close


  • श्रीश्रीहरिभक्तिविलासः

गोपालभट्ट हरिभक्तिविलासः
*************************************************************************

१. गौरवविलास

हरिभक्तिविलासः
प्रथमो विलासः

अथ मङ्गलाचरणम्

चैतन्यदेवं भगवन्तमाश्रये
श्रीवैष्णवानां प्रमुदेऽञ्जसा लिखन्  ।
आवश्यकं कर्म विचार्य साधुभिः
सार्धं समाहृत्य समस्तशास्त्रतः  ॥ १.१ ॥
भक्तेर्विलासांश्चिनुते प्रबोधा
नन्दस्य शिष्यो भगवत्प्रियस्य  ।
गोपालभट्टो रघुनाथदासं
सन्तोषयन् रूपसनातनौ च  ॥ १.२ ॥
मथुरानाथपादाब्जप्रेमभक्तिविलासतः  ।
जातं भक्तिविलासाख्यं तद्भक्ताः शीलयन्त्विमम्  ॥ १.३ ॥
जीयासुरात्यन्तिकभक्तिनिष्ठाः श्रीवैष्णवा माथुरमण्डलेऽत्र  ।
काशीश्वरः कृष्णवने चकास्तु श्रीकृष्णदासश्च सलोकनाथः  ॥ १.४ ॥

तत्र लेख्यप्रतिज्ञा

आदौ सकारणं लेख्यं श्रीगुर्व्आश्रयणं ततः  ।
गुरुः शिष्यः परीक्षादिर्भगवान्मनवोऽस्य च  ॥ १.५ ॥
मन्त्राधिकारी सिद्ध्य्आदिशोधनं मन्त्रसंस्क्रियाः  ।
दीक्षा नित्यं ब्राह्मकाले शुभोत्थानं पवित्रता  ।
प्रातः स्मृत्यादि कृष्णस्य वाद्यादैश्च प्रबोधनम्  ॥ १.६ ॥
निर्माल्योत्तारणाद्य्आदौ मङ्गलारात्रिकं ततः  ।
मैत्रादिकृत्यं शौचाचमनं दन्तस्य धावनम्  ॥ १.७ ॥
स्नानं तान्त्रिकसन्ध्यादि देवसद्मादिसंस्क्रिया  ॥ १.८ ॥
तुलस्याद्याहृतिर्गेहस्नानमुष्णोदकादिकम्  ।
वस्त्रं पीठं चोर्ध्वपुण्ड्रं श्रीगोपीचन्दनादिकम्  ॥ १.९ ॥
चक्रादिमुद्रा माला च गृहसन्ध्यार्चनं गुरोः  ।
माहात्म्यं चाथ कृष्णस्य द्वारवेश्मान्तरार्चनम्  ॥ १.१० ॥
पूजार्थासनमर्घ्यादिस्थापनं विघ्नवारणम्  ।
श्रीगुर्व्आदिनतिर्भूतशुद्धिः प्राणविशोधनम्  ॥ १.११ ॥
न्यासमुद्रापञ्चकं च कृष्णध्यानान्तरार्चने  ।
पूजा पदानि श्रीमूर्तिशालग्रामशिलास्तथा  ॥ १.१२ ॥
द्वारकोद्भवचक्राणि शुद्धयः पीठपूजनम्  ।
आवाहनादि तन्मुद्रा आसनादिसमर्पणम्  ॥ १.१३ ॥
स्नपनं शङ्खघण्टादिवाद्यं नामसहस्रकम्  ।
पुराणपाठो वसनमुपवीतं विभूषणम्  ॥ १.१४ ॥
गन्धः श्रीतुलसीकाष्ठचन्दनं कुसुमानि च  ।
पत्राणि तुलसी चाङ्गोपाङ्गावरणपूजनम्  ॥ १.१५ ॥
धूपो दीपश्च नैवेद्यं पानं होमो बलिक्रिया  ।
अवगण्डूषाद्यास्यवासो दिव्यगन्धादिकं पुनः  ॥ १.१६ ॥
राजोपचारा गीतादि महानीराजनं तथा  ।
शङ्खादिवादनं साम्बुशङ्खनीराजनं स्तुतिः  ॥ १.१७ ॥
नतिः प्रदक्षिणा कर्माद्य्अर्पणं जप याचने  ।
आगःक्षमापणं नानागांसि निर्माल्यधारणम्  ॥ १.१८ ॥
शङ्खाम्बुतीर्थं तुलसीपूजा तन्मृत्तिकादि च  ।
धात्रीस्नाननिषेधस्य कालो वृत्तेरुपार्जनम्  ॥ १.१९ ॥
मध्याह्ने वैशदेवादिश्राद्धं चानर्प्यमच्युते  ।
विनार्चामशने दोषास्तथानर्पितभोजने  ॥ १.२० ॥
नैवेद्यभक्षणं सन्तः सत्सङ्गोऽसद्असङ्गतिः  ।
असद्गतिर्वैष्णवोपहासनिन्दादिदुष्फलम्  ॥ १.२१ ॥
सतां भक्तिर्विष्णुशास्त्रं श्रीमद्भागवतं तथा  ।
लीलाकथा च भगवद्धर्माः सायं निजक्रियाः  ॥ १.२२ ॥
कर्मपातपरीहारस्त्रिकालार्चा विशेषतः  ।
नक्तं कृत्यान्यथो पूजाफलसिद्ध्य्आदिदर्शनम्  ॥ १.२३ ॥
विष्ण्व्अर्थदानं विविधोपचारा न्यूनपूरणम्  ।
शयनं महिमार्चायाः श्रीमन्नाम्नस्तथाद्भुतः  ॥ १.२४ ॥
नामापराधा भक्तिश्च प्रेमाथाश्रयणादयः  ।
पक्षेष्वेकादशी साङ्गा श्रीद्वादश्य्अष्टकं महत् ॥ १.२५ ॥
कृत्यानि मार्गशीर्षादिमासेषु द्वाद्शेष्वपि  ।
पुरश्चरणकृत्यानि मन्त्रं सिद्धस्य लक्षणम्  ॥ १.२६ ॥
मूर्त्याविर्भावनं मूर्तिप्रतिष्ठा कृष्णमन्दिरम्  ।
जीर्णोद्धृतिः श्रीतुलसीविवाहोऽनन्यकर्म च  ॥ १.२७ ॥

तत्र श्रीगुरूपसत्तिकारणम्

कृपया कृष्णदेवस्य तद्भक्तजनसङ्गतः  ।
भक्तेर्माहात्म्यमाकर्ण्य तामिच्छन् सद्गुरुं भजेत् ॥ १.२८ ॥
अत्रानुभूयते नित्यं दुःखश्रेणी परत्र च  ।
दुःसहा श्रूयते शास्त्रात्तितीर्षेदपि तां सुधीः  ॥ १.२९ ॥

तथा चोक्तमेकादशस्कन्धे [भागवतम् ११.९.२९]
लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते
मानुष्यमर्थदमनित्यमपीह धीरः  ।
तूर्णं यतेत न पतेदनुमृत्यु यावन्
निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ १.३० ॥

स्वयं श्रीभगवता च [भागवतम् ११.२०.१७]
नृदेहमाद्यं सुलभं सुदुर्लभं
प्लवं सुकल्पं गुरुकर्णधारम्  ।
मयानुकूलेन नभस्वतेरितं
पुमान् भवाब्धिं न तरेत्स आत्महा  ॥ १.३१ ॥

अथ श्रीगुरूपसत्तिः

तत्रैव श्रीप्रबुद्धयोगेश्वरोक्तौ [भागवतम् ११.३.२१]
तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम्  ।
शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम्  ॥ १.३२ ॥

स्वयं श्रीभगवद्उक्तौ [भागवतम् ११.१०.५]
मद्अभिज्ञं गुरुं शान्तमुपासीत मद्आत्मकम्  ॥ १.३३ ॥

क्रमदीपिकायां [४.२] च
विप्रं प्रध्वस्तकामप्रभृतिरिपुघटं निर्मलाङ्गं गरिष्ठां
भक्तिं कृष्णाङ्घ्रिपङ्केरुहयुगलरजोरागिणीमुद्वहन्तम्  ।
वेत्तारं वेदशास्तागमविमलपथां सम्मतं सत्सु दान्तं
विद्यां यः संविवित्सुः प्रवणतनुमना देशिकं संश्रयेत  ॥ १.३४ ॥

श्रुतावपि [ंुण्डू १.२.१२, Cहाऊ ६.१४.२]
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्  ।
आचार्यवान् पुरुषो वेद  ॥ १.३५ ॥

अथ गुरूपसत्तिनित्यता

श्रीभागवते दशमस्कन्धे श्रुतिस्तुतौ [भागवतम् १०.८७.३३]
विजितहृषीकवायुभिरदान्तमनस्तुरगं
य इह यतन्ति यन्तुमतिलोलमुपायखिदः  ।
व्यसनशतान्विताः समवहाय गुरोश्चरणं
वणिज इवाज सन्त्यकृतकर्णधरा जलधौ  ॥ १.३६ ॥

श्रुतौ च [Kअठू १.२.९]
नैषा तर्केण मतिरापनेया
प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ  ॥ १.३७ ॥

अथ विशेषतः श्रीगुरोर्लक्षणानि

मन्त्रमुक्तावल्याम्
अवदातान्वयः शुद्धः स्वोचिताचारतत्परः  ।
आश्रमी क्रोधरहितो वेदवित्सर्वशास्त्रवित् ॥ १.३८ ॥
श्रद्धावाननसूयश्च प्रियवाक्प्रियदर्शनः  ।
शुचिः सुवेशस्तरुणः सर्वभूतहिते रतः  ॥ १.३९ ॥
धीमाननुद्धतमतिः पूर्णोऽहन्ता विमर्शकः  ।
सगुणोऽर्चासु कृतधीः कृतज्ञः शिष्यवत्सलः  ॥ १.४० ॥
निग्रहानुग्रहे शक्तो होममन्त्रपरायणः  ।
ऊहापोहप्रकारज्ञः शुद्धात्मा यः कृपालयः  ।
इत्यादिलक्षणैर्युक्तो गुरुः स्याद्गरिमानिधिः  ॥ १.४१ ॥

अगस्त्यसंहितायां च
देवतोपासकः शान्तो विषयेष्वपि निःस्पृहः  ।
अध्यात्मविद्ब्रह्मवादी वेदशास्त्रार्थकोविदः  ॥ १.४२ ॥
उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः  ।
तत्त्वज्ञो यन्त्रमन्त्राणां मर्मभेत्ता रहस्यवित् ॥ १.४३ ॥
पुरश्चरणकृद्धोममन्त्रसिद्धः प्रयोगवित् ।
तपस्वी सत्यवादी च गृहस्थो गुरुरुच्यते  ॥ १.४४ ॥

विष्णुस्मृतौ
परिचर्यायशोलाभलिप्सुः शिष्याद्गुरुर्नहि  ।
कृपासिन्धुः सुसम्पूर्णः सर्वसत्त्वोपकारकः  ॥ १.४५ ॥
निःस्पृहः सर्वतः सिद्धः सर्वविद्याविशारदः  ।
सर्वसंशयसंछेत्ता नालसो गुरुराहृतः  ॥ १.४६ ॥

श्रीनारदपञ्चरात्रे श्रीभगवन्नारदसंवादे
ब्राह्मणः सर्वकालज्ञः कुर्यात्सर्वेष्वनुग्रहम्  ।
तद्अभावाद्द्विजश्रेष्ठः शान्तात्मा भगवन्मयः  ॥ १.४७ ॥
भावितात्मा च सर्वज्ञः शास्त्रज्ञः सत्क्रियापरः  ।
सिद्धित्रयमायुक्त आचार्यत्वेऽभिषेचितः  ॥ १.४८ ॥
क्षत्रविट्शूद्रजातीनां क्षत्रियोऽनुग्रहे क्षमः  ।
क्षत्रियस्यापि च गुरोर्भावादीदृशो यदि  ॥ १.४९ ॥
वैश्यः स्यात्तेन कार्यश्च द्वये नित्यमनुग्रहः  ।
सजातीयेन शूद्रेण तादृशेन महामते  ।
अनुग्रहाभिषेकौ च कार्यौ शूद्रस्य सर्वदा  ॥ १.५० ॥

किं च
वर्णोत्तम्ऽथ च गुरौ सति या विश्रुतेऽपि च  ।
स्वदेशतोऽथत्वान्यत्र नेदं कार्यं शुभार्थिना  ॥ १.५१ ॥
विद्यमाने तु यः कुर्यात्यत्र तत्र विपर्ययम्  ।
तस्येहामुत्र नाशः स्यात्तस्माच्छास्त्रोक्तमाचरेत् ॥
क्षत्रविट्शूद्रजातीयः प्रातिलोम्यं न दीक्षयेत् ॥ १.५२ ॥

पाद्मे च [ড়द्मড়् ६.२५३.२६]
महाभागवतः श्रेष्ठो ब्राह्मणो वै गुरुर्नृणाम्  ।
सर्वेषामेव लोकानामसौ पूज्यो यथा हरिः  ॥ १.५३ ॥

महाकूलप्रसूतोऽपि सर्वयज्ञेषु दीक्षितः  ।
सहस्रशाखाध्यायी च न गुरुः स्यादवैष्णवः  ॥ १.५४ ॥
इति

गृहीतविष्णुदीक्षाको विष्णुपूजापरो नरः  ।
वैष्णवोऽभिहितोऽभिज्ञैरितरोऽस्मादवैष्णवः  ॥ १.५५ ॥

तत्त्वसागरे
बह्वाशी दीर्घसूत्री च विषयादिषु लोलुपः  ।
हेतुवादरतो दुष्टोऽवाग्वादी गुणनिन्दकः  ॥ १.५६ ॥
अरोमा बहुरोमा च निन्दिताश्रमसेवकः  ।
कालदन्तोऽसितौष्ठश्च दुर्गन्धिश्वासवाहकः  ॥ १.५७ ॥
दुष्टलक्षणसम्पन्नो यद्यपि स्वयमीश्वरः  ।
बहुप्रतिग्र्हासक्त आचार्यः श्रीक्षयावहः  ॥ १.५८ ॥

अथ शिष्यलक्षणानि

मन्त्रमुक्तावल्याम्
शिष्यः शुद्धान्वयः श्रीमान् विनीतः प्रियदर्शनः  ।
सत्यवाक्पुण्यचरितोऽदभ्रधीर्दम्भवर्जितः  ॥ १.५९ ॥
कामक्रोधपरित्यागी भक्तश्च गुरुपादयोः  ।
देवताप्रवणः कायमनोवाग्भिर्दिवानिशम्  ॥ १.६० ॥
नीरुजो निर्जिताशेषपातकः श्रद्ध्यान्वितः  ।
द्विजदेवपितॄणां च नित्यमर्चापरायणः  ॥ १.६१ ॥
युवा विनियताशेषकरणः करुणालयः  ।
इत्यादिलक्षणैर्युक्तः शिष्यो दीक्षाधिकारवान्  ॥ १.६२ ॥

एकादशस्कन्धे च [भागवतम् ११.१०.६]
अमान्यमत्सरो दक्षो निर्ममो दृठसौहृदः  ।
असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ॥ १.६३ ॥

अथापेक्ष्याः

अगस्त्यसंहितायाम्
अलसा मलिनाः क्लिष्टा दाम्भिकाः कृपणास्तथा  ।
दरिद्रा रोगिणो रुष्टा रागिणो भोगलालसाः  ॥ १.६४ ॥
असूयामत्सरग्रस्ताः शठाः परुषवादिनः  ।
अन्यायोपार्जितधनाः परदाररताश्च ये  ॥ १.६५ ॥
विदुषां वैरिणश्चैव अज्ञाः पण्डितमानिनः  ।
भ्रष्टव्रताश्च ये कष्टवृत्तयः पिशुनाः खलाः  ॥ १.६६ ॥
बह्व्आशिनः क्रूरचेष्टा दुरात्मनश्च निन्दित  ।
इत्येवमादयोऽप्यन्ये पापिष्ठाः पुरुषाधमाः  ॥ १.६७ ॥
अकृत्येभ्योऽनिवार्याश्च गुरुशिक्षासहिष्णवः  ।
एवम्भूताः परित्याज्याः शिष्यत्वे नोपकल्पिताः  ॥ १.६८ ॥
यद्येते ह्युपकल्पेरन् देवताक्रोशभाजनाः  ।
भवन्तीह दर्द्रास्ते पुत्रदारविवर्जिताः  ॥ १.६९ ॥
नारकाश्चैव देहान्ते तिर्यञ्चः प्रभवन्ति ते  ॥ १.७० ॥

हयशीर्षपञ्चरात्रे
जैमिनिः सुगतश्चैव नास्तिको नग्न एव च  ।
कपिलश्चाक्षपादश्च षडेते हेतुवादिनः  ॥ १.७१ ॥
एतन्मतानुसारेण वर्तन्ते ये नराधमाः  ।
ते हेतुवादिनः प्रोक्तास्तेभ्यस्तन्त्रं न दापयेत् ॥ १.७२ ॥
इति

तयोः परीक्षा चान्योऽन्यमेकाब्दं सहवासतः  ।
व्यवहारस्वभावानुभवेनैवाभिजायते  ॥ १.७३ ॥

अथ परीक्षणम्

मन्त्रमुक्तावल्यां
तयोर्वत्सरवासेन ज्ञातान्योन्यस्वभावयोः  ।
गुरुता शिष्यता चेति नान्यथैवेति निश्चयः  ॥ १.७४ ॥

श्रुतिश्च
नासंवत्सरवासिने देयात् ॥ १.७५ ॥

सारसङ्ग्रहेऽपि
सद्गुरुः स्वाश्रितं शिष्यं वर्ष्मेकं परीक्षयेत् ॥ १.७६ ॥
राज्ञि चामात्यजा दोषाः पत्नीपापं स्वभर्तरि  ।
तथा शिष्यार्जितं पापं गुरुः प्राप्नोति निश्चितम्  ॥ १.७७ ॥

क्रमदीपिकायां तु [४.३]
सन्तोषयेदकुटिलाद्रेतरान्तरात्मा
तं स्वैर्धनैश्च वपुषाप्यनुकूलवाण्या  ।
अब्दत्रयङ्कमलनाभधियाऽतिधीरस्
तुष्टे विवक्षतु गुरावथ मन्त्रदीक्षाम्  ॥ १.७८ ॥

अथ विशेषतः श्रीगुरुसेवाविधिः

कौर्मे श्रीव्यासगीतायाम्
उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत्सदा  ।
मार्जनं लेपनं नित्यमङ्गानां वाससां चरेत् ॥ १.७९ ॥
नास्य निर्माल्यशयनं पादुकोपासनहावपि  ।
आक्रामेदासनं छ्यायामासन्दीं वा कदाचन  ॥ १.८० ॥
साधयेद्दन्तकाष्ठादीन् कृत्यं चास्मै निवेदयेएत् ॥ १.८१ ॥
अनापृच्छ्य न गन्तव्यं भवेत्प्रियहिते रसः  ।
न पादौ सारयेदस्य सन्निधाने कदाचन  ॥ १.८२ ॥
जृम्भाहास्यादिकं चैव कण्ठप्रावरणं तथा  ।
वर्जयेत्सन्निधौ नित्यमथास्फोटनमेव च  ॥ १.८३ ॥

किं च
श्रेयस्तु गुरुवद्वृत्तिर्नित्यमेव समाचरेत् ।
गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु  ॥ १.८४ ॥
उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने  ।
न कुर्याद्गुरुपुत्रस्य पादयोः शौचमेव च  ॥ १.८५ ॥
गुरुवत्परिपूज्याश्च सवर्णा गुरुयोषितः  ।
असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः  ॥ १.८६ ॥
अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च  ।
गुरुपत्न्या च कार्याणि केशानां च प्रसाधनम्  ॥ १.८७ ॥

देव्य्आगमे श्रीशिवोक्तौ
गुरुशय्यासनं यानं पादुके पादपीठकम्  ।
स्नानोदकं तथा छायां लङ्घयेन्न कदाचन  ॥ १.८८ ॥
गुरोरग्रे पृथक्पूजामद्वैतं च परित्यजेत् ।
दीक्षां व्याख्यां प्रभुत्वं च गुरोरग्रे विवर्जयेत् ॥ १.८९ ॥

श्रीनारदोक्तौ
यत्र यत्र गुरुं पश्येत्तत्र तत्र कृताञ्जलि  ।
प्रणमेत्दण्डवद्भूमौ छिन्नमूल इव द्रुमः  ॥ १.९० ॥
गुरोर्वाक्यासनं यानं पादुकोपानहौ तथा  ।
वस्त्रं छायां तथा शिष्यो लङ्घयेन्न कदाचन  ॥ १.९१ ॥

श्रीमनुस्मृतौ (नोत्fओउन्द्)
नोदाहरेद्गुरोर्नाम परोक्षमपि केवलम्  ।
न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम्  ॥ १.९२ ॥
गुरोर्गुरौ सन्निहिते गुरुवद्धृतिमाचरेत् ।
न चाविसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ १.९३ ॥

श्रीनारदपञ्चरात्रे
यथा तथा यत्र तत्र न गृह्णीयाच्च केवलम्  ।
अभक्त्या न गुरोर्नाम गृह्णीयाच्च यतात्मवान्  ॥ १.९४ ॥
प्रणवः श्रीस्ततो नाम विष्णुशब्दादनन्तरम्  ।
पादशब्दसमेतं च नतमूर्धाञ्जलीयुतः  ॥ १.९५ ॥

किं च
न तमाज्ञापयेन्मोहात्तस्याज्ञां न च लङ्घयेत् ।
नानिवेद्य गुरोः किञ्चिद्भोक्तव्यं वा गुरोस्तथा  ॥ १.९६ ॥
अन्यत्र च
आयान्तमग्रतो गच्छेद्गच्छन्तं तमनुव्रजेत् ।
आसने शयने वापि न तिष्ठेदग्रतो गुरोः  ॥ १.९७ ॥
यत्किञ्चिदन्नपानादि प्रियं द्रव्यं मनोरमम्  ।
समर्प्य गुरवे पश्चात्स्वयं भुञ्जीत प्रत्यहम्  ॥ १.९८ ॥

श्रीविष्णुस्मृतौ
न गुरोरप्रियं कुर्यात्ताडितः पीडितोऽपि वा  ।
नावमन्येत तद्वाक्यं नाप्रियं हि समाचरेत् ॥ १.९९ ॥
आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि  ।
कर्मणा मनसा वाचा स याति परमां गतिम्  ॥ १.१०० ॥

श्रीनारदपञ्चरात्रे
यो वक्ति न्यायरहितमन्यायेन शृणोति यः  ।
तावुभौ नरकं घोरं व्रजतः कालमक्षयम्  ॥ १.१०१ ॥

वैष्णवतन्त्रे
त्रायस्व भो जगन्नाथ गुरो संसारवह्निना  ।
दग्धं मां कालदष्टं च त्वामहं शरणं गतः  ॥ १.१०२ ॥
इति

तत्र श्रीवासुदेवस्य सर्वदेवशिरोमणेः  ।
पादाम्बुजैकभागेव दीक्षा ग्राह्या मनीषिभिः  ॥ १.१०३ ॥

प्रथमस्कन्धे [भागवतम् १.२.२३]
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्
युक्तः परमपुरुष एक इहास्य धत्ते  ।
स्थित्य्आदये हरिविरिञ्चिहरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्वतनोर्नॄणां स्युः  ॥ १.१०४ ॥

किं च [भागवतम् १.१८.२१]
अथापि यत्पादनखावसृष्टं
जगद्विरिञ्चोपहृतार्हणाम्भः  ।
सेशं पुनात्यन्यतमो मुकुन्दात्
को नाम लोके भगवत्पदार्थः  ॥ १.१०५ ॥

श्रीदशमस्कन्धे [भागवतम् १०.८९.१५]
तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः  ।
भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम्  ॥ १.१०६ ॥

पाद्मे वैशाखमाहात्म्ये यमब्राह्मणसंवादे [ড়द्मড়् ५.९७.२७]
व्यामोहाय चराचरस्य जगतस्ते ते पुराणागमास्
तां तामेव हि देवतां परमिकां जल्पन्तु कल्पावधि  ।
सिद्धान्ते पुनरेक एव भगवान् विष्णुः समस्तागम
व्यापारेषु विवेचनव्यतिकरं नीतेषु निश्चीयते  ॥ १.१०७ ॥

नारसिंहे
सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते  ।
वेदाच्छास्त्रं परं नास्ति न देवः केशवात्परः  ॥ १.१०८ ॥

यतः पाद्मे
अरिर्मित्रं विष्ं पथ्यमधर्मो धर्मतां व्रजेत् ।
सुप्रसन्ने हृषीकेशे विपरीते विपर्ययः  ॥ १.१०९ ॥

तत्रैव श्रीभगवद्वाक्यम्
मन्निमित्तं कृतं पापमपि धर्माय कल्पते  ।
मामनादृत्य धर्मोऽपि पापं स्यान्मत्प्रभावतः  ॥ १.११० ॥
अतएवोक्तं स्कान्दे श्रीब्रह्मनारदसंवादे
वासुदेवं परित्यज्य योऽन्यं देवमुपासते  ।
स्वमातरं परित्यज्य श्वपचीं वन्दते हि सः  ॥ १.१११ ॥

तत्रैवान्यत्र
वासुदेवं परित्यज्य योऽन्यं देवमुपासते  ।
त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हलाहलं विषम्  ॥ १.११२ ॥

महाभारते
यस्तु विष्णुं परित्यज्य मोहादन्यमुपासते  ।
स हेमराशिमुत्सृज्य पांशुराशिं जिघृक्षति  ॥ १.११३ ॥
अनादृत्य तु यो विष्णुमन्यदेवं समाश्रयेत् ।
गङ्गाम्भसः स तृष्णार्तो मृगतृष्णां प्रधावति  ॥ १.११४ ॥

पञ्चरात्रे
यो मोहाद्विष्णुमन्येन हीनदेवेन दुर्मतिः  ।
साधारणं सकृद्ब्रूते सोऽन्त्यजो नान्त्यजोऽन्त्यजः  ॥ १.११५ ॥

वैष्णवतन्त्रे
न लभेयुः पुनर्भक्तिं हरेरैकान्तिकीं जङाः  ।
एकाग्रमनसश्चापि विष्णुसामान्यदर्शिनः  ॥ १.११६ ॥

अन्यत्र च
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः  ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद्ध्रुवम्  ॥ १.११७ ॥
इति

सहस्रनामस्तोत्रादौ श्लोकौघाः सन्ति चेदृशाः  ।
विशेषतः सत्त्वनिष्ठैः सेवोय्विष्णुर्न चापरः  ॥ १.११८ ॥

तथा च श्रीहरिवंशे शिववाक्यम्
हरिरेव सदाराध्यो भवद्भिः सत्त्वसंस्थितैः  ।
विष्णुमन्त्रं सदा विप्राः पठध्वं ध्यात केशवम्  ॥ १.११९ ॥
इति

ईदृङ्माहात्म्यवाक्येषु सङ्गृहीतेषु सर्वतः  ।
ग्रन्थबाहुल्यदोषः स्याल्लिख्यन्तेऽपेक्षितानि तत् ॥ १.१२० ॥

अथ श्रीवैष्णवमन्त्रमाहात्म्यम्

आगमे
मन्त्रान् श्रीमन्त्रराजादीन् वैष्णवान् गुर्व्अनुग्रहात् ।
सर्वैश्वर्यं जपन् प्राप्य याति विष्णोः परं पदम्  ॥ १.१२१ ॥
पुण्यं वर्षसहस्रैर्यैः कृतं सुविपुलं तपः  ।
जपन्ति वैष्णवान्मन्त्रान्नरास्ते लोकपावनाः  ॥ १.१२२ ॥

वैष्णवे च
प्रजपन् वैष्णवान्मन्त्रान् यं यं पश्यति चक्षुषा  ।
पदा वा संस्पृशेत्सद्यो मुच्यतेऽसौ महाभयात् ॥ १.१२३ ॥
इति

लिख्यते विष्णुमन्त्राणां महिमाथ विशेषतः  ।
तात्पर्यतः श्रीगोपालमन्त्रमाहात्म्यपुष्टये  ॥ १.१२४ ॥

तत्र द्वादशाक्षराष्टाक्षरयोर्माहात्म्यम्

पद्मपुराणे देवदूतविकुण्डलसंवादे
साङ्गं समुद्रं सन्यासं सर्षिदैवतम्  ।
सदीक्षाविधि सध्यानं सयन्त्रं द्वादशाक्षरम्  ॥ १.१२५ ॥
अष्टाक्षरं च मन्त्रेशं ये जपन्ति नरोत्तमाः  ।
तान् दृष्ट्वा ब्रह्महा शुध्येते यतो विष्णवः स्वयम्  ॥ १.१२६ ॥
शङ्खिनश्चक्रिणो भूत्वा ब्रह्मायुर्वनमालिनः  ।
वसन्ति वैष्णवे लोके विष्णुरूपेण ते नराः  ॥ १.१२७ ॥

तत्रैव द्वादशाक्षरयस्चतुर्थस्कन्धे [भागवतम् ४.८.५३]
जपश्च परमो गुह्यः श्रूयतां मे नृपात्मज  ।
यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान्  ॥ १.१२८ ॥

श्रीविष्णुपुराणे [Vइড়् १.६.४०]
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः  ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः  ॥ १.१२९ ॥

अष्टाक्षरस्य, यथा नारदपञ्चरात्रे
त्रयो वेदाः षड्अङ्गानि छन्दांसि विविधाः सुराः  ।
सर्वमष्टाक्षरान्तःस्थं यच्चान्यदपि वाङ्मयम्  ॥ १.१३० ॥
सर्ववेदान्तसारार्थं संसारार्णवतारणः  ।
गतिरष्टाक्षरो नॄणां न पुनर्भवकाङ्क्षिणाम्  ॥ १.१३१ ॥
यत्राष्टाक्षरसंसिद्धो महाभागो महीयते  ।
न तत्र सञ्चरिष्यन्ति व्याधिदुर्भिक्षतस्कराः  ॥ १.१३२ ॥
देवदानवगन्धर्वाः सिद्धविद्याधरादयः  ।
प्रणमन्ति महात्मानमष्टाक्षरविदं नरम्  ॥ १.१३३ ॥
व्यक्तं हि भगवानेव साक्षान्नारायणः स्वयम्  ।
अष्टाक्षरस्वरूपेण मुखेषु परिवर्तते  ॥ १.१३४ ॥

पाद्मोत्तरखण्डे [ড়द्मড়् ६.२२६.१८]
एवमष्टाक्षरो मन्त्रो ज्ञेयः सर्वार्थसाधकः  ।
सर्वदुःखहरः श्रीमान् सर्वमन्त्रात्मकः शुभः  ॥ १.१३५ ॥

लिङ्गपुराणे
किमन्यैर्बहुभिर्मन्त्रैः किमन्यैर्बहुभिर्व्रतैः  ।
नमो नारायणेति मन्त्रः सर्वार्थसाधकः  ॥ १.१३६ ॥
तस्मात्सर्वेषु कालेषु नमो नारायणेति यः  ।
जपेत्स याति विप्रेन्द्र विष्णुलोकं सबान्धवः  ॥ १.१३७ ॥

भविष्यपुराणे
अष्टाक्षरो महामन्त्रः सर्वपापहरः परः  ।
सर्वेषां विष्णुमन्त्राणां राजत्वे परिकीर्तितः  ॥ १.१३८ ॥

श्रीशुकव्याससंवादे च
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः  ।
भक्तानां जपतां तात स्वर्गमोक्षफलप्रदः  ॥ १.१३९ ॥
एष एव परो मोक्ष एष स्वर्ग उदाहृतः  ।
सर्ववेदरहस्येभ्यः सार एष समुद्धृतः  ॥ १.१४० ॥
विष्णुना वैष्णवानां तु हिताय मनुना पुरा  ।
कीर्तितः सर्वपापघ्नः सर्वकामप्रदायकः  ॥ १.१४१ ॥
नारायणाय नम इत्ययमेव सत्यं
संसारघोरविषसंहरणाय मन्त्रः  ।
शृण्वन्तु सत्यमतयो मुदितास्तरागा
उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः  ॥ १.१४२ ॥
भूत्वोर्ध्वबाहुरद्याहं सत्यपूर्वं ब्रवीमि वः  ।
हे पुत्रशिष्याः शृणुत न मन्त्रोऽष्टाक्षरात्परः  ॥ १.१४३ ॥

अतएवोक्तं गारुडे
आसीनो वा शयानो वा तिष्ठानो यत्र तत्र वा  ।
नमो नारायणेति मन्त्रैकशरणो भवेत् ॥ १.१४४ ॥

तापनीश्रुतिषु [णृसिंहटू १.५.८]
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य मन्त्रराजस्य नारसिंहस्य फलं नो ब्रूहि भगव इति स होवाच प्रजापतिर्य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते  सोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स ब्रह्मपूतो भवति स विष्णुपूतो भवति स रुद्रपूतो भवति स सर्वपूतो भवति स सर्वपूतो भवति  ॥ १.१४५ ॥

तत्रैवान्ते [णृसिंहटू ५.९१०]
अनुपनीतशतमेकमेकेनोपनीतेन तत्समम् । उपनीतशतमेकमेकेन गृहस्थेन तत्समम् । गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समम् । वानप्रस्थशतमेकमेकेन यतिना तत्समम् । यतीनां तु शतं पूर्णमेकमेकेन रुद्रजापकेन तत्समम् । रुद्रजापकशतमेकमेकेन अथर्वशिरःशिखाध्यापकेन तत्समम् ।

तद्वा एतत्परमं धाम मन्त्रराजाध्यापकस्य यत्र न सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः । तदेतदृचाभ्युक्तम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम्  ॥ १.१४६ ॥

अथ श्रीराममन्त्राणां माहात्म्यम्

अगस्त्यसंहितायाम्
सर्वेषु मन्त्रवर्गेषु श्रेष्ठं वैष्णवमुच्यते  ।
गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदम्  ॥ १.१४७ ॥
वैष्णवेष्वपि मन्त्रेषु राममन्त्राः फलाधिकाः  ।
गाणपत्य्आदिमन्त्रेभ्यः कोटिकोटिगुणाधिकाः  ॥ १.१४८ ॥
विनैव दीक्षां विप्रेन्द्र पुरश्चर्यां विनैव हि  ।
विनैव न्यासविधिना जपमात्रेण सिद्धिदाः  ॥ १.१४९ ॥
मन्त्रेष्वष्टस्वनायासफलदोऽयं षड्अक्षरः  ।
षड्अक्षरोऽयं मन्त्रस्तु महाघौघनिवारणः  ॥ १.१५० ॥
मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः  ।
दैनन्दिनं तु दुरितं पक्षमासर्तुवर्षजम्  ॥ १.१५१ ॥
सर्वं दहति निःशेषं तूलाचलमिवानलः  ।
ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च  ॥ १.१५२ ॥
स्वर्णस्तेयसुरापानगुरुतल्पयुतानि च  ।
कोटिकोटिसहस्राणि ह्युपपापानि यान्यपि  ।
सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ॥ १.१५३ ॥

तापनीश्रुतिषु  च
य एतत्तारकं ब्राह्मणो नित्यमधीते, स पाप्मानं तरति, स मृत्युं तरति, स भ्रूहत्यां तरति, स सर्वहत्यां तरति, स संसारं तरति, स सर्वं तरति, स विमुक्ताश्रितो भवति, सोऽमृतत्वं च गच्छति  ॥ १.१५४ ॥

अथ गोपालदेवमन्त्रमाहात्म्यम्

मन्त्रास्तु कृष्णदेवस्य साक्षाद्भगवतो हरेः  ।
सर्वावतारबीजस्य सर्वतो वीर्यवत्तमाः  ॥ १.१५५ ॥

तथा च बृहद्गौतमीये श्रीगोविन्दवृन्दावनाख्ये
सर्वेषां मन्त्रवर्याणां श्रेष्ठो वैष्णव उच्यते  ।
विशेषात्कृष्णमनवो भोगमोक्षैकसाधनम्  ॥ १.१५६ ॥
यस्य यस्य च मन्त्रस्य यो यो देवस्तथा पुनः  ।
अभेदात्तन्मनूनां च देवता सैव भाष्यते  ॥ १.१५७ ॥
कृष्ण एव परं ब्रह्म सच्चिदानन्दविग्रहः  ।
स्मृतिमात्रेण तेषां वै भुक्तिमुक्तिफलप्रदः  ॥ १.१५८ ॥
इति

तत्रापि भगवत्तां स्वां तन्वतो गोपलीलया  ।
तस्य श्रेष्ठतमा मन्त्रास्तेष्वप्यष्टादशाक्षरः  ॥ १.१५९ ॥

तापनीश्रुतिषु
ओं मुनयो ह वै ब्रह्माणमूचुः । कः परमो देवः । कुतो मृत्युर्बिभेति । कस्य ज्ञानेनाखिलं ज्ञातं भवति । केनेदं विश्वं संसरतीति । तानु होवाच ब्राह्मणः  कृष्णो वै परमं दैवतम् । गोविन्दान्मृत्युर्बिभेति । गोपीजनवल्लभज्ञानेनाखिलं ज्ञातं भवति । स्वाहयेदं संसरतीति । तमु होचुः । कः कृष्णो गोविन्दः कोऽसौ गोपीजनवल्लभः कः का स्वाहेति । तानुवाच ब्राह्मणः पापकर्षणो गोभूमिवेदविदितो वेदिता गोपीजनाविद्याकलाप्रेरकस्तन्माया चेति । सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति सोऽमृतो भवति सोऽमृतो भवतीति । ते होचुः  किं तद्रूपं किं रसनं कथं वाहो तद्भजनम् । तत्सर्वं विविदिषतामाख्याहीति । तदु होवाच हैरण्यः  गोपवेशमभ्राभं तरुणं कल्पद्रुमाश्रितम्  ॥ १.१६० ॥
(ङ्टू १.२८)

किं च, तत्रैवाग्रे
भक्तिरस्य भजनम् । तदिहामुत्रोपाधिनैरास्येनैवामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् ।

कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधाराधयन्ति  ।
गोपीजनवल्लभो भुवनानि दध्रे
स्वाहाश्रितो जगदेजय्जत्स्वरेताः  ॥ १.१६१ ॥
(ङ्टू १.१४१५)

वायुर्यथैको भुवनं प्रविष्टो
जन्ये जन्ये पञ्चरूपो बभूव  ।
कृष्णस्तथैकोऽपि जगद्धितार्थं
शब्देनासौ पञ्चपदो विभाति  ॥ १.१६२ ॥
इति
(ङ्टू १.१६)

किं च तत्रैवोपासनविधिकथनानन्तरम्

एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन् बहुधा यो विभाति  ।
तं पीठस्थं येऽनुभजन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम्  ॥ १.१६३ ॥
(ङ्टू)

नित्यो नित्यानां चेतनश्चेतनानाम्
एको बहूनां यो विदधाति कामान्  ।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम्  ॥ १.१६४ ॥

एतद्विष्णोः परमं पदं ये
नित्यमुक्ताः संयजन्ते न कामान्  ।
तेषामसौ गोपरूपः प्रयत्नात्
प्रकाशयेदात्मपदं तदैव  ॥ १.१६५ ॥

यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गोपायति स्म कृष्णः  ।
तं ह दैवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमनुव्रजेत  ॥ १.१६६ ॥

ओंकारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम्  ।
तेषामसौ दर्शयेदात्मरूपं
तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्त्यै  ॥ १.१६७ ॥

तस्मादन्ये पञ्चपदादभूवन्
गोविन्दस्य मनवो मानवानाम्  ।
दशार्णाद्यास्तेऽपि सङ्क्रन्दनाद्यैर्
अभ्यस्यन्ते भूतिकामैर्यथावत् ॥ १.१६८ ॥

किं च तत्रैव
तदु होवाच ब्राह्मणोऽसावनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत । गोपवेशो मे पुरुषः पुरस्तादाविर्बभूव । ततः प्रणतेन मयाऽनुकूलेन हृदा मह्यमष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः । पुनः सिसृक्षा मे प्रादुरभूत् । तेष्वक्षरेषु भविष्यज्जगद्रूपं प्रकाशयत् । तदिह कादापो । लात्पृथिवी । ईतोऽग्निः । बिन्दोरिन्दुः । तन्नादादर्क इति क्लींकारादसृजम् । कृष्णादाकाशं यद्वायुरित्युत्तरात्सुरभिं विद्यां प्रादुरकार्षम् । तद्उत्तरात्तद्उत्तरात्स्त्रीपुमादि चेदं सकलमिदमिति  ॥ १.१६९ ॥

तथा च गौतमीयतन्त्रे
क्लींकारादसृजद्विश्वमिति प्राह श्रुतेः शिरः  ।
लकारात्पृथिवी जाता ककाराज्जलसम्भवः  ॥ १.१७० ॥
ईकाराद्वह्निरुत्पन्नो नादादायुरजायत  ।
बिन्दोराकाशसम्भूतिरिति भूतात्मको मनुः ॥
स्वाशब्देन च क्षेत्रज्ञो हेति चित्प्रकृतिः परा  ।
तयोरैक्यसमुद्भूतिर्मुखवेष्टनवर्णकः ॥
अतएव हि विश्वस्य लयः स्वाहार्णके भवेत् ॥ १.१७१ ॥

पुनश्च सा श्रुतिः
एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयित्वा ओंकारान्तरालकं मनुमावर्तयत्सङ्गरहितोऽभ्यानयत् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तस्मादेनं नित्यमभ्यसेत् ॥ १.१७२ ॥
इत्यादि

तत्रैवाग्रे
यस्य पूर्वपदाद्भूमिर्द्वितीयात्सलिलोद्भवः  ।
तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः  ॥ १.१७३ ॥
पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् ।
चन्द्रध्वजोऽगमद्विष्णुः परमं पदमव्ययम्  ॥ १.१७४ ॥

ततो विशुद्धं विमलं
विशोकमशेषलोभादिनिरस्तसङ्गम्  ।
यत्तत्पदं पञ्चपदं तदेव
स वासुदेवो न यतोऽन्यदस्ति  ॥ १.१७५ ॥

तमेकं गोविन्दं सच्चिद्आनन्दविग्रहं पञ्चपदं वृन्दावनसुरभूरुहतलासीनं सततं समरुद्गणोऽहं परमया स्तुत्या तोषयामि  ॥ १.१७६ ॥
इति

किं च स्तुत्य्अनन्तरम्
अमुं पञ्चपदं मन्त्रमावर्तयेद्यः स यात्यनायासतः केवलं तत्पदं तत् । अनेजदेकं मनसो जवीयो नैतद्देवा आप्नुवन् पूर्वमर्शात् ॥ १.१७७ ॥

तस्मात्कृष्ण एव परो देवस्तं ध्यायेत्तं रसेत्तं यजेदिति ओं तत्सदिति  ॥ १.१७८ ॥

त्रैलोक्यसंमोहनतन्त्रे च, देवीं प्रति श्रीमहादेवोक्ताष्टादशाक्षरप्रसङ्ग एव
धर्मार्थकाममोक्षाणामीश्वरो जगद्ईश्वरः  ।
सन्ति तस्य महाभागा अवताराः सहस्रशः  ॥ १.१७९ ॥
तेषां मध्येऽवताराणां बालत्वमतिदुर्लभम्  ।
अमानुषाणि कर्माणि तानि तानि कृतानि च  ॥ १.१८० ॥
शापानुग्रहकर्तृत्वे येन सर्वं प्रतिष्ठितम्  ।
तस्य मत्न्रं प्रवक्ष्यामि साङ्गोपाङ्गमनुत्तमम्  ॥ १.१८१ ॥
यस्य विज्ञानमात्रेण नरः सर्वज्ञतामियात् ।
पुत्रार्थी पुत्रमाप्नोति धर्मार्थी लभते धनम्  ॥ १.१८२ ॥
सर्वशास्त्रार्थपारज्ञो भवत्येव न संशयः  ।
त्रैलोक्यं च वशीकुर्यात्व्याकुलीकुरुते जगत् ॥ १.१८३ ॥
मोहयेत्सकलं सोऽपि मारयेत्सकलान् रिपून्  ।
बहुना किमिहोक्तेन मुमुक्षुर्मोक्षमाप्नुयात् ॥ १.१८४ ॥
यथा चिन्तामणिः श्रेष्ठो यथा गौश्च यथा सती  ।
यथा द्विजो यथा गङ्गा तथासौ मन्त्र उत्तमः  ॥ १.१८५ ॥
यथावदखिलश्रेष्ठं यथा शास्त्रं तु वैष्णवम्  ।
यथा सुसंस्कृता वाणी तथासौ मन्त्र उत्तमः  ॥ १.१८६ ॥

किं च
अतो मया सुरेशानि प्रत्यहं जप्यते मनुः  ।
नैतेन सदृशः कश्चिद्जगत्यस्मिन् चरचरे  ॥ १.१८७ ॥

सनत्कुमारकल्पेऽपि
गोपालविषया मन्त्रास्त्रयस्त्रिंशत्प्रभेदतः  ।
तेषु सर्वेषु मन्त्रेषु मन्त्रराजमिमं शृणु  ॥ १.१८८ ॥
सुप्रसन्नमिमं मन्त्रं तन्त्रे सम्मोहनाह्वये  ।
गोपनीयस्त्वया मन्त्रो यत्नेन मुनिपुङ्गव  ॥ १.१८९ ॥
अनेन मन्त्रराजेन महेन्द्रत्वं पुरन्दरः  ।
जगाम देवदेवेशो विष्णुना दत्तमञ्जसा  ॥ १.१९० ॥
दुर्वाससः पुरा शापादसौभाग्येन पीडितः  ।
स एव सुभगवत्वं वै तेनैव पुनराप्तवान्  ॥ १.१९१ ॥
बहुना किमिहोक्तेन पुरश्चरणसाधनैः  ।
विनापि जपमात्रेण लभते सर्वमीप्सितम्  ॥ १.१९२ ॥

प्रभुं श्रीकृष्णचैतन्यं तं नतोऽस्मि  गुरूत्तमम्  ।
कथञ्चिदाश्रयाद्यस्य प्राकृतोऽप्युत्तमो भवेत् ॥ १.१९३ ॥

अथाधिकारनिर्णयः

तान्त्रिकेषु च मन्त्रेषु दीक्षायां योषितामपि  ।
साध्वीनामधिकारोऽस्ति शूद्रादीनां च सद्धियाम्  ॥ १.१९४ ॥
तथा च स्मृत्य्अर्थसारे पाद्मे च वैशाखमाहात्म्ये [ড়द्मড়् ६.८४.४८, ५२४] श्रीनारदाम्बरीषसंवादे

आगमोक्तेन मार्गेण स्त्रीशूद्रैरपि पूजनम्  ।
कर्तव्यं श्रद्धया विष्णोश्चिन्तयित्वा पतिं हृदि  ॥ १.१९५ ॥
शूद्राणां चैव भवति नाम्ना वै देवतार्चनम्  ।
सर्वेऽप्यागममार्गेण कुर्युर्वेदानुकारिणा  ॥ १.१९६ ॥
स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु  ।
पतिप्रियरतानां च श्रुतिरेषा सनातनी  ॥ १.१९७ ॥

अगस्त्यसंहितायां श्रीराममन्त्रराजमुद्दिश्य
शुचिव्रततमाः शूद्रा धार्मिका द्विजसेवकाः  ।
स्त्रियः पतिव्रताश्चान्ये प्रतिलोमानुलोमजाः
लोकाश्चाण्डालपर्यन्ताः सर्वेऽप्यत्राधिकारिणः  ॥ १.१९८ ॥
इति

गुरुश्च सिद्धसाध्यादिमन्त्रदाने विचारयेत् ।
स्वकुलान्यकुलत्वं च बालप्रौढत्वमेव च  ॥ १.१९९ ॥
स्त्रीपुंनपुंसकत्वं च राशिनक्षत्रमेलनम्  ।
सुप्तप्रबोधकालं च  तथा ऋणधनादिकम्  ॥ १.२०० ॥

अथ सिद्धसाध्यादिशोधनम्

सरदातिलके
प्राक्प्रत्यगग्रा रेखाः स्युः पञ्च याम्योत्तराग्रगाः  ।
तावत्यश्च चतुष्कोष्ठचतुष्कं मण्डलं भवेत् ॥ १.२०१ ॥
इन्द्व्अग्निरुद्रनवनेत्रयुगेन दिक्षु
ऋत्व्अष्टषडशचतुर्दशभौतिकेषु  ।
पातालपञ्चदशवह्निहिमांशुकोष्ठे
वर्णांल्लिखेल्लिपिभवान् क्रमशस्तु धीमान्  ॥ १.२०२ ॥
जन्मर्क्षाक्षरतौ यावन्मन्त्रादिमाक्षरम्  ।
चतुर्भिः कोष्ठकैस्त्वेकमिति कोष्ठचतुष्टये  ॥ १.२०३ ॥
पुनः कोष्ठककोष्ठेषु सव्यतो जन्मभाक्षरात् ।
सिद्धसाध्यसुसिद्धारिक्रमाज्ज्ञेया विचक्ष्णैः  ॥ १.२०४ ॥
सिद्धः सिध्यति कालेन साध्यस्तु जपहोमतः  ।
सुसिद्धो ग्रहमात्रेण अरिर्मूलनिकृन्तनः  ॥ १.२०५ ॥
सिद्धसिद्धो यथोक्तेन द्विगुणात्सिद्धसाधकः  ।
सिद्धसुसिद्धोऽर्धजपात्सिद्धारिर्हन्ति बान्धवान्  ॥ १.२०६ ॥
साध्यसिद्धो द्विगुणिकः साध्यसाध्यो ह्यनर्थकः  ।
तत्सुसिद्धस्त्रिगुणितात्साध्यारिर्हन्ति गोत्रजान्  ॥ १.२०७ ॥
सुसिद्धसिद्धोर्धजपात्तत्साध्यस्तु गुणाधिकात् ।
तत्सुसिद्धो ग्रहादेव सुसिद्धारिः स्वगोत्रहा  ॥ १.२०८ ॥
अरिसिद्धः सुतान् हन्यादरिसाध्यस्तु कन्यकाः  ।
तत्सुसिद्धस्तु पत्नीघ्नस्तद्अरिर्हन्ति साधकम्  ॥ १.२०९ ॥

तथा च तन्त्रे, अस्य च मन्त्रविशेषेऽपवादः
नृसिंहार्कवराहाणां प्रासादप्रणवस्य च  ।
वैदिकस्य च मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥ १.२१० ॥
स्वप्नलब्धे स्त्रिया दत्ते मालामन्त्रे च त्र्य्अक्षरे  ।
एकाक्षरे तथा मन्त्रे सिद्धादीन्नैव शोधयेत् ॥ १.२११ ॥

स्वकुलान्यकुलत्वादि विज्ञेयं चागमान्तरात् ।
न विस्तरभयादत्र व्यर्थत्वादपि लिख्यते  ॥ १.२१२ ॥
श्रीमद्गोपालदेवस्य सर्वैश्वर्यप्रदर्शिनः  ।
तादृक्शक्तिषु मन्त्रेषु नहि किञ्चिद्विचार्यते  ॥ १.२१३ ॥

तथा च क्रमदीपिकायाम् [१.४]
सर्वेषु वर्णेषु तथाश्रमेषु
नारीषु नानाह्वयजन्मभेषु
दाता फलानामभिवाञ्छितानां
द्रागेव गोपालकमन्त्र एषः  ॥ १.२१४ ॥

त्रैलोक्यसंमोहनतन्त्रे च, अष्टादशाक्षरमन्त्रमधिकृत्य श्रीशिवेनोक्तम्
न चात्र शात्रवा दोषा नर्णस्वादिविचारणा  ।
ऋक्षराशिविचारो वा न कर्तव्यो मनौ प्रिये  ॥ १.२१५ ॥
केचिच्छिन्नाश्च रुद्धाश्च केचिन्मदसमुद्धताः  ।
मलिनाः स्तम्भिताः केचित्कीलिता दूषिता अपि  ।
एतैर्दोषैर्युतो नायं यतस्त्रिभुनोत्तमः  ॥ १.२१६ ॥
इति
सामान्यतश्च यथा बृहद्गौतमीये
अथ कृष्णमनून् वक्ष्ये दृष्टादृष्टफलप्रदान्  ।
यान् वै विज्ञाय मुनयो लेभिरे मुक्तिमञ्जसा  ॥ १.२१७ ॥
गृहस्था वनगाश्चैव यतयो ब्रह्मचारिणः  ।
स्त्रियः शूद्रादयश्चैव सर्वे यत्राधिकारिणः  ॥ १.२१८ ॥
नात्र चिन्त्योऽरिशुद्ध्यादिर्नारिमित्रादिलक्षणम्  ।
न वा प्रयासबाहुल्यं साधने न परिश्रमः  ॥ १.२१९ ॥
अज्ञानतूलराशेश्च अनलः क्षणमात्रतः  ।
सिद्धसाध्यसुसिद्धारिरूपा नात्र विचारणा  ॥ १.२२० ॥
सर्वेषां सिद्धमन्त्राणां यतो ब्रह्माक्षरो मनुः  ।
प्रजापतिरवापाग्र्यं देवराज्यं शचीपतिः  ।
अवापुस्त्रिदशाः स्वर्गं वागीशत्वं बृहस्पतिः  ॥ १.२२१ ॥
इत्यादि

तत्रैवान्तरे
विष्णुभक्त्या विशेषेण किं न सिध्यति भूतले  ।
कीटादिब्रह्मपर्यन्तं गोविन्दानुग्रहान्मुने  ॥ १.२२२ ॥
सर्वसम्पत्तिनिलयाः सर्वत्राप्यकुतोभयाः  ।
इत्यादि कथितं किञ्चिन्माहात्म्यं वो मुनीश्वराः  ॥ १.२२३ ॥
आकाशे तारका यद्वत्सिन्धोः सैकतसृष्टिवत् ।
एतद्विज्ञानमात्रेण लभेन्मुक्तिं चतुर्विधाम्  ॥ १.२२४ ॥
एतद्अन्येषु मन्त्रेषु दोषाः सन्ति परे च ये  ।
तद्अर्थं मन्त्रसंस्कारा लिप्यन्ते तन्त्रतो दश  ॥ १.२२५ ॥

सरदातिलके
जननं जीवनं चेति ताडनं रोधनं तथा  ।
अथाभिषेको विमलीकरणाप्यायने पुनः  ।
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः  ॥ १.२२६ ॥
मन्त्राणां मातृकामध्यादुद्धारो जननं स्मृतम्  ।
प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत्सुधीः  ॥ १.२२७ ॥
एतज्जीवनमित्याहुर्मन्त्रतन्त्रविशारदाः  ।
मनोर्वर्णान् समालिख्य ताडयेच्चन्दनाम्भसा  ॥ १.२२८ ॥
प्रत्येकं वायुना मन्त्री ताडनं तदुदाहृतम्  ।
विलिख्य मन्त्रं तं मन्त्री प्रसूनैः करवीरजैः  ॥ १.२२९ ॥
तन्मन्त्राक्षरसङ्ख्यातैर्हन्याद्यत्तेन रोधनम्  ।
स्वतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसङ्ख्यया  ॥ १.२३० ॥
अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद्विशुद्धये  ।
संचिन्त्य मनसा मन्त्रं योतिर्मन्त्रेण निर्दहेत् ॥ १.२३१ ॥
मन्त्रे मूलत्रयं मन्त्री विमलीकरणं त्विदम्  ।
तारव्योमाग्निमनुयुगदण्डी ज्योतिर्मनुर्मतः  ।
कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः  ॥ १.२३२ ॥
तेन मन्त्रेण विधिवदेतदाप्यायनं स्मृतम्  ।
मन्त्रेण वारिणा यन्त्रे तर्पणं तर्पणं स्मृतम्  ॥ १.२३३ ॥
तारमायारमायोगो मनोर्दीपनमुच्यते  ।
जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम्  ॥ १.२३४ ॥

बलित्वात्कृष्णमन्त्राणां संस्कारापेक्षणं नहि  ।
सामान्योद्देशमात्रेण तथाप्येतदुदीरितम्  ॥ १.२३५ ॥

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे
गौरवो नाम प्रथमो विलासः


*************************************************************************

 

 

२. दैक्षिकविलास


द्वितीयो विलासः
दैक्षिकः

तं श्रीमत्कृष्णचैतन्यं  वन्दे जगद्गुरुम् ।
यस्यानुकम्पया श्वापि महाब्धिं सन्तरेत्सुखम्  ॥ २.१ ॥
अथ दीक्षाविधिः

दीक्षाविधिर्लिख्यतेऽत्रानुसृत्य क्रमदीपिकाम् ।
विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥ २.२ ॥

आगमे
द्विजानामनुपेतानां स्वकर्माध्ययनादिषु ।
यथाधिकारो नास्तीह स्याच्चोपनयनादनु  ॥ २.३ ॥
तथात्रादीक्षितानां तु मन्त्रदेवार्चनादिषु ।
नाधिकारोऽस्त्यतः कुर्यादात्मानं शिवसंस्तुतम्  ॥ २.४ ॥

स्कान्दे कार्त्तिकप्रसङ्गे श्रीब्रह्मनारदसंवादे
ते नराः पशवो लोके किं तेषां जीवने फलम् ।
यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः  ॥ २.५ ॥

तत्रैव श्रीरुक्माङ्गदमोहिनीसंवादे, विष्णुयामले च
अदिक्षितस्य वामोरु कृतं सर्वं निरर्थकम् ।
पशुयोनिमवाप्नोति दीक्षाविरहितो जनः  ॥ २.६ ॥

विशेषतो विष्णुयामले
स्नेहाद्वा लोभतो वापि यो गृह्णीयाददीक्षया ।
तस्मिन् गुरौ सशिष्ये तु देवताशाप आपतेत् ॥ २.७  ॥

विष्णुरहस्ये च
अविज्ञाय विधानोक्तं हरिपूजाविधिक्रियाम् ।
कुर्वन् भक्त्या समाप्नोति शतभागं विधानतः  ॥ २.८ ॥
दिव्यं ज्ञानं यतो दद्यात्कुर्यात्पापस्य सङ्क्षयम् ।
तस्माद्दीक्षेति सा प्रोक्ता देशिकैस्तत्त्वकोविदैः  ॥ २.९ ॥
अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च ।
गृह्णीयाद्वैष्णवं मन्त्रं दीक्षापूर्वं विधानतः  ॥ २.१० ॥

स्कान्दे तत्रैव श्रीब्रह्मनारदसंवादे
तपस्विनः कर्मनिष्ठाः श्रेष्ठास्ते वै नरा भुवि ।
प्राप्ता यैस्तु हरेर्दीक्षा सर्वदुःखविमोचिनी  ॥ २.११  ॥

तन्त्रसागरे च
यथा काञ्चनतां याति कांस्यं रसविधानतः ।
तथा दीक्षाविधानेन द्विजत्वं जायते नृणाम्  ॥ २.१२ ॥

अथ दीक्षाकालः  तत्र मासशुद्धिः

आगमे
मन्त्रस्वीकरणं चैत्रे बहुदुःहफलप्रदम् ।
वैशाखे रत्नलाभः स्याज्ज्यैष्ठे तु मरणं ध्रुवम्  ॥ २.१३  ॥
आषाढे बन्धुनाशाय श्रावणे तु भयावहम् ।
प्रजाहानिर्भाद्रपदे सर्वत्र शुभमाश्विने  ॥ २.१४  ॥
कार्त्तिके धनवृद्धिः स्यान्मार्गशीर्षे शुभप्रदम् ।
पौषे तु ज्ञानहानिः स्यान्माघे मेधाविवर्धनम् ।
फाल्गुने सर्ववश्यत्वमाचार्यैः परिकीर्तितम्  ॥ २.१५  ॥

क्वचिच्च
समृद्धिः श्रावणे नूनं ज्ञानं स्यात्कार्त्तिके तथा ।
फाल्गुनेऽपि समृद्धिः स्यान्मलमासं परित्यजेत् ॥ २.१६  ॥

गौतमीये
मन्त्रारम्भस्तु चैत्रे स्यात्समस्तपुरुषार्थदः ।
वैशाखे रत्नलाभः स्यात्ज्यैष्ठे तु मरणं ध्रुवम्  ॥ २.१७ ॥
आषाढे बन्धुनाशः स्यात्पूर्णायुः श्रावणे भवेत् ।
प्रजानाशो भवेद्भाद्रे आश्विने रत्नसञ्चयः  ॥ २.१८ ॥
कार्त्तिके मन्त्रसिद्धिः स्यात्मार्गशीर्षे तथा भवेत् ।
पौषे तु शत्रुपीडा स्यात्माघे मेधाविवर्धनम् ।
फाल्गुने सर्वकामाः स्युर्मलमासं परित्यजेत् ॥ २.१९ ॥

स्कान्दे तत्रैव श्रीरुक्माङ्गदमोहिनीसंवादे
कार्त्तिके तु कृता दीक्षा नॄणां जन्मनिकृन्तनी ।
तस्मात्सर्वप्रयत्नेन दीक्षां कुर्वीत कार्त्तिके  ॥ २.२० ॥
श्रीमद्गोपालमन्त्राणां दीक्षायां तु न दुष्यति ।
चैत्रमासे यदुक्ता तद्दीक्षा तत्रैव देशिकैः  ॥ २.२१ ॥

अथ बारशुद्धिः

रवौ गुरौ तथा सोमे कर्तव्यं बुधशुक्रयोः  ॥ २.२२ ॥

अथ नक्षत्रशुद्धिः

नारदतन्त्रे
रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरात्रयः ।
पुष्यं शतभिषश्चैव दीक्षानक्षत्रमुच्यते  ॥ २.२३ ॥

क्वचिच्च
अश्विनीरोहिणीस्वातिविशाखाहस्तभेषु च ।
ज्येष्ठोत्तरात्रयेष्वेव कुर्यान्मन्त्राभिषेचनम्  ॥ २.२४ ॥

अथ तिथिशुद्धिः

सारसङ्ग्रहे
द्वितीया पञ्चमी चैव षष्ठी चैव विशेषतः ।
द्वादश्यामपि कर्तव्यं त्रयोदश्यामथापि च  ॥ २.२५ ॥

क्वचिच्च
पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा ।
त्रयोदशी च दशमी प्रशस्ता सर्वकामदा  ॥ २.२६ ॥
। इति ।

एवं शुद्धे दिने शुक्लपक्षे शुक्रगुरूदये ।
सल्लग्ने चन्द्रतारानुकूले दीक्षा प्रशस्यते  ॥ २.२७ ॥
अथात्रापवादः (विशेषविधिः)

रुद्रयामले
सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः ।
मन्त्रदीक्षां प्रकुर्वीत मासर्क्षादि न शोधयेत् ॥ २.२८ ॥
सुलग्नचन्द्रतारादिबलमत्र सदैव हि ।
लब्धोऽत्र मन्तोर्दीर्घायुःसम्पत्सन्ततिवर्धनः  ॥ २.२९ ॥
सूर्यग्रहणकालेन समानो नास्ति कश्चन ।
यत्र यद्यत्कृतं सर्वमनन्तफलदं भवेत् ।
न मासतिथिवारादिशोधनं सूर्यपर्वणि  ॥ २.३० ॥

तत्त्वसागरे च
दुर्लभे सद्गुरूणां च सकृत्सङ्ग उपस्थिते ।
तद्अनुज्ञा यदा लब्धा स दीक्षावसरो महान्  ॥ २.३१ ॥
ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि ।
आगच्छति गुरुर्दैवाद्यदा दीक्षा तदाज्ञया  ॥ २.३२ ॥
यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः ।
न तीर्थं न व्रतं होमो न स्नानं न जपक्रिया ।
दीक्षायाः करणं किन्तु स्वेच्छाप्राप्ते तु सद्गुरौ  ॥ २.३३ ॥

अथ मण्डपनिर्माणविधिः

क्रियावत्यादिभेदेन भवेद्दीक्षा चतुर्विधा ।
तत्र क्रियावती दीक्षा सङ्क्षेपेणैव लिख्यते  ॥ २.३४ ॥
भूमिं संस्कृत्य तस्याङ्चार्चयित्वा वास्तुदेवताः ।
सप्तहस्तमितं कुर्यान्मण्डपं रम्यवेदिकम्  ॥ २.३५ ॥
अष्टध्वजं चतुर्धारं क्षीरपादपतोरणम् । त्रिगुणीकृतसूत्राढ्यं कुशमालाभिवेष्टितम्  ॥ २.३६ ॥

अथ कुण्डनिर्माणविधिः

तस्मिंश्च दिशि कौवेर्यां चतुष्कोणं त्रिमेखलम् ।
कुण्डे कुर्याच्चतुर्विंशत्य्अङ्गुलिप्रमितं बुधह् ॥ २.३७ ॥
खातं त्रिमेखलोच्छ्रायसहितं तावदाचरेत् ।
तस्मात्खाताद्बहिः कुर्यात्कण्ठमेकाङ्गुलं ध्रुवम्  ॥ २.३८ ॥
तत्राद्य्मेखलोच्छ्रायविस्तारौ चतुर्अङ्गुलौ ।
त्र्य्अङ्गुलौ तौ द्वितीयायास्तृतीयाया युगाङ्गुलौ  ॥ २.३९ ॥
योनिं च पश्चिमे भागे मेखलात्रितयोपरि ।
षड्अङ्गुलां च विस्तारे दैर्घ्ये च द्वादशाङ्गुलाम्  ॥ २.४० ॥
एकाङ्गुलां तथोच्छ्राये मध्ये छिद्रसमन्विताम् ।
गदाधराकृतिं कुर्याद्विधिवन्मेखलान्विताम्  ॥ २.४१ ॥
शतार्धहोमे कुण्डं स्यादूर्ध्वमुष्टिकरोन्मितम्  ॥ २.४२ ॥
शतहोमेऽरत्निमात्रं सहस्रे पाणिना मितम् ।
लक्षे चतुर्भिर्हस्तैश्च कोटौ तैरष्टभिर्मितम् ।
चतुरस्रं कुण्डखातं कुर्वीताधश्च तादृशम्  ॥ २.४३ ॥
होमस्त्वधिकसङ्खाकः कुण्डे वै न्यूनसङ्ख्यया ।
कृते कार्यो न चन्यूनसङ्ख्याकः सङ्खयाधिके  ॥ २.४४ ॥
यथाविध्येव कर्तव्यं कुण्डं यत्नेन धीमता ।
अन्यथा बहवो दोषा भवेयुर्बहुदुःखदाः  ॥ २.४५ ॥

तदुक्तं तान्त्रिकैः
एवं लक्षणसंयुक्तं कुण्डमिष्टफलप्रदम् ।
अनेकदोषदं कुण्डं यत्र न्यूनाधिकां भवेत् ॥ २.४६ ॥
तस्मात्सम्यक्परीक्ष्यैव कर्तव्यं शुभमिच्छता ।
हस्तमात्रं स्थण्डिलं वा संक्षिप्ते होमकर्मणि  ॥ २.४७ ॥

हारीतेनापि
विस्ताराधिक्यहीनत्वे अल्पायुर्जायते ध्रुवम् ।
खाताधिक्ये भवेद्योगी हीने तु धनसंक्षयः ।
कुण्डे वक्रे च सन्तापो मरणं छिन्नमेखले  ॥ २.४८ ॥
शोकस्तु मेखलोनत्वे तदाधिक्ये पशुक्षयः ।
भार्यानाशो योनिहीने कण्ठहीने शुभक्षयः  ॥ २.४९ ॥

अङ्गुलिपरिमाणं चोक्तम्
तिर्यग्यवोदराण्यष्टावूर्ध्वा वा ब्रीहयस्त्रयः ।
ज्ञेयमङ्गुलिमानं तु मध्यमा मध्यपर्वणा  ॥ २.५० ॥
। इति ।

विशेषोऽपेक्षितोऽन्यत्र स्रक्स्रुवप्रक्रियादिकः ।
ज्ञेयो ग्रन्थान्तरात्सोऽत्राधिक्यभीत्या न लिख्यते  ॥ २.५१ ॥

अथ दीक्षामण्डलविधिः

अथोक्षिते पञ्चगव्यैर्गन्धाम्भोभिश्च मण्डपे ।
यथाविधि लिखेद्दीक्षामण्डलं वेदिकोपरि  ॥ २.५२ ॥
तन्मध्ये चाष्टपत्राब्जं बहिर्वृत्तत्रयं ततः ।
ततो राशींस्ततः पीठं चतुष्पादसमन्वितम्  ॥ २.५३ ॥
तस्माद्बहिश्चतुर्दिक्षु लिखेद्वीथीचतुष्टयम् ।
शोभापशोभाकोणाढ्यं ततो द्वारचतुष्टयम्  ॥ २.५४ ॥

अथ दीक्षाङ्गपूजा

प्रातःकृत्यं गुरुः कृत्वा यथास्थानं न्यसेत्ततः ।
शङ्खं पूजोपचारांश्च पुरोलेख्यप्रकारतः  ॥ २.५५ ॥

तत्रादौ कुम्भस्थापनविधिः

गुरून् गणेशं चाभ्यर्च्य पीठपूजां विधाय च ।
पद्ममध्ये न्यसेत्शालींस्तण्डुलांश्च कुशांस्तथा  ॥ २.५६ ॥
वह्नेर्दशकला यादिवर्णाद्याश्च कुशोपरि ।
न्यस्याभ्यर्च्य जपंस्तारं न्यसेत्कुम्भं यथोदितम्  ॥ २.५७ ॥

ताश्चोक्ताः
धूम्रार्चिरुष्मा ज्वलनी ज्वालिनी विस्फुलिङिनी ।
सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि  ॥ २.५८ ॥
। इति ।

काद्यष्ठान्तैर्युता भाद्यैर्डान्तैश्चार्णैर्विलोमगैः ।
सूर्यस्य च कलाः कुम्भे द्वादश न्यस्य पूजयेत् ॥ २.५९ ॥

अधुना तस्मिन् कुण्डे सूर्यकलानां न्यासादिकं लिखतिकाद्यैरिति । ककाराद्यैष्ठकारान्तैरर्णैर्वर्णैर्युता द्वादशापि कलाः । चकारः समुच्चये । भकाराद्यैर्डकारान्तैर्वर्णैरपि युताः । ननु, भकारादीनां द्वादशवर्णानां डकारान्तता कथं स्यात्? क्रमेण क्षकारान्तताप्राप्तेस्तत्राहविलोमगैः व्युत्क्रमप्राप्तैः । अयमर्थःअनुलोमपठितककाराद्यैकैकमक्षरं प्रतिलोमपठितभकाराद्य्एकैकाक्षरेण सहितमादौ सूर्यकलासु संयोज्य न्यासादिकं कुर्यादिति । प्रयोगश्च कं भं तपन्यै नम इत्यादि  ॥ २.५९ ॥

ताश्चोक्ताः
तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः ।
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा  ॥ २.६० ॥
। इति ।

कुब्म्हान्तर्निक्षिपेन्मूलमन्त्रेण कुसुमं सितम् ।
साक्षतं ससितं स्वर्णं सरत्नं च कुशांस्तथा  ॥ २.६१ ॥

ततश्चोक्तप्रकारेणाधाररूपमग्निं कुम्भरूपं सूर्यं च विचिन्त्य कुम्भस्य तस्य अन्तर्मध्ये शुक्लकुसुमादिकं क्षिपेत् । ससितं सशर्करम् । तदुक्तम्
प्रोत्तोलयित्वा तन्मध्ये शुक्लपुष्पं सितायुतम् ।
स्वर्णं रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥
। इति ।
यच्च मूलग्रन्थार्थादधिकं किंचिल्लिखते, तत्पूर्वगतस्य यथोदितमित्यस्यानुवर्तनादिति ज्ञेयम्  ॥ २.६१ ॥

कुम्भं च विधिना तीर्थाम्बुना शुद्धेन पूरयेत् ।
जले चेन्दुकुला न्यस्य सस्वराः षोडशार्चयेत् ॥ २.६२ ॥

ताश्चोक्ताः
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
पूर्णा पूर्णामृता च  ॥ २.६३ ॥
। इति ।

शुद्धाम्बुपूरिते शङ्खे क्षिप्त्वा गन्धाष्टकं कलाः ।
आवाह्य सर्वास्ताः प्राणप्रतिष्ठामाचरेत्क्रमात् ॥ २.६४ ॥

गन्धाष्टकं चोक्तम्
उशीरं कुङ्कुमं कुष्ठं बालकं चागुरुर्मुरा ।
जटामांसी चन्दनं चेतीष्टं गन्धाष्टकं हरेः  ॥ २.६५ ॥
। इति ।

कैश्चिच्चन्दनकर्पूरागुरुकुङ्कुमरोचनाः ।
कक्कोलकपिमांस्यश्च गन्धाष्टकमिदं मतम्  ॥ २.६६ ॥
तथैवाकारजा वर्णैः कादिभिर्दशभिर्दश ।
उकारजाष्टकाराद्यैः पकाराद्यैर्मकारजाः  ॥ २.६७ ॥
चतस्रो बिन्दुजाः षाद्यैश्चतुर्भिर्नादजाः कलाः ।
स्वरैः षोडशभिर्युक्ता न्यसेच्छङ्खे च षोडश  ॥ २.६८ ॥

ताश्चोक्ताः
सृष्टिरृद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृइत्ः स्थिरा ।
स्थितिः सिद्धिरकारोत्थाः कला दश समीरितः  ॥ २.६९ ॥
जरा च पालिनी शान्तिरैश्वरी रतिकामिके ।
वरदा ह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः  ॥ २.७० ॥
तीक्ष्णा रौद्रा भया निद्रा तन्तीर्क्षुत्क्रोधनी क्रिया ।
उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः  ॥ २.७१ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
इन्धिका दीपिका चैव रेचिका मोचिका परा  ॥ २.७२ ॥
सूक्ष्मा  सूक्ष्मामृता ज्ञानाज्ञाना चाप्यायनी तथा ।
व्यापिनी व्योमरूपा च अनन्ता नादसम्भवाः  ॥ २.७३ ॥
। इति ।
न्यासं कलानां सर्वासां कुर्यादेकैकशः क्रमात् ।
नामोच्चार्य चतुर्थान्तं तत्तद्वर्णैर्नमोऽन्तकम्  ॥ २.७४ ॥
पूर्वं प्राणप्रतिष्ठायास्तासामावाहनात्परम् ।
ऋचः पञ्च यथास्थानं पठेत्ताश्चार्चयेत्कलाः  ॥ २.७५ ॥
हंशः शुचिषदित्यादौ प्रतद्विष्णुस्ततः परम् ।
त्र्यम्बकं तत्सवितुर्विष्णुर्योनिमिति क्रमात् ॥ २.७६ ॥
तच्च शङ्खोदकं कुम्भे मूलमन्त्रेण निक्षिपेत् ।
पिदध्यात्तन्मुखं शक्रवल्लीचूतादिपल्लवैः  ॥ २.७७ ॥
शराVएनाथ पुष्पादियुक्तेनाच्छाद्य तत्पुनः ।
संवेष्ट्य वस्त्रयुग्मेन ततः कुम्भं च मण्डयेत् ॥ २.७८ ॥


अथ कुम्भे श्रीभगवत्पूजाविधिः

तस्मिन्नावाह्य कलसे परं तेजो यथाविधि ।
सकलीकृत्य चाचार्यः पूजयेदासनादिभिः  ॥ २.७९ ॥

सकलीकरणं चोक्तम्
देवताङ्गे षड्अङ्गानां न्यासः स्यात्सकलीकृतिः  ॥ २.८० ॥
केचिच्चाहुः करन्यासौ विनाखिलैः ।
न्यासैस्तत्तेजसः साङ्गीकरणं सकलीकृतः  ॥ २.८१ ॥
एवं च कुम्भे तं साङ्गोपाङ्गं सावरणं प्रभुम् ।
अग्रतो लेख्यविधिनार्चयेद्भोज्यार्पणावधि  ॥ २.८२ ॥
नैवेद्यार्पणतः पश्चान्मण्डलस्य च सर्वतः ।
सदीपान् पैष्टिकान्न्यस्येत्सबीजाङ्कुरभाजनात् ॥ २.८३ ॥

अथ दीक्षाहोमविधिः

ततो दीक्षाङ्गहोमार्थं कुण्डलस्य च सर्वतः ।
संमार्ज्य दर्भमार्जन्या यथाविध्युपलेपयेत् ॥ २.८४ ॥
विकीर्य सर्षपांस्तत्र गव्यैः सम्प्रोक्ष्य पञ्चभिः ।
मध्ये सम्पूजयेद्वास्तुपुरुषं दिक्षु तत्पतीन्  ॥ २.८५ ॥
शोषणादीनि कुण्डस्य कृत्वा प्रोक्ष्य कुशाम्बुभिः ।
उल्लिख्य चास्मिन् योन्य्आदिसहितं मण्डलं लिखेत् ॥ २.८६ ॥
श्रीबीजं मध्ययोनौ च विलिख्याभुक्ष्य पूजयेत् ।
निधाय तत्र पुष्पादिविष्टरं साधु कल्पयेत् ॥ २.८७ ॥
तत्र लक्ष्मीमृत्युस्नानां विष्णुं चावाह्य पूजयेत् ।
ताम्रादिपात्रेणानीयाग्रतोऽग्निं स्थापयेच्छुभ्रम्  ॥ २.८८ ॥
गन्धादिनाग्निमभ्यर्च्य विष्णोः सक्रीडतः श्रिया ।
रेतोरूपं विचिन्त्यामुं कुण्डं तारेण चार्चयेत् ॥ २.८९ ॥
वैश्वानरेति मन्त्रेणाच्छाच्याग्निं तं सद्इन्धनैः ।
चित्पिङ्गलेति प्रज्वाल्योपतिष्ठेदग्निमित्यमुम्  ॥ २.९० ॥
जिह्वा न्यस्येत्सप्त त्स्मिन्नप्यङ्गेष्वङ्गदेवताः ।
षट्सु षट्न्यस्य मूर्तीश्च न्यस्याष्टाभ्यर्चयेच्च ताः  ॥ २.९१ ॥

सप्तजिह्वाश्चोक्ताः
हिरण्या गगना रक्ता तथा कृष्णा च सुप्रभा ।
बहुरूपातिरूपा च सप्त जिह्वा वसोरिमाः  ॥ २.९२ ॥

अथाङ्गदेवताः

सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषस्तथा ।
धूमव्यापी सप्तजिह्वो धनुर्धर इति स्मृतः  ॥ २.९३ ॥

अष्टमूर्तयश्च

जातवेदाः सप्तजिह्वो हव्यवाहन एव च ।
अश्वोदरजसंज्ञश्च तथा वैश्वानरोऽपरः ।
कौमारतेजाश्च तथा विश्वदेवमुखाह्वयौ  ॥ २.९४ ॥
। इति ।

ततो वह्निं परिस्तीर्य संस्कृताज्यं यथाविधि ।
हुत्वा च व्याहृतीः पश्चात्त्रीन् वारान् जुहुयात्पुनः  ॥ २.९५ ॥
ततोऽस्य गर्भधानादीन् विव्हान्तान् यथाक्रमम् ।
संस्कारानाचरेदुक्तमन्त्रेणाष्टाहुतैस्तथा  ॥ २.९६ ॥
इत्थं हि संस्कृते वह्नौ पीठमभ्यर्च्य तत्र च ।
देवमावाह्य गन्धादिदीपान्तविधिनार्चयेत् ॥ २.९७ ॥
तं चाग्निं देवरसनां संकल्प्याष्टोत्तरं बुधः ।
सहस्रं जुहुयात्सर्पिःशर्करापायसैर्युतैः  ॥ २.९८ ॥
हुत्वाज्येनाथ महतीव्याहृतीर्विधिना कृती ।
ग्रहर्क्षकरणादिभ्यो बलिं दद्याद्यथोदितम्  ॥ २.९९ ॥

अथ होमद्रव्यादिपरिमाणम्

कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् ।
उक्तानि पञ्चगव्यानि तत्समानि मनीषिभिः  ॥ २.१०० ॥
तत्समं मधुदुग्धान्नमक्षमात्रमुदाहृतम् ।
दधि प्रसृतिमात्रं स्यात्लाजाः स्युः मुष्टिसंमिताः  ॥ २.१०१ ॥
। इत्यादि ।

अथ नत्वाम्बुपानार्थं प्रदायाचमनानि च ।
आत्मार्पणान्तमभ्यर्च्य लेख्येन विधिनाचरेत् ॥ २.१०२ ॥

अथ गुरुशिष्यनियमादिः

व्रतस्थं वाग्यतं शिष्यं प्रवेश्याथ यथाविधि ।
तद्देहे मातृकां साङ्गां न्यस्याथोपदिशेच्च ताम्  ॥ २.१०३ ॥
देवं सावरणं कुम्भगतं चानुस्मरन् गुरुः ।
जप्त्वाष्टोत्तरसाहस्रं शयीत प्राश्य किंचन  ॥ २.१०४ ॥
दर्भोपर्यजिने त्वैणे निविष्टो मातृकां स्मरन् ।
गुरुं च शिष्यो निद्राणं तां शयीत जपन् व्रती  ॥ २.१०५ ॥

इति पूर्वदिनकृत्यम् ।

अथ तद्दिनकृत्यानि

प्रातःकृत्यं गुरुः कृत्वा कुम्भं चाभ्यर्च्य पूर्ववत् ।
हुत्वा दत्त्वा बलिं कर्मान्यत्कुर्यात्स्वार्पणावधि  ॥ २.१०६ ॥
संहारमुद्रया कृष्णे संयोज्यावृत्तिदेवताः ।
तं चामृतमयं ध्यात्वा स्वस्मिंश्चाग्निं विलापयेत् ॥ २.१०७ ॥
ध्वजतोरणदिक्कुम्भमण्डपाद्य्अधिदेवताः ।
सर्वा विभाव्य चिद्रूपाः कुम्भे संयोज्य पूजयेत् ॥ २.१०८ ॥
अतो गुरुं गणेशं च विष्वक्सेनं च पूजयेत् ।
उद्वास्य कलसं स्पृष्ट्वा शतमष्टोत्तरं जपेत् ॥ २.१०९ ॥
कृतोपवासः शिष्योऽथत्प्रातःकृत्यं विधाय सः ।
शुक्लवस्त्रः सुवेशः सन् विप्रान् द्रव्येण तोषयेत् ॥ २.११० ॥
गुरुं च भगवद्दृष्ट्या परिक्रम्य प्रणम्य च ।
दत्त्वोक्तां दक्षिणां तस्मै स्वशरीरं समर्पयेत् ॥ २.१११ ॥

अथ दीक्षाङ्गपूजा

तथा च दशमस्कन्धे [भागवतम् १०.८०.४१]
इयदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् ।
यद्वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ  ॥ २.११२ ॥

अथाभिषेचनविधिः

यागालयादुत्तरस्यामाशायां स्नानमण्डपे ।
पीठे निवेश्य तं शिष्यं कारयेच्छोषणादिकम्  ॥ २.११३ ॥
पीठन्यासान्तमखिलं मातृकान्यासपूर्वकम् ।
न्यासं शिष्यतनौ कृत्वा पीठमन्त्रेण पूजयेत् ॥ २.११४ ॥
सद्ऊर्वाक्षतपुष्पां च मूर्ध्नि शिष्यस्य रोचनाम् ।
निधाय कलसं तस्यान्तिके वाद्यादिना नयेत् ॥ २.११५ ॥
श्रीकृष्णमथ सम्प्रार्थ्य गुरुः कुम्भस्य वाससा ।
नीराज्य शिष्यं तन्मूर्ध्नि न्यसेत्तत्पल्लवादिकम्  ॥ २.११६ ॥

तदुक्तम्
विधिवत्कुम्भमुद्धृत्य तन्मुखस्थान् सुरद्रुमान् ।
शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ॥ २.११७ ॥
ततः कुम्भाम्भसा शिष्यं प्रोक्ष्य त्रिर्मूलमन्त्रतः ।
विप्राशीर्मङ्गलोद्घोषैरभिषिञ्चेन्मनून् पठन्  ॥ २.११८ ॥

अथाभिषेकमन्त्राः

वशिष्ठसंहितायाम्
सुरास्त्वामभिषिञ्च्यं तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः  ॥ २.११९ ॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विभवाय ते ।
आखण्डलोऽग्निर्भगवान् यमो वै निरृतिस्तथा  ॥ २.१२० ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहिता ह्येते दिक्पालाः पान्तु वः सदा  ॥ २.१२१ ॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया गतिः ।
बुद्धिर्लज्जा वपुः शान्तिर्माया निद्रा च भावना  ॥ २.१२२ ॥
एतास्त्वामभिषिञ्चन्तु राहुः केतुश्च पूजिताः ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः  ॥ २.१२३ ॥
ऋषयो मुनयो गावो देवमातर एव च ।
देवपत्न्यो ध्रुवा नागा दैत्या अप्सरसां गणाः  ॥ २.१२४ ॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्च ये  ॥ २.१२५ ॥
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एते त्वामभिषिञ्चन्तु धर्मकामार्थसिद्धये  ॥ २.१२६ ॥


अथ मन्त्रकथनविधिः

परिधायांशुके शिष्य आचान्तो यागमण्डपे ।
गत्वा भक्त्या गुरुं नत्वा गुरोरासीत दक्षिणे  ॥ २.१२७ ॥
गुरुः समर्प्य गन्धादीन् पुरुषाहारसंमितम् ।
निवेद्य पायसं कृष्णे कुर्यात्पुष्पाञ्जलिं ततः  ॥ २.१२८ ॥
साम्प्रदायिकमुद्रादिभूषितं तं कृताञ्जलिम् ।
पञ्चाङ्गप्रमुखैर्न्यासैः कुर्यात्श्रीकृष्णसाच्छिशुम्  ॥ २.१२९ ॥
न्यस्य पाणितलं मूर्ध्नि तस्य कर्णे च दक्षिणे ।
ऋष्य्आदियुक्तं विधवन्मन्त्रं वारत्रयं वदेत् ॥ २.१३० ॥
दीर्घमन्त्रं च शिष्यस्य यावदाग्रहणं पठेत् ।
गुरुदैवतमन्त्रैक्यं शिष्यस्तं भावयन् पठेत् ॥ २.१३१ ॥
साक्षतं गुरुरादाय वारि शिष्यस्य दक्षिणे ।
करेऽर्पयेद्वदन्मन्त्रोऽयं समोऽस्त्वावयोरिति  ॥ २.१३२ ॥
स्वस्माज्ज्योतिर्मयीं विद्यां गच्छन्तीं भावयेद्गुरुः ।
आगतां भावयेच्छिष्यो धन्योऽस्मीति विशेषतः  ॥ २.१३३ ॥
महाप्रसादं शिष्याय दत्त्वा तत्पायसं गुरुः ।
निदध्यादक्षतान्मूर्ध्नि तस्य यच्छन् शुभाशिषम्  ॥ २.१३४ ॥
गुरुणा कृपया दत्तं शिष्यश्चावाप्य तं मनुम् ।
अष्टोत्तरशतं जप्त्वा समयान् शृणुयात्ततः  ॥ २.१३५ ॥

अथ समयाः

श्रीनारदपञ्चरात्रे
स्वमन्त्रो नोपदेष्टव्यो वक्तव्यश्च न संसदि ।
गोपनीयं तथा शास्त्रं रक्षणीयं शरीरवत् ॥ २.१३६ ॥
वैष्णवानां परा भक्तिराचार्याणां विशेषतः ।
पूजनं च यथाशक्ति तानापन्नांश्च पालयेत् ॥ २.१३७ ॥
प्राप्तमायतनाद्विष्णोः शिरसां प्रणतो वहेत् ।
निक्षिपेदम्भसि ततो न पतेदवनौ यथा  ॥ २.१३८ ॥
सोमसूर्यान्तरस्थं च गवाश्वत्थाग्निमध्यगम् ।
भावयेद्दैवतं विष्णुं गुरुविप्रशरीरगम्  ॥ २.१३९ ॥
यत्र यत्र परिवादो मात्सर्याच्छ्रूयते गुरोः ।
तत्र तत्र न वस्तव्यं निर्यायात्संस्मरन् हरिम्  ॥ २.१४० ॥
यैः कृता च गुरोर्निन्दा विभोः शास्त्रस्य नारद ।
नापि तैः सह वस्तव्यं वक्तव्यं वा कथञ्चन  ॥ २.१४१ ॥
प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः ।
प्रभाते च प्रवासे च स्वमन्त्रं बहुशः स्मरेत् ॥ २.१४२ ॥
स्वप्ने वाक्षिसमक्षं वा आश्चर्यमतिहर्षदम् ।
अकस्माद्यदि जायेत न ख्यातव्यं गुरोर्विना  ॥ २.१४३ ॥

पञ्चरात्रान्तरे
समयांश्च प्रवक्ष्यामि संक्षेपात्पञ्चरात्रकात् ।
न भक्षयेन्मत्स्यमांसं कूर्मशूकरकांस्तथा  ॥ २.१४४ ॥
कांस्यपात्रे न भुञ्जीत न प्लक्षबटपत्रयोः ।
देवागारे न निष्ठीवेत्क्षुतं चात्र विवर्जयेत् ।
न सोपानत्कचरणः प्रविशेदन्तरं क्वचित् ॥ २.१४५ ॥
एकादश्यां न चाश्नीयात्पक्षयोरुभयोरपि ।
जागरं निशि कुर्वीत विशेषाच्चार्चयेद्विभुम्  ॥ २.१४६ ॥

सम्मोहनतन्त्रे च
गोपयेद्देवतामिष्टां गोपयेद्गुरुमात्मनः ।
गोपयेच्च निजं मन्त्रं गोपयेन्निजमालिकाम्  ॥ २.१४७ ॥
। इति ।

चतुर्युक्शतसङ्ख्येषु प्राग्गुरोः समयेषु च ।
शिष्येणाङ्गीकृतेष्वेव दीक्षा कैश्चन मन्यते  ॥ २.१४८ ॥

