः सौमदत्तिः सोमदत्तसुतो भूरिश्रवाः॥ 8 ॥ शूरा एवेति वा मदर्थं एवेति वाऽवधारणान्वयः। त्यक्तजीविताः प्राणत्यागे कृतनिश्चया इत्यर्थः। प्रह्रियन्ते एभिरिति प्रहरणानि अस्त्राणि। नानाविधानि शस्त्राणि येषां ते नानाशस्त्रप्रहरणाः। युद्धविशारदाः युद्धकुशलाः॥ 9 ॥
गी.वि --- बलद्वये बलिष्ठपरिगणने पाण्डवविजये मम सन्देहोऽस्ति। ततो भवदादयः सर्वे बहुसन्नद्धा भवन्त्विति भावेनाह॥ अपर्याप्तमिति॥ सेनापतिभूतभीष्माभिरक्षितम्। अस्माकं तत् प्रागुक्तबलिष्ठोपेतं बलं अपर्याप्तं पाण्डवजये न समर्थं प्रतीयते। भीष्माभिरक्षितमिदं पाण्डवानां बलं तु पर्याप्तं अस्मद्विजये शक्तं प्रतीयते॥ 10 ॥
गी.वि --- हि यस्मादेवमतो भवन्तः सर्व एव सर्वेष्वयनेषु व्यूहप्रवेशमार्गेषु यथाभागमवस्थिताः स्वस्ववरणभूमिस्थानेषु दृढमवस्थिताः सन्तः भीष्ममेवाभिरक्षन्तु। अन्यैर्युध्यमानो भीष्मः पृष्ठतोऽरिभिर्यथा न हन्यते तथा रक्षन्त्विति द्रोणाचार्यमुक्त्वा विषसाद॥ 11 ॥
गी.वि --- एवं विषादिनस्तस्य दुर्योधनस्य हर्षं सञ्जनयन् जनयितुम्। ``लक्षणहेत्वोः क्रियाया" इति हेतौ शत्रन्तम्। प्रतापवान् कुरुवृद्धः पितामहो भीष्मः सिंहनादं उच्बैर्विनद्य शङ्खं दध्मौ। ध्मा शब्दे॥12॥
गी.वि --- -ततः तच्छङ्खध्वानानन्तरं पणवानकगोमुखाः वाद्यविशेषाः सहसैव युगपदेव। तुमुलः सर्वत्र परिपूर्णोऽभवत्॥ 13 ॥
श्लो॥ ततः श्वेतैर्~हयैर्युक्ते महतिस्यन्दनेस्थितौ।
माधवः पाण्डवश्बैव दिव्यौ शङ्खौ प्रदध्मतुः॥14/1॥
गी.वि ---- ततः तेषां घोषानन्तरं श्वेतहयैः शुक्लवर्णाश्वैः युक्ते स्यन्दने रथे पाण्डवस्त्वर्जुनः । स्थितावेव इत्यन्वयः॥ 14 ॥
गी.वि ---॥ तद्विवृणोति। पाञ्चजन्यमिति। हृषिकेश शब्दार्थ उक्तो भाष्ये एकादशे। ``हृषिकाणां इन्द्रियाणां ईशत्वाच्च हृषिकेश" इत्यादि। दध्मावित्यन्वयः॥ 15 ॥
गी.वि --- अनन्तविजयं अनन्तविजयाख्यम्। नकुलः सुघोषाख्यं शङ्खं सहदेवो मणिपुष्पकाख्यं दध्मुरिति अन्वयः॥ 16 ॥
गी.वि --- परमेष्वासो महाधानुष्कः काश्यः। महारथः शिखण्डी च अपराजितः सात्यकिश्च॥ 17 ॥
गी.वि --- पृथिवीपते हे धृतराष्ट्र महाबाहुः सौभद्रोऽभिमन्युश्च। शङ्खमिति समुदायाभिप्रायः। स्वस्वशङ्खान्दध्मुरिति ॥ 18 ॥
गी.वि --- सघोषस्तुमुलो व्याप्तो भूत्वा नभश्च पृथिवीं च व्यनुनादयंस्तत्र तत्र प्रतिध्वनिं जनयन्नेव धार्तराष्ट्राणां हृदयानि व्यदारयत्। अद्यैव नष्टं कुरुकुलमिति त्वत्पुत्रा मेनिर इत्यर्थः ॥ 19 ॥
गी.वि --- -- तत्वोपदेशप्रसञ्जकं अर्जुनविषादं वक्तुं एतावानुपोद्घातः प्रवृत्तः। एवं दुर्योधव्यापारं दलद्वयगतव्यापारं च उक्त्वा अधुना अर्जुनव्यापारमाह। ``अथ इत्यादि चतुर्भिश्लोकैः ।" अथानन्तरं कपिध्वजोर्जुनः व्यवस्थितान् युद्धे कृतनिश्चयान् दृष्ट्वा शस्त्रसम्पाते शस्त्रप्रहरणे प्रवृत्ते । ``वर्तमान सामीप्ये वर्तमानवद्वा"। प्रवर्तितमुद्युक्ते सति तदा शस्त्रसम्पातकाले इदं वक्ष्यमाणं वाक्यं आहेत्यन्वयः॥ 20 ॥
गी.वि --- सार्धश्लोकद्वयेन तद्वाक्यमाह। सेनयोरिति। अस्मिन् रणोद्योगे कैः सह मया योद्धव्यम्। दुर्बुद्धेर्धार्तराष्ट्रस्य प्रियं कर्तुमिच्छन्तो येऽत्र समागताः तान् योद्धुकामानवस्थितान्योत्स्यमानान्यावद् द्रक्षामि तावदुभयोः सेनयोर्मध्ये रथं स्थापयेत्याह इत्यर्थः ॥ 21॥ 22 ॥ 23 ॥
गी.वि --- एवं गुडाकेशेन गुडाकाया निद्रायाः ईशेन जितनिद्रेणार्जुनेन उक्तो हृषिकेशः सर्वेन्द्रियप्रेरकः श्रीकृष्णः बलद्वयमध्ये भीष्मद्रोण प्रमुखत इति बुद्ध्या विविक्तेनान्वयः। रथं स्थापयित्वा हे पार्थ समवेतान् युद्धार्थं मिलितानेतान् कुरून् पश्येत्युवाचेति॥ 24 ॥25॥
गी.वि --- तत्रेत्यस्य विवरणं सेनयोरुभयोरपीति। तथेति समुच्चये॥ 26 ॥ तानवस्थितान् सर्वान् बन्धून् समीक्ष्यैवेत्येव- कारेणान्वयः । विषीदन्विषादं कुर्वन्। विषादो नाम मोहनिमित्त- कात् शोकाद्यन्मनोदौर्बल्यं यस्मिन्निति सर्वव्यापारोपरमो भवति स इति ज्ञेयं॥27॥
गी.वि --- इदमब्रवीत् इत्युक्तमर्जुनवाक्यमाह॥ दृष्ट्वेत्यादिना- ऽऽध्यायसमाप्ति ॥ हेकृष्ण , सकललोककर्षक। तदुक्तं गीताभाष्ये पञ्चमेऽध्याये। नियमनादिना सकललोककर्षणात् कृष्णः। तच्चोक्तं। ``यतः कर्षसि देवेश नियम्य सकलं जगत्। अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिन" इति महाकौर्मे इत्युक्तेः। युयुत्सुं योद्धुमिच्छन्तं सम्यगवस्थितमिमं बन्धुजनं दृष्ट्वा मम गात्राणि हस्ताद्यवयवाः सीदन्ति विशीर्यते। षड्लृ विशरणगत्यवसादने- षु इति धातोः । मुखे म्लानता च जायते॥ 28 ॥ शरीरे कम्पो रोमाञ्चश्च जायते। धनुः हस्तात् पतति। त्वक्च परितस्यप्यत एव ॥29॥
गीता विवृत्तिः अवस्थातुं च न शक्नोमि । मनश्च मे भ्रमतीव च विपरीतानि निमित्तानि दुर्निमित्तानि च पश्यामि । केशव ब्रह्मरुद्रप्रवर्त#080; X। कश्च ईशश्च केशौ तौ सृष्ट्यादिना वर्तयतीति व्युत्पत्तेः। केश पदोपपदाद्- वृतुवर्तन इत्यतोऽतर्णीतण्यर्थाड्डप्रत्यये रूपसिद्धिः । उक्तं हि स्थितप्रज्ञस्य का भाषेत्येतद्भाष्ये । ``हिरण्यगर्भः कः प्रोक्त ईशः शङ्कर एव च। सृष्ट्यादिना वर्तयति तौ यतः केशवो भवान्" इति ॥ 30॥ युद्धेन श्रेयो लभ्यत इत्यत आह॥ नचेति। श्रेयश्च न पश्यामि। आहवे युद्धे विजयादिकं फलं नेच्छामि॥ 31 ॥
गी.वि --- येषामर्थे प्रयोजननिमित्तं राज्याद्यपेक्षितं नः अस्माकं ॥ 32 ॥
गी.वि --- त इमे बान्धवाः प्राणान् धनानि च त्यक्त्वा युद्धे व्यवस्थिताः। ते क इत्यत आह। आचार्या इति। नैवेच्छामीत्येवकारान्वयः। यदि मां युद्धान्निवृत्तं एते हन्युस्तर्~हि घ्नतोऽपि नैव हन्तुमिच्छामीत्यर्थः। हे मधुनामक दैत्यमर्दन ॥ 33 ॥ 34 ॥ कैमुत्यन्यायेनाह ॥ अपीति। त्रैलोक्यराज्यस्यापि हेतोरेतान् हन्तुं नेच्छामि। किमुत महीमात्रनिमित्तमिति। किञ्च धार्तराष्ट्रान् निहत्य नोऽस्माकं का प्रीतिः किमैहिकसुखम्। न किमपि। नापि पारत्रिकं प्रत्युत पारत्रिकदुःखहेतुपाप- मेवास्मानाश्रयेत्। न जायत इति जनः, अर्दयति संसारमिति अर्दनः जनश्चासावर्दनश्चेति जनार्दनः तस्य सम्बुद्धिः। उक्तं ह्येवं गीताभाष्ये दशमे॥ 35 ॥
गी.वि --- आततायिनः। ``अग्निदो गरदश्बैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहारी च षडेते ह्याततायिनः।" (भी.प 107/110) इत्युक्त लक्षणात्। तस्मात् सीदन्ति मम गात्राणीत्यादिनोक्त उपपत्तिबलात् सबान्धवान् धार्तराष्ट्रान् हन्तुं वयं नार्~हाः। ``आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन।'( शां. प. 15/15) इत्युक्तेस्तेषां आततायित्वेन हन्तव्यतया प्राप्तत्वेऽपि तद्धननप्रसक्त्या बन्धूनामपि हननप्राप्तेर्न हन्तुं वयं योग्या इति भावः॥ 36 ॥
गी.वि --- बन्धुत्वेऽपि आततायिसम्बन्धित्वात् तेऽपि बन्धुजना हन्तव्या एवेत्यत आह। स्वजनं हीति। स्याम भवेम। तद्दर्शनस्पर्शनसम्भाषणादेरभाव प्राप्तेरिति भावः॥ 37 ॥
कुत एवं बुद्ध्या ते न निवृत्ता इत्यत आह। यद्यपीति। एते दुर्योधनादयः राज्यलोभेनोपहतचेतसः नष्टधर्मज्ञानाः दोषं पातकं न च पश्यन्ति। यद्यपि॥ 38 ॥ तथाऽपि हे जनार्दन जननरहित संसारार्दन, कुलक्षयकृतं दोषं प्रपश्यद्भिरस्माभिः अस्माद्दोषान्निवर्तितुं कथं न ज्ञेयं॥ 39 ॥
गी.वि --- कः कुलक्षयकृतो दोष इत्यत आह। कुलक्षय इति। सनातनाः परम्पराप्राप्ताः कुलधर्माः क्षत्रियादि कुलधर्माः। उत शब्दोऽप्यर्थे। अवशिष्टं कृत्स्नमपि कुलधर्मोऽभिभवति अधर्माक्रान्तं भवति॥ 40 ॥ वार्ष्ण्येय वृष्णिकुलोद्भव॥ 41 ॥ कुलस्य चेति पुत्रपौत्रादिसन्तानस्य चेत्यर्थः। एषं कुलघ्नानां पितरः लुप्तपिण्डाः लुप्तोदकक्रियाश्च सन्तः पतन्ति॥ 42 ॥
गी.वि --- उक्तदोषमुपसंहरति। दोषैरिति द्वाभ्यां। जातिधर्माः क्षत्रियत्वादि जातिप्रयुक्ता धर्माः कुलधर्माश्च शाश्वताः परम्परया प्राप्ताः ॥43 ॥
गी.वि --- उत्सन्नकुलधर्माणां उत्सन्नजातिधर्माणां चेत्यपि ज्ञेयं। अनुशुश्रुम ``प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः। अपश्चात्तापिनः कष्टान्निरयान्यान्ति दारुणान्" इत्यादि वदद्भिर्वृद्धैः श्रुतवन्तः स्मः ॥44 ॥
गी.वि --- एवं बन्धुवधस्य दोषहेतुत्वाध्यवसायेन सन्तप्यमानोऽर्जुन आह -- अहो बतेति ॥ राज्यसुखलोभेन स्वजनं हन्तुं वयमुद्यता इति यत्तदेतन्महत्पापं कर्तुं व्यवसिता निश्चयवन्तो वयं । अहो बत महाकष्टमिति ॥ 45 ॥
गी.वि एवं सन्तप्तः सन्मृतिमेवार्थयमान आह - यदीति। अकृतप्रतीकारमशस्त्रं तूष्णीं आसीनं मां यदि शस्त्रपाणयो धार्तराष्ट्रा रणे हन्युस्तर्~हि तद्धननं मे क्षेमतरं अत्यन्त हितमेव भवेत्। बन्धुवधदोषाभावाद्रणे हननेन गतिसम्भवाच्चेति भावः ॥46॥
गी.वि ततः किं जातमिति धृतराष्ट्रहार्द परिहरति। सञ्जय इति। सङ्ख्ये रणे स्थोपस्थे रथमध्ये उपाविशत्। कथं शोकेन कम्पितचित्तः सन् सशरं चाप विसृज्येति॥ 47॥
॥इति श्रीमद्गीतार्थसङ्ग्रहे श्रीमद्राघवेन्द्रयतिकृते प्रथमोध्यायः॥
॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु ॥
*****************************************************************
द्वितीयोऽध्यायः
श्रीगुरुभ्योनमः
हरिः ॐ॥ ततः किं जातमिति धृतराष्ट्रस्यापेक्षायां सञ्जय उवाच। तं तथेति। उक्तदिशा कृपयाऽऽविष्टमेवं विषण्णं अर्जुनं भगवानुवाच कुत इत्यादि द्वाभ्यां श्लोकाभ्याम्॥ 1/2 ॥
श्रीगीताविवृत्तिः - हे अर्जुन कुतो हेतोस्वा त्वां विषमे सङ्कटे हृदं कश्मलं उपस्थितम्। अयं मोहः प्राप्तः । यतः आर्यैरसेवितम्, आस्वर्ग्यं स्वर्गविरोधि अयशस्करं च॥ 2/2 ॥
तस्मात् क्लैब्यं कातर्यं मास्मगमः नैवं प्राप्नुहि। हे पार्थ ऎतद् क्लैब्यं त्वयि नोपपद्यते योग्यं न भवति। क्षुद्रं लाघवकरं हृदयदौर्बल्यं कातर्यं त्यक्ता Xव उत्तिष्ठ। उत्थाय सन्नद्धो भव। हे परन्तप, परं शत्रुं तापयतीति शत्रुतापन । `द्विषत्परयोस्तापेः इति खचि खित्यनव्यवस्ये"ति मुमागमः॥3/2 ॥
गीताविवृत्तिः पुनः स्नेहकारुण्यतया व्याकुलो भगवदुक्तं हितमजानन् अर्जुन उवाच। ``कथमित्यादि पञ्चभिः श्लोकैः"। हे मधुदैत्यघातक शत्रुनिबर्~हण, सङ्ख्ये युद्धे भीष्मं द्रोणं कथमहमिषुभिः बाणैः प्रतियोत्स्यामि। कुतः यतस्तौ पूजार्~हौ पूजनीयौ तत इति॥ 4/2 ॥ ननु चैतदहनने राज्याप्राप्तेः देहनिर्वाहो न स्यादित्यत आह॥ गुरूनिति॥ महानुभावान् भगवद् भक्त्यादिगुणसम्पन्नान् द्रोणादिगुरूनहत्वा इह लोके भैक्ष्यं भिक्षोपलब्धं अन्नं भोक्तुं श्रेयः वरम्। पारत्रिकदुःखाभावादिति भावः। हि यतोऽतो न योत्स्यामीत्यन्वयः। न केवलं तेषां हनने पारत्रिकदुःखम्। किन्तु इहापि अतिदुःखमित्याह। हत्वेति। अर्थं कामयन्त इत्यर्थकामास्तान् गुरून् हत्वा तैर्भुज्यमानांस्तानेव भोगां- स्तद्रुधिरेण प्रदिग्धान् प्रकर्षेण लिप्तान् तदीयासनेष्वेवोपविश्य इह भुञ्जीय अनुभवेयम्। तदेतत् परलोकदुःखादतिशयितं दुःखमिति भावः॥ 4/2 ॥ 5/2 ॥
श्रीगीताविवृत्तिः पापमङ्गीकृत्य युद्धकरणेऽपि जयः सन्दिग्ध एवेत्याह॥ न चैतदिति॥ द्वयोर्मध्ये नोऽस्माकं कतरत्किन्नाम गरीयः अधिकतरं भविष्यतीति न विद्मः तदेव द्वयमाह। यद्वेति॥ एतान्वयं जयेम जेष्यामः। यदि वा नोऽस्मानेते जयेयुः जेष्यन्तीति। किञ्चास्माकं जयोऽपि पराजय ऎव फलत (बुद्ध्यते) इत्याह। यानेवेति। यानेव हत्वा जीवितुं नेच्छामः त ऎव धार्तराष्ट्राः सम्मुखेऽवस्थिताः तस्मात्॥ 6/2 ॥
गीताविवृत्तिः कार्पण्यदोषेण एतान् हत्वा कथं जीविष्याम इति कृपणतादोषेणाभिभूत शौर्यलक्षणस्वभावः धर्मसम्मूढचेताः धर्मे सम्मूढं सन्दिग्धं चेतो यस्य स तथोक्तः तादृशोऽहं त्वा त्वां पृच्छामि। यच्छ्रेयः स्याद्भिक्षाटनयुद्धयोर्मध्ये यच्छ्रेयः स्यान्निश्चितं तन्मे ब्रूहि। किञ्चाहं ते शिष्यः शासनार्~हः। अतः त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय॥ 7/2 ॥
श्रीगीताविवृत्तिः त्वमेव विचार्य यद्युक्तं तत्कुर्वित्यत आहार्जुनः । न हीति । इन्द्रियाणां उच्छोषणमतिशोषकरं मदीयं शोकं यत्कर्मापनुद्यादपनयेत्तदहं न पश्यामि। राज्यलाभहेतु- युद्धकर्मैव तादृशमित्यत आह ॥ अवाप्येति । यद्यपि भूमौ निष्कण्टकं राज्यं प्राप्स्यामि तथा सुराणां देवानामधिपत्यं च प्राप्स्यामि। ऎवमभीष्टं सर्वमवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्यर्थः। हत्वाऽर्थकामानिति उक्तदिशा सर्वस्यापि दुःखहेतुत्वादिति भावः ॥ 8/2 ॥
श्रीगीताविवृत्तिः ततः किमकरोदर्जुन इति धृतराष्ट्राकाङ्क्ष्यां निराह सञ्जयः । ऎवमुक्त्वा इति। हृषिकेशं सर्वेन्द्रियप्रेरकं, गुडाकेशो जितनिद्रः परन्तपं शत्रुतापनः, गोविन्द गाः वेदवाचः प्रतिपादकत्वेन विन्दते लभत इति गोविन्दः तम् । हेत्याश्चर्ये। महाधैर्यादि गुणवतोऽप्येवं बुद्धिर्जातेति॥ 9/2 ॥
श्रीगीताविवृत्तिः ततः किं जातमित्यत आह॥ तमुवाचेति। हे भारतेति धृतराष्ट्रसम्बोधनम्। प्रहसन्निवेति परिहासकरवाक्योक्तिद्योतक हासस्य सूचनायेवशब्दः॥ 10/2 ॥
श्रीगीताविवृत्तिः भगवन्माहात्म्यज्ञान तद्भक्तिपूर्वकं भगवदाराधनरूपतया स्वविहितवृत्तित्वेन वाऽनुष्ठीयमानो नारायणद्विट् तदनुबन्धिनिग्रहः क्षत्रियाणां परमो धर्मः । तं धर्म बन्धुस्नेहादधर्मत्वेनोक्तदिशा शङ्कमानं अर्जुनं प्रति उक्तरूपो निग्रह ऎव परमधर्मः तद्विरुद्धः सर्वोऽपि अधर्म इति कृत्स्नगीताशास्त्रेण बोधयिष्यन् आदौ तावदविवेकेन तव शोक इत्याह। ``अशोच्यानिति'। अशोच्यान् शोकानर्~हान्। हे पार्थ त्वं अन्वशोचः । यान् त्वं शोचितवानभूस्ते न शोकार्~हा इति यावत्। प्रज्ञावादांश्च भाषसे। प्रज्ञयोत्था वादाः प्रज्ञावादाः स्वबुद्धिमात्रपरिकल्पिता वादाः तान् भाषसे। यान् प्रभाषसे ते स्वबुद्धिमात्रपरिकल्पिता वादाः न वृद्धसम्मता इति यावत्। यद्वा प्रकर्षेण जानन्तीति प्रज्ञाः । ``इगुपधज्ञाप्रीकिरः कः"। तेषामवादाः प्रज्ञावादाः प्राज्ञविरुद्धवादाः तान् प्रभाषस इत्यर्थः। न हि `दृष्वेमं स्वजनं कृष्ण' इत्यादि अर्जुनवाक्येषु कश्चित् प्राज्ञसम्मतवादोऽस्ति । न हि प्राज्ञा नारायणद्विट् तदनुबन्धिनिग्रहं अधर्म वदन्तीति भावः। ननु आसन्नविनाशास्ते कथमशोच्या इत्यत आह। `गतासूनिति' । पण्डिताः ज्ञानिनः। गतासून् आसन्नविनाशान्। अगतासून् इव इत्युपमार्थश्चकारः । जीवत इव तान् नानुशोचन्ति यतोऽतो न शोच्यास्त इति तानन्वशोचस्त Xवं इत्यर्थः॥ 11/2 ॥
श्रीगीताविवृत्तिः ननु कुतो न शोचन्ति कुतश्च मदीया वादाः प्राज्ञमतविरुद्धा इति । `दृष्ट्वेवं स्वजनं कृष्णे' त्यादिना उपपत्तेरुक्तत्वादिति चेत् । तत्किं तेषां जीवनाशात्तव शोक उत देहनाशात् । अथ देहान्यात्मनोऽभावात्तद्देहनाश ऎव तन्नाश इति। नाद्यः । जीवानां अनादिनित्यत्वादित्यत आह । न त्वेतेति । जातु कदाऽपि। अहं न नासं नासमिति न । किं त्वासमेव । त्वं न नासीः। विपरिणामेन क्रियान्वयः। अपित्वासीरेव। इमे जनाधिपाश्च न नासन् आसन्नेव। अहं यूयं च वयं सर्वे ऎव अतः परं आनन्तरकाले न न भविष्यामः किन्तु भविष्याम ऎव। अत्र पूर्वोत्तरार्धाभ्यां कालद्वयसम्बन्धोक्त्या अनादित्वं नित्यत्वं चोक्तम्। वर्तमानकाल सम्बधस्तु स्फुटत्वान्नोक्तः । ``द्वौ नञXौ प्रकृतमर्थं सातिशयं गमयत" इति न्यायेन नञX द्वयप्रयोगादेव अवधारणसिद्धौ पुनस्तदुक्तिः ``नित्यो नित्यानां" (काठक 2-5-13) ``स्वदेहयोगविगमौ नाम जन्ममृती पुरा। इष्येते ह्येव जीवस्य मुक्तेर्न तु हरेः क्वचित्॥" इति श्रुतिस्मृतिप्रसिद्धि द्योतनार्था। च शब्दोऽनादित्वेन सह नित्यत्वस्य समुच्चयार्थः। तु शब्दस्तु स्मृत्युक्तदिशा ईश्वरस्येतरेषामिव देहतोऽप्युत्पत्तिनाशौ नेति विशेषार्थः। तदाह `` असम्भवस्तु सतोऽनुपपत्तेः (2-3-9) ``॥ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः॥" (2-3-17) इति सूत्राभ्याम्। तत्राणुभाष्यमपि ``सोऽनुत्पत्तिलय" इति। ये तु कृष्णस्येश्वरत्वं अनादित्वं च न जानन्ति तान् प्रति यथाश्रुतैवोक्तयोजना। ये तु तद् ज्ञात्वा जीवानादि नित्यतामेव न जानन्ति तान् प्रति तु यथैवम्पदयोरध्याहारेण दृष्टान्तदार्ष्टान्तिकभावेन यथाऽहं न नासमनादितोऽवर्ते। ऎवं त्वमेते च सर्वे यूयं न नासुः अनादितोऽ वर्तध्वमिति योजना। अत्रैतौ प्रयोगावभिमतौ कृष्णत्वदादिचेतना न नाशवन्तः भावत्वे सत्यनादित्वात्। ``नासत" इति श्लोके वक्ष्यमाणप्रकृत्यादिवदिति। द्वितीययोजनायां तु त्वदादयो जनाधिपा न नाशवन्तः चेतनत्वे सत्यनादित्वात्। कृष्णवदिति। स्वरूपासिद्धिस्तु देहिन इत्यत्र निरसिष्यते। न च साधनवैकल्यम्। नित्यो नित्यानां इति श्रुतेः। तत्र अनादित्वस्यापि उपलक्षणत्वात्। ऎवं चैवमनादिनित्या जीवाः कथं नाम शोच्याः अनादिनित्यजीवानां नाशभीत्या ``न योत्स्य" इत्यादित्वदीया वादाः कथं नाम प्राज्ञमतविरुद्धा न भवेयुः इति भावः॥ 12/2 ॥
श्रीगीताविवृत्तिः देहनाशभयादिति द्वितीयपक्षं निराह॥ देहिन इति। देहिनः देहवतो जीवस्य अस्मिन् इदानीं वर्तमाने स्थूलदेहे कौमारं यौवनं जरा च यथा प्राप्नोति तथा देहान्तरप्राप्तिः। अयं भावः। कौमारावस्थाविशिष्टदेहहाने यौवनावस्थाविशिष्टदेहहाने च शोकस्तावन्नास्तीति प्रसिद्धम्। तत्कुत इति वाच्यम्। जरादिविशिष्टदेहान्तरलाभात्। समानलाभेन हानिर्~हि समाधीयत इति चेत्। मृतावपि शोको न कार्यः देहान्तरलाभादेव। यदातु जीर्णदेहलाभेन समीचीनयौवनदेहहानेः प्रतिनिधिः, तदा सुतरां समीचीनदेहान्तर लाभेन जीर्णदेहहानेरिति। अतो धीरः बुद्धिमान् तत्रदेहनाशविषये न मुह्यति न मोहं प्राप्नोति। एतेषां देहाः नश्यन्तीति शोकं न प्राप्नोति इत्यर्थ। तत्रावस्थामात्रहानिः. अत्रावस्थावतोऽपीति वैषम्यमनुपयुक्तम्। निष्कदानेन पटग्रहणदृष्टेरिति। अत्र देहिन इत्युक्ता देहवतो जीवस्यैव न तु देहदेहिभेदहीनस्य हरेर्जराद्यवस्था देहान्तरावाप्तिर्वेति सूचितम्। देहान्यजीव ऎव नास्ति। ऎवं च त्वदादयो जनाधिपा नित्याः अनादिनित्यत्वादिति प्रागुक्तप्रयोगे देहपक्षीकारे असिद्धिबाधौ जीवपक्षीकारे चाश्रयासिद्धिरिति तृतीयपक्षमाशङ्क्य परिहरति॥ देहिन इति॥ अत्र कौमारादि विषयेण तदनुभवो विषयी लक्ष्यते। देहिन इत्यस्य देहादन्यस्येत्यर्थः । देहोऽस्यास्तीत्यर्थे मतुबर्थे निप्रत्ययविधानात्। ऎकवचनात् ऎकस्येत्यपि लभ्यते। देहान्तरशब्दोऽत्रानेकदेहपरः। तथा चायमर्थः। अस्मिन् देहे कौमारं कौमारानुसन्धानम्, यौवनं यौवनानुसन्धानम्, जरा जरानुसन्धानम्, योऽहं कौमारशरीरवानभूवं स इदानीं युवशरीरवान्वर्ते, योऽहं युवशरीर- वानभूवं स इदानीं जीर्णशरीरवान्वर्ते इत्येवं रूपेण तावदस्ति। तच्च देहिनो देहवतो देहान्यस्येति यावत्। देहशब्दोऽत्र देहेन्द्रियान्तःकरणसङ्घातपरः। देहेन्द्रियान्तःकरणेभ्योऽन्यस्य चेतनस्य भवति। देहादेर्जडत्वेनानुसन्धानकर्तृत्वा- योगात्। ऎवं च देहेन्द्रियादितोऽतिरिक्तजीवसिद्धिः। तथा चैकवचनबलादेकस्यैव देहादन्यस्य कौमाराद्यनेकदेहानुसन्धानं यथा तथा देहान्तरप्राप्तिरनेकदेहप्राप्तिः देहिनो देहादन्यस्यैकस्यैव भवतीति पूर्वार्धेन देहादन्यसिद्धिः। त्रिपाद्या चोक्तविधयाऽ नेकदेहप्राप्तिमान्सिद्ध इति देहादन्यजीवपक्षीकारे नाश्रयासिद्धिः। प्रत्यग्रजातस्य शिशोराहारा- द्यभिलाषेण पूर्वपूर्वतरदेहानुसन्धानेन सिद्धानेकदेहानुगत्याऽनादित्वसिद्धेर्न हेतोः स्वरूपासिद्धिरिति भावः। ननु देहाद्यन्यतमस्यैवास्त Xवनुसन्धानम्। चार्वाकाद्युक्ततर्कबलादित्यत आह ॥धीर इति॥ बुद्धिमांस्तत्र देहादन्यात्मविषये न मुह्यति । देहादीनां जडत्वकरणत्वादिना कर्तृत्वायोग इत्यादिरूपेण ते तर्का निरस्या इति भावः॥13/2 ॥
श्रीगीताविवृत्तिः सत्यमेव तत्सर्वं भवदुक्तम्। उक्तविधयाऽऽत्महानेरभावात्, देहहानावपि समीचीनदेहान्तररूप- प्रतिनिधिलाभात्, बान्धवानां हानिः भविष्यतीति धिया शोको न युक्त इति। तथाऽपि तन्मृतौ ममैव सुखहानिर्दुःखप्राप्तिश्च स्यात्। तद्देहदर्शनस्पर्शसम्भाषणादेः सुखहेतोरभावात्। छेदभेदादिना विकृततद्देहदर्शनस्य दुःखहेतो- र्भावादित्यत आह॥ मात्रेति। मीयन्त इति मात्राः। मा~घX मान इत्यतः कर्मणि त्रप्रत्ययः। स्त्रीत्वं शब्दस्वाभाव्यात्। ज्ञानविषयाः गन्धरसरूपस्पर्शशब्दाः तेषां स्पर्शाः सम्बन्धाः। शीतोष्णशब्दौ शीतोष्णस्पर्शवाचकौ लक्षणया गन्धरसरूपस्पर्शशब्दाख्य सर्वविषयपरौ भूत्वा तदनुभवलक्षकौ। लाक्षणिकोक्तिकृत्यमग्रे व्यक्तम्। गन्धरसरूपस्पर्श शब्दाख्य विषयाणां घ्राण रसनचक्षुस्त Xवक् श्रोत्ररूपेन्द्रियैः यथाक्रमं ये सन्निकर्षास्ते मात्रास्पर्शाः शीतोष्णसुखदुःखदाः । सुगन्धसुरससुरूपसुस्पर्शसुशब्दविषयकसाक्षात्कार रूपानुभव जननद्वाराऽऽत्मनः सुखप्रदाः । अनिष्टगन्धरसादिविषयकसाक्षात्कारजननद्वारा दुःखप्रदाः । तेषां मृतौ च तन्निमित्तसुखदुःखहानिप्राप्ती भवत इति किल कौन्तेय तवाशय इति पार्थहार्दमनूद्य भगवान् कृष्णः काकुस्वरशिरस्कतु शब्देनावधारणार्धकेन निराचष्टे। हे कौन्तेय, मात्रास्पर्शा ऎव, गन्धादिविषयेन्द्रियसन्निकर्षा ऎव। इष्टानिष्टस्वविषयसाक्षात्कार द्वारा सुखदुःखदाः किमिति काकुस्वरेणाक्षेपः। केवलं तन्मात्रा ऎव न भवन्ति। किन्तु विषयेषु शोभनाध्यासनिमित्तस्नेहरूपेण वा अरित्वादिभ्रमहेतुकद्वेषरूपेण वा देहेन्द्रियान्तः- करणेषु ममताऽतिशयहेतुकाविवेकरूपेण वाऽभिमानेन सहिता ऎव तथेत्यर्थः। कुत ऎवं तन्मात्रा एव स्वस्वविषयानुभवद्वारा सुखदुःखहेतवो भवन्त्वित्यत आह॥ आगमेति॥ यत इति शेषो वा हेतुगर्भविशेषणं वा। ऎतच्चागमपायित्वं शीतोष्णसुखदुःखदाः मात्रास्पर्शा आगमापायिन इत्येवं स्वस्वविषयकधीद्वारा सुखदुःखत्वविशिष्टमात्रास्पर्शानां विशेषणम्, ``सविशेषणे हि विधिनिषेधौ विशेष्ये बाधाद्विशेषनमुपसङ्क्रामत" इति न्यायात्, मात्रास्पर्शानां स्वस्वविषयकधीद्वारा यत्सुखदुःखदत्वं तस्यागमापायित्वादिति सुखादिदत्व- रूपविशेषणं उपसङ्क्रामति। सुप्त्यादौ श्रीचन्दनाग्निकणादिशीतोष्णस्पर्शसम्बन्धे अविनाभूत मनस्सम्बन्धात्मसन्निकृष्टत्वगिन्द्रियस्य सत्वेऽपि स्वविषयानुभवद्वारा सुखदुःखादिदत्वस्य अदर्शनात्। जाग्रद्दशायां अभिमानसत्वे ऎव तद्दर्शनात्। अन्वयव्यतिरेकाभ्यां अभिमान- सहिता ऎव मात्रास्पर्शाः स्वस्वविषयकधीद्वारा सुखदुःखादिदाः न तु केवला इति भावः। सुप्तौ अन्य इन्द्रियाणां उपरमेऽपि त्वगिन्द्रियस्य नोपरमः। तस्य तदाऽपि विषयसन्निकर्षोऽस्तीति ज्ञापनायैव इतरविषयलाक्षणिकशीतोष्णपदप्रयोगः। आगमापयित्वं चात्र गङ्गोदकस्येव प्रवाहतो नित्यत्वेऽपि व्यक्तिस्वरूपेणानित्यत्वं न विवक्षितम्। मात्रास्पर्शानां सुखादिदत्वेन तदयोगात्। तथात्वे सुप्त्यादौ सत्वेनाभिमानस्य प्रकृतान्वयव्यतिरेकोक्त्ययोगात्। अर्जुनस्य अभिमाननिवर्तनबोधानुपयोगाच्च। किन्तु किंशुककुसुमानामिव प्रवाहतोऽपि विच्छिद्यमानत्वम्। सुप्तिमूर्छाऽसम्प्रज्ञात समाधिषु विच्छेदेन प्रवाहविच्छेदसम्भवात्। तस्य प्रकृतोपयोगाच्चेति भावेन आगमापायित्वं व्यनक्ति। अनित्या इति। शीतोष्णसुखदुःखदाः मात्रास्पर्शा अनित्याः प्रवाहतोऽपि अनित्याः। तेषां सुखादिदत्वं प्रवाहतोऽप्यनित्यं यतोऽ तोऽन्वयव्यतिरेकाभ्यां अभिमानयुता ऎव सुखादिदा इत्यर्थः। आत इति शेषः। अभिमानहीन मात्रास्पर्शानां सुखादिदत्वाभावात्। अभिमानत्यागेन तान्मात्रास्पर्शास्तितिक्षस्व विफलीकुरु। सुखदुःखादिना यथा न भवन्ति तथा कुरु। न ह्यभिमानं विना कृतो मात्रास्पर्शरूपः सामग्य्रैकदेशः सुखादिदाने शक्तो भवतीति भावः॥ 14/2 ॥
गीताविवृत्तिः ननु दुःखाभावस्य युद्धाकरणेऽपि सम्भवात् किं तत्कृत्वा दुःखाभावाया- भिमानत्यागेनेत्याशङ्क्य देहाद्यभिमानत्यागेन भवन् दुःखाभावः स्वयं फलरूपोऽपि परमपुमर्थहेतुश्च भवतीत्याह॥ यं हीति॥हे पुरुषर्षभ पुरुषश्रेष्ठ पार्थ। एते मात्रास्पर्शाः विषयेन्द्रियसन्निकर्षाः पुरुषं पुरं देहं सरति गच्छति सृगतौ प्रत्यक्षतो जानाति । उपपदान्तस्योकारः। सरतेर्डप्रत्ययः । षत्वम् । शरीरदर्शनवन्तम् । यद्वा पुरु पूर्णं ब्रह्म । तत्सरत्यवगच्छतीति ब्रह्मज्ञानी तम् । धीरं सुखे दुःखे च प्राप्ते सति तत्कार्ययोरुत्सेकविषादयोः स्तम्भकप्रयत्नवन्तं, अत ऎव समदुःखसुखम्। अनुपादेयत्वेन धर्मेण दुःखेन समं सुखं यस्य स तथा तं । दुःखं यथाऽपुमर्थत्व हेतुनाऽनुपादेयं तथा वैषयिकं सुखमपि अमृतत्वविरोधित्वात् अनुपादेयं यस्य स समदुःखसुखः । दुःखसमसुखमिति यावत् । अत ऎव यं अभिमानहीनं जीवं स्त्रीजनं पुञ्जनं वा न व्यथयन्ति न चालयन्ति सुखदुःखकृतोच्चत्वनीचत्वलक्षणविकारं न प्रापयन्ति। सोऽधिकारी अमृतत्वाय मुक्त्ये कल्पते समर्थो भवति । अत्र धीरमिति समदुःखसुखत्वे हेतुः। तच्चाभिमानत्यागे हेतुः । समदुःखसुखो जीवः सुखहेतुषु शोभनाध्यास लक्षणाभिमानवास्तद्विरोधिषु द्वेषरूपाभिमानवांश्च कथं भवेदिति। सुप्त्यादौ पामराणामपि अभिमानाभावेन व्यथाभावादमृतत्वप्रसक्तिरिति शङ्काव्यावृत्तये पुरषं शरीरदर्शनवन्तं इत्युक्तम्। तथा व्यथाभावमात्रेण कथममृतत्वं, ``तमेवं विद्वान्" (तै.आ. 3-12-7) इत्यादि श्रुतिविरोधादित्यपि शङ्काऽपनुत्तये पुरुषं ब्रह्मज्ञानिनमित्युक्तम् । ``पुरु ब्रह्म गुणाधिक्यात् तज्जञानात्पुरुषः स्मृतः" इत्युक्तेः । अत्र नरहरितीर्थीये ``ब्रह्मा निरभिमानित्वादि"ति स्मृतिं उदाहृत्य चतुर्मुखादन्येषां अतिव्यथाराहित्यमेव लिङ्गभङ्गात्-प्राग्देहाद्यभिमानाभावात् इत्युक्तम्॥ 15/2 ॥
गीताविवृत्तिः ननु ``पापमेवाश्रयेदस्मान् हत्वै तान् आततायिनः" इत्यादिना बन्धुहननरूप युद्धात् परलोकदुःखं शोकहेतुतयोक्तम्। अतः शोक इत्यत आह॥ नासत इति। अत्र सदसत् शब्दौ साध्वसाधुकर्मपरौ। भावाभावशब्दौ सुखदुःखवाचकौ। ``सद्भावे साधुभावे च सदित्येत्प्रयुज्यते। प्रशस्ते कर्मणि तथा" (गी. 26/17) इत्यादेः। `सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचिन" इत्यादेः। असतो दुष्कर्मणः सकाशात् भावः सुखं नास्ति। यथेति दृष्टान्ततयाऽ स्योपयोगः। सतः साधुकर्मणः सकाशादभावो दुःखं नास्ति। ऎतच्च युद्धं नारायणद्विट्- तदनुबन्धिनिग्रहरूपत्वेन सत्कर्मत्वात् न परलोकदुःखहेतुः। प्रत्युत सुखहेतुरेवेति भावः। किमत्र प्रमाणमित्यत आह। उभयोरपीति॥ अन्तो निर्णयः पूर्वार्धोक्त अर्थस्य अवधारणम्। अन्यदर्शनस्यान्यान् प्रत्यप्रत्यायकत्वात् दर्शनमूलः सम्प्रदायोऽत्र लक्ष्यते। उभयोरप्यनयोः सदसत्कर्मणोः दुःखसुखे यथाक्रमं न विद्येते इत्यर्थयोरपि तत्वदर्शिभिः अन्तस्तु सम्प्रदायस्तु प्रमाणतया दृष्ट इति वा दृष्टस्तु दृष्ट एवेति वा तु शब्दान्वयः। सत्कर्मणो दुःखं नास्ति , असत्कर्मणः सुखं वा नास्तीत्यनयोः अर्थयोः निर्णायकोपदेशपरम्परारूपसम्प्रदायो महात्मभिः दृष्टं एवेत्यर्थः। ननु अनादित्वहेतुनाऽहमपि पक्षे निक्षिप्य नित्यत्वेनानुमातव्य इति तदुक्तं त्वया स त्वयुक्तः पक्षः। दृष्टान्ताभावेन व्याप्तिग्रहासम्भवात्। अन्यस्यानादिनित्यस्य मानाभावेनाभावादित्यतोऽन्यदपि अनादिनित्यमेतदप्यनेनोच्यते। नासत इति॥ असतः कारणस्य प्रकृतेरभावः प्रागभावः प्रध्वंसश्च न विद्यते नास्ति। तथा सतो ब्रह्मणश्चाभावो द्विरूपोऽभावः न विद्यते। अत्रासतः सतश्चाभावो न विद्यत इत्येकवाक्ये सम्भवति वाक्यद्वयग्रहणं न विद्यते। प्रागुक्तानादित्वानुमाने व्याप्तिसद्भावे आदरसूचनार्थम्। अत ऎवाग्रेऽविनाशित्वित्यादिना व्याप्तिग्रहणस्थलमनेकं दर्शयति। अत्र व्याप्तिस्थलप्रदर्शनार्थं नासतो विद्यते भाव इत्येतावदेव वाच्यम्। तथाऽपि प्रागुक्त द्वितीयप्रयोगे कृष्णो दृष्टान्तितः। तत्र साध्यसाधनानुगतिसूचनाय नाभावो विद्यते सत इत्यप्युक्तिः। तथा च द्वितीयप्रयोगेऽपि व्याप्तिः सुदृढा । नन्वन्यस्यानादिनित्यत्वे माना (भावात्) भाव इत्युक्त इत्युक्तमित्यत आह ॥ उभयोरपीति ॥ सदसतोरनादिनित्ययोरन्तस्तु निर्णय- भूत परम्परोपदेशलक्षणसम्प्रदायस्तु इत्यर्थः । तत्वदर्शिभिः दृष्ट इत्यर्थः। नरहरितीर्थास्तु तत्वदर्शिभिरपीत्यपिपदं भिन्नक्रममुपेत्य ``प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम" (विष्णु.पु) इत्यागमोऽत्रार्थे ,मानत्वेन समुद्यीयत इत्याहुः॥ 16/2 ॥
गीताविवृत्तिः :- ननु ``प्रकृतिः पुरुषः कालः" इत्यादिवाक्यानां उपासनार्थत्वात् सम्प्रदायस्य च मूलनिश्चयात् प्रकृतिपुरुषयोः स्वरूपस्यैवासिद्धेः पुनरनुमानस्य व्याप्तसिद्धिरित्याशङ्क्य भगवान् किमिदानीं प्रकृत्यादिस्वरूपसाधनेन। किञ्चेदं नित्यं इदं नित्यमिति प्रत्येकमुक्तेन च। यद्देशतो अनन्तं तत्सर्वं नित्यमेवेत्येवं सङ्ग्राहकसङ्ग्रहीतं वर्णादिजीवादन्यदपि अस्ति। तद्व्याप्तिग्रहणस्थलं भविष्यतीत्याह॥ अविनाशित्विति॥ येनेदं सर्वं ततं व्याप्तं तदकारादिवर्णजातम्, अव्याकृताकाशश्चेत्येवमादिसर्वं अविनाशि तु नित्यमेवेति। तुरेवेत्यर्थः । अनादि चेत्यपि ग्राह्यम्। ननु ``सुप्यजातौणिनिस्ताच्छील्य" इति सूत्रेण सोपसर्गस्यापि च्छान्दसताच्छीलिक णिनिप्रत्ययान्ताविनाशिशब्देन स्वाभाविक-विनाशाभावोक्तावपि शापेन वा बलवत्प्रयत्नादिना वा विनाशः किं न स्यादित्यत आह ॥ विनाशमिति ॥ अस्य व्याप्तस्य वस्तुनो विनाशं ध्वंसं कश्चिदपि कर्तुं नार्~हति । कुत इत्यत उक्तम्॥ अव्ययस्येति॥ ह्रासहीनस्येत्यर्थः। ह्रास ऎव नास्ति तादृशस्य नाशं न कोऽपि कर्तुमीष्ट इति किमु वाच्यमित्यर्थः॥ 17/2 ॥
गीताविवृत्तिः :-ननु ``रूपं रूपं प्रतिरूपो बभूव" (काठक 2-5-9) इति श्रुतेः जीवः प्रतिबिम्बः। प्रतिबिम्बश्च उपाधिकृतः प्रतिमुखमिव दर्पणोपाधिकृतम्। देह ऎवात्र जीवोपाधिर्नान्योऽस्ति। तथा च जीवचेतना न नित्याः सन्निधिकत्वात् नश्वरमुखदर्पणसन्निधिक प्रतिमुखवदिति प्रतिपक्षग्रस्तमनादिनित्यत्वानुमानमित्यत आह ॥ अन्तवन्त इति ॥ ऎकवचनं बहुवचनार्थे। शरीराणां नित्यानामिमे परिदृश्यमानाः भौतिकाः देहाः अन्तवन्तः विनाशिनः इति योजना। इम इति विशेषणादन्येऽन्तहीना अपि देहाः सन्तीति सूच्यते । त एवोपाधयो जीवानां नान्तवद्भौतिकदेहा इत्याद्यप्रतिपक्षे हेतुरसिद्धः। अत ऎव नित्यस्येति साध्योक्तिः। जीवाः नित्याः नित्योपाधिकत्वात् व्यतिरेकेण प्रतिमुखवदित्युक्तं भवति । नित्यस्येत्येवोक्तौ ईश्वरस्यापि देहोऽनन्तवानिति प्राप्नोतीत्यतः शरीरिण इति विशेषणम् । द्वितीयहेतुरयसिद्ध इत्याह॥ अनाशिन इति॥ बिम्बोपाधिसन्निधिनाशकृतनाशहीनस्य शरीरिण इत्यन्वयः। जीवाः नित्याः नित्यबिम्बोपाधिसन्निधिकत्वात् व्यतिरेकेण प्रतिमुखवदित्युक्तं भवति। ननु उपाधेर्नित्यत्वेऽपि परिच्छिन्नपरिमाणस्यैव वस्तुनो बिम्बत्वयोग्यत्वात्प्ररिच्छिन्नयोश्च बिम्बोपाध्योः सन्निधेः दर्पणमुखसन्निधेरिव कादाचित्कत्वनियमात् कथं तस्य नित्यतेत्यत आह।. अप्रमेयस्येति ॥ प्रमा परिमितिः अपरिच्छिन्नस्येत्यर्थः । सर्वगतस्येति यावत् । जीवे सर्वगतत्वस्याभावादतद्भावे सामानाधिकरण्यं सारूप्यं गमयतीति सिंहश्बैत्र इत्यादौ प्रसिद्धेः सर्वगतेश्वर- सरूपस्येत्यर्थः। तत्प्रतिबिम्बस्येति यावत्। सर्वगतेश्वरप्रतिबिम्बस्य कथं बिम्बोपाधिसन्निधि- नाशेन नाशः स्यादिति भावः। न च सर्वगतस्य प्रतिबिम्बत्वायोगः। तत्सारूप्यस्यैव प्रतिबिम्बता शब्दार्थत्वात्। तदाह सूत्रकारः। `` यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् " (2-3-30) इति। उपसंहरति। तस्मादिति॥ बिम्बोपाधितत्सन्निधीनां नाशाभावेन तन्नाशप्रयुक्तनाशस्य जीवचेतने अनाशङ्क्यत्वेन प्रतिपक्षानुत्थानात्, न त्वेवाहमित्यत्रोक्तानादिनित्यत्वानुमानेन जीवस्य नित्यत्वात्, जीर्णदेहहानेऽपि समीचीनदेहान्तरलाभरूपप्रतिनिधिता समाधान सम्भवात्, बन्धुदेहस्पर्शनदर्शनाद्यभावनिमित्तशोकस्य च परमपुमर्थहेत्वभिमानत्यागेन निवर्तितुं शक्यत्वात्, भगवत्पूजार्थं हे भारत युद्धस्वेति। नन्वेतदयुक्तम्। जीवेश्वरयोः नित्यत्वाविशेषात्, कुत ईश्वरस्य पूज्यतेत्यतो वा जीवाद्धरेर्विशेषं वक्तुमविनाशित्वित्यादि श्लोकद्वयं प्रवृत्तम्। तथाहि। येन भगवता इदं जगत् कालः गुणजातं ततं व्याप्तम्। कालतो गुणतो देशतश्च यद्विष्णा Xवख्यं ब्रह्म ततिमत्तद्विष्ण्वाख्यं ब्रह्माविनाशि। तुर्विशेषे। ``अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता। नाशश्चतुर्विधः प्रोक्तः तदभावो हरेः सदा।" इत्युक्तदिशा चतुर्विधनाशहीनमिति विद्धि जानीहीत्यर्थः। विनाशमित्यादि प्राग्वद्व्याख्येयं। वर्णाकाशादेर्देशकालाभ्यां व्याप्तत्वेऽपि न गुणतः साऽस्ति। जीवस्य कालतस्ततत्वेऽपि न देशगुणाभ्यां ततिरस्तीति हरेस्ततत्वे विशेषः। अस्तॆवं हरेः सर्वप्रकारेणविनाशाभावः। तावता जीवादविनाशविषये को हरेर्विशेष इत्यत आह॥ अन्तवन्त इति॥ शरीरिणां शीर्यमाणदेहवतां संसारिणामिति यावत्। स्वरूपतो नित्यानां जीवानामिमे देहाः। अन्तवन्तो विनाशवन्तो जनिमन्तश्चेत्यपि ग्राह्यम्। संसारिदेहाः आद्यन्तवन्त इत्युक्त्या मुक्तदेहो नैवमिति लाभात् मुक्तेश्वरस्य हरेः कैमुत्यसिद्धो नित्यदेहः। ऎवं चोत्पत्ति- विनाशवद्देहवतां च दुःखप्राप्तिरवर्जनीयैव। गुणतोऽपूर्णता व्यक्तैवेति। स्वरूपतो नित्यत्वेऽपि त्रिविधनाशवत्ता Xवज्जीवस्य ततो हरेश्चतुर्विधनाशहीनस्यास्ति महान्विशेष इति तत्पूजा कार्येत्युपसंहरति । अनाशिन इति ॥ तस्माज्जीवेभ्योऽतिशयत्वात्, अनाशिनश्चतुर्विधनाशहीनस्य अप्रमेयस्य देशकालगुणापरिच्छिन्नस्य हरेः पूजार्थं युध्यस्वेति। किञ्च न केवलं सर्वप्रकारेणाविनाशित्वात् तत्पूजा कार्येति। किन्तु सर्वथा ऎव अविनाशित्वात् स ऎव स्वतन्त्रः। ततश्च तदधीनत्वान्मुक्तेः युद्धादिस्वकर्मणाराधितश्च मोक्षं ददातीत्यतस्तत्पूजा कार्येति भावेन चोक्तमनाशिनोऽप्रमेयस्येति॥ 18/2 ॥
श्रीगीताविवृत्तिः :- ननु यदुक्तं जीवचैतनस्य नित्यत्वं, यच्चोक्तं सर्वथैकप्रकारेणाविनाशित्वात् ईश्वरः स्वतन्त्रः, अनिच्छया देहनाशात् तन्निमित्तदुःखवत्वाच्च जीवः परतन्त्र इति, तज्जीवनित्यत्वपारतन्त्र्ये न युक्ते। हन्ताऽयमस्य हतश्चायमिति हननादि क्रियायाः , जीवे तत्र स्वतन्त्र्यस्य च प्रतीतेरित्यत आह। य इति॥ यः पुमान् एनं जीवं हन्तारं जीवान्तरस्य स्वातन्त्र्येण घातकं वेत्ति , यश्च एनं, केनचित्स्वातन्त्र्येण हतं मन्यते, तावुभौ जीवस्याऽ नित्यत्वज्ञानी, हननादिक्रियायां जीवस्वातन्त्र्यज्ञानी चेत्युभौ न विजानीतः । जीवनित्यत्वभङ्ग- वत्स्वतन्त्र्याज्ञानिनौ । भ्रान्ताविति यावत् । कुतो बाधकाद् भ्रान्तित्वकल्पनेत्यत आह ॥ नायमिति ॥ बिम्बनित्यत्वोपाधिनित्यत्व बिम्बसन्निधिनित्यत्वानादित्वरूपोक्तहेतुभ्यो नायं हन्ति जीवम्। न हन्यते च जीवः । प्रतिबिम्बत्वादेव हेतोर्न स्वतन्त्रः सन् कश्चन हन्तीत्यर्थः । अतो बाधकाद् भ्रान्तित्वमिति भावः । अत हननक्रिया जीवक्रियान्तरोपलक्षणम् । सर्वत्र तस्यास्वातन्त्र्यादिति। एनमीश्वरं जीवचेतनस्य हन्तारं यो मन्यते सोऽपि भ्रान्त ऎव। चेतन हननस्येश्वरेणाकरणादित्यपि योजना तात्पर्योक्ता॥ 19/2 ॥
श्रीगीताविवृत्तिः :- यदुक्तं जीवेश्वरयोः उत्पत्तिनाशराहित्यं, ईश्वरस्य देहतोऽपि उत्पत्त्यभावेन स्वातन्त्र्यं, जीवस्य स्वरूपतो जन्मादिशून्यस्यापि देहोत्पत्त्यादिना अस्वातन्त्र Xयं, तेष्वर्थेषु प्रमाणत्वेन मन्त्रवर्णमुदाहरति॥ न जायत इति ॥ तथा हि जीव विषये तावदियं योजना। अयं जीवः स्वरूपेण न जायते न म्रियते न नश्यति च । वा शब्दश्च- शब्धार्थः । अग्रेतननञोऽनुकर्षः। जीवो न जायते चेत्तर्~हि यथेश्वरज्ञानं वृद्धिह्रास- विवर्जितं भूत्वैव कदाचिदचिन्त्यशक्त्या भूतमिव व्यवहारावलम्बनं भवति, ``तदैक्षत" (छा. 6-2-3) इत्यादि श्रुतेः, तथा जीवेऽपि किं जननव्यवहारस्तन्निमित्त इत्यतो नेत्युच्यते। अयं जीवः स्वरूपेण भूत्वा कयाचिद्विवक्षया ईश्वरज्ञानवद्भविता न भवति । कुतो न जायते न म्रियते वेति स्वरूपोत्पत्तिविनाशाभावो जीवस्येत्यत उक्तम् । अजो नित्यः शाश्वत इति । स्वरूपोत्पत्तिविनाशशून्य सदैकरूपभगवत्स्वरूपत्वादित्यर्थः। अतद्भावे सामानाधिकरण्यस्य सारूप्यगमकत्वात्। अजनित्यपदाभ्यां बिम्बोत्पत्तिविनाशाभावः, शाश्वतपदेन बिम्बोपाधिसन्निधि- जन्मनाशाभावाश्च हेतुरुक्तो भवति। ईश्वरज्ञानद्वारा भविताऽपि चेन्न जीवः तर्~हि किं निमित्तो जननव्यवहारो जीव इत्युक्तम्। पुराण इति॥ पुराणि देहान् अणति, अण पण गतौ गच्छति देहाद्देहान्तरं प्राप्नोतीति देहयोगनिमित्त इत्यर्थः। ऎवं तर्~हि उपाधिभूतदेहनाशात् नाशः स्यादितित्यत आह॥ न हन्यत इति ॥ अन्तवन्त इमे देहा इत्यत्रोक्तदिशा नित्योपाधेरन्यस्य भावात्, ऎतच्छरीरनाशेऽपि न जीवनाश इति भावः। ईश्वरविषये तु पूर्वोत्तरार्धे ईश्वरजीवस्वरूपविषयभेदेन योज्ये। तथा हि वा शब्दादेव पूर्व नञो म्रियते वेत्यत्रानुकर्षश्य सिद्धेः नञन्तरवैयर्थ्यात्, नायं भूत्वेत्यत्र श्रुतो न शब्दो न नञX, किन्तु नृशब्दः। तथाचायं ना परमपुरुषः न जायते न वा म्रियते, देहयोगवियोगवान्न भवति, नित्यदेह एवेत्यर्थः। अत ऎव स्वरूपानाशः कैमुत्यसिद्धः। देहोत्पत्तिविनाशयोरपि अभावेन स्वातन्त्र्यमपि सिद्धमेवेति भावः। ऎवं चेत्कथं तर्~हि रामकृष्णादिरूपेण जननव्यवहार इत्यतः, भूत्वा रामकृष्णादिरूपेण सर्वदा भूत्वैव, कदाचित् जनदृग्विषयत्वादि रूपेण भूयः पुनर्भविता । न तु देहयोगेनापि भविता । ``किन्तु निर्दोषचैतन्यसुखां नित्यां स्वकां तनुम् । प्रदर्शयति लोकस्य जनिरित्युच्यते हरेः॥" इति तत्त्वनिर्णयोक्तेः अयं जीवोऽप्यजो नित्यश्च । ईश्वरस्येव जीवस्यापि अनादिनित्यत्वे स्वातन्त्र्यस्यापि प्राप्तेरीश्वरादविशेषः स्यादित्यत उक्तम् ॥ शाश्वत इति॥ सदैकरूपः अनाद्यनन्तकालमत्यक्तपारतन्त्र्यादिस्वभाव इत्यर्थः। कुत ऎतदित्यत उक्तम्। पुराण इति। अनिच्छयाऽपि देहाद्देहान्तरप्राप्तिमत्वादिति हेतुगर्भ विशेषणमिदम्। न हि तादृशस्य स्वातन्त्र्यसम्भावनाऽपीति भावः। एतावान्गुण इत्याह॥ न हन्यते हन्यमाने शरीरे इति॥ 20/2 ॥
श्रीगीताविवृत्तिः :- ``य एनं" इति श्लोके जीवचैतन्यस्य हननं वा हननक्रियायां स्वातन्त्र्यं वा मन्यमानो न जानातीत्यत्र जीवचितो बिम्बोपाधिसन्निध्यनाशहेतुकनित्यत्वप्रतिबिम्बत्वहेतुकास्वातन्त्र्यरूप- हेतू उक्तौ । यस्तु जीवचितो नित्यत्वं हरेः स्वातन्त्र्यं च जानाति स ज्ञानी। स्वातन्त्य्याभिमानाभावात् । हन्ताऽहमिति वा अस्यास्यं हन्तेति वा न जानातीत्यज्ञानेऽ- भिमानाभावोऽपरो हेतुरुच्यते ॥ वेदेति॥ अविनाशिनं बिम्बनाशादिनिमित्तक नाशहीनम्। मात्रास्पर्शा इत्यत्रोक्तदिशाऽभिमानकृता ऎव रागद्वेषसुखादिदोषाः न तु स्वत इति स्वतोदोषहीनमिति वा। दुष्टेषु नष्टशब्दप्रयोगान्नाशोऽत्र दोषो ध्येयः। नित्यं स्वाभाविकनाशहीनम्। अजमुत्पत्तिहीनम्। अव्ययं स्वरूपविकारशून्यम्। एनं जीवम्। यद्वा अविनाशिनं नित्यं स्वरूपतो नाशहीनम्। अजं जन्महीनम्। अव्ययं निर्विकारम्। अत ऎव सर्वस्वतन्त्र्यमेनमीश्वरं यो वेद जानाति स पुरुषो ज्ञानी कथं केन प्रकारेण कं घातयति कं वा हन्ति। घातयाम्येनमिति वा हन्म्येनमिति वा भावं न करोतीत्यर्थः॥ 21/2 ॥
गीताविवृत्तिः :- पूर्वत्र पुराणपदेन जीवस्य देहाद्देहान्तरप्राप्तिरुक्ता। सा तु देहान्यनित्य जीवस्य सत्व ऎव उक्ता । कौमारं यौवनं जरा इत्यत्र देहात्मविवेकोक्तावापि कौमारादि देहानां अतिभिन्नत्वाभावान्न तेन देहात्मनोर्विनाशित्वाविनाशित्वलक्षणो विवेकः स्फुटमनु- भवारूढो भवतीत्यतो दृष्टान्तान्तरेण तमुपपादयति॥ वासांसीति। यद्वा, ईश्वरस्य देहतः स्वरूपतश्च नित्यत्वेन तद्विषये शोकाभावेऽपि जीवविषये तु स भविष्यति। जीवो नित्यः तद्देहयोगवियोगौ कौमारादिदेहवदेवेत्युक्तावपि सर्वलोकप्रसिद्ध जनिमृतिसत्त्वात्, युद्धे च तत्प्राप्तेस्तन्निमित्तः शोक इत्यत आह॥ वासांसीति॥ शरीरयोगवियोगयोः कौमारादिवत् शोककारणत्वाभावोऽङ्गीकृतश्चेत्तर्~हि जनिमृती अपि न शोककारणं। देह- योगवियोगयोरेव जनिमृतिशब्दार्थत्वादितिभावः। यद्वा, वाससो जरावत् स्वशरीरे जरादावस्वातन्त्र्यदर्शनात्सर्वत्रास्वातन्त्र्यं जीवस्य ज्ञेयमित्यनेनोच्यते। श्लोकार्थस्तु व्यक्तः ॥ 22/2 ॥
श्रीगीताविवृत्तिः ननु जीवचितः कालकृतस्य बिम्बनाशादिनिमित्तकृतस्य च नाशस्याभावोऽपि दक्षशिरच्छेद इव शस्त्रादिप्रबलहेतुना नाशोऽस्ति किमित्यत आह॥ नैनमिति। एनं देहीति प्रकृतं जीवं न क्लेदयन्ति। मृदुकरणेन शिथिलं न कुर्वन्तीत्यर्थः॥ 23/2 ॥
