close


  • शास्त्रवार्तासमुच्चयः

 

 शास्त्रवार्तासमुच्चयः

===पहला स्तबक===
ग्रंथ प्रस्तावना
१.१ मोक्षसाधनरूप से धर्म की उपादेयता (१-२९)
१.२ भूतचैतन्यवादखंडन (३०-७८)
१.३ मैं विषयक प्रत्यक्ष अनुभव से आत्मा की सिद्धि (७९-८७)
१.४ आत्मा तथा कर्म के संबंध में मतमतान्तर (८८-१०९)
१.५ भूतचैतन्यवादखंडन का उपसंहार (११०-११२)

===दूसरा स्तबक===
२.१ पुण्य, पाप तथा मोक्ष से संबंधित कुच्छ प्रश्न (११३-१६३)
२.२ कालवाद, स्वभाववाद, नियतिवाद, कर्मवाद, कालादिसामग्रीवाद (१६४-१९३)

===तीसरा स्तबक===
३.१ ईश्वरवादखंडन (१९४-२१०)
३.२ प्रकृतिपुरुषवादखंडन (२११-२३७)

===छौथा स्तबक===
४.१ क्षणिकवादखंडन की प्रस्तावना (२३८-२४७)
४.२ भाव अभाव बन जाता है इस मत का खंडन (२४८-२७५)
४.३ अभाव भाव बन जाता है इस मत का खंडन (२७६-३०२)
४.४ क्षणिकवाद में सामग्रीकारणतावाद की अनुपपत्ति (३०३-३२३)
४.५ क्षणिकवाद में वास्यवासकभाव की अनुपपत्ति (३२४-३२९)
४.६ क्षणिकवाद में कार्यकारणज्ञान की अनुपपत्ति (३३०-३५९)
४.७ बुद्धवचनों की सहायता से क्षणिकवाद का खंडन (३६०-३७४)

===पांचवां स्तबक===
५.१ बाह्यार्थखंडन (३७५-४०२)
५.२ विज्ञानद्वैतवाद में मोक्ष की अनुपपत्ति (४०३-४१३)

===छट्ठा स्तबक===
६.१ निर्हेतुक विनाश से क्षणिकवाद की सिद्धि नहीं (४१४-४३६)
६.२ अर्थक्रियाकारित्व से क्षणिकवाद की सिद्धि नहीं (४३७-४४३)
६.३ रूपरूपान्तरण से क्षणिकवाद की सिद्धि नार्थीं (४४४-४५०)
६.४ अन्ततोगामी नाश से क्षणिकवाद की सिद्धि नहीं (४५१-४६३)
६.५ क्षणिकवाद तथा विज्ञानद्वैतवाद के प्रतिपादन का एक आशयविशेष (४६४-४६६)
६.६ शून्यवादखंडन (४६७-४७६)

===सातवां स्तबक===
७.१ जैनसम्मत नित्यानित्यत्ववाद का समर्थन (४७७-५४२)

===आठवां स्तबक
८.१ ब्रह्मद्वैतवादखंडन (५४३-५५२)

===नवां स्तबक===
९.१ मोक्ष की संभावना तथा मोक्ष के साधन (५५३-५७९)

===दशवां स्तबक===
१०.१ मीमांसक के सर्वज्ञताखंडन का खंडन (५८०-६२६)
१०.२ बौद्ध के सर्वज्ञताखंडन का खंडन (६२७-६४३)

===ग्यारहवां स्तबक===
११.१ शब्दार्थसंबंधखंडन का खंडन (६४४-६७२)
११.२ ज्ञान तथा किर्या के बीच प्राधान्याप्राधान्य का प्रश्न (६७३-६९१)
११.३ मोक्ष का स्वरूप (६९२-६९७)
११.४ ग्रंथोपसंहार (६९८-७०१)

 

========================

 

 


प्रथमस्तबकः

ग्रन्थप्रस्तावना: मोक्ष-साधनरूप से धर्म की उपादेयता


प्रणम्य परमात्मानं वक्ष्यामि हितकाम्यया  ।
सत्त्वानामल्पबुद्धीनां शास्त्रवार्त्तासमुच्चयम्  ॥ [१.१]१ ॥
यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः  ।
जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः  ॥ [१.१]२ ॥
दुःखं पापात्सुखं धर्मात्सर्वशास्त्रेषु संस्थितिः  ।
न कर्तव्यमतः पापं कर्तव्यो धर्मसंचयः  ॥ [१.१]३ ॥
हिंसानृतादयः पञ्च तत्त्वाश्रद्धानमेव च  ।
क्रोधादयश्च चत्वार इति पापस्य हेतवः  ॥ [१.१]४ ॥
विपरीतास्तु धर्मस्य एत एवोदिता बुद्धैः  ।
एतेषु सततं यत्नः सम्यक्कार्यः सुखैषिणा  ॥ [१.१]५ ॥
साधुसेवा सदा भक्त्या मैत्री सत्त्वेषु भावतः  ।
आत्मीयग्रहमोक्षश्च धर्महेतुप्रसाधनम्  ॥ [१.१]६ ॥
उपदेशः शुभो नित्यं दर्शनं धर्मचारिणाम्  ।
स्थाने विनय इत्येतत्साधुसेवाफलं महत् ॥ [१.१]७ ॥
मैत्रीं भावयतो नित्यं शुभो भावः प्रजायते  ।
ततो भावोदयाज्जन्तोर्द्वेषाग्निरुपशाम्यति  ॥ [१.१]८ ॥
अशेषदोषजननी निःशेषगुणघातिनी  ।
आत्मीयग्रहमोक्षेण तृष्णापि विनिवर्त्तते  ॥ [१.१]९ ॥
एवं गुणगणोपेतो विशुद्धात्मा स्थिराशयः  ।
तत्त्वविद्धिः समाख्यातः सम्यग्धर्मस्य साधकः  ॥ [१.१]१० ॥
उपादेयश्च संसारे धर्म एव बुद्धैः सदा  ।
विशुद्धो मुक्तये सर्वं यतोऽन्यद्दुःखकारणम्  ॥ [१.१]११ ॥
अनित्यः प्रियसंयोग इहेर्ष्याशोकवत्सलः  ।
अनित्यं यौवनं चापि कुत्सिताचरणास्पदम्  ॥ [१.१]१२ ॥
अनित्याः सम्पदस्तीव्र-क्लेशवर्गसमुद्भवाः  ।
अनित्यं जीवितं चेह सर्वभावनिबन्धनम्  ॥ [१.१]१३ ॥
पुनर्जन्म पुनर्मृत्युर्हीनादिस्थानसंश्रयः  ।
पुनः पुनश्च यदतः सुखमत्र न विद्यते  ॥ [१.१]१४ ॥
प्रकृत्यसुन्दरं ह्येवं संसारे सर्वमेव यत् ।
अतोऽत्र वद किं युक्ता क्वचिदास्था विवेकिनाम्  ॥ [१.१]१५ ॥
मुक्त्वा धर्मं जगद्वन्द्यमकलङ्कं सनातनम्  ।
परार्थसाधकं धीरैः सेवितं शीलशालिभिः  ॥ [१.१]१६ ॥
आह तत्रापि नो युक्ता यदि सम्यग्निरूप्यते  ।
धर्मस्यापि शुभो यस्माद्बन्ध एव फलं मतम्  ॥ [१.१]१७ ॥
न चायसस्य बन्धस्य तदा हेममयस्य च  ।
फले कश्चिद्विशेषोऽस्ति पारतन्त्र्याविशेषतः  ॥ [१.१]१८ ॥
तस्मादधर्मवत्त्वाज्यो धर्मोऽप्येवं मुमुक्षुभिः  ।
धर्माधर्मक्षयान्मुक्तिर्मुनिभिर्वर्णिता यतः  ॥ [१.१]१९ ॥
उच्यते एवमेवैतत्किन्तु धर्मो द्विधा मतः  ।
संज्ञानयोग एवैकस्तथान्यः पुण्यलक्षणः  ॥ [१.१]२० ॥
ज्ञानयोगस्तपः शुद्धमाशंसादोषवर्जितम्  ।
अभ्यासातिशयादुक्तं तद्विमुक्तेः प्रसाधनम्  ॥ [१.१]२१ ॥
धर्मस्तदपि चेत्सत्यं किं न बन्धफलः स यत् ।
आशंसा वर्जितोऽन्योऽपि किं नैवं चेद्न यत्तथा  ॥ [१.१]२२ ॥
भोगमुक्तिफलो धर्मः स प्रवृत्तीतरात्मकः  ।
सम्यग्मिथ्यादिरूपश्च गतिस्तन्त्रान्तरेष्वपि  ॥ [१.१]२३ ॥
तमन्तरेण तु तयोः क्षयः केन प्रसाध्यते  ।
सदा स्यान्न कदाचिद्वा यद्यहेतुक एव सः  ॥ [१.१]२४ ॥
तस्मादवश्यमेष्टव्यः कश्चिधेतुस्तयोः क्षयें  ।
स एव धर्मो विज्ञेयः शुद्धो मुक्तिफलप्रदः  ॥ [१.१]२५ ॥
धर्माधर्मक्षयान्मुक्तिर्यच्चोक्तं पुण्यलक्षणम्  ।
हेयं धर्मं तदाश्रित्य न तु संज्ञानयोगकम्  ॥ [१.१]२६ ॥
अतस्तत्रैव युक्तास्था यदि सम्यग्निरूप्यते  ।
संसारे सर्वमेवान्यत्दर्शितं दुःखकारणम्  ॥ [१.१]२७ ॥
तस्माच्च जायते मुक्तिर्यथा मृत्यादिवर्जिता  ।
तथोपरिष्टाद्वक्ष्यामः सम्यक्शास्त्रानुसारतः  ॥ [१.१]२८ ॥
इदानीं तु समासेन शास्त्रसम्यक्त्वमुच्यते  ।
कुवादियुक्त्यपव्याख्या-निरासेनाविरोधतः  ॥ [१.१]२९ ॥


(२) भूतचैतन्यवाद-खण्डन

पृथिव्यादिमहाभूत-कार्यमात्रमिदं जगत् ।
न चात्मदृष्टसद्भावं मन्यन्ते भूतवादिनः  ॥ [१.२]३० ॥
अचेतनानि भूतानि न तद्धर्मो न तत्फलम्  ।
चेतनास्ति च यस्येयं स एवात्मेति चापरे  ॥ [१.२]३१ ॥
यदीयं भूतधर्मः स्यात्प्रत्येकं तेषु सर्वदा  ।
उपलम्भ्येत सत्त्वादि-काठिनत्वादयो यथा  ॥ [१.२]३२ ॥
शक्तिरूपेणा सा तेषु सदातो नोपलभ्यते  ।
न च तेनापि रूपेण सत्यसत्येव चेन्न तत् ॥ [१.२]३३ ॥
शक्तिवेतनयोरैव्यं नानात्वं वाथ सर्वथा  ।
ऐक्ये सा चेतनेवेति नानात्वेऽन्यस्य सा यतः  ॥ [१.२]३४ ॥
अनभिव्यक्तिरप्यस्या न्यायतो नोपपद्यते  ।
आवृतिर्न यदन्येन तत्त्वसंख्याविरोधतः  ॥ [१.२]३५ ॥
न चासौ तत्स्वरूपेण तेषामन्यतरेण वा  ।
व्यञ्जकत्वप्रतिज्ञानात्नावृतिर्व्यञ्जकं यतः  ॥ [१.२]३६ ॥
विशिष्टपरिणामभा- -वेऽपि ह्यत्रावृतिर्न वै  ।
भावताप्तेस्तथा नाम-व्यञ्जकत्वप्रसङ्गतः  ॥ [१.२]३७ ॥
न चासौ भूतभिन्नो यत्ततो व्यक्तिः सदा भवेत् ।
भेदे त्वधिकभावेन तत्त्वसंख्या न युज्यते  ॥ [१.२]३८ ॥
स्वकालेऽभिन्न इत्येवं कालाभावे न सङ्गतम्  ।
लोकसिद्धाश्रये त्वात्मा हन्त ! नाश्रीयते कथम्  ॥ [१.२]३९ ॥
नात्मापि लोके नो सिद्धो जातिस्मरणसंश्रयात् ।
सर्वेषां तदभावश्च चित्रकर्मविपाकतः  ॥ [१.२]४० ॥
लोकेऽपि नैकतः स्थानादागतानां तथेक्ष्यते  ।
अविशेषेण सर्वेषामनुभूतार्थसंस्मृतिः  ॥ [१.२]४१ ॥
दिव्यदर्शनतश्चैव तच्छिष्टाव्यभिचारतः  ।
पितृकर्मादिसिद्धेश्च हन्त ! नात्माप्यलौकिकः  ॥ [१.२]४२ ॥
काठिन्याबोधरूपाणि भूतान्यध्यक्षसिद्धितः  ।
चेतना तु न तद्रूपा सा कथं तत्फलं भवेत्?  ॥ [१.२]४३ ॥
प्रत्येकमसती तेषु न च स्याद्रेणुतैलवत् ।
सती चेदुपलभ्येत भिन्नरूपेषु सर्वदा  ॥ [१.२]४४ ॥
असत्स्थूलत्वमण्वादौ घटादौ दृश्यते यथा  ।
तथासत्येव भूतेषु चेतनापीति चेन्मतिः  ॥ [१.२]४५ ॥
नासत्स्थूलत्वमण्वादौ तेभ्य एव तदुद्भवात् ।
असतस्तत्समुत्पादो न युक्तोऽतिप्रसङ्गतः  ॥ [१.२]४६ ॥
पञ्चमस्यापि भूतस्य तेभ्योऽसत्त्वाविशेषतः  ।
भवेदुत्पत्तिरेवं च तत्त्वसंख्या न युज्यते  ॥ [१.२]४७ ॥
न तज्जननस्वभावाश्चेत्तेऽत्र मानं न विद्यते  ।
स्थूलत्वोत्पाद इष्टश्चेत्तत्सद्भावेऽप्यसौ समः  ॥ [१.२]४८ ॥
न च मूर्त्ताणुसङ्घात-भिन्नं स्थूलत्वमित्यदः  ।
तेषामेव तथाभावो न्याय्यं मानाविरोधतः  ॥ [१.२]४९ ॥
भेदे तददलं यस्मात्कथं सद्भावमश्नुते  ।
तदभावेऽपि तद्भावे सदा सर्वत्र वा भवेत् ॥ [१.२]५० ॥
न चैवं भूतसङ्घात-मात्रं चैतन्यमिष्यते  ।
अविशेषेण सर्वत्र तद्वत्तद्भावसङ्गतेः  ॥ [१.२]५१ ॥
एवं सति घटादीनां व्यक्तचैतन्यभावतः  ।
पुरुषान्न विशेषः स्यात्स च प्रत्यक्षबाधितः  ॥ [१.२]५२ ॥
अथ भिन्नस्वभावानि भूतान्येव यतस्ततः  ।
तत्संघातेषु चैतन्यं न सर्वेष्वेतदप्यसत् ॥ [१.२]५३ ॥
स्वभावो भूतमात्रत्वे सति न्यायान्न भिद्यते  ।
विशेषणं विना यस्मान्न तुल्यानां विशिष्टता  ॥ [१.२]५४ ॥
स्वरूपमात्रभेदे च भेदो भूतेतरात्मकः  ।
अन्यभेदकभावे तु स एवात्मा प्रसज्यते  ॥ [१.२]५५ ॥
हविर्गुडकणिक्कादि-द्रव्यसङ्घातजान्यपि  ।
यथा भिन्नस्वभावानि खाद्यकानि तथेति चेत् ॥ [१.२]५६ ॥
व्यक्तिमात्रत एवैषां ननु भिन्नस्वभावता  ।
रसवीर्यविपाकादि-कार्यभेदो न विद्यते  ॥ [१.२]५७ ॥
तदात्मकत्वमात्रत्वे संस्थानादिविलक्षणा  ।
यथेयमस्ति भूतानां तथा सापि कथं न चेत् ॥ [१.२]५८ ॥
कर्त्रभावात्तथा देश-कालभेदाद्ययोगतः  ।
न चासिद्धमदो भूत-मात्रत्वे तदसंभवात् ॥ [१.२]५९ ॥
तथा च भूतमात्रत्वे न तत्सङ्घातभेदयोः  ।
भेदकाभावतो भेदो युक्तः सम्यग्विचिन्त्यताम्  ॥ [१.२]६० ॥
एकस्तथापरो नेति तन्मात्रत्वे तथाविधः  ।
यतस्तदपि नो भिन्नं ततस्तुल्यं च तत्तयोः  ॥ [१.२]६१ ॥
स्यादेतद्भूतजत्वेऽपि ग्रावादीनां विचित्रता  ।
लोकसिद्धेति सिद्धैव न सा तन्मात्रजा ननु  ॥ [१.२]६२ ॥
अदृष्टाकाशकालादि-सामग्रीतः समुद्भवात् ।
तथैव लोकसंवित्तेरन्यथा तदभावतः  ॥ [१.२]६३ ॥
न चेह लौकिको मार्गः स्थितोऽस्माभिर्विचार्यते  ।
किं त्वयं युज्यते क्वेति त्वन्नीतौ चोक्तवन्न सः  ॥ [१.२]६४ ॥
मृतदेहे च चैतन्यमुपलभ्येत सर्वथा  ।
देहधर्मादिभावेन तत्तद्धर्मादि नान्यथा  ॥ [१.२]६५ ॥
न च लावण्यकार्कश्य-श्यामत्वैर्व्यभिचारिता  ।
मृतदेहेऽपि सद्भावादध्यक्षेणैव संगतेः  ॥ [१.२]६६ ॥
न चेल्लावण्यसद्भावो न स तन्मात्रहेतुकः  ।
अत एवान्यसद्भावादस्त्यात्मेति व्यवस्थितम्  ॥ [१.२]६७ ॥
न प्राणादिरसौ मानं किं तद्भावेऽपि तुल्यता  ।
तदभावादभावश्चेदात्माभावे न का प्रमा  ॥ [१.२]६८ ॥
तेन तद्भावभावित्वं न भूयो नलिकादिना  ।
संपादितेऽप्येतत्सिद्धेः सोऽन्य एवेति चेद्न तत् ॥ [१.२]६९ ॥
वायुसामान्यसंसिद्धेस्तत्स्वभावः स नेति चेत् ।
अत्रापि न प्रमाणं वश्चैतन्योत्पत्तिरेव चेत् ॥ [१.२]७० ॥
न तस्यामेव संदेहात्तवायं केन नेति चेत् ।
तत्तत्स्वरूपभावेन तदभावः कथं नु चेत् ॥ [१.२]७१ ॥
तद्वैलक्षण्यसंवित्तेः मातृचैतन्यजे ह्ययम्  ।
सुते तस्मिन्न दोषः स्यान्न न भावेऽस्य मातरि  ॥ [१.२]७२ ॥
न च संस्वेदजाद्येषु मात्रभावेन तद्भवेत् ।
प्रदीपज्ञातमप्यत्र निमित्तत्वान्न बाधकम्  ॥ [१.२]७३ ॥
इत्थं न तदुपादानं युज्यते तत्कथंचन  ।
अन्योपादानभावे च तदेवात्मा प्रसज्यते  ॥ [१.२]७४ ॥
न तथाभाविनं हेतुमन्तरेणोपजायते  ।
किञ्चिन्नश्यति नैकान्ताद्यथाह व्यासमहर्षिः  ॥ [१.२]७५ ॥
नासतो विद्यते भावो नाभावो विद्यते सतः  ।
अभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः  ॥ [१.२]७६ ॥
नाभावो भावमाप्नोति शशशृङ्गे तथागतेः  ।
भावो नाभावमेतीह दीपश्चेन्न स सर्वथा  ॥ [१.२]७७ ॥
एवं चैतन्यवानात्मा सिद्धः सततभावतः  ।
परलोक्यपि विज्ञेयो युक्तिमार्गानुसारिभिः  ॥ [१.२]७८ ॥