तथा च विष्णुयामले
गुरुः परीक्षयेच्छिष्यं संवत्सरमतन्द्रितः ।
नियमान् विहितान् वर्ज्यान् श्रावयेच्च चतुःशतम्  ॥ २.१४९ ॥
ब्राह्मे मुहूर्त उत्थानं महाविष्णोः प्रबोधनम् ।
नीराजनं च वाद्येन प्रातःस्नानं विधानतः  ॥ २.१५० ॥
विशुद्धाहतयुग्वस्त्रधारणं देवतार्चनम् ।
गोपीचन्दनमृत्स्नायाः सर्वदा चोर्द्ध्वपुण्ड्रकम्  ॥ २.१५१ ॥
पञ्चायुधानां विधृतिश्चरणामृतसेवनम् ।
तुलसीमणिमालादिभूषाधारणमन्वहम्  ॥ २.१५२ ॥
शालग्रामशिलापूजा प्रतिमासु च भक्तितः ।
निर्माल्यतुलसीभक्षस्तुलस्यवचयो विधेः  ॥ २.१५३ ॥
विधिना तान्त्रिकी सन्ध्या शिखाबन्धो हि कर्मणि ।
विष्णुपादोदकेनैव पितॄणां तर्पणक्रिया ।
महाराजोपचारैश्च शक्त्यां सम्पूजनं हरेः  ॥ २.१५४ ॥
विष्णुभक्त्य्अविरोधेन नित्यनैमित्तिकी क्रिया ।
भूतशुद्ध्य्आदिकरणं न्यासाः सर्वे यथाविधि  ॥ २.१५५ ॥
नवीनफलपुष्पादेर्भक्तितः संनिवेदनम् ।
तुलसीपूजनं नित्यं श्रीभागवतपूजनम्  ॥ २.१५६ ॥
त्रिकालं विष्णुपूजा च पुराणश्रुतिरन्वहम् ।
विष्णोर्निवेदितानां वै वस्त्रादीनां च धारणम्  ॥ २.१५७ ॥
सर्वेषां पुण्यकार्याणां स्वामिदृष्ट्या प्रवर्तनम् ।
गुर्व्आज्ञाग्रहणं तत्र विश्वासो गुरुणोदिते  ॥ २.१५८ ॥
यथास्वमुद्रारचनं गीतनृत्यादि भक्तितः ।
शङ्खादिध्वनिमाङ्गल्यलीलाद्य्अभिनयो हरेः ।
नित्यहोमविधानं च बलिदानं यथाविधि  ॥ २.१५९ ॥
साधूनां स्वागतं पूजा शेषनैवेद्यभोजनम् ।
ताम्बूलशेषग्रहणं वैष्णवैः सह सङ्गमः  ॥ २.१६० ॥
विशिष्टधर्मजिज्ञासा दशम्यादिदिनत्रये ।
व्रते नियमतः स्वास्थ्यं सन्तोषो येन केन वै  ॥ २.१६१ ॥
पर्वयात्रादिकरणं वासराष्टकसद्विधिः ।
विष्णोः सर्वर्तुचर्या च महाराजोपचारतः  ॥ २.१६२ ॥
सर्वेषां वैष्णवानां च व्रतानां परिपालनम् ।
गुरावीश्वरभावश्च तुलसीसङ्ग्रहः सदा  ॥ २.१६३ ॥
शयनाद्य्उपचारश्च रामादीनां च चिन्तनम्  ॥ २.१६४ ॥
सन्ध्ययोः शयनं नैव न शौचं मृत्तिकां विना ।
तिष्ठताचमनं नैव तथा गुर्वासनासनम्  ॥ २.१६५ ॥
गुर्व्अग्रे पादविस्तारच्छायाया लङ्घनं गुरोः ।
शक्तौ स्नानक्रियाहानिर्देवतार्चनलोपनम्  ॥ २.१६६ ॥
देवतानां गुरूणां च प्रत्युत्थानाद्यभावनम् ।
गुरोः पुरस्तात्पाण्डित्यं प्रौढपादक्रिया तथा  ॥ २.१६७ ॥
अमन्त्रतिलकाचामो नीलीवस्त्रविधारणम् ।
अभक्तैः सह मैत्र्य्आदि असच्छास्त्रपरिग्रहः ।
तुच्छसङ्गसुखासक्तिर्मद्यमांसनिषेवणम्  ॥ २.१६८ ॥
मादकौषधसेवा च मसुराद्य्अन्नभोजनम् ।
शाकं तुम्बी कलञ्जादि तथाभक्तान्नसङ्ग्रहः ।
अवैष्णवव्रतारम्भस्तथा जप्यमवैष्णवम्  ॥ २.१६९ ॥
अभिचारादिकरणं शक्त्या गौणोपचारकम् ।
शोकादिपारवश्यं च दिग्विद्धैकादशीव्रतम्  ॥ २.१७० ॥
शुक्लाकृष्णाविभेदश्चासद्व्यापारो व्रते तथा ।
शक्तौ फलादिभुक्तिश्च श्राद्धं चैकादशीदिने  ॥ २.१७१ ॥
द्वादश्यां च दिवास्वापस्तुलस्यावचयस्तथा ।
तत्र विष्णोर्दिवास्नानं श्राद्धं हर्य्अनिवेदितैः  ॥ २.१७२ ॥
वृद्धावतुलसीश्राद्धं तथा श्राद्धमवैष्णवम् ।
चरणामृतपानेऽपि शुद्ध्य्अर्थाचमनक्रिया  ॥ २.१७३ ॥
काष्ठासनोपविष्टेन वासुदेवस्य पूजनम् ।
पूजाकालेऽसद्आलापः करवीरादिपूजनम्  ॥ २.१७४ ॥
आयसं धूपपात्रादि तिर्यक्पुण्ड्रं प्रमादतः ।
पूजा चासंस्कृतैर्द्रव्यैस्तथा चञ्चलचित्ततः  ॥ २.१७५ ॥
एकहस्तप्रणामादि अकाले स्वामिदर्शनम् ।
पर्युषितादिदुष्टानामन्नादीनां निवेदनम्  ॥ २.१७६ ॥
सङ्ख्यां विना मन्त्रजपस्तथा मन्त्रप्रकाशनम् ।
सदा शक्त्यां मुख्यलोपो गौणकालपरिग्रहः  ॥ २.१७७ ॥
प्रसादाग्रहणं विष्णोर्वर्जयेद्वैष्णवः सदा ।
चतुःशतं विधीनेतान्निषेधान् श्रावयेद्गुरुः  ॥ २.१७८ ॥
अङ्गीकारे कृते बाढं तन्नीराजनपूर्वकम् ।
देवपूजां कारयित्वा दक्षकर्णे मन्त्रं जपेत् ॥ २.१७९ ॥
। इति ।

ततश्चोत्थाय पूर्णात्मा दण्डवत्प्रणमेद्गुरुम् ।
तत्पादपङ्कजं शिष्यः प्रतिष्ठाप्य स्वमूर्धनि  ॥ २.१८० ॥
अथ न्यासान् गुरुः स्वस्मिन् कृत्वान्तर्यजनं तथा ।
साष्टं सहस्रं तन्मन्त्रं स्वशक्त्य्अक्षतये जपेत् ॥ २.१८१ ॥
शिष्यः कुम्भादि तत्सर्वं द्रवमन्यच्च शक्तितः ।
दत्त्वाभ्यर्च्य गुरुं नत्वा विप्रान् संपूज्य भोजयेत् ॥ २.१८२ ॥
श्रीगुरोर्ब्राह्मणानां च शुभाशीर्भिः समेधितः ।
ताननुज्ञाप्य गुर्वादीन् भुञ्जीत सह बन्धुभिः  ॥ २.१८३ ॥
इति दीक्षाविधानेन यो मन्त्रं लभते गुरोः ।
स भाग्यवान् चिरञ्जीवी कृतकृत्यश्च जायते  ॥ २.१८४ ॥

तथा च संमोहनतन्त्रे श्रीशिवोमासंवादे
एवं यः कुरुते मर्त्यः करे तस्य विभूतयः ।
अतः परं महाभागे नान्यत्कर्मास्ति भूतले ।
यस्याचरणमात्रेण साक्षात्कृष्णः प्रसीदति  ॥ २.१८५ ॥
प्रायः प्रपञ्चसारादावुक्तोऽयं तान्त्रिको विधिः ।
दीक्षाया लिख्यते दिव्यो विधिः पौराणिकोऽधुना  ॥ २.१८६ ॥

अथ वराहपुराणोक्तदीक्षाविधिः

इदानीं शृणु मे देवि पञ्चपातकनाशनम् ।
यजनं देवदेवस्य विष्णोः पुत्रवसुप्रदम्  ॥ २.१८७ ॥
इह जन्मनि दारिद्र्यव्याधिकुष्ठादिपीडितः ।
अलक्ष्मीवानपुत्रस्तु यो भवेत्पुरुषो भुवि ।
तस्य सद्यो भवेल्लक्ष्मीरायुर्वित्तं सुताः सुखम्  ॥ २.१८८ ॥
दृष्ट्वा तु मण्डले देवि देवं देव्या समन्वितम् ।
नारायणं परं देवं यः पश्यति विधानतः  ॥ २.१८९ ॥
पूजितं नवनाभे तु षोडशाब्जदले तथा ।
आचार्यदर्शितं देवं मन्त्रमूर्तिमयोनिजम्  ॥ २.१९० ॥
कार्त्तिके मासि शुद्धायां द्वादश्यां तु विशेषतः ।
सर्वासु च यजेद्देवं द्वादशीषु विधानतः  ॥ २.१९१ ॥
सङ्क्रान्तौ च महाभागे चन्द्रसूर्यग्रहेऽपि वा ।
यः पश्यति हरिं देवं पूजितं गुरुणा शुभे ।
तस्य सद्यो भवेत्तुष्टिः पापध्वंसोऽप्यशेषतः  ॥ २.१९२ ॥
स सामान्यो हि देवानां भवतीति न संशयः  ॥ २.१९३ ॥
ब्राह्मणक्षत्रियविशां शूद्राणां च परीक्षणम् ।
संवत्सरं गुरुः कुर्याज्जातिशौचक्रियादिभिः  ॥ २.१९४ ॥
उपसन्नांस्ततो ज्ञात्वा हृदयेनावधारयेत् ।
तेऽपि भक्तिमतो ज्ञात्वा आत्मनः परमेश्वरम् ।
संवत्सरं  गुरोर्भक्तिं कुर्युर्विष्णाविवाचलाम्  ॥ २.१९५ ॥
संवत्सरं ततः पूर्णे गुरुं चैव प्रसादयेत् ॥ २.१९६ ॥
भगवंस्त्वत्प्रसादेन संसारार्णवतारणम् ।
इच्छामस्त्वैहिकीं लक्ष्मीं विशेषेण तपोधन  ॥ २.१९७ ॥
एवमभ्यर्थ्य मेधावी गुरुं विष्णुमिवाग्रतः ।
अभ्यर्च्य तद्अनुज्ञातो दशम्यां कार्त्तिकस्य तु  ॥ २.१९८ ॥
क्षीरवृक्षसमुद्भूतं मन्त्रितं परमेष्ठिना ।
भक्षयित्वा शयीतोर्व्यां देवदेवस्य सन्निधौ  ॥ २.१९९ ॥
स्वप्नान् दृष्ट्वा गुरोरग्रे श्रावयेत विचक्षणः ।
ततः शुभाशुभं तद्वदालपेत्परमो गुरुः ।
एकादश्यामुपोष्याथ स्नात्वा देवालयं व्रजेत् ॥ २.२०० ॥
गुरुश्च मण्डलं भूमौ कल्प्तायां तु वर्तयेत् ।
लक्षणैर्विविधैर्भूमिं लक्षयित्वा विधानतः  ॥ २.२०१ ॥
षोडशारं लिखेच्चक्रं नवनाभमथापि वा ।
अष्टपत्रमथो वापि लिखित्वा दर्शयेद्बुधः  ॥ २.२०२ ॥
नेत्रबन्धं प्रकुर्वीत सितवस्त्रेण यत्नतः ।
वर्णानुक्रमतः शिष्यान् पुर्ष्पहस्तान् प्रवेशयेत् ॥ २.२०३ ॥
नवनाभं यदा कुर्यान्मण्डलं वर्णकैर्बुधः ।
तदानीं पूर्वतो देवमिन्द्रमैन्द्र्यां तु पूजयेत् ॥ २.२०४ ॥
लोकपालमथाग्नेय्यामग्निं सम्पूजयेद्द्विजः ।
यमं तदनु याम्यायां नैरृत्यां निरृतिं न्यसेत् ।
वारुण्यां वरुणं चैव वायव्यां पवनं यजेत् ॥ २.२०५ ॥
धनदं चोत्तरे न्यस्य रुद्रमैशानगोचरे ।
सम्पूज्यैवं विधानेन दिक्पत्रेषु विशेषतः ।
अधःपत्रे तथा विष्णुमर्चयेत्परमेश्वरम्  ॥ २.२०६ ॥
पूर्वपत्रे बलं पूज्य प्रद्युम्नं दक्षिणे तथा ।
अनिरुद्धं तथा पूज्य पश्चिमे चोत्तरे तथा ।
पूजयेद्वासुदेवं तु सर्वपातकशान्तिदम्  ॥ २.२०७ ॥
ऐशान्यां विन्यसेच्छङ्खमाग्नेय्यां चक्रमेव च ।
सौम्यायां तु गदा पूज्या वायव्यां पद्ममेव च  ॥ २.२०८ ॥
नैरृत्यां मुषलं पूज्यं दक्षिणे गरुडं तथा ।
वामतो विन्यसेल्लक्ष्मीं देवदेवस्य बुद्धिमान्  ॥ २.२०९ ॥
धनुश्चैव च खड्गं च देवस्य पुरतो न्यसेत् ।
श्रीवत्सं कौस्तुभं चैव देवस्य पुरतोऽर्चयेत् ॥ २.२१० ॥
एवं पूज्य यथान्यायं देवदेवं जनार्दनम् ।
दिङ्मण्डले च विन्यस्य चाष्टौ कुम्भान् विधानतः ।
वैष्णवं कलसं चैव नवमं तत्र कल्पयेत् ॥ २.२११ ॥
स्नापयेन्मुक्तिकामांस्तु वैष्णवेन घटेन तु ।
श्रीकामान् स्नापयेत्तद्वदैन्द्रेणाथ घटेन तु  ॥ २.२१२ ॥
जयप्रतापकामांस्तु आग्नेयेनाभिषेचयेत् ।
मृत्युञ्जयविधानेन याम्येन स्नापनं तथा  ॥ २.२१३ ॥
दुष्टप्रध्वंस्नायालं नैरृतेन विधीयते ।
शान्तये वारुण्येनाथ पापनाशाय वायवम्  ॥ २.२१४ ॥
द्रव्यसम्पत्तिकामस्य कौवरेण विधीयते ।
रौद्रेण ज्ञानहेतुस्तु लोकपालघटास्त्विमे  ॥ २.२१५ ॥
एकैकेन नरः स्नातः सर्वपापवर्जितः ।
भवेदव्याहतज्ञानः श्रीमांश्च पुरुषः सदा  ॥ २.२१६ ॥
किं पुनर्नवभिः स्नातो नरः पातकवर्जितः ।
जायते विष्णुसदृशः सद्यो राजाथवा पुनः  ॥ २.२१७ ॥
अथवा दिक्षु सर्वासु यथासङ्ख्येन लोकपान् ।
पूजयेत्स्वस्वनाम्ना तु षड्भिन्नेन विधानतः  ॥ २.२१८ ॥
एवं सम्पूज्य देवांस्तु लोकपालान् प्रसन्नधीः ।
पश्चात्परीक्षितान् शिष्यान् बद्धनेत्रान् प्रवेशयेत् ॥ २.२१९ ॥
आग्नेयधारणादग्धान् वायुना विधूतांस्ततः ।
सोमेनाप्यायितान् पश्चाच्छ्रावयेन्नियमान् बुधः  ॥ २.२२० ॥
न निन्देदब्राह्मणान् देवान् विष्णुं ब्राह्मणमेव च ।
रुद्रमादियमग्निं च लोकपालान् ग्रहांस्तथा ।
वन्देत वैष्णवं चापि पुरुषं पूर्वदीक्षितम्  ॥ २.२२१ ॥
एवं तु समयान् श्राव्य पश्चाद्धोमं तु कारयेत् ।
तत्त्वानि शिष्यदेहेषु विन्यस्य च विशोधयेत् ॥ २.२२२ ॥
ओं नमो भगवते विष्णवे सर्वरूपिणे हुं स्वाहा  ॥ २.२२३ ॥
षोडशाक्षरमन्त्रेण होमयेज्ज्वलितानलः ।
गर्भाधानादिकाश्चैव क्रियाः सर्वाश्च कारयेत् ॥ २.२२४ ॥
त्रिभिस्त्रिभिराहुतिभिर्देवदेवस्य सन्निधौ ।
ततोऽपनीय दृग्बन्धं पुरः शिष्यं निवेश्य च ।
प्रायः पूर्वोक्तविधिना मन्त्रं तस्मै गुरुर्दिशेत् ॥ २.२२५ ॥
होमान्ते दीक्षितः पश्चाद्दापयेद्गुरुदक्षिणाम् ।
हस्त्य्अश्वरत्नकटकं हेमग्रामादिकं नृपः  ॥ २.२२६ ॥
दापयेद्गुरवे प्राज्ञो मध्यमो मध्यमां तथा ।
दापयेदितरो युग्मं सहिरण्यं यथाविधि  ॥ २.२२७ ॥
एवं कृते तु यत्पुण्यं माहात्म्यं जायते धरे ।
तदशक्यं तु गदितुमपि वर्षशतैरपि  ॥ २.२२८ ॥
दीक्षितात्मा गुरोर्भूत्वा वाराहं शृणुयाद्यदि ।
तेन वेदाः पुराणानि सर्वे मन्त्राः सुसङ्ग्रहाः  ॥ २.२२९ ॥
जप्ताः स्युः पुष्करे तीर्थे प्रयागे सिन्धुसागरे ।
देवहूते कुरुक्षेत्रे वाराणस्यां विशेषतः  ॥ २.२३० ॥
ग्रहेण विषुवे चैव यत्फलं जपतां भवेत् ।
तत्फलं द्विगुणं तस्य दीक्षितो यः शृणोति च  ॥ २.२३१ ॥
देवा अपि तपः कृत्वा ध्यायन्ति च वदन्ति च ।
कदा मे भारते वर्षे जन्म स्याद्भूतधारिणि  ॥ २.२३२ ॥
दीक्षिताश्च भविष्यामो वाराहं शृणुमः कदा ।
वाराहं षोडशात्मानं युक्ता देहे कदाचन ।
पश्यामः परमं स्थानं यद्गत्वा न पुनर्भवेत् ॥ २.२३३ ॥
एवं जल्पन्ति विबुधा मनसा चिन्तयन्ति च ।
वाराहयागं कार्त्तिक्यां कदा द्रक्ष्यामहे धरे  ॥ २.२३४ ॥
एष ते विधिरुद्दिष्टो मया ते भूतधारिणि ।
देवगन्धर्वयक्षाणां सर्वथा दुर्लभो ह्यसौ  ॥ २.२३५ ॥
एवं यो वेत्ति तत्त्वेन यश्च पश्यति मण्डलम् ।
यश्चेमं शृणुयाद्देवि सर्वे मुक्ता इति श्रुतिः  ॥ २.२३६ ॥

अथ सङ्क्षिप्तदीक्षा

सङ्क्षिप्तश्चाथ दीक्षाया विधिरेष विलिख्यते ।
मुख्यकल्पे ह्यशक्तस्य जनस्य स्याद्धिताय च  ॥ २.२३७ ॥
सुमुहूर्तेऽथ सम्प्राप्ते सर्वतोभद्रमण्डले ।
नूतनं गन्धपुष्पादिमण्डितं कलसं न्यसेत् ॥ २.२३८ ॥
वस्त्रावृतं पयः पूर्णं पञ्चपल्लवसंयुतम् ।
सर्वौषधिपञ्चरत्नमृत्स्नासप्तकगर्भितम्  ॥ २.२३९ ॥

मृत्तिकाश्च सप्तोक्ताः
अश्वस्थानाद्गजस्थानाद्वल्मीकाच्च चतुष्पथात् ।
राजद्वाराच्च गोष्ठाच्च नद्याः कूलान्मृदः स्मृताः  ॥ २.२४० ॥
। इति ।

कृष्णमभ्यर्च्य तं कुम्भं कुशकूर्चेन देशिकः ।
देयमन्त्रेण साष्टं तु सहस्रमभिमन्त्रयेत् ॥ २.२४१ ॥
तद्अद्भिः पूर्ववच्छिष्यमभिषिच्य दिशेन्मनुम् ।
शिष्योऽर्चयेद्गुरुं भक्त्या यथाशक्ति द्विजानपि  ॥ २.२४२ ॥

अथोपदेशस्तत्त्वसागरे
अत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्य साक्षतम् ।
तद्अम्भसाभिषिच्याष्ट वारान्मूलेन के करम्  ॥ २.२४३ ॥
निधायामुं जपेत्कर्णे उपदेशेष्वयं विधिः ।
चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये ।
मन्त्रमात्रप्रकथनमुपदेशः स उच्यते  ॥ २.२४४ ॥

तत्र तत्रैव विशेषः श्रीनारदपञ्चरात्रे ।
वित्तलोभाद्विमुक्तस्य स्वल्पवित्तस्य देहिनः ।
संसारभयभीतस्य विष्णुभक्तस्य तत्त्वतः  ॥ २.२४५ ॥
अग्नावाज्यान्विते बीजैः सलिलैः केवलैश्च वा ।
द्रव्यहीनस्य कुर्वीत वचसानुग्रहं गुरुः  ॥ २.२४६ ॥
यः समः सर्वभूतेषु विरागो वीतमत्सरः ।
जितेन्द्रियः शुचिर्दक्षः सर्वाङ्गावयवान्वितः  ॥ २.२४७ ॥
कर्मणा मनसा वाचा भीते चाभयदः सदा ।
समबुद्धिपदं प्राप्तस्तत्रापि भगवन्मयः  ॥ २.२४८ ॥
पञ्चकालपरश्चैव पञ्चरात्रार्थवित्तथा ।
विष्णुतत्त्वं परिज्ञाय एकं चानेकभेदगम् ।
वीक्षयेन्मेदिनीं सर्वां किं पुनश्चोपसन्नतान्  ॥ २.२४९ ॥

अथ मन्त्रदानमाहात्म्यम्

स्कान्दे ब्रह्मनारदसंवादे
इह कीर्तिं वदान्यत्वं प्रजावृद्धिं धनं सुखम् ।
विद्यादानेन लभते सात्त्विको नात्र संशयः  ॥ २.२५०  ॥
यथा सुराणां सर्वेषां परमः परमेश्वरः ।
तथैव सर्वदानानां विद्यादानं परं स्मृतम्  ॥ २.२५१  ॥
यावच्च पातकं तेन कृतं जन्मशतैरपि ।
तत्सर्वं नाशमाप्नोति विद्यादानेन देहिनाम्  ॥ २.२५२  ॥
विद्यादानात्परं दानं न भूतं न भविष्यति ।
येन दत्तेन चाप्नोति शिवं परमकारणम्  ॥ २.२५३  ॥

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे
दैक्षिको नाम द्वितीयो विलासः ।


*************************************************************************

 

 


३. षौचियVइलस


तृतीयविलासः
शौचीयः


वन्देऽनन्ताद्भुतैश्वर्यं श्रीचैतन्यं महाप्रभुम् ।
नीचोऽपि यत्प्रसादात्स्यात्सदाचारप्रवर्तकः  ॥ ३.१ ॥
पुंसो गृहीतदीक्षस्य श्रीकृष्णं पूजयिष्यतः ।
आचारो लिख्यते कृत्यं श्रुतिस्मृत्य्अनुसारतः  ॥ ३.२ ॥

अथ दीक्षितस्य पूजाया नित्यता

लब्ध्वा मन्त्रं तु यो नित्यं नार्चयेन्मन्त्रदेवताम् ।
सर्वकर्मफलं तस्यानिष्टं यच्छति देवता  ॥ ३.३ ॥

अथ सद्आचारः

न किञ्चित्कस्यचित्सिध्येत्सद्आचारं विना यतः ।
तस्मादवश्यं सर्वत्र सद्आचारो ह्यपेक्ष्यते  ॥ ३.४ ॥

विष्णुपुराणे [Vइড়् ३.८.९]
वऋणाश्रमाचरवता पुरुषेण परः पुमान् ।
विष्णुराराध्यते पन्था नान्यत्तत्तोषकारणम्  ॥ ३.५ ॥

अथ सद्आचारस्य नित्यता

मार्कण्डेयपुराणे श्रीमद्आलसालर्कसंवादे
गृहस्थेन सदा कार्यमाचारपरिपालनम् ।
न ह्याचारविहीनस्य सुखमत्र परत्र च  ॥ ३.६ ॥
यज्ञदानतपांसीह पुरुषस्य न भूतये ।
भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते  ॥ ३.७ ॥

भविष्योत्तरे च श्रीकृष्णयुधिष्ठिरसंवादे
आचारहीनं न पुनन्ति वेदाः
यद्यप्यधीताः सह षड्भिरङ्गैः ।
छन्दांस्येनं मृत्युकाले त्यजन्ति
नीडं शकुन्ता इव जातपक्षाः  ॥ ३.८ ॥
कपालस्थं यथा तोयं श्वदृतौ वा यथा पयः ।
दुष्टं स्यात्स्थानदोषेण वृत्तहीने तथाशुभम् ।
आचाररहितो राजन्नेह नामुत्र निन्दति  ॥ ३.९ ॥
। इति ।

लेख्येन स्मरणादीनां नित्यत्वेनैव सेत्स्यति ।
स्मरणाद्य्आत्मकस्यापि सद्आचारस्य नित्यता  ॥ ३.१० ॥

विष्णुपुराणे [३.११.३] तत्रैव गृहिधर्मप्रसङ्गे
सद्आचारवता पुंसा जितौ लोकावुभावपि  ॥ ३.११ ॥
साधवः क्षीणदोषास्तु सच्छब्दः साधुवाचकः ।
तेषामाचरणं यत्तु सद्आचारः स उच्यते  ॥ ३.१२ ॥

काशीखण्डे स्कन्दागस्त्यसंवादे
अनध्ययनशीलं च सद्आचारविलङ्घिनम् ।
सालस्यं च दुरन्नादं ब्राह्मणं बाधतेऽन्तकः  ॥ ३.१३ ॥
ततोऽभ्यसेत्प्रयत्नेन सद्आचारं सदा द्विजः ।
तीर्थान्यप्यभिलष्यन्ति सद्आचारसमागमम्  ॥ ३.१४ ॥

भविष्योत्तरे च तत्रैव
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः ।
साधूनां च यथा वृत्तं स सद्आचार इष्यते  ॥ ३.१५ ॥
तस्मात्कुर्यात्सद्आचारं य इच्छेद्गतिमात्मनः ।
सर्वलक्षणहीनोऽपि समुचाचारवान्नृप ।
श्रद्दधानोऽनसूयश्च सर्वान् कामानवाप्नुयात् ॥ ३.१६ ॥

किं च
आचार एव धर्मस्य मूलं राजन् कुलस्य च ।
आचाराद्विच्युतो जन्तुर्न कुलीनो न धार्मिकः  ॥ ३.१७ ॥

किं च
आचारो भूतिजनन आचारः कीर्तिवर्धनः ।
आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम्  ॥ ३.१८ ॥

आचार एव नृपपुङ्गव सेव्यमानो
धर्मार्थकामफलदो भवितेह पुंसाम् ।
तस्मात्सदैव विदुषावहितेन राजन्
शास्त्रोदितो ह्यनुदिनं परिपालनीयः  ॥ ३.१९ ॥

अथ तत्र नित्यकृत्यानि

ब्राह्मे मुहूर्त उत्थाय कृष्ण कृष्णेति कीर्तयन् ।
प्रक्षाल्य पाणिपादौ च दन्तधावनमाचरेत् ॥ ३.२० ॥
आचम्य वसनं रात्रेस्त्यक्त्वान्यत्परिधाय च ।
पुनराचमने कुर्याल्लेख्येन विधिनाग्रतः  ॥ ३.२१ ॥
अथेच्छन् परमां शुद्धिं मूर्ध्नि ध्यात्वा गुरोः पदौ ।
स्तुत्वा च कीर्तयन् कृष्णं स्मरंश्चैतदुदीरयेत् ॥ ३.२२ ॥

अथ प्रातःस्मरणकीर्तने

जयति जननिवासो देवकीजन्मवादो
यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ।
स्थिरचरवृजिनघ्नः सुस्मित श्रीमुखेन
व्रजपुरवनितानां वर्धयन् कामदेवम्  ॥ ३.२३ ॥
[भागवतम् १०.९०.४८]

स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम्  ॥ ३.२४ ॥

विदग्धगोपालविलासिनीनां
सम्भोगचिह्नाङ्कितसर्वगात्रम् ।
पवित्रमाम्नायगिरामगम्यं
ब्रह्म प्रपद्ये नवनीतचौरम्  ॥ ३.२५ ॥

दशमस्कन्धे [भागवतम् १०.४६.४६]
उद्गायतीनामरविन्दलोचनं
व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः ।
दध्नश्च निर्मन्थनशब्दमिश्रितो
निरस्यते येन दिशाममङ्गलम्  ॥ ३.२६ ॥
। इति ।

पठेत्पुनश्च साधूनां सम्प्रदायानुसारतः ।
चतुःश्लोकीमिमां सर्वदोषशान्त्यै शुभाप्तये  ॥ ३.२७ ॥

प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै
नारायणं गरुडवाहनमब्जनाभम् ।
ग्राहाभिभूतवरवारिवारणमुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम्  ॥ ३.२८ ॥

प्रातर्नमामि मनसा वचसा च मूर्ध्ना
पादारविन्दयुगलं परमस्य पुंसः ।
नारायणस्य नरकार्णवतारणस्य
पारायणप्रवणविप्रपरायणस्य  ॥ ३.२९ ॥

प्रातर्भजामि भजतामभयङ्करं तं
प्राक्सर्वजन्मकृतपापभयावहत्यै ।
यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर
शोकप्रणाशमकरोद्धृतशङ्खचक्रः  ॥ ३.३० ॥

श्लोकत्रयमिदं पुण्यं प्रातः प्रातः पठेत्तु यः ।
लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः  ॥ ३.३१ ॥
। इति ।

तदेतल्लिखितं कुत्र कुत्रचिद्व्यवहारतः ।
किन्तु स्वाभीष्टरूपादि श्रीकृष्णस्य विचिन्तयेत् ॥ ३.३२ ॥
इत्थं विदध्याद्भगवत्कीर्तनस्मरणादिकम् ।
सर्वतीर्थाभिषेकं वै बहिरन्तर्विशोधनम्  ॥ ३.३३ ॥

तथा च स्कान्दे स्कन्दं प्रति श्रीशिवोक्तौ
सकृन्नारायणएत्युक्त्वा पुमान् कल्पशतत्रयम् ।
गङ्गादिसर्वतीर्थेषु स्नातो भवति पुत्रक  ॥ ३.३४ ॥

अन्यत्र च
शयनादुत्थितो यस्तु कीर्तयेन्मधुसूदनम् ।
कीर्तनात्तस्य पापस्य नाशमायात्यशेषतः  ॥ ३.३५ ॥
। इति ।

माहात्म्यं कीर्तनस्याग्रे लेख्यं मुख्यप्रसङ्गतः ।
स्मरणस्य तु माहात्म्यमधुना लिख्यते कियत् ॥ ३.३६ ॥

तत्रादौ तस्य नित्यता

पाद्मे बृहत्सहस्रनाम्नि स्तोत्रे [६.७१.१००]
स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः  ॥ ३.३७ ॥

स्कान्दे कार्त्तिकप्रसङ्गे श्रीमद्अगस्त्योक्तौ
सा हानिस्तन्महच्छिद्रं स मोहः स च विभ्रमः ।
यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते  ॥ ३.३८ ॥

काशीखण्डे च श्रीध्रुवचरिते
इयमेव परा हानिरुपसर्गोऽयमेव च ।
अभाग्यं परमं चैतद्वासुदेवं न यत्स्मरेत् ॥ ३.३९ ॥
ये मुहूर्ताः क्षणा ये च याः काष्ठा ये निमेषकाः ।
ऋते विष्णुस्मृतेर्यातास्तेषु मुष्टो यमेन सः  ॥ ३.४० ॥
। इति ।
नित्यत्वेऽप्यस्य माहात्म्यं विचित्रफलदानतः ।
ज्ञेयं शास्त्रोदितं दर्शपूर्णमासादिवद्बुधैः  ॥ ३.४१ ॥

अथ स्मरणमाहात्म्यम्
तत्र सर्वतीर्थस्नानाधिकत्वम्

उक्तं च स्मार्तैरपि
मान्त्रं पार्थिवमाग्नेयं वायव्यं दिव्यमेव च ।
वारुणं मानसं चेति स्नानं सप्तविधं स्मृतम्  ॥ ३.४२ ॥
शं न आपस्तु वै मान्त्रं मृद्आलम्भं तु पार्थिवम् ।
भस्मना स्नानमाग्नेयं स्नानं गोरजसानिलम्  ॥ ३.४३ ॥
आतपे सति या वृष्टिर्दिव्यं स्नानं तदुच्यते ।
बहिर्नद्यादिषु स्नानं वारुणं प्रोच्यते बुधैः ।
ध्यानं यन्मनसा विष्णोर्मानसं तत्प्रकीर्तनम्  ॥ ३.४४ ॥

किं च
असामर्थ्येन कायस्य कालदेशाद्य्अपेक्षया ।
तुल्यफलानि सर्वाणि स्युरित्याह पराशरः  ॥ ३.४५ ॥
स्नानानां मानसं स्नानं मन्व्आद्यैः परमं स्मृतम् ।
कृतेन येन मुच्यन्ते गृहस्था अपि वै द्विजाः  ॥ ३.४६ ॥

परमशोधक्तवम्

गारुडे श्रीनारदोक्तौ, विष्णुधर्मे च पुलस्य्त्योक्तौ
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः  ॥ ३.४७ ॥
यद्यप्युपहतः पापैर्मनसायन्तदुस्तरैः ।
तथापि संस्मरन् विष्णुं स बाह्याभ्यन्तरः शुचिः  ॥ ३.४८ ॥

श्रीविष्णुपुराणे [Vइড়् २.६.३७३८]
प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम्  ॥ ३.४९ ॥
कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम्  ॥ ३.५० ॥

किं च [Vइড়् ६.८.२१]
कलिकल्मषमत्युग्रं नरकार्तिप्रदं नॄणाम् ।
प्रयाति विलयं सद्यः सकृद्यत्रानुसंस्मृते  ॥ ३.५१ ॥

बृहन्नारदीये [णार्ড়् १.१०.१००] शुक्रबलिसंवादे
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः  ॥ ३.५३ ॥

तत्रैव [णार्ড়् १.३०.९३] प्रायश्चित्तप्रसङ्गान्ते
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।
स वै विमुच्यते सद्यो यस्य विष्णुपरं मनः  ॥ ३.५४ ॥

ब्रह्मवैवर्ते
कर्मणा मनसा वाचा यः कृतः पापसञ्चयः ।
सोऽप्यशेषः क्षयं याति स्मृत्वा कृष्णाङ्घ्रपङ्कजम्  ॥ ३.५५ ॥

अतएवोक्तं स्कान्दे कार्त्तिकप्रसङ्गे श्रीपराशरेण
यममार्गं महाघोरं नरकांश्च यमं तथा ।
स्वप्नेऽपि न नरः पश्येद्यः स्मरेद्गरुडध्वजम्  ॥ ३.५६ ॥

षष्ठस्कन्धे [भागवतम् ६.१.१९] श्रीशुकेन
सकृन्मनः कृष्णपदारविन्दयोर्
निवेशितं तद्गुणरागि यैरिह ।
न ते यमं पाशभृतश्च तद्भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः  ॥ ३.५७ ॥

सर्वापद्विमोचकत्वम्

श्रीविष्णुपुराणे [Vइড়् १.१७.४४] श्रीप्रह्लादोक्तौ
दन्ता गजानां कुल्शाग्रनिष्ठुराः
शीर्णा यदेते न बलं ममैतत् ।
महाविपत्पातविनाशनोऽयं
जनार्दनानुस्मरणानुभावः  ॥ ३.५८ ॥

वामनपुराणे च
विष्टयो व्यतिपाताश्च येऽन्ये दुर्नीतिसम्भवाः ।
ते सर्वे स्मरणाद्विष्णोर्नाशमायान्त्युपद्रवाः  ॥ ३.५९ ॥

पाद्मे माघमाहात्म्ये देवद्युतिस्तुतौ
यस्य स्मरणमात्रेण न मोहो न च दुर्गतिः ।
न रोगो न च दुःखानि तमनन्तं नमाम्यहम्  ॥ ३.६० ॥

दुर्वासनोन्मूलनत्वम्
द्वादशस्कन्धे [भागवतम् १२.३.४७]
यथा हेम्नि स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम् ।
एवमात्मगतो विष्णुर्योगिनामशुभाशयम्  ॥ ३.६१ ॥
सर्वमङ्गलकारित्वम्

पाण्डवगीतायाम्
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिन्दीवरश्यामो हृदयस्थजनार्दनः  ॥ ३.६२ ॥
सर्वसत्कर्मफलदत्वम्
स्कान्दे कार्त्तिकप्रसङ्गेऽगस्त्योक्तौ
देवेषु यज्ञेषु तपःसु चैव
दानेषु तीर्थेषु व्रतेषु चैव ।
इष्टेषु पूर्तेषु च यत्प्रदिष्टं
नॄणां स्मृते तत्फलमच्युते च  ॥ ३.६३ ॥
कर्मसाद्गुण्यकारित्वम्

बृहन्नारदीये [णार्ড়्]
न्यूनातिरिक्तता सिद्धा कलौ वेदोक्तकर्मणाम् ।
हरिसंस्मरणमेवात्र सम्पूर्णफलदायकम्  ॥ ३.६४ ॥

स्मृतौ च
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तद्विष्णोः सम्पूर्णं स्यादिति श्रुतिः  ॥ ३.६५ ॥
सर्वकर्माधिकत्वम्

बृहन्नारदीये कलिप्रसङ्गे [णार्ড়्]
तुलापुरुषदानानां राजसूयाश्वमेधयोः ।
फलं विष्णोः स्मृतिसमं न जातु द्विजसत्तम  ॥ ३.६६ ॥

द्वादशस्कन्धे [भागवतम् १२.३.४८]
विद्यातपःप्राणनिरोधमैत्री
तीर्थाभिषेकव्रतदानजप्यैः ।
नात्यन्तशुद्धिं लभतेऽन्तर्आत्मा
यथा हृदिस्थे भगवत्यनन्ते  ॥ ३.६७ ॥

विष्णुपुराणे [Vइড়् १.१७.३६] हिरण्यकशिपुं प्रति श्रीप्रह्लादोक्तौ
भयं भयानामपहारिणि स्थिते
मनस्यनन्ते मम कुत्र तिष्ठति ।
यस्मिन् स्मृते जन्मजरोद्भवानि
भयानि सर्वाण्यपयान्ति तात  ॥ ३.६८ ॥

तत्रैवान्यत्र [Vइড়् २.६.४०]
विष्णुसंस्मरणात्क्षीणसमस्तक्लेशसंचयः ।
मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विघ्नोऽनुमीयते  ॥ ३.६९ ॥

बृहन्नारदीये [णार्ড়् १.१.६५]
वरं वरेण्यं वरदं पुराणं
निजप्रभाभावितसर्वलोकम् ।
सङ्कल्पितार्थप्रदमादिदेवं
स्मृत्वा व्रजेन्मुक्तिपदं मनुष्यः  ॥ ३.७० ॥

स्कान्दे
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे  ॥ ३.७१ ॥

तत्रैव कार्त्तिकप्रसङ्गे श्रीपराशरोक्तौ
तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः ।
भक्त्या तु परया नूनं यदैव स्मरते हरिम्  ॥ ३.७२ ॥
भगवत्प्रसादनम्

बृहन्नारदीये [णार्ড়् १.१.७७]
येन केनाप्युपायेन स्मृतो नारायणोऽव्ययः ।
अपि पातकयुक्तस्य प्रसन्नः स्यान्न संशयः  ॥ ३.७३ ॥
श्रीवैकुण्ठलोकप्रापकत्वम्
वामनपुराणे
अनाद्य्अनन्तमजरामरं हरिं
ये संस्मरन्त्यहरहर्नियतं नरा भुवि ।
तत्सर्वगं ब्रह्म परं पुराणं
ते यान्ति वैष्णवपदं धुर्वमव्ययं च  ॥ ३.७४ ॥

पाद्मे (३.३१.१०१) देवदूतविकुण्डलसंवादे यमस्य दूतानुशासने
स्मरन्ति ये सकृद्भूताः प्रसङ्गेनापि केशवम् ।
ते विध्वस्ताखिलाघौघा यन्ति विष्णोः परं पदम्  ॥ ३.७५ ॥

ब्रह्मपुराणे विष्णुरहस्ये (२१६.८८)
शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् ।
तेऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकमनामयम्  ॥ ३.७६ ॥

विष्णुधर्मोत्तरे
निराशीर्निर्ममो यस्तु विष्णोर्ध्यानपरो भवेत् ।
तत्पदं समवाप्नोति यत्र गत्वा न शोचति  ॥ ३.७७ ॥

सारूप्यप्रापणम्

काशीखण्डे श्रीबिन्दुमाधवप्रसङ्गे अग्निबिन्दुस्तुतौ
ये त्वां त्रिविक्रम सदा हृदि शीलयन्ति
कादम्बिनीरुचिररोचिषमम्बुजाक्ष ।
सौदामिनीविलसितांशुकवीतमूर्ते
तेऽपि स्पृशन्ति तव कान्तिमचिन्त्यरूपाम्  ॥ ३.७८ ॥

श्रीभगवद्गीतासु [ङीता ८.५]
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः  ॥ ३.७९ ॥

दशमस्कन्धे [भागवतम् १०.८०.११] पृथुकोपाख्याने
स्मरतः पादकमलमात्मानमपि यच्छति ।
किं न्वर्थकामान् भजतो नात्य्अभीष्टान् जगद्गुरुः  ॥ ३.८० ॥

वैष्णवे
वासुदेवे मनो यस्य जपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादि सत्फलम्  ॥ ३.८१ ॥

गारुडे
महतस्तपसो मूलं प्रसवः पुण्यसन्ततेः ।
जीवितस्य फलं स्वादु नियतं स्मरणं हरेः  ॥ ३.८२ ॥

द्वितीयस्कन्धे [भागवतम् २.१.६]
एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।
जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः  ॥ ३.८३ ॥

अतएव जरासन्धनिरुद्धनृपवर्गैः प्रार्थितं दशमस्कन्धे [भागवतम् १०.७३.१५]
तं नः समादिशोपायं येन ते चरणाब्जयोः ।
स्मृतिर्यथा न विरमेदपि संसरतामिह  ॥ ३.८४ ॥

श्रीनारदेनापि [भागवतम् १०.६९.१८]
दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं
ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः ।
संसारकूपपतितोत्तरणावलम्बं
ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् ॥ ३.८५ ॥
। इति ।
कृष्णस्मरणमाहात्म्यमहाब्धिर्दुस्तरो धिया ।
यो यियासति तत्पारं स हि चैतन्यवञ्चितः  ॥ ३.८६ ॥
ततः पादोदकं किञ्चित्प्राक्पीत्वा तुलसीदलैः ।
गृहीतेनाचरेत्तेन स्वमूर्धन्यभिषेचनम्  ॥ ३.८७ ॥
अथादौ श्रीगुरुं नत्वा श्रीकृष्णस्य पदाब्जयोः ।
किञ्चिद्विज्ञापयन् सर्वस्वकृत्यान्यर्पयेन्नमेत् ॥ ३.८८ ॥

अथ प्रातः प्रणामः

वामनपुराणे
सर्वमङ्गलमङ्गल्यं वरेण्यं वरदं शिवम् ।
नारायणं नमस्कृत्य सर्वकर्माणि कारयेत् ॥ ३.८९ ॥

अथ विज्ञापनम्

विष्णुधर्मोत्तरे
यद्उत्सवादिकं कर्म तत्त्वया प्रेरितो हरे ।
करिष्यामि त्वया ज्ञेयमिति विज्ञापनं मम  ॥ ३.९० ॥
प्रातः प्रबोधितो विष्णो हृषीकेशेन यत्त्वया ।
यद्यत्कारयसीशान तत्करोमि तवाज्ञया  ॥ ३.९१ ॥

त्रैलोक्यचैतन्यमयादिदेव
श्रीनाथ विष्णो भवद्आज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं
संसारयात्रामनुवर्तयिष्ये  ॥ ३.९२ ॥

संसारयात्रामनुवर्तमानं
त्वद्आज्ञया श्रीनृहरेऽन्तरात्मन् ।
स्पर्धातिरस्कारकलिप्रमाद
भयानि मा माभिभवन्तु भूमन्  ॥ ३.९३ ॥

जानामि धर्मं न च मे प्रवृत्तिर्
जानाम्यधर्मं न च मे निवृत्तिः ।
त्वया हृषीकेश हृदि स्थितेन
यथा नियुक्तोऽस्मि तथा करोमि  ॥ ३.९४ ॥

अथ प्रणामवाक्यानि

महाभारते
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः  ॥ ३.९५ ॥

गरुडपुराणे
असुरविबुधसिद्धैर्ज्ञायते यस्य नान्तः
सकलमुनिभिरन्तश्चिन्त्यते यो विशुद्धः ।
निखिलहृदि निविष्टो वेत्ति यः सर्वसाक्षी
तमजममृतमीशं वासुदेवं नतोऽस्मि  ॥ ३.९६ ॥

विष्णुपुराणे [Vइড়् ??]
यज्ञिभिर्यज्ञपुरुषो वासुदेवश्च सात्वतः ।
वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम्  ॥ ३.९७ ॥
एवं विज्ञापयन् ध्यायन् कीर्तयंश्च यथाविधि ।
प्रणामानाचरेच्छक्त्या चतुःसङ्ख्यावरान् बुधः  ॥ ३.९८ ॥
श्रीगोपीचन्दनेनोर्ध्वपुण्ड्रं कृत्वा यथाविधि ।
आसीत प्राङ्मुखो भूत्वा शुद्धस्थाने शुभासने  ॥ ३.९९ ॥

तथा च नारदीयपञ्चरात्रे
निर्गत्याचम्य विधिवत्प्रविश्य च पुनः सुधीः ।
आसने प्राङ्मुखो भूत्वा विहिते चोपविश्य वै  ॥ ३.१०० ॥
सम्प्रदायानुसारेण भूतशुद्धिं विधाय च ।
प्राणायामांश्च विधिवत्कृष्णं ध्यायेत्यथोदितम्  ॥ ३.१०१ ॥

तथा चोक्तम्
उपपातकेषु सर्वेषु पातकेषु महत्सु च ।
प्रविश्य रजनीपादं विष्णुध्यानं समाचरेत् ॥ ३.१०२ ॥

वैहायसपञ्चरात्रे च
तथैव रात्रिशेषं तु कालं सूर्योदयावधि ।
कर्तव्यं सजपं ध्यानं नित्यमाराधकेन वै  ॥ ३.१०३ ॥
विभज्य पञ्चधा रात्रिं शेषे देवार्चनादिकम् ।
जपं होमं तथा ध्यानं नित्यं कुर्वीत साधकः  ॥ ३.१०४ ॥

अतएव विष्णुस्मृतौ
रात्रेस्तु पश्चिमे यामे मुहूर्तौ ब्राह्म्य उच्यते  ॥ ३.१०५ ॥
। इति ।
पादोदपानादीनां च स विधिर्महिमाग्रतः ।
लेख्योऽधुना तु ध्यानस्य स सङ्क्षेपेण लिख्यते  ॥ ३.१०६ ॥

तापनीयश्रुतिषु [ङ्टू १.९११]
सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम्  ॥ ३.१०७ ॥
गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ।
द्वियालङ्करणोपेतं रत्नपङ्कजमध्यगम्  ॥ ३.१०८ ॥
कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः  ॥ ३.१०९ ॥

मृत्युञ्जयसंहितानुसारोदितसारदातिलके च
स्मरेद्वृन्दावने रम्ये मोहयन्तमनारतम् ।
गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः  ॥ ३.११० ॥
आत्मनो वदनाम्भोजप्रेरिताक्षिमधुव्रताः ।
कामबाणेन विवशाश्चिरमाश्लेषेणोत्सुकाः  ॥ ३.१११ ॥
मुक्ताहारलसत्पीनोत्तुङ्गस्तनभरानताः ।
स्रस्तधम्मिल्लवसना मदस्खलितभाषणाः  ॥ ३.११२ ॥
दन्तपङ्क्तिप्रभोद्भासिस्पन्दमानाधराञ्चिताः ।
विलोभयन्तीर्विविधैर्विभ्रमैर्भावगर्भितैः  ॥ ३.११३ ॥

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे  ॥ ३.११४ ॥
। इति ।
श्रीगौतमीयतन्त्रादौ तद्ध्यानं प्रथितं परम् ।
अग्रतोऽत्रापि संलेख्यं यदिष्टं तत्र तद्भजेत् ॥ ३.११५ ॥

बृहत्शातातापस्मृतौ
पक्षोपवासाद्यत्पापं पुरुषस्य प्रणश्यति ।
प्राणायामशतेनैव यत्पापं नश्यते नॄणाम्  ॥ ३.११६ ॥
प्राणायामसहस्रेण यत्पापं नश्यते नॄणाम् ।
क्षणमात्रेण तत्पापं हरेर्ध्यानात्प्रणश्यति  ॥ ३.११७ ॥

विष्णुधर्मे
सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् ।
भूतस्तपस्वी भवति पङ्क्तिपावनपावनः  ॥ ३.११८ ॥

विष्णुपुराणे (?) च
ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु ।
प्रायश्चित्तं हि सर्वस्य दुष्कृतस्येति निश्चितम्  ॥ ३.११९ ॥
कलिदोषहरत्वम्

बृहन्नारदीये कलिप्रसङ्गे [णार्ড়्  १.४१.९७]
समस्तजगद्आधारं परमार्थस्वरूपिणम् ।
घोरे कलियुगे प्राप्ते विष्णुं ध्यायन्न सीदति  ॥ ३.१२० ॥
सर्वधर्माधिकारित्वम्

स्कान्दे कार्त्तिकमाहात्म्ये अगस्त्योक्तौ
किन्त्वस्य बहुभिस्तीर्थैः किं तस्य बहुभिर्व्रतैः ।
यो नित्यं ध्यायते देवं नारायणमनन्यधीः  ॥ ३.१२१ ॥
मोक्षप्रदत्वम्

बृहन्नारदीये कलिप्रसङ्गे [णार्ড়्  १.४०.५२]
ये मानवा विगतरागपरावरज्ञा
नारायणं सुरगुरुं सततं स्मरन्ति ।
ध्यानेन तेन हत किल्बिषचेतनास्ते
मातुः पयोधररसं न पुनः पिबन्ति  ॥ ३.१२२ ॥
श्रीवैकुण्ठप्रापकत्वम्
स्कान्दे श्रीब्रह्मोक्तौ
मुहूर्तमपि यो ध्यायेन्नारायणमतन्द्रितः ।
सोऽपि सद्गतिमाप्नोति किं पुनस्तत्परायणः  ॥ ३.१२३ ॥

पाद्मे वैशाखमाहात्म्ये यमब्राह्मणसंवादे [ড়द्मড়् १.९६.७८]
ध्यायन्ति पुरुषं दिव्यमच्युतं ये स्मरन्ति च ।
लभन्ते तेऽच्युतस्थानं श्रुतिरेषा पुरातनी  ॥ ३.१२४ ॥

सारूप्यप्रापणम्

एकादशस्कन्धे [भागवतम् ११.५.४८]
वैरेण यं नृपतयः शिशुपालपौण्ड्र
शाल्वादयो गतिविलासविलोकनाद्यैः ।
ध्यायन्त आकृतधियः शयनासनादौ
तत्साम्यमापुरनुरक्तधियां पुनः किम्  ॥ ३.१२५ ॥

स्वतः परमफलत्वम्

चतुर्थस्कन्धे [भागवतम् ४.२०.२९] श्रीपृथूक्तौ
भजन्त्यथ त्वामत एव साधवो
व्युदस्तमायागुणविभ्रमोदयम् ।
भवत्पदानुस्मरणादृते सतां
निमित्तमन्यद्भगवन्न विद्महे  ॥ ३.१२६ ॥

स्कन्दपुराणे ब्रह्मोक्तौ च
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमे एव सुनिष्पन्नं ध्येयो नारायणः सदा  ॥ ३.१२७ ॥

अतएवोक्तं हायशीर्षपञ्चरात्रे नारायणव्यूहस्तवे
ये त्यक्तलोकधर्मार्था विष्णुभक्तिवशं गताः ।
ध्यायन्ति परमात्मानं तेभ्योऽपीह नमो नमः  ॥ ३.१२८ ॥
। इति ।

स्मरणे यत्तन्माहात्म्यं तद्ध्यानेऽप्यखिलं विदुः ।
भेदः कल्प्येत सामान्यविशेषाभ्यां तयोः कियान्  ॥ ३.१२९ ॥

अथ श्रीभगवत्प्रबोधनम्

ततो देवालये गत्वा घण्टाद्य्उद्घोषपूर्वकम् ।
प्रबोध्य स्तुतिभिः कृष्णं नीराज्यं प्रार्थयेदिदम्  ॥ ३.१३० ॥

तृतीयस्कन्धे [भागवतम् ३.९.२५]
सोऽसावदभ्रकरुणो भगवान् विवृद्ध
प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् ।
उत्थाय विश्वविजयाय च नो विषादं
माध्व्या गिरापनयतात्पुरुषः पुराणः  ॥ ३.१३१ ॥

देवप्रपन्नार्तिहर प्रसादं कुरु केशव ।
अवलोकनदानेन भूयो मां पारयाच्युत  ॥ ३.१३२ ॥
। इति ।
देवालयं प्रविश्याथ स्तोत्राणीष्टानि कीर्तयन् ।
कृष्णस्य तुलसीवर्जं निर्माल्यमपसारयेत् ॥ ३.१३३ ॥
अथ निर्माल्योत्तारणम्

अत्रिस्मृतौ
प्रातःकाले सदा कुर्यान्निर्माल्योत्तारणं बुधः ।
तृषिताः पशवो बद्धाः कन्यका च रजस्वला ।
देवता च सनिर्माल्या हन्ति पुण्यं पुराकृतम्  ॥ ३.१३४ ॥

नारसिंहे श्रीयमोक्तौ
देवमाल्यापनयनं देवागारे समूहनम् ।
स्नापनं सर्वदेवानां गोप्रदानसमं स्मृतम्  ॥ ३.१३५ ॥

नारदपञ्चरात्रे
यः प्रातरुत्थाय विधाय नित्यं
निर्माल्यमीशस्य निराकरोति ।
न तस्य दुःखं न दरिद्रता च
नाकालमृत्युर्न च रोगमात्रम्  ॥ ३.१३६ ॥

अरुणोदयवेलायां निर्माल्यं शल्यतां व्रजेत् ।
प्रातस्तु स्यान्महाशल्यं घटिकामात्रयोगतः  ॥ ३.१३७ ॥
अतिशल्यं विजानीयात्ततो वज्रप्रहारवत् ।
अरुणोदयवेलायां शल्यं तत्क्षमते हरिः  ॥ ३.१३८ ॥
घटिकायामतिक्रान्तौ क्षुद्रं पातकमावहेत् ।
मुहूर्ते समतिक्रान्ते पूर्णं पातकमुच्यते  ॥ ३.१३९ ॥
अतिपातकमेव्स्यात्घटिकानां चतुष्टये ।
मुहूर्तत्रितये पूर्णे महापातकमुच्यते  ॥ ३.१४० ॥
ततः परं ब्रह्मवधो महापातकपञ्चकम् ।
प्रहरे पूर्णतां याते प्रायश्चित्तं ततो न हि  ॥ ३.१४१ ॥
निर्माल्यस्य विलम्बे तु प्रायश्चित्तमथोच्यते ।
अतिक्रान्ते मुहूर्तार्धे सहस्रं जपमाचरेत् ॥ ३.१४२ ॥
पूर्णे मुहूर्ते सञ्जाते सहस्रं सार्धमुच्यते ।
सहस्रद्वितीयं कुर्यात्घटिकानां चतुष्टये  ॥ ३.१४३ ॥
मुहूर्तत्रितयेऽतीते अयुतं जपमाचरेत् ।
प्रहरे पूर्णतां याते पुरश्चरणमुच्यते ।
प्रहरे समतिक्रान्ते प्रायश्चित्तं न विद्यते  ॥ ३.१४४ ॥

अथ श्रीमुखप्रक्षालनम्

श्रीहस्ताङ्घ्रिमुखाम्भोजक्षालनाय च तद्गृहे ।
गण्डूषाणि जलैर्दत्त्वा दन्तकाष्ठं समर्पयेत् ॥ ३.१४५ ॥
जिह्वोल्लेखनिकां दत्त्वा पादुके शुद्धमृत्तिकाम् ।
सलिलं च पुनर्दद्याद्वासोऽपि मुखमार्जनम्  ॥ ३.१४६ ॥
ततः श्रीतुलसीं पुण्यामर्पयेत्भगवत्प्रियाम् ।
तन्माहात्म्यं च तन्मुख्यप्रसङ्गे लेख्यमग्रतः  ॥ ३.१४७ ॥

अथ दन्तकाष्ठार्पणमाहात्म्यम्

विष्णुधर्मोत्तरे
दन्तकाष्ठप्रदानेन दन्तसौभाग्यमृच्छति ।
जिह्वोल्लेखनिकां दत्त्वा विरोगस्त्वभिजायते  ॥ ३.१४८ ॥
पादुकायाः प्रदानेन गतिमिष्टामवाप्नुयात् ।
मृद्भागदानाद्देवस्य भूमिमाप्नोत्यनुत्तमाम्  ॥ ३.१४९ ॥

अथ मङ्गलनीराजनम्

पठित्वाथ प्रियान् श्लोकान्महावादित्रनिस्वनैः ।
प्रभोर्नीराजनं कुर्यान्मङ्गलाख्यं जगद्धितम्  ॥ ३.१५० ॥
नीराजनं त्विदं सर्वैः कर्तव्यं शुचिविग्रहैः ।
परमश्रद्धयोत्थाय द्रष्टव्यं च सदा नरैः  ॥ ३.१५१ ॥
स्त्रीणां पुंसां च सर्वेषामेतत्सर्वेष्टपूरकम् ।
समस्तदैन्यदारिद्र्यदुरिताद्य्उपशान्तिकृत् ॥ ३.१५२ ॥

अथ प्रातःस्नानार्थोद्यमः

ततोऽरुणोदयस्यान्ते स्नानार्थं निःसरेद्बहिः ।
कीर्तयन् कृष्णनामानि तीर्थं गच्छेदनन्तरम्  ॥ ३.१५३ ॥

तथा च शुक्रस्मृतौ
ब्राह्मे मुहूर्ते चोत्थाय शुचिर्भूत्वा समाहितः ।
स्वस्तिकाद्य्आसनं बद्ध्वा ध्यात्वा कृष्णपादाम्बुजम्  ॥ ३.१५४ ॥
ततो निर्गत्य निलयान्नामानीमानि कीर्तयेत् ।
श्रीवासुदेवानिरुद्धप्रद्युम्नाधोक्षजाच्युत ।
श्रीकृष्णानन्त गोविन्द सङ्कर्षण नमोऽस्तु ते  ॥ ३.१५५ ॥
गत्वा तीर्थादिकं तत्र निक्षिप्य स्नानसाधनम् ।
विधिनाचर्य मैत्र्य्आदिकृत्यं शौचं विधाय च ।
आचम्य खानि संमार्ज्य स्नानं कुर्यात्यथोचितम्  ॥ ३.१५६ ॥

अथ मैत्र्यादिकृत्यविधिः

श्रीविष्णुपुराणे [Vइড়् ३.११.८१५] और्वसगरसंवादे गृहिधर्मकथने
ततः कल्ये समुत्थाय कुर्यान्मूत्रं नरेश्वर ।
नैरृत्यामिषुविक्षेपमतीत्याधिकं गृहात् ॥ ३.१५७ ॥
दूरादावसथान्मूत्रं पुरीषं च समुत्सृजेत् ।
पादावसेचनोच्छिष्टे प्रक्षिपेन्न गृहाङ्गणे  ॥ ३.१५८ ॥
आत्मच्छायां तरोश्छायां गोसूर्याग्न्य्अनिलांस्तथा ।
गुरुं द्विजादींश्च बुधो न मेहेत कदाचन  ॥ ३.१५९ ॥
न कृष्टे शस्यमध्ये वा गोव्रजे जनसंसदि ।
न वर्त्मनि न नद्य्आदितीर्थेषु पुरुषर्षभ  ॥ ३.१६० ॥
नाप्सु नैवाम्भसस्तीरे न श्मशाने समाचरेत् ।
उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम्  ॥ ३.१६१ ॥
उदङ्मुखो दिवोत्सर्गं विपरीतमुखो निशि ।
कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव  ॥ ३.१६२ ॥
तृणैराच्छाद्य वसुधां वस्त्रप्रावृतमस्तकः ।
तिष्ठेन्नातिचिरं तत्र नैव किञ्चिदुदीरयेत् ॥ ३.१६३ ॥

तथा कौर्मे व्यासगीतायाम्
निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ।
अन्तर्धाप्य महीं काष्ठैः पत्रैर्लोष्ट्रैस्तृणेन वा  ॥ ३.१६४ ॥
प्रावृत्य तु शिरः कुर्याद्विन्मूत्रस्य विसर्जनम् ।
न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् ।
न देवदेवालयोर्नापामपि कदाचन  ॥ ३.१६५ ॥
नदीं ज्योतींषि वीक्षित्वा न वाय्व्अग्निमुखोऽपि वा ।
प्रयादित्यं प्रत्यनलं प्रतिसोमं तथैव च  ॥ ३.१६६ ॥

काशीकाण्डे श्रीस्कन्दागस्त्यसंवादे
ततश्चावश्यकं कर्तुं नैरृतीं दिशमाश्रयेत् ।
ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुणम्  ॥ ३.१६७ ॥
कर्णोपवीत्य्उदग्वक्त्रो दिवसे सन्ध्ययोरपि ।
विन्मूत्रे विसृजेन्मौनी निशायां दक्षिणामुखः  ॥ ३.१६८ ॥
नालोकयेद्दिशो भागान् ज्योतिश्चक्रं नभोऽमलम् ।
वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत्प्रयत्नवान्  ॥ ३.१६९ ॥

तत्रैवाग्रे
न मूत्रं गोव्रजे कुर्यान्न वल्मीके न भस्मनि ।
न गर्तेषु ससत्त्वेषु न तिष्ठन्न व्रजन्नपि  ॥ ३.१७० ॥
यथासुखमुखो रात्रौ दिवा छायान्धकारयोः ।
भीतिषु प्राणबाधायां कुर्यान्मलविसर्जनम्  ॥ ३.१७१ ॥

विष्णुपुराणे [भागवतम् ३.११.१६१८] तत्रैव
वल्मीकमूषिकोत्खातां मृदं नान्तर्जलात्तथा ।
शौचावशिष्टां गेहाच्च न दद्याल्लेपसम्भवाम्  ॥ ३.१७२ ॥
अन्तःप्राण्यवपन्नां च हलोत्खातां च पार्थिव ।
परित्यजेन्मृदश्चैताः सकलाः शौचसाधने  ॥ ३.१७३ ॥
एका लिङ्गे गुदे तिस्रस्दश वामकरे नृप ।
हस्तद्वये सप्तान्या मृदः शौचोपपादिकाः  ॥ ३.१७४ ॥

यमस्मृतौ
तिस्रस्तु पादयोर्देयाः शुद्धिकामेन नित्यशः  ॥ ३.१७५ ॥

किं च
तिस्रस्तु मृत्तिका देयाः कृत्वा तु नखशोधनम्  ॥ ३.१७६ ॥

काशीखण्डे च तत्रैव
गुह्ये दद्यान्मृदं चैकां पायौ पञ्चाम्बुसान्तराः ।
दश वामकरे चापि सप्त पाणिद्वये मृदः  ॥ ३.१७७ ॥
एकैकां पादयोर्दद्यात्तिस्रः पाण्योर्मृदः स्मृताः ।
इत्थं शौचं गृही कुर्याद्गन्धलेपक्षयावधि  ॥ ३.१७८ ॥
क्रमाद्द्विगुणमेतत्तु ब्रह्मचर्यादिषु त्रिषु ।
दिवा विहितशौचाच्च रात्रावर्धं समाचरेत् ॥ ३.१७९ ॥
रुजार्धं च तद्अर्धं च पथि चौरादिपीडिते ।
तद्अर्धयोषितां चापि स्वास्थ्ये न्यूनं न कारयेत् ।
आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः  ॥ ३.१८० ॥

शङ्खस्मृतौ
मृत्तिका तु समुद्दिष्टा त्रिपर्वी पूर्यते यया  ॥ ३.१८१ ॥

दक्षस्मृतौ
अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ।
द्वितीया च तृतीया च तद्अर्धं परिकीर्तिता  ॥ ३.१८२ ॥
अथ केवलमूत्रोत्सर्गे

दक्षः
एका लिङ्गे तु सव्ये त्रिरुभयोर्मृद्द्वयं स्मृतम्  ॥ ३.१८३ ॥

ब्राह्मे
पादयोर्द्वे गृहीत्वा च सुप्रक्षालितपाणिना ।
आचम्य तु ततः शुद्धः स्मृत्वा विष्णुं सनातनम्  ॥ ३.१८४ ॥

विष्णुपुराणे [भागवतम् ३.११.१९२१] तत्रैव
अच्छेनागन्धफेनेन जलेनाबुद्बुदेन च ।
आचामेत मृदं भूयस्तथा दद्यात्समाहितः  ॥ ३.१८५ ॥
निष्पादिताङ्घ्रिशौचस्तु पापावभ्युक्ष्य वै पुनः ।
त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत् ॥ ३.१८६ ॥
शीर्षण्यानि ततः खानि मूर्धानं च मृदा लभेत् ।
बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥ ३.१८७ ॥

अत्र च विशेषो दक्षेणोक्तः
प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेदम्बु वीक्षितम् ।
संवृत्ताङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततो मुखम्  ॥ ३.१८८ ॥
संहत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् ।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्  ॥ ३.१८९ ॥
अङ्गुष्ठानामिकाभ्यां तु चक्षुःश्रोत्रे पुनः पुनः ।
कनिष्ठाङ्गुष्ठयोर्नाभिं हृदयं तु तलेन वै ।
सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् ॥ ३.१९० ॥

तथा काशीखण्डे तत्रैव
प्रागास्य उदगास्यो वा सूपविष्टः शुचौ भुवि ।
उपस्पृशेद्विहीनायां तुषाङ्गारास्थिभस्मभिः  ॥ ३.१९१ ॥
अनुष्णाभिरफेनाभिरद्भिर्हृद्गाभिरत्वरः ।
ब्राह्मणो ब्रह्मतीर्थेन दृष्टिपूतनाभिराचमेत् ॥ ३.१९२ ॥
कण्ठगाभिर्नृपः शुध्येत्तालुगाभिस्तथोरुजः ।
स्त्रीशूद्रावास्यसंस्पर्शमात्रेणापि विसुध्यतः  ॥ ३.१९३ ॥

याज्ञवल्क्यस्मृतौ
पादक्षालनशेषेण नाचामेत्वारिणा द्विजः ।
यद्याचमेत्स्रावयित्वा भूमौ बौधायनोऽब्रवीत् ॥ ३.१९४ ॥

भरद्वाजस्मृतौ
पाणिना दक्षिणेनैव संहताङ्गुलिनाचमेत् ।
मुक्ताङ्गुष्ठकनिष्ठेन नकस्पृष्टा अपस्त्यजेत् ॥ ३.१९५ ॥

कौर्मे च व्यासगीतायाम्
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।
औष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय च  ॥ ३.१९६ ॥
रेतोमूत्रपुरीषाणामुत्सर्गेऽनृतभाषणे ।
ष्थीवित्वाध्ययनारम्भे काशश्वासागमे तथा  ॥ ३.१९७ ॥
चत्वरं वा श्मशानं वा समभ्यस्य द्विजोत्तमः ।
सन्ध्योरुभयोस्तद्वदाचान्तोऽप्याचमेत्पुनः  ॥ ३.१९८ ॥

किं च
शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ।
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ॥ ३.१९९ ॥
सोपानत्कौ जलस्थो वा नोष्णीषी चाचमेद्बुधः ।
न चैव वर्षधाराभिर्हस्तोच्छिष्टे तथा बुधः  ॥ ३.२०० ॥
नैकहस्तार्पिउत्तजलैर्विना सूत्रेण वा पुनः ।
न पादुकासनस्थो वा बहिर्जानुरथापि वा  ॥ ३.२०१ ॥
अथ वैष्णवाचमनम्

त्रिःपाने केशवं नारायणं माधवमप्यथ ।
प्रक्षालने द्वयोः पाण्योर्गोविन्दं विष्णुमप्युभौ  ॥ ३.२०२ ॥
मधुसूदनमेकं च मार्जनेऽन्यं त्रिविक्रमम्  ॥ ३.२०३ ॥
उन्मार्जनेऽप्यधरयोर्वामनश्रीधरावुभौ  ॥ ३.२०४ ॥
प्रक्षालने पुनः पाण्योर्हृषीकेशं च पादयोः ।
पद्मनाभं प्रोक्षणे तु मूर्ध्नो दामोदरं ततः  ॥ ३.२०५ ॥
वासुदेवं मुखे सङ्कर्षणं प्रद्युम्नमित्युभौ ।
नासयोर्नेत्रयुगलेऽनिरुद्धं पुरुषोत्तमम् ।
अधोक्षजं नृसिंहं च कर्णयोर्नाभितोऽच्युतम्  ॥ ३.२०६ ॥
जनार्दनं च हृदये उपेन्द्रं मस्तके ततः ।
दक्षिणे तु हरिं बाहौ वामे कृष्णं यथाविधि ।
नमोऽनन्तं च चतुर्थ्य्अन्तमाचामेत्क्रमतो जपन्  ॥ ३.२०७ ॥
अशक्तः केवलं दक्षं स्पृशेत्कर्णं तथा च वाक् ।
कुर्वीतालभनं वापि दक्षिणश्रवणस्य वै  ॥ ३.२०८ ॥

अथ दन्तधावनविधिः

तत्र कात्यायनः
उत्थाय नेत्रं प्रक्षाल्य शुचिर्भूत्वा समाहितः ।
परिजप्य च मन्त्रेण भक्षयेद्दन्तधावनम्  ॥ ३.२०९ ॥

मन्त्रश्चायम्
आयुर्बलं यशो वर्चः प्रजा पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते  ॥ ३.२१० ॥

तस्य नित्यता

काशीखण्डे
अथो मुखविशुद्ध्य्अर्थं गृह्णीयाद्दन्तधावनम् ।
आचान्तोऽप्यशुचिर्यस्मादकृत्वा दन्तधावनम्  ॥ ३.२११ ॥

वाराहे च
दन्तकाष्ठमखादित्वा यस्तु मामुपसर्पति ।
सर्वकालकृतं कर्म तेन चैकेन नश्यति  ॥ ३.२१२ ॥

अथ दन्तकाष्ठनिषिद्धदिनानि

मनुः
चतुर्दश्य्अष्टमीदर्शपौर्णमास्य्अर्कसङ्क्रमः ।
एषु स्त्रीतैलमांसानि दन्तकाष्ठानि वर्जयेत् ॥ ३.२१३ ॥

संवर्तकः
आद्ये तिथौ नवम्यां च क्षये चन्द्रमसस्तथा ।
आदित्य्वारे शौरे च वर्जयेद्दन्तधावनम्  ॥ ३.२१४ ॥

कात्यायनः
प्रतिपद्दर्शषष्ठीषु नवम्यां च विशेषतः ।
दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम्  ॥ ३.२१५ ॥

वृद्धवशिष्ठः
उपवासे तथा श्राद्धेन खादेद्दन्तधावनम् ।
दन्तानां काष्ठसंयोगो हन्ति सप्तकुलानि वै  ॥ ३.२१६ ॥

अन्यत्र च
प्रतिपद्दरषष्ठीषु नवम्य्एकादशीरवौ ।
दन्तानां काष्ठसंयोगो हन्ति पुण्यं पुराकृतम्  ॥ ३.२१७ ॥

अथ तत्र प्रतिनिधिः
दिनएष्वेतेषु काष्ठैर्हि दन्तानां धावनस्य तु ।
निषिद्धत्वात्तृणैः कुर्यात्तथा काष्ठेतरैश्च तत् ॥ ३.२१८ ॥

तथा च व्यासः
प्रतिपद्दर्शषष्ठीषु नवम्यां दन्तधावनम् ।
पर्णैरन्यत्र काष्ठैश्च जीवोल्लेख्हः सदैव हि  ॥ ३.२१९ ॥

पैठीनसिः
अलाभे च निषेधे वा काष्ठानां दन्तधावनम् ।
पर्णादिना विशुद्धेन जिह्वोल्लेखः सदैव हि  ॥ ३.२२० ॥

अथ तत्रैवापवादः

काष्ठैः प्रतिपद्आदौ यन्निषिद्धं दन्तधावनम् ।
तृणपर्णैस्तु तत्कुर्यादमामेकादशीं विना  ॥ ३.२२१ ॥

अत एव व्यासस्य वचनान्तरम्
अलाभे दन्तकाष्ठानां निषिद्धायां तथा तिथौ ।
अपां द्वादशगण्डूषैर्विदध्याद्दन्तधावनम्  ॥ ३.२२२ ॥

काशीखण्डे तत्रैव
मुखे पर्युषिते यस्माद्भवेदशुचिभाग्नरः ।
ततः कुर्यात्प्रयत्नेन शुद्ध्य्अर्थं दन्तधावनम्  ॥ ३.२२५ ॥
उपवासेऽपि नो दुष्येद्दन्तधावनमञ्जनम् ।
गन्धालङ्कारसद्वस्त्रपुष्पमालानुलेपनम्  ॥ ३.२२६ ॥

अथ दन्तकाष्ठानि

स्मृतौ
सर्व कण्टकिनः पुण्याः आयुर्दाः क्षीरिणः स्मृताः ।
कटुतिक्तकषायाश्च बलारोग्यसुखप्रदाः  ॥ ३.२२७ ॥

किं च
पलाशानां दन्तकाष्ठं पादुके चैव वर्जयेत् ।
वर्जयेच्च प्रयत्नेन बटं वाश्वत्थमेव च  ॥ ३.२२८ ॥

कौर्मे श्रीव्यासगीतायाम्
मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसम्मितम् ।
सत्वचं दन्तकाष्ठं यत्तद्अग्रे न तु धारयेत् ॥ ३.२२९ ॥
क्षीरिवृक्षसमुद्भूतं मालतीसम्भवं शुभम् ।
अपामार्गं च बिल्वं वा करवीरं विशेषतह् ॥ ३.२३० ॥
वर्जयित्वा निनितानि गृहीत्वैकं यथोदितम् ।
परिहृत्य दिनं पापं भक्षयेद्वै विधानवित् ॥ ३.२३१ ॥
न पाटयेत्दन्तकाष्ठं नाङ्गुल्य्अग्रेण धारयेत् ।
प्रक्षाल्य भुक्त्वा तज्जह्यात्शुचौ देशे समाहितः  ॥ ३.२३२ ॥

काशीखण्डे च तत्रैव
कनिष्ठाग्रपरीणाहं सत्वचं निर्व्रणमृजुम् ।
द्वादशाङ्गुलमानं च सार्द्रं स्याद्दन्तधावनम् ।
जिह्वोल्लेखनिकां वापि कुर्याच्चापाकृतिं शुभाम्   ॥ ३.२३३ ॥

रामार्चनचन्द्रिकायां च
दन्तोल्लेखो वितस्त्या भवति परिमितादन्नमित्यादिमन्त्रात्
प्रातः क्षीर्य्आदिकाष्ठाद्वटखदिरपलाशैर्विनार्काम्रबिल्वैः ।
भुक्त्वा गण्डूषषट्कं द्विरपि कुशमृते देशिनीमङ्गुलीभिर्
नन्दाभूताष्टपर्वण्यपि न खलु नवम्य्अर्कसङ्क्रान्तिपाते  ॥ ३.२३४ ॥

अथ केशप्रसाधनादिः

ततश्चाचम्य विधिवत्कृत्वा केशप्रसाधनम् ।
स्मृत्वा प्रणवगायत्र्यौ निबध्नीयाच्छिखां द्विजः  ॥ ३.२३५ ॥

तथा चोक्तं
न दक्षिणामुखो नोर्ध्वं कुर्यात्केशप्रसाधनम् ।
स्मृत्वोङ्कारं च गायत्रीं निबध्नीयाच्चिखान्ततः  ॥ ३.२३६ ॥

अथ स्नानम्

विष्णुपुराणे [भागवतम् ३.११.२५] तत्रैव
नदीनदतडागेषु देवखातजलेषु च ।
नित्यक्रियार्थं स्नायीत गिरिप्रस्रवणेषु च  ॥ ३.२३७ ॥
कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि ।
स्नायीतोद्धृततोयेन अथवा भुव्यसम्भवे  ॥ ३.२३८ ॥

अथ स्नाननित्यता

तत्र कात्यायनः
यथाहनि तथा प्रातर्नित्यं स्नायादनातुरः ।
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ।
स्रवतेव दिवारात्रौ प्रातःस्नानं विशोधनम्  ॥ ३.२३९ ॥

दक्षः
प्रातर्मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः ।
यतेस्त्रिसवनं स्नानं सकृत्तु ब्रह्मचारिणः  ॥ ३.२४० ॥
सर्वे चापि सकृत्कुर्युरशक्तौ चोदकं विना  ॥ ३.२४१ ॥

किं च
अशिरस्कं भवेत्स्नानमशक्तौ कर्मिणां सदा ।
आर्द्रेण वाससा वापि पाणिना वापि मार्जनम्  ॥ ३.२४२ ॥

शङ्खश्च
अस्नातस्तु पुमान्नार्हो जपादिहवनादिषु  ॥ ३.२४३ ॥

कौर्मे व्यासगीतायाम्
प्रातःस्नानं विना पुंसां पापित्वं कर्मसु स्मृतम् ।
होमे जपे विशेषेण तस्मात्स्नानं समाचरेत् ॥ ३.२४४ ॥

काशीखण्डे
प्रस्वेदलालसाद्याक्लिन्नो निद्राधीनो यतो नरः ।
प्रातःस्नानात्ततोऽर्हः स्यान्मन्त्रस्तोत्रजपादिषु  ॥ ३.२४५ ॥

पाद्मे च देवहूतिविकुण्डलसंवादे [ড়द्मড়् ३.३१.५५५६]
स्नानं विना तु यो भुङ्क्ते मलाशी स सदा नरः ।
अस्नायिनोऽशुचेस्तस्य विमुखाः पितृदेवताः  ॥ ३.२४६ ॥
स्नानहीनो नरः पापः स्नानहीनो नरोऽशुचिः ।
अस्नायी नरकं भुङ्क्ते पुंस्कीटादिषु जायते  ॥ ३.२४७ ॥

अथ स्नानमाहात्म्यम्

महाभारते [५.३७.२९] उद्योगपर्वणि श्रीविदुरोक्तौ
गुणा दश स्नानशीलं भजन्ते
बलं रूपं स्वरवर्णप्रशुद्धिः ।
स्पर्शश्च गन्धश्च विशुद्धता च
श्रीः सौकुमार्यं प्रवराश्च नार्यः  ॥ ३.२४८ ॥

पाद्मे च [३.३१.५४५८] तत्रैव
याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति ।
नित्यस्नानेन पूयन्ते अपि पापकृतो नराः  ॥ ३.२४९ ॥
प्रातःस्नानं हरेद्वैश्य बाह्याभ्यन्तरजं मलम् ।
प्रातःस्नानेन निष्पापो नरो न निरयं व्रजेत् ॥ ३.२५० ॥
ये पुनः स्रोतसि स्नानमाचरन्तीह पर्वणि ।
तेनैव नरकं यान्ति न जायन्ते कुयोनिषु  ॥ ३.२५१ ॥
दुःस्वप्ना दुष्टचिन्ताश्च बन्ध्या भवन्ति सर्वदा ।
प्रातःस्नानेन शुद्धानां पुरुषाणां विशां वर  ॥ ३.२५२ ॥

अत्रिस्मृतौ
स्नाने मनःप्रसादः स्याद्देवा अभिमुखाः सदा ।
सौभाग्यं श्रीः सुखं पुष्टिः पुण्यं विद्या यशो धृतिः  ॥ ३.२५३ ॥
महापापान्यलक्ष्मीं च दुरितं दुर्विचिन्तितम् ।
शोकदुःखादि हरते प्रातःस्नानं विशेषतः  ॥ ३.२५४ ॥

कौर्मे तत्रैव
प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् ।
प्रातःस्नानेन पापानि पूयन्ते नात्र संशयः  ॥ ३.२५५ ॥

काशीखण्डे च
प्रातःस्नानात्यतः शुध्येत्कायोऽयं मलिनः सदा ।
छिद्रितो नवभिश्छिद्रैः स्रवत्येव दिवानिशम्  ॥ ३.२५६ ॥
उत्साहमेधासौभाग्यरूपसम्पत्प्रवर्तकम् ।
मनःप्रसन्नताहेतुः प्रातःस्नानं प्रशस्यते  ॥ ३.२५७ ॥
प्रातः प्रातस्तु यत्स्नानं संजाते चारुणोद्वये ।
प्राजापत्यसमं प्राहुस्तन्महाघविघातकृत् ॥ ३.२५८ ॥
प्रातःस्नानं हरेत्पापमलक्ष्मीं ग्लानिमेव च ।
अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति  ॥ ३.२५९ ॥
नोपसर्पन्ति वै दुष्टाः प्रातःस्नायिजनं क्वचित् ।
दृष्टादृष्टफलं तस्मात्प्रातःस्नानं समाचरेत् ॥ ३.२६० ॥
स्नानमात्रं तथा प्रातःस्नानं चात्र नियोजितम् ।
यद्यप्यन्योऽन्यमिलिते पृथग्ज्ञेये तथाप्यमू  ॥ ३.२६१ ॥

अथ स्नानविधिः

अथ तीर्थगतस्तत्र धौतवस्त्रं कुशांस्तथा ।
मृत्तिकां च तटे न्यस्य स्नायात्स्वस्वविधानतः  ॥ ३.२६२ ॥
अधौतेन तु वस्त्रेण नित्यनैमित्तिकीं क्रियाम् ।
कुर्वन्न फलमाप्नोति कृता चेन्निष्फला भवेत् ॥ ३.२६३ ॥
धौताङ्घ्रिपाणिराचान्तः कृत्वा सङ्कल्पमादरात् ।
गङ्गादिस्मरणं कृत्वा तीर्थायार्घ्यं समर्पयेत् ॥ ३.२६४ ॥
सागरस्वननिर्घोषदण्डहस्तासुरान्तक ।
जगत्स्रष्टर्जगन्मर्दिन्नमामि त्वां सुरेश्वर  ॥ ३.२६५ ॥
इमं मन्त्रं समुच्चार्य तीर्थस्नानं समाचरेत् ।
अन्यथा तत्फलस्यार्धं तीर्थेशो हरति स्वयम्  ॥ ३.२६६ ॥
नत्वाथ तीर्थं स्नानार्थमनुज्ञां प्रार्थयेदिमाम् ।
देवदेव जगन्नाथ शङ्खचक्रगदाधर ।
देहि विष्णो ममानुज्ञां तव तीर्थनिषेवणे  ॥ ३.२६७ ॥
। इति ।
विधिवन्मृदमादाय तीर्थतोये प्रविश्य च ।
प्रवाहाभिमुखो नद्यां स्यादन्यत्रार्कसम्मुखः  ॥ ३.२६८ ॥
दिग्बन्धं विधिनाचर्य तीर्थानि परिकल्प्य च ।
आवाहयेद्भगवतीं गङ्गामादित्यमण्डलात् ॥ ३.२६९ ॥
दर्भपाणिः कृतप्राणायामः कृष्णपदाम्बुजम् ।
ध्यात्वा तन्नाम सङ्कीर्त्य निमज्जेत्पुण्यवारिणि  ॥ ३.२७० ॥
आचम्य मूलमन्त्रं च सप्राणायामकं जपन् ।
कृष्णं ध्यायन् जले भूयो निमज्ज्य स्नानमाचरेत् ॥ ३.२७१ ॥
कृत्वाघमर्षणान्तं च नामभिः केशवादिभिः ।
तत्र द्वादशधा तोये निमज्ज्य स्नानमाचरेत् ॥ ३.२७२ ॥
तत्र विशेषः

श्रीनारदपञ्चरात्रे
प्रसिद्धेषु च तीर्थेषु यद्यन्यस्याभिधां स्मरेत् ।
स्नातकं तं तु तत्तीर्थमभिशप्य क्षणाद्व्रजेत् ॥ ३.२७३ ॥
। इति ।
इति वैदिकतान्त्रिकमिश्रितो विधिः ।

पाद्मे वैशाख्यमाहात्म्ये [ড়द्मড়् ५.९५.१२१६, २०२३] श्रीनारदाम्बरीषसंवादे
एवमुच्चार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः ।
स्मरन्नारायणं देवं स्नानं कुर्याद्विधानतः  ॥ ३.२७४ ॥
तीर्थं प्रकल्पयेद्धीमान्मूलमन्त्रमिमं पठन् ।
औं नमो नारायणाय मूलमन्त्र उदाहृतः  ॥ ३.२७५ ॥
दर्भपाणिस्तु विधिवदाचान्तः प्रणतो भुवि ।
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः  ॥ ३.२७६ ॥
प्रकल्प्यावाहयेद्गङ्गां मन्त्रेणानेन मानवः ।
विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता ।
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात् ॥ ३.२७७ ॥
। इत्यादि ।

सप्तवाराभिजप्तेन करसम्पुटयोजिते ।
मूर्ध्नि कृत्वा जलं भूपश्चतुर्वा पञ्च सप्त वा ।
स्नानं कृत्वा मृदा तद्वदामन्त्र्य तु विधानतः  ॥ ३.२७८ ॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्  ॥ ३.२७९ ॥
उद्धृतासि वराहेण विष्णुना शतबाहुना ।
नमस्ते सर्वलोकानां प्रभवारणि सुव्रते  ॥ ३.२८० ॥
। इति ।
गुरोः सन्निहितस्याथ पित्रोश्च चरणोदकैः ।
विप्राणां च पदाम्भोधिः कुर्यान्मूर्धन्यभिषेचनम्  ॥ ३.२८१ ॥

तथा च पाद्मे
गुरोः पादोदकं पुत्र तीर्थकोटिफलप्रदम्  ॥ ३.२८२ ॥
किं च
विप्रपादोदकक्लिन्नं यस्य तिष्ठति वै शिरः ।
तस्य भागीरथीस्नानमहन्यहनि जायते  ॥ ३.२८३ ॥

तथा गौतमीयतन्त्रे
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।
ससागराणि तीर्थानि पादे विप्रस्य दक्षिणे  ॥ ३.२८४ ॥
। इति ।
शङ्खे वसन्ति सर्वाणि तीर्थानि च विशेषतः ।
शङ्खेन मूलमन्त्रेणाभिषेकं पुनराचरेत् ॥ ३.२८५ ॥
तथैव तुलसीमिश्रशालग्रामशिलाम्भसा ।
अभिषेकं विदध्याच्च पीत्वा तत्किंचिदग्रतः  ॥ ३.२८६ ॥

तदुक्तं गौतमीयतन्त्रे
शालग्रामशिलातोयं तुलसीगन्धमिश्रितम् ।
कृत्वा शङ्खे भ्रामयंस्त्रिः प्रक्षिपेन्निजमूर्धनि  ॥ ३.२८७ ॥
शालग्रामशिलातोयमपीत्वा यस्तु मस्तके ।
प्रेक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते  ॥ ३.२८८ ॥
विष्णुपादोदकान् पूर्वं विप्रपादोदकं पिबेत् ।
विरुद्धमाचरन्मोहाद्ब्रह्महा स निगद्यते  ॥ ३.२८९ ॥

श्रीचरणामृतधारणमन्त्रः

अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
विष्णोः पादोदकं पीत्वा शिरसा धारयाम्यहम्  ॥ ३.२९० ॥
। इति ।
लेख्योऽग्र्ये कृष्णपादाब्जतीर्थधारणपानयोः ।
महिमात्र तु तत्तीर्थेनाभिषेकस्य लिख्यते  ॥ ३.२९१ ॥

अथ श्रीचरणोदकाभिषेकमाहात्म्यम्

पद्मपुराणे [३.३१.३८, १३९१४०]
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत् ॥ ३.२९२ ॥
गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास्तु याः ।
निवसन्ति सतीर्थास्ताः शालग्रामशिलाजले  ॥ ३.२९३ ॥
कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् ।
तीर्थं यदि भवेत्पुण्यं शालग्रामशिलोद्भवम्  ॥ ३.२९४ ॥

तत्रैव श्रीगौतमाम्बरीषसंवादे
येषां धौतानि गात्राणि हरेः पादोदकेन वै ।
अम्बरीष कुले तेषां दासोऽस्मि वशगः सदा  ॥ ३.२९५ ॥
राजन्ते तानि तावच्च तीर्थानि भुवनत्रये ।
यावन्न प्राप्यते तोयं शालग्रामाभिषेकजम्  ॥ ३.२९६ ॥

स्कान्दे कार्त्तिकमाहात्म्ये
गृहेऽपि वसतस्तस्य गङ्गास्नानं दिने दिने ।
शालग्रामशिलातोयैर्योऽबिषिञ्चति मानवः  ॥ ३.२९७ ॥

तत्रैवान्यत्र च
यानि कानि च तीर्थानि ब्रह्माद्या देवतास्तथा ।
विष्णुपादोदकस्यैते कलां नार्हन्ति षोडशीम्  ॥ ३.२९८ ॥
शालग्रामोद्भ्वओ देवो देवो द्वारवतीभवः ।
उभयोः स्नानतोयेन ब्रह्महत्या निवर्तते  ॥ ३.२९९ ॥

किं च
स वै चावभृतस्नातः स च गङ्गाजलाप्लुतः ।
विष्णुपादोदकं कृत्वा शङ्खेयः स्नाति मानवः  ॥ ३.३०० ॥

श्रीनृसिंहपुराणे
गङ्गाप्रयागगयनैमिषपुष्कराणि
पुण्यानि यानि कुरुजाङ्गलयामुनानि ।
कालेन तीर्थसलिलानि पुनन्ति पापं
पादोदकं भगवतः प्रपुनाति सद्यः  ॥ ३.३०१ ॥

स्मृतौ च
त्रिरात्रिफलदा नद्यो याः काश्चिदसमुद्रगाः ।
समुद्रगाश्च पक्षस्य मासस्य सरितां पतिः  ॥ ३.३०२ ॥
षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी ।
पादोदकं भगवतो द्वादशाब्दफलप्रदम्  ॥ ३.३०३ ॥

तन्नित्यता

गरुडपुराणे
जलं च येषां तुलसीविमिश्रितं
पादोदकं चक्रशिलासमुद्भवम् ।
नित्यं त्रिसन्ध्यं प्लवते न गात्रं
खगेन्द्र ते धर्मबहिष्कृता नराः  ॥ ३.३०४ ॥
। इति ।
ततो जलाञ्जलीन् क्षिप्त्वा मूर्ध्नि त्रीन् कुम्भमुद्रया ।
मूलेनाथाविशेषेण कुर्याद्देवादितर्पणम्  ॥ ३.३०५ ॥

अथ सामान्यतो देवादितर्पणम्

तच्च वैदिकेषु प्रसिद्धमेव
ब्रह्मादयो ये देवास्तान् देवान् तर्पयामि । भूर्देवांस्तर्पयामि । भुवर्देवांस्तर्पयामि । स्वर्देवांस्तर्पयामि । भूर्भुवःस्वर्देवांस्तर्पयामि  ॥ ३.३०६ ॥
। इत्यादि ।

आचाम्याङ्गानि संमार्ज्य स्नानवस्त्राण्यवाससा ।
परिधायांशुके शुक्ले निविश्याचमनं चरेत् ॥ ३.३०७ ॥
विधिवत्तिलकं कृत्वा पुनश्चाचम्य वैष्णवः ।
विधाय वैदिकीं सन्ध्यामथोपासीत तान्त्रिकीम्  ॥ ३.३०८ ॥

अथ वैदिकी सन्ध्या

कौर्मे तत्रैव
प्राक्कुलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ।
प्राणायामत्रयं कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः  ॥ ३.३०९ ॥

मनुस्मृतौ (?)
ब्राह्मणाः शाक्तिकाः सर्वे न शैवा न च वैष्णवाः ।
यत उपासते देवीं गायत्रीं वेदमातरम्  ॥ ३.३१० ॥
या च सन्ध्या जगत्सूतिर्मायातीता हि निष्कला ।
ऐश्वरी केवला शक्तिस्तत्त्वत्रयसमुद्भवा  ॥ ३.३११ ॥
ध्यात्वार्कमण्डलगतां सावित्रीं तां जपेद्बुधः ।
प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत् ॥ ३.३१२ ॥

किं च
सहस्रपरमां नित्यं शतमध्यां दशावराम् ।
सावित्रीं वै जपेद्विद्वान् प्राङ्मुखः प्रयतः स्थितः  ॥ ३.३१३ ॥

किं च
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत्कुरुते किञ्चिन्न तस्य फलमप्नुयात् ॥ ३.३१४ ॥
योऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः ।
विहाय सन्ध्याप्रणतिं स याति नरकायुतम्  ॥ ३.३१५ ॥
अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः ।
उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वे परां गतिम्  ॥ ३.३१६ ॥

अथ तान्त्रिकी सन्ध्या

ततः सम्पूज्य सलिले निजां श्रीमन्त्रदेवताम् ।
तर्पयेद्विधिना तस्य तथिवावरणानि च  ॥ ३.३१७ ॥

तथा च बोधायनस्मृतौ
हविषाग्नौ जले पुष्पैर्ध्यानेन हृदये हरिम् ।
अर्चन्ति सूरयो नित्यं जपेन रविमण्डले  ॥ ३.३१८ ॥