श्रीगीताविवृत्तिः ननु न छिन्दन्तीत्यादि लट् प्रयोगेण वर्तमानस्यैव छेदादेर्निषेधात् इदानीं दृश्यमानत्वेनात्मनः प्राग्विनाशाभावेऽप्युत्तरत्र शस्त्रादिना विनाशः स्यादित्यतः छेदादियोग्यतैवात्मनो नास्तीत्यत आह॥ अच्छेद्योऽयमिति। अयं जीवः ``कृत्याः प्रा~घX ण्वुल" इति सूत्रेणोक्तकृत्यसञ्ज्ञकस्य ण्यप्रत्ययस्यार्~हे कृत्यतृचश्चेत्यर्~हार्थे छिदि दहेत्यादेर्धातोर्विधानात् छेदनाद्यर्~हो न भवतीत्यर्थः। अयमयमिति पृथग्वचनं यो यो जीवः स सर्वोऽयेवं रूप इति प्रदर्शनाय। कुतो नार्~हतेत्यत उक्तम्। नित्य इत्यादि। सर्वगतः स्थाणुरिति पदविभागः। नित्य इति सर्वगत इत्यस्य विशेषणम्। सर्वगतपदेन सर्वगतत्वविशिष्ट उच्यते। नित्यः सर्वगतत्वविशिष्ट इत्युक्ते ``सविशेषणे ही"ति न्यायेन नित्यत्वं सर्वगतत्वरूपविशेषणमुपसङ्क्रामति। नित्यं यत्सर्वगतत्वमिति। तद्वान्सर्वगत इत्यर्थः। स्थाणुरिति यत्किञ्चिन्निमित्तकृतविकारहीनः। अजो नित्यः शाश्वत इत्यत्र शाश्वतपदेन सामान्यतो विकाराभावोक्तावपीह नैमित्तिकनिषेधप्रकरणान्नैमित्तकविकाराभावोक्त्यर्थं स्थाणुरित्युक्तम्। अतो न पुनरुक्तता। अचलः प्राकृतचलनहीनः, सनातनः वक्ष्यमाणदिशा स शब्द इत्यर्थः। त्वयीश्वरे ब्रह्मणि नो विरुध्यते, विज्ञानशक्तिरहमासमनन्तशक्तेः , परास्य शक्तिर्विविधैव श्रूयते इत्यादि श्रुतिस्मृतिरूपशब्द सहितः, तत्प्रतिपाद्य इति यावत्। तथाच स्थाणुत्वेऽपि हरेः ``तदैक्षत" (छा 6-2-3) इत्याद्युक्त कर्तृत्वमचिन्त्यशक्त्यैवं युक्तं । न तु पररीत्या मायावशादित्युक्तं भवति। ननु नित्य इत्यादिविशेषणविशिष्टेश्वरत्वादयं जीवो नित्यः सर्वतः (गतः) स्थाणुरिति भगवदभेदोक्तिरयुक्तेति चेत्। सत्यम्। उक्तानुपपत्तेरेवाभेदोक्तिरत्र अतद्भावे सामानाधिकरण्यं सारूप्यं गमयतीति न्यायाद्रौणी नेया. नित्यसर्वगतत्वादि- युक्तभगवत्सरूपोऽयं जीव इति। उक्तगुणकेश्वरप्रतिबिम्बो जीव इति यावत्। तावता कथं छेदनाद्यनर्~हो जीव इति शङ्कानिरास इति चेत्, यो यत्प्रतिबिम्बः सोऽसति विरोधे तत्समानधर्मक इति व्याप्तिबलेन जीवस्य स्थाणुत्वादीश्वरधर्मसमानधर्मप्राप्तेरिति तात्पर्यम्। अनाशिनोऽप्रमेयस्येत्यत्र अजोनित्यः शाश्वतः इत्यत्र नित्य इति प्रकृतार्थे च जीवस्येश्वरप्रतिबिम्बत्वोक्तावपि न पुनरुक्तता शङ्क्या। तत्तच्छङ्कानिवर्तकत्वेन भिन्नगुणविशिष्टेश्वर प्रतिबिम्बत्वस्य तत्र तत्र कथनादिति ज्ञेयम्। ननु सयुक्तिकमच्छेद्यत्वाद्युक्ता ऎव नैमित्तिकनाशशङ्का निरासात् नैनमिति व्यर्थमिति चेत्, ``प्रवृत्ते शस्त्रसम्पाते" इत्युक्तेः प्रसक्तौ सत्यामपि वर्तमानस्य छेदादेरदृष्टेरात्मनः छेदाद्ययोग्यत्वं युक्तमिति प्रदर्शनार्थत्वात्। यद्वा नैनमित्यादिश्लोक ईश्वरविषयः। तथाहि, वेदाविनाशिनमित्यत्रेश्वरस्य स्वतो नाशाभावोक्त्या तन्निमित्तशोकाभावेऽपि युद्धगतशस्त्रादिकरणविशेषेणच्छेदादिप्रसक्तेः तन्निमित्तशोको ममेत्यत आह॥ नैनमिति। `` य एनं वेत्ती"ति श्लोके प्रकृतमीश्वरम्। शिष्टं व्यक्तम्। एतेन ईश्वरस्य देहतोऽपि च्छेदाद्यभावात् स्वातन्त्र्यमित्युक्तं भवति। एनमेनमिति पृथक् पृथग्वचनं सर्वरूपाणामेवम्भाव-प्रदर्शनाय। ऎवमव्यक्तोऽयमित्यत्रापि। ननु जीवस्य स्वतो नाशाभावेऽपि युद्धगतशस्त्रादिकरणविशेषेण छेदादिः स्यादित्यत आह॥ अच्छेद्योऽयमिति॥ अयं जीवः। ननु जीवस्यापि ईश्वरवदच्छेद्यत्वादि सत्वे सर्वसाम्यं स्यात्। तथा च किं तत्पूजयेत्यतो जीवस्य नित्यमीशाधीनतामाह॥ नित्य इति॥ सर्वगतस्थाणुरित्येकं पदम्। नित्य इति योग्यतया स्थितिरूपक्रियाविशेषणम्। ``क्रियाव्ययविशेषाणां च नपुंसकत्वमेक- वचनान्तत्वं च वाच्य"मित्येतन्नाश्रितम्। अयं जीवः। नित्यः नित्यं सर्वगते हरौ तिष्ठतीति नित्यः। सर्वगतस्थः। तदधीनतया सदास्थित इति यावत्। स चासावणुश्च सर्वगतस्थाणुरित्यर्थः। ईशजीवयोः सर्वगतत्वाणुत्वरूपवैषम्यान्न सर्वसाम्यमिति भावेन सर्वगतेति अणुरिति चोक्तम्। ननु जीवस्येशाधीनत्वं यदा न स्यात्तदा स्यात्सर्वसाम्यम्। तथा च न तत्पूजा कार्येत्यत आह। अचल इति॥ सर्वगतस्थपदं बुद्धिविविक्तमाकृष्यते भावप्रधानम्। सर्वगतस्थत्वान्न कदाचिच्चलतीत्यचलः। नित्यं सर्वगतस्थ इत्युक्ता ऎवास्यार्थस्य लाभेऽपि केनचिद्वरादिनिमित्तेनापि च तदधीनत्वस्य नाश इति नैमित्तिकनाशाभावोक्त्यर्थमचल इत्युक्तिः। कुतः सदा हर्यधीनत्वं जीवस्येत्यत आह॥ सनातन इति॥ नादेन विधिनिषेधरूपशब्देन सह वर्तत इति सनादः। सनाद ऎव सनातनः। द शब्दस्य च्छान्दसस्तनादेशः। विधिनिषेधबद्धत्वात् सदातदधीन इति भावः । तदुक्तं विष्णुपुराणे। ``नित्यं सर्वगते विष्णावणुर्जीवो व्यवस्थित` इत्यादि॥ 24/2 ॥
<लन्ग्=सन्>श्रीगीताविवृत्तिः नन्वणोर्जीवस्याधारः परमात्मा सर्वगतश्चेत् कुतस्तथा न दृश्यत इत्यत आह॥ अव्यक्तोऽयमिति। अयं सर्वगतपदेन प्रकृतो हरिः। ननु नैनमिति श्लोके देहतोऽपि छेदाद्यभावस्त्वतन्त्रो हरिरित्युक्तम्। देहवान् सर्वगतश्चेत् कथमव्यक्त इत्यतः अचिन्त्योऽयमिति। अचिन्त्यशक्तिक इत्यर्थः। एतेन हरेरव्यक्तत्वे तद्दर्शनश्रुत्यप्रामाण्यमिति निरस्तम्। तदाह सूत्रे। अतोऽनन्तेन तथा हि लिङ्गं (3-2-27) इति। अचिन्त्यशक्तेः प्रतिबन्धे नाशे वा तस्य प्रतीतिप्रसङ्ग इत्यत उक्तम्॥ अविकार्योऽयमिति। सा शक्तिर्न कदाऽप्यन्यथा भवतीत्यर्थः। कुत ऎतदच्छेद्यदेहत्वादित्यत उक्तम्॥ उच्यत इति॥ ``सद्देहः सुखगन्धश्च" इत्यादि तात्पर्योदाहृत श्रुतिषु ऎतत्सर्वं हरेरुच्यत इत्यर्थः। अयमिति पृथग्वचनं सर्वरूपाणामेवं भावप्रदर्शनार्थम्। तेनायमयमव्यक्तोऽ यमयमचिन्त्यो अयमयमविकार्यो इतीदं शब्दो वीप्सारूपेणानेकरूप- परामर्शीति सूचितम्। नैनमित्यत्रापि पूर्वश्लोके एनमेनमिति बहुशब्दयोगेन बहुरूपपरामर्श इत्युक्तं भवति। अन्यथा नञः एनमित्यस्य च पुनः पुनरुक्तिरयुक्ता स्यादिति भावः। ऎवं सर्वशङ्कोद्धारेणात्मनित्यत्वं प्रतिपाद्योपसंहरति॥ तस्मादिति॥ बिम्बोपाधि - तत्सन्निधिनाशनिमित्तस्य शापादिनिमित्तस्य शस्त्रास्त्रादि निमित्तकस्य च नाशस्याभावेनात्मनो नित्यत्वादेनं जीवमेनं नित्यत्वादिना विदित्वा शोचितुं नार्~हसीति। अथवा अस्त्वेवं भगवानेव नित्यः सर्वगतस्था णुरित्यादौ उक्तदिशा स्वतन्त्रः, ततश्च किमित्यत आह॥ तस्मादिति॥ हरेरेव सर्वस्वतन्त्रत्वेन अखिलदुःखनिवृत्तिविशिष्टपुमर्थप्रदत्वात्, ऎवं युद्धादि स्वकर्मणाऽव्यक्तत्वादिरूपेणैनं भगवन्तं ज्ञात्वा शोचितुं संसारदुःखमनुभवितुं नार्~हसि मुक्तो भविष्यसीत्यर्थः। अत उक्तरूपेण तं ज्ञात्वा युद्धादिस्वकर्मणा तं आराध्याशेषदुःखं परिहरेति भावः॥ 25/2 ॥
श्रीगीताविवृत्तिः अस्त्वेवं आत्मनो नित्यत्वं, अथाऽपि देहयोगवियोगरूपजन्ममृती स्त ऎव। युद्धे च मृतिर्नियता। अतः तन्निमित्तं च दुःखं मदीयानां भविष्यतीति मे शोक इत्यत आह॥ अथ चेति। नित्यशब्दोऽत्रावधारणे। एनं जीवं नित्यजातं देहयोगरूपजनिमन्तमेव नित्यं मृतं देहवियोगरूपमृतिमन्तमेव त्वं मन्यसे चेत्तथाऽपि हे महाबाहो एनं जीवं शोचितुं नार्~हसीत्यर्थः॥ 26/2 ॥
श्रीगीताविवृत्तिः पूर्वार्धेन अर्जुनशङ्कां अनूद्य उत्तरार्धेन तथाऽपि त्वं न शोचितुं अर्~हसीत्येवोक्तम् । न तु तत्र हेतुरुक्तः। अतः शोकाभावे हेत्वाकाङ्क्षायां जन्ममरणयोः यावन्मोक्षंनियतत्वादिति हेतूक्तिपूर्वं साध्यमाह ॥ जातस्येति॥ ध्रुवो नियत इत्यर्थः। मृत्युर्मृतिः । तस्माज्जन्ममृत्योर्नियतत्वादित्यर्थ ॥ 27/2 ॥
श्रीगीताविवृत्तिः ऎतदेव जन्ममृतिस्वरूपोक्त्या स्पष्टयति ॥ अव्यक्तेति ॥ अव्यक्तं प्रधानमादिरुत्पत्ति कारणं येषां तान्यव्यक्तादीनि भूतानि जीवशरीराणि, व्यक्तमध्यानि व्यक्तं कार्यतापत्यावस्थानं मध्यं जन्मनिधनान्तरालमेषां तानि व्यक्तमध्यानि, अव्यक्ते प्रधाने निधनं लयो येषां तानि अव्यक्तनिधनानि ऎव । तत्र तेष्वेवंरूपेषु भूतेषु का परिवेदना कः शोक इति । यद्वा कृष्णेनैवं स्वयं युक्तीरुक्त्या शोको न कार्य इत्युक्तम् । तत्र देहनाशस्यावश्यम्भावित्वं यदुक्तं तन्नास्माभिः साध्यं, भवतोऽपि सिद्धं तेनैव शोको न कार्य इत्याह ॥ अथ चेति॥ अत्र नित्यशब्दो नियतवाची । ``नित्यं नियतमेव चे"ति वचनात् । अथेत्यस्य तिष्ठतु तावदयं प्राचीनो विस्तर इत्यर्थः। एनं जीवं नित्यजातं नियतजनिमन्तं नित्यं मृतं वा नियतमृतिमन्तं त्वं मन्यसे चेत्, यदि यावन्मोक्षं जीवस्य जन्ममरणे नियते इति स्वयमेव मन्यसे, तथाऽपि तावन्मात्रज्ञानेनापि एनं जीवं शोचितुं नार्~हसि। जन्ममरणयोः अवर्जनीयतया नियमेन प्राप्नुवतोस्त Xवयैव ज्ञातत्वात् । अवर्जनीये कथं शोक इति भावः। ऎवं चास्मिन्नेव श्लोके शोकाभावे जनिमृतिनियमरूपो हेतुः स्पष्टमेवावगम्यत इति पुनः तत्र हेत्वाकाङ्क्षाभावादेतद्विवरणपरे जातस्य इत्यादि श्लोकद्वये जीवस्य जनिमृतिनैतत्याऽनुवादः प्रागभिप्रेतजीवास्वातन्त्र्ये च हेतुत्वेनेति का तव परिवेदना इत्यनन्तरं तस्माज्जीवस्य जनिमृतिनियमत्वाज्जीवे शोको यथा न कार्यः तथा स्वतन्त्र्यबुद्धिश्च न कार्येति श्लोकद्वयतात्पर्यार्थो ज्ञेयः ॥ 28/2 ॥
श्रीगीताविवृत्तिः :- तर्~हि कुत्र सा कार्या नैनमित्यादौ सा बुद्धिर्भगवति कार्येति उक्तावपि सा किं भगवत्येव कार्या, अथ ततोऽन्यत्रापि क्वचिदित्याशङ्कां वतिप्रत्ययप्रयोगबलेन परिहरन् भगवत्स्वातन्त्र्यं प्रागुक्तमुपसंहरति ॥ आश्वर्यवदिति ॥ कश्चित्सात्विकप्रकृतिः एनमव्यक्त इत्यत्र प्रकृतमेनं ईश्वरं आश्चर्यवत्पश्यति । आश्चर्यत्वेन सर्वस्वतन्त्रत्वेन सन्तमेव तमाश्चर्यवत् स्वतन्त्रवद्यथा भवति तथा पश्यतीति क्रियाविशेषणम् । गगनं गगनाकारमित्यादिवत्। आश्चर्यभूतस्य हरेरेवाश्चर्यवदिति स्वोपमामुखेन हरेरितरस्य स्वातन्त्र्याभावज्ञापनाय आश्चर्यवदिति वत्यन्तोक्तिः । अन्यश्च तथैव दृष्टृवदेव आश्चर्यत्वेन सन्तमेनमार्श्चवद्यथा भवति तथा वदति । सागरं सागरोपममितिवदन् आश्चर्यवस्तु नेति ज्ञापनाय स्वोपमत्वेन वक्तीत्यर्थः । अन्यश्च सात्विकः आश्चर्यत्वेन सन्तमेनं हरिं आश्चर्यवद्यथा भवति तथा, रामरावणयोर्युद्धं रामरावणयोरिचेतिवत्, अन्यदाश्चर्यतया श्रोतव्यं वस्तु नेति ज्ञापनाय स्वोपमत्वेन शृणोति । कश्चिच्च सात्विक एनमाश्चर्यतया सन्तं हरिं श्रुत्वाऽपि नैव वेद। अत्यद्भुतवस्तुत्वादिति भावः । ईश्वरस्य सर्वान् प्रति आश्चर्यत्वेऽपि विपरीतदर्शिना- मसुरादीनां बहूनां भावात्, यथावद्दर्शी यथावद्वादी च कश्चिद् कश्चिदेवेति ज्ञापनाय कश्चिदित्याद्युक्तिः। यद्धोपसंहारपरोत्तरश्लोकोपयुक्तत्वेन अप्रमेयस्य इत्यादिना प्रा~घX महिमोक्तावपि पुनर्महिमान्तरमाह। आश्चर्यवदिति ॥ वतिरत्र ऎवकारार्थः। एनं पूर्वत्र प्रकृतं जीवं, यः कश्चिदजादिलक्षणेश्वसरूपत्वतदधीनत्वादिना पश्यति स पुमाना- श्चर्यवत् । आश्चर्य ऎव। उक्तरूपेणैनं जीवं वदन् शृण्वंश्चाश्चर्य ऎव दुर्लभ एवेत्यर्थः । सर्वेषामपि अहमित्यात्मदर्शनादिभावात् दर्शनादिमान्कथं दुर्लभ इत्यत उक्तमुप- पादयति॥ श्रुत्वेति॥ दृष्ट्वा उक्त्वेत्यपि ग्राह्यम्। सामान्यतो दर्शनादौ सत्यप्युक्तरूपेण सम्यक् न वेदेति सम्यग् ज्ञानी दुर्लभ इत्यर्थः। प्रतिबिम्बभूतजीवस्यापि सम्यग् ज्ञानी दुर्लभः। किमीश्वरसामर्थ्यं वर्णनीयमिति ईश्वरसामर्थ्योक्तिर्ध्येया (ज्ञेया)॥ 29/2 ॥
श्रीगीताविवृत्तिः :- यदेतज्जीवस्य न त्वं नेम इत्यादिना नित्यत्वमुक्तम्, तत्स्वाभाविकत्वात् न ईशाधीनम् । तथा च सर्वं परमेश्वराधीनं स ऎव सर्वस्वतन्त्र इत्युक्तं आतस्तद्विरोध इत्यतः तदपि ``द्रव्यं कर्म च" इत्यादेरीश्वरायत्तमित्याह ॥देहीति॥ सर्वस्य देहिनः , देहे स्थूलदेहे सूक्ष्मलिङ्गदेहे चिद्रूपस्वरूपदेहे च, अयं पूर्वप्रकृतो हरिः रक्षकत्वेन तिष्ठति । अतो देही जीवो नित्यमवध्यः। हे भारत, तस्मद्रक्षकतया स्थितत्वेन नित्यमवध्यत्वात् सर्वाणि भूतानि त्वं शोचितुं नार्~हसीत्यर्थः ॥ 30॥ (यद्वा) देहयोगवियोगयोः नियतत्वात् आत्मनश्चेश्वरस्वरूपत्वाद्बिम्बनाशादि निमित्तनाशाभावान्न शोकः कार्य इत्युपसंहरति । देहीति ॥ प्राग्वदेव पूर्वार्धस्यार्थः। तस्मादित्यस्य तु देहयोगवियोगयोः अवर्जनीयत्वात् आत्मनश्चेश्वरसरूपत्वेन सर्वथैवानाशादित्यर्थः। भगवत्सरूपर्त्वेप्यनाशः कुतः इत्यतोऽतिसमर्थो भगवानिति तत्सामर्थ्यं प्रागुक्तमिति तस्य तदुपसंहारोपयुक्तता ध्येयेति॥ 30/2 ॥
श्रीगीताविवृत्तिः :- यदुक्तं प्राक् वेपथुश्च शरीरे मे रोमहर्षश्च जायत इति तत्राह॥ स्वधर्ममिति॥ यद्वा न केवलमात्मनित्यत्वादशोकः। किं तर्~हीत्यत आह॥ स्वधर्ममिति॥ न केवलमात्मनोऽविनाशादेवाविकम्पः। स्वधर्ममपि अवेक्ष्य विकम्पितुं शरीरे कम्पं सर्वावयवचेष्टां कर्तुं नार्~हसीत्यर्थः। यच्चोक्तं ` न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहव" इति तत्राह। धर्म्यादिति॥ परलोकहेतुर्धर्मः, तत्सम्बन्धि तज्जनकमिति यावत्। यद्वा धारकत्वाद्धर्मोहरिः, तत्पूजारूपं यत्तद्धर्म्यं तस्माद्युद्धादन्यत् श्रेयः क्षत्रियस्य न विद्यते हि प्रसिद्ध मेतत्॥ 31/2 ॥
श्रीगीताविवृत्तिः :- किञ्च स्वयमेव महति श्रेयसि प्राप्ते विकम्पोऽनुचित इत्याह॥ यदृच्छयेति॥ यदृच्छया अप्रयत्नेन उपपन्नं प्राप्तम्। ``यदृच्छा हि तदिच्छा स्यात्" इत्युक्तेः ईश्वरेच्छाप्राप्तमिति वा। अपावृतमपगतावरणं स्वर्गद्वारं च पारत्रिकसुखसाधनमिति यावत्। ईदृशं भगवत्पूजात्वेन स्वधर्मत्वेन स्थितं युद्धं सुखिनः सुखहेतुपुण्यवन्तः क्षत्रियाः हे पार्थ लभन्ते प्राप्नुवन्ति। यद्वा ईदृशं युद्धं ये क्षत्रियाः लभन्ते ते सुखिन इत्यर्थः। तेन स्वजनं हि कथं हत्वा सुखिनः स्याम इति निरस्तम्॥ 32/2 ॥
श्रीगीताविवृत्तिः :- युद्धाकरणे अनर्थप्राप्त्युक्त्या च तत्कर्तव्यतामाह॥ अथचेत्यादि चतुर्भिः॥ अथ चेत् यदृच्छया पारत्रिकसुखहेतुत्वेन च प्राप्तमपि। धर्म्यं प्राग्वत्। इमं सङ्ग्रामं युद्धं न करिषस्यसि न कुर्याः। तर्~हि ततः स्वधर्मभूतयुद्धाकरणात् न केवलं धर्मकीर्त्योर्~हानिः स्वविहितधर्मत्यागात्पापं चावाप्स्यसि॥33॥
श्रीगीताविवृत्तिः :- अपकीर्तिं च अवाप्स्यसीत्याह॥ अकीर्तिं चेति॥ अपि चाकीर्तिं अपकीर्तिम्। अव्ययां शाश्वतीम्। अस्तु को दोष इत्यत आह॥ सम्भावितस्येति॥ लोके बहुमतस्य, अतिरिच्यते अधिका भवति॥ 34॥
श्रीगीताविवृत्तिः :- दयालुत्वान्निवृत्तोऽयमिति कीर्तिमेव कथयिष्यन्तीत्यत आह ॥ भयादिति॥ मंस्यन्ते ज्ञास्यन्ते । महारथस्वरूपमुक्तं पूर्वाध्याये। मन्यन्तां ते, ततः का हानिरित्यत आह ॥ येषामिति । येषां महारथानां त्वं बहुमतो भूत्वाऽसीः तेषां पुरत ऎव लाघवं यास्यसीत्यर्थः ॥35॥ न केवलं लाघवप्राप्तिः। तवाहिताः शत्रवः अवाच्यवादान् अवचनानर्~हशब्दान् बहून्वदिष्यन्ति । ततः शत्रुकृतनिन्दादिश्रवणात् दुःखतरं अतिशयितदुःखं किं नु? न किमपीत्यर्थः ॥
श्रीगीताविवृत्तिः :- यच्चोक्तं ` न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः' इति जयः सन्दिग्ध इति, पक्षद्वयेऽप्यहानिरित्याह ॥ हतो वेति । जित्वा वा भोक्ष्यसे महीमित्यत्र स्वर्गं च पश्चात् प्राप्स्यसीत्यपि ध्येयम् । `ये युद्ध्यन्ते प्रधनेषु शूरासो ये तनुत्यजः । ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात्' इति श्रुतौ ये शूराः प्रधनेषु युद्धेषु युद्ध्यन्ते । ये च तत्र म्रियन्ते ये च सहस्रसङ्ख्याकदक्षिणादातारः तामेवाऽयं प्रेतोऽपि गच्छतादिति यमं प्रति प्रेतस्य स्वर्गप्रार्थनात् । तत्र च ये युद्ध्यन्ते तान् प्रेतो गच्छतादिति युद्धशूराणां जयेऽपि स्वर्गप्राप्तेरत्र श्रुताववगमात् । तस्मात् पक्षद्वयेऽपि फलभावाद्युद्धाय कृतनिश्चयः सन्नुत्तिष्ठ सन्नद्धो भवेत्यर्थः॥ 37/2 ॥
श्रीगीताविवृत्तिः :- यच्चोक्तं ``पापमेवाश्रयेदस्मान्" इति तत्राह। सुखेति। यथा दुःखमनुपादेयं तथा वैषयिकसुखमपि अनुपादेयमित्यनुपादेयत्वेन दुःखसमं सुखं कृत्वा इत्यर्थः। लाभालाभावित्यादौ अपि समावित्यनुषङ्गः। अनुपादेयत्वेनालाभसमं लाभं कृत्वेत्यर्थः। जयाजयावित्यत्राप्येवमर्थो ध्येयः। सुखाद्यभिलाषं हित्वा भगवत्पूजा- रूपोऽयं स्वधर्म इति बुध्वेति यावत्। युद्धाय युज्यस्व युङ्क्ष्व। ततो भगवद्भक्तिपूर्वकं स्वधर्मतयाऽनुष्ठानात् पापं नैवाप्स्यसि। प्रत्युत पुण्यमेवाप्स्यसीत्यर्थः॥
श्रीगीताविवृत्तिः `न त्वेते'त्यादि ग्रन्थोक्तार्थोपसंहारपूर्वकं तत् सङ्गतत्वेन उत्तर प्रकरणारम्भं प्रतिजानीते। ``एषेति।" अत्र साङ्ख्यशब्दो जीवेश्वरज्ञानपरः। `न त्वं नेम' इत्यादिना जीवस्य प्राधान्येन, तादर्थ्येन `नत्वेवाह'मित्यादिना ईश्वरस्येति द्वयोरपि प्रकृतत्वात्। बुद्धिशब्दश्च बुद्ध्यते अनयेति करणव्युत्पत्त्या बोधजनकवाक्यपरः। योगशब्दश्च युज्यते प्राप्यते फलमनेनेति करणव्युत्पत्त्या उपायपरः। अयमर्थः। हे पार्थ, साङ्ख्ये जीवेश्वरस्वरूप ज्ञानविषये तज्जननार्थ(तद् ज्ञानार्थ)मिति यावत्। ऎषा न त्वेवाहमित्यारभ्य देहीनित्यमवध्य इत्यन्ता। बुद्धिः तदुभयस्वरूपबोधजनिका वाक् वाक्यानीति यावत् । ते तुभ्यं अभिहिता उक्ता। योगे तद् ज्ञानहेतु उपायविषये तु, उपायज्ञानार्थमिति यावत् । इमां `त्र्यॆगुण्यविषया' इत्यादिनाऽऽषष्ठसमाप्ति वक्ष्यमाणां बुद्धिं उपायबोधजनिकां वाचं वाक्यानीति यावत्। शृणु। श्रवणमात्रस्य विधिना विनापि सम्भवात् श्रुत्वा तत्र निष्ठां कुर्वित्यर्थः। अत्र वागभिहितेति यौगिकबुद्धिपदेन तदुक्तिर्नाविशदं वा~घX मात्रमुक्तम् । किन्तु तदवबोधो यथोत्पद्येत तथोक्तमिति ज्ञापनायेति ध्येयम्। आदर जननाय योगं प्रशंसति । ``बुद्ध्ये"त्यादि सार्धश्लोकेन। यया मद्वाक् जन्यया बुद्ध्या ज्ञानोपायबुद्ध्या युक्तः सन् तदनुष्ठानद्वारा ब्रह्मसाक्षात्कारातिशयं प्राप्यकर्म- बन्धं संसारं निःशेषतः प्रहास्यसि मुक्तो भविष्यसि॥39॥
श्रिगीताविवृत्तिः -- किञ्च इह वक्ष्यमाणे योगशब्दितज्ञानोपायभूत निष्कामविष्ण्वाराधनरूपकर्मविषये अभिक्रमस्योपक्रमस्य नाशो नास्ति। उपक्रममात्रस्यापि निष्फलता नास्तीत्यर्थः । ``प्रारम्भमात्रमिच्छा वा" इत्यादेः उपक्रान्तविष्णुधर्मविच्छेदे वा विष्णुधर्मवतोऽन्यधर्माकरणे वा प्रत्यवायो न विद्यते। अस्य धर्मस्य विष्णुपूजात्मक- निष्कामकर्मणः स्वल्पमपि एकांशोऽपि महतो भयात् संसारभयात् त्रायते रक्षति। तस्मात् तत्र निष्ठां कुर्विति भावः। ननु `ज्ञानं हि जैवमुक्तमि'ति भाष्योक्तेः जीवतत्वं प्रागुक्तम्। ब्रह्मज्ञानोपायश्च वक्ष्यते। न हि निवृत्तकर्मानुष्ठानादिरूपो योगो जीवज्ञानहेतुः । अतः कथं पूर्वोत्तरप्रकरणयोः साध्यसाधनविषयतया सङ्गतत्वम्। मैवं। `श्रुत्वाऽप्येनं' इत्यत्र भगवत्प्रतिबिम्बत्वादिना जीवचैतन्यवेदी दुर्लभ इत्युक्त्या तादृशत्वेन तद् ज्ञानोपायस्याप्याकाङ्क्षितत्वेन वक्ष्यमाण निवृत्तकर्मानुष्ठानाराधितभगवत्प्रीतेरेव ईश्वरतत्वज्ञानस्योपायत्वात् । तादर्थ्येन प्रकृतस्यापि ईश्वरस्य तस्मादेवं विदितॆ Xव#202;नं इत्यत्र स्वातन्त्र्यादिना ज्ञानस्य मोक्षादि सर्वपुमर्थहेतुत्वोक्त्या तद् ज्ञानोपायस्यापि आकाङ्क्षितत्वात् । वक्ष्यमाणसाधनस्य च यथावत्तथा परापरतत्वज्ञानोपायत्त्वान्न पूर्वोत्तरप्रकरणयोरसङ्गतिः । अत्र योगस्यानेकाध्यायप्रतिपाद्यत्वात् श्रोतृमनः समाधानाय पूर्वसङ्गतत्वेन प्रतिज्ञाकरणसार्थक्यं ज्ञेयं॥ 40/2 ॥
श्रिगीताविवृत्तिः -- ननु ज्ञानोपायविषया वाचोऽन्योन्यविरुद्धा बह्वयो मतभेदेन सन्ति। अतः कथं ऎकत्र त्वदीयायामेव उपायविषयवाचि निष्ठाशब्दितं विश्वासं करोमीत्यत आह॥ व्यवसायेति। व्यवसायात्मिका प्रमाणनिर्णीतार्थनिश्चयात्मिका निश्चयजनिका बुद्धिः करणव्युत्पत्त्या वाक्। ऎकैव एकोपायविषयैव इह लोके वेदे च। न तत्र विप्रतिपत्तिरस्ति। स ऎव वैष्णवधर्मानुष्ठान हेतुः। अव्यवसायिनां प्रमाणनिर्णीतार्थनिश्चयहीनानां बुद्धयः उपायविषयाः वाचः बहुशाखाः बहुमुखाः विरुद्धनानार्थविषयाः अनन्ताश्च। तथा च कथं अप्रामाणिकमतविवादेन प्रामाणिकेऽर्थे अविश्वासः। मया वक्ष्यमाणोपायस्तु प्रामाणिक इति तत्र तत्र व्यक्तीभविष्यतीति भावः॥ 41/2 ॥
श्रीगीताविवृत्तिः :-नन्ववैदिकमतानामप्रामाणिकत्वेन तत्राविश्वासेऽपि वैदिकेष्वपि केचित् कर्माणि स्वर्गफलान्येवाहुः । त्वया तु काम्यार्थान्येव स्वर्गादिफलानि, निष्कामानीश्वरार्पणबुद्ध्या अनुष्ठितानि तु ज्ञानार्थानीत्यभिप्रेयते। तथा च कथं त्वद्वचने निष्ठा स्यादित्यतस्तेषां वैदिकाभासताप्रदर्शनाय निन्दामाह ॥ यामित्यादि त्रयेण॥ वेदवादरताः वेदैर्यदापातत उच्यते कर्मादि तत्रैव रताः । वेदोक्त विष्णुमहिमविवादपूर्वकं वेदपाठका वा निरर्थकवेदपाठका वा । अत ऎवाविपश्चितः। वेद- तात्पर्यार्थापरिज्ञानिनः। अन्यन्मोक्षाख्यफलं वा ब्रह्मस्वरूपं वा नास्तीति वादिनः कामात्मानः काम्यफलमनस्काः भोगचित्ता इति वा। स्वर्गपराः स्वर्गतात्पर्यकाः स्वर्गमेव परमपुमर्थं मन्यमाना इति यावत्। जन्म च कर्म च तत्फलं च प्रददातीति तथाविधां क्रियाविशेषबहुलां बहुकर्मविशेषप्रतिपादिकां यामिमां वाचं पुष्पितां सञ्जातपुष्पां मोक्षफलमपेक्ष्य पुष्पस्थानीयस्वर्गादिफलकां भोगैश्वर्यप्राप्तिं प्रति प्रवदन्ति। तया वाचाऽपहृतचेतसां भोगैश्वर्ययोरासक्तचित्तानां व्यवसायात्मिका सम्यक् प्रमाणनिर्णीतार्थनिश्चयरूपा बुद्धिः समाधौ भगवति मनःसमाधानार्थं न विधीयते। तस्यैव परमपुमर्थहेतुत्वादिति भावः। यद्वा अव्यवसायबुद्धिः केन कारणेन भवति यत्परित्यागात्सा बुद्धिर्न भवति इत्यतोऽव्यवसायबुद्धेः कारणमाह ॥ यामिति॥ योजना तु पूर्ववदेव। वेदतात्पर्य- विषयीभूतभगवत्स्वरूपमोक्षस्वरूपयोः अज्ञानिनां आपातप्रतीतार्थमादाय स्वर्गादि- फलका वेदा इति वादिनां भोगैश्वर्यसक्तानां असद्वादिनां वाक्यान्यव्यवसाबुद्धिकारणम्। तत्त्यागे च सा बुद्धिर्न भवतीति भावः। अत्र पक्षे समाधावित्यस्य तत्वविषयतया दार्ढ्यार्थमि- त्यर्थः। तस्यैव विष्णुधर्मानुष्ठानहेतुत्वादिति॥ 42॥43॥44॥
श्रीगीताविवृत्तिः :-``एवं योगे त्विमां शृण्वि"ति योगोक्तिं प्रतिज्ञाय तत्रादरजननाय सार्धश्लोकेन तं प्रशस्य स्वोक्तौ निष्ठाभावे कारणीभूतमतान्तरविधानं च श्लोकत्रयेण तन्निन्दोक्त्या निरस्येदानीं प्रतिज्ञातं योगं प्राधान्येनाह ॥ त्रैगुण्येत्यादिना आषष्ठाध्यायसमाप्ति ॥ ``बहूनि मे व्यतीतानि" इत्यादेः प्रासङ्गिकत्वेनाप्रधानत्वात् । त्रयाणां सत्वरजस्तमसामिदं त्रैगुण्यम्। त्रिगुणसम्बन्धि, `सम्बन्धार्थे विचित्रा हि तद्धितगतिरि'ति वचनात् ष~घX प्रत्ययः। त्रिगुणजन्यं यत्स्वर्गादि तद्विषयाः आपाततः स्वर्गादिफलककर्मादिप्रतिपादकः प्रतीयन्ते वेदाः। `वादो विषयकत्वं च मुखतो वचनं तथे'त्युक्तेः। हे अर्जुन, त्वं तु निस्त्रैगुण्यात् त्रिगुणसम्बन्धिस्वर्गादितो निस्त्रैगुण्यः।त्रैगुण्यबुद्धितो निर्गतो भव। आपाततः प्रतीतार्थे भ्रान्तिं मा कार्षीरित्यर्थः। यद्वा त्रैगुण्यं त्रिगुणसम्बन्धि स्वर्गाद्यस्थिरफलं संसारबन्धनं वा। तदेव विषं त्रैगुण्यविषं यापयन्ति अपगमयन्तीति त्रैगुण्यविषयाः। ``यातेरन्तर्णीतण्यर्थादातोनुपसर्गे क" इति कः। नित्यपुमर्थहेतु भगवत् स्वरूप- विषया इति यावत्। तानाश्रित्येति शेषः। निस्त्रैगुण्यो भव प्राग्वदेवार्थः। वेदतात्पर्य- विषयीभूतार्थं बुद्ध्वा क्षुद्रफलककर्मादिरूपापातप्रतीतार्थे भ्रान्तिं मा कार्षीरिति भावः। किञ्च निर्द्वन्द्वः ``सुखदुःखे समे कृत्वा" इत्यत्रोक्तदिशा समदुःखसुखादिरिति वा, सुखदुःखादि प्राप्तावुत्सेकानुत्सेकहीन इति वाऽर्थः। नित्यं सत्वे साधुगुणोपेते हरौ तिष्ठतीति नित्यसत्वस्थः। नित्यं हरिस्म Xृतिमान्भवेति सर्वत्रान्वेति। कथं नित्यं हरिस्मृतिरित्यत आत्मवान् परमात्मवान् तथा स्मृतिमानिति। `` आत्मेति तूपगच्छन्ति ग्राहयन्ति च " इति (4-1-3) सूत्रोक्तदिशा ममस्वामी हरिरिति स्मृतिमानिति यावत्। अप्राप्तप्राप्तिर्योगः प्राप्तपरिरक्षणं क्षेमः। शास्त्रविरुद्धविषये योगक्षेमाभ्यां निष्क्रान्तो निर्योगक्षेमः। शास्त्रविरुद्धविषये योगक्षेमहीनो भवेत्यर्थः। निर्द्वन्द्वत्वादिति विशेषणयुक्तस्य (युक्तः सन्) नित्यपुमर्थहेतुर्भगवानेव वेदतात्पर्यविषयो न काम्यकर्मेति ज्ञात्वा काम्यकर्मत्यागेन सर्वत्र सन्ततः साधुगुणो हरिः मम स्वामीति नित्यस्मरणादेव ज्ञानोपायो न त्वैक्यस्मृतिरित्युक्तं भवति॥ 45/2 ॥
<लन्ग्=सन्>श्रीगीताविवृत्तिः :- ननु यामिमामिति त्रयेण काम्यकर्मिणां समाध्यभावेन ज्ञानाभावान्न मोक्ष इति निन्दां कृत्वा निस्त्रैगुण्योभव इति काम्यकर्मत्यागेन योगानुष्ठाननियम उक्तः। स त्वयुक्तः। ज्ञानफलं कर्मिणामिव कर्मफलं स्वर्गादिकं ज्ञानिनां नास्तीति ज्ञानकर्म- मार्गयोः साम्यादित्यत आह ॥ यावानिति। सामर्थ्याद्यथैवं पदयोरध्याहारः । यावान् तावानित्यनयोरावृत्तिः । अयमर्थः। यथा यावानर्थः सर्वतः सम्प्लुतोदके महासमुद्रे अन्तर्भवति। ऎवं सर्वेषु वेदेषु सर्ववेदोक्तकाम्यकर्मिणां यावानर्थः स्वर्गादिरूपं फलं तावानित्यर्थः तावत्फलं विजानतः परोक्षतो भगवन्तं जानतो ब्राह्मणस्य ब्रह्मापरोक्षज्ञानिनः भवत्येवेत्यर्थः। ज्ञानिकर्मिणोरन्योन्यफलाभावेऽपि ज्ञानिफलं महासमुद्रोदकमिव महत्। कर्मिफलं तु कूपोदकमिव अत्यल्पमतः कुतः तयोः साम्यं। तथा च अल्पास्थिरफलककर्मनिन्दया महानन्तफलज्ञानसाधने योगे प्रेरणं पूर्वश्लोकोक्तं युक्तमिति भावः। अत्र विजानत इति परोक्षज्ञानस्य ब्राह्मणपदोक्त अपरोक्षज्ञानस्यच हेतुहेतुमद्भावेन द्वयोरुक्तिः । पूर्वत्र स्वामित्वेन हरिस्मरणस्य योगशब्दितज्ञानोपायत्वप्रकटनाय स्वरूपकथनमिति टीकोक्तिस्त्वभ्युपगमवादेनेति ज्ञेयं। यद्वा पूर्वत्र निस्त्रैगुण्यो भवेति स्वर्गादिक्षयिष्णुफलककाम्यकर्मरूपे आपाततः प्रतीते वेदार्थे भ्रान्ति मा कार्षीरित्युक्तकाम्यकर्मनिवृत्तौ त्रैगुण्यविषहारिवेदाश्रयणं कार्यमित्युक्तेऽर्थे वेदतात्पर्यार्थं निवृत्तकर्माराध्यं विष्णुं सम्यग् जानतोऽतिशयित फलावाप्तिरूप युक्तिमाह॥ यावानिति॥ सर्वतः सम्प्लुतोदके प्रकृत्यात्मके महाप्रलयोदको। अधिकरण सप्तमी। तत्रस्थित इत्यर्थः। उदपाने परमात्मनि। उत् उद्रेकात् अपः पालकराहित्यात्, अन चेष्टकत्वाद्धेतो उच्चासावपश्च अनश्चेत्युदपानस्तस्मिन् प्रलयेऽप्युद्रिक्तगुणतया पालकवर्जिते(पालकवर्जितः सन्) कालादिचेष्टकतया स्थिते हरौ प्रसन्ने सति यावानर्थः धर्ममोक्षादिर्भवति तावान्सर्वेषु वेदेषु विजानतो विशेषज्ञस्य, कर्माणि भगवज्जञानार्थानि, भगवानेव वेदमुख्यार्थः, स्वर्गादिफलश्रवणं रुच्यर्थमित्यादि जानतो ब्राह्मणस्य तावानर्थो भवति। अतः प्रतीतार्थे त्रैगुण्ये भ्रान्तिं मा कार्षीरिति॥ 46
श्रीगीताविवृत्तिः :- ननु सकामतया कर्म कुर्वतां `यामिमां' इत्यादिनोक्ता निन्दा न युक्ता । `स्वर्ग कामो यजेत' इत्यादौ कामनाया अपि विधानात्। न हि विहितकृतां निन्दा युक्ता । न च यागकामनयोर्द्वयोरपि विधौ वाक्यभेदः। स्वर्गकामनाविशिष्टयागविध्य- भ्युपगमादित्यत आह। कर्मण्येवेति। अत्र त इति ज्ञानिभूतसर्ववर्णाश्रमोपलक्षणं। फलेष्विति पदं फलकामोपलक्षणं। अयमर्थः। हे पार्थ ते तव त्वादृशस्यान्यस्य ज्ञानिनोऽपि कर्मण्येवाधिकारो योग्यता। फलेषु स्वर्गादिफलकामनासु मा नाधिकारः। अतः कर्मैव कार्यं विधिविषय इति यावत्। न तु कामना कार्या। कुतः कुर्वन्नेवेति (ईशावास्य 2) श्रुतौ ऎवं त्वयीत्युत्तरार्धे कर्माकरणे प्रत्यवायस्येव कामनाया अकरणे प्रत्यवायाश्रवणात्। तथा च कामनानुवादेन यागविधिरेवायं न तु विशिष्टविधिरिति भावः । अतः कामनायाः विध्यविषयत्वात् कर्मकृतौ फलं हेतुर्यस्य स कर्मफलहेतुः मा भूरित्यर्थः। शाकपार्थिवादिवत् कृतिपदलोपोऽत्र ध्येयः। तर्~हि स्वयं क्लेशरूपत्वात् कर्म न कार्य इत्यत आह। मा त इति। ते तव त्वादृशस्य सर्वस्यापि ज्ञानिनोऽकर्मणि कर्माकरणे सङ्गः स्नेहो माऽभूत्। स्वर्गादिरूपाल्पस्थिरफलाभावेऽपि अनल्पस्थिरमोक्षरूपमहापुमर्थहेतु भगवज्जञानभक्तिप्रसादानां भावात्तत्कामनया कर्मकरणोपपत्तेर्ज्ञानभक्त्यादिकामनायाश्च निन्दाऽभावात्। प्रत्युत `वृणीमहे ते परितोषणाय' इत्यादिना चतुर्थस्कन्धे प्रचेतसां महतामाचाराश्च। तथा च सूत्रं । `` बहिस्तूभयथाऽपि स्मृतेराचाराच्च " इति (3-4-43)। नच ज्ञानितः `` अनियमः सर्वेषां अविरोधाच्छब्दानुमानाभ्यां ' (3-3-32) इत्युक्तदिशा मोक्षस्य सिद्धतया किं कर्मकरणेन साध्यमिति चेन्न । ज्ञाने मोक्षे चातिशयार्थत्वात्। यथोक्तं ` भावं तु बादरायणोऽस्ति हि ' (1-3-33) इति। यद्वा पूर्वमात्मवानित्यनेनैक्यभावनं न कार्यमित्युक्तं। तत्कुत इत्यतो जीवब्रह्मैक्यस्यैव अभावादिति ऐक्याभावरूप हेतुमाह। कर्मण्येवेति। त इत्युपलक्षणं। त्वदादि सर्वजीवानां कर्मण्येवाधिकारः। कर्मसम्पादन ऎव सामर्थ्यमित्यर्थः। ऎवकारव्यवच्छेद्यमाह। मा फलेष्विति॥ फलेषु कदाचनाधिकारो नास्ति। फल सम्पादने सामर्थ्यं नास्ति। किं त्वीश्वर ऎव फलदाने समर्थ इति भावः। तदाह सूत्रे `` फलमत उपपत्तेः " इति (3-2-39)। ऎवं च फलसम्पादने शक्तत्वाशक्तत्वाभ्यां सर्वजीवानां ईश्वरेणैक्याभावादिति युक्तिरुक्ता भवति। तस्याः प्रतिज्ञामाह। मा कर्मफलहेतुर्भूरिति। उक्तदिशा कर्मफलहेतुरीश्वरः, मनसा स मा भूः। तदैक्यभावना न कार्येति यावत्। मिथ्योपासनायाः ` न प्रतीके न हि सः " इति व्याससूत्रे (4-1-4), `अचेतनासत्यायोग्यान्यपुपास्यान्यफलत्वविपर्ययाभ्यां' इति साङ्कर्षण सूत्रे च निषेधात्। तर्~हि सत्वस्थ इत्युक्तदिशा नित्यं स्वामित्वेन हरिस्मृत्यैवालं, किं कर्मकरणेनेत्यत आह॥ मा त इति। त्वदादेः सर्वस्य अकर्मणि कर्माकरणे सङ्गः स्नेहो माऽभूत्। तदकरणे प्रत्यवायश्रवणादिति भावः॥ 47/2 ॥
श्रीगीताविवृत्तिः :- `मा ते सङ्गोऽस्त्वकर्मणि' इत्युक्तं। तर्~हि किं कार्यमित्यत आह॥ योगस्य इति। योगो ज्ञानोपायः तत्र तिष्ठतीति योगस्थः। ज्ञानोपायमनुतिष्ठन् सङ्गं फलस्नेहं त्यक्त्वा तत ऎव फलरागत्यागादेव सिद्ध्यसिद्ध्योः समो भूत्वा कर्माणि कुरु ईश्वरप्रसत्यै कर्माणि कुर्विति अर्थः। योगस्थ इत्युक्तयोगः क इत्यतः सङ्गं त्यक्त्वेत्यादिना योग शब्दार्थो व्याख्यातः। तत्र त्यागसमन्वयोः प्रत्येकं योगत्वभ्रान्ति निरासायाः॥ समत्वमिति। सङ्गत्यागस्याप्युपलक्षणं। त्यागोपेतं समत्वं योग इत्यर्थः॥ 48/2 ॥
श्रीगीताविवृत्तिः :- किञ्च कर्मफलस्य ज्ञानफलादल्पत्वात् ज्ञानोपायानुष्ठानाय प्रयतस्वेति ``यावानर्थं" इत्यत्र उक्तेऽर्थे कर्मरूपस्य पुमर्थोपायस्य ज्ञानरूपोपायात् अधमत्वं रूपं हेत्वन्तरमुच्यते॥ दूरेणह्यवरं इति॥ बुद्धियोगात् ज्ञानलक्षणपुमर्थ साधनात् कर्म दूरेणातीवावरमधमं। अतो बुद्धौ ज्ञाने शरणमन्विच्छ ज्ञानस्य उपायभूत योगानुष्ठानलक्षणां ज्ञाने स्थितिं अन्विच्छेत्यर्थः। कथं कर्म ज्ञानादवरमित्यत आह॥ कृपणा इति॥ ``फलं कर्मकृतौ हेतुर्येषां ते फलहेतवः।" ते कृपणाः दीनाः इमं लोकं हीनतरं लोकं वा विशन्तीत्यर्थः। यद्वा उत्तरार्धस्यैवमर्थः। ज्ञानस्य कर्मत उत्तमत्वे सति उत्तमायां ज्ञानावस्थायां ईश्वरैक्यभावनं युक्तमित्यत आह॥ बुद्धाविति॥ बुद्धौ ज्ञाने जातेऽपि विष्णुमेव शरणमन्विच्छ। कुतः। फलहेतवः फलहेतुरीश्वरः। फलहेतवः ईश्वरैक्यभाविनो ये ते कृपणाः कृपाविषयाः। तमः प्राप्तिमन्त इत्यर्थः॥ 49/2 ॥
श्रीगीताविवृत्तिः :- ज्ञानात्कर्मावरं इत्येत्काम्यकर्मिणां कृपणत्वोक्त्योपपाद्येदानीं कर्मफलात् ज्ञानफलस्य विलक्षणत्वोक्त्याऽप्युपपादयति॥ बुद्धियुक्त इति॥ बुद्धियुक्तो भगवज्जञानयुक्तः। उभे सुकृतदुष्कृते पुण्यपापे जहाति त्यजति। पुण्यमध्ये यदनिष्टं मानुष्यादिफ(लकं)लं तज्जहाति। यत्तु उपासनादिजन्यं ज्ञानवृद्धिकरं मुक्तावानन्दवृद्धिकरं च तत्पुण्यं नैव जहाति। दुष्कृतं तु सर्वात्मना जहाति। तस्मात् ज्ञानस्य सर्वानिष्टनिवृत्तिविशिष्टोभय- वृद्धिरूप महाफलत्वात्, योगाय ज्ञानोपायाय युज्यस्व सन्नद्धो भव प्रयतस्वेति वा। योगं स्तौति। योग इति॥ योगो ज्ञानोपायः कर्मसु कौशलं श्रेष्ठमित्यर्थः। यद्वा अस्तु ज्ञानोपायो प्रयत्नः। किं फलस्नेहरहितकर्मणेत्यत आह॥ योग इति॥ कर्मसु मध्ये भगवज्जञानापूर्वं फलस्नेहरहितं भगवदर्थत्वेन क्रियमाणं कर्म कौशलमुच्यते।स ऎव योगो नाम। अतः फलस्नेहहीनं कर्मैव ज्ञानोपाय इत्यर्थः ॥50॥
श्रीगीताविवृत्तिः :- पूर्वोक्तं ज्ञानसाधनं ज्ञानफलं च विवृणोति। कर्मजमिति। कर्मजं फलं त्यक्त्वा इत्युपलक्षणं। कर्मजफलसङ्कल्पत्यागादि पूर्वकं भगवदर्पणबुद्ध्या कर्मानुष्ठानरूपं योगमास्थाय बुद्धियुक्ताः सम्यक् शास्त्रजनितभगवज्जञानिनः इत्यनेन ज्ञानसाधनं योगो विवृतः। ततश्च । मनीषिणः, ``प्रशंसायां मतुबर्थेनिप्रत्ययः" , अपरोक्षज्ञानिनो भूत्वा जन्मबन्धविनिर्मुक्ताः सन्तोऽनामयं निर्दुःखं पदं मोक्ष गच्छन्तीत्युक्त्या ज्ञानफलं विवृत्तं ज्ञेयं॥ 51/2 ॥
श्रीगीताविवृत्तिः -फलकामनादिवर्जितानीश्वराराधनरूपाणि कर्माणि मोक्षसाधन -ज्ञानार्थिना कियत्पर्यन्तं कर्तव्यानीत्यत आह ॥ यदा त इति ॥ यदा ते तव बुद्धिरन्तःकरणं मोहकलिलमन्यथाज्ञानलक्षणं दोषं व्यतितरिष्यति परित्यक्ष्यति। तदा महद्भ्यः श्रुतस्य श्रोतस्य च। सर्वकर्मोपलक्षणमेतत्। तस्य सर्वस्य निर्वेदं नितरां लाभं गन्ताऽसि प्राप्स्यसि। मुक्तिहेतुज्ञानसाधनभूतो निवृत्तकर्मानुष्ठानरूपो योगः साक्षाज्जञानहेतुः श्रवणादिरूप प्रमाणस्यादृष्टद्वारा सत्त्वशुद्ध्युत्पादनेनोपकारकः सन् मिथ्याज्ञानदोष निवृत्तिपर्यन्तं तत्त्वज्ञानोदयपर्यन्तं च कर्तव्य इति भावः॥52॥
श्रीगीताविवृत्तिः :- किं तन्मोहकलिलं कीदृशं च तदतितरणमित्याकाङ्क्षायां पुंसां अधममध्यमो त्तमावस्थादि प्रदर्शनेन पूर्वश्लोकोक्तमेव योगानुष्ठानविधिं स्पष्टयति॥ शृतीति॥ परोक्ष निश्चयात्पूर्वावस्थायां शृतिभिर्वेदैर्विप्रतिपन्ना विरुद्धा सती बुद्धिर्यदा वेदार्थानुकूलेन तत्त्वनिश्चयेनासच्छास्त्रैश्चालनहीना इदमदो वेति संशयानास्कन्दिता सति स्थास्यति। ततश्च समाधिर्भवति। जाते च समाधौ असम्प्रज्ञातध्याने अपरोक्षज्ञानं भवति। तेन च ब्रह्मदर्शनेन परमानन्दमग्नतया भेरीताडनादिनाऽपि चलनहीना बुद्धिर्मनो यदा स्थास्यति तदा योगं योगफलं ज्ञानोपायानुष्ठानस्य फलमवाप्स्यसीत्यर्थः। पूर्वावस्थायां अनुष्ठितयोगस्य परोक्षभगवन्निश्चयावधित्वमुक्तं । परोक्षनिश्चयस्य काष्ठात्वसच्छास्त्रैरनेकधा परिलोड्यमानत्वेऽ प्यप्रामाण्यशङ्काकलङ्कितत्वशून्यत्वम्। तद्दशयां अनुष्ठितनिवृत्तकर्मरूपयोगस्यतु समाधौ भगवदपरोक्षज्ञानावधित्वम्। तस्य तु काष्ठा भेरीताडनादिनाऽप्यप्रबोधसमाधिस्थत्वम्। एतेन बुद्धेर्मनसः मोहकलिलं शृतिविरुद्धत्व रूपो दोषः। तत्तरणं नाम वेदार्थानुकूलेन निश्चयेन दृढतयाऽवस्थानम्। तदा निर्वेदं गन्ताऽसीत्यस्य विवरणं समाधौ अचलाबुद्धिरित्युक्तं भवति। श्लोकद्वयस्यापि अचञ्चलसमाध्यवस्थाप्राप्तिर्योगानुष्ठानावधिरिति तात्पर्यं ध्येयं। यद्वा बुद्धिर्मनः श्रुतिविप्रतिपन्ना श्रुतिविशेषेण प्रतिपन्ना श्रुत्यर्थनिर्णयं प्राप्ता सती इदमदोवेति चञ्चलत्वहीना यदा स्थास्यति तदा समाधौ समाधिः समाधानं। सति सप्तमी। श्रुत्यर्थनिश्चयेन निश्चलत्वे सति अपरोक्षज्ञानं भवतीति योज्यम्। तेन च विष्णावचला भवति बुद्धिः। ततश्च योगं भगवद्योगं मुक्तिमवाप्स्यसि इति॥ 53/2 ॥
श्रीगीताविवृत्तिः :- जानीति प्रकृते(सति) लब्धावसरोऽर्जुनः प्रागुक्तलक्षणानुवादपूर्वकं लक्षणान्तरादिकं पृच्छति। स्थितेति। स्थिता प्रतिष्ठां प्राप्ता प्रज्ञाऽपरोक्षदृशिर्यस्य स तथा। तस्य समाधिस्थस्य समाध्यवस्थायां गतस्य प्राक् त्वदुक्तदिशाऽसम्प्रज्ञातध्यानस्थत्वलक्षणं गतस्य। का भाषा भाष्यतेऽनयेति भाषाशब्दो लक्षवचनः किं लक्षणमित्यर्थः । येन लक्षणेनायं जानाति व्यवह्रियते तत्किमित्यर्थः । केशव ब्रह्मरुद्रप्रवर्तक। ``केशाद्वोऽन्यतरस्यामिति" मत्वर्थे `व' प्रत्ययोक्तेः प्रशस्तकेशवानिति वा । स्थितधीरपरोक्षज्ञानी किं प्रभाषेत किं प्रत्यासीत किमुद्दिश्य व्रजेत प्रवृत्तिं कुर्यादित्यर्थः । अत्र किं लक्षणमिति वक्तव्ये यौगिकभाषा शब्देन तदुक्तिः प्रागुक्तं समाधिस्थत्वलक्षणमयावद् द्रव्यभावित्वान्न सम्यग्व्यवहारोपयोगि । यावल्लक्ष्यभावि तु सम्यक् सार्वत्रिकव्यवहारोपयोगि ।अतः सार्वत्रिकव्यवहारहेतुभूतं यावल्लक्ष्यभावि लक्षणं किमिति प्रष्टुमिति ज्ञेयं । स्थितप्रज्ञस्य का भाषेत्येव पूर्तौ समाधिस्थस्येति प्राचीनलक्षणानुवादस्तु त्वदुक्तं लक्षणं ज्ञातं तन्न पृच्छ्यते । येन सिद्धार्थता प्रश्नस्य स्यात् । किं तु अन्यदेव पृच्छ्यत इति ज्ञापयितुं । यद्वा समाधिस्थस्य विषमबुद्धिवर्जितस्येत्यर्थः । उत्तरार्धे किं शब्दः आक्षेपार्थः । भेरीताडनादिनाऽपि अप्रतिबुद्धो ब्रह्मदर्शननेन परमानन्दमग्नत्वात्, स्थितधीर परोक्षज्ञानी भाषणोपवेशनगमनादि रूपप्रवृत्ति किमर्थं कुर्यात् । करोति च शुकादिः । अतः ``समाधौ अचलाबुद्धिस्तदा योगमवाप्स्यसी"ति उक्तमसदिति ॥ 54 ॥
<लन्ग्=सन्>श्रीगीताविवृत्तिः :- का भाषेति कृत लक्षणप्रश्नस्य उत्तरमाह ॥ प्रजहातीति ॥ उत्तरार्धे कृताक्षेपस्य तु समाधिं या निशेत्यग्रे वक्ष्यति । यदा मनोगतान् सर्वान् कामान् प्रजहाति परित्यज्यति । कामान् इत्युपलक्षणं कामक्रोधादीनित्यर्थः । यदा चात्मन्येव परमात्मन्येव व्यवस्थितः सन् तदेकचित्तः सन्निति यावत्। आत्मना परमात्मना तत्प्रसादेनेत्यर्थः । तुष्टः सन्तोषयुक्तः तदा स्थितप्रज्ञोऽपरोक्षज्ञानी उच्यत इत्यर्थः । अत्र सर्वकामानित्यस्य विरुद्धकामानित्यर्थः । कामादेर्मनोगतत्वाव्यभिचारेऽपि मनोगतानित्युक्तिर्विरुद्ध सर्वकामप्रहाणघटनाय ज्ञानस्य कामादेश्च मानसैकनिष्ठत्वात् ``रसोऽप्यस्य परं दृष्ट्वा निवर्तत " इति वक्ष्यमाणदिशाऽन्योन्यं विरुद्धत्वात् मनसि भगवद् ज्ञाने जाते तद्विरुद्धाः कामादयो न स्थातुमर्~हतीति युक्तिसूचनेन तद्घटनात् । प्रायः सर्वविरुद्ध कामादित्यागवत्वे सति भगवदेकचित्ततया सन्तुष्टत्वं ज्ञानिलक्षण मित्युक्तं भवति । न च ``योगे त्विमां शृण्वि"तिज्ञानोपायं प्रतिज्ञाय ज्ञानिलक्षणोक्तिरसङ्गतेति शङ्क्यम् । प्रायो विरुद्धकामत्यागभगवदेकचित्ततत्प्रसादायत्त सन्तोषवत्वादीनां ज्ञानिलक्षणतया उक्तवक्ष्यमाणानामेव ज्ञानोपायशब्दितयोगस्वरूपत्वात् । परन्तु ज्ञानार्थिनैतानि यत्नसाध्यानि ज्ञानिनि तु स्वभावसिद्धानीति विशेषः ॥ 55/2 ॥
एतदेव काम शब्दोपलक्षितदोषान्तरत्यागकथनादिना त्रिभिः स्पष्टयति ॥ दुःखेष्वित्यादिभिः ॥ दुःखेषु प्राप्तेषु अनुद्विग्नं क्षान्तं मनो यस्य स तथा । सुखेषु विषय विगतेच्छः । अशोभने शोभनाध्यासो रागः । रागभयक्रोधाः वीता अपगता यस्मात् स तथा तादृशो मुनिः स्थितधी रुच्यते ॥ 56/2 ॥
वीतरागभयक्रोधत्वं केन हेतुना भवतीत्यत आह ॥ य इति ॥ अनभिस्नेह इति हेतुगर्भं । यः सर्वत्राऽनभिस्नेहत्वात् तत् शुभाशुभं प्राप्यापि नाभिनन्दति न द्वेष्टि । तस्य प्रज्ञा अपरोक्षधीः प्रतिष्ठिता ॥ 58/2 ॥ किं चायं ज्ञानी तदा इन्द्रियार्थेभ्यः शब्दस्पर्शरूपरसगन्धेभ्यः । सर्वशः इन्द्रियाणि श्रोत्रादीनि कूर्मः करचरणाद्यङ्गानि स्वभावेनोपसंहरति । तद्वत् अनायासेन उपसंहरते तस्य प्रज्ञा प्रतिष्ठिता । ज्ञानिनो जिज्ञासोरिवेन्द्रियप्रत्याहरणं न यत्नसाध्यं किं तु अनायासेनैव इति ज्ञापनाय कूर्मोऽङ्गानीव इति दृष्टान्तः ॥ 58/2 ॥
श्रीगीताविवृत्ति ः :- नन्वेवं कामप्रहाणादिलक्षणसाधनं चेत् ज्ञानं तर्~हि सर्वोऽपि जनः कस्मान्न तत्साधयति । कामद्युपद्रवपरिहारार्थं किं दन्दह्यमानशिराः बम्भ्रमीति इत्यतो निराहारत्वेन इन्द्रियजयः, तेनैव च ज्ञानमित्यादि दुःसम्पादत्वं ज्ञानस्याह ॥विषया इत्यादिभिस्त्रिभिः ॥ तत्र आद्येन इन्द्रियजय उच्यते । देहिनो निराहारस्य । हेतुगर्भमिदम् । निराहारत्वेन हेतुना विषयाः रूपादयः- इन्द्रियाणां तद्भोगशक्तय उपलक्ष्यन्ते । ताः निवर्तते । रसवर्ज रसो रागः मानसिकविषयाभिलाषवर्जम् । निराहारत्वेन विषयाभिलाषो न निवर्तते । रसोऽप्यस्य देहिनः परं दृष्ट्वा निवर्तते । परमात्मदर्शनेनैव विषयाभिलाषोऽपयातीत्यर्थः । यद्वा रसेतरे रूपगन्धस्पर्शशब्दाः निवर्तते । अत्रापि विषयपदेन इन्द्रियाणां तद्भोगशक्त्यादयो लक्ष्यन्ते । चक्षुरादि इन्द्रियाणां रूपादि विषयभोगशक्त्यो मनसः तदाकाङ्क्षाश्च निवर्तते इत्यर्थः । रसवर्ज रस शब्दः प्राग्वदलाक्षणिकः । रसनेन्द्रियस्य रसभोगशक्तिवर्ज मानसिकरसाकाङ्क्षावर्जमिति रसविषयकमनोगताकाङ्क्षा रसनेन्द्रियगतरसभोगशक्तिश्च निराहारत्वेन हेतुना न निवर्तत इत्यर्थः। तद् द्वयं कदा निवर्तत इत्यत उक्तम् ॥ रसोऽपीति ॥ अस्य देहिनः रसः मानसिको रसविषयको रागः रसनेन्द्रियस्य तद्भोगशक्तिश्च परं दृष्ट्वा निवर्तते । अचेतने चेतनवद् उपचारात् रसः परं दृष्ट्वा न निवर्तत इत्युक्तमिति ज्ञेयम् । अयमर्थः । यदा बाह्येन्द्रियाणि विषयसन्निधानेऽपि न तैः सन्निकृष्यन्ते । सन्निकृष्टान्यपि मनस्तदाभिमुख्येन न हरन्ति । अपहृतेऽपि मनसि न विषयरागो जायते, तदा न आत्मनः क्षोभो भवति इत्येष इन्द्रियजयः । सोऽयं सङ्ग्रहेण द्वेधा भवति । बाह्येन्द्रियाणां शक्तिजयान्मनसो रागक्षयाश्च । ऎतद् द्वयं च जिज्ञासोर्निरा- हारत्वेन, ज्ञानिनो ब्रह्मदर्शनेन भवतीत्येवमिन्द्रियजयस्य महाप्रयत्नसाध्यत्वमिति ॥ 59/2 ॥