(३)मैं विषयक प्रत्यक्ष अनुभव से आत्मा की सिद्धि

सतोऽस्य किं घटस्येव प्रत्यक्षेण न दर्शनम्  ।
अस्त्येव दर्शनं स्पष्टमहंप्रत्ययवेदनात् ॥ [१.३]७९ ॥
भ्रान्तोऽहं गुरुरित्येषः सत्यमन्यस्त्वसौ मतः  ।
व्यभिचारित्वतो नास्य गमकत्वमथोच्यते  ॥ [१.३]८० ॥
प्रत्यक्षस्यापि तत्त्याज्यं तत्सद्भावाविशेषतः  ।
प्रत्यक्षाभासमन्यच्चेद्व्यभिचारि न साधु तत् ॥ [१.३]८१ ॥
अहंप्रत्ययपक्षेऽपि ननु सर्वमिदं समम्  ।
अतस्तद्वदसौ मुख्यः सम्यक्प्रत्यक्षमिष्यताम्  ॥ [१.३]८२ ॥
गुर्वी मे तनुरित्यादौ भेदप्रत्ययदर्शनात् ।
भ्रान्तताभिमतस्यैव सा युक्ता नेतरस्य तु  ॥ [१.३]८३ ॥
आत्मनात्मग्रहोऽप्यस्य तथानुभवसिद्धितः  ।
तस्यैव तत्स्वभावत्वात्न तु युक्त्या न युज्यते  ॥ [१.३]८४ ॥
न च बुद्धिविशेषोऽयमहंकारः प्रकल्प्यते  ।
दानादिबुद्धिकालेऽपि तथाहंकारवेदनात् ॥ [१.३]८५ ॥
आत्मनात्मग्रहे तस्य तत्स्वभावत्वयोगतः  ।
सदैवाग्रहणं ह्येवं विज्ञेयं कर्मदोषतः  ॥ [१.३]८६ ॥
अतः प्रत्यक्षसंसिद्धः सर्वप्राणभृतामयम्  ।
स्वयंज्योतिः सदैवात्मा तथा वेदेऽपि पठ्यते  ॥ [१.३]८७ ॥


(४) आत्मा तथा कर्म के सम्बन्ध में मतमतान्तर

अत्रापि वर्णयन्त्येके सौगताः कृतबुद्धयः  ।
क्लिष्टं मनोऽस्ति यन्नित्यं तद्यथोक्तात्मलक्षणम्  ॥ [१.४]८८ ॥
यदि नित्यं तदात्मैव संज्ञाभेदोऽत्र केवलम्  ।
अथानित्यं ततश्चेदं न यथोक्तात्मलक्षणम्  ॥ [१.४]८९ ॥
यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च  ।
संसर्त्ता परिनिर्वाता स ह्यात्मा नान्यलक्षणः  ॥ [१.४]९० ॥
आत्मत्वेनाविशिष्टस्य वैचित्र्यं तस्य यद्वशात् ।
नरादिरूपं तच्चित्रमदृष्टं कर्मसंज्ञितम्  ॥ [१.४]९१ ॥
तथा तुल्येऽपि चारम्भे सदुपायेऽपि यो नृणाम्  ।
फलभेदः स नो युक्तो युक्त्या हेत्वन्तरं विना  ॥ [१.४]९२ ॥
तस्मादवश्यमेष्टव्यं तत्र हेत्वन्तरं परैः  ।
तदेवादृष्टमित्याहुरन्ये शास्त्रकृतश्रमाः  ॥ [१.४]९३ ॥
भूतानां तत्स्वभावत्वादयमित्यप्यनुत्तरम्  ।
न भूतात्मक एवात्मेत्येतदत्र निदर्शितम्  ॥ [१.४]९४ ॥
कर्मणो भौतिकत्वेन यद्वैतदपि साम्प्रतम्  ।
आत्मनो व्यतिरिक्तं तत्चित्रभावं यतो मतम्  ॥ [१.४]९५ ॥
शक्तिरूपं तदन्ये तु सूरयः संप्रचक्षते  ।
अन्ये तु वासनारूपं विचित्रफलदं मतम्  ॥ [१.४]९६ ॥
अन्ये त्वभिदधत्यत्र स्वरूपनियतस्य वै  ।
कर्तुर्विनान्यसंबन्धं शक्तिराकस्मिकी कुतः  ॥ [१.४]९७ ॥
तत्क्रियायोगतः सा चेत्तदपुष्टौ न युज्यते  ।
तदन्ययोगाभावे च पुष्टिरस्य कथं भवेत् ॥ [१.४]९८ ॥
अस्त्येव सा सदा कन्तु क्रियया व्यज्यते परम्  ।
आत्ममात्रस्थिताया न तस्या व्यक्तिः कदाचन  ॥ [१.४]९९ ॥
तदन्यावरणाभावाद्भावे वास्यैव कर्मता  ।
तन्निराकरणाद्व्यक्तिरिति तद्भेदसंस्थितिः  ॥ [१.४]१०० ॥
पापं तद्भिन्नमेवास्तु क्रियान्तरनिबन्धनम्  ।
एवमिष्टक्रियाजन्यं पुण्यं किमिति नेक्ष्यते  ॥ [१.४]१०१ ॥
वासनाप्यन्यसंबन्धं विना नैवोपपद्यते  ।
पुष्पादिगन्धवैकल्ये तिलादौ नेक्ष्यते यतः  ॥ [१.४]१०२ ॥
बोधमात्रातिरिक्तं तद्वासकं किञ्चिदिष्यताम्  ।
मुख्यं तदेव वः कर्म न युक्ता वासनान्यथा  ॥ [१.४]१०३ ॥
बोधमात्रस्य तद्भावे नास्ति ज्ञानमवासितम्  ।
ततोऽमुक्तिः सदैव स्याद्वैशिष्ट्यं केवलस्य न  ॥ [१.४]१०४ ॥
एवं शक्त्यादिपक्षोऽयं घटते नापपत्तितः  ।
बन्धान्न्यूनातिरिक्तत्वे तद्भावानुपपत्तितः  ॥ [१.४]१०५ ॥
तस्मात्तदात्मनो भिन्नं सच्चित्रं चात्मयोगि च  ।
अदृष्टमवगन्तव्यं तस्य शक्त्यादिसाधकम्  ॥ [१.४]१०६ ॥
अदृष्टं कर्म संस्काराः पुण्यापुण्ये शुभाशुभे  ।
धर्माधर्मौ तथा पाशः पर्यायास्तस्य कीर्त्तिताः  ॥ [१.४]१०७ ॥
हेतवोऽस्य समाख्याताः पूर्वं हिंसानृतादयः  ।
तद्वान् संयुज्यते तेन विचित्रफलदायिना  ॥ [१.४]१०८ ॥
नैवं दृष्टेष्टबाधा यत्सिद्धिश्चास्यानिवारिता  ।
तदेनमेव विद्वांसस्तत्त्ववादं प्रचक्षते  ॥ [१.४]१०९ ॥


(५) भूतचैतन्यवादखंडन का उपसंहार

लोकायतमतं प्राज्ञैर्ज्ञेयं पापौघकारणम्  ।
इत्थं तत्त्वविलोमं यत्तन्न ज्ञानविवर्धनम्  ॥ [१.५]११० ॥
इन्द्रप्रतारणायेदं चक्रे किल बृहस्पतिः  ।
अदोऽपि युक्तिशून्यं यन्नेत्थमिन्द्रः प्रतार्यते  ॥ [१.५]१११ ॥
तस्माद्दुष्टाशयकरं क्लिष्टसत्त्वविचिन्तितम्  ।
पापश्रुतं सदा धीरैर्वर्ज्यं नास्तिकदर्शनम्  ॥ [१.५]११२ ॥

-----------------------------------------------------------

 

 

द्वितीयस्तबकः


(२)पुण्य, पाप तथा मोक्ष से संबंधित कुच्छ प्रश्न

हिंसादिभ्योऽशुभं कर्म तदन्येभ्यश्च तच्छुभम्  ।
जायते नियमो मानात्कुतोऽयमिति नापरे  ॥ [२.१]११३ ॥
आगमाख्यात्तदन्ये तु तच्च दृष्टाद्यबाधितम्  ।
सर्वार्थविषयं नित्यं व्यक्तार्थं परमात्मना  ॥ [२.१]११४ ॥
चन्द्रसूर्योपरागादेस्ततः संवाददर्शनात् ।
तस्याप्रत्यक्षेऽपि पापादौ न प्रामाण्यं न युज्यते  ॥ [२.१]११५ ॥
यदि नाम क्वचिद्दृष्टः संवादोऽन्यत्र वस्तुनि  ।
तद्भावस्तस्य तत्त्वं वा कथं समवसीयते ?  ॥ [२.१]११६ ॥
आगमैकत्वतस्तच्च वाक्यादेस्तुल्यतादिना  ।
सुवृद्धसंप्रदायेन तथा पापक्षयेण च  ॥ [२.१]११७ ॥
अन्यथा वस्तुतत्त्वस्य परीक्षैव न युज्यते  ।
आशङ्का सर्वगा यस्मात्छद्मस्थस्योपजायते  ॥ [२.१]११८ ॥
अपरीक्षापि नो युक्ता गुणदोषाविवेकतः  ।
महत्संकटमायातमाशङ्के न्यायवादिनः  ॥ [२.१]११९ ॥
तस्माद्यथोदितात्सम्यगागमख्यात्प्रमाणतः  ।
हिंसादिभ्योऽशुभादीनि नियमोऽयं व्यवस्थितः  ॥ [२.१]१२० ॥
क्लिष्टाधिंसाद्यनुष्ठानात्प्राप्तिः क्लिष्टस्य कर्मणः  ।
यथापथ्यभुजो व्याधेरक्लिष्टस्य विपर्ययात् ॥ [२.१]१२१ ॥
स्वभाव एष जीवस्य यत्तथापरिणामभाक् ।
बध्यते पुण्यपापाभ्यां माध्यस्थ्यात्तु विमुच्यते  ॥ [२.१]१२२ ॥
सुदूरमपि गत्वेह विहितासूपपत्तिषु  ।
कः स्वभावागमावन्ते शरणं न प्रपद्यते  ॥ [२.१]१२३ ॥
प्रतिपक्षस्वभावेन प्रतिपक्षागमेन च  ।
बाधित्वात्कथं ह्येतौ शरणं युक्तिवादिनाम्  ॥ [२.१]१२४ ॥
प्रतीत्या बाध्यते यो यत्स्वभावो न स युज्यते  ।
वस्तुनः कल्प्यमानोऽपि वह्न्यादेः शीततादिवत् ॥ [२.१]१२५ ॥
वह्नेः शीतत्वमस्त्येव तत्कार्यं किं न दृश्यते  ।
दृश्यते हि हिमासन्ने कथमित्थं स्वभावतः  ॥ [२.१]१२६ ॥
हिमस्यापि स्वभावोऽयं नियमाद्वह्निसंनिधौ  ।
करोति दाहमित्येवं वह्न्यादेः शीतता न किम्  ॥ [२.१]१२७ ॥
व्यवस्थाभावतो ह्येवं या त्वद्बुद्धिरिहेदृशी  ।
सा लोष्टादस्य यत्कार्यं तत्त्वत्तस्तत्स्वभावतः  ॥ [२.१]१२८ ॥
एवं सुबुद्धिशून्यत्वं भवतोऽपि प्रसज्यते  ।
अस्तु चेत्को विवादो नो बुद्धिशून्येन सर्वथा  ॥ [२.१]१२९ ॥
अन्यस्त्वाहेह सिद्धेऽपि हिंसादिभ्योऽशुभादिके  ।
शुभादेरेव सौख्यादि केन मानेन गम्यते  ॥ [२.१]१३० ॥
अत्रापि ब्रुवते केचित्सर्वथा युक्तिवादिनः  ।
प्रतीतिगर्भया युक्त्या किलैतदवसीयते  ॥ [२.१]१३१ ॥
तयाहुर्नाशुभात्सौख्यं तद्बाहुल्यप्रसंगतः  ।
बहवः पापकर्माणो विरलाः शुभकारिणः  ॥ [२.१]१३२ ॥
न चैतद्दृश्यते लोके दुःखबाहुल्यदर्शनात् ।
शुभात्सौख्यं ततः सिद्धमतोऽन्यच्चाप्यतोऽन्यतः  ॥ [२.१]१३३ ॥
अन्ये पुनरिदं श्राद्धा ब्रुवते आगमेन वै  ।
शुभादेरेव सौख्यादि गम्यते नान्यतः क्वचित् ॥ [२.१]१३४ ॥
अतीन्द्रियेषु भावेषु प्रायः एवंविधेषु यत् ।
छद्मस्थस्याविसंवादि मानमत्र न विद्यते  ॥ [२.१]१३५ ॥
यच्चोक्तं दुःखबाहुल्य-दर्शनं तन्न साधकम्  ।
क्वचित्तथोपलम्भेऽपि सर्वत्रादर्शनादिति  ॥ [२.१]१३६ ॥
सर्वत्र दर्शनं यस्य तद्वाक्यात्किं न साधनम्  ।
साधनं तद्भवत्येवमागमात्तु न भिद्यते  ॥ [२.१]१३७ ॥
अशुभादप्यनुष्ठानात्सौख्यप्राप्तिश्च या क्वचित् ।
फलं विपाकविरसा सा तथाविधकर्मणः  ॥ [२.१]१३८ ॥
ब्रह्महत्यानिदेशानुष्ठानाद्ग्रामादिलाभवत् ।
न पुनस्तत एवैतदागमादेव गम्यते  ॥ [२.१]१३९ ॥
प्रतिपक्षागमानां च दृष्टेष्टाभ्यां विरोधतः  ।
तथानाप्तप्रणीतत्वादागमत्वं न युज्यते  ॥ [२.१]१४० ॥
दृष्टेष्टाभ्यां विरोधाच्च तेषां नाप्तप्रणीतता  ।
नियमाद्गम्यते यस्मात्तदसावेव दर्श्यते  ॥ [२.१]१४१ ॥
अगम्यगमनादीनां धर्मसाधनता क्वचित् ।
उक्ता लोकप्रसिद्धेन प्रत्यक्षेण विरुद्ध्यते  ॥ [२.१]१४२ ॥
स्वधर्मोत्कर्षादेव तथा मुक्तिरपीष्यते  ।
हेत्वभावेन तद्भावो नित्य इष्टेन बाध्यते  ॥ [२.१]१४३ ॥
माध्यस्थ्यमेव तद्धेतुरगम्यगमनादिना  ।
साध्यते तत्परं येन तेन दोषो न कश्चन  ॥ [२.१]१४४ ॥
एतदप्युक्तिमात्रं यदगम्यगमनादिषु  ।
तथाप्रवृत्तितो युक्त्या माध्यस्थ्यं नोपपद्यते  ॥ [२.१]१४५ ॥
अप्रवृत्त्यैव सर्वत्र यथासामर्थ्यभावतः  ।
विशुद्धभावनाभ्यासात्तन्माध्यस्थ्यं परं यतः  ॥ [२.१]१४६ ॥
यावदेवंविधं नैवं प्रवृत्तिस्तावदेव या  ।
साविशेषेण साध्वीति तस्योत्कर्षप्रसाधनात् ॥ [२.१]१४७ ॥
नाप्रवृत्तेरियं हेतुः कुतश्चिदनिवर्त्तनात् ।
सर्वत्र भावाविच्छेदादन्यथागम्यसंस्थितिः  ॥ [२.१]१४८ ॥
तच्चास्तु लोकशास्त्रोक्तं तत्रौदासीन्ययोगतः  ।
संभाव्यते परं ह्येतद्भावशुद्धेर्महात्मनाम्  ॥ [२.१]१४९ ॥
संसारमोचकस्यापि हिंसा यद्धर्मसाधनम्  ।
मुक्तिश्चास्ति ततस्तस्याप्येष दोषोऽनिवारितः  ॥ [२.१]१५० ॥
मुक्तिकर्मक्षयादेव जायते नान्यतः क्वचित् ।
जन्मादिरहिता यत्तत्स एवात्र निरूप्यते  ॥ [२.१]१५१ ॥
हिंसाद्युत्कर्षसाध्यो वा तद्विपर्ययजोऽपि वा  ।
अन्यहेतुरहेतुर्वा स वै कर्मक्षयो ननु  ॥ [२.१]१५२ ॥
हिंसाद्युत्कर्षसाध्यत्वे तदभावे न तत्स्थितिः  ।
कर्मक्षयास्थितौ च स्यान्मुक्तानां मुक्तताक्षितिः  ॥ [२.१]१५३ ॥
तद्विपर्ययसाध्यत्वे परसिद्धान्तसंस्थितिः  ।
कर्मक्षयः सतां यस्मादहिंसादिप्रसाधनः  ॥ [२.१]१५४ ॥
तदन्यहेतुसाध्यत्वे तत्स्वरूपमसंस्थितम्  ।
अहेतुत्वे सदा भावोऽभावो वा स्यात्सदैव हि  ॥ [२.१]१५५ ॥
मुक्तिः कर्मक्षयादिष्टा ज्ञानयोगफलं च सः  ।
अहिंसादि च तद्धेतुरिति न्यायः सतां मतः  ॥ [२.१]१५६ ॥
एवं वेदविहितापि हिंसापायाय तत्त्वतः  ।
शास्त्रचोदितभावेऽपि वचनान्तरबाधनात् ॥ [२.१]१५७ ॥
न हिंस्यादिह भूतानि हिंसनं दोषकृन्मतम्  ।
दाहवद्वैद्यके स्पष्टमुत्सर्गप्रतिषेधतः  ॥ [२.१]१५८ ॥
ततो व्याधिनिवृत्त्यर्थं दाहः कार्यस्तु चोदिते  ।
न ततोऽपि न दोषः स्यात्फलोद्देशेन चोदनात् ॥ [२.१]१५९ ॥
एवं तत्फलभावेऽपि चोदनातोऽपि सर्वथा  ।
ध्रुवमौत्सर्गिको दोषो जायते फलचोदनात् ॥ [२.१]१६० ॥
अन्येषामपि बुद्ध्यैवं दृष्टेष्टाभ्यां विरुद्धता  ।
दर्शनीया कुशास्त्राणां ततश्च स्थितमित्यदः  ॥ [२.१]१६१ ॥
क्लिष्टं हिंसाद्यनुष्ठानं न यत्तस्यान्यतो भवेत् ।
ततः कर्ता स एव स्यात्सर्वस्यैव हि कर्मणः  ॥ [२.१]१६२ ॥
अनादिकर्मयुक्तत्वात्तन्मोहात्संप्रवर्तते  ।
अहितेऽप्यात्मनः प्रायो व्याधिपीडितचित्तवत् ॥ [२.१]१६३ ॥