पाद्मे च तत्रैव
सूर्ये चाभ्यर्हणं श्रेष्ठं सलिले सलिलादिभिः  ॥ ३.३१९ ॥

अथ तद्विधिः

मूलमन्त्रमथोच्चार्य ध्यायन् कृष्णाङ्घ्रिपङ्कजे ।
श्रीकृष्णं तर्पयामीति त्रिः सम्यक्तर्पयेत्कृती  ॥ ३.३२० ॥
ध्यानोद्दिष्टस्वरूपाय सूर्यमण्डलवर्तिने ।
कृष्णाय कामगायत्र्या दद्यादर्घ्यमनन्तरम्  ॥ ३.३२१ ॥
अथ कामगायत्री

श्रीसनत्कुमारकल्पे
आदौ मन्मथमुद्धृत्य कामदेवपदं वदेत् ।
आयान्ते विद्महे पुष्पबाणायेति पदं वदेत् ।
धीमहीति तथोक्त्वाथ तन्नोऽनङ्गः प्रचोदयात् ॥ ३.३२२ ॥
। इति ।
अथार्कमण्डले कृष्णं ध्यात्वैतां दशधा जपेत् ।
क्षमस्वेति तमुद्वास्य दद्यादर्घ्यं विवस्वते  ॥ ३.३२३ ॥
विधिस्तान्तिर्कसन्ध्याया जलेऽर्चायाश्च कश्चन ।
योऽन्यो मन्येत सोऽप्यत्र तद्विशेषाय लिख्यते  ॥ ३.३२४ ॥
अथ मतान्तरतान्त्रिकसन्ध्याविधिः

आदौ दक्षिणहस्तेन गृह्णीयाद्वारि वैष्णवः ।
ततो हृदयमन्त्रेण वामपाणितलेऽर्पयेत् ॥ ३.३२५ ॥
तद्अङ्गुलीविनिर्याताम्भःकणैर्दक्षपाणिना ।
मस्तके नेत्रमन्त्रेण कुर्यात्सम्प्रोक्षणं ततः  ॥ ३.३२६ ॥
शिष्टं तच्चास्त्रमन्त्रेणादायाम्भो दक्षपाणिना ।
अधः क्षिपेत्पुनश्चैवमिति वारचतुष्टयम्  ॥ ३.३२७ ॥
पुनर्हृदयमन्त्रेणादायाम्भो दक्षपाणिना ।
नासापुटेन वामेनाघ्रायान्येन विसर्जयेत् ॥ ३.३२८ ॥
अथाम्भोऽञ्जलिमादाय सूर्यमण्डलवर्तिने ।
अर्घ्यं गोपालगायत्र्या कृष्णाय त्रिर्निवेदयेत् ॥ ३.३२९ ॥

सा चोक्ता

ब्रूयाद्गोपीजनं ङेऽन्तं विद्महे इत्यतः परम् ।
पुनर्गोपीजनं तद्वद्धीमहीति ततः परम् ।
तन्नः कृष्ण इति प्रान्ते प्रपूर्वं चोदयादिति  ॥ ३.३३० ॥
मूर्ध्नि न्यसेत्तद्अङ्गानि ललाटे नेत्रयोर्द्वयोः ।
भुजयोः पादयोश्चैव सर्वाङ्गेषु तथा क्रमात् ॥ ३.३३१ ॥

तानि चोक्तानि
पञ्चभिश्च तिर्भिश्चैव पञ्चभिश्च त्रिभिः पुनः ।
चतुर्भिश्च चतुर्भिश्च कुर्यादङ्गानि वर्णकिः  ॥ ३.३३२ ॥
। इति ।
रासक्रीडारतं कृष्णं ध्यात्वा चादित्यमण्डले ।
तत्सम्मुखोत्क्षिप्तभुजो गायत्रीं तां जपेत्क्षणम्  ॥ ३.३३३ ॥

अथ तत्र जले श्रीभगवत्पूजाविधिः

अङ्गन्यासं स्वमन्त्रेण कृत्वाथाब्जं जलान्तरे ।
सञ्चिन्त्य पीठमन्त्रेण तर्पयेच्च सकृत्सकृत् ॥ ३.३३४ ॥
तस्मिंश्च कृष्णमावाह्य सकलीकृत्य मानसान् ।
पञ्चोपचारात्दत्त्वाप्सु धेनुमुद्रां प्रदर्शयेत् ॥ ३.३३५ ॥
तज्जलं चामृतं ध्यात्वा स्वमन्त्रेणाभिमन्त्र्य च ।
अष्टोत्तरशतं कृष्णोत्तमाङ्गे तर्पयेत्कृती  ॥ ३.३३६ ॥
ततश्च मूलमन्त्रेण वारान् वै पञ्चविंशतिम् ।
अभिजप्तेनोदकेनाचमनं विधिना चरेत् ॥ ३.३३७ ॥

अथ विशेषतो देवादितर्पणम्

पाद्मे [१.२०.१५६१६३;  तत्रैव
ब्रह्माणं तर्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतीन् ।
देवा यक्षास्तथा नागा गन्धर्वाप्सरसां गणाः  ॥ ३.३३८ ॥
क्रूराः सर्पाः सुपर्णाश्च तरवो जम्भकादयः ।
विद्याधरा जलधरास्तथैवाकाशगामिनः  ॥ ३.३३९ ॥
निराधाराश्च ये जीवा पापधर्मरताश्च ये ।
तेषामाप्यायनायैतद्दीयते सलिलं मया  ॥ ३.३४० ॥
कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः ।
मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा  ॥ ३.३४१ ॥
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ।
सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा  ॥ ३.३४२ ॥
मरीचिमत्र्य्अङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ।
देवब्रह्मर्षीन् सर्वांस्तर्पयेत्साक्षतोदकैः  ॥ ३.३४३ ॥
अपसव्यं ततः कृत्वासव्यं जानु च भूतले ।
अग्निष्वात्तास्तथा सौम्या बहिष्मन्तस्तथोष्मपाः  ॥ ३.३४४ ॥

कव्यानलौ बर्हिषदस्तथा चैवाज्यपाः पुनः ।
तर्पयेत्पितृभक्त्या च सतिलोक्दकचन्दनैः  ॥ ३.३४५ ॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूताक्षयाय च  ॥ ३.३४६ ॥
औडुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः  ॥ ३.३४७ ॥
दर्भपाणिः सुप्रयतः पितॄन् स्वान् तर्पयेत्ततः  ॥ ३.३४८ ॥
पित्रादीन्नामगोत्रेण तथा मातामहानपि ।
सन्तर्प्य विधिना सर्वानिमं मन्त्रमुदीरयेत् ॥ ३.३४९ ॥
येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।
ते तृप्तिमखिलां यान्तु ये चास्मत्तोयकाङ्क्षिणः  ॥ ३.३५० ॥
। इति ।
सन्ध्योपासनतः पूर्वं केचिद्देवादितर्पणम् ।
मन्यन्ते सकृदेवेदं पुराणोक्तानुसारतः  ॥ ३.३५१ ॥

तथा च पाद्मे, स्नाने मृद्ग्रहणानन्तरम्
एवं स्नात्वा ततः पश्चादाचम्य सुविधानतः ।
उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै ।
ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय वै  ॥ ३.३५२ ॥

अत एव श्रीरामार्चनचन्द्रिकायाम्
निष्पीडयित्वा वस्त्रं तु पश्चात्सन्ध्यां समाचरेत् ।
अन्यथा कुरुते यस्तु स्नानं तस्याफलं भवेत् ॥ ३.३५३ ॥

किं च
वस्त्रं त्रिगुणितं यस्तु निष्पीडयति मूढधीः ।
वृथा स्नानं भवेत्तस्य निष्पीडयति चाम्बुनि  ॥ ३.३५४ ॥

काशीकाण्डे
अपि सर्वनदीतोयैर्मृत्कूटैश्चाथ गोरसैः ।
आपातमाचरेच्छौचं भावदुष्टो न शुद्धिभाक् ॥ ३.३५५ ॥
नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किमु पावनाः ।
शतशोऽपि तथा स्नाता न शुद्धा भावदूषिताः  ॥ ३.३५६ ॥

पाद्मे वैशाखमाहात्म्ये [५.८७.३०,३३] श्रीनारदाम्बरीषसंवादे
पुण्येन गाङ्गेन जलेन काले
देशेऽपि यः स्नानपरोऽपि भूप ।
आजन्मतो भावहतोऽपि दाता न
शुद्ध्यतीत्येव मतं ममैतत् ॥ ३.३५७ ॥

प्रज्वाल्य वह्निं घृततैलसिक्तं
प्रदक्षिणावर्तशिखं स्वकाले ।
प्रविश्य दग्धः किल भावदुष्टो
न स्वर्गमाप्नोति फलं न चान्यत् ॥ ३.३५८ ॥

अतएव भविष्योत्तरे
यस्य हस्तौ च पादौ च वाङ्मनश्च सुसंयतम् ।
विद्यातपश्च कीर्तिश्च स तीर्थफलमाप्नुयात् ॥ ३.३५९ ॥
अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः ।
हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः  ॥ ३.३६० ॥

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे
शौचीयो नाम तृतीयो विलासः ।

*************************************************************************

 


४. Vऐस्नवलम्करVइलस

चतुर्थो विलासः
श्रीवैष्णवालङ्कारः


स्नात्वा श्रीकृष्णचैतन्यनामतीर्थोत्तमे सकृत् ।
नित्याशुचिः शुचीन्द्रः सन् स्वधर्मं वक्तुमर्हति  ॥ ४.१ ॥
अथ स्वगृहमागच्छेदादौ नत्वेष्टदेवताम् ।
गुरून् ज्येष्ठांश्च पुष्पैधःकुशाम्भोधारकेतरान्  ॥ ४.२ ॥

तथा च श्रीनृसिंहपुराणे
जले देवं नमस्कृत्य ततो गच्छेद्गृहं पुमान् ।
पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत् ॥ ४.३ ॥

अथ श्रीभगवन्मन्दिरसंस्कारः

मन्दिरं मार्जयेद्विष्णोर्विधायाचमनादिकम् ।
कृष्णं पश्यन् कीर्तयंश्च दास्येनात्मानमर्पयेत् ॥ ४.४ ॥
शुद्धं गोमयमादाय ततो मृत्स्नां जलं तथा ।
भक्त्या तत्परितो लिम्पेदभुक्षेच्च तद्अङ्गनम्  ॥ ४.५ ॥

तथा च नवमस्कन्धे [भागवतम् ९.४.२८] श्रीमद्अम्बरीषोपाख्याने
स वै मनः कृष्णपदारविन्दयोर्
वचांसि वैकुण्ठगुणानुवर्णने
करौ हरेर्मन्दिरमार्जनादिषु
श्रुतिं चकाराच्युतसत्कथोदये  ॥ ४.६ ॥

एकादशस्कन्धे [भागवतम् ११.११.३९] श्रीभगवद्उद्धवसंवादे भगवद्धर्मकथने
सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः ।
गृहशुश्रूषणं मह्यं दासवद्यदमायया  ॥ ४.७ ॥

अथ तत्र संमार्जनमाहात्म्यम्

श्रीनृसिंहपुराणे
नरसिंहगृहे नित्यं यं सम्मार्जनमाचरेत् ।
समस्तपापनिर्मुक्तो विष्णुलोके स मोदते  ॥ ४.८ ॥

श्रीविष्णुधर्मोत्तरे
संमार्जनं तु यः कुर्यात्पुरुषः केशवालये ।
रजस्तमोभ्यां निर्मुक्तः स भवेन्नात्र संशयः  ॥ ४.९ ॥
पांशूनां यावतां राजन् कुर्यात्संमार्जनं नरः
तावन्त्यब्दानि स सुखी नाकमासाद्य मोदते  ॥ ४.१० ॥

श्रीवाराहे
यावत्कानि प्रहाराणि भूमिसंमार्जने ददुः ।
तावद्वर्षसहस्राणि शाकद्वीपे महीयते  ॥ ४.११ ॥
जायते मम भक्तश्च सर्वधर्मसमन्वितः ।
शुचिर्भागवतः शुद्धो ह्यपराधविवर्जितः  ॥ ४.१२ ॥
ततो भुक्त्वा सर्वभोगान् तीर्त्वा संसारसागरम् ।
शाकद्वीपात्परिभ्रष्टः स्वर्गलोकं स गच्छति  ॥ ४.१३ ॥
नन्दनं वनमाश्रित्य मोदते चाप्सरैः सह ।
नन्दनाच्च परिभ्रष्टो मम कर्मव्यवस्थितः ।
सर्वसङ्गात्परित्यज्य मम लोकं तु गच्छति  ॥ ४.१४ ॥
अथोपलेपनमाहात्म्यम्

तत्रैव
गोमयं गृह्य वै भूमिं मम वेश्मोपलेपयेत् ।
यावतस्तु पदांस्तत्र समन्तादुपलेपयेत् ।
तावद्वर्षसहस्राणि मद्भक्तो जायते तथा  ॥ ४.१५ ॥
समीपे यदि वा दूरे यश्चालयति गोमयम् ।
यावत्तस्य पदाग्राणि तावत्स्वर्गे महीयते  ॥ ४.१६ ॥
शाल्मलौ तत्परिभ्रष्टो राजा भवति धार्मिकः ।
मद्भक्तश्चैव जायते सर्वशास्त्रविशारदः  ॥ ४.१७ ॥
यश्चालेपयते भूमिं गोमयेन दृढव्रतः ।
तस्य दृष्ट्वानुलेपं तु मम तुष्टिः प्रजायते  ॥ ४.१८ ॥
गोश्च यस्याः पुरीषेण क्रियते भूमिलेपनम् ।
एकेनैव तु लेपेन गोयोन्या विप्रमुच्यते  ॥ ४.१९ ॥
स्थानोपलेपने भूमे सलिलं यो ददाति मे ।
तस्य पुण्यं महाभागे शृणु तत्त्वेन निष्कलम्  ॥ ४.२० ॥
यावन्ति जलबिन्दूनि लिप्यमानस्य सुन्दरि ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते  ॥ ४.२१ ॥
यावन्तो बिन्दवः केचित्पानीयस्य वसुन्धरे ।
तावद्वर्षसहस्राणि क्रौञ्चद्वीपे महीयते  ॥ ४.२२ ॥
क्रौञ्चद्वीपात्परिभ्रष्टः सर्वधर्मपरायणः ।
सर्वसङ्गान् परित्यज्य मम लोकं च गच्छति  ॥ ४.२३ ॥

श्रीविष्णुधर्मोत्तरे
कृत्वोपलेपनं विष्णोर्नरस्त्वायतने सदा ।
गोमयेन शुभान् लोकानयत्नादेव गच्छति  ॥ ४.२४ ॥
हस्तप्रमाणं भूभागमुपलिप्य नराधिप ।
देवरामाशतं नाके लभते सततं नरः  ॥ ४.२५ ॥

नारसिंहे
गोमयेन मृदा तोयैर्यः कुर्यादुपलेपनम् ।
चान्द्रायणफलं प्राप्य विष्णुलोके महीयते  ॥ ४.२६ ॥

तत्रैव श्रीधर्मराजस्य दूतानुशासने
संमार्जनं यः कुरुते गोमयेनोपलेपनम् ।
करोति भवने विष्णोस्त्याज्यं तेषां कुलत्रयम्  ॥ ४.२७ ॥

अथाभुक्षणमाहात्म्यम्

श्रीविष्णुधर्मोत्तरे
अभ्युक्षणं तु यः कुर्यात्पानीयेन सुरालये ।
स शान्ततापो भवति नात्र कार्या विचारणा  ॥ ४.२८ ॥
अभ्युक्षणं तु यः कुर्याद्देवदेवाजिरे नरः ।
सर्वपापविनिर्मुक्तो वारुणं लोकमश्नुते  ॥ ४.२९ ॥
सर्वतोभद्रपद्मादीनभिज्ञः स्वस्तिकानि च ।
विरचय्य विचित्राणि मण्डयेद्धरिमन्दिरम्  ॥ ४.३० ॥

तथा च नारसिंहे
संमार्जनोपलेपाभ्यां रङ्गपद्मादिशोभनम् ।
कुर्यात्स्थानं महाविष्णोः सोज्ज्वलाङ्गं मुदान्वितः  ॥ ४.३१ ॥
अथ मण्डलमाहात्म्यम्

स्कन्दपुराणे कार्त्तिकप्रसङ्गे
अगम्यगमने पापमभक्ष्यस्य च भक्षणे ।
सर्वं तन्नाशमाप्नोति मण्डयित्वा हरेर्गृहम्  ॥ ४.३२ ॥
अणुमात्रं तु यः कुर्यान्मण्डलं केशवाग्रतः ।
मृदा धातुविकारैश्च दिवि कल्पशतं वसेत् ॥ ४.३३ ॥
शालग्रामशिलाग्रे तु यः कुर्यात्स्वस्तिकं शुभम् ।
कार्त्तिके तु विशेषेण पुनात्यासप्तमं कुलम्  ॥ ४.३४ ॥
मण्डलं कुरुते नित्यं या नारी केशवाग्रतः ।
सप्तजन्मानि वैधव्यं न प्राप्नोति कदाचन  ॥ ४.३५ ॥
गृहीत्वा गोमयं या तु मण्डलं केशवाग्रतः ।
भर्तुर्वियोगं नाप्नोति सन्ततेश्च धनस्य च  ॥ ४.३६ ॥
प्राङ्गणं वर्णकोपेतं स्वस्तिकैश्च समन्वितम् ।
देवस्य कुरुते यस्तु क्रीडते भुवनत्रये  ॥ ४.३७ ॥

नारदीये
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ।
विष्णुलोकेऽथ तत्र रथैः सस्पृहं वीक्ष्यते सुखी  ॥ ४.३८ ॥

हरिभक्तिसुधोदये
उपलिप्यालयं विष्णोश्चित्रयित्वाथ वर्णकैः ।
विष्णुलोकेऽथ तत्रस्थैः सस्पृहं वीक्ष्यते सुखी  ॥ ४.३९ ॥

अथ स्वस्तिकलक्षणम्

आगमे
विदिग्गतचतुष्काणि भित्त्वा षोडशधा सुधीः ।
मार्जयेत्स्वस्तिकाकारं श्वेतपीतारुणासितैः  ॥ ४.४० ॥

तत्र च पञ्चरात्रवचनम्
रजांसि पञ्चवर्णानि मण्डलार्थं हि कारयेत् ।
शालितण्डुलचूर्णेन शुक्लं वा यवसम्भवम्  ॥ ४.४१ ॥
रक्तकुङ्कुमसिन्दूरगैरिकादिसमुद्भवम् ।
हरितालोद्भवं पीतं रजनीसम्भवं क्वचित् ।
कृष्णं दग्धैर्हरिद्यवैर्हरित्पीतैर्विमिश्रितम्  ॥ ४.४२ ॥

अथ तत्र ध्वजपताकाद्य्आरोपणम्

ततो ध्वजपताकादि विन्यस्य हरिमन्दिरे ।
विचित्रं भूषयेत्तच्च भगवद्भक्तिमान्नरः  ॥ ४.४३ ॥

अथ ध्वरारोपणमाहात्म्यम्

ध्वजमारोपयेद्यस्तु प्रासादोपरि भक्तितः ।
तस्य ब्रह्मपदे वासः क्रीडते ब्रह्मणा सह  ॥ ४.४४ ॥

बृहन्नारदीये [१.१९.२]
यः कुर्याद्विष्णुभवने ध्वजारोपणमुत्तमम् ।
संपूज्यते विरिञ्च्य्आद्यैः किमन्यैर्बहुभाषितैः  ॥ ४.४५ ॥

तत्रैवाग्रे च [णार्ড়् १.१९.४२३, ४५]
पटो ध्वजस्य विप्रेन्द्र यावच्चलति वायुना ।
तावन्ति पापजालानि नश्यन्त्येव न संशयः  ॥ ४.४६ ॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।
ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपातकैः  ॥ ४.४७ ॥
आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः ।
तेऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः  ॥ ४.४८ ॥
।िति।

एवं बृहन्नारदीये ख्यातं यच्चान्यदद्भुतम् ।
ध्वजारोपणमाहात्म्यं तद्द्रष्टव्यमिहाखिलम्  ॥ ४.४९ ॥

अथ पतादारोपणमाहात्म्यम्

द्वारकामाहात्म्ये
कृष्णालयं यः कुरुते पताकाभिश्च शोभितम् ।
सदैव तस्य लोके तु वासस्तस्य न चान्यतः  ॥ ४.५० ॥

विष्णुधर्मोत्तरे
पताकां च शुभां दत्त्वा तथा केशववेश्मनि ।
वायुलोकम्  अवाप्नोति बहूनब्दगणान् द्विजः  ॥ ४.५१ ॥
दोधूयते यथा सा तु वायुना केशवालये ।
तथा तस्यापि सकलं देहात्पापं विधूयते  ॥ ४.५२ ॥

अथ वन्दनमालाकदलीस्तम्भारोपणमाहात्म्यम्

द्वारकामाहात्म्ये तत्रैव
भूप वन्दनमालां तु कुरुते कृष्णवेश्मनि ।
देवकन्यावृतैर्लक्षैः सेव्यते सुरनायकैः  ॥ ४.५३ ॥
यः कुर्यात्कृष्णभवनं कदलीस्तम्भशोभितम् ।
नन्दते चाप्सरोयुक्तः स्वागतं तस्य देवराट् ॥ ४.५४ ॥

अथ पीठपात्रवस्त्रादिसंस्कारः

तत्र ताम्रादिपात्रं यत्प्रभोर्वस्त्रादिकं च यत् ।
पीठादिकं च तत्सर्वं यथोक्तं च विशोधयेत् ॥ ४.५५ ॥

तत्र पीठस्य संस्कारः

नारसिंहे
पादपीठं च कृष्णस्य बिल्वपत्रेण धर्षयेत् ।
उष्णाम्बुना च प्रक्षाल्य सर्वपापैः प्रमुच्यते  ॥ ४.५६ ॥

अथ तैजसादिपात्राणां संस्कारः

मार्कण्डेयपुराणे
उडुम्बराणामम्लेन क्षारेण त्रपुसीसयोः ।
भस्माम्बुभिश्च काम्स्यानां शुद्धिः प्लावो द्रवस्य च  ॥ ४.५७ ॥

वायुपुराणे च
मणिवज्रप्रवालानां मुक्ताशङ्खोपलस्य च ।
सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः  ॥ ४.५८ ॥

ब्राह्मे
सुवर्णरूप्यशङ्खाश्मशुक्तिरत्नमयानि च ।
कांस्यायस्ताम्ररैत्यानि त्रपुसीसमयानि च  ॥ ४.५९ ॥
निर्लेपानि तु शुध्यन्ति केवलेनोदकेन तु ।
शूद्रोच्छिष्ठानि शोध्यानि त्रिधा क्षाराम्लवारिभिः  ॥ ४.६० ॥
।िति।

अतिदुष्टं तु पात्रादि विशोध्यातिथ्यकर्मणे ।
युञ्ज्यात्तत्परिवर्ताय प्रभुकर्मान्तराय वा  ॥ ४.६१ ॥
एतस्य परिवर्तेन प्रभवेऽन्यत्समर्पयेत् ।
इत्ययं सर्वतो लोके सदाचारो विराजते  ॥ ४.६२ ॥

मनुः [५.११४]
ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च ।
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः  ॥ ४.६३ ॥

शङ्खः
अम्लोदकेन ताम्रस्य सीसस्य त्रपुणस्तथा ।
क्षारेण शुद्धिं कांस्यस्य लौहस्य च विनिर्दिशेत् ॥ ४.६४ ॥

किं च
सूतिकोच्छिष्ठभाण्डस्य सुराद्य्उपहतस्य च ।
त्रिःसप्तमार्जनाच्छुद्धिर्न तु कांस्यस्य तापनम्  ॥ ४.६५ ॥

अन्यत्र च
ताम्रमम्लेन शुध्येन न चेदामिषलेपनम् ।
आमिषेण तु यल्लिप्तं पुनर्दाहेन शुध्यन्ति  ॥ ४.६६ ॥

ब्राह्मे
सूतिकाशवविण्मूत्ररजःस्वलहतानि च ।
प्रक्षेप्तव्यानि तान्यग्नौ यच्च यावत्सहेदपि  ॥ ४.६७ ॥

अत एव देवलः
लोहानां दहनाच्छुद्धिर्भस्मना गोमयेन वा ।
दहनात्खननाद्वापि शैलानामम्भसापि वा  ॥ ४.६८ ॥
काष्ठानां तक्षणाच्छुद्धिर्मृद्गोमयजलैरपि ।
मृण्मयानां तु पात्राणां दहनाच्छुद्धिरिष्यते  ॥ ४.६९ ॥

मनुः [५.१२३]
मद्यैर्मूत्रैः पुरीषैर्वा ष्ठीवनैह्पूयशोणितैः ।
संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम्  ॥ ४.७० ॥

वृद्धशातातपः
संहतानां तु पात्राणां यदेकमुपहन्यते ।
तस्यैवं शोधनं प्रोक्तं सामान्यद्रव्यशुद्धिकृत् ॥ ४.७१ ॥

अथ वस्त्रादीनां संस्कारः

तत्र शङ्खः
तान्तवं मलिनं पूर्वमद्भिः क्षारैश्च शोधयेत् ।
अंशुभिः शोषयित्वा वा वायुना वा समाहरेत् ॥ ४.७२ ॥
ऊर्णापट्टांशुकक्षौमदुकूलाविकचर्मणाम् ।
अल्पाशौचे भवेच्छुद्धिः शोषणप्रोक्षणादिभिः  ॥ ४.७३ ॥
तान्येवामेध्यलिप्तानि नेनिज्याद्गौरसर्षपैः ।
धान्यकल्कैः पर्णकल्कैः रसैश्च फलबल्कलैः  ॥ ४.७४ ॥
तुलिकाद्य्उपधानानि पुष्परत्नाम्बराणि च ।
शोधयित्वातपे किंचित्करैरुन्मार्जयेन्मुहुः  ॥ ४.७५ ॥
पश्चाच्च वारिणा प्रोक्ष्य शुचीत्येवमुदाहरेत् ।
तान्यप्यतिमलाक्तानि यथावत्परिशोधयेत् ॥ ४.७६ ॥

शातातपः
कुसुम्भकुङ्कुमारक्तास्तथा लाक्षारसेन च ।
प्रक्षालनेन शुध्यन्ति चण्डालस्पर्शने तथा  ॥ ४.७७ ॥

यमः
कृष्णाजिनानां वातैश्च बालानां मृद्भिरम्भसा ।
गोमूत्रेणास्थिदन्तानां क्षौमाणां गौरसर्षपैः  ॥ ४.७८ ॥

शङ्खः
सिद्धार्थकानां कल्केन दन्तशृङ्गमयस्य च ।
गोबालैः फलपात्राणामस्थ्नां स्याच्छृङ्गवत्तथा  ॥ ४.७९ ॥

किं च
निर्यासानां गुडानां च लवणानां तथैव च ।
कुसुम्भकुसुमानां च ऊर्णाकार्पासयोस्तथा ।
प्रोक्षणात्कथिता शुद्धिरित्याह भगवान् यमः  ॥ ४.८० ॥

मनुः [५.११८९, १२२]
अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते  ॥ ४.८१ ॥
चैलवत्चर्मणां शुद्धिर्वैदलानां तथैव च ।
शाकमूलफलानां च धान्यवत्शुद्धिरिष्यते  ॥ ४.८२ ॥
प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुध्यति ।
मार्जनोपाञ्जनैर्वेश्म पुनःपाकेन मृत्मयम्  ॥ ४.८३ ॥

किं च [मनु ५.१२६]
यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः ।
तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु  ॥ ४.८४ ॥

बृहस्पतिः
वस्त्रवैदलचर्मादेः शुद्धिः प्रक्षालनं स्मृतम् ।
अतिदुष्टस्य तन्मात्रं त्यजेच्छित्त्वा तु शुद्धये  ॥ ४.८५ ॥

विष्णुः
मृत्पर्णतृणकाष्ठानां श्वास्थिचाण्डालवायसैः ।
स्पर्शने विहितं शौचं सोमसूर्यांशुमारुतैः  ॥ ४.८६ ॥

बौधायनः
आसनं शयनं यानं नावः पन्थास्तृणानि च ।
मारुतार्केण शुध्यन्ति पक्वेष्टरचितानि च  ॥ ४.८७ ॥

अथ धान्यादीनां संस्कारः

तत्र बौधायनः
व्रीहयः प्रोक्षणादद्भिः शाकमूलफलानि च ।
तन्मात्रस्यापहाराद्वा निस्तुषीकरणेन च  ॥ ४.८८ ॥

शङ्खः
श्रपणं घृततैलानां प्लावनं गोरसस्य च ।
भाण्डानि प्लावयेदद्भिः शाकमूलफलानि च  ॥ ४.८९ ॥

ब्राह्मे
द्रवद्रव्याणि भूरीणि परिप्लाव्यानि चाम्भसा  ॥ ४.९० ॥
शस्यानि व्रीहयश्चैव शाकमूलफलानि च ।
त्यक्त्वा तु दूषितं भागं प्लाव्यान्यथ जलेन तु  ॥ ४.९१ ॥

बृहस्पतिः
तापनं घृततैलानां प्लावनं गोरसस्य च ।
तन्मात्रमुद्धृतं शुध्येत्कठिनं तु पयोदधि  ॥ ४.९२ ॥
अविलीनं तथा सर्पिर्विलीनं श्रपणेन तु ।
आधारदोषे तु नयेत्पात्रात्पात्रान्तरं द्रवम्  ॥ ४.९३ ॥
घृतं च पायसं क्षीरं तथैक्षवरसो गुडः ।
शूद्रभाण्डस्थितं तक्रं तथा मधु न दुष्यति  ॥ ४.९४ ॥

किं च मनुः [५.१४३]
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथं चन ।
अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात् ॥ ४.९५ ॥
।िति।

अन्येऽपि शुद्धिविधयो द्रव्याणां स्मृतिशास्त्रतः ।
अपेक्ष्या वैष्णवैर्ज्ञेयास्तत्तद्विस्तारणैरलम्  ॥ ४.९६ ॥

अथ पूजार्थतुलसीपुष्पाद्य्आहरणम्

प्रणम्याथ महाविष्णुं प्रार्थ्यानुज्ञां तु वैष्णवः ।
समाहरेत्श्रीतुलसीं पुष्पादि च यथोदितम्  ॥ ४.९७ ॥

यच्च हारीतवचनम्
स्नानं कृत्वा तु ये केचित्पुष्पं गृह्णन्ति वै द्विजाः ।
देवतास्तन्न गृह्णन्ति भस्मीभवति काष्ठवत् ॥ ४.९८ ॥
।िति।

तच्च मध्याह्नस्नानविषयम्, यत उक्तं पाद्मे [५.९८.७] वैशाखमाहात्म्ये
अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृकर्मणि ।
तत्सर्वं निष्फलं याति पञ्चगव्येन शुध्यति  ॥ ४.९९ ॥

अथ गृहस्नानविधिः

स्वगृहे वाचरन् स्नानं प्रक्षाल्याङ्घ्री करौ तथा ।
आचम्यायम्य च प्राणान् कृतन्यासो हरिं स्मरेत् ॥ ४.१०० ॥
ततो गङादिकं स्मृत्वा तुलसीमिश्रितैर्जलैः ।
पूर्णे पात्रे समस्तानि तीर्थान्यावाहयेत्कृती  ॥ ४.१०१ ॥

आवाहनमन्त्रश्चायम्
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु  ॥ ४.१०२ ॥
।िति ॥

अथवा जाह्नवीमेव सर्वतीर्थमयीं बुधः ।
आवाहयेद्द्वादशभिर्नामभिर्जलभाजने  ॥ ४.१०३ ॥

द्वादशनामानि
नलिनी नन्दिनी सीता मालिनी च महापगा ।
विष्णुपादार्घ्यसम्भूता गङ्गा त्रिपथगामिनी ।
भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी  ॥ ४.१०४ ॥

पद्मपुराणे [५.९५.१७१८] च वैशाखमाहात्म्ये
नन्दिनीत्येव ते नाम वेदेषु नलिनीति च ।
दक्षा पृथ्वी च विहगा विश्वगाथा शिवप्रिया  ॥ ४.१०५ ॥
विद्याधरी महादेवी तथा लोकप्रसादिनी ।
क्षेमंकरी जाह्नवी च शान्ता शान्तिप्रदायिनी  ॥ ४.१०६ ॥

अथाचम्य गुरुं स्मृतानुज्ञां प्रार्थ्य च पूर्ववत् ।
कृष्णपादाब्जतो गङ्गां पतन्तीं मूर्ध्नि चिन्तयेत् ॥ ४.१०७ ॥

तथा चोक्तं श्रीनारदपञ्चरात्रे
स्वस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् ।
अनन्तादित्यसङ्काशं वासुदेवं चतुर्भुजम्  ॥ ४.१०८ ॥
शङ्खचक्रगदापद्मधरं पीताम्बरावृतम् ।
श्यामलं शान्तवदनं प्रसन्नं वरदेक्षणम्  ॥ ४.१०९ ॥
दिव्यचन्दनलिप्ताङ्गं चारहासमुखाम्बुजम् ।
अनेकरत्नसंछन्नज्वलन्मकरकुण्डलम्  ॥ ४.११० ॥
वनमालापरिवृतं नारदादिभिरर्चितम् ।
केयूरवलयोपेतं सुवर्णमुकुटोज्ज्वलम् ।
सर्वाङ्गसुन्दरं देवं सर्वाभरणभूषितम्  ॥ ४.१११ ॥
तत्पादपङ्कजाद्धारां निपतन्तीं स्वमूर्धनि ।
चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ।
तया संक्षालयेत्सर्वमन्तर्देहगतं मलम्  ॥ ४.११२ ॥
तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः ।
इदं स्नानान्तरं मान्त्रात्सहस्रमधिकं स्मृतम्  ॥ ४.११३ ॥
।िति।

सकृन्नारायणेत्यादि वचनं तत्र कीर्तयेत् ।
स्नानकाले तु तन्नाम संस्मरेच्च महाप्रभुम्  ॥ ४.११४ ॥

तथा च कूर्मपुराणे
आपो नारायणोद्भूतास्ता एवास्यायनं यथः ।
तस्मान्नारायणं देवं स्नानकाले स्मरेद्बुधः  ॥ ४.११५ ॥
।िति।

स्नायादुष्णोदकेनापि शक्तोऽप्यामलकैस्तथा ।
तिलैस्तैलैश्च संवर्ज्य प्रतिषिद्धदिनानि तु  ॥ ४.११६ ॥

अथोष्णोदकस्नानम्

षट्त्रिंशन्मते
आपः स्वभावतो मेध्या विशेषादग्नियोगतः ।
तेन सन्तः प्रशंसन्ति स्नानमुष्णेन वारिणा  ॥ ४.११७ ॥

यमश्च
आपः स्वयं सदा पूता वह्नितप्ता विशेषतः ।
तस्मात्सर्वेषु कालेषु उष्णाम्भः पावनं स्मृतम्  ॥ ४.११८ ॥

यच्चोक्तं शङ्खेन
स्नातस्य वह्नितप्तेन तथैवातपवारिणा ।
शरीरशुद्धिर्विज्ञेया न तु स्नानफलं भवेत् ॥ ४.११९ ॥
।िति।

तत्तु काम्यनैमित्तिकविषयम् । अत एवोक्तं  गर्गेण
कुर्यान्नैमित्तिकं स्नानं शीताद्भिः काम्यमेव च ।
नित्यं यादृच्छिकं चैव यथारुचि समाचरेत् ॥ ४.१२० ॥

अथ तत्र निषिद्धदिनानि

तत्र यमः
पुत्रजन्मनि सङ्क्रान्तौ ग्रहणे चन्द्रसूर्ययोः ।
अस्पृश्यस्पर्शने चैव न स्नायादुष्णवारिणा  ॥ ४.१२१ ॥

वृद्धमनुः
पौर्णमास्यां तथा दर्शे यः स्नायादुष्णवारिणा ।
स गोहत्याकृतं पापं प्राप्नोतीह न संशयः  ॥ ४.१२२ ॥

अथामलकस्नानम्

तत्र मार्कण्डेयः
तुष्यत्यामलकैर्विष्णुरेकादश्यां विशेषतः ।
श्रीकामः सर्वदा स्नानं कुर्वीतामलकैर्नरः  ॥ ४.१२३ ॥
सप्तम्यां न स्पृशेत्तैलं नीलीवस्त्रं न धारयेत् ।
न चाप्यामलकं स्नायान्न कुर्यात्कलहं नरः  ॥ ४.१२४ ॥

भृगुः
अमां षष्ठीं सप्तमीं च नवमीं च त्रयोदशीम् ।
सङ्क्रान्तौ रविवारे च स्नानमालकैस्त्यजेत् ॥ ४.१२५ ॥

याज्ञवल्क्यः
धात्रीफलैरमावस्यासप्तमीनवमीषु च ।
यः स्नायात्तस्य हीयन्ते तेजश्चायुर्धनं सुताः  ॥ ४.१२६ ॥

अथ तिलस्नानम्

तत्र बृहस्पतिः
सर्वकालं तिलैः स्नानं पुनर्व्यासोऽब्रवीन्मुनिः  ॥ ४.१२७ ॥

षट्त्रिंशन्मते
तथा सप्तम्य्अमावस्यासङ्क्रान्तिग्रहणेषु च ।
धनपुत्रकलत्रार्थी तिलस्पृष्टं न संस्पृशेत् ॥ ४.१२८ ॥

अथ तैलस्नानम्

तत्रैव
षष्ठ्यां तैलमनायुष्यं चतुर्थीष्वपि च पर्वसु  ॥ ४.१२९ ॥

योगीयाज्ञवल्क्यः
दशम्यां तैलमपृष्ट्वा यः स्नायादविचक्षणः ।
चत्वारि तस्य नश्यन्ति आयुः प्रज्ञा यशोधनम्  ॥ ४.१३० ॥
मोहात्प्रतिपदं षष्ठीं कुहूं रिक्तातिथिं तथा ।
तैलेनाभ्यञ्जयेद्यस्तु चतुर्भिः परिहीयते  ॥ ४.१३१ ॥
पञ्चदश्यां चतुर्दश्यां सप्तम्यां रविसङ्क्रमे ।
द्वादश्यां सप्तमीं षष्ठीं तैलस्पर्शं विवर्जयेत् ॥ ४.१३२ ॥

अन्यच्च
सप्तम्यां न स्पृशेत्तैलं नवम्यां प्रतिपद्यपि ।
अष्टम्यां च चतुर्दश्यांममावस्यां विशेषतः  ॥ ४.१३३ ॥

किं च
स्नाने वा यदि वास्नाने पक्कतैलं न दुष्यति  ॥ ४.१३४ ॥

किं च अत्रिस्मृतौ
तैलाभ्युक्तो घृताभ्यक्तो विण्मूत्रे कुरुते द्विजः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति  ॥ ४.१३५ ॥
अथाङ्गमलमुत्तार्य स्नात्वा विधिवदाचरेत् ।
नासालग्नेन चुलुकोदकेनैवाघमर्षणम्  ॥ ४.१३६ ॥
ततो गुर्व्आदिपादोदैः प्राग्वत्कृत्वाभिषेचनम् ।
कार्योऽभिषेकः शङ्खेन तुलसीमिश्रितैर्जलैः  ॥ ४.१३७ ॥

अथ तुलसीजलाभिषेकमाहत्म्यम्

गारुडे
मार्जयत्यभिषेके तु तुलस्या वैष्णवो नरः ।
सर्वतीर्थमयं देहं तत्क्षणात्द्विज जायते  ॥ ४.१३८ ॥
तुलसीदलजस्नाने एकादश्यां विशेषतः ।
मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्महा भवेत् ॥ ४.१३९ ॥
तन्मूलमृत्तिकाभ्यङ्गं कृत्वा स्नाति दिने दिने ।
दशाश्वमेधावभृतं लभते स्नानजं फलम्  ॥ ४.१४० ॥
तुलसीदलसंमिश्रं तोयं गङ्गासमं विदुः ।
यो वहेच्छिरसा नित्यं धृता भवति जाह्नवी  ॥ ४.१४१ ॥
पादोदकं ताम्रपात्रे कृत्वा सतुलसीदलम् ।
शङ्खं कृत्वाभिषिञ्चेत मूलेनैव स्वमूर्धनि  ॥ ४.१४२ ॥

तन्माहात्म्ये चोक्तं पाद्मे कार्त्तिकमाहात्म्ये
द्वारकाचक्रसंयुक्तशालग्रामशिलाजलम् ।
शङ्खे कृत्वा तु निक्षिप्तं स्नानार्थं ताम्रभाजने ।
तुलसीदलसंयुक्तं ब्रह्महत्याविनाशनम्  ॥ ४.१४३ ॥
।िति।

स्नानशाटीतरेणैव वाससाम्भांसि गात्रतः ।
संमार्ज्य वाससी दध्यात्परिधानोत्तरीयके  ॥ ४.१४४ ॥

अथ वस्त्रधारणविधिः
तत्रात्रिः
अधौतं कारुधौतं वा परेद्युधौतमेव वा ।
काषायं मलिनं वस्त्रं कौपीनं च परित्यजेत् ॥ ४.१४५ ॥
न चार्द्रमेव वसनं परिदध्यात्कदाचन  ॥ ४.१४६ ॥
नग्नो मलिनवस्त्रः स्यात्नग्नश्चार्धपटस्तथा ।
नग्नो द्विगुणवस्त्रः स्यान्नग्नो रक्तपटस्तथा  ॥ ४.१४७ ॥
नग्नश्च स्यूतवस्त्रः स्यान्नग्नः स्निग्धपटस्तथा ।
द्विकच्छोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च  ॥ ४.१४८ ॥
श्रौतं स्मार्तं तथा कर्म न नग्नश्चिन्तयेदपि ।
मोहात्कुर्वन्नधो गच्छेत्तद्भवेदासुरं स्मृतम्  ॥ ४.१४९ ॥
जपहोमोपवासेषु धौतवस्त्रधरो भवेत् ।
अलङ्कृतः शुचिर्मौनी श्राद्धादौ च जितेन्द्रियः  ॥ ४.१५० ॥

गोभिलः
एकवस्त्रो न भुञ्जीत न कुर्याद्देवनार्चनम्  ॥ ४.१५१ ॥

त्रैलोक्यसम्मोहनपञ्चरात्रे
शुक्लवासो भवेन्नित्यं रक्तं चैव विवर्जयेत् ॥ ४.१५२ ॥

अङ्गिराः
शौचं सहस्ररोमाणां वाय्व्अग्न्य्अर्केन्दुरश्मिभिः ।
रेतःस्पृष्टं शवस्पृष्टमाविकं नैव दुष्यति  ॥ ४.१५३ ॥

अन्यत्र च
छिन्नं वा सन्धितं दग्ध्माविकं न प्रदुष्यति ।
आविकेन तु वस्त्रेण मानवः श्राद्धमाचरेत् ।
गयाश्राद्धसमं प्रोक्तं पितृभ्यो दत्तमक्षयम्  ॥ ४.१५४ ॥
न कुर्यात्सन्धितं वस्त्रं देवकर्मणि भूमिप ।
न दग्धं न च वै छिन्नं पारक्यं न तु धारयेत् ॥ ४.१५५ ॥
काकविष्ठासमं ह्युक्तमविधौतं च यद्भवेत् ।
रजकादाहृतं यच्च न तद्वस्त्रं भवेच्छुचि  ॥ ४.१५६ ॥
कीटस्पृष्टं तु यद्वस्त्रं पुरीषं येन कारितम् ।
मूत्रं वा मैथुनं वापि तद्वस्त्रं परिवर्जयेत् ॥ ४.१५७ ॥
आविकं तु सदा वस्त्रं पवित्रं राजसत्तम ।
पितृदेवमनुष्याणां क्रियायां च प्रशस्यते  ॥ ४.१५८ ॥
धौताधौतं तथा दग्धं सन्धितं रजकाहृतम् ।
शुक्रमूत्ररक्तलिप्तं तथापि परमं शुचि  ॥ ४.१५९ ॥
अग्निराविकवस्त्रं च ब्रह्मणाश्च तथा कुशाः ।
चतुर्णां न कृतो दोषो ब्रह्मणा परमेष्ठिना  ॥ ४.१६० ॥

किं चान्यत्र
धारयेद्वाससी शुद्धे परिधानोत्तरीयके ।
अच्छिन्नसुदशे शुक्ले आचामेत्पीठसंस्थितः  ॥ ४.१६१ ॥

अथ पीठम्

बह्वृचपरिशिष्टे
यतीनामासनं शुक्लं कूर्माकारं तु कारयेत् ।
अन्येषां तु चतुष्पादं चतुरस्रं तु कारयेत् ॥ ४.१६२ ॥
गोशकृन्मयं भिन्नं तथा पलाशपैप्पलम् ।
लोहबद्धं सदैवार्कं वर्जयेदासनं बुधः  ॥ ४.१६३ ॥

अथासनविधिः
तत्रैव
दानमाचमनं होमं भोजनं देवतार्चनम् ।
प्रौढपादो न कुर्वीत स्वाध्यायं चैव तर्पणम्  ॥ ४.१६४ ॥
आसनारूढपादस्तु जानुनोर्वाथ जङ्घयोः ।
कृतावस्क्थिको यस्तु प्रौढपादः स उच्यते  ॥ ४.१६५ ॥
।िति।

ततो भूमिगताङ्घ्रिः सन्निविश्याचम्य दर्भभृत् ।
ऊर्ध्वपुण्ड्रादिकं कुर्यात्श्रीगोपीचन्दनादिना  ॥ ४.१६६ ॥
तत्रादावनुलेपेन भगवच्चरणाब्जयोः ।
निर्माल्येन प्रसादेन सर्वाण्यङ्गानि मार्जयेत् ॥ ४.१६७ ॥

तदुक्तं ब्राह्मे श्रीभगवता
शालग्रामशिलालग्नं चन्दनं धारयेत्सदा ।
सर्वाङ्गेषु महाशुद्धिसिद्धये कमलासन  ॥ ४.१६८ ॥
।िति।

ततो द्वादशभिः कुर्यान्नामभिः केशवादिभिः ।
द्वादशाङ्गेषु विधिवदूर्ध्वपुण्ड्राणि वैष्णवः  ॥ ४.१६९ ॥

अथ द्वादशतिलकविधिः

पद्मपुराणे उत्तरखण्डे [६.२२५.४५४७]
ललाटे केशवं ध्यायेन्नारायणमथोदरे ।
वक्षःस्थले माधवं तु गोविन्दं कण्ठकूपके  ॥ ४.१७० ॥
विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ।
त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके  ॥ ४.१७१ ॥
श्रीधरं वामबाहौ तु हृषीकेशं तु कन्धरे ।
पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेत् ॥ ४.१७२ ॥
तत्प्रक्षालनतोयं तु वासुदेवेति मूर्धनि  ॥ ४.१७३ ॥

किं च [६.२२५.५४]
ऊर्ध्वपुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् ।
ललाटादिक्रमेणैव धारणं तु विधीयते  ॥ ४.१७४ ॥
।िति।

एवं न्यासं समाचर्य सम्प्रदायानुसारतः ।
न्यसेत्किरीटमन्त्रं च मूर्ध्नि सर्वार्थसिद्धये  ॥ ४.१७५ ॥

अथ किरीटमन्त्रः

ओं श्रीकिरीटकेयूरहारमकरकुण्डलचक्रशङ्खगदापद्महस्तपीताम्बरधर श्रीवत्साङ्कितवक्षःस्थल श्रीभूमिसहितस्वात्मज्योतिर्दीप्तिकराय सहस्रादित्यतेजसे नमो नमः  ॥ ४.१७६ ॥
।िति।

अथोर्ध्वपुण्ड्रनित्यता

पाद्मे श्रीभगवद्उक्तौ
मत्प्रियार्थं शुभार्थं वा रक्षार्थे चतुरानन ।
मत्पूजाहोमकाले च सायं प्रातः समाहितः ।
मद्भक्तो धारयेन्नित्यमूर्ध्वपुण्ड्रं भयापहम्  ॥ ४.१७७ ॥
तत्रैव श्रीनारदोक्तौ
यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।
व्यर्थं भवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम्  ॥ ४.१७८ ॥

तत्रैवोत्तरखण्डे
ऊर्ध्वपुण्ड्रैर्विहीनस्तु किंचित्कर्म करोति यः ।
इष्टापूर्तादिकं सर्वं निष्फलं स्यान्न संशयः  ॥ ४.१७९ ॥
ऊर्ध्वपुण्ड्रैर्विहीनस्तु सन्ध्याकर्मादिकं चरेत् ।
तत्सर्वं राक्षसं नित्यं नरकं चाधिगच्छति  ॥ ४.१८० ॥

अन्यच्च
ऊर्ध्वपुण्ड्रे त्रिपुण्ड्रं यः कुरुते नराधमः ।
भङ्क्त्वा विष्णुगृहं पुण्ड्रं स याति नरकं ध्रुवम्  ॥ ४.१८१ ॥

अत एव पाद्मे श्रीनारदोक्तौ
यच्छरीरं मनुष्याणामूर्ध्वपुण्ड्रं विना कृतम् ।
द्रष्टव्यं नैव तत्तावत्श्मशानसदृशं भवेत् ॥ ४.१८२ ॥

पद्मपुराणे
ऊर्ध्वपुण्ड्रं मृदा सौम्यं ललाटे यस्य दृश्यते ।
स चाण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः  ॥ ४.१८३ ॥

स्कान्दे
तिर्यक्पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेऽपि च ।
नैवान्यन्नाम च ब्रूयात्पुमान्नारारायणादृते  ॥ ४.१८४ ॥
धारयेद्विष्णुनिर्माल्यं धूपशेषं विलेपनम् ।
वैष्णवं कारयेत्पुण्ड्रं गोपीचन्दनसम्भवम्  ॥ ४.१८५ ॥

तत्रैव कार्त्तिकप्रसङ्गे
यस्योर्ध्वपुण्ड्रं दृश्येत ललाटे नो नरस्य हि ।
तद्दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् ॥ ४.१८६ ॥

अन्यत्रापि
वैष्णवानां ब्राह्मणानामूर्ध्वपुण्ड्रं विधीयते ।
अन्येषां तु त्रिपुण्ड्रं स्यादिति ब्रह्मविदो विदुः  ॥ ४.१८७ ॥
त्रिपुण्ड्रं यस्य विप्रस्य ऊर्ध्वपुण्ड्रं न दृश्यते ।
तं स्पृष्ट्वाप्यथवा दृष्ट्वा सचेलं स्नानमाचरेत् ॥ ४.१८८ ॥
ऊर्ध्वपुण्ड्रे न कुर्वीत वैष्णवानां त्रिपुण्ड्रकम् ।
कृतत्रिपुण्ड्रमर्त्यस्य क्रिया न प्रीतये हरेः  ॥ ४.१८९ ॥

अतएवोत्तरखण्डे
अश्वत्थपत्रसङ्काशो वेणुपत्राकृतिस्तथा ।
पद्मकुट्मलसङ्काशो मोहनं त्रितयं स्मृतम्  ॥ ४.१९० ॥

अथोर्ध्वपुण्ड्रमाहात्म्यम्

स्कान्दे कार्त्तिकप्रसङ्गे
ऊर्ध्वपुण्ड्रो मृदा शुभ्रो ललाटे यस्य दृश्यते ।
चण्डालोऽपि विशुद्धात्मा याति ब्रहं सनातनम्  ॥ ४.१९१ ॥
ऊर्ध्वपुण्ड्रे स्थिता लक्ष्मीरूर्ध्वपुण्ड्रे स्थितं यशः ।
ऊर्ध्वपुण्ड्रे स्थिता मुक्तिरूर्ध्वपुण्ड्रे स्थितो हरिः  ॥ ४.१९२ ॥

पद्मपुराणे
ऊर्ध्वपुण्ड्रं मुदा सौम्यं ललाटे यस्य दृश्यते ।
स चाण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः  ॥ ४.१९३ ॥

तत्रैवोत्तरखण्डे शिवोमासंवादे [६.२२५.२३,५,७१०]
ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे ।
लक्ष्म्या सार्धं समासीनो देवदेवो जनार्दनः  ॥ ४.१९४ ॥
तस्माद्यस्य शरीरे तु ऊर्ध्वपुण्ड्रं धृतो भवेत् ।
तस्य देहं भगवतो विमलं मन्दिरं शुभम्  ॥ ४.१९५ ॥
ऊर्ध्वपुण्ड्रधरो विप्रः सर्वलोकेषु पूजितः ।
विमानवरमारुह्य याति विष्णोः परं पदम्  ॥ ४.१९६ ॥
ऊर्ध्वपुण्ड्रधरं दृष्ट्वा सर्वपापैः प्रमुच्यते ।
नमस्कृत्वाथवा भक्त्या सर्वदानफलं लभेत् ॥ ४.१९७ ॥
ऊर्ध्वपुण्ड्रधरं विप्रं यः श्राद्धे भोजयिष्यति ।
आकल्पकोटिपितरस्तस्य तृप्ता न संशयः  ॥ ४.१९८ ॥
ऊर्ध्वपुण्ड्रधरो यस्तु कुर्याच्छ्राद्धं शुभानने ।
कल्पकोटिसहस्राणि गयाश्राद्धफलं लभेत् ॥ ४.१९९ ॥
यज्ञदानतपश्चर्याजपहोमादिकं च यत् ।
ऊर्ध्वपुण्ड्रधरः कुर्यात्तस्य पुण्यमनन्तकम्  ॥ ४.२०० ॥

श्रीब्रह्माण्डपुराणे
अशुचिर्वाप्य नाचारो मनसा पापमाचरन् ।
शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्राङ्कितो नरः  ॥ ४.२०१ ॥

तत्रैव श्रीभगवद्वचनम्
ऊर्ध्वपूण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् ।
श्वपाकोऽपि विमानस्थो मम लोके महीयते  ॥ ४.२०२ ॥
ऊर्ध्वपूण्ड्रधरो मर्त्यो गृहे यस्यान्नमश्नुते ।
तदा विंशत्कुलं तस्य नरकादुद्धराम्यहं  ॥ ४.२०३ ॥

अथोह्वपूण्ड्रेर्माणविधिः

श्रीब्रह्माण्डपुराणे
वीक्ष्यादर्शे जले वापि यो विदध्यात्प्रयत्नतः ।
ऊर्ध्वपूण्ड्रं महाभाग स याति परमां गतिम्  ॥ ४.२०४ ॥
दशाङ्गुलप्रमाणं तु उत्तमोत्तममुच्यते ।
नवाङ्गुलं मध्यमं स्यादष्टाङ्गुलमतः परम्  ॥ ४.२०५ ॥
एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् ॥ ४.२०६ ॥

पद्मपुराणे उत्तरखण्डे तत्रैव [६.२५३.२१, ४०४३]
एकान्तिनो महाभागाः सर्वभूतहिते रताः ।
सान्तरालं प्रकुर्वीरन् पुण्ड्रं हरिपदाकृतिम्  ॥ ४.२०७ ॥
श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं तथा ।
श्रीकरं पीतमित्याहुः श्वेतं मोक्षकरं शुभम्  ॥ ४.२०८ ॥
वर्तुलं तिर्यगछिद्रं ह्रस्वं दीर्घं ततं तनुम् ।
वक्रं विरूपं बद्धाग्रं छिन्नमूलं पदच्युतम्  ॥ ४.२०९ ॥
अशुभं रूक्षमासक्तं तथा नाङ्गुलिकल्पितम् ।
विगन्धमवसह्यं च पुण्ड्रमाहुरनर्थकम्  ॥ ४.२१० ॥
आरभ्य नासिकामूलं ललाटान्तं लिखेन्मृदा ।
नासिकायास्त्रयो भागा नासामूलं प्रचक्ष्यते  ॥ ४.२११ ॥
समारभ्य भ्रुवोर्मध्यमन्तरालं प्रकल्पयेत् ॥ ४.२१२ ॥

तत्रैव [६.२५३.२६७, २४]
निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं द्विजाधमः ।
स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति  ॥ ४.२१३ ॥
अच्छिद्रमूर्ध्वपुण्ड्रं तु ये कुर्वन्ति द्विजाधमाः ।
तेषां ललाटे सततं शुनः पादो न संशयः  ॥ ४.२१४ ॥
तस्माच्छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनम् ।
विप्राणां सततं कार्यं स्त्रीणां च शुभदर्शने  ॥ ४.२१५ ॥

हरिमन्दिरलक्षणम्

नासादिकेशप्रयन्तमूर्ध्वपुण्ड्रं सुशोभनम् ।
मध्ये छिद्रसमायुक्तं तद्विद्याधरिमन्दिरम्  ॥ ४.२१६ ॥
वामपार्श्वे स्थितो ब्रह्मा दक्षिणे च सदाशिवः ।
मध्ये विष्णुं विजानीयात्तस्मान्मध्यं न लेपयेत् ॥ ४.२१७ ॥

वायुपुराणे सेवापराधे
अधृत्वा चोर्ध्वपुण्ड्रं च हरेः पूजां करोति यः ।
तिर्यक्पुण्ड्रधरो यस्तु यजेद्देवं जनार्दनम्  ॥ ४.२१८ ॥
अच्चिद्रेणोर्ध्वपुण्ड्रेण भस्मना तिर्यग्अङ्गिना ।
अधृत्वा शङ्खचक्रे च चेत्यादिना दोष उक्तः  ॥ ४.२१९ ॥

श्रुतिश्च, यजुर्वेदस्य हिरण्यकेशौर्यशखायाम्
हरेः पदाक्रान्तिमात्मनि धारयति यः ।
स परस्य प्रियो भवति स पुण्यवान् ।
मध्ये छिद्रमूर्ध्वपुण्ड्रं
यो धारयति स मुक्तिभाग्भवति  ॥ ४.२२० ॥
।िति।

तिलकरचनाङ्गुलिनियमः

स्मृतिः
अनामिका कामदोक्ता मध्यमायुस्करी भवेत् ।
अङ्गुष्ठः पुष्टिदः प्रोक्तस्तर्जनी मोक्षदायिनी  ॥ ४.२२१ ॥

अथोर्ध्वपुण्ड्रमृत्तिकाः

पद्मपुराणे [६.२२५.३५३८] तत्रैव
पर्वताग्रे नदीतीरे बिल्वमूले जलाशये ।
सिन्धुतीरे च वल्मीके हरिक्षेत्रे विशेषतः  ॥ ४.२२२ ॥
विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः ।
पुण्ड्राणां धारणार्थाय गृह्णीयात्तत्र मृत्तिकाम्  ॥ ४.२२३ ॥
श्रीरङ्गे वेङ्कटाद्रौ च श्रीकूर्मे द्वारके शुभे ।
प्रयागे नारसिंहाद्रौ वाराहे तुलसीवने  ॥ ४.२२४ ॥
गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह ।
धृत्वा पुण्ड्राणि चाङ्गेषु विष्णुसायुज्यमाप्नुयात् ॥ ४.२२५ ॥

तत्रैव
यत्तु दिव्यं हरिक्षेत्रे तस्यैव मृदमाहरेत् ॥ ४.२२६ ॥

उक्तं च पाद्मे श्रीनारदेन
ब्रह्मघ्नो वाथ गोघ्नो वा हैतुकः सर्वपापकृत् ।
गोपीचन्दनसम्पर्कात्पूतो भवति तत्क्षणात् ॥ ४.२२७ ॥
गोपीचन्दनखण्डं तु यो ददातिइ हि वैष्णवे ।
कुलमेकोत्तरं तेन सम्भवेत्तारितं शतम्  ॥ ४.२२८ ॥

स्कन्दपुराणे
शङ्खचक्राङ्किततनुः शिरसा मञ्जरीधरः ।
गोपीचन्दनलिप्ताङ्गो दृष्टश्चेत्तदघं कृतः  ॥ ४.२२९ ॥
गोपीमृत्तुलसी शङ्खः शालग्रामः सचक्रकः ।
गृहेऽपि यस्य पञ्चैते तस्य पापभयं कुतः  ॥ ४.२३० ॥

काशीखण्डे च श्रीयमेन
श्रीखण्डे क्व स आमोदः स्वरोवर्णः क्व तादृशः ।
तत्पावित्र्यं क्व वै तीर्थे श्रीगोपीचन्दने यथा  ॥ ४.२३१ ॥

अथ गोपीचन्दनोर्ध्वपुण्ड्रमाहात्म्यम्

उक्तं च गरुडपुराणे नारदेन
यो मृत्तिकां द्वारवतीसमुद्भवां
करे समादाय ललाटपट्टके ।
करोति नित्यं त्वथ चोर्ध्वपुण्ड्रं
क्रियाफलं कोटिगुणं सदा भवेत् ॥ ४.२३२ ॥

क्रियाविहीनं यदि मन्त्रहीनं
श्रद्धाविहीनं यदि कालवर्जितम् ।
कृत्वा ललाटे यदि गोपीचन्दनं
प्राप्नोति तत्कर्मफलं सदा क्षयम्  ॥ ४.२३३ ॥

गोपीचन्दनसम्भवं सुरुचिरं पुण्ड्रं ललाटे द्विजो
नित्यं धारयते यदि द्विजपते रात्रौ दिवा सर्वदा ।
यत्पुण्यं कुरुजाङ्गले रविग्रहे माध्यां प्रयागे तथा
तत्प्राप्नोति खगेन्द्र विष्णुसदने सन्तिष्ठते देववत् ॥ ४.२३४ ॥

यस्मिन् गृहे तिष्ठति गोपीचन्दनं
भक्त्या ललाटे मनुजो बिभर्ति ।
तस्मिन् गृहे तिष्ठति सर्वदा हरिः
श्रद्धान्वितः कंसहा विहङ्गम  ॥ ४.२३५ ॥

यो धारयेत्कृष्णपुरीसमुद्भवां
सदा पवित्रां कलिकिल्बिषापहाम् ।
नित्यं ललाटे हरिमन्त्रसंयुतां
यमं न पश्येद्यदि पापसंवृतः  ॥ ४.२३६ ॥

यस्यान्तकाले खग गोपीचन्दनं
बाह्वोर्ललाट्E हृदि मस्तके च ।
प्रयाति लोकं कमलालयं प्रभोर्
गोबालघाती यदि ब्रह्महा भवेत् ॥ ४.२३७ ॥

ग्रहा न पीडन्ति न रक्षसां गणाः
यक्षाः पिशाचोरगभूतदानवाः ।
ललाटपट्टे खग गोपीचन्दनं
सन्तिष्ठते यस्य हरेः प्रसादतः  ॥ ४.२३८ ॥

पद्मपुराणे श्रीगोतमेन
अम्बरीष महाघस्य क्षयार्थे कुरु वीक्षणम् ।
ललाटे यैः कृतं नित्यं गोपीचन्दनपुण्ड्रकम्  ॥ ४.२३९ ॥

काशीखण्डे च श्रीयमेन
दूताः शृणुत यद्भालं गोपीचन्दनलाञ्छितम् ।
ज्वलद्इन्धनवत्सोऽपि त्याज्यो दूरे प्रयत्नतः  ॥ ४.२४० ॥
।िति।

अथ तस्योपरि श्रीमत्तुलसीमूलमृत्स्नया ।
तत्रैव वैष्णवैः कार्यमूर्ध्वपुण्ड्रं मनोहरम्  ॥ ४.२४१ ॥

अथ श्रीतुलसीमूलमृत्तिकापुण्ड्रमाहात्म्यम्

तन्मृदं गृह्य यैः पुण्ड्रं ललाटे धारितं नरैः ।
प्रमाणकं कृतं तैस्तु मोक्षाय गमनं प्रति  ॥ ४.२४२ ॥

तत्रैव च कार्त्तिकमाहात्म्ये ब्रह्मनारदसंवादे
तुलसीमृत्तिकापुण्ड्रं ललाटे यस्य दृश्यते ।
देहं न स्पृशति पापं क्रियमाणस्तु नारद  ॥ ४.२४३ ॥

गरुडपुराणे
तुलसीमृत्तिकापुण्ड्रं यः करोति दिने दिने ।
तस्यावलोकनात्पापं याति वर्षकृतं नृणाम्  ॥ ४.२४४ ॥
।िति।

तस्योपरिष्ठाद्भगवन्निर्माल्यमनुलेपनम् ।
तथैव धार्यमेवं हि त्रिविधं तिलकं स्मृतम्  ॥ ४.२४५ ॥
ततो नारायणीं मुद्रां धारयेत्प्रीतये हरेः ।
मत्स्यकूर्मादिचिह्नानि चक्रादीन्यायुधानि च  ॥ ४.२४६ ॥

अथ मुद्राधारणनित्यता

स्मृतौ
अङ्कितः शङ्खचक्राभ्यामुभयोर्बाहुमूलयोः ।
समर्चयेद्धरिं नित्यं नान्यथा पूजनं भवेत् ॥ ४.२४७ ॥

आदित्यपुराणे
शङ्खचक्रोर्ध्वपुण्ड्रादिरहितं ब्राह्मणाधमम् ।
गर्दभं तु समारोप्य राजा राष्ट्रात्प्रवासयेत् ॥ ४.२४८ ॥

गारुडे श्रीभगवद्उक्तौ
सर्वकर्माधिकारश्च शुचीनामेव चोदितः ।
शुचित्वं च विजानीयान्मदीयायुधधारणात् ॥ ४.२४९ ॥

पाद्मे चोत्तरखण्डे
शङ्खचक्रादिभिश्चिह्नैर्विप्रः प्रियतमैर्हरेः ।
रहितः सर्वधर्मेभ्यः प्रच्युतो नरकं व्रजेत् ॥ ४.२५० ॥

श्रुतौ च यजुःकठशाखायाम्
धृतोर्ध्वपुण्ड्रः कुतचक्रधारी
विष्णुं परं ध्यायति यो महात्मा ।
स्वरेण मन्त्रेण सदा हृदि स्थितं
परात्परं यन्महतो महान्तम्  ॥ ४.२५१ ॥

अथर्वणि च
एभिर्वयमुरुक्रमस्य चिह्नैर्
अङ्किता लोके सुभगा भवेम ।
तद्विष्णोः परमं पदं
ये गच्छन्ति लाङ्छिताः  ॥ ४.२५२ ॥
। इत्यादि ।

अतएव ब्रह्मपुराणे
कृष्णायुधाङ्कितं दृष्ट्वा सम्मानं न करोति यः ।
द्वादशाब्दार्जितं पुण्यं चाफलयोपगच्छति  ॥ ४.२५३ ॥

अथ मुद्राधारणमाहात्म्यम्

स्कान्दे श्रीसनत्कुमारमार्कण्डेयसंवादे
यो विष्णुभक्तो विप्रेन्द्र शङ्खचक्रादिचिह्नितः ।
स याति विष्णुलोकं वै दाहप्रलयवर्जितम्  ॥ ४.२५४ ॥

तत्र वान्त्यत्र च
नारायणायुधैर्नित्यं चिह्नितं यस्य विग्रहम् ।
पापकोटियुक्तस्य तस्य किं कुरुते यमः  ॥ ४.२५५ ॥
शङ्खोद्धारे तु यत्प्रोक्तं वसतां वर्षकोटिभिः ।
तत्फलं लिखिते शङ्खे प्रत्यहं दक्षिणे भुजे  ॥ ४.२५६ ॥
यत्फलं पुष्करे नित्यं पुण्डरीकाक्षदर्शने ।
शङ्खोपरि कृते पद्मे तत्फलं समवाप्नुयात् ॥ ४.२५७ ॥
वामे भुजे गदा यस्य लिखिता दृश्यते कलौ ।
गदाधरो गयापुण्यं प्रत्यहं तस्य यच्छति  ॥ ४.२५८ ॥
यच्चानन्दपुरे प्रोक्तं चक्रस्वामीसमीपतः ।
गदाधोल्लिखिते चक्रे तत्फलं कृष्णदर्शने  ॥ ४.२५९ ॥

श्रीभगवद्उक्तौ
यः पुनः कलिकाले तु मत्पुरीसम्भवां मृदम् ।
मत्स्यकूर्मादिकां चिह्नं गृहीत्वा कुरुते नरः  ॥ ४.२६० ॥
देहे तस्य प्रविष्टोऽहं जानन्तु त्रिदशोत्तमाः ।
तस्य मे नान्तरं किंचित्कर्तव्यं श्रेय इच्छता  ॥ ४.२६१ ॥
ममावतारचिह्नानि दृश्यन्ते यस्य विग्रहे ।
मर्त्यैर्मर्त्यो न विज्ञेयः स नूनं मामकी तनूः  ॥ ४.२६२ ॥
पापं सुकृतरूपं तु जायते तस्य देहिनः ।
ममायुधानि तस्याङ्गे लिखितानि कलौ युगे  ॥ ४.२६३ ॥
उभाभ्यामपि चिह्नाभ्यां योऽङ्कितो मत्स्यमुद्रया ।
कूर्मयापि स्वकं तेजो निक्षिप्तं तस्य विग्रहे  ॥ ४.२६४ ॥

शङ्खं च पद्मं च गदां रथाङ्गं
मत्स्यं च कूर्मं रचितं स्वदेहे ।
करोति नित्यं सुकृतस्य वृद्धिं
पापक्षयं जन्मशतार्जितस्य  ॥ ४.२६५ ॥

तत्रैव श्रीब्रह्मनारदसंवादे
कृष्णशस्त्राङ्ककवचं दुर्भेद्यं देवदानवैः ।
अदृश्यं सर्वभूतानां शत्रूणां रक्षसामपि  ॥ ४.२६६ ॥
लक्ष्मीः सरस्वती दुर्गा सावित्री हरिवल्लभा ।
नित्यं तस्य वसेद्देहे यस्य शङ्खाङ्किता तनुः  ॥ ४.२६७ ॥
गङ्गा गया कुरुक्षेत्रं प्रयागं पुष्करादि च ।
नित्यं तस्य सदा तिष्ठेद्यस्य पदाङ्कितं वपुः  ॥ ४.२६८ ॥
यस्य कौमोदकीचिह्नं भुजे वामे कलिप्रिय ।
प्रत्यहं तत्र द्रष्टव्यो गङ्गासागरसङ्गमः  ॥ ४.२६९ ॥
सव्ये करे गदाधस्तद्रथाङ्गं तिष्ठते यदि ।
कृष्णेन सहितं तत्र त्रैलोक्यं सचराचरम्  ॥ ४.२७० ॥
त्रयोऽग्नयस्त्रयो देवा विष्णोस्त्रीणि पदानि च ।
निवसन्ति सदा यस्य यस्य देहे सुदर्शनम्  ॥ ४.२७१ ॥

किं च
कृष्णायुधाङ्किता मुद्रा यस्य नारायणी करे ।
ऊर्ध्वलोकाधिकारी च स ज्ञेयस्त्रिदशां पतिः  ॥ ४.२७२ ॥
कृष्णमुद्राप्रयुक्तस्तु दैवं पित्र्यं करोति यः ।
नित्यं नैमित्तिकं काम्यं प्रत्यहं चाक्षयं भवेत् ॥ ४.२७३ ॥
पीडयन्ति न तत्रैव ग्रहा ऋक्षाणि राशयः ।
अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी करे  ॥ ४.२७४ ॥

वाराहे श्रीसनत्कुमारोक्तौ
कृष्णायुधाङ्कितं देहं गोपीचन्दनमृत्स्नया ।
प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति  ॥ ४.२७५ ॥
यदा यस्य प्रपश्येत देहं शङ्खादिचिह्नितम् ।
तदा तस्य जगत्स्वामी तुष्टो हरति पातकम्  ॥ ४.२७६ ॥
भवते यस्य देहे तु अहोरात्रं दिने दिने ।
शङ्खचक्रगदापद्मं लिखितं सोऽच्युतः स्वयम्  ॥ ४.२७७ ॥
नारायणायुधैर्युक्तं कृत्वात्मानं कलौ युगे ।
कुरुते पुण्यकर्माणि मेरुतुल्यानि तानि वै  ॥ ४.२७८ ॥
शङ्खादिनाङ्कितो भक्त्या श्राद्धं यः कुरुते द्विज ।
विधिहीनं तु सम्पूर्णं पितॄणां तु गयासमम्  ॥ ४.२७९ ॥
यथाग्निर्दहते काष्ठं वायुना प्रेरितो भृशम् ।
तथा दह्यन्ति पापानि दृष्ट्वा कृष्णायुधानि वै  ॥ ४.२८० ॥

ब्राह्म्ये श्रीब्रह्मनारदसंवादे
विष्णुनामाङ्कितां मुद्रामष्टाक्षरसमन्विताम् ।
शङ्खादिकायुधादिकैर्युक्तां स्वर्णरूप्यमयीमपि  ॥ ४.२८१ ॥
धत्ते भागवतो यस्तु कलिकाले विशेषतः ।
प्रह्लादस्य समो क्षेयो नान्यथा कलवल्लभ  ॥ ४.२८२ ॥

किं च
शङ्खाङ्किततनुर्विप्रो भुङ्क्ते यस्य च वेश्मनि ।
तद्अन्नं स्वयमश्नाति पितृभिः सह केशवः  ॥ ४.२८३ ॥
कृष्णायुधाङ्कितो यस्तु श्मशाने म्रियते यदि ।
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य नारद  ॥ ४.२८४ ॥
कृष्णायुधैः कलौ नित्यं मण्डितं यस्य विग्रहम् ।
तत्राश्रयं प्रकुर्वन्ति विवधा वासवादयः  ॥ ४.२८५ ॥
यः करोति हरेः पूजां कृष्णशस्त्राङ्कितो नरः ।
अपराधसहस्राणि नित्यं हरति केशवः  ॥ ४.२८६ ॥
कृत्वा काष्ठमयं बिम्बं कृष्णशस्त्रैस्तु चिह्नितम् ।
यो ह्यङ्कयति चात्मानं तत्समो नास्ति वैष्णवः  ॥ ४.२८७ ॥
पाषण्डपतितव्रात्यैर्नास्तिकालापपातकैः ।
न लिप्यते कलिकृतैः कृष्णशस्त्राङ्कितो नरः  ॥ ४.२८८ ॥

किं च
अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी भवेत् ।
शङ्खपद्मादिभिर्युक्ता पूज्यतेऽसौ सुरासुरैः  ॥ ४.२८९ ॥
धृता नारायणी मुद्रा प्रह्लादेन पुरा कृते ।
विभीषणेन बलिना ध्रुवेण च शुकेन च  ॥ ४.२९० ॥
मान्धातृणाम्बरीषेण मार्कण्डप्रमुखैर्द्विजैः ।
शङ्खादिचिह्नितैः शस्त्रैर्देहे कृत्वा कलिप्रिय ।
आराध्य केशवात्प्राप्तं समीहितफलं महत् ॥ ४.२९१ ॥
किं च
गोपीचन्दनमृत्स्नाया लिखितं यस्य विग्रहे ।
शङ्खपद्मादिचक्रं वा तस्य देहे वसेद्धरिः  ॥ ४.२९२ ॥

तत्रैव श्रीसनत्कुमारोक्तौ
यस्य नारायणी मुद्रा देहं शङ्खादिचिह्नितम् ।
धात्रीफलकृता माला तुलसीकाष्ठसम्भवा  ॥ ४.२९३ ॥
द्वादशाक्षरमन्त्रैस्तु नियुक्तानि कलेवरे ।
आयुधानि च विप्रस्य मत्समः स च वैष्णवः  ॥ ४.२९४ ॥

किं च
यस्य नारायणी मुद्रा देहे शङ्खादि चिह्निता ।
सर्वाङ्गं चिह्नितं यस्य सस्त्रैर्नारायणोद्भवैः ।
प्रवेशो नास्ति पापस्य कवचं तस्य वैष्णवम्  ॥ ४.२९५ ॥

अन्यत्र च
एभिर्भागवतैश्चिह्नैः कलिकाले द्विजातयः ।
भवन्ति मर्त्यलोके ते शापानुग्रहकारकाः  ॥ ४.२९६ ॥

अथ मुद्राधारणविधिः

गौतमीये
चक्रं च दक्षिणे बाहौ शङ्खं वामेऽपि दक्षिणे ।
गदां वामे गदाधस्तात्पुनश्चक्रं च धारयेत् ॥ ४.२९७ ॥
शङ्खोपरि तथा पद्मं पुनः पद्मं च दक्षिणे ।
खड्गं वक्षसि चापं च सशरं शीर्ष्णि धारयेत् ॥ ४.२९८ ॥
इति पञ्चायुधान्यादौ धारयेद्वैष्णवो जनः ।
मत्स्यं च दक्षिणे हस्ते कूर्मं वामकरे तथा  ॥ ४.२९९ ॥

तथा चोक्तं
दक्षिणे तु भुजे विप्रो विभृषाद्वै सुदर्शनम् ।
मत्स्यं पद्मं चापरेऽथ शङ्खं पद्मं गदास्तथा  ॥ ४.३०० ॥
।िति।

साम्प्रदायिकशिष्टानामाचाराच्च यथारुचि ।
शङ्खचक्रादिचिह्नानि सर्वेष्वङ्गेषु धारयेत् ॥ ४.३०१ ॥
भक्त्या निजेष्टदेवस्य धारयेल्लक्षणान्यपि  ॥ ४.३०२ ॥
चक्रशङ्खौ च धार्यते संमिश्रावेव कैश्चन  ॥ ४.३०३ ॥
श्रीगोपीचन्दनेनैवं चक्रादीनि  बुधोऽन्वहम् ।
धारयेच्छयनादौ तु तप्तानि किल तानि हि  ॥ ४.३०४ ॥

अथ चक्रादीनां लक्षणानि

द्वादशारं तु षट्कोणं वलयत्रयसंयुतम् ।
चक्रं स्याद्दक्षिणावर्तं शङ्खं च श्रीहरेः स्मृतः  ॥ ४.३०५ ॥
गदापद्मादिकं लोकसिद्धमेव मतं बुधैः ।
मुद्रा वा भगवन्नामाङ्किता वाष्टाक्षरादिभिः  ॥ ४.३०६ ॥
अथ मालादिधारणम्

ततः कृष्णार्पिता माला धारयेत्तुलसीदलैः ।
पद्माक्षैस्तुलसीकाष्ठैः फलैर्धात्र्याश्च निर्मिताः  ॥ ४.३०७ ॥
धारयेत्तुलसीकाष्ठभूषणानि च वैष्णवः ।
मस्तके कर्णयोर्बाह्वोः करयोश्च यथारुचि  ॥ ४.३०८ ॥

अथ मालाधारणविधिः

स्कान्दे
सन्निवेद्यैव हरये तुलसीकाष्ठसम्भवाम् ।
मालां पश्चात्स्वयं धत्ते स वै भागवतोत्तमः  ॥ ४.३०९ ॥
हरये नार्पयेद्यस्तु तुलसीकाष्ठसम्भवाम् ।
मालां धत्ते स्वयं मूढः स याति नरकं ध्रुवम्  ॥ ४.३१० ॥
क्षालितां पञ्चगव्येन मूलमन्त्रेण मन्त्रिताम् ।
गायत्र्या चाष्त कृत्वा वै मन्त्रितां धूपयेच्च ताम् ।
विधिवत्परया भक्त्या सद्योजातेन पूजयेत् ॥ ४.३११ ॥
तुलसीकाष्ठसम्भूते माले कृष्णजनप्रिये ।
बिभर्मि त्वामहं कण्ठे कुरु मां कृष्णवल्लभम्  ॥ ४.३१२ ॥
यथा त्वं वल्लभा विष्णोर्नित्यं विष्णुजनप्रिया ।
तथा मां कुरु देवेशि नित्यं विष्णुजनप्रियम्  ॥ ४.३१३ ॥
दाने लाधातुरुद्दिष्टो लासि मां हरिवल्लभे ।
भक्तेभ्यश्च समस्तेभ्यस्तेन माला निगद्यसे  ॥ ४.३१४ ॥
एवं सम्प्रार्थ्य विधिवन्मालां कृष्णगलेऽर्पिताम् ।
धारयेद्वैष्णवो यो वै स गच्छेद्वैष्णवं पदम्  ॥ ४.३१५ ॥

तत्रैव कार्त्तिकप्रसङ्गे
धात्रीफलकृतां मालां कण्ठस्थां यो वहेन्न हि ।
वैष्णवो न स विज्ञेयो विष्णुपूजारतो यदि  ॥ ४.३१६ ॥

गारुडे
धारयन्ति न ये मालां हैतुकाः पापबुद्धयः ।
नरकान्न निवर्तन्ते दग्धाः कोपाग्निना हरेः  ॥ ४.३१७ ॥

अत एव स्कान्दे
न जह्यात्तुलसीमालां धात्रीमालां विशेषतः ।
महापातकसंहन्त्रीं धर्मकामार्थदायिनीम्  ॥ ४.३१८ ॥

अथ मालाधारणमाहात्म्यम्

अगस्त्यसंहितायाम्
निर्माल्यतुलसीमालायुक्तो यश्चार्चयेद्धरिम् ।
यद्यत्करोति तत्सर्वमनन्तफलदं भवेत् ॥ ४.३१९ ॥

नारदीये
ये कण्ठलग्नतुलसीनलिनाक्षमाला
ये वा ललाटफल्के लसदूर्ध्वपुण्ड्राः ।
ये बाहुमूलपरिचिह्नितशङ्खचक्रास्
ते वैष्णवा भुवनमाशु पवित्रयन्ति  ॥ ४.३२० ॥
किं च
भुजयुगमपि चिह्नैरङ्कितं यस्य विष्णोः
परमपुरुषनाम्नां कीर्तनं यस्य वाचि ।
ऋजुतरमपि पुण्ड्रं मस्तके यस्य कण्ठे
सरसिजमणिमाला यस्य तस्यास्मि दासः  ॥ ४.३२१ ॥

विष्णुधर्मोत्तरे श्रीभगवद्उक्तौ
तुलसीकाष्ठमालां च कण्ठस्थां वहते तु यः ।
अप्यशौचोऽप्यनाचारो मामेवैति न संशयः  ॥ ४.३२२ ॥

स्कान्दे
धात्रीफलकृता माला तुलसीकाष्ठसम्भवा ।
दृश्यते यस्य देहे तु स वै भागवतोत्तमः  ॥ ४.३२३ ॥
तुलसीदलजां मालां कण्ठस्थां वहते तु यः ।
विष्णूत्तीर्णा विशेषेण स नमस्यो दिवौकसाम्  ॥ ४.३२४ ॥
तुलसीदलजा माला धात्रीफलकृतापि च ।
ददाति पापिनां मुक्तिं किं पुनर्विष्णुसेविनाम्  ॥ ४.३२५ ॥

तत्रैव कार्त्तिकप्रसङ्गे
यः पुनस्तुलसीमालां कृत्वा कण्ठे जनार्दनम् ।
पूजयेत्पुण्यमाप्नोति प्रतिपुष्पं गवायुतम्  ॥ ४.३२६ ॥
यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि ।
तावत्तस्य शरीरे तु प्रीत्या लुठति केशवः  ॥ ४.३२७ ॥
स्पृशेच्च यानि लोमानि धात्रीमाला कलौ नृणाम् ।
तावद्वर्षसहस्राणि वसते केशवालये  ॥ ४.३२८ ॥
यावद्दिनानि वहते धात्रीमालां कलौ नरः ।
तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् ॥ ४.३२९ ॥
मालायुग्मं वहेद्यस्तु धात्रीतुलसिसंभवम् ।
वहते कण्ठदेशे तु कल्पकोटिं दिवं वसेत् ॥ ४.३३० ॥

गारुडे च मार्कण्डेयोक्तौ
तुलसीदलजां मालां कृष्णोत्तीर्णा वहेत्तु यः ।
पत्रे पत्रेऽश्वमेधानां दशानां लभते फलम्  ॥ ४.३३१ ॥
तुलसीकाष्ठसम्भूतां यो मालां वहते नरः ।
फलं यच्छति दैतारिः प्रत्यहं द्वारकोद्भवम्  ॥ ४.३३२ ॥
निवेद्य विष्णवे मालां तुलसीकाष्ठसम्भवम् ।
वहते यो नरो भक्त्या तस्य वै नास्ति पातकम्  ॥ ४.३३३ ॥
सदा प्रीतमनास्तस्य कृष्ण देवकीनन्दनः ।
तुलसीकाष्ठसम्भूतां यो मालां वहते नरः ।
प्रायश्चित्तं न तस्यास्ति नाशौचं तस्य विग्रहे  ॥ ४.३३४ ॥
तुलसीकाष्ठसम्भूतां शिरसो यस्य भूषणम् ।
बाह्वोः करे च मर्त्यस्य देहे तस्य सदा हरिः  ॥ ४.३३५ ॥
तुलसीकाष्ठमालाभिर्भूषितः पुण्यमाचरेत् ।
पितॄणां देवतानां च कृतं कोटिगुणं कलौ  ॥ ४.३३६ ॥
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ।
दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम्  ॥ ४.३३७ ॥
तुलसीकाष्ठमालाभिर्भूषितो भ्रमते यदि ।
दुःस्वप्नं दुर्निमित्तं च न भयं शस्त्रजं क्वचित् ॥ ४.३३८ ॥

अथ गृहे सन्ध्योपासनविधिः

सन्ध्योपास्त्य्आदिकं कर्म ततः कुर्यात्यथाविधि ।
कृष्णपादोदकेनैव तत्र देवादितर्पणम्  ॥ ४.३३९ ॥
शिरसा विष्णुनिर्माल्यं पादोदेनापि तर्पणम् ।
पितॄणां देवतानां च वैष्णवैस्तु समं मतम्  ॥ ४.३४० ॥

सन्ध्योपास्तौ च वशिष्ठवचनम्
गृहे त्वेकगुणा सन्ध्या गोष्ठे दशगुणा स्मृता ।
शतसाहस्रिका नद्यामनन्ता विष्णुसन्निधौ  ॥ ४.३४१ ॥

अथ श्रीगुरुपूजा

पूजयिष्यंस्ततः कृष्णमादौ सन्निहितं गुरुम् ।
प्रणम्य पूजयेद्भक्त्या दत्त्वा किंचिदुपाअयनम्  ॥ ४.३४२ ॥

स्मृतिमहार्णवे
रिक्तपाणिर्न पश्येत राजानं भिषजं गुरुम् ।
नोपायनकरः पुत्रं शिष्यं भृत्यं निरीक्षयेत् ॥ ४.३४३ ॥

किं च, श्रीभगवद्उक्तौ
प्रथमं तु गुरुं पूज्य ततश्चैव ममार्चनम् ।
कुर्वन् सिद्धिमवाप्नोति ह्यन्यथा निष्फलं भवेत् ॥ ४.३४४ ॥

श्रीनारदेन च
गुरौ सन्निहिते यस्तु पूजयेदन्यमग्रतः ।
स दुर्गतिमवाप्नोति पूजनं तस्य निष्फलम्  ॥ ४.३४५ ॥

श्रुतिषु [श्वेत्.उ. ६.२३]
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः  ॥ ४.३४६ ॥

एकादशस्कन्धे [११.१७.२७] श्रीभगवद्उक्तौ
आचार्यं मां विजानीयान्नावमन्येत कर्हिचित् ।
न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः  ॥ ४.३४७ ॥

दशमस्कन्धे [भागवतम् १०.८०.३४] च
नाहमिज्याप्रजातिभ्यां तपसोपशमेन च ।
तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा  ॥ ४.३४८ ॥

सप्तमस्कन्धे [भागवतम् ७.१५.२६]
यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ ।
मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥ ४.३४९ ॥

अन्यत्रापि
साधकस्य गुरौ भक्तिं मन्दीकुर्वन्ति देवताः ।
यन्नोऽतीत्य व्रजेद्विष्णुं शिष्यो भक्त्या गुरौ ध्रुवन्  ॥ ४.३५० ॥

मनुस्मृतौ [२.१५३]
अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम्  ॥ ४.३५१ ॥

किं च
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मात्सम्पूजयेत्सदा  ॥ ४.३५२ ॥
वामनकल्पे
यो मन्त्रः स गुरुः साक्षात्यो गुरुः स हरिः स्मृतः ।
गुरुर्यस्य भवेत्तुष्टस्तस्य तुष्टो हरिः स्वयम् ।
गुरोः समासने नैव न चैवोच्चासने वसेत् ॥ ४.३५३ ॥

विष्णुरहस्ये
तस्मात्सर्वप्रयत्नेन यथाविधि तथा गुरुम् ।
अभेदेनार्चयेत्यस्तु स मुक्तिफलमाप्नुयात् ॥ ४.३५४ ॥

विष्णुधर्मे श्रीभागवते च हरिश्चन्द्रस्य
गुरुसुश्रूषणं नाम सर्वधर्मोत्तमोत्तमम् ।
तस्माद्धर्मात्परो धर्मः पवित्रं नैव विद्यते  ॥ ४.३५५ ॥
कामक्रोधादिकं यद्यदात्मनोऽनिष्टकारणम् ।
एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥ ४.३५६ ॥

पाद्मे
पितुराधिक्यभावेन येऽर्चयन्ति गुरुं सदा ।
भवन्त्यतिथयो लोके ब्रह्मणस्ते विशां वर  ॥ ४.३५७ ॥

तत्रैव देवहूतिस्तुतौ
भक्तिर्यथा हरौ मेऽस्ति तद्वन्निष्ठा गुरौ यदि ।
ममास्ति तेन सत्येन स्वं दर्शयतु मे हरिः  ॥ ४.३५८ ॥

अदित्यपुराणे
अविद्यो वा सविद्यो वा गुरुरेव जनार्दनः ।
मार्गस्थो वाप्यमार्गस्थो गुरुरेव सदा गतिः  ॥ ४.३५९ ॥

अन्यत्र च
हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
तस्मात्सर्वप्रयत्नेन गुरुमेव प्रसादयेत् ॥ ४.३६० ॥

ब्रह्मवैवर्ते
अपि घ्नन्तः शपन्तो वा विरुद्धा अपि ये क्रुधाः ।
गुरवः पूजनीयास्ते गृहं नत्वा नयेत तान्  ॥ ४.३६१ ॥
तत्श्लाघ्यं जन्म धन्यं तत्दिनं पुण्याथ नडिका ।
यस्यां गुरुं प्रणमते समुपास्य तु भक्तितः  ॥ ४.३६२ ॥
उपदेष्टारमाम्नायगतं परिहरन्ति ये ।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते  ॥ ४.३६३ ॥
बोधः कलुषितस्तेन दौरात्म्यं प्रकटीकृतम् ।
गुरुर्येन परित्यक्तस्तेन त्यक्तः पुरा हरिः  ॥ ४.३६४ ॥

अन्यत्र च
प्रतिपद्य गुरुं यस्तु मोहाद्विप्रतिपद्यते ।
स कल्पकोटिं नरके पच्यते पुरुषाधमः  ॥ ४.३६५ ॥

पञ्चरात्रे
अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् ।
पुनश्च विधिना सम्यग्ग्राहयेद्वैष्णवाद्गुरोः  ॥ ४.३६६ ॥

अगस्त्यसंहितायां
ये गुर्व्आज्ञां न कुर्वन्ति पापिष्ठाः पुरुषाधमाः ।
न तेषां नरकक्लेशनिस्तारो मुनिसत्तम  ॥ ४.३६७ ॥
यैः शिष्यैः शश्वदाराध्या गुरवो ह्यवमानिताः ।
पुत्रमित्रकलत्रादिसम्पद्भ्यः प्रच्युता हि ते  ॥ ४.३६८ ॥
अधिक्षिप्य गुरुं मोहात्परुषं प्रवदन्ति ये ।
शूकरत्वं भवत्येव तेषां जन्मशतेष्वपि  ॥ ४.३६९ ॥
ये गुरुद्रोहिणो मूढाः सततं पापकारिणः ।
तेषां च यावत्सुकृतं दुष्कृतं स्यान्न संशयः  ॥ ४.३७० ॥
अतः प्राग्गुरुमभ्यर्च्य कृष्णभावेन बुद्धिमान् ।
त्र्य्अवरानसमान् कुर्यात्प्रणामान् दण्डपातवत् ॥ ४.३७१ ॥

अत एव कौर्मे श्रीव्यासगीतायाम्
व्यत्यस्त पाणिना कार्यमुपसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः  ॥ ४.३७२ ॥
।िति।