श्रीगीताविवृत्तिः :- नन्विन्द्रियजयार्थं किं निराहारत्वरूपमहाप्रयत्नेन, प्रत्याहारादि साधारण यत्नेनापि तत्सम्भवात् । तथा किं ब्रह्मापरोक्षज्ञानेन, नित्यानित्यविवेकज्ञानेनापि रागनिवृत्त्युपपत्तेः इत्यत आह ॥ यततो ह्यपीति ॥ विपश्चितः परोक्षज्ञानिनः यततोऽपि साधारणप्रयत्नवतोऽपि पुरुषस्य देहाभिमानिनः इन्द्रियाणि मनः प्रसभं बलात् हरन्ति स्वयं विषयसन्निकृष्टानि सन्ति तदभिमुखं कृत्वा तद्रागीकुर्वन्तीत्यर्थः । तावता आत्मनः कथं इन्द्रियविजय इत्यत आह ॥ प्रमाथीनीति ॥ प्रमथनशीलानि पुरुषस्य क्षोभणशीलानि न तेन तानि जितानि । यो हि यं व्याकुलं न करोति स तेन विजित इत्युच्यते । अतो महाप्रयत्नः प्रागुक्तदिशा कार्य इति ॥ 60/2 ॥
श्रीगीताविवृत्ति ः :- यदि साधारणयत्नविवेकज्ञानाभ्यां इन्द्रियाणि न जीयन्ते, तर्~हि अशक्यान्येव तानि जेतुम्। निराहारत्वे देहावस्थित्यसम्भवात् । इन्द्रियजयस्य ब्रह्मदृष्टिसाध्यतयाऽभिमतत्वेन तस्य तद्धेतुत्वे विवक्षिते सति अन्योन्याश्रयप्रसङ्गादित्यत आह ॥ तानीति ॥ तानीन्द्रियाणि सर्वाणि संयम्य विषयेभ्य उपसंहृत्य, मत्परः अहमेव भगवान् कृष्ण ऎव परः सर्वोत्कृष्टो यस्य स मत्परः । भगवानेव सर्वोत्तम इति ज्ञात्वा । युक्तः । समाध्यर्थस्य युजे रूपम् । भगवति मनो युञ्जान इत्यर्थः । आसीत तिष्ठेत् । अयं भावः । यद्यपि इन्द्रियजये परोक्तः प्रत्याहारादिः साधारणप्रयत्नो न साधनम् । नापि निराहारत्वादिकं प्रागुक्तमशक्यं । तथाऽपि तत्प्रतिनिधिना महाप्रयत्नेन जेयानि । तत्र भगवतः सर्वोत्तमत्वज्ञानपूर्वं तस्मिन्नेव निरन्तरं मनोयोजनं इन्द्रियजये मुख्यं साधनम् । निराहारत्वादिकं तु वस्तुगतिप्रदर्शनार्थमेव उक्तमिति । तदर्थं सार्धश्लोकद्वयेन इन्द्रियजयरूपोपोद्घात उक्तः । अथ इदानीं महाप्रयत्नेन साधिते इन्द्रियजयस्य ज्ञानसिद्धिः फलमित्याह ॥ वशे हीति ॥ यस्य वशे इन्द्रियाणि वर्तन्ते तस्य प्रज्ञा प्रतिष्ठितेति । यत ऎवं महायाससाध्येन्द्रियजयफलं ज्ञानमत ऎवायासभीरुर्जनो न तत्साधयतीति, न तु ज्ञानस्योक्तलक्षणाभावादिति श्लोकत्रयतात्पर्यार्थः । अत्र उक्तमिन्द्रियजयस्य ज्ञानरूपं फलं न साक्षादिति `रागद्वेषवियुक्ते' रित्यादौ व्यक्तीभविष्यतीति ज्ञेयम् ॥ 61/2 ॥
श्रीगीताविवृत्ति ः :- मत्परो युक्त आसीतेति ।हरिसर्वोत्तमज्ञानपूर्वं तस्मिन्नेव मनोयोजन- मिन्द्रियजयस्य मुख्यं साधनम् । ``रागद्वेषवियुक्ते"रिति वक्ष्यमाणदिशा रागादिपरिहारोऽप्यपरं साधनम् । तत्र रागादेर्यत्कारणं यच्च फलं तदुभयज्ञाने सति तत्परित्यागो भवत्यतः तद् उपोद्घातत्वेन तदुभयमाह ॥ ध्यायत इति श्लोकद्वयेन ॥ तथाऽपि ``वीतरागभयक्रोध" इति रागादिराहित्यं ज्ञानिलक्षणत्वेनोक्तम् । तथाऽपि तस्य तत्सिद्धम् । जिज्ञासुना च साध्यं । अतः तत्परिहाराय तत्कारणफलयोरुक्तिर्नायुक्तेति ज्ञेयम् । विषयान् रूपादीन् हितबुद्ध्या ध्यायतः पुंसः तेषु विषयेषु सङ्ग आसक्तिर्भवति । आसक्त्या च तेषु कामः सञ्जायते अधिको भवति । कामाच्च केनचित्प्रतिहतात् क्रोधोभवति ॥ 63/2 ॥ किञ्च क्रोदाद्भवति संमोहः अकार्येच्छा, परवित्तापहरणाद्यधर्मे धर्मबुद्धिरित्यादि मिथ्याज्ञानं वा । संमोहादुक्तद्विरूपात् स्मृतिविभ्रमः क्रमात् प्रतिषेधादि स्मृतिनाशः `परवित्तापहरणादेरधर्मत्वाद्य'भिधायकश्रुत्याद्यर्थस्य पूर्वं स्वयं ज्ञातस्यापि अन्यथा स्मरणं वा। स्मृतिभ्रमाद् बुद्धिनाशः येन पूर्वं निर्णीतदोषबुद्धेः सर्वात्मना नाशो भवति । तन्नाशात् तेन च अधर्माकरणाच्च प्रणश्यति नरकाद्यनर्थं प्राप्नोति । ऎतदुक्तं भवति ,रागद्वेषयोः परम्परया नरकाद्यनर्थप्राप्तिः फलमिति ज्ञानेन तत्परिजिहीर्षायां, विषयध्यानं परम्परया तत्कारणमिति ज्ञानेन तदकरणात् रागद्वेषयोरनुत्पाद इति ॥ 63/2 ॥
श्रीगीताविवृत्ति ः :- अस्त्वेवमुक्तदिशा रागद्वेषपरिहारः । ततः किमित्यतस्तस्येन्द्रियजयाख्यं फलं इन्द्रियजयात् जायमानं फलं चाह ॥ रागद्वेषेति ॥यद्यपि इन्द्रियजयस्य ` वशो ही'त्यत्र ज्ञानं फलमित्युक्तं । तथाऽपि तन्न साक्षात् । किन्तु मनःप्रसादद्वारेति अत्र श्लोकद्वयेनोच्यत इत्यदोषः। अयमर्थः । य उक्तविधया त्यक्तरागद्वेषः स पुमान् रागद्वेषवियुक्तैः ताभ्यां अप्रयुक्तैरिन्द्रियैः चक्षुरादिबाह्येन्द्रियैः अत ऎवात्मवश्यैः स्वाधीनैः रूपरसादीन्विषयान् केवलदेहधारणमात्रार्थं चरन्ननुभवन्नपि । विधेयात्मा विधेयः स्वाधीनः आत्मा मनो यस्य स तथा तादृशो भूत्वा प्रसादं मनसः स्वतोऽपि प्रायो विषयागतिलक्षणं प्रसादं अधिगच्छति प्राप्नोति । अत्र पादत्रयेण रागद्वेषपरिहारस्य इन्द्रियजयाख्यं फलमुक्तम् । रागद्वेषाप्रयुक्तत्वादेव इन्द्रियाणां विधेयात्मत्व हेतुनाऽऽत्मवश्यत्वस्येन्द्रियाणा मुक्त्या तज्जयस्य प्रतितेरात्मवश्यत्वस्य स्वात्मनः क्षोभमानापादकत्व रूपत्वात् । विषयांश्चरन्नित्युक्तिस्तु , इन्द्रियजयकारणत्वं निराहारत्वस्य प्रागुक्तमयुक्तम्, अशक्यत्वादित्याशङ्क्य देहधारणमात्रोपयुक्तविषयानुभवो न दोषायेति वक्तुम् । इन्द्रियजयस्याख्यवहित फलोक्तिर्विधेयात्मा प्रसादमधिगच्छतीति ॥ 64/2 ॥
श्रीगीताविवृत्तिः :- प्रसादे सति किं स्यादित्यत आह । प्रसाद इति । प्रागुक्तरूपमनःप्रसादे सति अस्य प्रसन्न चेतसः पुंसः आशु शीघ्रं बुद्धिर्बह्मापरोक्षज्ञानं पर्यवतिष्ठति सम्यग्भवति । ततश्च अस्यापरोक्षज्ञानिनः सर्वदुःखानां हानिरुपजायते, हि प्रसिद्धमेतत् ``तरति शोकमात्मवित्" (छा. 7-1-3) इत्यादौ इति। अत्र प्रसादे सति बुद्धिः पर्यवतिष्ठतीत्येतावत्येव वक्तव्ये सर्वदुःखानां हानिरिति ज्ञानफलस्याप्युक्तिः `बुद्धियुक्तो जहातीह' इत्यत्र सुकृतदुष्कृतहानस्य ज्ञानफलत्वोक्तिरयुक्ता । सुखदुःखप्राप्तिपरिहारयोः अन्यतरत्वाभावेनापुमार्थत्वात् इत्याशङ्कानिरासाय प्रसङ्गात्प्राप्तेति ज्ञेयम् ॥ 65/2 ॥
श्रीगीताविवृत्तिः :- श्रवणमननाभ्यामुपकृतेन ध्यानेनैव ब्रह्मापरोक्षज्ञानसिद्धेः किमनेन प्रसादेन इत्यतः प्रसादाभावे दोषमाह ॥ नास्तीत्यादि श्लोकद्वयेन ॥विपक्षेदोषोक्तिपरत्वात् मनःप्रसादाभावे युक्तिशब्दित चित्तनिरोधो न भवतीत्येतत्प्रकरणप्राप्तमादौ योज्यम् । ``नास्ति बुद्धि'रित्येतदग्रे योज्यम् । अयुक्तस्य चित्तनिरोधहीनस्य भावना ध्यानं न भवति । अभावयतश्चाध्यायिनश्च बुद्धिरपरोक्ष ज्ञानं न भवति । न चाबुद्धेरिति शेषः । अपरोक्षज्ञानहीनस्य च शान्तिर्मुक्तिर्नास्ति । अशान्तस्यामुक्तस्य च सुखं कुतः न कुतोऽपीत्यर्थः । अबुद्धेःशान्तिर्नेत्येतावत्येव वाच्येऽशान्तस्य कुतः सुखमित्युक्तिर्न केवलमपरोक्षिणो मुक्तौ सर्वदुःखप्रहाणमात्रं किन्तु संसारिभिरलभ्यं परमं सुखं चेति ज्ञापयितुं प्रसङ्गाप्राप्तेति ज्ञेयम्। यद्वा शान्तिर्भगवदेकनिष्ठबुद्धिता । सुखं मोक्षः ॥ 66/2 ॥
श्रीगीताविवृत्ति ः :- अयुक्तस्यभावना नत्ययुक्तम् । कृतश्रवणमननस्य पुंसो ध्यानोपपत्तिरित्यत आह । इन्द्रियाणामिति । चक्षुरादि इन्द्रियाणां स्वैरं विषयेषु चरतां गच्छतामनुपृष्ठभावितया मनो विषयान्प्रति विधीयते ईश्वरेण क्रियते यत्तन्मनस इन्द्रियाणां पृष्ठभावितया ईश्वरेण करणं अस्य पुंसः प्रज्ञां परोक्षनिश्चयं हरति । उत्पत्स्यत्यपरोक्षज्ञानं निवारयति । उत्पन्नमपि ज्ञानं चित्तनिरोधहीनस्य न ध्यानोपयोगी सदपरोक्षज्ञानाय प्रभवतीत्यर्थः । कथम् । अम्भसि वायुर्नावमिव प्लवमिवेति ॥ 67॥
श्रीगीताविवृत्तिः :- प्रजहातीत्यादिनोक्तज्ञानिलक्षणस्यासम्भवनिरासाय ज्ञानस्य महाप्रयत्नसाध्येन्द्रियनिग्रहसाध्यत्वं `विषयाविनिवर्तन्त' इत्यादिना यदुक्तं तदुपसंहरति । तस्मादिति । यस्मादेवं निगृहीतेन्द्रियस्यैव उक्तरूपः प्रसादः , प्रसादवत ऎव चित्तनिरोधरूपा युक्तिः , युक्तिमत ऎव श्रवणमनने, ताभ्यां तत्वनिश्चयः तत्वनिश्चयवत ऎवापरोक्षसाधनं ध्यानम् । तस्मात् हे महाबाहो सर्वश इन्द्रियाणि सर्वाण्यपीन्द्रियाणि इन्द्रियार्थेभ्यः रूपादिसर्वेन्द्रियविषयेभ्यो यस्य निगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता । प्रसादयुक्ति श्रवण- मननतत्वनिश्चयध्यानप्रणाड्या अपरोक्षधीः प्रतिष्ठिता प्रकर्षेण जायत इति ॥ 68/2 ॥
श्रीगीताविवृत्तिः :- `स्थितप्रज्ञस्य का भाषेति' पृष्ठं ज्ञानिलक्षणं `प्रजहातीत्यादि' श्लोकचतुष्टयेन उक्त्वा , तस्यासम्भवं च `विषया' इत्यादि श्लोकनवकेनोक्त्वा `तस्मादित्यनेन' तदुपसंहृत्येदानीं `स्थितधीः किं प्रभाषेते'त्युत्तरार्धे भाषणादि प्रवृत्तिं परमानन्दतृप्तः किमर्थं करोतीति कृतज्ञानिप्रवृत्त्याद्याक्षेपस्य उत्तरं आह ॥या निशेति ॥ यद्वा `प्रजहातीत्यादि' श्लोकचतुष्टये विक्षिप्तोक्तं ज्ञानिलक्षणं पिण्डीकृत्याह ॥या निशेति ॥ या भूतानां प्राणिनां निशेव निशा परमेश्वरस्वरूपलक्षणा यत्परमेश्वरस्वरूपं प्राणिनां निशास्थानीयमिति यावत् । निशायां सुप्तानीव न किञ्चित्भगवत्स्वरूपं जानन्तीति भावः । तस्यां भगवत्स्वरूप- लक्षणायां प्राणि -निशायां संयमी इन्द्रियसंयमयुक्तो ज्ञानी जागर्ति । भगवत्स्वरूपं सम्यगापरोक्ष्येण पश्यति । यस्यां विषयलक्षणायां भूतानि जाग्रति रूपादिविषयेष्वासक्त्याऽनुभववन्तो वर्तन्ते प्राणिनः सा निशा मुनेर्मननवतः । अत ऎव पश्यतोऽपरोक्षिणः सा निशेव निशा । न किञ्चिज्जानातीत्यर्थः । तथात्वे भाषणभिक्षाटनादि प्रवृत्त्यनुपपत्तिरिति चेत् । प्रारब्धकर्मणेषत्तिरोहित- ब्रह्मस्वरूपस्य वासनया प्रायोऽल्पाभिसन्धिपूर्वकं प्रवृत्तीनां मत्तस्येवोपपत्तेरिति भावः । एतेन नित्यं भगवदेकचित्ततया तदितरत्राभिसन्धिहीनत्वं ज्ञानिलक्षण- मित्युक्तं भवति । ऎतच्च देवेतरज्ञानिलक्षणं बोध्यम् । अन्यथा सर्वप्रेरकाणां देवानामपि ज्ञानित्वात्तेषां भगवदितरत्राभिसन्ध्यभावे लोकयात्रोच्छेदापत्तेः । शब्दक्रमात् अर्थक्रमस्य बलवत्त्वात् । मुनेः पश्यत इति व्यत्यासेन मुनेर्मननवतः पश्यत इति पौर्वापर्येण योजना । ततश्च तयोर्~हेतु- र्~हेतुमद्भावलाभः । स च मननादेः प्राक् दर्शनसाधनत्वस्य स्पष्टमनुक्तेः इह प्रसङ्गादुक्त इति ॥ 69/2 ॥
श्रीगीताविवृत्तिः :- ननु ज्ञानिनो बाह्यानुसन्धानहीनस्य मत्तस्येव युज्येतापि कथञ्चिद्रमनादिकम् । विषयानुभवस्तु दृश्यमानः कथं स्यात् । तस्य नियतसाधनसाध्यस्यानुसन्धानेन विनाऽनुदयात्, इत्यतो ज्ञानिना क्रियमाणविषयानुभवप्रकारमाह ॥ आपूर्यमाणमिति ॥ नानानदीजलैरापूर्यमाणमपि अचल प्रतिष्ठं सरित्प्रवेशाद् वृद्धिविशेषहीनतया स्वभावत ऎव स्थितम् ।सरितामप्रवेशनिमित्तशेषहीनं च । सरित्प्रवेशार्थं यत्नहीनं चेत्यपि ध्येयम् । समुद्रमापो यद्वद्यथा प्रविशन्ति तद्वत् तथा यं ज्ञानिनं विषयैरापूर्यमाणत्वे वा अनापूर्यमाणत्वे वा उत्सेकानुत्सेकहीनं कामाः विषयाः प्रविशन्ति स ज्ञानी शान्तिं मोक्षम्। आप्नोति । न तु कामकामी कुत्सितविषयेच्छावान् शान्तिमाप्नोतीत्यर्थः । यद्वा विषय- भोक्ताऽकामी कथमुच्यत इत्यत उक्तम् ॥ न त्विति ॥ ऎवं विषयाननुभवन्स ज्ञानी न कामकामी ॥ 70/2 ॥
एतत् श्लोकोक्तं प्रपञ्चयति ॥ विहायेति ॥ यो निःस्पृहो निषिद्धस्पृहाहीनः, निर्ममः स्वामित्वाभिमानहीनः निरहङ्कारः भक्षयामीति कर्तृत्वाभिमानहीनः चरति भक्षयति भक्षयामीति कर्तृत्वाद्य- भिमानत्यागेन विषयाननु भवतीत्यर्थः । स ऎव पुमानन्यः पशुरिति वा स पुमान् शान्तिमधिगच्छतीति वा ज्ञानिन इयं स्तुतिः ॥ 71/2 ॥
श्रीगीताविवृत्तिः :- ``प्रजहाती"त्यादिनोक्तं ज्ञानिलक्षणप्रकरणं समापयति । ऎषेति ॥ ऎषा `प्रजहातीत्यादिनोपक्रान्ता` `या निशे'त्यत्र निष्कृष्योक्ता ब्राह्मी ब्रह्मविषया स्थितिः । सर्वकामप्रहाणनित्यभगवदनुस्मृत्यादिरूप ब्रह्मज्ञानिलक्षणरूपा स्थितिरिति यावत् । ऎनामुक्तरूपां स्थितिं प्राप्य न मुह्यति । भववेदनानुभववान्न भवति । अन्तकालेऽपि देहत्यागकाले भगवदनुस्मृत्या तद्देहपातानन्तरमेव मुक्तिः प्रारब्धसत्वे तु देहान्तरं प्राप्येति भावः । तथा च सूत्रम्- ` भोगेनत्वितरे क्षपयित्वाऽथ सम्पत्स्यत "(4-1-19) इति । ब्रह्मपदेन विरिञ्चोपादानव्यावृत्तर्थं निर्वाणमिति विशेषणम् । परब्रह्मप्राप्तेरेव मोक्षत्वादिति भावः ॥ 72 ॥
॥ इति श्रीमद्गीतार्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते द्वितीयोऽध्यायः ॥
श्रीमध्वेशार्पणमस्तु ॥
********************************************************************************
<लन्ग्=सन्>श्रीराघवेन्द्रतीर्थगुर्वन्तर्गत श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
॥ श्रीगुरुराजो विजयते ॥
अथ तृतीयोऽध्यायः ॥
`ऎषा तेऽभिहिता साङ्ख्ये'(2-39) इत्यन्तेन `न त्वेवाहं' (2-12) इत्यादिना ग्रन्थेन जीवेश्वर स्वरूपमुक्त्वा , तद् ज्ञानोपायं च `योगेत्विमां शृण्वि'ति(2-39) प्रतिज्ञापूर्वं `त्रैगुण्यविषया वेदा' (2-45) इत्यादिनोक्त्वा `कर्मजं बुद्धियुक्ता हि'(2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दित योगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः, पौर्वापर्यं ध्येयम् । `दूरेण ह्यवरं कर्म'(2-49) इत्युक्ते लब्धावसरः पृच्छति - ज्यायसी चेति ॥ ``दूरेण ह्यवरं कर्म बुद्धियोगात्, कृपणाः फलहेतवः' (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि । हे जनार्दन ! ते तव मता तत् तर्~हि कर्मणि किं किमर्थं मां नियोजयसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजयसीत्यन्वयः । अयं भावः -- `सर्वं एते पुण्यलोका भवन्ती'त्यादि फलश्रवणेन सर्वकर्मणां `हतो वा प्राप्स्यसि स्वर्गं' (2-37) इत्यादि युद्धस्यापि काम्यत्वात्तेषां च बुद्धियोगादवरत्वात्, यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, `शान्तो दान्त' इत्युपक्रम्यात्मानं पश्येदिति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भवेत्येव नियोक्तव्यम् । नतु काम्यकर्मणि युद्धे युद्ध्यस्व भारतेति नियोजनं युक्तमिति । अत्र केशवशब्दार्थ उक्तः प्रथमाध्याये । न जायते अर्दयति च संसारमिति दशमभाष्ये । नञः परनिपातः अत ऎव नलोपाभावः । उत्तरपदे परतः तस्य स्मरणात् इति तट्टीकोक्तदिशा च जनार्दनशब्दार्थो ध्येयः इति ॥ 1 ॥
ननु `बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं(न्धं) प्रहास्यसीति'(2-39) बुद्धिपदोक्तयुद्धाख्यकर्मणोऽपि ज्ञानार्थत्वमुक्तमिति चेत् । तर्~हि व्यामिश्रेण क्वचित्कर्मप्रशंसा क्वचिद् ज्ञानप्रशंसेत्येवम्, यद्वा युद्धस्य क्वचित्स्वर्गार्थत्वं क्वचिद् ज्ञानार्थत्वमित्येवं व्यामिश्रेण सन्देहोत्पादकेन वाक्येन मे बुद्धिं मोहयसीव डोलायमानं करोषीव । यदि कामिनो युद्धं स्वर्गार्थं अकामिनो ज्ञानार्थं इति चेत्तथाऽपि यतिधर्म ऎव नियोगो युक्तो नतु वैकल्पिके युद्धे । अतो येनाऽहं श्रेयोऽवाप्नुयां, तदेकं निश्चित्य वदेति ॥ 2 ॥
यद्यपि सर्वकर्माण्याश्रमत्रयविहितानि काम्यकामिभेदेन चेति वैकल्पिकानि । यतिधर्मास्तु शमादयः केवलमकाम्याः युद्धकर्मेव नरकाद्यनर्थहेतुरागद्वेषाद्युपेताश्च न भवन्ति, तथाऽपि तेषां अनाधिकारिकविषयत्वात्, तव च जनकप्रियव्रतादेरिव अधिकारिकत्वात् । `सुखदुःखे समे कृत्वा' (2-38) इत्यत्रोक्तदिशा भगवद्भक्त्या स्वधर्मत्वेनानुष्ठाने पापानवाप्तेर्वैकल्पिकेऽपि युद्धकर्मण्येव नियोज्य इति भावेनाद्यप्रश्नस्योत्तरमाह - लोक इत्यादिना ॥ द्वितीयस्य तु श्रेयानित्यादिनाऽग्रे ध्येयम् । अस्मिन् लोके साधकवर्गे निष्ठा स्वरूपेण स्थितिः मुक्तिरिति यावत् । यद्वा निष्ठा नितरां संसारगतिनिवृत्तिर्द्विविधा द्विप्रकारा द्विविधसाधनसाध्येत्यर्थः । पुरा मया प्रोक्ता । हे अनघेति सम्बुद्धिः । कथमित्यत आह- साङ्ख्यानां ज्ञानप्रधानानां देवानां सनकादियतीनां च । ज्ञानयोगेन, प्राचुर्याद् ज्ञानस्योक्तिः । अप्रचुरकर्मोपेत प्रचुरज्ञानोपायेन जपध्यानादिना निष्ठामुक्तिः , योगिनां कर्मरूपोपायवतां कर्मयोगेनाप्रचुरज्ञानोपेतेन प्रचुरकर्मोपायेन निष्ठा मुक्तिः । योगिनामित्यनन्तरमिति शब्दोऽध्याहार्यः । अत्र भगवद् ज्ञानिनामपद्युभयेषां न ज्ञानमात्रेण स्वयोग्ययावदानन्दानुभवरूपसम्पूर्णमुक्तिः अपि तु कर्मसमुच्चितेनैव । तत्र केचन सनकादयोयतयः स्वगतज्ञानकर्मणोर्मध्ये ज्ञानप्रचुराः सन्तो मुक्तिभाजः । केचित्तु जनकप्रियव्रतादयो गृहस्थाः स्वगतज्ञानकर्मणोर्मध्ये प्रचुरकर्माणः सन्त ऎव मुक्तिभाजो भवन्ति । अधिकारिकतया तथैव भगवता क्लृप्तत्वात् । तथा च त्वमप्याधिकारिक इति कर्मणि विनियोज्य एवेति भावः । अत्र नीरमिश्रक्षीरे क्षीरशब्दप्रयोगवत् प्राचुर्याभिप्रायेण ज्ञानयोगेन कर्मयोगेनेत्येकैकोक्तिरिति ज्ञेयम् ॥ 3 ॥
यतिधर्माः शमादय ऎवनुष्ठेयाः नतु गृहिधर्माः । तत्रापि न घोरं युद्धकर्मेति वादिनं पार्थम्प्रति तव जनकादेरिवाधिकारिकत्वात् वर्णाश्रमोचिताः धर्मास्त्वयाऽनुष्ठेया एवेत्युक्तम् । इदानीं कर्म न कार्यमिति वदतः किं कर्माकरणप्राप्यत्वहेतुना मुक्तेर्नैष्कर्म्यशब्दवाच्यत्वात् तदन्यथाऽनुपपत्त्या कर्म न कार्यमित्यभिप्रायः । उत कर्मणः संसारबीजत्वात्तदकरणं मुक्तिहेतुरिति । `कर्मणाबध्यते जन्तुरि'ति स्मृतेः कर्मणो मुक्तिप्रतिबन्धकत्वाद्वा । आद्यं निराह -- नेति ॥ कर्मणामनारम्भादकरणान्नैष्कर्म्यं कर्माकरणप्राप्यत्वहेतुना नैष्कर्म्यशब्दवाच्यं मोक्षमश्नुत इति यत् त्वयोक्तम्, तत् नभवति । कुत इत्यत उक्तम् -- पुरुष इति ॥ पुराणि शरीराणि सरति प्राप्नोतीति पुरुसः । पुरुस ऎव पुरुषः । हेतुगर्भमिदम् । सदा सूक्ष्मेण स्थूलेन वा देहेन युक्तत्वादिति । कर्माकरणमात्रेण मोक्ष इति पक्षे कदाचित्कर्मानधिकारि(र)शरीरस्यापि सम्भवेन तद्देहे कर्माकरणनिमित्तमोक्षप्राप्त्याऽधुना दृश्यमानं पुरुषत्वं न स्यादिति भावः । नैष्कर्म्यशब्दवाच्यत्वं तु काम्यकर्माप्राप्यत्वनिमित्तेनोपपन्नम् । मया तु निवृत्तकर्मण्येव नियोगः क्रियत इति भावः । द्वितीयमपि निराह- नेति ॥ कर्मणामनारम्भादकरणान्नैष्कर्म्यं काम्यकर्माप्राप्यं मोक्षमश्नुते, संसारबीजभूतकर्माभावादिति त्वयोक्तं यत्तन्न । कुतः पुरुष इति । प्राग्वदेवार्थः । अनादौ संसारे कर्माधिकृतानन्तजन्मसम्भवेन सदा पुरुष शब्दितदेहयुतत्वात्तत्र कृतानन्तकर्मणां भावेनाद्यतनदेहावच्छेदेन कर्माकरणमात्रेण संसारबीजाभावकृतमोक्षाशा कुतः स्यादिति भावः । तृतीयपक्षनिरासस्तु ``यज्ञार्थात्कर्मणोऽन्यत्र" इत्यादौ वक्षते । ननु ``निष्कामं #101;XञXानपूर्वं तु" इति स्मृतौ निवृत्तकर्मणा(णो) मोक्ष उच्यते । तस्य मोक्षहेतुत्वे फलान्तराभाव ऎव युक्तिर्न त्वन्या । तथा च कर्माकरणस्यापि फलान्तराभावरूपयुक्तिसाम्यात्, आयासाभावरूपगुणवत्त्वाच्च, कर्माकरणादपि मोक्षः स्यात् । ``ऎवं त्वयि नान्यथेतोऽस्ती"त्यादौ श्रुतः कर्माकरणे प्रत्यवायस्तु अमुमुक्षुविषयतयोपपन्न इत्यत आह-- नचेति ॥ सन्नयसनात् काम्यकर्माकरणादेव, तन्मात्रादिति यावत् । अनेन निवृत्तकर्मकरणमुपलक्ष्यते । निवृत्तकर्मकरणमात्रात् सिद्धिं मोक्षं पुरुषो न समधिगच्छति न प्राप्नोति । किन्तु तेनान्तःकरणशुद्धिविषयवैराग्यश्रवणमनन- ध्यानज्ञानद्वारैव । ``निवृत्तं सेवमानस्तु ब्रह्माभ्येती"ति श्रु(स्मृ)तेरप्ययमेव अभिप्रायः । तथा च न तत्प्रतिबन्द्या कर्माकरणस्य मोक्षहेतुत्वं शङ्क्यमिति भावः । ननु यत्याश्रमधर्माणां श्रुत्यादिसिद्धे मुक्तिहेतुत्वे फलान्तरभाव ऎव युक्तिरिति तत्प्रतिबन्द्यास्तु कर्माकरणस्य मुक्तिहेतुत्वमित्यतोऽप्युक्तम् -- नचेति ॥ सन्नयसनाद्यत्याश्रमादेवेत्यर्थः । सतु भगवति मनःसमाधानद्वारा (तत्प्रीतिविशेषद्वाराद्वा) मुक्तिहेतुर्न फलान्तराभावत्त्वहेतुना । येन तत्प्रतिबन्द्याऽपि फलान्तराभावयुक्त्या कर्माकरणस्य मुक्तिहेतुत्वं शङ्क्येतेति । एतेन लोक इति पूर्वश्लोकोक्तदिशा न केवलमाधिकारिकत्वात्तव कर्मणि नियोगः, अपि तु कर्माकरणस्य त्वदुक्तरीत्या मुक्तिहेतुत्वाभावादपीति हेत्वन्तरमुक्तं भवति ॥ 4 ॥
किञ्च कर्मणेत्यादिस्मृतिबलात् कर्मणो मुक्तिप्रतिबन्धकत्वमिति तृतीयपक्षे स्मृतौ कर्मशब्दः सङ्कुचितवृत्तिरिति वक्ष्यमाणोपोद्घाततया कर्माणि सर्वात्मना त्यक्तुं न शक्यानीत्याह --- न हीति ॥ जातु कस्याञ्चिदवस्थायां क्षणमात्रमपि कश्चिदपि ज्ञोऽज्ञो वा अकर्मकृत्कर्माण्यकुर्वन्न तिष्ठति । कुत इत्यत उक्तम् - कार्यत इति ॥ सर्वः सर्वेण जनेन व्यत्ययात् । अवशः अवशेन ``अः इति ब्रह्म" (ै.आ. 2-3-8) इति श्रुतेः । विष्णुवशेनैव सता स्वतन्त्रकर्तृविष्ण्वधीनकर्तृताकेनैव (सता) कर्त्राप्रकृतिजैर्गुणैः सत्त्वादिभिर्विकार(कर्तृ)भूतैः कर्म कार्यते । स्वतन्त्रकर्ता भगवता विकारकर्तृसत्त्वादिभिश्च प्रेरितो जनः सदा किञ्चित्कर्म करोतीति हेतोरकर्मकृत् कोऽपि नेत्यर्थः ॥ 5 ॥
ननु शरीरयात्राद्यर्थकर्मणां त्यक्तुमशक्यत्वेऽपि यज्ञादिकर्मणां त्यक्तुं शक्यत्वात्तेषामस्तु त्यागः । न ह्यशक्यविषये शास्त्रप्रवृत्तिरस्ति । अतः ``कर्मणा बध्यत" इति कर्मत्यागपरे शास्त्रे कर्मशब्दो यज्ञादिकर्मपरो भविष्यतीत्यतो मन ऎव बन्धमोक्षयोः प्रयोजकं न कर्मकरणाकरणे इति भावेन मनस ऎव प्राधान्यमाह - - कर्मेत्यादि श्लोकाभ्याम् ॥ कर्मेन्द्रियाणि वाक् पाणिपादपायूपस्थानि । चक्षुरादीन्युपलक्ष्यन्ते । संयम्य निगृह्य यो मनसा इन्द्रियार्थान् रूपादीन् मनसा स्मरन्नास्ते वर्तते । स विमूढात्मा भ्रान्तः मिथ्याचारः कपटाचारः डाम्भिक उच्यत इत्यर्थः । यस्त्विन्द्रियाणि चक्षुरादिज्ञानेन्द्रियाणि मनसा नियम्य असक्तः फलेच्छाहीनः सन् कर्मेन्द्रियैः कर्मयोगं स्ववर्णाश्रमोचितकर्मरूपज्ञानोपायं आरमते करोति स विशिष्यते । पूर्वतनादधिको भवति । एतेन पूर्वश्लोके मनसो निग्रहाभावे बन्ध इत्यन्वयः, द्वितीये तु मनसो निग्रहे बन्धाभाव इति व्यतिरेक उक्तः । तथा पूर्वत्र मनसोऽनिग्रहे मोक्षाभाव इति व्यतिरेकः, द्वितीये तु श्लोके मनसोनिग्रहे मोक्ष इत्यन्वय इति बन्धापेक्षया मनसोऽनिग्रहनिग्रहयोरन्वयव्यतिरेकौ, मोक्षापेक्षया च व्यतिरेकान्वयावित्युक्तदिशाऽभिप्रेततया बन्धमोक्षयोर्मनोऽनिग्रहनिग्रहावेव प्रयोजकावित्युक्तं भवति । मनस ऎव प्रयोजकत्वज्ञापनाय मनसा स्मरन्नित्युक्तिः । अन्यथा स्मरणस्य मानसत्वाव्यभिचारान्मनसेति व्यर्थं स्यादिति ज्ञेयम् ॥ 6 ॥ 7 ॥
ततः किमित्यत आह- - नियतमिति ॥ हि यस्मादकर्मणः कर्माकरणात्कर्मानुष्ठानं ज्यायः प्रशस्ततमम् । अतो नियतं वर्णाश्रमोचितं कर्म कुरु । किञ्चाकर्मणः कर्माकुर्वतः ते तव शरीरयात्राऽपि देहनिर्वाहोऽपि न प्रसिद्ध्येदित्यर्थः ॥ 8 ॥
``कर्मणाबध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥" इति स्मृतेर्मुक्तिप्रतिबन्धकत्वात् कर्म न कार्यमिति प्राग्विकल्पितं तृतीयं पक्षं निराह -- यज्ञार्थादिति ॥ यज्ञो विष्णुः ``यज्ञो वै विष्णुरिति" श्रुतेः । तदर्थात् विष्ण्वर्थात् । यद्वा जानातीति ज्ञः । ``इगुपधज्ञाप्रीकिरः कः" स्वपरगताशेषविशेषज्ञत्वात्, ज्ञो विष्णुः । तेनोद्देशेन यातो विषयीकृतः स उद्देशो यज्ञः । विष्णु विषयोद्देशार्थात् कर्मणोऽन्यत्र विष्ण्वन्यविषये विष्णूद्देशादन्योद्देशविषये वा । अयं लोको जनः कर्मबन्धनः । ``कृत्यल्युटोबहुलमि"ति कर्तरि ल्युट् । कर्मबन्धनं बन्धकं यस्य स कर्मबन्धनः । अवैष्णवकर्मैव प्रतिबन्धकं न वैष्णवं कर्म । ``कर्मणो"ति स्मृतौ कर्मपदमवैष्णवकर्मपरं न तु कर्ममात्रपरम् । अत ऎव प्राक् ``नहि कश्चिदिति" श्लोके कर्मणेति स्मृतिबलात्कर्ममात्रं न करोमीति त्वया वक्तुमशक्यम् । स्मृतौ कर्मपदस्य सङ्कोचस्त्वयाऽप्यभ्युपेय इति भावेनाकर्मकृत् कोऽपि नास्ति । सदा भगवदादिप्रेरितः (किञ्चित् कर्म) कुर्वन्नेव सर्वोऽप्यास्ते इत्यसङ्कुचितवृत्तित्वे बाधकमुक्तम् । तथा शरीरयात्राऽपीत्यत्रापि देहनिर्वाहाभावो बाधक उक्तः । अतस्तदर्थं भगवत्पूजार्थं मुक्तसङ्गः फलकामनाहीनः सन् कर्म समाचर कुर्विति ॥ 9 ॥
वर्णाश्रमोचितकर्मणः सर्वथा कर्तव्यत्वे स्तुतिनिन्दापरकृतिपुराकल्परूपार्थवादं चाह -- सहेत्यादिचतुर्भिः श्लोकैः ॥ यज्ञैः सहवर्तन्त इति सहयज्ञाः ब्राह्मणादिप्रजाः पुरा सर्गादौ सृष्ट्वा प्रजापतिरुवाच । किमुवाचेत्यत आह --- अनेनेत्यादिना कारणादित्यन्तेन ॥ हे प्रजाः अनेन यज्ञेन यूयं प्रसविष्यध्वम् । इष्टकामानिति शेषः । स्वस्वाभिमतपुमर्थान् सम्पादयत । एष यज्ञः वो युष्माकमिष्टकामधुक् । कामा भोगाः तान्दोग्धीति कामधुक् । इच्छाविषयभोगप्रदोऽस्तु ॥ 10 ॥
कथमभीष्टकामदोग्धृत्वं यज्ञस्येत्यत आह-- देवानिति ॥ हे प्रजाः अनेन यज्ञेन यूयं देवान् भावयत । सम्भावयत, हविर्भिः तर्पयत । ते हविरादिभिस्तृप्ता देवा वो युष्मान् भावयन्तु । दृष्टकामदानेन तर्पयन्तु । ऎवमन्योन्यं भावयन्तो देवाश्च यूयं च परं श्रेयो मोक्षाख्यमवाप्स्यथ ॥ 11 ॥
<लन्ग्=सन्>ऎतदेव स्पष्ट(यन्)यितुं कर्माकरणे दोषमाह-- इष्टानिति ॥ यज्ञैर्भाविता देवा वो युष्मभ्यं इष्टान् भोगान् दास्यन्ति । तैः देवैर्दत्तान्नादींस्तेभ्यो यज्ञादिभिरप्रदाय यो भुङ्क्ते सः स्तेन ऎव चोर ऎव ॥ 12 ॥
ऎवमयजतो विनिन्द्य यजतः स्तौति --- यज्ञेति ॥ विष्णुतदितरदेवाराधनावशिष्टभोजिनः सन्तः सर्वकिल्बिषैः पापैः मुच्यन्ते । यद्वा वैश्वदेवादियज्ञावशिष्टभोजिनः सन्तः सर्वकिल्बिषैः ``खण्डिनी पेषिणी चुल्ली उदकुम्भी च मार्जनी । पञ्चसूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥" इत्युक्त पञ्चसूनाकृतदोषैर्मुच्यन्त इत्यर्थः । पुनरयजतो निन्दति --- भुञ्जत इति ॥ आत्मकारणात्स्वार्थमेव ये पचन्ति ते पापाः अघमेव अघनिमित्तमेव भुञ्जते तद्भोजनं पापहेतुरेवेत्यर्थःः । इति प्रजापतिरुवाचेति इति शब्दो योज्यः ॥ 13 ॥
वर्णाश्रमोचितकर्मणः सर्वथा कर्तव्यत्वे स्तुत्याद्यात्मकार्थवादं चतुर्भिरुक्त्वा, अधुना जगच्चक्रप्रवर्तकत्वरूपं हेत्वन्तरं विपक्षेऽनर्थोक्त्याऽऽह --- अन्नादित्यादि त्रिभिः श्लोकैः ॥ अन्नाद्भूतानि भवन्ति, रेतोद्वाराप्राणिन उत्पद्यन्ते । पर्जन्यादित्यादन्नसम्भवः वृष्टिद्वारा अन्नस्योत्पत्तिः । पर्जन्यो मेघचक्राभिमानी आदित्यः यज्ञाद्भवति । यज्ञशब्दोऽत्राज्यादिहविः परः । यजमानदत्तानां (दत्तेन) आज्यादि हविषामुपभोजनेनादित्यस्य बलाद्युपचयान्निमित्तादुपचारेण ``यज्ञाद्भवति पर्जन्य" इत्युच्यते । यद्वा पर्जन्यशब्देनादित्याभिमन्यमानं मेघचक्रमेव लक्षणया वा, ``जननात्परसस्यादेः पर्जन्यो मेघसन्तति"रिति (नारदीये) स्मृत्युक्तयोगवृत्त्या वा ग्राह्यम् । तच्च यज्ञाद्भ वति । हविर्भागेन परितुष्टादादित्यादुत्पद्यते । ``अग्नौ प्रस्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः " (नारदीये) इत्यादेः । वृष्टिर्वार्षिकमेघचक्रं जायत इत्यर्थः । यज्ञो देवतोद्देशेन द्रव्यत्यागरूपो ज्योतिष्टोमादिः कर्मसमुद्भवः । तदङ्गक्रिययोत्पद्यते ॥ 14 ॥
कर्म ब्रह्मोद्भवं परब्रह्मजन्यं विद्धि जानीहि । ब्रह्म परब्रह्म चाक्षरसमुद्भवम् । अक्षरशब्दितवेदाभिव्यङ्ग्यम् । वेदेन यथावदवगतमेव ब्रह्म सत्कर्म कारयतीति भावः । तानि चाक्षराणि भूत व्यङ्ग्यानीति शेषोक्त्या चक्रं ध्येयम् । तस्मादुक्तपरम्परया यज्ञाभिव्यङ्ग्यत्वात्सर्वगतं ब्रह्म ``नित्यं यज्ञे प्रतिष्ठितम्" इत्युच्यते । ऎवं च भगवतो यज्ञे प्रतिष्ठितत्वात् यज्ञानुष्ढानेन चक्रप्रवृत्तौ भूतस्थितिहेतुत्वनिमित्तसुकृतमिव भगवदभिव्यक्तिनिमित्तं च सुकृतं भवतीति भावः ॥ 15 ॥
ऎवं पुरातनैः प्रवर्तितं भगवतैव वा प्राणिनामिष्टसिद्धये प्रवर्तितं जगच्चक्रं इह लोके यो नानुवर्तयति कर्म न करोतीति यावत् । विश्वस्य चक्रेऽन्तर्भावात् कर्माकरणेन (कर्माकरणे) चक्राप्रवृत्तौ चक्रविनाशकत्वेन विश्वहन्तृत्वात् स अघायुः । तादर्थ्यात्ताच्छब्द्यम् । अघनिमित्तमायुर्यस्य स तथा । इन्द्रियारामः इन्द्रियैर्विषयेषु रतिमान् । हे पार्थ, व्यर्थमेव जीवति नरके मज्जतीत्यर्थः । यज्ञदानतपोरूपत्रिविधकर्मणां गृहस्थानामिव ब्रह्मचर्याद्याश्रमत्रयस्यापि विद्यादानाभयदानस्वभोक्तव्यान्नदानस्य च तथाऽध्ययनप्रवचनध्यानादिरूपवाचिकमानसिकयज्ञस्य तथा कृच्छ्रचान्द्रायणादि तपसः सत्वेन तेषामपि चक्रप्रवर्तनसम्भवो ज्ञेयः । उक्तं हि ``वाचिको मानसो यज्ञो न्यासिनां तु विशेषत" इत्यादि (नारदीये) ॥ 16 ॥
ऎवं ``न कर्मणामनारम्भात्" इत्यादिना ``सह यज्ञा" इत्यादिना चोक्तदिशा कर्माकरणतत्करणयोर्~हानिलाभौ चेत्तर्~हि परमेश्वरे असम्प्रज्ञातसमाधिरूपं मनःसमाधानमपि न कार्यं प्रसज्येत । तत्र कर्मलोपस्यावश्यकत्वादित्यत आह --- यस्त्विति ॥ तु शब्दः समाधिस्थत्वविशेष सूचकः । यस्त्वसम्प्रज्ञातसमाधिस्थः मानवोऽपरोक्षज्ञानी । मनुतेरवण् । आत्मरतिरेव । अत्रात्मशब्दः सर्वोऽपि परमात्मपरः । आत्मनि आत्मनो वा रतिमान् दर्शनजन्यसुखवान् । परमात्मविषयकदर्शनजन्यसुखवानेव न त्वन्यत्र रतिमानित्येवकारार्थः । भगवतोऽन्यत्र रतिराहित्यं न प्रायेणेति मन्तव्यं किन्तु सर्वात्मनेत्याह --- आत्मतृप्त इति ॥ आत्मना तृप्तः परमात्मप्रसादेनैव । तदन्यत्र सर्वात्मनाऽलम्बुद्धिमानित्यर्थः । अन्यत्रालम्बुद्धिरपि भगवत्प्रसादायत्तेति भावः । किञ्चातिशयितं सुखं दत्वा भगवानन्यत्र सर्वात्मनाऽलम्बुद्धिं उत्पादयतीत्यतोऽन्यत्रालम्बुद्धौ हेतुतया प्रागुक्तरत्याख्यमेव सुखमाह --- आत्मन्येव च सन्तुष्ट इति ॥ सम्यक् तुष्टिमान् सन्तुष्टः महासुखवानित्यर्थः । हेतुगर्भमिदम् । भगवद्दर्शननिमित्तकमहासुखत्त्वादन्यत्रालम्बुद्धिमानिति । भगवद्दर्शननिमित्तिकं महासुखं केन हेतुना स्यादित्यतस्सन्तुष्टत्वे हेतुः अत्मन्येवेति ॥ अधिकरणसप्तमी । आत्मनि स्थित ऎव सन् सन्तुष्ट इति । असम्प्रज्ञातसमाधिरूपयाऽऽत्मनि स्थित्यैव सन्तुष्टो न त्वन्येन केनापीत्येवकारार्थः । अत्र मानव इति उक्तिः अपरोक्षिण ऎवसम्प्रज्ञातसमाधिरिति द्योतयितुम् । यस्त्वेवंरूपः तस्य कार्य कर्तव्यं सन्ध्यावन्दनादिकं किमपि कर्म न विद्यते ॥ 17 ॥
ननु कर्मकरणाकरणयोर्लाभहानी चेत्तर्~हि समाधिर्न कार्यः प्रसज्येतेति चोदिते समाधिस्थस्य कार्यं न विद्यते इत्युत्तरं कस्मादुक्तम् । कर्मकृतिकाले त्वयाऽहमुद्बोधनीय इति कञ्चित्प्रत्युक्त्वा समाधौ स्थितः सन् तेन योगशास्त्रोक्तैरुपायैरुद्बोधितः कर्म करोतीत्येवोत्तरं कुतो नोक्तमित्यत आह --- नैवेति ॥ तस्यासम्प्रज्ञातसमाधिस्थस्य समाधिं विनेह कृतेन यज्ञादिकर्मणाऽऽत्मरत्याधिकस्तत्समो वाऽर्थः पुमर्थो नास्ति । ननु यज्ञादिकरणार्थं उत्थानाभावेऽपि नित्यनैमित्तिककर्माकरणे प्रत्यवायात् तत्करणार्थं समाधित उद्बोधनं आवश्यकमित्यत आह --- नाकृतेनेति ॥ तस्य समाधिस्थस्याकृतेन कर्मणा सन्ध्यावन्दनादि तत्तत् कालानुष्ठेयकर्माभावेन कश्चन दोष इति शेषः , नास्ति । ननु समाधिस्थस्याल्पस्य यज्ञादेरनुष्ठाने फलाभावेऽपि सन्ध्याद्यकृतौ प्रत्यवायाभावेऽपि गुरुदेवतादिषु पूजाकरणाकरणयोरर्थप्रत्यवायौ स्यातामेवातस्तत्सन्निधानप्राप्तौ उद्बोधनमावश्यकमित्यत आह --- न चेति ॥ अस्यासम्प्रज्ञातसमाधिस्थस्य । सर्वभूतेषु । विषयसप्तमीयम् । अर्थव्यपाश्रयः अर्थस्य व्यपाश्रयः प्राप्तिः येन दर्शनसम्भाषणपूजनादिव्यापारेण भवति सोऽर्थव्यपाश्रय इति व्यधिकरणबहुव्रीहिः । गुर्वादिविषयकदर्शन (सं)भाषणवन्दनादिव्यापारः पुमर्थप्राप्तिहेतुभूतः समाधिस्थस्य नास्तीत्यर्थः । चशब्दः पूर्वार्धोक्तसमुच्चये । गुर्वादिविषयव्यापारेणाप्यात्मरतितुल्यं सुखं न लभ्यत इत्यभिप्रायः । ऎवं तत्पूजाद्यकरणमपि समाधिस्थस्य नानर्थप्राप्तिहेतुरित्युपलक्ष्यते । यद्वा न केवलं चक्रप्रवर्तकत्वेन भूतस्थितिहेतुत्वात्कर्म कर्तव्यम् । किन्तु मुक्तस्यैवाकर्मत्वादमुक्तेनावश्यं कर्मकार्यमिति तस्मादित्यनेन वक्तुं अकर्मत्वं मुक्तस्यैवेत्याह -- यस्त्विति ॥ यस्तु मानवः प्राप्तज्ञानफलो मुक्तः आत्मरतिः आत्मना परमात्मना रतिः अभिव्यक्तस्वरूपानन्दो यस्य सः तथा । आत्मना परमात्मना तृप्तः कृतकृत्यः आत्मतृप्तः आत्मन्येव च सन्तुष्टः प्रीतिमान् । यद्वा तृप्तिसन्तोषशब्दयोः प्रीतिरूपैकार्थत्वेऽप्यात्मना तृप्तः प्रीतिमान् आत्मन्येव च सन्तुष्टः इत्येव (इत्येतावता) अर्थभेदो ध्येयः । तस्य तु तस्यैवेति तुशब्दोऽत्र योज्यः । मुक्तस्यैवकार्यं न विद्यते । ननु ``कृष्णो मुक्तैरिज्यते वीतमोहैः" इत्युक्तेर्मुक्तस्यापि कर्मकर्तव्यमित्यत आह --- नैवेति ॥ प्राग्वदेवार्थः स्वेच्छयैव करणं न विधिबद्धत्वेन । न वा फलापेक्षया, तस्यैव फलरूपत्वेन फलान्तराभावादिति भावः ॥ 18 ॥
<लन्ग्=सन्>तस्मादसम्प्रज्ञातसमाधिस्थस्य वा मुक्तस्यैव वाऽकर्मत्वेन त्वादृशेनावश्यं कर्मणः कर्तव्यत्वादसक्तः फलस्नेहरहितः सन् कार्यमवश्यकर्तव्यं कर्म सततं समाचर भगवत्पूजात्वेनानुतिष्ठ । ननु मुक्तस्य कर्मणा प्रयोजनाभावात् (यथा) कार्याभावः । ऎवं मुमुक्षोरपि कर्मणा फलाभावात्कार्याभावः किं न स्यादित्यत आह --- असक्त इति ॥ पुरुषः असक्तः कर्माचरन्नेव ज्ञानद्वारा परमाप्नोति हि यस्मात् तस्मात् मुक्तसमाधिस्थाभ्यामन्यस्य कर्मणा फलसत्वादस्त्येव कार्यमिति भावः ॥ 19 ॥
ननु ज्ञानादेव मोक्षसिद्धेः कथं ``असक्तो ह्याचरन्नेवेति" उच्यत इत्यतो मुक्तावानन्दातिशयार्थं विहितकर्मणोऽवश्यकर्तव्यतायां ज्ञानिनामाचरमपि प्रमाणयति --- कर्मणैवेति ॥ सहयोगे तृतीया । जनकादयो जनकप्रियव्रतादयो ज्ञानिनः कर्मणैव कर्मसहिता ऎव कर्म कुर्वन्त ऎव संसिद्धिं सम्पूर्णमोक्षमास्थिताः प्राप्ताः । ज्ञानमात्रात् मुक्तिसिद्धावपि तत्रानन्दातिशयार्थं कर्म कुर्वन्तीत्यर्थः । तृतीयायाः करणार्थत्वेऽपि कर्मणा करणेन संसिद्धिं मोक्षमाप्ता इत्यर्थः । लाङ्गलेन जीवाम इतिवत् ज्ञानद्वारकत्वाभिप्रायं करणत्वमिति । यद्वा संसिद्धिं ज्ञानं कर्मणा प्राप्ता इत्यर्थः । न केवलं ज्ञानिनामाचारात्कर्म कर्तव्यम् । किं त्वीश्वरप्रीतिद्वारा मुक्तिहेतुलोकसङ्ग्रहार्थत्वाच्च कर्म कार्यमित्याह --- लोकेति ॥ लोकानामज्ञजनानां कर्मणि प्रवृत्तिरूपं सङ्ग्रहमेवापि । न केवलं ज्ञान्याचारमित्यपेरर्थः । ऎवकारस्तु तिष्ठतु तावत्कर्मकरणेऽन्यो हेतुरित्यर्थसूचकः । सम्पश्यन् कर्म कर्तुमर्~हसि । जनस्य कर्मणि प्रवर्तनेन भगवत्प्रीतिः तथा च मोक्षे सुखातिशयः इति ज्ञेयम् । तदुक्तम् । ``अज्ञानां ज्ञानदं कर्म ज्ञानिनां लोकसङ्ग्रहात् । अद्धैव तुष्टिदं मह्यं सा मुक्तानन्दपूर्तिदा " इति (कृष्णसंहितायां) ॥ 20 ॥
कथं कर्मकरणेन लोकसङ्ग्रह इत्यत आह --- यद्यदिति ॥ श्रेष्ठो महात्मा यत्प्रमाणं कुरुते यद्वाक्यादिकं प्रमाणं सदपि लोके प्रमाणत्वेनानवगतं प्रमाणतया ज्ञापयतीत्यर्थः । यद्वा यत्प्रमाणमित्येकं पदं बहुव्रीहिः । यत्प्रमाणं लौकिकं वैदिकं वा कर्म कुरुते तदेव लोकोऽनुवर्तते अनुसरति ॥ 21 ॥
किञ्च प्रयोजनमात्रहीनेनापि मया केवलानुग्रहेण लोकसङ्ग्रहार्थं कर्म क्रियते मुक्तावानन्दवृद्धिप्रयोजनवता ज्ञानिना तत्कर्तव्यमिति किं वाच्यमिति भावेनाह --- न म इत्यादि त्रिभिः ॥ हे पार्थ ! किञ्चन कर्तव्यं नास्ति । यतस्त्रिषु लोकेषु प्रागप्राप्तं पश्चात् प्राप्तव्यं नास्ति । तथाऽपि कर्मणि वर्त ऎव । कर्म करोम्येव ॥ 22 ॥
यदि ह्यहं जातु कदाचिदतन्द्रितोऽनलसः कर्मणि न वर्तेयं न कर्म कुर्यां तर्~हि मम वर्त्म मार्गं कर्माकरणरूपं मनुष्याः सर्वशः सर्वेऽपि अनुवर्तन्ते अनुसरेयुः । मद् दृष्टान्तेन कर्म न कुर्युरित्यर्थः ॥ 23 ॥
ततः को दोष इत्यत उच्यते । अहं चेत्कर्म न कुर्यां तदा इमे लोकाः उत्सीदेयुः (नश्येयुः) कर्मलोपेन नरकं प्राप्नुयुः । किञ्च कर्मलोपे सति ब्रह्मक्षत्रादिवर्णविवेको न स्यात् । अतो वर्णसङ्करस्य च कर्ता स्यां भवेयम् । ऎवमहमेव प्रजाः उपहन्यां हतवान् भवेयम् ॥ 24 ॥
ननु अज्ञवदाग्रहेण ज्ञानिनाऽपि कर्मकार्यं चेद्विद्वदविद्वत्कर्मणोरविशेषप्रसङ्ग इत्यत आह --- सक्ता इति ॥ हे भारत ! अविद्वांसोऽज्ञाः कर्मणि सक्ताः अभिनिविष्टाः फलेच्छावन्तः सन्तो यथा कर्म कुर्वन्ति तथा विद्वान् ज्ञान्यपि असक्तः फलेच्छाहीनः सन् लोकसङ्ग्रहं चिकीर्षुः कर्म कुर्यादित्यर्थः । सक्त्य सक्तिपूर्वकत्वेन कर्मानुष्ठानं तयोर्विशेष इति भावः ॥ 25 ॥
अज्ञानां कर्मणि सक्तिं जनयितुमपि ज्ञानिना कर्म कार्यमित्याह --- न बुद्धीति ॥ अज्ञानां भगवत्स्वरूपमजानतां कर्मसङ्गिनां कर्माभिनिवेशिनां बुद्धेर्भेदं विपर्यासं न जनयेत् । कर्मानुष्ठानाद् बुद्धेश्चालनं न कुर्यात् । विद्वान् युक्तो भगवति मनोयोगवान् तत्पूजात्वेनेति यावत्, कर्म समाचरन् सर्वकर्माणि जोषयेत् । सेवयेत् अज्ञानिति शेषः ॥ 26 ॥
ज्ञान्यज्ञानिनोः सक्ता इत्यादिश्लोकद्वयोक्तं कर्मानुष्ठानवैलक्षण्यं प्रपञ्चयति -- प्रकृतेरित्यादि श्लोकत्रयेण ॥ अत्र प्रकृतिशब्देन जीवस्वभावेश्वरजडप्रकृतयो ग्राह्याः । प्रकृतेः प्रकृष्टकृतिमत्त्वहेतुना प्रकृतिपदवाच्यस्य हरेः गुणैरिच्छाज्ञानप्रयत्नादिरूपगुणैर्धर्मैः स्वतन्त्रैः । तथा प्रकृतेः उत्तममध्यमाधमरूपजीवराशिस्वभावस्य गुणैरनुगुणैः तत्त्वज्ञानमिश्रज्ञानमिथ्याज्ञानादिरूपधर्मैरीशाधीनैः । तथा प्रकृतेः जडप्रकृतेः सम्बन्धिभिः गुणैस्तत्कार्यभूतैः सत्त्वरजस्तमोगुणैः प्रकृतेर्विकारभूतैर्देहेन्द्रियान्तःकरणरूपगुणैः क्रियमाणानि कर्माणि साधुकर्ममिश्रकर्मासाधुकर्माणि प्रति अहङ्कारविमूढात्मा सन् कर्ताऽहं स्वतन्त्रकर्ताऽहमिति मन्यते । ईश्वरः स्वतन्त्रकर्ता सन् स्वज्ञानेच्छादिना स्वाधीनकर्ता त्रिविधजीवस्वभावमनुसृत्य प्रकृतिविकारजीवकरणैः प्रकृतिकार्यसत्त्वादिगुणरूपोपादानकारणेन कर्म कारयति । तत्क्रियमाणकर्मणामहमेव स्वतन्त्रकर्तेत्यात्मानं अज्ञो जनो मन्यत इत्यर्थः ॥ 27 ॥
ऎवमविद्वान् करोति चेत् विद्वान् कथमित्यत आह - तत्त्वविदिति ॥ गुणकर्मविभागयोः गुणानमिच्छादिभगवद्गुणानां सत्त्वादिप्रकृतिगुणानां प्रकृतिविकारतया प्रकृत्युपसर्जनभूतचक्षुरादीन्द्रियशरीरमनसां चान्योन्यमुक्तविधया विभागस्य तथा कर्म च स्वतन्त्रभगवत्कर्तृकं तदायत्तजीवकर्तृकं विकाररूपप्रकृतिकर्तृकं चेति कर्मविभागस्य तत्त्ववित्तु तत्त्वज्ञानी तु गुणा भगवदिच्छादयः गुणेषु जीवस्वभावकर्मादिषु प्रेरकत्वेन वर्तन्ते । भगवदिच्छाद्यनुसारेण च गुणा इन्द्रियाणि गुणेषु शब्दादि विषयेषु वर्तन्ते । अतो जीवस्य न क्वापि स्वातन्त्र्यमिति मत्वा न सज्जते । स्वात्मनः कर्तृत्वाभिमानेन संसारमग्नो न भवतीत्यर्थः ॥ 28 ॥
स्वात्मनः स्वतन्त्रकर्तृतां मन्यमानाः अविद्वांसः ज्ञानिना बोधनीया इत्यत आह --- प्रकृतेरिति ॥ प्रकृतेरीश्वरस्येच्छादिगुणैः कर्तृभूतैः । प्रकृतेर्जडस्य कार्यभूतसत्त्वादिगुणैर्निमित्तैः प्रकृतेर्जडस्य विकारभूतगुणेष्विन्द्रियेषु सम्मूढाः ममैवैतानि करणानि इति तेषु स्वातन्त्र्याभिमानिनः अत ऎव गुणकर्मसु गुणेषु शब्दादिविषयेषु सज्जन्ते स्नेहातिशयवन्तो भवन्ति, स्वकर्मसु च सज्जन्ते स्वातन्त्र्यभ्रमवन्तो ये तानकृत्स्नविदः गुणकर्मविभागाज्ञान् मन्दानयोग्यजनान् स्वयं कृत्स्नविद् ज्ञानी न विचालयेत् । गुणकर्मसु सङ्गं त्याजयित्वा सन्मार्गे न प्रवर्तयेदित्यर्थः । ``शब्दाद्या इन्द्रियाद्याश्च सत्त्वाद्याश्च शुभानि च" इत्यादेः गुणशब्दोऽनेकार्थो ध्येयः ॥ 29 ॥
ऎवमद्वित्कर्मणो विद्वत्कर्मणोऽनभिमानेनानुष्ठानरूप वैलक्षण्य मुक्त्वेदानीं तवापि ज्ञानित्वात्तथैवानुष्ठेयं कर्मेत्याह --- मयीति ॥ अध्यात्मचेतसा आत्मानं परमात्मानं ममाधिकृत्य स्थितमध्यात्मं, अध्यात्मं च तत् चेतश्च तदध्यात्मचेतसः तेनेति वा । अधि अधिकं स चासावात्मा चाध्यात्मा । अध्यात्मनि चेतोऽध्यात्मचेतः तेनेति वा । सर्वाधिकपरमात्मभूतमन्निष्ठमनसा निराशीः विष्णुभक्तिज्ञानाद्यन्यकामरहितः निर्ममः कर्मण्यहमेव स्वातन्त्र्येण करोमीति स्वतन्त्रकर्तृताऽभिमानहीनो भूत्वा सर्वाणि कर्माणि मयि संन्यस्य भगवान् कृष्ण ऎव मयि स्थित्वा सर्वकर्माणि करोतीति ज्ञात्वा तानि च श्रीकृष्ण पूजारूपाणीति मयि समर्प्य विगतज्वरः त्यक्तशोकः सन् युध्यस्वेति । तदुक्तम् -- `` नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलं" (ब्रह्मतर्के) इत्यादि ॥ 30 ॥