(१)कालवाद, स्वभाववाद, नियतिवाद, कर्मवाद, कालादिसामग्रीवाद

कालादीनां च कर्तृत्वं मन्यन्तेऽन्ये प्रवादिनः  ।
केवलानां तदन्ये तु मिथः सामग्र्यपेक्षया  ॥ [२.२]१६४ ॥
न कालव्यतिरेकेण गर्भबालशुभादिकम्  ।
यत्किञ्चिज्जायते लोके तदसौ कारणं किल  ॥ [२.२]१६५ ॥
कालः पचति भूतानि कालः संहरति प्रजाः  ।
कालः सुप्तेषु जागर्त्ति कालो हि दुरतिक्रमः  ॥ [२.२]१६६ ॥
किञ्च कालादृते नैव मुद्गपक्तिरपीष्यते  ।
स्थाल्यादिसंनिधानेऽपि ततः कालादसौ मता  ॥ [२.२]१६७ ॥
कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया  ।
परेष्टहेतुसद्भाव-मात्रादेव तदुद्भवात् ॥ [२.२]१६८ ॥
न स्वभावातिरेकेण गर्भबालशुभादिकम्  ।
यत्किञ्चिज्जायते लोके तदसौ कारणं किल  ॥ [२.२]१६९ ॥
सर्वभावाः स्वभावेन स्वस्वभावे तथा तथा  ।
वर्त्तन्तेऽथ निवर्त्तन्ते कामचारपराङ्मुखाः  ॥ [२.२]१७० ॥
न विनेह स्वभावेन मुद्गपक्तिरपीष्यते  ।
तथाकालादिभावेऽपि नाश्वमाषस्य सा यतः  ॥ [२.२]१७१ ॥
अतत्स्वभावात्तद्भावे-ऽतिप्रसंगोऽनिवारितः  ।
तुल्ये तत्र मृदः कुम्भो न पटादीत्ययुक्तिमत् ॥ [२.२]१७२ ॥
नियतेनैव रूपेण सर्वे भावा भवन्ति यत् ।
ततो नियतिजा ह्येते तत्स्वरूपानुवेधतः  ॥ [२.२]१७३ ॥
यद्यदैव यतो यावत्तत्तदैव ततस्तथा  ।
नियतं जायते न्यायात्क एतां बाधितुं क्षमः  ॥ [२.२]१७४ ॥
न चर्ते नियतिं लोके मुद्गपक्तिरपीक्ष्यते  ।
तत्स्वभावादिभावेऽपि नासावनियता यतः  ॥ [२.२]१७५ ॥
अन्यथानियतत्वेन सर्वभावः प्रसज्यते  ।
अन्योन्यात्मकतापत्तेः क्रियावैफल्यमेव च  ॥ [२.२]१७६ ॥
न भोक्तृव्यतिरेकेण भोग्यं जगति विद्यते  ।
न चाकृतस्य भोगः स्यान्मुक्तानां भोगभावतः  ॥ [२.२]१७७ ॥
भोग्यं च विश्वं सत्त्वानां विधिना तेन तेन यत् ।
दृश्यतेऽध्यक्षमेवेदं तस्मात्तत्कर्मजं हि तत् ॥ [२.२]१७८ ॥
न च तत्कर्मवैधुर्ये मुद्गपक्तिरपीक्ष्यते  ।
स्थाल्यादिभङ्गभावेन यत्क्वचिन्नोपपद्यते  ॥ [२.२]१७९ ॥
चित्रं भोग्यं तथा चित्रात्कर्मणोऽहेतुतान्यथा  ।
तस्य यस्माद्विचित्रत्वं नियत्यादेर्न युज्यते  ॥ [२.२]१८० ॥
नियतेर्नियतात्मत्वान्नियतानां समानता  ।
तथानियतभावे च बलात्स्यात्तद्विचित्रता  ॥ [२.२]१८१ ॥
न च तन्मात्रभावादेर्युज्यतेऽस्या विचित्रता  ।
तदन्यभेदकं मुक्त्वा सम्यग्न्यायाविरोधतः  ॥ [२.२]१८२ ॥
न जलस्यैकरूपस्य वियत्पाताद्विचित्रता  ।
ऊषरादिधराभेदमन्तरेणोपजायते  ॥ [२.२]१८३ ॥
तद्भिन्नभेदकत्वे च तत्र तस्या न कर्तृता  ।
तत्कर्तृत्वे च चित्रत्वं तद्वत्तस्याप्यसंगतम्  ॥ [२.२]१८४ ॥
तस्या एव तथाभूतः स्वभावो यदि चेष्यते  ।
त्यक्तः नियतिवादः स्यात्स्वभावाश्रयणान्ननु  ॥ [२.२]१८५ ॥
स्वो भावश्च स्वभावोऽपि स्वसत्तैव हि भावतः  ।
तस्यापि भेदकाभावे वैचित्र्यं नोपपद्यते  ॥ [२.२]१८६ ॥
ततस्तस्याविशिष्टत्वाद्युगपद्विश्वसंभवः  ।
न चासाविति सद्युक्त्या तद्वादोऽइप्न संगतः  ॥ [२.२]१८७ ॥
तत्तत्कालादिसापेक्षो विश्वहेतुः स चेन्ननु  ।
मुक्तः स्वभाववादः स्यात्कालवादपरिग्रहात् ॥ [२.२]१८८ ॥
कालोऽपि समयादिर्यत्केवलं सोऽपि कारणम्  ।
तत एव ह्यसंभूतेः कस्यचिन्नोपपद्यते  ॥ [२.२]१८९ ॥
अतश्च काले तुल्येऽपि सर्वत्रैव न तत्फलम्  ।
अतो हेत्वन्तरापेक्षं विज्ञेयं तद्विचक्षणैः  ॥ [२.२]१९० ॥
अतः कालादयः सर्वे समुदायेन कारणम्  ।
गर्भादेः कार्यजातस्य विज्ञेया न्यायवादिभिः  ॥ [२.२]१९१ ॥
न चैकैकत एवेह क्वचित्किञ्चिदपीक्ष्यते  ।
तस्मात्सर्वस्य कार्यस्य सामग्री जनिका मता  ॥ [२.२]१९२ ॥
स्वभावो नियतिश्चैव कर्मणोऽन्ये प्रचक्षते  ।
धर्मावन्ये तु सर्वस्य सामान्येनैव वस्तुनः  ॥ [२.२]१९३ ॥

____________________________________________

 

 

तृतीयस्तबकः


(१) ईश्वरवादखंडन

ईश्वरः प्रेरकत्वेन कर्ता कैश्चिदिहेष्यते  ।
अचिन्त्यचिच्छक्तियुक्तोऽनादिशुद्धश्च सूरिभिः  ॥ [३.१]१९४ ॥
ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः  ।
ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम्  ॥ [३.१]१९५ ॥
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः  ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा  ॥ [३.१]१९६ ॥
अन्ये त्वभिदधत्यत्र वीतरागस्य भावतः  ।
इत्थं प्रयोजनाभावात्कर्तृत्वं युज्यते कथम् ?  ॥ [३.१]१९७ ॥
नरकादिफले कांश्चित्कांश्चित्स्वर्गादिसाधने  ।
कर्मणि प्रेरयत्याशु स जन्तून् केन हेतुना ?  ॥ [३.१]१९८ ॥
स्वयमेव प्रवर्तन्ते सत्त्वाश्चेत्चित्रकर्मणि  ।
निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् ?  ॥ [३.१]१९९ ॥
फलं ददाति चेत्सर्वं तत्तेनेह प्रचोदितम्  ।
अफले पूर्वदोषः स्यात्सफले भक्तिमात्रता  ॥ [३.१]२०० ॥
आदिसर्गेऽपि न हेतुः कृतकृत्यस्य विद्यते  ।
प्रतिज्ञातविरोधित्वात्स्वभावोऽप्यप्रमाणकः  ॥ [३.१]२०१ ॥
कर्मादेस्तत्स्वभावत्वे न किञ्चिद्बाध्यते विभोः  ।
विभोस्तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम्  ॥ [३.१]२०२ ॥
ततश्चेश्वरकर्तृत्व-वादोऽयं युज्यते परम्  ।
सम्यग्न्यायाविरोधेन यथाहुः शुद्धबुद्धयः  ॥ [३.१]२०३ ॥
ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् ।
यतो मुक्तिस्ततस्तस्याः कर्ता स्याद्गुणभावतः  ॥ [३.१]२०४ ॥
तदनासेवनादेव यत्संसारोऽपि तत्त्वतः  ।
तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति  ॥ [३.१]२०५ ॥
कर्तायमिति तद्वाक्ये यतः केषांचिदादरः  ।
अतस्तदानुगुण्येन तस्य कर्तृत्वदेशना  ॥ [३.१]२०६ ॥
परमैश्वर्ययुक्तत्वान्मत आत्मैव चेश्वरः  ।
स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः  ॥ [३.१]२०७ ॥
शास्त्रकारा महात्मानः प्रायो वीतस्पृहा भवे  ।
सत्त्वार्थसंप्रवृत्ताश्च कथं तेऽयुक्तभाषिणः  ॥ [३.१]२०८ ॥
अभिप्रायस्ततस्तेषां सम्यग्मृग्यो हितैषिणा  ।
न्यायशास्त्राविरोधेन यथाह मनुरप्यदः  ॥ [३.१]२०९ ॥
आर्षं च धर्मशास्त्रं च वेदशास्त्राविरोधिना  ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः  ॥ [३.१]२१० ॥


(२) प्रकृतिपुरुषवाद खण्डन

प्रधानोद्भवमन्ये तु मन्यन्ते सर्वमेव हि  ।
महदादिक्रमेणेह कार्यजातं विपश्चितः  ॥ [३.२]२११ ॥
प्रधानाद्महतो भावोऽहंकारस्य ततोऽपि च  ।
अक्षतन्मात्रवर्गस्य तन्मात्राद्भूतसंहतेः  ॥ [३.२]२१२ ॥
घटाद्यपि पृथिव्यादि-परिणामसमुद्भवम्  ।
नात्मव्यापारजं किञ्चित्तेषां लोकेऽपि विद्यते  ॥ [३.२]२१३ ॥
अन्ये तु ब्रुवते ह्येतत्प्रक्रियामात्रवर्णनम्  ।
अविचार्यैव तद्युक्त्या श्रद्धया गम्यते परम्  ॥ [३.२]२१४ ॥
युक्त्या तु बाध्यते यस्मात्प्रधानं नित्यमिष्यते  ।
तथात्वाप्रच्युतौ चास्य महदादि कथं भवेत्?  ॥ [३.२]२१५ ॥
तस्यैव तत्स्वभावत्वादिति चेत्किं न सर्वदा  ।
अत एवेति चेत्तस्य तथात्वे ननु तत्कुतः ?  ॥ [३.२]२१६ ॥
नानुपादानमन्यस्य भावेऽन्यज्जातुचिद्भवेत् ।
तदुपादानतायां च न तस्यैकान्तनित्यता  ॥ [३.२]२१७ ॥
घटाद्यपि कुलालादि-सापेक्षं दृश्यते भवत् ।
अतो न तत्पृथिव्यादि-परिणामसमुद्भवम्  ॥ [३.२]२१८ ॥
तत्रापि देहः कर्ता चेन्नैवासावात्मनः पृथक् ।
पृथगेवेति चेद्भोग आत्मनो युज्यते कथम् ?  ॥ [३.२]२१९ ॥
देहभोगेन नैवास्य भावतो भोग इष्यते  ।
प्रतिबिम्बोदयात्किन्तु यथोक्तं पूर्वसूरिभिः  ॥ [३.२]२२० ॥
"पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम्  ।
मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा  ॥ [३.२]२२१ ॥
विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते  ।
प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि"  ॥ [३.२]२२२ ॥
प्रतिबिम्बोदयोऽप्यस्य नामूर्तत्वेन युज्यते  ।
मुक्तैरतिप्रसंगाच्च न वै भोगः कदाचन  ॥ [३.२]२२३ ॥
न च पूर्वस्वभावत्वात्स मुक्तानामसंगतः  ।
स्वभावान्तरभावे च परिणामोऽनिवारितः  ॥ [३.२]२२४ ॥
देहात्पृथक्त्व एवास्य न च हिंसादयः क्वचित् ।
तदभावेऽनिमित्तत्वात्कथं बन्धः शुभाशुभः  ॥ [३.२]२२५ ॥
बन्धादृते न संसारो मुक्तिर्वास्योपपद्यते  ।
यमादि तदभावे च सर्वमेव ह्यपार्थकम्  ॥ [३.२]२२६ ॥
आत्मा न बध्यते नापि मुच्यतेऽसौ कदाचन  ।
बध्यते मुच्यते चापि प्रकृतिः स्वात्मनेति चेत् ॥ [३.२]२२७ ॥
एकान्तेनैकरूपाया नित्यायाश्च न सर्वथा  ।
तस्याः क्रियान्तराभावाद्बन्धमोक्षौ तु युज्तितः  ॥ [३.२]२२८ ॥
मोक्षः प्रकृत्ययोगो यदतोऽस्यः स कथं भवेत् ।
स्वरूपविगमापत्तेस्तथा तन्त्रविरोधतः  ॥ [३.२]२२९ ॥
पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः  ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः  ॥ [३.२]२३० ॥
पुरुषस्योदिता मुक्तिरिति तन्त्रे चिरन्तनैः  ।
इत्थं न घटते चेयमिति सर्वमयुक्तिमत् ॥ [३.२]२३१ ॥
अत्रापि पुरुषस्यान्ये मुक्तिमिच्छन्ति वादिनः  ।
प्रकृतिं चापि सन्न्यायात्कर्मप्रकृतिमेव च  ॥ [३.२]२३२ ॥
तस्याश्चानेकरूपत्वात्परिणामित्वयोगतः  ।
आत्मनो बन्धनत्वाच्च नोक्तदोषसमुद्भवः  ॥ [३.२]२३३ ॥
नामूर्तं मूर्ततां याति मूर्तं न यात्यमूर्तताम्  ।
यतो बन्धाद्यतो न्यायादात्मनोऽसंगतं तया  ॥ [३.२]२३४ ॥
देहस्पर्शादिसंवित्त्या न यात्येवेत्यत्युक्तिमत् ।
अन्योन्यव्याप्तिजा चेयमिति बन्धादि संगतम्  ॥ [३.२]२३५ ॥
मूर्तयाप्यात्मनो योगो घटते नभसो यथा  ।
उपघातादिभावश्च ज्ञानस्येव सुरादिना  ॥ [३.२]२३६ ॥
एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि  ।
कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः  ॥ [३.२]२३७ ॥