अथ श्रीगुरुपादानां प्राप्यानुज्ञां च साधकः ।
प्राक्संस्कृतं हरेर्गेहं प्रवेक्ष्यन् पादुके त्यजेत् ॥ ४.३७३ ॥

तथा चापस्तम्ब
अग्न्य्आगारे गवां गोष्ठे देवब्राह्मणसन्निधौ ।
जपे भोजनकाले च पादुके परिवर्जयेत् ॥ ४.३७४ ॥
।िति।

ततः श्रीभगवत्पूजामन्दिरस्याङ्गनं गतः ।
प्रक्षाल्य हस्तौ पादौ च द्विराचमनमाचरेत् ॥ ४.३७५ ॥

तथा च मार्कण्डेये
देवार्चनादिकार्याणि तथा गुर्व्अभिवादनम् ।
कुर्वीत सम्यगाचम्य तद्वदेव भुजिक्रियाम्  ॥ ४.३७६ ॥
।िति।

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे
श्रीवैष्णवालङ्कारो नाम
चतुर्थो विलासः

*************************************************************************

 


५. आधिस्थनिकVइलस


पञ्चमविलासः
आधिष्ठानिकः

श्रीचैतन्यप्रभुं वन्दे बालोऽपि यद्अनुग्रहात् ।
तरेन्नानामतग्राहव्याप्तं पूजाक्रमार्णवम्  ॥ ५.१ ॥

सनातनः: श्रीचैतन्याय नमः । बालोऽज्ञः । पक्षे शिशुः । नानाविधमतान्येव ग्राहस्तैर्व्याप्तम् । पूजायाः क्रमो विधिः । विध्य्अनुक्रमो वा स एवार्णवस्तम्  ** ःभ्व्C_५.१ **

 


श्रीमद्गोपालदेवस्याष्टादशाक्षरयन्त्रतः ।
लिख्यतेऽर्चाविधिर्गूढः क्रमदीपिकयेक्षितः  ॥ ५.२ ॥
सनातनः: अष्टादशाक्षरमन्त्रेण योऽर्चाविधिः पूजाप्रकारः स लिख्यते । यद्यपि दशाक्षरादिनापि पूजाविधौ भेदो नास्ति, तथापि न्यासादिभेदापेक्षया, तथा लिखितम् । गूढोऽपि क्रमदीपिकया श्रीकेशवाचार्यविरचितया ईक्षितः दर्शितः सन् । अतः क्रमदीपिकोक्तानुसारेण लेख्य इति भावः  ** ःभ्व्C_५.२ **

 


आगमोक्तेन मार्गेण भगवान् ब्राह्मणैरपि ।
सदैव पूज्योऽतो लेख्यः प्राय आगमिको विधिः  ॥ ५.३ ॥

तथा च विष्णुयामले
कृते श्रुत्य्उक्तमार्गः स्यात्त्रेतायां स्मृतिभावितः ।
द्वापरे तु पुराणोक्तः कलावागमसम्भवः  ॥ ५.४ ॥
अशुद्धाः शूद्राकल्पा हि ब्राह्मणाः कलिसम्भवाः ।
तेषामागममार्गेण शुद्धिर्न श्रौतवर्त्मना  ॥ ५.५ ॥

सनातनः: तेषामागममार्गेण श्रौतवर्त्मनेत्यनेन तैरपि आगमिकविधिनैव पूजा कार्येति भावः । तथा चैकादशस्कन्धे [भागवतम् ११.५.६१] नानातन्त्रविधानेन कलावपि तथा शृणु इति । तत्र श्रीधरस्वामिपादाःनानातन्त्रविधानेनेति कलौ तन्त्रमार्गस्य प्राधान्यं दर्शयति इति  ** ःभ्व्C_५.३५ **

 


अथ द्वारपूजा

श्रीकृष्णद्वारदेवेभ्यो दत्त्वा पाद्यादिकं ततः ।
गन्धपुष्पैरर्चयेत्तान् यथास्थानं यथाक्रमम्  ॥ ५.६ ॥

सनातनः: तान् श्रीकृष्णद्वारदेवान्, प्रणवादिचतुर्थ्य्अन्तं देवनाम नमोऽन्तकमित्यग्रे लेख्यत्वादत्रैवं प्रयोगःश्रीकृष्णद्वारदेवताभ्यो नमः । अनेन मन्त्रेण पाद्यार्ध्यादिकं दत्त्वा गन्धादिभिः पुनर्विशेषेण पूजयेदित्यर्थः । एवमग्रेऽपि सपरिवारेभ्यः श्रीकृष्णपार्षदेभ्यो नमः इत्यादि प्रयोगो द्रष्टव्यः  ** ःभ्व्C_५.६ **

 


द्वाराग्रे सपरीवारान् भूपीठे कृष्णपार्षदान् ।
तद्अग्रे गरुडं द्वारस्योर्ध्वे द्वारश्रियं यजेत् ॥ ५.७ ॥
प्राग्द्वारोभयपार्श्वे तु यजेच्चण्डप्रचण्डकौ ।
द्वारे च दक्षिणे धातृविधातारौ च पश्चिमे  ॥ ५.८ ॥
जयं च विजयं चैव बलं प्रबलमुत्तरे ।
द्वन्द्वशस्त्वेवमभ्यर्च्य देहल्यां वास्तुपुरुषम्  ॥ ५.९ ॥

सनातनः: एवं सामान्येन सर्वेषामेव पूजाविधिर्लिखितः । इदानीं यथास्थानं यथाक्रममिति यल्लिखितं, तदेव विविच्य लिखतिद्वाराग्र इति द्वाराभ्याम् । तत्राप्यादौ द्वारस्याग्रे यत्भूरूपं पीठं, तत्र समस्तपरिवारान्वितान् श्रीकृष्णपार्षदान् यजेत्पूजयेत् । अनन्तरं तस्य द्वारस्याग्रे गरुडम् । यद्यपि द्वारश्रियोऽर्चनं प्रबलार्चनानन्तरमेव क्रमदीपिकायामुक्तम्, तथापि इष्ट्वेति क्ट्वाप्रत्ययेन चण्डादिपूजातः पूर्वकाल एवेति बोधितम् । तथैवअ सद्आचारात् । किं च, द्वन्द्व इत्यग्रे लिखनात्, चण्डप्रचण्डाभ्यां नमः इत्येवं युग्मत्वेन प्रयोगो ज्ञेयः  ** ःभ्व्C_५.७९ **

 


द्वारान्तःपार्श्वयोर्गङ्गां यमुनां च ततोऽर्चयेत् ।
तत्पार्श्वयोः शङ्खनिधिं तथा पद्मनिधिं यजेत् ॥ ५.१० ॥

सनातनः: द्वारस्यान्तः अभ्यन्तरे तत्पार्श्वद्वये तयोर्गङ्गायमुनयोः पार्श्वद्वये  ** ःभ्व्C_५.१० **

 

गणेशं मन्दिरस्याग्निकोणे दुर्गां च नैरृते ।
वाणीं वायव्य ऐशाने क्षेत्रपालं तथार्चयेत् ॥ ५.११ ॥

सनातनः: आग्नेये कोणे गणेशमर्चयेत् । तथा चोक्तं क्रमदीपिकायाम् [७.१०३१०६]
परिवाराराः कृताः सर्वे पुनः श्रीविष्णुपार्षदाः ।
द्वाराग्राबलिपीठेऽर्च्याः पक्षीन्द्रश्च तद्अग्रतः ॥
चण्डप्रचण्डौ प्राग्धातृविधातारौ च दक्षिणे ।
जयः सविजयः पश्चाद्बलः प्रबल उत्तरे ॥
ऊर्ध्वे द्वारश्रियं चेष्ट्वा द्वार्येतान् युग्मशोऽर्चयेत् ।
पूज्यो वास्तुपुमांस्तत्र तत्र द्वाःपीथमध्यतः ॥
द्वारान्तःपार्श्वयोरर्च्या गङ्गा च यमुना नदी ।
कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रे समर्चयेत् ॥
। इति ।

 

द्वाःशाखामाश्रयन् वामां सङ्कोच्याङ्गानि देहलीम् ।
अस्पृष्ट्वा प्रविशेद्वेश्म न्यस्यन् प्राग्दक्षिणं पदम्  ॥ ५.१२ ॥

सनातनः: वामां स्ववामभागवर्तिनीं द्वारशाखामाश्रयनीषत्स्पृषद्निजाङ्गानि संकोच्य देहलीमस्पृष्ट्वा न लङ्घयित्वेत्यर्थः । दक्षिणं पदं प्राकादौ न्यस्यन् । दक्षिणपादन्यासक्रमेणेत्यर्थः । वेश्म श्रीभगवन्मन्दिरं हरेर्गेहं प्रवेक्ष्यन्निति पूर्वलिखनात् । प्रविशेत्तन्मध्यं शनैः पूजको गच्छेत् ** ःभ्व्C_५.१२ **

 

तथा च सारदातिलके
किंचित् स्पृशन् वामशाखां देहलीं लङ्घयन् गुरुः  ।
अङ्गं सङ्कोचयन्नन्तः प्रविशेद्दक्षिणाङ्घ्रिणा  ॥ ५.१३ ॥

सनातनः: गुरुरिति दीक्षाविधानोक्तः  ** ःभ्व्C_५.१३ **

 

अथ गृहप्रवेशमाहात्म्यम्

तन्माहात्म्यं च हरिभक्तिसुधोदये
प्रविशन्नालयं विष्णोरर्चनार्थं सुभक्तिमान् ।
न भूयः प्रविशन्मातुः कुक्षिकारागृहं सुधीः  ॥ ५.१४ ॥

अथ गृहान्तःपूजा

नैरृते वास्तुपुरुषं ब्रह्माणमपि पूजयेत् ।
आसनस्थो यजेत्तांस्तानन्यत्र भगवद्गृहात् ॥ ५.१५ ॥

तत्पूजामन्त्रश्चोक्तः
प्रणवादिचतुर्थ्य्अन्तं देवनाम नमोऽन्तकम् ।
पूजामन्त्रमिदं प्रोक्तं सर्वत्रार्चनकर्मणि  ॥ ५.१६ ॥
। इति ।

अथ कृष्णाग्रतस्तिष्ठन् कृत्वा दिग्बन्धनं क्षिपेत् ।
पुष्पाक्षतान् समस्तासु दिक्षु तत्रोक्तमन्त्रतः  ॥ ५.१७ ॥
अथ पूजार्थासनम्

ततश्चासनमन्त्रेणाभिमन्त्र्याभ्यर्च्य चासनम् ।
तस्मिन्नुपविशेत्पद्मासनेन स्वस्तिकेन वा  ॥ ५.१८ ॥
तत्र कृष्णार्चकः प्रायो दिवसे प्राङ्मुखो भवेत् ।
उदङ्मुखो रजन्यां तु स्थिरमूर्तिश्च सम्मुखः  ॥ ५.१९ ॥

तत्र च एकादशस्कन्धे [भागवतम् ११.२७.१९]
आसीनः प्रागुदग्वार्चेत्स्थिरायान्त्वथ सम्मुखः  ॥ ५.२० ॥

अथासनमन्त्रः

आसनमन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः ।
कूर्मो देवता आसनाभिमन्त्रेण विनियोगः  ॥ ५.२१ ॥
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां नित्यं पवित्रं कुरु चासनम्  ॥ ५.२२ ॥

अथासनविधिः

नारदपञ्चरात्रे
वंशाश्मदारुधरणीतृणपल्लवनिर्मितम् । वर्जयेदासनं विद्वान् दारिद्र्यव्याधिदुःखदम् ।
कृष्णाजिनं कम्बलं वा नान्यदासनमिष्यते  ॥ ५.२३ ॥

अन्यत्र च
कृष्णाजिनं व्याघ्रचर्म कौषेयं वेत्रनिर्मितम् ।
वस्त्राजिनं कम्बलं वा कल्पयेदासनं मृदु  ॥ ५.२४ ॥

अथ विशेषत आसनदोषविधिः

नारदपञ्चरात्रे
वंशादाहुर्दरिद्रत्वं पाषाणे व्याधिसम्भवम् ।
धरण्यां दुःखसम्भूतिं दौर्भाग्यं दारवासने  ॥ ५.२५ ॥
तृणासने यशोहानिं पल्लवे चित्तविभ्रमम् ।
दर्भासने व्याधिनाशं कम्बलं दुःखमोचनम्  ॥ ५.२६ ॥

किं च, श्रीभगवद्गीतासु [ङीता ६.११]
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्  ॥ ५.२७ ॥
। इति ।

यथोकतमुपविश्याथ सम्प्रदायानुसारतः ।
शङ्खादिपूजासम्भारान्न्यसेत्तत्तत्पदेषु तान्  ॥ ५.२८ ॥

अथ पात्रासादनम्

स्वस्य वामाग्रतः शङ्खं साधारं स्थापयेद्बुधः ।
तत्रैवार्ध्यादिपात्राणि न्यस्येच्च द्वारि भागशः  ॥ ५.२९ ॥
तुलसीगन्धपुष्पादिभाजनानि च दक्षिणे ।
वामे च स्थापयेत्पार्श्वे कलसं पूर्णमम्भसा  ॥ ५.३० ॥
दक्षिणे घृतदीपं च तैलदीपं च वामतः ।
सम्भारानपरान्न्यसेत्स्वदृष्टिविषये पदे ।
करप्रक्षालनार्थं च पात्रमेकं स्वपृष्ठतः  ॥ ५.३१ ॥
अथ पात्राणि तन्माहात्म्यं च

देवीपुराणे
नानाविचित्ररूपाणि पुण्डरीकाकृतीनि च ।
शङ्खनीलोत्पलाभानि पात्राणि परिकल्पयेत् ॥ ५.३२ ॥
रत्नादिरचितान्येव काञ्चीमूलयुतानि च ।
यथाशोभं यथालाभं तथा पात्राणि कारयेत् ॥ ५.३३ ॥

किं च
हंसपात्रेण सर्वाणि चेप्सितानि लभेन्मुने ।
अर्घ्यं दत्त्वा तथा रौप्येणायुराज्यं शुभं भवेत् ।
ताम्रपात्रेण सौभाग्यं धर्मं मृण्मयसम्भवम्  ॥ ५.३४ ॥

वाराहे
सौवर्णं राजतं कांस्यं येन दीयते भाजनम् ।
तान् सर्वान् सम्परित्यज्य ताम्रं तु मम रोचते  ॥ ५.३५ ॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
विशुद्धानां शुचिं चैव ताम्रं संसारमोक्षणम्  ॥ ५.३६ ॥
दीक्षितानां विशुद्धानां मम कर्मपरायणः ।
सदा ताम्रेण कर्तव्यमेवं भूमि मम प्रियम्  ॥ ५.३७ ॥
। इति ।


केचिच्च ताम्रपात्रेषु गव्यादेर्योगदोषतः ।
ताम्रातिरिक्तमिच्छन्ति मधुपर्कस्य भाजनम्  ॥ ५.३८ ॥
तथैव शङ्खमेवार्ध्यपात्रमिच्छन्ति केचन ।
शङ्खे कृत्वा तु पानीयं सपुष्पं सलिलाक्षतम् ।
अर्घ्यं ददाति देवस्येत्येवं स्कान्देऽभिधानतः  ॥ ५.३९ ॥

अथ मङ्गलघटस्थापनम्

मङ्गलार्थं च कलसं सजलं करकान्वितम् ।
फलादिसहितं दिव्यं न्यसेद्भगवतोऽग्रतः  ॥ ५.४० ॥

तथा च स्कान्दे
कुम्भं सकरकं दिव्यं फलकर्पूरसंयुतम् ।
न्यसेदर्चनकाले तु कृष्णस्यातीव वल्लभम्  ॥ ५.४१ ॥
। इति ।


किं च
सनीरं च सकर्पूरं कुम्भं कृष्णाय यो न्यसेत् ।
कल्पं तस्य न पापेक्षां कुर्वन्ति प्रपितामहाः  ॥ ५.४२ ॥

अथार्घ्यादिपात्राणि

प्रक्षिपेदर्घ्यपात्रे तु गन्धपुष्पाक्षतान् यवान् ।
कुशाग्रतिलदूर्वाश्च सिद्धार्थानपि साधकः ।
केचिच्चात्र जलादीनि द्रव्याण्यष्टौ वदन्ति हि  ॥ ५.४३ ॥

यत उक्तं भविष्ये
आपः क्षीरं कुशाग्राणि दध्य्अक्षततिलस्तथा ।
यवाः सिद्धार्थकाश्चैवमर्घ्योऽष्टाङ्गः प्रकीर्तितः  ॥ ५.४४ ॥
पाद्यपात्रे च कमलं दूर्वा श्यामाकमेव च ।
निक्षिपेद्विष्णुपत्रीं चेत्येवं द्रव्यचतुष्टयम्  ॥ ५.४५ ॥
तथैवाचमनीयार्थं पात्रे द्रव्यत्रयं बुधः ।
जातीफलं लवङ्गं च कक्कोलमपि निक्षिपेत् ॥ ५.४६ ॥
मधुपर्कीयपात्रे च गव्यं दधि पयो घृतम् ।
मधुखण्डमपीत्येवं निक्षिपेद्द्रव्यपञ्चकम्  ॥ ५.४७ ॥
केचित्त्रीण्येव पात्रेऽस्मिन् द्रव्याणीच्छन्ति साधवः  ॥ ५.४८ ॥

यत उक्तं श्रीविष्णुधर्मे
घृतं दधि तथा क्षौद्रं मधुपर्को विधीयते  ॥ ५.४९ ॥

आदिवाराहे च
दधिसर्पिर्मधुसमं पात्रे औडुम्बरे मम ।
मधुनस्तु अलाभे तु गुडेन सह मिश्रयेत् ॥ ५.५० ॥
घृतस्यालाभे सुश्रोणि लाजैश्च सह मिश्रयेत् ।
तथा दध्नोऽप्यलाभे तु क्षीरेण सह मिश्रयेत् ॥ ५.५१ ॥
तेषामभावे पुष्पादि तत्तद्भावनया क्षिपेत् ।
नारदस्त्वाह विमलेनोदकेनैव पूर्यते  ॥ ५.५२ ॥
मूलेन पात्रेणैकेन मष्टकृत्वोऽभिमन्त्रयेत् ।
कुर्याच्च तेषां पात्राणां रक्षणं चक्रमुद्रया  ॥ ५.५३ ॥
पूजामारभमाणो हि यथोक्तासनमास्थितः ।
पठेन्मङ्गलशान्तिं तां यार्चने सम्मता सताम्  ॥ ५.५४ ॥
अथ मङ्गलशान्तिः

ओं भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षभिर्यजत्रा ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनुभिर्
व्यशेम देवहितं यदायुः  ॥ ५.५५ ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्वदेवाः ।
स्वस्ति नस्तार्क्षोऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु  ॥ ५.५६ ॥
। इति ।


पठन्, ओं शान्तिः श्रीकृष्णपादपद्माराधनेषु शान्तिर्भवतु ॥
। इति ।


अथ विघ्ननिवारणम्

अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया  ॥ ५.५७ ॥
इत्युदीर्यास्त्रमन्त्रेण वामपादस्य पार्ष्णिना ।
घातैस्त्रिभिर्बुधो विघ्नान् भौमान् सर्वान्निवारयेत् ॥ ५.५८ ॥
आन्तरीक्षांश्च तेनैवोर्ध्वोर्ध्वतालत्रयेण हि ।
निरस्योत्सारयेद्दिव्यान्मान्त्रिको दिव्यदृष्टितः  ॥ ५.५९ ॥

श्रीगुर्व्आदिनतिः

ततः कृताञ्जलिर्वामे श्रीगुरुं परमं गुरुम् ।
परमेष्ठिगुरुं चेति नमेद्गुरुपरम्पराम्  ॥ ५.६० ॥
गणेशं दक्षिणे भागे दुर्गामग्रेऽथ पृष्ठतः ।
क्षेत्रपालं नमेद्भक्त्या मध्ये चात्मेष्टदैवतम्  ॥ ५.६१ ॥
ततश्चास्त्रेण संशोध्य करौ कुर्वीत तेन हि ।
तालत्रयं दिशां बन्धमग्निप्राकारमेव च  ॥ ५.६२ ॥
अथ भूतशुद्धिः

शरीराकारभूतानां भूतानां यद्विशोधनम् ।
अव्ययब्रह्मसम्पर्काद्भूतशुद्धिरियं मता  ॥ ५.६३ ॥
भूतशुद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः ।
भवन्ति निष्फलाः सर्वा यथाविध्यप्यनिष्ठिताः  ॥ ५.६४ ॥
तत्प्रकारश्च

करकच्छपिकां कृत्वात्मानं बुद्ध्या हृद्अब्जतः ।
शिरःसहस्रपत्राब्जे परमात्मनि योजयेत् ।
पृथिव्यादीनि तत्त्वानि तस्मिन् लीनानि भावयेत् ॥ ५.६५ ॥
वामहस्तं तथोत्तानमधो दक्षिणबन्धितम् ।
करकच्छपिका मुद्रा भूतशुद्धौ प्रकीर्तिता  ॥ ५.६६ ॥
देहं संशोष्य दग्ध्वेदमाप्लाव्यामृतवर्षतः ।
उत्पाद्य द्रढयित्वासुप्रतिष्ठां विधिनाचरेत् ॥ ५.६७ ॥
आत्मानमेवं संशोध्य नीत्वा कृष्णार्चनार्हताम् ।
वात्सल्याद्धृद्गतं कृष्णं यष्टुं हृत्पुनरानयेत् ॥ ५.६८ ॥

तथा च त्रैलोक्यसंमोहनतन्त्रे
नाभिस्थवायुना देहं सपापं शोधयेद्बुधः ।
वह्निना हृदयस्थेन दहेत्तच्च कलेवरम्  ॥ ५.६९ ॥
सहस्रारे महापद्मे ललाटस्थे स्थितं विधुम् ।
सम्पूर्णमण्डलं शुद्धं चिन्तयेदमृतात्मकम्  ॥ ५.७० ॥
तस्माद्गलितधाराभिः प्लावयेद्भस्मसाद्बुधः ।
आभिर्वर्णमयीभिश्च पञ्चभूतात्मकं वपुः ।
पूर्ववद्भावयेद्देवीम्  ॥ ५.७१ ॥
। इत्यादि ।

किं चाग्रे
ततस्तस्मात्समाकृष्य प्रणवेन तु मन्त्रवित् ।
तत्तेजो हृदये न्यस्य चिन्तयेद्विष्णुमव्ययम्  ॥ ५.७२ ॥
किं वा चिन्तनमात्रेण भूतशुद्धिं विधाय ताम् ।
प्राणायामांश्ततः कुर्यात्सम्प्रदायानुसरतः  ॥ ५.७३ ॥
अथ प्राणायामः

रेचः षोडशमात्राभिः पूरो द्वात्रिंशता भवेत् ।
चतुःषष्ठ्या भवेत्कुम्भ एवं स्यात्प्राणसंयमः  ॥ ५.७४ ॥
विरेच्य पवनं पूर्वं संकोच्य गुदमण्डलम् ।
पूरयित्वा विधानेन स्वशक्त्या कुम्भके स्थितः  ॥ ५.७५ ॥
तत्र प्रणवमभ्यस्यन् बीजं वा मन्त्रमूर्ध्वगम् ।
ऋष्य्आदिस्मरणं कृत्वा कुर्याद्ध्यानमतन्द्रितः  ॥ ५.७६ ॥

तद्ध्यानं चोक्तम्
विष्णुं भास्वत्किरीटाङ्गदवलयकलाकल्पहारोदराङ्घ्रि
श्रोणीभूषं सवक्षोमणिमकरमहाकुण्डलामृष्टगण्डम् ।
हस्तोद्यच्छङ्खचक्राम्बुजगदममलं पीतकौशेयवासं
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि  ॥ ५.७७ ॥

क्वचिच्च
रुद्रस्तु रेचके ब्रह्मा पूरके ध्येयदेवता ।
श्रीविष्णुः कुम्भके ज्ञेयो ध्यानस्थानं गुरोर्मुखात् ॥ ५.७८ ॥

तथा हि
नाभिस्थाने पूरकेण चिन्तयेत्कमलासनम् ।
ब्रह्माणं रक्तगौराङ्गं चतुर्वक्त्रं पितामहम्  ॥ ५.७९ ॥
नीलोत्पलदलश्यामं हृदि मध्ये प्रतिष्ठितम् ।
चतुर्भुजं महात्मानं कुम्भकेन तु चिन्तयेत् ॥ ५.८० ॥
रेचेकनैश्वरं ध्यानं ललाटे सर्वपापहम् ।
शुद्धस्फटिकसङ्काशं कुर्याद्वै निर्मलं बुधः  ॥ ५.८१ ॥
। इति ।


एकान्तिभिश्च भगवान् सर्वदेवमयः प्रभुः ।
कृष्णः प्रियजनोपेतश्चिन्तनीयो हि सर्वतः  ॥ ५.८२ ॥

अथ प्राणायाममाहात्म्यम्

पाद्मे [३.३१.७९८३] देवहूतिविकुण्डलसंवादे
यमलोकं न पश्यन्ति प्राणायामपरायणाः ।
अपि दुष्कृतकर्माणस्तैरेव हतकिल्बिषाः  ॥ ५.८३ ॥
दिवसे दिवसे वैश्य प्राणायामास्तु षोडश ।
अपि ब्रह्महणं साक्षात्पुनन्त्यहर्अहः कृताः  ॥ ५.८४ ॥
तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये ।
गोसहस्रप्रदानं च प्राणायामस्तु तत्समः  ॥ ५.८५ ॥
अम्बुबिन्दुं यः कुशाग्रेण मासे मासे नरः पिबेत् ।
संवत्सरशतं साग्रं प्राणायामस्तु तत्समः  ॥ ५.८६ ॥
पातकं तु महद्यच्च तथा क्षुद्रोपपातकम् ।
प्राणायामैः क्षणात्सर्वं भस्मसात्कुरुते नरः  ॥ ५.८७ ॥
। इति ।


न्यासान् विना जपं प्राहुरासुरं विफलं बुधाः ।
अतो यथासम्प्रदायं न्यासान् कुर्याद्यथाविधि  ॥ ५.८८ ॥

तत्रादौ मातृकान्यासः

ऋषिच्छन्दोदेवतादि स्मृत्वादौ मातृकामनोः ।
शिरोवक्त्रहृद्आदौ च न्यस्य तद्ध्यानमाचरेत् ॥ ५.८९ ॥

तच्चोक्तम्
पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षःस्थलीं
भावन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलसं विद्यां च हस्ताम्बुजैर्
बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये  ॥ ५.९० ॥

अकारादीन् क्षकारान्तान् वर्णानादौ तु केवलान् ।
ललाटादिषु चाङ्गेषु न्यसेद्विद्वान् यथाक्रमम्  ॥ ५.९१ ॥

तच्च विविच्योक्तम्
ललाटमुखबिम्बाक्षिश्रुतिघ्राणेषु गण्डयोः ।
ओष्ठदन्तोत्तमाङ्गास्ये दोःपत्सन्ध्यग्रकेषु च  ॥ ५.९२ ॥
पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेऽंसके ।
ककुद्यसे च हृत्पूर्वं पाणिपादयुगे ततः ।
जठराननयोर्न्यसेन्मातृकार्णान् यथाक्रमम्  ॥ ५.९३ ॥
। इति ।


सानुस्वारान् विसर्गाढ्यान् सानुस्वारविसर्गकान् ।
न्यसेद्भूयोऽपि तान् विद्वानेवं वारचतुष्टयम्  ॥ ५.९४ ॥
अथ मातृकान्यासः

कण्ठहृन्नाभिगुह्येषु पायुभ्रूमह्द्ययोस्तथा ।
स्थिते षोडशपत्राब्जे क्रमेण द्वादशच्छदे  ॥ ५.९५ ॥
दशपत्रे च षट्पत्रे चतुष्पत्रे द्विपत्रके ।
न्यसेदेकैकपत्रान्ते सबिन्द्व्एकैकमक्षरम्  ॥ ५.९६ ॥
अथ केशवादिन्यासः

स्मृत्वा ऋष्य्आदिकां वर्णान्मूर्तिभिः केशवादिभिः ।
कीर्त्यादिभिः शक्तिभिश्च न्यसेत्तान् पूर्ववत्क्रमात् ॥ ५.९७ ॥
न्यसेच्चतुर्थीनत्यन्ता मूर्तीः शक्तीश्च यादिभिः ।
सप्तधातून् प्राणजीवौ क्रोधमप्यात्मनेऽन्तकान्  ॥ ५.९८ ॥
तत्र ध्यानम्

उद्यत्प्रद्योतनशतरुचिं तप्तहेमावदानं
पार्श्वद्वन्द्वे जलधिसुतया विश्वधात्र्या च जुष्टम् ।
नानारत्नोल्लसितविविधाकल्पमापीतवस्त्रं
विष्णुं वन्दे दरकमलकौमोदकीचक्रपाणिम्  ॥ ५.९९ ॥
अथ श्रीमूर्तयः

प्रथमं केशवो नारायणः पश्चाच्च माधवः ।
गोविन्दश्च तथा विष्णुर्मधुसूदन एव च  ॥ ५.१०० ॥
त्रिविक्रमो वामनोऽथ श्रीधरश्च ततः परम् ।
ऋषीकेशः पद्मनाभस्ततो दामोदरस्तथा  ॥ ५.१०१ ॥
वासुदेवः सङ्कर्षणः प्रद्युम्नोऽथानिरुद्धकः ।
चक्री गदी तथा शार्ङ्गी खड्गी शङ्खी हली तथा  ॥ ५.१०२ ॥
मुषली च तथा शूली पाशी चैवाङ्कुशी तथा ।
मुकुन्दो नन्दजश्चैव तथा नन्दी नरस्तथा  ॥ ५.१०३ ॥
नरकजिद्धरिः कृष्णः सत्यः सात्वत एव च ।
ततः शौरिस्तथा शूरस्ततः पश्चाज्जनार्दनः  ॥ ५.१०४ ॥
भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः ।
बलो बलानुजो बालो वृषघ्नो वृष एव च  ॥ ५.१०५ ॥
हंसो वराहो विमलो नृसिंहश्चेति मूर्तयः  ॥ ५.१०६ ॥
अथ शक्तयः

कीर्तिः कान्तिस्तुष्टिपुष्टी धृतिः शान्तिः क्रिया दया ।
मेधा हर्षा तथा श्रद्धा लज्जा लक्ष्मीः सरस्वती  ॥ ५.१०७ ॥
प्रीती रतिर्जया दुर्गा प्रभा सत्या च चण्डिका ।
वाणी विलासिनी चैव विजया  विरजा तथा  ॥ ५.१०८ ॥
विश्वा च विनदा चैव सुनन्दा च स्मृतिस्तथा ।
ऋद्धिः समृद्धिः शुद्धिश्च बुद्धिर्मूर्तिर्नतिः क्षमा  ॥ ५.१०९ ॥
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा ।
परायणा च सूक्ष्मा च सन्ध्या प्रज्ञा प्रभा निशा  ॥ ५.११० ॥
अमोघा विद्युतेत्येकपञ्चाशत्शक्तयो मताः ।
ददात्ययं केशवादिन्यासोऽत्राखिलसम्पदम्  ॥ ५.१११ ॥
अमुत्राच्युतसारूप्यं नयति न्यासमात्रतः  ॥ ५.११२ ॥

तदुक्तं
ध्यात्वैवं परमपुमांसमक्षरैर्यो
विन्यसेद्दिनमनु केशवादियुक्तैः ।
मेधायुःस्मृतिधृतिकीर्तिकान्तिलक्ष्मी
सौभाग्यैश्चिरमुपबृंहितो भवेत्सः  ॥ ५.११३ ॥

अन्यत्र च
केशवादिरयं न्यासो न्यासमात्रेण देहिनः ।
अच्युतत्वं ददात्येव सत्यं सत्यंन संशयः  ॥ ५.११४ ॥
। इति ।


यश्च कुर्यादिमं न्यासं लक्ष्मीबीजपुरःसरम् ।
भक्तिं मुक्तिं च भुक्तिं च कृष्णं च लभतेऽचिरात् ॥ ५.११५ ॥

तथा चोक्तम्
अमुमेव रमापुरःसरं
प्रभजेद्यो मनुजो विधिं बुधः ।
समुपेत्य रमां प्रथीयसीं
पुनरन्ते हरितां व्रजत्यसौ  ॥ ५.११६ ॥

अथ तत्त्वन्यासः

मकारादिककारान्तवर्णैर्युक्तं सबिन्दुकैः ।
नमः परायेति पूर्वमात्मने नम इत्यनु  ॥ ५.११७ ॥
नाम जीवादितत्त्वानां न्यसेत्तत्तत्पदे क्रमात् ।
न्यासेनानेन लोको हि भवेत्पूजाधिकारवान्  ॥ ५.११८ ॥
तत्रादौ सकले न्यसेज्जीवप्राणौ कलेवरे ।
हृदये मत्यहङ्कारमनांसीति त्रयं ततः  ॥ ५.११९ ॥
शब्दं स्पर्शं ततो रूपं रसं गन्धं च मस्तके ।
मुखे हृदि च गुह्ये च पादयोश्च यथाक्रमम्  ॥ ५.१२० ॥
श्रोत्रं त्वचं दृशं जिह्वां घ्राणं स्वस्वपदे ततः ।
वाक्पाणिपायूपस्थानि स्वस्वपदे तथा  ॥ ५.१२१ ॥
आकाशवायुतेजांसि जलं पृथ्वीं च मूर्धनि ।
वदने हृदये लिङ्गे पादयोश्च यथाक्रमम्  ॥ ५.१२२ ॥
हृदि हृत्पुण्डरीकं च द्विषट्द्व्यष्टदशादिकम् ।
कलाव्याप्तेति पूर्वं च सूर्यचन्द्राग्निमण्डलम् ।
वर्णैः सह सरेफैश्च क्रमान्न्यसेत्सबिन्दुकैः  ॥ ५.१२३ ॥
वासुदेवं षकारेण परमेष्ठियुतं च के ।
यकारेण मुखे सङ्कर्षणं न्यसेत्पुमन्वितम्  ॥ ५.१२४ ॥
हृदि न्यसेल्लकारेण प्रद्युम्नं विश्वसंयुतम् ।
अनिरुद्धं निवृत्त्य्आढ्यं वकारेण च गुह्यके ।
नारायणं च सर्वाढ्यं लकारेणैव पादयोः  ॥ ५.१२५ ॥
नृसिंहं कोपसंयुक्तं तद्बीजेनाखिलात्मनि ।
तत्त्वन्यासोऽयमचिरात्कृष्णसान्निध्यकारकः  ॥ ५.१२६ ॥

तथा चोक्तम्

अतत्त्वव्याप्त्यरूपस्य तत्प्राप्तेर्हेतुना पुनः ।
तत्त्वन्यासमिति प्राहुर्न्यासतत्त्वविदो बुधाः  ॥ ५.१२७ ॥
यः कुर्यात्तत्त्वविन्यासं स पूतो भवति ध्रुवम् ।
तद्आत्मनानुप्रविश्य भगवानिह तिष्ठति ।
यतः स एव तत्त्वानि सर्वं तस्मिन् प्रतिष्ठितम्  ॥ ५.१२८ ॥
अथ पुनः प्राणायांविशेषः

प्राणायामांस्ततः कुर्यान्मूलमन्त्रं जपन् क्रमात् ।
वारौ द्वौ चतुरः षट्च रेचपूरककुम्भकः  ॥ ५.१२९ ॥
अथवा रेचकादींस्तान् कुर्याद्वारांस्तु षोडश ।
द्वात्रिंशच्च चतुःषष्ठिं कामबीजं जपन् क्रमात् ॥ ५.१३० ॥

ओ)०(ओ

तथा च क्रमदीपिकायाम् [१.३९]

रेचयेन्मारुतं दक्षया दक्षिणः
पूरयेद्वामया मध्यनाड्या पुनः ।
धारयेदीरितं रेचकादित्रयं स्यात्
कलादन्तविद्याख्यमात्राच्युकम्  ॥ ५.१३१ ॥

सनातनः: तदेव क्रमदीपिकोक्त्या संवादयन् तत्रैव किंचिद्विशेषं च दर्शयतिरेचयेदिति । दक्षया दक्षिणनाड्या, दक्षिणः विद्वान् जनः । मध्यनाड्या सुषुम्णया धारयेत् । एवं रेचकपूरककुम्भकाख्यं त्रयं स्यात् । रेचकादिषु त्रिषु क्रमेणावधिकालमाहकलाः षोडश । दन्ता द्वात्रिंशत् । विद्याश्चतुःषष्ठिस्तत्तत्सङ्ख्यकमात्रात्मकमित्यर्थः । मात्रा चवामाङ्गुष्ठेन वामकनिष्ठाद्य्अङ्गुलीनां प्रत्येकं पर्वत्रयसम्पर्ककालः । वामहस्तेन वामजानुमण्डलस्य प्रादक्षिण्येन स्पर्शकालो वा । तत्राप्यङ्गुलिनियमोऽप्युक्तः
कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् ।
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥
। इति ।

तत्र तेषु प्राणायामेषु पुर्वं रेचकादिषु सङ्ख्योक्ता । अत्र च प्राणायामेष्विति भेदः  ** ःभ्व्C_५.१३१ **

 

तत्र कालः सङ्ख्यादिकं च

तत्रैव [१.३६]
पुरतो जपस्य परतोऽपि
विहितमथ तत्त्रयं बुधैः ।
षोडश य इह समाचरेद्दिनेशः
परिपूयते स खलु मासतोऽं हंसः  ॥ ५.१३२ ॥
सनातनः: जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु कालः । तत्त्रयं प्राणायामत्रयमिति सङ्ख्या । यो जनो दिनशः प्रत्यहं षोडशप्राणायामानाचरेत्, स मासतः मासेनैकेन अंहसः पापात्परिपूयते शुद्धो भवतीति सामान्यतः फलम् । परं च सर्वं पुर्वं लिखितमेव  ** ःभ्व्C_५.१३२ **


अथ पीठन्यासः

ततो निजतनूमेव पूजापीठं प्रकल्पयेत् ।
पीठस्याधारशक्त्यादीन्न्यसेत्स्वाङ्गेषु तारवत् ॥ ५.१३३ ॥
आधारशक्तिं प्रकृतिं कूर्मानन्तौ च तत्र तु ।
पृथिवीं क्षीरसिन्धुं च श्वेतद्वीपं च भास्वरम्  ॥ ५.१३४ ॥
श्रीरत्नमण्डपं चैव कल्पवृक्षं तथा हृदि ।
न्यसेत्प्रदक्षिणत्वेन धर्मज्ञाने ततोऽंसयोः  ॥ ५.१३५ ॥
ऊर्वोर्वैराग्यमैश्वर्यं तथैवाधर्ममानने ।
त्रिकेऽज्ञानमवैराग्यमनैश्वर्यं च पार्श्वयोः  ॥ ५.१३६ ॥
हृद्अब्जेऽनन्तपद्मं च सूर्येन्दुशिखिनान् तथा ।
मण्डलानि क्रमाद्वर्णैः प्रणवांशैः सबिन्दुकैः  ॥ ५.१३७ ॥
सत्त्व रजस्तमश्चात्मान्तरात्मानौ च तत्र हि ।
परमात्मानमप्यात्माद्य्आद्यवर्णैः सबिन्दुकैः  ॥ ५.१३८ ॥
ज्ञानात्मानं च भुवनेश्वरीबीजेन संयुतम् ।
तस्याष्टदिक्षु मध्येऽपि नवशक्तीश्च दिक्क्रमात् ॥ ५.१३९ ॥

ताश्चोक्ताः
विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः ।
प्रह्वी सत्या तथेशानानुग्रहा नवं स्मृता  ॥ ५.१४० ॥
। इति ।


न्यसेत्तद्उपरिष्ठाच्च पीठमन्त्रं यथोदितम् ।
ऋष्य्आदिकं स्मरेदस्याष्टादशार्णमनोस्ततः  ॥ ५.१४१ ॥
ज्ञेयाश्चैकान्तिभिः क्षीरसमुद्रादिचतुष्टयम् ।
क्रमाच्छ्रीमथुरावृन्दावनं तत्कुञ्जनीपकाः  ॥ ५.१४२ ॥
ततो पीठन्यासः

तथा च ब्रह्मसंहितायामादिपुरुषरहस्यस्तोत्रे [५.५६]

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं
विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये  ॥ ५.१४३ ॥

क्रमदीपिकायां [१.४४४५]
एवं हृदयं भगवान् विष्णुः सर्वान्वितश्च भूतात्मा ।
ङेऽन्ताः सवासुदेवाः सर्वात्मयुतं च संयोगं  ॥ ५.१४४ ॥
योगावधश्च पद्मं पीठात्ङेयुतो नतिश्चान्ते ।
पीठमहामनुर्व्यक्तः पर्याप्तोऽयं सपर्यासु  ॥ ५.१४५ ॥

सनातनः: तारः प्रणवः । ततो हृदयं नम इति पदम् । ततश्च भगवानिति विष्णुरिति च । सर्वान्वितः सर्वशब्दयुक्तो भूतात्मा सर्वभूतात्मेति । एते त्रयः सवासुदेवा वासुदेवसहिताः प्रत्येकं ङेऽन्ताश्चतुर्थ्य्अन्ताः । ततश्च सर्वात्मना युतं संयोगं सर्वात्मसंयोगमिति नपुंसकत्वमार्षम् । ततश्च योगस्यावधौ अन्ते पद्मं योगपद्ममिति । तद्अन्ते ङेयुक्तश्चतुर्थ्य्अन्तः पीठात्मा । तद्अन्ते च नतिः नमःशब्दः । एवमों नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयोगपद्मपीठात्मने नम इति सिद्धम् । तथा च शारदातिलके
नमो भगवते ब्रूयाद्विष्णवे च पदं वदेत् ।
सर्वभूतात्मने वासुदेवायेति वदेत्ततः ॥
सर्वात्मसंयोगपदाद्योगपद्मपदं पुनः ।
पीठात्मने हृद्अन्तोऽयं मन्त्रस्तारादिरीरितः ॥
। इति ।

सनत्कुमारकल्पे च
ओं नमः पदमाभाष्य तथा भगवतेपदम् ।
वासुदेवाय इत्युक्त्वा सर्वात्मेति पदं तथा ॥
संयोगयोगेत्युक्त्वा च तथा पीठात्मने पदम् ।
वह्निपत्नीसमायुक्तः पीठमन्त्र इतीरितः ॥
। इति ।
।१४४५॥

अथ ऋष्य्आदिस्मरणम्

ओमष्टादशाक्षरमन्त्रस्य श्रीनारद ऋषिर्गायत्रीच्छन्दः, सकललोकमङ्गलो नन्दतनयो देवता, ह्रीं बीजं, स्वाहा शक्तिः, कृष्णः प्रकृतिर्, दुर्गाधिष्ठात्री देवता, अभिमतार्थे विनियोगः  ॥ ५.१४६ ॥

तथा च संमोहनतन्त्रे शिवोमासंवादे
ऋषिर्नारद इत्युक्तो गायत्रीच्छन्द उच्यते ।
गोपवेशधरः कृष्णो देवता परिकीर्तितः  ॥ ५.१४७ ॥
बीजं मन्मथसंज्ञं तु प्रिया शक्तिर्हविर्भुजः ।
त्वमेव परमेशानि अस्याधिष्ठातृदेवता ।
चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः  ॥ ५.१४८ ॥
अथाङ्गन्यासः

चतुश्चतुर्भिर्वर्णैश्च चत्वार्यङ्गानि कल्पयेत् ।
द्वाभ्यामस्त्राख्यमङ्गं च तस्येत्यङ्गानि पञ्च वै  ॥ ५.१४९ ॥
न्यस्येच्च व्यापकत्वेन तान्यङ्गानि करद्वये ।
तान्यङ्गुलीषु पञ्चाथ केचिद्वर्णान् स्वरानपि  ॥ ५.१५० ॥

ते चोक्ताः
द्रावणक्षोभणाकर्षवशीकृत्स्रावणास्तथा ।
शोषणो मोहनः सन्दीपनस्तापनमादनौ  ॥ ५.१५१ ॥
। इति ।


किं च
नमोऽन्तं हृदयं चाङ्गैः शिरः स्वाहान्वितं शिखाम् ।
वषड्युतं च कवचं हुंयुग्अस्त्रं च फड्युतम्  ॥ ५.१५२ ॥
न्यस्यन्ति पुनरङ्गुष्ठौ तर्जन्यौ मध्यमे तथा ।
अनामिके कनिष्ठे च क्रमादङ्गैश्च पञ्चभिः  ॥ ५.१५३ ॥
पुनश्च हृदयादीनि तथाङ्गुष्ठादिकानि च ।
न्यस्यन्ति युगपत्सर्वाण्यङ्गैस्तैः पञ्चभिः क्रमात् ॥ ५.१५४ ॥
न्यस्यन्ति च षड्अङ्गानि हृदयादीनि तन्मनोः ।
हृदयादिषु चैतेषां पञ्चैकं दिक्षु च क्रमात् ॥ ५.१५५ ॥

षड्अङ्गानि चोक्तानि सम्मोहनतन्त्रे सनत्कुमारकल्पे
वर्र्णेनैकेन हृदयं तिर्भिरेव शिरो मतम् ।
चतुर्भिश्च शिखा प्रोक्ता तथैव कवचं मतम् ।
नेत्रं तथा चतुर्वर्णैरस्त्रं द्वाभ्यां तथा मतम्  ॥ ५.१५६ ॥
। इति ।


ततश्चापादमाकेशान्न्यसेद्दोर्भ्यामिमं मनुम् ।
वारांस्त्रीन् व्यापकत्वेन न्यसेच्च प्रणवं सकृत् ॥ ५.१५७ ॥
अथाक्षरन्यासः

ततोऽष्टादशवर्णांश्च मन्त्रस्यास्य यथाक्रमम् ।
दन्ते ललाटे भ्रूमध्ये कर्णयोर्नेत्रयोर्द्वयोः  ॥ ५.१५८ ॥
नासयोर्वदने कण्ठे हृदि नाभौ कटिद्वये ।
गुह्ये जानुद्वये चैकं न्यसेदेकं च पादयोः  ॥ ५.१५९ ॥
सन्तो न्यस्यन्ति तारादिनमोऽनन्तांस्तान् सबिन्दुकान् ।
श्रीशक्तिकामबीजैश्च सृष्ट्य्आदिक्रमतोऽपरे  ॥ ५.१६० ॥
अथ पदन्यासः
तारं शिरसि विन्यस्य पञ्च मन्त्रपदानि च ।
न्यसेन्नेत्रद्वये वक्त्रे हृद्गुह्याङ्घ्रिषु च क्रमात् ॥ ५.१६१ ॥
देहे च व्यापकत्वेन न्यसेत्तान्यखिले पुनः ।
केचित्तानि नमोऽन्तानि न्यस्यन्त्याद्याक्षरैः सह  ॥ ५.१६२ ॥
स्वाहान्तानि तथा त्रीणि संमिश्राण्युत्तरोत्तरैः ।
गुह्याद्गलान्मस्तकाच्च व्यापय्य चरणावधि  ॥ ५.१६३ ॥
न्यासोऽत्र ज्ञाननिष्ठानां गुह्यादिविषयस्तु यः ।
स्वस्ववर्णतनोः कार्यस्तत्तद्वर्णेषु वैष्णवैः  ॥ ५.१६४ ॥

अथ ऋष्य्आदिन्यासः

ऋष्य्आदीन् सप्तभागांश्च न्यसेदस्य मनोः क्रमात् ।
मूर्धास्यहृत्सु कुचयोः पुनर्हृदि पुनर्हृदि  ॥ ५.१६५ ॥
अथ मुद्रापञ्चकम्

वेण्व्आख्यां वनमालाख्यां मुद्रां सन्दर्शयेत्ततः ।
श्रीवत्साख्यां कौस्तुभाख्यां ब्लिवाख्यां च मनोरमाम्  ॥ ५.१६६ ॥
इत्थं नय्स्तशरीरः सन् कृत्वा दिग्बन्धनं पुनः ।
करकच्छपिकां कृत्वा धायेच्छ्रीनन्दनन्दनम्  ॥ ५.१६७ ॥

अथ श्रीनन्दन्दनभगवद्ध्यानविधिः

[Kरमदीपिका ३.१३६]

अथ प्रकटसौरभोद्गलितमाध्विकोत्फुल्लसत्
प्रसूननवपल्लवप्रकरनम्रशाखैर्द्रुमैः ।
प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितैः
स्मरेच्छिशिरितं शिवं सितमतिस्तु वृन्दावनम्  ॥ ५.१६८ ॥

अथानन्तरं सितमतिः शुद्धमनाः सन् वृन्दावनं चिन्तयेत् । कीदृशं ? द्रुमैः शिशिरितं शीतलीकृतम् । कीदृशैः ? प्रकटमुद्भटं सौरभं यस्य तच्च । तदुद्गलितमाध्वीकं च प्रच्युतमधु । उत्फुल्लं च विकसितम् । सच्च उत्तमं यत्प्रसूनं पुष्पं नवपल्लवं च । तयोः प्रकरः समूहः । तेन नम्राः शाखा येषां तैः । माध्विकेतिह्रस्वत्वं महाकविनिबद्धत्वात्सोढव्यम् । प्रकटसौरभाकुलितमत्तभृङ्गोल्लसदिति पाठस्तु सुगम एव । पुनः कीदृशैः ? प्रफुल्लाभिर्नवमञ्जरीभिर्ललिता मनोहरा या वल्लर्यः अग्रशाखा लता वा, तभिर्वेष्टितैः । शिवं मङ्गलरूपं, निर्बाधत्वात्परमकल्याणकरत्वाच्च  ** ःभ्व्C_५.१६८ **

विकासिसुमनोरसास्वादनमञ्जुलैः सञ्चरच्
छिलीमुखमुखोद्गतैर्मुखरितान्तरं झङ्कृतैः ।
कपोतशुकशारिकापरभृतादिभिः पत्रिभिर्
विराणितमितस्ततो भुजगशत्रुनृत्याकुलम्  ॥ ५.१६९ ॥

कलिन्ददुहितुश्चलल्लहरिविप्रुषां वाहिभिर्
विनिद्रसरसीरुहोदररजश्चयोद्धूसरैः ।
प्रदीपितमनोभवव्रजविलासिनीवाससां
विलोलनविहारिभिः सततसेवितं मारुतैः  ॥ ५.१७० ॥

प्रवालनवपल्लवं मरकतच्छदं वज्रमौक्तिक
प्रकरकोरकं कमलरागनानाफलम् । स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं
तद्अन्तरपि कल्पकाङ्घ्रिपमुदञ्चितं चिन्तयेत् ॥ ५.१७१ ॥

सुहेमशिखरावलेरुदितभानुवद्भास्वरम्
अधोऽस्य कनकस्थलीममृतशीकरासारिणः ।
प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां
स्मरेत्पुनरतन्द्रितो विगतषट्तरङ्गां बुधः  ॥ ५.१७२ ॥
तद्रत्नकुट्टिमनिविष्टमहिष्ठयोग
पीठेऽष्टपत्रमरणं कमलं विचिन्त्य ।
उद्यद्विरोचनसरोचिरमुष्य मध्ये
सञ्चिन्तयेत्स्सुखनिविष्टमथो मुकुन्दम्  ॥ ५.१७३ ॥

सूत्रामरत्नदलिताञ्जनमेघपुञ्ज
प्रत्यग्रनीलजलजन्मसमानभासम् ।
सुस्निग्धनीलघनकुञ्चितकेशजालं
राजन्मनोज्ञशितिकण्ठशिखण्डचूडम्  ॥ ५.१७४ ॥

रोलम्बलालितसुरद्रुमसूनकल्पि
तोत्तंसमुत्कचनवोत्पलकर्णपूरम् ।
लोलालकस्फुरितभालतलप्रदीप्त
गोरोचनातिलकमुच्चलचिल्लिमालम्  ॥ ५.१७५ ॥

आपूर्णशारदगताङ्कशशाङ्कबिम्ब
कान्ताननं कमलपत्रविशालनेत्रम् ।
रत्नस्फुरन्मकरकुण्डलरश्मिदीप्त
गण्डस्थलीमुकुरमुन्नतचारुनासम्  ॥ ५.१७६ ॥

सिन्दूरसुन्दरतराधरमिन्दुकुन्द
मन्दारमन्दहसितद्युतिदीपिताङ्गम् ।
वन्यप्रवालकुसुमप्रचयावक्प्त
ग्रैवेयकोज्ज्वलमनोहरकम्बुकष्ठम्  ॥ ५.१७७ ॥

मत्तभ्रमद्भ्रमरजुष्टविलम्बमान
सन्तानकप्रसवदामपरिष्कृतांसम् ।
हारावलीभगणराजितपीवरोरो
व्योमस्थलीललितकौस्तुभभानुमन्तम्  ॥ ५.१७८ ॥

श्रीवत्सलक्षणसुलक्षितमुन्नतांस
आजानुपीनपरिवृत्तसुजातबाहुम् ।
आबन्धुरोदरमुदारगभीरनाभिं
भृङ्गाङ्गनानिकरवञ्जुलरोमराजिम्  ॥ ५.१७९ ॥

नानामणिप्रघटिताङ्गदकङ्कणोर्मि
ग्रैवेयसारसननूपुरतुन्दबन्धम् ।
दिव्याङ्गरागपरिपिञ्जरिताङ्गयष्टि
मापीतवस्त्रपरिवीतनितम्बबिम्बम्  ॥ ५.१८० ॥

चारूरुजानुमनुवृत्तमनोज्ञजङ्घं
कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिम् ।
माणिक्यदराणलसन्नखराजिराज
द्रत्नाङ्गुलिच्छदनसुन्दरपादपद्मम्  ॥ ५.१८१ ॥

मत्स्याङ्कुशारदरकेतुयवाब्जवज्र
संलक्षितारुणकराङ्घ्रितलाभिरामम् ।
लावण्यसारसमुदायविनिर्मिताङ्ग
सौन्दर्यनिर्जितमनोभवदेहकान्तिम्  ॥ ५.१८२ ॥

आस्यारविन्दपरिपूरितवेणुरन्ध्र
लोलत्कराङ्गुलिसमीरितदिव्यरागैः ।
शश्वद्द्द्रवीकृतविकृष्टसमस्तजन्तु
सन्तानसन्ततिमनन्तसुखाम्बुराशिम्  ॥ ५.१८३ ॥

गोभिर्मुखाम्बुजविलीनविलोचनाभि
रूधोभरस्खलितमन्थरमन्दगाभिः ।
दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभि
रालम्ब्वालधिलताभिवीतम्  ॥ ५.१८४ ॥

सप्रस्रवस्तनविचूषणपूर्णनिश्च
लास्यावटक्षरितफेनिलदुग्धमुग्धैः ।
वेणुप्रवर्तितमनोहरमन्द्रगीत
दत्तोच्चकर्णयुगलैरपि तर्णकैश्च  ॥ ५.१८५ ॥

प्रत्यग्रशृङ्गमृदुमस्तकसम्प्रहार
संरम्भवल्गनविलोलखुराग्रपातैः ।
आमेदुरैर्बहुलसास्नगलैरुदग्र
पुच्छैश्च वत्सतरवत्सतरीनिकायैः  ॥ ५.१८६ ॥

हम्बारवक्षुभितदिग्वलयैर्महद्भि
रप्युक्षभिः पृथुककुद्भरभारखिन्नैः ।
उत्तम्भितश्रुतिपुटीपरिवीतवंश
ध्वानामृतोद्धतविकाशिविशालघोणैः  ॥ ५.१८७ ॥

गोपैः समानगुणशीलवयोविलास
वेशैश्च मूर्च्छितकलस्वनवेणुवीणैः ।
मन्द्रोच्चतारपटगानपरैर्विलोल
दोर्वल्लरीललितलास्यविधानदक्षैः  ॥ ५.१८८ ॥

जङ्घान्तपीवरकटीरतटीनिबद्ध
व्यालोलकिङ्किणिघटारटितैरटद्भिः ।
मुग्धैस्तरक्षुनखकल्पितकण्ठभूषै
रव्यक्तमञ्जुवचनैः पृथुकैः परीतम्  ॥ ५.१८९ ॥

अथ सुललितगोपसुन्दरीणां
पृथुनिविवीषनितम्बमन्थराणाम् ।
गुरुकुचभरभङ्गुरावलग्न
त्रिवलिविजृम्भितरोमराजिभाजाम्  ॥ ५.१९० ॥

तद्अतिमधुरचारुवेणुवाद्या
मृतरसपल्लविताङ्गजाङ्घ्रिपाणाम् ।
मुकुलविसररम्यरूढरोमो
द्गमसमलङ्कृतगानवल्लरीणाम्  ॥ ५.१९१ ॥

तद्अतिरुचिरमन्दहासचन्द्रा
तपपरिजृम्भितरागवारिराशेः ।
तरलतरतरङ्गभङ्गविप्रुट्
प्रकरसमश्रमबिन्दुसन्ततानाम्  ॥ ५.१९२ ॥

तद्अतिललितमन्दचिल्लिचाप
च्युतनिशितेक्षणमारबाणवृष्ट्या ।
दलितसकलमर्मविह्वलाङ्ग
प्रविसृतदुःसहवेपथुव्यथानाम्  ॥ ५.१९३ ॥
तद्अतिसुभगकम्ररूपशोभा
मृतरसपानविधानलालसाभ्याम् ।
प्रणयसलिलपूरवाहिनीना
मलसविलोलविलोचनाम्बुजाभ्याम्  ॥ ५.१९४ ॥

विस्रंसत्कवरीकलापविगलत्फुल्लप्रसूनस्रव
न्माध्वीलम्पटचञ्चरीकघटया संसेवितानां मुहुः ।
मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्य्उच्छ्वस
न्नीवीविश्लथमानचीनहिचयान्ताविर्नितम्बत्विषाम्  ॥ ५.१९५ ॥

स्खलितललितपादाम्भोजमन्दाभिधान
क्वणितमणितुलाकोट्य्आकुलाशामुखानाम् ।
चलद्अधरदलानां कुट्नलपक्ष्मलाक्षि
द्वयसरसिरुहाणामुल्लसत्कुण्डलानाम्  ॥ ५.१९६ ॥

स्खलितस्य स्खलनयुक्तस्य ललितस्य च पादाम्भोजस्य मन्दाभिघातेन ईषद्भूभागअप्रहारेण क्वणितः कृतशब्दो मणिमयो यस्तुलाकोटिर्नूपुरं, तेनाकुलं शब्दव्याप्तमाशानां दिशां मुखं याभ्यस्तासाम् । कुड्मलत्मुकुलायमानं पक्ष्मलं च उत्कृष्टपक्ष्मयुक्तमक्षिद्वयसरसिरुहं यासाम्  ** ःभ्व्C_५.१९६ **

द्राघिष्ठश्वसनसमीरणाभिताप
प्रम्लानीभवद्अरुणोष्ठपल्लवानाम् ।
नानोपायनविलसत्कराम्बुजाना
मालीभिः सततनिषेवितं समन्तात् ॥ ५.१९७ ॥

द्राघिष्ठोऽतिदीर्घः श्वासनसमीरणः श्वासवायुस्तेन अभितापः सन्तापस्तेन प्रम्लानीभवनरुणोष्ठपल्लवो यासाम्  ** ःभ्व्C_५.१९७ **

तासामायतलोलनीलनयनव्याकोषनीलाम्बुज
स्रग्भिः सम्परिपूजिताखिलतनुं नानाविनोदास्पदम् ।
तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादिनीं
विभ्राणं प्रणयोन्मदाक्षिमधुकृन्मालां मनोहारिणीम्  ॥ ५.१९८ ॥

व्याकोशं विकसितं, प्रणयादुन्मदे उद्गतमदे अक्षिणी एव मधुकृन्माला भ्रमरपङ्क्तिः । तां बिभ्राणं प्रकटयन्तम् । श्रीलोचनयोरितस्ततो बहुधा निपतनेन सर्वतो दर्शनान्मालेत्युक्तम् । कीदृशीम् ? तासां यन्मुग्धं मनोहरमाननपङ्कजम् । तस्मात्प्रविगलितो माध्वीरसस्य मकरन्दस्य आस्वादन शीलाम् । अत एव मनोहारिणीं   ** ःभ्व्C_५.१९८ **

गोपगोपीपशूनां बहिः स्मरेद्
अग्रतोऽस्य गीर्वाणघटाम् ।
वित्तार्थिनीं विरिञ्चित्रिनयन
शतमन्युपूर्विकां स्तोत्रपराम्  ॥ ५.१९९ ॥

इदानीं क्रमेण वित्तधर्ममोक्षकामाख्यपुरुषार्थचतुष्टयस्य तथा सर्वतः श्रेष्ठस्य पञ्चमपुरुषार्थरूपाया भक्तेश्च वाञ्छायाः प्रदानां देवादीनां ध्यानमाहगोपेति पञ्चभिः । अस्य कृष्णस्य अग्रतः सम्मुखे  ** ःभ्व्C_५.१९९ **

तद्दक्षिणतो मुनिनिकरं
दृढधर्मवाञ्छमानायपरम् ।
योगीन्द्रानथ पृष्ठे मुमुक्ष
माणान् समाधिना सनकाद्यान्  ॥ ५.२०० ॥

दक्षिणे चास्य मुनिनिकरं स्मरेत् । दृढा धर्मे वाञ्छा यस्य तम्  ** ःभ्व्C_५.२०० **

सव्ये सकान्तानथ यक्षसिद्ध
गन्धर्वविद्याधरचारणांश्च ।
सकिन्नरानप्सरसश्च मुख्याः
कामार्थिनो नर्तनगीतवाद्यैः  ॥ ५.२०१ ॥

सकान्तान् पत्नीसहितान् यक्षादींश्च स्मरेत् । कथम्भूतान् ? नर्तनाद्यैः कामार्थिनो निजनिजाभीष्टप्रार्थकान् । मुख्याः श्रेष्ठाः उर्वश्य्आद्या अप्सरसश्च स्मरेत् ** ःभ्व्C_५.२०१ **

शङ्खेन्दुकुन्दधवलं सकलागमज्ञं
सौदामनीततिपिङ्गजटाकलापम् ।
तत्पादपङ्कजगतामचलां च भक्तिं
वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम्  ॥ ५.२०२ ॥

तस्य श्रीकृष्णस्य पादपङ्कजगतां तद्विषयिणीमित्यर्थः । उज्झिततरो नितरां परित्यक्तोऽन्यस्मिन् भक्तिव्यतिरिक्ते समस्ते सङ्ग आसक्तिर्येन तम्  ** ःभ्व्C_५.२०२ **

नानाविधश्रुतिगणान्वितसप्तराग
ग्रामत्रयीगतमनोहरमूर्छनाभिः ।
सम्प्रीणयन्तमुदिताभिरमुं महत्या
सञ्चिन्तयेन्नभसि धातृसुतं मुनीन्द्रम्  ॥ ५.२०३ ॥

अत एव अमुं श्रीकृष्णं महत्याख्यया कच्छपिकया स्वकीयवीणया प्रीणयन्तम् । काभिः ? नानाविधः षट्त्रिंशद्भेदात्मको यः श्रुतिगणो नादसमूहस्तेनान्विता ये सप्त रागाः निषादादिस्वरा मेघनादवसन्तादिरागा वा, तेषु वा ग्रामत्रयी तत्र ग्रामाणां त्रयाणां समाहारस्तस्यां गताः प्राप्ता या मनोहरा मूर्छनास्ताभिः । किम्भूताभिः ? उदिताभिः स्वयमेव प्राकट्यं प्राप्ताभिः । महत्योदिताभिरिति वा सम्बन्धः । अत एव मुनीन्द्रं मुनिगणश्रेष्ठं धातृसुतं श्रीनारदं नभसि सम्यक्चिन्तयेत् ** ःभ्व्C_५.२०३ **

श्रीगौतमीयतन्त्रे
अथ ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् ।
पीताम्बरधरं कृष्णं पुण्डरीकनिभेक्षणम्  ॥ ५.२०४ ॥
रक्तनेत्राधरं रक्तपाणपादनखं शुभम् ।
कौस्तुभोद्भासितोरस्कं नानारत्नविभूषितम्  ॥ ५.२०५ ॥
तद्धामविलसन्मुक्ताबद्धहारोपशोभितम् ।
नानारत्नप्रभोद्भासिमुकुटं दिव्यतेजसम्  ॥ ५.२०६ ॥
हरकेयूरकटककुण्डलैः परिमण्डितम् ।
श्रीवत्सवक्षसं चारुनूपुराद्य्उपशोभितम्  ॥ ५.२०७ ॥
नानारत्नविचित्रैश्च कटिसूत्राङ्गुलीयकैः ।
बर्हिपत्रकृतापीडं वन्यपुष्पैरलङ्कृतम्  ॥ ५.२०८ ॥
कदम्बकुसुमोद्बद्धवनमालाविभूषितम् ।
सचन्द्रतारकानन्दिविमलाम्बरसन्निभम्  ॥ ५.२०९ ॥
वेणुं गृहीत्वा हस्ताभ्यां मुखे संयोज्य संस्थितम् ।
गायन्तं दिव्यगानैश्च गोष्ठमध्यगतं हरिम्  ॥ ५.२१० ॥
स्वर्गादिव परिभ्रष्टकन्यकाशतवेष्टितम् ।
सर्वलक्षणसम्पन्नं सौन्दर्येणाभिशोभितम्  ॥ ५.२११ ॥

शुभं जगन्मङ्गलरूपं, तस्य कौस्तुभस्य धाम्ना तेजसा विलसन्तीभिर्मुक्ताभिराच्छन्नेन संवेष्टितेन हारेण उपशोभितम् । मुक्ताबद्धेति वा पाठः । कटिसूत्रेणाङ्गुलीयकैश्चालङ्कृतम् । सचन्द्राभिस्ताराभिरानन्दं सुखकरं यद्विमलमम्बरं व्योम तत्सदृशम् । अत्र चन्द्रस्थाने कौस्तुभः । तारास्थाने कदम्बमाला । अम्बरस्थाने श्रीमद्वक्षःस्थलमूह्यम् । स्वर्गादिव परिभ्रष्टानां परमसुन्दरीणामित्यर्थः । तदृशीनां कन्यानां श्रीगोपकुमारीणां शतेन वेष्टितम् । शतशब्दोऽत्रासङ्ख्यत्वे  ** ःभ्व्C_५.२०४२११ **

मोहनं सर्वगोपीनां सर्वासां च गवामपि ।
लेलिह्यमानं वत्सैश्च धेनुभिश्च समन्ततः  ॥ ५.२१२ ॥
सिद्धगन्धर्वयक्षैश्च अप्सरोभिर्विहङ्गमैः ।
सुरासुरमनुष्यैश्च स्थावरैः पन्नगैरपि  ॥ ५.२१३ ॥
मृगैर्विद्याधरैश्चैव वीक्ष्यमाणं सुविस्मितैः ।
नारदेन वशिष्ठेन विश्वामित्रेण धीमता  ॥ ५.२१४ ॥
पराशरेण व्यासेन भृगुणाङ्गिरसा तथा ।
दक्षेण शौनकात्रिभ्यां सिद्धेन कपिलेन च  ॥ ५.२१५ ॥
सनकाद्यिर्मुनीन्द्रैश्च ब्रह्मलोकगतैरपि ।
अन्यैरपि च संयुक्तं कृष्णं ध्यायेदहर्निशम्  ॥ ५.२१६ ॥

सङ्क्षेपेण श्रीसनत्कुमारकल्पेऽपि
अव्यान्मीलत्कलायद्युतिरहिरिपुपिच्छोल्लसत्केशजालो
गोपीनेत्रोत्सवाराधितललितवपुर्गोपगोवृन्दवीतः ।
श्रीमद्वक्त्रारविन्दप्रतिसहित्शशाङ्काकृतिः पीतवासा
देवोऽसौ वेणुनादक्षपितजनधृतिर्देवकीनन्दनो नः  ॥ ५.२१७ ॥
। इति ।


असौ अनिर्वचनीयमाहात्म्यः श्रीदेवकीनन्दनो देवो नः अस्मानव्यात्रक्षतु । कलायस्य तत्पुष्पस्येव द्युतिः श्यामा कान्तिर्यस्य सः  ** ःभ्व्C_५.२१७ **
अथान्तर्यागः

ध्यात्वैवं भगवन्तं तं सम्प्रार्थ्य च यथासुखम् ।
आदौ सम्पूजयेत्सर्वैरुपचारैश्च मानसैः  ॥ ५.२१८ ॥
लेख्या ये बहिरर्चयामुपचारा विभागशः ।
ते सर्वेऽप्यन्तर्अर्चायां कल्पनीया यथारुचि  ॥ ५.२१९ ॥

अथ प्रार्थनाविधिः

श्रीनारदपञ्चरात्रे
स्वागतं देवदेवेश सन्निधौ भव केशव ।
गृहाण मानसीं पूजां यथार्थपरिभाविनाम्  ॥ ५.२२० ॥
। इति ।


अथोपचारैर्बाह्यैश्च स्वात्मन्येव स्थितं प्रभुम् ।
पूजयन् स्थापयेदादौ शङ्खं सत्सम्प्रदायतः  ॥ ५.२२१ ॥

अथ शङ्खप्रतिष्ठा

स्वस्य वामाग्रतो भूमावुल्लिख्य त्र्य्अस्रमण्डलम् ।
ततास्त्रक्षालितं शङ्खं साधारं स्थापयेद्बुधः  ॥ ५.२२२ ॥
शङ्खे हृदयमन्त्रेण गन्धपुष्पाक्षतान् क्षिपेत् ।
व्युत्क्रान्तैर्मातृकार्णैस्तं शिरोऽन्तैः केन पूरयेत् ॥ ५.२२३ ॥
सबिन्दुना मकारेण तद्आधारेऽग्निमण्डलम् ।
सम्पूजयेदकारेण शङ्खे चादित्यमण्डलम्  ॥ ५.२२४ ॥
उकारेण जले सोममण्डलं च तथार्चयेत् ।
तीर्थमन्त्रेण तीर्थान्यावाहयेच्चार्कमण्डलम्  ॥ ५.२२५ ॥
कृष्णं चावाह्य हृत्पद्माद्गालिनीं शिखयेक्षयेत् ।
नेत्रमन्त्रेण वीक्ष्यान्तः कवचेनावगुण्ठएत् ॥ ५.२२६ ॥
कुर्यान्न्यासं जले मूलमन्त्राङ्गानां ततो दिशः ।
बद्ध्वास्त्रेणामृतीकुऋयादथ तद्धेनुमुद्रया  ॥ ५.२२७ ॥
तच्चक्रमुद्रया रक्ष्य सलिलं मत्स्यमुद्रया ।
आच्छाद्य संस्पृशन् शङ्खं जपेन्मूलं ततोऽष्टशः  ॥ ५.२२८ ॥
तज्जलं प्रोक्षणीपात्रे किंचित्क्षिप्त्वा त्रिरुक्षयेत् ।
तच्छेषेणार्चनद्रव्यजातानि स्वतनूमपि  ॥ ५.२२९ ॥
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् ।
तर्जनीमध्यमानामाः संहता भुग्नसज्जिताः ।
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता  ॥ ५.२३० ॥
ततोऽपास्यावशिष्टान्तः शङ्खं वर्धनिकाम्बुना ।
पुनरापूर्य कृष्णाग्रे न्यसेदाचारतः सताम्  ॥ ५.२३१ ॥

अथ स्वदेहे पीठपूजा

गुरून्मूर्ध्नि गणेशं च मूलाधारेऽभिपूज्य तम् ।
पीठन्यासानुसारेण पीठं चात्मनि पूजयेत् ॥ ५.२३२ ॥

अथ देवाङ्गेषु मन्त्राङ्गादिन्यासः

ततो जपन् कामबीजं त्रिस्थानस्थं परं महः ।
मूलमन्त्रात्मकं बीजेनैकीभूतं विचिन्तयेत् ॥ ५.२३३ ॥
तच्च पञ्चाङ्गन्यासेन साकारं स्वेष्टदैवतम् ।
विचिन्त्य पञ्चाङ्गादीनि न्यस्येत्तस्मिन् यथात्मनि  ॥ ५.२३४ ॥
कुर्युर्भगवति प्रादुर्भूते कृष्णे च वैष्णवाः ।
तत्तन्न्यासानभेदाय मनोर्भगवता सह  ॥ ५.२३५ ॥
केचिन्न्यस्यन्ति तत्त्वादीन्नव्यक्तानि यथोदितम् ।
मन्त्रार्णैः स्वरहंसाद्यैर्भूषणेषु प्रभोः क्रमात् ॥ ५.२३६ ॥

अथ बाह्योपचारैरन्तःपूजा

तस्मिन् पीठे तमासीनं भगवन्तं विभावयन् ।
आसनाद्यैस्तु पुष्पान्तैर्यथाविध्यर्चयेद्बुधः  ॥ ५.२३७ ॥
ततो मुखेऽर्चयेद्वेणुं वनमालां च वक्षसि ।
दक्षस्तनोर्ध्वे श्रीवत्सं सव्ये तत्रैव कौस्तुभम्  ॥ ५.२३८ ॥
वैष्णवश्चन्दनेनामुमालिप्योपकनिष्ठया ।
प्राग्वद्दीपशिखाकारतिलकानि द्विषड्लिखेत् ॥ ५.२३९ ॥
यथोक्तं पञ्चभिः पुष्पाञ्जलिभिश्चाभिपूज्य तम् ।
धूपं दीपं च नैवेद्यं मुखवासादि चार्पयेत् ॥ ५.२४० ॥
गीतादिभिश्च सन्तोष्य कृष्णमस्मै ततोऽखिलम् ।
अशक्तो बहिरर्चायामर्पयेज्जपमाचरेत् ॥ ५.२४१ ॥
अथान्तर्यागमाहात्म्यम्

वैष्णवतन्त्रे
अश्वमेधसहस्राणि वाजपेयशतानि च ।
एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम्  ॥ ५.२४२ ॥

बृहन्नारदीये (१.११.१२) श्रीवामनप्रादुर्भावे
यन्नामोच्चारणादेव सर्वे नश्यन्त्युपद्रवाः ।
स्तोत्रैर्वा अर्हणाभिर्वा किमु ध्यानेन कथ्यते  ॥ ५.२४३ ॥

नारदपञ्चरात्रे श्रीभगवन्नारदसंवादे
अयं यो मानसो यागो जराव्याधिभयापहः ।
सर्वपापौघशमनो भावाभावकरो द्विज ।
सतताभ्यासयोगेन देहबन्धाद्विमोचयेत् ॥ ५.२४४ ॥
यश्चैवं परया भक्त्या सकृत्कुर्यान्महामते ।
क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने  ॥ ५.२४५ ॥

स्मरणध्यानयोः पूर्वं माहात्म्यं लिखितं च यत् ।
ज्ञेयं तद्अधिकं चात्रान्तर्यागाङ्गतया तयोः  ॥ ५.२४६ ॥
एवं यथासम्प्रदायं शक्त्या यावन्मनःसुखम् ।
अन्तःपूजां विधायादावारभेत बहिस्ततः  ॥ ५.२४७ ॥

तथा चोक्तं नारदेन
ध्यात्वा षोडशसङ्ख्यातैरुपचारैश्च मानसैः ।
सम्यगाराधनं कृत्वा बाह्यपूजां समाचरेत् ॥ ५.२४८ ॥

अथ बहिःपूजा
अनुज्ञां देहि भगवन् बहिर्योगे मम प्रभो ।
श्रीकृष्णमित्यनुज्ञाप्य बहिः पूजां समाचरेत् ॥ ५.२४९ ॥
तत्र त्वनेकशः सन्ति पूजास्थानानि तत्र च ।
श्रीमूर्तयो बहुविधाः शालग्रामशिलास्तथा  ॥ ५.२५० ॥
अथ पूजास्थानानि

संमोहनतन्त्रे
शालग्रामे मनौ यन्त्रे स्थण्डिले प्रतिमादिषु ।
हरेः पूजा तु कर्तव्या केवले भूतले न तु  ॥ ५.२५१ ॥

एकादशस्कन्धे [भागवतम् ११.११.४२४६] श्रीमद्उद्धवसंवादे
सूर्योऽग्निर्ब्राह्मणा गावो वैष्णवः खं मरुज्जलम् ।
भूरात्मा सर्वभूतानि भद्र पूजापदानि मे  ॥ ५.२५२ ॥
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना  ॥ ५.२५३ ॥
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरःसरैः  ॥ ५.२५४ ॥
स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि ।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम्  ॥ ५.२५५ ॥
धिष्ण्येष्वित्येषु मद्रूपं शङ्खचक्रगदाम्बुजैः ।
युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत्समाहितः  ॥ ५.२५६ ॥

अथ श्रीमूर्तयः

तत्रैव [भागवतम् ११.२७.१२१४]
शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमाष्टविधा मता  ॥ ५.२५७ ॥
चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम्  ।
उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने   ॥ ५.२५८ ॥
अस्थिरायां विकल्पः स्यात्स्थण्डिले तु भवेद्द्वयम्  ।
स्नपनं त्वविलेप्यायामन्यत्र परिमार्जनम्   ॥ ५.२५९ ॥

गोपालमन्त्रोद्दिष्टत्वात्तच्छ्रीमूर्तिरपेक्षिता ।
तथापि वैष्णवप्रीत्यै लेख्याः श्रीमूर्तयोऽखिलाः  ॥ ५.२६० ॥

अथ श्रीमूर्तिलक्षणानि

श्रीहयशीर्षपञ्चरात्रे श्रीभगवत्श्रीहयशीर्षब्रह्मसंवादे
आदिमूर्तिर्वासुदेवः सङ्कर्षणमथासृजत् ।
चतुर्मूर्तिः परं प्रोक्तमेकैको भिद्यते त्रिधा ।
केशवादिप्रभेदेन मूर्तिद्वादशकं स्मृतम्  ॥ ५.२६१ ॥
पङ्कजं दक्षिणे दद्यात्पाञ्चजन्यं तथोपरि ।
वामोपरि गदा यस्य चक्रं चाधो व्यवस्थितम् ।
आदिमूर्तेस्तु भेदोऽयं केशवेति पर्कीर्त्यते  ॥ ५.२६२ ॥
अधरोत्तरभावेन कृतमेतत्तु यत्र वै ।
नारायणाख्या सा मूर्तिः स्थापिता भुक्तिमुक्तिदा  ॥ ५.२६३ ॥
सव्याधः पङ्कजं यस्य पाञ्चजन्यं तथोपरि ।
दक्षिणोर्ध्वे गदा यस्य चक्रं चाधो व्यवस्थितम् ।
आदिमूर्तेस्तु भेदोऽयं माधवेति प्रकीर्त्यते  ॥ ५.२६४ ॥
दक्षिणाधःस्थितं चक्रं गदा यस्योपरि स्थिता ।
वामोर्ध्वसंस्थितं पद्मं शङ्खं चाधो व्यवस्थितम् ।
सङ्कर्षणस्य भेदोऽयं गोविन्देति प्रकीर्त्यते  ॥ ५.२६५ ॥
दक्षिणोपरि पद्मं तु गदा चाधो व्यवस्थिता ।
सङ्कर्षणस्य भेदोऽयं विष्णुरित्यभिशब्द्यते  ॥ ५.२६६ ॥
दक्षिणोपरि शङ्खं च चक्रं चाधः प्रदर्श्यते ।
वामोपरि तथा पद्मं गदा चाधः प्रदर्श्यते ।
मधुसूदननामायं भेदः सङ्कर्षणस्य च  ॥ ५.२६७ ॥
वामोर्ध्वसंस्थितं चक्रमधः शङ्खं प्रदर्श्यते ।
ब्रह्माण्डगं वामपादं दक्षिणं शेषपृष्ठगम्  ॥ ५.२६९ ॥
दक्षिणोर्ध्वं सहस्रारं पाञ्चजन्यमधःस्थितम् ।
सप्ततालप्रमाणेन वामनं कारयेत्सदा  ॥ ५.२७० ॥
ऊर्ध्वं दक्षिणतश्चक्रमधः पद्मं व्यवस्थितम् ।
पद्मा पद्मकरा वामे पार्श्वे यस्य व्यवस्थिता  ॥ ५.२७१ ॥
स्थितो वाप्युपविष्टो वा सानुरागो विलासवान् ।
प्रद्युम्नस्य हि भेदोऽयं श्रीधरेति प्रकीर्त्यते  ॥ ५.२७२ ॥
दक्षिणोर्ध्वं महाचक्रं कौमुदी तद्अधःस्थिता ।
वामोर्ध्वे नलिनं यस्य अधः शङ्खं विराजते ।
हृषीकेशेति विज्ञेयः स्थापितः सर्वकामदः  ॥ ५.२७३ ॥
दक्षिणोर्ध्वे पुण्डरीकं पाञ्चजन्यमधस्तथा ।
वामोर्ध्वे संस्थितं चक्रं कौमुदी तद्अधःस्थिता ।
पद्मनाभेति सा मूर्तिः स्थापिता मोक्षदायिनी  ॥ ५.२७४ ॥
दक्षिणोर्ध्वे पाञ्चजन्यमधस्तात्तु कुशेशयम् ।
सवोर्ध्वे कौमुदी चैव हेतिराजमधःस्थितम् ।
अनिरुद्धस्य भेदोऽयं दामोदर इति स्मृतः  ॥ ५.२७५ ॥
एतेषां तु स्त्रियौ कार्ये पद्मवीणाधरे शुभे  ॥ ५.२७६ ॥

इति क्रमेण मार्गाधिमासाधिपाः केशवादयो द्वादश ।
अथ चतुर्विंशतिमूर्तयः

सिद्धार्थसंहितायाम्
वासुदेवो गदाशङ्खचक्रपद्मधरो मतः ।
पद्मं शङ्खं तथा चक्रं गदां वहति केशवः  ॥ ५.२७७ ॥
शङ्खं पद्मं गदां चक्रं धत्ते नारायणः सदा ।
गदां चक्रं तथा शङ्खं पद्मं वहति माधवः  ॥ ५.२७८ ॥
चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः ।
पद्मं कौमोदकीं शङ्खं चक्रं धत्तेऽप्यधोक्षजः  ॥ ५.२७९ ॥
सङ्कर्षणो गदाशङ्खपद्मचक्रधरः स्मृतः ।
चक्रं गदां पद्मशङ्खौ गोविन्दो धरते भुजैः  ॥ ५.२८० ॥
गदां पद्मं तथा शङ्खं चक्रं विष्णुर्बिभर्ति यः ।
चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः  ॥ ५.२८१ ॥
गदां सरोजं चक्रं च शङ्खं धत्तेऽच्युतः सदा ।
शङ्खं कौमोदकीं चक्रमुपेन्द्रः  पद्ममुद्वहेत् ॥ ५.२८२ ॥
चक्रशङ्खगदापद्मधरः प्रद्युम्न उच्यते ।
पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः  ॥ ५.२८३ ॥
शङ्खं चक्रं गदां पद्मं वामनो वहते सदा ।
पद्मं चक्रं गदां शङ्खं श्रीधरो वहते भुजैः  ॥ ५.२८४ ॥
चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्ति यः ।
पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्दनः  ॥ ५.२८५ ॥
अनिरुद्धश्चक्रगदाशङ्खपद्मलसद्भुजः ।
हृषीकेशो गदां चक्रं पद्मं शङ्खं च धारयेत् ॥ ५.२८६ ॥
पद्मनाभो वहेत्शङ्खं पद्मं चक्रं गदां तथा ।
पद्मं चक्रं गदां शङ्खं धत्ते दामोदरः सदा  ॥ ५.२८७ ॥
शङ्खं चक्रं सरोजं च गदां वहति यो हरिः ।
शङ्खं कौमोदकीं पद्मं चक्रं विष्णुर्बिभर्ति यः  ॥ ५.२८८ ॥
एताश्च मूर्तयो ज्ञेया दक्षिणाधःकरक्रमात् ॥ ५.२८९ ॥

मत्स्यपुराणे च
एतद्उद्देशतः प्रोक्तं प्रतिमालक्षणं तथा ।
विस्तरेण न शक्नोति बृहस्पतिरपि द्विजाः  ॥ ५.२९० ॥
। इति ।


सेवानिष्ठा हरेः श्रीमद्वैष्णवाः पाञ्चरात्रिकाः ।
प्राकट्यादखिलाङ्गानां श्रीमूर्तिं बहु मन्यते  ॥ ५.२९१ ॥
सेव्या निजनिजैरेव मन्त्रैः स्वस्वेष्टमूर्तयः ।
शालग्रामात्मके रूपे नियमो नैव विद्यते  ॥ ५.२९२ ॥
द्विभुजा जलदश्यामा त्रिभङ्गी मधुराकृतिः ।
सेव्या ध्यानानुरूपैश्च मूर्तिः कृष्णस्य दैवतैः  ॥ ५.२९३ ॥
अन्याश्च विविधा श्रीमद्अवतारादिमूर्तयः ।
प्रादुर्भावविधावग्रे लेख्यास्तत्तद्विशेषतः  ॥ ५.२९४ ॥
नित्यकर्मप्रसङ्गेऽत्र मूर्तिजन्मप्रतिष्ठयोः ।
विधिर्न लिखितुं योग्यः स तु लेखिष्यतेऽग्रतः  ॥ ५.२९५ ॥
अथ शालग्रामशिलाः

गौतमीयतन्त्रे
गण्डक्याश्चैव देशे च शालग्रामस्थलं महत् ।
पाषाणं तद्भवं यत्तत्शालग्राममिति स्मृतम्  ॥ ५.२९६ ॥

स्कन्दपुराणे
स्निग्धा कृष्णा पाण्डरा वा पीता नीला तथैव च ।
वक्रा रुक्षा च रक्ता च महास्थूला त्वलाञ्छिता  ॥ ५.२९७ ॥
कपिला दर्दुरा भग्ना बहुचक्रैकचक्रिका ।
बृहन्मुखी बृहच्चक्रा लग्नचक्राथवा पुनः ।
बद्धचक्राथवा काचिद्भग्नचक्रा त्वधोमुखी  ॥ ५.२९८ ॥

अथ तासां वर्णादिभेदेन गुणदोषौ

तत्रैव
स्निग्धा सिद्धिकरी मन्त्रे कृष्णा कीर्तिं ददाति च ।
पाण्डरा पापदहनी पीता पुत्रफलप्रदा  ॥ ५.२९९ ॥
नीला सन्दिशते लक्ष्मीं रक्ता रोगप्रदायिका ।
रक्षा चोद्वेगदा नित्यं वक्रा दारिद्र्यदायिका  ॥ ५.३०० ॥
स्थूला निहति चैवायुर्निष्फला तु अलाञ्छिता ।
कपिला कर्बुरा भग्ना बहुचक्रैकचक्रिका   ॥ ५.३०१ ॥
बृहन्मुखी बृहच्चक्रा लग्नचक्राथवा पुनः  ॥ ५.३०२ ॥
बद्धचक्राथवा या स्याद्भग्नचक्रा त्वधोमुखी ।
पूजयेद्यः प्रमादेन दुःखमेव लभेत सः  ॥ ५.३०३ ॥

अग्निपुराणे च
तथा व्यालमुखी भग्ना विषया बद्धचक्रिका ।
विकारावर्तनाभिश्च नारसिंही तथैव च  ॥ ५.३०४ ॥
कपिला विभ्रमावर्ता रेखावर्ता च या शिला ।
दुःखदा सा तु विज्ञेया सुखदा न कदाचन  ॥ ५.३०५ ॥
स्निग्धा श्यामा तथा मुक्तामाया वा समचक्रिका ।
घोणिमूर्तिरनन्ताख्या गम्भीरा सम्पुटा तथा  ॥ ५.३०६ ॥
सूक्ष्ममूर्तिरमूर्तिश्च सम्मुखा सिद्धिदायिका ।
धात्रीफलप्रमाणा या करेणोभयसम्पुटा ।
पूजनीया प्रयत्नेन शिला चैतादृशी शुभा  ॥ ५.३०७ ॥
इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् ।
पूजिते फलमाप्नोति इहलोके परत्र च  ॥ ५.३०८ ॥

दोषाश्चैते सकामार्चनविषयाः

यत उक्तं श्रीभगवता ब्राह्मे
खण्डितं स्फुटितं भग्नं पार्श्वभिन्नं विभेदितम् ।
शालग्रामसमुद्भूतं शैलं दोषावहं न हि  ॥ ५.३०९ ॥

श्रीरुद्रेण च स्कान्दे
खण्डितं त्रुटितं भग्नं शालग्रामे न दोषभाक् ।
इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् ॥ ५.३१० ॥

तथा
चक्रं वा केवलं तत्र पद्मेन सह संयुतम् ।
केवला वनमाला वा हरिर्लक्ष्म्या सह स्थितः  ॥ ५.३११ ॥
मुख्याः स्निघ्दादयस्तत्रामुख्या रक्तादयो मताः ।
मुख्याभावे त्वमुख्या हि पूज्या इत्युच्यते परैः  ॥ ५.३१२ ॥
अथ तासामेव लक्षणविशेषेण संज्ञविशेषः

ब्राह्मे श्रीभगवद्ब्रह्मसंवादे
निवसामि सदा ब्रह्मन् शालाग्रामाख्यवेश्मनि ।
तत्रैव रथचक्राङ्कभेदनामानि मे शृणु  ॥ ५.३१३ ॥
द्वारदेशे समे चक्रे दृश्यते नान्तरीयके ।
वासुदेवः स विज्ञेयः शुक्लाभश्चातिशोभनः  ॥ ५.३१४ ॥
द्वे चक्रे एकलग्ने तु पूर्वभागस्तु पुष्कलः ।
सङ्कर्षणाख्यो विज्ञेयो रक्ताभिश्चातिशोभनः  ॥ ५.३१५ ॥
प्रद्युम्नः सूक्ष्मचक्रस्तु पीतदीप्तिस्तथैव च ।
शुषिरं छिद्रबहुलं दीर्घाकारं तु तद्भवेत् ॥ ५.३१६ ॥
अनिरुद्धस्तु नीलाभो वर्तुलश्चातिशोभनः ।
रेखात्रयं तु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम्  ॥ ५.३१७ ॥
सौभाग्यं केशवो दद्यात्चतुष्कोणो भवेत्तु यः ।
श्यामं नारायणं विद्यान्नाभिचक्रं तथोन्नतम्  ॥ ५.३१८ ॥
दीर्घरेखासमोपेतं दक्षिणे शुषिरं पृथु ।
ऊर्ध्वं मुखं विजानीयात्द्वारे च हरिरूपिणम्  ॥ ५.३१९ ॥
कामदं मोक्षदं चैव अर्थदं च विशेषतः ।
परमेष्ठी लोहितभः पद्मचक्रसमन्वितः  ॥ ५.३२० ॥
बिल्वाकृतिस्तथा पृष्ठे शुषिरं चातिपुष्कलम् ।
कृष्णवर्णस्तथा विष्णुः स्थूले चक्रे सुशोभनः ।
ब्रमचर्येण पूज्योऽसावन्यथा विघ्नदो भवेत् ॥ ५.३२१ ॥

क्वचिच्च
कपिलो नरसिंहोऽथ पृथुचक्रे च शोभने ।
ब्रह्मचर्याधिकारी स्यान्नान्यथा पूजनं भवेत् ॥ ५.३२२ ॥
नरसिंहस्त्रिबिन्दुः स्यात्कपिलः पञ्चबिन्दुकः ।
ब्रह्मचर्येण पूज्यः स्यादन्यथा सर्वविघ्नदः  ॥ ५.३२३ ॥
स्थूलं चक्रद्वयं मध्ये गुडलाक्षासवर्णकम् ।
द्वारोपरि तथा रेखा पद्माकारा सुशोभना  ॥ ५.३२४ ॥
स्फुटितं विषमं चक्रं नारसिंहं तु कापिलम् ।
सम्पूज्य मुक्तिमाप्नोति संग्रामे विजयी भवेत् ॥ ५.३२५ ॥

पाद्मे कार्त्तिकमाहात्म्ये च
यस्य दीर्घं मुखं पूर्वकथितैर्लक्षणैर्युतम् ।
रेखाश्च केशराकारा नारसिंहो मतो हि सः  ॥ ५.३२६ ॥