विद्वांस ऎवं कर्म कुर्वन्तीत्येतावता मयाऽप्युक्तविधया कार्यमिति कुत इत्यतः स्वोक्तस्य करणे अकरणे च फलमाह- - ये म इत्यादि श्लोकद्वयेन ॥ ये मानवाः श्रद्धावन्तः मद्वाक्येष्वास्तिक्यबुद्धिमन्तः, अनसूयन्तः कष्टे कर्मणि प्रवर्तयतीति मयि दोषदृष्टिमकुर्वन्तः सन्तः इदं पूर्वोक्तश्लोकोक्तरीत्या कर्मानुष्ठानरूपं मे मतं नित्यमनुतिष्ठन्ति तेऽपि कर्मभिर्निवृत्तकर्मभिर्मुच्यन्ते, ज्ञानद्वारेति योज्यम् । किमुतापरोक्षज्ञानिनो मुच्यन्त इति कैमुत्यसूचनार्थोऽपि शब्दः । ऎतत्सूचनं च प्रासङ्गिकं ध्येयम् ॥ 31 ॥
ये तु ऎतन्मे मतं अभ्यसूयन्तः कष्टं कर्मेति दोषदृष्टिमन्तः सन्तोनानुतिष्ठन्ति तानचेतसः विवेकशून्यात् अत ऎव ज्ञातव्यसर्वज्ञानविषये विमूढान् विशेषेण मिथ्याज्ञानिनः अत ऎव नष्टान् नरकाद्यनर्थभाजो विद्धि जानीहि ॥ 32 ॥
यदि त्वन्मतानुष्ठाने मोक्षः अन्यथा तु नाशः तर्~हि ते मतं किमिति लोको नानुतिष्ठतीत्यत आह --- सदृशमिति ॥ प्रकृतिशब्दोऽत्रपूर्वसंस्कारार्थः सन् तत्कार्यरागद्वेषोपलक्षकः । ज्ञानवानपि मन्मतकरणाकरणयोरिष्टानिष्टज्ञानवानपि । स्वस्याः प्रकृतेः स्वकीय पूर्वसंस्कारकार्यरागद्वेषयोः सदृशमनुगुणमेव चेष्टते । कर्म करोति । किमुताज्ञ इत्यपेरर्थः । ननु मनोनिग्रहे स्वभावानुगतचेष्टोपरतिः स्यादित्यत आह -- प्रकृतिमिति ॥ प्रकृतिं स्वभावं यान्ति प्राणिनः । तत्र मनोनिग्रहः किं करिष्यति न किमपीत्यर्थः । तदुक्तम् - ``बुध्वाऽप्यसौ यतो नित्यस्वभावानुगचेष्टितः । स्वभावं यान्ति भूतानि निग्रहः किं करिष्यति" (प्रकाशसंहितायां) इति । यद्वा मन्दान्न विचालयेदित्ययोग्येषु तत्त्वबोधो न कार्य इत्युक्तम्, तत्कुत इत्यत आह -- सदृशमिति ॥ प्रागिवार्थः । तत्त्वोपदेशेनोत्पन्नज्ञानवानपि स्वभावानुगुणचेष्टावानेव भवति । न तूपदेशजन्यज्ञानानुरूपचेष्टावानपि भवति । अतस्तत्र तत्त्वोपदेशो व्यर्थ इति भावः ॥ 33 ॥
यदि सर्वाणि भूतानि स्वभावानुगुणमेव चेष्टन्ते निग्रहोऽकिञ्चित्करः, तर्~हि `मयि सर्वाणि' इत्यत्र इतिकर्तव्यतापूर्वं कर्मविधानं `ये मे मतं' इत्यादिना तस्य फलोक्तिश्च व्यर्थेत्यत आह --- इन्द्रिस्येति ॥ जात्येकवचनम् । इन्द्रियाणां चक्षुरादीनामर्थेषु रूपादिषु इन्द्रियाणां रागद्वेषौ अनुकूले रागः प्रतिकूले द्वेषश्चेत्येवं रागद्वेषौ व्यवस्थितौ अवश्यम्भाविनौ । लोभमोहमदमत्सराणामुपलक्षणम् । प्राधान्याद् द्वयोरेवोक्तिः । तदनुरूपा च प्राणिनां चेष्टेति निग्रहोऽकिञ्चित्करो यद्यपि, तथाऽपि तयो रागद्वेषयोः रागादिषड्वर्गवशं न गच्छेत् न प्राप्नुयात् । कुतः ? हि यस्मादस्य श्रेयोऽर्थिनः तौ परिपन्थिनौ श्रेयोविघातकौ पापहेतू चात इत्यर्थः । निग्रहात्सद्यः फलाभावेऽप्यतिप्रयत्नवतो भवत्येव फलमिति भावः । उक्तं हि ``संस्कारो बलवानेव" इत्यादि ऎतच्च योग्यजनविषयं ध्येयम् ॥ 34 ॥
``ज्यायसि चेत्" इत्यत्रार्जुनेन कर्मैव न कार्यम् । तत्रापि नरकाद्यनर्थहेतुरागद्वेषोपेततया घोरं युद्धाख्यं कर्म तु नैव कार्यमिति कृताक्षेपद्वयमध्ये प्राथमिको ``लोकेऽस्मिन्" इत्यादिनोत्तरितः । द्वितीयस्तु अधुना ``युद्धस्व विगतज्वरः" । ``तयोर्न वशमागच्छेत्" इत्याद्युक्त्या स्मारितः सन् परिह्रियते --- श्रेयानिति ॥ स्वधर्मः स्ववर्णाश्रमोचितो धर्मः विगुणः अङ्गहीनोऽपि स्वनुष्ठितात् सर्वाङ्गसाकल्येन कृतात् परधर्मादन्यवर्णाश्रमोचितधर्मादपि श्रेयानधिकतरः । कुतः स्वधर्मे युद्धादौ निधनमपि श्रेयः श्रेष्ठतरम् । परधर्मः वर्णाश्रमान्तरधर्मस्तु भयावहः । निषिद्धत्वात् अनर्थप्रापको यतोऽत इत्यर्थः ॥ 35 ॥
``तयोर्न वशमागच्छेत्" इत्यत्रातिप्रयत्नवतः पापहेत्वरिषड्वर्गजयः शक्य इत्युक्तम् । तेषु को बलवान् ? तं महाप्रयत्नेन जेष्यामीति भावेन पृच्छति --- अथेति ॥ `मयि संन्यस्य कर्माणि' इत्यादावुक्तसेतिकर्तव्यताककर्मकर्तव्यतारूपप्रकृतप्रमेये पापहेतु प्रश्नोऽनुपयुक्तः । तथाऽपि ``तयोर्न वशं" इत्यर्धे कामाद्यरिषड्वर्गस्य पापहेतुत्वोक्त्या स्मारितस्तेषु प्रबलपापहेतुप्रश्नोऽयं प्रासङ्गिक इति भावेन गीताकृता प्रकृतादर्थादर्थान्तरद्योतकोऽथशब्दः प्रयुक्तः । यद्वा ``प्रकृतेः क्रियमाणानि" इत्यत्रेश्वरस्य सर्वप्रेरकत्वोक्त्या तत्प्रेरकत्वस्य पार्थस्य देवत्वेन देवानां प्रेरकत्वस्य च ज्ञाततया तत्र प्रश्नायोगात्, इन्द्रियस्येत्यत्र रागशब्दितकामाद्यरिषड्वर्गस्य प्रवर्तकत्वोक्त्या परमेश्वरात् देवजाताच्चाथानन्तरं कामादिषट् सु बलवत्प्रश्नोऽयमिति द्योतनादानन्तर्यवाचो वाऽयमथशब्दः । तथा चायमर्थः । अथ परमेश्वराद्देवेभ्यश्चानन्तरं अयं पुरुषः पापाचारमनिच्छन्नपि बलान्नियोजित इव पापं चरति । स कामादिषु केन बलवता प्रयुक्तः प्रेरितश्चरति । हे वार्ष्णेय वृष्णिकुलोद्भव इति ॥ 36 ॥
काममूलत्वात् सर्वेषां स ऎव बलवानित्याह -- काम एष इति ॥ एष त्वया पृष्टः पुरुषस्य पापेषु बलवान् प्रवर्तक इत्यनूद्य काम इति विधीयते । एष कामः एष क्रोधः । ``कामात् क्रोधोऽभिजायत"(2-62) इत्युक्तेः कामजत्वात् क्रोधस्य, कार्यकारणयोः, ``गोभिः श्रीणीत मत्सरम्" इत्यादाविवाभेदोपचारेणेयमुक्तिः । स च क्रोधो रजोगुणात्समुद्भवतीति स तथा कामनिमित्तको रजोगुणपरिणाम इत्यर्थः । क्रोध इत्युपलक्षणम् । तथा च कामनिवृत्तौ तन्मूलाः क्रोधादयः पापहेतवो निवर्तितुं शक्यन्त इति कामनिवृत्तावेवातिप्रयत्नः कार्य इति भावः । कामस्य यावदपेक्षितं दत्वा जेतव्यः स इत्यतः कामं विशिनष्टि । महाशनः महदशनं भोग्यं विषयो यस्य स तथा । महान् पाप्मा पापं ब्रह्महत्यादिरूपं यस्मात्स तथा । इह ऐहिकामुष्मिकपुरुषार्थविषये । एनं कामं वैरिणं नित्यं अशुभेष्वेव प्रवर्तकतया मोक्षविरोधित्वात् शत्रुभूतं विद्धि जानीहि । कामाभिमानी कालनेमिर्ज्ञेयः ॥ 37 ॥
अशुभप्रेरकेषु क्रोधाद्यभिमान्यसुरेषु कामः कथं बलवानित्यत आह - धूमेनेत्यादि श्लोकद्वयेन ॥ वह्निर्यथा धूमेनाव्रियते तथा तेन कामेनेदं उत्तमजीवजातं किञ्चिदावृतम् । यथा चादर्शो दर्पणो मलेनावृतः तथेदं मध्यमजीवजातं तेन कामेनाधिकमावृतम् । यथा च गर्भः उल्बेन गर्भवेष्टनचर्मणाऽऽव्रियते आच्छाद्यते तथेदमधमजीवजातं तेन कामेनात्यन्तमावृतम् । त्रिविधस्यापि जीवजातस्य यथायोग्यं यथावत्तया परापरतत्त्वज्ञान प्रतिबन्धकः काम इत्यर्थः । यद्वा इदमित्यनेन ईश्वरान्तःकरणजीवाख्यं वस्तुत्रयं ग्राह्यम् ॥ वह्निर्यथा धूमेनाव्रियते तथेश्वरो जीवगतकामेनावृतः । प्रकाशरूपोऽप्यग्निर्धूमेनावृतोऽन्यैर्यथा न दृश्यते तथेश्वरः स्वयं सर्वं जानन्नपि नान्यैर्ज्ञायत इत्यर्थः । आदर्शो मलेनेवान्तःकरणं कामेनावृतम् । यथाऽऽदर्शो मलेनावृतो मुखाद्यभिव्यक्तिहेतुर्न भवति, तथा जीवान्तःकरणं कामावृतं सदीश्वरं जीवं वा न प्रकाशयतीत्यर्थः । यथोल्बेनावृतो गर्भः तथा कामेनावृतो जीवः, उल्बेन वेष्टितो गर्भो यथा व्यापाराक्षमस्तथा जीवोऽपि कामेनावृतो नेश्वरादिज्ञाने क्षम इत्यर्थः ॥ 38 ॥
ऎवं ज्ञेयस्येश्वरादेः ज्ञानकरणस्य मनसः ज्ञातुर्जीवस्य प्रतिबन्धकः काम इत्युक्त्या ज्ञानोत्पत्तिप्रतिबन्धकत्वमुक्तम् । इदानीं शास्त्रतो जातमपि ज्ञानं स्वकार्यापरोक्षज्ञानाय न प्रभवतीत्याह --- आवृतमिति ॥ ज्ञानिनः शास्त्रजनितज्ञानिनोऽपि ज्ञानं कामावृतं भगवदपरोक्षज्ञानाय न प्रभवति । किमु गुरूपदेशमात्रजज्ञानवत इति सूचनाय ज्ञानिन इत्युक्तम् । अन्यथा ज्ञानस्य ज्ञानिसम्बन्धाव्यभिचारात् ज्ञानिन इत्युक्तिर्व्यर्था स्यात् । केनावृतं ज्ञानमित्यत उक्तम् - कामरूपेणेति ॥ रूप्यते निरूप्यते अनेनेति रूपमाख्या, काम इति रूपमाख्या यस्य तेन कामरूपेण कामाख्येन नित्यवैरिणासदाऽपकारिणा दुष्पूरेण दुःखेन पूरयितव्येन । न केवलं दुष्पूरः किं त्वनलेन न विद्यतेऽलं तृप्तिर्यस्य सोऽनलः । तेन महतो भोगस्य विषयस्य प्राप्तावपि अधिकेच्छयाऽलम्बुद्धिहीनेनेत्यर्थः ॥ 39 ॥
यदर्थमर्जुनेन पापप्रवर्तकेषु बलवान् पृष्टः उत्तरितश्च तस्य बलवतः कामस्य शत्रोर्वधार्थमधिष्ठानमाह --- इन्द्रियाणीति ॥ अस्य कामाख्यशत्रोरिन्द्रियाणि चक्षुरादीनि मनो बुद्धिश्चाधिष्ठानम् । प्राधान्यज्ञापनाय मनोबुद्धयोः पृथगुक्तिः । अधिष्ठानतां व्यनक्ति --- ऎतैरिति ॥ ऎतैर्मनोबुद्धीन्द्रियैर्विषयसंसृष्टैरेष कामाख्यशत्रुर्ज्ञानमावृत्य ज्ञानजन्म प्रतिबध्येति वा, जातमपि ज्ञानं कार्याक्षमं कृत्वेति वाऽर्थः । देहिनं जीवं विमोहयति ॥ 40 ॥
हि यस्मात् हे भरतर्षभ त्वमिन्द्रियाण्यादौ नियम्य विषयसङ्गतान्यकृत्वा सङ्गतत्वे वा मनोबुद्ध्योर्विषयस्पर्शं अकृत्वा तयोर्विषयसंस्पर्शेऽपि क्षोभं अप्राप्येति वाऽर्थः । ज्ञानविज्ञानयोर्नाशनं यस्मात् पाप्मानं पापहेतुमेनं कामं प्रजहि हतं कुरु । हृताधिष्ठानो हि शत्रुर्नाशयितुं शक्य इति प्रसिद्धिद्योतको हि शब्दः । इन्द्रियजयः कामहननोपाय इति भावः ॥ 41 ॥
शत्रुहनने आयुधरूपं ज्ञानं ``ऎवं बुद्धेः" इत्युत्तरश्लोके वक्तुं ज्ञानविषयमाह --- इन्द्रियाणीति ॥ शरीरादिन्द्रियाणि पराणि । उत्कृष्टानीत्यर्थः । ``इन्द्रियेभ्यः पराह्यर्थाः अर्थेभ्यश्च परं मनः" इत्यध्याहारेण योजना ध्येया । तथा ``यो बुद्धेः परतस्तु स" इत्यत्र बुद्धेरात्मा महान् परः । महतः परमव्यक्तं योऽव्यक्तात्परतस्तु स इत्यपि ध्येयम् । स परमात्मेत्यर्थः । `इन्द्रियेभ्यः परा ह्यर्थाः' इत्यादि काठकश्रुतेः (3-10) । अस्यार्थस्तु --
``देवेभ्य इन्द्रियात्मभ्यो ज्यायांसोऽर्थाभिमानिनः ।
सोमवित्तपसूर्याप्या अश्व्यग्नीन्द्रेन्द्रसूनवः ॥
यमो दक्षश्चेन्द्रियेशाः सौपर्णी वारुणी तथा ।
उमेति चार्थमानिन्यस्तिस्रो द्विद्येकदेवताः ॥
मनोऽभिमानिनो रुद्रवीन्द्रशेषास्त्रयोऽपि तु ।
ते श्रेष्ठा अर्थाभिमानिभ्यस्तेभ्यो बुद्धिः सरस्वती ॥
तस्या ब्रह्मा महानात्मा ततोऽव्यक्ताभिधा रमा ।
तस्यास्तु पुरुषो विष्णुः पूर्णत्वान्नैव तत्समः ॥" इत्यादि काठकभाष्यात्, तथा `'सर्वेभ्यः प्रवरा देवा" इत्यादि तात्पर्यवाक्याच्चावसेयः ॥ 42 ॥
ऎवं तारतम्यान्तगत्वेन ज्ञेयमुक्त्वा तद् ज्ञानमाह --- ऎवमिति ॥ ऎवमुक्तदिशा बुद्धेर्महतोऽव्यक्ताच्च परं बुद्ध्वा आत्मानं मनः आत्मना बुद्ध्या संस्तभ्य निश्चलं कृत्वा दुरासदं दुःखेनासादनीयं निवर्तनीयमिति यावत् । कामरूपं शत्रुं जहि हतं कुरु हे महाबाहो इति ॥ 43 ॥
॥ इति श्रीगीतार्थसङ्ग्रहे राघवेन्द्रयतिकृते निवृत्तकर्मरूप, ज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपप्रपञ्चनं नाम तृतीयोध्यायः ॥
(टिप्पणि-
ऎवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ॥
अघायुरिन्द्रियारामोऽमोघं पार्थ स जीवति ॥ 16 ॥
सदाचारस्मृति, तद्विवरणरूप अस्मकृताह्निकपद्धत्युक्तप्रकारेण, ब्राह्ममुहूर्तादारभ्य पुनः ब्राह्मकालपर्यन्तं (सूर्योदयात्प्रहर पूर्वं) सदाचरणचक्रस्य प्रवर्तकाप्रवर्तकयोस्तुतिनिन्दापरमिदमेव पद्यम् ॥ तत्र स्तुतौ, ना, इति, अमोघं, इति पदच्छेदः ॥ अघसाधन जीवनेन्द्रियेषु न रमतेऽसौ तथेति, अपृथक्पदतृतीयचरणार्थः, निन्दायां तु प्रसिद्ध ऎव -- इति श्रीपाङ्गरी आचार्यकृत `ऎवं प्रवर्तित'मिति पद्यव्याख्यानम्)
॥ श्रीमध्वेशाभिन्नश्रीकृष्णार्पणमस्तु ॥
****************************************************************
गीताविवृतिः
चतुर्थोऽध्यायः
न उपलब्धम् ।
************************************************************************************************************
गीताविवृतिः
पञ्चमोऽध्यायः
उपलब्धम् ।
**************************************************************************************
॥ श्रीमध्वेशाभिन्नश्रीकृष्णायनमः ॥
॥ श्रीगणेशान्तर्गत मध्वान्तर्गत विश्वम्भरमूर्तये नमः ॥
॥ अथ षष्ठोऽध्यायः ॥
`बुद्धिर्योगे त्विमां श्रुणु' (2-39) इति योगवचनं प्रतिज्ञातं द्वितीये । स च योग उत्तरषट्के वक्ष्यमाणभगवद् ज्ञानं प्रति उपायः । स च द्विविधः । कर्मयोगो ध्यानयोगश्चेति । तत्र कर्मयोगो ज्ञानं प्रति बहिर~घ्गोपायत्वात् `त्रैगुण्यविषया वेदा'(2-45)इत्यादिना द्वितीये स~घX क्षेपेण तृतीयाध्यायावतीतग्रन्थे विस्तरेण च पूर्वं निरूपितोऽधुना कर्मयोगसाध्यत्वात् वक्ष्यमाणज्ञानानन्तर~घ्गसाधनत्वाच्च अवसरप्राप्तं समाधियोगं `स्पर्शान्'(5-27) इत्यादिना पूर्वाध्यायान्ते स~घX क्षेपेण प्रकृतं विस्तरेणास्मिन्नध्याये वक्ति । आसनादीनाम~घ्गानां वक्ष्यमाणत्वेऽपि तेषां ध्यानार्थत्वेन ध्यानस्यैव प्राधान्यात् । `उद्धरेदात्मनात्मानमित्यादिना' ध्यानयोगं विधातुं तत्र ध्याने संन्यासयोगयुक्त ऎवाधिकारीति ज्ञापनाय कामादिवर्जनरूपसंन्यासं ईश्वराराधनरूपस्वकर्मानुष्ठानलक्षणयोगं चाह- अनाश्रित इति ॥ यः कर्मफलमनाश्रितः कार्यं स्वस्ववर्णाश्रमोचिततया कर्तव्यं कर्म करोति । स संन्यासी योगी च स एवच ध्यानाधिकारीति भावः । आहवनीयाद्यग्नित्यागेन अग्निहोत्रादिक्रियात्यागेन च निःस~घ्गतया वर्तमान ऎवध्यानाधिकारीति सा~घX ख्यमतमपाकरोति - नेति ॥ निरग्निकक्रियश्च संन्यासी योगी च नेत्यर्थः । यतेरपि `दैवमेवापरे यज्ञं'(4-25) इत्यादिनाऽग्निक्रिययोरुक्तत्वात् संन्यासाश्रमस्वीकारकाले पूर्वाश्रमस्वीकृताग्नेरात्मनि समारोपणाच्च सोऽपि संन्यासी योगी च भवत्येवेति भावः ॥ 1 ॥
`स संन्यासी च योगी चे'त्युक्त्या प्राप्तां तयोरत्यन्तभेदश~घ्कां निरसितुं अमुख्ययोगापेक्षया पृथगुक्तोऽपि संन्यासो मुख्ययोगान्तर्भूत इत्याह- यमिति ॥ `ज्ञेयः स नित्यसंन्यासी'त्यादिनोक्तप्रकारेण यं कामक्रोधादिवर्जनरूपं संन्यासं योगं मुख्ययोगं ज्ञानोपायभूतकामादिवर्जनविशिष्टनिवृत्तकर्मानुष्ठानरूपयोगान्तर्भूतं विद्धि जानीहि । हे पाण्डव कुतः कश्चन कोऽपि । असंन्यस्तस~घ्कल्पः अत्यक्तस~घ्कल्पादिः संन्यासहीनकर्मानुष्ठानमात्रवानिति यावत् । योगी ज्ञानोपायवान्न भवति । नहि सामग्य्रेकदेशः कार्यजनको भवति । क्वचित् पृथगुक्तिस्तु ज्ञानभक्त्यॊः; पृथगुक्तिरिवैकदेशापेक्षयेति भावः ॥ 2 ॥
ध्यानाधिकारत्वेनोक्तो मुख्यः कर्मयोगः किं सकृदनुष्ठेय उत फलप्राप्ति पर्यन्तमित्यतः फलपर्यन्तमित्याह- आरुरुक्षेरिति ॥ योगं ज्ञानोपायं आरुरुक्षः सम्पूर्णं कामयमानस्य मुनॆः परोक्षज्ञानिनः कर्म कारणमुच्यते । योगारोहरूपसाक्षात्कारस्येति योज्यम् । अपरोक्षरूपफलोदयपर्यन्तं कार्यमिति भावः । तस्यैव मुनेर्योगारूढस्य सम्पूर्णज्ञानोपायस्यापरोक्षज्ञानिनः शमः उपलक्षणं भगवन्निष्ठबुद्धित्वरूपध्यानव्याख्यानार्चनादिकं कर्म कारणं मुक्तिगतसुखातिशयस्येति योज्यम् । यद्यप्ययं प्रश्नो `यदा ते मोहकलिलं' (2-52) इत्यनेन द्वितीये परिहृतः । तथापि तत्र परोक्षज्ञानार्थिनोऽत्र तु योगारोहशब्दितसम्पूर्णोपायशब्दितापरोक्षज्ञानार्थिन इति भेद इति भावः । यद्वा योगारूढस्येत्युत्तरार्धे अपरोक्षज्ञानिनो ध्यानादिकं कर्मवक्तुं `यदा त' इति श्लोकोक्तस्यैव प्रश्नोत्तरस्य पूर्वार्धेनानुवाद इति ज्ञेयम् । यद्वा कर्मयोगमध्ये ज्ञानार्थिना कीदृशो योगोऽवश्यापेक्षित इत्यत आह- आरुरुक्षॆXरिति ॥ पूर्वार्धेन ज्ञानार्थिनः उत्तमाधममध्यमस्वरूपनानाजनशुश्रूषाख्यमेव कर्मावश्यापेक्षितमित्युच्यते । (ज्ञानार्थिनो यथाशक्ति त्रिविधप्राणिनां शुश्रूषयोपकारकृतः हरिस्तुष्टः स्वापरोक्षं ददाति । तेन तदवश्यं कार्यमित्युच्यते) चरमार्धेन तु ज्ञानिनो नानाजनशुश्रूषाख्यकर्मोपशम ऎवशमपदेनोच्यते । नतु ध्यानाद्युपशमः तत्तु कार्यमेवेत्युच्यते । शमपदस्योभयार्थत्वात् (तस्य स्वोत्तमसेवयैवेष्टसिद्धौ अन्यशुश्रूषया कृत्याभावात् ) ऎवं चात्र श्लोके पूर्वार्धे ज्ञानार्थिनः कर्मापेक्षितमित्युक्त्वोत्तरार्धे ज्ञानिनः शमपदेन कर्मोपशमोऽपेक्षित इत्युच्यते । तथा च `न निरग्निर्नचाक्रियो योगी'त्याद्युक्तिविरोध इति प्रत्युक्तं ध्येयम् । कर्मशमशब्दाभ्यां नानाजनशुश्रूषाख्यकर्मतदुपशमयोरेवात्र विवक्षितत्वादिति ॥ 3 ॥
योगरूढशब्दितसम्पूर्णोपायसिद्धिमतो लक्षणमाह- यदेति ॥ यदा हीन्द्रियार्थेषु शब्दादिविषयेषु कर्मसु च प्रयत्नं विनाऽपि नानुषज्जते । ननु कर्माननुष~घ्गो नाम कर्मस्वरूपत्याग ऎवतथा न `न चाक्रियो योगी'ति प्रागुक्तविरोध इत्यतः कर्माननुष~घ्गं स्वयमेव व्याख्याति- सर्वेति ॥ ज्ञानिनः कर्माननुष~घ्गो नाम सर्वकर्म(सु)स~घ्कल्पन्यास ऎव। सर्वेषु कर्मसु स~घ्कल्पत्यागी सन् कर्मसु नानुषज्जते यदा तदा योगरूढ उच्यते इति योजना । कर्मसु स~घ्कल्पत्यागो नाम ममतात्याग ऎव। स~घ्कल्प(ल्पाख्य) क्रियादिकं सर्व भगवदधीनमितिज्ञानमेव । ऎवं च स~घ्कल्पादॆः भगवदधीनताज्ञानेन हेतुना कर्मस्वनासक्तत्वे सत्यप्रयत्नेन शब्दादिविषयेषु अनासक्तत्वं योगारूढस्य लक्षणमित्युक्तं भवति । अप्रयत्नेनेति विशेषणाद्योगमारुरुक्षौ नातिव्याप्तिः । तस्यानसक्तेः प्रयत्नसाध्यत्वात् ॥ 4 ॥
यस्य ध्यानयोगस्य कामादिवर्जनरूपसंन्यासयुक्तस्ववर्णाश्रमोचितकर्मानुष्ठानवानधिकारी उक्तः । अपरोक्षाख्यफलपर्यन्तं कर्मानुष्ठानं चोक्तम् । स ऎवध्यानयोगोऽभियोगेन कार्य इत्याह-उद्धरेदिति ॥ आत्मना मनसा आत्मानं जीवमुद्धरेत् । पुमर्थभाजनं कुर्यात् । आत्मानं जीवं नावसादयेत् । न क्लेशभाजनं कुर्यात् । कुतः हि यस्मादात्मनो जीवस्यात्मैव मन ऎवबन्धुः रिपुश्च भवत्यत इति ॥ 5 ॥
यद्वा योगारोहितशब्दितयोगसम्पूर्तॆः भगवत्प्रसादो मुख्यसाधनमित्याह - उद्धरेदिति ॥ आत्मना परमात्मना । तत्प्रसादेनेति यावत् । आत्मानं जीवं प्राग्वदेव योजना । आत्मनो जीवस्यात्मैव परमात्मैव बन्धुः रिपुश्च हि यतः ॥ 5 ॥
कीदृशस्यात्मनः कीदृशं मनो बन्धुः रिपुश्चेत्यत आह- बन्धुरिति ॥ येनात्मना येन जीवेनेति समानाधिकरणं वा । येन जीवेन कर्त्रा आत्मना बुद् ध्या करणेनेति व्यधिकरणं वा । आत्मा मनः जितं वशीकृतं तस्यात्मनो जीवस्यात्मा मनः बन्धुरेवोपकार्येव भगवद् ध्यानोपयोगीति यावत् । अनात्मनस्तु अजितमनस्कस्य तु जीवस्य आत्मैव मन ऎवशत्रुवत् प्रसिद्धशत्रुरिव शत्रुत्वे अनुपकारित्वे वर्तेतेति मनोजयेन ध्यानयोगः कार्य इत्युक्तं भवति ॥
यद्वा
कीदृशस्य हरिर्बन्धुः रिपुश्चेत्यत आह- बन्धुरिति ॥ पूर्ववदेवार्थो योजना च । परन्तु प्रथमान्तात्मशब्दोऽत्र परमात्मपरः । आत्मना बुद् ध्येत्यत्र बुद् ध्युपलक्षितभक्त्येत्यर्थः । अनात्मनस्त्वित्यस्य भक्तिबलेनावशीकृतभगवत्स्वरूपस्य पुंस इत्यर्थः ॥ 6 ॥
ननु मनसो भगवतश्च वशीकरणे तावस्य बन्धू भवत इत्युक्तम् । केनोपकारेण तावस्य बन्धू । ``आत्मना आत्मानमुद्धरेदि"ति आत्मोद्धारं कुरुत इत्युक्तमितिचेत्स ऎवक इत्यत आह- जितेति ॥ जितात्मनः वशीकृतमनस्कस्य भक्त्या वशीकृतभगवत्स्वरूपस्य प्रशान्तिर्भवति । स्वत ऎवमनसो विषयेष्वप्रवृत्तिर्भवतीत्यर्थः । सम्पूर्णयोगसिद्धिमद्रूपो योगारूढो भवतीति यावत् ॥ 7 ॥
`यदा हि नेन्द्रियार्थेष्वि'त्यत्रापरोक्षिणो लक्षणोक्तावपीह लक्षणं स्पष्टयति- शीतोष्णेत्यादिसार्धश्लोकद्वयेन ॥ शीतोष्णादिद्वन्द्वधर्मेषु कूटस्थः कूटमाकाशं तद्वत् तिष्ठतीति कूटस्थः, उत्सेकानुत्सेकरूपविकारहीन इत्यर्थः । तत्र हेतुर्ज्ञाXनेत्यादि । वेदादौ सर्वत्र विष्णोरुत्कर्षज्ञानं ज्ञानमित्युच्यते । तदवान्तरमाहात्म्यविशेषज्ञानं विज्ञानमित्युच्यते । यद्वा परोक्षापरोक्षज्ञाने ज्ञानविज्ञानशब्दाभ्यां वाच्ये ताभ्यां तृप्तो विषयेष्वलम्बुद्धिमान् विजितेन्द्रियश्च यतोऽतः कूटस्थः समलोष्टाश्मकाञ्चनः योगीयोगं कुर्वन् युक्तः योगसम्पूर्ण इत्युच्यते ॥ 8 ॥
स ऎवच सुहृदादिषु समा भगवद्विषयिणी बुद्धिर्यस्य स समबुद्धिर्योगारूढः योगिवर्गात्सर्वस्माद्विशिष्यत इति । सुहृदादिषु सर्वत्रस्थितहरिरूपाणां गुणादिषु तारतम्यं नेति बुद्धिर्वा सुहृदि सुहृत्त्वमेव मित्रादिषु मित्रत्वादिकमेव ददाति नतु सुहृदि मित्रत्वं मित्रादौ सुहृत्वादिकमिति वैषम्येणातः सुहृदादौ सुहृत्त्वादिकमीशकृतमेव न स्वतन्त्रमिति वा भगवद्विषये समबुद्धिः । यद्वा सुहृदादि जीवविषये समा बुद्धिर्यस्येत्यर्थः तेषु समबुद्धित्वं नाम यत् सुहृत्त्वमित्रत्वादिकमस्ति तन्न स्वरूपान्तर्गतं किन्तु अन्तःकरणोपाधिकमेव देवदानवमानवभेदेन स्वतो विषमाणां चैतन्यस्वभावात्वमेकमेव सममिति बुद्धिमत्त्वमेवेति ज्ञेय्ं । अथवा सुहृदादिषु विषये शास्त्रेषु यथा यथा वृत्तिर्विहिता तथा तथा वर्तनं वर्तनज्ञानं वा सुहृदादिजीवेषु समबुद्धिर्ध्येया । प्रत्युपकारनिरपेक्षॊपकारकृत् सुहृत् । क्लेशस्थानं विज्ञाप्य ततो रक्षाकृन्मित्रम् । वधादिकर्ता अरिः । कर्तव्ये उपकारे अपकारे च य उदास्ते स उदासीनः । उपकारापकारोभयकृत् मध्यस्थः । अवाञ्छितकृद् द्वेष्यः । बन्धुरुपकर्ता ॥ 9 ॥
उद्धरेदित्यादिना विहितं ध्यानयोगमनूद्य तत्प्रकारमाह - योगीति ॥ योगी ज्ञXानोपायमनुतिष्ठन्नात्मानं मनः युञ्जीत भगवन्निष्ठं कुर्यात् । समाधियुक्तं कुर्यादिति यावत् । सततं निरन्तरं रहसि स्थित एकाकी स~घ्घशून्यः यतं नियमितं चित्तं मनः आत्मा देहश्च यस्य स यतचित्तात्मा, निराशीः कामनाहीनः परिग्रहोज्झतश्च भूत्वा कुर्यादिति ॥ 10 ॥
पुनर्ध्यानप्रकारमेवाह- शुचावित्याद्यनेकश्लोकैः । शुचौ देशे मनःप्रसादहेतुभूतदेशोपलक्षणमेतत् । चेलं वस्त्रं अजिनं व्याघ्रादिचर्म कुशो दर्भ उत्तरं उपरि यस्य तत्तथा नात्युच्छ्रितं नातिनीचं न समासः ऎवम्भूतमासनं स्थिरं यथाऽऽत्मनः प्रतिष्ठाप्य ॥ 11 ॥
तत्रासने उपविश्य । तदाह सूत्रे ` आसीनः सम्भवात्' (4-1-7) इति । यतचित्तेन्द्रियक्रियः सन् एकाग्रं मनः कृत्वा आत्मनो मनसो विशुद्धये सर्वमलदाहाय स्वस्य संसारमलनिवृत्तये वा योगं ध्यानयोगं युञ्जात् कुर्यादिति विध्यनुवादेन प्रकारोक्तिरियम् ॥ 12 ॥
कायशिरोग्रीवं कायो मध्यदेहः स च शिरश्च ग्रीवा च प्राण्यङ्गतय्वाद् द् वन्द्वैकवद्भावः । समं ऋजु धारयन् अचलं यथा तथा स्थिरो दृढः स्वं नासिकाग्रं सम्प्रेक्ष्य दिशश्चानवलोकयन् युञ्ज्यादिति पूर्वेण वा युक्त आसीतेत्युत्तरेण वाऽन्वयः ॥ 13 ॥
प्रशान्तात्मा स्वतो विषयेषु अप्रवृत्तमनस्कः विगतभीः व्याघ्रचोरादिभयहीनः ब्रह्मचारिव्रते स्थितः मनः सम्यक् प्रत्याहृत्य मच्चित्तो मद् ध्यानवान्मत्परः अहमेव परः सर्वोत्तमः यस्य स मत्परः युक्तः समाधिसम्पन्न आसीतेत्यर्थः ॥ 14 ॥
समाधेः फलमाह- यञ्जन्निति ॥ नियतमानसो यतचितः । योगो योगानुष्ठाता । ऎवमुक्तप्रकारेण सदाऽऽत्मानं युञ्जन् ध्यायन् आत्मानं मनो भगवति युक्तं कुर्वन्निति वा निर्वाणपरमां शरीरत्यागोत्तरकालीनां मत्संस्थां मयि स्थितिरूपां शान्तिमधिगच्छति प्राप्नोति । न जीवन्मुक्तिमात्रमाप्नोतीत्यर्थः ॥ 15 ॥
ध्यानयोगनिष्ठस्याहारादिनियममाह- नान्यश्नत इत्यादि द्वाभ्याम् । अति अधिकं भुञ्जानस्य एकान्तं सर्वथैवाभुञ्जानस्य चातिनिद्राशीलस्सयातिजाग्रतश्च योगो नैवास्तीत्यर्थः । अत्राशनजागरणनिषेधोऽशक्तस्य शक्तस्य त्वनशनादावपि न योगक्षतिरिति ज्ञXेयम् ॥ 16 ॥
कथम्भूतस्य योगो भवतीत्यत आह- युक्तेति ॥ युक्तौ योगोपेतौ आहारविहारौ भोजनसञ्चारौ यस्य स तथा तस्य, यावता श्रमादिर्न भवति तावदाहारव्यापारवत इत्यर्थः । कर्मसु कार्येषु युक्तचेष्टस्य श्रमानापादकचेष्टायुक्तस्य युक्तस्वप्नावबोधस्य यावन्निद्राऽवबोधौ योगाविघातकौ तावन्निद्रावबोधोपेतस्य योगो ध्यानयोगः समाधिरिति यावत् । दुःखहा भवतीत्यर्थः ॥ 17 ॥
योगसम्पूर्तिस्वरूपमाह- यदेत्याद्यनेकश्लोकैः ॥ यदा विशेषेण नियतं विषयेभ्यः प्रत्याहृतं चित्तमात्मन्येवावतिष्ठते सर्वकामेभ्यः निस्पृXृहश्च यदा तदा युक्तो योगसम्पूर्तिमानित्युच्यत इत्यर्थः ॥ 18 ॥
योगसम्पन्नः कथं तिष्ठतीत्यत आह- यथेति ॥ वायुशून्यदेशस्थो दीपो यथा ने~घ्गते न चलति । सा उपमा दृष्टान्तः कस्येत्यत उक्तम् - योगिन इति ॥ आत्मनो योगं भगवद्विषयसमाधिं युञ्जतः कुर्वतः योगिनः यतचित्तस्येति ॥ 19 ॥
योगसेवया निरुद्धं चित्तं यत्र समाधावुपरमते बाह्यव्यापारहीनं भवति । यत्र चैव यस्मिन्नेव समाधियोगो आत्मना मनसा आत्मानं भगवन्तं पश्यन्नात्मनात्मनि देहे तुष्यति तोषमाप्नोतीत्यर्थः। यच्छब्दयोस्तमित्यग्रेऽन्वयः एवमुत्तरत्रापि ॥ 20 ॥
यत्र समाधौ स्थितः बुद्धिग्राह्यं अनुभवेन वेद्यं अतीन्द्रियमिन्द्रियाग्राह्यं आत्यन्तिकमतिशयितं सुखं वेत्ति अनुभवति । यत्र योगे स्थितोऽयं तत्त्वतो भगवद्रूपान्न चलति तमित्यन्वयः ॥ 21 ॥यं योगं लब्ध्वा च ततोऽपरं लाभमधिकं न मन्यते तस्मिन् स्थितो गुरुणाऽपि दुःखेन दुःखहेतुना न विचाल्यते ॥ 22 ॥
तं दुःखसंयोगवियोगं दुःखसंयोगेन वियुज्यमानम् । दुःखसंयोगस्य वियोगो यस्मादिति वा । वियुज्यतेऽनेनेति वियोगः । करणे घञX । दुःखसंयोगोयस्य वियोग इति वा । योगसञ्ज्ञितं विद्यात् । संयोगपदेन न केवलमुत्पन्नदुःखं नाशयति किं तूत्पत्तिमेव निवारयतीति सूचयति । स योगः समाधिः निर्विण्णचेतसा विषयीविरक्तमनसा निश्चयेन योक्तव्योऽवश्यं कर्तव्य ऎव मुमुक्षुणेत्यर्थः । मुमुक्षोर्ध्यानायोगव्यवच्छेदार्थोऽयं निश्चयशब्दः । अयोगव्यवच्छेदविधानार्थमेव उद्धरेदित्यत्र विहितसस्यात्र पुनर्विधानम् ॥ 23 ॥
किञ्च स~घ्कल्पेन ऎतदर्थमिदं कुर्यादिति स~घ्कल्पपूर्वकानुष्ठानेन प्रभवो जन्म येषां तान्कामान् विषयभोगान् सर्वानशेषतो निःशेषतः त्यक्त्वा इन्द्रियग्रामं इन्द्रियसमूहं समन्ततः सर्वतः मनसैव विनियम्य, इन्द्रियनियमनं न मनसोऽन्येनेति ज्ञापनायैवकारः ॥ 24 ॥
मनश्च धृतिगृहीतया धैर्योपेतया धारणया ग्रहीतया वशीकृतयेति वा बुद् ध्या शनैः शनैरुपरमेत् । विषयेभ्यो व्यावर्तयेत् । भगवति रमतेति वाऽर्थः । किञ्चात्मसंस्थं भगवन्निष्ठं मनः कृत्वा बुद् ध्येत्यनुष~घ्गः । भगवतोऽन्यत्र किञ्चिदिति चिन्तयेत् ॥ 25 ॥
ध्यानेन मनोऽनवस्थितं चेत्प्रत्याहारेण वशीकुर्यादित्याह - यतो यत इति ॥ ``आद्यादिभ्य उपस~घX ख्यानमि"ति सप्तम्यर्थे तसिः । यत्र यत्र विषये स्वतश्चञ्चलं मनोऽस्थिरं सत् निश्चरति प्रवर्तते ततस्तत एतन्मनो नियम्य प्रत्याहृत्य तदात्मन्येव भगवत्येव वशं तन्निष्ठमेव नयेत् । कुर्यादित्यर्थः ॥ 26 ॥
ऎवं सा~घ्गयोगमभिधाय तदनुष्ठातुः फलं प्रपञ्चयति- प्रशान्तेति ॥ प्रशान्तमनसं स्वतो विषयेष्वप्रवृत्तमनसं शान्तरजसं विगतरजोगुणमत ऎवकल्मषं कामक्रोधादिदोषहीनं रजोजन्यत्वात्तेषां ब्रह्मभूतं `तद् बुद्धय' इत्युक्तदिशा ब्रह्मणि स्थितिमन्तमेनं योगिनं समाधियोगवन्तमुत्तमं सुखं कर्तृ उपैति प्राप्नोति । हि प्रसिद्धं श्रुत्यादावित्यर्थः ॥ 27 ॥
सुखमुपैतीत्युक्तसुखं किमायासेन प्राप्नोति कीदृशं च तदित्यतो व्यनक्ति- ऎवमिति ॥ विगतकल्मषो विगतरागादिदोषो योगो ऎवमुक्तदिशाऽऽत्मानं भगवन्तं युञ्जन् ध्यायन्(धारयन्) सुखेनाक्लेशेन ब्रह्मसंस्पर्श भगवत्सर्गाभिव्यक्तं अत्यन्तमतिशयितं सुखमश्नुते प्राप्नोति ॥ 28 ॥ ऎवं युञ्जन्निति ध्यानप्रकरणस्य फलकथनेनोपसंहृत्येदानीं ध्येयमाह- सर्वेति ॥ `भोक्तारमिति'(5-29) पञ्चमान्ते `मच्चित्तो युक्त आसीत' इत्यत्रैवाध्याये (6-14) ध्येयोक्तावपीहोत्तमाधिकारिणां ध्येयस्योक्तिरिति ज्ञXेयम् । आत्मानं परमात्मानं ब्रह्मादिसर्वप्राणिगतं आत्मनि परमात्मनि सर्वत्र ब्रह्मादितृणान्तेषु भगवन्तं ऐश्वर्यादिना साम्येन पश्यन् समदर्शनो योगयुक्तात्मा समाधियुक्तमनस्कः । ईक्षते पश्यतीत्यर्थः ॥ 29 ॥
सर्वभूतस्यात्माध्यानविशेषस्य फलमाह- यो मामिति ॥ सर्वत्र ब्रह्मादितृणान्तेषु स्थितं मां यः पश्यति सर्वं च ब्रह्मादिजगत् मयि मदधीनं पश्यति । तस्याहं न प्रणश्यामि सर्वदा योगक्षेमवहः स्यामीत्यर्थः । स च मे न प्रणश्यति सदा मद्भक्तो भवतीत्यर्थः ॥ 30 ॥
`यो मामिति' श्लोकोक्तमेव स्पष्टयति- सर्वेति ॥ य एकत्वमास्थितः सर्वत्र परमेश्वर एवेत्यास्थितो ज्ञानी सर्वभूतस्थं मां भजति सेवते । स योगी सर्वप्रकारेण न्यायेनान्यायेन वा वर्तमानोऽपि मयि वर्तते । अन्यायप्रवृत्तावपि ज्ञानिनो मोक्षो नियत एवेति भावः । तदाह सूत्रे `` कामकारेण चैक " (3-4-15) इति । आनन्दह्रास्त्वस्त्येवेति ज्ञXेयम् ॥ 31 ॥
समदर्शन इत्युक्ते गोगवयादिवद् भवति किं साम्यदर्शनमित्याका~घX क्षायामेकत्वमास्थित इति साम्यदर्शनं स्वयमेव व्याख्यातमिदानीं भगवदनुवर्तिविषयतया साम्यदर्शनं स्वयमेव व्याचष्टे- आत्मेति ॥ यथा सुखं स्वस्य प्रियं दुःखं चाप्रियं तथाऽन्येषामपि भगवद्भक्तानामित्येवमात्मौपम्येन स्वसादृश्येन सर्वत्र भगवदनुवर्तिषु समं यः पश्यति सुखमेव सर्वभक्तेषु यो वाञ्छति स्वात्मन इवेति यावत् स योगी परमो मत इति विष्ण्वनुवर्तिषु स्वात्मनीव स्नेहं कुर्वन् श्रेष्ठो मत इति फलितार्थः ॥ 32 ॥
भगवदुक्तयोगस्याननुष्ठानलक्षणमप्रामाण्यमाश~घ्कते - योऽयमिति ॥ हे मधुसूदन साम्येन भगवतः साम्येन सर्वत्रैक्येन तथा भगवदनुवर्तिषु चात्मौपम्यरूपसाम्येनेति वा । मनस एकाग्रत्वेनेति वा । योऽयं ध्यानयोगस्त्वया प्रोक्तः एतस्य योगस्य चञ्चलत्वात् स्थिरां स्थितिं मनसः चञ्चलत्वात् न पश्यामि ॥ 33 ॥
चञ्चलत्वादित्यत्र कस्येति श~घ्कां निरस्यन्मनोनिग्रहेणास्तु योगस्य स्थिरतेति श~घ्कां निराह- चञ्चलमिति ॥ मनश्चञ्चलं हि प्रसिद्धम् । प्रमाथि प्रमथनशीलं देहेन्द्रियक्षोभकरं किञ्च बलवत् । विवेकेनापि जेतुमशक्यम् । दृढम् । विषयवासनानुविद्धतया दुर्भेदं साधुविषये नेतुमशक्यम् । अत आकाशे दोधूयमानस्य वायोः वस्त्रेण कुम्भादिना वा निरोधनमशक्यं यथा तथा तस्य मनसो निग्रहं दुष्करमहं मन्ये जानामि ॥ 34 ॥
अर्जुनोक्तं मनश्चाञ्चल्यादिकम~घ्घीकृत्य मनोनिग्रहोपायं भगवानाह- असंशयमिति ॥ हे महाबाहो स्वभावतश्चञ्चलं मनोऽसंशयं यथा भवति तथा दुर्निग्रहं दुःखेन निरोध्यं तथाऽभ्यासवैराग्याभ्यां तु निगृह्यते ॥ 35 ॥
ननु यथा मत्तमात~घ्घः स्वयमेव श्रान्तः सन् शान्तो भवति । तथा विषयैस्तृप्तं मनः कदाचित्स्वयमेव नियतं भवति किमभ्यासादिनेत्यत आह- असंयतेति ॥ अभ्यासादितोऽवशीकृतचित्तेन योगो दुष्प्रापोऽसाध्यः इति मे मतिः । अभ्यासादिना वश्यात्मना वशीकृतमनस्केन तु पुंसा यतता पुनरनेनोपायेन यत्नं कुर्वता योगोऽवाप्तुं शक्य इत्यर्थः ॥ 36 ॥
अभ्यासादिहीनस्य फलं पृच्छति- अयतिरिति ॥ अयतिरप्रयत्नः श्रद्धया आस्तिक्यबुद् ध्या उपेतो युक्तः योगात् ध्यानरूपोपायात् चलितमानसः योगसंसिद्धिं ध्यानसम्पूर्तिं ध्यानफलं ज्ञानमिति यावत् । अप्राप्य हे कृष्ण कां गतिं गच्छतीति ॥ 37 ॥
क्वचित् किमित्यर्थः । उभयविभ्रष्टः उभयस्यात्स्वर्गापवर्गरूपाद्विभ्रष्टः प्रच्युतः ऐहिकामुष्मिकपुमर्थाद्विभ्रष्ट इति वा । यद्वा स्वर्गाद्युपायात् काम्यकर्मानुष्ठानादपवर्गोपायाद् ध्यानाच्च विभ्रष्टः अप्रतिष्ठो निराश्रयः अतॆव ब्रह्मणः पथि परब्रह्मप्राप्त्युपाये विमूढः वायुना द्वेधाकृतमेव इव किं नश्यति नरकाद्यनर्थं प्राप्नोत्युत न नश्यति ॥ 38 ॥
एतन्मे संशयं एतं संशयं व्यक्तोऽर्थः ॥ 39 ॥
प्रश्नस्योत्तरमाह सार्धेश्चतुभिः#240; । हे पार्थ इह लोके अमुत्र परलोके च नाशस्तस्य नास्ति । इह नाशस्तिर्यगादि दुर्गतिप्राप्तिः । परत्र नाशो नरकप्राप्तिः । तद् द् वयं तस्य योगभ्रष्टस्य नेत्यर्थः । नञX द्वयमादरार्थम् । कुत इत्यत उक्तम् - न हीति ॥ कल्याणकृत् श्रद् ध्या किञ्चित्कालं ध्यानादिकृदित्यर्थः ॥ 40 ॥
तर्~हि किं प्राप्नोतीत्यत आह- प्राप्येति ॥ पुण्यकृतान् पुण्यसम्पाद्यान्लोकान्प्राप्य तेषु शाश्वतीः समाः अनेकसंवत्सरानुषित्वा शुचीनां श्रीमतां धनिनां गेहे अभिजायते ॥ 41 ॥
धीमतां ज्ञानिनां योगिनां कुले वंशे वा भवति । यत् ईदृक् जन्म उक्तं द्विविधं जन्म एतत् दुर्लभं (कष्टलभ्यं) न सुलभसाध्यं हि प्रसिद्धम् ॥ 42 ॥
तत्र द्विप्रकारेऽपि जन्मनि पौर्वदैहिकं पूर्वदेहे भवन्तं बुद्धिसंयोगं मनोयोगं ध्यानमिति यावत् । लभते । ततो भूयः पौर्वदैहिकादधिकं संसिद्धौ ध्यानसम्पूर्तौ यतते यत्नं करोति हे कुरुनन्दन ॥ 43 ॥
तेनैव पूर्वाभ्यासेनावशोऽपि सन् ह्रियते ध्यानादौ बुद्धिपूर्वं स्वरसया प्रवृत्तिहीनोऽपि पूर्वाभ्यासवशात् ध्यानादिकर्मणि प्रवर्तत इत्यर्थः । योगभ्रष्टस्य पुण्यलोकादिकमित्येतद् कैमुत्येनाप्याह- जिज्ञासुरपीति ॥ योगस्य ध्यानयोगस्य जिज्ञासुरपि केवलं योगज्ञानेच्छुरपि । ``न लोकाव्यये"ति नञा निर्दिष्टस्य अनित्यत्वाद्योगस्येति साधु । मुक्तो भवतीति यावत् । किमु किञ्चित्कालं योगानुष्ठानेति भावः ॥ 44 ॥
योगजिज्ञासामात्रेण मुक्तिश्चेत्तदनुष्ठानं व्यर्थमित्यतो न तावन्मात्रेण मुक्तिरपि त्वनेकजन्मनीत्याह- प्रयत्नादिति ॥ योगजिज्ञासुरपीत्यनुष~घ्गः । योगं ज्ञात्वेति शेषः । यतमानः प्रयत्नं कुर्वन् ततः प्रयत्नाद्योगी ध्यानयोगवान् सन् संशुद्धकिल्बिषः निर्धूतपापः अनेकजन्मभिः संसिद्धोऽपरोक्षज्ञानी अनेक जन्मसंसिद्धः ततः अपरोक्षज्ञानात् । परां गतिं यातीति ॥ 45 ॥
योगं स्तौति - तपस्विभ्य इति । कृच्छ्रचान्द्रायणादि तपोयुक्तेभ्योऽयोगिज्ञानिभ्योऽपि योगी ध्यानानुष्ठाताऽधिको मतः । यस्मात्(तस्मात्) सर्वाधिकोमतः तस्मात्सर्वाधिकत्वाद्योगस्येत्यर्थः ॥ 46 ॥
ध्यानवत्स्वपि तारतम्यमाह- योगिनामिति ॥ सर्वेषामपि योगिनां मध्ये श्रद्धाशब्दोदितभक्तिमान्यः स युक्तो मतः । तत्रापि भक्तिमत्स्वपि यो मां भजते सेवते स युक्ततरः । तत्रापि मद्गतेनान्तरात्मना मद्गतान्तःकरणेन फलकामनां विना भजते स युक्ततमो मत इति ॥ योगिष्वप्युत्तम इति मे मतः ॥ 47 ॥
॥ इति श्रीमद्गीताविवृतिः श्रीराघवेन्द्रयतिकृते षष्ठोऽध्यायः ॥ 6 ॥
*****************************************************************
अथ सप्तमोऽध्यायः
। ``बुद्धिर्योगेशृण्विति" (2-39) भगवद् ज्ञानोपायं प्रतिज्ञाय कामादिवर्जनयुक्तनिवृत्तकर्मानुष्ठानरूपकर्मयोगं ज्ञानस्य बहिर~घ्गोपायमापञ्चमाध्यायान्तं ज्ञानान्तर~घ्गसाधनं ध्यानरूपं योगं च षष्ठे निरूप्याधुना पूर्वोक्तं ध्यानं भक्तिपूर्वकमेवानुष्ठितं ज्ञानसाधनम् । न चैद्यादेरिव द्वेषपूर्वकम् । अतो भक्त्यर्थं भगवन्माहात्म्यं `मयि' इत्यादिनाऽध्यायषट् केनोच्यते । `न त्वेवाहं'(2-12) इत्यादिना पूर्वषट् के(ऽपि) भगवन्माहात्म्योक्तावपि साधनस्यैव प्राचुर्येणोक्तिः । उत्तरषट् के क्वचित् क्वचित्साधनस्योक्तावपि प्राचुर्येणैव भगवन्महिम्नो वर्णनान्न पूर्वोत्तरषट् कयोः सा~घ्कर्यम् । तयोः पौर्वापर्यबीजं तु यदर्थं साधनं निरूपितं तद्जानाय ज्ञातव्यमाहात्म्यनिरूपणात् कार्यकारणभावरूपम् । `योगं युञ्जन्समग्रं मां यथा ज्ञास्यसि तच्छ्रुणु' इति प्रतिज्ञान्तरकरणादेव व्यक्तमिति श्रीतारमभिमुखीकुर्वन् भगवन्माहात्म्यं वक्तुं प्रतिजानीते - मयेति ॥ मयि श्रीकृष्णे आ अत्यन्तं सक्तमनाः अतीवस्नेहयुक्तमनाः योगं द्विरूपं ज्ञानोपायं युञ्जन्ननुतिष्ठन्मदाश्रयः भगवानेव मया सर्वं कारयति स ऎव मे शरणं तस्मिन्नेवाहं स्थित इति जानन्नित्यर्थः । असंशयं समग्रमिति क्रियाविशेषणम् । तव असंशयं समग्रं च यथा भवति तथा मां यथा येन प्रकारेण ज्ञास्यति तच्छ्रुणु तत्प्रकारकमजानजनकवचनं श्रुत्वा तत्र निष्ठां कुर्वित्यर्थः । तदित्यस्य तथेति वाऽर्थः ॥ 1 ॥
श्रवणं प्रवचनाधीनमित्याह- ज्ञानमिति ॥ ज्ञानविज्ञानशब्दौ कर्मार्थल्युडन्तौ । हे पार्थ ते तुभ्यं इदं मदीयं विज्ञानसहितं ज्ञानं विशेषेण ज्ञातव्यसहितं ज्ञातव्यं माहात्म्यं सामान्यं विशेषमाहात्म्यं च वक्ष्यामीत्यर्थः । अशेषत इत्यस्य यावदर्जुनयोग्यं तावन्मध्ये शिष्यमाणमकृत्वेत्यर्थः । वक्ष्यमाणं स्तौति- यदिति ॥ यन्माहात्म्यं ज्ञात्वा भूयः पुनरन्यजातव्यमिह मदुक्तेऽर्थे नावशिष्यते अवशिष्टं नास्तीति ॥ 2 ॥ प्रतिज्ञाते ज्ञाने आदरजननाय तस्य दौर्लभ्यमाह- मनुष्याणामिति ॥ कश्चिदेव पुण्यवान्पुरुषः सिद्धये ज्ञानाय यतति यतते । यततां ज्ञानार्थं यतमानानामपि मध्ये कश्चिदेव तत्त्वतो मां वेत्ति यथावज्जानाति ॥ 3 ॥
ऎवमुपोद्घातमुक्त्वाऽधुना प्रथमप्रतिज्ञातं ज्ञानपदोक्तं ज्ञातव्यं तावदाह- भूमिरित्यादि श्लोकचतुष्टयेन । भूम्यादि पञ्चमहाभूतानि मनस्सतत्त्वबुद्धितत्त्वे च । अह~घ्कारपदेन महत्तत्त्वमुपलक्षणीयम् । अह~घ्कारश्चेति च शब्दान्वयः । इत्येवं मदधीना प्रकृतिरष्टधा भिन्ना । उद्दिष्टापेक्षया अष्टधेत्युक्तिः । उपलक्षितापेक्षया तु नवधेति ज्ञेयम् । मत्प्रेरिता प्रकृतिः पृथिव्यादिकार्यरूपेणैव भिन्नेत्यर्थः ॥ 4 ॥
न केवलं जडप्रकृतिरेव स्वकार्येण सह मद्वशा किन्तु ब्रह्मादि जगन्माता चित्प्रकृतिरपीत्याह- अपरेति ॥ यद्वा हरेः परत्वं वक्तुं तदुपयोगितया परावरवस्तुनो आह- अपरेति ॥ इयं प्रागुक्ता जडप्रकृतिः । जीवा अप्युपलक्षन्ते । जडप्रकृतिः जीवाश्चापराः अधमाः । इतस्तु जडप्रकृत्यादितस्तु । अन्यां जीवभूतानां सर्वजीवदेहेषु स्थित्वा तदीयान् प्राणान् तद् देहेषु धारयतीति जीवेत्युक्ता । जीव् प्राणधारण इति धातोः । सा च सा भूता च सर्वदा विद्यमाना च जीवभूता ताम् । भू सत्तायामिति धातोः । प्राणधारकत्वेन सर्वदा विद्यमानामित्यर्थः । मे मदधीनां प्रकृतिं चित्प्रकृतिम् । मुक्ता अप्युपलक्षन्ते । श्रियं मुक्ताश्च परां परानुत्तमान् विद्धि । परत्वे हेतुः । ययेति श्रियेत्यर्थः । मुक्तानां पराभासत्वात् ययेत्येवोक्तम् । इदं ब्रह्मादिजगद्धार्यत इति ॥ 5 ॥
ननु देहेन्द्रियादेरपि सत्वेन प्रकृत्योरेवेशाधीनत्वमहिमोक्तिः कथमित्यतो देहादिसर्वकार्यजातस्य प्रकृत्योरेवान्तर्भाव इति दर्शयितुमाह- एतदिति ॥ शरीरेन्द्रियविषयलक्षणकार्यसहितानि जीवजातरूपभूतानि सर्वाण्येतद्योनीनि जडाजडप्रकृतिकारणकानि यथासम्भवं तदुत्पन्नानीत्युपधारय जानीहि । पूर्वं प्रकृत्योरवरत्वं परत्वं च वाक्यभेदेनोक्त्वा `म' इति स्ववशत्वं चोक्त्वा `ययेदं धार्यते जगत्' इति `एतद्योनीनि' इति जगद्धारकत्वकारणत्वे कथिते । तत्र प्रकृती ऎव भगवद्वशे । जगज्जन्मस्थितिलयास्तु प्रकृत्यधीना ऎव नेशाधीना इति प्रतीति निरासार्थमाह- अहमिति ॥ प्रभवप्रलययोः सत्ताप्रतीतिकारणत्वादहं प्रभवः प्रलयश्चेत्युक्तिः । प्रभवप्रलयभोक्तृत्वाच्च तथोक्तिः । जगत्प्रभवादिभोक्तृत्वं च यथा पुत्रादिप्रभवो रिXुपुप्रलयश्चोपलब्धः सुखहेतुरित्युपलब्धः । पित्रादेस्तद्भोक्तृत्वं तथा हरेरिति ज्ञेयम् । प्रभवाद्युपलब्धेर्भगवत्सुखहेतुत्वं च `आगमिष्यत्सुखं चापि तच्चास्त्येव सदाऽपि तु । तथाऽप्यचिन्त्यशकिXाXतXवज्जातं सुख(मितीर्यते) मतीव च' (नारदीये) इति स्मृXृत्युक्तदिशा ज्ञेयम् । प्रकृतिद्वारा कृत्स्नजगत्कर्ताऽहमेवेति भावः ॥ 6 ॥
ननु परावरप्रकृत्योः स्वाधीनत्वोक्त्यैव स्वस्यावरस्य परत्वस्य चायोगात् (अवरत्वस्य बाधादुत्तरवाक्यविरोधायोगात्) परतरत्वशब्दितं सर्वोत्तमत्वं तव प्राप्तमित्यस्तु जगत्पितृत्वम् । तद्वत् सर्वोत्तममान्तरस्यापि जगत्पितृत्वाद्युपपत्तेः कथमहमेव कृत्स्नस्येत्याद्युक्तिरुपपद्यत इत्यत आह- मत्त इति ॥ मत्तोऽन्यत् परतरशब्दितं सर्वोत्तमं किञ्चिन्नास्ति । येनाहमेवेत्युक्तिरयुक्ता स्यात् । यद्वा अन्यत् परतरं नेत्युक्त्या अर्थात् तात्पर्यगत्या लब्धमहमेव परतर इत्यादौ योजयित्वा पश्चान्मत्त इत्यादि योज्यम् । तथा चावतारिकायां उक्तदिशा लब्धस्यापि परतरत्वस्यात्रोक्तिः अपरतत्त्वं यथा भूम्यादिभेदेनानेकविधं यथा चापरतत्त्वं श्रीदेवीमुक्तभेदेनानेकं तथा परतरमप्यनेकविधमुतैकमेवेति जिज्ञासायामहमेक एवेति ज्ञापयितुमिति ध्ये(ज्ञे)यम् । न केवलं जगतः प्रभवप्रलयौ मदधीनौ । किन्तु स्थितिरपि मदधीनेत्याह - मयीति ॥ इदं सर्वं प्रकृत्यादिजगत् ॥ 7 ॥
`ज्ञानं तेऽहं' इति ज्ञानपदेन प्रतिज्ञातं ज्ञातव्यं `भूमिराप' इत्यादिश्लोकचतुष्टयेनोक्त्वाऽधुना विज्ञानपदेन प्राक् प्रतिज्ञातं विशेषेण ज्ञातव्यं हरेरलौकिकमाहात्म्यमाह- रस इति ॥ अप्सु सारभूतो यो रसः तस्य अपामनागन्तुकधर्मस्वभावत्वे अब्धर्मेषु स~घX ख्यादिषु सारत्वे रसत्वे विशेषतो हरेः कारणत्वात्तद्भोक्तृत्वाच्च रसोऽहमित्यभेदोक्तिः । शशिसूर्ययोः या प्रभा तस्याः शशिसूर्ययोरनागन्तुकधर्मत्वे चन्द्रसूर्यधर्मेषु सारत्वे प्रभात्वे विशेषतः कारणत्वात् प्रभाऽहमस्मीत्यभेदोक्तिः । सर्ववेदेषु सारभूतो यः प्रणवः तस्य वेदसारत्वं प्रणवत्वं चेशाधीनमित्यभेदोक्तिः । खे आकाशे यः शब्दः ध्वन्यात्मकः तस्याकाशानागन्तुकधर्मत्वं स~घX ख्याद् याकाशधर्मेषु सारत्वं शब्दत्वं चेशायत्तं तद्भोगश्च शब्द इति शब्दोऽहमस्मीत्युच्यते । नृषु यत्पौरुषं स्त्रीव्यावृत्तः प्रागल्भ्यविशेषः तस्य सत्ताप्रतीतिकारणत्वात् पौरुषमहमस्मीत्युच्यते ॥ 8 ॥