___________________________________________

 


चतुर्थस्तबकः


(१) क्षणिकवाद खंडन की प्रस्तावना

मन्यन्तेऽन्ये जगत्सर्वं क्लेशकर्मनिबन्धनम्  ।
क्षणक्षयि महाप्रज्ञा ज्ञानमात्रं तथापरे  ॥ [४.१]२३८ ॥
त आहुः क्षणिकं सर्वं नाशहेतोरयोगतः  ।
अर्थक्रियासमर्थत्वात्परिणामात्क्षयेक्षणात् ॥ [४.१]२३९ ॥
ज्ञानमात्रं च यल्लोके ज्ञानमेवानुभूयते  ।
नार्थस्तद्व्यतिरेकेण ततोऽसौ नैव विद्यते  ॥ [४.१]२४० ॥
अत्राप्यभिदधत्यन्ये स्मरणादेरसंभवात् ।
बाह्यार्थवेदनाच्चैव सर्वमेतदपार्थकम्  ॥ [४.१]२४१ ॥
अनुभूतार्थविषयं स्मरणं लौकिकं यतः  ।
कालान्तरे तथानित्ये मुख्यमेतन्न युज्यते  ॥ [४.१]२४२ ॥
सोऽन्तेवासी गुरुः सोऽयं प्रत्यभिज्ञाप्यसंगता  ।
दृष्टकौतुकमुद्वेगः प्रवृत्तिः प्राप्तिरेव च  ॥ [४.१]२४३ ॥
स्वकृतस्योपभोगस्तु दूरोत्सारित एव हि  ।
शीलानुष्ठानहेतुर्यः स नश्यति तदैव यत् ॥ [४.१]२४४ ॥
संतानापेक्षयास्माकं व्यवहारोऽखिलो मतः  ।
स चैक एव तस्मिंश्च सति कस्मान्न युज्यते  ॥ [४.१]२४५ ॥
यस्मिन्नेव तु संताने आहिता कर्मवासना  ।
फलं तत्रैव संधत्ते कर्पासे रक्तता यथा  ॥ [४.१]२४६ ॥
एतदप्युक्तिमात्रं यन्न हेतुफलभावतः  ।
सन्तानोऽन्यः स चायुक्त एवासत्कार्यवादिनः  ॥ [४.१]२४७ ॥


(२) भाव अभाव बन जाता है इस मत का खंडन

नाभावो भावतां याति शशशृङ्गे तथागतेः  ।
भावो नाभावमेतीह तदुत्पत्त्यादिदोषतः  ॥ [४.२]२४८ ॥
सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् ।
तन्नष्टस्य पुनर्भावः सदा नाशो न तत्स्थितिः  ॥ [४.२]२४९ ॥
स क्षणस्थितिधर्मा चेद्द्वितीयादिक्षणस्थितौ  ।
युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः  ॥ [४.२]२५० ॥
क्षणस्थितौ तदैवास्य नास्थितिर्युक्त्यसंगतेः  ।
न पश्चादपि सा नेति सतोऽसत्त्वं व्यवस्थितम्  ॥ [४.२]२५१ ॥
न तद्भवति चेत्किं न सदा सत्त्व तदेव यत् ।
न भवत्येतदेवास्य भवनं सूरयो विदुः  ॥ [४.२]२५२ ॥
कादाचित्कमदो यस्मादुत्पाद्यस्य तद्ध्रुवम्  ।
तुच्छत्वान्नेत्यतुच्छस्याप्यतुच्छत्वात्कथं ननु ?  ॥ [४.२]२५३ ॥
तदा भूतेरियं तुल्या तन्निवृत्तेर्न तस्य किम्  ।
तुच्छताप्तेर्न भावोऽस्तु नासत्सत्सदसत्कथम् ?  ॥ [४.२]२५४ ॥
स्वहेतोरेव तज्जातं तत्स्वभावं यतो ननु  ।
तदनन्तरभावित्वादितरत्राप्यदः समम्  ॥ [४.२]२५५ ॥
नाहेतोरस्य भवनं न तुच्छे तत्स्वभावता  ।
ततः कथं नु तद्भाव इति युक्त्या कथं समम् ?  ॥ [४.२]२५६ ॥
स एव भावस्तद्धेतुस्तस्यैव तथास्थितेः  ।
स्वनिवृत्तिः स्वभावोऽस्य भावस्येव ततो न किम् ?  ॥ [४.२]२५७ ॥
ज्ञेयत्ववत्स्वभावोऽपि न चायुक्तोऽस्य तद्विधः  ।
तदभावे न तज्ज्ञानं तन्निवृत्तेर्गतिः कथम् ?  ॥ [४.२]२५८ ॥
तत्तद्विधस्वभावं यत्प्रत्यक्षेण तथैव हि  ।
गृह्यते तद्गतिस्तेन नैतत्क्वचिदनिश्चयात् ॥ [४.२]२५९ ॥
समारोपादसौ नेति गृहीतं तत्त्वतस्तु तत् ।
यथाभावग्रहात्तस्या-तिप्रसंगाददोऽप्यसत् ॥ [४.२]२६० ॥
गृहीतं सर्वमेतेन तत्त्वतो निश्चयः पुनः  ।
मितग्रहसमारोपादिति तत्त्वव्यवस्थितेः  ॥ [४.२]२६१ ॥
एकत्र निश्चयोऽन्यत्र निरंशानुभवादपि  ।
न तथा पाटवाभावादित्यपूर्वमिदं तमः  ॥ [४.२]२६२ ॥
स्वभावक्षणतो ह्यूर्ध्वं तुच्छता तन्निवृत्तितः  ।
नासावेकक्षणग्राहि-ज्ञानात्सम्यग्विभाव्यते  ॥ [४.२]२६३ ॥
तस्यां च नागृहीतायां तत्तथेति विनिश्चयः  ।
न हीन्द्रियमतीतादि-ग्राहकं सद्भिरिष्यते  ॥ [४.२]२६४ ॥
अन्तेऽपि दर्शनं नास्य कपालादिगतेः क्वचित् ।
न तदेव घटाभावो भावत्वेन प्रतीतितः  ॥ [४.२]२६५ ॥
न तद्गतेर्गतिस्तस्य प्रतिबन्धविवेकतः  ।
तस्यैवाभवनत्वे तु भावाविच्छेदतोऽन्वयः  ॥ [४.२]२६६ ॥
तस्मादवश्यमेष्टव्यं तदूर्ध्वं तुच्छमेव तत् ।
ज्ञेयं सद्ज्ञायते ह्येतदपरेणापि युक्तिमत् ॥ [४.२]२६७ ॥
नोत्पत्त्यादेस्तयोरैक्यं तुच्छेतरविशेषतः  ।
निवृत्तिभेदतश्चैव बुद्धिभेदाच्च भाव्यताम्  ॥ [४.२]२६८ ॥
एतेनैतत्प्रतिक्षिप्तं यदुक्तं न्यायमानिना  ।
न तत्र किञ्चिद्भवति न भवत्येव केवलम्  ॥ [४.२]२६९ ॥
भावे ह्येष विकल्पः स्याद्विधेर्वस्त्वनुरोधतः  ।
न भावो भवतीत्युक्तमभावो भवतीत्यपि  ॥ [४.२]२७० ॥
एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः  ।
सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम्  ॥ [४.२]२७१ ॥
प्रतिक्षिप्तं च यत्सत्ता-ऽनाशित्वागोऽनिवारितम्  ।
तुच्छरूपा तदासत्ता भावाप्तेर्नाशितोदिता  ॥ [४.२]२७२ ॥
भावस्याभवनं यत्तदभावभवनं तु यत् ।
तत्तथाधर्मके ह्युक्त-विकल्पो न विरुध्यते  ॥ [४.२]२७३ ॥
तदेव न भवत्येतद्विरुद्धमिव लक्ष्यते  ।
तदेव वस्तुसंस्पर्शाद्भवनप्रतिषेधतः  ॥ [४.२]२७४ ॥
सतोऽसत्त्वं यतश्चैवं सर्वथा नोपपद्यते  ।
भावो नाभावमेतीह ततश्चैतद्व्यवस्थितम्  ॥ [४.२]२७५ ॥


(३) अभाव भाव बन जाता है
इस मत का खंडन

असतः सत्त्वयोगे तु तत्तथाशक्तियोगतः  ।
नासत्त्वं तदभावे तु न तत्सत्त्वं तदन्यवत् ॥ [४.३]२७६ ॥
असदुत्पद्यते तद्धि विद्यते यस्य कारणम्  ।
विशिष्टशक्तिमत्तच्च ततस्तत्सत्त्वसंस्थितिः  ॥ [४.३]२७७ ॥
अत्यन्तासति सर्वस्मिन् कारणस्य न युक्तितः  ।
विशिष्टशक्तिमत्त्वं हि कल्प्यमानं विराजते  ॥ [४.३]२७८ ॥
तत्सत्त्वसाधकं तन्न तदेव हि तदा न यत् ।
अत एवेदमिच्छन्तु न वै तस्येत्ययोगतः  ॥ [४.३]२७९ ॥
वस्तुस्थित्या तथा तद्यत्तदनन्तरभावि तत् ।
नान्यत्ततश्च नाम्नेह न तथास्ति प्रयोजनम्  ॥ [४.३]२८० ॥
नाम्ना विनापि तत्त्वेन विशिष्टाविधिना विना  ।
चिन्त्यतां यदि सन्न्यायाद्वस्तुस्थित्यापि तत्तथा  ॥ [४.३]२८१ ॥
साधकत्वे तु सर्वस्य ततो भावः प्रसज्यते  ।
कारणाश्रयणोऽप्येवं न तत्सत्त्वं तदन्यवत् ॥ [४.३]२८२ ॥
किञ्च तत्कारणं कार्य-भूतिकाले न विद्यते  ।
ततो न जनकं तस्य तदासत्त्वात्परं यथा  ॥ [४.३]२८३ ॥
अनन्तरं च तद्भावस्तत्त्वादेव निरर्थकः  ।
समं च हेतुफलयोर्नाशोत्पादवसङ्गतौ  ॥ [४.३]२८४ ॥
स्तस्तौ भिन्नावभिन्नौ वा ताभ्यां बेदे तयोः कुतः  ।
नाशोत्पादावभेदे तु तयोर्वै तुल्यकालता  ॥ [४.३]२८५ ॥
न हेतुफलभावश्च तस्यां सत्यां हि युज्यते  ।
तन्निबन्धनभावस्य द्वयोरपि वियोगतः  ॥ [४.३]२८६ ॥
कल्पितश्चेदयं धर्म-धर्मिभावो हि भावतः  ।
न हेतुफलभावः स्यात्सर्वथा तदभावतः  ॥ [४.३]२८७ ॥
न धर्मी कल्पितो धर्म-धर्मिभावस्तु कल्पितः  ।
पूर्वो हेतुर्निरंशः स उत्तरः फलमुच्यते  ॥ [४.३]२८८ ॥
पूर्वस्यैव तथाभावा-भावे हन्तोत्तरं कुतः  ।
तस्यैव तु तथाभावेऽसतः सत्त्वमदो न सत् ॥ [४.३]२८९ ॥
तं प्रतीत्य तदुत्पाद इति तुच्छमिदं वचः  ।
अतिप्रसंगतश्चैव तथा चाह महामतिः  ॥ [४.३]२९० ॥
सर्वथैव तथाभावि-वस्तुभावादृते न यत् ।
कारणानन्तरं कार्यं द्राग्नभस्तस्ततो न तत् ॥ [४.३]२९१ ॥
तस्यैव तत्स्वभावत्व-कल्पनासम्पदप्यलम्  ।
न युक्ता युक्तिवैकल्य-राहुणा जन्मपीडनात् ॥ [४.३]२९२ ॥
तदनन्तरभावित्व-मात्रतस्तद्व्यवस्थितेः  ।
विश्वस्य विश्वकार्यत्वं स्यात्तद्भावाविशेषतः  ॥ [४.३]२९३ ॥
अभिन्नदेशतादीनामसिद्धत्वादनन्वयात् ।
सर्वेषामविशिष्टत्वान्न तन्नियमहेतुता  ॥ [४.३]२९४ ॥
योऽप्येकस्यान्यतो भावः सन्ताने दृश्यतेऽन्यदा  ।
तत एव विदेशस्थात्सोऽपि यत्तन्न बाधकम्  ॥ [४.३]२९५ ॥
एतेनैतत्प्रतिक्षिप्तं यदुक्तं सूक्ष्मबुद्धिना  ।
नासतो भावकर्तृत्वं तदवस्थान्तरं न सः  ॥ [४.३]२९६ ॥
वस्तुनोऽनन्तरं सत्ता कस्यचिद्या नियोगतः  ।
सा तत्फलं मता सैव भावोत्पत्तिस्तदात्मिका  ॥ [४.३]२९७ ॥
असदुत्पत्तिरप्यस्य प्रागसत्त्वात्प्रकीर्तिता  ।
नासतः सत्त्वयोगेन कारणात्कार्यभावतः  ॥ [४.३]२९८ ॥
प्रतिक्षिप्तं च तधेतोः प्राप्नोति फलतां विना  ।
असतो भावकर्तृत्वं तदवस्थान्तरं च सः  ॥ [४.३]२९९ ॥
वस्तुनोऽनन्तरं सत्ता तत्तथातां विना भवेत् ।
नभःपातादसत्सत्त्व-योगाद्वेति न तत्फलम्  ॥ [४.३]३०० ॥
असदुत्पत्तिरप्येव नास्यैव प्रागसत्त्वतः  ।
किं त्वसत्सद्भवत्येवमिति सम्यग्विचार्यताम्  ॥ [४.३]३०१ ॥
एतच्च नोक्तवद्युक्त्या सर्वथा युज्यते यतः  ।
नाभावो भावतां याति व्यवस्थितमिदं ततः  ॥ [४.३]३०२ ॥


(४) क्षणिकवाद में सामग्रीकारणतावाद की अनुपपत्ति

यापि रूपादिसामग्री विशिष्टप्रत्ययोद्भवा  ।
जनकत्वेन बुद्ध्यादेः कल्प्यते साप्यनर्थिका  ॥ [४.४]३०३ ॥
सर्वेषां बुद्धिजनने यदि सामर्थ्यमिष्यते  ।
रूपादीनां ततः कार्य-भेदस्तेभ्यो न युज्यते  ॥ [४.४]३०४ ॥
रूपालोकादिकं कार्यमनेकं चोपजायते  ।
तेभ्यस्तावद्भ्य एवेति तदेतच्चिन्त्यतां कथम्  ॥ [४.४]३०५ ॥
प्रभूतानां च नैकत्र साध्वी सामर्थ्यकल्पना  ।
तेषां प्रभूतभावेन तदेकत्वविरोधतः  ॥ [४.४]३०६ ॥
तानशेषान् प्रतीत्येह भवदेकं कथं भवेत् ।
एकस्वभावमेकं यत्तत्तु नानेकभावतः  ॥ [४.४]३०७ ॥
यतो भिन्नस्वभावत्वे सति तेषामनेकता  ।
तावत्सामर्थ्यजत्वे च कुतस्तस्यैकरूपता  ॥ [४.४]३०८ ॥
यज्जायते प्रतीत्यैक-सामर्थ्यं नान्यतो हि तत् ।
तयोरभिन्नतापत्तेर्भेदे भेदस्तयोरपि  ॥ [४.४]३०९ ॥
न प्रतीत्यैकसामर्थ्यं जायते तत्र किञ्चन  ।
सर्वसामर्थ्यभूतिस्व-भावत्वात्तस्य चेन्न तत् ॥ [४.४]३१० ॥
प्रत्येकं तस्य तद्भावे युक्ता ह्युक्तस्वभावता  ।
न हि तत्सर्वसामर्थ्यं तत्प्रत्येकत्ववर्जितम्  ॥ [४.४]३११ ॥
अत्र चोक्तं न चाप्येषां तत्स्वभावत्वकल्पना  ।
साध्वीत्यतिप्रसंगादेरन्यथाप्युक्तिसंभवात् ॥ [४.४]३१२ ॥
अथान्यत्रापि सामर्थ्यं रूपादीनां प्रकल्प्यते  ।
न तदेव तदित्येवं नाना चैकत्र तत्कुतः  ॥ [४.४]३१३ ॥
सामग्रीभेदतो यश्च कार्यभेदः प्रगीयते  ।
नानाकार्यसमुत्पादादेकस्याः सोऽपि बाध्यते  ॥ [४.४]३१४ ॥
उपादानादिभावेन न चैकस्यास्तु संगता  ।
युक्त्या विचार्यमाणेह तदेनकत्वकल्पना  ॥ [४.४]३१५ ॥
रूपं येन स्वभावेन रूपोपादानकारणम्  ।
निमित्तकारणं ज्ञाने तत्तेनान्येन वा भवेत् ॥ [४.४]३१६ ॥
यदि तेनैव विज्ञानं बोधरूपं न युज्यते  ।
अथान्येन बलाद्रूपं द्विस्वभावं प्रसज्यते  ॥ [४.४]३१७ ॥
अबुद्धिजनकव्यावृत्त्या चेद्बुद्धिप्रसाधकः  ।
रूपक्षणो ह्यबुद्धित्वात्कथं रूपस्य साधकः  ॥ [४.४]३१८ ॥
स हि व्यावृत्तिभेदेन रूपादिजनको ननु  ।
उच्यते व्यवहारार्थमेकरूपोऽपि तत्त्वतः  ॥ [४.४]३१९ ॥
अगन्धजननव्यावृत्त्यायं कस्मान्न गन्धकृत् ।
उच्यते तदभावाच्चेद्भावोऽन्यस्याः प्रसज्यते  ॥ [४.४]३२० ॥
एवं व्यावृत्तिभेदेऽपि तस्यानेकस्वभावता  ।
बलादापद्यते सा चायुक्ताभ्युपगमक्षतेः  ॥ [४.४]३२१ ॥
विभिन्नकार्यजननस्वभावाश्चक्षुरादयः  ।
यदि ज्ञानेऽपि भेदः स्यात्न चेद्भेदो न युज्यते  ॥ [४.४]३२२ ॥
सामग्र्यपेक्षयाप्येवं सर्वथा नोपपद्यते  ।
यधेतुहेतुमद्भावस्तदेषाप्युक्तिमात्रकम्  ॥ [४.४]३२३ ॥