ब्राह्मे [ড়द्मড়् ५.१२०.६१]
वाराहं शक्तिलिङ्गे च चक्रे च विषमे स्मृते ।
इन्द्रनीलनिभं स्थूलं त्रिरेखालाञ्छितं शुभम्  ॥ ५.३२७ ॥

पाद्मे च तत्रैव
वराहाकृतिराभुग्नश्चक्ररेखास्वलङ्कृतः ।
वाराह इति स प्रोक्तो भुक्तिमुक्तिफलप्रदः  ॥ ५.३२८ ॥

ब्राह्म एव
दीर्घा काञ्चनवर्णा या बिन्दुत्रयविभूषिता ।
मत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा  ॥ ५.३२९ ॥

क्वचिच्च
मत्स्यरूपं तु देवेशं दीर्घाकारं तु यद्भवेत् ।
बिन्दुत्रयमायुक्तं कास्यवर्णं विशोभनम्  ॥ ५.३३० ॥

ब्राह्म [ড়द्मড়् ५.१२०.६३] एव
कूर्मस्तथोन्नतः पृष्ठे वर्तुलावर्तपूरितः ।
हरितं वर्णमाधत्ते कौस्तुभेन च चिह्नितः  ॥ ५.३३१ ॥

पाद्मे च तत्रैव
कूर्माकारा च चक्राङ्का शिला कूर्मः प्रकीर्तितः  ॥ ५.३३२ ॥

ब्राह्म [ড়द्मড়् ५.१२०.६४] एव
हयग्रीवोऽङ्कुशाकारो रेखा चक्रशमीपगाः ।
बहुचक्रसमायुक्तं पृष्ठे नीरदनीलकम्  ॥ ५.३३३ ॥

क्वचिच्च
हयग्रीवाङ्कुशाकारे रेखाः पञ्च भवन्ति हि ।
बहुबिन्दुसमाकीर्णे दृश्यन्ते नीलरूपकाः  ॥ ५.३३४ ॥

पाद्मे च तत्रैव
हायग्रीवा यथा लम्बा रेखाङ्का या शिला भवेत् ।
तथासौ स्याद्धयग्रीवः पूजितो ज्ञानदो भवेत् ॥ ५.३३५ ॥

किं च
अश्वाकृति मुखं यस्य साक्षमालं शिरस्तथा ।
पद्माकृतिर्भवेद्वापि हयशीर्षस्त्वसौ मतः  ॥ ५.३३६ ॥

ब्राह्मे [ড়द्मড়् ५.१२०.६५६७] एव
वैकुण्ठं मणिवर्णाभं चक्रमेकं तथा ध्वजम् ।
द्वारोपरि तथा रेखा पद्माकारा सुशोभना  ॥ ५.३३७ ॥
श्रीधरस्तु तथा देवश्चिह्नितो वनमालया ।
कदम्बकुसुमाकारो रेखापञ्चकभूषितः  ॥ ५.३३८ ॥
वर्तुलश्चातिह्रस्वश्च वामनः परिकीर्तितः ।
अतसीकुसुमप्रख्यो बिन्दुना परिशोभितः  ॥ ५.३३९ ॥

अन्यत्र च
वामनाख्यो भवेद्देवो ह्रस्वो यः स्यान्महाद्युतिः ।
ऊर्ध्वचक्रस्त्वधश्चक्रः सोऽभीष्टार्थप्रदोऽर्चितः  ॥ ५.३४० ॥

ब्राह्मे [ড়द्मড়् ५.१२०.६८] एव
सुदर्शनस्तथा देवः श्यामवर्णो महाद्युतिः ।
वामपार्श्वे गदाचक्रे रेखे चैव तु दक्षिणे  ॥ ५.३४१ ॥

पाद्मे कार्त्तिकमाहात्म्ये
चक्राकारेण पङ्क्तिः सा यत्र रेखामयी भवेत् ।
स सुदर्शन इत्येवं ख्यातः पूजाफलप्रदः  ॥ ५.३४२ ॥

ब्राह्मे [ড়द्मড়् ५.१२०.६९]
दामोदरस्तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् ।
दूर्वाभं द्वारसङ्कीर्णं पीता रेखा तथैव च  ॥ ५.३४३ ॥

पाद्मे च तत्रैव
उपर्य्अधश्च चक्रे द्वे नातिदीर्घं मुखे बिलम् ।
चक्रे च रेखा लम्बैका स च दामोदरः स्मृतः  ॥ ५.३४४ ॥

अन्यत्र च
स्थूलो दामोदरो ज्ञेयः सूक्ष्मरन्ध्रो भवेत्तु यः ।
चक्रे च मध्यदेशस्थे पूजितः सुखदः सदा  ॥ ५.३४५ ॥
नानावर्णो ह्यनन्ताख्यो नागभोगेन चिह्नितः ।
अनन्तः स तु विज्ञेयः सर्वपूजाफलप्रदः  ॥ ५.३४६ ॥

पाद्मे च तत्रैव
अनन्तचक्रो बहुभिश्चिह्नैरप्युपलक्षितः ।
अनन्तः स तु विज्ञेयः सर्वपूजाफलप्रदः  ॥ ५.३४७ ॥
[ড়द्मড়् ५.१२०.७२७४]
दृश्यते शिखरे लिङ्गं शालग्रामसमुद्भवम् ।
यस्य योगेश्वरो नाम ब्रह्महत्यां व्यपोहति  ॥ ५.३४८ ॥
आरक्तः पद्मनाभाख्यं पङ्कजच्छत्रसंयुतम् ।
तुलस्या पूजयेन्नित्यं दरिद्रस्त्वीश्वरो भवेत् ॥ ५.३४९ ॥
चन्द्राकृतिं हिरण्याख्यं रश्मिजालं विनिर्दिशेत् ।
सुवर्णरेखाबहुलं स्फटिकद्युतिशोभितम्  ॥ ५.३५० ॥

किं च
अर्धचन्द्राकृतिर्देवो हृषीकेश उदाहृतः ।
तमर्च्य लभते स्वर्गं विषयांश्च समीहिताम्  ॥ ५.३५१ ॥
वामपार्श्वे समे चक्रे कृष्णवर्णः स बिन्दुकः ।
लक्ष्मीनृसिंहो विख्यातो भुक्तिमुक्तिफलप्रदः  ॥ ५.३५२ ॥
त्रिविक्रमस्तथा देवः श्यामवर्णो महाद्युतिः ।
वामपार्श्वे तथा चक्रे रेखा चैव तु दक्षिणे  ॥ ५.३५३ ॥
प्रदक्षिणावर्तकृतवनमालाविभूषिता ।
या शिला कृष्णसंज्ञा सा धनधान्यसुखप्रदा  ॥ ५.३५४ ॥

गौतमीये
बहुभिर्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत् ।
गोष्पदेन तु चिह्नेन जनुस्तेन समाप्यते  ॥ ५.३५५ ॥
चतस्रो यत्र दृश्यन्ते रेखाः पार्श्वसमीपगाः ।
द्वे चक्रे मध्यदेशे तु सा शिला तु चतुर्मुखा  ॥ ५.३५६ ॥

किं च, पाद्मे तत्रैव
वज्रकीटोद्भवा रेखाः पङ्क्तीभूताश्च यत्र वै ।
शालग्रामशिला या सा विष्णुपञ्जरसंज्ञिता  ॥ ५.३५७ ॥
नागवत्कुण्डलीभूतरेखापङ्क्तिः स शेषकः ।
पद्माकारे च पङ्क्ती द्वे मध्ये लम्बा च रेखिका ।
गरुडः स तु विज्ञेयश्चतुश्चक्रो जनार्दनः  ॥ ५.३५८ ॥
चतुश्चक्रः सूक्ष्मद्वारो वनमालाङ्कितोदरः ।
लक्ष्मीनारायणः श्रीमान् भुक्तिमुक्तिफलप्रदः  ॥ ५.३५९ ॥
एतल्लक्षणयुक्तास्तु शालग्रामशिलाः शुभाः ।
याश्च तास्वपि सूक्ष्माः स्युस्ताः प्रशस्तकराः स्मृताः  ॥ ५.३६० ॥

तथा च श्रीभगवद्ब्रह्मसंवादे तत्रैव
यथा यथा शिला सूक्ष्मा महत्पुण्यं तथा तथा ।
तस्मात्तां पूजयेन्नित्यं धर्मकामार्थसिद्धये  ॥ ५.३६१ ॥
तत्राप्यामलकीतुल्या सूक्ष्मा चातीव या भवेत् ।
तस्यामेव सदा ब्रह्मन् श्रिया सह वसाम्यहम्  ॥ ५.३६२ ॥
अथ श्रीशालग्रामशिलामाहात्म्यम्

शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् ।
किं पुनर्यजनं तत्र हरिसान्निध्यकारकम्  ॥ ५.३६३ ॥

पाद्मे माघमाहात्म्ये तत्रैव
यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे ।
राजसूयसहस्रेण तेनेष्टं प्रतिवासरम्  ॥ ५.३६४ ॥
यदामनन्ति वेदान्ता ब्रह्म निर्गुणमच्युतम् ।
तत्प्रसादो भवेन्नृणां शालग्रामशिलार्चनात् ॥ ५.३६५ ॥
महाकाष्ठस्थितो वह्निर्मथ्यमानः प्रकाशते ।
यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते  ॥ ५.३६६ ॥
अपि पापसमाचाराः कर्मण्यनधिकारिणः ।
शालग्रामार्चका वैश्य नैव यान्ति यमालयम्  ॥ ५.३६७ ॥
न तथा रमते लक्ष्म्यां न तथा निजमन्दिरे ।
शालग्राम्शिलाचक्रे यथा स रमते सदा  ॥ ५.३६८ ॥
अग्निहोत्रं हुतं तेन दत्ता पृथ्वी ससागरा ।
येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे  ॥ ५.३६९ ॥
कामैः क्रोधैः प्रलोभैश्च  व्याप्तो योऽत्र नराधमः ।
सोऽपि याति हरेर्लोकं शालग्रामशिलार्चनात् ॥ ५.३७० ॥
यः पूजयति गोविन्दं शालग्रामे सदा नरः ।
आहूतसम्प्लवं यावत्न स प्रच्यवते दिवः  ॥ ५.३७१ ॥
विना तीर्थैर्विना दानैर्विना यज्ञैर्विना मतिम् ।
मुक्तिं याति नरो वैश्य शालग्रामशिलार्चनात् ॥ ५.३७२ ॥
नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम् ।
न याति वैश्य पापोऽपि शालग्रामेऽच्युतार्चकः  ॥ ५.३७३ ॥
दीक्षाविधानमन्त्रज्ञश्चक्रे यो बलिमाहरेत् ।
स याति वैष्णवं धाम सत्यं सत्यं मयोदितम्  ॥ ५.३७४ ॥
नैवेद्यैर्विविधैः पुष्पैर्धूपैर्दीपैर्विलेपनैः ।
गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम्  ॥ ५.३७५ ॥
कुरुते मानवो यस्तु कलौ भक्तिपरायणः ।
कल्पकोटिसहस्राणि रमते सन्निधौ हरेः  ॥ ५.३७६ ॥
लिङ्गैस्तु कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः ।
शालग्रामशिलायां तु एकेनापीह तत्फलम्  ॥ ५.३७७ ॥
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ।
तत्र देवासुरा यक्षा भुवनानि चतुर्दश  ॥ ५.३७८ ॥
शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः ।
पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि  ॥ ५.३७९ ॥
शालग्रामशिला यत्र तत्तीर्थं योजनत्रयम् ।
यत्र दानं जपो होमः सर्वं कोटिगुणं भवेत् ॥ ५.३८० ॥
शालग्रामसमीपे तु क्रोशमात्रं समन्ततः ।
कीकटोऽपि मृतो याति वैकुण्ठभवनं नर  ॥ ५.३८१ ॥
शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम् ।
भूचक्रं तेन दत्तं स्यात्सशैलवनकाननम्  ॥ ५.३८२ ॥

स्कान्दे कार्त्तिकमाहात्म्ये [पद्म ५.१२०.४४३] श्रीशिवस्कन्दसंवादे
शालग्रामशिलायां तु त्रैलोक्यं सचराचरम् ।
मया सह महासेन लीनं तिष्ठति सर्वदा  ॥ ५.३८३ ॥
दृषा प्रणमिता येन स्नापिता पूजिता तथा ।
यज्ञकोटिसमं पुण्यं गवां कोटिफलं लभेत् ॥ ५.३८४ ॥
कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः ।
शालग्रामशिलां विप्र सम्पूज्यैवाच्युतो भवेत् ॥ ५.३८५ ॥
शालग्रामशिलाबिम्बं हत्याकोटिविनाशनम् ।
स्मृतं सङ्कीर्तितं ध्यातं पूजितं च नमस्कृतम्  ॥ ५.३८६ ॥
शालग्रामशिलां दृष्ट्वा यान्ति पापान्यनेकशः ।
सिंहं दृष्ट्वा यथा यान्ति वने मृगगणा भयात् ॥ ५.३८७ ॥
नमस्करोति मनुजः शालग्रामशिलार्चने ।
पापानि विलयं यान्ति तमः सूर्योदये यथा  ॥ ५.३८८ ॥
कामासक्तोऽथवा क्रुद्धः शालग्रामशिलार्चनम् ।
भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिमवाप्नुयात् ॥ ५.३८९ ॥
वैवस्वतं भयं नास्ति तथा मरणजन्मनोः ।
यः कथां कुरुते विष्णोः शालग्रामशिलाग्रतः  ॥ ५.३९० ॥
गीतैर्वाद्यैस्तथा स्तोत्रैः शालग्रामशिलार्चनम् ।
कुरुते मानवो यस्तु कलौ भक्तिपरायणः ।
कल्पकोटिसहस्राणि रमते विष्णुसद्मनि  ॥ ५.३९१ ॥
शालग्रामनमस्कारेऽभावेनापि नरैः कृते ।
भयं नैव करिष्यन्ति मद्भक्ता ये नरा भुवि  ॥ ५.३९२ ॥
मद्भक्तिबलदर्पिष्ठा मत्प्रभुं न नमन्ति ये ।
वासुदेवं न ते ज्ञेया मद्भक्ताः पापिनो हि ते  ॥ ५.३९३ ॥
शालग्रामशिलायां तु सदा पुत्र वसाम्यहम् ।
दत्तं देवेन तुष्टेन स्वस्थानं मम भक्तितः  ॥ ५.३९४ ॥
पद्मकोटिसहस्रैस्तु पूजिते मयि यत्फलम् ।
तत्फलं कोटिगुणितं शालग्रामशिलार्चने  ॥ ५.३९५ ॥
पूजितो ‘हं न तैर्मर्त्यैर्नमितोऽहं न तैर्नरैः ।
न कृतं मर्त्यलोके यैः शालग्रामशिलार्चनम्  ॥ ५.३९६ ॥
शालग्रामशिलाग्रे तु यः करोति ममार्चनम् ।
तेनार्चितोऽहं सततं युगानामेकविंशतिम्  ॥ ५.३९७ ॥
किमर्चितैर्लिङ्गशतैर्विष्णुभक्तिविवर्जितैः ।
शालग्रामशिलाबिम्बं नार्चितं यदि पुत्रक  ॥ ५.३९८ ॥
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलालग्नं सर्वं याति पवित्रताम्  ॥ ५.३९९ ॥
यो हि माहेश्वरो भूत्वा वैष्णवलिङ्गमुत्तमम् ।
द्वेष्टि वै याति नरकं यावदिन्द्राश्चतुर्दश  ॥ ५.४०० ॥
सकृदप्यर्चिते बिम्बे शालग्रामशिलोद्भवे ।
मुक्तिं प्रयान्ति मनुजा नूनं साङ्ख्येन वर्जिताः  ॥ ५.४०१ ॥
मल्लिङ्गैः कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः ।
शालग्रामशिलायां तु एकेनापि हि तद्भवेत् ॥ ५.४०२ ॥
तस्माद्भक्त्या च मद्भक्तैः प्रीत्य्अर्थे मम पुत्रक ।
कर्तव्यं सततं भक्त्या शालग्रामशिलार्चनम्  ॥ ५.४०३ ॥
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ।
तत्र देवासुरा यक्षा भुवनानि चतुर्दश  ॥ ५.४०४ ॥
शालग्रामशिलाग्रे तु सकृत्पिण्डेन तर्पिताः ।
वसन्ति पितरस्तस्य न सङ्ख्या तत्र विद्यते  ॥ ५.४०५ ॥
प्रमाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक ।
फलं प्रमाणहीनं तु शालग्रामशिलार्चने  ॥ ५.४०६ ॥
यो ददाति शिलां विष्णोः शालग्रामसमुद्भवाम् ।
विप्राय विष्णुभक्ताय तेनेष्टं बहुभिः मखैः  ॥ ५.४०७ ॥
(अत्रप्रभृति श्लोका आकरे न दृश्यन्ते)
मानुष्ये दुर्लभा लोके शालग्रामोद्भवा शिला ।
प्राप्यते न विना पुण्यैः कलिकाले विशेषतः  ॥ ५.४०८ ॥
स धन्यः पुरुषो लोके सफलं तस्य जीवितम् ।
शालग्रामशिला शुद्धा गृहे यस्य च पूजिता  ॥ ५.४०९ ॥
संनियम्येन्द्रियग्रामं शालग्रामशिलार्चनम् ।
यः कुर्यान्मानवो भक्त्या पुष्पे पुष्पेऽश्वमेधभाक् ॥ ५.४१० ॥
काले वा यदि वाकाले शालग्रामशिलार्चनम् ।
भक्त्या वा यदि वाभक्त्या यः करोति स पुण्यभाक् ॥ ५.४११ ॥
द्वेषेणापि च लोभेन दम्भेन कपटेन वा ।
शालग्रामोद्भवं देवं दृष्ट्वा पापात्प्रमुच्यते  ॥ ५.४१२ ॥
अशुचिर्वा दुराचारः सत्यशौचविवर्जितः ।
शालग्रामशिलां स्पृष्ट्वा सद्य एव शुचिर्भवेत् ॥ ५.४१३ ॥
तिलप्रस्थशतं भक्त्या यो ददाति दिने दिने ।
तत्फलं समवाप्नोति शालग्रामशिलार्चने  ॥ ५.४१४ ॥
पत्रं पुष्पं फलं मूलं तोयं दूर्वाक्षतं सुत ।
जायते मेरुणा तुल्यं शालग्रामशिलार्पितम्  ॥ ५.४१५ ॥
विधिहीनोऽपि यः कुर्यात्क्रियामन्त्रविवर्जितः ।
चक्रपूजामवाप्नोति सम्यक्शास्त्रोदितं फलम्  ॥ ५.४१६ ॥

तत्रैव चान्यत्र
स्कन्धे कृत्वा तु योऽध्वानं वहते शैलनायकम् ।
तेनोढं तु भवेत्सर्वं त्रैलोक्यं सचराचरम्  ॥ ५.४१७ ॥
ब्रह्महत्यादिकं पापं यत्किञ्चित्कुरुते नरः ।
तत्सर्वं निर्दहत्याशु शालग्रामशिलार्चनम्  ॥ ५.४१८ ॥
न पूजनं न मन्त्राश्च न जपो न च भावना ।
न स्तुतिर्नोपचारश्च शालग्रामशिलार्चने  ॥ ५.४१९ ॥
शालग्रामशिला यत्र तत्तीर्थं योजनत्रयम् ।
तत्र दानं च होमश्च सर्वं कोटिगुणं भवेत् ॥ ५.४२० ॥
शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः ।
पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि  ॥ ५.४२१ ॥
शालग्रामसमीपे तु क्रोशमात्रं समन्ततः ।
कीकटोऽपि मृतो याति वैकुण्ठभुवनं नरः  ॥ ५.४२२ ॥

पाद्मे च
शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम् ।
भूचक्रं तेन दत्तं स्यात्सशैलवनकाननम्  ॥ ५.४२३ ॥
गरुडपुराणे
तिष्ठन्ति नित्यं पितरो मनुष्यास्
तीर्थानि गङ्गादिकपुष्कराणि ।
यज्ञाश्च मेधा ह्यपि पुण्यशैलाश्
चक्राङ्किता यस्य वसन्ति गेहे  ॥ ५.४२४ ॥

पाद्मे कार्त्तिकमाहात्म्ये श्रीयमधूम्रकेशसंवादे
शालग्रामशिलायां तु यैर्नरैः पूजितो हरिः ।
संशोध्य तेषां पापानि मुक्तये बुद्धितो भवेत् ॥ ५.४२५ ॥
कार्त्तिके मथुरायां तु सारूप्यं दिशते हरिः ।
शालग्रामशिलायां वै पितॄणुद्दिश्य पूजितः ।
कृष्णः समुद्धरेत्तस्य पितॄनेतान् स्वलोकताम्  ॥ ५.४२६ ॥

बृहन्नारदीये [१.३८.६७६८] च यज्ञध्वजोपाख्यानान्ते
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ।
न बाधन्तेऽसुरास्तत्र भूतवेतालकादयः  ॥ ५.४२७ ॥
शालग्रामशिला यत्र तत्तीर्थं तत्तपोवनम् ।
यतः सन्निहितस्तत्र भगवान्मधुसूदनः  ॥ ५.४२८ ॥

शालग्रामशिलास्ताश्च यदि द्वादश पूजिताः ।
शतं वा पूजितं भक्त्या तदा स्यादधिकं फलम्  ॥ ५.४२९ ॥

अथ बाहुल्ये तासां फलविशेषः

पाद्मे माघमाहात्म्ये [३.३१.१२४१२६] देवदूतविकुण्डलसंवादे
शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाः ।
विधिवत्पूजिता येन तस्य पुण्यं वदामि ते   ॥ ५.४३० ॥
कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः ।
यत्स्याद्द्वादशकालेषु दिनेनैकेन तद्भवेत् ॥ ५.४३१ ॥
यः पुनः पूजयेद्भक्त्या शालग्रामशिलाशतम् ।
उषित्वा स हरेर्लोके चक्रवर्तीह जायते  ॥ ५.४३२ ॥

स्कान्दे कार्त्तिकमाहात्म्ये [पद्म ६.१२०.३१३३] श्रीशिवस्कन्दसंवादे
द्वादशैव शिला यो वै शालग्रामसमुद्भवाः ।
अर्चयेद्वैष्णवो नित्यं तस्य पुण्यं निबोध मे  ॥ ५.४३३ ॥
कोटिलिङ्गसहस्रैस्तु पूजितैर्जाह्नवीतटे ।
काशीवासे युगान्यष्टौ दिनेनैकेन तद्भवेत् ॥ ५.४३४ ॥
किं पुनर्बहुना यस्तु पुजयेद्वैष्णवो नरः ।
न हि ब्रह्मादयो देवाः संख्यां कुर्वन्ति पुण्यतः  ॥ ५.४३५ ॥
अथ तत्क्रयविक्रयनिषेधः

तत्रैव [पद्म ३.३१.१४४१४६]
शालग्रामशिलायां यो मूल्यमुद्घातयेन्नरः ।
विक्रेता चानुमन्ता च यः परीक्षामुदीरयेत् ॥ ५.४३६ ॥
सर्वे ते नरकं यान्ति यावदाहूतसम्प्लवम् ।
अतः संवर्जयेद्विप्र चक्रस्य क्रयविक्रयम्  ॥ ५.४३७ ॥
अथ प्रतिष्ठा निषेधः

तत्रैव
शालग्रामशिलायां तु प्रतिष्ठा नैव विद्यते ।
महापूजां तु कृत्वादौ पूजयेत्तां ततो बुधः  ॥ ५.४३८ ॥
। इति ।

अतोऽधिष्ठानवर्गेषु सूर्यादिष्विव मूर्तिषु ।
शालग्रामशिलैव स्यादधिष्ठानोत्तमं हरेः  ॥ ५.४३९ ॥

अथ सर्वाधिष्ठानश्रैष्ठ्यम्

पाद्मे [३.३१.११५११७] तत्रैव
हृदि सूर्ये जले वाथ प्रतिमास्थण्डिलेषु च ।
समभ्यर्च्य हरिं यान्ति नरास्ते वैष्णवं पदम्  ॥ ५.४४० ॥
अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः ।
शालग्रामेशिलाचक्रे वज्रकीटविनिर्मिते  ॥ ५.४४१ ॥
अधिष्ठानं हि तद्विष्णोः सर्वपापप्रणाशनम् ।
सर्वपुण्यप्रदं वैश्य सर्वेषामपि मुक्तिदम्  ॥ ५.४४२ ॥

तत्रैव कार्त्तिकमाहात्म्ये यमधूम्रकेशसंवादे
पूजा च विहिता तस्य प्रतिमायां नृपात्मज ।
शैली दारुमयी लौही लेप्या लेख्या च सैकता ।
मनोमयी मणिमयी श्रीमूर्तिरष्टधा स्मृता  ॥ ५.४४३ ॥
शालग्रामशिलायां तु साक्षात्श्रीकृष्णसेवनम् ।
नित्यं संनिहितस्तत्र वासुदेवो जगद्गुरुः  ॥ ५.४४४ ॥

स्कान्दे कार्त्तिकमाहात्म्ये श्रीशिवस्कन्दसंवादे
सुवर्णार्चा न रत्नार्चा न शिलार्चा सुरोत्तम ।
शालग्रामशिलायां तु सर्वदा वसते हरिः  ॥ ५.४४५ ॥

अत एवोक्तम्
हत्यां हन्ति यद्अङ्घ्रिसङ्गतुलसी स्तेयं च तोयं पदे
नैवेद्यं बहुमद्यपानदुरितं गुर्व्अङ्गनासङ्गजम् ।
श्रीशाधीनमतिः स्थितिर्हरिजनैस्तत्सङ्गजं किल्बिषं
शालग्रामशिलानृसिंहमहिमा कोऽप्येष लोकोत्तरः  ॥ ५.४४६ ॥

शालग्रामशिलारूपभगवन्महिमाम्बुधेः ।
ऊर्मीन् गणयितुं शक्यः श्रीचैतन्याश्रितोऽपि कः  ॥ ५.४४७ ॥
अथ शालग्रामशिलापूजानित्यता

पाद्मे
शालग्रामशिलापूजा विना योऽश्नाति किञ्चन ।
स चण्डालादिविष्ठायामाकल्पं जायते कृमिः  ॥ ५.४४८ ॥

स्कान्दे च
गौरवाचलशृङ्गाग्रैर्भिद्यते यस्य वै तनुः ।
न मतिर्जायते यस्य शालग्रामशिलार्चने  ॥ ५.४४९ ॥
। इति ।


एवं श्रीभगवान् सर्वैः शालग्रामशिलात्मकः ।
द्विजैः स्त्रीभिश्च शूद्रैश्च पूज्यो भगवतः परैः  ॥ ५.४५० ॥

तथा स्कान्दे श्रीब्रह्मनारदसंवादे चातुर्मास्यव्रते शालग्रामशिलार्चाप्रसङ्गे
ब्राह्मणक्षत्रियविशां सच्छूद्राणामथापि वा ।
शालग्रामेऽधिकारोऽस्ति न चान्येषां कदाचन  ॥ ५.४५१ ॥

तत्रैवान्यत्र
स्त्रियो वा यदि वा शूद्रा ब्राह्मणाः क्षत्रियादयः ।
पूजयित्वा शिलाचक्रं लभन्ते शाश्वतं पदम्  ॥ ५.४५२ ॥
। इति ।


अतो निषेधकं यद्यद्वचनं श्रूयते स्फुटम् ।
अवैष्णवपरं तत्तद्विज्ञेयं तत्त्वदर्शिभिः  ॥ ५.४५३ ॥

यथा
ब्राह्मणस्यैव पूज्योऽहं शुचेरप्यशुचेरपि ।
स्त्रीशूद्रकरसंस्पर्शो वज्रादपि सुदुःसहः  ॥ ५.४५४ ॥
प्रणवोच्चारणार्चैव शालग्रामशिलार्चनात् ।
ब्राह्मणीगमनाच्चैव शूद्रश्चण्डालतामियात् ॥ ५.४५५ ॥

सनातनः: तदेव श्रीनारदोक्त्या प्रमाणयतिब्राह्मणेति । सतां वैष्णवानां शूद्राणां, शालग्रामे श्रीशालग्रामशिलार्चने, अन्येषामसतां शूद्राणाम् । अतएव शूद्रमधिकृत्योक्तं वायुपुराणे
अयाचकः प्रदाता स्यात्कृषिं वृत्त्य्अर्थमाचरेत् ।
पुराणं शृणुयान्नित्यं शालग्रामं च पूजयेत् ॥
। इति ।

एवं महापुराणानां वचनैः सहब्राह्मणस्यैव पूज्योऽहमिति वचनस्य विरोधान्मात्सर्यपरैः स्मार्तैः कैश्चित्कल्पितमिति मन्तव्यम् । यदि च युक्त्या सिद्धं समूलं स्यात्तर्हि चावैष्णविः शूद्रैस्तादृशीभिश्च स्त्रीभिस्तत्पूजा न कर्तव्या, यथाविधि गृहीतविष्णुदीक्षाकैश्च तैः कर्त्व्येति व्यवस्थापनीयम् । यतः शूद्रेष्वन्त्यजेष्वपि मध्ये ये वैष्णवास्ते शूद्रादयो न किलोच्यन्ते । तथा च नारदीये
श्वपचोऽपि महीपाल विष्णोर्भक्तो द्विजोधिकः इति ।
इतिहाससमुच्चये
न शूद्रा भगवद्भक्तं निषादं श्वपचं तथा ।
वीक्षते जातिसामान्यात्स याति नरकं ध्रुवम् ॥
। इति ।

पाद्मे च
न शूद्रा भगवद्भक्तास्ते तु भागवता नराः ।
सर्ववर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥
। इति ।

एतद्आदिकं चाग्रे वैष्णवमाहात्म्ये विस्तरेण व्यक्तं भावि । किं च, भगवद्दीक्षाप्रभावेन शूद्रादीनामपि विप्रसाम्यं सिद्धमेव । तथा च तत्रयथा काञ्चनतां याति इत्यादि । एतच्च प्राग्दीक्षामाहात्म्ये लिखितमेव । अत एव तृतीयस्कन्धे देवहूतिवाक्यम् [भागवतम् ३.३३.६]
यन्नामधेयश्रवणानुकीर्तनाद्
यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् ।
श्वादोऽपि सद्यः सवनाय कल्पते
कुतः पुनस्ते भगवन्नु दर्शनात् ॥
। इति ।

सवनाय यजनाय कल्पते योग्यो भवतीत्यर्थः । अत एव विप्रैः सह वैष्णवानामेकत्रैव गणना । तथा च हरिभक्तिसुधोदये श्रीभगवद्ब्रह्मसंवादे
तीर्थान्यश्वत्थतरवो गावो विप्रास्तथा स्वयम् ।
मद्भक्ताश्चेति विज्ञेयाः पञ्च ते तनवो मम ॥
। इति ।

 

चतुर्थस्कन्धे [भागवतम् ४.२१.१२] श्रीपृथुमहाराजवर्णने
सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् ।
अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः ॥
। इति ।

ईमहाराजस्योक्तौ [भागवतम् ४.२१.३७]
मा जातु तेजः प्रभवेन्महर्द्धिभिस्
तितिक्षया तपसा विद्यया च ।
देदीप्यमाने ञ्जितदेवतानां
कुले स्वयं राजकुलाद्द्विजानाम् ॥
। इति ।

अत्र श्रीस्वामिपादानां टीकामहत्यश्च ता ऋद्धयश्च ताभिर्यद्राजकुलस्य तेजस्तत्तस्मात्सकाशाद्द्विजानां विप्राणां कुले अजितो देवतापूज्यो येषां वैष्णवानां, तेषां कुले मा जातु प्रभवेत् । कदाचिदपि प्रभवं न करोतु । कथम्भूते ? समृद्धिभिर्विनापि स्वयमेव तितिक्षादिभिर्देदीप्यमान इति ।

पुरञ्जनोक्तौ [भागवतम् ३.२६.२४]  च
तस्मिन् दधे दममहं तव वीरपत्नि
योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् ।
पश्ये न वीतभयमुन्मुदितं त्रिलोक्याम्
अन्यत्र वै मुररिपोरितरत्र दासात् ॥
। इति ।

तत्रापि सैव टीकाहे वीरपत्नि ! यस्ते कृतापराधः । तस्मिन्नहं ब्राह्मणकुलादन्यत्र अन्यस्मिन्मुररिपुदासादितरत्र च दमं दधे, दण्डं करोमीत्यदि । ईदृशानि च वचनानि श्रीभागवतादौ बहून्येव सन्ति । इत्थं वैष्णवानां ब्राह्मणैः सह साम्यमेव सिध्यति । किं चविप्राद्द्विषड्गुणयुतात्[भागवतम् ७.९.१०] इत्यादिवचनैर्वैष्णवब्राह्मणेभ्यो नीचजातिजातानामपि वैष्णवानां श्रैष्ठ्यं निर्दिश्यतेतराम् । अत एवोक्तं श्रीभगवता श्रीहयग्रीवेण श्रीहयशीर्षपञ्चरात्रे श्रीपुरुषोत्तमप्रतिष्ठान्ते
मूर्तिपानां तु दातव्या देशिकार्धेन दक्षिणा ।
तद्अर्धं वैष्णवानां तु तद्अर्धं तद्द्विजन्मनाम् ॥
। इति ।

अतो युक्तमेव लिखित सर्वैर्भगवतः परैः पूज्य इति । तथा च ब्रह्मवैवर्ते प्रियव्रतोपाख्याने धर्मव्याधस्यापि श्रीशालग्रामशिलापूजनमुक्तम्
ततः स विस्मितः श्रुत्वा धर्मव्याधस्य तद्वचः ।
तस्थौ स च समानीय दर्शयामास तवुभौ ॥
निनिक्तवसनौ वृद्धावासनस्थौ निजौ गुरू ।
शालग्रामशिलां चैव तत्समीपे सुपूजितम् ॥
। इति ।

अत्राचारश्चसतां मध्यदेशेऽस्मिन् विशेषतो दक्षिणदेशे च महत्तमानां श्रीवैष्णवानां प्रमाणमिति दिक् । एवं श्रीभागवतपाठआदावप्यधिकारो वैष्णवानां द्रष्टव्यः । यतो विधिनिषेधा भगवद्भक्तानां न भवन्तीति देवर्षिभूताप्तनॄणां पितॄणाम् [भागवतम् ११.५.४१] इत्यादिवचनैः । तथा कर्मपरित्यागादिनापि न कश्चिद्दोषो घटत इति तावत्कर्माणि कुर्वीत [भागवतम् ११.२०.९] इति, यदा यस्यानुगृह्णाति भगवान् [भागवतम् ४.२९.४६] इत्यादि वचनैश्च व्यक्तं बोधितमेवास्ति । एतत्सर्वमग्रे श्रीवैष्णवमाहात्म्ये विस्तरेण व्यक्तं भावि  ** ःभ्व्C_५.४५४४५५ **

श्वादत्वमत्र श्वभक्षकजातिविशेषत्वमेव श्वानमत्तीति निरुक्तेर्वर्तमानप्रयोगात्क्रव्यादवत्तच्छीलत्वप्राप्तेः । कादाचित्कभक्षणप्रायश्चित्तविवक्षायां त्वतीतः प्रयोगः क्रियेत । रूढिर्योगमपहरतीति न्यायेन च तद्विरुध्यते । अतएव श्वपच इति तैर्व्याख्यातम् । सवनं चात्र सोमयाग उच्यते । ततश्चास्य भगवन्नामश्रवणाद्य्एकतरात्सद्य एव सवनयोग्यताप्रतिकूलदुर्जातित्वप्रारम्भकप्रारब्धपापनाशः प्रतिपद्यते । उद्धवं प्रति भगवता च  तस्मात्भक्तिः पुनाति मन्निष्ठा श्वपाकानपि सम्भवात्[भागवतम् ११.१४.२०] इति कैमुत्यार्थमेव प्रोक्तमित्यायाति । किन्तु योग्यत्वमत्र श्वपचत्वप्रापकप्रारब्धपापविच्छिन्नत्वमात्रमुच्यते । सवनार्थं तु गुणान्तराधानमपेक्षत एव । ब्राह्मणकुमाराणां शौक्रे जन्मनि योग्यत्वे सत्यपि सावित्रदैक्स्यजन्मापेक्षावत् । सावित्रादिजन्मनि तु सद्आचारप्राप्तेरिति सवने प्रवृत्तिर्न युज्यते । तस्मात्पूज्यत्वमात्रे तात्पर्यमित्यभिप्रेत्य टीकाकृद्भिरप्युक्तमनेन पूज्यत्वं लक्ष्यत इति । तथापि जातिदोषहरत्वेन प्रारब्धहारित्वं तु व्यक्तमेवायातम् ।

सन्धार्यआ वैष्णवैर्यत्नाच्छालग्रामशिलाऽसुवत् ।
सा चार्च्या द्वारकाचक्राङ्कितोपेतैव सर्वदा  ॥ ५.४५६ ॥

ब्राह्मे तत्रैव
शालग्रामोद्भवो देवो देवो द्वारवतीभवः ।
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः  ॥ ५.४५७ ॥
स्कान्दे श्रीब्रह्मनारदसंवादे
चक्राङ्किता शिला यत्र शालग्रामशिलाग्रतः ।
तिष्ठते मुनिशार्दूल वर्धन्ते तत्र सम्पदः  ॥ ५.४५८ ॥

तत्रैवान्यत्र
प्रत्यहं द्वादश शिलाः शालग्रामस्य योऽर्चयेत् ।
द्वारवत्याः शिलायुक्ताः स वैकुण्ठे महीयते  ॥ ५.४५९ ॥

अथ श्रीद्वारकाचक्राङ्कलक्षणानि

श्रीप्रह्लादसंहितायाम्
एकः सुदर्शनो द्वाभ्यां लक्ष्मीनारायणः स्मृतः ।
त्रिभिस्त्रिविक्रमो नाम चतुर्भिश्च जनार्दनः  ॥ ५.४६० ॥
पञ्चभिर्वासुदेवस्तु षड्भिः प्रद्युम्न उच्यते ।
सप्तभिर्बलदेवस्तु अष्टभिः पुरुषोत्तमः  ॥ ५.४६१ ॥
नवभिश्च नवव्यूहो दशभिर्दशमूर्तिकः ।
एकादशैश्चानिरुद्धो द्वादशैर्द्वादशात्मकः ।
अन्येषू बहुचक्रेषु अनन्तः परिकीर्तितः  ॥ ५.४६२ ॥

अथ द्वादशचक्राङ्कमाहात्म्यम्

वाराहे
ये केचिच्चैव पाषाणा विष्णुचक्रेण मुद्रिताः ।
तेषां स्पर्शनमात्रेण मुच्यते सर्वपातकैः  ॥ ५.४६३ ॥

गारुडे
सुदर्शनाद्यास्तु शिलाः पूजिताः सर्वकामदाः  ॥ ५.४६४ ॥

स्कान्दे च
भक्त्या वा यदि वाभक्त्या चक्राङ्कं पूजयेन्नरः ।
अपि चेत्सुदुराचारो मुच्यते नात्र संशयः  ॥ ५.४६५ ॥

द्वारकामाहात्म्ये च द्वारकागतानां श्रीब्रह्मादीनामुक्तौ
एतद्वै चक्रतीर्थं तु यच्छिला चक्रचिह्निता ।
मुक्तिदा पापिनां लोके म्लेच्छदेशेऽपि पूजिता  ॥ ५.४६६ ॥

अथ तेष्वेव चक्रभेदेन फलभेदः

कपिलपञ्चरात्रे
एकचक्रस्तु पाषाणो द्वारवत्याः सुशोभनः ।
सुदर्शनाभिधो योऽसौ मोक्षैकफलदायकः  ॥ ५.४६७ ॥
लक्ष्मीनारायणो द्वाभ्यां भुक्तिमुक्तिफलप्रदः ।
एभिश्चाच्युतरूपोऽसौ फलमैन्द्रं प्रयच्छति  ॥ ५.४६८ ॥
चतुर्भुजश्चतुश्चक्रश्चतुर्वर्गफलप्रदः ।
पञ्चभिर्वासुदेवश्च जन्ममृत्युभयापहः  ॥ ५.४६९ ॥
षड्भिः प्रद्युम्न एवासौ लक्ष्मीं कान्तिं ददाति सः ।
सप्तभिर्बलभद्रोऽसौ गोत्रकीर्तिविवर्धनः  ॥ ५.४७० ॥
ददाति वाञ्छितं सर्वमष्टभिः पुरुषोत्तमः ।
नवचक्रो नृसिंहस्तु फलं यच्छत्यनुत्तमम्  ॥ ५.४७१ ॥
राज्यप्रदो दशभिस्तु दशावतारकः स्मृतः ।
एकादशभिरैश्वर्यमनिरुद्धः प्रयच्छति  ॥ ५.४७२ ॥
निर्वाणं द्वादशात्मासौ सौख्यदश्च सुपूजितः  ॥ ५.४७३ ॥
अथ वर्णादिभेदेन दोषगुणाः पूज्यत्वापूज्यत्वे च

तत्रैव
कृष्ण मृत्युप्रदो नित्यं धूम्रश्चैव भयावहः ।
अस्वास्थ्यं कर्बुरो दद्यान्नीलस्तु धनहानिदः  ॥ ५.४७४ ॥
छिद्रो दारिद्र्यदुःखानि दद्यात्सम्पूजितो ध्रुवम् ।
पाण्डरस्तु महद्दुःखं भग्नो भार्यावियोगदः  ॥ ५.४७५ ॥
पुत्रपौत्रधनैश्वर्यसुखमत्यन्तमुत्तमम् ।
ददाति शुक्लवर्णश्च तस्मादेनं समर्चयेत् ॥ ५.४७६ ॥

श्रीप्रह्लादसंहितायाम्
कृष्णा मृत्युप्रदा नित्यं कपिला च भयावहा ।
रोगार्तिं कर्बुरा दद्यात्पीता वित्तविनाशिनी  ॥ ५.४७७ ॥
धूम्राभा वित्तनाशाय भग्ना भार्याविनाशिका ।
सच्छिद्रा च त्रिकोणा च तथा विषमचक्रिका ।
अर्धचन्द्राकृतिर्या च पूज्यास्ता न भवन्ति हि  ॥ ५.४७८ ॥

गार्ग्यगालवयोः
सुखदा समचक्रा तु द्वादशी चोत्तमा शुभा ।
वर्तुला चतुरस्रा च नराणां च सुखप्रदा  ॥ ५.४७९ ॥
त्रिकोणा विषमा चैव छिद्रा भग्ना तथैव च ।
अर्धचन्द्राकृतिर्या तु पूजार्हा न भवेत्तु सा ।
फलं नोत्पद्यते तत्र पूजितायां कदाचन  ॥ ५.४८० ॥

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे
आधिष्ठानिको नाम
पञ्चमो विलासः

*************************************************************************

 


६. ष्नपनिकVइलस

षष्ठविलासः
स्नापनिकः

श्रीचैतन्यप्रसादेन तद्रूपं गोकुलोत्सवम् ।
मनोज्ञं यष्टुकामस्य मूर्त्य्अर्चाविधिरुच्यते  ॥ ६.१ ॥
स्वयं व्यक्ताः स्थापनाश्च मूर्तयो द्विविधा मताः ।
स्वयं व्यक्ताः स्वयं कृष्णः स्थापनास्तु प्रतिष्ठया  ॥ ६.२ ॥

यथा च पाद्मोत्तरखण्डे [ড়द्मড়् ६.२५३.४७]
शृणु देवि प्रवक्ष्यामि तद्अर्चावसथं हरेः ।
स्थापनं च स्वयं व्यक्तं द्विविधं तत्प्रकीर्तितम्  ॥ ६.३ ॥
शिलामृद्दारुलोहाद्यैः कृत्वा प्रतिकृतिं हरेः ।
श्रौतस्मार्तागमप्रोक्तविधिना स्थापनं हि यत् ॥ ६.४ ॥
तत्स्थापनमिति प्रोक्तं स्वयं व्यक्तं हि मे शृणु ।
यस्मिन् सन्निहितो विष्णुः स्वमेव नॄणां भुवि  ॥ ६.५ ॥
पाषाणदार्वोरात्मेशः स्वयं व्यक्तं हि तत्स्मृतम् ।
दुर्लभत्वात्स्वयं व्यक्तमूर्तेः श्रीवैष्णवोत्तमः ।
यथाविधि प्रतिष्ठाप्य स्थापितां मूर्तिमर्चयेत् ॥ ६.६ ॥

हरिभक्तिसुधोदये
नैकं स्ववंशं तु नरस्तारयत्यखिलं जगत् ।
अर्चायामीप्सितं नॄणां फलं यागादिदुर्लभम् ।
प्रतिमामाश्रितोऽभीष्टप्रदां कल्पलतां यथा  ॥ ६.७ ॥

अथश्रीमूर्तेः प्रसादनमात्मादिशुद्धयश्च

श्रीमूर्तिं क्षालनार्हां तु शस्तगन्धजलादिना ।
प्रक्सालयेत्तदन्यां तु मूलमन्त्रेण मार्जयेत् ॥ ६.८ ॥
श्रीमूर्तिहृदयं स्पृष्ट्वा स्वमन्त्रं चाष्टधा जपेत् ।
एवं प्रसादनं मूर्तेरात्मनस्तत्प्रसादनात् ।
शुद्धिरेका द्वितीया तु स्यादव्यग्रतयापि च  ॥ ६.९ ॥
स्थानशुद्धिस्तथा द्रव्यशुद्धिश्च लिखिता पुरा ।
इति प्रकारभेदेन भवेच्छुद्धिचतुष्टयम्  ॥ ६.१० ॥

उक्तं च श्रीनारदेन
पुष्पेणाम्बु गृहीत्वा तु प्रोक्षयेते सर्वसाधनम् ।
मलस्नानं ततः कुर्यात्पात्रे देवं निधाय च  ॥ ६.११ ॥

अन्येनापि
पुष्पाक्षतादिद्रव्यानां कुर्यान्मन्त्रादिशोधनम् ।
क्षालनेनाम्बुलेपादेर्मूर्तिशुद्दिं समाचरेत् ।
अव्यग्रत्वेनात्मशुद्धिं क्सितिशुद्धिं ततश्चरेत् ॥ ६.१२ ॥
। इति ॥

मन्त्रशुद्धिं परां चित्तशुद्धिं चेच्छन्ति केचन ।
एवं षट्शुद्धयः पुण्याः सम्प्रदायानुसारतः  ॥ ६.१३ ॥

अथ पीठपूजा

ताम्रादिपीठे श्रीखण्डाद्यालिप्तेऽष्टदलं लिखेत् ।
सकर्णिकं त्रिवृत्ताढ्यं पद्मं षोडशकेशरम्  ॥ ६.१४ ॥
सदलाग्रं चतुष्कोणं चतुर्द्वारविभूषितम् ।
पूजायन्त्रं समुद्धृत्य पीठार्चां तत्र साधयेत् ॥ ६.१५ ॥
पीठे भगवतो वामे श्रीगुरून् गुरुपादुकाम् ।
नारदादीन् पूर्वसिद्धान् यजेदन्यांश्च वैष्णवान्  ॥ ६.१६ ॥
दक्षिणे चार्चयेद्दुर्गां गणेशं च सरस्वतीम् ।
तत्र प्राग्लिखितन्यासस्यानुसारेण पूजयेत् ॥ ६.१७ ॥
मध्ये आधारशक्त्य्आदीन् धर्मादींश्च विदिक्ष्वथ ।
अधर्मादींश्चतुर्दिक्ष्वनन्तादीन्मध्यतः पुनः  ॥ ६.१८ ॥
शक्तीर्नवाष्टपत्रेषु कर्णिकायां च पूजयेत् ।
तथा तद्उपरिष्ठाच्च पीठमन्त्रं यथोदितम्  ॥ ६.१९ ॥
तत्पीठे मूलमन्त्रेण श्रीमूर्तिं स्थापयेदथ ।
पुष्पाञ्जलिं गृहित्वेष्टदेवरूपं विचिन्तयेत् ॥ ६.२० ॥
ततश्च मूलमन्त्रेण क्षिप्त्वा पुष्पाञ्जलित्रयम् ।
निजेष्टदेवमूर्तेश्च परमैक्यं विभावयेत् ॥ ६.२१ ॥

अथावाहनादीनि

ततो देवार्चने प्रौढपादताया निषेधनात् ।
भूमै निहितपादः सन् कुर्यादावाहनादिकम्  ॥ ६.२२ ॥
यच्चावाह्यमधिष्ठानं तत्रावाहनमाचरेत् ।
शालग्रामस्थापने च नावाहनविसर्जने  ॥ ६.२३ ॥
तथा चोक्तम्
उद्वासावाहने न स्तः स्थावरे वै यथा तथा ।
शालग्रामार्चने नैव ह्यावाहनविसर्जने  ॥ ६.२४ ॥
शालग्रामे तु भगवानाविर्भूतो यथा हरिः ।
न तथान्यत्र सूर्यादौ वैकुण्ठेऽपि च सर्वगः  ॥ ६.२५ ॥

अथावाहनादिविधिः

आवाहनादिमुद्राश्च संदर्श्यावाहनं बुधः ।
तथा संस्थापनं सन्निधापनं सन्निरोधनम्  ॥ ६.२६ ॥
सकलीकरणं चावगुण्ठनं च यथाविधि ।
अमृतीकरणं कुर्यात्परमीकरणं तथा  ॥ ६.२७ ॥

तथावाहनाद्य्अर्थः

आगमे
आवाहनं चादरेण सम्मुखीकरणं प्रभोः ।
भक्त्या निवेशनं तस्य संस्थापनमुद्राहृतम्  ॥ ६.२८ ॥
तवास्मीति त्वदीयत्वदर्शनं सन्निधापनम् ।
क्रियासमाप्तिपर्यन्तं स्थापनं सन्निरोधनम्  ॥ ६.२९ ॥
सक्लईकरणं चोक्तं तत्सर्वाङ्गप्रकाशनम् ।
आनन्दघनतात्यन्तप्रकाशो ह्यवगुठनम्  ॥ ६.३० ॥
अमृतीकरणं सर्वैरेवाङ्गैरवरुद्धता ।
परमीकरणं नामाभीष्टसम्पादनं परम्  ॥ ६.३१ ॥
अथावाहनमाहात्म्यम्

नारसिंहे
आगच्छ नरसिंहेति आवाह्याक्षतपुष्पकैः ।
एतावतापि राजेन्द्र सर्वपापैः प्रमुच्यते  ॥ ६.३२ ॥
। इति।

न्यसेद्यथासम्प्रदायं देवेऽङ्गादीनि पूर्ववत् ।
शङ्खचक्रादिकाश्चाथ मुद्रा विद्वान् प्रदर्शयेत् ॥ ६.३३ ॥

तथा च तत्त्वसागरे
आवाहनादिमुद्राश्च दर्शयित्वा ततः पुनः ।
अङ्गन्यासं च देवस्य कृत्वा मुद्राः प्रदर्शयेत् ॥ ६.३४ ॥
अथ मुद्राः
आगमे
आवाहनीं स्थापनीं च तथान्यां सन्निधापनीम् ।
संनिरोधकरीं चान्यां सकलीकरणीं पराम्  ॥ ६.३५ ॥
तथावगुण्ठनीं पश्चादमृतीकरणीं तथा ।
परमीकरणं चान्या प्रागष्टौ दर्शयेदिमाः  ॥ ६.३६ ॥
शङ्खं चक्रं गदां पद्मं मुषलं शार्ङ्गमेव च ।
खड्गं पाशाङ्कुशी तद्वद्वैनतेयं तथैव च  ॥ ६.३७ ॥
श्रीवत्सकौस्तुभौ वेणुमभीतिवरदौ तथा ।
वनमालां तथा मन्त्री दर्शयेत्कृष्णपूजने  ॥ ६.३८ ॥
मुद्रा चापि प्रयोक्तव्या नित्य’बिल्वफलाकृतिः ।
इत्येताश्च पुनः सप्तदश मुद्राः प्रदर्शयेत् ॥ ६.३९ ॥
गन्ददिग्धौ करौ कृत्वा मुद्राः सर्वत्र योजयेत् ।
योऽन्यथा कुरुते मूढो न सिद्धः फलभाग्भवेत् ॥ ६.४० ॥
अथ मुद्रामाहात्म्यम्
अगस्त्यसंहितायाम्
एताभिः सप्तदशभिर्मुद्राभिस्तु विचक्सणः ।
यो वै मामर्चयेन्नित्यं मोहयेत्स सुरेश्वरम् ।
द्रापयेदपि विप्रेन्द्र ततः प्रार्थितमाप्नुयत् ॥ ६.४१ ॥

क्रमदीपिकायां [२.५८] बिल्वमुद्रामधिकृत्य

मनोवाणीदेहैर्यदिह च पुरा वापि विहितं
त्वमत्या मत्या वा तदखिलमसौ दुष्कृतिचयम् ।
इमां मुद्रां जानन् क्षपयति नरस्तं सुरगणा
नमन्त्यस्याधीना भवति सततं सर्वजनता  ॥ ६.४२ ॥
अथासनाद्य्अर्पणम्

ततो निक्षिप्य देवस्योपरि पुष्पाञ्जलित्रयम् ।
दत्त्वासनार्थं पुस्पं च स्वागतं विधिनाचरेत् ॥ ६.४३ ॥
आसनाद्य्उपचारेषु मुद्राः षोडश दर्शयेत् ।
प्रसिद्धाः पद्मस्वस्त्य्आद्या विद्वान् षोडशसु क्रमात् ॥ ६.४४ ॥
श्रीकृष्णायार्पयेदर्घ्यं पाद्यमाचमनीयकम् ।
मधुपर्कं पुनश्चाचमनीयं च विधिर्यथा  ॥ ६.४५ ॥

तथा च स्मृत्य्अर्थसारे
आवाहनासनं  पाद्यमर्घ्यमाचमनीयकम् ।
स्नानमाचमनं वस्त्राचमनं चोपवीतकम्  ॥ ६.४६ ॥
आचमनं गन्धपुष्पं धूपदीपं प्रकल्पयेत् ।
नैवेद्यं पुनराचामं नत्वा स्तुत्वा विसर्जयेत् ॥ ६.४७ ॥

अन्यत्र च
आदौ पुष्पाञ्जलिं दत्त्वा पादार्चनमतः परम् ।
पाद्यमर्घं त्वाचमनं मधुपर्कं यथोदितम्  ॥ ६.४८ ॥
अभ्यङ्गोद्वर्तने कृत्वा महास्नानं समाचरेत् ।
अभिषेकाङ्गवस्त्रं च दत्त्वा नीराजयेद्धरिम्  ॥ ६.४९ ॥
। इति।

श्रीमूर्तौ तु शिरस्यर्घ्यं दद्यात्पाद्यं च पादयोः ।
मुखे चाचमनीयं त्रिर्मधुपर्कं च तत्र हि  ॥ ६.५० ॥
सर्वेष्वप्युपचारेषु पाद्यादिषु पृथक्पृथक् ।
आदौ पुष्पाञ्जलिं केचिदिच्छन्ति भगवत्पराः  ॥ ६.५१ ॥

अथासनाद्य्अर्पणमाहात्म्यम्

नरसिंहपुराणे
दत्त्वासनमथार्घ्यं च पाद्यमाचमनीयकम् ।
देवदेवस्य विधिना सर्वपापैः प्रमुच्यते  ॥ ६.५२ ॥

विष्णुधर्मोत्तरे
आसनानां प्रदानेन स्थानं सर्वत्र विन्दति ।
गोदानफलमाप्नोति तथा पाद्यप्रदो नरः  ॥ ६.५३ ॥
ततस्त्वर्हणदानेन सर्वपापैः प्रमुच्यते ।
तथैवाचमईयस्य दाता ब्राहमणसत्तमाः  ॥ ६.५४ ॥
तीर्थतोयं तथा दत्त्वा देवस्याचमनं पुनः ।
स्वर्गलोकमवाप्नोति सर्वपापविवर्जितः ।
नरस्त्वाचमनीयस्य दाता भवति निर्मलः  ॥ ६.५५ ॥
मधुपर्कस्य दानेन परं पदमिहाश्नुते  ॥ ६.५६ ॥

विष्णुपुराणे (?) च
मधुपर्कविधिं कृत्वा मधुपर्कं प्रयच्छति ।
ब्रह्मन् स याति परमं स्थानमेतन्न संशयः  ॥ ६.५७ ॥
अथ स्नानम्

विज्ञाप्य देवं स्नानार्थं पादुके पुरतोऽर्पयेत् ।
महाविद्यादिना तं च स्नानस्थानं ततो नयेत् ॥ ६.५८ ॥
प्राग्वत्तत्रासनं पाद्यं तत्रैवाचमनीयकम् ।
निवेद्य दर्शयेन्मुद्राममृतीकरणीं बुधः  ॥ ६.५९ ॥
शालग्रामशिलारूपं ततो देवं निवेशयेत् ।
स्नानपात्रे निजाभीष्टां चलां श्रीमूर्तिमेव वा  ॥ ६.६० ॥

अथ स्नानपात्रम्

स्कन्दपुराणे
कृत्वा ताम्रमये पात्रे योऽर्चयेन्मधुसूदनम् ।
फलमाप्नोति पूजायाः प्रत्यहं शत्वार्षिकम्  ॥ ६.६१ ॥
योऽर्चयेन्माधवं भक्त्या अश्वत्थदलसंस्थितम् ।
प्रत्यहं लभते पुण्यं पद्मयुतसमुद्भवम्  ॥ ६.६२ ॥
रम्भादलोपरि हरिं कृत्वा योऽभ्यर्चयेन्नरः ।
वर्षायुतं भवेत्पीतः केशवः प्रियया सह  ॥ ६.६३ ॥
ये पश्यन्ति सकृद्भक्त्या पद्मपत्रोपरि स्थितम् ।
भक्त्या पद्मालयाकान्तं तैराप्तं दुर्लभफलम्  ॥ ६.६४ ॥
। इति।

ततः शङ्खेनाभिषेकं कुर्याद्घण्टादिनिःस्वनैः ।
मूलेनाष्टाक्षरेणापि धूपयन्नन्तरान्तरा  ॥ ६.६५ ॥
तत्र तु प्रथमं भक्त्या विदधीत सुगन्धिभिः ।
दिव्यैस्तैलादिभिर्द्रव्यैरभ्यङ्गं श्रीहरेः शनैः  ॥ ६.६६ ॥
अथाभ्यङ्गद्रव्याणि तन्माहात्म्यं च

स्कन्दे
मालतीजातिमादाय सुगन्धानां तु वा पुनः  ॥ ६.६७ ॥
तथान्यपुष्पजातीनां गृहीत्वा भक्तितो नराः ।
ये स्नापयन्ति देवेशमुत्सवे वै हरेर्दिने  ॥ ६.६८ ॥
मेदिनीदानतुल्यं हि फलमुक्तं स्वयम्भुवा ।
यः पुनः पुष्पतैलेन दिव्यौषधियुतेन हि  ॥ ६.६९ ॥
अभ्यङ्गं कुरुते विष्णोर्मध्ये क्षिप्त्वा तु कुङ्कुमम् ।
रोमाञ्चिततनुर्भूत्वा प्रियया सह माधवः ।
प्रीत्या बिभर्ति स्वोत्सङ्गे मन्वन्तरशतं हरिः  ॥ ६.७० ॥

विष्णुधर्मोत्तरे च
गन्धतैलानि दिव्यानि सुगन्धीनि शुचीनि च ।
केशवाय नरो दत्त्वा गन्धर्वैः सह मोदते  ॥ ६.७१ ॥
अथ पञ्चामृतस्नपनम्

ततः शङ्खभृतेनैव क्षीरेण स्नापयेत्क्रमात् ।
दध्ना घृतेन मधुना खण्डेन च पृथक्पृथक् ॥ ६.७२ ॥
पञ्चामृताद्यैः स्नपनं सदा नेच्छन्ति तत्प्रियाः ।
किन्तु तैः कालदेशादिविशेषे कारयन्ति तत् ॥ ६.७३ ॥
अथ तत्परिमाणम्

ब्रह्मपुराणे (?)
देवानां प्रतिमा यत्र घृताभ्यङ्गस्ततो भवेत् ।
पलानि तस्य देयानि श्रद्धया  पञ्चविंशतिः  ॥ ६.७४ ॥
अष्टोत्तरपलशतं देयं च सर्वदा ।
द्वे सहस्रे पलानां तु महास्नाने च सङ्ख्यया  ॥ ६.७५ ॥
दातव्ये येन सर्वासु दिक्षु निर्याति तद्घृतम्  ॥ ६.७६ ॥
। इति।

दुग्धादावपि सङ्ख्येयमेवं ज्ञेया मनीषिभिः ।
पलसङ्ख्या च विज्ञेया याज्ञवल्क्यादिवाक्यतः  ॥ ६.७७ ॥

तथा हि
पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ।
सुवर्णानां च चत्वारः पलमित्यभिधीयते  ॥ ६.७८ ॥
। इति।

किं च
स्नानार्थं सुरभीक्षीरं महिष्याद्यास्तु कुत्सिताः  ॥ ६.७९ ॥

विष्णुधर्मोत्तरे च
शरीरदुःखशमनं मनोदुःखविनाशनम् ।
क्षीरेण स्नपनं विष्णोः क्षीराभोधिप्रदं तथा  ॥ ६.८० ॥

अग्निपुराणे
गवां शतस्य विप्रेभ्यः सम्यग्दत्तस्य यत्फलम् ।
घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानान्न संशयः  ॥ ६.८१ ॥
इन्द्रद्युम्नेन सम्प्राप्ता सप्तद्वीपा वसुन्धरा ।
घृतोदकेन संयुक्ता प्रतिमा स्नापिता किल  ॥ ६.८२ ॥
प्रतिमासं सिताष्टम्यां घृतेन जगतां पतिम् ।
स्नापयित्वा समभ्यर्च्य सर्वपापैः प्रमुच्यते  ॥ ६.८३ ॥
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ।
तत्क्षालयति सन्ध्यायां घृतस्नपनतोषितः  ॥ ६.८४ ॥
येषु क्षीरवहा नद्यो पायसकर्दमाः ।
तान् लोकान् पुरुषा यान्ति क्षीरस्नपनका हरेः  ॥ ६.८५ ॥

विष्णुधर्मे श्रीपुलस्त्यप्रह्लादसंवादे च
द्वादश्यां पञ्चदश्यां च गव्येन हविसा हरेः ।
स्नापनं दैत्यशार्दूल महापातकनाशनम्  ॥ ६.८६ ॥
दध्य्आदीनां विकाराणां क्षीरतः  सम्भवो यथा ।
तथैवाशेषकामानां क्षीरस्नानं ततो हरेः  ॥ ६.८७ ॥

नारसिंहे
पयसा यस्तु देवेशं स्नापयेद्गरुडध्वजम् ।
सर्वपापविशुद्धात्मा विष्णुलोके महीयते  ॥ ६.८८ ॥
स्नाप्य दध्ना सकृद्विष्णुं निर्मलं प्रियदर्शनम् ।
विष्णुलोकमवाप्नोति सेव्यमानः सुरोत्तमः  ॥ ६.८९ ॥
दुःस्वप्नशमनं ज्ञेयममङ्गल्यविनाशनम् ।
माङ्गल्यवृद्धिदं दध्ना स्नपनं नरपुङ्गव  ॥ ६.९० ॥
यः करोति हरेरर्चां मधुना स्नापितां नरः ।
अग्निलोके स मोदित्वा पुनर्विष्णुपुरे वसेत् ॥ ६.९१ ॥
मधुना स्नपनं कृत्वा सौभाग्यमधिगच्छति ।
लोकमित्राण्यवाप्नोति तथैवेक्षुरसेन च  ॥ ६.९२ ॥

श्रीद्वारकामाहात्म्ये च श्रीमार्कण्डेयेन्द्रद्युम्नसंवादे
क्षीरस्नानं प्रकुर्वन्ति ये नरा विष्णुमूर्धनि ।
तेनाश्वमेधजं पुण्यं बिन्दुना बिन्दुना स्मृतम्  ॥ ६.९३ ॥
क्षीराद्दशगुणं दध्ना घृतं तस्माद्दशोत्तरम् ।
घृताद्दशगुणं क्षौद्रं खण्डं तस्माद्दशोत्तरम्  ॥ ६.९४ ॥
पुष्पोदकं च गन्धोदं वर्धते च दशोत्तरम् ।
मन्त्रोदकं च दर्भोदं तथैव नृपसत्तम  ॥ ६.९५ ॥
द्राक्षारसं चूतरसं शतवाजिमखैः समम् ।
तथैव तीर्थनीरं च फलं यच्छति भूमिप  ॥ ६.९६ ॥
स्नापनं कृष्णदेवस्य यः करोति स्वशक्तितः ।
फलमाप्नोति तत्प्रोक्तं निष्कामो मुक्तिमाप्नुयात् ॥ ६.९७ ॥

विष्णुधर्मोत्तरे
तीर्थोदकानि पुण्यानि स्वयमानीय मानवः ।
तैलस्य स्नपनं दत्त्वा सर्वपापैः प्रमुच्यते  ॥ ६.९८ ॥

अथ स्नपने धूपने धूपनमाहात्म्यम्

स्कान्दे
स्नानकाले तु कृष्णस्य अगुरुं दहते तु यः ।
प्रविष्टो नासिकारन्ध्रं पापं जन्मायुतं दहेत् ॥ ६.९९ ॥
उद्वर्तनं च तैलादेरपसारणकारणम् ।
देवस्य कारयेद्द्रव्यैरुपयुक्त्यैरनन्तरम्  ॥ ६.१०० ॥

अथोद्वर्तनं तन्माहात्म्यं च

नारसिंहे
यवगोधूमैश्चूर्णैरुद्वर्त्योष्णेन वारिणा ।
प्रक्षाल्य देवदेवेशं वारुणं लोकमाप्नुयात् ॥ ६.१०१ ॥

विष्णुधर्मोत्तरे च
गोधूमयवचूर्णैस्तु तमुत्साद्य जनार्दनम् ।
लोध्रचूर्णकसङ्कीर्णैर्बलरूपं तथाप्नुयात् ॥ ६.१०२ ॥
मसूरमासचूर्णं च कुङ्कुमक्षोदसंयुतम् ।
निवेद्य देवदेवाय गन्धर्वैः सह मोदते  ॥ ६.१०३ ॥

वाराहे
कलायकस्य चूर्णेन पिष्टचूर्णेन वा पुनः ।
तेनैवोद्वर्तनं कुर्याद्गन्धपुष्पैश्च संयुतम् ।
यदीच्छेत्परमां सिद्धिं मम कर्मपरायणः  ॥ ६.१०४ ॥
। इति।

ततः समर्पयेत्कूर्चमुषीरादिविनिर्मितम् ।
मलापकर्षणाद्य्अर्थं श्रीमन्मूर्त्य्अङ्गसन्धितः  ॥ ६.१०५ ॥

अथ कूर्चं तन्माहात्म्यम्

विष्णुधर्मोत्तरे
उषीरकूर्चकं दत्त्वा सर्वपापैः प्रमुच्यते ।
दत्त्वा गोबालजं कूर्चं सर्वांस्तापान् व्यपोहति ।
दत्त्वा चामरकं कूर्चं श्रियमाप्नोत्यनुत्तमम्  ॥ ६.१०६ ॥

अथ शुद्धजलस्नपनम्

ततः कोष्णेन संस्नाप्य संस्कृतेन सुगन्धिना ।
शीतलेनाम्बुना शङ्खभृतेन स्नापयेत्पुनः  ॥ ६.१०७ ॥

तदुक्तमेकादशस्कन्धे [भागवतम् ११.२७.३०]
चन्दनोशीरकर्पूर कुङ्कुमागुरुवासितैः ।
सलिलैः स्नापयेन्मन्त्रैर्नित्यदा विभवे सति  ॥ ६.१०८ ॥
अथ जलपरिमाणम्

भविष्ये
स्नाने पलशतं देयमभ्यङ्गे पञ्चविंशतिः ।
पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम्  ॥ ६.१०९ ॥

तत्र याज्ञवल्क्यः
न नक्तोदकपुष्पाद्यैरर्चनं स्नानमर्हति  ॥ ६.११० ॥

विष्णुः
न नक्तं गृहीतोदकेन दैवकर्म कुर्यात् ॥ ६.१११ ॥

हारीतः
रात्रावेता आपो वरुणं प्राविशन्त
तस्मान्न रात्रौ गृह्णीयात् ॥ ६.११२ ॥

अथ स्नपनमाहात्म्यम्
नारसिंहे
निर्मालय्मपनीयाथ तोयेन स्नाप्य केशवम् ।
नरसिंहाकृतिं राजन् सर्वपापैः प्रमुच्यते  ॥ ६.११३ ॥
गोदानजं फलं प्राप्य यानेनाम्बरशोभिना ।
नरसिंहपुरं प्राप्य मोदते कालमक्षयम्  ॥ ६.११४ ॥

किं च
स्नाप्य तोयेन भक्त्या तु नरसिंहं नराधिप ।
सर्वपापविनिर्मुक्तो विष्णुलोकं महीयते  ॥ ६.११५ ॥
नरसिंहं तु संस्नाप्य कर्पूरागुरुवारिणा ।
चन्द्द्रलोके स मोदित्वा पश्चाद्विष्णुपुरं वसेत् ॥ ६.११६ ॥

किं च
कुशपुष्पोदकेनापि विष्णुलोकमवाप्नुयात् ।
रत्नोदकेन सावित्रं कौवेरं हेमवारिणा  ॥ ६.११७ ॥

विष्णुधर्मोत्तरे
रत्नोदकप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ।
बीजोदकप्रदानेन क्रियासाफल्यमाप्नुयात् ॥ ६.११८ ॥
पुष्पतोयप्रदानेन श्रीमान् भवति मानवः ।
फलतोयप्रदानेन सफलां विन्दते क्रियाम्  ॥ ६.११९ ॥

हयशीर्षपञ्चरात्रे
सुगन्धिना यस्तोयेन स्नापयेज्जलशायिनम् ।
ब्रह्मलोकमवाप्नोति यावदिन्द्राश्चतुर्दश  ॥ ६.१२० ॥

गारुडे
तुलसीमिश्रतोयेन स्नापयन्ति जनार्दनम् ।
पूजयन्ति च भावेन धन्यास्ते भुवि मानवाः  ॥ ६.१२१।

अग्निपुराणे
महास्नानेन गोविन्दं सम्यक्संस्नाप्य मानवः ।
यं यं प्रार्थयते कामं तं तं प्राप्नोत्यसंशयः  ॥ ६.१२२ ॥

पाद्मे श्रीपुलस्त्यभगीरथसंवादे
स्नानमभ्यर्चनं यस्तु कुरुते केशवे सदा ।
तस्य पुण्यस्य या सङ्ख्या नास्ति सा ज्ञाने गोचरा  ॥ ६.१२३ ॥

विष्णुधर्मोत्तरे
स्नानार्थं देवदेवस्य यस्तु गन्धं प्रयच्छति ।
भवन्ति वशगास्तस्य नार्यः सर्वत्र सर्वदा  ॥ ६.१२४ ॥
पुष्पदानात्तथा लोके भवतीह फलान्वितः ।
दत्त्वा मृगमदस्नानं सर्वान् कामानवाप्नुयात् ॥ ६.१२५ ॥
सर्वौषधिप्रदानेन वाजिमेधफलं लभेत् ।
दत्त्वा जातीफलं मुख्यं सफलां विन्दति क्रियाम्  ॥ ६.१२६ ॥

अथ सर्वौषधिः

मुरा मासी वचा कुष्ठं शैलेयं रजनीद्वयम् ।
शटी चम्पकमुस्तं च सर्वौषधिगणः स्मृतः  ॥ ६.१२७ ॥

गन्धश्चागमे
गन्धश्चन्दनकर्पूरकालागुरुभिरीरितः  ॥ ६.१२८ ॥
अथ शङ्खमाहात्म्यम्

स्कान्दे श्रीब्रह्मनारदसंवादे
शङ्खस्थितेन तोयेन यः स्नापयति केशवम् ।
कपिलाशतदानस्य  फलं प्राप्नोति मानवः  ॥ ६.१२९ ॥
शङ्के तीर्थोदकं कृत्वा यः स्नापयति माधवम् ।
द्वादश्यां बिन्दुमात्रेण कुलानां तारयेच्छतम्  ॥ ६.१३० ॥
कपिलाक्षीरमादाय शङ्खे कृत्वा जनार्दनम् ।
यः स्नापयति धर्मात्मा यज्ञायुतफलं लभेत् ॥ ६.१३१ ॥
अन्यगोसम्भवं क्षीरं शङ्खे कृत्वा तु नारद ।
यः स्नापयति देवेशं राजसूयफलं लभेएत् ॥ ६.१३२ ॥
शङ्खे कृत्वा च पानीयं साक्षतं कुसुमान्वितम् ।
स्नापयेद्देवदेवेशं हन्यात्पापं चिरार्जितम्  ॥ ६.१३३ ॥
साक्षतं कुसुमोपेतं शङ्खे तोयं सचन्दनम् ।
यः कृत्वा स्नापयेद्देवं मम लोके वसेच्चिरम्  ॥ ६.१३४ ॥
क्षिप्त्वा गन्धोदकं शङ्खे यः स्नापयति केशवम् ।
नमो नारायणायेति मुच्यते योनिसङ्कटान्  ॥ ६.१३५ ॥
नाद्यं तडागजं वारि वापीकूपह्रदादिजम् ।
गाङ्गेयं च भवेत्सर्वं कृतं शङ्खे कलिप्रिय  ॥ ६.१३६ ॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ।
शङ्खे तिष्ठन्ति विप्रेन्द्र तस्मात्शङ्खं सदार्चयेत् ॥ ६.१३७ ॥
शङ्खे कृत्वा तु पानीयं सपुष्पं सतिलाक्षतम् ।
अर्घ्यं ददाति देवस्य ससागरधराफलम्  ॥ ६.१३८ ॥
अर्घ्यं दत्त्वा तु शङ्खेन यः करोति प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा  ॥ ६.१३९ ॥
दर्शनेनापि शङ्खस्य किं पुनः स्पर्शने कृते ।
विलयं यान्ति पापानि हिमं सूर्योदये यथा  ॥ ६.१४० ॥
नित्ये नैमित्तिके काम्ये स्नानार्चनविलेपने ।
शङ्खमुद्वहते यस्तु श्वेतद्वीपे वसेच्चिरम्  ॥ ६.१४१ ॥
नत्वा शङ्खं करे धृत्वा मन्त्रेणानेन वैष्णवः ।
यः स्नापयति गोविन्दं तस्य पुण्यमनन्तकम्  ॥ ६.१४२ ॥
मन्त्रः

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
मानितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते  ॥ ६.१४३ ॥
तव नादेन जीमूता वित्रस्यन्ति सुरासुराः ।
शशाङ्कायुतदीप्ताभ पाञ्चजन्य नमोऽस्तु ते  ॥ ६.१४४ ॥
गर्भा देवारिनारीणां विलीयन्ते सहस्रधा ।
तव नादेन पाताले पाञ्चजन्य नमोऽस्तु ते  ॥ ६.१४५ ॥

वाराहे च
दक्षिणावर्तशङ्खेन तिलमिश्रोदकेन च ।
उदके नाभिमात्रे तु यः कुर्यादभिषेचनम्  ॥ ६.१४६ ॥
प्राक्स्रोतसि च नद्यां वै नरस्त्वेकाग्रमानसः ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति  ॥ ६.१४७ ॥
दक्षिणावर्तशङ्खेन पात्रे औडुम्बरे स्थितम् ।
उदकं यः प्रतीच्छेत शिरसा कृष्णमानसः ।
तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति  ॥ ६.१४८ ॥

आगमे
बृहत्त्वं स्निग्धताच्छत्वं शङ्खस्येति गुणत्रयम्  ॥ ६.१४९ ॥
आवर्तभङ्गदोषस्तु हेमयोगान्न जायते ।
नालिकायां स्वभावेन यदि छिद्रं भवेन्नहि  ॥ ६.१५० ॥
। इति।

घण्टावाद्यं च नितरां स्नानकाले प्रशस्यते ।
यतो भगवतो विष्णोस्तत्सदा परमं प्रियम्  ॥ ६.१५१ ॥
आवाहनार्घ्ये धूपे च पुष्पनैवेद्ययोजने ।
नित्यमेतां प्रयुञ्जीत तन्मन्त्रेणाभिमन्त्रिताम्  ॥ ६.१५२ ॥
तन्मन्त्रः

जयध्वनिं ततो मन्त्रमातः स्वाहेत्युदीर्य च ।
अभ्यर्च्य वादयन् घण्टां धूपं नीचैः प्रदापयेत् ॥ ६.१५३ ॥
पूजाकालं विनान्यत्र हितं नास्याः प्रचालनम् ।
न तया च विना कुर्यात्पूजनं सिद्धिलालसः  ॥ ६.१५४ ॥
अथ घण्टामाहात्म्यम्

उक्तं च स्कान्दे श्रीब्रह्मनारदसंवादे
स्नानार्चनक्रियाकाले घण्टानादं करोति यः ।
पुरतो वासुदेवस्य तस्य पुण्यफलं शृणु  ॥ ६.१५५ ॥
वर्षकोटिसहस्राणि वर्षकोटिशतानि च ।
वसते देवलोके तु अप्सरोगणसेवितः  ॥ ६.१५६ ॥
सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया ।
वादनाल्लभते पुण्यं यज्ञकोटिसमुद्भवम्  ॥ ६.१५७ ॥
वादित्रनिनदैस्तूर्यगीतमङ्गलनिस्वनैः ।
यः स्नापयति गोविन्दं जीवन्मुक्तो भवेद्धि सः  ॥ ६.१५८ ॥
वादित्राणामभावे तु पूजाकाले हि सर्वदा ।
घण्टाशब्दो नरैः कार्यः सर्ववाद्यमयी यतः  ॥ ६.१५९ ॥
सर्ववाद्यमयी घण्टा देवदेवस्य वल्लभा ।
तस्मात्सर्वप्रयत्नेन घण्टानादं तु कारयेत् ॥ ६.१६० ॥
मन्वन्तरसहस्राणि मन्वन्तरशतानि च ।
घण्टानादेन देवेशः प्रीतो भवति केशवः  ॥ ६.१६१ ॥

विष्णुधर्मोत्तरे श्रीभगवत्प्रह्लादसंवादे
शृणु दैत्येन्द्र वक्ष्यामि घण्टामाहात्म्यमुत्तमम् ।
प्रह्लाद त्वत्समो नास्ति मद्भक्तो भुवनत्रये  ॥ ६.१६२ ॥
मम नामाङ्किता घण्टा पुरतो मम तिष्ठति ।
अर्चिता वैष्णवगृहे तत्र मां विद्धि दैत्यज  ॥ ६.१६३ ॥
वैनतेयाङ्कितां घण्टां सुदर्शनयुतां यदि ।
ममाग्रे स्थापयेद्यस्तु देहे तस्य वसाम्यहम्  ॥ ६.१६४ ॥
यस्तु वादयते घण्टा वैनतेयेन चिह्निताम् ।
धूपे नीराजनए स्नाने पूजाकाले विलेपने  ॥ ६.१६५ ॥
ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् ।
ममायुतं गोयुतं च चान्द्रायणशतोद्भवम्  ॥ ६.१६६ ॥
विधिबाह्यकृता पूजा सफला जायते नॄणाम् ।
घण्टानादेन तुस्टोऽहं प्रयच्छामि स्वकं पदम्  ॥ ६.१६७ ॥
नागारिचिह्निता घण्टा रथाङ्गेन समन्विता ।
वादनात्कुरुते नाशं जन्ममृत्युभयस्य च  ॥ ६.१६८ ॥
गरुडेनाङ्क्तां घण्टां दृष्ट्वाहं प्रत्यहं  सदा ।
प्रीतिं करोति दैत्येन्द्र लक्ष्मीं प्राप्य यथाधनः  ॥ ६.१६९ ॥
दृष्ट्वामृतं यथा देवाः प्रीतिं कुर्वन्त्यहर्निशम् ।
सुपर्णे च तथा प्रीतिं घण्टाशिखरसंस्थिते  ॥ ६.१७० ॥
स्वकरेण प्रकुर्वन्ति घण्टानादं स्वभक्तितः ।
मदीयार्चनकाले तु फलं कोट्य्ऐन्दवं कलौ  ॥ ६.१७१ ॥

अन्यत्र च
घण्टादण्डस्य शिखरे सचक्रं स्थापयेत्तु यः ।
गरुडं वै प्रियं विष्णोः स्थापितं भुवनत्रयम्  ॥ ६.१७२ ॥
सचक्र घण्टानादं तु मृत्युकाले शृणोति यः ।
पापकोटियुतस्यापि नश्यन्ति यमकिङ्कराः  ॥ ६.१७३ ॥
सर्वे दोषाः प्रलीयन्ते घण्टानादे कृते हरौ ।
देवतानां मुनीन्द्राणां पितॄणामुत्सवो भवेत् ॥ ६.१७४ ॥
अभावे वैनतेयस्य चक्रस्यापि न संशयः ।
घण्टानादेन भक्तानां प्रसादं कुरुते हरिः  ॥ ६.१७५ ॥
गृहे यस्मिन् भवेन्नित्यं घण्टा नागारिसंयुता ।
न सर्पाणां भयं तत्र नाग्निविद्युत्समुद्भवम्  ॥ ६.१७६ ॥
यस्य घण्टा  गृहे नास्ति शङ्खश्च पुरतो हरेः ।
कथं भागवतं नाम गीयते तस्य देहिनः   ॥ ६.१७७ ॥
। इति।

अतो भगवतः प्रीत्यै घण्टा श्रीगरुडान्विता ।
सङ्गृह्या वैष्णवैर्यत्नाच्चक्रेणोपरि मण्डिता  ॥ ६.१७८ ॥
स्नाने शङ्खादिवाद्यां तु नामसङ्कीर्तनं हरेः ।
गीतं नृत्यं पुराणादिपठनं च प्रशस्यते  ॥ ६.१७९ ॥
अथ स्नाने वाद्यादिमाहात्म्यम्

स्कन्दपुराणे
स्नानकाले तु कृष्णस्य शङ्खादीनां तु वादनम् ।
कुरुते ब्रह्मलोके तु वसते ब्रह्मवासरम्  ॥ ६.१८० ॥
स्नानकाले तु सम्प्राप्ते कृष्णस्याग्रे तु नर्तनम् ।
गीतं चैव पुनात्यत्र ऋचोक्तं वदनेन हि  ॥ ६.१८१ ॥

तत्रैव श्रीब्रह्मनारदसंवादे
मृदङ्गवाद्येन युतं पणवेन समन्वितम् ।
अर्चनं वासुदेवस्य सनृत्यं मोक्षदं नॄणाम्  ॥ ६.१८२ ॥
गीतं वाद्यं च नृत्यं च तथा पुस्तकवाचनम् ।
पूजाकाले तु कृष्णस्य सर्वदा केशवप्रियम्  ॥ ६.१८३ ॥
नृत्यवाद्याद्य्अभावे तु कुर्यात्पुस्तकवाचनम् ।
पूजाकाले त्विदं पुत्र सर्वदा प्रीतिदायकम्  ॥ ६.१८४।
पुस्तकस्याप्यभावे तु विष्णुनामसहस्रकम् ।
स्तवराजं मिनिश्रेष्ठ गजेन्द्रस्य च मोक्षणम्  ॥ ६.१८५ ॥
पूजाकाले तु देवस्य गीतास्तोत्रमनुस्मृतिः ।
पञ्चस्तअवा महाभाग महाप्रीतिकरा हरेः  ॥ ६.१८६ ॥
विहाय गीतवाद्यानि पूजाकाले सदा हरेः ।
पठनीयं महाभक्त्या विष्णोर्नामसहस्रकम्  ॥ ६.१८७ ॥

द्वारकामाहात्म्ये
स्नानकाले तु कृष्णस्य जयशब्दं करोति यः ।
करताडनसंयुक्तं गीतं नृत्यं प्रकुर्वते  ॥ ६.१८८ ॥
उन्मत्तचेष्टां कुर्वाणो हसन् जल्पन् यथेच्छया ।
नोत्तानशायी भवति मातुरङ्के नरेश्वर  ॥ ६.१८९ ॥
अथ सहस्रनाममाहात्म्यम्

तत्रैव
स्नानकाले तु देवस्य पठेन्नामसहस्रकम् ।
प्रत्यक्सरं लभेत्पुण्यं कपिलागोशतोद्भवम्  ॥ ६.१९० ॥

विष्णुधर्मोत्तरे
कृत्वा नामसहस्रेण स्तुतिं तस्य महात्मनः ।
वियोगमाप्नोति  नरः सर्वानर्थैर्न संशयः  ॥ ६.१९१ ॥

स्कान्दे श्रीब्रह्मनारदसंवादे
विष्णोर्नामसहस्रं तु पूजाकाले पठन्ति ये ।
वेदानां चैव पुण्यानां फलमाप्नोति मानवः  ॥ ६.१९२ ॥
श्लोकेनैकेन देवर्षे सहस्रनामकस्य यत् ।
पठितेन फलं प्रोक्तं न तत्क्रतुशतैरपि  ॥ ६.१९३ ॥
मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं हरेः ।
परिपूर्णं भवेत्सर्वं सहस्रनामकीर्तनात् ॥ ६.१९४ ॥

किं च
ज्ञानाज्ञानकृतं पापं पठित्वा विष्णुसन्निधौ ।
नाम्नां सहस्रं विष्णोस्तु प्रजहाति महारुजम्  ॥ ६.१९५ ॥
ब्रह्महत्यादिपापानि कामचारकृतान्यपि ।
विलयं यान्ति वै नूनमन्यपापे तु का कथा  ॥ ६.१९६ ॥
सिद्ध्यन्ति सर्वकार्याणि मनसा चिन्तितानि च ।
यः पठेत्प्रातरुत्थाय विष्णोर्नामसहस्रकम्  ॥ ६.१९७ ॥

तत्रैव श्रीकृष्णार्जुनसंवादे
अधीतास्तेन वै वेदाः सुराः सर्वसमर्चिताः ।
नाम्नां सहस्रं योऽधीते मुक्तिस्तस्य करे स्थिता  ॥ ६.१९८ ॥
कुर्वत्पापसहस्राणि भुञ्जानोऽपि यतस्ततः ।
पठेन्नामसहस्रस्तु दुर्गन्धं न स पश्यति  ॥ ६.१९९ ॥
मुक्त्वा नामसहस्रस्तु नान्यो धर्मोऽस्ति कश्चन ।
कलौ प्राप्ते गुडाकेश सत्यमेतन्मयेरितम्  ॥ ६.२०० ॥
यज्ञैर्दानैस्तपभिश्च स्तवैः प्रीतिर्न मेऽर्जुन ।
सन्तुष्टिस्तु न चान्येन विना नामसहस्रकम्  ॥ ६.२०१ ॥
स्तवं नामसहस्राख्यं ये न जानन्ति वै कलौ ।
भ्रमन्ति ते नर्¸अ लोके सर्वधर्मबहिष्कृताः  ॥ ६.२०२ ॥
स्तवं नामसहस्राख्यं लिखितं यस्य वेश्मनि ।
पूज्यते मम सान्निध्ये पूजां गृह्णामि तस्य वै  ॥ ६.२०३ ॥
यस्मिन्नामसहस्रं मे गृहे तिष्ठति सर्वदा ।
लिखितं पाण्डवश्रेष्ठ तत्र नो विशते कलिः  ॥ ६.२०४ ॥
तस्मात्त्वमपि कौन्तेय मद्भक्तो मन्मना भव ।
पठन्नामसहस्रं मे सर्वान् कामानवाप्स्यसि  ॥ ६.२०५ ॥
अहमाराधितः पूर्वं ब्रह्मणा लोककर्तृणा ।
ततो नामसहस्रं मे प्राप्तं लोकहितं परम्  ॥ ६.२०६ ॥
नारदेन ततः पूर्वं प्राप्तं च परमेष्ठिनः ।
नारदेन ततः प्रोक्तवृषीणामूर्ध्वरेतसाम्  ॥ ६.२०७ ॥
ऋषिभिस्तु महाबाहो देवलोके प्रकाशितम् ।
मर्त्यलोके मनुष्याणां व्यासेन परिभाषितम्  ॥ ६.२०८ ॥
तपसोग्रेण महता शङ्करेण महात्मना ।
मत्प्रसादादनुप्राप्तं गुह्यानामुत्तमोत्तमम्  ॥ ६.२०९ ॥
दत्तं भवान्यै रुद्रेण नाम्नां मे हि सहस्रकम् ।
विश्रुतं त्रिषु लोकेषु मया ते परिकीर्तितम्  ॥ ६.२१० ॥
अशेषार्तिहरं पार्थ मम नामसहस्रकम् ।
सद्यः प्रीतिकरं पुण्यं सुराणाममृतं यथा  ॥ ६.२११ ॥
अष्टादशपुराणानां सारेमेतद्धनञ्जय ।
मयोद्धृत्य समाख्यातं तव नामसहस्रकम्  ॥ ६.२१२ ॥
सहस्रनाममाहात्म्यं देवो जानाति शङ्करः ।
सहस्रनाममाहात्म्यं यः पठेच्छृणुयादपि ।
अपराधसहस्रेण न स लिप्येत्कदाचन  ॥ ६.२१३ ॥

अथ श्रीभगवद्गीतामाहात्म्यम्

स्कान्दे अवन्तीखण्डे श्रीव्यासोक्तौ
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता  ॥ ६.२१४ ॥
सर्वशास्त्रमयी गीता सर्वदेवमयी यतः ।
सर्वधर्ममयी यस्मात्तस्मादेतां समभ्यसेत् ॥ ६.२१५ ॥
शालग्रामशिलाग्रे तु गीताध्यायं पठेत्तु यः ।
मन्वन्तरसहस्राणि वसते ब्रह्मणः पुरे  ॥ ६.२१६ ॥
हत्वा हत्वा जगत्सर्वं मुषित्वा सचराचरम् ।
पापैर्न लिप्यते चैव गीताध्यायी कथञ्चन  ॥ ६.२१७ ॥
तेनेष्टं क्रतुभिः सर्वैर्दत्तं तेन गवायुतम् ।
गीतामभ्यस्यता नित्यं तेनाप्तं पदमव्ययम्  ॥ ६.२१८ ॥
गीताध्यायं पठेद्यस्तु श्लोकं श्लोकार्धमेव वा ।
भवपापविनिर्मुक्तो याति विष्णोः परं पदम्  ॥ ६.२१९ ॥
यो नित्यं विश्वरूपाख्यमध्यायं पठति द्विजः ।
विभूतिं देवदेवस्य तस्य पुण्यं वदाम्यहम्  ॥ ६.२२० ॥
वेदैरधीतैर्यत्पुण्यं सेतिहासैः पुरातनैः ।
श्लोकेनैकेन तत्पुण्यं लभते नात्र संशयः  ॥ ६.२२१ ॥
आब्रह्मस्तम्बपर्यन्तं जगत्तृप्तिं करोति सः ।
विश्वरूपं सदाध्यायं विभूतिं च पठेत्तु यः  ॥ ६.२२२ ॥
अहन्यहनि यो मर्त्यो गीताध्यायं पठेत्तु वै ।
द्वात्रिंशद्अपराधांस्तु क्षमते तस्य केशवः  ॥ ६.२२३ ॥
लिखित्वा वैष्णवानां च गीताशास्त्रं प्रयच्छति ।
दिने दिने च यजते हरिं चात्र न संशयः  ॥ ६.२२४ ॥
चतुर्णामेव वेदानां सारमुद्धृत्य विष्णुना ।
त्रैलोक्यस्योपकाराय गीताशास्त्रं प्रकाशितम्  ॥ ६.२२५ ॥
भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःसृतम् ।
गीतागङ्गोदकं पीत्वा पुनर्जन्म न विद्यते  ॥ ६.२२६ ॥
धर्मं चार्थं च कामं च मोक्षं चापीच्छता सदा ।
श्रोतव्या पठनीया च गीता कृष्णमुखोद्गता  ॥ ६.२२७ ॥
यो नरः पठते नित्यं गीताशास्त्रं दिने दिने ।
विमुक्तः सर्वपापेभ्यो याति विष्णोः परं पदम्  ॥ ६.२२८ ॥