पृथिव्यां यः पुण्यो गन्धः शुभगन्धः तस्य भूम्यनागन्तुकधर्मत्वे स्वभावत्वे पृथिवीधर्मेषु सारत्वे गन्धत्वे हरिः कारणं गन्धभोक्ता चेति गन्धोऽहमस्मीत्युच्यते । अहमस्मीति सर्वत्रानुष~घ्गः । विभावसौ यत्तेजोदाहसामर्थ्यं तदुक्तहेतुबलादहमस्मीत्युच्यते । सर्वभूतानां सारभूतं यज्जीवनं तन्नियन्तृत्वात् तदप्यहमस्मीत्युच्यते । तपस्विषु सारभूतं यत्तपः कृच्छ्रादि तदप्यहमस्मि तन्नियामकहेतुना इति भावः ॥ 9 ॥
सर्वभूतानां बीजं व्यञ्जकत्वाद् बीजमिव बीजं मां विद्धि न परिणामिकारणम् । बुद्धिमतां ज्ञानिनां या बुद्धिः साऽप्यहमस्मि । बुद्धिमद्धर्मेषु सारत्वे बुद्धित्वे बुद्धिमद्धर्मत्वे नियामकोऽहमिति बुद्धिरहमस्मीत्युच्यते । ऎवं तेज इत्यपि ध्येयम् । अप् शशिसूर्यादेरवधितयोक्तस्य सर्वस्योक्तदिशा रसादेरिवेशायत्तत्त्वाविशेषेऽपि रसोऽहमस्मीत्यादिरूपेण निष्कृष्योक्तिः ``लोके कुविन्दादिः पटादिद्रव्येष्वेव व्यापारवाननुभूयते । न तु तदीयगन्धरसादिगुणेषु तन्निष्ठगन्धत्वादिधर्मेषु च पृथग्व्यापारवान् । किन्तु पटादिजन्मानुष~घ्घिकजन्मान ऎव ते" न तथा भगवान् । अपि तु अबादिधर्मेषु रसादिषु तद्धर्मेषु रसत्वादिषु पृथक् प्रयत्नवान् । न त्वबादिनियमानुष~घ्घिकसत्तादिका इति दर्शयितुं अबादिभोगादप्यतिशयेन रसादिभोगः परमेश्वरस्ये'ति दर्शयितुं च । किञ्च रसादयो ह्यत्र हरेरुपासने प्रतिमात्वेन विवक्षिताः रसोऽहमस्मीत्युपासीतेत्यादिरूपेण प्रतिमायां चाभेदोक्तिः `नाम ब्रह्मेत्युपासीत' (छां 7-1-5) इत्यादौ प्रसिद्धा । तथा चाबादिषु भगवदुपासनापेक्षया रसादिषु तदुपास्तेरतिशयाच्च विशिष्योक्तिः । अपि च ज्ञानार्थिनो हि रसाद्यभिमानिदेहेषु भगवान्सर्वत्र तिष्ठति । अबादिमानिनस्तु तत्पार्षदा इत्युपासते । ततोऽपि विशिष्योक्तिः । यद्वा `सर्वत्र विष्णोरुक्तर्षज्ञानं ज्ञानमितीर्यते । तद्विशेषपरिज्ञानं विज्ञानमिति गीयते' इति स्मृXृत्या सर्वत्र सामान्यतो विष्णोरुत्कर्षज्ञानं ज्ञानपदेन विवक्षितम् । `अपरेयं' इत्यादिनोक्तदिशा जडप्रकृतिब्रह्मादिजीवाश्चावराः आसुरजना अवरतराः श्रीर्मुक्तजनाश्च पराः । तत्रापि श्रीर्मुख्यपरा । कदाऽपि दुःखासम्बन्धात् । मुक्तास्तु पराभासाः कदाचिद् दुःखसम्बन्धात् । ते सर्वे हर्यधीनाः । हरिस्तु परतरः । अत्र तरशब्दस्तमबर्थश्च भवति । हरेरन्यस्य परतमस्याभावादयमेव परतम इति वक्तव्यत्वात् । परत्वेनोक्तश्रीमुक्तानां हरेश्चमध्ये कस्यचिद् परतरस्याभावेनायमेव परतरश्चेति वाच्यत्वात् । हरिरेव परतरः परतमश्च ततोऽन्यत्परतरं परतमं वा किञ्चिन्नास्ति । नच मुक्ताः पराः श्रीः परतरेति श~घX क्यम् । `मुक्तास्तु स्यात्पराभास' इति तात्पर्योक्त्या तेषां परत्वाभावात् । `अभ वादन्तरान्यस्य त्विहैकार्थो तरपूतमौ ' इति स्मृXृतेश्चेत्येवं ज्ञानं विज्ञानं च द्वयमपि `भूमिः' इत्यादि श्लोकचतुष्टयेनोक्तम् । तद्विज्ञानमेव सर्वस्य तदधीनत्वप्रदर्शनेनाह- रस इत्यादिना ॥ अत्र रसादिशब्दात् तद् भोक्तृत्व तन्नियन्तृत्वहेतुना भगवन्नामानः । तथाहि । अप्स्वित्यादिसप्तम्योऽधिकरणसप्तम्यः । अप्सु स्थित्वा रसमाददामीति तं प्रेरयामि चेति रसनामाऽहमस्मि । शशिसूर्ययोः स्थित्वा स्वयं प्रभासमानत्वात् प्रभाहमस्मि । सर्वदेवेषु स्थित्वा स्वात्मानं प्रणौति स्तावकं प्रेरयति इति प्रणवनामाऽस्मि । खे स्थित्वा शब्दं प्रेरयतीति शब्दनामास्मि । स्वयं पुण्यः पुण्यगन्धः सन् पृथिव्यां स्थित्वा सुरभ्यसुरभितया गन्धं प्रेरयतीति गन्धनामा । विभावासावग्नौ स्थित्वा तेजःप्रेरकत्वात् तेजोनामा । भूतेषु जीवनदत्वाज्जीवननामा तपस्विषु स्थित्वा तपः कुरुते तपः प्रेरयति चेति तपोनामा । बीजप्रेरकत्वाद् बीजनामा । बुद्धिमताम् । सप्तम्यर्थे षष्ठी । बुद्धिमत्सु स्थित्वा बोद्धृXृत्वाद् बुद्धिप्रेरकत्वाद् बुद्धिनामा । तेजस्विषु स्थित्वा तेजः प्रेरयतीति तेजोनामा । अबादिसर्ववस्तूनां रसगन्धप्रभादिधर्मान्व्यवस्थया ददातीति रसादिनामा (हं) हरिरित्यर्थः ॥ 10 ॥
बलवतां बलवत्सु स्थित्वा कामरागविवर्जितं बलमस्मि । विषयभोगनिरपेक्षया नित्यपूर्णबलवत्त्वात् कामवर्जितबलात्मास्मि । अस्थाने अप्रयुज्यमानत्वाद्रागविवर्जितबलात्माऽस्मीत्यर्थः । रागिणो ह्यस्थानेऽपि बलं प्रयुञ्जते । भूतेषु धर्माविरुद्धो यः कामः सोऽस्मीत्यर्थः । अत्र पुण्यो गन्ध इति कामरागविवर्जितमिति गन्धबलादेः पुण्यत्वादिविशेषणोपादानं तु गन्धबलकामादिषु विशिष्टेष्वेव भगवानुपास्यः । न त्वशुचिषु धर्मविरुद्धेष्विति ज्ञापनायेतिध्येयम् ॥ 11 ॥
न केवलं रसादिधर्मप्रेरकः किन्नामाऽबादिसर्वप्रेरकश्चेत्याह- य चेति ॥ ये च भावाः पदाथाः#240; सात्त्विकाः सत्त्वगुणविकाराः राजसास्तामसाश्च तान् सर्वान् पदार्थान् मत्त एवोत्पन्नान् विद्धि । तथा ते मयोत्पन्नाः पदाथाः#240; मयि मदाधारतया मदुपजीवनेनेति यावत् । वर्तत इति विद्धि । यथेदं जगत् त्वदधीनं तथा त्वमपि किमेतदधीन इत्यतो नेत्याह- न त्वहं तेष्विति ॥ तदुपजीवनेनाहं नैव तिष्ठामीत्यर्थः । ये च ये चेति पृथगुक्तिः सर्वेषां त्रिगुणविकारत्वेऽपि सत्त्वादिप्राचुर्याभिप्रायेणेति ज्ञेयम् ॥ 12 ॥
नतु विज्ञानोक्त्युपसंहारपरपूर्वश्लोको सत्त्वादिगुणनिष्पन्नानां सर्वपदार्थानां भगवानेव कारणं तदाश्रयश्चेत्युक्तम् । तेनैव गुणातीत इति चोक्तप्रायम् । तदेतदयुक्तम् । तथात्वेन गुणातीतत्वेन अज्ञायमानत्वस्य सगुणत्वेन ज्ञायमानत्वस्य च तवायोगादित्यत आह- त्रिभिरिति ॥ त्रित्वं योग्यतया गुणविशेषणम् । सत्त्वरजस्तमोरूपत्रिगुणमयैः गुणत्रयात्मकैरित्यर्थः । तादात्म्यार्थोऽयं मयट् । भावैः पदाथॆः#240;#195; । उपादानोपादेययोरभेदात् त्रिगुणतत्कार्यरूपैः एभिर्भावैः पदार्थैरित्यर्थः । यद्वा गुणमयैस्त्रिभिः प्रागुक्तरीत्या सात्त्विकादिभेदभिन्नैरेभिः प्रमितैर्भावैः पदार्थैः मोहितं सत् इदं ज्ञानिभिन्नं जगदेभ्यो गुणतद्विकारेभ्यः परं व्यतिरिक्तं अत ऎव देहतोऽप्यव्ययं मां नाभिजानाति । विपरीतं च जानातीत्यर्थः । अत्र एभिरिति सर्वपदार्थानां गुणमयत्वप्रदर्शनाय प्रमितसर्वपरामर्शित्वात्तस्य । नच भगवद्विषय(क) सगुणत्वादिमोहस्य कथं गुणमयात्मकाः पदाथाः#240; कारणम् । येन गुणमयैर्भावैर्मोहितमित्युक्तिर्युक्ता स्यादिति श~घX क्यम् । लोके गुणमयदेहादिकं दृष्ट् वा ईश्वरदेहादिरप्येतादृशः देहत्वादिति हेतुना गुणमयमिति मोहितमिति तात्पर्यात् । ज्ञानिनो यथावत्तया जानन्तीति तद् व्यावृत्तर्थमिदमिति जगद्विशेषणम् । उपायाभावादज्ञजनस्य गुणातीतत्वेन भगवतोऽनुपलम्भः । देहादित्वानुमानाभासेन सगुणतया विपरीतोपलम्भश्चेत्युक्तं भवति ॥ 13 ॥
ननु ब्रह्मादिदेहेन्द्रियादिदृष्टान्तेन देहादित्वहेतुना भगवान् गुणमयदेह इति धीः कथं मोहः - बाधकाभावात् । ज्ञानिनां धीर्बाधिकेति चेत् । बहुतरपामरधीविरोधेन तस्या ऎवल्पीयस्या अयथार्थत्वोपपत्तेः । नच तेषामेव कालान्तरे बाधधीः सेत्स्यतीति श~घX क्यम् । अनादिकालेऽप्यजातस्योत्तरत्राप्यसम्भवादित्यतो यथावद् ज्ञानाभावविपरीतज्ञानयोर्गुणाभिमानिनी दुर्गैव कारणम् । देहत्वाद्यनुमानं तु निमित्तमात्रमिति भावेनाह- दैवीति । सृष्ट्यादिरूपक्रीडादिगुणविशिष्टस्य देवस्येयं दैवी । देवसम्बन्धिनी । को देव इत्यतो दैवीत्युक्तं विवृणोति - ममेति ॥ मदीया ममातिप्रियेति यावत् । एषा प्रमाणप्रमिता गुणमयी सत्त्वादिगुणात्मिका गुणाभिमानिनीति यावत् । माया दुर्गा मोहिकेति शेषः । कालान्तरे तत्कृतो मोहो निवर्ततामित्यत आह- दुरत्ययेति ॥ अत्येतुमशक्या तत्कृतं मोहं कोऽपि नात्येतुं शक्नोतीत्यर्थः । अतो न कस्यापि बाधकप्रत्ययो भवतीति भावः । मम मायेत्येव पूर्तौ दैवीत्युक्तिः मदीयतामात्रेण कथं दुरत्ययेत्यतः सृष्टिस्थितिलयादिगुणविशिष्टतयातिसमर्थ(स्य मे अति)मदतिप्रियत्वेन तस्या अप्यतिशयशक्तित्वादिति ज्ञापयितुम् । गुणमयीत्युक्तिस्तु गुणाभिमानित्वात्तमोगुणेनैवं विधं मोहं जनयतीति सूचयितुमिति ज्ञेयम् । ननु यदि न केवलमनुमानम् । किन्तु भगवतोपोद् बलिता माया मोहहेतुः तर्~हि न कथञ्चिदत्येतुं शक्येति कस्यापि ज्ञानं न स्यादित्यत आह- मामिति ॥ ऎवशब्दोऽत्र भगवत्प्रतिपत्तावित्थम्भावसूचकः । अन्यत्परित्यज्य गुर्वादिवन्दनादिकमपि भगवद्भक्तत्वेनैव कुर्वन्तो मां ये प्रपद्यन्ते शरणं प्राप्नुवन्ति ते एतां मायां मायाकृतमोहं तरन्ति । अतिक्रामन्तीत्यर्थः ॥ 14 ॥
ननु यदि त्वत्प्रतिपत्तिर्मायातरणोपास्य तर्~हि त्वां प्रपद्य सर्वे किमिति मायां नात्यायन्नित्यत आह- न मामिति ॥ दुष्कृतिनः पापशीलाः अत ऎव मूढाः विवेकहीनाः अत एव नराधमाः मायया (हरीच्छया स्वभावेन च ) अभिभूताधिष्ठानयाथात्म्यज्ञानाः अतश्च मूढाः मिथ्याज्ञानिनः अत ऎवसुरं भावमासुरत्वमाश्रिताः । अतो मां न प्रतिपद्यन्ते इति । असुष्विन्द्रियेषु रता असुरास्तदीयं भावमाश्रिता इत्यर्थः ॥ 15 ॥
सुकृतिनो मां भजन्तः प्रपद्यन्ते तत्राप्यस्ति तारतम्यमित्याह - चतुर्विधा इति ॥ ये सुकृतिनः पूर्वजन्मकृतपुण्यवन्तो जनाः मां भजन्ते सेवन्ते च ते चतुर्विधाः । आतः#240; रोगाद्युपद्रुतः । जिज्ञासुः आत्मज्ञानेच्छुः । अर्थार्थी धनेच्छावान् । ज्ञानी चात्मतत्त्वविद्येति इति शब्दोऽत्र ध्येयः । द्विः सम्बोधनमादरार्थम् ॥ 16 ॥
नित्ययुक्तः सदा भगवत्समाधिमान् । एकस्मिन् मय्येव प्राधान्येन भक्तिर्यस्यासौ एकभक्तिः विशिष्यते । अतिशयितो भवति । कुत इत्यतो ममातिप्रियत्वादित्याह- प्रियो हीति ॥
एकप्रशंसया प्राप्तेतरनिन्दां निराह- उदारा इति ॥ एते चत्वारो जनाः । ज्ञानी मे आत्मैव स्वरूपमेव, अतिप्रियत्वात् मदधीनसत्तादिरिति ज्ञानवत्त्वाद्वा अभेदोपचारः । यद्वा आप्नोतीत्यात्मा मत्प्राप्तिमानित्यर्थः । इति मे मतं सिद्धान्तः । स हि ज्ञानी । अनुत्तमां गतिमुद्दिश्य युक्तात्मा समाधियुक्तमनाः मामास्थितः प्राप्त इति योजना ॥ 18 ॥
ऎवंविधज्ञानी दुर्लभ इत्याह- बहूनामिति ॥ बहूनां जन्मनामन्ते । वासुदेवः सर्वं, सर्वं वासुदेवाधीनसत्तादिमदिति ज्ञानवान् । सर्वं सम्पूर्णं वस्तु वासुदेव एवेति ज्ञानवानिति वाऽर्थः । एतेन भगवद् ज्ञानिनामेव मोक्ष इति कुत इति श~घ्का निरस्ता । भगवत ऎव पूर्णत्वेन ज्ञानादिदानसमर्थत्वादिति । स मां प्रपद्यते । स महात्मा तादृशज्ञानवान् सुदुर्लभः । एतेन वासुदेवज्ञानेन यदि मोक्षस्तर्~हि सर्वेषां स स्यादिति श~घ्का निरस्ता । वासुदेवज्ञानेन मोक्षसत्त्वेऽपि न तद् ज्ञानिनः सर्वे । अतो न सर्वेषां मोक्ष इति तात्पर्यात् ॥ 19 ॥
लोके भगवद् ज्ञानिनां बहूनां दृश्यमानत्वात् कथं दौर्लभ्यमित्यत आह- कामैरिति ॥ तैस्तैः कामैः स्वस्वाभिमतकामैरिच्छाभिरपहृतज्ञानाः तं तं नियमं तत्तदागमोक्तनियममाश्रित्य स्वया प्रकृत्या । प्रकृतिः स्वभावः । स्वकीयस्वभावेन नियताः वशीकृताः सन्तोऽन्यदेवताः ब्रह्मादिदेवताः प्रपद्यन्ते । ज्ञानितया दृश्यमानाः नानाविधकामापहृतभगवदुत्तमत्वज्ञानाः सन्तोऽन्यदेवतायाजिनो अन्यदेवता ऎव प्रपद्यन्ते । (ततः) शुद्धो भागवतो दुर्लभ इति भावः ॥ 20 ॥
ननु मिश्रयाज्यपि क्रमेण भागवतो भवति किमित्यतः स किं नित्यत्रैविद्यरूपः उत शुद्धभागवतो निर्णायकाभावादिनिमित्तेनान्यदेवतायाजी । आद्ये दोषमाह- यो य इति ॥ शुद्धभागवततमोयोग्याभ्यामन्योविष्णुतत्त्वज्ञानविपरीतज्ञानाभ्यां हीनो यो यः कारणविशेषवशाद् यां यां ब्रह्मरुद्रादितनुं भक्तस्तद्भक्तिमान् श्रद्धया आस्तिक्यबुद् ध्या अर्चितुमिच्छति । तस्य तस्य तामेव श्रद्धां अचलां अहं विदधामि ॥ 21 ॥
स च तया श्रद्धया युक्तस्तस्य देवस्याराधनमीहते करोति । ततस्तदाराधनात् तद् देवस्थेन मयैव विहितान् तान्स्वाभिप्रतान् कामान् लभते च । मदितरस्य फलदाने सामर्थ्याभावात् । द्वितीयेऽप्याह- यो य इति ॥ भक्तः स्वतो विष्णुभक्त ऎव यो यः ज्ञात्वाऽपि विष्णुं कारणान्तरवशादेव यां यां ब्रह्मादितनुम् ॥ प्राग्वदेवेहते इत्यन्तस्यार्थः । ततः क्रमेणेशानुग्रहप्राप्तगुरूपदेशद्वारा तस्य विष्णोराराधनमीहते । ततो भगवदाराधनान्मयैव विहितान्मोक्षादिकामान् लभते चेति ॥ 22 ॥
अन्यदेवतायाजिनामपि त्वत्त ऎव फलं चेत् कुतः तत्त्यागेन त्वदाराधनमेव कार्यमित्यत आह- अन्तवत्विति ॥ विष्णोः रमाब्रह्मादिभ्यः परत्वं ज्ञात्वा अन्यदेवतायाजिनां तेषां फलमन्तवदेव । कुतः ? अल्पमेधसां अल्पफल ऎव बुद्धिमत्त्वमि(त्वादि)त्यर्थः । कथमन्तवत्त्वमित्यत उक्तम् - देवानिति ॥ विष्णूत्कर्षं ज्ञात्वा ब्रह्मादिदेव(ता)याजिनो ब्रह्मादिदेवान्यान्ति नतु मां अतोऽन्तवत्फलम् । मद्भक्तास्तु मामपि देवान् प्राप्यान्ते मामपि यान्ति । अतोऽनन्तं तेषां फलम् । तस्मान्मदाराधनं प्राधान्येन अन्यदेवताराधनं च परिवारतया कार्यमिति ॥ 23 ॥
ननु को विशेषस्तवान्येभ्यो ब्रह्मादिभ्यः येन त्वां प्राप्तानामनन्तफलम् । देवान् प्राप्तानामन्तवत् फलमित्यत आह- अव्यक्तमिति ॥ अबुद्धयोऽज्ञानिनः परमितरलिक्षणं अनुत्तमं उत्तमरहितं अव्ययं मम भावं प्रमाणाव्यभिचरितत्वरूपं याथार्थ्यमजानन्तः । अव्यक्तं कार्यदेहादिहीनं मां व्यक्तिमापन्नं कार्यदेहादियुक्तं मन्यन्ते । कार्यदेहादिराहित्यं तद्युक्तान्यदेवेभ्यो मम विशेष इति भावः । यद्वा यथादेव याजिनो मद्याजिनश्च त्रैविद्याः भागवताश्च वर्तत तथा मद् द् वेषिणश्च केचन सन्तीत्याह- अव्यक्तमिति ॥ सर्वात्मनाऽज्ञेयत्वहेतुना अव्यक्तपदार्थं मामीश्वरं व्यक्तिं सर्वात्मना ज्ञेयत्वमापन्नं प्राप्तं जीवमिति यावत् । मम परं भावमजानन्तोऽल्पबुद्धयो मन्यन्ते । जीवैक्यं मन्यन्त इत्यर्थः । यद्वा `मयि सर्वमिदं प्रोतम्' इत्यादावुक्तदिशा प्रेरकत्वादि महामहिमवांश्चेद्भवान् तत्कथं भवतः केषाञ्चिद् जीवाभेदं मन्यन्त इत्यत आह- अव्यक्तमिति ॥ प्रागुक्तदिशाऽव्यक्तं मामीश्वरं व्यक्तिमापन्नं जीवं जीवाभेदेन मां मन्यन्ते ये ते मम परं भावमजानन्तो अल्पबुद्धयस्तमोयोग्या इत्यर्थः ॥ 24 ॥
ननु तेषां त्वद्विषयविपरीतज्ञानकृतनिन्दया तव खेदोऽस्ति किमित्यतः परं भावमजानन्तोऽन्यथा मन्यन्त इत्युक्तविपरीतज्ञानहेतुभूतमज्ञानं न स्वतन्त्रम् । किन्तु मदायत्तमेव । अतः कुतो मम खेद इति भावेनास्य स्वाधीनतामाह- नाहमिति ॥ योगेन सामर्थ्यलक्षणोपायेन मायया देव्या च । योगसहिता माया योगमायेति विग्रहः । समावृतोऽहं न सर्वस्य प्रकाशः । कर्मणि घञX । प्रकाशविषयो न भवामि । अतो मयैव मूढोऽयं लोको मामजमव्ययं जन्मव्ययहीनं नाभिजानातीति ॥ 25 ॥
ननु यवनिकाद्युभयभागवर्तिनोः परस्पराज्ञानवत् तवापि भूतविषयज्ञानं स्यादित्यतो यवनिकास्थानीयाऽपि माया न मां बध्नातीत्याह- वेदेति ॥ मायाकृतबन्धहीनत्वादहं भूतभविष्यद् वर्तमानभूतानि प्राणिनो वेद जानामि । मां तु कश्चन कोऽपि यथावत्त्वेन न वेद । मायाकृतबन्धसत्वात् लोकस्येति । ब्रह्मादिरतिशक्तोऽपि किञ्चिदेव वेत्ति न सर्वथेति भावः ॥ 26 ॥
पूर्वं ``दैवी ह्येषा गुणमयी" इति ``नाहं प्रकाश" इति च गुणमयी माया भगवांश्च जीवाभेदादिविषयमोहे मुख्यं कारणमुक्तम् । इदानीं इच्छाद्वेषप्रवृद्धिजनितसुखदुःखादि द्वन्द् वविषयमोहोऽप्यवान्तरकारणमस्तीत्याह- इच्छेति ॥ इच्छाद्वेषाभिवृद्धिजातेन द्वन्द् वमोहेन । द्वन्द् वानि सुखदुःखलाभालाभादीनि । तद्विषयमोहः । दुःखादिः यथा हेयस्तथा वैषयिकसुखादिरपि हेयः । तथाऽप्युपादेयत्वेन तस्य यद् ज्ञानं तद्रूपमिथ्याज्ञानेनेत्यर्थः । सर्वभूतानि सर्गे सर्गकाले । सर्गकालमारभ्यैवेति यावत् । सम्मोहं भगवद्विषयजीवाभेदादिमिथ्याज्ञानं यान्तीत्यर्थः । यद्वा यत्केषाञ्चित् अद्वैतज्ञानं मदिच्छाधीनमिति यदुक्तं भगवता तदयुक्तम् । `ैकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः । कामक्रोधाभिभूतत्वादह~घ्कारवशं गताः' इत्यादौ इच्छाद्वेषादेरेवाद्वैतज्ञानहेतुत्वोक्तेरित्यतः तदवान्तरकारणम् । सर्गात् पूर्वमभावेन सर्गमारभ्यैवोत्पत्तेरिति भावेनाह- इच्छेति । इच्छाद्वेषोत्पन्नद्वन्द् वमोहेन जीवेश्वरो तद्धर्मभूतानि सर्वज्ञत्वाल्पज्ञत्वस्वातन्त्र्यपारतन्त्र्यसर्वशक्त्यल्पशक्त्यादिरूपाणि च द्वन्द् वानि तद्विषयमिथ्याज्ञानेन सर्वभूतानि सर्गकालमारभ्यैव सम्मोहं उक्तद्वन्द् वमोहदार्ढ्यं यान्तीति । द्विः सम्बोधनमादरार्थम् ॥ 27 ॥
सर्वभूतानि सम्मोहं यान्ति चेल्लुप्तो मुक्तिमार्गं इत्यतो द्वन्द् वमोहरहिताश्च केचित् सन्तीत्याह- येषामिति ॥ येषां पुण्यकर्मणां जनानां पापमन्तं गतं नष्टं ते द्वन्द् वमोहनिर्मुक्ताः प्रागुक्तद्विविधद्वन्द् वविषयमिथ्याज्ञानहीनाः दृढव्रताः सन्तो मां भजन्त इत्यर्थः ॥ 28 ॥
भगवद् भजने किं फलं भवतीत्यतः प्रागुक्तभजनानुवादेन तस्य ब्रह्मज्ञानरूपं फलमाह- जरेति ॥ ये साधुप्रकृतयः जरामरणमोक्षाय लक्षणया स्वर्गादिकामनिवृत्तये ममाश्रित्य यतन्ति (यतन्ते) भजन्त इत्यनुवादः । ते तद् ब्रह्म विदुः कृत्स्नमध्यात्मं विदुः जानन्ति । अखिलं कर्म च विदुः । जरामरणमोक्षायेत्येतत् मोक्षसक्तिरन्यासक्तितः प्रशस्तेति मोक्षासक्तिस्तुत्यर्थं वा । प्रागुक्तदिशाऽन्यकामनिवृत्त्यर्थं वा । न सर्वथा तदुद्देशेन भजनविधिः । एकान्तभक्तानां मोक्षापेक्षाऽभावात् । `मामेव ये प्रपद्यन्ते मायामेतां तरन्ति त ' इति भगवद् भजनफलस्योक्तावपीह तदुक्तिः भगवद् भजनमेव ज्ञानद्वारा मायातरणोपायो नान्य इति ज्ञापनायेति ॥ 29 ॥
तद् ब्रह्मेत्युक्त्या ब्रह्म भगवतोऽन्यदिति श~घ्कानिरासायाह- साधिभूतेति ॥ अधिभूताधिदैवसहितं साधियज्ञं अधियज्ञसहितं च मां ये विदुः । अपि च प्रयाणकाले मां विदुः ते युक्तचेतसः समाधियुक्तमनस्का इत्यर्थः । यद्वा प्रयाणकालेऽपि च मां विदुः स्मरन्ति मुक्तचेतसो मामाश्रयन्ति । ये जनाः ते तत् ब्रह्म विदुरिति ॥ 30 ॥
॥ इति श्रीमद् गीतार्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते सप्तमोऽध्यायः ॥
************************************************************
श्रीमध्वेशायनमः॥
अष्टमोध्यायः॥
`ते ब्रह्म तद्विदुरित्युक्तस्य' (7-29) `प्रयाणकालेऽपि च मां विदुरित्युक्तस्य ' (7-30) च व्याख्यानमत्र प्राधान्येन क्रियते । तत्प्रस~घ्घादन्तकालस्मरणफलं तदुपायप्रकारो ब्रह्मप्राप्तिमार्गश्चात्रोच्यत इति पूर्वानन्तर्यमध्यायभेदः स्वस्मिन्नेकवाक्यता च । स्मरणविषयत्वप्राप्यत्वरूपो महिमैव वर्ण्यत इति षट् कान्तर्भावश्च ज्ञेयः । पूर्वत्र तद् ब्रह्म विदुरिति परोक्षनिर्देशेन ब्रह्म भगवतः अन्यदिति प्रतीयते । `वासुदेवात्मकं ब्रह्म' (व्यासस्मृ.) इत्यादौ भगवानेव ब्रह्मेति प्रतीयते । अतो विप्रतिपत्त्या जातसंशयात् पृच्छति - किं तद् ब्रह्मेति । अत्राद्यश्लोके किमिति स्वरूपप्रश्नः । द्वितीये कथमिति प्रकारप्रश्नः । अधिगतो यज्ञमधियज्ञ इति प्रादिसमासो नाव्ययीभावः । अत्र देहे अधियज्ञः कथमित्यर्थः । अस्मिन् देहे अधियज्ञः क इति स्वरूपप्रश्नः । अस्मिन् देह इति पदद्वयकृत्यं परिहारवाक्ये वक्ष्यामः । अन्तकाले किमर्थं कथम्भूतः केन प्रकारेण स्मर्तव्य इत्यर्थः ॥ 1 ॥ 2 ॥
प्रश्नाष्टकस्यापि क्रमेणोत्तरमाह- अक्षरमित्यादिना ॥ `किं तद् ब्रह्म' इति त्वया पृष्टं ब्रह्म परममक्षरमुत्तमाक्षरं परमाक्षरशब्दितं वस्तु । अत्र भगवतोऽन्यद् ब्रह्मेति श~घ्कया (श~घ्कायां) किं ब्रह्मेति प्रश्ने अहं ब्रह्मेति परिहारे कार्ये अक्षरं ब्रह्मेत्युक्तिः `तस्मादक्षरं तस्मादक्षरमित्याचक्षत एतमेव सन्तम्' इत्यादौ विष्णावेवाक्षरत्व प्रसिद्धेरक्षरमित्युक्त्यैव विष्णुर्ब्रह्मेति वा अहमेव ब्रह्मेति वा कलितत्वादज्ञानामक्षरत्वमिति स्वस्य ज्ञापनाय । तथैव वाच्येऽपि परममित्यक्षरविशेषणं तु `अधमं त्वक्षरं या सा प्रकृतिर्जडरूपिका' (स्कान्दे) इत्यादेः प्रकृत्यादेरप्यक्षरशब्दार्थत्वात् तद् व्यावृत्त्यर्थमिति #101;XञXॆ#240;#195;यम् । आत्मानं जीवमधिकृत्य यदस्ति जीवोपकारित्वेन वर्तमानदेहेन्द्रियान्तःकरणरूपं तदध्यात्मम् । स्वभावशब्दः स्वस्य `ते विदुः' इति प्रकृतजीवस्य भवति उपकारित्वेन वर्तते इति व्युत्पत्त्या देहादिपदार्थवाची । देहेन्द्रियान्तःकरणलक्षणः पदार्थः अध्यात्ममिति प्रथमान्ताव्ययपदेनोक्तव्युत्पत्त्योच्यते । यद्वा अध्यात्मपदं सप्तम्यन्तमुपेत्य अध्यात्ममात्माधिकाराख्यग्रन्थे प्रतिपाद्यं किमिति चेत्तव प्रतिप्रश्नः तदाध्यात्ममात्माधिकारग्रन्थप्रतिपाद्यं स्वभावः स्वशब्दः `ते विदुः' इति प्रकृतजीववाची, भवति सदैकप्रकारेणास्तीति भावः । स्वश्चासौ भावश्च सदैकरूपेण वर्तमानश्चेति स्वभावः । अध्यात्मशब्दितात्माधिकारग्रन्थोक्तस्तु सदैकप्रकारो जीव इत्यर्थः । स्व इत्येवोक्तौ स्वशब्दस्यात्मीयेऽपि प्रयोगादन्तःकरणादिरपि प्रती(येत)यते । अतो भाव इत्युक्तिः । `अन्नमयं सोम्य मन' इत्यादेर्मनः प्रभृतेरन्नविकारत्वेनैकप्रकारत्वाभावात् । भाव इत्येवोक्तौ ईश्वरस्यापि सदैकरूपत्वात्तेन तस्य प्रतीतौ द्वितीयप्रश्नो नोत्तरितः स्यादतः स्व इत्युक्तिः । तेन च प्रकृतत्वात् जीव ऎव परामृश्यत इति पदद्वयमप्यर्थवदेवेति भावः । किं कर्मेत्यस्योत्तरं भूतेत्यादि । भूतानां जीवानां भावानां जडपदार्थानां चोद्भवकरः उत्पत्तिकरो विसर्गो विशेषेण सर्जनं ईश्वरकर्तृको व्यापारः कर्मेति शब्दित इत्यर्थः ॥ 3 ॥
अधिभूतं च किमित्यस्योत्तरम् - अधिभूतमिति ॥ भूतानि सदेहान् जीवानधिकृत्य तदुपकारित्वेन वर्तमानं वस्तु । क्षरो भावः विनाशी भावः कार्यभूतः पदार्थः । भवत्युत्पद्यत इति व्युत्पत्तेः । अधिदैवं किमित्यस्योत्तरं पुरुषश्चेत्यादि । अधिदैवतं दैवतानि सर्वदेवानधिकृत्य तत्स्वामित्वेन वा देवताप्रकरणे मुख्यतया प्रतिपाद्यत्वेन वा वर्तमानं च किमिति पृष्टं वस्तु पुरुषः पुरि देहे शेते तिष्ठतीति पुरुषो जीवः । सच सर्वजीवाभिमानी स~घ्कर्षणो ब्रह्मा वा ज्ञेयः । अस्मिन्देहेऽधियज्ञः क इत्यस्योत्तरम् - अधियज्ञXोऽहमेवेति ॥ प्रागुक्तदिशाऽधियज्ञ इति प्रादिसमासः । अधिष्ठितो य#101;XञXोऽनेनेति बहुव्रीहिर्वा । अत्र लौकिकदेहे यज्ञाधिष्ठाताऽहमेवेत्यर्थः । अत्रेति देहविशेषणं ईश्वरदेहव्यावृत्त्यर्थम् । भगवतः प्राणिदेह इव स्वदेहे पृथगभावेन नियन्तृत्वाभावात् । कतृभोक्तृफलदाXरूणां देहे प्रेरकत्वेन वर्तमानस्यात्र विवक्षितत्वात् । देह इत्युक्तिरप्यस्मिन् देहेऽधियज्ञः क इति कृतप्रश्नानुरोधात् प्रश्ने वा अधियज्ञः क इत्येवोक्तावग्न्यादेरप्यधियज्ञस्य हरेरन्यस्य सत्त्वात् । प्रश्नस्य तद्विषयत्वे सिद्धार्थता दोषप्रसक्तेस्तद् व्यावृत्त्यर्थं कर्तृभोक्तृफलदाXरूणां देहे प्रेरकतया वर्तमानोऽधियज्ञः क इत्यर्थलाभाय देह इत्यवश्यं वाच्यत्वात् । किञ्च पूर्वाध्यायान्ते `साधियज्ञं मां विदुरिति'(7-30) भगवतोऽधियज्ञसाहित्योक्त्याऽधिय#101;XञXो भगवतोऽन्योऽग्न्यादिरिति प्राप्तश~घ्काव्युदासाय च देह इत्युक्तिः । सर्वप्राणिदेहगताधियज्ञाख्यरूपविशेषापेक्षया साहित्याभिप्रायेण साधियज्ञं मामित्युक्तिरिति । देह इत्युक्त्या साहित्योक्तेर्गतिसूचनेन भगवदन्यत्वश~घ्कानिरासात् साहित्योक्त्या प्राप्तभेदश~घ्काया अवश्यं परिहार्यत्वादेव प्रथमप्राप्तस्यात्र देहेऽधियज्ञः कथं केन प्रकारेणेति प्रश्नस्य परिहारमनुक्त्वा क इति प्रश्न ऎव परिहृतः । किञ्च सर्वयज्ञभोक्तृत्वसर्वयज्ञप्रवर्तकत्वप्रकारेण हि भगवतोऽधियज्ञत्वं तच्च सर्वयज्ञभोक्तृत्वादिकं `भोक्तारं यज्ञतपसामित्यादि' (5-29) पञ्चमान्तोक्तं श्रुतवतोऽर्जुनस्य सिद्धमित्यधिय#101;XञXोऽहमिति भगवतो यज्ञाधिष्ठातृत्वरूपाधियज्ञत्वोक्त्या कथमधियज्ञ इत्यस्य भोक्तृत्वादिना प्रकारेणाधियज्ञत्वमिति परिहारस्य प्राप्तत्वाच्च तत्परिहारो नोक्त इति । यद्वा कथमित्यस्य किं लक्षणक इत्यर्थः । अधिय#101;XञXोऽहमेवेत्यधियज्ञाभिन्नत्वेनोक्तस्य हरेः `कविं पुराणं' इति कवित्वादि लक्षणोक्त्या ऎवं लक्षणकोऽधियज्ञ इति प्राप्तेर्नोक्तमुत्तरम् । देहभृतां वरेति सम्बुद्धिः । देहभृतां देह इति चोभयत्रान्वयो ज्ञेयः । श्लोकद्वयस्यायमर्थस~घX ग्रहः । ब्रह्म मम व्याप्तरूपं परममक्षरमुच्यते । अध्यात्मं स्वभावः । जीवचिदुपकारिदेहेन्द्रियान्तःकरणलक्षणः पदार्थः । जीवराशिर्वा । कर्म तु चराचरविषकेश्वरकर्तृकसर्जनम् । अधिभूतं तु क्षरो भावः सदेहजीवोपकार्युत्पत्तिविनाशवान् देहेन्द्रियाद्यन्यपदार्थ उच्यते । अधिदैवतं च पुरुषः ब्रह्मा स~घ्कर्षणो वा । अत्र देहस्थितोऽधिकयाज्यत्वहेतुनाऽधियज्ञाख्यो रूपविशेषोऽहमेवेति साहित्योक्त्या प्राप्तभेदश~घ्कानिरासायैवकारप्रयोगः । यद्वा स्वभावो भगवत्स्वाभावोऽध्यात्ममुच्यते अधिकत्वात् । क्षरो भावः सर्वजीवराशिरधिभूतम् । भूतशब्दितपृथिव्यादिजडाधिकत्वात् । ``षकारः प्राण आत्मा" इति श्रुत्या षकारस्य चेष्टापर्यायप्राणवाचित्वात् । पुरुप्राणत्वहेतुना पुरुषशब्दिता रमा अधिदैवतम् । दैवतशब्दितो विष्णुरधिको यस्या इति व्युत्पत्तेरिति । एतेन ते तद् ब्रह्मेत्यर्धद्वयस्यायमर्थः । ब्रह्म व्याप्तं तत् मे रूपं ते विदुः कृत्स्नमध्यात्मं जीवोपकारिदेहेन्द्रियान्तःकरणलक्षणं वस्तु जीवराशिं वा सृष्टिलक्षणं भगवत्कर्म चाखिलं विदुः साधिझूताधिदैवमधिभूतशब्दितसदेहजीवोपकारित्वेन स्थितोत्पत्तिविनाशिपृथिव्यादिपदार्थस्थत्वेन तन्नियन्तृतया तत्सहितं तद्गतरूपविशेषसहितमित्येके । पृथिव्यादिभूताधिकतयाऽधिभूतशब्दितसर्वजीवराशौ स्थिततया तत्सहितमिति वा । अधिदैवशब्दितसर्वजीवाधिपतौ ब्रह्मणि स~घ्कर्षणो वा स्थितत्वेन तत्सहितं तद्गतरूपविशेषसहितमित्येके । अधिदैवशब्दितरमासहितमिति वा । साधियज्ञं च अधियज्ञशब्दितसर्वप्राणिगतरूपविशेषसहितं च मां ये विदुरिति ॥ 4 ॥
अन्तकाले च किमर्थं स्मर्तव्योऽसीति प्रश्नस्योत्तरमाह- अन्तकाले चेति ॥ अन्तकाले मृतिकाले मामेव स्मरन् कलेवरं देहं त्यक्त्वा यः प्रयाति स मद्भावं मयि निदुःखनिरतिशयानन्दानुभवात्मिकां सतां याति । सन्देहोऽत्रार्थे नास्तीत्यर्थः । निदुः#240;खनिरतिशयानन्दाभिव्यक्तिरूपमद् भावप्राप्त्यर्थं मत्स्मरणमन्तकाले कार्यमित्युक्तं भवति ॥ 5 ॥
तत्कथमित्यतः सामान्यव्याप्तिमाह- यं यमिति ॥ वा अथवा यं यमपि भावं पदार्थ अन्ते स्मरन् कलेवरं त्यजति तं तमेव भावं याति । अन्तकाले स्मरणोपायमाह- सदेति ॥ सदा निरन्तरं तद् भावेन तस्मिन्नन्तर्गतेन मनसा । `तद् भावोऽन्तर्गतं मन' इत्यभिधानात् । भावितो वासितः नित्यं तच्चिन्तया जाततद् गोचरस्मृतिजनकसंस्कारवान् इत्यर्थः । ऎवं रूपः पुमान् भावमन्ते स्मरंस्त्यजतीत्यन्वयः । एतच्च नित्यस्मृतिरूपं सदा तद् भावितत्वमपरोक्षज्ञानं जनयित्वा भोगेन प्रारब्धावसानानन्तरं अन्तकाले स्मृतिहेतुः न साक्षादिति ज्ञेयम् । स्मरंस्त्यजतीति त्यागस्मरणयोरेककालत्वप्रतीतावप्यन्त इत्युक्तिस्त्यागकाले महादुःखात् स्मरणमसम्भावितमिति मन्दाश~घ्काव्युदासाय सर्वदा शरीरं हेयमिति मन्यमानानां ज्ञानिनां न देहत्यागो दुःखहेतुरतस्तदा स्मरणं नासम्भावितमिति प्रदर्शनार्था । अज्ञस्यापि त्यागक्षणात्पूर्व दुःखं न तु त्यागक्षण इति ॥ 6 ॥
अन्तकालस्मरणस्य फलोक्तेरुपयोगमाह- तस्मादिति ॥ नित्यं मत्सृXृतेः मत्प्राप्तिहेतुचरमकालीनमत्स्मरणकारणत्वादित्यर्थः । मय्यर्पितमनोबुद्धिः सन्युध्यस्व ॥ 7 ॥
सदा तद् भावभावितत्वं स्पष्टयति - अभ्यासेति ॥ अभ्यासः पुनः पुनरावर्तनं तद्रूपयोगेनोपायेन युक्तेन सहितेनानन्यगामिनाऽनन्यविषयेण चेतसा परममुत्तमं दिव्यं सृष्ट्यादिक्रीडादिगुणयुक्तम् । दीव्यते रौणादिको यक् । परममुत्तमं पुरि सर्वप्राणिदेहे शेते नियन्तृतया वर्तत इति वा पूर्णत्वाद् वा पुरुषाख्यं पृ पालनपूरणयोरित्यतः कुषन्, धातोरुकारः । अनुचिन्तयन् याति परमं पुरुषमित्यनुष~घ्गः ॥ 8 ॥
कथम्भूतः स्मर्तव्योऽसीति प्राकृतप्रश्नस्योत्तरमाह- कविमिति ॥ कविं सर्वज्ञं पुराणमनादिं अनुशासितारं शिक्षकं अणोरणीयां समत्यन्ताणुप्रमाणं सर्वस्य चराचराख्यविश्वस्य धातारं धारणपोषणकर्तारं अचिन्त्यरूपं साकल्येन मनसोऽविषयं आदित्यवर्णं रविप्रभं तमसः प्रकृतेमृत्योर्वा । `मृत्युर्वाव तम' इति श्रुतेः ताभ्यां परस्तात् तदुभयास्पष्टत्वेन स्थितमिति शेषः ॥ 9 ॥
भक्त्या युक्तः सन् प्रयाणकाले योगबलेन भ्रुवोर्मध्ये प्राणमावेश्याचलेन मनसा यः स्मरेत् स दिव्यं परं उत्तमं पुरुषमुपैति इति योजना । अत्रादित्यवर्णमिति सशरीरत्वप्राप्तेर्जन्मादिप्रस~घ्गः इति श~घ्काव्युदासाय तमसः परस्तादित्युक्तम् । तद्देहस्याप्राकृतत्वान्न जन्मादिदोष इति भावः । योगबलेनैव भ्रुवोर्मध्ये प्राणमावेश्येत्येतद् वायुजयादिममात्रासाधारणम् । नतु उच्चिक्रमिषो सर्वस्य साधारणम् । वायुजयहीनानां ज्ञानभक्तिवैराग्यपूर्त्यैव मुक्तिसिद्धेः । वायुजयादिमतां तु ईषद् ज्ञानाद्यसम्पूर्तावपि वायुजयादौ निपुणानां तद् बलादेवाल्पमुक्तिः किञ्चित् शीघ्रं च भवतीति विशेष इति ॥ 10 ॥
वायुजयादिमतां मरणकाले कर्तव्यमेव सध्येयं स्पष्टयति- यदक्षरमिति ॥ यद्वा केन प्रकारेण स्मर्तव्योऽसि इति पश्नस्योत्तरं सध्येयमुच्यते ॥ एतदक्षरमित्यादि त्रिभिः । यत्पदं अक्षरं सर्वथा नाशरहितं वेदविदो वदन्ति । यच्च पदं वीतरागाः अपगतकामादिदोषाः यतयः यत्नशीलाः विशन्ति प्रविशन्ति । यच्च पदमिच्छन्तः(ति) ब्रह्मचर्यं मन आदीनां ब्रह्मणि चरणं ब्रह्मचर्यं चरन्ति अनुतिष्ठन्ति तत्पदं पद्यते मुमुक्षुभिः प्राप्यत इति पदम् । पद् लृ गतावित्यतः कर्मण्यकारप्रत्ययः । स्वरूपं स~घX ग्रहेण स~घX क्षेपेण प्रवक्ष्ये । तत्पदस्मरणप्रकारं प्रवक्ष्यामीत्यर्थः ॥ 11 ॥
ऎवं ध्येयस्वरूपं तत्स्मरणप्रकारोक्तिं च प्रतिज्ञायेदानीं तत्प्रकारमाह- सर्वेति ॥ सर्वद्वाराणि वायुसञ्चारस्थानसर्वसुषु(म्नेतर)म्नोत्तरनाडीर्नियम्य । हृदि हरति जगदिति हृन्नामके नारायणे । हरतेः क्विप् । ह्रस्वस्य पिति कृति तुक् । मनो निरुध्य चात्मनः प्राणं प्राणवायुं मूर्ध्नि सुषुम्नामार्गेण ब्रह्मरन्ध्रे आधाय योगधारणां आस्थितः अखण्डस्मृतिरूपयोगधारण ऎवभियुक्त इत्यर्थः ॥ 12 ॥
ओमित्येकमक्षरं वाचकं यस्य तदोमित्येकाक्षरं ब्रह्म परं ब्रह्म मां व्याहरन्ननुस्मरन् । इत्युच्चार्य तद् वाच्यं ब्रह्मरूपं मामनुस्मरन्यः देहं त्यजन् प्रयाति प्रैति स याति परमां गतिम् ॥ 13 ॥
अन्तकाले मत्स्मरणं नित्याभ्यासवत ऎव भवति नान्यथेति स्पष्टमाह- अनन्यचेता इति ॥ सततमन्यविषयकचेतोहीनः सन् यो मां नित्यशः स्मरति । तस्य नित्ययुक्तस्य नित्योपायवतः योगिनः सम्पूर्णोपायवतः अहं सुलभः अन्तकाले स्मृतिविषयो भवानीत्यर्थः । यद्वा सुलभः सुखेन लभ्यः प्राप्य इत्यर्थः ॥ 14 ॥
प्रागुक्तपरमगतिः केत्यतो मत्प्राप्तिरूपेति तदुपायोक्तिपूर्वं परमगतिविवरणार्थोऽयं श्लोकः । अत ऎव परमगतिः सुलभ इत्युक्त भगवल्लाभश्च तत्प्राप्तिरूपमेव फलमिति भावेन तत्प्राप्तिं स्तौति - मामिति ॥ महात्मानो ज्ञानिनः मामुपेत्य प्राप्य दुःखालयं दुःखाश्रयं अशाश्वतं अनित्यं नाशशिरस्कं जन्म देहयोगं पुनर्नाप्नुवन्ति । कुतः यतः परमां संसिद्धिं मोक्षलक्षणं गताः प्राप्ताः । तत इति योजना ॥ 15 ॥
ब्रह्मादीन् प्राप्तानामपि पुनर्जन्माभावात् किं विशिष्योच्यते मामुपेत्येत्यादि तत्राह- आब्रह्मेति ॥ आ~घत्राभिविधौ । मेरुस्थब्रह्मसदनादारभ्यार्वाक्तनाः लोकाः तत्र गताः जना इति यावत् । पुनरावर्तिनः पुनर्भूमावागत्य जन्मादिमन्तो भवन्तीत्यर्थः । ननु मेरुस्थब्रह्मसदनादारभ्यार्वाक्तनलोकस्थाः पुनरावर्तिन इत्युक्त्वा अर्थात् ``आमेरुब्रह्मसदनादाजनान्न जनिर्भुवि" (नारा.गो.कल्पे) इति स्मृत्या च तत उपरितनलोकस्थाः न पुनरावर्तिन इति प्राप्तत्वात्, मामुपेत्य पुनर्जन्म नाप्नुवन्तीति कथमुच्यत इत्यतः तदेव पुनराह- मामिति ॥ सत्यम् । मेरुस्थब्रह्मसदनाज्जनोलोकाच्चोपरिस्थितानां जनिर्नेति । तथाऽपि तल्लोकस्थत्वमात्रं न जन्माभावे प्रयोजकं किन्तु तत्र स्थितं मामुपेत्य स्थितानामेव जन्म पुनर्न विद्यते । अतः प्रागुक्तं नायुक्तमिति भावः । तदुक्तम् । `तथाप्यभावः सर्वत्र प्राप्यैव वसुदेवजं" (नारा.गो.कल्पे) इति । अभावः जननाभाव इत्यर्थः । यत्तु `आजनान्न जनिर्भुवीति' जनोलोकादुपरिस्थितानामप्यपुनरावृत्त्युक्तेः ब्रह्मसदनादर्वाक् स्थिताः पुनरावर्तिनः तदुपरिस्थाः अपुनरावर्तिन इत्युक्तिरयुक्तेति चोद्यम् , तद् ब्रह्मभवनपदेन मेरुस्थब्रह्मसदनग्रहणात्परिहृतम् । सत्यलोकस्थब्रह्मसदनग्रहणेऽपि आब्रह्मभुवनात् सत्यलोकस्थब्रह्मसदनादर्वाक्तनतपोलोकस्थजना अंशेन पुनरावर्तिन इत्यर्थः । नच `आजनात्' इति वचनविरोधः । तत्र स्मृतौ जनिर्नेत्यस्य कार्त्स्नेन जनिर्नेत्यर्थकत्वात् । जनादिलोकस्थानामप्यंशेनापि भूमौ लयान्ते लयादौ च कार्त्स्नेन जनिमृत्योर्भावात् । `आब्रह्मभवनात्' इत्यत्र तत उपर्यार्थिकजन्माभावोक्तिस्तु मुक्तजन्माद्यभावोपेतमुक्तजनविषया । तेषामंशेनापि भूमौ जननाद्यभावादिति । एतेन `आमेरुब्रह्मसदनादाजनात्' इति स्मृत्या मेरुजनान्तरालिकानां जन्माजन्मनोरर्थात्प्राप्तेर्विरोध इति प्रत्युक्तम् । अजनेर्मुक्तविषयत्वात् जनेरुक्तदिशा मुक्तेतरविषयत्वादिति । तदुक्तम् । `नियमाज्जन्मनोऽभावो मुक्तस्यैव' इत्यादि ॥ 16 ॥
मत्प्राप्तावेवापुनरावृत्तिरिति प्रतिज्ञामात्रेणोक्तस्य स्थापनायादौ सृष्टिप्रलयादिकर्तृत्वं आत्मनो वक्तुं उपोद्घातमाह- सहस्रेति ॥ सहस्रशब्दो अत्र बहुशब्दपर्यायः । ये जनाः यत्परब्रह्मणोऽहः तद् बहुयुगपर्यन्त द्विपरार्धात्मकं विदुर्जानन्ति । ब्रह्मणः परब्रह्मणो रात्रिं च युगसहस्रान्तां बहुयुगान्तां द्विपरार्धात्मिकां विदुः । तेऽहोरात्रविद इत्यर्थः । यदित्यस्य य इति वाऽर्थः । स इति शेषो वा । परब्रह्मणः कूटस्थनित्यस्यापि सृष्ट्यादिसव्यापारनिर्व्यापारावस्थयोरुपचारात् अहोरात्रत्वोक्तिः ॥ 17 ॥
ततः किमित्यत आह- अव्यक्तादिति ॥ ब्रह्मणोऽहरागमे महाप्रलयान्त इति यावत् । अव्यक्ताद् भगवतो व्यज्यन्त इति व्यक्तयः गुणवैषम्यादयः कार्यपदाथाः#240; प्रभवन्ति उत्पद्यन्ते । रात्र्यागमेऽव्यक्तसञ्ज्ञके तत्रैव भगवति प्रलीयन्ते ॥ 18 ॥
महामहिम(त्व)ख्यापनाय सृष्टिप्रलययोरविच्छेदमाह- भूतेति ॥ प्राग्जन्मलयवत्त्वेनोक्तो यः स ऎवयं भूतग्रामश्चराचरसमुदायः ब्रह्मणोऽहरागमे प्रत्यहमिति यावत् प्रभवति । भूत्वा भूत्वा चोत्पद्योत्पद्य रात्र्यागमेऽवशो भगवद्वशः सन् प्रलीयन्ते । भूतग्रामो भूत्वा भूत्वा रात्र्यागमे प्रलीयन्ते पुनरहरागमे प्रभवतीति वा योजना ॥ 19 ॥
भगवतोऽहोरात्रोक्त्या तस्यापि जगत इवान्यस्मादुत्पत्तिलयौ स्त इत्यतो नेत्याह- पर इत्यादिद्वाभ्याम् ॥ अव्यक्तस्तु भगवांस्तु तस्मात्प्रभवप्रलयोपेतात् व्यक्ताद् भूतग्रामादन्यो विलक्षणो भावः स्वतन्त्रः परः उत्तमः सनातनोऽनादिश्च यो भगवान् सर्वेषु (भूतेषु) नश्यत्सु न विनश्यति ॥ 20 ॥
सर्वात्मना नाशाभावादेवाव्यक्तो भगवानक्षर इत्युक्तः ``तस्मादक्षरं तस्मादक्षरं" इति श्रुत्यादौ तां परमां गतिमाहुः । तामिति विधेयापेक्षया स्त्रीलि~घ्गता । कुतोऽव्यक्तो भगवान्परमप्राप्य इत्यत आह- यं प्राप्येति ॥ तन्मम धाम स्वरूपमित्यर्थः ॥ 21 ॥
`भक्त्या युक्तो योगबलेन चैव ' इत्यत्र साधनान्तरैः सह भगवत्प्राप्तिसाधनत्वं भक्तेरुक्तम् । तत्र साधनान्तरसाम्यश~घ्कानिरासाय भक्तेरेव परमसाधनत्वमिति भावेनाह - पुरुष इति ॥ भूतानि यस्यान्तःस्थानि । सर्वमिदं जगत् येन ततं व्याप्तं स परमः पुरुषः भगवाननन्यथाऽन्यासाधारणया तु भक्त्या लभ्यः प्राप्य इत्यर्थः । अत्र परमयेत्यनुक्तावपि पुनर्वचनबलादेव परमत्वलाभ इति भावः । उक्तं हि ` परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्वनुबन्धः ' (3-3-54) इति सूत्रे भक्तेः प्राधान्यात् ॥ 22 ॥
भगवन्तं प्राप्तनां अन्येषां चापुनरावृत्तिपुनरावृत्ती कथिते । तत्र यद् देवताधिष्ठितमार्गाभ्यां गतानामपुनरावृत्तिपुनरावृत्ती भवतः ता देवता प्रतिज्ञापूर्वकमाह- यत्रेत्यादित्रयेण ॥ काल इति यत्कालाभिमानि देवताधिष्ठितमार्गे कालानभिमानिदेवताधिष्ठितमार्गे च प्रयाता योगिनः अनावृत्तिमावृत्तिं च यान्ति तं कालं तत्कालाभिमानिदेवता अन्यदेवताश्च वक्ष्यामीत्यर्थः ॥ 23 ॥
ता देवता उद्देशेनाह- अग्निरिति ॥ अग्निनामकदेवता । ज्योतिरिति अर्चिर्नामकदेवता । अहरहरभिमानिदेवता । अभिजिद्देवतासहितेत्यपि ध्येयम् । शुक्लः शुक्लपक्षाभिमानिनी पौर्णमास्यभिमानिना सहेति ग्राह्यम् । षण्मासाभिमानिनी उत्तरायणाभिमानिनी विष्ण्वभिमानिना सहेति ज्ञेयम् । तत्र क्रमेण निर्दिष्टाग्न्यादिदेवताऽधिष्ठितमार्गे प्रयाताः ब्रह्मविदो जनाः ब्रह्म गच्छन्ति ॥ 24 ॥
धूम इत्यादि धूमाद्यभिमानिदेवतानिर्देशः । तत्र धूमादिदेवताऽधिष्ठितमार्गे प्रयाता इति योज्यम् । योगी कर्मयोगी । पूर्वत्र ब्रह्मविद इति । अत्र योगीति विशेषणाच्च क्रमात् मार्गद्वयस्य ज्ञानकर्मसाध्यत्वमुक्तं ध्येयम् । एतच्च मार्गद्वयं अन्तकाले तद्विषयस्मृतिमतामेवेति ज्ञेयम् । तदाह सूत्रे - `` योगिनः प्रति स्मर्येते स्मार्ते चैते "(4-2-22) इति ॥ 25 ॥
उक्तौ मार्गौ निरामयति - शुक्लेति ॥ एते प्रागुक्ते शुक्लकृष्णे गती मार्गौ जगतः ज्ञानकर्मयोगिजगत् सम्बन्धिनौ शाश्वते शाश्वत्यौ मते । एकया गतः अनावृत्तिं याति । अन्यया गतः पुनरावर्तत इति ॥ 26 ॥
मार्गयोरुक्तेः फलमाह- नैते इति ॥ हे पार्थ एते प्रागुक्ते सृती मार्गौ जानन् योगी सृत्युपायभूतज्ञानकर्मानुष्ठानवान् । यद्वा योगी ब्रह्मापरोक्षज्ञानवानेते सृती जानन् साक्षात्कुर्वन् कश्चन कोऽपि न मुह्यति । भगवद्विस्मृतिरूपमोहं न प्राप्नोति । तस्माद्योगस्य पुमर्थहेतुत्वात् सर्वदा भगवद् ज्ञानभक्तिपूर्वं स्वोचितनिवृत्तकर्मानुष्ठानरूपोपाययुक्तो भवेति । द्विः सम्बोधनमादरार्थम् ॥ 27 ॥
अध्यायार्थं फलोक्त्योपसंहरति- वेदेष्विति ॥ वेदाध्ययनयज्ञानुष्ठान-कृच्छ्रादितपश्चरणेषु यदेव पुण्यफलं प्रदिष्टं निर्दिष्टमस्ति । तत्सर्वमेवेति वा ऎव शब्दान्वयः । इदं अध्यात्मादिस्वरूपं भगवतोऽशेषस्रष्टृXृत्वं शुक्लकृष्णमार्गादिकं च प्रागुक्तं विदित्वाऽत्येति अतिक्रामति । ततोऽतिशयितफलवान् भवति । किं तदित्यत आह- योगीति ॥ ज्ञानोपायवान् । आद्यं परं स्थानं विष्णोः स्थानमुपैति चेति । यद्वा ``मार्गौ ब्रह्म च यः पश्येत् साक्षादेवापरोक्षतः । सर्वपुण्यातिगोऽमुह्यन् यात्यसौ ब्रह्म तत्परम् "। इत्युक्तदिशा मार्गब्रह्ममात्रपरमार्शकोऽत्रेदं शब्दः । विदित्वेत्यस्य साक्षात्कृत्वेत्यर्थः ॥ 28 ॥
॥इति श्रीमद्भगवद्गीतार्थसङ्ग्रहे श्रीमद्राघवेन्द्रयतिकृते अष्टमोऽध्यायः ॥
॥ श्रीमध्वेशार्पणम्स्तु ॥
*************************************************************************************************************
॥ अथ नवमोध्यायः ॥
हरिः ॥ सप्तमेऽध्याये `साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ' (7-30) इत्यादिनोक्तं भगवन्माहात्म्यं अत्राध्याये प्रपञ्चयते । न चैवं तदानन्तर्यमेवास्य श~घX क्यम् । अध्यात्मादिपदानां निरूपणेन परिहारोक्त्यनन्तरमेवात्र साधिभूतादिवाक्यार्थभूतभगवन्माहाम्त्यवर्णनस्यावसरादिति ध्येयम् । अतिचित्रमहिमानं वक्तुं तत्रादरजननाय प्रतिज्ञापूर्वं वक्ष्यमाणं प्रशंसति- इदं त्विति ॥ गुह्यतमं अतिगोप्यमिदं वक्ष्यमाणं ज्ञानम् । कर्मणि ल्युट् । ज्ञातव्यं विशेषेण ज्ञातव्यसहितम् । अनसूयवे असूयादिदोषहीनस्य । ऎवं रूप ऎवाधिकारीति ज्ञापनायैतद्विशेषणोक्तिः । ते तुभ्यं प्रवक्ष्यामि यद् ज्ञात्वा अशुभान्मोक्ष्यसे । यच्छब्दस्येदं त्वित्यनेनान्वयः ॥ 1 ॥
पुनः प्रशंसति - राजेति ॥ इदं वक्ष्यमाणं राजविद्या राज्ञी चासौ विद्या च राजविद्या । विद्यानां प्रधानविद्येत्यर्थः । राजगुह्यं गुह्यानां गोप्यानां मध्ये प्रधानगोप्यम् । पवित्रं पावित्र्यहेतुम् । अत एवोत्तमम् । प्रत्यक्षावगमं अक्षेषु प्रति प्रति स्थितः प्रत्यक्षो भगवान् । कुगतिप्रादय इति प्रादिसमासो नान्वयीभावः । अवगम्यते साक्षात् क्रियते येन तत् अवगमम् । ग्रहवृद्दनिश्चिगमश्चेति करणे गमेरप्परत्ययः । प्रत्यक्षस्य हरेरवगमं प्रत्यक्षावगमं सर्वेन्द्रियप्रेरकभगवदपरोक्षज्ञानसाधनम् । धर्म्यं सर्व(र्वा)धारकत्वाद् धर्मो भगवान् । घृञX धारण इत्यतः ौणादिको मन् प्रत्ययः । धर्मादनपेतं तद्विषयं धर्म्यम् । सर्वधारकभगवद्-विषयपरोक्षज्ञानं भगवदपरोक्षज्ञप्तिसाधनम्, अव्ययं अक्षयमोक्षफलकं कर्तुं सम्पादयितुं सुसुखं अत्यन्तसुलभमित्यर्थः । प्रवक्ष्यामीति पूर्वेणान्वयः ॥ 2 ॥
ननु त्वयोच्यमानं भगवदपरोक्षज्ञप्तिसाधनं तद्विषयपरोक्षज्ञानं उक्तगुणकं सुकरं चेन्न कोऽपि संसारी स्यादित्यतो वा अकुर्वतां किमनिष्टमित्यतो वाऽऽह- अश्रद्दधाना इति ॥ धर्म्यस्य भगवद्विषयस्यास्य ज्ञानस्याश्रद्दधानाः पुमर्थहेतुत्वरूपश्रद्धाविहीनाः पुरुषाः मामप्राप्य मृत्युसंसारवर्त्मनि निवर्तते नितरां वर्तन्ते पतन्तीत्यर्थः ॥ 3 ॥