(५) क्षणिकवाद में वास्यवासकभाव की अनुपपत्ति

नानात्वाबाधानाच्चेह कुतः स्वकृतवेदनम्  ।
सत्यप्यस्मिन्मिथोऽत्यन्तं तद्भेदादिति चिन्त्यताम्  ॥ [४.५]३२४ ॥
वास्यवासकभावाच्चेन्नैतत्तस्याप्यसंभवात् ।
असंभवः कथं न्वस्य विकल्पानुपपत्तितः  ॥ [४.५]३२५ ॥
वासकाद्वासना भिन्ना अभिन्ना वा भवेद्यदि  ।
भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्यसौ  ॥ [४.५]३२६ ॥
अथाभिन्ना न संक्रान्तिस्तस्या वासकरूपवत् ।
वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रजायते  ॥ [४.५]३२७ ॥
असत्यामपि संक्रान्तौ वासयत्येव चेदसौ  ।
अतिप्रसंगः स्यादेवं स च न्यायबहिष्कृतः  ॥ [४.५]३२८ ॥
वास्यवासकभावश्च न हेतुफलभावतः  ।
तत्त्वतोऽन्य इति न्यायात्स चायुक्तो निदर्शितः  ॥ [४.५]३२९ ॥


(६) क्षणिकवाद में कार्यकारण ज्ञान की अनुपपत्ति

तत्तज्जननस्वभावं जन्यभावं तथापरम्  ।
अतः स्वभावनियमान्नायुक्तः स कदाचन  ॥ [४.६]३३० ॥
उभयोर्ग्रहणाभावे न तथाभावकल्पनम्  ।
तयोर्न्याय्यं न चैकेन द्वयोर्गहणमस्ति वः  ॥ [४.६]३३१ ॥
एकमर्थं विजानाति न विज्ञानद्वयं यथा  ।
विजानाति न विज्ञानमेकमर्थद्वयं तथा  ॥ [४.६]३३२ ॥
वस्तुस्थित्या तयोस्तत्त्वे एकेनापि तथाग्रहात् ।
नो बाधकं न चैकेन द्वयोर्गहणमस्त्यदः  ॥ [४.६]३३३ ॥
तथाग्रहस्तयोर्नेतरेतरग्रहणात्मकः  ।
कदाचिदपि युक्तो यदतः कथमबाधकम्  ॥ [४.६]३३४ ॥
तथाग्रहे च सर्वत्रा-विनाभावग्रहं विना  ।
न धूमादिग्रहादेव ह्यनलादिगतिः कथम्  ॥ [४.६]३३५ ॥
समनन्तरवैकल्यं तत्रेत्यनुपपत्तिकम्  ।
तुल्ययोरपि तद्भावे हन्त क्वचिददर्शनात् ॥ [४.६]३३६ ॥
न तयोस्तुल्यतैकस्य यस्मात्कारणकारणम्  ।
औघात्तद्धेतुविषयं न त्वेवमितरस्य च  ॥ [४.६]३३७ ॥
यः केवलानलग्राहि-ज्ञानकारणकारणः  ।
सोऽप्येवं न च तद्धेतोस्तज्ज्ञानादपि तद्गतिः  ॥ [४.६]३३८ ॥
तज्ज्ञानं यन्न वै धूम-ज्ञानस्य समनन्तरः  ।
तथाभूदित्यतो नेह तज्ज्ञानादपि तद्गतिः  ॥ [४.६]३३९ ॥
तथेति हन्त को न्वर्थः तत्तथाभावतो यदि  ।
इतरत्रैकमेवेत्थं ज्ञानं तद्ग्राहि भाव्यताम्  ॥ [४.६]३४० ॥
तदभावेऽन्यथा भावस्तस्य सोऽस्यापि विद्यते  ।
अनन्तरचिरातीतं तत्पुनर्वस्तुतः समम्  ॥ [४.६]३४१ ॥
अग्निज्ञानजमेतेन धूमज्ञानं स्वभावतः  ।
तथा विकल्पकृन्नान्यदिति प्रत्युक्तमिष्यताम्  ॥ [४.६]३४२ ॥
अतः कथंचिदेकेन तयोरग्रहणे सति  ।
तथाप्रतीतितो न्याय्यं न तथाभावकल्पनम्  ॥ [४.६]३४३ ॥
प्रत्यक्षानुपलम्भाभ्यां हन्तैवं साध्यते कथम्  ।
कार्यकारणता तस्मात्तद्भावादेरनिश्चयात् ॥ [४.६]३४४ ॥
न पूर्वमुत्तरं चेह तदन्याग्रहणाद्ध्रुवम्  ।
गृह्यतेऽत इदं नातो न त्वतीन्द्रियदर्शनम्  ॥ [४.६]३४५ ॥
विकल्पोऽपि तथा न्यायाद्युज्यते न ह्यनीदृशः  ।
तत्संस्कारप्रसूतत्वात्क्षणिकत्वाच्च सर्वथा  ॥ [४.६]३४६ ॥
नेत्थं बोधान्वयाभावे घटते तद्विनिश्चयः  ।
माध्यस्थ्यमवलम्ब्यैतत्चिन्त्यतां स्वयमेव तु  ॥ [४.६]३४७ ॥
अग्न्यादिज्ञानमेवेह न धूमज्ञानतां यतः  ।
व्रजत्याकारभेदेन कुतो बोधान्वयस्ततः  ॥ [४.६]३४८ ॥
तदाकारपरित्यागात्तस्याकारान्तरस्थितिः  ।
बोधान्वयः प्रदीर्घैकाध्यवसायप्रवर्तकः  ॥ [४.६]३४९ ॥
स्वसंवेदनसिद्धत्वात्न च भ्रान्तोऽयमित्यपि  ।
कल्पना युज्यते युक्त्या सर्वभ्रान्तिप्रसंगतः  ॥ [४.६]३५० ॥
प्रदीर्घाध्यवसायेन नश्वरादिविनिश्चयः  ।
अस्य च भ्रान्ततायां यत्तत्तथेति न युक्तिमत् ॥ [४.६]३५१ ॥
तस्मादवश्यमेष्टव्यं विकल्पस्यापि कस्यचित् ।
येन केन प्रकारेण सर्वथाभ्रान्तरूपता  ॥ [४.६]३५२ ॥
सत्यामस्यां स्थितोऽस्माकमुक्तवन्न्याययोगतः  ।
बोधान्वयोऽदलोत्पत्त्य-भावाच्चातिप्रसंगतः  ॥ [४.६]३५३ ॥
अन्यादृशपदार्थेभ्यः स्वयमन्यादृशोऽप्ययम्  ।
यतश्चेष्टस्ततो नास्मात्तत्रासंदिग्धनिश्चयः  ॥ [४.६]३५४ ॥
तत्तज्जननभावत्वे ध्रुवं तद्भावसंगतिः  ।
तस्यैव भावो नान्यो यज्जन्याच्च जननं तथा  ॥ [४.६]३५५ ॥
एवं तज्जन्यभावत्वेऽप्येषा भाव्या विचक्षणैः  ।
तदेव हि यतो भावः स चेतरसमाश्रयः  ॥ [४.६]३५६ ॥
इत्येवमन्वयापत्तिः शब्दार्थादेव जायते  ।
अन्यथा कल्पनं चास्य सर्वथा न्यायबाधितम्  ॥ [४.६]३५७ ॥
तद्रूपशक्तिशून्यं तत्कार्यं कार्यान्तरं यथा  ।
व्यापारोऽपि न तस्यापि नापेक्षासत्त्वतः क्वचित् ॥ [४.६]३५८ ॥
तथापि तु तयोरेव तत्स्वभावत्वकल्पनम्  ।
अन्यत्रापि समानत्वात्केवलं ध्यान्ध्यसूचकम्  ॥ [४.६]३५९ ॥


(७) बुद्धवचनों की सहायता से क्षणिकवाद का खंडन

किञ्चन्यात्क्षणिकत्वे व आर्षोऽर्थोऽपि विरुध्यते  ।
विरोधापादनं चास्य नाल्पस्य तमसः फलम्  ॥ [४.७]३६० ॥
इत एकनवते कल्पे शक्त्या मे पुरुषो हतः  ।
तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः  ॥ [४.७]३६१ ॥
मे मयेत्यात्मनिर्देशस्तद्गतोक्ता वधक्रिया  ।
स्वयमाप्तेन यत्तद्वः कोऽयं क्षणिकताग्रहः  ॥ [४.७]३६२ ॥
सन्तानापेक्षयैतच्चेदुक्तं भगवता ननु  ।
स हेतुफलभावो यत्तन्मे इति न संगतम्  ॥ [४.७]३६३ ॥
ममेति हेतुशक्त्या चेत्तस्यार्थोऽयं विवक्षितः  ।
नात्र प्रमाणमत्यक्षा तद्विवक्षा यतो मता  ॥ [४.७]३६४ ॥
तद्देशना प्रमाणं चेत्न सान्यार्था भविष्यति  ।
तत्रापि किं प्रमाणं चेदिदं पूर्वोक्तमार्षकम्  ॥ [४.७]३६५ ॥
तथान्यदपि यत्कल्प-स्थायिनी पृथिवी क्वचित् ।
उक्ता भगवता भिक्षूनामन्त्र्य स्वयमेव तु  ॥ [४.७]३६६ ॥
पञ्च बाह्या द्विविज्ञेया इत्यन्यदपि चार्षकम्  ।
प्रमाणमवगन्तव्यं प्रक्रान्तार्थप्रसाधकम्  ॥ [४.७]३६७ ॥
क्षणिकत्वे यतोऽमीषां न द्विविज्ञेयता भवेत् ।
भिन्नकालग्रहे ह्याभ्यां तच्छब्दार्थोपपत्तितः  ॥ [४.७]३६८ ॥
एककालग्रहे तु स्यात्तस्यैकस्याप्रमाणता  ।
गृहीतग्रहणादेवं मिथ्या तथागतं वचः  ॥ [४.७]३६९ ॥
इन्द्रियेण परिच्छिन्ने रूपादौ तदनन्तरम्  ।
यद्रूपादि ततस्तत्र मनोज्ञानं प्रवर्तते  ॥ [४.७]३७० ॥
एवं च न विरोधोऽस्ति द्विविज्ञेयत्वभावतः  ।
पञ्चानामपि चेन्न्यायादेतदप्यसमञ्जसम्  ॥ [४.७]३७१ ॥
नैकोऽपि यद्द्विविज्ञेय एकैकेनैव वेदनात् ।
सामान्यापेक्षयैतच्चेन्न तत्सत्त्वप्रसंगतः  ॥ [४.७]३७२ ॥
सत्त्वेऽपि नेन्द्रियज्ञानं हन्त तद्गोचरं मतम्  ।
द्विविज्ञेयत्वमित्येवं क्षणभेदे न तत्त्वतः  ॥ [४.७]३७३ ॥
सर्वमेतेन विक्षिप्तं क्षणिकत्वप्रसाधनम्  ।
तथाप्यूर्ध्वं विशेषेण किञ्चित्तत्रापि वक्ष्यते  ॥ [४.७]३७४ ॥

_____________________________________

 


पञ्चमस्तबकः


(१)बाह्यार्थखंडन खंडन

विज्ञानमात्रवादोऽपि न सम्यगुपपद्यते  ।
मानं यत्तत्त्वतः किञ्चिदर्थाभावे न विद्यते  ॥ [५.१]३७५ ॥
न प्रत्यक्षं यतोऽभावा-लम्बनं न तदिष्यते  ।
नानुमानं तथाभूत-सल्लिङ्गानुपपत्तितः  ॥ [५.१]३७६ ॥
उपलब्धिलक्षणप्राप्तोऽर्थो यन्नोपलभ्यते  ।
ततश्चानुपलब्ध्यैव तदभावोऽवसीयते  ॥ [५.१]३७७ ॥
उपलब्धिलक्षणप्राप्तिस्तद्धत्वन्तरसंहतिः  ।
एषां च तत्स्वभावत्वे तस्यासिद्धिः कथं भवेत् ॥ [५.१]३७८ ॥
सहार्थेन तज्जनन-स्वभावानीति चेन्ननु  ।
जनयत्येव सत्येवमन्यथातत्स्वभावता  ॥ [५.१]३७९ ॥
योग्यतामधिकृत्याथ तत्स्वभावत्वकल्पना  ।
हन्तैवमपि सिद्धो वः कदाचिदुपलब्धितः  ॥ [५.१]३८० ॥
अन्यथा योग्यता तेषां कथं युक्त्योपपद्यते  ।
न हि लोकेऽश्वमाषादेः सिद्धा पक्त्यादियोग्यता  ॥ [५.१]३८१ ॥
पराभिप्रायतो ह्येतदेवं चेदुच्यते न यत् ।
उपलब्धिलक्षणप्राप्तोऽर्थस्तस्योपलभ्यते  ॥ [५.१]३८२ ॥
अतद्ग्रहणभावैश्च यदि नाम न गृह्यते  ।
तत एतावतासत्त्वं न तस्यातिप्रसंगतः  ॥ [५.१]३८३ ॥
विज्ञानं यत्स्वसंवेद्यं न त्वर्थो युक्त्ययोगतः  ।
अतस्तद्वेदने तस्य ग्रहणं नोपपद्यते  ॥ [५.१]३८४ ॥
एवं चाग्रहणादेव तदभावोऽवसीयते  ।
अतः किमुच्यते मानमर्थाभावे न विद्यते  ॥ [५.१]३८५ ॥
अर्थग्रहणरूपं यत्तत्स्वसंवेद्यमिष्यते  ।
तद्वेदने ग्रहस्तस्य ततः किं नोपपद्यते  ॥ [५.१]३८६ ॥
घटादिज्ञानमित्यादि-संवित्तेस्तत्प्रवृत्तितः  ।
प्राप्तेरर्थक्रियायोगात्स्मृतेः कौतुकभावतः  ॥ [५.१]३८७ ॥
ज्ञानमात्रे तु विज्ञानं ज्ञानमेवेत्यदो भवेत् ।
प्रवृत्त्यादि ततो न स्यात्प्रसिद्धं लोकशास्त्रयोः  ॥ [५.१]३८८ ॥
तदन्यग्रहणे चास्य प्रद्वेषोऽर्थेऽनिबन्धनः  ।
ज्ञानान्तरेऽपि सदृशं तदसंवेदनादि यत् ॥ [५.१]३८९ ॥
युक्त्ययोगाश्च योऽर्थस्य गीयते जातिवादतः  ।
ग्राह्यादिभावद्वारेण ज्ञानवादेऽप्यसौ समः  ॥ [५.१]३९० ॥
नैकान्तग्राह्यभावं तद्ग्राहकाभावतो भुवि  ।
ग्राहकैकान्तभावं तु ग्राह्याभावादसंगतम्  ॥ [५.१]३९१ ॥
विरोधान्नोभयाकारमन्यथा तदसद्भवेत् ।
निःस्वभावत्वतस्तस्य सत्तैवं युज्यते कथम्  ॥ [५.१]३९२ ॥
प्रकाशैकस्वभावं हि विज्ञानं तत्त्वतो मतम्  ।
अकर्मकं तथा चैतत्स्वयमेव प्रकाशते  ॥ [५.१]३९३ ॥
यथास्ते शेत इत्यादौ विना कर्म स एव हि  ।
तथोच्यते जगत्यस्मिंस्तथा ज्ञानमपीष्यताम्  ॥ [५.१]३९४ ॥
उच्यते सांप्रतमदः स्वयमेव विचिन्त्यताम्  ।
प्रमाणाभावतस्तत्र यद्येतदुपपद्यते  ॥ [५.१]३९५ ॥
एवं न यत्तदात्मानमपि हन्त प्रकाशयेत् ।
अतस्तदित्थं नो युक्तमन्यथा न व्यवस्थितिः  ॥ [५.१]३९६ ॥
व्यवस्थितौ च तत्त्वस्य तथाभावप्रकाशकम्  ।
ध्रुवं यतस्ततोऽकर्मकत्वमस्य कथं भवेत् ॥ [५.१]३९७ ॥
व्यवस्थापकमस्यैवं भ्रान्तं चैतत्तु भावतः  ।
तथेत्यभ्रान्तमत्रापि ननु मानं न विद्यते  ॥ [५.१]३९८ ॥
भ्रान्ताच्चाभ्रान्तरूपा न युक्तियुक्ता व्यवस्थितिः  ।
दृष्टा तैमिरिकादीनामक्षादाविति चेन्न तत् ॥ [५.१]३९९ ॥
नाक्षादिदोषविज्ञानं तदन्यभ्रान्तिवद्यतः  ।
भ्रान्तं तस्य तथाभावे भ्रान्तस्याभ्रान्तता भवेत् ॥ [५.१]४०० ॥
न च प्रकाशमात्रं तु लोके क्वचिदकर्मकम्  ।
दीपादौ युज्यते न्यायादतश्चैतदपार्थकम्  ॥ [५.१]४०१ ॥
दृष्टान्तमात्रतः सिद्धिस्तदत्यन्तविधर्मिणः  ।
न च साध्यस्य यत्तेन शब्दमात्रमसावपि  ॥ [५.१]४०२ ॥