अथ पुराणपाठादिमाहात्म्यम्

पाद्मे देवदूतविकुण्डलसंवादे [ড়द्मড়् ३.३१.९४९६]
विचारयन्ति ये शास्त्रं वेदाभ्यासरताश्च ये ।
पुराणं संहितां ये च श्रावयन्ति पठन्ति च  ॥ ६.२२९ ॥
व्याकुर्वन्ति स्मृतिं ये च ये धर्मप्रतिबोधकाः ।
वेदान्तेषु निषण्णा ये तैरियं जगती धृता  ॥ ६.२३० ॥
तत्तद्अभ्यासमाहात्म्यैः सर्वे ते हतकिल्बिषाः ।
गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते  ॥ ६.२३१ ॥

तत्रैव श्रीशिवोमासंवादे
अन्तं गतोऽपि वेदानां सर्वशास्त्रार्थवेद्यपि ।
पुंसोऽश्रुतपुराणस्य न सम्यग्गतिदर्शनम्  ॥ ६.२३२ ॥
वेदार्थादधिकं मन्ये पुराणार्थं च भामिनि ।
पुराणमन्यथा कृत्वा तिर्यग्योनिमवाप्नुयात् ॥ ६.२३३ ॥

बृहन्नारदीये च [णार्ড়् १.१.५७, ?, ६०६१]
पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः ।
तैरर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः  ॥ ६.२३४ ॥
पुराणेषु द्विजश्रेष्ठाः सर्वधर्मप्रवक्तृषु ।
प्रवदन्त्यर्थवादत्वं ये ते नरकभाजनाः  ॥ ६.२३५ ॥
अनायासेन यः पुण्यानीच्छतीह द्विजोत्तमाः ।
श्रोतव्यानि भक्त्या तेनैव पुराणानि न संशयः  ॥ ६.२३६ ॥
पुरार्जितानि पापानि नशमायान्ति तस्य वै ।
पुराणश्रवणे बुद्धिस्तस्यैव भवति ध्रुवम्  ॥ ६.२३७ ॥

किं च
पुराणे वर्तमानेऽपि पापपाशेन यन्त्रितः ।
अनादृत्यान्यगाथासु सक्तबुद्धिः प्रवर्तते  ॥ ६.२३८ ॥

अथ वस्त्रार्पणम्

स्नानमुद्रां प्रदर्श्याथ शुद्धसूक्ष्माङ्गवाससा ।
शनैः संमार्ज्य गात्राणि दिव्ये वस्त्रे समर्पयेत् ॥ ६.२३९ ॥
मध्यदेशीयनेपथ्याद्य्अनुसारेण भक्तितः ।
केऽप्यत्र कञ्चुकोस्णीषाद्य्अम्बराण्यर्पयन्ति च  ॥ ६.२४० ॥
तथा च मत्स्ये
तत्तद्देशीयभूषाढ्यां तत्तन्मूर्तिं च कारयेत् ॥ ६.२४१ ॥

एकादशस्कन्धे [भागवतम् ११.२७.३२]
अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम्  ॥ ६.२४२ ॥

भविष्ये च
वासोभिः पूजयेद्विष्णुं य्न्येवात्मप्रियाणि तु ।
तथान्यैश्च शुभिअर्दिव्यैरर्चयेच्च दुकूलैः  ॥ ६.२४३ ॥
वासांसि च विचित्राणि सारवन्ति शुचीनि च ।
धूपितानि हरेर्दद्यात्विकेशानि नवानि च  ॥ ६.२४४। ॥
भूषयेद्बहुभिर्वस्त्रैर्विचित्रैः कञ्चुकादिभिः ।
भोगानन्तरमेवेति बहूनां सम्मतं सताम्  ॥ ६.२४५ ॥

अथ श्रीमद्अङ्गमार्जनमाहात्म्यम्

द्वारकामाहात्म्ये
कृष्णं स्नानार्द्रगात्रं तु वस्त्रेण परिमार्जति ।
तस्य लक्षार्जितस्यापि भवेत्पापस्य मार्जनम्  ॥ ६.२४६ ॥
अथ वस्त्रार्पणमाहात्म्यम्

नारसिंहे
वस्त्राभ्यामच्युतं भक्त्या परिधाप्य विचित्रितम् ।
सोमलोके वसित्वा तु विष्णुलोके महीयते  ॥ ६.२४७ ॥

स्कान्दे श्रीशिवोमासंवादे
वस्त्राणि सुपवित्राणि सारवन्ति मृदूनि च ।
रूपवन्ति हरेर्दत्त्वा सदशानि नवानि च  ॥ ६.२४८ ॥
यावद्वस्त्रस्य तन्तुना परिमाणं भवत्यथ ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते  ॥ ६.२४९ ॥

विष्णुधर्मोत्तरे [३.३४१.१७६१७८]
राङ्कवस्य प्रदानेन सर्वान् कानामवाप्नुयात् ।*
कार्पासिकं वस्त्रयुगं यः प्रदद्याज्जनार्दने  ॥ ६.२५० ॥
यावन्ति तस्य तन्तूनि हस्तमात्रमितानि तु ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते  ॥ ६.२५१ ॥
महार्घता यथा तस्य साधुदेशोद्भवो यथा ।
सूक्ष्मता च यथा विप्रास्तथा प्रोक्तं फलं महत् ॥ ६.२५२ ॥

किं च तत्रैवान्यत्र [३.३४१.१७९१८५]
शुक्लवस्त्रप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ।
महारजनरक्तेन सौभाग्यं महदश्नुते  ॥ ६.२५३ ॥
तथा कुङ्कुमरक्तेन स्त्रीणां वल्लभतां व्रजेत् ।
नीलीरक्तं विना रक्तं शेषरङ्गैर्द्विजोत्तमाः ।
दत्त्वा भवति धर्मात्मा सर्वव्याधिविवर्जितः  ॥ ६.२५४ ॥
कौशेयानि च वस्त्राणि सुमृदूनि लघूनि च ।
यः प्रयच्छति देवाय सोऽश्वमेधफलं लभेत् ॥ ६.२५५ ॥
राङ्कवा मृगलोम्याश्च कदल्याश्च तथा शुभा ।
यो दद्याद्देवदेवाय सोऽश्वमेधफलं लभेत् ॥ ६.२५६ ॥
नानाभक्तिविचित्राणि चीरजानि नवानि च ।
दत्त्वा वासांसि शुभ्राणि राजसूयफलं लभेत् ॥ ६.२५७ ॥

द्वारकामाहात्म्ये च
नानादेशसमुद्भूतैः सुवस्त्रैश्च सुकोमलैः ।
धूपयित्वा सुभक्त्या च प्रधापयति माधवम् ।
मन्वन्तराणि वसते तन्तुसंख्यं हरेर्गृहे  ॥ ६.२५८ ॥
अथ वस्त्रार्पणे निषिद्धम्

विष्णुधर्मोत्तरे
नीलीरक्तं तथा जीर्णं वस्त्रमन्यधृतं तथा ।
देवदेवाय यो दद्यात्स तु पापैर्हि युज्यते  ॥ ६.२५९ ॥
अत्रापवादः

तत्रैव
आविके पट्टवस्त्रे च नीलीरागो न दुष्यति  ॥ ६.२६० ॥

अथ यज्ञोपवीतम्

वस्त्रस्यार्पणमुद्रां च प्रदर्श्य परिधाप्य तत् ।
उपवीतं समार्प्याथ तन्मुद्रां च प्रदर्शयेत् ॥ ६.२६१ ॥

अथोपवीतार्पणमाहात्म्यम्

त्रिवृत्शुक्लं च पीतं च पट्टसूत्रादिनिर्मितम् ।
यज्ञोपवीतं गोविन्दे दत्त्वा वेदान्तगो भवेत् ॥ ६.२६२ ॥

नन्दिपुराणे
यज्ञोपवीतदानेन सुरेभ्यो ब्राह्मणाय वा ।
भवेद्विद्वांश्चतुर्वेदी शुद्धधीर्नात्र संशयः  ॥ ६.२६३ ॥
अथ पाद्यतिलकाचमनानि

अथ पाद्यं निवेद्यादावूर्ध्वपुण्ड्रं मनोहरम् ।
निर्माय भाले कृष्णस्य दद्यादाचमनं ततः  ॥ ६.२६४ ॥
अथ भूषणम्

ततो देवाय दिव्यानि भूषणानि निवेद्य च ।
परिधाप्य यथायुक्तं तन्मुद्रां च प्रदर्शयेत् ॥ ६.२६५ ॥
अथ भूषणार्पणमाहात्म्यम्

स्कान्दे शिवोमासंवादे
मणिमौक्तिकसंयुक्तं दत्त्वाभरणमुत्तमम् ।
स्वशक्त्या भूषणं दत्त्वा अग्निष्टोमफलं लभेत् ॥ ६.२६६ ॥

किं च
गुञ्जामात्रं सुवर्णस्य यो दद्याद्विष्णुमूर्धनि ।
इन्द्रस्य भवने तिष्ठेद्यावदाहूतसम्प्लवम्  ॥ ६.२६७ ॥
तस्मादाभरणं देवि दातव्यं विष्णवे सदा ।
नारायणो भवेत्प्रीतो भक्त्या परमया मुभे  ॥ ६.२६८ ॥

नन्दिपुराणे
अलङ्कारं तु यो दद्याद्विप्रायाथ सुराय वा ।
स गच्छेद्वारुणं लोकं नानाभरणभूषितः ।
जातः पृथिव्यां काएन भवेद्द्वीपपतिर्नृपः  ॥ ६.२६९ ॥

विष्णुधर्मोत्तरे
कर्णाभरणदानेन भवेच्छ्रुतिधरो नरः ।
अश्वमेधमवाप्नोति सौभाग्यं चापि विन्दति  ॥ ६.२७० ॥
कर्णपूरप्रदानेन श्रुतिं सर्वत्र विन्दति  ॥ ६.२७१ ॥
मूर्धाभरणदानेन भूर्धन्यो भूतले भवेत् ।
चतुःसमुद्रवलयां प्रशास्ति च वसुन्धराम्  ॥ ६.२७२ ॥

तत्रैव तृतीयखण्डे
विभूषणप्रदानेन मूर्धन्यो भूतले भवेत् ।
रम्याणि रत्नचित्राणि सौर्वर्णानि द्विजोत्तमाः  ॥ ६.२७३ ॥
दत्त्वाभरणजातानि राजसूयफलं लभेत् ।
पादाङ्गुलीयदानेन गुह्यकाधिपतिर्भवेत् ॥ ६.२७४ ॥
पादाभरणदानेन स्थानं सर्वत्र विन्दति  ॥ ६.२७५ ॥
श्रोणीसूत्रप्रदानेन महीं सागरमेखलाम् ।
प्रशास्ति निहतामित्रो नात्र कार्या विचारणा  ॥ ६.२७६ ॥
सौभाग्यं महदाप्नोति किङ्किणीं प्रददद्धरेः ।
हस्ताङ्गुलीयदानेन परं सौभाग्यमाप्नुयात् ॥ ६.२७७ ॥
तथैवाङ्गददानेन राजा भवति भूतले ।
केयूरदानाद्भवति शतुर्पक्षक्षयङ्करः  ॥ ६.२७८ ॥
ग्रैवेयकाणि दत्त्वा च सर्वशास्त्रार्थविद्भवेत् ।
नार्यश्च वशगास्तस्य भवति द्विजपुङ्गवाः  ॥ ६.२७९ ॥
दत्त्वा प्रतिसरान्मुख्यान्न भूतैरभिभूयते  ॥ ६.२८० ॥

किं च तत्रैव
कृत्रिमं च प्रदातव्यं तथैवाभरणं दिव्जाः ।
प्रतिरूपकृतं दत्त्वा क्षिप्रं पुष्ट्या प्रयुज्यते  ॥ ६.२८१ ॥

पाद्मे
शङ्खचक्रगदादीनि पादाद्य्अवयवेषु च ।
सौवर्णाभरणं कृत्वा विष्णुलोके महीयते  ॥ ६.२८२ ॥

नारसिंहे
सुवर्णाभरणैर्दिव्यैर्हारकेयूरकुण्डलैः ।
मुकुटैः कटकाद्यैश्च यो विष्णुं पूजयेन्नरः  ॥ ६.२८३ ॥
सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः ।
इन्द्रलोके वसेद्धीमान् यावदिन्द्रश्चतुर्दश  ॥ ६.२८४ ॥

गरुडपुराणे
यस्यार्चा तिष्ठते विष्णोर्हेमभूषणभूषिता ।
रत्नैर्मुक्ताविशेषेण अहन्यहनि वासव  ॥ ६.२८५ ॥
कल्पकोटिसहस्राणि तस्य वै भुवने हरेः ।
वासो भवति देवेन्द्र कथितं ब्रह्मणा मम  ॥ ६.२८६ ॥
यः पश्यति नरः कृष्णं हेमभूषणभूषितम् ।
सकृद्भक्त्या कलौ शक्र पुनात्यासप्तमं कुलम्  ॥ ६.२८७ ॥
। इति।

बहुलं भूषणं भोगात्पश्चादेवानुलेपनम् ।
पुष्पं चेच्छन्ति सन्तोऽनुलेपनार्चानुभूषणम्  ॥ ६.२८८ ॥
सम्प्रार्थ्याथ प्रभुं प्राग्वत्निवेद्य शुचिपादुके ।
वाद्यगीतातपत्रान्यैः पूजास्थानं पुनर्नयेत् ॥ ६.२८९ ॥
प्राग्वद्दत्त्वासनादीनि गन्धं तन्मुद्रयार्पयेत् ।
शङ्खे निधाय तुलसीदलेनैवाथ चन्दनम्  ॥ ६.२९० ॥
अथ गन्धः
आगमे
चन्दनागुरुकर्पूरपङ्कं गन्धमिहोच्यते  ॥ ६.२९१ ॥

गारुडे
कस्तूरिकाया द्वौ भागौ चत्वारश्चन्दनस्य तु ।
कुङ्कुमस्य त्रयश्चैकः शशिनः स्याच्चतुःसमम्  ॥ ६.२९२ ॥
कर्पूरं चन्दनं दर्पः कुङ्कुमं च चतुःसम ।
सर्वं गन्धमिति प्रोक्तं समस्तसुरवल्लभम्  ॥ ६.२९३ ॥
वाराहे
कर्पूरं कुङ्कुमश्चैव वरं तगरमेव च ।
रस्यं च चन्दनं चैव अगुरुं गुग्गुलं तथा ।
एतैर्विलेपनं दद्यात्शुभं चारु विचक्षणः  ॥ ६.२९४ ॥

विष्णुधर्मोत्तराग्निपुराणयोः
सुगन्धैश्च मुरामांसीकर्पूरागुरुचन्दनैः ।
तथान्यैश्च शुभैर्द्रव्यैरर्चयेज्जगतीपतिम्  ॥ ६.२९५ ॥

वशिष्ठसंहितायाम्
कर्पूरागुरुमिश्रेण चन्दनेनानुलेपयेत् ।
मृगदर्पं विशेषेण अभीष्टं चक्रपाणिनः  ॥ ६.२९६ ॥

स्कान्दे श्रीब्रह्मनारदसंवादे
गन्धेभ्यश्चन्दनं पुण्यं चन्दनादगुरुर्वरः ।
कृष्णागुरुस्ततः श्रेष्ठः कुङ्कुमं तु ततोऽधिकम्  ॥ ६.२९७ ॥

विष्णुधर्मोत्तरे
न दातव्यं द्विजश्रेष्ठ अतोऽन्यदनुलेपनम् ।
अनुलेपनमुख्यं तु चन्दनं परिकीर्तितम्  ॥ ६.२९८ ॥

नारदीये
यथा विष्णोः सदाभीष्टं नैवेद्यं शालिसम्भवम् ।
शुकेनोक्तं पुराणे च तथा तुलसिचन्दनम्  ॥ ६.२९९ ॥

अगस्त्यसंहितायां च
संघृष्य तुलसीकाष्ठं यो दद्याद्राममूर्धनि ।
कर्पूरागुरुकस्तूरीकुङ्कुमं न च तत्समम्  ॥ ६.३०० ॥

अथानुलेपनमाहात्म्यम्

स्कान्दे ब्रह्मनारदसंवादे शङ्खमाहात्म्ये
विलेपयन्ति देवेशं शङ्खे कृत्वा तु चन्दनम् ।
परमात्मा परां प्रीतिं करोति शत्वार्षिकीम्  ॥ ६.३०१ ॥

गारुडे
तुलसीदललग्नेन चन्दनेन जनार्दनम् ।
विलेपयन्ति यो नित्यं लभते वाञ्छितं फलम्  ॥ ६.३०२ ॥

नारसिंहे
कुङ्कुमागुरुश्रीखण्डकर्दमैरच्युताकृतिम् ।
विलिप्य भक्त्या  राजेन्द्र कल्पकोटिं वसेद्दिवि  ॥ ६.३०३ ॥

विष्णुधर्मोत्तराग्निपुराणयोः
चन्दनागुरुकर्पूरकुङ्कुमोशीरपद्मकैः ।
अनुलिप्तो हरिर्भक्त्या वरान् भोगान् प्रयच्छति  ॥ ६.३०४ ॥
कालेयकं तुरुष्कं च रक्तचन्दनमुत्तमम्  ॥ ६.३०५ ॥
नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तम  ॥ ६.३०६ ॥

विष्णुधर्मोत्तरे
चन्दनेनानुलेप्यैनं चन्द्रलोक अवाप्नुयात् ।
शारीरैर्मानसैर्दुःखैस्तथैव च विमुच्यते  ॥ ६.३०७ ॥
कुङ्कुमेनानुलेप्यैनं सूर्यलोके महीयते ।
सौभाग्यमुत्तमं लोके तथा प्राप्नोति मानवः  ॥ ६.३०८ ॥
कर्पूरेणानुल्पियैनं वारुणं लोकमाप्नुयात् ।
शारीरैर्मानसैर्दुःखैस्तथैव च विमुच्यते  ॥ ६.३०९ ॥
दत्त्वा मृगमदं मुख्यं यशसा च विराजते ।
दत्त्वा जातफलक्षोदं क्रियासाफल्यमश्नुते  ॥ ६.३१० ॥
रम्येणागुरुसारेण अनुलिप्य जनार्दनम् ।
सौभाग्यमतुलं लोके बलं प्राप्नोति चोत्तमम्  ॥ ६.३११ ॥
तथा बकुलनिर्यासैरग्निष्टोमफलं लभेत् ।
बकुलागुरुमिश्रेण चन्दनेन सुगन्धिना ।
समालिप्य जगन्नाथं पुण्डरीकफलं लभेत् ॥ ६.३१२ ॥
एकीकृत्य तु सर्वाणि समालिप्य जनार्दनम् ।
अश्वमेधस्य मुख्यस्य फलं प्राप्नोत्यसंशयम्  ॥ ६.३१३ ॥
योऽनुलिम्पेत देवेशं कीर्तितैरनुलेपनैः ।
पार्थिवाद्यानि यावन्ति परमाणूनि तत्र वै  ॥ ६.३१४ ॥
तावदब्दानि लोकेषु कामचारी भवत्यसौ ।
केशसौगन्ध्यजननं कृत्वा मृगमदं नरः  ॥ ६.३१५ ॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते  ॥ ६.३१६ ॥
यः प्रयच्छति गन्धानि गन्धयुक्तीकृतानि च ।
गन्धर्वत्वं ध्रुवं तस्य सौभाग्यं तथोत्तमम्  ॥ ६.३१७ ॥
अथ श्रीतुलसीकाष्ठचन्दनमाहात्म्यम्

गारुडे श्रीनारदधुन्धुमारनृपसंवादे
यो ददाति हरेर्नित्यं तुलसीकाष्ठचन्दनम् ।
युगानि वसते स्वर्गे ह्यनन्तानि नरोत्तम  ॥ ६.३१८ ॥
महाविष्णौ कलौ भक्त्या दत्त्वा तुलसीचन्दनम् ।
योऽर्चयेन्मालतीपुष्पैर्न भूयस्तनपो भवेत् ॥ ६.३१९ ॥
तुलसीकाष्ठसम्भूतं चन्दनं यच्छतो हरेः ।
निर्दहेत्पातकं सर्वं पूर्वजन्मशतैः कृतम्  ॥ ६.३२० ॥
सर्वेषामपि देवानां तुलसीकाष्ठचन्दनम् ।
पितॄणां च विशेषेण सदाभीष्टं हरेर्यथा  ॥ ६.३२१ ॥
मृत्युकाले तु सम्प्राप्ते तुलसीकाष्ठचन्दनम् ।
भवते यस्य देहे तु हरिर्भूत्वा हरिं व्रजेत् ॥ ६.३२२ ॥
तावन्मलयजं विष्णोर्भाति कृष्णागुरुर्नृप ।
यावन्न दृश्यते पुण्यं तुलसीकाष्ठचन्दनम्  ॥ ६.३२३ ॥
तावत्कस्तूरिकामोदः कर्पूरस्य सुगन्धिना ।
यावन्न दीयते विष्णोस्तुलसीकाष्ठचन्दनम्  ॥ ६.३२४ ॥
कलौ यच्छन्ति ये विष्णौ तुलसीकाष्ठचन्दनम् ।
धुन्धुमार न वै मर्त्याः पुनरायान्ति ते भुवि  ॥ ६.३२५ ॥
यो हि भागवतो भूत्वा कलौ तुलसीचन्दनम् ।
नार्पयति सदा विष्णोर्न स भागवतो नरः  ॥ ६.३२६ ॥

प्रह्लादसंहितायां
न तेन सदृशो लोके वैष्णवो विद्यते भुवि ।
यः प्रयच्छति कृष्णाय तुलसीकाष्ठचन्दनम्  ॥ ६.३२७ ॥
तुलसीदारुजातेन चन्दनेन कलौ नरः ।
विलिप्य भक्तितो विष्णुं रमते सन्निधौ हरेः  ॥ ६.३२८। ॥
तुलसीकाष्ठजातेन चन्दनेन विलेपनम् ।
यः कुर्याद्विष्णुतोषाय कपिलागोफलं लभेत् ॥ ६.३२९ ॥
तुलसीकाष्ठसम्भूतं चन्दनं यस्तु सेवते ।
मृत्युकाले विशेषेण कृतपापोऽपि मुच्यते  ॥ ६.३३० ॥
यो ददाति पितॄणां तु तुलसीकाष्ठचन्दनम् ।
तेषां स कुरुते तृप्तिं श्राद्धे वै शतवार्षिकीम्  ॥ ६.३३१ ॥

विष्णुधर्मोत्तरे च
तुलसीचन्दनाक्ताङ्गः कुरुते कृष्णपूजनम् ।
पूजनेन दिनैकेन लभते शतवार्षिकीम्  ॥ ६.३३२ ॥
विलेपनार्थं कृष्णस्य तुलसीकाष्ठचन्दनम् ।
मन्दिरे वसते यस्य तस्य पुण्यफलं शृणु  ॥ ६.३३३ ॥
तिलप्रस्थाष्टकं दत्त्वा यत्पुण्यं चोत्तरायणे ।
तत्तुल्यं जायते पुण्यं प्रसादाच्चक्रपाणिनः  ॥ ६.३३४ ॥
। इति।

देयं मलयजाभावे शीतलत्वात्कदम्बजम् ।
यथा किञ्चित्सुगन्धित्वाच्चन्दनं देवदारुजम्  ॥ ६.३३५ ॥

गारुडे
हरेर्मलयजं श्रेष्ठमभावे देवदारुजम्  ॥ ६.३३६ ॥
अथानुलेपे निषिद्धानि

विष्णुधर्मोत्तरे
दारिद्र्यं पद्मकं कुर्यादस्वास्थ्यं रक्तचन्दनम् ।
उशीरं चित्तविभ्रंशमन्ये कुर्युरुपद्रवम्  ॥ ६.३३७ ॥
। इति।

पद्मकादि न दातव्यमैहिकं हीच्छता सुखम् ।
मुख्यालाभे तु तत्सर्वं दातव्यं भगवत्परैः  ॥ ६.३३८ ॥
ततो भगवतः कुर्यादनुलेपादनन्तरम् ।
विद्वान् विचित्रैर्व्यजनैश्चामरैरपि वीजनम्  ॥ ६.३३९ ॥
वीजनमाहात्म्यं च
विष्णुधर्मोत्तरे
अनुलिप्य जगन्नाथं तालवृन्तेन वीजयेत् ।
वायुलोकमवाप्नोति पुरुषस्तेन कर्मणा  ॥ ६.३४० ॥
चामरैर्वीजयेद्यस्तु देवदेवं जनार्दनम् ।
तिलप्रस्थप्रदानस्य फलमाप्नोत्यसंशयम्  ॥ ६.३४१ ॥
व्यजनेनाथ वस्त्रेण सुभक्त्या मातरिश्वन ।
देवदेवस्य राजेन्द्र कुरुते तापवारणम्  ॥ ६.३४२ ॥
तत्कुले यमलोके तु शमते नारको दरः ।
वायुलोकान्महीपाल न च्युतिर्विद्यते पुनः  ॥ ६.३४३ ॥
चलच्चामरवातेन कृष्णं सन्तोषयेन्नरः  ॥ ६.३४४ ॥
तस्योत्तमाङ्गं देवेश स्तुवते स्वमुखेन वै ।
उष्णकाले त्विदं ज्ञेयं यत्सन्तः पौषमाघयोः ।
शीतलत्वान्मलयजमपि नैवार्पयन्ति हि  ॥ ६.३४५ ॥
तथा चोक्तम्
न शीते शीतलं देयम्  ॥ ६.३४६ ॥
। इति।
इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे
स्नापनिको नाम षष्ठो विलासः ।

*************************************************************************

 

नोपलब्धः

*************************************************************************
८. ড়्रतरर्चसमपनVइलस


अष्टमविलासः
प्रातर्अर्चासमापनः


श्रीचैतन्यप्रभुं वन्दे यत्पादाश्रयवीर्यतः ।
संगृह्णात्याकरव्राताद्रङ्को रत्नावलीमयम्  ॥ ८.१ ॥

अथ धूपनं

ततश्च धूपमुत्सृज्य नीचैस्तन्मुद्रयार्पयेत् ।
कृष्णं सङ्कीर्तयन् घण्टं वामहस्तेन वादयन्  ॥ ८.२ ॥

तथा च बह्व्ऋचपरिशिष्टे
धूपस्य विजने चैव धूपेनाङ्गविधूपने ।
नीराजनेषु सर्वेषु विष्णोर्नामानि कीर्तयेत् ॥ ८.३ ॥
जयघोषं प्रकुर्वीत कारुण्यं चाभिकीर्तयेत् ।
तथा मङ्गलघोषं च जगद्बीजस्य च स्तुतिम्  ॥ ८.४ ॥

अन्यत्र च
ततः समर्पयेद्धूपं घण्टवाद्यजयस्वनैः ।
धूपस्थानं समभ्यर्च्य तर्जन्या वामया हरेः  ॥ ८.५ ॥

तत्र मन्त्रः  
वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः ।
अघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यतम्  ॥ ८.६ ॥

अथ धूपः

वामनपुराणे
रुहिकाख्यं कणो दारुसिह्लकं चागुरुः सिता ।
शङ्खो जातिफलं श्रीशे धूपानि स्युः प्रियाणि वै  ॥ ८.७ ॥

मूलागमे
सगुग्गुल्व्अगुरुशीरसिताज्यमधुचन्दनैः ।
साराङ्गारविनिक्षिप्तैः कल्पयेद्धूपमुत्तमम्  ॥ ८.८ ॥

विष्णुधर्मोत्तरे च
तथैव शुभगन्धा ये धूपस्ते जगतः पतेः ।
वासुदेवस्य धर्मज्ञैर्निवेद्य दानवेश्वर  ॥ ८.९ ॥

अथ धूपेषु निषिद्धं

न धूपर्थे जीवजतम्  ॥ ८.१० ॥

तत्रैवापवादः
विना मृगमदं धूपे जीवजातं विवर्जयेत् ॥ ८.११ ॥

कालिकापुराणे
न यक्षधूपं वितरेन्मधवय कदचन  ॥ ८.१२ ॥

अग्निपुराणे
न सल्लकिजं न तृणं न शल्करससम्भ्र्तं धूपम् ।
प्रत्यङ्गनिर्मुक्तं दद्यात्कृष्णाय बुद्धिमान्  ॥ ८.१३ ॥

अथ धूपनमाहात्म्यम्

नारसिंहे श्रीमर्कन्देयसतनिकसम्वदे
महिषाख्यं गुग्गुलुं च आज्ययुक्तं सशर्करम् ।
धूपं ददाति रजेन्द्र नरसिंहस्य भक्तिमान्  ॥ ८.१४ ॥
स धूपितः सर्वदिक्षु सर्वपापविवर्जितः ।
अप्सरोगणयुक्तेन विमानेन विराजता  ।
वायुलोकं समासाद्य विष्णुलोके महीयते  ॥ ८.१५ ॥

स्कान्दे
ये कृष्णगुरुणा कृष्णं धूपयन्ति कलौ नराः ।
सकर्पूरेण राजेन्द्र कृष्णतुल्या भवन्ति ते  ॥ ८.१६ ॥
साज्येन वै गुग्गुलुना सुधूपेन जनार्दनम् ।
धूपयित्वा नरो याति पदं तस्य सदाशिवं   ॥ ८.१७ ॥
अगुरुं तु सकर्पूरदिव्यचन्दनसौरभम् ।
दत्त्वा नित्यं हरेर्भक्त्या कुलानां तारयेच्छतम्  ॥ ८.१८ ॥

विष्णुधर्मोत्तरत्र्तियखण्डे
धूपनमुत्तमं तद्वत्सर्वकमफलप्रदम् ।
धूपं तुरुष्ककं दत्त्वा वह्निस्तोमफलं लभेत् ॥ ८.१९ ॥
दत्त्वा तु कृत्रिमं मुख्यं सर्वकामानवाप्नुयात् ।
गन्धयुक्तकृतं दत्त्वा यज्ञगोसवमाप्नुयात् ॥ ८.२० ॥
दत्त्वा कर्पूरनिर्यासं वाजिमेधफलं लभेत् ।
वसन्ते गुग्गुलं दत्त्वा वह्निस्तोममवाप्नुयात् ॥ ८.२१ ॥
ग्रीष्मे चन्दनसारेण राजसूयफलं लभेत् ।
तुरुष्कस्य प्रदानेन प्रवृष्युत्तमतां लभेत् ॥ ८.२२ ॥
कर्पूरदानाच्छरदि राजसूयमवाप्नुयात् ॥ ८.२३ ॥
हेमन्ते म्र्गदर्पेण वाजिमेधफलं लभेत् ।
शिशिरेऽगुरुसरेन सर्वमेधफलं लभेत् ॥ ८.२४ ॥
पदमुत्तममाप्नोति धूपदः पुष्टिमश्नुते ।
धूपलेख यथाइवोर्ध्वं नित्यमेव प्रसर्पति  ।
तथाइवोर्ध्वगतो नित्यं धूपदानाद्भवेन्नरः  ॥ ८.२५ ॥

प्रह्लादसंहितायां च
यो ददाति हरेर्धूपं तुलसीकाष्ठवह्निना ।
शतक्रतुसमं पुण्यं गोऽयुतं लभते फलं  ॥ ८.२६ ॥
इति ।

धूपयेच्च तथा सम्यक्श्रीमद्भगवद्आलयम् ।
धूपशेषं ततो भक्त्या स्वयं सेवेत वैष्णवः  ॥ ८.२७ ॥

तथा च ब्राह्मे अम्बरिसं प्रति गौतमप्रश्ने
धूपशेषं तु कृष्णस्य भक्त्या भजसि भूपते ।
कृत्वा चारात्रिकं विष्णोः स्वमूर्ध्ना वन्दसे नृप  ॥ ८.२८ ॥

अथ श्रीभगवद्अलयधूपनमाहात्म्यं

कृष्णागुरुसमुत्थेन धूपेन श्रीधरालयम् ।
धूपयेद्वैष्णवो यस्तु स मुक्तो नरकार्णवत् ॥ ८.२९ ॥

धूपशेषसेवनमाहात्म्यम्

पाद्मे श्रीगौतमाम्बरीषसंवादे
तीर्थकोटिशतैर्धौतो यथा भवति निर्मलः ।
करोति निर्मलं देहं धूपशेषस्तथा हरेः  ॥ ८.३० ॥
न भयं विद्यते तस्य भौमं दिव्यं रासातलम् ।
कृष्णधूपावशेषेन यस्याङ्गं परिवासितम्  ॥ ८.३१ ॥
नापदो विपदस्तस्य भवन्ति खलु देहिनः ।
हरेर्दत्तावशेषेन धूपयेद्यस्तनुं सदा  ॥ ८.३२ ॥
नासौख्यं न भयं दुःखं नाधिजं नैव रोगजम् ।
यः सेवयेद्धूपशेषं विष्णोरद्भुतकर्मणः  ॥ ८.३३ ॥
क्रूरसत्त्वभयं नैव न च चौरभयं क्वचित् ।
सेवयित्वा हरेर्धूपं निर्माल्यं पदयोर्जलम्  ॥ ८.३४ ॥

हरिभक्तिसुधोदये च
आघ्राणं यद्धरेर्दत्तं धूपोच्छिष्टस्य सर्वतः ।
तद्भवव्यालदष्टानां भवेत्कर्मविषापहं  ॥ ८.३५ ॥
इति ।

दर्शनादपि धूपस्य धूपदानादिजं फलम् ।
सर्वमन्येऽपि विन्दन्ति तच्चाग्रे व्यतिमेष्यति  ॥ ८.३६ ॥

अथ दीपनं

तथैट दीपमुत्सृज्य प्राग्वद्घण्टं च वादयन् ।
पदाब्जाददृग्अब्जान्तं मुद्रयोच्चैः प्रदीपयेत् ॥ ८.३७ ॥

तत्र मन्त्रः

गौतमीये
सुप्रकाशो महातेजह्सर्वतस्तिमिरापहः ।
सबाह्याभ्यन्तरज्योतिर्दीपोऽयं प्रतिगृह्यताम्  ॥ ८.३८ ॥

अथ दीपः

दीपं प्रज्वलयेत्शक्तौ कर्पूरेन घृतेन वा ।
गव्येन तत्रासामार्थ्ये तैलेनापि सुगन्धिना  ॥ ८.३९ ॥

तथा च नारदीयकल्पे
सघृतं गुग्गुलं धूपं दीपं गोघृतदीपितम् ।
समस्तपरिवाराय हरये श्रद्धयार्पयेत् ॥ ८.४० ॥

भविष्योत्तरे
घृतेन दीपो दातव्यो राजन् तैलेन वा पुनः  ॥ ८.४१ ॥
महाभारते च
हविषा प्रथमः कल्पो द्वितीयश्चौषधोरसैः  ॥ ८.४२ ॥

अथ दीपे निषिद्धं

भविष्योत्तरे
वसामज्जादिभिर्दीपो न तु देयः कदाचन  ॥ ८.४३ ॥

महाभारते
वसामज्जास्थिनिर्यासैर्न कार्यः पुष्टिमिच्छत  ॥ ८.४४ ॥

विष्णुधर्मोत्तरे तृतीयखण्डे
नीलरक्तदशं दीपं प्रयत्नेन विवर्जयेत् ॥ ८.४५ ॥

कालिकापुराणे
दीपवृक्षश्च कर्तव्यस्तैजासाद्यैश्च भैरव ।
वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन  ॥ ८.४६ ॥

अथ दीपमाहात्म्यं

स्कान्दे ब्रह्मनारदसंवादे
प्रज्वाल्य देवदेवस्य कर्पूरेन च दीपकम् ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ८.४७ ॥

अत्रैवान्यत्र च
यो ददाति महीपाल कृष्णस्याग्रे तु दीपकम् ।
पातकं तु समुत्सृज्य ज्योतीरूपं लभेत्फलम्  ॥ ८.४८ ॥

वाराहे
दीपं ददाति यो देवि मद्भक्त्या तु व्यवस्थितः ।
नात्रान्धत्वं भवेत्तस्य सप्तजन्मनि सुन्दरि  ॥ ८.४९ ॥
यस्तु दद्यात्प्रदीपं मे सर्वतः स्रद्धयान्वितः ।
स्वयम्प्रभेषु देशेषु तस्योत्पत्तिर्विधीयते  ॥ ८.५० ॥

हरिभक्तिसुधोदये
दत्तं स्वज्योतिषे ज्योतिर्यद्विस्तारयति प्रभाम् ।
तद्वद्धर्यति सज्ज्योतिर्दातुः पापतमोऽपहं  ॥ ८.५१ ॥

नारसिंहे
घृतेन वाथ तैलेन दीपं प्रज्वलयेन्नरः ।
विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु  ॥ ८.५२ ॥
विहाय पापं सकलं सहस्रादित्यसप्रभः ।
ज्योतिष्मता विमानेन विष्णुलोके महीयते  ॥ ८.५३ ॥

प्रह्लादसंहितायां
च तुलसीपवकेनैव दीपं यः कुरुते हरेः ।
दीपलक्षसहस्राणां पुण्यं भवति दैत्यज  ॥ ८.५४ ॥
इति ।

पश्चाद्दीपं च तं भक्त्या मूर्ध्ना वन्देत वैष्णवः ।
धूपस्येवेक्षणात्तस्य लभन्तेऽन्येऽपि तत्फलम्  ॥ ८.५५ ॥
केचिच्चानेन दीपेन श्रीमूर्तेर्मूर्ध्नि वैष्णवः ।
नीराजनमिहेच्छन्ति महानीराजने यथा  ॥ ८.५६ ॥

तथा च रामार्चनचन्द्रिकायां धूपानन्तरं दीपप्रसङ्गे
आरात्रिकं तु विषमबहुवर्तिसमन्वितम् ।
अभ्यर्च्य रामचन्द्राय वाममध्यमथार्पयेत् ॥ ८.५७ ॥
नमो दीपेश्वरायेति दद्यात्पुष्पाञ्जलिं ततः ।
अवधूप्याभ्यर्च्य वाद्यैर्मूर्ध्नि नीराजयेत्प्रभुम्  ॥ ८.५८ ॥
इति ।

अत एवेष्यते तस्य कराभ्यां वन्दनं च तैः ।
नाम चारात्रिकेत्यादि वर्त्योऽपि बहुलाः समाः  ॥ ८.५९ ॥
प्रसङ्गाल्लिख्यतेऽत्रैव श्रीमद्भगवद्आलये ।
दीपदानस्य माहात्म्यं कार्त्तिकीयं च तद्विना  ॥ ८.६० ॥

अथ श्रीभगवद्आलये दीपप्रदानमाहात्म्यम्

विष्णुधर्मोत्तरे प्रथमकाण्डे [१.१६६.१७ f, मिxएदुप्]
दीपदानात्परं दानं न भूतं न भविष्यति ।
केशवायतने कृत्वा दीपवृक्षामनोहरम् ।
अतीव भ्राजते लक्ष्म्या दिवमासाद्य सर्वतः  ॥ ८.६१ ॥
दीपमालां प्रयच्छन्ति ये नराः शार्ङ्गिणो गृहे ।
भवन्ति ते चन्द्रसमाः स्वर्गमासाद्य मानवाः  ॥ ८.६२ ॥
दीपागारं नरः कृत्वा कूतागारनिभं शुभम् ।
केशवालयमासाद्य लोके भाति स शक्रवत् ॥ ८.६३ ॥
यथोज्ज्वलो भवेद्दीपः सम्प्रदातापि यादव ।
तथा नित्योज्ज्वलो लोके नाकपृष्ठे विराजते  ॥ ८.६४ ॥
सदीपे च यथा देसे चक्षूंसि फलवन्ति च ।
तथा दीपस्य दतरो भवन्ति सफलेक्षनः  ॥ ८.६५ ॥
एकादश्यां च द्वादश्यां प्रतिपक्षं तु यो नरः ।
दीपं ददाति कृष्णाय तस्य पुण्यफलं शृणु  ॥ ८.६६ ॥
सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिसुन्दरम् ।
दीपमालाकुलं दिव्यं विमानमधिरोहति  ॥ ८.६७ ॥
पद्मसुत्रोद्भवं वर्त्ति गन्धतैलेन दीपकान् ।
विरोगः सुभगश्चैव दत्त्वा भवति मानवः  ॥ ८.६८ ॥
दीपदनं महापुण्यमन्यदेवेष्वपि ध्रुवम् ।
किं पुनर्वासुदेवस्यानन्तस्य तु महात्मनः  ॥ ८.६९ ॥

तत्रैव तृतीयखण्डे
दीपं चक्षुःप्रदं दद्यात्तथैवोर्ध्वगतिप्रदम् ।
ऊर्ध्वं यथा दीपशिखा दाता चोर्ध्वगतिस्तथा  ॥ ८.७० ॥
यावदक्षिनिमेषाणि दीपो देवालये ज्वलेत् ।
तावद्वर्षसहस्राणि नाकपृष्ठे महीयते  ॥ ८.७१ ॥

ब्र्हन्नारदीये वितिहोत्रं प्रति यज्ञध्वजस्य पूर्वजन्मवृत्तकथने
प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम ।
तेनापि मम दुष्कर्म निह्शेषं क्षयमगतम्  ॥ ८.७२ ॥

विष्णुधर्मे च
विलीयते स्वहस्ते तु स्वतन्त्रे सति दीपकः ।
महाफलो विष्णुगृहे न दत्तो नरकाय सः  ॥ ८.७३ ॥

नारदीये मोहिनीं प्रति श्रीरुक्माङ्गदोक्तौ
तिष्ठन्तु बहुवित्तानि दानार्थं वरवर्णिनि ।
हृदयायासकर्तृणि दीपदानाद्दिवं व्रजेत् ॥ ८.७४ ॥
तस्याप्यभावे सुभगे परदीपप्रबोधनम् ।
कर्तव्यं भक्तिभावेन सर्वदानाधिकश्च यत् ॥ ८.७५ ॥
इति ।

सद कलविशेषेऽपि भक्त्या भगवद्आलये ।
महादीपप्रदानस्य महिमाप्यत्र लिख्याते  ॥ ८.७६ ॥

अथ महादीपमाहात्म्यम्

विष्णुधर्मोत्तरे प्रथमखण्डे
महावर्त्तिः सदा देया भूमिपाल महाफला ।
कृष्णपक्षे विशेषेण तत्रापि स विशेषतः  ॥ ८.७७ ॥
अमावस्या च निर्दिष्टा द्वादशी च महाफला ।
अश्वयुज्यामतीतायां कृष्णपक्षश्च यो भवेत् ॥ ८.७८ ॥
अमावस्या तदा पुण्या द्वादशी च विशेषतः ।
देवस्य दक्षिणे पार्श्वे देया तैलतुला नृप  ॥ ८.७९ ॥
पलाष्टकयुतां राजन् वर्त्ति तत्र च दापयेत् ।
वाससा तु समग्रेण सोपवासो जितेन्द्रियः  ॥ ८.८० ॥
महावर्त्तिद्वयमिदं सकृद्दत्त्वा महामते ।
स्वर्लोकं सुचिरं भुक्त्वा जायते भूतले यदा  ॥ ८.८१ ॥
तदा भवति लक्ष्मीवान् जयद्रविणसम्युतः ।
राष्ट्रे च जायते स्वस्मिन् देशे च नगरे तथा  ॥ ८.८२ ॥
कुले च राजशार्दूल तत्र स्याद्दीपवत्प्रभः ।
प्रत्युज्ज्वलश्च भवति युद्धेषु कलहेषु च  ॥ ८.८३ ॥
ख्यातिं याति तथा लोके सद्गुणानां च सद्गुणैः ।
एकमप्यथ यो दद्यादभीष्टतमयोर्द्वयोः  ॥ ८.८४ ॥
मनुष्ये सर्वमाप्नोति यदुक्तं ते महानघ ।
स्वर्गे तथात्वमाप्नोति भोगकाले तु यादव  ॥ ८.८५ ॥
समान्यस्य तु दीपस्य राजन् दानं महाफलम् ।
किं पुनर्महतो दीपस्यात्रेयत्त न विद्यते  ॥ ८.८६ ॥

अथ सोनमलिनदिवस्त्रवर्त्त्य दीपदननिसेधः

शोणं वादरकं वस्त्रं जीर्णं मलिनमेव च ।
उपभुक्तं न वा दद्यात्वर्त्तिकार्थं कदाचन  ॥ ८.८७ ॥
इति ।

स्वयमन्येन वा दत्तं दीपान्न श्रीहरेर्हरेत् ।
निर्वापयेन्न हिंसाच्च शुभमिच्छन् कदाचन  ॥ ८.८८ ॥

अथ दीपनिर्वापनादिदोषः

विष्णुधर्मोत्तरे प्रथमखण्डे
दत्त्वा दीपो न हर्तव्यस्तेन कर्म विजानता ।
निर्वापनं च दीपस्य हिंसनं च विगर्हितम्  ॥ ८.८९ ॥
यः कुर्याद्धिंसनं तेन कर्मणा पुष्पितेक्षणः ।
दीपहर्ता भवेदन्धः कणो निर्वाणकृद्भवेत् ॥ ८.९० ॥

विष्णुधर्मे च नारकान् प्रति श्रीधर्मराजोक्तौ
युष्माभिर्यौवनोन्मादमुदितैरविवेकिभिः ।
द्युतोद्योतय गोविन्दगेहाद्दीपः पुरा हृतः  ॥ ८.९१ ॥
तेनाद्य नरके घोरे क्षुत्तृष्णापरिपीडिताः ।
भवन्ति पतितास्तीव्रे शीतवातविदारिताः  ॥ ८.९२ ॥

तत्रैव श्रीपुलस्त्योक्तौ च
तस्मादायातने विष्णोर्दद्याद्दीपान् द्विजोत्तम ।
ताम्श्च दत्त्वा न हिंसेत न च तैलवियोजितान्  ॥ ८.९३ ॥
कुर्वीत दीपहन्ता च मूकोऽन्धो जायते मृतः ।
अन्धे तमसि दुष्परे नरके पच्यते किल  ॥ ८.९४ ॥

भूमौ दीपदननिसेधः

कालिकापुराणे
दीपवृक्षश्च कर्तव्यस्तैजासाद्यैश्च भैरव ।
वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन  ॥ ८.९५ ॥

अथ नैवेद्यं

दत्त्वा पुष्पाञ्जलिं पीठं पद्यमाचमनं तथा ।
कृत्वा पात्रेषु कृष्णायार्पयेद्भोज्यं यथाविधि  ॥ ८.९६ ॥

अथ नैवेद्यर्पनविधिः

अस्त्रं जप्त्वाम्बुना प्रोक्ष्य नैवेद्यं चक्रमुद्रया ।
संरक्ष्य प्रोक्षयेद्वायुबीजजप्तजलेन च  ॥ ८.९७ ॥
तेन संशोष्य तद्दोषमग्निबीजं च दक्षिणे ।
ध्यात्वा करतलेऽन्यत्तत्पृष्ठे संयोज्य दर्श्यते  ॥ ८.९८ ॥
तद्उत्थवह्निना तस्य शुष्कदोषं हृदा दहेत् ।
ततः करतले सव्येऽमृतबीजं विचिन्तयेत् ॥ ८.९९ ॥
तत्पृष्ठे दक्षिणं पनितलं संयोज्य दर्शयेत् ।
तद्उत्थया निवेद्यं तत्सिचेदमृतधारया  ॥ ८.१०० ॥
जलेन मूलजप्तेन प्रोक्ष्य तच्चामृतात्मकम् ।
सर्वं विचिन्त्य संस्पृश्य मूलं वाराष्टकं जपेत् ॥ ८.१०१ ॥
अमृतीकृत्य तद्धेनुमुद्रया सलिलादिभिः ।
तच्च कृष्णं च सम्पूज्य गृहित्वा कुसुमाञ्जलिम्  ॥ ८.१०२ ॥
श्रीकृष्णं प्रार्थ्य तद्वक्त्रात्तेजो ध्यात्वा विनिर्गतम् ।
संयोज्य च निवेद्यैतत्पत्रं वामेन संस्पृशन्  ॥ ८.१०३ ॥
दक्षेण पाणिनादाय गन्धपुष्पान्वितं जलम् ।
स्वाहान्तं मूलमुच्चार्य तज्जलं विसृजेद्भुवि  ॥ ८.१०४ ॥
तत्पाणिभ्यां समुत्थाय निवेद्यं तुलसीयुतम् ।
पत्राढ्यं तस्य मन्त्रेण भक्त्या भागवतेऽर्पयेत् ॥ ८.१०५ ॥

निवेदनमन्त्रश्चयं
निवेदयमि भवते जुसनेदं हविर्हरे  ॥ ८.१०६ ॥
इति ।

अमृतोपस्तरनमसि स्वाहेत्युच्चारयन् हरेः ।
दत्त्वाथ विधिवद्वारिगण्डूषं वामपाणिना ।
दर्शयेद्ग्रासमुद्रां तु  प्रफुल्लोत्पलसन्निभम्  ॥ ८.१०७ ॥
प्राणादिमुद्राहस्तेन दक्षिणेन तु दर्शयेत् ।
मन्त्रैश्चतुर्थीस्वाहान्तैस्ताराद्यैस्तत्तद्आह्वयैः  ॥ ८.१०८ ॥
ततः स्पृशम्श्च करयोरङ्गुष्ठाभ्यामनामिके ।
प्रदर्शयेन्निवेद्यस्य मुद्रां तस्य मनुं जपन्  ॥ ८.१०९ ॥

मन्त्रश्चायं क्रमदीपिकायाम् [४.६२]
नन्दजोऽम्बुमनुबिन्दुयुङ्नतिः
पार्श्वरामरुद्अवात्मने नि च ।
रुद्धङेयुतनिवेद्यमात्मभूर्
मासपार्श्वमनिलस्तथाऽमियुक् ॥ ८.११० ॥

निवेद्यस्य मनुत्वेन स्वाभीष्टं मनुमेव ते ।
एकान्तिनो जपन्तस्तु ग्रासमुद्रां वितन्वते  ॥ ८.१११ ॥
न च ध्यायन्ते ते कृष्णवक्त्रात्तेजोविनिर्गमम् ।
मञ्जुलव्यवहारेण भोजयन्ति हरिं मुदा  ॥ ८.११२ ॥

अन्यत्र च
शालीभक्तं सुभक्तं शिशिरकरसितं पायसं पूपसूपम्
लेह्यं पेयं सुचूष्यं सितममृतफलं घारिकाद्यं सुखाद्यम् ।
आज्यं प्राज्यं समिज्यं नयनरुचिकरं वाजिकैलमरीच
स्वादियः शाकराजिपरिकरममृताहारजोषं जुषस्व  ॥ ८.११३ ॥

किं चगरुडपुराणे
नैवेद्यं परया भक्त्या घण्टाद्यैर्जयनिस्वनैः ।
नीराजनैश्च हरये दद्याद्दीपासनं बुधः  ॥ ८.११४ ॥

अथ नैवेद्यपत्राणि

स्कान्दे श्रीब्रह्मनारदसंवादे
नैवेद्यपात्रं वक्ष्यामि केशवस्य महात्मनः ।
हैरण्यं रजतं ताम्रं कंस्यं मृन्मयमेव च ।
पलाशं पद्मपत्रं च पात्रं विष्णोरतिप्रियम्  ॥ ८.११५ ॥

विष्णुधर्मोत्तरे
पत्राणां तु प्रदानेन नरकं च न गच्छति  ॥ ८.११६ ॥

पत्रपरिमनं

देवीपुराणे
षट्त्रिंशद्अङ्गुलं पात्रमुत्तमं परिकीर्तितम् ।
मध्यमं च त्रिभागोनं कन्यसं द्वादशाङ्गुलम् ।
वस्व्अङ्गुलविहीनं तु न पात्रं कारयेत्क्वचित् ॥ ८.११७ ॥

अथ भोज्यनि

एकादशस्कन्दे  (११.२७.३४)
गुडपायससर्पींषि सष्कुल्यापूपमोदकान् ।
संयावदधिसूपाम्श्च नैवेद्यं सति कल्पयेत् ॥ ८.११८ ॥

किं च(११.११.४१)
यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः ।
तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते  ॥ ८.११९ ॥

अष्टमस्कान्दे (८.१६.५२)
नैवेद्यं चाधिगुणवद्दद्यात्पुरुषतुष्टिदम्  ॥ ८.१२० ॥
बौधायनस्मृतौ च
नानाविधान्नपानैश्च भक्षनाद्यैर्मनोहरैः ।
नैवेद्यं कल्पयेद्विष्णोस्तद्अभावे च पायसं
केवलं घृतसंयुक्तं  ॥ ८.१२१ ॥

वामनपुराणे
हविषा संस्कृता ये च यवगोधूमशलयः ।
तिलमुद्गादयो माषा व्रीहयश्च प्रिया हरेः  ॥ ८.१२२ ॥

गारुडे
अन्नं चतुर्विधं पुण्यं गुणाढ्यं चामृतोपमम् ।
निष्पण्णं स्वगृहे यद्वा श्रद्धया कल्पयेद्धरेः  ॥ ८.१२३ ॥

भविष्ये
पुष्पं धूपं तथा दीपं नैवेद्यं सुमनोहरम् ।
खण्डलड्डुकश्रीवेस्तकासाराशोकवर्तिकाः  ॥ ८.१२४ ॥
स्वस्तिकोल्लसिकदुग्धतिलवेष्टकिलाटिकाः ।
फलानि चैव पक्वानि नागरङ्गादिकानि च  ॥ ८.१२५ ॥
अन्यानि विधिना दत्त्वा भक्ष्याणि विविधानि च ।
एवमादिनि दापयेद्भक्तितो न्र्प  ॥ ८.१२६ ॥

वाराहे
यस्तु भागवतो देवि अन्नाद्येन तु प्रीणयेत् ।
प्रीणितस्तिष्ठतेऽसौ वा बहुजन्मानि माधवि  ॥ ८.१२७ ॥
सर्वव्रीहिमयं गृह्यं शुभं सर्वरसान्वितम् ।
मन्त्रेण मे प्रदीयेत न किंचिदपि संस्पृशेत् ॥ ८.१२८ ॥
इङ्गुदिफलबिल्वानि बदरामलकानि च ।
खर्जुराम्श्चासनाम्श्चैव मानवाम्श्च परूषकान्  ॥ ८.१२९ ॥
शालोड्डम्बरिकाम्श्चैव तथा प्लक्षफलानि च ।
पैप्पलं कण्टकीयं च तुम्बुरुं च प्रियङ्गुकम्  ॥ ८.१३० ॥
मरीचं शिंशपाकं च भल्लातकरमर्दकम् ।
द्राक्षां च दाडिमं चैव पिण्डखर्जूरमेव च  ॥ ८.१३१ ॥
सौवीरं केलिकं चैव तथा शुभफलानि च ।
पिण्डारकफलं चैव पुन्नागफलमेव च  ॥ ८.१३२ ॥
शमीं चैव कवीरं च खर्जूरकमहाफलम् ।
कुमुदस्य फलं चैव वहेडकफलं तथा  ॥ ८.१३३ ॥
अजं कर्कोटकं चैव तथा तलफलानि च ।
कदम्बः कौमुदं चैव द्विविधं स्थलकञ्जयोः  ॥ ८.१३४ ॥
पिण्डिकण्डेति विख्यातं वंशनीपं ततः परम् ।
मधुकण्डेति विख्यातं माहिषं कण्डमेव च  ॥ ८.१३५ ॥
करमर्दककन्दं च तथा निलोत्पलस्य च ।
मृणालं पौष्करं चैव शालूकस्य फलं तथा  ॥ ८.१३६ ॥
एते चान्ये च बहवः काण्डमूलफलानि च ।
एतानि चोपयोज्यानि ये मया परिकल्पिताः  ॥ ८.१३७ ॥
मूलकस्य ततः शाकं चिञ्चशाकं तथैव च ।
शाकं चैव कलायस्य सर्षपस्य तथैव च  ॥ ८.१३८ ॥
वंसकस्य तु शाकं च शाकमेव कलम्बिकम् ।
आर्द्रकस्य च शाकं वै पालङ्कं शाकमेव च  ॥ ८.१३९ ॥
अम्बिलोडकशाकं च काशं कौमारकं तथा ।
शुकमण्डलपत्रं च द्वावेव तरुवानकौ  ॥ ८.१४० ॥
चरस्य चैव शाकं च मधुकोड्डुम्बरं तथा ।
एते चान्ये च बहवह्शतशोऽथ सहस्रशः  ।
कर्मण्याश्चैव सर्वे वै ये मया परिकीर्तिताः  ॥ ८.१४१ ॥
व्रीहीणां च प्रवक्ष्यामि उपयोगाम्श्च माधवि ।
एकचित्तं समाधाय तत्सर्वं शृणु सुन्दरि  ॥ ८.१४२ ॥
धर्माधार्मिकरक्तं च सुगन्धं रक्तशालिकम् ।
दीर्घशूकं महाशालिं वरकुङ्कुमपत्रकम्  ॥ ८.१४३ ॥
ग्रामशालिं समद्राशां सश्रीशां कुशशालिकाम् ।
यवाश्च द्विविधा ज्ञेयाः कर्मण्या मम सुन्दरि  ॥ ८.१४४ ॥
कर्मण्याश्चैव मुद्गाश्च तिलाः कृष्णाः कुलत्थकाः ।
गोधूमकं महामुद्गमुद्गाष्टकमवाटजित् ॥ ८.१४५ ॥
कर्मण्येतानि चोक्तानि व्यजनानि प्रियान्वितान् ।
प्रतिगृह्णाम्यहं ह्येतान् सर्वान् भागवतान् प्रियान्  ॥ ८.१४६ ॥

किं च
ये मयैवोपयोज्यानि गव्यं दधि पयो घृतम्  ॥ ८.१४७ ॥

स्कान्दे च ब्रह्मनारदसंवादे
हविः शल्योदनं दिव्यमाज्ययुक्तं सशर्करम् ।
नैवेद्यं देवदेवाय यावकं पायसं तथा  ॥ ८.१४८ ॥
नैवेद्यानामभावे तु फलानि विनिवेदयेत् ।
फलानामप्यभावे तु तृणगुल्मौषधीरपि  ॥ ८.१४९ ॥
औषधीनामलाभे तु तोयं च विनिवेदयेत् ।
तद्अलाभे तु सर्वत्र मानसं प्रवरं स्मृतम्  ॥ ८.१५० ॥

स्कान्दे महेन्द्रं प्रति श्रीनारदवचनं
यच्छन्ति तुलसीशाकं श्रुतं ये माधवाग्रतः ।
कल्पान्तं विष्णुलोके तु वसन्ति पितृभिः सह  ॥ ८.१५१ ॥

अथ नैवेद्यनिषिद्धानि

हारितस्मृतौ
नाभक्ष्यं नैवेद्यार्थे भक्ष्येस्वप्यजामहिषीक्षीरं पञ्चनखा मत्स्याश्च  ॥ ८.१५२ ॥

द्वारकामाहात्म्ये
नीलीक्षेत्रं वापयन्ति मूलकं भक्षयन्ति ये ।
नैवास्ति नरकोत्तारह्कल्पकोटिशतैरपि  ॥ ८.१५३ ॥

वाराहे
माहिषं चाविकं चाजमयज्ञीयमुदाहृतम्  ॥ ८.१५४ ॥

किं च
माहिषं वर्जयेन्मह्यं क्षीरं दधि घृतं यदि  ॥ ८.१५५ ॥

विष्णुधर्मोत्तरे तृतीयखण्डे
अभक्ष्यं चप्यहृद्यं च नैवेद्यं न निवेदयेत् ।
केशकीटावपन्नं च तथा चाविहितं च यत् ॥ ८.१५६ ॥
मूषिकालाङ्गुलोपेतमवधूतमवक्षुतम् ।
उड्डुम्बरं कपित्थं च तथा दन्तशठं च यत् ।
एवमादीनि देवाय न देयानि कदाचन  ॥ ८.१५७ ॥

अथाभक्ष्याणि

कौर्मे
वृन्ताकं जालिकाशाकं कुसुम्भाश्मन्तकं तथा ।
पलाण्डुं लशुनं शुक्लं निर्यासं चैव वर्जयेत् ॥ ८.१५८ ॥
गृञ्जनं किंशुकं चैव कुकुण्डं च तथैव च ।
उडुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः  ॥ ८.१५९ ॥

वैष्णवे
भुञ्जीतोद्धृतसाराणि न कदाचिन्नरेश्वर  ॥ ८.१६० ॥

स्कान्दे
न भक्षयति वृन्ताकं तस्य दूरतरो हरिः  ॥ ८.१६१ ॥

किं चान्यत्र
दोर्भ्यां पाद्भ्यां च जानुभ्यामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः  ॥ ८. १६२ ॥
जानुभ्यां चैव बाहुभ्यां शिरसा वचसा धिया ।
पञ्चाङ्गकः प्रणामः स्यात्पूजासु प्रवराविमौ  ॥ ८. १६३ ॥

अत एवोक्तं यामले
यत्र मद्यं तथा मांसं तथा वृन्ताकमूलके ।
निवेदयेन्नैव तत्र हरेरैकान्तिकी रतिः  ॥ ८.१६४ ॥

अथ नैवेद्यर्पनमाहात्म्यं

स्कान्दे
नैवेद्यानि मनोज्ञानि कृष्णस्याग्रे निवेदयेत् ।
कल्पान्तं तत्पितॄणं तु तृप्तिर्भवति शाश्वती  ॥ ८.१६५ ॥
फलानि यच्छते यो वै सुहृद्यानि नरेश्वर ।
कल्पान्तं जायते तस्य सफलं च मनोरथः  ॥ ८.१६६ ॥

नारसिंहे
हविः शाल्योदनं दिय्यमाज्ययुक्तं सशर्करम् ।
निवेद्य नरसिंहाय यावकं पायसं तथा  ॥ ८.१६७ ॥
समास्तण्डुलशङ्ख्याया यावत्यस्तावतीर्नृप ।
विष्णुलोके महाभोगन् भुञ्जानस्ते सवैष्णवाः  ॥ ८.१६८ ॥

विष्णुधर्मोत्तरे
अन्नदस्तृप्तिमाप्नोति स्वर्गलोकं च गच्छति ।
दत्त्वा च संविभागाय तथैवान्नमतन्द्रितः ।
त्रैलोक्यतर्पिते पुण्यं तत्क्षनात्समवाप्नुयात् ॥ ८.१६९ ॥
अक्षय्यमन्नपानं च पितृभ्यश्चोपतिष्ठते ।
ओदनं व्यजनोपेतं दत्त्वा स्वर्गमवाप्नुयात् ॥ ८.१७० ॥
परमान्नं तथा दत्त्वा तृप्तिमाप्नोति शश्वतिम् ।
विष्णुलोकमवाप्नोति कुलमुद्धरते तथा  ॥ ८.१७१ ॥
घृतौदनप्रदानेन दीर्घमायुरवाप्नुयात् ।
दध्य्ओदनप्रदानेन श्रियमाप्नोत्यनुत्तमाम्  ॥ ८.१७२ ॥
क्षीरोदनप्रदानेन दीर्घजीवितमाप्नुयात् ।
इक्षूणां च प्रदानेन परं सौभाग्यमश्नुते  ॥ ८.१७३ ॥
रत्नानां चैव भागी स्यात्स्वर्गलोकं च गच्छति ।
फाणितस्य प्रदानेन अग्न्य्आधानफलं लभेत् ॥ ८.१७४ ॥
तथा गुडप्रदानेन कामिताभीष्टमाप्नुयात् ॥ ८.१७५ ॥
निवेद्येक्षुरसं भक्त्या परं सौभाग्यमाप्नुयात् ।
सर्वान् कामानवाप्नोति क्षौद्रं यश्च प्रयच्छति  ॥ ८.१७६ ॥
तदेव तुहितोपेतं राजसूयमवाप्नुयात् ।
वह्निष्टोममवाप्नोति यवाकस्य निवेदकः ।
अतिरात्रमवाप्नोति तथा पूपनिवेदकः  ॥ ८.१७७ ॥
वैदलानां च भक्ष्याणां दानात्कामानवाप्नुयात् ।
दीर्घजीवितमाप्नोति घृतपूरनिवेदकः  ॥ ८.१७८ ॥
मोदकानां प्रदानेन कामानाप्नोत्यभीप्सितान्  ॥ ८.१७९ ॥
नानाविधानां भक्ष्याणां दानात्स्वर्गमवाप्नुयात् ।
भोजनीयप्रदानेन तृप्तिमाप्नोत्यनुत्तमाम्  ॥ ८.१८० ॥
तथा लेह्यप्रदानेन सौभाग्यमधिगच्छति ।
बलवर्णमवाप्नोति चूष्याणां च निवेदने  ॥ ८.१८१ ॥
कुल्माषोल्लासिकदाता वह्न्य्आधेयं फलं लभेत् ।
तथा कृषारदानेन वह्निष्टोममवाप्नुयात् ॥ ८.१८२ ॥
धनानां क्षौद्रयुक्तानां लाजानां च निवेदकः ।
मुख्यं चैव शक्तूनां वह्निष्टोममवाप्नुयात् ॥ ८.१८३ ॥
वानप्रस्थाश्रितं पुण्यं लभेच्छाकनिवेदकः ।
दत्त्वा हरितकं चैव तदेव फलमाप्नुयात् ॥ ८.१८४ ॥
दत्त्वा शाकानि रम्याणि विशोकस्त्वभिजायते ।
दत्त्वा च व्यजनार्थाय तथोपकरणानि च  ॥ ८.१८५ ॥
सुकुले लभते जन्म कन्दमूलनिवेदकः ।
नीलोत्पलविदरीणां तरुटस्य तथा द्विजः  ॥ ८.१८६ ॥
कन्ददानादवाप्नोति वानप्रस्थफलं शुभम् ।
त्रपुषेर्वारुकं दत्त्वा पुण्डरीकफलं लभेत् ॥ ८.१८७ ॥
कर्कन्धुवदरे दत्त्वा तथा पारैवतं कलम् ।
परूषकं तथाभ्रं च पनसं नारिकेलकम्  ॥ ८.१८८ ॥
भव्यं मोचं तथा चोचं खर्जूरमथ दाडिमम् ।
आम्रातकस्रुवाम्लोटफलमानप्रियालकम्  ॥ ८.१८९ ॥
जम्बूबिल्वामलं चैव जात्यं वीणातकं तथा ।
नारङ्गबीजपूरे च बीजफल्गुफलन्यपि  ॥ ८.१९० ॥
एवमादीनि दिव्यनि यः फलानि प्रयच्छति ।
तथा कन्दानि मुख्यानि देवदेवाय भक्तितः  ॥ ८.१९१ ॥
क्रियासाफल्यमाप्नोति स्वर्गलोकं तथैव च ।
प्राप्नोति फलमारोग्यं मृद्वीकानां निवेदकः  ॥ ८.१९२ ॥
रसान्मुख्यानवाप्नोति सौभाग्यमपि चोत्तमम् ।
आम्रैरभ्यर्च्य देवेशमश्वमेधफलं लभेत् ॥ ८.१९३ ॥

किं च
मोचकं पनसं जम्बू तथान्यत्कुम्भालिफलम् ।
प्राचीनामलकं श्रेष्ठं मधुकोड्डुम्बरस्य च ।
यत्नपक्वमपि ग्राह्यं कदलीफलमुत्तमम्  ॥ ८.१९४ ॥

हरिभक्तिसुधोदये च
यत्किञ्चिदल्पं नैवेद्यं भक्तभक्तिरसप्लुतम् ।
प्रतिभोजयति श्रीशस्तद्दातॄन् स्वसुखं द्रुतमिति  ॥ ८.१९५ ॥
ततः प्राग्वद्विचित्राणि पनकान्युत्तमानि च ।
सुगन्धि शीतलं स्वच्छं जलमप्यर्पयेत्ततः  ॥ ८.१९६ ॥

अथ पनकानि, तन्माहात्म्यं च

विष्णुधर्मोत्तरे
पानकानि सुगन्धीनि शीतलानि विशेषतः ।
निवेद्य देवदेवाय वाजिमेधमवाप्नुयात् ॥ ८.१९७ ॥
त्वगेलानागकुसुमकर्पूरसितसंयुतैः ।
सिताक्षौद्रगुडोपेतैर्गन्धवर्णगुणान्वितैः  ॥ ८.१९८ ॥
बीजपूरकनारङ्गसहकारसमन्वितैः ।
राजसूयमवाप्नोति पनकैर्विनिवेदितैः  ॥ ८.१९९ ॥
निवेद्य नारिकेलाम्बुवह्निष्टोमफलं लभेत् ।
सर्वकामवहा नद्यो नित्यं यत्र मनोरमाः  ।
तत्र पानप्रदा यान्ति  यत्र रामा गुणान्विताः  ॥ ८.२०० ॥
इति ।

इत्थं समर्प्य नैवेद्यं दत्त्वा जवनिकं ततः ।
बहिर्भूय यथासक्ति जपं सन्ध्यानमाचरेत् ॥ ८.२०१ ॥

अथ ध्यानम्

ब्रह्मेशाद्यैः परित ऋषिभिः सूपविष्टैः समेतो
लक्ष्म्या शिञ्जद्वलयकरया सादरं वीज्यमन ।
मर्मक्रीडप्रहसितमुखो हासयन् पङ्क्तिभोक्तॄन्
भुङ्क्ते पात्रे कनकघटिते षड्रसं श्रीरमेशः  ॥ ८.२०२ ॥
इति ।

एकन्तिभिश्चात्मकृतं सवयस्यस्य गोकुले ।
यशोदालाल्यमानस्य ध्येयं कृष्णस्य भोजनम्  ॥ ८.२०३ ॥

अथ होमः

नित्यं चावश्यकं होमं कुर्यात्शक्त्य्अनुसारतः ।
होमाशक्तौ तु कुर्वीत जपं तस्य चतुर्गुणम्  ॥ ८.२०४ ॥
केऽप्येवं मन्वतेऽवश्यं नित्यहोमं सदाचरेत् ।
पुरश्चरनहोमस्याशक्तौ हि स विधिर्मतः  ॥ ८.२०५ ॥
पूर्वं दीक्षाविधौ होमविधिश्च लिखितः कियान् ।
तद्विस्तारश्च विज्ञेयस्तत्तच्छास्त्रात्तद्इच्छुभिः  ॥ ८.२०६ ॥
समाप्तिं भोजने ध्यात्वा दत्त्वा गण्डूषिकं जलम् ।
अमृतापिधानमसि स्वाहेत्युच्चारयेत्सुधीः  ॥ ८.२०७ ॥
विसृजेद्देववक्त्रे तत्तेजः संहारमुद्रया ।
नैकन्ती तेजसः कुर्यान्निष्क्रान्तिमिव सङ्क्रमम्  ॥ ८.२०८ ॥
अथ बलिदानम्

ततो जवनिका विद्वानपसार्य यथाविधि ।
विष्वक्सेनाय भगवन्नैवेद्यांशं निवेदयेत् ॥ ८.२०९ ॥

तथा च पञ्चरात्रे श्रीनारदवचनम्
विश्वक्सेनाय दातव्यं नैवेद्यं तच्छतांशकम् ।
पादोदकं प्रसादं च लिङ्गे चण्डेश्वराय च  ॥ ८.२१० ॥

तद्विधिः

मुख्यादीसानतः पात्रान्नैवेद्यांशं समुद्धरेत् ।
सर्वदेवस्वरुपाय पराय परमेष्ठिने  ॥ ८.२११ ॥
श्रीकृष्णसेवयुक्ताय विष्वक्सेनाय ते नमः ।
इत्युक्त्वा श्रीहरेर्वामे तीर्थक्लिन्नं समर्पयेत् ॥ ८.२१२ ॥
सतंसं वा सहस्रांशमन्यथा निष्फलं भवेत् ॥ ८.२१३ ॥
पश्चाच्च बलिरित्यादि श्लोकावुच्चार्य वैष्णवः ।
सर्वेभ्यो वैष्णवेभ्यस्तच्छतांसं विनिवेदयेत् ॥ ८.२१४ ॥
तौ च श्लोकौ
बलिर्विभीषणो भीष्मः कपिलो नारदोऽर्जुनः ।
प्रह्लादश्चाम्बरीषश्च वसुर्वायुसुतः सिवः  ॥ ८.२१५ ॥
विष्वक्सेनोद्धवाक्रूरः सनकाद्याः शुकादयः ।
श्रीकृष्णस्य प्रसादोऽयं सर्वे गृह्णन्तु वैष्णवाः  ॥ ८.२१६ ॥

इदं यद्यपि युज्येत दर्पणार्पणतः परम् ।
तथापि भक्तवात्सल्यात्कृष्णस्यात्रापि सम्भवेत् ॥ ८.२१७ ॥
अथ बलिदनमाहात्म्यं

नारसिंहे
ततस्तद्अन्नशेषेण पार्षदेभ्यः समन्ततः ।
पुष्पाक्षतैर्विमिश्रेण बलिं यस्तु प्रयच्छति  ॥ ८.२१८ ॥
बलिना वैष्णवेनाथ तृप्तः सन्तो दिवौकसः ।
शान्तिं तस्य प्रयच्छन्ति श्रियमारोग्यमेव च  ॥ ८.२१९ ॥

अथ जलगन्दुसद्य्अर्पनं

उपलिप्य ततो भूमिं पुनर्गाण्डूषिकं जलम् ।
दद्यात्त्रिरग्रे कृष्णस्य ततोऽस्मै दन्तसोधनम्  ॥ ८.२२० ॥
पुनराचमनं दत्त्वा श्रीपाण्योः श्रीमुखस्य च ।
मार्जनायांशुकं दत्त्वा सर्वाण्यङ्गानि मार्जयेत् ॥ ८.२२१ ॥
परिधाप्यपरे वस्त्रे पुनर्दत्त्वासनान्तरम् ।
पद्यमाचमनीयं च पूर्ववत्पुनरर्पयेत् ॥ ८.२२२ ॥
चन्दनागुरुचूर्णादि प्रदद्यात्करमार्जनम् ।
कर्पूरद्य्आस्यवासं च ताम्बूलं तुलसीमपि  ॥ ८.२२३ ॥
अथ मुखवसदिमाहात्म्यं

विष्णुधर्मोत्तरे त्र्तीयखण्डे
पूगजातिफलं दत्त्वा जातिपत्रं तथैव च ।
लवङ्गफलकक्कोलमेलकतफलं तथा  ॥ ८.२२४ ॥
ताम्बूलीनां किशलयं स्वर्गलोकमवाप्नुयात् ।
सौभाग्यमतुलं लोके तथा रूपमनुत्तमम्  ॥ ८.२२५ ॥

स्कान्दे
ताम्बूलं च सकर्पूरं सपूगं नरनायक ।
कृष्णाय यच्छति प्रीत्या तस्य तुष्टो हरिः सदा  ॥ ८.२२६ ॥
अथ पुनर्गन्धर्पनं

दिव्यं गन्धं पुनर्दत्त्वा यथेष्टमनुलेपनैः ।
दिव्यैर्विचित्रैः श्रीकृष्णं भक्तिच्छेदेन लेपयेत् ॥ ८.२२७ ॥
रम्याणि चोर्ध्वपुण्ड्राणि सद्वर्णेन यथास्पदम् ।
सुगन्धिनानुलेपेन कृष्णस्य रचयेत्तराम्  ॥ ८.२२८ ॥

तथा चागमे ध्यानप्रसङ्गे
ललाटे हृदये कुक्षौ कण्ठे बह्वोश्च पार्श्वयोः ।
विराजतोर्ध्वपुण्ड्रेण सौवर्णेन विभूषितम्  ॥ ८.२२९ ॥
इति ।

दिव्यानि कञ्चुकोष्णीषकाञ्च्य्आदीनि पराण्यपि ।
वस्त्राणि सुविचित्राणि श्रीकृष्णं परिधापयेत् ॥ ८.२३० ॥
ततो दिव्यकिरीटादिभूषणनि यथारुचि ।
विचित्रदिव्यमाल्यानि परिधाप्य विभूषयेत् ॥ ८.२३१ ॥

अथ महारजोपचरर्पनं

ततश्च चामरच्छत्रपादुकादीन् परानपि ।
महाराजोपचाराम्श्च दत्त्वादर्शं प्रदर्शयेत् ॥ ८.२३२ ॥

विष्णुधर्मोत्तरे
यथादेशं यथाकलं राजलिङ्गं सुरालये ।
दत्त्वा भवति राजैव नात्र कार्या विचारणा  ॥ ८.२३३ ॥

तत्र चामरमाहात्म्यं

तथा चामरदानेन श्रीमान् भवति भूतले ।
मुच्यते च तथा पापैः स्वर्गलोकं च गच्छति  ॥ ८.२३४ ॥


छत्रस्य माहात्म्यं

तत्रैव
छत्रं बहुशलाकं च झल्लरीवस्त्रसंयुतम् ।
दिव्यवस्त्रैश्च संयुक्तं हेमदण्डसमन्वितम्  ॥ ८.२३५ ॥
यः प्रयच्छति कृष्णस्य छत्रलक्षयुतैर्वृतः ।
प्रार्थ्यते सोऽमरैः सर्वैः क्रीडते पितृभिः सह  ॥ ८.२३६ ॥

तत्रैव वान्यत्र
राजा भवति लोकेऽस्मिन् छत्रं दत्त्वा द्विजोत्तमः ।
नाप्नोति रिपुजं दुःखं सङ्ग्रामे रिपुजिद्भयेत् ॥ ८.२३७ ॥
उपानत्सम्प्रदानेन विमानमधिरोहति ।
यथेष्टं तेन लोकेषु विचरत्यमरप्रभः  ॥ ८.२३८ ॥
ध्वजस्य माहात्म्यं

तत्रैव
लोकेषु ध्वजभूतः स्याद्दत्त्वा विष्णोर्वरं ध्वजम् ।
शक्रलोकमवाप्नोति बहूनब्दगणान्नरः  ॥ ८.२३९ ॥

किं च
युक्तं पीतपताकाभिर्निवेद्य गरुडध्वजम् ।
केशवाय द्विजश्रेष्ठः सर्वलोके महीयते इति  ॥ ८.२४० ॥
यत्प्रसादे ध्वजारोपमाहात्म्यं लिखितं पुरा ।
तदत्राप्यखिलं ज्ञेयं तत्रात्रत्यमिदं तथा  ॥ ८.२४१ ॥

किं च भविष्ये
विष्णोर्ध्वजे तु सौवर्णं दण्डं कुर्याद्विचक्षणः ।
पताका चापि पीता स्याद्गरुडस्य समीपगा  ॥ ८.२४२ ॥

व्यजनस्य माहात्म्यं

विष्णुधर्मोत्तरे
तलव्र्ण्तप्रदानेन निर्वृतिं प्राप्नुयात्परम्   ॥ ८.२४३ ॥

वितनस्य माहात्म्यं
तत्रैव
वितानकप्रदानेन सर्वपापैः प्रमुच्यते ।
परं निर्वृतिमाप्नोति यत्र तत्राभिजायते  ॥ ८.२४४ ॥

खद्गदीनां माहात्म्यं

दत्त्वा निस्त्रिंशकान्मुख्यान् शत्रुभिर्नाभिभूयते ।
दत्त्वा तद्बन्धनं मुख्यमग्न्य्आधेयफलं लभेत् ॥ ८.२४५ ॥

किं च
पतद्ग्रहं तथा दत्त्वा शुभदस्त्वभिजायते ।
पादपीठप्रदानेन स्थानं सर्वत्र विन्दति  ॥ ८.२४६ ॥
दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् ।
मार्जयित्वा तथा तं च शुभगस्त्वभिजायते  ॥ ८.२४७ ॥
यत्किञ्चिद्देवदेवाय दद्याद्भक्तिसमन्वितः ।
तदेवाक्षयमाप्नोति स्वर्गलोकं स गच्छति  ॥ ८.२४८ ॥

किं च, वामनपुराणे श्रीबलिं प्रति श्रीप्रह्लादोक्तौ
श्रद्दधानैर्भक्तिपरैर्यान्युद्दिश्य जनार्दनम् ।
बलिदानानि दीयन्ते अक्षयानि विदुर्बुधः  ॥ ८.२४९ ॥
अत्रापि केचिदिच्छन्ति दत्त्वा पुष्पाञ्जलित्रयम् ।
पूर्वोक्त दश शङ्खाद्या मुद्राः सन्दर्शयेत् ॥ ८.२५० ॥
इति ।

अथ गीतवद्यनृत्यनि

ततो विचित्रैर्ललितैः कारितैर्वा स्वयं कृतैः ।
गीतैर्वाद्यैश्च नृत्यैश्च श्रीकृष्णं परितोषयेत् ॥ ८.२५१ ॥

अथ तत्र निषिद्धं

नृत्यादि कुर्वतो भक्तान्नोपविष्टोऽवलोकयेत् ।
न च तिर्यग्व्रजेत्तत्र तैः सहान्तरयन् प्रभुम्  ॥ ८.२५२ ॥

तथा चोक्तं
नृत्यन्तं वैष्णवं हर्सादासीनो यस्तु पश्यति ।
खञ्जो भवति राजेन्द्र सोऽयं जन्मनि जन्मनि  ॥ ८.२५३ ॥

किं च
नृत्यतां गायतां मध्ये भक्तानां केशवस्य च ।
तानृते यस्तिरो याति तिर्यग्योनिं स गच्छति  ॥ ८.२५४ ॥

अथ गीतदिमाहात्म्यम्
अदौ समन्यतः

नारसिंहे
गीतवाद्यादिकं नाट्यं शङ्खतुर्यादिनिस्वनम् ।
यः कारयति विष्णोस्तु सन्ध्यायां मन्दिरे नरः ।
सर्वकाले विशेषेण  कामगः कामरूपवान्  ॥ ८.२५५ ॥
सुसङ्गीतविदग्धैश्च सेव्यमानोऽप्सरोगणैः ।
महार्हेण विमानेन विचित्रेण विराजता ।
स्वर्गात्स्वर्गमनुप्राप्य विष्णुलोके महीयते  ॥ ८.२५६ ॥
स्कान्दे विष्णुनारदसंवादे
गीतं वाद्यं च नृत्यं च नाट्यं विष्णुकथां मुने ।
यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः  ॥ ८.२५७ ॥

बृहन्नारदीये श्रीयमभगीरथसंवादे
देवतायतने यस्तु भक्तियुक्तः प्रनृत्यति ।
गीतानि गायत्यथवा तत्फलं शृणु भूपते  ॥ ८.२५८ ॥
गन्धर्वराजतां गणैर्नृत्याद्रुद्रगणेशताम् ।
प्राप्नोत्यष्टकुलैर्युक्तस्ततः स्यान्मोक्षभाङ्नरः  ॥ ८.२५९ ॥

लैङ्गे श्रीमार्कण्डेयाम्बरीषसंवादे
विष्णुक्षेत्रे तु यो विद्वान् कारयेद्भक्तिसंयुतः ।
गननृत्यादिकं चैव विष्ण्व्आख्यं च कथां तथा  ॥ ८.२६० ॥
जातिं स्मृतिं च मेधां च तथैव परमां स्थितिम् ।
प्राप्नोति विष्णुसालोक्यं सत्यमेतन्नाराधिप  ॥ ८.२६१ ॥

अन्यत्र च श्रीभगवद्उक्तौ
विसृज्य लज्जां योऽधीते गायते नृत्यतेऽपि च ।
कुलकोटिसमायुक्तो लभते मामकं पदम्  ॥ ८.२६२ ॥

अत एवोक्तं
भारते नृत्यगीते तु कुर्यात्स्वाभाविकेऽपि वा ।
स्वाभाविकेन भगवान् प्रीणातीत्याह शौनकः  ॥ ८.२६३ ॥

अत एव नारदीये
विष्णोर्गीतं च नृत्यं च नटानां च विशेषतः ।
ब्रह्मन् ब्राह्मणजातीनां कर्तव्यं नित्यकर्मवत् ॥ ८.२६४ ॥

किन्तु स्मृतौ
गीतनृत्यानि कुर्वीत देवद्विजादितुष्टये ।
न जीवनाय युञ्जीत विप्रो पापभिया क्वचित् ॥ ८.२६५ ॥

एवं कृष्णप्रीणनत्वाद्गीतादेर्नित्यता परा ।
संसिद्धैरविशेषेन ज्ञेया सा हरिवसरे  ॥ ८.२६६ ॥

तथा चोक्तं
केशवाग्रे नृत्यगीतं न करोति हरेर्दिने ।
वह्निना किं न दग्धोऽसौ गतः किं न रसातलं  ॥ ८.२६७ ॥

अथ विशेषतो गीतस्य माहात्म्यं

द्वारकामाहात्म्ये श्रीमर्कन्देयेन्द्रद्युम्नसंवादे
कृष्णं सन्तोषयेद्यस्तु सुगीतैर्मधुरस्वनैः ।
सर्ववेदफलं तस्य जायते नात्र संशयः  ॥ ८.२६८ ॥

स्कान्दे श्रीमहादेवोक्तौ
श्रुतिकोटिसमं जप्यं जपकोटिसमं हविः ।
हविह्कोटिसमं गेयं गेयं गेयसमं विदुः  ॥ ८.२६९ ॥

कसिखण्डे विष्णुदूतशिवशर्मसंवादे
यदि गीतं क्वचिद्गीतं श्रीमद्धरिहराङ्कितम् ।
मोक्षं तु तत्फलं प्राहुह्सान्निध्यमथवा तयोः  ॥ ८.२७० ॥
विष्णुशर्मे श्रीभगवद्उक्तौ
रागेणाकृष्यते चेतो गान्धर्वाभिमुखं यदि ।
मयि बुद्धिं समास्थाय गायेथ मम सत्कथाः  ॥ ८.२७१ ॥

हरिभक्तिसुधोदये
यो गायति समनिशं भुवि भक्ता उच्चैः
स द्राण्समस्तजनपापभिदेऽलमेकः ।
दीपेस्वसत्स्वपि ननु प्रतिगेहमन्तर्
ध्वान्तं किमत्र विलसत्यमले द्युनाथे  ॥ ८.२७२ ॥

यदानन्दकलं गायन् भक्तः पुण्याश्रु वर्षति ।
तत्सर्वतीर्थसलिलस्नानं स्वमलशोधनं  ॥ ८.२७३ ॥

वाराहे
ब्राह्मणो वासुदेवार्थं गायमनोऽनिशं परम् ।
सम्यक्तालप्रयोगेण सन्निपातेन वा पुनः  ॥ ८.२७४ ॥
नव वर्षसहस्राणि नव वर्षशतानि च ।
कुवेरभवनं गत्वा मोदते वै यदृच्छया  ॥ ८.२७५ ॥
कुवेरभवनाद्भ्रष्टः स्वच्छन्दगमनालयः ।
फलमाप्नोति सुश्रोणि मम कर्मपरायणः  ॥ ८.२७६ ॥
नारायणानां विधिना गानं श्रेष्ठतमं स्मृतम् ।
गानेनाराधितो विष्णुह्स्वकीर्तिजनवर्चसा  ददाति ।
तुष्टः स्थानं स्वं यथास्मै कौशिकया वै  ॥ ८.२७७ ॥

किं च
एष वो मुनिशार्दूलः प्रोक्तो गीतक्रमो मुनेः ।
ब्राह्मणो वासुदेवाख्यं गायमानोऽनिशं परम्  ॥ ८.२७८ ॥
हरेः सालोक्यमाप्नोति रुद्रगानाधिको भवेत् ।
कर्मणा मनसा वाचा वासुदेवपरायणः ।
गायन्नृत्यंस्तमाप्नोति  तस्माद्गेयं परं विदुः  ॥ ८.२७९ ॥

प्रथमस्कन्धे श्रीनारदोक्तौ  (१.६.३३)
प्रगायतः स्ववीर्याणि तीर्थपदः प्रियश्रवः ।
अहुत इव मे सिघ्रं दर्शनं याति चेतसि  ॥ ८.२८० ॥

द्वादशस्कन्धे  (१२.१२.४९५०) श्रीसूतोक्तौ
मृषा गिरस्ता ह्यसतीरसत्कथा
न कथ्यते यद्भगवानधोक्षजः ।
तदेव सत्यं तदुहैव मङ्गलं
तदेव पुण्यं भगवद्गुनोदयम्  ॥ ८.२८१ ॥

तदेव रम्यं रुचिरं नवं नवं
तदेव शश्वन्मनसो महोत्सवम् ।
तदेव शोकार्णवशोषणं नॄणां
यदुत्तमश्लोकयशोऽनुगीयते  ॥ ८.२८२ ॥

विष्णुधर्मोत्तरे
दत्त्वा च गीतं धर्मज्ञा गन्धर्वैः सह मोदते ।
स्वयं गीतेन सम्पूज्य तस्यैवानुचरो भवेत् ॥ ८.२८३ ॥

पाद्मे श्रीकृष्णसत्यभामासंवादीयकार्त्तिकमाहात्म्ये श्रीपृथुनारदसंवादे श्रीभगवद्उक्तौ
नाहं वसामि वैकुण्ठे न योगिहृदयेषु वा ।
मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद  ॥ ८.२८४ ॥
तेषां पूजादिकं गन्धपद्याद्यैः क्रियते नरैः ।
तेन प्रीतिं परां यामि न तथा मत्पूजनात् ॥ ८.२८५ ॥

अत एवोक्तं
कर्माण्यौपायिकत्वेन ब्राह्मणोऽन्य इति स्मृतः ।
कारिकायामतः प्रोक्तं विप्रो गीतै रमेदिति  ॥ ८.२८६ ॥

अथ नृत्यस्य माहात्म्यं

द्वारकामाहात्म्ये तत्रैव
यो नृत्यति प्रहृष्टात्मा भावैर्बहुसुभक्तितः ।
स निर्दहति पापानि जन्मान्तरशतेष्वपि  ॥ ८.२८७ ॥

हरिभक्तिसुधोदय
बहुधोत्सार्यते हर्षाद्विष्णुभक्तस्य नृत्यतः ।
पद्भ्यां भूमेर्दिशोऽक्षिभ्यां दोर्भ्यां वामङ्गलं दिवः  ॥ ८.२८८ ॥

वाराहे
यश्च नृत्यति सुश्रोणि पुराणोक्तं समासतः ।
त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च ।
पुष्करद्वीपमासाद्य मोदते वै यदृच्छया  ॥ ८.२८९ ॥
पुष्कराच्च परिभ्रष्टः स्वच्छन्दगमनालयः ।
फलमाप्नोति सुश्रोणि मम कर्मपरायणः  ॥ ८.२९० ॥

विष्णुधर्मोत्तरे
नृत्यं दत्त्वा तथाप्नोति रुद्रलोकमसंशयम् ।
स्वयं नृत्येन सम्पूज्य तस्यैवानुचरो भवेत् ॥ ८.२९१ ॥

अन्यत्र श्रीनारदोक्तौ
नृत्यतां श्रीपतेरग्रे तालिकावादनैर्भृशम् ।
उड्डीयन्ते शरीरस्थाः सर्वे पातकपक्षिणः  ॥ ८.२९२ ॥

सङ्गीतशास्त्रे
वीणावादनतत्त्वज्ञह्श्रुतिजातिविशारदः ।
तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति  ॥ ८.२९३ ॥

विष्णुधर्मोत्तरे
वाद्यं दत्त्वा तथा विप्रह्शक्रलोकमवाप्नुयात् ।
स्वयं वद्येन सम्पूज्य तस्यैवनुचरो भवेत् ॥ ८.२९४ ॥
वाद्यानामपि देवस्य तन्त्रीवाद्यं सदा प्रियम् ।
तेन सम्पूज्य वरदं गाणपत्यमवाप्नुयात् ॥ ८.२९५ ॥

अतः सक्तौ पुनः पूज

शक्तश्चेत्सपरिवारं कृष्णं गन्धादिभिः पुनः ।
पञ्चोपचारैर्मूलेन सम्पूज्यार्घ्यं समर्पयेत् ॥ ८.२९६ ॥

अथ नीराजनं

ततश्च मूलमन्त्रेन दत्त्वा पुष्पाञ्जलित्रयम् ।
महानीराजनं कुर्यान्महावाद्यजयस्वनैः  ॥ ८.२९७ ॥
प्रज्वलयेत्तद्अर्थं च कर्पूरेण घृतेन वा ।
आरात्रिकं शुभे पात्रे विषमानेकवर्तिकं  ॥ ८.२९८ ॥