यस्य धर्म्यपदेन प्रत्यक्षावगमपदोक्तभगवद् ज्ञानसाधनत्वमुक्तम् । यच्च प्रवक्ष्यामीति प्रतिज्ञातम् । यच्च ज्ञात्वेत्यादिना प्रशंसितम् । यदकरणे च निन्दाकृता । तद् ज्ञानविज्ञानयोर्मध्ये ज्ञानशब्दितं ज्ञातव्यं तावदाह- मयेत्यादिना अहङ्क्रतुरिति पर्यन्तेन (9-16) । इदं सर्वं चराचरात्मकं जगदव्यक्तमूर्तिना । बहुव्रीहिः । मया ततं व्याप्तम् । व्याप्तत्वे सर्वत्र कुतो न दृश्य इत्यतोऽव्यक्तेति विशेषणम् । ततमित्युक्त्या जगत आधारता स्वस्याधेयता घटादेरिव प्राप्ता तां निराह- मत्स्थानीति । मदाधारतयैव सर्वभूतानि सजडजीवजातानि । तेषु चाहं नावस्थितः तदाधारतया तदुपजीवनेन न वर्त इत्यर्थः ॥ 4 ॥
त्वयि चेद् भूतानि तिष्ठन्ति भूतले वर्तामहे भूतलशैत्यादिनाऽहं शीतो भवामीति ज्ञानमिव भगवति वयं वर्तामह इति धीः स्यात् । तथा वह्न्याद्यौष्णशैत्याभ्यां भूतलादेरौष्ण्यशैत्यवदन्योन्यधर्मस~घX क्रान्तिश्च स्यादित्यत आह- नच मत्स्थानीति ॥ त्वगिन्द्रियेण तं ज्ञात्वाऽन्योन्यधर्मस~घX क्रान्तिं चासाद्य न तिष्ठन्ति । भगवतः प्राकृतस्पर्शरहितत्वात् । `अशब्दमसस्पर्शमरूपं' (कठ 3-15) इत्यादि श्रुतेः । `न दृश्यश्चक्षुषा चासौ न स्पृXृश्यः स्पर्शेन च' (मोक्षधर्मे) इति स्मृतेः । भूताधारोऽपि कथं तदनाधार इत्यत उक्तं - पश्येत्यादि ॥ ऐश्वरं ईश्वरसम्बन्धिनं मे योगं सामर्थ्यम् । `योगोऽसावुपायः शक्तिरेव चेति' वचनात्, पश्य मम तादृशी शक्तिमित्यर्थः । पूर्वत्राव्यक्तमूर्तिनेति मूर्तावुक्तायां साऽस्मदादीनामिव भिन्नेति भ्रान्तिनिरासाय स्वलक्षणं भूताधारत्वादिकं स्वदेहस्याप्याह- भूतभृदिति ॥ भूतभावनः भूतानामुत्पत्तिकर्ता ममात्मा मम देहः अहमिव भूतभृत् भूतस्थश्च न भवति इत्यर्थः । अत्र मम देह इति वक्तव्ये ममात्मेत्युक्तिः अचेतनस्य देहस्य कथं भगवल्लक्षणं स्यादिति श~घX कास्यात् तन्निवृत्तये तस्य चेतनत्वं पृथग् वाच्यं स्यादात्मपदप्रयोगे तु देहत्वं चेतनत्वं द्वयमप्युक्तं स्यात् । आत्मपदस्य देहचेतनरूपोभयार्थत्वादिति ॥ 5 ॥
भगवतःसर्वाधारत्वेऽप्यन्योन्यधर्मस~घX क्रात्यादिरसम्भावित इत्यतो दृष्टान्तेन तदुपपादयति- यथेति ॥ अवकाशं विनाऽवस्थित्ययोगात् नित्यमाकाशे स्थितो महान्वायुः सर्वत्रगोऽपि तत्तद्धर्मान्नाप्नोति । शैत्यसौरभादिकं तु वायुसम्बद्धजलाद्यवयवगतमेव । न वायुगतम् । तथा सर्वाणि भूतानि मत्स्थानि नान्योन्य धर्मस~घX क्रान्तिमन्तीत्युपधारयेति ॥ 6 ॥
प्रतिज्ञातज्ञानप्रदर्शनाय मयेत्यादिना हरेर्व्याप्तत्वसर्वाधारत्वाद्युक्त्वा न चेत्यादि श्लोकद्वयेन तदुपपाद्याधुना पुनः प्रतिज्ञातप्रदर्शनार्थं प्रलयादिकारणत्वमाह - सर्वेति ॥ कल्पक्षये प्रलयकाले सर्वाणि भूतानि स जडजीवजातानि मामिकां मदधीनां त्रिगुणात्मिकां प्रकृतिं यान्ति तत्र लीयन्ते । पुनस्तानि भूतानि कल्पादौ विशेषेण विविधतया चाहं सृजामि ॥ 7 ॥
सृष्टौ प्रकृतेरनुक्तेः साधनानि विनैव सृष्टिं करोतीति प्रतीतिनिरासायोक्तं विवृणोति - प्रकृतिं इति ॥ स्वां स्वाधीनां प्रकृतिं त्रिगुणात्मिकामवष्टभ्य उपादानतयाऽऽश्रित्य प्रकृतेर्वशात् तदधीनत्वादवश्यं स्वानधीनम् । यद्वा मदधीनप्रकृतिवशत्वादेव अकारवाच्यब्रह्मरूपमदधीनं इमं कृत्स्नं भूतग्रामं पुनः पुनः विसृजामि । प्रकृत्यादिसाधनावष्टम्भो न तेन विना स्रष्टुमसामर्थ्यात् । किन्तु लीलयैव । प्रकृत्यादेः साधनताशक्तेर्मदायत्तत्वादिति ज्ञापनाय स्वामिति विशेषणोक्तिः । तदुक्तं तदनन्यत्वनये `` युक्तेः शब्दान्तराच्च "(2-1-19) इति सूत्रे ॥ 8 ॥
ननु नानाविधां सृष्टिं कुर्वतस्तव जीवस्येव कर्मबन्धोऽस्ति किं इत्यतो नेत्याह- नचेति ॥ तानि सृष्ट्यादीनि कर्माणि मां न निबध्नन्ति । कुतः ? उदासीनवदासीनम् । स्वत ऎव कर्तृत्वं न मायिकं चेत् कथमुदासीनतया वर्तनमित्यत उदासीनतयाऽऽसीनमित्यनुक्त्वा उदासीनवदित्युक्तम् । वस्तुतोऽनुदासीनोऽप्युदासीनसदृशतया वर्तमानमित्यर्थः । किं तत्सादृश्यमित्यत उक्तं असक्तं तेषु कर्मस्विति । उदासीनस्य यथा सक्तिर्नास्ति तथा ममापि तत्र सृष्ट्यादिकर्मणि सक्तिशब्दितस्यादरस्य आयासस्य वाऽभावान्न निबध्नन्ति इत्यर्थः ॥ 9 ॥
ननु पूर्वं प्रकृतिं स्वामवष्टभ्य विसृजामीत्युक्त्या उदासीनवदासीनमित्युक्त्या च निष्क्रियत्वं प्रतीयते । ऎवं तर्~हि प्रकृतिरेव स्वातन्त्र्यॆण जगत्प्रसूयते त्वयि तु प्रकृतिसन्निधानात्कर्तृत्वोपचारमात्रमित्यापन्नमित्यत आह- मयेति ॥ यद्यप्येषा श~घ्का मामिकामिति स्वामिति असक्तं तेषु कर्मसु इत्युक्त्या निरस्ता । तथाऽपि स्वस्वातन्त्र्यं स्पष्टं वक्तुं प्रागुक्तपरिहाराच्छादनेनोक्तां श~घ्कां हृदि कृत्वा मयेति श्लोकेन पर्यहार्षीदिति ज्ञेयम् । अध्यक्षेणेति प्रतिपदिकेन साक्षात्कारः तृतीयया च कर्तृत्वमुच्यते । प्रकृतिहेतुकप्रसवं साक्षात् कुर्वता तत्प्रयोजनकर्त्रा च मयेति दर्शनपूर्वकत्वात् प्रयोजकत्वस्यैवमुक्तिः । यद्वा मत्प्रयोजितप्रकृतिरूपहेतुना दर्शनपूर्वकं मद्रूपप्रयोजककर्तृरूपहेतुना च जगद्विशेषेण परिवर्तते पुनः पुनर्जायते ॥ 10 ॥
यद्येवं भवान् जगतः सृष्टिस्थितिसंहाराणां कर्ता तर्~हि कुतः केचित् त्वामवजानन्ति । अवज्ञानेऽपि तेषामनर्थाभावात् सर्वकर्ता अहमिति प्रागुक्तमयुक्तमत आह- अवजानन्तीत्यादि द्वयेन ॥ मानुषीं तनुमाश्रितं मानुषदेहमधिष्ठितोऽयमिति मूढलोकभ्रान्तिविषयं मामिति वा । अज्ञानामवज्ञानकारणतया मानुषीं मनुष्यदेहसादृश्येन प्रतीयमानां तनुं आश्रितमिति वार्थः । एतेनात्र हरेः मानुषदेहोक्तेस्तस्य चाधारेणान्योन्यधर्मस~घX क्रान्त्यादेरवश्यम्भावात् `भूतभृन्न च भूतस्य' इति प्रागुक्तिरयुक्तेति निरस्तम् । तथा तनुतनुमतोरभेदेऽपि आश्रितमित्युक्तिश्च चैत्रदेहश्बैत्राधीनो यथा तथा भगवद्देहोऽपि स्वाधीन इति स्वाधीनत्वगुणयोगाद् गौणीति मामात्मेत्यत्रत्याभेदोक्तिर्न विरुद्धेति ज्ञेयम् । एतादृशं मां मूढास्तामसा भूतमहेश्वरं भूतं सदाविद्यमानं महान्तमीश्वरं गुणपरिपूर्णं परमुत्तमं मम भावं याथार्थ्यं अजानन्तोऽवजानन्ति अवमतया जानन्ति । `ब्रह्मरुद्ररमादीनां साम्यदृष्टिः' इत्यादि तात्पर्योक्तदिशा अन्यदप्यवज्ञानं ज्ञेयम् ॥ 11 ॥
अवजानतामनर्थाभावादिति हेतुरसिद्ध इति भावेन फलमाह- मोघेति ॥ मोघाशाः वृथाशाः भगवद् द् वेषिभिराशासितस्य सम्पदादेः प्राप्तावपि आमुष्मिकस्य न कस्यचिदव्याप्तिरित्यर्थः । मोघकर्माणः यज्ञादिकर्माणि च तेषां वृथैव । तत्त्वविषयकज्ञानं च तेषां वृथैवेति मोघज्ञानाः । ज्ञानस्य मोघत्वं नाम केनापि ब्रह्मरुद्रादिभक्त्याद्युपायेनानुत्पत्तिरेव ` सर्वथाऽपि तु त एवोभयलि~घ्गात् '(3-4-34) इति सूत्रात् । विचेतसो विरुद्धमनस्काः । किं बहुना । कोऽप्यामुष्मिकः पुमर्थो नास्त्यत एवेति ज्ञेयम् । `द्वेषाच्बैद्यादयो नृपा' (भाग.7-1-32) इत्यादि नित्यध्यानस्तुत्याद्यर्थमिति भावः । ननु मौढ्यान्मिथ्याज्ञानमस्तु । प्रज्वलनात्मको द्वेषः कुत इत्यतो वा अन्येषामविद्यमानं मौढ्यमेव तेषां कुत इत्यतो वा तस्य मूलकारणमाह- राक्षसीमिति ॥ मोहिनीं बुद्धिभ्रंशकरीं आसुरीं असुरसम्बन्धिनीं प्रकृतिं स्वभावं आश्रिताः तमोयोग्याः मामवजानन्तीति पूर्वेणान्वयः ॥ 12 ॥
ननु भगवतो दोषित्वादेवावजानन्तीति किं न स्यात् । तथात्वे दैवप्रकृतयोप्यवज्ञं कुयुः#240; । न चैवमस्तीत्याह - महात्मानस्त्विति ॥ देवीं मुक्तियोग्योत्तमजीवसम्बन्धिनीं प्रकृतिं स्वभावं आश्रिताः महात्मानो महामनस्कास्तु भूतादिं भूतानां करणं अव्ययं चतुर्विधनाशहीनं मां ज्ञात्वाऽनन्यमनसोऽन्यविषयकमनोहीना मदेकमनस्काः सन्तो मां भजन्ति सेवन्ते ॥ 13 ॥
भजनप्रकारमाह- सततमिति ॥ मां सततं कृष्ण कृष्णेत्यादिरूपेण कीर्तयन्तः यतन्तः मत्पूजादौ यत्नं कुर्वन्तः । दृढानि उपवासादिनियमव्रतानि येषां ते दृढव्रताः । नित्ययुक्ताः नित्यं मयि मनोयोगवन्तः । नित्यं कर्मज्ञानोपायवन्त इति वा । भक्त्या नामास्यन्तश्च मामुपासते ॥ 14 ॥
अन्येऽपि च महात्मानो ज्ञानाख्ययज्ञेन मां यजन्तः पूजयन्तः मामुपासते । श्रवणमननध्यानादि कुर्वन्तः परेभ्यः उपदिशन्तश्च नित्यं भगवन्माहात्म्यज्ञाने रता इत्यर्थः । विश्वतोमुखं मुखशब्दोऽत्र सर्वावयवोपेतरूपपरः । विश्वस्मिन्सर्वत्र स्थितं मामेकत्वेन पृथकत्वेन सर्वजगद् वैलक्षण्येन बहुधा च शुक्लनीलपीतादिभेदेन बहुधोपासत इति वा । बहुधा बहव इत्यर्थः । `दैवमेवापरे यज्ञम्'(4-24) इत्यादिना चतुर्थोक्तदिशा बहव उपासत इति वाऽर्थः । यद्वा `एकमूर्तिश्चतुमूर्तिरथवा पञ्चमूर्तिक ' इति तात्पर्योक्तदिशा सर्वरूपात्मकनारायणरूपैकमूर्तित्वेन पृथक्त्वेन वासुदेवादिचतुर्मूर्तित्वेन बहुधा नारायणवासुदेवादिपञ्चमूर्तित्वेन विश्वतोमुखं द्वादशचतुर्विंशत्यादिभेदेन स्थितं मामुपासत इत्यर्थः ॥ 15 ॥
ज्ञानं विज्ञानसहितं वक्ष्यामीति प्रतिज्ञातज्ञानविषयं निरूप्य अधुना विज्ञानप्रदर्शनाय तद्विषयमाह- अहं क्रतुरित्यादिचतुष्टयेन ॥ क्रतवः दीक्षाद्यवभृथान्तकर्मकलापाः ज्योतिष्टोमादयः । यज्ञस्तु देवतोद्देशेन द्रव्यत्यागरूपं प्रधानं कर्म । कुरुपाण्डववत्सामान्यविशेषाभावेन भेदो ज्ञेयः । स्वधा पिXरूणां तिलोदकादिदानम् । अहं क्रतुरित्याद्यभेदोक्तिः `रसोऽहमप्सु कौन्तेय' इत्यादाविव क्रत्वादेः क्रतुत्वादिनियन्तृत्वेन क्रत्व~घ्गहविरादिभोक्तृत्वादिना ध्येया ॥ 16 ॥
किञ्चास्य जगतः पिता जनकः अहं, माता धाता पोषकोऽहमिति सर्वत्रानुवृत्तिः । पितामहः पूज्यः । वेद्यं ज्ञेयं वस्तु पवित्रं चाहमेव । यद्वा वेद्यपवित्रवस्तुनोर्वेद्यत्वपवित्रप्रदत्वात्तथोच्यते । कारादावो~घ्कारत्व ऋक्त्वादि नियन्तृत्वात् तद् वेद्यत्वादिना तदभेदो ध्येयः । यद्वा `अर्च्यत्वादृक्समत्वाच्च' इत्यादि स्मृXृत्युक्तदिशा क्रत्वादिभिन्नस्य हरेर्योगवृत्त्या क्रत्वादिनामकत्वमिह ध्येयम् । तथा हि कृतिस्वरूपत्वात् क्रतुः । यदस्ति प्रामाणिकतया तज्जानातीति यज्ञनामा । स्वं स्वात्मानं धत्त इति स्वधा । उषदाहे कर्मणि घञX उषाः उष्टाः तापत्रयदग्धाः तेषां निधिरित्यौषधनामा । मानाद् ज्ञानात् त्रातीति मन्त्रनामा । आ समन्तात् ज्यायस्त्वादाज्यनामा । अगस्य स्वतो गतिहीनस्य जगतो नेतेत्यग्निनामा । यज्ञादावाहूतत्वात् हुतनामा । मित्त्याक्रियत इत्यो~घ्कारः । अर्च्यत्वात् पूज्यत्वाद् दृ~घX नामा । सर्वरूपेषु समत्वात् सासमनामा । याज्यत्वाद्यजुर्नामा ॥ 17 ॥
मुमुक्षुभिरवगम्यत्वाद् गतिः । भर्ता पोषकः । प्रभुः स्वामी । साक्षात्सर्वमीक्षत इति साक्षी । निवासः आश्रयः । शरणं भीतरक्षकः । मुक्ताश्रय इति यावत् । सुहृदनिमित्तोपकारी । प्रभवः जगदुत्पत्तिकर्ता । प्रलयकर्तृत्वात् प्रलयोऽहम् । स्थानं सर्वाधारोऽहम् । नितरां धारकत्वाद् वा प्रलयकाले प्रकृत्यादिजगदत्र निधीयत इति वा निधानम् । तेन `प्रकृतिं यान्ति भूतानि' इत्युक्तविरोधः । जगद् व्यञ्जकत्वाद् बीजम् । तथात्वेऽपि अविकारित्वप्रदर्शनायोक्तमव्ययमिति ॥ 18 ॥
किञ्च अहमादित्यस्थस्तपामि तापं करोमि । मेघचक्रगतः सन्वर्षं वृष्टिं उत्सृXृजामि निगृह्णामि उपसंहरामि । अहमिन्द्रियेषु स्थित्वा तेषां देहधारणेन मृतिं परिहरतीति हेतोरमृतं अहम् । प्रलयकालादन्यकाले संहतृत्वात् मृत्युरहम् । सत्कार्यजातमहम् । असच्च कारणजातमहमेव । तन्नियन्तृत्वादेरभेदोक्तिः । अहमित्यसकृदुक्तिरुपचारनिवृत्त्यर्था । यद्वा साधुगुणपूर्णत्वात् सदित्युक्तोऽहम् । साधुगुणपूर्णपुरुषान्तरराहित्याद् असदित्युक्तोऽहमेवेत्यर्थः ॥ 19 ॥
ननु सर्वयज्ञादिभोक्तृत्वादिनाऽहङ्क्रतुरित्याद्युक्तिरिति प्रथमव्याख्यानं यत्तदयुक्तम् । तथात्वे त्रैविद्यकृतयज्ञभोक्तृत्वस्यापि प्राप्त्या तेषां भागवतानां च फलभेदो न स्यात् । भगवद् भोगनिमित्तकत्त्वात् कर्मफलस्य तस्य च सर्वत्र साम्यात् । अतो भगवतानुष्ठितभगवद् भजनस्य त्रैविद्यकृतयज्ञफलादप्यतिशयफलमाह- त्रैविद्येत्यादित्रयेण ॥ तिस्रो विद्या ऋग्यजुःसामलक्षणा येषां ते त्रैविद्याः । त ऎव त्रैविद्याः । विष्णुं सर्वोत्तमं ज्ञात्वाऽपि त्रय्यां मुखतः प्रतीयमानस्वर्गाद्युद्देश्यकान्यदेवतायजनं बुध्वा तथैवानुष्ठायान्ते विष्णौ समर्पणं कुर्वन्तः त्रैविद्याः मां यज्ञैरिष्ट् वाऽन्ते मयि समर्प्य सोमपाः हुतशेषसोमरसपानवन्तोऽत ऎव पूतपापाः शोधितकल्मषाः सन्तः स्वर्गति स्वर्गमार्गम् । स्वराख्यप्राप्यं वा प्रति । मां प्रार्थयन्ते । ते पुण्यं पुण्यलभ्यं सुरेन्द्रलोकं स्वर्गमासाद्य प्राप्य दिवि स्वर्गे दिव्यान् द्युलोकभवान् । अलौकिकानिति वा भोगानश्नन्ति भुञ्जते ॥ 20 ॥
किञ्च ते स्वर्गकामेनान्यदेवतायाजिनस्तं विशालं विपुलं स्वर्गसुखं भुक्त्वा क्षीणे पुण्ये मर्त्यलोकं भूलोकं भुक्तावशिष्टपुण्ययुक्ताः सन्तः विशन्ति । तदाह सूत्रे ` कृतात्ययेऽनुशयवान् दृष्टस्मृXृतिभ्याम् ' (3-1-8) इति । पुनरप्येवं त्रयीधर्मं वेदोक्तं धर्ममनुपपन्ना अनुतिष्ठन्तः कामकामाः भोगेच्छवः गतागतम् । द्वन्द् वैकवद्भावः । गतेन सहितं आगतमिति वा । स्वर्गं प्रति गमनं ततो मर्त्यलोकं प्रत्यागमनं च लभन्ते । न कदाऽप्यपुनरावृत्तिं प्राप्नुवन्तीत्यर्थः ॥ 21 ॥
त्रैविद्यानां फलमुक्त्वा भागवतानां फलमाह- अनन्या इति ॥ न विद्यतेऽन्यश्चिन्त्यत्वेन येषां ते अनन्याः अन्यदचिन्तयन्तो मां चिन्तयन्तो ये जनाः पर्युपासते भक्त्युद्रेकेण उपासते तेषां नित्याभियुक्तानां नित्यमभि सर्वस्मिन्देशे शरीरेन्द्रियमनोभिर्वा युक्तानां भगवत्सेवोद्युक्तानां नित्यं तत्स्मरणवतामिति वा । योगक्षेमम् । द्वन्द् वैकवद् भावः । योगस्य क्षेम इति वा । अप्राप्तप्राप्तिर्योगो मोक्षरूपः । तस्य क्षेमः अनन्तत्वं वहामि । अहमपुनरावृत्तिलक्षणं पुरुषार्थं ददामीत्यर्थः । भगवतः सर्वयज्ञभोक्तृत्वाविशेषेऽपि त्रैविद्यभागवतयोः फलभेदो भगवद् यजनरूपोपायभेदकृत इति द्योतनायानन्या इत्यादिविशेषणोक्तिः । तथाहि । `यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिछति' (7-21) इत्यादौ पूर्वं त्रैविद्यानामन्यदेवतायाजित्वमुक्तम् । भागवतानां तद्विरोधितयाऽनन्या इत्युक्तम् । `नतु मामभिजानन्ति तत्त्वेने'ति त्रैविद्यानां अतिशयभक्तिज्ञानाभाव उक्तः । तत्त्वज्ञानाभावे भक्त्यभावस्य सिद्धत्वात् । भागवतानां तत्प्रतियोगितया भक्त्युद्रेकसूचनाय पर्युपासत इति परिशब्दप्रयोगः । तथोपासनस्यैव पर्युपासनत्वात् । ``स्वर्गतिं प्रार्थयन्ते" । ``कामा कामा" इति त्रैविद्यानां कामनमुक्तम् । तत्प्रतियोगितया भागवतानां चिन्तयन्तो मां मामेव चिन्तयन्ति न काममिति कामनाभाव उक्तः । ``मामिष्ट् वे"ति, ``मामेव यजन्त" इति त्रैविद्यानां अन्ते समर्पणमुक्तम् । तत्प्रतियोगितया नित्याभियुक्तानामिति सदा तत्स्मरणतदुद्देशयुक्तत्वमुक्तम् । अतो द्वयोर्वैष्णवत्वेऽपि भगवद् भोग्यकर्मवत्त्वेऽपि फलहेतूपायभेदात् फलभेद इति ॥ 22 ॥
भगवतेभ्योऽन्यदेवतायाजिनानां फलभेदं सहेतुकं प्रपञ्चयति - येऽपीति ॥ अन्यदेवताभक्ता येऽपि श्रद्धयान्विताः सन्तो अन्यदेवता यजन्ते । तदुद्देशेन हविस्त्यागं कुर्वन्ति । तेऽपि मामेवाविधिपूर्वकं यजन्ति । मदुद्देशेनैव कर्तव्येऽपि अन्योद्देशेन कृत्वा ते तत्कर्म अन्ते मध्यपर्यन्तीत्यविधिपूर्वकमासीत् मद्यजनमिति भावः ॥ 23 ॥
तद्यज्ञस्यापि भगवद्भोगत्वात् कथमविधिपूर्वकतेत्यतोऽविधिपूर्वकत्वे कारणमाह- अहं हीति ॥ सर्वयज्ञानां भोक्ता प्रभुश्च प्रवर्तक उद्देश्यश्च तादृशं मां तु तत्त्वेन अभि सम्यक् न जानन्ति । अभीत्यस्य सर्वोत्तमत्त्वेन हरिं जानन्तोऽपि यज्ञाद्युद्देश्यत्वादिना सम्य~घX न जानन्तीत्यर्थः । तत्त्वेनेत्यस्य तु ब्रह्माद्यन्यदेवतानां तु तत्परिवारत्वादिकं न सम्यक् जानन्तीत्यर्थः । हि यतोऽतस्ते च्यवन्ति । स्वर्गान्मर्त्यलोकं विशन्तीति ॥ 24 ॥
फलभेदं विविच्य प्रपञ्चयति- यान्तीति ॥ इन्द्रादिदेवेषु व्रतं नियमो येषां ते तथा इन्द्रादियाजकाः इन्द्रादीन् यान्ति । पितृव्रताः श्राद्धादिक्रियापराः पिXरून् यान्ति । भूतेज्या भूतेषु सप्तमातृकादिषु इज्या पूजा येषां ते भूतेज्याः । शिष्टं व्यक्तम् ॥ 25 ॥
अन्यदेवताभजनस्याल्पफलत्वेऽपि तदेव कार्यं सुशकत्वात् । त्वद् भजनं तु दुर्बलैरशक्यं कर्तुं, तवातिमहिमत्वादित्यत आह- पत्रमिति ॥ अनिषिद्धपत्रादिकं यो मह्यं भक्त्या ददाति । प्रयतात्मनः । ``यम उपरमे" प्रकर्षेणोपरतमनस्कस्य विषयविरक्तस्य भक्त्या समर्पितमश्नामि । भक्त्यैवाहं तुष्टो भवामि न द्रव्यादिनेति भावः ॥ 26 ॥
यतोऽल्पमपि भक्त्याऽर्पितं मम प्रीतिकरम् । अतस्त्वमपि तथा कुर्विन्त्युपसंहरति- यदिति ॥ हे कौन्तेय ! यत्त्वं यद्विहितं करोषि, विहितमिति सर्वत्रान्वेतव्यम् । निषिद्धादिकरणस्य प्रत्यवायहेतुत्वात् । पात्राय च यद् द्रव्यादि ददासि तत्सर्वं मयि समर्पणं कुरुष्व ॥ 27 ॥
त्वदर्पणेन किमित्यत आह- शुभाशुभेति ॥ शुभाशुभफलैरिति बहुव्रीहिः । ऎवं मयि सर्वसमर्पणे सति शुभाशुभफलकैः कर्मबन्धनैः मोक्ष्यसे । तदेव व्यनक्ति- संन्यासेति ॥ फलत्यागकर्मानुष्ठानाभ्यां युक्तात्मा विमुक्तः सन् मामुपैष्यसि ॥ 28 ॥
ननु भक्त्युपहृतमश्नामीत्युक्तदिशा यदि त्वं भक्तिप्रियः । तर्~हि द्वेषिणामप्रियश्चेति स्यात् । तथा च भक्तेषु द्वेषिषु यथाक्रमं स्नेहद्वेषवत्त्वादल्पभक्तस्य कस्यचिद् सुखरूपं बहुफलं ददासि अल्पद्वेषिणो बहुदुःखरूपं ददासि इत्यापद्यते । राजादौ तथा दर्शनात् । ऎवं च वैषम्यनैर्घृण्ये प्राप्नुतस्तवेत्यत आह- समोऽहमिति ॥ अहं सर्वेषु भूतेषु समः न वैषम्यादिमान् । यतो मे तदीयं द्वेषमपेक्ष्याधिकं द्वेष्यो नास्ति । तदीयां भक्तिमपेक्ष्याधिकः प्रियश्च नास्ति । किन्तु तत्तदीयद्वेषभक्त्यनुसारेण तत्तत्सदृशफलद ऎवाहम् । अतः समोऽहम् । नहि तत्तत्कर्मानुसारेणानुशासिता यमो विषमो भवति । तथात्वे `समवर्ती परेतराट्' इति प्रसिद्धिविरोधात् । तथेति भावेन भक्तिमतां फलमाह- य इति ॥ ये भक्ताः मां भजन्ति सेवन्ते ते मयि मदधीनाः मद्वशाः इति ज्ञानवन्तो भवन्ति । तेषु चाप्यहं तेषां वशोऽहमित्यर्थः । यद्वा सम इति पूर्वार्धे भक्तोऽभक्त इति पादद्वयमध्याहार्यम् । सर्वभूतेषु मे भक्तः द्वेष्यो नास्ति । अभक्तो मे प्रियो नास्ति । अतः समोऽहम् । यदि भक्तेषु द्वेषमभक्तेषु प्रीतिं कुर्यां तर्~ह्येव विषमः स्यात् । न चैवम् । किन्तु भक्त्यनुसारेण फलद इति भावेनाऽह- य इति ॥ ये मयि प्रीत्या वर्तन्ते तेष्वहं प्रीत्या वर्त इत्यर्थः ॥ 29 ॥
भक्तप्रशंसा क्रियते - अपि चेदित्यादिना ॥ सुदुराचारोऽपि भगवद् भक्तो यः कश्चिद् देवांशः ऋष्यादिः स्वयोग्याधिकपुण्यापगमाय दैवादत्यन्तदुराचारोऽपि अनन्यभाक् स्वातन्त्र्यॆण अन्य(देवतान्त) भजनहीनः सन् मां भजते चेत् सः साधुरेव मन्तव्यः । कुतः हि यस्माद् स चन्द्रसूर्याद्यंशः सम्यक् व्यवसितः सञ्जातसमीचीनभगवत्तत्त्वनिश्चयवानत इत्यर्थः ॥ 30 ॥
सम्यग्व्यवसायवत्त्वेऽपि सुदुराचारः कुतः साधुर्मन्तव्यः इत्यत आह- क्षिप्रमिति ॥ सम्यक् व्यवसायवत्त्वात् क्षिप्रं धर्मचित्तो भवति । शश्वत् शान्तिं शाश्वतमोक्षं च सम्यगधिगच्छति । हे कौन्तेय ! मे भक्तः दुराचारोऽपि न प्रणश्यति । नरकाद्यनर्थं न प्राप्नोति । एतच्च देवदेवांश ऋष्यादिविषयं ज्ञेयम् ॥ 31 ॥
कैमुत्येन च भक्तेर्महिमानमाह- मां हीत्यादिना ॥ हे पार्थ ! पापयोनयः स्वयमुत्तमवर्णा अपि पापहेतुका योनिर्जन्म येषां ते पापयोनयः । ते क इत्यत उक्तम् - स्त्रिय इत्यादिना ॥ स्वतः पुमांसोऽपि पापात् सुद्युम्नस्य इलात्वमिव स्त्रीत्वं प्राप्ता ये च स्वतो ब्राह्मणादिरपि पापाद् वैश्यादिहीनर्वणतां प्राप्ताः शूद्रत्वं वा प्राप्ताः मामाश्रित्य स्युः वर्तेरन् । मयि भक्तिमन्तो भवेयुः तेऽपि परां गतिं यान्ति ॥ 32 ॥
पुण्याः पुण्यहेतुकाः ब्राह्मणाः (स्वरूपतः) शूद्रादिहीनवर्णा अपि स्वयं यदि पुण्यवशेन(देहतः) ब्राह्मणत्वं प्राप्ताः । तथा राजत्वं ऋषित्वं वा प्राप्ताः परां गतिं यान्ति । किं पुनः स्वाभाविकाः एते स्त्रीवैश्यादयः परां गतिं यान्तीति वाच्यमित्यर्थः । अत्र नैमित्तिकस्त्रिवैश्यादिग्रहणमध्ये नैमित्तिकपुंसां स्त्रियः पुमांसो वैश्याः शूद्राः इत्यनुक्तिस्तु स्वभावतः स्त्रीणां केनापि हेतुना पुंस्त्वाभावेन नैमित्तिकपुंसामभावादेव `याति स्त्रीत्वं पुमांसोऽपि पापतः कामतोऽपि वा । न स्त्रियो यान्ति पुंस्त्वं तु स्वभावादेव याः स्त्रिय ॥' इत्युक्तेरिति । अतो भक्तेः साधनोत्तमत्वादेव अनित्यमसुखं सुखहीनं इमं भक्त्यादिसाधनभूतं लोकं देहं भूलोकं वा प्राप्य अविलम्बेन मां भजस्व ॥ 33 ॥
भजनप्रकारं दर्शयन् तस्य फलमाह- मन्मना इति ॥ ऎवं मन्मनस्त्वादिप्रकारेण मत्परायणः सन् आत्मानं मनो मयि यु~घX क्त मामेवैष्यसि प्राप्स्यसीति ॥ 34 ॥
॥ इति श्रीमद्गीतार्थस~घX ग्रहे श्रीमद्राघवेन्द्रयतिकृते नवमोऽध्यायः ॥
॥ श्रीमध्वेशाभिन्नश्रीकृष्णार्पणमस्तु ॥
***************************************************************
॥ श्रीमध्वेशाभिन्नश्रीकृष्णायनमः ॥
अथ दशमोऽध्यायः ॥
षष्ठेऽध्याये ध्यानयोग उक्तः । नवमान्ते च `मन्वाना'(9-34) इत्यादिना तद् ध्यानं स्मारितम् । तच्च ध्येयसापेक्षम् । अतो ध्यानार्थं भगवद्विभूतिरूपाणि अत्राध्याये अग्रे `हन्त ते कथयिष्यामि' इत्यादिना प्राचुर्येण वक्ष्यन्नादौ बुद् ध्यादीनां महर्ष्यादीनां सामर्थ्यातिशयोपेततया निर्माणरूपं विशेषकारणत्वं च भगवतो वक्ति । यद्यपि `भोक्तारं यज्ञतपसां' (5-29) इत्यादिना पञ्चमान्तादौ ध्येयमुक्तम् । तथाऽपि विशिष्टाधिकारिणां भगवद्विभूतय उपास्या इति तदुक्तिरत्रेति । उक्तरूपविशेषकारणत्वमपि विशिष्टाधिकारिध्येयमिति तस्याप्यत्रोक्तिः । ननु विभूतिरूपाण्यपि `रसोऽहमप्सु कौन्तेय'(7-8) इत्यादिना `अहं क्रतुः' (9-16) इत्यादिना चोक्तान्येव । सत्यम् । अत्र विस्तरेणोच्यत इत्यदोषः । अत एवास्य विभूत्यध्याय इति व्यपदेशः । तदुक्तेरेव बहुत्वेनैकवाक्यतया चाध्यायस्य । विभूतिशब्दार्थमग्रे वक्ष्यामः । तत्र पार्थस्य श्रीतृत्वसम्पत्तिप्रतिपादनाय तद्विशेषणोक्तिपूर्वं सम्बोध्य प्रतिजानीते- भूय एवेति ॥ हे महाबाहो ! भूय एव पुनरेव मे परमं वचः माहात्म्यप्रतिपादकं वचनं श्रुणु श्रुत्वा तत्र निष्ठां कुरु । प्रीयमाणाय मद्वचः श्रुत्वा सन्तोषं प्राप्नुवते । अनेन श्रीतृत्वसम्पत्तिरुक्ता । ते तुभ्यं हितकाम्यया हितेच्छया वक्ष्यामीति ॥ 1 ॥
प्रतिज्ञातमहिमानमाह- न म इति ॥ सुरगणा महर्षयश्च मे प्रभवं प्रभावं महिमानं न विदुः प्रभवमुत्पत्तिं मदधीनामुत्पत्तिं जगत इति योज्यम् । न विदुः न जानन्ति । देवादिजगतो भगवदधीनामुत्पत्तिं सुरगणादयो न जानन्ति । किमुतान्य इत्यर्थः । यद्वा मे प्रभवं ममोत्पत्तिं सुरगणादयो न विदुरित्यर्थः । भगवन्महिमवज्जगदुत्पत्तिवच्च भगवदुत्पत्तिं विद्यमानां न जानन्तीति न भ्रमितव्यम् । किन्तु महिमजगदुत्पत्त्योः सत्त्वमिव भगवदुत्पत्तेः सत्त्वमेव नास्तीति । तदभावादेव न विदुरिति ज्ञेयम् । प्रभावजगत्प्रभवयोरिव मे प्रभवः कुतो नेति चेत् तत्रोच्यते- अहमादिरिति ॥ देवानां मनुष्याणां च उपलक्षणमेतत् । देवादिकृत्स्नजगतोऽहमादिः कारणं हि यतोऽतो मे प्रभवो नेति । सर्वस्य मत्सृष्टृत्वेन । मज्जनकस्यान्यस्याभावात् । असतश्च पूर्ववृत्तित्वरूपजनकत्वायोगात् । आत्माश्रयापत्त्या मयैव मज्जननायोगादिति भावः । तदाह सूत्रे - ` असम्भवस्तु सतोऽनुपपत्तेः ' (2-3-9)इति ॥ 2 ॥
स्वज्ञानान्मोक्षाख्यमहिमानं चाह- यो मामिति ॥ योऽधिकारी अजमुत्पत्तिहीनम् । अनादिं अनश्चासावादिश्च तम् । सर्वचेष्टकं कारणभूतं च । अनितेरन्तर्णीतण्यर्थात् पचाद्यम् । यद्वा अनस्य मुख्यप्राणस्य कारणं च । लोकानां महास्वामिनं मां वेत्ति जानाति स मर्त्येषु असम्मूढः सम्मोहहीनः भ्रान्तिहीनः सन् सर्वपापैः प्रमुच्यते मुक्तो भवति ॥ 3 ॥
मुक्तिहेतुज्ञानविषयत्वमहिमानमुक्त्वा बुद् ध्यादिप्रदत्वमहिमानं चाह- बुद्धिरिति ॥ यद्वा `अहमादिर्~हि देवानां' इति देवाद्युपलक्षितसर्वकारणत्वं स्वस्योक्तम् । तत्र केषाञ्चिद् बुद् ध्यादीनां महर्ष्यादीनां च सामर्थ्यातिशयोपेततया निर्माणरूपविशेषकारणत्वोक्त्या प्रागुक्तं प्रपञ्चयति- बुद्धिरित्यादित्रयेण ॥ बुद्धिरन्तःकरणं कार्याकार्यनिश्चयो वा । ज्ञानं तु प्रतीतिसामान्यम् । असम्मोहः अकार्येच्छाऽभावः मिथ्याज्ञानाभावो वा । क्षमा क्रोधाभावेन सहापकर्तुरनपकरणम् । तस्यं यथार्थज्ञानपूर्वकमनुष्ठानं वचनं वा । दम इन्द्रियनिग्रहः । शमो भगवन्निष्ठता । सुखमनुकूलवेदनीयम् । दुःखं प्रतिकूलवेदनीयम् । भव उत्पत्तिः । भावः सत्ता । भयं त्रासः । अभयं त्रासविरोधिमनोव्यापारः ॥ 4 ॥
अहिंसा परप्राणिपीडाऽभावः । समता द्वन्द् वेषु निर्विकारत्वम् । तुष्टिर्विषयालम्बुद्धिः । तपो ब्रह्मचर्यादिः । दानं धर्मार्जितवित्तस्य परस्त्वापादनम् । यशः कीतिः#240; । अयशोऽपकीतिः#240; । पृथग्विधाः नानाविधाः एते भावाः धमाः#240; भूतानां प्राणिनां मत्त एव भवन्ति इति ॥ 5 ॥
न केवलं भूतानां बुद् ध्यादिधमाः#240; मत्तो भवन्ति । किन्तु भूतान्यपि मत्त एव भवन्तीत्याह- महर्षय इति ॥ `मरीचिरत्र्य~घ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठस्य महातेजाः पूर्वे सप्तर्षयः स्मृXृता' (मोक्षधर्मे) इत्युक्ताः । पूर्वे पूर्वमन्वन्तरस्थास्सप्तमहर्षयः । मानसाः ब्रह्मणो मनोऽपत्यतया जाताः पूर्वे प्राथमिकाश्चत्वारः स्वायम्भुवस्वारोचिषरैवतोत्तमाख्याः मनवः । यद्वा मनु अवबोधने इत्यतः उप्रत्यये बोधवैशेष्याद् ब्रह्माद्या देवाः विप्रक्षत्रियवैश्यशूद्रभेदेन चतुर्धा स्थितत्वाच्चत्वारः । उक्तं हि बृहद्भाष्ये प्रथमाध्याये चतुर्थेऽव्याकृतब्राह्मणे ।
`विष्णोर्ब्राह्मणजातिः सन् जज्ञे ब्रह्मा चतुर्मुखः ।
इतोऽग्रे जगतस्तस्मात् क्षत्रजातिरजायत ॥
वायुः सदाशिवोऽनन्तो गरुडः शक्र एव च ।
कामश्च वरुणश्बैव सोमः सूर्यो यमस्तथा ॥
एवमाद्याः क्षत्रियस्तु देवता ब्रह्मनिर्मिताः ॥' इति । तथा-
`विवस्वदिन्द्रवरुणविष्णुभ्योऽन्येऽदितेः सुताः ।
रुद्रादन्ये तथा रुद्राः वायोरन्ये च वायवः ।
अग्नेरन्ये च वसवो वैश्या इत्येव कीर्तिताः ॥' तथा-
अश्विनौ पृथिवी चैव कालो मृत्यव एव च ।
शूद्रदेवाः समुद्दिष्टा देववर्णा इति स्मृXृता ॥' इति च ॥
विवस्वदिन्द्रवरुणानां क्षत्रियत्वाद्विष्णोरवर्णत्वात्तेभ्योऽन्येष्टावादित्या ग्राह्या इति विष्णुभ्य इत्युक्तम् । अग्नेर्ब्राह्मणत्वात् अग्नेरन्य इत्युक्तम् । सप्तैव वसवो वैश्याः । सदाशिवस्य क्षत्रियत्वाद्रुद्रादन्य इत्युक्तम् । दशैव रुद्रा वैश्या इत्यर्थः । मद्भावा मतो भावो जन्म येषां ते मद्भावाः मत्त एवोत्पत्तिमन्त इत्यर्थः । लोके इमाः प्रजा येषां प्रागुक्तमनूनां पुत्रपौत्रादिरूपेण वर्तते ते मद्भावा इत्यन्वयः । नच `ततो मनून्ससर्जाते मनसा लोकभावनात्' (भाग 3-21-49) इत्युक्त्या ब्रह्मसृष्टानां स्वायम्भुवादीनां कथं मद्भावा इत्युक्तिरिति श~घX क्यम् । ब्रह्मान्तर्यामिणो मतो जनिमन्त इत्यर्थकत्वान्मद्भावा इत्यस्य । ब्रह्मा तु द्वारमात्रम् । न चैवमपि प्रियव्रताद्यपत्यतादशायामेवोत्पन्नानां तेषां मनुसञ्ज्ञकत्वेन मानसत्ववेलायां तदभावेन मनव इति उक्तिरयुक्तेति वाच्यम् । मानसदेहत्यागेनैव प्रियव्रतादावुत्पन्नानां द्वयोर्देहयोरैक्येन मनुत्वोपपत्तेः इत्येतद् भाष्यटीकायामेवोक्तेः ॥ 6 ॥
उक्तमाहात्म्यज्ञानस्य फलमाह- एतामिति ॥ एतां ` न मे विदुः सुरगणा' इत्यादिनोक्तां विभूतिं विशिष्टभवनं सुरगणाद्यवेद्यत्वरूपां महत्तां वक्ष्यमाणनानाविधभवनं वा । योगं च बुद् ध्यादिसर्वस्रष्टृXृत्वोक्त्या लब्धम् । प्रभवपदस्य प्रभावमिति व्याख्यानेन प्रभवपदेनोक्तं वा मम सामर्थ्यं च । `युज्यतेऽनेन(येन) योगोऽसावुपायः शक्तिरेव चे"त्युक्तेः । तत्त्वतो यो वेत्ति सोऽविकम्पेन निश्चलेन योगेन ध्यानरूपोपायेन युज्यते युक्तो भवति । अत्रार्थे संशयो नेत्यर्थः ॥ 7 ॥
उक्तफले विश्वासजननार्थं पूर्वोक्तमहिमज्ञानपूर्वं मां भजन्तः सन्तीत्यहमित्यादि द्वाभ्यामुक्त्वा पुनस्तेषामित्यादिद्वाभ्यां फलं च व्यनक्ति । प्रभवत्यस्मादिति प्रभवः सर्वस्याहमुत्पादक इत्यर्थः । मत्तः सर्वं प्रवर्तते । इष्टानिष्टप्राप्तिपरिहाराद्यनुकूलव्यापारवद् भवति । लयादिरपि मदायत्त इत्युपलक्ष्यते इति मत्वा बुधाः ज्ञानिनः भावसमन्विताः भावेन भक्त्या समुपेताः सन्तः मां भजन्ते । पत्रपुष्पादिभिरर्चयन्ति ध्यायन्ति चेत्यर्थः । अत्र पूर्वार्धेनैव मामित्यस्य लाभात्पुनर्मामित्युक्तिर्जीवेश्वरैक्याभिप्रायेण स्वात्मानमुद्दिश्याहमेव सर्वस्य प्रभव इति मत्वा भजन्त इति प्रतीतिनिरासाय ॥ 8 ॥
पुनर्भजनप्रकारमेवाह- मच्चित्ता इति ॥ मन्निष्ठमनस्काः । मद्गतप्राणाः मद्विषयचेष्टावन्तः । बोधयन्तः शिष्यान् प्रति बोधयन्तो मामुपदेशेनेति योज्यम् । परस्परं मां कथयन्तः कीर्तयन्तश्च नित्यमिति सर्वत्रान्वेति । तुष्यन्ति तृप्ता भवन्ति । विषयेष्वलम्बुद्धिमन्तो भवन्ति । तत्र हेतुः रमन्ति च सुखमनुभवन्ति चेति ॥ 9 ॥
सततयुक्तानां नित्यं मयि निबद्धचित्तानां प्रीतिपूर्वकं मां भजतां तेषां तमेव बुद्धियोगं ज्ञानरूपं मुक्त्युपायं ददामि । येन बुद्धियोगेन मामुपयान्ति तमित्यन्वयः ॥ 10 ॥
अनाद्यज्ञानकृतबन्धसत्त्वात् कथं तत्प्राप्तिरित्यत आह- तेषामेवेति ॥ तेषामनुकम्पार्थमनुग्रहार्थमेव । न तु किञ्चित्फलमुद्दिश्य । अहमज्ञानजं तेषां तमः सुखदुःखादिक्लेशरूपबन्धं भास्वता विरोधिनाशनदक्षतया प्रकाशमानेन ज्ञानाख्यदीपेन आत्मभावस्थः तदीयचित्तवृत्तिस्थस्सन्नाशयामीति ॥ 11 ॥
एवं स~घX क्षेपेणोक्तं विभूतिं योगं च श्रुत्वा विस्तरेण ज्ञातुकामः तत्सुतिपूर्वकं तद्वक्तुं प्रार्थयते - परमित्यादिभिः सप्तभिः ॥ हे केशवेत्यग्रेतनमाकृष्यते । भवान् परमुत्तमं ब्रह्म परिपूर्णं वस्तु परं धाम उत्तमाश्रयः परमं पवित्रं त्वां ऋषयोः वसिष्ठाद्या देवर्षिर्नारदोऽसितादयश्च पुरुषं पूर्णषड् गुणं शाश्वतं निर्विकारं दिव्यं लोकविलक्षणं आदिदेवं अजं जन्महीनं विभुं विशिष्टतया विविधतया च भवनहेतुना विभुशब्दवाच्यमाहुः ॥ 12 ॥
``अहं सर्वस्य" इत्यादिना स्वयं च मे मह्यं ब्रवीषि वदसि ॥ 13 ॥
हे केशव ! यन्मां प्रति वदसि सर्वमेतन्माहात्म्यं ऋतं सत्यमेव मन्ये । केशवशब्दार्थ उक्तः प्रथमाध्याये । हे भगवन् षड् गुणयुक्त ते व्यक्तिं सामर्थ्यातिशयं देवा दानवाश्च न विदुः । हीति `न यस्येन्द्रो वरुणो न मित्र' इत्यादौ प्रसिद्धमित्यर्थः ॥ 14 ॥
तर्~हि को जानातीत्यत आह- स्वयमेवेति ॥ हे पुरुषोत्तम ! त्वं स्वयमेवान्यदनपेक्ष्यात्मना स्वसामर्थ्येनात्मानं वेत्थ जानासि । भूतभावन भूतानामुत्पादक भूतेश भूतनियामकः ॥ 15 ॥
एवं स्तुत्वा प्रार्थयते - वक्तुमिति ॥ दिव्याः या विभूतयः । याभिर्विभूतिभिः त्वमिमान्लोकान् व्याप्य तिष्ठसि । ता विभूतीरशेषेण वक्तुं अर्~हसीत्यर्थः । विभूतयो नाम विविधतया नानारूपतया रामकृष्णादितया भूतानि रूपाणि । यद्वा `येषां विष्णुस्वरूपाणां सन्निधेरन्यवस्तुषु । विशिष्टत्वं स्वजातेः स्याद्विभूत्याख्यानि तानि तु ' इत्युक्तदिशा स्वसन्निधिनिमित्तेन वस्तुषु स्वजात्युत्तमतापादकरूपाणि ॥ 16 ॥
नित्यं मच्चिन्तनया विभूतिरूपाणि जानीहि किं मद्वचनप्रार्थनयेत्यत आह- कथमिति ॥ त्वां परिचिन्तयन्नप्यहं त्वद्वचनाभावे । हे योगिन्ननन्तशक्ते विभूतीः कथं विद्यां जानीयात् । अतो हे भगवन्मया केषु केषु भावेषु पदार्थेषु तेषां स्वजात्युत्तमतापादकतया स्थितः सन् चिन्त्योऽसि ॥ 17 ॥
तमात्मनो विभूतिं वस्तूनां विशिष्टताप्रदमात्मनो रूपं विविधतया (नानाविधतया) भूतं रूपं च । एकवचनं समुदायाशयम् । योगं सामर्थ्यं च विस्तरेण भूयः पुनः पुनः कथय । ते वचोऽमृतं शृण्वतो मे तृप्तिर्नास्ति । जनार्दनशब्दार्थ उक्तः तृतीयाध्याये ॥ 18 ॥
`वक्तुमर्~हस्यशेषेण' इत्यस्योत्तरं वदन् प्रतिज्ञं तावत्करोति - हन्तेति ॥ हतं हर्षे । या दिव्याः आत्मविभूतयः वस्तूनां विशिष्टताप्रदरूपाणि विविधरूपाणि च । तानि रूपाणि प्राधान्यतः प्रधानतया स्थितानि । ते तुभ्यं कथयिष्यामि । मे विस्तरस्य विभूतिराशेरन्तः समाप्तिर्नास्ति । अतो नाशेषेण वचनं युक्तमिति भावः ॥ 19 ॥
`केषु केषु च भावेषु चिन्त्य' इत्यस्य प्रश्नस्य सर्वभूतेष्वपि चिन्त्य इति भावेन सर्वभूतस्थत्वं तावत्सामान्यतो वक्ति - अहमिति ॥ हे गुडाकेश जितनिद्र । अहमात्मा व्याप्तोऽपि सर्वभूतानां हृदयगुहायां स्थितः । अहमेव भूतानामादिर्मध्यमन्तश्च । सृष्टिस्थितिलयकर्ता चेत्यर्थः ॥ 20 ॥
द्विविधं हि भगवतो विभूतिरूपं प्रत्यक्षं तिरोहितं च । तत्र प्रत्यक्षं विष्णुकपिलव्यासवासुदेवमादिरूपम् । तिरोहितं तु पदार्थेष्वन्यत उत्कर्षप्रदत्वेन सन्निहितम् । द्विविधविभूतिरूपाणि स~घ्कलय्याह- आदित्यानामिति ॥ द्वादशादित्यानां मध्ये अहं विष्णुरस्मि । सर्व(त्र)व्याप्तत्वात् सर्वेषु प्रविष्टत्वाद् वा विष्णुनामास्मि । विष्लृ व्याप्तावित्यतः क्नुप्रत्ययः । विश प्रवेशन इत्यतः क्नुप्रत्यये शकारस्य षत्वे वा विष्णुरिति सिद्धेः । `केषु केष्विति' पृष्टस्योत्तरमाह -ज्योतिषामिति ॥ ज्योतिषां प्रकाशरूपाणां मध्ये अंशुमानिश्वव्यापिरश्मियुक्तो रविरहमस्मि । ज्योतीरूपेभ्यो रवेराधिक्यहेतुतया रवेण वेदशब्देन ईयतेज्ञायते इति व्युत्पत्त्या रविनामकः सन् रवौ सन्निहितोऽस्मीत्यर्थः । रवशब्द उपपदे इण् गतावित्यतः क्विप् उपपदान्तलोपः । मरुतामेकोनपञ्चाशन्मरुतां मध्ये तेभ्यो मरीचिनाम्नो मरुत आधिक्यहेतुतया मनशब्दोक्तोदकवान् मेघो मरी तं चालयतीति व्युत्पत्त्या मरीचिः मरीचिनामा सन्मरीचौ मरुति सन्निहितोऽस्मि । नक्षत्राणां मध्ये तेभ्यो शशिन आधिक्यहेतुतया शशिशब्दितातिसुखत्त्वहेतुना शशिनामा सन् शशिनि चन्द्रे स्थितोऽस्मि । ऎवमग्रे सर्वत्र तिरोहितेष्वर्थो ध्येयः । ग्रन्थगौरवभयात् निरुक्तिमात्रं वक्ष्यामः ॥ 21 ॥
साम्यहेतुना सामवेदनहेतुना वेदे स्थितः सामवेदनामा । वसन्त्यत्रेति वासः सर्वदेशः तत्र सर्वत्र वर्तत इति भावः । वसतेरधिकरणे घञX तस्मिन्नुपपदे वृतुघार्तोर्डः । अवबोधरूपत्वान्मनः मनतेरसुन् । चेतोनेतृत्वाच्चेतना । स्त्रीरूपेण चेतनायां स्थितत्वात् स्त्रीलि~घ्गम् । यद्वा भूतानां चेतनारूपसारधर्मद इत्यर्थः । चेतना नाम चेतसो व्याप्तिः । सा च `` बहुस्मरणशक्तिश्च चेतनेत्यभिधीयत" इत्युक्तदिशा ज्ञेया ॥ 22 ॥
सुखकारणत्वात् श~घ्करनामा । वित्तस्वामित्वात् वित्तेशनामा कुबेरस्थः । पावकः पावयति शोधयतीति व्युत्पत्त्या पावकनामा ``पव शुद्धा"वित्यतोऽन्तर्णीयत्वात् ण्वुल् । शुद्धीकर्तेत्यर्थः । मेरुरित्यत्र मा ईरुरिति विभागः । ईरयति प्रेरयतीति ईरः प्रेरकः । मा शब्दो निषेधार्थः । ईरः प्रेरकोऽस्यान्यो मा नास्तीति मेरः मेर ऎव मेरुः । ईर प्रेरण इत्यतः ताच्छील्यार्थे उ प्रत्ययः । शिखरिणां पर्वतानाम् ॥ 23 ॥
पुरोधसां पुरोहितानां बृहतां पतित्वाद् बृहस्पतिनामानम् । सेनानीनां सेनानेतरूणां स्कन्दनाद् स्वस्माज्जगतो निष्कासनात् स्कन्दनामा । स्कन्दिर्गतिविशेषणयोरिति धातोरच् । सरसां सरोवराणां सागरः । गिरतीति गरः गृ निगरणे पचाद्यच् । सारस्य गरः सागरः रशब्दलोपो निरुक्तत्वात् । सारभोक्तृत्वात् सागरनामा समुद्रस्थः ॥ 24 ॥
विरोधिनां भर्जनाद् हननाद् भृगुनामा भृगुस्थः । मुख्यत्वादेकम् । चतुर्विधनाशहीनत्वाद् अक्षरनामा प्रणवस्थः । जान्तातान्पातीति जपः याज्यत्वाद् यज्ञः । जपश्चासौ यज्ञश्चेति व्युत्पत्त्या जपयज्ञनामा जपरूपयज्ञस्थः स्थावराणां गतिहीनानां हिमालय इति । ह्रीश्च माच तयोरालय आश्रयः । ह्रीमालयः स ऎव हिमालयः । ह्रीश्रीशब्दितलक्ष्मीस्वरूपद्वयस्य आश्रयत्वाद् हिमवत्पर्वतस्थः ॥ 25 ॥
अश्ववत्तिष्ठतीत्यश्वत्थनामा अश्वत्थगतः नराणामपेक्षितं नारम् । तद् ददातीति नारदनामा नारदस्थः विचित्राधिदेवादिरथवत्त्वात् चित्ररथनामा तन्नामकगन्धर्वस्थितः । सुखरूपत्वात्कः । पाल्यते जगदनेनेति पिः । पा रक्षण इत्यतः किः । अतो लोप इटि चेत्याकारलोपः । लीयते जगदनेनेति लः ली श्लेषण इत्यतो डः । ला आदान इत्यतो वा कः । कश्चासौ पिश्चासौ लश्चेति कपिलः सुखं पिबत्यनुभवति लीलयेति वा कपिलः ॥ 26 ॥
अत्युत्कृष्टकीर्तिमत्त्वहेतुना उच्बैःश्रवोनामानममृतोद्भवं क्षीरसमुद्रजातोच्बैःश्रवःस्थं विद्धि । `तदैरं मदीयं सर' इति मुक्तिस्थसरसो लक्ष्म्यात्मकत्वोक्तेः ऐरं श्रीः तामवतीति ऐरावतनामानं इन्द्रवाहनस्थं विद्धि । नरेश्वरत्व हेतुना नराधिपनामानं चक्रवर्त्यादिस्थं विद्धि ॥ 27 ॥
सर्वदोषवर्जितत्वादरभिर्वर्जनाद्वा वज्रनामा इन्द्रायुधस्थः । कामितार्थदोग्धृत्वात् कामधु~घX नामा कामधेनुस्थः । कं सुखं तस्य दराः प्रभेदाः तान्पिबत्यनुभवतीति कन्दर्पनामा । प्रकृष्टजननकारणमन्मथस्थः । सर्पाणामेकशिरसात् । वासस्य कं वासकं अतिशयार्थ उकारः वासुकः तद् दातृत्वेन तद्वान्वासुकिः मत्वर्थक इकारप्रत्ययः । वासुकिर्वाससुखद इति निरुक्तेः ॥ 28 ॥
नागानामनेकशिरसां देशकालगुणानन्त्यहेतुनाऽनन्तनामा शेषगतः । यादसां जलचराणां उत्कृष्टानन्ददत्वाद् वरुणनामा वरुणस्थः । `णश्च निर्वृतिवाचक' इत्युक्तेः । वरशब्दस्य उकारोऽन्तादेशः । वृणोतीति वा वरुणः वृञ उणप्रत्ययः । ऋ गताविति धातोर्यप्रत्यये अर्यं ज्ञेयं तन्माति जानातीत्यर्यमनामा तन्नामकपितृस्थः । संयमतां नियमनं कुर्वतां यमः नियमनहेतुना यमनामा यमाख्यसारधर्मप्रदः (इत्यर्थः) ॥ 29 ॥
प्रकृष्टः ह्लादः सुखं यस्येति प्रह्लादनामा तन्नामकदैत्यस्थः । कलयतामाकलयतां बन्धनादिकुर्वतां वा कालः । कल ज्ञान इति धातोः सर्वमाकलयतीति कालनामा कालस्थः । स्वात्मानं मृगयन्त्यन्वेषयन्तीति मृगाः भक्तास्तदधिपतित्वात् मृगेन्द्रनामा मृगेन्द्रस्थः । विशेषेण नताः विनतास्तेषां आश्रयतया तत्सम्बन्धी वैनतेयः । `वैनतेयो नतास्पद' इति निर्वचनात् । सम्बन्धे ढक् ॥ 30 ॥
पवतां शोधकानां वेगवतां वा । पान्तीति पाः `पा रक्षणे' क्विप् । पाभिः पालकैः वननीयत्वाद् भजनीयत्वाद् पवनः पवनस्थः लोकं रमयतीति रामः लोकोऽस्माद्रमत इति वा रामः । रमेर्घञX । झषाणां मीनानाम् । मा~घX मान इत्यतो माशब्देन ज्ञानं तस्याल्पताज्ञापनाय ह्रस्वतया निर्देशः । `ऊनार्थे चोनमिष्यत' इत्युक्तेः । लोकस्य मं अल्पज्ञानं करोतीति मकरनामा । मकराख्यजन्तुगतः । असारतया संसारं जहतस्त्यजतोऽवति रक्षतीति जाह्नवी नामा ग~घ्गास्थः ॥ 31 ॥
सृजन्त इति सर्गाः भूतानि तेषां सृष्टिस्थितिलयहेतुरहमेवेत्यर्थः । आत्मनो जीवानधिकृत्य पतित्वेन वर्तते ज्ञप्तिस्वरूपश्चेत्यध्यात्मविद्यानामा ब्रह्मविद्यास्थः । प्रवदतां जल्पवितण्डादिकथां कुर्वतां वाच्यत्वहेतुना वादनामा वादकथास्थः ॥ 32 ॥
अ इत्याक्रियमाणत्वाद् अकारनामा अकारस्थः । सामासिकस्य समाससमूहस्य । बहिरन्तर्द्विरूपत्वेन द्वन्द्वनामा द्वन्द्वसमासस्थः । क्षयहीनत्वाद् अक्षयनामा संहर्तृत्वाद् कालनामा सन् । अक्षयकालस्थः । उत्तरावधिशून्यः त्रिकालगतः । कलच्छेदन इति धातोः । धाता धारणपोषणकर्ता । डुधाञX धारणपोषणयोः । सर्वदि~घX XुXमखत्वहेतुना विश्वतोमुखनामा चतुर्मुखस्थ इत्येके । सर्वत्र स्थितमुखोपलक्षितसर्वावयववान् इत्यन्ये ॥ 33 ॥
सर्वहरो मारकत्वहेतुना मृत्युस्थः । भविष्यतामुत्पत्स्यमानानां उद्भावयतीति व्युत्पत्त्योद्भवनामा उद्भवस्थः । कीर्त्यत्वाश्रयत्ववक्तृत्वहेतुभिः कीर्तिश्रीवा~घX नामा सन् कीर्तौ श्रियां वाचि च स्थितः । स्मरणीयत्वाद् स्मृतिनामा स्मृतिस्थः । मेधाधृतिक्षमारूपत्वाद् तत्तन्नामा मेधाधृतिक्षमास्थः ॥ 34 ॥
बृहत्सारत्वाद् बृहत्सः अमेयत्वादमः बृहत्सश्चासावमश्चेति बृहत्सामनामा । रथन्तरवैरूपवैराजशाक्वारादिसाम्नां मध्ये तदाधिक्यहेतुतया बृहत्सामस्थः । स्वगायकान् त्रातीति व्युत्पत्त्या गायत्रीनामा । त्रिष्टुप् जगत्यादि छन्दोभ्य आधिक्यहेतुतया गायत्रीच्छन्दस्थः । मार्गाणां शीर्षस्थानत्वात् मार्गशीर्षनामा मासेभ्य आधिक्यहेतुतया मार्गशीर्षमासस्थः । कुत्सितां सुष्टुभूतां च मां ज्ञानं करोतीति कुसुमाकरनामा अन्य ऋतुभ्य आधिक्यहेतुना वसन्त ऋतुस्थः ॥ 35 ॥
वासयति सर्वमाच्छादयति निवासयतीति वा वासुः । ``वस आच्छादने" ``वस निवास" इत्यतो वा ण्यन्तादुण् । सर्वत्र वसतीति वा वासुः वसतेरुण् । स चासौ देवश्च क्रीडादिगुणविशिष्टश्चेति वासुदेवः । धनं जयतीति धनञ्जयनामा धनञ्जयस्थः । सर्वस्माद्विशिष्टत्वाद् विः आसमन्तात् सः गतः । सृगतावित्यतो डः । विश्वासावासश्च सर्वगतश्चेति व्यासः । यद्वा विशिष्टा आसा स्थितिर्यस्यासौ व्यासः । आस उपवेशने इति धातोः । उश इच्छायामिति धातोः सर्गादीच्छावत्त्वादुशनानामा सन्नुशना कविः उशनसि कवौ स्थित इत्यर्थः ॥ 37 ॥