(२) विज्ञानाद्वैतवाद में मोक्ष की अनुपपत्ति

किं च विज्ञानामात्रत्वे न संसारापवर्गयोः  ।
विशेषो विद्यते कश्चित्तथा चैतद्वृथोदितम्  ॥ [५.२]४०३ ॥
चित्तमेव हि संसारो रागादिक्लेशवासितम्  ।
तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते  ॥ [५.२]४०४ ॥
रागादिक्लेशवर्गो यन्न विज्ञानात्पृथग्मतः  ।
एकान्तैकस्वभावे च तस्मिन् किं केन वासितम्  ॥ [५.२]४०५ ॥
क्लिष्टं विज्ञानमेवासौ क्लिष्टता तस्य यद्वशात् ।
नील्यादिवदसौ वस्तु तद्वदेव प्रसज्यते  ॥ [५.२]४०६ ॥
मुक्तौ च तस्य भेदेन भावः स्यात्पटशुद्धिवत् ।
ततो बाह्यार्थतासिद्धिरनिष्टा संप्रसज्यते  ॥ [५.२]४०७ ॥
प्रकृत्यैव तथाभूतं तदेव क्लिष्टतेति चेत् ।
तदन्यूनातिरिक्तत्वे केन मुक्तिर्विचिन्त्यताम्  ॥ [५.२]४०८ ॥
असत्यपि च या बाह्ये ग्राह्यग्राहकलक्षणा  ।
द्विचन्द्रभ्रान्तिवद्भ्रान्तिरियं नः क्लिष्टतेति चेत् ॥ [५.२]४०९ ॥
अस्त्वेतत्किन्तु तद्धेतु-भिन्नहेत्वन्तरोद्भवा  ।
इयं स्यात्तिमिराभावे न हीन्दुद्वयदर्शनम्  ॥ [५.२]४१० ॥
न चासदेव तद्धेतुर्बोधमात्रं न चापि तत् ।
सदैव क्लिष्टतापत्तेरिति मुक्तिर्न युज्यते  ॥ [५.२]४११ ॥
मुक्त्यभावे च सर्वैव ननु चिन्ता निरर्थिका  ।
भावेऽपि सर्वदा तस्याः सम्यगेतत्विचिन्त्यताम्  ॥ [५.२]४१२ ॥
विज्ञानमात्रवादो यत्नेत्थं युक्त्योपपद्यते  ।
प्राज्ञस्याभिनेवेशो न तस्मादत्रापि युज्यते  ॥ [५.२]४१३ ॥

______________________________________________

 

 


षष्ठः स्तबकः


(१) निर्हेतुक विनाश से क्षणिकवाद की सिद्धि नहीं

यच्चोक्तं पूर्वमत्रैव क्षणिकत्वप्रसाधकम्  ।
नाशहेतोरयोगादि तदिदानीं परीक्ष्यते  ॥ [६.१]४१४ ॥
हेतोः स्यान्नश्वरो भावोऽनश्वरो वा विकल्प्य यत् ।
नाशहेतोरयोगित्वमुच्यते तन्न युक्तिमत् ॥ [६.१]४१५ ॥
हेतुं प्रतीत्य यदसौ तथा नश्वर इष्यते  ।
यथैव भवतो हेतुर्विशिष्टफलसाधकः  ॥ [६.१]४१६ ॥
तथास्वभाव एवासौ स्वहेतोरेव जायते  ।
सहकारिणमासाद्य यस्तथाविधकार्यकृत् ॥ [६.१]४१७ ॥
न पुनः क्रियते किञ्चित्तेनास्य सहकारिणा  ।
समानकालभावित्वात्तथा चोक्तमिदं तव  ॥ [६.१]४१८ ॥
उपकारी विरोधी च सहकारी च यो मतः  ।
प्रबन्धापेक्षया सर्वो नैककाले कदाचन  ॥ [६.१]४१९ ॥
सहकारिकृतो हेतोर्विशेषो नास्ति यद्यपि  ।
फलस्य तु विशेषोऽस्ति तत्कृतातिशयाप्तितः  ॥ [६.१]४२० ॥
न चास्यातत्स्वभावत्वे स फलस्यापि युज्यते  ।
सभागक्षणजन्माप्तेस्तथाविधतदन्यवत् ॥ [६.१]४२१ ॥
अस्थानपक्षपातश्च हेतोरनुपकारिणी  ।
अपेक्षायां नियुङ्क्ते यत्कार्यमेतद्वृथोदितम्  ॥ [६.१]४२२ ॥
यस्मात्तस्याप्यदस्तुल्यं विशिष्टफलसाधकम्  ।
भावहेतुं समाश्रित्य ननु न्यायान्निदर्शितम्  ॥ [६.१]४२३ ॥
एवं च व्यर्थमेवेह व्यतिरिक्तादिचिन्तनम्  ।
नाश्यमाश्रित्य नाशस्य क्रियते यद्विचक्षणैः  ॥ [६.१]४२४ ॥
किञ्च निर्हेतुके नाशे हिंसकत्वं न युज्यते  ।
व्यापाद्यते सदा यस्मान्न कश्चित्केनचित्क्वचित् ॥ [६.१]४२५ ॥
कारणत्वात्स सन्तान-विशेषप्रभवस्य चेत् ।
हिंसकस्तन्न सन्तान-समुत्पत्तेरसंभवात् ॥ [६.१]४२६ ॥
सांवृतत्वात्व्ययोत्पादौ सन्तानस्य खपुष्पवत् ।
न स्तस्तदधर्मत्वाच्च हेतुस्तत्प्रभवे कुतः  ॥ [६.१]४२७ ॥
विसभागक्षणस्याथ जनको हिंसको न तत् ।
स्वतोऽपि तस्य तत्प्राप्तेर्जनकत्वाविशेषतः  ॥ [६.१]४२८ ॥
हन्म्येनमिति संक्लेशाधिंसकश्चेत्प्रकल्प्यते  ।
नैवं त्वन्नीतितो यस्मादयमेव न युज्यते  ॥ [६.१]४२९ ॥
संक्लेशो यद्गुणोत्पादः स चाक्लिष्टान्न केवलात् ।
न चान्यसचिवस्यापि तस्यानतिशयात्ततः  ॥ [६.१]४३० ॥
तं प्राप्य तत्स्वभावत्वात्ततः स इति चेन्ननु  ।
नाशहेतुमवाप्यैवं नाशपक्षेऽपि न क्षतिः  ॥ [६.१]४३१ ॥
अन्ये तु जन्यमाश्रित्य सत्स्वह्बावाद्यपेक्षया  ।
एवमाहुरहेतुत्वं जनकस्यापि सर्वथा  ॥ [६.१]४३२ ॥
न सत्स्वभावजनकस्तद्वैफल्यप्रसंगतः  ।
जन्मायोगादिदोषाच्च नेतरस्यापि युज्यते  ॥ [६.१]४३३ ॥
न चोभयादिभावस्य विरोधासंभवादितः  ।
स्वनिवृत्त्यादिभावादौ कार्याभावादितोऽपरे  ॥ [६.१]४३४ ॥
न चाध्यक्षविरुद्धत्वं जनकत्वस्य मानतः  ।
असिद्धेस्तत्र नीत्या तद्व्यवहारनिषेधतः  ॥ [६.१]४३५ ॥
मानाभावे परेणापि व्यवहारो निषिध्यते  ।
सज्ज्ञानशब्दविषयस्तद्वदत्रापि दृश्यताम्  ॥ [६.१]४३६ ॥


(२) अर्थक्रियाकारित्व से क्षणिकवाद की सिद्धि नहीं

अर्थक्रियासमर्थत्वं क्षणिके यच्च गीयते  ।
उत्पत्त्यनन्तरं नाशाद्विज्ञेयं तदयुक्तिमत् ॥ [६.२]४३७ ॥
अर्थक्रिया यतोऽसौ वा तदन्या वा द्वयी गतिः  ।
तत्त्वे न तत्र सामर्थ्यमन्यतस्तत्समुद्भवात् ॥ [६.२]४३८ ॥
न स्वसंधारणे न्यायात्जन्मानन्तरनाशतः  ।
न च नाशेऽपि सद्युक्त्या तद्धेतोस्तत्समुद्भवात् ॥ [६.२]४३९ ॥
अन्यत्वेऽन्यस्य सामर्थ्यमन्यत्रेति न संगतम्  ।
ततोऽन्यभाव एवैतन्नासौ न्याय्यो दलं विना  ॥ [६.२]४४० ॥
नासत्सत्जायते यस्मादन्यसत्त्वस्थितावपि  ।
तस्यैव तु तथाभावे नन्वसिद्धोऽन्वयः कथम्  ॥ [६.२]४४१ ॥
भूतिर्यैषां क्रिया सोक्ता न चासौ युज्यते क्वचित् ।
कर्तृभोक्तृस्वभावत्व-विरोधादिति चिन्त्यताम्  ॥ [६.२]४४२ ॥
न चातीतस्य सामर्थ्यं तस्यामिति निदर्शितम्  ।
न चान्यो लौकिकः कश्चिच्छब्दार्थोऽत्रेत्ययुक्तिमत् ॥ [६.२]४४३ ॥


(३) रूपरूपान्तरण से क्षणिकवाद की सिद्धि नहीं

परिणामोऽपि नो हेतुः क्षणिकत्वप्रसाधने  ।
सर्वदैवान्यथात्वेऽपि तथाभावोपलब्धितः  ॥ [६.३]४४४ ॥
नार्थान्तरगमो यस्मात्सर्वथैव न चागमः  ।
परिणामः प्रमासिद्धः इष्टश्च खलु पण्डितैः  ॥ [६.३]४४५ ॥
यच्चेदमुच्यते ब्रूमो-ऽतादवस्थ्यमनित्यताम्  ।
एतत्तदेव न भवत्यतोऽन्यत्वे ध्रुवोऽन्वयः  ॥ [६.३]४४६ ॥
तदेव न भवत्येतत्तच्च न भवतीति च  ।
विरुद्धं हन्त किंचान्यदादिमत्तत्प्रसज्यते  ॥ [६.३]४४७ ॥
क्षीरनाशश्च दध्येव यद्दृष्टं गोरसान्वितम्  ।
न तु तैलाद्यतः सिद्ध परिणमोऽन्वयावहः  ॥ [६.३]४४८ ॥
नासत्सज्जायते जातु सच्चासत्सर्वथैव हि  ।
शक्त्यभावादतिव्याप्तेः सत्स्वभावत्वहानितः  ॥ [६.३]४४९ ॥
नित्येतरदतो न्यायात्तत्तथाभावतो हि तत् ।
प्रतीतिसचिवात्सम्यक्परिणामेन गम्यते  ॥ [६.३]४५० ॥


(४)अन्ततोगामी नाश से क्षणिकवाद की सिद्धि नहीं

अन्ते क्षयेक्षणं चाद्य-क्षणक्षयप्रसाधनम्  ।
तस्यैव तत्स्वभावत्वात्युज्यते न कदाचन  ॥ [६.४]४५१ ॥
आदौ क्षयस्वभावत्वे तत्रान्ते दर्शनं कथम्  ।
तुल्यापरापरोत्पत्ति-विप्रलम्भाद्यथोदितम्  ॥ [६.४]४५२ ॥
अन्ते क्षयेक्षणादादौ क्षयोऽदृष्टोऽनुमीयते  ।
सदृशेनावरुद्धत्वात्तद्ग्रहाधि तदग्रहः  ॥ [६.४]४५३ ॥
एतदप्यसदेवेति सदृशो भिन्न एव यत् ।
भेदाग्रहे कथं तस्य तत्स्वभावत्वतो ग्रहः  ॥ [६.४]४५४ ॥
तदर्थनियतोऽसौ यद्भेदमन्याग्रहाधि तत् ।
न गृह्णातीति चेत्तुल्यः सोऽपरेण कुतो गतिः  ॥ [६.४]४५५ ॥
तथागतेरभावे च वचस्तुच्छमिदं ननु  ।
सदृशेनावरुद्धत्वात्तद्ग्रहाधि तदग्रहः  ॥ [६.४]४५६ ॥
भावे चास्या बलादेकमनेकग्रहणात्मकम्  ।
अन्वयि ज्ञानमेष्टव्यं सर्वं तत्क्षणिकं कुतः  ॥ [६.४]४५७ ॥
ज्ञानेन गृह्यते चार्थो न चापि परदर्शने  ।
तदभावे तु तद्भावात्कदाचिदपि तत्त्वतः  ॥ [६.४]४५८ ॥
ग्रहणेऽपि यदा ज्ञानमपैत्युत्पत्त्यनन्तरम्  ।
तदा तत्तस्य जानाति क्षणिकत्वं कथं ननु  ॥ [६.४]४५९ ॥
तस्यैव तत्स्वभावत्वात्स्वात्मनैव तदुद्भवात् ।
यथा नीलादि ताद्रूप्यान्नैतन्मिथ्यात्वसंशयात् ॥ [६.४]४६० ॥
न चापि स्वानुमानेन धर्मभेदस्य संभवात् ।
लिङ्गधर्मातिपाताच्च तत्स्वभावाद्ययोगतः  ॥ [६.४]४६१ ॥
नित्यस्यार्थक्रियायोगोऽप्येवं युक्त्या न गम्यते  ।
सर्वमेवाविशेषेण विज्ञानं क्षणिकं यतः  ॥ [६.४]४६२ ॥
तथा चित्रस्वभावत्वान्न चार्थस्य न युज्यते  ।
अर्थक्रिया ननु न्यायात्क्रमाक्रमविभाविनी  ॥ [६.४]४६३ ॥


(५) क्षणिकवाद तथा विज्ञानवाद के प्रतिपादन का एक संभव आशयविशेष

अन्ये त्वभिदधत्येवमेतदास्थानिवृत्तये  ।
क्षणिकं सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः  ॥ [६.५]४६४ ॥
विज्ञानमात्रमप्येवं बाह्यासंगनिवृत्तये  ।
विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनार्हतः  ॥ [६.५]४६५ ॥
न चैतदपि न न्याय्यं यतो बुद्धो महामुनिः  ।
सुवैद्यवद्विना कार्यं द्रव्यासत्यं न भाषते  ॥ [६.५]४६६ ॥


(६) शून्यवाद खंडन

ब्रुवते शून्यमन्ये तु सर्वमेव विचक्षणाः  ।
न नित्यं नाप्यनित्यं यद्वस्तु युक्त्योपपद्यते  ॥ [६.६]४६७ ॥
नित्यमर्थक्रियाभावात्क्रमाक्रमविरोधतः  ।
अनित्यमपि चोत्पाद-व्ययाभावान्न जातुचित् ॥ [६.६]४६८ ॥
उत्पादव्ययबुद्धिश्च भ्रान्तानन्दादिकारणम्  ।
कुमार्याः स्वप्नवज्ज्ञेया पुत्रजन्मादिबुद्धिवत् ॥ [६.६]४६९ ॥
अत्राप्यभिदधत्यन्ये किमित्थं तत्त्वसाधनम्  ।
प्रमाणं विद्यते किञ्चिदाहोस्विच्छून्यमेव हि  ॥ [६.६]४७० ॥
शून्यं चेत्सुस्थितं तत्त्वमस्ति चेच्छून्यता कथम्  ।
तस्यैव ननु सद्भावादिति सम्यग्विचिन्त्यताम्  ॥ [६.६]४७१ ॥
प्रमाणमन्तरेणापि स्यादेवं तत्त्वसंस्थितिः  ।
अन्यथा नेति सुव्यक्तमिदमीश्वरचेष्टितम्  ॥ [६.६]४७२ ॥
उक्तं विहाय मानं चेच्छून्यतान्यस्य वस्तुनः  ।
शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः  ॥ [६.६]४७३ ॥
तस्याप्यशून्यतायां च प्राश्निकानां बहुत्वतः  ।
प्रभूताशून्यतापत्तिरनिष्टा संप्रसज्यते  ॥ [६.६]४७४ ॥
यावतामस्ति तन्मानं प्रतिपाद्यास्तथा च ये  ।
सन्ति ते सर्व एवेति प्रभूतानामशून्यता  ॥ [६.६]४७५ ॥
एवं च शून्यवादोऽपि तद्विनेयानुगुण्यतः  ।
अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना  ॥ [६.६]४७६ ॥

_____________________________________________

 

 