अथ नीराजनमाहात्म्यम्

स्कान्दे ब्रह्मनारदसंवादे
बहुवर्त्तिसमायुक्तं ज्वलन्तं केशवोपरि ।
कुर्यादारात्रिकं यस्तु कल्पकोटिं वसेद्दिवि  ॥ ८.२९९ ॥
कर्पूरेन तु यः कुर्याद्भक्त्या केशवमुर्धनि ।
आरात्रिकं मुनिश्रेष्ठ प्रविशेद्विष्णुमव्ययं  ॥ ८.३०० ॥

तत्रैवन्यत्र
दीप्तिमन्तं सकर्पूरं करोत्यारात्रिकं नृप ।
कृष्णस्य वसते लोके सप्त कल्पानि मानवाः  ॥ ८.३०१ ॥

तत्रैव श्रीसिवोमसंवादे
मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं हरेः ।
सर्वं सम्पूर्णतामेति कृते नीराजने शिवे  ॥ ८.३०२ ॥

हरिभक्तिसुधोदये
कृत्वा नीराजनं विष्णोर्दीपावल्या सुदृश्यया ।
तमोविकारं जयति जिते तस्मिम्श्च को भवः  ॥ ८.३०३ ॥

अन्यत्र च
कोटयो ब्रह्महत्यानामगम्यागमकोतयः ।
दहत्यालोकमात्रेण विष्णोः सारात्रिकं मुखं  ॥ ८.३०४ ॥
इति ।

यच्च दीपस्य माहात्म्यं पूर्वं लिखितमस्ति तत् ।
द्रस्तव्यं सर्वत्रापि प्रायेनाभेदतोऽनयोः  ॥ ८.३०५ ॥
अतः सादरमुत्थाय महानीराजनं त्विदम् ।
द्रष्टव्यं दीपवत्सर्वैर्वन्द्यमारात्रिकं च यत् ॥ ८.३०६ ॥

तदुक्तं श्रीपुलस्त्येन विष्णुधर्मे
धूपं चारात्रिकं पश्येत्कराभ्यां च प्रवन्दते ।
कुलकोटिं समुद्धृत्य याति विष्णोः परं पदं  ॥ ८.३०७ ॥

मूलागमे च
नीराजनं च यः पश्येद्देवदेवस्य चक्रिणः ।
सप्त जन्मानि विप्रः स्यादन्ते च परमं पदम्  ॥ ८.३०८ ॥

अथ शङ्खादिवादनमाहात्म्यम्

बृहन्नारदीये श्रीयमभगीरथसंवादे
केशवायतने राजन् कुर्वन् शङ्खरवं नरः ।
सर्वपापविनिर्मुक्तो ब्रह्मणा सह मोदते  ॥ ८.३०९ ॥
करशब्दं प्रकुर्वन्ति केशवायतनेषु ये ।
ते सर्वे पापनिर्मुक्ता विमानेशा युगद्वयम्  ॥ ८.३१० ॥
तालादिकांस्यनिनदं कुर्वन् विष्णुगृहे नरः ।
यत्फलं लभते राजन् शृणुष्व गदतो मम  ॥ ८.३११ ॥
सर्वपापविनिर्मुक्तो विमानशतसङ्कुलः ।
गीयमानश्च गन्धर्वैर्विष्णुना सह मोदते  ॥ ८.३१२ ॥
भेरीमृदङ्गपटहमुरजैश्च सडिण्डिमैः ।
संप्रीणयन्ति देवेशं तेषां पुण्यफलं शृणु  ॥ ८.३१३ ॥
देवस्त्रीगणसंयुक्ताः सर्वकामैः समर्चिताः ।
स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपञ्चकम्  ॥ ८.३१४ ॥
इति ।

अथ सजलशङ्खनीराजनं

ततश्च सजलं शङ्खं भगवन्मस्तकोपरि ।
त्रि भ्रामयित्वा कुर्वीत पुनर्नीराजनं प्रभोः  ॥ ८.३१५ ॥
तन्माहात्म्यं च

द्वारकामाहात्म्ये तत्रैव
शङ्खे कृत्वा तु पानीयं भ्रामितं केशवोपरि ।
सन्निधौ वसते विष्णोः कल्पान्तं क्षीरसागरे  ॥ ८.३१६ ॥
इति ।

नीराजनद्वयं चैतत्ताम्बूलस्यार्पणं परम् ।
केचिदिच्छन्ति केचिच्च दर्पणार्पणतः परम्  ॥ ८.३१७ ॥

तथा च पञ्चरात्रे
पुनराचमनं दद्यात्करोद्वर्तनमेव च ।
सकर्पूरं च ताम्बूलं कुर्यान्नीराजनं तथा  ॥ ८.३१८ ॥
समर्प्य मुकुटादीनि भूषणानि विचक्षणः ।
आदर्शयेत्तथादर्शं प्रकल्प्य छत्रचामरे  ॥ ८.३१९ ॥

गारुडे च
अथ भुक्तवते दत्त्वा जलैः कर्पूरवासितैः ।
आचमनं च ताम्बूलं चन्दनैः करमार्जनम्  ॥ ८.३२० ॥
पुष्पाञ्जलिं ततः कृत्वा भक्त्यादर्शं प्रदर्शयेत् ।
नीराजनं पुनः कार्यं कर्पूरं विभवे सति  ॥ ८.३२१ ॥

अत एव वायुपुराणे
आरात्रिकं तु निःस्नेहं निःस्नेहयति देवताम् ।
अतः संशमयित्वैव पुनः पूजनमाचरेत् ॥ ८.३२२ ॥

अत एव द्वारकामाहात्म्ये
तत्रैव कृत्वा पूजादिकं सर्वं ज्वलन्तं कृष्णमूर्धनि ।
आरात्रिकं प्रकुर्वाणो मोदते कृष्णसन्निधौ  ॥ ८.३२३ ॥
इति ।

केचिन्नीराजनत्पश्चादिच्छन्ति प्रणतिं ततः ।
प्रदक्षिणं ततः स्तोत्रं गीतनृत्यादिकं ततः  ॥ ८.३२४ ॥
एवं भगवतः स्वस्वसम्प्रदायानुसारतः ।
प्रवर्तन्ते प्रभोर्भक्तौ भक्त्या सर्वं हि शोभनम्  ॥ ८.३२५ ॥
ततो निक्षिप्य देवस्योपरि पुस्पाञ्जलित्रयम् ।
विचित्रैर्मधुरैः स्तोत्रैह्स्तुतिं कुर्वीत भक्तिमान्  ॥ ८.३२६ ॥

अथ स्तुतिविधिः

महाभारते
आरिराधयिषुः कृष्णं वाचं जिगदिषामि यम् ।
तया व्याससमासिन्या प्रीयतां मधुसूदनः  ॥ ८.३२७ ॥
इति ।

आरम्भे च स्तुतेरेतं श्लोकं स्तुतिपरः पठेत् ।
सत्यां तस्यां समाप्तौ च श्लोकं सङ्कीर्तयेदिमम्  ॥ ८.३२८ ॥
इति विद्यातपोयोनिरयोनिर्विष्णुरीरितः ।
वग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः  ॥ ८.३२९ ॥

पूर्वतापनीश्रुतिषु [ङ्टू १.३४४५]
ओं नमो विश्वरूपाय विश्वस्थित्य्अन्तहेतवे ।
विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः  ॥ ८.३३० ॥
नमो विज्ञानरूपाय परमानन्दरूपिणे ।
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमं  ॥ ८.३३१ ॥
नमः कमलनेत्राय नमः कमलमालिने ।
नमः कमलनाभाय कमलापतये नमः  ॥ ८.३३२ ॥
बर्हापीडाभिरामाय रामयाकुण्ठमेधसे ।
रमामानसहंसाय गोविन्दाय नमो नमं  ॥ ८.३३३ ॥
कंसवंशविनाशाय केशिचाणूरघातिने ।
वृषभध्वजवन्द्याय पार्थसारथये नमः  ॥ ८.३३४ ॥
वेणुवादनशीलाय गोपालायाहिमर्दिने ।
कालिन्दीकूललोलाय लोलकुण्डलधारिणे  ॥ ८.३३५ ॥
वल्लवीवदनाम्भोजमालिने नृत्यशालिने ।
नमः प्रणतपालाय श्रीकृष्णाय नमो नमः  ॥ ८.३३६ ॥
नमः पापप्रणाशाय गोवर्धनधराय च ।
पूतनाजीवितान्ताय तृणावार्तासुहारिणे  ॥ ८.३३७ ॥
निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।
अद्वितीयाय महते श्रीकृष्णाय नमो नमः  ॥ ८.३३८ ॥
प्रसीद परमानन्द प्रसीद परमेश्वर ।
आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो  ॥ ८.३३९ ॥
श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ।
संसारसागरे मग्नं मामुद्धर जगद्गुरो  ॥ ८.३४० ॥
केशव क्लेशहरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव  ॥ ८.३४१ ॥

एकादशस्कन्धे [भागवतम् ११.५.३३३४]
ध्येयं सदा परिभवघ्नमभीष्टदोहं
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यं
भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं
वन्दे महापुरुष ते चरणारविन्दम्  ॥ ८.३४२ ॥

त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधावद्
वन्दे महापुरुष ते चरणारविन्दम्  ॥ ८.३४३ ॥

अथ वद्यस्य माहात्म्यं

वैदिकानीदृशान्येव कृष्णे पौराणिकान्यपि ।
तान्त्रिकाणि च शास्त्राणि स्तोत्राण्यभिनवान्यपि  ॥ ८.३४४ ॥

विष्णुधर्मोत्तरे हंसगीतयं
अभ्रष्टलक्षणैः कृत्वा स्वयं विरचिताक्षरैः ।
स्तवं ब्राह्मणशार्दूलस्तस्मात्कामानवाप्नुयात् ॥ ८.३४५ ॥
स्तुतिमाहात्म्यं

विष्णुधर्मे
सर्वदेवेषु यत्पुण्यं सर्वदेवेषु यत्फलम् ।
नरस्तत्फलमाप्नोति स्तुत्वा देवं जनार्दनम्  ॥ ८.३४६ ॥

विष्णुधर्मोत्तरे
न वित्तदाननिचयैर्बहुभिर्मधुसूउदनः ।
तथा तोषमवाप्नोति यथा स्तोत्रैर्द्विजोत्तमः  ॥ ८.३४७ ॥

नारसिंहे
स्तोत्रैर्जपैश्च देवाग्रे यः स्तौति मधुसूदनम् ।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥ ८.३४८ ॥

हरिभक्तिसुधोदये
स्तुवन्नमेयमाहात्म्यं भक्तिग्रथितरम्यवाक् ।
भवेद्ब्रह्मादिदुर्लभ्यप्रभुकारुण्यभाजनम्  ॥ ८.३४९ ॥
यथा नरस्य स्तुवतो बालकस्येव तुष्यति ।
मुग्धवाक्यैर्न हि तथा विबुधानां जगत्पिता  ॥ ८.३५० ॥

अबलं प्रभुरीप्सितोन्नतिं
कृतयत्नं स्वयशह्स्तवे घ्र्णी ।
स्वयमुद्धरति स्तनार्थिनं
पदलग्नं जननीव बालकम्  ॥ ८.३५१ ॥

स्कान्दे अमृतसरोद्धरे
श्रीकृष्णस्तवरत्नौघैर्येषां जिह्वा त्वलङ्कृता ।
नमस्या मुनिसिद्धानां वन्दनीया दिवौकसाम्  ॥ ८.३५२ ॥

तत्रैव कर्त्तिकमाहात्म्ये श्रीब्रह्मनारदसंवादे
स्तोत्राणां परमं स्तोत्रं विष्णोर्नामसहस्रकम् ।
हित्वा स्तोत्रसहस्राणि पठनीयं महामुने  ॥ ८.३५३ ॥
तेनैकेन मुनिश्रेष्ठ पथितेन सदा हरिः ।
प्रीतिमायाति देवेशो युगकोटिशतानि च  ॥ ८.३५४ ॥
इति ।

स्नाने यत्स्तोत्रमाहात्म्यं लिखितं लेख्यमग्रतः ।
यच्च कीर्तनमाहात्म्यं सर्वं ज्ञेयमिहापि तत् ॥ ८.३५५ ॥

तन्नित्यत

विष्णुधर्मे
नूनं तत्कण्ठशालूकमथवा प्रतिजिह्विका ।
रोगो वान्यो न सा जिह्वा या न स्तौति हरेर्गुणान्  ॥ ८.३५६ ॥

अथ वन्दनं

प्रणमेदथ साष्टाङ्गं तन्मुद्रां च प्रदर्शयेत् ।
पठेत्प्रतिप्रणामं च प्रसीद भगवन्निति  ॥ ८.३५७ ॥

तदुक्तमेकादशे श्रीभगवता [भागवतम् ११.२७.४५]
स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि  ।
स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत्  ॥ ८.३५८ ॥

अथ प्रणामविधिः

तत्रैव [भागवतम् ११.२७.४६]
शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम्  ।
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात्  ॥ ८.३५९ ॥

किं चागमे
दोर्भ्यां पद्भ्यां च जानुभ्यामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः  ॥ ८.३६० ॥
जानुभ्यां चैव बाहुभ्यां शिरसा वचसा धिया ।
पञ्चाङ्गकः प्रणामः स्यात्पूजासु प्रवराविमौ  ॥ ८.३६१ ॥
इति ।

गरुदं दक्षिने कृत्वा कुर्यात्तत्पृष्ठतो बुधः ।
अवश्यं च प्रणामांस्त्रीन् शक्तश्चेदधिकाधिकान्  ॥ ८.३६२ ॥

तथा च नारदपञ्चरात्रे
सन्धिं वीक्ष्य हरिं चाद्यं गुरून् स्वगुरुमेव च ।
द्विचतुर्विंशदथवा चतुर्विंशत्तद्अर्धकम् ।
नमेत्तद्अर्धमथवा तद्अर्धं सर्वथा नमेत् ॥ ८.३६३ ॥

विष्णुधर्मोत्तरे
देवार्चादर्शनादेव प्रणमेन्मधुसूदनम् ।
स्नानापेक्षा न कर्तव्या दृष्ट्वार्चां द्विजसत्तमः ।
देवार्चादृष्टपूतं हि  शुचि सर्वं प्रकीर्तितम्  ॥ ८.३६४ ॥

अथ नमस्करमाहात्म्यं

नारसिंहे
नमस्कारः स्मृतो यज्ञः सर्वयज्ञेषु चोत्तमः ।
नमस्कारेण चकेन साष्टाङ्गेन हरिं व्रजेत् ॥ ८.३६५ ॥

स्कान्दे
दण्डप्रणामं कुरुते विष्णवे भक्तिभावितः ।
रेणुसङ्ख्यं वसेत्स्वर्गे मन्वन्तरशतं नरः  ॥ ८.३६६ ॥

तत्रैव श्रीब्रह्मनारदसंवादे
प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्चयेत् ।
स यां गतिमवाप्नोति न तां क्रतुशतैरपि ।
नमस्कारेण चैकेन  नरः पुतो हरिं व्रजेत् ॥ ८.३६७ ॥

तत्रैव श्रीसिवोमसंवादे
भूमिमापीड्य जानुभ्यां शिर आरोप्य वै भुवि ।
प्रणमेद्यो हि देवेशं सोऽश्वमेधफलं लभेत् ॥ ८.३६८ ॥

तत्रैवन्यत्र
तीर्थकोटिसहस्राणि तीर्थकोटिशतानि च ।
नारायणप्रणामस्य कालं नार्हन्ति षोडशीम्  ॥ ८.३६९ ॥
शाठ्येनापि नमस्कारं कुर्वतः शार्ङ्गधन्वने ।
शतशन्मार्जितं पापं तत्क्षनादेव नश्यति  ॥ ८.३७० ॥
रेणुमण्डितगात्रस्य कणा देहे भवन्ति यत् ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते  ॥ ८.३७१ ॥

विष्णुधर्मोत्तरे
अभिवाद्यं जगन्नाथं कृतार्थश्च तथा भवेत् ।
नमस्कारक्रिया तस्य सर्वपापप्रणाशिनी  ॥ ८.३७२ ॥
जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः ।
कृत्वा प्रणामं देवस्य सर्वान् कामानवाप्नुयात् ॥ ८.३७३ ॥

विष्णुपुराणे [?]
अनादिनिधनं देवं दैत्यदानवदारणम् ।
ये नमन्ति नरा नित्यं न हि पश्यन्ति ते यमम्  ॥ ८.३७४ ॥
ये जना जगतां नाथं नित्यं नारायणं द्विजाः ।
नमन्ति न हि ते विष्णोः स्नानादन्यत्र गामिनः  ॥ ८.३७५ ॥

नारदीये
एकोऽपि कृष्णाय कृतः प्रणामो
दशाश्वमेधावभृथैर्न तुल्यः ।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय  ॥ ८.३७६ ॥

हरिभक्तिसुधोदये
विष्णोर्दण्डप्रणामार्थं भक्तेन पतितो भुवि ।
पतितं पातकं कृत्स्नं नोत्तिष्ठति पुनः सह  ॥ ८.३७७ ॥

पाद्मे देवदूतविकुण्डलसंवादे
तपस्तप्त्वा नरो घोरमरण्ये नियतेन्द्रियः ।
यत्फलं समवाप्नोति तन्नत्वा गरुडध्वजम्  ॥ ८.३७८ ॥
कृत्वापि बहुशः पापं नरो मोहसमन्वितः ।
न याति नरकं नत्वा सर्वपापहरं हरिम्  ॥ ८.३७९ ॥

तत्रैव वेदनिधिस्तुतौ

अपि पापं दुराचारं नरं तत्प्रणतो हरेः ।
नेक्षन्ते किङ्करा याम्या उलूकास्तपनं यथा  ॥ ८.३८० ॥

विष्णुपुराणे श्रीयमस्य निजभटानुशासने [Vइড়् ३.७.१८]
हरिममरगणार्चिताङ्घ्रिपद्मं
प्रणमति यः परमार्थतो हि मर्त्यः ।
तमपगतसमस्तपापबन्धं
व्रज परिहृत्य यथाग्निमाज्यसिक्तम्  ॥ ८.३८१ ॥

ब्रह्मवैवर्ते
शरणागतरक्षणोद्यतं
हरिमीशं प्रणमन्ति ये नराः ।
न पतन्ति भवाम्बुधौ स्फुटं
पतितानुद्धरति स्म तानसौ  ॥ ८.३८२ ॥

अष्टमस्कन्धे च बलिवाक्ये [भागवतम् ८.२३.२]
अहो प्रणामाय कृतः समुद्यमः
प्रपन्नभक्तार्थविधौ समाहितः ।
यल्लोकपालैस्त्वद्अनुग्रहोऽमरैर्
अलब्धपूर्वोऽपसदेऽसुरेऽर्पितः  ॥ ८.३८३ ॥

अतैव नारायणव्यूहस्तवे
अहो भाग्यमहो भाग्यमहो भाग्यं नॄणामिदम् ।
येषां हरिपदाब्जाग्रे शिरो न्यस्तं यथा तथा  ॥ ८.३८४ ॥

किं च, नारसिंहे श्रीयमोक्तौ
तस्य वै नरसिंहस्य विष्णोरमिततेजसः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः  ॥ ८.३८५ ॥

भविष्योत्तरे च
विष्णोर्देवजगद्धातुर्जनार्दनजगत्पतेः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः  ॥ ८.३८६ ॥
इति ।
अथ प्रणामनित्यत

बृहन्नारदीये लुब्धकोपाख्यानारम्भे
सकृद्वा न नमेद्यस्तु विष्णवे सर्मकारिणे ।
शवोपरं विजानीयात्कदाचिदपि नालपेत् ॥ ८.३८७ ॥

किं च, पाद्मे वैशाखमाहात्म्ये यमब्राह्मणसंवादे
पश्यन्तो भगवद्द्वारं नाम शास्त्रपरिच्छदम् ।
अकृत्वा तत्प्रणामादि यान्ति ते नरकौकसः  ॥ ८.३८८ ॥

अथ नमस्करनिषिद्धनि

विष्णुस्मृतौ
जन्मप्रभृति यत्किञ्चित्पुमान् वै धर्ममाचरेत् ।
सर्वं तन्निष्फलं यात्येकहस्ताभिवादनात् ॥ ८.३८९ ॥

वाराहे
वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत माम् ।
श्वित्री स जायते मूर्खह्सप्त जन्मानि भामिनी  ॥ ८.३९० ॥

किं चान्यत्र
अग्रे पृष्ठे वामभागे समीपे गर्भमन्दिरे ।
जपहोमनमस्कारान्न कुर्यात्केशवालये  ॥ ८.३९१ ॥

अपि च
सकृद्भूमौ निपतितो न शक्तः प्रणमेन्मुहुः ।
उत्थायोत्थाय कर्तव्यं दण्डवत्प्रणिपातनम्  ॥ ८.३९२ ॥
इति ।

अथ प्रदक्षिणा

ततः प्रदक्षिनां कुर्याद्भक्त्या भगवतो हरेः ।
नामानि कीर्तयन् शक्तौ तां च साष्टाङ्गवन्दनाम्  ॥ ८.३९३ ॥

प्रदक्षिणाशङ्ख्या

नारसिंहे
एकां चाण्ड्यां रवौ सप्त तिस्रो दद्याद्विनायके ।
चतस्रः केशवे दद्यात्शिवे त्वर्धप्रदक्षिनाम्  ॥ ८.३९४ ॥

अथ प्रदक्षिणामाहात्म्यं

वाराहे
प्रदक्षिणां ये कुर्वन्ति भक्तियुक्तेन चेतसा ।
न ते यमपुरं यान्ति यान्ति पुण्यकृतां गतिम्  ॥ ८.३९५ ॥
यस्त्रिः प्रदक्षिणां कुर्यात्साष्टाङ्गकप्रणामकम् ।
दशाश्वमेधस्य फलं प्राप्नुयान्नात्र संशयः  ॥ ८.३९६ ॥

स्कान्दे श्रीब्रह्मनारदसंवादे
विष्णोर्विमानं यः कुर्यात्सकृद्भक्त्या प्रदक्षिणाम् ।
अश्वमेधसहस्रस्य फलमाप्नोति मानवः  ॥ ८.३९७ ॥

तत्र चतुर्मस्यमाहात्म्ये

चतुर्वारं भ्रमीभिस्तु जगत्सर्वं चराचरम् ।
क्रान्तं भवति विप्राग्र्य तत्तीर्थगमनाधिकम्  ॥ ८.३९८ ॥

तत्रैवान्यत्र
प्रदक्षिणां तु यः कुर्याथरिं भक्त्या समन्वितः ।
हंसयुक्तविमानेन विष्णुलोकं स गच्छति  ॥ ८.३९९ ॥

नारसिंहे
प्रदक्षिणेन चैकेन देवदेवस्य मन्दिरे ।
कृतेन यत्फलं नृणां तच्छृणुष्व नृपात्मज ।
पृथ्वीप्रदक्षिणफलं यत्तत्प्राप्य हरिं व्रजेत् ॥ ८.४०० ॥।

अन्यत्र च
एवं कृत्वा तु कृष्णस्य यः कुर्याद्द्विः प्रदक्षिणाम् ।
सप्तद्वीपवतीपुण्यं लभते तु पदे पदे ।
पठन्नामसहस्रं तु  नामान्येवाथ केवलम्  ॥ ८.४०१ ॥

हरिभक्तिसुधोदये
विष्णुं प्रदक्षिणीकुर्वाण्यस्तत्रावर्तते पुनः ।
तदेवावर्तनं तस्य पुनर्नावर्तते भवे  ॥ ८.४०२ ॥

बृहन्नारदीये यमभगीरथसंवादे
प्रदक्षिणात्रयं कुर्याद्यो विष्णोर्मनुजेश्वर ।
सर्वपापविनिर्मुक्तो देवेन्द्रत्वं समश्नुते  ॥ ८.४०३ ॥

तत्रैव प्रदक्षिणामाहात्म्ये सुधर्मोपाख्यानारम्भे
भक्त्या कुर्वन्ति ये विष्णोह्प्रदक्षिणाचतुष्टयम् ।
तेऽपि यन्ति परं स्थानं सर्वलोकोत्तमोत्तमम्  ॥ ८.४०४ ॥
इति ।

तत्ख्यातं यत्सुधर्मस्य पूर्वस्मिन् गृध्रजन्मनि ।
कृष्णप्रदक्षिणाभ्यासान्महासिद्धिरभूदिति  ॥ ८.४०५ ॥

अथ प्रदक्षिणायं निषिद्धं

विष्णुस्मृतौ
एकहस्तप्रणामश्च एका चैव प्रदक्षिणा ।
अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम्  ॥ ८.४०६ ॥

किं च
कृष्णस्य पुरतो नैव सूर्यस्यैव प्रदक्षिणाम् ।
कुर्याद्भ्रमरिकारूपां वैमुख्यपदनीं प्रभोः  ॥ ८.४०७ ॥

तथा चोक्तं
प्रदक्षिणां न कर्तव्यं विमुखत्वाच्च कारणात् ॥ ८.४०८ ॥

अथ कर्माद्य्अर्पणम्

ततः श्रीकृष्णपादाब्जे दास्येनैव समर्पयेत् ।
त्रिभिर्मन्त्रैः स्वकर्माणि सर्वाण्यात्मानमप्यथ  ॥ ८.४०९ ॥

मन्त्रश्च
इतः पूर्वं प्राणबुद्धिधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्य्अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं श्रीकृष्णार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये समर्पयामीति । ओं तत्सत् ॥ ८.४१० ॥
इति ।
अथ तत्र कर्मर्पनं

बृहन्नारदीये
विरागी चेत्कर्मफले न किञ्चिदपि कारयेत् ।
अर्पयेत्स्वकृतं कर्म प्रीयतामिति मे हरिः  ॥ ८.४११ ॥

अत एव कूर्मपुराणे
प्रीणातु भगवानीशः कर्मणानेन शाश्वतः  ।
करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम्  ॥ ८.४१२ ॥
यद्वा फलानां सन्न्यासं प्रकुर्यात्परमेश्वरे ।
कर्मणामेतदप्याहुर्ब्रह्मार्पणमनुत्तमम्  ॥ ८.४१३ ॥

अथ कर्मार्पणविधिः

दक्षेण पाणिनार्घ्यस्थं गृहीत्वा चुलुकोदकम् ।
निधाय कृष्णपादाब्जसमीपे प्रार्थयेदिदम्  ॥ ८.४१४ ॥
पादत्रयक्रमाक्रान्त त्रैलोकेश्वर केशव ।
त्वत्प्रसादादिदं तोयं पाद्यं तेऽस्तु जनार्दन  ॥ ८.४१५ ॥

अथ कर्मर्पनमाहात्म्यं

बृहन्नारदीये
परलोकफलप्रेप्सुः कुर्यात्कर्माण्यतन्द्रितः ।
हरेर्निवेदयेत्तानि तत्सर्वं त्वक्षयं भवेत् ॥ ८.४१६ ॥

अत एव नारायणव्यूहस्तवे
कृष्णार्पितफलाः कृष्णं स्वधर्मेण यजन्ति ये ।
विष्णुभक्त्य्अर्थिनो धन्यास्तेभ्योऽपीह नमो नमः  ॥ ८.४१७ ॥

अथ स्वार्पणविधिः

अहं भगवतोऽंशोऽस्मि सदा दासोऽस्मि सर्वथा ।
तत्कृपापेक्षको नित्यमि त्यात्मानं समर्पयेत् ॥ ८.४१८ ॥

तथा चोक्तं श्रीशङ्कराचार्यपादैः
सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् ।
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः  ॥ ८.४१९ ॥

अथात्मार्पणमाहात्म्यम्

सप्तमस्कन्धे श्रीप्रह्लादोक्तौ [भागवतम् ७.६.२६]
धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग
ईक्षा त्रयी नयदमौ विविधा च वार्ता ।
मन्ये तदेतदखिलं निगमस्य सत्यं
स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः  ॥ ८.४२० ॥

एकादशे श्रीभगवद्उद्धवसंवादे [भागवतम् ११.२९.३४]
मर्त्यो यदा त्यक्तसमस्तकर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयात्मभूयाय च कल्पते वै  ॥ ८.४२१ ॥

अथ जपः

जपस्य पुरतः कृत्वा प्राणायामत्रयं बुधः ।
मन्त्रार्थस्मृतिपूर्वं च जपेदष्टोत्तरं शतम् ।
मूलं लेख्येन विधिना सदैव जपमालया  ॥ ८.४२२ ॥
शक्तौऽष्टाधिकसाहस्रं जपेत्तं चार्पयन् जपम् ।
प्राणायामांश्च कृत्वा त्रीन् दद्यात्कृष्णकरे जलम्  ॥ ८.४२३ ॥

तत्र चायं मन्त्रः

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिते  ॥ ८.४२४ ॥
इति ।

जपप्रकारो योऽपेक्ष्यो मालादिनियमात्मकः ।
पुरश्चर्याप्रसङ्गे तु स विलिख्यतेऽग्रतः  ॥ ८.४२५ ॥
अर्पितं तं च सञ्चिन्त्य स्वीकृतं प्रभुणाखिलम् ।
पुनः स्तुत्वा यथाशक्ति प्रणम्य प्रार्थयेदिदम्  ॥ ८. ४२६ ॥

आगमे
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे  ॥ ८.४२७ ॥

किं च
यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् ।
आवेदितं निवेद्यं तु तद्गृहाणानुकम्पया  ॥ ८.४२८ ॥
विधिहीनं मन्त्रहीनं यत्किञ्चिदुपपादितम् ।
क्रियामन्त्रविहीनं वा तत्सर्वं क्षन्तुमर्हसि  ॥ ८.४२९ ॥

किं च
अज्ञानादथवा ज्ञानादशुभं यन्मया कृतम् ।
क्षन्तुमर्हसि तत्सर्वं दास्येनैव गृहाण माम्  ॥ ८.४३० ॥
स्थितिः सेवा गतिर्यात्रा स्मृतिश्चिन्ता स्तुतिर्वचः ।
भूयात्सर्वात्मना विष्णो मदीयं त्वयि चेष्टितम्  ॥ ८.४३१ ॥

अपि च
कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो ।
मत्स्य कच्छप नारसिंह वराह राघव पाहि माम्  ॥ ८.४३२ ॥
देवदानवनारदादिवन्द्य दयानिधे ।
देवकीसुत देहि मे तव पादभक्तिमचलाम्  ॥ ८.४३३ ॥

श्रीविष्णुपुराणे [Vइড়् १.२०.१८१९]
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वच्युता भक्तिरच्युतेऽस्तु सदा त्वयि  ॥ ८.४३४ ॥
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे हृदयान्नापसर्पतु  ॥ ८.४३५ ॥

पाण्डवगीतायां
कीटेषु पक्षिषु मृगेषु सरीसृपेषु
रक्षःपिशाचमनुजेष्वपि यत्र तत्र ।
जातस्य मे भवतु केशव ते प्रसादात्
त्वय्येव भक्तिरतुलाव्यभिचारिणी च  ॥ ८.४३६ ॥

पाद्मे
युवतीनां यथा यूनि यूनां च युवतौ यथा ।
मनोऽभिरमते तद्वन्मनोऽभिरमतां त्वयि  ॥ ८.४३७ ॥

अथापराधक्षमापणम्

ततोऽपराधान् श्रीकृष्णं क्षमाशीलं क्षमापयेत् ।
सकाकु कीर्तयन् श्लोकानुत्तमान् साम्प्रदायिकान्  ॥ ८.४३८ ॥

तथा हि
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽहमिति मां मत्वा क्षमस्व मधुसूदन  ॥ ८.४३९ ॥

किं च
प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति ।
इति संस्मृत्य संस्मृत्य प्राणान् संधारयाम्यहम्  ॥ ८.४४० ॥

अथापराधाः

आगमे
यानैर्वा पादुकैर्वापि गमनं भगवद्गृहे ।
देवोत्सवाद्य्असेवा च अप्रणामस्तद्अग्रतः  ॥ ८.४४१ ॥
उच्छिष्टे वाप्यशौचे वा भगवद्वन्दनादिकम् ।
एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम्  ॥ ८.४४२ ॥
पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनम् ।
शयनं भक्षणं चापि मिथ्याभाषणमेव च  ॥ ८.४४३ ॥
उच्चैर्भाषा मिथो जल्पो रोदनानि च विग्रहः ।
निग्रहानुग्रहौ चैव नृषु च क्रूरभाषणम्  ॥ ८.४४४ ॥
कम्बलावरणं चैव परनिन्दा परस्तुतिः ।
अश्लीलभाषणं चैव अधोवायुविमोक्षणम्  ॥ ८.४४५ ॥
शक्तौ गौणोपचारश्च अनिवेदितभक्षणम् ।
तत्तत्कालोद्भवानां च फलादीनामनर्पणम्  ॥ ८.४४६ ॥
विनियुक्तावैशिष्ठस्य प्रदानं व्यञ्जनादिके ।
पृष्ठीकृत्यासनं चैव परेषामभिवादनम्  ॥ ८.४४७ ॥
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा ।
अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः  ॥ ८.४४८ ॥

वाराहे
द्वात्रिंशद्अपराधा ये कीर्त्यन्ते वसुधे मया ।
वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः  ॥ ८.४४९ ॥
ये वै न वर्जयन्त्येतानपराधान्मयोदितान् ।
सर्वधर्मपरिभ्रष्टाः पच्यन्ते नरके चिरम्  ॥ ८.४५० ॥
राजान्नभक्षणं चैवमापद्यपि भयावहम् ।
ध्वान्तागारे हरेः स्पर्शः परं सुकृतनाशनः  ॥ ८.४५१ ॥
तथैव विधिमुल्लङ्घ्य सहसा स्पर्शनं हरेः ।
द्वारोद्घाटो विना वाद्यं क्रोडमांसनिवेदनम्  ॥ ८.४५२ ॥
पादुकाभ्यां तथा विष्णोर्मन्दिरायोपसर्पणम् ।
कुक्कुरोच्छिष्टकलनं मौनभङ्गोऽच्युतार्चने  ॥ ८.४५३ ॥
तथा पूजनकाले विड्उत्सर्गाय सर्पणम् ।
श्राद्धादिकमकृत्वा च नवान्नस्य च भक्षणम्  ॥ ८.४५४ ॥
अदत्त्वा गन्धमाल्यादि धूपनं मधुघातिनः ।
अकर्मण्यप्रसूनेन पूजनं च हरेस्तथा  ॥ ८. ४५५ ॥
अकृत्वा दन्तकाष्ठं च कृत्वा निधूवनं तथा ।
स्पृष्ट्वा रजस्वलां दीपं तथा मृतकमेव च  ॥ ८.४५६ ॥
रक्तं नीलमधौतं च पारक्यं मलिनं पटम् ।
परिधाय मृतं दृष्ट्वा विमुच्यापानमारुतम्  ॥ ८.४५७ ॥
क्रोधं कृत्वा श्मशानं च गत्वा भुक्ताप्यजीर्णयुक् ।
भक्षयित्वा क्रोडमांसं पिन्याकं जालपादकम्  ॥ ८.४५८ ॥
तथा कुसुम्भशाकं च तैलाभ्यङ्गं विधाय च ।
हरेः स्पर्शो हरेः कर्मकरणं पातकावहम्  ॥ ८.४५९ ॥

किं तत्रैव
मम शास्त्रं बहिष्कृत्य अस्माकं यः प्रपद्यते ।
मुक्त्वा च मम शास्त्राणि शास्त्रमन्यत्प्रभाषसे  ॥ ८.४६० ॥
मद्यपस्तु समासाद्य प्रविशेद्भवनं मम  ॥ ८.४६१ ॥
यो मे कुसुम्भशाकेन प्रापणं कुरुते नरः  ॥ ८.४६२ ॥

अपि च
मम दृष्टेरभिमुखं ताम्बूलं चर्वयेत्तु यः ।
कुरूवकः पलाशस्थैः पुष्पैः कुर्यान्ममार्चनम्  ॥ ८.४६३ ॥
ममार्चामासुरे काले यः करोति विमूढधीः ।
पीठासनोपविष्टो यः पूजयेद्वा निरासनः  ॥ ८.४६४ ॥
वामहस्तेन मां धृत्वा स्नापयेद्वा विमूढधीः ।
पूजा पर्युषितैः पुष्पैः ष्ठीवनं गर्वकल्पनम्  ॥ ८.४६५ ॥
तिर्यक्पुण्ड्रधरो भूत्वा यः करोति ममार्चनम् ।
याचितैः पत्रपुष्पाद्यैर्यः करोति ममार्चनम्  ॥ ८.४६६ ॥
अप्रक्षालितपादो यः प्रविशेन्मम मन्दिरम् ।
अवैष्णवस्य पक्वान्नं यो मह्यं विनिवेदयेत् ॥ ८.४६७ ॥
अवैष्णवेषु पश्यत्सु मम पूजां करोति यः ।
अपूजयित्वा विघ्नेशं सम्भाष्य च कपालिनम्  ॥ ८.४६८ ॥
नरः पूजां तु यः कुर्यात्स्नपनं च नखाम्भसा ।
अमौनी धर्मलिप्ताङ्गो मम पूजां करोति यः  ॥ ८.४६९ ॥
ज्ञेयाः परेऽपि बहवोऽपराधाः सद्असम्मतैः ।
आचारैः शास्त्रविहितनिषिद्धातिक्रमादिभिः ।
तत्रापि सर्वथा कृष्णनिर्माल्यं तु न लङ्घयेत् ॥ ८.४७० ॥

तथा च नारसिंहे शन्तनुं प्रति नारदवाक्यम्
अतः परं तु निर्माल्यं न लङ्घय महीपते ।
नरसिंहस्य देवस्य तथान्येषां दिवौकसाम्  ॥ ८.४७१ ॥
कृष्णस्य परितोषेप्सुर्न तच्छपथमाचरेत् ।
नानादेवस्य निर्माल्यमुपयुञ्जीत न क्वचित् ॥ ८.४७२ ॥

तथा विष्णुधर्मोत्तरे
आपाद्यपि च कष्टायां देवेशशपथं नरः ।
न करोति हि यो ब्रह्मंस्तस्य तुष्यति केशवः  ॥ ८.४७३ ॥
न धारयति निर्माल्यमन्यदेवधृतं तु यः ।
भुङ्क्ते न चान्यनैवेद्यं तस्य तुष्यति केशवः  ॥ ८.४७४ ॥
इति ।

अथापराधशमनम्

संवत्सरस्य मध्ये तु तीर्थे शौकरके मम ।
कृतोपवासः स्नानेन गङ्गायां शुद्धिमाप्नुयात् ॥ ८. ४७५ ॥
मथुरायां तथाप्येवं सापराधः शुचि भवेत् ॥ ८. ४७६ ॥
अनयोस्तीर्थयोरेकं यः सेवेत सुकृती नरः ।
सहस्रजन्मजनितानपराधान् जहाति सः  ॥ ८.  ४७७ ॥

स्कान्दे
अहन्यहनि यो मर्त्यो गीताध्यायं पठेत्तु वै ।
द्वात्रिंशद्अपराधांस्तु क्षमते तस्य केशवः  ॥ ८. ४७८ ॥

तत्र कार्त्तिकमाहात्म्ये
तुलस्या रोपणं कार्यं श्रावणेषु विशेषतः ।
अपराधसहस्राणि क्षमते पुरुषोत्तमः  ॥ ८. ४७९ ॥

तत्रैवान्यत्र
द्वादश्यां जागरे विष्णोर्यः पठेत्तुलसीस्तवम् ।
द्वात्रिंशद्अपराधानि क्षमते तस्य केशवः  ॥ ८. ४८० ॥
यः करोति हरेः पूजां कृष्णशत्राङ्कितो नरः ।
अपराधसहस्राणि नित्यं हरति केशवः  ॥ ८.४८१ ॥

अथ शेषग्रहणम्
ततो भगवता दत्तं मन्यमानो दयालुना ।
महाप्रसाद इत्युक्त्वा शेषं शिरसि धारयेत् ॥ ८.४८२ ॥

अथ निर्माल्यधारणनित्यता

पाद्मे श्रीगौतमाम्बरीषसंवादे
अम्बरीष हरेर्लग्नं नीरं पुष्पं विलेपनम् ।
भक्त्या न धत्ते शिरसा श्वपचादधिको हि सः  ॥ ८.४८३ ॥

अथ श्रीभगवन्निर्माल्यमाहात्म्यं

स्कान्दे ब्रह्मनारदसंवादे
कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने ।
सर्वरोगैर्तथा पापैर्मुक्तो भवति नारद  ॥ ८.४८४ ॥
विष्णोर्निर्माल्यशेषेण  यो गात्रं परिमार्जयेत् ।
दुरितानि विनश्यन्ति व्याधयो यान्ति खण्डशः  ॥ ८.४८५ ॥
मुखे शिरसि देहे तु विष्णूत्तिर्नं तु यो वहेत् ।
तुलसीं मुनिशार्दूल न तस्य स्पृशते कलिः  ॥ ८.४८६ ॥

किं च
विष्णुमूर्तिस्थितं पुष्पं शिरसा यो वहेन्नरः ।
अपर्यूषितपापस्तु यावद्युगचतुष्टयम्  ॥ ८.४८७ ॥
किं करिष्यति सुस्नातो गङ्गायां भूसुरोत्तम ।
यो वहेत्शिरसा नित्यं तुलसीं विष्णुसेवितां  ॥ ८.४८८ ॥
विष्णुपादाब्जसंलग्नामहोरात्रोषितां शुभाम् ।
तुलसीं धारयेद्यो वै तस्य पुण्यमनन्तकम्  ॥ ८.४८९ ॥
अहोरत्रं शिरे यस्य तुलसी विष्णुसेविता ।
न स लिप्यति पापेन पद्मपत्रमिवाम्भसा  ॥ ८.४९० ॥

किं च
विष्णोः शिरःपरिभ्रष्टं भक्त्या यस्तुलसीं वहेत् ।
सिध्यान्ति सर्वकार्याणि मनसा चिन्तितानि च  ॥ ८.४९१ ॥

अपि च
प्रमार्जयति यो देहं तुलस्या वैष्णवो नरः ।
सर्वतीर्थमयं देहं तत्क्षनात्द्विज जायते  ॥ ८.४९२ ॥

गारुडे
हरेर्मूर्त्य्अवशेषं तु तुलसीकाष्ठचन्दनम् ।
निर्माल्यं तु वहेद्यस्तु कोटितीर्थफलं लभेत् ॥ ८.४९३ ॥

नारदपञ्चरात्रे
भोजननान्तरं विष्णोरर्पितं तुलसीदलम् ।
तत्क्षनात्पापनिर्मोक्तस्चान्द्रायणशताधिकः  ॥ ८.४९४ ॥

किं चान्यत्र
कौतुकं शृणु मे देवि विष्णोर्निर्माल्यवह्निना ।
तापितं नाशमायाति ब्रह्महत्यादिपातकम्  ॥ ८.४९५ ॥

एकादशस्कन्धे (११.६.४६) श्रीभगवन्तं प्रत्युद्धवोक्तौ
त्वयोपयुक्तस्रग्गन्धवासोऽलङ्कारचर्चितः ।
उच्छिस्तभोजिनो दासास्तव मायां जयेम हि  ॥ ८.४९६ ॥

अत एव स्कान्दे श्रीयमस्य दूतानुशासने
पादोदकरता ये च हरेर्निर्माल्यधारकाः ।
विष्णुभक्तिरता ये वै ते तु त्याज्यः सुदुरतः  ॥ ८.४९७ ॥
इति ।

विसर्जनं तु चेत्कार्यं विसृज्यवरणानि तत् ।
देवे तन्मुद्रया प्रार्थ्य देवं हृदि विसर्जयेत् ॥ ८.४९८ ॥

तथा चोक्तं
पूजितोऽसि मया भक्त्या भगवन् कमलपते ।
स लक्ष्मीको मम स्वान्तं विश विश्रान्तिहेतवे  ॥ ८.४९९ ॥
प्रार्थ्यैवं पादुके दत्त्वा सङ्गमुद्वासयेद्धरिम् ।
प्राणायामं षड्अङ्गं च कृत्वा मुद्रां विसर्जनीम्  ॥ ८.५०० ॥

अथ पूजविधिविवेकः

अयं पूजविधिर्मन्त्रसिद्ध्य्अर्थस्य जपस्य हि ।
अङ्गं भक्तेस्तु तन्निष्ठैर्न्यासादीनन्तरेष्यते  ॥ ८.५०१ ॥
तत्र देवलये पूज नित्यत्वेन महाप्रभोः ।
काम्यत्वेनापि गेहे तु प्रायो नित्यतया मता  ॥ ८.५०२ ॥
सेवादिनियमो देवालये देवस्य चेष्यते ।
प्रायः स्वगेहे स्वच्छन्दसेवा स्वव्रतरक्षया  ॥ ८.५०३ ॥

किं च विष्णुधर्मोत्तरे
घृतेन स्नपितं देवं चन्दनेनानुलेपयेत् ।
सितजात्याश्च कुसुमैह्पूजयेत्तद्अनन्तरम्  ॥ ८.५०४ ॥
श्वेतेन वस्त्रयुग्मेन तथा मुक्ताफलैः शुभैः ।
मुख्यकर्पूरधूपेन पयसा पायसेन च  ॥ ८.५०५ ॥
पद्मसूत्रस्य वर्त्त्या च घृतधूपेन चाप्यथ ।
पूजयेत्सर्वथा यत्नात्सर्वकामप्रदार्चनम्  ॥ ८.५०६ ॥
कृत्वेमं मुच्यते रोगी रोगात्शीघ्रमसंशयम् ।
दुःखार्तो मुच्यते दुःखाद्बद्धो मुच्येत बन्धनात् ॥ ८.५०७ ॥
राजग्रस्तश्च मुच्येत तथा राजभयान्नरः ।
क्षेमेण गच्छेदध्वानं सर्वानर्थविवर्जितः  ॥ ८.५०८ ॥
इति ।


इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे
प्रातर्अर्चासमापनो नामाष्टमो विलासः ।


*************************************************************************

 

 

९. ंहप्रसदVइलस


नवमविलासः
महाप्रसादः

स प्रसृदतु चैतन्यदेवो यस्य प्रसादतः ।
महाप्रसादजातार्हः सद्यः स्यादधमोऽप्यहम्  ॥ ९.१ ॥
अथ शश्खोदकं तच्च कृष्ञदृष्टिसुधोक्षितम् ।
वैष्ञवेभ्यः प्रदायाभिवन्द्य मूर्धनि धारयेत् ॥ ९.२ ॥

शश्खोदकमाहात्म्यं

स्कान्दे ब्रह्मनारदसंवादे
शश्खोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम् ।
चन्दनं धूपशेषं तु ब्रह्महत्यापहारकम्  ॥ ९.३ ॥

तत्रैव शश्खमाहात्म्ये

शश्खस्थितं तु यत्तोयं भ्रामितं केशवोपरि ।
वन्दते शिरसा नित्यं गश्गास्नानेन तस्य किम्  ॥ ९.४ ॥
न दाहो न क्लमो नार्तिर्नरकाग्निभयं न हि ।
यस्य शश्खोदकं मूर्ध्नि कृष्ञदृष्ट्य्अवलोकितम्  ॥ ९.५ ॥
न ग्रहा न च कुष्माञ्डाः पिशाचोरगरक्षसाः ।
दृष्ट्वा शश्खोदकं मूर्ध्नि विद्रवन्ति दिशो दश  ॥ ९.६ ॥
कृष्ञमूर्ध्नि भ्रामितं तु जलं तच्छश्खसंस्थितम् ।
कृत्वा मूर्धन्यवाप्नोति मुक्तिं विष्ञोः प्रसादतः  ॥ ९.७ ॥
भ्रामयित्वा हरेर्मूर्ध्नि मन्दिरं शश्खवारिञा ।
प्रोक्षयेद्वैष्ञवो यस्तु नाशुभं तद्गृहे भवेत् ॥ ९.८ ॥
नृराजनजलं यत्र यत्र पादोदकं हरेः ।
तिष्ठते मुनिशार्दूल वर्धन्ते तत्र सम्पदः  ॥ ९.९ ॥

तत्रैवाग्रे
नृराजनजलं विष्ञोर्यस्य गात्राञि संस्पृशेत् ।
यज्ञावभृतलक्षञं स्नानजं लभते फलम्  ॥ ९.१० ॥

तत्रैव श्रृशिवोक्तौ
पादोदकेन देवस्य हत्यायुतसमन्वितः ।
शुध्यते नात्र सन्देहस्तथा शश्खोदकेन हि  ॥ ९.११ ॥

बृहद्विष्ञुपुराञे च
तृर्थाधिकं यज्ञशताच्च पावनं
जलं सदा केशवदृष्टिसंस्थितम् ।
छिनत्ति पापं तुलसृविमिश्रितं
विशेषतश्चक्रशिलाविनिर्मितम्  ॥ ९.१२ ॥

अथ तृर्थधारानं

कृष्ञपदब्जतृर्थं च वैष्ञवेभ्यः प्रदाय हि ।
स्वयं भक्त्य्अभिवन्द्यादौ पृत्वा शिरसि धारयेत् ॥ ९.१३ ॥
तस्य मन्त्रविधिश्च प्राक्प्रातःस्नानप्रसश्गतः ।
लिखितो ह्यधुना पाने विशेषो लिख्यते कियान्  ॥ ९.१४ ॥

स चोक्तः
ओं चरञं पवित्रं विततं पुराञं
येन पूतस्तरति दुष्कृतानि ।
तेन पवित्रेञ शुद्धेन पूता
अपि पाप्मानमरातिं तरेम  ॥ ९.१५ ॥

लोकस्य द्वारमार्चयत्पवित्रं ज्योतिष्मत्विभ्राजमानं महस्तदमृतस्य धारा बहुधा दोहमानं  चरञं लोके सुधितं दधतु  ॥ ९.१६ ॥ इति ।

इमं मन्त्रं समुच्चार्य सर्वदुष्टग्रहापहम् ।
प्राश्नृयात्प्रोक्षयेद्देहं पुत्रमित्रपरिग्रहम्  ॥ ९.१७ ॥

किं च
विष्ञोः पादोदकं पृतं कोटिहत्याघनाशनम् ।
तदेवष्टगुनं पापं भुमौ बिन्दुनिपतनत् ॥ ९.१८ ॥

अथ श्रृचरनोदकपनमाहात्म्यं

पाद्मे गौतमाम्बरृषसंवादे
हरेः स्नानावशेषस्तु जलं यस्योदरे स्थितम् ।
अम्बरृष प्रञम्योच्चैः पादपांशुः प्रगृह्यताम्  ॥ ९.१९ ॥

तत्रैव देवदूतविकुञ्डलसंवादे
ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् ।
पञ्चगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम्  ॥ ९.२० ॥
कोटितृर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् ।
नित्यं यदि पिबेत्पुञ्यं शालग्रामशिलाजलम्  ॥ ९.२१ ॥
शालग्रामशिलातोयं यः पिबेद्बिन्दुना समम् ।
मातुः स्तन्यं पुनर्नैव न पिबेद्भक्तिभाश्नरः  ॥ ९.२२ ॥

किं च
दहन्ति नरकान् सर्वान् गर्भवासं च दारुञम् ।
पृतं यैस्तु सदा नित्यं शालग्रामशिलाजलम्  ॥ ९.२३ ॥

तत्रैव श्रृयमधुम्रकेतुसंवादे
शालग्रामशिलातोयं बिन्दुमात्रं तु यः पिबेत् ।
सर्वपापैः प्रमुच्येत भक्तिमार्गे कृतोद्यमः  ॥ ९.२४ ॥

तत्रैव पुलस्त्यभगृरथसंवादे
पादोदकस्य माहात्म्यं भगृरथ वदामि ते ।
पावनं सर्वतृर्थेभ्यो हत्याकोटिविनाशकम्  ॥ ९.२५ ॥
धृते शिरसि पृते च सर्वास्तुस्यन्ति देवताः ।
प्रायश्चित्तं तु पापानां कलौ पादोदकं हरेः  ॥ ९.२६ ॥

किं च
त्रिभिः सारस्वतं तोयं सप्ताहेन तु नार्मदम् ।
सद्यः पुनाति गाश्गेयं दर्शनादेव यामुनम्  ॥ ९.२७ ॥
पुनन्त्येतानि तोयानि स्नानदर्शनकृर्तनैः ।
पुनाति स्मरञादेव कलौ पादोदकं हरेः  ॥ ९.२८ ॥

किं च
अर्चितैः कोटिभिर्लिश्गैर्नित्यं यत्क्रियते फलम् ।
तत्फलं शतसहस्रं पिते पादोदके हरेः  ॥ ९.२९ ॥
अशुचिर्वा दुराचारो महापातकसंयुतः ।
स्पृष्ट्वा पादोदकं विष्ञोः सदा शुध्यति मानवः  ॥ ९.३० ॥
पापकोटियुतो यस्तु मृत्युकाले शिरोमुखे ।
देहे पादोदकं तस्य न प्रयाति यमालयम्  ॥ ९.३१ ॥
न दानं न हविर्येषां स्वाध्यायो न सुरार्चनम् ।
तेऽपि पादोदकं पृत्वा प्रयन्ति परमां गतिम्  ॥ ९.३२ ॥
कार्त्तिके कार्त्तिकृयोगे किं करिष्यति पुष्करे ।
नित्यं च पुष्करं तस्य यस्य पादोदकं हरेः  ॥ ९.३३ ॥
विशाखर्क्षसंयुक्त वैशाखृ हि करिष्यति ।
पिञ्डारके महातृर्थे उज्जायिन्यां भगृरथ  ॥ ९.३४ ॥
माघमासे प्रयागे तु स्नानं किं करिष्यति ।
प्रयागं सततं तस्य यस्य पादोदकं हरेः  ॥ ९.३५ ॥
प्रबोधवासरे प्राप्ते मथुरायां च तस्य किम् ।
नित्यं च यामुनं स्नानं यस्य पादोदकं हरेः  ॥ ९.३६ ॥
कस्यामुत्तरवाहिन्यां गश्गायां तु मृतस्य किम् ।
यस्य पादोदकं विष्ञोर्मुखे चैवावतिष्ठते  ॥ ९.३७ ॥

किं च
हित्वा पादोदकं विष्ञोर्योऽन्यतृर्थानि गच्छति ।
अनर्घं रत्नमुत्सृज्य लोष्ट्रं वाञ्छति दुर्मतिः  ॥ ९.३८ ॥
कुरुक्षेत्रसमो देशो बिन्दुः पादोदकं मतः  ॥ ९.३९ ॥
पतेद्यत्राक्षयं पुञ्यं नित्यं भवति तद्गृहे ।
गयापिञ्डसमं पुञ्यं पुत्राञामपि जायते  ॥ ९.४० ॥
पादोदकेन देवस्य ये कुर्युः पितृतर्पञम् ।
नासुराञां भयं तस्य प्रेतजन्यं च राक्षसम्  ॥ ९.४१ ॥
न रोगस्य भयं चैव नास्ति विघ्नकृतं भयम् ।
न दुष्टा नैव घोराक्षाः स्वापदोत्थभयं न हि  ॥ ९.४२ ॥
ग्रहाः पृदां न कुर्वन्ति चौरा नश्यन्ति दारुञाः ।
किं तस्य तृर्थगमने देवर्षृञां च दर्शने  ॥ ९.४३ ॥
यस्य पादोदकं मूर्ध्नि शालग्रामशिलोद्भवम् ।
प्रृतो भवति मार्तञ्डः प्रृतो भवति केशवः ।
ब्रह्मा भवति सुप्रृतः  प्रृतो भवति सश्करः  ॥ ९.४४ ॥
पादोदकस्य माहात्म्यं यः पठेत्केशवग्रतः ।
स याति परमं स्थानं यत्र देवो जनर्दनः  ॥ ९.४५ ॥

ब्रह्माञ्डपुराञे श्रृब्रह्मनारदसंवादे
प्रायश्चित्तं यदि प्राप्तं कृच्छ्रं वा त्वघमर्षञम् ।
सोऽपि पादोदकं पृत्वा शुद्धिं प्राप्नोति तत्क्षञात् ॥ ९.४६ ॥
अशौचं नैव विद्येत सूतके मृतकेऽपि च ।
येषां पादोदकं मूर्ध्नि प्राशनं ये च कुर्वते  ॥ ९.४७ ॥
अन्तकालेऽपि यस्येह दृयते पादयोर्जलम् ।
सोऽपि सद्गतिमाप्नोति सद्आचारैर्बहिष्कृतः  ॥ ९.४८ ॥
अपेयं पिबते यस्तु भुश्क्ते यश्चाप्यभोजनम् ।
अगम्यागमना ये वै पापाचाराश्च ये नराः  ।
तेऽपि पूज्या भवन्त्याशु सद्यः पादाम्बुसेवनात् ॥ ९.४९ ॥

किं च
अपवित्रं यद्अन्नं स्यात्पानृयं चापि पापिनाम् ।
भुक्त्वा पृत्वा विशुद्धः स्यात्पृत्वा पादोदकं हरेः  ॥ ९.५० ॥
तप्तकृच्छ्रात्पञ्चगव्यान्महाकृच्छ्राद्विशिष्यते ।
चान्द्रायञात्पारकृच्छ्रात्पराकादपि सुव्रत ।
कायशुद्धिर्भवत्याशु पृत्वा पादोदकं हरेः  ॥ ९.५१ ॥
अगुरुं कुश्कुमं चापि कर्पूरं चानुलेपनम् ।
विष्ञुपादाम्बुसंलग्नं तद्वै पावनपावनम्  ॥ ९.५२ ॥
दृष्टिपूतं तु यत्तोयं विष्ञुना प्रभविष्ञुना ।
तद्वै पापहरं पुत्र किं पुनः पादयोर्जलम्  ॥ ९.५३ ॥
एतद्अर्थमहं पुत्र शिरसा विष्ञुतत्परः ।
धारायामि पिबाम्यद्य माहात्म्यं विदितं मम  ॥ ९.५४ ॥
प्रियस्त्वमग्रजः पुत्रस्तद्अर्थं गदितं मया ।
रहस्यं मे त्वनर्हस्य न वक्तव्यं कदाचन  ॥ ९.५५ ॥
धारयस्व सदा मूर्ध्नि प्राशनं कुरु नित्यशः ।
जन्ममृत्युजरादुःखैर्मोक्षं यास्यसि पुत्रक  ॥ ९.५६ ॥

विष्ञुधर्मोत्तरे
सद्यः फलप्रदं पुञ्यं सर्वपापविनाशनम् ।
सर्वमश्गलमश्गल्यं सर्वदुःखविनाशनम्  ॥ ९.५७ ॥
दुःस्वप्ननाशनं पुञ्यं विष्ञुपादोदकं शुभम् ।
सर्वोपद्रवहन्तारं सर्वव्याधिविनाशनम्  ॥ ९.५८ ॥
सर्वोत्पातप्रशमनं सर्वपापनिवारञम् ।
सर्वकल्याञसुखदं सर्वकामफलप्रदम्  ॥ ९.५९ ॥
सर्वसिद्धिप्रदं धन्यं सर्वधर्मविवर्धनम् ।
सर्वशत्रुप्रशमनं सर्वभोगप्रदायकम्  ॥ ९.६० ॥

सर्वतृर्थस्य फलदं मूर्ध्नि पादाम्बुधारञम् ।
प्रयागस्य प्रभासस्य पुष्करस्य च सेवने ।
पृथूदकस्य तृर्थस्य आचान्तो लभते फलम्  ॥ ९.६१ ॥
चक्रतृर्थं फलं यादृक्तादृञ्पादाम्बुधारञात् ।
सरस्वत्यां गयायां च गत्वा यत्प्राप्नुयात्फलम् ।
तत्फलं लभते श्रेष्ठं मूर्ध्नि पादाम्बुधारञात् ॥ ९.६२ ॥

स्कान्दे
पादोदकस्य माहात्म्यं देवो जानाति शश्करः ।
विष्ञुपादच्युता गश्गा शिरसा येन धारिता ।
स्थानं नैवास्ति पापस्य देहिनां देहमध्यतः  ॥ ९.६३ ॥
सबाह्याभ्यन्तरं यस्य व्याप्तं पादोदकेन वै ।
पादोदं विष्ञुनैवेद्यमुदरे यस्य तिष्ठति  ॥ ९.६४ ॥
नाश्रयं लभते पापं स्वयमेव विनश्यति ।
महापापग्रहग्रस्तो व्याप्तो रोगशतैर्यदि  ॥ ९.६५ ॥
हरेः पादोदकं पृत्वा मुच्यते नात्र संसयः ।
शिरसा तिष्ठते येषां नित्यं पादोदकं हरेः  ॥ ९.६६ ॥
किं करिष्यति ते लोके तृर्थकोटिमनोरथैः ।
अयमेव परो धर्म इदमेव परं तपः ।
इदमेव परं तृर्थं विष्ञुपादाम्बु यत्पिबेत् ॥ ९.६७ ॥

तत्रैव श्रृशिवोमासंवादे
विलयं यान्ति पापानि पृते पादोदके हरेः ।
किं पुनर्विष्ञुपादोदं शालग्रामशिलाच्युतम्  ॥ ९.६८ ॥
विशेषेन हरेत्पापं ब्रह्महत्यादिकं प्रिये ।
पृते पादोदके विष्ञोर्यदि प्राञैर्विमुच्यते ।
हत्वा यमभटान् सर्वान् वैष्ञवं लोकमाप्नुयात् ॥ ९.६९ ॥

तत्रैव श्रृशिवकार्त्तिकेयसंवादे श्रृशालग्रामशिलामाहात्म्ये
छिन्नस्तेन महासेन गर्भावासः सुदारुञः ।
पृतं येन सदा विष्ञोः शालग्रामशिलाजलम्  ॥ ९.७० ॥
ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् ।
पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम्  ॥ ९.७१ ॥
प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषञैः ।
चान्द्रायञैश्च तृर्थैश्च पृत्वा पादोदकं शुचि  ॥ ९.७२ ॥

बृहन्नारदिये लुब्धकोपाख्यानारम्भे
हरिपादोदकं यस्तु क्षञमात्रं च धारयेत् ।
स स्नातः सर्वतृर्थेसु विष्ञोः प्रियतरस्तथा  ॥ ९.७३ ॥
अकालमृत्युशमनं सर्वव्याधिविनाशनम् ।
सर्वदुःखोपशमनं हरिपादोदकं शुभम्  ॥ ९.७४ ॥

तत्रैव तद्उपाख्यानान्ते
हरिपादोदकस्पर्शाल्लुब्धको वृतकल्मषः ।
दिव्यं विमानमारुह्य मुनिमेनमथाब्रवृत् ॥ ९.७५ ॥
हरिपादोदकं यस्मान्मयि त्वं क्षिप्तवान्मुने ।
प्रापितोऽस्मि त्वया तस्मात्तद्विष्ञोः परमं पदम्  ॥ ९.७६ ॥

हरिभक्तिसुधोदये
पादं पूर्वं किल स्पृष्ट्वा गश्गाभूत्स्मर्तृमोक्षदा ।
विष्ञोः सद्यस्तु सत्सश्गि पादाम्बु कथम् ऋड्यते  ॥ ९.७७ ॥
तापत्रयानलो योऽसौ न शाम्येत्सकलाब्धिभिः ।
द्रुतं शाम्यति सोऽल्पेन श्रृमद्विष्ञुपदाम्बुना  ॥ ९.७८ ॥
युद्धास्त्राभेद्यकवचं भवाग्निस्तम्भनौषधम् ।
सर्वाश्गैः सर्वथा धार्यं पाद्यं शुचिपदः सदा  ॥ ९.७९ ॥
अमृतत्वावहं नित्यं विष्ञुपादाम्बु यः पिबेत् ।
स पिबत्यमृतं नित्यं मासे मासे तु देवताः  ॥ ९.८० ॥
माहात्म्यमियदित्यस्य वक्ता योऽपि स निर्भयः ।
नन्वनर्घमञेर्मूल्यं कल्पयन्नघमश्नुते  ॥ ९.८१ ॥

अन्यत्रपि
स ब्रह्मचारृ स व्रतृ आश्रमृ च सदाशुचिः ।
विष्ञुपादोदकं यस्य मुखे शिरसि विग्रहे  ॥ ९.८२ ॥
जन्मप्रभृतिपापानां प्रायश्चित्तं यदृच्छति ।
शालग्रामशिलावरि पापहारि निषेव्यताम्  ॥ ९.८३ ॥

अत एव तेजोद्रविनपञ्चरत्रे श्रृब्रह्मञोक्तम्
पृठप्रञालादुदकं पृथगादाय पुत्रक ।
सिञ्चयेन्मूर्ध्नि भक्तानां सर्वतृर्थमयं हि तत् ॥ ९.८४ ॥ इति ।

पादोदकस्य माहात्म्यं विख्यातं सर्वशास्त्रतः ।
लिखितुं शक्नुयत्को हि सिन्धूर्मृन् गञयन्नपि  ॥ ९.८५ ॥
विशेषतश्च पादोदं तुलसृदलसंयुतम् ।
शश्खे कृत्वा वैष्ञवेभ्यो दत्त्वा प्राग्वत्पिबेत्स्वयम्  ॥ ९.८६ ॥

अथ शश्खकृतपादोदकमाहात्म्यं

स्कान्दे श्रृब्रह्मनारदसंवादे
कृत्वा पादोदकं शश्खे वैष्ञवानां महात्मनाम् ।
यो दद्यात्तुलसृमिश्रं चान्द्रायञशतं लभेत् ॥ ९.८७ ॥
गृहृत्वा कृष्ञपादाम्बु शश्खे कृत्वा तु वैष्ञवः ।
यो वहेत्शिरसा नित्यं स मुनिस्तपसोत्तमः  ॥ ९.८८ ॥

पाद्मे देवदूतविकुञ्डलसंवादे
शालग्रामशिलातोयं यदि शश्खभृतं पिबेत् ।
हत्याकोटिविनाशं च कुरुते नात्र संसयः  ॥ ९.८९ ॥

अगस्त्यसंहितायाम्
शालग्रामशिलातोयं तुलसृदलवासितम् ।
ये पिबन्ति पुनस्तेषां स्तन्यपानं न विद्यते  ॥ ९.९० ॥ इति ।
श्रृविष्ञोर्वैष्ञवानां च पावनं चरञोदकम् ।
सर्वतृर्थमयं पृत्वा कुर्यादाचमनं न हि  ॥ ९.९१ ॥

तदुक्तं स्कान्दे शिवेन
विष्ञोः पादोदकं पृत्वा पश्चादशुचिशश्कया ।
आचमति च यो मोहाद्ब्रह्महा स निगद्यते  ॥ ९.९२ ॥

स्रुतिश्च
भगवान् पवित्रं भगवत्पादौ पवित्रं, भगवत्पादोदकं पवित्रं, न तत्पान आचमनृयम् । यथा हि सोम इति  ॥ ९.९३ ॥

सौपर्ञे च
विष्ञुपादोदकं पृत्वा भक्तपादोदकं तथा ।
य आचमति संमोहाद्ब्रह्महा स निगद्यते  ॥ ९.९४ ॥ इति ।

ततः शुद्धं पयःपूर्ञं गन्धपुष्पाक्षतान्वितम् ।
अधरोपरि सन्न्यसेच्छश्खं भगवद्अग्रतः  ॥ ९.९५ ॥

अथ श्रृभगवद्अग्रतः शश्खस्थपनमहतम्यं

स्कान्दे ब्रह्मनारदसंवादे शश्खमाहात्म्ये
पुरतो वासुदेवस्य सपुष्पं सजलाक्षतम् ।
शश्खमभ्यर्चितं पश्येत्तस्य लक्ष्मृर्न दुर्लभा  ॥ ९.९६ ॥
सपुष्पं वारिजं यस्य दुर्वाक्षतसमन्वितम् ।
पुरतो वासुदेवस्य तस्य श्रृः सर्वतोमुखृ  ॥ ९.९७ ॥ इति ।

भूत्वाथ भक्तिमान् श्रृमत्तुलस्या कानने प्रभुम् ।
सम्पूज्याभ्यर्चयेत्तं च श्रृकृष्ञचरञप्रियम्  ॥ ९.९८ ॥

अथ श्रृतुलसृवनपूजा

प्राग्दत्त्वार्घ्यं ततोऽव्यर्च्य गन्धपुष्पाक्षतादिना ।
स्तुत्वा भगवतृं तां च प्रञमेत्प्रार्ह्त्य दञ्डवत् ॥ ९.९९ ॥

अथार्घ्यमन्त्रः

श्रियः श्रिये श्रियावासे नित्यं श्रृधारासत्कृते ।
भक्त्या दत्तं मया देवि अर्घ्यं गृह्ञ नमोऽस्तु ते  ॥ ९.१०० ॥
पूजा मन्त्रः

निर्मिता त्वं पुरा देवैरर्चिता त्वं सुरासुरैः ।
तुलसृ हर मे पापं पूजां गृह्ञ नमोऽस्तु ते  ॥ ९.१०१ ॥

स्तुतिश्च

महाप्रसादजननृ सर्वसौभाग्यवर्धिनृ ।
आधिव्याधिहरो नित्यं तुलसृ त्वं नमोऽस्तु ते  ॥ ९.१०२ ॥

प्रार्थना

श्रृयं देहि यशो देहि कृर्तिमायुस्तथा सुखम् ।
बलं पुष्टिं तथा धर्मं तुलसृ त्वं प्रसृद मे  ॥ ९.१०३ ॥

प्रञामवाक्यम्

अवन्तृखञ्डे
या दृष्टा निखिलाघसश्घशमनृ स्पृष्टा वपुःपावनृ
रोगाञामभिवन्दिता निरसिनृ सिक्तान्तकत्रासिनृ ।
प्रत्यासत्तिविधायिनृ भगवतः कृष्ञस्य संरोपिता
न्यस्ता तच्चरञे विमुक्तिफलदा तस्यै तुलस्यै नमः  ॥ ९.१०४ ॥

भगवत्यास्तुलस्यास्तु माहात्म्यामृतसागरे ।
लोभात्कूर्दितुमिच्छामि क्षुद्रस्तत्क्षम्यतां त्वया  ॥ ९.१०५ ॥

अथ तुलसिवनपुजमहत्म्यम्
स्कान्दे
श्रावञद्वादशृयोगे शालग्रामशिलार्चने ।
यत्फलं सश्गमे प्रोक्तं तुलसृपूजनेन तत् ॥ ९.१०७ ॥

गारुडे
धात्रृफलेन यत्पुञ्यं जयन्त्यां समुपोषञे ।
खगेन्द्र भवते नृञां तुलसृपूजनेन तत् ॥ ९.१०७ ॥
प्रयागस्नाननिरतौ कस्यां प्राञविमोक्षञे ।
यत्फलं विहितं देवैस्तुलसृपूजनेन तत् ॥ ९.१०८ ॥

अगस्त्यसंहितायाम्
चतुर्ञामपि वर्ञानामाश्रमाञां विशेषतः ।
स्त्रृञां च पुरुषाञां च पूजितेष्टं ददाति हि  ॥ ९.१०९ ॥
तुलसृ रोपिता सिक्ता दृष्टा स्पृष्टा च पावयेत् ।
आराधिता प्रयत्नेन सर्वकामफलप्रदा  ॥ ९.११० ॥

अथ तुलसृवनपूजमाहात्म्यं

प्रदक्षिञं भ्रमित्वा ये नमस्कुर्वन्ति नित्यशः ।
न तेषां दुरितं किञ्चिदक्षृञमवशिष्यते  ॥ ९.१११ ॥

बृहन्नारदिये यज्ञध्वजोपाख्यानान्ते
पूज्यमाना च तुलसृ यस्य वेश्मनि तिष्ठति ।
तस्य सर्वाञि श्रेयांसि वर्धन्तेऽहर्अहर्द्विजाः  ॥ ९.११२ ॥

अत एव पाद्मे देवदूतविकुञ्डलसंवादे
पक्षे पक्षे तु सम्प्राप्ते द्वादश्यां वैश्यसत्तम ।
ब्रह्मादयोऽपि कुर्वन्ति तुलसृवनपूजनम्  ॥ ९.११३ ॥

अत एव श्रृतुलसृस्तुतिमहिमा

अनन्यमनसा नित्यं तुलसृं स्तौति यो नरः ।
पितृदेवमनुष्याञां प्रियो भवति सर्वदा  ॥ ९.११४ ॥

अथ तुलसृवनमाहात्म्यं

स्कान्दे
रतिं बध्नाति नान्यत्र तुलसृकाननं विना ।
देवदेवो जगत्स्वामृ कलिकाले विशेषतः  ॥ ९.११५ ॥
हित्वा तृर्थसहस्राञि सर्वानपि शिलोच्चयन् ।
तुलसृकानने नित्यं कलौ तिष्ठति केशवः  ॥ ९.११६ ॥
निरृक्षिता नरैर्यैस्तु तुलसृवनवाटिका ।
रोपिता यैश्च विधिना सम्प्राप्तं परमं पदम्  ॥ ९.११७ ॥
न धात्रृ सफला यत्र न विष्ञुस्तुलसृवनम् ।
तत्श्मशानसमं स्थानं सन्ति यत्र न वैष्ञवाः  ॥ ९.११८ ॥
केशवार्थे कलौ ये तु रोपयन्तृह भूतले ।
किं करिष्यत्यसन्तुष्टो यमोऽपि सह किश्करैः  ॥ ९.११९ ॥
तुलस्या रोपञं कार्यं श्रवञेन विशेषतः ।
अपराधसहस्राञि क्षमते पुरुषोत्तमः  ॥ ९.१२० ॥
देवालयेषु सर्वेषु पुञ्यक्षेत्रेषु यो नरः ।
वापयेत्तुलसृं पुञ्यां तत्तृर्थं चक्रपाञिनः  ॥ ९.१२१ ॥
घटैर्यन्त्रघटृभिश्च सिञ्चितं तुलसृवनम् ।
जलधाराभिर्विप्रेन्द्र प्रृञितं भुवनत्रयम्  ॥ ९.१२२ ॥

तत्रैव श्रृब्रह्मनारदसंवादे
तुलसृगन्धमादाय यत्र गच्छति मारुतः ।
दिशो दश च पूताः स्युर्भूतग्रामाश्चतुर्विधाः  ॥ ९.१२३ ॥
तुलसृकाननोद्भूता छाया यत्र भवेद्द्विज ।
तत्र श्राद्धं प्रदातव्यं पित्ङ्ञां तृप्तिहेतवे  ॥ ९.१२४ ॥
तुलसृबृजनिकराः पतते यत्र नारद ।
पिञ्डदानं कृतं तत्र पित्ङ्ञां दत्तमक्षयम्  ॥ ९.१२५ ॥

तत्रैवाग्रे
दृष्टा स्पृष्टा तथा ध्याता कृर्तिता नमिता श्रुता ।
रोपिता सेविता नित्यं पूजिता तुलसृ शुभा  ॥ ९.१२६ ॥
नवधा तुलसृं नित्यं ये भजन्ति दिने दिने ।
युगकोटिसहस्राञि ते वसन्ति हरेर्गृहे  ॥ ९.१२७ ॥
रोपिता तुलसृ यावत्कुरुते मूलविस्तरम् ।
तावत्कोटिसहस्रं तु तनोति सुकृतं कलौ  ॥ ९.१२८ ॥
यावच्छाखाप्रशाखाभिर्बृजपुष्पैः फलैर्मुने ।
रोपिता तुलसृ पुम्भिर्वर्धते वसुधातले  ॥ ९.१२९ ॥
कुले तेषां तु ये जाता ये भविष्यन्ति ये मृतः ।
आकल्पं युगसाहस्रं तेषां वासो हरेर्गृहे  ॥ ९.१३० ॥

तत्रैव चावन्तृखञ्डे
तुलसृं ये विचिन्वन्ति धन्यास्तत्करपल्लवाः ।
केशवार्थे कलौ ये च रोपयन्तृह भूतले  ॥ ९.१३१ ॥
स्नाने दाने तथा ध्याने प्राशने केशवार्चने ।
तुलसृ दहते पापं रोपञे कृर्तने कलौ  ॥ ९.१३२ ॥

काशृखञ्डे स्वदूतान् प्रति श्रृयमानुशासने
तुलस्य्अलश्कृता ये ये तुलसृनामजापकाः ।
तुलसृवनपाला ये ते त्याज्या दूरतो भटाः  ॥ ९.१३३ ॥

तत्रैव ध्रुवचरिते
तुलसृ यस्य भवने प्रत्य्अहं परिपूज्यते ।
तद्गृहे नोपसर्पन्ति कदाचिद्यमकिश्कराः  ॥ ९.१३४ ॥

पाद्मे देवदूतविकुञ्डलसंवादे
न पश्यन्ति यमं वैश्य तुलसृवनरोपञात् ।
सर्वपापहरं सर्वकामदं तुलसृवनम्  ॥ ९.१३५ ॥
तुलसृकाननं वैश्य गृहे यस्मिंस्तु तिष्ठते ।
तद्गृहं तृर्थृभूतं हि नो यान्ति यमकिश्कराः  ॥ ९.१३६ ॥
तावद्वर्षसहस्राञि यावद्बृजदलानि च ।
वसन्ति देवलोके तु तुलसृं रोपयन्ति ये  ॥ ९.१३७ ॥
तुलसृगन्धमाघ्राय पितरस्तुष्टमानसाः ।
प्रयान्ति गरुडारूढास्तत्पदं चक्रपाञिनः  ॥ ९.१३८ ॥
दर्शनं नर्मदायास्तु गश्गास्नानं विशां वर ।
तुलसृदलसंस्पर्सः सममेतत्त्रयं स्मृतम्  ॥ ९.१३९ ॥
रोपञात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृञाम् ।
तुलसृ दहते पापं वाश्मनःकायसञ्चितम्  ॥ ९.१४० ॥
आम्रवृक्षसहस्रेञ पिप्पलानां शतेन च ।
यत्फलं हि तदेकेन तुलसृवितपेन तु  ॥ ९.१४१ ॥
विष्ञुपूजनसंयुक्तस्तुलसृं यस्तु रोपयेत् ।
युगायुतदशैकं स रोपको रमते दिवि  ॥ ९.१४२ ॥

तत्रैव वैशाखमाहात्म्ये
पुष्करादृनि तृर्थानि गश्गाद्याः सरितस्तथा ।
वासुदेवादयो देवा वसन्ति तुलसृदले  ॥ ९.१४३ ॥
दारिद्र्यदुःखरोगार्तिपापानि सुबहून्यपि ।
तुलसृ हरति क्षिप्रं रोगानिव हरृतकृ  ॥ ९.१४४ ॥

तत्रैव कार्त्तिकमाहात्म्ये
यद्गृहे तुलसृ भाति रक्षाभिर्जलसेचनैः ।
तद्गृहे यमदूताश्च दूरतो वर्जयन्ति हि  ॥ ९.१४५ ॥
तुलस्यास्तर्पञं ये च पित्ङ्नुद्दिश्य मानवाः ।
कुर्वन्ति तेषां पितरस्तृप्ता वर्षयुतं जलैः  ॥ ९.१४६ ॥
परिचर्यां च ये तस्य रक्षयाबालबन्धनैः ।
शुश्रूषितो हरिस्तैस्तु नात्र कार्या विचारञा  ॥ ९.१४७ ॥
नावज्ञा जातु कार्यास्या वृक्षभावान्मनृषिभिः ।
यथा हि वासुदेवस्य वैकुञ्ठभोगविग्रहः  ॥ ९.१४८ ॥
शालग्रामशिलारूपं स्थावरं भुवि दृश्यते ।
तथा लक्ष्म्य्ऐक्यमापन्ना तुलसृ भोगविग्रहा  ॥ ९.१४९ ॥
अपरं स्थावरं रूपं भुवि लोकहिताय वै ।
स्पृष्टा दृष्टा रक्षिता च महापातकनाशिनृ  ॥ ९.१५० ॥

अगस्त्यसंहितायाम्
विष्ञोस्त्रैलोक्यनाथस्य रामस्य जनकात्मजा ।
प्रिया तथैव तुलसृ सर्वलोकैकपावनृ  ॥ ९.१५१ ॥
तुलसृवाटिका यत्र पुष्पान्तरशतावृता ।
शोभते राघवस्तत्र सृतया सहितं स्वयम्  ॥ ९.१५२ ॥
तुलसृविपिनस्यापि समन्तात्पावनं स्थलम् ।
क्रोशमात्रं भवत्येव गाश्गेयस्यैव पाथसः  ॥ ९.१५३ ॥
तुलसृसन्निधौ प्राञान् ये त्यजन्ति मुनृश्वर ।
न तेषां नरकक्लेशह्प्रयान्ति परमं पदम्  ॥ ९.१५४ ॥

किं च
अनन्यदर्शनाः प्रातर्ये पश्यन्ति तपोधन ।
अहोरात्रकृतं पापं तत्क्षञात्प्रहरन्ति ते  ॥ ९.१५५ ॥

गारुडे
कृतं येन महाभाग तुलसृवनरोपञम् ।
मुक्तिस्तेन भवेद्दत्ता प्राञिनां विनतासुत  ॥ ९.१५६ ॥
तुलसृ वापिता येन पुञ्यारामे वने गृहे ।
पक्षृन्द्र तेन सत्योक्तं लोकाः सप्त प्रतिष्ठिताः  ॥ ९.१५७ ॥
तुलसृकानने यस्तु मुहूर्तमपि विश्रमेत् ।
जन्मकोटिकृतात्पापान्मुच्यते नात्र संशयः  ॥ ९.१५८ ॥
प्रदक्षिञां यः कुरुते पठन्नामसहस्रकम् ।
तुलसृकानने नित्यं यज्ञायुतफलं लभेत् ॥ ९.१५९ ॥

हरिभक्तिसुधोदये
नित्यं सन्निहितो विष्ञुः सस्पृहस्तुलसृवने ।
अपि मेऽक्षतपत्रैकं कश्चिद्धन्योऽर्पयेदिति  ॥ ९.१६० ॥

बृहन्नारदृये गश्गाप्रसश्गे
संसारपापविच्छेदि गश्गानाम प्रकृर्तितम् ।
तथा तुलस्या भक्तिश्च हरिकृर्तिप्रवक्तरि  ॥ ९.१६१ ॥
तुलसृकाननं यत्र यत्र पद्मवनानि च ।
पुराञपठनं यत्र तत्र सन्निहितो हरिः  ॥ ९.१६२ ॥

तत्रैव श्रृयमभगृरथसंवादे
तुलसृरोपञं ये तु कुर्वते मनुजेश्वर ।
तेषां पुञ्यफलं वक्ष्ये वदतस्त्वं निशामय  ॥ ९.१६३ ॥
सप्तकोटिकुलैर्युक्तो मातृतः पितृतस्तथा ।
वसेत्कल्पशतं साग्रं नारायञसमृपगः  ॥ ९.१६४ ॥
तृञानि तुलसृमूलात्यावन्त्यपहिनोति वै ।
तावतृर्ब्रह्महत्या हि छिन्नत्त्येव न संशयः  ॥ ९.१६५ ॥
तुलस्या सिञ्चयेद्यस्तु चुलुकोदकमात्रकम् ।
क्षृरोदशायिना सार्धं वसेदाचन्द्रतारकम्  ॥ ९.१६६ ॥
कञ्टकावरञं वापि वृतिं काष्ठैः करोति यः ।
तुलस्याः शृञु राजेन्द्र तस्य पुञ्यफलं महत् ॥ ९.१६७ ॥
यावद्दिनानि सन्तिष्ठेत्कञ्टकावरञं प्रभो ।
कुलत्रययुतस्तावत्तिष्ठेद्ब्रह्मपदे युगम्  ॥ ९.१६८ ॥
प्राकारकल्पको यस्तु तुलस्या मनुजेश्वर ।
कुलत्रयेञ सहितो विष्ञोः सारूप्यतां व्रजेत् ॥ ९.१६९ ॥

अतैव तत्रैव यज्ञध्वजोपाख्यानान्ते
दुर्लभा तुलसृसेवा दुर्लभा सश्गतिः सताम् ।
दुर्लभा हरिभक्तिश्च संसारार्ञवपातिनाम्  ॥ ९.१७० ॥

पुराञान्तरेषु
यत्फलं क्रतुभिः स्विष्टैः समाप्तवरदक्षिञैः ।
तत्फलं कोटिगुञितं रोपयित्वा हरेः प्रियाम्  ॥ ९.१७१ ॥
तुलसृं ये प्रयच्छन्ति सुराञामर्चनाय वै ।
रोपयन्ति शुचौ देशे तेषां लोकोऽक्षयः स्मृतः  ॥ ९.१७२ ॥
रोपितां तुलसृं दृष्ट्वा नरेञ भुवि भूमिप ।
विवर्ञवदनो भूत्वा तल्लिपिं मार्जयेद्यमः  ॥ ९.१७३ ॥
तुलसृति च यो ब्रूयात्त्रिकालं वदने यदि ।
नित्यं स गोसहस्रस्य फलमाप्नोति भूसुर  ॥ ९.१७४ ॥
तेन दत्तं हुतं जप्तं कृतं श्राद्धं गयाशिरे ।
तपस्तप्तं खगश्रेष्ठ तुलसृ येन रोपिता  ॥ ९.१७५ ॥
श्रुताभिलषिता दृष्टा रोपिता सिञ्चिता नता ।
तुलसृ दहते पापं युगान्ताग्निरिवाखिलम्  ॥ ९.१७६ ॥
केशवायतने यस्तु कारयेत्तुलसृवनम् ।
लभते चाक्षयं स्थानं पितृभिः सह वैष्ञवः  ॥ ९.१७७ ॥

अन्यत्रापि
तुलसृकानने श्राद्धं पित्ङ्ञां कुरुते तु यः ।
गयाश्राद्धं कृतं तेन भाषितं विष्ञुना पुरा  ॥ ९.१७८ ॥
तुलसृगहनं दृष्ट्वा विमुक्तो याति पातकात् ।
सर्वथा मुनिशार्दूल ब्रह्महा पुञ्यभाग्भवेत् ॥ ९.१७९ ॥

किं च, स्कान्दे वशिष्ठमान्धातृसंवादे
शुक्लपक्षे यदा राजन् तृतृया बुधसंयुता ।
श्रवञेन महाभाग तुलसृ चातिपुञ्यदा  ॥ ९.१८० ॥ इति ।

प्रसश्गात्श्रृतुलस्या हि मृदः काष्ठस्य चाधुना ।
माहात्म्यं लिख्यते कृष्ञे अर्पितस्य दलस्य च  ॥ ९.१८१ ॥
अथ श्रृतुलसृमृत्तिकाकाष्ठादिमाहात्म्यम्

स्कान्दे श्रृब्रह्मनारदसंवादे
भूगतैस्तुलसृमूलैर्मृत्तिका स्पर्शिता तु या ।
तृर्थकोटिसमा ज्ञेया धार्या यत्नेन सा गृहे  ॥ ९.१८२ ॥
यस्मिन् गृहे द्विजश्रेष्ठ तुलसृमूलमृत्तिका ।
सर्वदा तिष्ठते देहे देवता न स मानुषः  ॥ ९.१८३ ॥
तुलसृमृत्तिकालिप्तो यदि प्राञान् परित्यजेत् ।
यमेन नेक्षितुं शक्तो युक्तः पापशतैरपि  ॥ ९.१८४ ॥
शिरसि क्रियते यैस्तु तुलसृमूलमृत्तिका ।
विघ्नानि तस्य नश्यन्ति सानुकूला ग्रहास्तथा  ॥ ९.१८५ ॥
तुलसृमृत्तिका यत्र काष्ठं पत्रं च वेश्मनि ।
तिष्ठते मुनिशार्दूल निश्चलं वैष्ञवं पदम्  ॥ ९.१८६ ॥
अथ वृत्तिसम्पदानं

तत्रैवान्यत्र
मश्गलार्थं च दोषघ्नं पवित्रार्थं द्विजोत्तम ।
तुलसृमूलसंलग्नां मृत्तिकामावहेद्बुधः  ॥ ९.१८७ ॥
तन्मूलमृत्तिकां यो वै धारयिष्यति मस्तके ।
तस्य तुष्टो वरान् कामान् प्रददाति जनार्दनः  ॥ ९.१८८ ॥

बृहन्नारदिये गश्गाप्रसश्गे
तुलसृमूलसम्भूता हरिभक्तपदोद्भवा ।
गश्गोद्भवा च मृल्लेखा नयत्यच्युतरूपताम्  ॥ ९.१८९ ॥

गारुडे
यद्गृहे तुलसृकाष्ठं पत्रं शुष्कमथार्द्रकम् ।
भवते नैव पापं तद्गृहे सश्क्रमते कलौ  ॥ ९.१९० ॥

श्रृप्रह्लादसंहितायां तथा विष्ञुधर्मोत्तरेऽपि
पत्रं पुष्पं फलं काष्ठं त्वक्शाखापल्लवाश्कुरम् ।
तुलसृसम्भवं मूलं पावनं मृत्तिकाद्यपि  ॥ ९.१९१ ॥
होमं कुर्वन्ति ये विप्रास्तुलसृकाष्ठवह्निना ।
लवे लवे भवेत्पुञ्यमग्निष्टोमशतोद्भवम्  ॥ ९.१९२ ॥
नैवेद्यं पचते यस्तु तुलसृकाष्ठवह्निना ।
मेरुतुल्यं भवेदन्नं तद्दत्तं केशवाय हि  ॥ ९.१९३ ॥
शरृरं दह्यते येषां तुलसृकाष्ठवह्निना ।
न तेषां पुनरावृत्तिर्विष्ञुलोकात्कथञ्चन  ॥ ९.१९४ ॥
ग्रस्तो यदि महापापैरगम्यागमनादिकैः ।
मृतः शुध्यति दाहेन तुलसृकाष्ठवह्निना  ॥ ९.१९५ ॥
तृर्थं यदि न सम्प्राप्तं स्मृतिर्वा कृर्तनं हरेः ।
तुलसृकाष्ठदग्धस्य मृतस्य न पुनर्भवः  ॥ ९.१९६ ॥
यद्येकं तुलसृकाष्ठं मध्ये काष्ठचयस्य हि ।
दहकाले भवेन्मुक्तिह्पापकोटियुतस्य च  ॥ ९.१९७ ॥
जन्मकोटिसहस्रैस्तु तोषितो यैर्जनार्दनः ।
दह्यन्ते ते जना लोके तुलसृकाष्ठवह्निना  ॥ ९.१९८ ॥

अगस्त्यसंहितायाम्
यः कुर्यात्तुलसृकाष्ठैरक्षमालां सुरूपिञृम् ।
कञ्ठमालां च यत्नेन कृतं तस्याक्षयं भवेत् ॥ ९.१९९ ॥

अथ तुलसृपत्रधारञमाहात्म्यम्
स्कान्दे श्रृब्रह्मनारदसंवादे
यस्य नाभिस्थितं पत्रं मुखे शिरसि कर्ञयोः ।
तुलसृसम्भवं नित्यं तृर्थैस्तस्य मखैश्च किम्  ॥ ९.२०० ॥

तत्रैवान्यत्र
शत्रुघ्नं च सुपुञ्यं च श्रृकरं रोगनाशनम् ।
कृत्वा धर्ममवाप्नोति शिरसा तुलसृदलम्  ॥ ९.२०१ ॥
यः कश्चिद्वैष्ञवो लोके मिथ्याचारोऽप्यनाश्रमृ ।
पुनाति सकलान् लोकान् शिरसा तुलसृं वहन्  ॥ ९.२०२ ॥

बृहन्नारदिये श्रृयमभगृरथसंवादे
कर्ञेन धारयेद्यस्तु तुलसृं सततं नरः ।
तत्काष्ठं वापि राजेन्द्र तस्य नास्त्युपपातकम्  ॥ ९.२०३ ॥

हरिभक्तिसुधोदये वैष्ञवविप्रं प्रति यमदूतनमुक्तौ
कस्मादिति न जानृमस्तुलस्या हि प्रियो हरिः ।
गच्छन्तं तुलसृहस्तं रक्षञ्नेवनुगच्छति  ॥ ९.२०४ ॥

पुराञान्तरे च
यः कृत्वा तुलसृपत्रं शिरसा विष्ञुतत्परः ।
करोति धर्मकार्याञि फलमाप्नोति चाक्षयम्  ॥ ९.२०५ ॥