दमयतां दण्डं कुर्वतां दण्डनहेतुना दण्डनामा दण्डनरूपधर्मदाताऽस्मीत्यर्थः । जिगीषतां नीतिरस्मि नीतिरूपसारप्रदोऽस्मि । गुह्यानां गोपनीयानां मुनीनामीड्यत्वसम्बन्धेन मुनीनामिदं मौनम् । शब्दस्वभावान्नपुंसकता । मुनिसम्बन्धितया मौननामा मौनस्थः । ज्ञानवतां ज्ञानाख्यसारदोऽहमित्यर्थः । स्वयं च ज्ञानरूपत्वेन ज्ञाननामा । अत्र शश्यादिषु विजातीयश्रेष्ठ्यदं विभूतिरूपमुक्तम् । नक्षत्रादीनां विजातीयत्वात् । `सत्त्वं सत्त्ववतां' इत्यादौ धर्मिषु सत्त्वादिसारधर्मदं विभूतिरूपमुक्तं ज्ञेयम् । तथैव दर्शितमस्माभिस्तत्र तत्रैव । `रुद्राणां श~घ्कर' इत्यादौ सजातीयश्रेष्ठ्यदं विभूतिरूपमुक्तम् । वासवोशनोधनं जययज्ञवज्रसामवेदानां सजातीयैकदेशाधिक्यदं विभूतिरूपमुक्तम् । तेषां सजातीयसर्वश्रैष्ठ्याभावात् । देवेषु कवित्वादिगुणेषु च ब्रह्मणः । पार्थेषु भीमस्य, यज्ञेषु ज्ञानयज्ञस्य, आयुधेषु चक्रस्य, वेदेषु ऋग्वेदस्याधिक्यात् ॥ 38 ॥
बीजं कारणं तदप्यहमेव श्रैष्ठ्यदत्वेन । भगवतः सर्वगतत्वं कुतो मानादित्यत आह - न तदिति ॥ मया विना यद्भूतं स्यात् तच्चराचरं नास्ति यतोऽतोहं सर्वत्र स्थित इत्यर्थः । यद्वा रविप्रभृतिषु श्रैष्ठ्यदत्वेन तव सन्निधावुक्ते ज्योतिरादिषु नेति प्राप्तं अतः सर्वत्राहमस्मीति व्यतिरेकमुखेनाह - न तदिति ॥ 39 ॥
स~घX क्षेपेण कारणं दर्शयन्नुपसंहरति - नान्त इति ॥ अन्तः पर्यवसितिः । अत्र एष इति पदमावर्तते । एष `अहमात्मा गुडाकेशे'ति `आदित्यानामहं विष्णुः' इत्यादिना विभूतिरुपस~घX क्षेप उद्देशतः शृङ्गग्राहिकया इदमिति विशिष्य निर्देशेन मया प्रोक्तः । एष तु वक्ष्यमाणतया हृदिस्थस्तु विभूतेर्विस्तरो मया प्रोक्तः प्रोच्यते । वर्तमाने निष्ठाप्रत्ययः । पुरा प्रोक्त इति वाऽर्थः ॥ 40 ॥
तमेव विभूतिविस्तरं लक्षणोक्त्याऽऽह- यद्यदिति । यद्यत्सत्त्वं वस्तु विभूतिमत्स्वजातितः श्रैष्ठ्योपेतं श्रीमत्सम्पद्युक्तं ऊर्जितं अभिवृद् ध्युपेतं वा तत्तद्वस्तुमम तेजोरूपेण प्रकाशरूपेणांशेन सह भवतीति तेजोऽंशसम्भवमेवावगच्छ जानीहि ॥ 41 ॥
लक्षणमुखेनोक्त तत्तद् वस्तुनिष्ठविभूतिविस्तरादप्यधिकविभूतिविस्तरमाह- अथवेति ॥ अथवेति पक्षान्तरे । ऎतेन बहुना विभूत्यादियुक्तरविप्रभृति तत्तद् वस्तुनिष्ठपरिच्छिन्नविभूतिरूपाणां विस्तरेण ज्ञातेन तव किम् । न किमपि फलम् । वक्ष्यमाणव्याप्तज्ञानफलादल्पफलत्वादाक्षेपः । नतु वैफल्यादिति भावः । तर्~हि किं ज्ञातव्यमित्यत आह- विष्टभ्येति ॥ इदं प्रमाणावगतं कृत्स्नं जगदेकांशेन अनन्तांशमध्ये ऎकांशेनैव विष्टभ्य व्याप्य स्थितः सर्वांशेन व्याप्तुं जगत्सहस्रमपि नालम् । अतः तादृशापर्यवसितव्याप्तिमानहम् । अतस्तद् ज्ञानमावश्यकमिति भावः । न चैतद् ज्ञानादेव मोक्षसिद्धौ प्रागुक्तपरिच्छिन्नविभूतिरूपाणां ज्ञानं व्यर्थमिति तदुक्तिव्यर्थेति श~घ्क्यम् । `अज्ञात्वा ऎनं सर्वविशेषयुक्तं देवं परं को विमुच्येत बन्धादिति' श्रुत्या प्रागुक्तज्ञानस्यावश्यकत्वात् । महाफलाधिकारित्वात् तवोभयज्ञानमावश्यकम् । न विशेषज्ञानमात्रेणालमिति तवैतेन ज्ञातेन किमिति भावेन तवेत्युक्तम् ॥ 42 ॥
॥ इति श्रीमद्भगवद्गीतासारस~घX ग्रहे श्रीराघवेन्द्रयतिकृते दशमोऽध्यायः ॥
***********************************************************************
श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवायनमः ॥
अथ एकादशोऽध्यायः ॥
ॐ ॥ पूर्वान्ते `विष्टभ्याहमिदं कृत्स्नं' इति व्याप्तरूपोपासनं स~घX क्षेपेणोक्तम् । स~घX क्षेपेणोक्तरूपस्य बुद्धावनारोहेणाशक्यध्यानत्वात् तद् ध्यानसौकर्याय प्राक् स~घX क्षेपेणोक्तविश्वरूपस्थितिरत्र विस्तरेणोच्यत इति पूर्वानन्तर्यमर्थभेदश्चास्येति ध्येयम् । विश्वरूपं ज्ञXातुं तत्प्रष्ट्रुकामः प्रागुक्तमनुवदत्यर्जुनः - मदनुग्रहायेति द्वाभ्याम् ॥ परमं गुह्यमतिगोप्यं आत्मानं भगवन्तं अधिकृत्य स्थितमध्यात्मं अध्यात्मनामकं यद्वचः त्वया मदनुग्रहायोक्तम् । तेन बन्धुस्नेहादिरूपोऽयं मोहो विगतोऽपगतः मम ॥ 1 ॥
हे कमलदलवदायतनेत्र ! त्वत्तः भूतानां भवाप्ययौ । `अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा' (7-3) इत्यादिना सप्तमाध्यायादिषु विस्तरशो मया श्रुतौ अव्ययं माहात्म्यमपि च श्रुतम् ॥ 2 ॥
तद् वचनं स्तुवन् ज्ञातव्यविश्वरूपाविर्भावं प्रार्थयते- ऎवमित्यादि द्वाभ्याम् ॥ हे परमेश्वर ! यथा येन प्रकारेणात्मानं त्वमात्थ वदसि । एतद् वचनं ऎवमेव सत्यमेव । हे पुरुषोत्तम ! ऐश्वरमचिन्त्यशक्तिकं ते रूपं द्रष्टुमिच्छामि ॥ 3 ॥
हे प्रभो ! समर्थ तद्रूपं मया द्रष्टुं शक्यमिति यदि मन्यसे । ततस्तर्~हि योगेश्वर सर्वोपायपते ! त्वमव्ययमात्मानं स्वरूपं मे मह्यं दर्शय । प्रार्थनायां लोट् । प्रभो इति वचनं तवातिसमर्थत्वात् त्वच्छक्त्या ऎव अतीन्द्रियस्यापि दर्शनं स्यादिति #101;XञXापनाय ॥ 4 ॥
ऎवं कौतूहलान्वितेन पार्थेन प्रार्थितो भगवान् रूपं दिदर्शयिषुरादौ दर्शनं कुर्विति विधत्ते - पश्येत्यादिना चतुष्टयेन ॥ ते रूपं द्रष्ट्रुमिच्छामीत्येकरूपदृष्टिप्रार्थनेऽपि दिव्यान्यप्राकृतानि । नानाभूताः शुक्लादिवर्णाः आकृतयः संस्थानविशेषाः येषां तानि । शतशः सहस्रशः बहूनीति यावत् । मे रूपाणि पार्थ पश्येति बहुरूपदर्शनोक्तिः ऎकस्यैव रूपस्याचिन्त्यशक्त्या विशेषबलेन चानन्तरूपसमुदायात्मकत्वाभिप्रायेणेति ज्ञेयम् । नानाविधानीत्यस्य विवरणं नानावर्णेत्यादि ॥ 5 ॥
पश्येत्युक्तौ कस्तत्र विशेष इत्यत आह - पश्येति ॥ द्वादशादित्यानष्टौ वसूनेकादशरुद्रान् पञ्चाशन्मरुतः । तथा शब्दः समुच्चये । अदृष्टपूर्वाणि पूर्वमदृष्टानि बहूनि आश्चर्याणि अद्भुतानि च ॥ 6 ॥
मम देहे मदीये रूपे पश्य । कृत्स्नमित्यस्य विवरणं सचराचरमिति । जगदिह तव प्रदर्शनीये मम देहे । ऎकस्थमेकदेशस्थमद्य पश्य हे गुडाकेश जितनिद्र । यच्चान्यद् द्रष्टुमिच्छसि तत्सर्वं मम देहे पश्य ॥ 7 ॥
त्वं द्रष्टुमिच्छसि । ममाऽप्युच्यते पश्येति । तथाऽपि त्वं त्वनेन स्वचक्षुषा मां द्रष्टुं न शक्यसे न शक्तो भविष्यामि । अतस्ते दिव्यं अलौकिकं चक्षुर्ददामि दर्शनशक्तिं ददामि । ऐश्वरं ईश्वरभूतमत्सम्बन्धियोगं सामर्थ्यं पश्येति ॥ 8 ॥
अनन्तरवृत्तान्तं धृतराष्ट्रं प्रति स~घ्जय उवाच । तदाह- ऎवमिति ॥ `पश्य मे पार्थरूपाणि' इत्यादि प्रकारेणोक्त्वा इत्यर्थः । महतां योगानामुपायानां अनन्तशक्तीनां वेश्वरः । कुत एतदित्यत उक्तम्- हरिरिति ॥ सर्वयज्ञादिभागहरणाद्धरिः । परममनेकविभवोपेतम् । `इडोपहूतं गेहेषु हरे भागं क्रतुष्वहम् । वर्णो मे हरितः श्रेष्ठः तस्माद्धरिरिति स्मृतः' इति मोक्षधर्मोक्तेः । गेहेषु इष्टिगृहेष्वित्यर्थः । हरतेरिकारप्रत्ययः । अप्राकृतविग्रहस्य साकारस्यानन्तपूजास्थानेषु युगपत्सन्निधानेन भागहारिणो महायोगेश्वरत्वं किं वक्तव्यमिति भावः ॥ 9 ॥
तद्रूपमाह- अनेकेति ॥ अनेकानि वक्त्राणि नयनानि यस्य तत् । अनेकशब्दोऽनन्तवाची । अनेकेषामद्भुतानां दर्शनं यस्मिन्नित्यनेकाद्भुतदर्शनं रूपं दर्शयामासेत्यनुष~घ्गः ॥ 10 ॥
सर्वाश्चर्यमयं सर्वाश्चर्यात्मकम् । तदात्म्यार्थे मयट् । देवं क्रीडादिगुणम् । अनन्तं देशकालगुणापरिच्छिन्नम् । विश्वतोमुखं सर्वदिक्षु मुखं यस्य तद्विश्वतोमुखम् । अनन्तमुखमिति वा ॥ 11 ॥
किञ्च दिव्याकाशे सूर्यसहस्रस्यानन्तसूर्यराशेः युगपदुत्थितस्येति शेषः । प्रभा युगपदुत्थिता स्यात्सा प्रभा तस्य महात्मनो विश्वरूपस्य भासः प्रभायाः सदृशी स्यात् नान्याऽस्त्युपमेत्यर्थः ॥ 12 ॥
ततः किं जातमित्यत आह- तत्रेति ॥ भगवता प्रदर्शिते सति देवदेवस्य शरीरे विश्वरूपे देवदानवमानवादिभेदेनानेकधा प्रविभक्तं कृत्स्नं जगदेकस्थमेकदेशस्थं तदाऽपश्यत् ॥ 13 ॥
दर्शनानन्तरं किमकरोदित्यत आह- तत इति ॥ दर्शनानन्तरम् ॥ 14 ॥
किमभाषतेत्यतो दृष्टरूपानुवादपूर्वं स्तुतिमकरोदित्याह- अर्जुन उवाचेत्यादिना ॥ सर्वान् देवान् सर्वान् प्राणिविशेषसमूहांश्च इत्यर्थः । ब्रह्माणं चतुर्मुखम् । कमलासने चतुर्मुखे स्थितं ईशं रुद्रम् । तदुक्तं पाद्मे- `विष्णु समाश्रितो ब्रह्मा ब्रह्मणोऽ~घ्कगतो हरः । हरस्या~घ्गविशेषेषु देवाः सर्वेऽपि संस्थिताः ' इति । तव देहे देवानित्यत्रापि परम्परयेति ज्ञेयम् । दिव्यान् अद्भुतानुरगान्सर्पांश्च तव देहे पश्यामि ॥ 15 ॥
`अनेकबाहूदरवक्त्रनेत्रं' इत्यत्रापि अनेकनयनमित्यत्रेवनेकशब्दो अनन्तवाची । प्रागुक्तानुवादरूपत्वादपौनरुक्त्यम् । सर्वतः सर्वस्मिन्देशे अनन्तान्यपरिमिति रूपाणि यस्य तम् । हे विश्वरूप पूर्णरूप ! `सर्वं समस्तं विश्वं च अनन्तं पूर्णमेव च' इत्युक्तेः । विश्वेश्वर जगत्पते । तवादिं मध्यं अन्तं वा न पश्यामि । नञः त्रिरुक्तिरादरार्था । अत ऎवद्यन्तयोरभावादेव मध्याभावसिद्धौ पुनर्मध्यं नेत्युपचारनिवृत्त्यर्थम् ॥ 16 ॥
दीप्तयोरनलार्कयोर्द्युतिरिव द्युतिः प्रकाशो यस्य तमित्युक्त्या प्राप्तपरिमितश~घ्काव्युदासायोक्तमप्रमेयमिति अमितद्युतिमित्यर्थः ॥ 17 ॥
परं निधानं मुख्याश्रयः । शाश्वतधर्मगोप्ता अनादिपरम्पराप्राप्तधर्मरक्षकः । अव्ययो ह्रासहीनः सनातनोऽनादिनित्यः पुरुषो मे मतः ॥ 18 ॥
अनादिमध्यान्तं आदिमध्यान्तशून्यं गुणतोऽत्रादिमध्यान्तहीनत्वमुच्यते । `नान्तं न मध्यं' इत्यत्र देशतः । अतो न पौनरुक्त्यम् । शशिसूर्यौ नेत्रयोर्यस्य तमिति वा जन्यजनकभावेन वा भेदोक्तिः । देवानां बहुरूपत्वादनेकाश्रयत्वं युक्तमिति `चन्द्रमा मनसो जात' (ऋग्वेद खिलेषु) इति मनोजाततया तदाश्रयत्वमप्यविरुद्धम् । दीप्तहुताशवक्त्रमिति जन्यजनकभावेनाश्रयाश्रयिभावेन वेति ध्येयम् (ज्ञेयम्) ॥ 19 ॥
द्यावापृथिव्योरिदमन्तरं मध्यं एकेन त्वया ऎकरूपेण(त्वया) व्याप्तम् । रूपान्तरैस्तु सर्वा दिशो व्याप्ता इत्यर्थः । त्वयेत्येकवचनेनैवैकेनेति लाभे पुनरेकेनेत्युक्तिः एकेन रूपेण द्यावापृथिव्यन्तरव्याप्तिसूचनाय । हे महात्मंस्तवेदमुग्रं भय~घ्करमद्भुतं रूपं दृष्ट्वा लोकत्रयं प्रव्यथितं अतिभीतं पश्यामीत्यन्वयः । भूमेर्भारहाराय प्रवृत्तत्वादुग्रमिव न तूग्रमेव । तदुग्रत्वमपि केषाञ्चित् संहार्यत्वकारणविशेषादनभ्यासरूपकारणाद्वा । अभ्यासे तु आनन्द ऎव तद् दर्शनाद् भवति । अत्र लोकत्रयपदेन लोकत्रयस्थ भक्तवर्गग्रहः । अभक्तानां तद् दृष्टेरेवाभावात् । यद्वा तद्रूपमदृष्ट्वाऽपि मनसा तदनुसन्धायैव बिभ्यज्जनं दृष्ट्वाऽर्जुनोऽहमिव एतेऽपि दृष्ट्वा बिभ्यतीति बुद् ध्वा लोकत्रयं प्रव्यथितं पश्यामीत्याहेति ज्ञेयम् । अस्मिन् पक्षे लोकत्रयशब्दो भक्ताभक्तवर्गपरः ॥ 20 ॥
अन्यदपि स्वदृष्टमाहार्जुनः - अमी हीति ॥ सुरस~घ्घाः मुक्तदेववर्गाः । `प्रवेशो निर्गमश्बैव मुक्तानां स्वेच्छया भवेत् ' इति वचनात् । तेन `पश्यामि देवांस्तव देव देह' इत्यनेन न पौनरुक्त्यम् । अत्र मुक्तानां तत्रामुक्तानां उक्तेः । पुष्कलाभिर्गुणपूर्णाभिः स्तुतिभिः स्तुवन्ति ॥ 21 ॥
ऊष्मपाः पितरः ``ऊष्मभागा हि पितर" इति श्रुतेः । गन्धर्वादीनां स~घ्घाः ॥ 22 ॥
बहुदंष्ट्राभिः करालं विरूपम् । लोकाः भक्तवर्गाः भक्ताभक्तवर्गार्थत्वे तु लोकत्रयमित्यत्रेवाभिप्रायो ध्येयः । तथाऽहमपि प्रथितव्यः ॥ 23 ॥
व्यात्ताननं विवृतमुखम् । अन्तरात्मा मनः । न विन्दामि न प्राप्नोमि । शमं सुखं च न विन्दामि । न प्राप्नोमि । विष्णुशब्दार्थ उक्तः दशमेऽध्याये ॥ 24 ॥
दंष्ट्राकरालानि दंष्ट्राभिर्विरूपाणि । कालेति प्रलयकालाग्निसन्निभानि समप्रभाणि । न जाने न जानामि । शर्म सुखं च न विन्दामि । जगन्निवास जगदाधार ॥ 25 ॥
त्वा त्वां सूतपुत्रः कर्णः । योधमुख्यैः योधेषु भटेषु प्रधानैः अस्मदीयैः सह ॥ 26 ॥
ते प्रागुक्तधृतराष्ट्रपुत्रादयः ते तव वक्त्राणि विशन्तीत्यत्र तेषां भगवन् मुखाभिमुखचेष्टाभावेपि भगवानेवानेकमुखैः सेनाद्वयस्थयोधान् ग्रसित्वा तिष्ठतीत्युपचारेण विशन्तीत्युक्तिः ज्ञेया । ऎवमग्रेऽपि । केचित्तस्मिन् मुहूर्त ऎव मरिष्यमाणाः । केचिद् दशनान्तरेषु विलग्नाः चूर्णितैः शतशः सूक्ष्मरेखोपेतशीर्णघटवत् शतशः सूक्ष्मरेखोपेततया भिनXॆ#202;ः उत्तमा~घ्ग#245;Xॆ#202;ः शिरोभिरुपलक्षिताः सन्तः दृश्यन्ते मयेत्यर्थः । मन्ददृष्टीनां अन्येषां तथा दृष्ट्यभावेऽप्यर्जुनस्य दिव्यदृष्टिमत्त्वात्तथा दर्शनं युक्तमिति ज्ञेयम् । तथाऽन्यैरदृष्टस्यापि पुरूरवसो जराश्विभ्यां दृष्टा तथेति । व्यक्तमेतद् विष्णुधर्मे एकोनविंशेऽध्याये । (तथाहि- पुरूरवसो रूपं द्रष्टुमागताश्विनौ प्रति पुरूरवो राजा तैलाभ्यक्तः सन् स्नातः भूषणयुतः सन् आगमिष्यामि तदा मद्रूपं द्रष्टव्यमित्युक्ते ``अप्रसाधितमेवाशु भवन्तं वसुधाधिप । पश्यावो भूषितं त्वां वै वस्त्राल~घ्करणान्वितं" इत्याश्विभ्यामुक्ते तूष्णीं बहिर्गतस्य राज्ञः सा~घ्गोपा~घ्गादिकं सर्वं समपश्यताम् ।
``शिरोललाटबाहूवास्यनयनादि विलोकनम् ।
कृत्वा चिरं महीपालमूचुतुस्तावरिन्दमौ ॥
प्रविश्य स्नास्य भूपाल यथार्~हैश्च विभूषणैः ।
विभूषिततनुं भूयस्त्वां द्रक्ष्यामो नरेश्वरम् ॥" इत्यश्विभ्यामुक्तो राजा गृहं प्रविश्य स्नात्वाऽनुलिप्तो वस्त्राल~घ्कारादिभूषितः सन्नश्विनोः समीपमागतः ॥ तदा तौ तद्रूपं दृष्ट्वा हासं चक्रतुः । तदा राज्ञा हासकारणे पृष्टे-
``श्रुणु भूपाल सकलमावयोर्~हासकारणम् ।
युष्मद् दर्शनसम्भूतं क्षणापचयहेतुकम् ॥
अतस्तस्याभवत्पूर्वं यादृशी ते स्वरूपता ।
साम्प्रतं तादृशी नेयं भूषितस्यापि भूषणैः ॥
दिव्येन चक्षुषा भूप कालस्यास्य च तस्य च ।
वपुः परिणतिं स्वस्मात् पश्यावोपचयप्रदाम् ॥" इत्यादिनेति भावः ।
विज्वलन्ति दीप्यमानानि वक्त्राणि ॥ 28 ॥
`तवापि वक्त्राणि समृद्धवेगा' इत्यत्र भगवता अतितीव्रं ग्रस्यमानत्वाद् तथोपचर्यत इति भावः ॥ 29 ॥
समग्रान् लोकान् जनान् ज्वलद्भिर्वदनैः समन्ताद् ग्रसमानः मुखान्तःकुर्वाणः लेलीह्यसे । कोपेन रुधिरासिक्तमोष्ठ(ज)पुटादिकं जिह्वाग्रेणास्वादयसीवासकृत् स्पृशति । हे विष्णो ! तवोग्राः तीक्ष्णाः भासः प्रभाः तेजोभिः प्रकाशनशक्तिभिः समग्रं जगदापूर्य व्याप्य प्रतपन्ति देहादिपदार्थेषूष्माणं(उष्णिमानं) जनयन्ति ॥ 30 ॥
भगवत्स्वरूपं तदीयगुणकर्माणि जानन्नप्यर्जुनः अज्ञातगुणकर्मविशेषज्ञानार्थं पृच्छति - आख्याहीति ॥ उग्ररूपो भवान् कः किन्धर्मकः किमर्थमुग्ररूप इत्यर्थः ॥ 31 ॥
ऎवमर्थितो भगवान् स्वगुणादीनाह- कालोऽस्मीति ॥ ``कल बन्धने कल संहरणे कल ज्ञाने कल विद्रावणे कल कामधेनुरि"ति धातुपाठात् । पूर्ण(षड्)सद्गुणैः कलितत्वात् सम्बद्धत्वात्कालः पूर्णसद्गुणो(षड्गुणो)ऽस्मीत्यर्थः । तथा जगद् बन्धनसंहरणबोधनविद्रावणादिकर्मयुक्तत्वाच्च कालोऽस्मीत्यर्थः । कलतेः कर्मणि कर्तरि च अण्, घञX प्रत्ययो वा । किमर्थमुग्ररूप इत्यस्योत्तरं - लोकक्षयकृदित्यादि ॥ प्रवृद्धो देशकालतः परिपूर्णः । अनादिनित्य इति वा । लोकस्य क्षयकृद् भवन्निह युद्धमण्डलगतान् लोकान् जनान् प्रत्यक्षत ऎव संहर्तुं प्रवृत्तोऽस्मि । तर्~हि पार्थानामपि संहर्तुं प्रवृत्तः किमित्यत आह- ऋतेऽपीति ॥ अपिर्धर्मादिसमुच्चये । धर्मादिपञ्चपाण्डवान् अश्वत्थामकृतवर्मकृपांश्च विनेत्यर्थः । प्रत्यनीकेषु परस्परं प्रतिस्पर्धितया स्थिते सेनाद्वये । अक्षौहिणीबहुत्वाभिप्रायेण बहुवचनम् । येऽवस्थिता योधास्ते सर्वे न भविष्यन्तीत्यर्थः ॥ 32 ॥
पूर्वं द्वितीये `न चैतद् विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः' (2-6) इति वदन्तं पार्थं प्रति सन्देहेऽपि युद्धे प्रवृत्तिर्युक्ता । पक्षद्वयेऽपि फललाभात् । `हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्' (2-37) इत्युत्तरमुक्तम् । इदानीं तव पराजयश~घ्का नास्तीत्याह- तस्मादितिद्वयेन ॥ यस्मादहमेव लोकान् समाहर्तुं इह प्रवृत्तः तस्माद् विजये सन्देहाभावादुत्तिष्ठ योद्धुं सन्नद्धो भव । शत्रून् जित्वा यशो लभस्व समृद्धं राज्यं भु~घX क्ष्व । पूर्वमेव मया निहिताः निहतप्रायाः अपहृतायुष्ट्वेन सन्निहितमरणाः सन्ति । तान् प्रत्यक्षतो हन्तुं हे सव्यसाचिन् त्वं निमित्तमात्रं भव । पश्चादपि त्वयि स्थित्वाऽहमेव हनिष्यामीति भावः ॥ 33 ॥
ननु द्रोणो धनुर्विद्याचार्यः भीष्मः स्वच्छन्दमृत्युः । योऽस्य शिरः छित्वा भूमौ पातयेत् तच्छिरो भेत्स्यत इति पितुर्वरेण बलिष्ठः सैन्धवः । वासवशक्त्या कर्णो बलवान् । ऎवमन्ये च बलिष्ठाः सन्ति । ते कथं मया जेया इत्यत आह- द्रोणं चेति ॥ 34 ॥
ततः किं जातमिति धार्तराष्ट्रहार्दं परिहर्तुं सञ्जय उवाच किमित्यत आह- एतदित्यादिना ॥ वेपमानः भयकम्पिता~घ्गः । भीतभीतः अत्यन्तभीतः ॥
तद् वचनमाह- स्थान इत्यादिना ॥ हे हृषीकेश ! सर्वेन्द्रियप्रेरक तव प्रकीर्त्या जगत्प्रहृष्यति अनुरज्यते चेत्यादि(कं) स्थाने । अव्ययमेतत् । युक्तमेवेत्यर्थः ॥ 36 ॥
कथं युक्तमित्यत आह- कस्मादिति ॥ हे महात्मन् महांश्चासावात्मा च तस्य सम्बुद्धिः महात्मन् । महच्छब्दोऽत्र पूर्णवाची । आत्मशब्दोऽपि ``यच्चाप्नोति"(भारते) इत्यादि स्मृतेराप्त्यादानविषयानुभवनित्यसत्तारूपार्थचतुष्टयवाची । पूर्णाप्त्यादिमान् इत्यर्थः । गरीयसे गुरुतमाय ब्रह्मणश्चतुर्मुखस्याप्यादिकर्त्रे ते तुभ्यं कस्मान्न नमेरन् । नमेयुरेव । अनन्त अन्तशून्य । (देवेश) देवानामीश । जगन्निवास जगदाश्रय । यत्सदसद्भावात्मकं जगत्तत्परं तदुत्तममक्षरम् । त्वमेवेत्यर्थः ॥ 37 ॥
निधानमाश्रयः । वेत्ताऽसि वेदिताऽसि परिज्ञाताऽसि । वेद्यं च त्वमेव । परं धाम तेजोजातं च त्वमेव । अनन्तरूप । कालतोऽन्तहीनं रूपं यस्य तस्य सम्बुद्धिः । नच `नान्तं न मध्यं न पुनस्तवादिं पश्यामि' इत्यनेन `त्वया ततमि'त्यस्य पौनरुक्त्यं श~घ्क्यम् । नान्तं पश्यामीत्युक्ते विद्यमानमप्यन्तं स्वयं न पश्यामीत्यपि प्रतीत्या परिमाणानन्त्यं नेश्वरस्य सिध्यतीत्यतो न केवलमहं न पश्यामि । त्वया ततं च विश्वमित्युक्तत्वेन सप्रयोजनत्वान्न पुनरुक्तिरिति ज्ञेयमिति । `द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशाश्च सर्वाः' इति । `त्वया ततं विश्वमनन्तरूपं' इत्याद्यभ्यासो विष्णोर्देशकालगुणैः आनन्त्ये स्वस्य महातात्पर्य#101;XञXापनार्थं इति न पौनरुक्त्यं श~घ्क्यम् ॥ 38 ॥
गुणान्तरयुक्तत्वेन पुनः स्तौति - वायुरिति ॥ वायुर्बलज्ञानरूपः । यमः दोषोपरतिमान् । अग्निः स्वतो गतिहीनजगन्नेता । वृणुते भक्तानिति वरुणः । अतिसुखान्तिकत्वात् शशा~घ्कः । प्रजापालनात् प्रजापतिः ॥ 39 ॥
सर्वतः दक्षिणोत्तरादिसर्वपार्शेभ्यः नमोऽस्तु ते । हे सर्व परिपूर्ण ! ननु `सर्वं खल्विदं ब्रह्म' (छां. 3-14-1) इति श्रुतौ इदं सर्वं च जगद् ब्रह्मेति सर्वस्य जगतो ब्रह्मात्मकत्वोक्तेः ``त्वमस्य विश्वस्य परं निधानम् । त्वया ततमिदं विश्वमि'त्याद्ययुक्तमित्यतः श्रुतिगतसर्वशब्दार्थमाह- सर्वमिति ॥ सर्व विश्वं समाप्नोषि व्याप्नोषि यतः ततः सर्वोऽसि । `सर्वं खल्विदं ब्रह्म' `पुरुष एवेदं सर्वं' (तै. आ. 3-12) इत्यादि श्रुतिस्थसर्वशब्दवाच्योऽसि । इदं ब्रह्म सर्वं खलु सर्वजगद् व्यापि खल्वित्यादिरूपेण श्रुत्यर्थो ज्ञेयः । नतु जगदात्मकत्वेन इत्यभिप्रायः ॥ 40 ॥
एतादृशमाहात्म्यं भगवन्तं प्रति यदपराद्धं तत्क्षन्तव्यमित्याह- सखेत्यादिना । इदं प्रागुक्तं जगद् स्रष्टृत्वादिकं महिमानं अजानता मया प्रमादात् पारवश्यात् प्रणयेन वा स्नेहेन वा सखेति मत्वा हे कृष्ण हे यादव हे सखेति प्रसभं अबहुमानं यथा तथा यदुक्तं तद् क्षामये क्षमापये इत्यग्रेतनेनान्वयः । हे सख ! इति विच्छिद्य वक्तव्ये सन्धिश्छान्दसः ॥ 41 ॥
किञ्च अथवेति पक्षान्तरे । हे अच्युत सर्वगुणैश्च्युतिहीन । विहारः क्रीडा तदादिषु एकोऽपि त्वं सर्वोत्तमोऽपि असत्कारानर्~होऽपि इति यावत् । यदपहासार्थमसत्कृतोऽपि अवमतोऽसि । तदप्रमेयं त्वां समक्षं त्वत्पुरतोऽहं क्षमापये क्षमस्वेति प्रार्थये । ऎकशब्दे ए शब्द ऎकवाची । क शब्दस्तु करोतेरन्तर्णीतव्यर्थात् केवलाद्वा ड प्रत्यये क इति कर्तृवाची कारयितृवाची च । ए एकोऽसहाय ऎव कः कर्ता कारयिता चेत्येकः सर्वोत्तमः अन्यनिरपेक्षकर्तृत्वादिमत ऎव सर्वोत्तमत्वादिति । अत्र ऎकशब्दः सर्वोत्तमपरो ध्येयः ॥ 42 ॥
असत्कारानर्~हतामेव गुणान्तरोक्त्या व्यनक्ति - पितासीत्यादिना ॥ त्वमस्य चराचरस्य लोकस्य पिताऽसि जनकोऽसि । अत ऎव पूज्यो गरीयान् गुरुरत्यन्तं गुरंश्च अप्रतिमप्रभाव अनुपमैश्वर्यम् ॥ 43 ॥
यस्मादुक्तमहामहिमा तस्मात्कायं भूमौ प्रणिधाय ईशमीड्यं स्तुत्यं त्वा त्वां प्रणम्य प्रसादये । हे देव पित्रादिः पुत्रादेरिवापराधं सोढुमर्~हसि ॥ 44 ॥
ऎवं क्षमाप्य प्रार्थयते - अदृष्टेति ॥ हे देव ! पूर्वमदृष्टमदृष्टपूर्वं तव रूपं दृष्ट्वा हृषितोऽस्मि । यथा भयेन च मे मनः प्रव्यथितं प्रचलितम् । अतो हे देवेश ! जगन्निवास तदेव रूपं मे दर्शय प्रसीद ॥ 45 ॥
तदेवेत्युक्तं रूपमाह - किरीटिनमिति ॥ यथा विश्वरूपं दृष्टवान् अस्मि तथैव तेनैव पूर्वदृष्टेन चतुर्भुजेन रूपेण त्वां द्रष्टुमिच्छामि । हे सहस्रबाहो अनन्तबाहो विश्वमूर्ते गुणपूर्णविग्रह इति वा विश्वस्मिन् न्मूर्तिर्यस्येति वाऽर्थः ॥ 46 ॥
भक्त्यतिशयोत्पादनाय विश्वरूपप्रदर्शनस्य दौर्लभ्यमाह- मयेति ॥ हे अर्जुन ! प्रसन्नेन मया आत्मयोगात् स्वरूपसामर्थ्यात् परमुत्तमं इदं रूपं तव दर्शितम् । तद् विशिनष्टि । तेजोमयं प्रचुरतेजस्सवरूपम् । विश्वं पूर्णं अनन्तं देशकालापरिच्छिन्नं, आद्यं त्वदन्येन न दृष्टपूर्वमित्यस्य त्वत्तोऽधमैरदृष्टपूर्वमित्यर्थः । तैरपि स्वयोग्यतानुरोधेन दृष्टत्वेऽपि अर्जुनवन्नदृष्टमित्यदृष्टत्वोक्तिः । तथा त्वया त्विन्द्रशरीरेण दृष्टपूर्वमित्यपि त्वदन्येनेति विशेषणाल्लभ्यते । यन्मे रूपं दर्शितमित्यन्वयः । अत्र विश्वरूपस्य परमित्युत्तमत्वोक्तिः अज्ञजनापेक्षयैव । ब्रह्मादीनां कृष्णाद्यवतारेष्वपि परत्वधीसत्त्वादिति ॥ 47 ॥
ननु अर्जुनादवरैः स्वतोऽर्जुनवन्न दृष्टमपि विश्वरूपं वेदादिसाधनैरर्जुनेनेव तदवरैरपि तथा दृश्यतामित्यत आह- न वेदेति ॥ वेदानां यज्ञानां चाध्ययनैरग्निहोत्रादिक्रियाभिः । उग्रैः कृच्छ्रचान्द्रायणादितपोभिरेवं रूपः प्राक् प्रदर्शितविश्वरूपोऽहं नृलोके त्वदन्येन त्वत्तोऽवरेण त्वद्वद् द्रष्टुं न शक्य इत्यर्थः । सर्वात्मनाऽर्जुनादन्येनादृष्टार्थत्वे `दृष्ट्वाऽद्भुतं रूपमि'ति प्रागुक्तविरोध इति ज्ञेयम् ॥ 48 ॥
अदृष्टपूर्वमित्यादिना प्रार्थितस्योत्तरमाह- मा त इति ॥ घोरं संहर्तुरूपं ईदृगीदृशं अनन्तबाह्वादिरूपं दृष्ट्वा ते व्यथा माऽस्तु । विमूढभावो विमूढत्वं च माऽस्तु । व्यपगतभयः प्रीतमनाश्च सन् पुनस्त्वं तदेव रूपं पूर्वदृष्टमेव रूपं प्रपश्येति ॥ 49 ॥
ततः किं जातमिति धार्तराष्ट्रहार्दं निरसितुं - सञ्जय उवाच इत्यर्जुनमि' त्यादिना ॥ इत्युक्त्वेत्यन्वयः । तथाशब्दः समुच्चये । स्वकं रूपं दर्शयामास चेत्यर्थः । स्वं स्वकीयतया प्रदर्शनीयमित्यर्थः । विश्वरूपं न स्वकीयं इदं तु स्वकीयमिति लोकभ्रान्तिविषयमिति यावत् । भीतमेनं भूय आश्वासयामास च । किं कृत्वा महात्मा सौम्यवपुर्भूत्वेति ॥ 50 ॥
विश्वरूपतिरोधानेन कृष्णरूप(प्र)दर्शनेनाश्वासितोऽस्मीत्याहार्जुनो - दृष्ट्वेति ॥ किञ्च मनुष्यवद् दृश्यमानत्वात् मानुषं इदं सौम्यकरं इदं तव रूपं दृष्ट्वा इदानीं सचेताः प्रसन्नचित्तः संवृत्तो जातोऽस्मि । प्रकृतिं पूर्वस्वभावं स्वस्थतां गतोऽस्मीत्युवाचेत्यन्वयः ॥ 51 ॥
भय~घ्करं रूपं किमर्थं दर्शितवानसीत्यतः विश्वरूपदृष्टेर्महिमानमाह भगवान् -सुदुर्दर्शमिति । यन्मम रूपं दृष्टवानसि । अस्य रूपस्य नित्यं दर्शनका~घ्क्षिणो ये देवाः तेऽपि यद् दृष्टवन्तस्तदिदं सुदुर्दर्शम् । केषा~घ्चित् सुखेन दर्शनीयम् । केषाञ्चित् सुखेन दुःखेन च दर्शनीयमित्यर्थः । देवानामप्यपेक्षितत्वात् तव शत्रुवधे निमित्तमात्रत्वज्ञापनाय चैतद् रूपं दर्शितमिति भावः ॥ 52 ॥
किञ्चातिदुर्लभदर्शनं ते मया कारितमिति भावेनाऽह - नाहमिति ॥ यथा दृष्टवानसि ऎवंविधो विश्वरूपवानित्यर्थः ॥ 53 ॥
केनोपायेन द्रष्टुं शक्य इत्यत आह- भक्त्येति ॥ वेदादितो विशेषद्योतकस्तुशब्दः । अनन्ययाऽन्यासाधारणया असहाययेति वा । तत्त्वेन ज्ञातुं द्रष्टुं प्रवेष्टुं सायुज्यं प्राप्तुं च शक्योऽहमिति ॥ 54 ॥
अनन्ययेत्युक्त्या जातान्यत्यागभ्रान्तिं निराह- मत्कर्मकृदिति ॥ अहमेव परमो यस्य स तथा । मदुत्तमताज्ञानवानित्यर्थः । स~घ्गवर्जितः फलस्नेहहीनः यः स मामेतीति ॥ 55 ॥
॥ इति श्रीमद्गीतार्थसङ्ग्रग्रहे श्रीराघवेन्द्रयतिकृते एकादशोऽध्यायः ॥
***********************************************************************
॥ श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवायनमः ॥
श्री हरिः ॐ ॥
देवदेव्युपासनयोर्मध्ये देवोपासनस्याधिक्याय तदुपासनमाह अस्मिन्नध्याये ।
भगवदुपास्त्याधिक्यपरत्वादस्य भगवद् माहात्म्यपरषट्कान्तर्भावश्च । `तमेवं विद्वान्'(तै.आ. 3-12-7) इत्यादौ भगवदुपास्तेरिव `श्रियं वसाना अमृतत्वमायन्' इत्यादि श्रुतौ श्रियं प्रत्युपासीना अमृतत्वं प्राप्ता इति श्रीदेव्युपास्तेरपि मुक्तिहेतुत्वावगमेन जायमानपरकीयसन्देहमाहृत्य विशेषयुक्तिबुभुत्सया पृच्छति - ऎवमिति ॥ नच देव्युपास्तेर्मुक्तिहेतुत्वमुपचरितम् । `अन्तवत्तु फलं तेषामि'ति साप्तमिकन्यायात् । अतो नास्य सन्देहहेतुत्वमिति श~घ्क्यम् । ब्रह्मादि देवानां जनिमृतिमत्त्वेन तदुपास्तेरन्तवत् फलकत्वेऽपि श्रियस्तु `चतुष्कपर्दा' इत्यादौ नित्ययौवनज्ञानमयत्वदेवपूज्यत्वादिमहामहिम्नः श्रवणेन तदुपास्तेर्मुकिहेतुत्वसम्भवेन सन्देहहेतुत्वं मन्वानस्यायं प्रश्नः । ये भक्ताः सततयुक्ताः सततं ध्यानकर्मयोगवन्तः । ऎवं दृष्टश्रुतरूपं त्वां ऎवं `मत्कर्मकृत्' इत्याद्युक्तप्रकारेण पर्युपासते, येऽपि चाक्षरनामकमव्यक्तं चित्प्रकृतिं परिश्रद्धया भक्त्यादिपूर्वकमुपासते तेषां मध्ये के योगवित्तमाः मोक्षोपायज्ञेषु श्रेष्ठाः इत्युवाचार्जुनः इत्यन्वयः । ऎवमित्यस्य त्वामित्यत्रोपासत इत्यत्र चान्वयः । ऎवमित्यस्य पूर्वपरामर्शित्वाद् पूर्वानन्तर्यमप्यस्याध्यायस्य ध्येयम् । अत्राव्यक्तमित्येव वाच्ये अक्षरमिति तद् विशेषेणोक्तिः क्षरणवद् भ्यो ब्रह्मादिदेवान्तरेभ्यो वैलक्षण्यप्रदर्शनेन प्रश्नसम्भावनार्थाः ॥ 1 ॥
अव्यक्तोपासकान्मदुपासका एवोत्तमा इत्याह- मयीति ॥ ये मयि सम्य~घX मन आवेश्य नित्ययुक्ताः नित्यं कर्मयोगध्यानयोगवत्त्वेन नित्ययुक्ताः । परया श्रद्धयोपेताश्च सन्तः मामुपासते ते युक्ततमाः । मोक्षोपायवत्सु श्रेष्ठाः मे मता इत्यर्थः ॥ 2 ॥
नन्वव्यक्तोपासकानां मोक्षाभावे `श्रियं वसाना अमृतत्वमायन्' इत्यादि श्रुतिविरोधः । मोक्षसत्त्वे च कथं त्वदुपासकानामेव युक्ततमत्वं फलसाम्यादित्यत आह- ये त्विति । यद्वा उक्तश्रुत्यादिनाऽव्यक्तोपासकानां मत्प्राप्तिरूपमोक्षसत्वेऽपि तदुपासनं कष्टसाध्यम् । मदुपासनं न तथा । अतो मदुपासका एवोत्तमा इत्याह- ये त्वित्यादिना श्लोकपञ्चकेन ॥ अक्षरमविनाशिसूक्ष्मत्वात् । अनिर्देश्यं अप्रसिद्धत्वात् जगदुपादानप्रकृत्यभिमानित्वाच्चाव्यक्तनामकं श्रीतत्त्वं पर्युपासते । विष्णुभक्तिविष्णूत्तमत्वज्ञानविष्णूपासनादिपूर्वकमुपासते । तद् विशिनष्टि - सर्वत्रगमिति ॥ देशतो व्याप्तम् । गुणबाहुल्यादचिन्त्यम् । कूटस्थं कूटेऽव्याकृताकाशे अभिमानितया स्थितम् । कदाऽपि स्वपदाद्भ्रष्टत्वादचलं ध्रुवं निर्विकारमिति ॥ 3 ॥
तदुपासनायामितिकर्तव्यतामाह- सन्नियम्येति । इन्द्रियग्रामं इन्द्रियसमुदायं सन्नियम्य विषयेभ्य उपसंहृत्य । सर्वत्र समबुद्धयः । षष्ठाध्यायोक्तदिशा सम्यग् ज्ञानवन्तः । सर्वभूतहिते रताश्च सन्तः पर्युपासत इत्यन्वयः । अत्र अक्षरत्वादिविशेषणं मोक्षदानशक्तिद्योतनाय । ते मामेव प्राप्नुवन्तीति ॥ 4 ॥
अव्यक्तोपासकानामपि त्वत्प्राप्तिरूपमोक्षसत्त्वे कथं त्वदुपासकानां उत्तमतेत्यत आह- क्लेश इति ॥ अव्यक्ते विष्णुं विनाकृतश्रीतत्त्वे आसक्तचित्तानां तेषां क्लेशः अधिकतरः अत्यन्ताधिकः । कथमित्यत आह- अव्यक्ता हीति ॥ गतिशब्दो गम्यतेऽनेनेति करणव्युत्पत्त्या मार्गपरः । अव्यक्तशब्दस्तदुपासनं लक्षयित्वा तद् द्वारकलक्षकः । अव्यक्तोपासनद्वारको भगवत्प्राप्तिमार्गः दुःखं यथा भवति तथा देहवद्भिरवाप्यते हि । प्रागुक्तपरिशब्दार्थपूर्वकमुपासनं इन्द्रियग्रामातिनियमनं षष्ठोक्तप्रकारेण सर्वत्र समबुद्धित्वम् । सर्वभूतहितकरत्वं सुष्ट्वाचारं च विना न देवीप्रसादः । तेन विना नेश्वरप्रसादः । तेन विना न तत्प्राप्तिरिति तदुपास्तिद्वारकभगवत्प्राप्तिमार्गस्य क्लेशतरत्वं ध्येयम् ॥ 5 ॥
मदुपासने न तथा क्लेश इत्याह- ये त्विति ॥ पूर्वस्माद् वैलक्षण्यद्योतकस्तुशब्दः । ये तु सर्वाणि कर्माणि मयि संन्यस्य सर्वस्वतन्त्रो हरिरेव मयि स्थित्वा स्वपूजात्वेन कर्माणि स्वाधीनकर्त्रा मया कारयतीत्यनुसन्धाय समर्प्येतिवा । मत्पराः अहमेवोत्तम इति जानन्तः अनन्येनैव योगेन अव्यक्तोपासनां विना कृतेन ध्यानेन । केवलमद्विषयध्यानेनापीति यावत् । मां ध्यायन्त उपासते । अत्र उपासत इत्युक्त्या पर्युपासत इत्युक्ताव्यक्तोपासनमिव नातिशयितोपासनम् । अतीवेन्द्रियनियमनादिकं मत्प्रसादे नापेक्षितमिति न क्लेश इति सूचितं तथा `न चिरा'दित्यनेनाव्यक्तापरोक्षे यावान् प्रयासस्तावता यदि मामुपासते तदूनेन वा तदा मदपरोक्षमेव भवतीत्यतोऽपि न क्लेश इति सूचितम् । तेषामहं समुद्धतां भवामीत्यनेनेन्द्रियसंयमाद्यूनभावेऽपि देवीवद्देवो नोपेक्षते किन्तु तानि साधनानि भक्तिमतः स्वयमेवाप्रयत्नेन ददातीति चातिसौकर्यं भक्तानां भगवदुपासने इति भावः । यद्वा `क्लेशोऽधिकतर' इति श्लोके अव्यक्तोपास्तिमार्गस्य क्लेशतरत्वोक्त्यैव सुष्ठ्वाचारादेरूनत्वेऽपि मत्प्रसादो भवत्येवेत्यक्लेशत्वाद् मदुपास्तिमार्ग ऎव श्रेष्ठ इति तात्पर्यगत्योक्तप्रायत्वाद् हेत्वन्तरेणापि भगवदुपास्तिमार्गः श्रेष्ठ इत्याह - यो त्विति ॥ पूर्वार्धस्य प्रागिवार्थः । अनन्येनैव अन्यशब्दो लक्ष्म्याद्यन्यदेवतावाची सन् तन्निष्ठस्वातन्त्र्यापरिवारत्वविषय(क)परः स न भवतीत्यन्यः तेन योगेन ध्यानेन भगवदधीनतया तत्परिवारत्वेन लक्ष्मीब्रह्मादिसहितेन ध्यानयोगेनेति यावत् । `ओं अ~घ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॐ ' (3-3-57) इत्यादि सूत्रात् मां ध्यायन्त उपासते ॥ 6 ॥
तेषां मय्यावेशितचेतसामहं मृत्युसंसारसागरात् मृत्युरूपसंसारसमुद्रान्न चिराच्छीघ्रं समुद्धर्ता भवामीत्यर्थः । अत्र न चिरादित्युक्त्या श्रिया सह भगवदुपासने द्वयोरपि परमप्रसादसम्भवेन अचिरान्मोक्षो भवति । पृथगव्यक्तोपासनपक्षे तु पूर्वं किञ्चिद् भगवदुपासनं कृत्वा बहुकालं पृथक् श्रियमुपास्य पुनः श्रियासह भगवदुपासनं तु निरन्तरं कार्यम् । ततो मुक्तिरिति चिरेणैव भवतीत्यतोऽचिरेण मुक्तिहेतुत्वाच्च भगवदुपासनमेवाधिकमित्युक्तं भवति । तदुक्तम् । `विष्णुना सहिता ध्याता देवी तुष्टिं परां व्रजेत्' इत्यादि ॥ 7 ॥
ऎवमुक्तदिशा भगवदुपास्तेरेवोत्तमत्वाद् तदेव कुरु । तदशक्तौ तत्सिद्ध्यर्थं उपायान्तराणि सम्पादयेत्याह- मयीत्यादि चतुष्टयेन ॥ मय्येव मन आधत्स्व आधेहि मामुपास्वेति यावत् । तदलाभे मयि बुद्धिं निवेशथ । मद्विषयं ज्ञानं सम्पादय । अत ऊर्ध्वं मत्सम्पत्त्यनन्तरं य्येव निवसिष्यसि निर्दुःखानन्दानुभवात्मिकां स्थितिं प्राप्स्यसि ॥ 8 ॥
अथेत्यर्थान्तरे । स्थिरं यथा तथा मयि चित्तं समाधातुं न शक्नोषि । ततो मनःसमाधानाशक्तत्वाद् पुनः पुनः प्रत्याहारेण भगवन्मनःसमाधानरूपाभ्यासलक्षणोपायेन ममाप्तुं ज्ञातुमिच्छ ॥ 9 ॥
अभ्यासेऽप्यशक्तोऽसि तदा मत्कर्मपरमः मत्प्रीत्यर्थं मद्विषयकर्मानुष्ठानमेव परममुत्तमं यस्य स तथा तादृशो भव । तावता कथमिष्टसिद्धिरित्यत आह- मदर्थमिति ॥ कुर्वन्नपीत्यर्थः ॥ 10 ॥
अथेति प्राग्वत् । एतदपि सर्वाण्यपि जपार्चनादीनि कर्माणि मदुद्देश्यकानि मत्प्रीत्यर्थकानीत्यनुष्ठानमपि कर्तुमशक्तोऽसि । तर्~हिदेवतान्तरोद्देशेन कर्माणि कृत्वाऽन्ते मयि समर्पणरूपं मद्योगम् । मत्कर्मत्त्वे उपायं अन्ते मयि समर्पणं सर्वकर्मणां वैष्णवत्वेन करणे य उपायस्तमाश्रितो भव । ततो मद्योगात् यतात्मवान् नियतमनस्कः सर्वकर्मफलत्यागं कुर्वित्यर्थः । सर्वप्रकारेणापि मदुपासनमेव त्वदुपलक्षितैः सर्वैः कार्यमिति तात्पर्यार्थः ॥ 11 ॥
मयीत्यादिनोक्तध्यानालाभे ज्ञानं तदलाभेऽभ्यासयोग इत्येतद् समर्थयते -श्रेयो हीति ॥ अज्ञानपूर्वकादभ्यासाज्जञानं श्रेयः । ज्ञानमात्राद् ज्ञानपूर्वकध्यानं श्रेयः । तस्माद् ध्यानात् ज्ञानपूर्वकसकामध्यानादित्यर्थः । कर्मफलत्यागः श्रेयान् । एतादृशसकामध्यानात्कर्मफलत्यागोपलक्षिततादृशनिष्कामध्यानं श्रेय इति (ध्येयम्) योज्यम् । फलत्यागात्कर्मफलत्यागोपलक्षितनिष्कामध्यानादित्यर्थः । अपरोक्षज्ञानं श्रेय इति योज्यम् । अनन्तरं शान्तिर्मोक्ष इत्यर्थः ॥ 12 ॥
ये तु सर्वाणि कर्माणीत्युक्तं तदुपलक्षितधर्मान्तरोक्त्या प्रप~घ्चयति - अद्वेष्टेत्यादिना ॥ अद्वेष्टा अप्रियमकुर्वन् । क्लेशस्थानं निरूप्य ततो रक्षिता मैत्रः । करुणः कृपावान् । निर्ममः ममेदमिति स्वातन्त्र्यबुद्धिहीनः । निरह~घ्कारः अविद्यमानात्मगुणाभिमानमोहहीनः । हेयतया दुःखसमं वैषयिकसुखं यस्य स समदुःखसुखः । क्षमी सहिष्णुः ॥ 13 ॥
सन्तुष्टः अलम्बुद्धिमान् । योगी कर्मध्यानरूपज्ञानोपायवान् । यतात्मा विषयेभ्य उपसंहृतचित्तः । दृढनिश्चयः अप्रामाण्यश~घ्काशून्यतत्त्वनिश्चयवान् । मय्यर्पिते मनोबुद्धी यस्य स तथोक्तः ॥ 14 ॥
किञ्च यस्माल्लोको नोद्विजते न बिभेति लोकस्य भयहेतुर्यो न भवति । यश्च सर्वमीशाधीनं बुद्ध्वा लोकाज्जनान् नोद्विजते । यश्च हर्षामर्षभयोद्वेगैः । हर्षो नाम (मदात्) सदाऽधर्माय मनः प्रवृत्तिः । अमर्षो रोषः । उद्वेगो मनःकम्पविशेषः । तैर्मुक्तो हीनः । स चेत्यत्र भक्त इत्यनुषज्यते । मे प्रियः ॥ 15 ॥
किञ्च अनपेक्षो भगवत्प्रीत्यन्यत्र क्वाप्यपेक्षाहीनः । शुचिः बाह्यान्तरशुद्धिमान् । दक्षः भगवत्कर्मकरणे पटुः । उदासीनः कर्तव्योपकारापकारयोरुपेक्षकः । गतव्यथः परकृतापकारैरप्राप्तमनः क्लेशः । सर्वारम्भपरित्यागीत्यस्य अवैष्णवसर्वारम्भपरित्यागीति, सर्वारम्भाभिमानत्यागी सर्वारम्भफलत्यागी भगवति सर्वारम्भसमर्पणरूपत्यागवानिति चतुर्धार्थः ॥ 16 ॥
`हर्षमर्षभयोद्वेगैर्मुक्त' इत्युक्ते निष्ठाप्रत्ययेनातीतत्वप्रतीत्या कालान्तरे हर्षादिमानिति श~घ्का स्यात् । तन्निरासाय तद्व्यनक्ति - यो न हृष्यतीत्यादेर्यावज्जीवं हृष्यतीत्यादिरर्थः । न हृष्यति न द्वेष्टीत्यादिरूपेण नञX सम्बन्धे सति कदाऽपि न हृष्यतीत्यादिरर्थो भवतीति भावः । उदाहृतं च वृत्तौ तार्तीयतृतीयपादे । यावज्जीवमन्नमदादित्यादि । सर्वारम्भपरित्यागीति सामान्यत उक्तम् । विशेषोक्त्या व्यनक्ति- शुभाशुभेति ॥ ज्ञानभक्तिवैराग्याद्यन्यशुभत्यागीत्यर्थः ।
अत ऎव तदन्यन्न का~घ्क्षतीत्यर्थो न का~घ्क्षतीत्यस्य ज्ञेयः । ऎवं लोकान्नोद्विजत इत्यस्यापि हर्षामर्षभययुक्त इत्यनेनापौनरुक्त्यं ध्येयम् । उक्तश~घ्कानिरासार्थत्वादिति ॥ 17 ॥
कि~घ्च समः शत्रौ च मित्रे चेत्यादि । पूर्वं समदुःखसुख इति सामान्येनोक्तम् । तद् विशिष्योक्त्या व्यनक्ति- शीतोष्णेत्यादि ॥ शीतोष्णादिविषयजन्यसुखदुःखेषु समः उत्सेकानुत्सेकहीनः । स~घ्गविवर्जितः फलस्नेहहीनः ॥ 18 ॥
किञ्च तुल्यनिन्दास्तुतिः हेयत्वेन निन्दायाः तुल्या स्तुतिर्यस्य स तथा । अनिकेतः अनियतवासः । अकारवाच्यभगवदाश्रयो वा । स्थिरमतिः कुतर्कैरचञ्चलज्ञानः । यो मद्भक्तः भक्तिमानिति भक्तेर्बहुवारोक्तिरद्वेष्टेत्यादिनोक्तेषु धर्मेषु भक्तेराधिक्यज्ञापनाय । अत्र सुखादिषु साम्यं हर्षादिराहित्यं च प्रायेणेति ज्ञेयम् । `प्रायः सुखादिषु समः प्रायो हर्षादिवर्जित' इत्यादेः । सन्तुष्टः सततमित्यस्य सन्तुष्टो येन केनचिदित्येतद् व्याख्यानरूपमित्यपौनरुक्त्यम् ॥ 19 ॥
अद्वेषा सर्वभूतानामित्यादावद्वेषादिकं यत्पृथक् प्रीतिमात्रसाधनमुक्तं, स मे प्रियः स च मेप्रियः इत्यादिना तत्सर्वं मिलितं यत्रास्ति स तु मेऽत्यन्तं धारकत्वाद्धर्मो विष्णुस्तदुपासना~घ्गत्वादुपचारेण धर्म्यम् । अमृतशब्दितमुक्तिसाधनममृतम् । धर्म्यं च तदमृतं च धर्म्यामृतम् । यथोक्तमद्वेष्टेत्यादिनोक्तमद्वेषादिकं प्रीतिसाधनं समस्तम् । श्रद्दधानाः । आस्तिक्यवन्तः । मत्परमाः मदुत्तमताज्ञानिनः सन्तो ये पर्युपासते सम्यगनुतिष्ठन्ति ते भक्ताः अतीव मे प्रियाः इत्यर्थः ॥ 20 ॥
॥इति श्रीमद्गीतार्थस~घ्ग्रहे श्रीराघवेन्द्रयतिकृते द्वादशोऽध्यायः ॥
श्रीवादिराजान्तर्गत श्रीमध्वेशाभिन्नकृष्णार्पणमस्तु ॥
*****************************************************************
॥ श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
॥ चतुर्दशोऽध्यायः॥
`` बुद्धिर्योगे त्विमां शृण्विति"(2-39) द्वितीये प्रतिज्ञाय आषष्ठसमाप्तेः कामादिवर्जनादीतिकर्तव्यतासहितं कर्म ध्यानलक्षणं ज्ञानसाधनमुक्तम् । तत्रेतिकर्तव्यतांशं उत्तराध्यायपञ्चकेन प्रपञ्चयतीति प्रघट्टार्थः । तत्र बन्धप्रकारे ज्ञाते सत्येव तन्मोचनसाधनस्य तदितिकर्तव्यस्य चानुष्ठानाय तत्प्रपञ्चनं युज्यते । बन्धश्च `कारणं गुणस~घ्गोऽस्य'(13-12) इति पूर्वाध्यायोक्तदिशा त्रिगुणात्मकः । अतो `यावत्सञ्जायते(13-26) इत्यादिना पूर्वाध्यायोक्तक्षेत्रक्षेत्रसंयोगहेतुकप्राणिजननविवरणपूर्वकं त्रिगुणविकारस्थितिं तदत्ययोपायं च दर्शयत्यस्मिन्नध्याये । `कार्यते ह्यवशः कर्म'(3-5) इति तृतीयाध्याये स~घ्क्षेपेण त्रैगुण्यस्योक्तत्वेऽपीह तस्य विविच्य कीर्तनमिति ज्ञेयम् । श्रोतुरादरजननाय वक्ष्यमाणमर्थप्रतिज्ञाय स्तौति- परमिति द्वयेन ॥ परमन्यद् भूयः पुनः प्रवक्ष्यामि । तत्किमित्यत उक्तम्- ज्ञानानामिति ॥ कर्मणि ल्युट् । ज्ञातव्यानां मध्ये उत्तमं ज्ञानं ज्ञातव्यम् । यद् ज्ञात्वा मुनयो मननशीलाः सर्वे इतः संसारात्परां सिद्धिं मोक्षं गताः प्राप्ताः ॥ 1 ॥
इदं ज्ञानं वक्ष्यमाणार्थज्ञानमुपाश्रित्य सम्पाद्य मम साधर्म्यं सारूप्यं आगताः प्राप्ताः । शिष्टं व्यक्तम् ॥ 2 ॥
प्रतिज्ञार्थमाह- ममेति ॥ महद् ब्रह्म महती चित्प्रकृतिः मम योनिः भार्या तस्मिन् ब्रह्मणि चित्प्रकृतौ गर्भं दधामि । चतुर्विंशतितत्त्वांशयुतान् जीवान् स्वोदरस्थान् रेतोरूपेण निर्वास्य चित्प्रकृत्युदरे निक्षिपामीत्यर्थः । ततस्तत्र निक्षेपाद्भूतानां प्राणिनां देहयोगरूपसम्भवो जन्म भवति । `ओं ज्ञोऽत ऎव ॐ'(2-3-18) `ओं युक्तेश्च ॐ'(2-3-19) इति सूत्रकृदुक्तेः ॥ 3 ॥
न केवलमादिसर्ग ऎवानयोः कारणत्वं किन्तु सर्वदेत्याह- सर्वेति ॥ देवमनुष्यतिर्यगादियोनिषु याः मूर्तयः कार्यव्यक्तयः सम्भवन्ति । तासां महद् ब्रह्म महालक्ष्मीः योनिः क्षेत्ररूपं कारणम् । अहं बीजप्रदः गर्भाधानकर्ता पिता ॥ 4 ॥
ऎवं `सत्त्वं रजस्तम इति' `यावत्सञ्जायत'(13-23) इत्युक्तं श्लोकद्वयेन विवृत्त्येदानीं यो हि बद्धोऽस्मीति जानाति स ऎव तन्निवृत्तिसाधनं विजिज्ञास्य ज्ञात्वाऽनुतिष्ठति । अतो बन्धोच्छेदसाधना(य)नुष्ठानाय तत्साधनज्ञापनार्थं जिज्ञासामुत्पादयितुं गुणत्रयकृतबन्धप्रकारं तावदाह- सत्त्वमिति ॥ प्रकृतिसम्भवाः त्रिगुणात्मकजडप्रकृतितः सम्भवन्तस्तदंशभूताः सत्त्वं रजस्तम इति गुणाः तथा प्रकृतिसम्भवाः चित्प्रकृतितः सृष्टिकाले विभज्यमानाः सद्गुणत्वसृष्ट्यादिरञ्जनकर्तृत्वजीवग्लपनहेतुत्वनिमित्तैः क्रमाद् सत्त्वरजस्तमश्शब्दिताः श्रीभूदुर्गाख्याः गुणाः क्रमाद्गुणत्रयाभिमानिन्यः तिस्रो देव्यश्च देहे स्थितमव्ययं स्वरूपतो व्ययहीनं जीवम् । जात्येकवचनम् । जीवजातं निबध्नन्ति । सर्वासां सर्वबीजबन्धकत्वेपि सत्त्वमानिनी श्रीः देवबन्धिका रजोऽभिमानिनी भूर्मनुष्यबन्धिका तमोऽभिमानिनी दुर्गा दैत्यबन्धिकेति विशेषो ज्ञेयः । अत्र देह इत्युक्तिर्भूतपूर्वगत्या मुक्तानामपि देहित्वात्तद् व्यावृत्त्यर्थाः ॥ 5 ॥