सप्तमस्तबकः


(१) जैनसम्मत नित्यानित्यत्ववाद का समर्थन

अन्ये त्वाहुरनाद्येव जीवाजीवात्मकं जगत् ।
सदुत्पादव्ययध्रौव्य-युक्तं शास्त्रकृतश्रमाः  ॥ [७.१]४७७ ॥
घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम्  ।
शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम्  ॥ [७.१]४७८ ॥
पयोवतो न दध्यत्ति न पयोऽत्ति दधिव्रतः  ।
अगोरसव्रतो नोभे तस्मात्तत्त्वं त्रयात्मकम्  ॥ [७.१]४७९ ॥
अत्राप्यभिदधत्यन्ये विरुद्धं हि मिथस्त्रयम्  ।
एकत्रैवैकदा नैतद्घटां प्राञ्चति जातुचिद् ॥ [७.१]४८० ॥
उत्पादोऽभूतभवनं विनाशस्तद्विपर्ययः  ।
ध्रौव्यं चोभयशून्यं यदेकदैकत्र तत्कथम्  ॥ [७.१]४८१ ॥
शोकप्रमोदमाध्यस्थ्यमुक्तं यच्चात्र साधनम्  ।
तदप्यसाम्प्रतं यत्तद्वासनाहेतुकं मतम्  ॥ [७.१]४८२ ॥
किञ्च स्याद्वादिनो नैव युज्यते निश्चयः क्वचित् ।
स्वतन्त्रापेक्षया तस्य न मानं मानमेव यत् ॥ [७.१]४८३ ॥
संसार्यपि न संसारी मुक्तोऽपि न स एव हि  ।
तदतद्रूपभावेन सर्वमेवाव्यवस्थितम्  ॥ [७.१]४८४ ॥
त आहुर्मुकुटोत्पादो न घटानाशधर्मकः  ।
स्वर्णान्न वान्य एवेति न विरुद्धं मिथस्त्रयम्  ॥ [७.१]४८५ ॥
न चोत्पादव्ययौ न स्तो ध्रौव्यवत्तद्धिया गतेः  ।
नास्तित्वे तु तयोर्ध्रौव्यं तत्त्वतोऽस्तीति न प्रमा  ॥ [७.१]४८६ ॥
न नास्ति ध्रौव्यमप्येवमविगानेन तद्गतेः  ।
अस्याश्च भ्रान्ततायां न जगत्यभ्रान्ततागतिः  ॥ [७.१]४८७ ॥
उत्पादोऽभूतभवनं स्वहेत्वन्तरधर्मकम्  ।
तथाप्रतीतियोगेन विनाशस्तद्विपर्ययः  ॥ [७.१]४८८ ॥
तथैतदुभयाधार-स्वभावं ध्रौव्यमित्यपि  ।
अन्यथा त्रितयाभाव एकदैकत्र किं न तत् ॥ [७.१]४८९ ॥
एकत्रैवैकदैवैतदित्थं त्रयमपि स्थितम्  ।
न्याय्यं भिन्ननिमित्तत्वात्तदभेदे न युज्यते  ॥ [७.१]४९० ॥
इष्यते च परैर्मोहात्तत्क्षणस्थितिधर्मिणि  ।
अभावेऽन्यतमस्यापि तत्र तत्त्वं न यद्भवेत् ॥ [७.१]४९१ ॥
भावमात्रं तदिष्टं चेत्तदित्थं निर्विशेषणम्  ।
क्षणस्थितिस्वभावत्वं न ह्युत्पादव्ययौ विना  ॥ [७.१]४९२ ॥
तदित्थं भूतमेवेति द्राग्नभस्तो न जातुचित् ।
भूत्वाभावश्च नाशोऽपि तदेवेति न लौकिकम्  ॥ [७.१]४९३ ॥
वासनाहेतुकं यच्च शोकादि परिकीर्तितम्  ।
तदयुक्तं यतश्चित्रा सा न जात्वनिबन्धना  ॥ [७.१]४९४ ॥
सदाभावेतरापत्तेरेकभावाच्च वस्तुनः  ।
तद्भावेऽतिप्रसंगादि नियमात्संप्रसज्यते  ॥ [७.१]४९५ ॥
न मानं मानमेवेति सर्वथानिश्चयश्च यः  ।
उक्तो न युज्यते सोऽपि यदेकान्तनिबन्धनः  ॥ [७.१]४९६ ॥
मानं तन्मानमेवेति प्रत्यक्षं लैङ्गिकं न तु  ।
तत्तच्चेन्मानमेवेति स्यात्तद्भावादृते कथम्  ॥ [७.१]४९७ ॥
न स्वसत्त्वं परासत्त्वं सदसत्त्वविरोधतः  ।
स्वसत्त्वासत्त्ववन्न्यायान्न च नास्त्येव तत्र तत् ॥ [७.१]४९८ ॥
परिकल्पितमेतच्चेन्न त्वित्थं तत्त्वतो न तत् ।
ततः क इह दोषश्चेन्न तु तद्भावसंगतिः  ॥ [७.१]४९९ ॥
अनेकान्तत एवातः सम्यग्मानव्यवस्थितेः  ।
स्याद्वादिनो नियोगेन युज्यते निश्चयः परः  ॥ [७.१]५०० ॥
एतेन सर्वमेवेति यदुक्तं तन्निराकृतम्  ।
शिष्यव्युत्पत्तये किञ्चित्तथाप्यपरमुच्यते  ॥ [७.१]५०१ ॥
संसारी चेत्स एवेति कथं मुक्तस्य संभवः  ।
मुक्तोऽपि चेत्स एवेति व्यपदेशोऽनिबन्धनः  ॥ [७.१]५०२ ॥
संसाराद्विप्रमुक्तो यन्मुक्त इत्यभिधीयते  ।
नैतत्तस्यैव तद्भावमन्तरेणोपपद्यते  ॥ [७.१]५०३ ॥
तस्यैव च तथाभावे तन्निवृत्तीतरात्मकम्  ।
द्रव्यपर्यायवद्वस्तु बलादेव प्रसिद्ध्यति  ॥ [७.१]५०४ ॥
लज्जते बाल्यचरितैर्बाल एव न चापि यत् ।
युवा न लज्जते चान्यस्तैरायत्यैव चेष्टते  ॥ [७.१]५०५ ॥
युवैव न च वृद्धोऽपि नान्यार्थं चेष्टनं च तत् ।
अन्वयादिमयं वस्तु तदभावोऽन्यथा भवेत् ॥ [७.१]५०६ ॥
अन्वयो व्यतिरेकश्च द्रव्यपर्यायसंज्ञितौ  ।
अन्योन्यव्याप्तितो भेदा-भेदवृत्त्यैव वस्तु तौ  ॥ [७.१]५०७ ॥
नान्योन्यव्याप्तिरेकान्त-भेदेऽभेदे च युज्यते  ।
अतिप्रसंगादैक्याच्च शब्दार्थानुपपत्तितः  ॥ [७.१]५०८ ॥
अन्योन्यमिति यद्भेदं व्याप्तिश्चाह विपर्ययम्  ।
भेदाभेदे द्वयोस्तस्मादन्योन्यव्याप्तिसंभवः  ॥ [७.१]५०९ ॥
एवं न्यायाविरुद्धेऽस्मिन् विरोधोद्भावनं नृणाम्  ।
व्यसनं धीजडत्वं वा प्रकाशयति केवलम्  ॥ [७.१]५१० ॥
न्यायात्खलु विरोधो यः स विरोध इहोच्यते  ।
यद्वदेकान्तभेदादौ तयोरेवाप्रसिद्धितः  ॥ [७.१]५११ ॥
मृद्द्रव्यं यन्न पिण्डादि-धर्मान्तरविवर्जितम्  ।
तद्वा तेन विनिर्मुक्तं केवलं गम्यते क्वचित् ॥ [७.१]५१२ ॥
ततोऽसत्तत्तथा न्यायादेकं चोभयसिद्धितः  ।
अन्यत्रातो विरोधस्तद्-अभावापत्तिलक्षणः  ॥ [७.१]५१३ ॥
जात्यन्तरात्मके चास्मिन्नानवस्थादिदूषणम्  ।
नियतत्वाद्विविक्तस्य भेदादेश्चाप्यसंभवात् ॥ [७.१]५१४ ॥
नाभेदो भेदरहितो भेदो वाभेदवर्जितः  ।
केवलोऽस्ति यतस्तेन कुतस्तत्र विकल्पनम्  ॥ [७.१]५१५ ॥
येनाकारेण भेदः किं तेनासावेव वा द्वयम्  ।
असत्त्वात्केवलस्येह सतश्च कथितत्वतः  ॥ [७.१]५१६ ॥
यतश्च तत्प्रमाणेन गम्यते ह्युभयात्मकम्  ।
अतोऽपि जातिमात्रं तदनवस्थादिकल्पनम्  ॥ [७.१]५१७ ॥
एवं ह्युभयदोषादि-दोषा अपि न दूषणम्  ।
सम्यग्जात्यन्तरत्वेन भेदाभेदप्रसिद्धितः  ॥ [७.१]५१८ ॥
एतेनैतत्प्रतिक्षिप्तं यदुक्तं पूर्वसूरिभिः  ।
विहायानुभवं मोहाज्जातियुक्त्यनुसारिभिः  ॥ [७.१]५१९ ॥
द्रव्यपर्याययोर्भेदे नैकस्योभयरूपता  ।
अभेदेऽन्यतरस्थान-निवृत्ती चिन्त्यतां कथम्  ॥ [७.१]५२० ॥
यन्निवृत्तौ न यस्येह निवृत्तिस्तत्ततो यतः  ।
भिन्नं नियमतो दृष्टं यथा कर्कः क्रमेलकात् ॥ [७.१]५२१ ॥
निवर्तते च पर्यायो न तु द्रव्यं ततो न सः  ।
अभिन्नो द्रव्यतोऽभेदे-ऽनिवृत्तिस्तत्स्वरूपवत् ॥ [७.१]५२२ ॥
प्रतिक्षिप्तं च यद्भेदा-भेदपक्षोऽन्य एव हि  ।
भेदाभेदविकल्पाभ्यां हन्त जात्यन्तरात्मकः  ॥ [७.१]५२३ ॥
जात्यन्तरात्मकं चैनं दोषास्ते समियुः कथम्  ।
भेदाभेदे च येऽत्यन्तं जातिभिन्ने व्यवस्थिताः  ॥ [७.१]५२४ ॥
किञ्चिन्निवर्ततेऽवश्यं तस्याप्यन्यत्तथा न यत् ।
अतस्तद्भेद एवात्र निवृत्त्याद्यन्यथा कथम्  ॥ [७.१]५२५ ॥
तस्येति योगसामर्थ्याद्भेद एवेति बाधितम्  ।
अभिन्नदेशस्तस्येति यत्तद्व्याप्त्या तथोच्यते  ॥ [७.१]५२६ ॥
अतस्तद्भेद एवेति प्रतीतिविमुखं वचः  ।
तस्यैव च तथाभावात्तन्निवृत्तीतरात्मकम्  ॥ [७.१]५२७ ॥
नानुवृत्तिनिवृत्तिभ्यां विना यदुपपद्यते  ।
तस्यैव हि तथाभावः सूक्ष्मबुद्ध्या विचिन्त्यताम्  ॥ [७.१]५२८ ॥
तस्यैव तु तथाभावे तदेव हि यतस्तथा  ।
भवत्यतो न दोषो नः कश्चिदप्युपपद्यते  ॥ [७.१]५२९ ॥
इत्थमालोचनं चेदमन्वयव्यतिरेकवत् ।
वस्तुनस्तत्स्वभावत्वात्तथाभावप्रसाधकम्  ॥ [७.१]५३० ॥
न च भेदोऽपि बाधायै तस्यानेकान्तवादिनः  ।
जात्यन्तरात्मकं वस्तु नित्यानित्यं यतो मतम्  ॥ [७.१]५३१ ॥
प्रत्यभिज्ञाबलाच्चैतदित्थं समवसीयते  ।
इयं च लोकसिद्धैव तदेवेदमिति क्षितौ  ॥ [७.१]५३२ ॥
न युज्यते च सन्न्यायादृते तत्परिणामिताम्  ।
कालादिभेदतो वस्त्व-भेदतश्च तथागतेः  ॥ [७.१]५३३ ॥
एकान्तैक्ये न नाना यन्नानात्वे चैकमप्यदः  ।
अतः कथं नु तद्भावः तदेतदुभयात्मकम्  ॥ [७.१]५३४ ॥
तस्यैव तु तथाभावे कथञ्चिद्भेदयोगतः  ।
प्रमातुरपि तद्भावात्युज्यते मुख्यवृत्तितः  ॥ [७.१]५३५ ॥
नित्यैकयोगतो व्यक्ति-भेदेऽप्येषा न संगता  ।
तदिहेति प्रसंगेन तदेवेदमयोगतः  ॥ [७.१]५३६ ॥
सादृश्याज्ञानतो न्याय्या न विभ्रमबलादपि  ।
एतद्द्वयाग्रहे युक्तं न च सादृश्यकल्पनम्  ॥ [७.१]५३७ ॥
न च भ्रान्तापि सद्बाधा-ऽभावादेव कदाचन  ।
योगिप्रत्ययतद्भावे प्रमाणं नास्ति किञ्चन  ॥ [७.१]५३८ ॥
नाना योगी विजानात्य-नाना नेत्यत्र न प्रमा  ।
देशनाया विनेयानु-गुण्येनापि प्रवृत्तितः  ॥ [७.१]५३९ ॥
या च लूनपुनर्जात-नखकेशतृणादिषु  ।
इयं संलक्ष्यते सापि तदाभासा न सैव हि  ॥ [७.१]५४० ॥
प्रत्यक्षाभासभावेऽपि नाप्रमाणं यथैव हि  ।
प्रत्यक्षं तद्वदेवेयं प्रमाणमवगम्यताम्  ॥ [७.१]५४१ ॥
मतिज्ञानविकल्पत्वान्न चानिष्टिरियं यतः  ।
एतद्बलात्ततः सिद्धं नित्यानित्यादि वस्तुनः  ॥ [७.१]५४२ ॥

__________________________________________

 

 

 

 

अष्टमस्तबकः


(१) ब्रह्माद्वैतवादखंडन

अन्ये त्वद्वैतमिच्छन्ति सद्ब्रह्मादिव्यपेषया  ।
सतो यद्भेदकं नान्यत्तच्च तन्मात्रमेव हि  ॥ [८.१]५४३ ॥
यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः  ।
संकीर्णमिव मात्राभिर्भिन्नाभिरभिमन्यते  ॥ [८.१]५४४ ॥
तथेदममलं ब्रह्म निर्विकल्पमविद्यया  ।
कलुषत्वमिवापन्नं भेदरूपं प्रकाशते  ॥ [८.१]५४५ ॥
अत्राप्येवं वदन्त्यन्ये अविद्या न सतः पृथक् ।
तच्च तन्मात्रमेवेति भेदाभासोऽनिबन्धनः  ॥ [८.१]५४६ ॥
सैवाथाभेदरूपापि भेदाभासनिबन्धनम्  ।
प्रमाणमन्तरेणैतदवगन्तुं न शक्यते  ॥ [८.१]५४७ ॥
भावेऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः  ।
ननु नाद्वैतमेवेति तदभावेऽप्रमाणकम्  ॥ [८.१]५४८ ॥
विद्याविद्यादिभेदाच्च स्वतन्त्रेणैव बाध्यते  ।
तत्संशयादियोगाच्च प्रतीत्या च विचिन्त्यताम्  ॥ [८.१]५४९ ॥
अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये  ।
अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः  ॥ [८.१]५५० ॥
न चैतत्बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थितेः  ।
संसारमोक्षभावाच्च तदर्थं यत्नसिद्धितः  ॥ [८.१]५५१ ॥
अन्यथा तत्त्वतोऽद्वैते हन्त संसारमोक्षयोः  ।
सर्वानुष्ठानवैयर्थ्यमनिष्टं सम्प्रसज्यते  ॥ [८.१]५५२ ॥

 