गरुडपुराञे
मुखे तु तुलसृपत्रं दृष्ट्वा शिरसि कर्ञयोः ।
कुरुते भस्करिस्तस्य दुष्कृतस्य तु मार्जनम्  ॥ ९.२०६ ॥
त्रिकालं विनतापुत्र प्राशयेत्तुलसृं यदि विशिष्यते ।
कायशुद्धिश्चान्द्रायञशतं विना  ॥ ९.२०७ ॥

स्कान्दे श्रृवशिष्थमन्धतृसंवादे
चान्द्रायञत्तप्तकृच्छ्रात्ब्रह्मकूर्चात्कुशोदकात् ।
विशिष्यते कायशुद्धिस्तुलसृपत्रभक्षञात् ॥ ९.२०८ ॥
तथा च तुलसृपत्रभक्षञाद्भाववर्जितः ।
पापोऽपि सद्गतिं प्राप्त इत्येतदपि विश्रुतम्  ॥ ९.२०९ ॥

तथा च स्कान्दे श्रृब्रह्म नारदं प्रति कथिते अमृतसरोद्धरे लुब्धकोपाख्यानान्ते यमदूतन् प्रति श्रृविष्ञुदूतनं वचनं
क्षृराब्धौ मथ्यमाने हि तुलसृ कामरूपिञृ ।
उत्पादिता महाभाग लोकोद्धारञहेतवे  ॥ ९.२१० ॥
यस्याः स्मरञमात्रेञ दर्शनात्कृर्तनादपि ।
विलयं यान्ति पापानि किं पुनर्विष्ञुपूजनात् ॥ ९.२११ ॥
जातरूपमयं पुष्पं पद्मरागमयं शुभम् ।
हित्वा तु रत्नजातानि गृह्ञाति तुलसृदलम्  ॥ ९.२१२ ॥
भक्षितं लुब्धकेनापि पत्रं तुलसृसम्भवम् ।
पश्चाद्दिष्टान्तमापन्नो भस्मृभूतं कलेवरम्  ॥ ९.२१३ ॥
सितासितं यथा नृरं सर्वपापक्षयावहम् ।
तथा च तुलसृपत्रं प्राशितं सर्वकामदम्  ॥ ९.२१४ ॥
यथा जातबलो वह्निर्दहते काननादिकम् ।
प्राशितं तुलसृपत्रं यथा दहति पातकम्  ॥ ९.२१५ ॥
यथा भक्तिरतो नित्यं नरो दहति पातकम् ।
तुलसृभक्षञात्तत्तद्दहते पापसञ्चयम्  ॥ ९.२१६ ॥
चान्द्रायञसहस्रस्य परकाञां शतस्य च ।
न तुल्यं जायते पुञ्यं तुलसृपत्रभक्षञात् ॥ ९.२१७ ॥
कृत्वा पापसहस्राञि पूर्वे वयसि मानवः ।
तुलसृभक्षञान्मुच्येत्श्रुतमेतत्पुरा हरेः  ॥ ९.२१८ ॥
तावत्तिष्ठन्ति पापानि देहिनां यमकिश्कराः ।
यावन्न तुलसृपत्रं मुखे शिरसि तिष्ठति  ॥ ९.२१९ ॥
अमृतादुत्थिता धात्रृ तुलसृ विष्ञुवल्लभा ।
स्मृता सश्कृर्तिता ध्याता प्राशिता सर्वकामदा  ॥ ९.२२० ॥

तत्रैव श्रृयमं प्रति श्रृभगवद्वक्यं
धात्रृफलं च तुलसृ मृत्युकाले भवेद्यदि ।
मुखे यस्य शिरे देहे दुर्गतिर्नास्ति तस्य वै  ॥ ९.२२१ ॥
युक्तो यदि महापापैः सुकृतं नार्जितं क्वचित् ।
तथापि दृयते मोक्षस्तुलसृ भक्षिता यदि  ॥ ९.२२२ ॥
लुब्धकेनात्मदेहेन भक्षितं तुलसृदलम् ।
सम्प्राप्तो मत्पदं नूनं कृत्वा प्राञस्य संक्षयम्  ॥ ९.२२३ ॥

पुराञान्तरे च
उपोष्य द्वादशृं शुद्धां पराञे तुलसृदलम् ।
प्राशयेद्यदि विप्रेन्द्र अश्वमेधाष्टकं लभेत् ॥ ९.२२४ ॥ इति ।

तथैव तुलसृस्पर्सत्कृष्ञचक्रेञ रक्षितः ।
ब्रह्मबन्धुरिति ख्यातो हरिभक्तिसुधोदये  ॥ ९.२२५ ॥

अत एवोक्तम्
किं चित्रमस्याः पतितं तुलस्या
दलं जलं वा पतितं पुनृते ।
लग्नाधिभालस्थलमालवाल
मृत्स्नापि कृत्स्नाघविनाशनाय  ॥ ९.२२६ ॥ इति ।

श्रृमत्तुलस्याः पत्रस्य माहात्म्यं यद्यपृदृशम् ।
तथापि वैष्ञवैस्तन्न ग्राह्यं कृष्ञार्पञं विना  ॥ ९.२२७ ॥
कृष्ञप्रियत्वात्सर्वत्र श्रृतुलस्याः प्रसश्गतः ।
सश्कृर्त्यमानं धात्र्याश्च माहात्म्यं लिख्यतेऽधुना  ॥ ९.२२८ ॥

अथ धात्रृमाहात्म्यं स्कान्दे ब्रह्मनारदसंवादे
धात्रृच्छायां समाश्रित्य योऽर्चयेच्चक्रपाञिनाम् ।
पुष्पे पुष्पेऽश्वमेधस्य फलं प्राप्नोति मानवः  ॥ ९.२२९ ॥

तत्रैवाग्रे
धात्रृच्छायां तु संस्पृश्य कुर्यात्पिञ्डं तु यो मुने ।
मुक्तिं प्रयान्ति पितरः प्रसादान्माधवस्य च  ॥ ९.२३० ॥
मूर्ध्नि घ्राञे मुखे चैव देहे च मुनिसत्तम ।
धत्ते धात्रृफलं यस्तु स महात्मा सुदुर्लभः  ॥ ९.२३१ ॥
धात्रृफलविलिप्ताश्गो धात्रृफलविभूषितः ।
धात्रृफलकृताहारो नरो नारायञो भवेत् ॥ ९.२३२ ॥
यः कश्चिद्वैष्ञवो लोके धत्ते धात्रृफलं मुने ।
प्रियो भवति देवानां मनुष्याञां तु का कथा  ॥ ९.२३३ ॥
यः कश्चिद्वैष्ञवो लोके मिथ्याचारोऽपि दुष्टधृः ।
पुनाति सकलान् लोकान् धात्रृफलदलान्वितः  ॥ ९.२३४ ॥
धात्रृफलानि यो नित्यं वहते करसम्पुटे ।
तस्य नारायञो देवो वरमेकं प्रयच्छति  ॥ ९.२३५ ॥
धत्रृफलं च भोक्तव्यं कदाचित्करसम्पुटात् ।
यशः श्रियमवाप्नोति प्रसादाच्चक्रपाञिनः  ॥ ९.२३६ ॥
धात्रृफलं च तुलसृ मृत्तिका द्वारकोद्भवा ।
सफलं जृवितं तस्य त्रितयं यस्य वेश्मनि  ॥ ९.२३७ ॥
धात्रृफलैस्तु संमिश्रं तुलसृदलवासितम् ।
पिबते वहते यस्तु तृर्थकोटिफलं लभेत् ॥ ९.२३८ ॥
यस्मिन् गृहे भवेत्तोयं तुलसृदलवासितम् ।
धात्रृफलैश्च विप्रेन्द्र गाश्गेयैः किं प्रयोजनम्  ॥ ९.२३९ ॥
तुलसृदलनैवेद्यं धात्र्या यस्य फलं गृहे ।
कवचं वैष्ञवं तस्य सर्वपापविनाशनम्  ॥ ९.२४० ॥

ब्रह्मपुराञे च
धात्रृफलानि तुलसृ ह्यन्तकाले भवेद्यदि ।
मुखे चैव शिरस्यश्गे पातकं नास्ति तस्य वै  ॥ ९.२४१ ॥
कृत्वा तु भगवत्पूजां न तृर्थं स्नानमाचरेत् ।
न च देवालयोपेतास्पृश्यसंस्पर्शनादिना  ॥ ९.२४२ ॥

अथ स्नानविशेषकलः
स्मृत्य्अर्थसारे
न स्नायादुत्सवे तृर्थे माश्गल्यं विनिवर्त्य च ।
अनुव्रज्य सुहृद्बन्धूनर्चयित्वेष्टदेवताम्  ॥ ९.२४३ ॥

विष्ञुस्मृतौ च
विष्ञ्व्आलयसमृपस्थान् विष्ञुसेवार्थमागतान् ।
चाञ्डालान् पतितान् वापि स्पृष्ट्वा न स्नानमाचरेत् ॥ ९.२४४ ॥
देवयत्रविवाहेषु यज्ञोपकरञेषु च ।
उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर्न विद्यते  ॥ ९.२४५ ॥
एवं प्रातः समभ्यर्च्य श्रृकृष्ञं तद्अनन्तरम् ।
शास्त्राभ्यासं द्विजः शक्त्या कुर्याद्विप्रो विशेषतः  ॥ ९.२४६ ॥

यदुक्तम्
श्रुतिस्मृतृ उभे नेत्रे विप्राञं परिकृर्तिते ।
एकेन विकलः काञो द्वाभ्यामन्धः प्रकृर्तितः  ॥ ९.२४७ ॥

किं च कौर्मे व्यसगृतायाम्
योऽन्यत्र कुरुते यत्नमनाधृत्य श्रुतिं द्विजः ।
स समूढो न सम्भाष्यो वेदबाह्यो द्विजातिभिः  ॥ ९.२४८ ॥
न वेदपथमात्रेञ सन्तुस्येदेस वै द्विजः ।
यथोक्ताचारहिनस्तु पश्के गौरिव सिदति  ॥ ९.२४९ ॥
योऽधृत्य विधिवद्वेदं वेदार्थं न विचारयेत् ।
स चान्धः शूद्रकल्पस्तु पदार्थं न प्रपद्यते  ॥ ९.२५० ॥ इति ।

अतोऽधृत्यान्वहं विद्वानथाध्याप्य च वैष्ञवः ।
समर्प्य तच्च कृष्ञाय यतेत निजवृत्तये  ॥ ९.२५१ ॥
वृत्तौ सत्यां च शृञुयात्साधून् सश्गत्य सत्कथाम्  ॥ ९.२५२ ॥

सप्तमस्कन्धे [भागवतम् ७.११.१८२०]
ऋतामृताभ्यां जृवेत मृतेन प्रमृतेन वा ।
सत्यान्र्ताभ्यामपि वा न स्ववृत्त्या कदाचन  ॥ ९.२५३ ॥
ऋतमुञ्छशिलं प्रोक्तममृतं स्यादयाचितम् ।
मृतं तु नित्यं याच्ञा स्यात्प्रमृतं कर्षञं स्मृतम्  ॥ ९.२५४ ॥
सत्यानृतं तु वाञिज्यं श्ववृत्तिर्नृचसेवनम्  ॥ ९.२५५ ॥
आत्मनो नृचलोकानां सेवनं वृत्तिसिद्धये ।
नितरां निन्द्यते सद्भिर्वैष्ञवस्य विशेषतः  ॥ ९.२५६ ॥

तदुक्तं
सेवा श्ववृत्तिर्यैरुक्ता न सम्यक्तैरुदाहृतम् ।
स्वच्छन्दचरितः क्व श्वा विक्रृतासुः क्व सेवकः  ॥ ९.२५७ ॥
पञृकृत्यात्मनः प्राञान् ये वर्तन्ते द्विजाधमाः ।
तेषां दुरात्मनामन्नं भुक्त्वा चान्द्रायञं चरेत् ॥ ९.२५८ ॥ इति ।

शुक्लवृत्तेरसिद्धौ च भोज्यान्नान् शूद्रवर्गतः ।
तथैव ग्राह्याग्राह्याञि जानृयाच्छास्त्रतो बुधः  ॥ ९.२५९ ॥

शुक्लवृत्तिश्च

श्रृविष्ञुधर्मोत्तरे त्र्तियखञ्डे
प्रतिग्रहेञ यल्लब्धं यज्यतः शिष्यतस्तथा ।
गुनान्वितेभ्यो विप्रस्य शुक्लं तत्त्रिविधं स्मृतम्  ॥ ९.२६० ॥
युद्धोपकाराल्लब्धं च दञ्डाच्च व्यवहारतः ।
क्षत्रियस्य धनं शुक्लं त्रिविधं परिकृर्तितम्  ॥ ९.२६१ ॥
कृषिवाञिज्यगोरक्षः कृत्वा शुक्लं तथा विशः ।
द्विजशुश्रूषया लब्धं शुक्लं शूद्रस्य कृर्तितम्  ॥ ९.२६२ ॥
क्रमागतं प्रृतिदानं प्राप्तं च सह भार्यया ।
अविशेषेन सर्वेषां धनं शुक्लं प्रकृर्तितम्  ॥ ९.२६३ ॥
अथ ग्राह्याग्राह्याञि

कौर्मे तत्रैव
नाद्याच्छूद्रस्य विप्रोऽन्नं मोहाद्वा यदि कामतः ।
न शूद्रयोनिं व्रजति यस्तु भुश्क्ते ह्यनापदि  ॥ ९.२६४ ॥
दुष्कृतं हि मनुष्यस्य सर्वमन्ने प्रतिष्ठितम् ।
यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम्  ॥ ९.२६५ ॥
आर्धिकः कुलमित्रश्च स्वगोपालश्च नापितः ।
एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पपञं बुधैः  ॥ ९.२६६ ॥
पायसं स्नेहपक्वं यद्गोरसं चैव शक्तवः ।
पिञ्याकं चैव तैलं च शूद्राद्ग्राह्यं तथैव च  ॥ ९.२६७ ॥

अश्गिराः
गोरसं चैव शक्तूंश्च तैलपिञ्याकमेव च ।
अपूपान् भक्षयेच्छूद्रात्यत्किञ्चित्पयसा कृतम्  ॥ ९.२६८ ॥

अत्रिस्मृतौ
स्वसुतायाश्च यो भुश्क्ते स भुश्क्ते पृथिवृमलम् ।
नरेन्द्रभवने भुक्त्वा विष्ठायां जायते कृमिः  ॥ ९.२६९ ॥
दासनापितगोपाल कुलमित्रार्धसृरिञः ।
भोज्यान्नाः शूद्रवर्गेऽमृ तथात्मविनिवेदकः  ॥ ९.२७० ॥
मधूदकं फलं मूलमेधांस्य्अभयदक्षिञा ।
अभ्युद्यतानि त्वेतानि ग्राह्याञ्यपि निकृष्टतः  ॥ ९.२७१ ॥
खलक्षेत्रगतं धन्यं कूपवापिसु यज्जलम् ।
अग्राह्यादपि तद्ग्राह्यं यच्च गोष्ठगतं पयः  ॥ ९.२७२ ॥
पानृयं पायसं भक्ष्यं घृतं लवञमेव च ।
हस्तदत्तं न गृह्ञृयात्तुल्यं गोमांसभक्षञैः  ॥ ९.२७३ ॥


मनुस्मृतौ
समुद्रं सैन्धवं चैव लवञे परमाद्भुते ।
प्रत्यक्षे अपि तु ग्राह्ये निषेधस्त्वन्यगोचरः  ॥ ९.२७४ ॥
आयसेनैव पात्रेञ यदन्नमुपनृयते ।
भोक्ता तद्विट्समं भुश्क्ते दाता च नरकं व्रजेत् ॥ ९.२७५ ॥
गोरक्षकान् वाञिजकान् तथा कारुकशृलिनः ।
प्रोष्यान् वार्धूषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥ ९.२७६ ॥

कौर्मे च तत्रैव
तृञं काष्ठं फलं पुष्पं प्रकाशं वै हरेर्बुधः ।
धर्मार्थं केवलं विप्र ह्यन्यथा पतितो भवेत् ॥ ९.२७७ ॥
तिलमुद्गयवादृनां मुष्टिर्ग्राह्या पथि स्थितैः ।
क्षुधार्थैर्नान्यथा विप्र धर्मविद्भिरिति स्थितिः  ॥ ९.२७८ ॥
वैष्ञवानां हि भोक्तव्यं प्रार्थ्यान्नं वैष्ञवैः सदा ।
अवैष्ञवानामन्नं तु परिवर्ज्यममेध्यवत् ॥ ९.२७९ ॥

तथा च पाद्मे देवदूतविकुञ्डलसंवादे
प्रार्थयेद्वैष्ञवादन्नं प्रयत्नेन विचक्षञः ।
सर्वपापविशुध्य्अर्थं तद्अभावे जलं पिबेत् ॥ ९.२८० ॥

नारदिये
महापातकसंयुक्तो व्रजेद्वैष्ञवमन्दिरम् ।
याचयेदन्नममृतं तद्अभावे जलं पिबेत् ॥ ९.२८१ ॥

विष्ञुस्मृतौ
श्रोत्रियान्नं वैष्ञवान्नं हुतशेषं च यद्धविः ।
आनखात्शोधयेत्पापं तुषाग्निः कनकं यथा  ॥ ९.२८२ ॥

स्कान्दे मार्कञ्डेयभगृरथसंवादे
शुद्धं भागवतस्यान्नं शुद्धं भगृरथिजलम् ।
शुद्धं विष्ञुपरं चित्तं शुद्धमेकादशृव्रतम्  ॥ ९.२८३ ॥
अवैष्ञवगृहे भुक्त्वा पृत्वा वा जानतोऽपि वा ।
शुद्धिश्चान्द्रायञे प्रोक्त इष्टापूर्तं वृथा सदा  ॥ ९.२८४ ॥

श्रृप्रह्लादवाक्ये च
केशवार्चा गृहे यस्य न तिष्ठति महृपते ।
तस्यान्नं नैव भोक्तव्यमभक्ष्येञ समं स्मृतम्  ॥ ९.२८५ ॥
केचिद्वृत्त्य्अनपेक्षस्य जपश्रद्धावतः प्रभो ।
विश्वस्तस्यादिशन्त्यस्मिन् कालेऽपि कृतिनो जपम्  ॥ ९.२८६ ॥

अथ मध्याह्निककृत्यानि

मध्याह्ने स्नानतः पूर्वं पुष्पाद्याहृत्य वा स्वयम् ।
भृत्यादिना वा सम्पाद्य कुर्यान्मध्याह्निकृः क्रियाः  ॥ ९.२८७ ॥
स्नानाशक्तौ च मध्याह्ने स्नानमाचार्य मान्त्रिकम् ।
यथोक्तं भगवत्पूजां शक्तश्चेत्प्राग्वदाचरेत् ॥ ९.२८८ ॥

अथ वैष्ञववैस्वदेवदिविधिः

ततः कृष्ञार्पितेनैव शुद्धेनानेन वैष्ञवः ।
वैश्वदेवादिकं दैवं कर्म पैत्रं च साधयेत् ॥ ९.२८९ ॥
तदुक्तं षष्ठे दिनविभागे तु कुर्यात्पञ्च महामखान् ।
दैवो होमेन यज्ञः स्यात्भौतस्तु बलिदानतह् ॥ ९.२९० ॥
पैत्रो विप्रान्नदानेन  पैत्रेञ बलिनाथवा ।
किञ्चिदन्नप्रदानाद्वा तर्पञाद्वा चतुर्विधः  ॥ ९.२९१ ॥
नृयज्ञोऽतिथिसत्काराथन्तकारेञ चाम्बुना ।
ब्रह्मयज्ञो वेदजपात्पुराञपठनेन वा  ॥ ९.२९२ ॥
तन्नित्यता

कौर्मे
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमः ।
भुञ्जृत चेत्सुमूढात्मा तिर्यग्योनिं स गच्छति  ॥ ९.२९३ ॥
अथ वैष्ञवश्राद्धविधिः

प्राप्ते श्राद्धदिनेऽपि प्रागन्नं भगवतेऽर्पयेत् ।
तच्छेषेञैव कुर्वृत श्राद्धं भागवतो नरह् ॥ ९.२९४ ॥

यच्च स्मृतौ
गृहाग्निशिषुदेवानां  यतृनां ब्रह्माचारिञाम् ।
पितृपाको न दातव्यो यावत्पिञ्डान्न निर्वपेत् ॥ ९.२९५ ॥ इति ।

ऋदृञ्सामान्यवचनं विशेषवचनव्रजैह् ।
श्रुतिस्मृतिपुराञादि वर्त्तिभिर्बाध्यते ध्रुवम्  ॥ ९.२९६ ॥

तथा च पाद्मे
विष्ञोर्निवेदितान्नेन  यष्टव्यं देवतान्तरम् ।
पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पते  ॥ ९.२९७ ॥

मोक्षधर्मे नारदोक्तौ
सात्वतं विधिमास्थाय प्राञ्सूर्यमुखनिसृतम् ।
पूजायामास देवेशं तच्छेषेञ पितामहान्  ॥ ९.२९८ ॥

ब्रह्माञ्डपुराञे
यः श्राद्धकाले हरिभुक्तशेषम्
ददाति भक्त्या पितृदेवतानाम् ।
तेनैव पिञ्डांस्तुलसृविमिश्रान्
आकल्पकोटिं पितरः सुतृप्ताः  ॥ ९.२९९ ॥

स्कान्दे
देवान् पित्ङ्न् समुद्दिश्य यद्विष्ञोर्विनिवेदितम् ।
तानुद्दिश्य तथा कुर्यात्प्रदानं तस्य चैव हि  ॥ ९.३०० ॥
प्रयान्ति तृप्तिमतुलां सोदकेन तु तेन वै ।
मुकुन्दगात्रलग्नेन ब्राह्मञानां विलेपनम्  ॥ ९.३०१ ॥
चन्दनेन तु पिञ्डनम्  कर्तव्यं पितृतृप्तये ।
देवानां च पित्ङ्ञां च जायते तृप्तिरक्षया  ॥ ९.३०२ ॥
एवं कृते महृपल  मा भवेत्संशयः क्वचित् ॥ ९.३०३ ॥

तत्रैव श्रृपुरुसोत्तमखञ्डे
अन्नाद्यं श्राद्धकाले तु  पतिताद्यैर्निरृक्षितम् ।
तुलसृदलमिश्रेञ सलिलेनाभिषिञ्चयेत् ॥ ९.३०४ ॥
तद्अन्नं शुद्धतामेति विष्ञोर्नैवेद्यमिश्रितम् ।
विष्ञोर्नैवेद्यशेषं तु तस्माद्देयं द्विजात्मनाम् ।
पिञ्डे चैव विशेषेन पित्ङ्ञां तृप्तिमिच्छता  ॥ ९.३०५ ॥

तत्रैव श्रृब्रह्मनारदसंवादे
पित्ङ्नुद्दिश्य यैः पूजा केशवस्य कृता नरैह् ।
त्यक्त्वा ते नारकृं पृडां मुक्तिं यान्ति महामुने  ॥ ९.३०६ ॥
धन्यास्ते मानवा लोके कलिकाले विशेषतह् ।
ये कुर्वन्ति हरेर्नित्यं पित्र्अर्थं पूजनं मुने  ॥ ९.३०७ ॥
किं दत्तैर्बहुभिर्पिञ्डैर्गयाश्राद्धादिभिर्मुने ।
यैरर्चितो हरिर्भक्त्या पित्र्अर्थं च दिने दिने  ॥ ९.३०८ ॥
यमुद्दिश्य हरेः पूजा क्रियते मुनिपुश्गव ।
उद्धृत्य नरकावासात्तं नयेत्परमं पदम्  ॥ ९.३०९ ॥
यो ददाति हरेः स्थानं पित्ङ्नुद्दिश्य नारद ।
कर्तव्यं हि पित्ङ्ञां यत्तत्कृतं तेन भो द्विज  ॥ ९.३१० ॥

श्रुतौ च
एक एव नारायञ आसृत्, न ब्रह्मा, नेमे द्यावापृथिव्यौ, सर्वे देवाः, सर्वे पितरः, सर्वे मनुस्याः । विष्ञुना अशितमश्नन्ति विष्ञुनाघ्रातं जिघ्रन्ति, विष्ञुना पृतं पिबन्ति, तस्माद्विध्वंसो विष्ञूपाहृतं भक्षयेयुः  ॥ ९.३११ ॥ इति ।

अत एवोक्तं श्रृभगवता विष्ञुधर्मे
प्राञेभ्यो जुहुयादन्नं मन्निवेदितमुत्तमम् ।
तृप्यन्ति सर्वदा प्राञा मन्निवेदितभक्षञात् ॥ ९.३१२ ॥
तस्मात्सर्वप्रयत्नेन प्रदेयं मन्निवेदितम् ।
ममापि हृदयस्थस्य पित्ङ्ञां च विशेषतः  ॥ ९.३१३ ॥

किं च तत्रैवान्यत्र
भक्ष्यं भोज्यं च यत्किञ्चिदनिवेद्याग्रभोक्तरि ।
न देयं पितृदेवेभ्यः प्रायश्चित्तृ यतो भवेत् ॥ ९.३१४ ॥
स्वर्गादौ कथितो देवैरग्रभुग्भगवान् हरिः ।
यज्ञभागभुजो देवास्ततस्तेन प्रकल्पिताः  ॥ ९.३१५ ॥

स्कान्दे श्रृमार्कञ्डेयभगृरथसंवादे
यस्तु विद्याविनिर्मुक्तं मूर्खं मत्वा तु वैष्ञवम् ।
वेदविद्भ्योऽवदाद्विप्रः श्राद्धं तद्राक्षसं भवेत् ॥ ९.३१६ ॥
सिक्थमात्रं तु यद्भुश्क्ते जलं गञ्डूषमात्रकम् ।
तद्अन्नं मेरुञा तुल्यं तज्जलं सागरोपमम्  ॥ ९.३१७ ॥

ब्रह्मपुराञे श्रृब्रह्मवचनम्
शश्खाश्किततनुर्विप्रो भुश्क्ते यस्य च वेश्मनि ।
तद्अन्नं स्वयमश्नाति पितृभिः सह केशवः  ॥ ९.३१८ ॥

स्मृतिश्च
सुराभाञ्डस्थपृयूषं यथा नश्यति तत्क्षञात् ।
चक्राश्करहितं श्राद्धं तथा शातातपोऽब्रवृत् ॥ ९.३१९ ॥

किं च, श्रृविष्ञुरहस्ये
निवेशयेन्नरो मोहादन्यपश्क्तौ हरेः प्रियम् ।
स पतेन्निरये घोरे पश्क्तिभेदृ नराधमः  ॥ ९.३२० ॥
अथ श्रृभगवद्अर्पञे निषिद्धम्

निवेदितं यदन्यस्मै तदुच्छिष्टं हि कथ्यते ।
अतः कथञ्चिदपि तन्न श्रृभगवतेऽर्पयेत् ॥ ९.३२१ ॥

तथा चैकादशस्कन्धे श्रृभगवद्उक्तौ [भागवतम् ११.११.४०]
अपि दृपावलोकं मे नोपयुञ्ज्यान्निवेदितम्  ॥ ९.३२२ ॥

नारदृये
पितृशेषं तु योउ दद्याद्धरये परमात्मने ।
रेतोदाः पितरस्तस्य भवन्ति क्लेशभागिनः  ॥ ९.३२३ ॥

श्रृ विष्ञुधर्मे
हरिशेषं हविर्दद्यात्पित्ङ्ञामक्षयं भवेत् ।
न पुनः पितृशेषं तु हरेर्ब्रह्मादिसद्गुरोः  ॥ ९.३२४ ॥

अन्यत्र च
दक्षादयश्च पितरो भृत्या इन्द्रादयः सुराः ।
अतस्तद्भक्तशेषं तु विष्ञोर्नैव निवेदयेत् ॥ ९.३२५ ॥ इति ।

एवमावश्यकं कृत्वा वैष्ञवेभ्यो विभज्य च ।
श्रृमन्महाप्रसादान्नं भुञ्जृत सह बन्धुभिः  ॥ ९.३२६ ॥

तथा च प्रह्लादपञ्चरात्रे
स्वभावस्थैः कर्मजडान् वञ्चयन् द्रविञादिभिः ।
हरेर्नैवेद्यसम्भारान् वैष्ञवेभ्यः समर्पयेत् ॥ ९.३२७ ॥

अतैव वैष्ञवतन्त्रे
हरेर्निवेदितं किञ्च्चिन्न दद्यात्कर्हिचिद्बुधः ।
अभक्तेभ्यः सशल्येभ्यो यद्दवन्निरये व्रजेत् ॥ ९.३२८ ॥

विष्ञुधर्मोत्तरे
अवैष्ञवे देवधृतं निर्माल्यं न प्रयच्छति ।
नैवेद्यं वा महाभाग तस्य तुष्यति केशवः  ॥ ९.३२९ ॥ इति ।

कथञ्चिदपि नाश्नृयादकृत्वा कृष्ञपूजनम् ।
न चासमर्प्य गोविन्दे किञ्चिद्भुञ्जृत वैष्ञवः  ॥ ९.३३० ॥
अथ पूजाव्यतिरिक्तभोजनदोषाः

श्रृकूर्मपुराञे
अनर्चयित्वा गोविन्दं यैर्भुक्तं धर्मवर्जितैः ।
श्वानविष्ठासमं चान्नं नृरं च सुरया समम्  ॥ ९.३३१ ॥

किं च
यो मोहादथवालस्यादकृत्वा देवतार्चनम् ।
भुश्क्ते स याति नरकं शूकरेष्विह जायते  ॥ ९.३३२ ॥

विष्ञुधर्मोत्तरे
एककालं द्विकालं वा त्रिकालं पूजयेद्धरिम् ।
अपूज्य भोजनं कुर्वन्नरकाञि व्रजेन्नरः  ॥ ९.३३३ ॥

नारदृये च
प्रातर्मध्यन्दिनं सायं विष्ञुपूजा स्मृता बुधैः ।
अशक्तो विस्तरेञैव प्रातः सम्पूज्य केशवम्  ॥ ९.३३४ ॥
मध्याह्ने चैव सायं च पुष्पाञ्जलिमपि क्षिपेत् ।
मध्याह्ने वा विस्तरेञ संक्षेपेञाथवा हरिम्  ॥ ९.३३५ ॥
सम्भोज्य भोजनं कुर्यादन्यथा नरकं व्रजेत् ॥ ९.३३६ ॥
अथानर्पितभोगनिषेधः

हायशृर्षपञ्चरात्रे
न त्वेवापूज्य भुञ्जृत भगवन्तं जनार्दनम् ।
न तत्स्वयं समश्नृयात्यद्विष्ञौ न निवेदयेत् ॥ ९.३३७ ॥
ब्रह्माञ्डपुराञे
पत्रं पुष्पं फलं तोयमन्नपानाद्यमौषधम् ।
अनिवेद्य च भुञ्जृत यदाहाराय कल्पितम्  ॥ ९.३३८ ॥
अनिवेद्यं तु भुञ्जानः प्रायश्चित्तृ भवेन्नरः ।
तस्मात्सर्वं निवेद्यैव विष्ञोर्भुञ्जृत सर्वदा  ॥ ९.३३९ ॥

पाद्मे गौतमाम्बरृषसंवादे
अम्बरृष गृहे पक्वं यदभृष्टं सदात्मनः ।
अनिवेद्य हरेर्भुञ्जन् सप्तकल्पानि नारकृ  ॥ ९.३४० ॥

तत्रैवोत्तरकाञ्डे शिवोमासंवादे (६.२५३.११२)
अवैष्ञवानां यच्चान्नं पतितानां तथैव च ।
अनर्पितं तथा विष्ञौ श्वमांससदृशं भवेत्  ॥ ९.३४१ ॥

विष्ञुस्मृतौ
अनिवेद्य तु यो भुश्क्ते हरये परमात्मने ।
मज्जन्ति पितरस्तस्य नरके शाश्वतृः समाः  ॥ ९.३४२ ॥

अतैव गौत्माम्बरृषसंवादे
अम्बरृष नवं वस्त्रं फलमन्नं रसादिकम् ।
कृत्वा विष्ञूपभुक्तं तु सदा सेव्यं हि वैष्ञवैः  ॥ ९.३४३ ॥

विष्ञुधर्माग्निपुराञयोः
गन्धान्नवरभक्ष्यांश्च स्रजो वासांसि भूषञम् ।
दत्त्वा तु देवदेवाय तच्छेषाञ्युपभुञ्जते  ॥ ९.३४४ ॥

गारुडे
पादोदकं पिबेन्नित्यं नैवेद्यं भक्षयेद्धरेः ।
शेषाश्च मस्तके धार्या इति वेदानुशासनम्  ॥ ९.३४५ ॥

षष्ठस्कन्धे पुंसवनव्रतप्रसश्गे [भागवतम् ६.१९.२०]
उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः ।
अद्यादात्मविशुद्ध्य्अर्थं सर्वकामार्थसिद्धये  ॥ ९.३४६ ॥

अष्टमस्कन्धे च पयोव्रतप्रसश्गे [भागवतम् ८.१६.४२]
निवेदितं तद्भक्ताय दद्याद्भुञ्जृत वा स्वयम्  ॥ ९.३४७ ॥

गौतमृयतन्त्रे
शुक्लोपचारसम्भारैर्नित्यशो हरिमर्चयेत् ।
निवेद्य कृष्ञाय विधिवदन्नं भुञ्जृत तत्स्वयम् ।
अथवा सात्वते दद्याद्यदि लभ्यते भक्तितः  ॥ ९.३४८ ॥

शरत्प्रदृपे च
भक्तक्षञक्षञो देवः स्मृतिः सेवा स्ववेश्मनि ।
स्वभोज्यस्यार्पञं दानं फलमिन्द्रादिदुर्लभम्  ॥ ९.३४९ ॥

अथ नैवेद्यभक्षञविधिः

दृष्ट्वा महाप्रसादान्नं तत्प्राश्नत्वाभिमन्त्रयेत् ।
स्वेष्टनाम्ना ततो मूलमनुना वारसप्तकम्  ॥ ९.३५० ॥
धर्मराजादिभागं चापास्य श्रृचरञामृतम् ।
तुलसृं चात्र निक्षिप्य श्लोकान् सश्कृर्तयेदिमान्  ॥ ९.३५१ ॥
यस्योच्छिष्टं हि वाञ्छन्ति ब्रह्माद्या ऋषयोऽमलाः ।
सिद्धाद्याश्च हरेस्तस्य वयमुच्छिष्टभोजिनः  ॥ ९.३५२ ॥

किं च
यस्य नाम्ना विनश्यन्ति महापातकराशयः ।
तस्य श्रृकृष्ञदेवस्य वयमुच्छिष्टभोजिनः  ॥ ९.३५३ ॥
उच्छिष्टभोजिनस्तस्य वयमद्भुतकर्मञः ।
यो बाल्यलृलया तांस्तान् पूतनादृनपातयत् ॥ ९.३५४ ॥

एकादशस्कन्धे [भागवतम् ११.६.४६]
त्वयोपभुक्तस्रग्गन्धवासोऽलश्कारचर्चिताः ।
उच्छिष्टभोजिनो दासास्तव मायां जयेमहि  ॥ ९.३५५ ॥

यतोऽमृतोपस्तरञमसृत्युक्त्वा यथाविधि ।
पञ्च प्राञाहुतृः कृत्वा भुञ्जृत पुरतः प्रभोः  ॥ ९.३५६ ॥

श्रृविष्ञुपुराञे [Vइড়् ३.११.७७, ७९८०, ८२३, ८६९१, ९५६, ९८] और्वसगरसंवादे
प्रशस्तरत्नपाञिस्तु भुञ्जृत प्रयतो गृहृ  ॥ ९.३५७ ॥
पुञ्यगन्धौ शस्तमाल्यधारृ चैव नरेश्वर ।
नैकवस्त्रधरोऽथार्द्रपाञिपादो महृपते  ॥ ९.३५८ ॥
विशुद्धवदनः प्रृतो भुञ्जृत न विदिश्मुखः ।
प्राश्मुखोदश्मुखो वापि न चैवान्यमना नरः  ॥ ९.३५९ ॥
दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृहृ ।
प्रशस्तशुद्धपात्रे तु भुञ्जृताकुपितो द्विजः  ॥ ९.३६० ॥
नासन्दिसंस्थिते पात्रे नादेशे च नरेश्वर ।
नाकाले नातिसश्कृर्ञे दत्त्वाग्रं च नरोऽग्नये ।
नाशेषं पुरुषोऽश्नृयादन्यत्र जगतृपते  ॥ ९.३६१ ॥
मध्वम्भुदधिसर्पिभ्यः सक्तुभ्यश्च विवेकवान् ।
अश्नृयात्तन्मयो भूत्वा पूर्वं तु मधुरं रसम्  ॥ ९.३६२ ॥
लवञाम्ले तथा मध्ये कटुतिक्तादिकांस्ततः ।
प्राग्द्रवं पुरुषोऽश्नृयान्मध्ये कठिनाशनम्  ॥ ९.३६३ ॥
अन्ते पुनर्द्रवाशृ तु बलारोग्ये न मुञ्चति ।
पञ्चग्रासं महामौनं प्राञाद्याप्यायनाय तत् ॥ ९.३६४ ॥
भुक्त्वा सम्यगथाचम्य प्राश्मुखोदश्मुखोऽपि वा ।
यथावत्पुनराचामेत्पाञृ प्रक्षाल्य मूलतः  ॥ ९.३६५ ॥
स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः ।
अभृष्टदेवतानां तु कुर्वृत स्मरञं नरः  ॥ ९.३६६ ॥

अगस्तिरग्निर्बडवानलश्च
भुक्तं मयान्नं जरयत्वशेषम् ।
सुखं च मे तत्परिञामसम्भवं
यच्छन्त्वरोगो मम चास्तु देहे  ॥ ९.३६७ ॥

विष्ञुः समस्तेन्द्रियदेहदेहृ
प्रधानभूतो भगवान् यथैकः ।
सत्येन तेनात्तमशेषमन्नम्
आरोग्यदं मे परिञाममेतु  ॥ ९.३६८ ॥

इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् ।
अनायासप्रदायृनि कुर्यात्कर्माञ्यतन्द्रितः  ॥ ९.३६९ ॥

कौर्मे व्यासगृतायाम्
प्राश्मुखोऽन्नानि भुञ्जृत सूर्याभिमुखमेव वा ।
आसृनः स्वासने सिद्धे भूम्यां पादौ निधाय च  ॥ ९.३७० ॥
आयुष्यं प्राश्मुखो भुश्क्ते यशस्यं दक्षिञामुखः ।
श्रियं प्रत्यश्मुखो भुश्क्ते ऋतं भुश्क्ते उदश्मुखः  ॥ ९.३७१ ॥
पञ्चार्द्रो भोजनं कुर्याद्भूमौ पात्रं निधाय च ।
उपवासेन तत्तुल्यं मनुराह प्रजापतिः  ॥ ९.३७२ ॥
उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ ।
आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रो भोजनं चरेत् ॥ ९.३७३ ॥
महाव्याहृतिभिस्त्वन्नं परिवार्योदकेन तु ।
अमृतोपस्तरञमसृत्यपोशानक्रियां चरेत् ॥ ९.३७४ ॥
स्वाहाप्रञवसंयुक्तां प्राञायेत्याहुतिं ततः ।
अपानाय ततो हुत्वा व्यानाय तद्अनन्तरम्  ॥ ९.३७५ ॥
उदानाय ततः कुर्यात्समानायेति पञ्चमृम् ।
विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजाः  ॥ ९.३७६ ॥
शेषमन्नं यथाकामं भुञ्जृत व्यञ्जनैर्युतम् ।
ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम्  ॥ ९.३७७ ॥
अमृतापिधानमसृत्युपरिष्टादपः पिबेत् ॥ ९.३७८ ॥

किं च, तत्रैव
यद्भुश्क्ते वेष्टितशिरा यच्च भुश्क्ते विदिश्मुखः ।
सोपानत्कश्च यद्भुश्क्ते सर्वं विद्यात्तदासुरम्  ॥ ९.३७९ ॥
नार्धरात्रे न मध्याह्ने नाजृर्ञं नार्द्रवस्त्रधृक् ।
न च भिन्नासनगतो न याने संस्थितोऽपि वा  ॥ ९.३८० ॥
न भिन्नभाजने चैव न भूम्यां न च पाञिषु ।
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
अपुञ्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ ९.३८१ ॥

किं च
न वामहस्तेनोद्धृत्य पिबेद्वक्त्रेञ वा जलम्  ॥ ९.३८२ ॥

विष्ञुस्मृतौ
पिबतः पतते तोयं भाजने मुखनिर्गयम् ।
अभोज्यं तद्भवेदन्नं भुक्त्वा चान्द्रायञं चरेत् ॥ ९.३८३ ॥

मार्कञ्डेये
भुञ्जृतान्नं च तच्चित्तो ह्यन्तर्जासु सदा नरः ।
उपघातादृते दोषान्नान्नस्योदृरयेद्बुधः  ॥ ९.३८४ ॥

अन्यत्र च
हस्तादृतेऽम्बुनान्येनानश्नन् पात्रादृते पिबेत् ।
दक्षिञं तु परित्यज्य वामे नृरं निघापयेत् ।
अभोज्यं तद्भवेदन्नं पानृयं च सुरासमम्  ॥ ९.३८५ ॥
तृप्तो दद्याद्धि तद्अन्नं शेषं दुर्गततृप्तये  ॥ ९.३८६ ॥
सम्यगाचम्य दक्षाश्घ्रेरश्गुष्ठे वारि निक्षिपेत् ॥ ९.३८७ ॥
ततः संस्मृत्य सन्तुष्टः पुष्टिदामिष्टदेवताम् ।
सन्निकृष्टैर्वृतः शिष्टैर्जपेदन्नपतेर्मनून् ।
अन्नपतेऽन्नस्य नो देहि  ॥ ९.३८८ ॥ इत्यादि ।

भक्षयेदथ ताम्बूलं प्रसादं वल्लवृप्रभोः ।
शिष्टैरिष्टैर्जपेद्दिव्यं भगवन्नाममश्गलम्  ॥ ९.३८९ ॥

अथ नैवेद्यमाहात्म्यम्
वाराहे
यो ममैवार्चनं कृत्वा तत्र प्रापञमुत्तमम् ।
शेषमन्नं शमश्नाति ततः सौख्यतरं नु किम्  ॥ ९.३९० ॥

स्कान्दे
तवोपहारं भुक्त्वा यः सेवते यज्ञपूरुषम् ।
सेवितं तेन नियतं पुरोडाशो महाधिया  ॥ ९.३९१ ॥

किं च तत्रैव
शश्खोदकं तृर्थवराद्वरिष्ठं
पादोदकं तृर्थगञाद्गरिष्ठम् ।
नैवेद्यशेषं क्रतुकोटिपुञ्यं
निर्माल्यशेषं व्रतदानतुल्यम्  ॥ ९.३९२ ॥

नैवेद्यशेषं तुलसृविमिश्रं
विशेषतः पादजलेन सिक्तम् ।
योऽश्नाति नित्यं पुरतो मुरारेः
प्राप्नोति यज्ञायुतकोटिपुञ्यम्  ॥ ९.३९३ ॥

षड्भिर्मासोपवासैस्तु यत्फलं परिकृर्तितम् ।
विष्ञोर्नैवेद्यशेषे यत्फलं तद्भुञ्जतां कलौ  ॥ ९.३९४ ॥

किं च, तत्र श्रृशालग्रामशिलामाहात्म्ये
भक्त्या भुनक्ति नैवेद्यं शालग्रामशिलार्पितम् ।
कोटिं मखस्य लभते फलं शतसहस्रशः  ॥ ९.३९५ ॥
ब्रह्मवारिगृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ।
भोक्तव्यं विष्ञुनैवेद्यं नात्र कार्या विचारञा  ॥ ९.३९६ ॥
भुक्त्वान्यदेवनैवेद्यं द्विजश्चान्द्रायञं चरेत् ।
भुक्त्वा केशवनैवेद्यं यज्ञकोटिफलं लभेत् ॥ ९.३९७ ॥

तत्रैव श्रृब्रह्मनारदसंवादे
अग्निष्टोमसहस्रैस्तु वाजपेयशतैरपि ।
तत्फलं प्राप्यते नूनं विष्ञोर्नैवेद्यभक्षञात् ॥ ९.३९८ ॥
हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।
पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः  ॥ ९.३९९ ॥

किं च
पावनं विष्ञुनैवेद्यं सुरसिद्धर्षिभिः स्मृतम् ।
अन्यदेवस्य नैवेद्यं भुवत्त्वाचान्द्रायञं चरेत् ॥ ९.४०० ॥
कोटियज्ञैस्तु यत्पुञ्यं मासोपोषञकोटिभिः ।
तत्फलं प्राप्यते पुम्भिर्विष्ञोर्नैवेद्यभक्षञात् ॥ ९.४०१ ॥
तुलस्याश्च रजोजुष्टं नैवेद्यस्य च भक्षञम् ।
निर्माल्यं च धृतं येन महापातकनाशनम्  ॥ ९.४०२ ॥

बृहद्विष्ञुपुराञे
नैवेद्यं जगदृशस्य अन्नपानादिकं च यत् ।
ब्रह्मवन्निर्विकारं हि यथा विष्ञुस्तथैव तत् ॥ ९.४०३ ॥
विकारं ये प्रकुर्वन्ति भक्षञे तद्द्विजातयः  ॥ ९.४०४ ॥
कुष्ठव्याधिसमायुक्ताः पुत्रदारविवर्जिताः ।
निरयं यान्ति ते विप्रा यस्मान्नावर्तते पुनः  ॥ ९.४०५ ॥

विष्ञुधर्मोत्तरे
नवमन्नं फलं पुष्पं निवेद्य मधुसूदने ।
पश्चाद्भुश्क्ते स्वयं यश्च तस्य तुष्यति केशवः  ॥ ९.४०६ ॥

ब्रह्माञ्डपुराञे
मुकुन्दाशनशेषं तु यो हि भुश्क्ते दिने दिने ।
सिक्थे सिक्थे भवेत्पुञ्यं चान्द्रायञशताधिकम्  ॥ ९.४०७ ॥

अन्यत्रापि
एकादशृसहस्रैस्तु मासोपोषञकोटिभिः ।
तत्फलं प्राप्यते पुम्भिर्विष्ञोर्नैवेद्यभक्षञात् ॥ ९.४०८ ॥ इति ।

ततो यथोक्तमाचम्य ताम्बूलादि विभज्य च ।
महाप्रसादं दास्येन गृह्ञृयात्प्रयतः स्वयम्  ॥ ९.४०९ ॥

तथा च नवमस्कन्धे श्रृमद्अम्बरृषचरिते [भागवतम् ९.४.२०]
कामं च दास्ये न तु कामकाम्यया
यथोत्तमश्लोकजनाश्रया रतिः  ॥ ९.४१० ॥

नैवेद्यभक्षञे यच्च निर्माल्यग्रहञे च यत् ।
माहात्म्यमादौ लिखितं ज्ञेयं सर्वमिहापि तत् ॥ ९.४११ ॥

इति श्रृगोपालभट्टविलिखिते श्रृभगवद्भक्तिविलासे
महाप्रसादो नाम नवमो विलासः ।


*************************************************************************

 


१०. षत्सम्गमVइलस


दशमविलासः

श्रीकृष्णचरणाम्भोजमधुपेभ्यो नमो नमः  ।
कथञ्चिदाश्रयाद्येषां श्वापि तद्गन्धभाग्भवेत् ॥ १०.१ ॥
अथ श्रीकृष्णभक्तानां सभां सविनयं शुभाम्  ।
गच्छेद्वैष्णवचिह्नाढ्यः पातुं कृष्णकथासुधाम्  ॥ १०.२ ॥

तथा च स्मृतिः
इतिहासपुराणाभ्यां षष्ठसप्तमकौ नयेत् ॥ १०.३ ॥

अथ श्रीभगवद्भक्तानां लक्षणानि
सामान्यतः लैङ्गे
विष्णुरेव हि यस्यैष देवता वैष्णवः स्मृतः  ॥ १०.४ ॥

अत्र विशेषः
व्रतकर्मगुणज्ञानभोगजन्मादिमत्स्वपि  ।
शैवेष्वपि च कृष्णस्य भक्ताः सन्ति तथा तथा  ॥ १०.५ ॥

अत्र व्रतिषु मध्ये भगवद्भक्तिहेतुव्रतपरता भगवद्भक्तलक्षणम्

तथा स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे
दशमीशेषसंयुक्तं दिनं वैष्णववल्लभम्  ।
नोपासते महीपाल ते वै भागवता नराः  ॥ १०.६ ॥
प्राणात्यये न चाश्नन्ति दिनं प्राप्य हरेर्नराः  ।
कुर्वन्ति जागरं रात्रौ सदा भागवता हि ते  ॥ १०.७ ॥
उपोष्य द्वादशीं शुद्धां रात्रौ जागरणान्विताम्  ।
अल्पां तु साधयेद्यस्तु स वै भागवतो नरः  ॥ १०.८ ॥
भक्तिर्न विच्युता येषां न च्युतानि व्रतानि च  ।
सुप्रियः श्रीपतिर्येषां ते स्युर्भागवता नराः  ॥ १०.९ ॥

कर्मिषु भगवद्अर्पणादिना तद्आज्ञाबुद्ध्या वा भक्तिहेतुः सदाचारपरता  ।
धर्मार्थं जीवितं येषां सन्तानार्थं च मैथुनम्  ।
पचनं विप्रमुख्यार्थं ज्ञेयास्ते वैष्णवा नराः  ॥ १०.१० ॥
अध्वगं तु पथि श्रान्तं कालेऽत्र गृहमागतम्  ।
योऽतिथिं पूजयेद्भक्त्या वैष्णवः स न संशयः  ॥ १०.११ ॥
सदाचाररताः शिष्टाः सर्वभूतानुकम्पकाः  ।
शुचयस्त्यक्तरागा ये सदा भागवता हि ते  ॥ १०.१२ ॥

पाद्मे वैशाखमाहात्म्ये श्रीनारदाम्बरीषसंवादे (५.९४.८)
जीवितं यस्य धर्मार्थं धर्मो हर्य्अर्थमेव च  ।
अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि  ॥ १०.१३ ॥

लैङ्गे च
विष्णुभक्तिसमायुक्तान् श्रौतस्मार्तप्रवर्तकान्  ।
प्रीतो भवति यो दृष्ट्वा वैष्णवोऽसौ प्रकीर्तितः  ॥ १०.१४ ॥

गुणवत्सु भक्तिहेतुः कृपालुत्वादिसद्गुणशीलता  ।

स्कान्दे तत्रैव
परदुःखेनात्मदुःखं मन्यन्ते ये नृपोत्तम  ।
भगवद्धर्मनिरतास्ते नरा वैष्णवा नृप  ॥ १०.१५ ॥

तृतीयस्कन्धे श्रीकपिलदेवहूतिसंवादे (३.२५.२१)
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम्  ।
अजातशत्रवः शान्ताः साधवः साधुभूषणाः  ॥ १०.१६ ॥

पञ्चमस्कन्धे ऋषभदेवस्य पुत्रानुशासने (५.य्५.२)
महत्सेवां द्वारमाहुर्विमुक्तेस्
तमोद्वारं योषितां सङ्गिसङ्गम्  ।
महान्तस्ते समचित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवो ये  ॥ १०.१७ ॥

एकादशस्कन्धे भगवत्प्रदत्तोद्धवप्रश्नोत्तरे (११.११.२९३१)
कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम्  ।
सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः  ॥ १०.१८ ॥
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः  ।
अनीहो मितभुक्शान्तः स्थिरो मच्छरणो मुनिः  ॥ १०.१९ ॥
अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः  ।
अमानी मानदः कल्यो मैत्रः कारुणिकः कविः  ॥ १०.२० ॥

विष्णुपुराणे यमतद्भटसंवादे [Vइড়् ३.७.२०]
न चलति निजवर्णधर्मतो यः
सममतिरात्मसुहृद्विपक्षपक्षे  ।
न हरति न हन्ति किञ्चिदुच्चैः
स्थितमनसं तमवेहि विष्णुभक्तम्  ॥ १०.२१ ॥

ज्ञानिषु भक्तिहेतुर्ज्ञानवत्ता । एकादशे हवियोगेश्वरोत्तरे [भागवतम् ११.२.४५,५२]
सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः  ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः  ॥ १०.२२ ॥
न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा  ।
सर्वभूतसमः शान्तः स वै भागवतोत्तमः  ॥ १०.२३ ॥

एकादशे श्रीभगवद्उक्तौ [भागवतम् ११.११.३३]
ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः  ।
भजन्त्यनन्यभावेन ते मे भक्ततमा मताः  ॥ १०.२४ ॥

तत्रैव हवियोगेश्वरोत्तरे [भागवतम् ११.२.४६४७]
ईश्वरे तद्अधीनेषु बालिशेषु द्विषत्सु च  ।
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः  ॥ १०.२५ ॥
अर्चायामेव हरये पूजां यः श्रद्धयेहते  ।
न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः  ॥ १०.२६ ॥

भोगवत्सु भक्तिहेतुर्भोगानासक्तता । हवियोगेश्वरोत्तरे [भागवतम् ११.२.४८]
गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति  ।
विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः  ॥ १०.२७ ॥

सज्जन्मविद्यादिमत्सु भक्तिहेतुर्निरभिमानिता । तत्रैव [भागवतम् ११.२.५१]
न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः  ।
सज्जतेऽस्मिन्नहम्भावो देहे वै स हरेः प्रियः  ॥ १०.२८ ॥

भावाः कथञ्चिद्भक्तैव ज्ञानानासक्त्य्अमानिता  ।
भक्तिनिष्ठापका जातास्ततो ह्युत्तमतोदिता  ॥ १०.२९ ॥

शैवेषु श्रीशिवकृष्णभेदकाः । बृहन्नारदीये [णार्ড়् १.५.७२]
शिवे च परमेशाने विष्णौ च परमात्मनि  ।
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः  ॥ १०.३० ॥

अन्यच्च तेषां भगवच्छास्त्रार्थपरतादिकम्  ।
साक्षाद्भक्त्य्आत्मकं मुख्यं लक्षणं लिख्यतेऽधुना  ॥ १०.३१ ॥

स्कान्दे
येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ  ।
पूजयन्ति च ये नित्यं ते स्युर्भागवता नराः  ॥ १०.३२ ॥
येषां भागवतं शास्त्रं जीवितादधिकं भवेत् ।
महाभागवताः श्रेष्ठा विष्णुना कथिता नराः  ॥ १०.३३ ॥

वैष्णवसम्माननिष्ठा । लैङ्गे
विष्णुभक्तमथायातं यो दृष्ट्वा सुमुखः प्रियः  ।
प्रणामादि करोत्येव वासुदेवे यथा तथा  ।
स वै भक्त इति ज्ञेयः स पुनाति जगत्त्रयम्  ॥ १०.३४ ॥
रुक्षाक्षरा गिरः शृण्वन् तथा भागवतेरिताः  ।
प्रणामपूर्वकं क्षान्त्वा यो वदेद्वैष्णवो हि सः  ॥ १०.३५ ॥
भोजनाच्छादनं सर्वं यथाशक्त्या करोति यः  ।
विष्णुभक्तस्य सततं स वै भागवतः स्मृतः  ॥ १०.३६ ॥

गारुडे
येन सर्वात्मना विष्णुभक्त्या भावो निवेशितः  ।
वैष्णवेषु कृतात्मत्वान्महाभागवतो हि सः  ॥ १०.३७ ॥

श्रीतुलसीसेवानिष्ठा [णार्ড়् १.५.६५६६]
तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः  ।
तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः  ॥ १०.३८ ॥
तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये  ।
तन्मूलमृद्धूता यैश्च ते वै भागवतोत्तमाः  ॥ १०.३९ ॥

श्रीभगवतः कथापरता

बृहन्नारदीये [१.५.५२] श्रीभगवन्मार्कण्डेयसंवादे
मत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः  ।
तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः  ॥ १०.४० ॥

स्कान्दे श्रीभगवद्अर्जुनसंवादे
मत्कथां कुरुते यस्तु मत्कथां च शृणोति यः  ।
हृष्यते मत्कथायां च स वै भागवतोत्तमः  ॥ १०.४१ ॥

तृतीयस्कन्धे [भागवतम् ३.२५.२३] तत्रैव
मद्आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च  ।
तपन्ति विविधास्तापा नैतान्मद्गतचेतसः  ॥ १०.४२ ॥

बृहन्नारदीये [१.५.६४] तत्रैव
मन्मानसाश्च मद्भक्ता मद्भक्तजनलोलुपाः  ।
मन्नामश्रवणासक्तास्ते वै भागवतोत्तमाः  ॥ १०.४३ ॥
येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः  ।
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः  ॥ १०.४४ ॥

तत्रैवान्यत्र [१.५.६१]
अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः  ।
हरिनामपरा ये च ते वै भागवतोत्तमाः  ॥ १०.४५ ॥

स्मरणपरता तत्र स्वधर्मनिष्ठया रागद्वेषनिवृत्त्या स्मरणम्

श्रीविष्णुपुराणे यमतद्भटसंवादे [Vइড়् ३.७.२०२६]
न चलति य उच्चैः श्रीभगवत्पदारविन्दे  ।
सितमनास्तमवेहि विष्णुभक्तम्  ॥ १०.४६ ॥
कलिकलुषमलेन यस्य नात्मा
विमलमतेर्मलिनीकृतस्तमेनम्  ।
मनसि कृतजनार्दनं मनुष्यं
सततमवेहि हरेरतीवभक्तम्  ॥ १०.४७ ॥
कनकमपि रहस्यवेक्ष्य बुद्ध्या
तृणमिव यः समवैति परस्वम्  ।
भवति च भगवत्यनन्यचेताः
पुरुषवरं तमवेहि विष्णुभक्तम्  ॥ १०.४८ ॥
स्फटिकगिरिशिलामलः क्व विष्णुर्
मनसि नॄणां क्व च मत्सरादिदोषः  ।
न हि तुहिनमयूखरश्मिपुञ्जे
भवति हुताशनदीप्तिजः प्रतापः  ॥ १०.४९ ॥
विमलमतिरमत्सरः प्रशान्तः
शुचिचरितोऽखिलसत्त्वमित्रभूतः  ।
प्रियहितवचनोऽस्तुमानमायो
वसति सदा हृदि तस्य वासुदेवः  ॥ १०.५० ॥
वसति हृदि सनातने च तस्मिन्
भवति पुमान् जगतोऽस्य सौख्यरूपः  ।
क्षितिरसमतिरम्यमात्मनोऽन्तः
कथयति चारुतयैव शालपोतः  ॥ १०.५१ ॥

अन्यविजये वैराग्यादिना च स्मरणम्

एकादशस्कन्धे हवियोगेश्वरोत्तरे [भागवतम् ११.२.४९, ५३५४]
देहेन्द्रियप्राणमनोधियां यो
जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः  ।
संसारधर्मैरविमुह्यमानः
स्मृत्या हरेर्भागवतप्रधानः  ॥ १०.५२ ॥
त्रिभुवनविभवहेतवेऽप्यकुण्ठ
स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।
न चलति भगवत्पदारविन्दाल्
लवनिमिषार्धमपि यः स वैष्णवाग्र्यः  ॥ १०.५३ ॥
भगवत उरुविक्रमाङ्घ्रिशाखा
नखमणिचन्द्रिकया निरस्ततापे  ।
हृदि कथमुपसीदतां पुनः स
प्रभवति चन्द्र इवोदितेऽर्कतापः  ॥ १०.५४ ॥

स्कान्दे तत्रैव
येऽर्चयन्ति सदा विष्णुं यज्ञेशं वरदं हरिम्  ।
देहिनः पुण्यकर्माणः सदा भागवता हि ते  ॥ १०.५५ ॥

लैङ्गे
विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः  ।
प्रतिमां च हरेर्नित्यं पूजयेत्प्रतयामवान्  ॥ १०.५६ ॥
विष्णुभक्तः स विज्ञेयः कर्मणा मनसा गिरा  ।
नारायणपरो नित्यं भूप भागवतो हि सः  ॥ १०.५७ ॥

अथ वैष्णवधर्मनिष्ठादि

पाद्मोत्तरखण्डे (६.२५३.२७)
तापादिपञ्चसंस्कारी नवेज्याकर्मकारकः  ।
अर्थपञ्चकविद्विप्रो महाभागवतः स्मृतः  ॥ १०.५८ ॥

एकान्तिकता
गारुडे
एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः  ।
तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः  ॥ १०.५९ ॥

तद्विज्ञानेनानन्यपरता

एकादशे [भागवतम् ११.११.३३] उद्धवप्रश्नोत्तरे
ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः  ।
भजन्त्यनन्यभावेन ते वै भागवता मताः  ॥ १०.६० ॥

एकादशस्कन्धे [भागवतम् ११.२.५०]
न कामकर्मबीजानां यस्य चेतसि सम्भवः  ।
वासुदेवैकनिलयः स वै भागवतोत्तमः  ॥ १०.६१ ॥

सा च एकान्तिता चतुर्धा

तत्र धर्मानादरेण श्रीमद्उद्धवप्रश्नोत्तर एव [भागवतम् ११.११.३२]
आज्ञायैवं गुणान् दोषान्मयादिष्टानपि स्वकान्  ।
धर्मान् सन्त्यज्य यः सर्वान्मां भजेत स तु सत्तमः  ॥ १०.६२ ॥

श्रीभगवद्गीतायाम् [ङीता १८.६६]
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज  ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः  ॥ १०.६३ ॥

चतुर्थस्कन्धे [भागवतम् ४.२९.४७]
यदा यस्यानुगृह्णाति भगवानत्मभावितः  ।
न जहाति मतिं लोके वेदे च परिनिष्ठिताम्  ॥ १०.६४ ॥

अन्यसर्वनिरपेक्षता

श्रीभगवद्उद्धवसंवादे [भागवतम् ११.२६.२७] ऐलोपाख्याने
सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः  ।
निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः  ॥ १०.६५ ॥

अतएव श्रीकपिलदेवहूतिसंवादे (३.२५.२४)
त एते साधवः साध्वि सर्वसङ्गविवर्जिताः  ।
सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते  ॥ १०.६६ ॥

विघ्नाकुलत्वेऽपि मनोरतिपरता ।

स्कान्दे तत्रैव
यस्य कृच्छ्रगतस्यापि केशवे रमते मनः  ।
न विच्युता च भक्तिर्वै स वै भागवतो नरः  ॥ १०.६७ ॥
आपद्गतस्य यस्येह भकिरव्यभिचारिणी  ।
नान्यत्र रमते चित्तं स वै भागवतो नरः  ॥ १०.६८ ॥

प्रेमैकरसता ।

श्र्यृषभदेवस्य पुत्रानुशासने [भागवतम् ५.५.३]
ये वा मयीशे कृतसौहृदार्था; जनेषु देहम्भरवार्तिकेषु  ।
गृहेषु जायात्मजरातिमत्सु; न प्रीतियुक्ता यावद्अर्थाश्च लोके  ॥ १०.६९ ॥

त्रिधा प्रेमैकपरता प्रेम्णः स्यात्तारतम्यतः  ।
उत्तमा मध्यमा चासौ कनिष्ठा चेति भेदतः  ॥ १०.७० ॥

तत्रोत्तमा ।

यथा एकादशे हवियोगेश्वरोत्तरे [भागवतम् ११.२.४५४६]
सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः  ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः  ॥ १०.७१ ॥

स्वेष्टदेवस्य भावं यः सर्वभूतेषु पश्यति  ।
भावयन्ति च तान्यस्मिन्नित्यर्थः सम्मतः सताम्  ॥ १०.७२ ॥

श्रीकपिलदेवहूतिसंवादे (३.२५.२२)
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्  ।
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः  ॥ १०.७३ ॥

श्रीहवियोगेश्वरोत्तरे [भागवतम् ११.२.५५]
विसृजति हृदयं न यस्य साक्षाद्
धरिरवशाभिहितोऽप्यघौघनाशः  ।
प्रणयरसनया धृताङ्घ्रिपद्मः
स भवति भागवतप्रधान उक्तः  ॥ १०.७४ ॥

तत्र मध्यमा ।

श्रीहवियोगेश्वरोत्तरे [भागवतम् ११.२.४६]
ईश्वरे तद्अधीनेषु बालिशेषु द्विषत्सु च  ।
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः  ॥ १०.७५ ॥

तत्र कनिष्ठा ।

तत्रैव [भागवतम् ११.२.४७]
अर्चायामेव हरये पूजां यः श्रद्धयेहते  ।
न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः  ॥ १०.७६ ॥

श्रद्धया पूजनं प्रेमबोधकं भक्त इत्यपि  ।
लक्षणानि च यान्यग्रे भक्तेर्लेख्यानि तान्यपि  ॥ १०.७७ ॥
वन्दनादीनि विद्यन्ते येषु भागवता हि ते  ।
एतानि लक्षणानीत्थं गौणमुख्यादिभेदतः  ॥ १०.७८ ॥
ऊह्यानि लक्षणान्येवं विवेच्यानि पराण्यपि  ॥ १०.७९ ॥
ईदृग्लक्षणवन्तः स्युर्दुर्लभा बहवो जनाः  ।
दिव्या हि मणयो व्यक्तं न वर्तेरन्नितस्ततः  ॥ १०.८० ॥

अतएवोक्तं मोक्षधर्मे नारायणीये [ंभ्१२.३३६.६८]
जायमानं हि पुरुषं यं पश्येन्मधुसूदनः  ।
सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः  ॥ १०.८१ ॥

एवं सङ्क्षिप्य लिखिताद्वैष्णवानां तु लक्षणात् ।
माहात्म्यमपि विज्ञेयं लिख्यतेऽन्यच्च तत्कियत् ॥ १०.८२ ॥

अथ भगवद्भक्तानां माहात्म्यम् ।

सौपर्णे श्रीशक्रोक्तौ
कलौ भागवतं नाम यस्य पुंसः प्रजायते  ।
जननी पुत्रिणी तेन पितॄणां तु धुरन्धरः  ॥ १०.८३ ॥
कलौ भागवतं नाम दुर्लभं नैव लभ्यते  ।
ब्रह्मरुद्रपदोत्कृष्टं गुरुणा कथितं मम  ॥ १०.८४ ॥
यस्य भागवतं चिह्नं दृश्यते तु हरिर्मुने  ।
गीयते च कलौ देवा ज्ञेयास्ते नास्ति संशयः  ॥ १०.८५ ॥

श्रीमार्कण्डेयोक्तौ
समीपे तिष्ठते यस्य ह अन्तकालेऽपि वैष्णवः  ।
गच्छते परमं स्थानं यद्यपि ब्रह्महा भवेत् ॥ १०.८६ ॥

नारदीये श्रीवामदेवरुक्माङ्गदसंवादे [णार्ড়् २.१०.३७]
श्वपचोऽपि महीपाल विष्णुभक्तो द्विजाधिकः  ।
विष्णुभक्तिविहीनस्तु द्विजोऽपि श्वपचाधिकः  ॥ १०.८७ ॥

स्कान्दे रेवाखण्डे श्रीब्रह्मोक्तौ
इन्द्रो महेश्वरो ब्रह्मा परं ब्रह्म तदैव हि  ।
श्वपचोऽपि भवत्येव यदा तुष्टाऽसि केशव  ॥ १०.८८ ॥
श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः  ।
तदैवाच्युत यान्त्येते यदैव त्वं पराङ्मुखः  ॥ १०.८९ ॥
स कर्ता सर्वधर्माणां भक्तो यस्तव केशव  ।
स कर्ता सर्वपापानां यो न भक्तस्तवाच्युत  ॥ १०.९० ॥
धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत  ।
पापं भवति धर्मोऽपि तवाभक्तैः कृतो हरेः  ॥ १०.९१ ॥
निःशेषधर्मकर्ता वाप्यभक्तो नरके हरे  ।
सदा तिष्ठति भक्तस्ते ब्रह्महापि विशुध्यति  ॥ १०.९२ ॥
निश्चला त्वयि भक्तिर्या सैव मुक्तिर्जनार्दन  ।
मुक्ता एव हि भक्तास्ते तव विष्णो यतो हरे  ॥ १०.९३ ॥

तत्रैव दुर्वासोनारदसंवादे
नूनं भागवता लोके लोकरक्षाविशारदाः  ।
व्रजन्ति विष्णुनादिष्टा हृदिस्थेन महामुने  ॥ १०.९४ ॥
भगवानेव सर्वत्र भूतानां कृपया हरिः  ।
रक्षणाय चरन् लोकान् भक्तरूपेण नारद  ॥ १०.९५ ॥

तत्रैव श्रीब्रह्मनारदसंवादे
यस्तु विष्णुपरो नित्यं दृढभक्तिर्जितेन्द्रियः  ।
स्वगृहेऽपि वसन् याति तद्विष्णोः परमं पदम्  ॥ १०.९६ ॥
अश्वमेधसहस्राणां सहस्रं यः करोति वै  ।
नासौ तत्फलमाप्नोति तद्भक्तैर्यदवाप्यते  ॥ १०.९७ ॥

तत्रैवामृतसारोद्धारे श्रीयमतद्भटसंवादे
सर्वत्र वैष्णवाः पूज्याः स्वर्गे मर्त्ये रसातले  ।
देवतानां मनुष्याणां तथैवोरगरक्षसाम्  ॥ १०.९८ ॥
येषां स्मरणमात्रेण पापलक्षशतानि च  ।
दह्यन्ते नात्र सन्देहो वैष्णवानां महात्मनाम्  ॥ १०.९९ ॥
येषां पादरजेनैव प्राप्यते जाह्नवीजलम्  ।
नार्मदं यामुनं चैव किं पुनः पादयोर्जलम्  ॥ १०.१०० ॥
येषां वाक्यजलौघेन विना गङ्गाजलैरपि  ।
विना तीर्थसहस्रेण स्नातो भवति मानवः  ॥ १०.१०१ ॥

तत्रैव चातुर्मास्यमाहात्म्ये
तावद्भ्रमन्ति संसारे पितरः पिण्डतत्परः  ।
यावत्कुले भक्तियुक्तः सुतो नैव प्रजायते  ॥ १०.१०२ ॥
स एव ज्ञानवान् लोके योगिनां प्रथमो हि सः  ।
महाक्रतूनामाहर्ता हरिभक्तियुतो हि यः  ॥ १०.१०३ ॥

काशीखण्डे ध्रुवचरिते
न च्यवन्ते हि यद्भक्त्या महत्यां प्रलयापदि  ।
अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः  ॥ १०.१०४ ॥
न तस्माद्भगवद्भक्ताद्भेतव्यं केनचित्क्वचित् ।
नियतं विष्णुभक्ता येन ते स्युः परतापिनः  ॥ १०.१०५ ॥

तत्रैवाग्रे
ब्राह्मणः क्षत्रियः वैश्यः शूद्रो वा यदि वेतरः  ।
विष्णुभक्तिसमायुक्तो ज्ञेयः सर्वोत्तमोत्तमः  ॥ १०.१०६ ॥
शङ्खचक्राङ्किततनुः शिरसा मञ्जरीधरः  ।
गोपीचन्दनलिप्ताङ्गो दृष्टश्चेद्तद्अघं कुतः  ॥ १०.१०७ ॥

महाभारते राजधर्मे
ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम्  ।
भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते  ॥ १०.१०८ ॥

विष्णुधर्मोत्तरे
शयनादुत्थितो यस्तु कीर्तयेन्मधुसूदनम्  ।
कीर्तनात्तस्य पापानि नाशमायान्त्यशेषतः  ॥ १०.१०९ ॥

तत्रैव
यस्याप्यनन्ते जगतामधीशे
भक्तिः परा यादवदेवदेवे  ।
तस्मात्परं नापरमस्ति किञ्चित्
पात्रं त्रिलोके पुरुषप्रवीर  ॥ १०.११० ॥

द्वारकामाहात्म्ये श्रीप्रह्लादबलिसंवादे
नित्यं ये प्रातरुत्थाय वैष्णवानां तु कीर्तनम्  ।
कुर्वन्ति ते भागवताः कृष्णतुल्याः कलौ बले  ॥ १०.१११ ॥

हरिभक्तिसुधोदये
स्वदर्शनस्पर्शनपूजनैः कृती
तमांसि विष्णुप्रतिमेव वैष्णवः  ।
धुन्वन् वसत्यत्र जनस्य यन्न तत्
स्वार्थं परं लोकहिताय दीपवत् ॥ १०.११२ ॥

इतिहाससमुच्चये श्रीलोमशवाक्ये
ये भजन्ति जगद्योनिं वासुदेवं सनातनम्  ।
न तेभ्यो विद्यते तीर्थमधिकं राजसत्तम  ॥ १०.११३ ॥
यत्र भागवताः स्नानं कुर्वन्ति विमलाश्रयाः  ।
तत्तीर्थमधिकं विद्धि सर्वपापविशोधनम्  ॥ १०.११४ ॥
यत्र रागादिरहिता वासुदेवपरायणाः  ।
तत्र सन्निहितो विष्णुर्नृपते नात्र संशयः  ॥ १०.११५ ॥
न गन्धैर्न तथा तोयैर्न पुष्पैश्च मनोहरैः  ।
सान्निध्यं कुरुते देवो यत्र सन्ति न वैष्णवाः  ॥ १०.११६ ॥
बलिभिश्चोपवासैश्च नृत्यगीतादिभिस्तथा  ।
नित्यमाराध्यमानोऽपि तत्र विष्णुर्न तृप्यति  ॥ १०.११७ ॥
तस्मादेते महाभागा वैष्णवा वीतकल्मषाः  ।
पुनन्ति सकलान् लोकांस्तत्तीर्थमधिकं ततः  ॥ १०.११८ ॥
शूद्रं वा भगवद्भक्तं निषादं श्वपचं तथा  ।
वीक्षतं जातिसामान्यात्स याति नरकं ध्रुवम्  ॥ १०.११९ ॥
तस्माद्विष्णुप्रसादाय वैष्णवान् परितोषयेत् ।
प्रसादसुमुखो विष्णुस्तेनैव स्यान्न संशयः  ॥ १०.१२० ॥

तत्रैव श्रीनारदपुण्डरीकसंवादे
ये नृशंसा दुरात्मानः पापाचाररताः सदा  ।
तेऽपि यान्ति परं धाम नारायणपराश्रयाः  ॥ १०.१२१ ॥
लिप्यन्ते न च पापेन वैष्णवा विष्णुतत्पराः  ।
पुनन्ति सकलान् लोकान् सहस्रांशुरिवोदितः  ॥ १०.१२२ ॥
जन्मान्तरसहस्रेषु यस्य स्याद्बुद्धिरीदृशी  ।
दासोऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥ १०.१२३ ॥
स याति विष्णुसालोक्यं पुरुषो नात्र संशयः  ।
किं पुनस्तद्गतप्राणाः पुरुषाः संयतेन्द्रियाः  ॥ १०.१२४ ॥
स्मृतः सम्भाषितो वापि पूजितो वा द्विजोत्तमाः  ।
पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया  ॥ १०.१२५ ॥

श्रीव्यासवाक्ये
जन्मान्तरसहस्रेषु विष्णुभक्तो न लिप्यते  ।
यस्य सन्दर्शनादेव भस्मीभवति पातकम्  ॥ १०.१२६ ॥

इतिहाससमुच्चये श्रीभगवद्वाक्ये
न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचः प्रियः  ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम्  ॥ १०.१२७ ॥

तत्रैव ब्रह्मवाक्ये
सभर्तृका वा विधवा विष्णुभक्तिं करोति या  ।
समुद्धरति चात्मानं कुलमेकोत्तरं शतम्  ॥ १०.१२८ ॥

द्वारकामाहात्म्ये प्रह्लादबलिसंवादे
सङ्कीर्णयोनयः पूता ये भक्ता मधुसूदने  ।
म्लेच्छतुल्याः कुलीनास्ते ये न भक्ता जनार्दने  ॥ १०.१२९ ॥

आदिपुराणे श्रीकृष्णार्जुनसंवादे
वैष्णवान् भज कौन्तेय मा भजस्वान्यदेवताः  ।
पुनन्ति वैष्णवाः सर्वे सर्वदेवमिदं जगत् ।
मद्भक्तो दुर्लभो यस्य स एव मम दुर्लभः  ॥ १०.१३० ॥
तत्परो दुर्लभो नास्ति सत्यं  सत्यं धनञ्जय  ।
जगतां गुरवो भक्ता भक्तानां गुरवो वयम्  ।
सर्वत्र गुरवो भक्ता वयं च गुरवो यथा  ।
अस्माकं बान्धवा भक्ता भक्तानां बान्धवा वयम्  ॥ १०.१३१ ॥
अस्माकं गुरवो भक्ता भक्तानां गुरवो वयम्  ।
मद्भक्ता यत्र गच्छन्ति तत्र गच्छामि पार्थिव  ।
भक्तानामनुगच्छन्ति मुक्तयः श्रुतिभिः सह  ॥ १०.१३२ ॥
ये मे भक्तजनाः पार्थ न मे भक्ताश्च ते जनाः  ।
मद्भक्तानां च ये भक्तास्ते मे भक्ततमा मताः  ॥ १०.१३३ ॥
ये केचित्प्राणिनो भक्ता मद्अर्थे त्यक्तबान्धवाः  ।
तेषामहं परिक्रीतो नान्यक्रीतो धनञ्जय  ॥ १०.१३४ ॥
एषां भक्ष्यं सुनिर्णीतं श्रूयतां निश्चितं मम ।
उच्छिष्टमवशिष्टं च भक्तानां भोजनद्वयम्  ॥ १०.१३५ ॥
नामयुक्तजनाः केचिज्जात्य्अन्तरसमन्विताः  ।
कुर्वन्ति मे यथा प्रीतिं न तथा वेदपारगाः  ॥ १०.१३६ ॥

बृहन्नारदीये मार्कण्डेयं प्रति श्रीभगवद्उक्तौ [१.४.९६,९८]
विष्णुर्भक्तकुटुम्बीति वदन्ति विबुधाः सदा  ।
तदेव पालयिष्यामि मज्जनो नानृतं वदेत् ॥ १०.१३७ ॥
मम जन्म कुले यस्य तत्कुलं मोक्षगामि वै  ।
मयि तुष्टे मुनिश्रेष्ठ किमसाध्यं जगत्त्रये  ॥ १०.१३८ ॥

मयि भक्तिपरो यस्तु मद्याजी मत्कथापरः  ।
मद्ध्यानी स्वकुलं सर्वं नयत्यच्युतरूपताम्  ॥ १०.१३९ ॥
मद्अर्थं कर्म कुर्वाणो मत्प्रणामपरो नरः  ।
मन्मनाः स्वकुलं सर्वं नयत्यच्युतरूपताम्  ॥ १०.१४० ॥
अहमेव द्विजश्रेष्ठ नित्यं प्रच्छन्नविग्रहः  ।
भगवद्भक्तरूपेण लोकान् रक्षामि सर्वदा  ॥ १०.१४१ ॥

तत्रैवादितिमाहात्म्ये श्रीसूतोक्तौ
विप्राः शृणुध्वं माहात्म्यं हरिभक्तिरतात्मनाम्  ।
हरिध्यानपराणां तु कः समर्थः प्रबाधितुम्  ॥ १०.१४२ ॥
हरिभक्तिपरो यत्र तत्र ब्रह्मा हरिः शिवः  ।
तत्र देवाश्च सिद्धाद्या नित्यं तिष्ठन्ति सत्तमाः  ॥ १०.१४३ ॥
निमिषं निम्षार्धं वा यत्र तिष्ठन्ति सत्तमाः  ।
तत्रैव सर्वश्रेयांसि तत्तीर्थं तत्तपोवनम्  ॥ १०.१४४ ॥

तत्रैवादितिं प्रति श्रीभगवद्उत्तरे [णार्ড়् १.११.५७५८]
रागद्वेषविहीना ये मद्भक्ता मत्परायणाः  ।
वदन्ति सततं ते मां गतासूया अदाम्भिकाः  ॥ १०.१४५ ॥
परोपतापविमुखाः शिवभक्तिपरायणाः  ।
मत्कथाश्रवणासक्ता वहन्ति सततं हि माम्  ॥ १०.१४६ ॥

तत्रैव ध्वजारोपणमाहात्म्ये श्रीविष्णुदूतोक्तौ [णार्ড়् १.२०.७३]
यतीनां विष्णुभक्तानां परिचर्यापरायणाः  ।
ईक्षिता अपि गच्छन्ति पापिनोऽपि परां गतिम्  ॥ १०.१४७ ॥

तत्रैव श्रीभगवत्तोषप्रकारप्रश्नोत्तरे [णार्ড়् १.३४.५६]
रिपवस्तं न हिंसन्ति न बाधन्ते ग्रहाश्च तम्  ।
राक्षसाश्च न चेक्षन्ते नरं विष्णुपरायणम्  ॥ १०.१४८ ॥
भक्तिर्दृढा भवेद्यस्य देवदेवे जनार्दने  ।
श्रेयांसि तस्य सिध्यन्ति भक्तिमन्तोऽधिकास्ततः  ॥ १०.१४९ ॥

तत्रैवाग्रे [णार्ড়् १.३४.६३]
अद्यापि च मुनिश्रेष्ठ ब्रह्माद्या अपि देवताः  ।
प्रभावं न विजानन्ति विष्णुभक्तिरतात्मनाम्  ॥ १०.१५० ॥

किं च [णार्ড়् १.३०.१०१]
धर्मार्थकाममोक्षाख्याः पुरुषार्था द्विजोत्तमाः  ।
हरिभक्तिपराणां वै सम्पद्यन्ते न संशयः  ॥ १०.१५१ ॥

तत्रैव लुब्धकोपाख्यानस्यादौ [णार्ড়् १.३७.९,१२]
ये विष्णुनिरताः शान्ता लोकानुग्रहतत्पराः  ।
सर्वभूतदयायुक्ता विष्णुरूपाः परिकीर्तिताः  ॥ १०.१५२ ॥
विष्णुभक्तिविहीना ये चण्डालाः परिकीर्तिताः  ।
चण्डाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः  ॥ १०.१५३ ॥

तत्रैव यज्ञध्वजोपाख्यानस्यादौ श्रीसूतवाक्यम् [णार्ড়् १.३९.३४,८]
हरिभक्तिरसास्वादमुदिता ये नरोत्तमाः  ।
नमस्करोम्यहं तेभ्यो यत्सङ्गान्मुक्तिभाग्नरः  ॥ १०.१५४ ॥
हरिभक्तिपरा ये तु हरिनामपरायणाः  ।
दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमो नमः  ॥ १०.१५५ ॥
अहो भाग्यमहो भाग्यं विष्णुभक्तिरतात्मनाम्  ।
यस्मान्मुक्तिः करस्थैव योगिनामपि दुर्लभा  ॥ १०.१५६ ॥

तत्रैव कलिप्रसङ्गे [णार्ড়् १.४१?]
घोरे कलियुगे प्राप्ते सर्वधर्मविवर्जिते  ।
वासुदेवपरा मर्त्याः कृतार्था नात्र संशयः  ॥ १०.१५७ ॥
अस्त्यन्तर्दुर्लभा प्रोक्ता हरिभक्तिः कलौ युगे  ।
हरिभक्तिरतानां वै पापबन्धो न जायते  ॥ १०.१५८ ॥
वेदवादरताः सर्वे तथा तीर्थनिषेविणः  ।
हरिभक्तिरतैः सार्धं कलां नार्हन्ति षोडशीम्  ॥ १०.१५९ ॥

अतएवोक्तं देवैस्तत्रैव भारतवर्षप्रसङ्गे [णार्ড়् १.३.५३]
हरिकीर्तनशीलो वा तद्भक्तानां प्रियोऽपि वा  ।
शुश्रूषुर्वापि महतां स वन्द्योऽस्माभिरुत्तमः  ॥ १०.१६० ॥

पाद्मे श्रीभगवद्ब्रह्मसंवादे
दर्शनध्यानसंस्पर्शैर्मर्त्यकूर्मविहङ्गमाः  ।
पुष्णन्ति स्वान्यपत्यानि तथाहमपि पद्मज  ॥ १०.१६१ ॥
मुहूर्तेनापि संहर्तुं शक्तौ यद्यपि दानवात् ।
मद्भक्तानां विनोदार्थं करोमि विविधाः क्रियाः  ॥ १०.१६२ ॥

तत्रैव माघमाहात्म्ये देवदूतविकुण्डलसंवादे
न वयं यमं यमलोकं न न दूतान् घोरदर्शनात् ।
पश्यन्ति वैष्णवा नूनं सत्यं सत्यं मयोदितम्  ॥ १०.१६३ ॥
श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम्  ।
वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम्  ॥ १०.१६४ ॥
न शूद्रा भगवद्भक्तास्ते तु भावना मताः  ।
सर्ववर्णेषु ते शूद्रा ये न भक्ता जनार्दन  ॥ १०.१६५ ॥
विष्णुभक्तस्य ये दासा वैष्णवान्नभुजश्च ये  ।
तेऽपि क्रतुभुजां ग्वैश्य गतिं यान्ति निराकुलाः  ॥ १०.१६६ ॥

तत्रैव वैशाखमाहात्म्ये पञ्चपुरुषाणामुक्तौ
भव्यानि भूतानि जनार्दनस्य
परोपकाराय चरन्ति विश्वम्  ॥ १०.१६७ ॥

तथा
सन्तः प्रतिष्ठा दीनानां दैवादुद्भूतपाप्मनाम्  ।
आर्तानामार्तिहन्तारो दर्शनादेव साधवः  ॥ १०.१६८ ॥

तत्रैवोत्तरखण्डे शिवपार्वतीसंवादे [ড়द्मড়् ६.२२९.५८५९]
न कर्मबन्धनं जन्म वैष्णवानां च विद्यते  ।
विष्णोरनुचरत्वं हि मोक्षयाहुर्मनीषिणः  ॥ १०.१६९ ॥
न दास्यममरेशस्य बन्धनं परिकीर्तितम्  ।
सर्वबन्धननिर्मुक्ता हरिदासा निरामयाः  ॥ १०.१७० ॥

ब्रह्माण्डपुराणे जन्माष्टमीव्रतमाहात्म्ये श्रीचित्रगुप्तोक्तौ
दर्शनस्पर्शनालापसहवासादिभिः क्षणात् ।
भक्ताः पुनन्ति कृष्णस्य साक्षादपि च पुक्कशम्  ॥ १०.१७१ ॥
त्यक्तसर्वकुलाचारो महापातकवानपि  ।
विष्णोर्भक्तं समाश्रित्य नरो नार्हति यातनाम्  ॥ १०.१७२ ॥

वाशिष्ठे
यस्मिन् देशे मरौ तज्ज्ञो नास्ति सज्जनपादपः  ।
सफलः शीतलच्छायो न तत्र दिवसं वसेत् ॥ १०.१७३ ॥

सदा सन्तोऽभिगन्तव्या यद्यप्युपदिशन्ति न  ।
या हि स्वैरकथास्तेषामुपदेशा भवन्ति ते  ॥ १०.१७४ ॥
गारुडे
सत्रयाजिसहस्रेभ्यः सर्ववेदान्तपारगः  ।
सर्ववेदान्तवित्कोट्या विष्णुभक्तो विशिष्यते  ॥ १०.१७५ ॥
वैष्णवानां सहस्रेभ्य एकान्त्येको विशिष्यते  ।
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम्  ॥ १०.१७६ ॥

श्रीभगवद्गीतासु [ङीता ९.३०३३]
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः  ॥ १०.१७७ ॥
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति  ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति  ॥ १०.१७८ ॥
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः  ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्  ।
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा  ॥ १०.१७९ ॥

किं च तत्रैव [ङीता ६.४७]
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना  ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः  ॥ १०.१८० ॥

श्रीभागवतस्य प्रथमस्कन्धे श्रीपरीक्षितोक्तौ [भागवतम् १.१९.३३]
येषां संस्मरणात्पुंसां सद्यः शुद्ध्यन्ति वै गृहाः  ।
किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः  ॥ १०.१८१ ॥

तृतीयस्कन्धे श्रीविदुरस्य [भागवतम् ३.१३.४]
श्रुतस्य पुंसां सुचिरश्रमस्य
नन्वञ्जसा सूरिभिरीडितोऽर्थः  ।
तत्तद्गुणानुश्रवणं मुकुन्द
पादारविन्दं हृदयेषु येषाम्  ॥ १०.१८२ ॥

देवहूतिं प्रति कपिलदेवस्य [भागवतम् ३.२५.३८]
न कर्हिचिन्मत्पराः शान्तरूपे
नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः  ।
येषामहं प्रिय आत्मा सुतश्च
सखा गुरुः सुहृदो दैवमिष्टम्  ॥ १०.१८३ ॥

चतुर्थे श्रीध्रुवस्य [भागवतम् ४.९.१०]
या निर्वृतिस्तनुभृतां तव पादपद्म
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासिलुलितात्पततां विमानात् ॥ १०.१८४ ॥

श्रीरुद्रस्य [भागवतम् ४.२४.२९]
स्वधर्मनिष्ठः शतजन्मभिः पुमान्
विरिञ्चतामेति ततः परं हि माम्  ।
अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये  ॥ १०.१८५ ॥

पञ्चमे श्रीजडभरतस्य [भागवतम् ५.१२.१२]
रहूगणैतत्तपसा न याति
न चेज्यया निर्वपणाद्गृहाद्वा  ।
न च्छन्दसा नैव जलाग्निसूर्यैर्
विना महत्पादरजोऽभिषेकम्  ॥ १०.१८६ ॥
षष्ठे श्रीपरीक्षितः [भागवतम् ६.१४.३५]
रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः  ।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः  ॥ १०.१८७ ॥
प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम  ।
मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति  ॥ १०.१८८ ॥
मुक्तानामपि सिद्धानां नारायणपरायणः  ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने  ॥ १०.१८९ ॥

श्रीशिवस्य [भागवतम् ६.१७.२८]
नारायणपराः सर्वे न कुतश्चन बिभ्यति  ।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः  ॥ १०.१९० ॥

सप्तमे श्रीप्रह्लादस्य [भागवतम् ७.५.३२]
नैषां मतिस्तावदुरुक्रमाङ्घ्रिं
स्पृशत्यनर्थापगमो यद्अर्थः  ।
महीयसां पादरजोऽभिषेकं
निष्किञ्चनानां न वृणीत यावत् ॥ १०.१९१ ॥

किं च [भागवतम् ७.९.१०]
विप्राद्द्विषड्गुणयुतादरविन्दनाभ
पादारविन्दविमुखात्श्वपचं वरिष्ठम्  ।
मन्ये तद्अर्पितमनोवचनेहितार्थ
प्राणं पुनाति स कुलं न तु भूरिमानः  ॥ १०.१९२ ॥

अष्टमे श्रीगजेन्द्रस्य [भागवतम् ८.३.२०]
एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्प्रपन्नाः  ।
अत्य्अद्भुतं तच्चरितं सुमङ्गलं
गायन्त आनन्दसमुद्रमग्नाः  ॥ १०.१९३ ॥

नवमे श्रीभगवतः [भागवतम् ९.४.६३६६, ६८]
अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज  ।
साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः  ॥ १०.१९४ ॥
नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना  ।
श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा  ॥ १०.१९५ ॥
ये दारागारपुत्राप्त प्राणान् वित्तमिमं परम्  ।
हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे  ॥ १०.१९६ ॥
मयि निर्बद्धहृदयाः साधवः समदर्शनाः  ।
वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा  ॥ १०.१९७ ॥
साधवो हृदयं मह्यं साधूनां हृदयं त्वहम्  ।
मद्अन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि  ॥ १०.१९८ ॥

तत्रैव श्रीदुर्वाससः [भागवतम् ९.५.१५]
दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम्  ।
यैः सङ्गृहीतो भगवान् सात्वतामृषभो हरिः  ॥ १०.१९९ ॥
यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः  ।
तस्य तीर्थपदः किं वा दासानामवशिष्यते  ॥ १०.२०० ॥

दशमे देवस्तुतौ [भागवतम् १०.२.३३]
तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः  ।
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकपमूर्धसु प्रभो  ॥ १०.२०१ ॥

श्रीबादरायणेः [भागवतम् १०.९.२१]
नायं सुखापो भगवा