श्रीभूदुर्गाभिः क्रियमाणं देवादित्रितयविषयबन्धनप्रकारं विविच्याह- तत्रेत्यादि त्रयेण ॥ तत्र तेषु गुणेषु तासु देवीषु च सत्त्वं सत्त्वाभिमानि श्रीतत्वं निर्मलत्वात् अनामयं न विद्यते आमयो व्याध्याद्युपद्रवो यस्मात्तत् तच्च प्रकाशकं तत्त्वज्ञानोत्पादकं सत् सुखस~घ्गेन तत्त्वज्ञानस~घ्गेन च देवान्बध्नाति ॥ 6 ॥
तृष्णा नाम इदं मे भूयादित्याशा । स~घ्गो वस्तुष्वासक्तिः । तयोः समुद्भवो यस्मात्तत् । रजोभिमानिनी भूदेवी भूतत्वं च रागात्मकं सृष्ट्यादिरञ्जनस्वरूपं विद्धि । तद् द्विविधं रजः । कर्मयोगेन देहिनं मानुषं जीवं बध्नाति ॥ 7 ॥
अज्ञानं जायते यतस्तदज्ञानजं तमस्तमोऽभिमानिनी दुर्गा, तत्त्वं च, सर्वदेहिनां मोहनं मिथ्याज्ञानजनकं विद्धि । तद् द्विरूपं तमः प्रमादादिभिर्दैत्यजनं निबध्नाति ॥ 8 ॥
सत्त्वादीनां सुखादिसम्पादनेनैव बन्धकत्वमिति नियमं द्रढयति - सत्त्वमिति ॥ सत्त्वं सत्त्वाभिमानिनी श्रीश्च सुखे सुखविषये सञ्जयति । प्रवर्तयतीत्यर्थः । रजः रजोऽभिमानिनी भूदेवी च कर्मविषये सञ्जयति । तमस्तु तमोऽभिमानिनी दुर्गा च ज्ञानमावृत्य मनसस्तत्त्वज्ञानशक्तिं प्रतिबध्य प्रमादे अधर्मे अधर्मबुद्ध्यादिरूपे सञ्जयति । उत शब्दादालस्यादिग्रहः ॥ 9 ॥
ननु त्रयाणां बन्धकत्वसाम्यात् कथं कस्यचिदेव गुणस्य कार्यं दृश्यते इत्यतः उत्कटत्वानुत्कटत्वाभ्यामिति भावेनाह- रज इति । ईश्वरेच्छया सत्त्वमुत्कटं सत् रजस्तमश्चाभिभूय स्वकार्यदक्षं भवति । रजस्तथोत्कटं सत् तमः सत्त्वं चाभिभूय स्वकार्यदक्षं भवति । तमश्चोत्कटं सत् रजः सत्त्वं चाभिभूय स्वकार्यकारि भवति इत्यर्थः । अभिभवशब्दितकार्यशक्तिप्रतिबन्धो गुणानामेव । देवानां त्वौदासीन्यमेवेति ज्ञातव्यम् ॥ 10 ॥
केन कि~घ्गेन सत्त्वादिवृद्धिर्ज्ञेयेत्यत आह- सर्वेत्यादित्रयेण ॥ अस्मिन्देहे सर्वद्वारेषु क्षेत्रादिषु ज्ञानं शब्दादिज्ञानात्मकः प्रकाशः । उत शब्दात्सुखादि चोपजायते यदा तदा सत्त्वं विवृद्धमिति विद्याज्जानीयात् ॥ 11 ॥
लोभो धनादेरत्यागेच्छा । प्रवृत्तिर्व्यर्थोद्योगः । काम्यकर्मणामारम्भः । अशमः चित्तस्यानुपरतिः । अप्राप्ताभिलाषः स्पृहा । एतानि विवृद्धे रजसि जायन्ते । एतै रजोवृद्धिर्ज्ञेयेति भावः ॥ 12 ॥
अप्रकाशः क्षेत्रादिषु शब्दादिज्ञानाभावः । अप्रवृत्तिरनुद्यमः । प्रमादोऽनवधानम् । मोहो विपर्ययः । एतानि तमसि विवृद्धे जायन्ते । एतैर्लिङ्गैस्तमोविवृद्धिर्ज्ञेयेति भावः ॥ 13 ॥
सत्त्वादिगुणवृद्ध्यवस्थायां मृतानां गतिभेदमाह - यदेति द्वयेन ॥ यदा सत्त्वे विवृद्धे देहभृत्प्रलयं याति म्रियते तदोत्तमविदां विष्णुज्ञानिनां अमलान्निर्दोषान्लोकान्देहान्प्रतिपद्यते । सात्त्विककुले जायत इत्यर्थः ॥ 14 ॥
रजसि प्रवृद्धे प्रलयं गत्वा मृत्वा कर्मस~घ्गिषु काम्यकर्मिणां कुले जायते । तथा तमसि प्रवृद्धे प्रलीनो मृतः मूढयोनिषु दैत्यानां कुलेषु जायते ॥ 15 ॥
सात्त्विकादिकर्मणां फलमाह- कर्मण इत्यादिद्वयेन ॥ विद्वत्कुलप्रसूतेन सुष्ठुकृतस्य कर्मणः सात्त्विकं निर्मलं दुःखगन्धहीनं फलमाहुः । राजसोराजसकर्मणस्तु दुःखं दुःखमिश्रं सुखमाहुः । तमसस्तु तामसकर्मणः अज्ञानं अज्ञानकार्यं च फलमाहुः ॥ 16 ॥
निर्मलत्वादिफलं च किमित्यतो विविच्याह - सत्त्वमित्यादिना ॥ ज्ञानं परापरतत्त्वविषयम् । लोभः स्वर्गादिविषयासक्तिः । भवत एवेत्यन्वयः । अज्ञानं च भवतीत्यर्थः ॥ 17 ॥
ज्ञानलोभप्रमदादेः सत्त्वादिगुणेभ्यः साक्षाज्जन्यत्वेऽपि तस्य स्वरूपतोऽफलत्वात्तज्जन्यफलान्याह - ऊर्ध्वमिति ॥ सत्त्वस्थाः सात्त्विकाः ज्ञानेनोर्ध्वं जन आदिलोकं गच्छन्ति । राजसाः काम्यकर्मिणः मध्ये स्वर्गादौ तिष्ठन्ति । जघन्यगुणस्तमः तद् वृत्तिस्तत्परिणामाज्ञानं तन्निष्ठास्तद्वन्त इत्यर्थः । अधो निरयं गच्छन्ति ॥ 18 ॥
ऎवं त्रयोगुणा विवच्योक्ताः । तेषां जगद् बन्धकत्वं तेभ्यः साक्षात्परम्परया च जन्यफलानि चोक्तानि । ऎवं त्रैगुण्यस्य `कार्यते ह्यवश'(3-5) इत्यत्र स~घ्क्षेपेणोक्तस्येह विविच्य कीर्तने कृते सति तर्~हि गुणा ऎव सर्वोत्तमाः नतु ततोऽन्यः सर्वोत्तमोऽस्तीति श~घ्का स्यात्तां निराकरोति- नान्यमिति ॥ द्रष्टा जीवः यदा गुणेभ्योऽन्यं कर्तारं परिणामिकर्तारं नानुपश्यति । तदा द्रष्टैव नानृशब्दोऽयं पुरुषः, अन्यथा पशुः । न केवलं गुणेभ्योऽन्यत्वेन कर्तारं पश्यन् ना पुरुषः किन्तु गुणेभ्यः परमुत्तमं उत्तमत्वेनापि पश्यन्पुरुषः । कुतः ? स ऎवं पश्यन्यस्मान्मद्भावं अधिगच्छति अत इति ॥ 19 ॥
ऎवं सुखदुःखादिरूपबन्धस्य गुणत्रयनिबन्धनत्वात्तदत्यये सत्येव बन्धहानिर्नान्यथेत्याह- गुणानिति ॥ तत्तद्गुणपरिणामिदेहेषु प्रकटीभूतान् त्रीन् गुणानतीत्यैव जन्मादिभिर्विमुक्तोऽमृतमश्नुते परं ब्रह्म प्राप्नोति ॥ 20 ॥
गुणानतीत्येत्युक्ते सति पृच्छति- कैरिति ॥ एतान्सर्वबन्धकान् सत्त्वादिगुणानतीतोऽतिक्रान्तः पुमान् कैर्लि~घ्ग#245;Xॆ#202;र्लक्षणैर्युक्तो भवति । हे प्रभो किमाचारः कीदृशाचारवान् । कथं केनोपायेनैतान् त्रीन् गुणानतिवर्तते ॥ 21 ॥
इति पृष्टो भगवान् उत्तरमाह- प्रकाशं चेत्यादिना । सत्त्वादयो गुणा हि द्विविधाः, स्थूलाः सूक्ष्माश्च । स्थूलेभ्यो लौकिकाः प्रकाशप्रवृत्तिमोहाः जायन्ते । सूक्ष्मेभ्यस्तु परमेश्वरादिविषयाः । तत्राद्येभ्यः, सत्त्वादिगुणेभ्यः क्रमाज्जातं प्रकाशं प्रवृत्तिशब्दितमुद्योगं मोहशब्दितमज्ञानं चेत्येतानि सम्प्रवृत्तानि प्रायो न द्वेष्टि । निवृत्तानि च न काङ्क्षति । गुणातीत इत्यनुषज्यते । द्वितीये तु विष्णुविषयप्रकाशं प्रवृत्तिं चेच्छति मोहं च द्वेष्टीत्यर्थः । यद्वा पुरुषान्तरे स्थितप्रकाशादिसाधुगुणजातानि सम्प्रवृत्तानि न द्वेष्टि । मोहाद्यसाधुधर्मजातं निवृत्तं न का~घ्क्षतीत्यर्थः । परस्येष्टानिष्टहानिप्राप्ती नेच्छति गुणातीत इति भावः ॥ 22 ॥
ऎवं कैर्लि~घ्ग#245;Xॆ#202;रिति प्रश्नस्योत्तरमुक्त्वा किमाचार इत्यस्योत्तरमाह - उदासीनवदिति ॥ यो गुणातीतः पुमानुदासीनवदासीनः । न तूदासीन ऎव, वैष्णवधर्मानुष्ठानात् । गुणैः सत्त्वादिभिर्न विचाल्यते । तत्कृतविकारं न प्राप्नोति । गुणा सत्त्वादयः । परमेश्वरेच्छया प्रवर्तते न स्वतन्त्र्या इत्येवं योऽवतिष्ठति वेत्ति । न ने~घ्गते गुणकृतावैष्णवकर्मकरणाय न चेष्टत इति । वैष्णवान्येव कर्माण्याचरति नान्यानीति तदाचार इति भावः ॥ 23 ॥
आचारान्तरं चाह- समेति ॥ प्रायेण हेयतया दुःखसमं वैषयिकं सुखं यस्य स समदुःखसुखः । गुणातीत इत्यनुषज्यते । स्वस्थः प्रायेण निर्विकारः । हेयत्वेन लोष्टाश्मसमं काञ्चनं यस्य स समलोष्टाश्मकाञ्चनः । प्राय इति सर्वत्र योज्यम् । हेयत्वेनाप्रियतुल्यं प्रियं यस्य स तुल्यप्रियाप्रियः । हेयत्वेन निन्दया तुल्या आत्मनः स्वस्य संस्तुतिर्यस्य स तथा । समत्वादिकं केन स्यादित्यत उक्तं धीर इति । धैर्येणेत्यर्थः । यद्वा विष्णुभजनादिविषये समदुःखसुख इत्यादि योज्यम् । किमुक्तं भवति । विष्णुभजनादौ दुःखसत्त्वे तत्त्यागे सुखसत्त्वेऽपि विष्णुभजनादिकं सममेकप्रकारमेव कार्यमित्युक्तं भवति । ऎवमग्रेऽपि । अनुष्ठाने लोष्टाश्माद्यनभिमतप्राप्तिः तत्त्यागे काञ्चनाद्यभिमतं प्रयच्छतीति विष्णुभजनादिकं न त्याज्यम् । लौकिकपुमर्थप्राप्तिहानावपि विष्णुभजनादौ तुल्य ऎव । सदाऽनुष्ठेयमेवेत्यर्थः । तथाऽनुष्ठानाननुष्ठानयोः क्रमान्निन्दात्मस्तुत्योः प्राप्तौ सत्यामपि विष्णुभक्त्यादौ तुल्य ऎव न त्याज्यं विष्णुभक्त्यादीत्यर्थः । तत्र हेतुर्धीरः । धीमान्विमाहात्म्यज्ञानवान्स्वस्थः विष्णुधर्मादचल इति ॥ 24 ॥
तथा मानापमानयोः प्राप्तावपि विष्णुभक्त्यादौ तुल्य ऎव । न त्याज्यं तदित्यर्थः । कृतावकृतौ चारिपक्षमित्रपक्षयोः सत्त्वेऽपि विष्णुभक्त्यादि कार्यमेवेत्यर्थः । पूर्वं `ने~घ्गत' इति सामान्यतोऽवैष्णवकर्मारम्भत्यागोक्तावपि प्रयोजनविशेषापेक्षयाऽपि नावैष्णवकर्मारम्भवानित्याह- सर्वारम्भपरित्यागीति ॥ केनचित्प्रयोजनेनाप्यवैष्णवसर्वकर्मारम्भमकुर्वन्नित्यर्थः । यद्वा `ने~घ्गत' इत्यल्पावैष्णवकर्मत्यागः, अत्र तु अतिदीर्घा वैष्णवकर्मत्याग इति न पुनरुक्तिः ॥ 25 ॥
ऎवं गुणातीतलक्षणं आचारं चोक्त्वा कथं `गुणानतिवर्तत' इति प्रश्नस्योत्तरमाह- मां चेति ॥ अव्यभिचारेण भक्तियोगेन नित्यभक्त्याख्योपायेन मां च सेवते । गुणान्सत्त्वादिगुणैः तदभिमानि श्रीदेव्यादिभिः कृतबन्धं समतीत्य ब्रह्मभूयाय । ब्रह्मशब्दोऽत्र चित्प्रकृतिपरः । चित्प्रकृतिवद्भूयं भवनं ब्रह्मभूयम् । सा यथा विष्णुप्रिया तथा गुणातीतोऽपि विष्णुप्रियो भवतीत्यर्थः । यद्वा ब्रह्मणि चित्प्रकृतौ भूयाय भावाय चित्प्रकृतिप्राप्तये कल्पते शक्तो भवति ॥ 26 ॥
ननु गुणातीतस्य भगवत्प्राप्यादिकमेव वाच्यम् । लक्ष्मीप्राप्तिः किमर्थमुच्यते इत्यतस्तत्प्राप्तौ मत्प्राप्तिरेव भवति । तस्याः मत्स्थत्वादिति भावेनाह- ब्रह्मण इति । ब्रह्मणो महालक्ष्म्याः अव्ययस्यामृतस्य च मुक्तवर्गस्य शाश्वतस्याक्षयफलस्य निष्कामधर्मस्य एकान्तिकस्य अस्मादिदमधिकमिति गणने ऎवमेवान्ते यस्य तदैकान्तिकं तस्य दुःखासम्भिन्नस्य सुखस्य मोक्षस्येत्यर्थः । प्रतिष्ठा आधारः । अतो मदवियोगिनीं लक्ष्मीं प्राप्तो मामेव प्राप्तो भवति । गुणातीतो लक्ष्मीसमीपं प्राप्य तदनुगृहीतो हरिं पश्चादाप्नोतीति । परम्पराद्योतनायैवमुक्तिरिति ज्ञेयम् ॥ 27 ॥
॥ इति श्रीमद्गीतार्थसङ्ग्रहे श्रीमद्राघवेन्द्रयतिकृते चतुर्दशोऽध्यायः ॥
॥ श्रीवादिराजान्तर्गत श्रीमध्वेशार्पणमस्तु ॥
******************************************************************
॥ श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
अथ पञ्चदशोऽध्यायः॥
त्रयोदशाध्याये संसारहेतुभूतं प्रकृतिमहदह~घ्कारादितत्त्वज्ञातरूपं क्षेत्रशब्दितं जगत्स्वरूपं उक्तम् । `य ऎनं वेत्ति पुरुषं'(13-26) इत्यादिना भगवदादिज्ञानरूपः तदत्ययोपाश्चोक्तः । तद् द्वयमत्र दर्शयति । ननु पूर्वाध्याय ऎव तद् द्वयं दर्शितमिति चेन्न । तत्र संसारहेत्वेकदेशगुणानामेव प्रवृत्तिर्दर्शिता । अत्र पुनः समग्रं संसारहेतुप्रकृत्यादिजगत्स्वरूपं प्रदर्श्य तदत्ययेच्छामुत्पाद्य तत्साधनजिज्ञासुं प्रति प्रागुक्ततदत्यय(साधनं प्रपञ्चयति) साधनप्रपञ्चनात् । अत ऎव पूर्वानन्तर्यमस्य । तदत्ययसाधनप्रपञ्चनं प्रस~घ्गादेव भगवन्महिमानं च दर्शयतीति ज्ञेयम् । जगत्स्वरूपं तावदाह- ऊर्ध्वेत्यादिसार्धश्लोकद्वयेन ॥ ऊर्ध्वशब्द उन्नतवाची सन् सर्वोत्तमत्वादचित्प्रकृतिपरोऽत्र ज्ञेयः । विष्णोः सर्वोत्तमत्वात् परतन्त्रेषु चित्प्रकृतेः विष्णुचिदचित्प्रकृतेरचेतनेषूत्तमत्वात् । ऊर्ध्वाः विष्णुचिदचित्प्रकृतयो वृक्षस्य मूलानीव मूलानि यस्य सविकाराव्यक्तादिप्रागुक्तपञ्चविंशतितत्त्वात्मकस्य जगदाख्यवृक्षस्य तमूर्ध्वमूलम् । श्व ऎकरूपेण न तिष्ठतीति व्युत्पत्त्या अश्ववच्चञ्चलत्वेन तिष्ठतीति वाऽश्वत्थनामकम् । सुपि स्थ इति कः, आतो लोप इटिचेत्याकारलोपः । तस्य तकारः । जगदाख्यं चिदचिदात्मकं वृक्षम् । तत्रायं विवेकः । प्रसिद्धवृक्षस्य धरादेवीवत् विष्णुर्जगद् वृक्षस्य पृथ~घX मूलम् । अचित्प्रकृतिः सत्त्वादित्रिगुणात्मिका वृक्षस्य मृद्वत्परिणामितया मूलम् । त्रिमूलो हि जगद् वृक्षो जडप्रकृतिरपि त्रिगुणात्मकत्वात् मूलत्रयात्मना त्रिभिर्गुणैः परिणमते । चित्प्रकृतिस्तु तदधिष्ठातृत्वान्मूलभागवद् ज्ञातव्येति । अधःशब्दो नीचवाची । विष्ण्वादिप्रागुक्तत्रितयापेक्षयाऽधः नीचाः पञ्चभूतसहिताः महदह~घ्कारबुद्धयोऽष्टौ पदार्थाः साभिमानिनः शाखा इव शाखाः यस्य तथा तम् । अव्ययं सर्वथाऽनुच्छिद्यमानम् । पूर्वकल्पे यथा स्थितं तथैव कल्पान्तरेऽपि स्थितं (स्थितं तथैव) प्रवाहतोऽनादिनित्यमिति यावात् । प्राहुः प्राज्ञा इत्यर्थः । लोके पर्णोत्पत्तावेव फलोदयदर्शनात्, छन्दसां काममोक्षरूपफलहेतुत्वात्, यस्य जगदाख्यवृक्षस्य छन्दांसि वेदवाक्यजातानि अभिमानिसहितानि पर्णानीव पर्णानि आहुः । ऎतेन जगद् वृक्षः काममोक्षरूपद्विफल इत्युक्तं भवति । यस्तं जगद् वृक्षं वेद स वेदवित् वेदार्थज्ञ इत्यर्थः ॥ 1 ॥
तस्य जगदाख्यवृक्षस्य शाखाः शाखास्थानीयाः महदाद्याः अष्टौ पदार्थाः चिदचिद्रूपाः , अधः स्वापेक्षयाऽप्रकृष्टकार्यभूतशरीरादौ स्वापेक्षयोत्कृष्टोर्ध्वशब्दोक्ते कारणभूताव्यक्ते च सूक्ष्मरूपेण प्रसृताः व्याप्ताः । किंरूपाः शाखा इत्यत उक्तं गुणप्रवृद्धा इत्यादि । गुणैः सत्त्वादिभिः प्रवृद्धाः गुणानामर्वाचीनमूलत्वात्तादृशमूलैरेव प्रवृद्धे वृक्षे शाखानां प्रवृद्धिर्दृष्टेति भावः । विषयप्रवालाः । तात्कालिकसुखहेतुत्वसाम्यात् शब्दाद्याः विषया ऎव प्रवालाः पल्लवा यासां ताः विषयप्रवालाः । मूलानि ऊर्ध्वपदेन प्रकृतानि विष्णो रूपाणि जडाजडप्रकृती सत्त्वरजस्तमांसि च अधः जगदाख्यवृक्षस्य अधोभागेषु च शाखास्वपीति यावत् । अनुसन्ततानि व्याप्तानि । कीदृशानि मूलानीत्यत उक्तं कर्मानुबन्धीनीति । मनुष्यलोके कर्माणि अपेक्ष्य फलदातृत्वात्कर्मानुबन्धीनि इति । तथा चोक्तम् । `ब्रह्मास्य पृथ~घX मूलं, प्रकृतिः समूलं, सत्त्वादयोऽर्वाचीनमूलं, भूतानि शाखाः, छन्दांसि पत्राणि, देवनृतिर्यंश्च शाखाः, पत्रेभ्यो हि फलं जायते । मात्राः शिफाः मुक्तिः फलममुक्तिः फलम् । मोक्षो रसोऽमोक्षो रस' (भाल्लवेय शाखायां) इत्यादि श्रुतेः ॥ 2 ॥
अस्य जगद् वृक्षस्य रूपं यथा स्थितं तथेह लोके नोपलभ्यते विकारित्वादिति भावः । जगतो जन्मसंहारकर्तृत्वहेतुनाऽऽद्यन्तपदोक्तो विष्णुः सम्प्रविष्टश्च जगद् वृक्षमनुप्रविष्टोऽपि नोपलभ्यते । `नान्तो न चादिः न च सम्प्रविष्टः' उपलभ्यत इति वाक्यत्रयेणानुपलम्भोक्तिरादरार्था । अस्त्वेवं जगद् वृक्षस्वरूपं ततः किमित्यत आह- अश्वत्थमिति । सुविरूढमूलं प्रबलविष्ण्वादिबहुमूलकं ऎनं प्रागुक्तं अश्वत्थनामकं जगद् वृक्षमस~घ्गशस्त्रेण स~घ्गराहित्यसहितेन ज्ञानासिना छित्वा मूलभूतो विष्णुः प्रकृत्यादिजगतो विलक्षणः जगच्चावान्तरभेदयुक्तं परतन्त्रं प्रवाहतोऽव्ययमित्यादिरूपेण विविच्य ज्ञात्वेत्यर्थः । उक्तज्ञानरूपछेदनं तस्य कार्यमिति भावः ॥ 3 ॥
ततः परं परापरतत्त्वविषयविमर्शादनन्तरं तत् ऊर्ध्वादिपदेन प्रकृतं ब्रह्म परिमार्गितव्यमन्वेषणीयं श्रवणादिना विषयीकर्तव्यम् । जगद् वैलक्षण्यज्ञाने सत्येव तत्स्वरूपमन्वेष्टुं शक्यत इति भावः । यस्मिन् गताः भूयः पुनर्न निवर्तन्ते न गर्भयातनां प्राप्नुवन्ति । तदिति पूर्वेणान्वयः । जगद् वृक्षच्छेदनोपायमाह- तमेव चेति ॥ येयं पुराणी चिरन्तनी संसारप्रवृत्तिः यतः प्रसृता विस्तृता तमेव चाद्यं प्राथमिकं पुरुषं विष्णुं प्रपद्ये प्रपद्येत व्यत्ययात् । `तमेवाद्यं प्रपद्येत यदंशाभासको ह्ययम् । जीवराशिरिति' (नारायणश्रुतिः) वचनात् । जगद् वृक्षच्छेदनार्थमिति योज्यम् ॥ 4 ॥
भगवत्प्रतिपत्तौ साधनान्तराण्याह- निर्मानेति ॥ मानमोहाभ्यां अह~घ्कारमिथ्याज्ञानाभ्यां निर्गतास्ताभ्यां हीना इति यावत् । जितविषयस~घ्गदोषाः । अध्यात्मनित्याः अध्यात्मज्ञाने भगवच्छ्रवणादौ निरताः, विशेषतो निवृत्तविषयतृष्णाः सुखदुःखसञ्ज्ञैः द्वन्द्वैर्लाभालाभजयाजयादिरूपैर्विमुक्ताः, अमूढा रजस्तमस्सवभावशून्याः अव्ययं तत्पदं भगवत्स्वरूपं गच्छन्ति ॥ 5 ॥
कीदृशं तत्पदं यत्प्राप्तिः पुरुषार्थ इत्यत आह- न तदिति ॥ तत्पदं सूर्यादिर्नप्रकाशयति । यद्गत्वा यत्स्वरूपं प्राप्य न निवर्तते संसारं न यान्ति परमं तन्मम धाम रूपमित्यर्थः ॥ 6 ॥
जगद् वृक्षच्छेदार्थं ब्रह्मादिप्रतिपत्त्यैवालं किं भगवत्प्रतिपत्त्येत्यत आह- ममैवेति ॥ जीवलोकेब्रह्मादिजीवशरीरे सनातनोऽनादिनित्यः जीवभूतः जीवरूप ममैव भिन्नांशः । नतु मत्स्यादिवत्स्वरूपांशः । भिन्नोऽपि सूर्यस्य खद्योत इव किञ्चित्सादृश्यमात्रेणांश इत्युच्यते । अतो ब्रह्मादीनां मदंशाभासत्वेन तेषां ब्रह्मादीनां अशक्तत्वात्तेषां प्रतिपत्तिं विना भगवत्प्रतिपत्तिरेव कार्येति भावः । जीवानामंशाभासत्वे क्वचिदपि कार्ये शक्तिर्न स्यादित्यतोऽस्तीत्याह - मन इति ॥ प्रकृतिस्थानि प्रकृतिकार्यशरीरस्थानि मनष्षष्ठानि श्रोत्रादिपञ्चेन्द्रियाणि ममांशो जीवभूतः विषयान्प्रति कर्षति प्रवर्तयति स्थितिदशायाम् । देहावाप्तिवेलायां तु मूलकारणात् । उत्क्रान्तौ तु शरीरात्कर्षति ॥ 7 ॥
किं स्वसामर्थ्येन नेत्याह- शरीरमिति ॥ ईश्वरः शरीरं जीवशरीरं यदाऽऽप्नोति तदैव जीवस्तत्प्रेरितः स~घ्कर्षतीत्यर्थः । स्वातन्त्र्येण तु ईश्वर ऎव सर्वाणीन्द्रियाणि विषयान्प्रति प्रयु~घ्क्ते । तदाह सूत्रे । `ओं ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ' इत्यादि (2-4-15) । तथा यच्च यदाऽप्युत्क्रामतीश्वरः जीवमादायेति योज्यम् । तदैतानि इन्द्रियाणि सूक्ष्मेन्द्रियांशान् आशयात्पुष्पादिस्थानात् गन्धानिवगन्धवतः पुष्पाद्यवयवानिव भागशो गृहीत्वा संयाति लोकान्तरमित्यर्थः । नच `अग्निं वागप्येति'(बृ. 5-2-13) इत्यादिविरोधः । तस्य भागविषयत्वात् । `ओं अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ' इति (3-1-4) सूत्रात् । अत ऎव गन्धानिवेति दृष्टान्तोक्तिः । अन्यथा वायुनाऽनेकेष्वाकृष्यमाणेषु गन्धान् गन्धवतः पुष्पाद्यवयवानित्युक्तिर्न स्यात् । सवेन्द्रियप्रेरणस्यापि ईशाधीनत्वान्न तेषां प्रतिपत्तिर्जगद् वृक्षच्छेदनशक्तेति भावः । यद्वा यद्यदा जीवः शरीरमाप्नोति तदेश्वरः ऎतानि गृहीत्वा शरीरं संयाति जीवः यदोत्क्रामति च तदेश्वरः ऎतानि गृहीत्वा लोकान्तरं संयातीति योजना ॥ 8 ॥
इन्द्रियेषु प्रवर्तकत्वेन स्थितस्य हरेरिन्द्रियद्वारा विषयभोगमाह- श्रोत्रमिति ॥ अधिष्ठायैवेत्यन्वयः । प्रवर्तकः सन्नेवेत्यर्थः । विषयान् शब्दादीन् ॥ 9 ॥
जीववदशुभभोगोऽप्यस्ति किमित्यतः शुभानेव भु~घ्क्त इति वदन् कुतो नोपलभ्यत इति श~घ्कां निराह- उत्क्रामन्तमिति ॥ गुणान्वितं शुभयुक्तमेवेत्यर्थः । विमूढा इत्यनुपलम्भे हेतूक्तिः ॥10 ॥
यत्ने कृतेऽप्यनुपलम्भः कथमित्यत आह- यतन्त इति ॥ योगिनो ज्ञानोपायानुष्ठातारो यतन्तो यतमानाः ज्ञानं प्राप्यैनं पश्यन्ति । अशुद्धबुद्धयो यतमाना अपि अचेतसो अविवेकिनो नैनं पश्यन्तीत्यर्थः ॥ 11 ॥
`अधश्च मूलान्यनुसन्ततानीति' यत्सर्वान्तर्यामित्वरूपं विज्ञानमुक्तम्, यच्चोर्ध्वशब्देन सर्वोत्तमत्वमुक्तं तद् द्वयमध्यायशेषेण प्रपंञ्चयति - यदादित्येत्यादिना ॥ तेजः जगत्प्रकाशनशक्तिः । मामकं मदीयं मदधीनमित्यर्थः । `तमेव भान्तमनुभाति सर्वं' (कठ.2-5-15) इत्यादेः । `अनुकृतेस्तस्य चेति'(1-3-22) सूत्रात् ॥ 12 ॥
अहं गां भूमिमाविश्य ओजसा स्वशक्त्या भूतानि धारयामि । अमृतरसात्मकः सौम्यत्वात्सोमनामा सोमगः सन्सर्वा ओषधीः सस्यादीनि पुष्णामि वर्धयामि च ॥ 13 ॥
किं चाहं विश्वनरसम्भन्धितया वैश्वानरनामा जाठरवैश्वानरग्निस्थः सन् प्राणिनां देहमाश्रितः प्राणापानाभ्यां मुख्यप्राणस्वरूपाभ्यां सम्यग्युक्तः भक्षभोज्यलेह्यपेयभेदेन चतुर्विधं अन्नं पचामि जीर्णं करोमि ॥ 14 ॥
किञ्च सर्वस्य हृदि सन्निविष्टोऽहम् । मत्त ऎव च स्मृतिः अनुभवरूपं ज्ञानं अपोहनं विपर्ययश्च भवति । अहमेव परममुख्यवृत्त्या सर्वैश्च वेदैः वेद्यः । वेदान्तकृत् वेदानामन्तो निर्णयो यस्मात्स वेदान्तो ब्रह्मसूत्रसन्दर्भः । तस्य व्यासरूपेण कर्ता वेदवित् तत्त्वतो वेदार्थज्ञानवानहमेवेत्यर्थः । `मां विधत्तेऽभिधत्ते मामि'त्यादेः ॥ 15 ॥
ऎवं सर्वान्तर्यामित्वं प्रपञ्च्याधुना सर्वोत्तमत्वं प्रपञ्चयति - द्वाविति ॥ इमौ प्रमाणप्रमितौ पुरुषौ चेतनौ लोके ईशितव्यवर्गे । द्वावेतौ कावित्यत आह- क्षरश्चेति ॥ सर्वाणि भूतानि ब्रह्मादिजीवराशिः । शरीरक्षरणहेतुना क्षर उच्यते । कूटस्थः कूटमाकाशं तद्वत् स्थितः पुरुषः अक्षरदेहत्वात् श्रीरक्षर उच्यते । `पुल्लि~घ्गेनोच्यते स्त्री च पुंवच्छक्तिमती क्वचित्'इति छान्दोग्यभाष्योक्तेः ॥ 16 ॥
यदर्थं पुरुषद्वयनिरूपणं कृतं तदाह- उत्तम इति ॥ क्षराक्षराभ्यामिति विपरिणाम्यानुषज्यते । उत्तमः पुरुषस्तु ताभ्यामन्यः । न त्वनयोरेकः पुरुषोत्तम इत्यर्थः । उक्तार्थे श्रुत्यादिसम्मतिमाह- परमेति ॥ आत्माऽत्र चेतनः । क्षराक्षरौ चेतनमात्रम् । उत्तमपुरुषस्तु परमचेतन इति । `चेतनश्चेतनानां' (श्वे. 6-13) । `ब्रह्माणि जीवाः सर्वेऽपि' इत्यादि श्रुतिषूदाहृत इत्यर्थः । अतस्ताभ्यामन्यः पुरुषोत्तम इति भावः । उक्तार्थे युक्तिमप्याह- य इति ॥ यः भूर्भुवः स्वरिति लोकत्रयमाविश्य बिभर्ति धत्ते । यो यस्य धारणपोषणकर्ता स तस्मादुत्तमोऽन्यश्च दृष्ट इति भावः । किं लोकनाशे प्रविष्टस्यापि नाशोऽस्तीत्यत उक्तम्- अव्यय इति ॥ तत्कथमित्यतोऽचिन्त्यशक्तित्वादित्याह- ईश्वर इति ॥ ऎतेन क्षराक्षराभ्यामुत्तमोऽन्यः किं नामक इत्यपि श~घ्का परास्ता ॥ 17 ॥
स किं त्वत्तोऽन्य इत्यतोऽहमेवेति स प्रमाणकमाह - यस्मादिति ॥ यस्मात्क्षरं चातीतः अक्षरादुत्तमोऽतः कारणात् । लोके पौरुषेयग्रन्थे वेदे अपौरुषेयग्रन्थे च प्रतिथः प्रसिद्धः पुरुषोत्तमोऽहमेवेत्यर्थः ॥ 18 ॥
तात्पर्यद्योतनायोक्तार्थज्ञानिनः फलमाह- योमामिति ॥ योऽधिकारी मामेवं क्षराक्षरोत्तमत्त्वेन वेदादिषु प्रथितत्वप्रकारेणासम्मूढः सर्वोत्तमत्वं मिथ्याभूतमुच्यत इति मोहरहितः सन्पुरुषोत्तमं क्षराक्षरपुरुषाभ्यामुत्तमं जानाति स सर्ववित् सर्वशास्त्रार्थज्ञानी सर्वभावेन सर्वप्रकारेण मां भजति ॥ 19 ॥
ऎतच्च न यस्मै कस्मैचिद्वाच्यमिति भावेनाह- इतीति ॥ इति `अधश्च मूलान्यनुसन्ततानि' इत्यादिनोक्तप्रकारेणेदं सर्वान्तर्यामित्वादिकम् । यद्वा `ऊर्ध्वमूलं' इत्यादिनोक्तप्रकारेणेदं जगद् वृक्षमूलत्वादिकं शास्त्रं शिक्षणीयं, गुह्यतमं अतिगोप्यं मयोक्तम् । ततः किमित्यत आह- ऎतदिति ॥ ऎतत्प्रागुक्तं सर्वं बुद्ध्वा बुद्धिमानपरोक्षज्ञानी स्यात् । कृतकृत्यो मुक्तश्च स्यादिति ॥ 20 ॥
इति श्रीमद्गीतार्थस~घ्ग्रहे श्रीराघवेन्द्रयतिकृते पञ्चदशोऽध्यायः ॥
॥ श्रीवादिराजान्तर्गत श्रीमध्वेशार्पणमस्तु ॥
******************************************************************
॥ श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
अथ षोडशोऽध्यायः॥
॥ ॐ ॥ पूर्वाध्याये `निर्मानमोहा' (15-5) इत्यादिना स~घ्क्षेपेणोक्तस्य पुमर्थयोर्ज्ञानमोक्षयोः साधनस्य `यतन्तोऽप्यकृतात्मान' (15-11) इत्यादिना चोक्तस्य पुमर्थविरोधिनश्च देवासुरलक्षणरूपत्वात् तत्प्रपञ्चनमस्मिन्नध्याये क्रियत इति पूर्वस~घ्गतिरध्यायभेदश्च ज्ञेयः । विरोध्युक्तिश्च साधनमनुतिष्ठता तत्त्यागोऽवश्यं कार्य इति भावेनेति बोध्यम् । तत्रादावभ्यर्~हितत्वाद् देहलक्षणं तावदाह -अभयमित्यादिश्लोकत्रयेण ॥ अभयं स्वतोऽन्यस्यान्यस्माच्च स्वस्य भयाभावः । `यस्मान्नोद्विजते लोको लोकान्नोद्विजतेऽच यः'( 12-15) इत्युक्तेः । सत्त्वसंशुद्धिः चित्तप्रसादः । ज्ञानयोगव्यवस्थितिः ज्ञानोपायनिष्ठता । दानं पात्रे द्रव्यादित्यागः । दम इन्द्रियनिग्रहः । यज्ञो ज्योतिष्टोमादिः । देवयज्ञपितृयज्ञादिर्वा । स्वाध्यायो वेदाध्ययनम् । तपो ब्रह्मचर्यादि । आर्जवं मनोवाक्कर्मस्वैकरूपम् ॥ 1 ॥
अहिंसा परप्राणावियोजनम् । सत्यं यथार्थवचनम् । अक्रोधः परपीडाकरचित्तविकाराभावः । त्याग ौदार्यम् । शान्तिः भगवन्निष्ठता । अपैशुनं परोपद्रवनिमित्तदोषाणां राजादेरकीर्तनम् । भूतेषु प्राणिषु दया परहितकरश्चित्तगतो धर्मविशेषः । परदुःखासहिष्णुत्वं वा । अलोलुत्वं विषयेषु रागाभावः । आत्महिंसकेष्वप्यविरोधो मार्दवं अक्रौर्यं वा । ह्रीरकार्यकरणे लज्जा । अचापलं स्थैर्यम् ॥ 2 ॥
तेजः परैरनभिभवः । क्षमा क्रोधाभावेन सह अपकर्तुरनपकृतिः । धृतिरनात~घ्कः । शौचं मृत्तिकादिभिर्बाह्यशौचम् । भगवत्स्मृत्यादिनाऽऽन्तरशौचम् ॥ अद्रोहः परवृत्त्यनुरोधः । नातिमानिता अह~घ्कारराहित्यम् । एते गुणाः दैवीं देवसम्बन्धिनीं सम्पदमभिजातस्य प्राप्तस्य भवन्ति । अभिरयं लक्षणेत्थम्भूताख्यानेत्युक्तलक्षणार्थकप्रत्यर्थेवर्तते इति तस्य कर्मप्रवचनीय सञ्ज्ञायां कर्मप्रवचनीययुक्ते द्वितीयेति द्वितीयोपपत्तिः । तथा चैत ऎव गुणाः मुमुक्षुणाऽवश्यमुपादेया इति भावः ॥ 3 ॥
त्यागायासुरलक्षणमाह- दम्भ इति ॥ आत्माऽल्पत्वं ज्ञात्वाऽपि महत्त्वप्रदर्शनं दम्भः । दर्पः सत्यपि भयकारणे मदात्तदभावदर्शनम् । अभिमानः प्रमाणातिक्रमः । क्रोधः परपीडाकरचित्तविकारः । पारुष्यं निष्ठुरत्वम् । आसुरीं सम्पदमभिजातस्येत्यस्य प्रागिवार्थः । तेन जातस्येत्यकर्मकत्वात् सम्पदमिति न द्वितीयानुपपत्तिदोषः ॥ 4 ॥
दैवसम्पदादेः फलं सन्दर्शयन्नर्जुनस्यासुरस्वभावश~घ्कां वारयति - दैवीति ॥ अभिजातोऽसि प्रागिवार्थः । जातस्य तव दैवीसम्पल्लक्षणमित्यर्थः । `वृक्षं प्रति विद्योतत' इत्यत्र वृक्ष इव प्रद्योतस्येति । अतो मा शुचः । शोकं मा कार्षीः । निबन्धनं नीचस्थाने तमसि निवासः । विमोक्षाय विविधमोक्षायेत्युक्त्या मोक्षस्य नानात्वमुच्यते ॥ 5 ॥
ननु सर्गाणामतिबहुत्वाद् देवासुरयोरॆवोक्तिः कथमित्यतः शुभाशुभफलाधिक्यादिभाक्त्वरूपपूर्वश्लोकोक्तोपाधिद्वयविवक्षया द्वयोरेवोक्तिरिति भावेनाह- द्वाविति ॥ दैव आसुरश्चेति द्वावेव प्राणिनां सर्गौ सृष्टिभूतसर्गौ प्राणिस्वभावाविति वा । तदुभयजिज्ञासायामाह- दैव इति ॥ शृण्विति विस्तरश इत्यनुष~घ्गः ॥ 6 ॥
तदाह- प्रवृत्तिमित्यादिद्वादशश्लोकैः ॥ आसुरा जनाः विहिते प्रवृत्तिं निषिद्धे निवृत्तिं च न विदुः । तेषु शौचाचारसत्यानि न विद्यन्ते । तात्पर्यद्योतनाय नञ्त्रयोक्तिः ॥ 7 ॥
किञ्च जगदसत्यम् । अत्र सत्यप्रतिष्ठेश्वरशब्दा विष्णुपराः । नञX बहुव्रीहिः । जगद्विशरणकर्तृतया सत्यपदवाच्यविष्णुहीनमाहुः । स्थितिहेतुतया प्रतिष्ठापदोक्तविष्णुहीनमाहुः । अनीश्वरं स्वामिहीनमाहुः । जगत्सृष्ट्यादिकर्तारं ये न जानन्ति त इति चाहुरासुरजना इत्यनुष~घ्गः । `अपरस्परसम्भूतं' , `अन्नाद्भवन्ति भूतानी'ति (3-14) तृतीयोक्तदिशा परस्पर सम्भूतं न भवतीत्यर्थः । यद्वा जगदसत्यं सत्यं न मिथ्येत्यर्थः । अत ऎव, शुक्तिरूप्यवन्न प्रतितिष्ठतीत्यप्रतिष्ठं ज्ञानबाध्यम् । अनीश्वरं नियन्तृहीनम् । अपरस्परसम्भूतं परेभ्यः सम्भवहीनम् । ऎकस्मादेकस्य जनिर्नेति यावत् । किं तर्~हिति प्रश्नस्योत्तरम् - अन्यदिति ॥ सदसद्भ्यामिति शेषः । सदसद्विलक्षणमित्यर्थः । केन जायत इत्यत उक्तम् । कामहैतुकं कामहेत्वविद्यापरिणामरूपम् ॥ 8 ॥
एतां दृष्टिमाश्रित्य नष्टात्मानः दुष्टचित्ताः अल्पज्ञानाः घोरकर्मनिरताः जगतः अहिताः शत्रवः क्षयायानिष्टप्राप्तये कलियुगादौ प्रभवन्ति ॥ 9 ॥
दुष्पूरं दुःखेन पूरणीयं काममिच्छामाश्रित्य दम्भमानमदैर्युक्ताः सन्तः मोहात् मिथ्याज्ञानस्वभावात् । कुशास्त्राभ्यासजन्यविपरीतनिश्चयाद् गृहीत्वा (न् गृहीत्वा) आदायासदर्थान् ज्ञात्वेति वा । अशुचिव्रताः क्षुद्रभोगाय प्रवर्तते ॥ 10 ॥
किञ्च प्रलयान्तां मरणान्तां अपरिमेया परिमातुमशक्यां चिन्तामुपाश्रिताः कामोपभोगपरमाः काम्यमानवत्स्वनुभव ऎव परमो येषां ते विषयभोगैकरताः एतावदैहिकमेव फलं नान्यदामुष्मिकमस्तीति निश्चयवन्तः ॥ 11 ॥
आशा ऎव पाशास्तेषां शतैर्बद्धाः कामक्रोधा ऎव परं अयनमेषां ते कामक्रोधपरायणाः । कामभोगार्थं काम्यविषयानुभवार्थं अन्यायेन चौर्यादिनाऽर्थसञ्चयान्द्रव्यसमूहानीहन्ते वाञ्छन्ति ॥ 12 ॥
चिन्ताप्रकारं दर्शयति - इदमित्यादि त्रयेण ॥ इदं धनं अद्य मया लब्धं, इमं मनोरथं प्राप्स्ये प्राप्स्यामि । इदं धनं अस्ति इदमपि धनं मे पुनर्भविष्यति ॥ 12 ॥
असौ शत्रुर्मया हतः अपरानन्यानपि शत्रून् हनिष्ये च । अहमीश्वरः परमेश्वरः भोगी ऐहिकामुष्मिकभोगसम्पन्नः सिद्धः कृतकृत्यः बलवान्समर्थः ॥ 14 ॥
आढ्यः धनादिसम्पन्नः अभिजनवान्कुलीनोऽस्ति । मया सदृशोऽन्यः कोऽस्ति न कोऽपि । यक्ष्ये यागादिधर्माननुष्ठास्यामि । भूरिदक्षिणान्नादि दास्यामि । मोदिष्ये सन्तोषं प्राप्स्यामि इत्येवं रूपेणाज्ञानेन विमोहिताः ॥ 15 ॥
ऎवं चिन्ताप्रकारमुक्त्वा तेषां फलमाह- अनेकेति ॥ अनेक चिन्तायुक्तमनसा विशेषभ्रान्तिमन्तः पुत्रमित्रादिविषयमोहाख्यजालेन समावृताः विशेषभोगेष्वतितरामासक्ताः सन्तः अशुचौ नरके पतन्ति ॥
यागादि कुर्वतां कथं नरके पात इत्यत आह- आत्मेति ॥ आत्मनैव स्वेनैव सम्भाविताः बहुमताः वयं पूज्या इति मन्यमाना इति यावत् । अत ऎव स्तब्धाः अनम्राः धननिमित्तसर्वदर्पाभ्यां उपेतास्ते अविधिपूर्वकं दम्भेन स्वमहिमत्वप्रदर्शननिमित्तेन यज्ञैर्ज्योतिष्टोमादिभिर्यजन्ते नाम । न कृतार्थबुद्ध्या अतो नरकप्राप्तिस्तेषां इति भावः ॥ 17 ॥
सर्वकर्मकारयितारं सर्वान्तर्यामिणं त्वां कुतो न यजन्त इत्यत आह- अह~घ्कारमिति ॥ अह~घ्कारादि संश्रिताः सन्तः आत्मदेहे परदेहेषु च नियामकतया स्थितं मां प्रद्विषन्तः । यदि ईश्वरः कारयिताऽस्ति तर्~हीदानीमकुर्वाणं मां कारयतु कुर्वाणं च विघातयतु इत्येवं भगवदपलापरूपप्रद्वेषं कुर्वन्तः । अभ्यसूयकाः निर्दोषे दोषान्वदन्तः । गुणपूर्णे गुणहीनतां वदन्तः , यजन्त इत्यनुषज्यते ॥ 18 ॥
नरके पतन्तीत्येतावदेव न तेषां फलम्, किन्तु किञ्चित्कालं संसारमनुभूय पश्चान्नित्यनरकमपि मयैव प्राप्नुवन्तीत्याह- तानिति द्वाभ्यां ॥ तान् `प्रवृत्तिं च' इत्यादिनोक्तान्द्विषतः क्रूरान् अत ऎवाशुभान्नराधमान् संसारेषु तत्राप्यासुरयोनिषु अजस्रं पुनः पुनः क्षिपामि स्थापयामि ॥ 19 ॥
ततो मूढाः तामसस्वभावाः जन्मनि जन्मनि अनेकजन्मसु आसुरीं योनिमापन्नाः मामप्राप्यैवाधमां नित्यनरकलक्षणां यान्ति ॥ 20 ॥
उक्तेषु पुमर्थविरोधिषु प्रधानदोषत्रयमवश्यं त्याज्यमित्याह- विविधमिति ॥ कामः क्रोध लोभ इति इदं त्रिविधं नरकद्वारं नरकसाधनम् । अत ऎव आत्मनो नाशनं अनर्थप्रापकम् । तस्मादेतत्त्रयं त्यजेत् । ततश्च कारणाभावान्नरकाणामप्राप्तिरिति भावः ॥ 21 ॥
न केवलं कामादित्यागे नरकाप्राप्तिः परमपुमर्थप्राप्तिश्चास्तीत्याह - ऎतैरिति ॥ तमोद्वारैर्नरकहेतुभिस्त्रिभिरेतैः कामक्रोधलोभैर्विमुक्तोनरः आत्मनः श्रेयः पुमर्थसाधनमाचरति । ततः परां गतिं मोक्षं याति ॥ 22 ॥
श्रेयः साधनानुष्ठाने अ~घ्गान्तरं विधातुं तदकरणे बाधकं तावदाह- य इति ॥ यः शास्त्रोक्तविधानमुत्सृज्य कामकारतः स्वेच्छामात्रेण यत्र क्वचित्प्रवर्तते स सिद्धिं पुमर्थोपायं नावाप्नोति । सुखमैहिकं परां गतिं मोक्षं वा नाप्नोति ॥ 23 ॥
कुतः शास्त्रविध्यतिक्रमे संसिद्धिसुखाद्यभाव इति श~घ्कां निरस्यन्न~घ्गान्तरं विधत्ते - तस्मादिति ॥ यस्मादिदं कार्यमिदमकार्यमिति व्यवस्थायां ते तव विवेकिनः शास्त्रं प्रमाणम् । तदतिक्रमे च दोषः तस्मादिह लोके शास्त्रविधानोक्तं कर्म कर्तुमर्~हसि इति ॥ 24 ॥
॥ इति श्रीमद्गीतार्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते षोडशोऽध्यायः ॥ 16 ॥
॥ श्रीवादिराजान्तर्गत श्रीमध्वेशाभिन्नश्रीकृष्णार्पणमस्तु ॥
************************************************************
॥ श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
अथ सप्तदशोऽध्यायः ॥
चतुर्दशाध्याये `नान्यं गुणेभ्यः कर्तारं'(14-19) इत्यादिना सर्वोऽपि परिणामो गुणकृत इति सामान्यत उक्तस्यात्र सत्त्वादिगुणकृतानां श्रद्धानामाहारस्य तपःप्रभृतिकर्मणां च सदसद्रूपाणां भेदोक्त्या प्रपञ्चनं क्रियते । शास्त्रविध्यज्ञानिनां का स्थितिरिति पृच्छति - य इति ॥ ये जनाः शास्त्रविधिमुत्सृज्य अज्ञात्वा श्रद्धयाऽन्विताः श्रद्धामात्रेण यजन्ते । तेषां निष्ठा तु स्थितिस्तु का कीदृशी । तामेव विविच्याह- सत्त्वमित्यादिना ॥ किं सात्त्विकी राजसी तामसी वा स्थितिरित्यर्थः । ते किं सात्विका राजसास्तामसा वेति यावत् ॥ 1 ॥
ते त्रिविधा अपि सन्तीति भावेन प्राक् यागा~घ्गतया यष्टृविशेषणत्वेनोक्त श्रद्धां सात्त्विकत्वादिना विभज्य तदाश्रयेण तेषां सात्विकत्वादि स्वरूपमाह- त्रिविधेति द्वाभ्यां ॥ श्रद्धा आस्तिक्यनिष्ठा स्वभावजैवेत्यन्वयः । मनोवृत्तिश्रद्धाव्यावृत्तये स्वभावजैवेत्युक्तम् । तां त्रिविधां श्रुणु श्रुत्वा तत्र निष्ठां कुर्वित्यर्थः । तदन्वितैः क्रियमाणयजनप्रकारं श्रुण्वित्यर्थः ॥2 ॥
अस्तु श्रद्धा त्रिविधा । तेषां का निष्ठेति प्रश्नस्य किमुत्तरमित्यत आह- यो यच्छ्रद्धः स ऎव स इति ॥ यो यजमानः सात्त्विकश्रद्धः स सात्त्विकः । यो राजसश्रद्धः स राजसः । यस्तामसश्रद्धः स तामस इत्यर्थः । कुत ऎवमित्यतस्तदुपपादनायोक्तम्- सत्त्वेति ॥ सर्वस्य जन्तोः श्रद्धा सत्त्वानुरूपा जीवस्यरूपानुरूपा भवति । `सत्त्वं जीवः क्वचित्प्रोक्तः' इत्यादिवचनात् । श्रद्धायाः जीवानुरूपत्वमेव कुत इत्यत उक्तम्- श्रद्धेति ॥ अयं पुरुषो जीवः श्रद्धामयः । तादात्म्यार्थे मयट् । श्रद्धास्वरूप इत्यर्थः ॥ 3 ॥
`यो यच्छ्रद्ध' इत्यत्र सात्त्विकादिश्रद्धः सात्त्विकादिरित्युक्तम् । तत्र सात्त्विकश्रद्धादिः किं कर्मवानिति जिज्ञासायां तां शृण्विति प्रतिज्ञार्थमाह- यजन्त इति ॥ सात्त्विकाः सात्त्विकश्रद्धावन्तः, शास्त्रविधानमजानन्तोऽपि सात्त्विकश्रद्धामात्रान्विता जना इति यावत् । देवान् यजन्ते । राजसा राजसश्रद्धावन्तः शास्त्रविधानमजानन्त इति सर्वत्र ज्ञेयम् । यक्षरक्षांसि यजन्ते । तामसास्तामसश्रद्धावन्तः प्रेतादीन् यजन्ते । यद्यपि यागविधिषु `ैन्द्रं दधि' इत्यादिषु इन्द्रादिदेवता एवोद्देश्यतया श्रुताः इति राजसादिरपि तत्र श्रुतदेवतोद्देशेनैव यजनं करोति । तथापि तैरिष्टं यक्षराक्षसाः । `दीनत्वाद्देवनामानो ब्रह्मेन्द्रादिसनामकाः । गृह्णन्ति' (महाविष्णु पु.) इति स्मृत्या तत्तन्नामकयक्षादीनामेव तत्तद्यज्ञभोक्तृत्वाद्यक्षरक्षांसि यजन्त इत्याद्युक्तमिति ज्ञेयम् । अत्र देवयाजिनां विष्णुभक्त्यादिमत्त्वान्मोक्ष ऎव फलम् । राजसानां तु स्वर्गप्रतिनिधित्वेन कल्पितः सा~घ्कल्पिकः स्वर्गः । तामसानां तु शिवपरिवारभूतादित्वप्राप्तिः फलं ज्ञेयम् । `मोक्षः सा~घ्कल्पिकः स्वर्गो भूतादित्वं फलं क्रमात्' (महाविष्णु पु.) इति स्मृतेः ॥ 4 ॥
न केवलं तामसानां भूतादित्वं तमःप्राप्तिरपीत्याह - अशास्त्रेत्यादि द्वाभ्याम् ॥ ये जनाः शास्त्रादन्येन दुरागमादिना विहितं घोरं महाकष्टरूपं तपः दम्भाह~घ्कारसंयुक्ता कामरागबलान्विताः इच्छासक्त्याग्रहयुक्ताः सन्तस्तप्यन्ते कुर्वन्ति ॥ 5 ॥
किञ्च शरीरस्थं भूतग्रामं लक्ष्म्यादिदेवतासमुदायं मां चान्तर्नियामकत्वेन शरीरस्थं कर्शयन्तोऽ(तः कृशत्वेना)ल्पगुणत्वेन पश्यन्तोऽचेतसोऽविवेकिनः । तानासुरनिश्चयानुसरसम्बन्धिनिश्चयान्विद्धि जानीहि । ते दैत्यरक्षः पिशाचा इत्यर्थः । तमः प्राप्तियोग्या इति भावः ॥ 6 ॥
श्रद्धाभेदात्सात्त्विकादिभेदः, तत्तदीयसदसत्कर्मविवेकेन सात्त्विकादिस्वरूपविवेक उक्तः । आहारादिभेदेनापि तेषां विवेकं प्रतिज्ञापूर्वमाह - आहारस्त्वित्यादि सप्तभिः ॥ सर्वस्येति सात्त्विकादिजनस्येत्यर्थः । यज्ञस्तपोदानं तथा त्रिविधमित्यर्थः ॥ तेषामिति ॥ आहारादीनामित्यर्थः ॥। 7 ॥
आहारभेदं तावत् त्रिभिराह- आयुरित्यादिना ॥ आयुर्जीवनम् । सत्त्वं साधुत्वम् । सात्त्विकवस्तुसेवनेन चित्तशुद्धेः । बलं शक्तिः । आरोग्यं रोगराहित्यम् । सुखं सकृदुपभोगेऽपि बहुकालीनम् । प्रीतिरुपभोगकालीनं सुखम् । एतेषामायुरादीनां विवर्धनाः विशेषेण बुद्धिहेतवः । रस्याः रसयुक्ताः । स्निग्धाः स्नेहवन्तः । स्थिराः सेवनेन बहुकालगुणप्रदाः आज्यादयः । अनुभवे सति पश्चादपि भूयादिति मनोहारिणो हृद्याः । एते आहाराः । कर्मणी घञX । भक्ष्यपदार्थाः । सात्त्विकानां सत्त्वगुणयुक्तानां प्रियाः । आयुरादिविवर्धना इति विशेषणोक्त्या तद्विपरीतत्वे रस्यादीनामपि राजसत्वमेवेति ज्ञेयम् ॥ 8 ॥
कटु मरीचिकादिः । आम्लो जम्बीररसादिः । लवणं प्रसिद्धम् । अत्युष्णम् । अति शब्दः सर्वत्र सम्बध्यते । उष्णं तीक्ष्णं सर्षपादि । रूक्षं स्वतो नीरसम् । विदाहि विशेषेण दग्धं सन्तापकरं वा । एते आहाराः राजसस्येष्टाः प्रियाः । दुःखं शोको दौर्मनस्यं आमयो रोगः एतत्त्रयप्रदाः । दुःखादिदत्वविशेषणोक्त्या तदभावे कट्वादीनां सात्त्विकत्वमेवेति ज्ञेयम् ॥ 9 ॥
यातयामं यामान्तरितपाकम् । पूर्वं स्वादु पश्चादन्यथाजातं रसं गतरसम् । पूति दुर्गन्धम् । पर्युषितं दिनान्तरितपक्वम् । अन्यभुक्तावशिष्टं उच्छिष्टम् । अमेध्यमपवित्रम् । भोजनम् । कर्मणि ल्युट् । भोज्यम् । यातायामादि भोज्यं वस्तु यत्तत्तामसप्रियं, तादृशं वस्तु भोजनविषयतया तामसप्रियमित्यर्थः । स्वादुत्वादेः पुरुषभेदेन व्यवस्थितत्वेऽपि शुद्धभागवतस्वभावापेक्षया स्वादुत्वादिकं ध्येयम् ॥ 10 ॥
यज्ञभेदेन सात्त्विकादिभेदमाह- अफलेति ॥ फलका~घ्क्षारहितैर्यो यज्ञो विधिदृष्टो विधिज्ञानपूर्वकः यष्टव्यमेवेति मनःसमाधाय इज्यते अनुष्ठीयते स सात्त्विक इत्यर्थः ॥ 11 ॥
फलमभिस~घ्घाय मे भूयादिति कामयमान ऎव अपि दम्भार्थमेव आत्ममहत्त्वप्रदर्शनार्थमेव यदिज्यते तं यज्ञं राजसं विद्धि ॥ 12 ॥
असृष्टान्नं अन्नदानहीनम् । शिष्टं व्यक्तम् ॥ 13 ॥
प्राक् प्रतिज्ञातं तपोभेदेन सात्त्विकादिभेदं दर्शयितुं शारीरादिभेदेन तत्त्रैविध्यं तावदाह- देवेति ॥ देवादिपूजनं यथायोग्यं ध्येयम् । शौचं बाह्याभ्यन्तररूपम् । ब्रह्मचर्यमूर्ध्वरेतस्त्वम् । शारीरं शरीरसम्बन्धि ॥ 14 ॥
अनुद्वेगकरं परस्यान्तको यथा न भवति तादृशं वाक्यम् । सत्यं यथार्थवाक्यमिति सर्वत्रान्वेति । प्रियम् । श्रवणसमये पुनः पुनः श्रवणेच्छाकरम् ।हितं कालान्तरे सुखकरं च । स्वाध्यायाभ्यसनं च यत्तदिति शेषः । वा~घ्मयं वागात्मकं तपः ॥ 15 ॥
मनःप्रसादः विषयेष्वप्रयासेन प्रवृत्तिः । सौम्यत्वं अक्रौर्यम् । मौनं मननशीलत्वम् । आत्मविनिग्रहः आत्मनि परमात्मनि मनसो विशिष्यावस्थानम् । भावे आशये संशुद्धिः । नानाकामराहित्यम् । इत्येतन्मानसं तपः उच्यते ॥ 16 ॥
इदानीं सात्त्विकादितपोभेदेन सात्त्विकादिजीवभेदं प्रतिज्ञापूर्वमाह- श्रद्धयेत्यादिभिस्त्रिभिः ॥ नरैस्तप्तं कृतं तपः यत् तत् त्रिविधमित्यर्थः ॥ तत्कथमित्यत आह- अफलेति ॥ युक्तैर्भगवदर्पणादियोगयुक्तैः तप्तं तप इत्यनुषज्यते ॥ 17 ॥
सत्कारो मनसा आदरः । मानो वाचा प्रशंसा । पूजा अर्चनम् । एतदर्थं दम्भेन च आत्मनो महत्त्वप्रदर्शनार्थं वा यत्तपः क्रियते तत्तपः इह लोके राजसं प्रोक्तम् । चलं पातभयेन चलन हेतुः । अध्रुवं क्षयिष्णु ॥ 18 ॥
मूढाग्रहेण अविवेकदुराग्रहेण आत्मनः पीडया परस्य शत्रोरुत्सादनार्थं वा यत्तपः क्रियते तत्तामसम् ॥ 19 ॥
प्राक् प्रतिज्ञातसात्त्विकादिभेदेन दानभेदमाह (प्राक् प्रतिज्ञातदानभेदेन सात्त्विकादिभेदमाह)- दातव्यमित्यादित्रिभिः ॥ दातव्यमित्यास्तिक्यबुद्ध्या दानम् । कर्मणि ल्युट् । दातव्यं वस्तु पुण्यदेशे पुण्यकालेऽनुपकारिणे उपकारमनपेक्ष्य सत्पात्रे च पात्राय दीयते इति यत् तद्दानं सात्त्विकम् ॥ 20 ॥
परिक्लिष्टं अन्यायार्जितं द्रव्यम् ॥ 21 ॥
अदेशकाल इति द्वन्द्वैकवद्भावः । अशुचिदेशकालयोः असत्कृतं नमस्कारादिसत्काररहितम् । अवज्ञातं अवज्ञाकरणयुक्तं यथा तथा । अपात्रेभ्यः यद्दीयते तत्तामसमित्यर्थः ॥ 22 ॥
`अफलाका~घ्क्षिभिः' इत्यादिना पूर्वं यज्ञतपोदानानां सात्त्विकत्वादिहेतवोऽसाधारणधर्माः उक्ताः । साधरणांस्तु वक्तुमनेककर्तृकचरितानुवादरूपपुराकल्पाख्यार्थवादमाह- ओमित्यादिना ॥ निर्दिश्यते अनेनेति निर्देशो नाम ब्रह्मणः त्रिविधः स्मृतः । ओतं प्रविष्टमाश्रितं इति यावत्, जगद्यत्र परे इति वा, ईश्वरो वा जगति प्रोतः प्रविष्ट इति वा व्युत्पत्त्या ओमिति नाम हरेः । `अव रक्षणकान्तिगतिप्रवेशे'त्याद्यर्थस्यावतेः `अवतेष्टिलोपश्चेति' सूत्रेण मत्प्रत्ययः । तस्य टिलोपे ज्वरत्वरेत्यूठि सार्वधातुकेति (आद्गुणं तु क इति) गुणे च ओमिति रूपसिद्धेः । गुणैस्ततत्वाद्वा तदि(मि)त्यस्य परोक्षवाचित्वाद् ब्रह्मणश्च वेदैकवेद्यतया परोक्षत्त्वात्तदिति नाम । निर्दोषसर्वशुभगुणपूर्णत्वात्सदिति नामेति ज्ञेयम् । तेन ब्रह्मणा ब्राह्मणादयः पुरा सृष्टिकाले विहिताः सृष्टाः । वेदानां विधानं नाम अभिव्यक्तिर्ज्ञेया ॥ 23 ॥
तस्मादोमित्यस्य भगवन्नामत्वात् ओमित्युदाहृत्य ॐकारमुच्चार्य ब्रह्मवादिनां सततं यज्ञादिक्रियाः विधानोक्ताः विध्युक्ताः प्रवर्तन्ते । एतेनोक्तो~घ्कारार्थधीपूर्वकं ओमित्युच्चार्य ब्राह्मणैस्सह विध्युक्तदिशाऽनुष्ठानं यज्ञादेः सात्त्विकत्वे हेतुरुक्तो भवति ॥ 24 ॥
किञ्च तत्परोक्षं फलं स्वर्गाद्यनभिसन्धाय मम स्यादित्यनिच्छन्, तथा तत् वेदैकगम्यतया परोक्षभूतं ब्रह्म अभिसन्धाय ममास्पदं स्यादितीच्छन्यज्ञोग्निहोत्रादि तपः क्रिया प्रागुक्तशरीरादित