नवमस्तबकः


(१)मोक्ष की संभावना तथा मोक्ष के साधन

अन्ये पुनर्वदन्त्येवं मोक्ष एव न विद्यते  ।
उपायाभावतः किं वा न सदा सर्वदेहिनाम्  ॥ [९.१]५५३ ॥
कर्मादिपरिणत्यादि-सापेक्षो यद्यसौ ततः  ।
अनादिमत्त्वात्कर्मादि-परिणत्यादि किं तथा  ॥ [९.१]५५४ ॥
तस्यैव चित्ररूपत्वात्तत्तथेति न युज्यते  ।
उत्कृष्टा या स्थितिस्तस्य यज्जातानेकशः किल  ॥ [९.१]५५५ ॥
अत्रापि वर्णयन्त्यन्ये विद्यते दर्शनादिकः  ।
उपायो मोक्षतत्त्वस्य परः सर्वज्ञभाषितः  ॥ [९.१]५५६ ॥
दर्शनं मुक्तिबीजं च सम्यक्त्वं तत्त्ववेदनम्  ।
दुःखान्तकृत्सुखारम्भः पर्यायास्तस्य कीर्तिताः  ॥ [९.१]५५७ ॥
अनादिभव्यभावस्य तत्स्वभावत्वयोगतः  ।
उत्कृष्टाद्यास्वतीतासु तथा कर्मस्थितिष्वलम्  ॥ [९.१]५५८ ॥
तद्दर्शनमवाप्नोति कर्मग्रन्थिं सुदारुणम्  ।
निर्भिद्य शुभभावेन कदाचित्कश्चिदेव हि  ॥ [९.१]५५९ ॥
सति चास्मिन्नसौ धन्यः सम्यग्दर्शनसंयुतः  ।
तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ  ॥ [९.१]५६० ॥
स पश्यत्यस्य यद्रूपं भावतो बुद्धिचक्षुषा  ।
सम्यक्शास्त्रानुसारेण रूपं नष्टाक्षिरोगवत् ॥ [९.१]५६१ ॥
तद्दृष्ट्वा चिन्तयत्येवं प्रशान्तेनान्तरात्मना  ।
भावगर्भं यथाभावं परं संवेगमाश्रितः  ॥ [९.१]५६२ ॥
जन्ममृत्युजराव्याधि-रोगशोकाद्युपद्रुतः  ।
क्लेशाय केवलं पुंसामहो भीमो महोदधिः  ॥ [९.१]५६३ ॥
सुखाय तु परं मोक्षो जन्मादिक्लेशवर्जितः  ।
भयशक्त्या विनिर्मुक्तो व्याबाधावर्जितः सदा  ॥ [९.१]५६४ ॥
हेतुर्भवस्य हिंसादिर्दुःखाद्यन्वयदर्शनात् ।
मुक्तेः पुनरहिंसादिर्व्याबाधाविनिवृत्तितः  ॥ [९.१]५६५ ॥
बुद्ध्वैवं भवनैर्गुण्यं मुक्तेश्च गुणरूपताम्  ।
तदर्थं चेष्टते नित्यं विशुद्धात्मा यथागमम्  ॥ [९.१]५६६ ॥
दुष्करं क्षुद्रसत्त्वानामनुष्ठानं करोत्यसौ  ।
मुक्तौ दृढानुरागत्वात्कामीव विनितान्तरे  ॥ [९.१]५६७ ॥
उपादेयविशेषस्य न यत्सम्यक्प्रसाधनम्  ।
दुनोति चेतोऽनुष्ठानं तद्भावप्रतिबन्धतः  ॥ [९.१]५६८ ॥
ततश्च दुष्करं तन्न सम्यगालोच्यते यदा  ।
अतोऽन्यद्दुष्करं न्यायाधेयवस्तुप्रसाधकम्  ॥ [९.१]५६९ ॥
व्याधिग्रस्तो यथारोग्य-लेशमास्वादयन् बुद्धः  ।
कष्टेऽप्युपक्रमे धीरः सम्यक्प्रीत्या प्रवर्तते  ॥ [९.१]५७० ॥
संसारव्याधिना ग्रस्तस्तद्वज्ज्ञेयो नरोत्तमः  ।
शमारोग्यलवं प्राप्य भावतस्तदुपक्रमे  ॥ [९.१]५७१ ॥
प्रवर्तमान एवं च यथाशक्ति स्थिराशयः  ।
शुद्धं चारित्रमासाद्य केवलं लभते क्रमात् ॥ [९.१]५७२ ॥
ततः स सर्वविद्भूत्वा भवोपग्राहिकर्मणः  ।
ज्ञानयोगात्क्षयं कृत्वा मोक्षमाप्नोति शाश्वतम्  ॥ [९.१]५७३ ॥
ज्ञानयोगस्तपः शुद्धमित्यादि यदुदीरितम्  ।
ऐदम्पर्येण भावार्थस्तस्यायमभिधीयते  ॥ [९.१]५७४ ॥
ज्ञानयोगस्य योगीन्द्रैः परा काष्ठा प्रकीर्तिता  ।
शैलेशीसंज्ञितं स्थैर्यं ततो मुक्तिरसंशयम्  ॥ [९.१]५७५ ॥
धर्मस्तच्चात्मधर्मत्वान्मुक्तिदः शुद्धिसाधनात् ।
अक्षयोऽप्रतिपातित्वात्सदा मुक्तौ तथा स्थितेः  ॥ [९.१]५७६ ॥
चारित्रपरिणामस्य निवृत्तिर्न च सर्वथा  ।
सिद्ध उक्तो यतः शास्त्रे न चारित्री न चेतरः  ॥ [९.१]५७७ ॥
न चावस्थानिवृत्त्येह निवृत्तिस्तस्य युज्यते  ।
समयातिक्रमे यद्वत्सिद्धभावश्च तत्र वै  ॥ [९.१]५७८ ॥
ज्ञानयोगादतो मुक्तिरिति सम्यग्व्यवस्थितम्  ।
तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् ॥ [९.१]५७९ ॥

_________________________________________

 


 

 दशमस्तबकः


(१) मीमांसक के सर्वज्ञताखंडन का खंडन

अत्राप्यभिदधत्यन्ये सर्वज्ञो नैव विद्यते  ।
तद्ग्राहकप्रमाभावादिति न्यायानुसारिणः  ॥ [१०.१]५८० ॥
प्रत्यक्षेण प्रमाणेन सर्वज्ञो नैव गृह्यते  ।
लिङ्गमप्यविनाभावि तेन किञ्चिन्न विद्यते  ॥ [१०.१]५८१ ॥
न चागमेन यदसौ विध्यादिप्रतिपादकः  ।
अप्रत्यक्षत्वतो नैवो-पमानेनापि गम्यते  ॥ [१०.१]५८२ ॥
नार्थापत्त्यापि सर्वोऽर्थस्तं विनाप्युपपद्यते  ।
प्रमाणपञ्चकावृत्तेस्तत्राभावप्रमाणता  ॥ [१०.१]५८३ ॥
धर्माधर्मव्यवस्था तु वेदाख्यादागमात्किल  ।
अपौरुषेयोऽसौ यस्माधेतुदोषविवर्जितः  ॥ [१०.१]५८४ ॥
आह चालोकवद्वेदे सर्वसाधारणे सति  ।
धर्माधर्मपरिज्ञाता किमर्थं कल्प्यते नरः  ॥ [१०.१]५८५ ॥
ईष्टापूर्तादिभेदोऽस्मात्सर्वलोकप्रतिष्ठितः  ।
व्यवहारप्रसिद्धयैव यथैव दिवसादयः  ॥ [१०.१]५८६ ॥
ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः  ।
अन्तर्वेद्यां तु यद्दत्तमिष्टं तदभिधीयते  ॥ [१०.१]५८७ ॥
वापीकूपतङागानि देवतायतनानि च  ।
अन्नप्रदानमित्येतत्पूर्त्तमित्यभिधीयते  ॥ [१०.१]५८८ ॥
अतोऽपि शुक्लं यद्वृत्तं निरीहस्य महात्मनः  ।
ध्यानादि मोक्षफलदं श्रेयस्तदभिधीयते  ॥ [१०.१]५८९ ॥
वर्णाश्रमव्यवस्थापि सर्वा तत्प्रभवैव हि  ।
अतीन्द्रियार्थद्रष्टा तन्नास्ति किञ्चित्प्रयोजनम्  ॥ [१०.१]५९० ॥
अत्रापि ब्रुवते केचिदित्थं सर्वज्ञवादिनः  ।
प्रमाणपञ्चकावृत्तिः कथं तत्रोपपद्यते  ॥ [१०.१]५९१ ॥
सर्वार्थविषयं तच्चेत्प्रत्यक्षं तन्निषेधकृत् ।
अभावः कथमेतस्य न चेदत्राप्यदः समम्  ॥ [१०.१]५९२ ॥
धर्मादयोऽपि चाध्यक्षाः ज्ञेयभावाद्घटादिवत् ।
कस्यचित्सर्व एवेति नानुमानं न विद्यते  ॥ [१०.१]५९३ ॥
आगमादपि तत्सिद्धिर्यदसौ चोदनाफलम्  ।
प्रामाण्यं च स्वतस्तस्य नित्यत्वं च श्रुतेरिव  ॥ [१०.१]५९४ ॥
हृद्गताशेषसंशीति-निर्णयात्तद्ग्रहे पुनः  ।
उपमान्यग्रहे तत्र न चान्यत्रापि चान्यथा  ॥ [१०.१]५९५ ॥
शास्त्रादतीन्द्रियगतेरर्थापत्त्यापि गम्यते  ।
अन्यथा तत्र नाश्वासश्छद्मस्थस्योपजायते  ॥ [१०.१]५९६ ॥
प्रमाणपञ्चकावृत्तिरेवं तत्र न युज्यते  ।
तथाप्यभावप्रामाण्यमिति ध्यान्ध्यविजृम्भितम्  ॥ [१०.१]५९७ ॥
वेदाद्धर्मादिसंस्थापि हन्तातीन्द्रियदर्शिनम्  ।
विहाय गम्यते सम्यक्कुत एतद्विचिन्त्यताम्  ॥ [१०.१]५९८ ॥
न वृद्धसम्प्रदायेन छिन्नमूलत्वयोगतः  ।
न चार्वाग्दर्शिना तस्यातीन्द्रियार्थोऽवसीयते  ॥ [१०.१]५९९ ॥
प्रामाण्यं रूपविषये संप्रदाये न युक्तिमत् ।
यथानादिमदन्धानां तथात्रापि निरूप्यताम्  ॥ [१०.१]६०० ॥
न लौकिकपदार्थेन तत्पदार्थस्य तुल्यता  ।
निश्चेतुं पार्यतेऽन्यत्र तद्विपर्ययदर्शनात् ॥ [१०.१]६०१ ॥
नित्यत्वापौरुषेयत्वाद्यस्ति किञ्चिदलौकिकम्  ।
तत्रान्यत्राप्यतः शङ्का विदुषो न निवर्तते  ॥ [१०.१]६०२ ॥
तन्निवृत्तौ च नोपायो विनातीन्द्रियवेदिनम्  ।
एवं च कृत्वा साध्वेतत्कीर्तितं धर्मकीर्तिना  ॥ [१०.१]६०३ ॥
स्वयं रागादिमान्नार्थं वेत्ति वेदस्य नान्यतः  ।
न वेदयति वेदोऽपि वेदार्थस्य गतिः कुतः  ॥ [१०.१]६०४ ॥
तेनाग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ  ।
खादेत्श्वमांसमित्येष नार्थ इत्यत्र का प्रमा  ॥ [१०.१]६०५ ॥
प्रदीपादिवदिष्टश्चेत्तच्छब्दोऽर्थप्रकाशकः  ।
स्वत एव प्रमाणं न किञ्चिदत्रापि विद्यते  ॥ [१०.१]६०६ ॥
विपरीतप्रकाशश्च ध्रुवमापद्यते क्वचित् ।
तथा हीन्दीवरे दीपः प्रकाशयति रक्तताम्  ॥ [१०.१]६०७ ॥
तस्मान्न चाविशेषेण प्रतीतिरुपजायते  ।
सङ्केतसव्यपेक्षत्वे स्वत एवेत्ययुक्तिमत् ॥ [१०.१]६०८ ॥
साधुर्न वेति सङ्केतो न चाशङ्का निवर्तते  ।
तद्वैचित्र्योपलब्धेश्च स्वाशयाभिनिवेशतः  ॥ [१०.१]६०९ ॥
व्याख्याप्यपौरुषेय्यस्य मानाभावान्न सङ्गता  ।
मिथो विरुद्धभावाच्च तत्साधुत्वाद्यनिश्चितेः  ॥ [१०.१]६१० ॥
नान्यप्रमाणसंवादात्तत्साधुत्वविनिश्चयः  ।
सोऽतीन्द्रिये न यन्न्याय्यस्तत्तद्भावविरोधतः  ॥ [१०.१]६११ ॥
तस्माद्व्याख्यानमस्येदं स्वाभिप्रायनिवेदनम्  ।
जैमिन्यादेर्न तुल्यं किं वचनेनापरेण वः  ॥ [१०.१]६१२ ॥
एष स्थाणुरयं मार्ग इति वक्तीह कश्चन  ।
अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम्  ॥ [१०.१]६१३ ॥
न चाप्यपौरुषेयोऽसौ घटते सूपपत्तितः  ।
वक्तृव्यापारवैकल्ये तच्छब्दानुपलब्धितः  ॥ [१०.१]६१४ ॥
वक्तृव्यापारभावेति तद्भावे लौकिकं न किम्  ।
अपौरुषेयमिष्टं वो वचो द्रव्यव्यपेक्षया  ॥ [१०.१]६१५ ॥
दृश्यमानेऽपि चाशङ्कादृश्यकर्तृसमुद्भवा  ।
नातीन्द्रियार्थद्रषारमन्तरेण निवर्तते  ॥ [१०.१]६१६ ॥
पापादत्रेदृशी बुद्धिर्न पुण्यादिति न प्रमा  ।
न लोको हि विगानत्वात्तद्बहुत्वाद्यनिश्चितेः  ॥ [१०.१]६१७ ॥
बहूनामपि संमोह-भावान्मिथ्याप्रवर्तनात् ।
मानसंख्याविरोधाच्च कथमित्थमिदं ननु  ॥ [१०.१]६१८ ॥
अतीन्द्रियार्थद्रष्टा तु पुमान् कश्चिद्यदीष्यते  ।
संभवद्विषयापि स्यादेवंभूतार्थकल्पना  ॥ [१०.१]६१९ ॥
अपौरुषेयताप्यस्य नान्यतो ह्यवगम्यते  ।
कर्तुरस्मरणादीनां व्यभिचारादिदोषतः  ॥ [१०.१]६२० ॥
नाभ्यास एवमादीनामपि कर्ताविगानतः  ।
स्मर्यते च विगानेन हन्तेहाप्यष्टकादयः  ॥ [१०.१]६२१ ॥
अभ्यासः कर्मणां सत्यमुत्पादयति कौशलम्  ।
स्वकृताध्ययनस्यापि तद्भावो न विरुध्यते  ।
गौरवापादनार्थं च तथा स्यादनिवेदनम्  ॥ [१०.१]६२२ ॥
मन्त्रादीनां च सामर्थ्यं शाबराणामपि स्फुटम्  ।
प्रतीतं सर्वलोकेऽपि न चाप्यव्यभिचारि तत् ॥ [१०.१]६२३ ॥
वेदेऽपि पठ्यते ह्येष महात्मा तत्र तत्र यत् ।
स च मानमतोऽप्यस्यासत्त्वं वक्तुं न युज्यते  ॥ [१०.१]६२४ ॥
न चाप्यतीन्द्रियार्थत्वाज्ज्यायो विषयकल्पनम्  ।
असाक्षाद्दर्शिनस्तत्र रूपेऽन्धस्येव सर्वथा  ॥ [१०.१]६२५ ॥
सर्वज्ञेन ह्यभिव्यक्तात्सर्वार्थादागमात्परा  ।
धर्माधर्मव्यवस्थेयं युज्यते नान्यतः क्वचित् ॥ [१०.१]६२६ ॥


२. बौद्ध के सर्वज्ञताखंडन का खंडन

अत्रापि प्राज्ञ इत्यन्य इत्थमाह सुभाषितम्  ।
इष्टोऽयमर्थः शक्येत ज्ञातुं सोऽतिशयो यदि  ॥ [१०.२]६२७ ॥
अयमेवं न वेत्यन्य-दोषो निर्दोषतापि वा  ।
दुर्लभत्वात्प्रमाणानां दुर्बोधेत्यपरे विदुः  ॥ [१०.२]६२८ ॥
अत्रापि ब्रुवते वृद्धाः सिद्धमव्यभिचार्यपि  ।
लोके गुणादिविज्ञानं सामान्येन महात्मनाम्  ॥ [१०.२]६२९ ॥
तन्नीतिप्रतिपत्त्यादेरन्यथा तन्न युक्तिमत् ।
विशेषज्ञानमप्येवं तद्वदभ्यासतो न किम्  ॥ [१०.२]६३० ॥
दोषाणां ह्रासदृष्ट्येह तत्सर्वक्षयसंभवात् ।
तत्सिद्धौ ज्ञायते प्राज्ञैस्तस्यातिशय इत्यपि  ॥ [१०.२]६३१ ॥
हृद्गताशेषसंशीति-निर्णयादिप्रभावतः  ।
तदात्वे वर्तमाने तु तद्व्यक्तार्थाविरोधतः  ॥ [१०.२]६३२ ॥
न चास्यादर्शनेऽप्यद्य साम्राज्यस्येव नास्तिता  ।
संभवो न्याययुक्तस्तु पूर्वमेव निदर्शितः  ॥ [१०.२]६३३ ॥
प्रतिभालोचनं तावदिदानीमप्यतीन्द्रिये  ।
सुवैद्यसंयतादीनामविसंवादि दृश्यते  ॥ [१०.२]६३४ ॥
एवं तत्रापि तद्भावे न विरोधोऽस्ति कश्चन  ।
तद्व्यक्तार्थाविरोधादौ ज्ञानभावाच्च साम्प्रतम्  ॥ [१०.२]६३५ ॥
सर्वत्र दृष्टे संवादाददृष्टे नोपजायते  ।
ज्ञातुर्विसंवादाशङ्का तद्वैशिष्ट्योपलब्धितः  ॥ [१०.२]६३६ ॥
वस्तुस्थित्यापि तत्तादृग्न विसंवादकं भवेत् ।
यथोत्तरं तथा दृष्टेरिति चैतन्न सांप्रतम्  ॥ [१०.२]६३७ ॥
सिद्ध्येत्प्रमाणं यद्येवमप्रमाणमथेह किम्  ।
न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि  ॥ [१०.२]६३८ ॥
यत एकं न सत्यार्थं किन्तु सर्वं यथाश्रुतम्  ।
यत्रागमे प्रमाणं स इष्यते पण्डितैर्जनैः  ॥ [१०.२]६३९ ॥
आत्मा नामी पृथक्कर्म तत्संयोगाद्भवोऽन्यथा  ।
मुक्तिर्हिंसादयो मुख्यास्तन्निवृत्तिः ससाधना  ॥ [१०.२]६४० ॥
अतीन्द्रियार्थसंवादो विशुद्धो भावनाविधिः  ।
यत्रेदं युज्यते सर्वं योगिव्यक्तं स आगमः  ॥ [१०.२]६४१ ॥
अधिकार्यपि चास्येह स्वयमज्ञोऽपि यः पुमान्  ।
कथितज्ञः पुनर्धीमांस्तद्वैयर्थ्यमतोऽन्यथा  ॥ [१०.२]६४२ ॥
परिचित्तादिधर्माणां गत्युपायाभिधानतः  ।
सर्वार्थविषयोऽप्येष इति तद्भावसंस्थितिः  ॥ [१०.२]६४३ ॥

_____________________________________________

 

 

 

एकादशस्तबकः


१. शब्दार्थसंबंधखंडन का खंडन

अन्ये त्वभिदधत्यत्र युक्तिमार्गकृतश्रमाः  ।
शब्दार्थयोर्न संबन्धो वस्तुस्थित्येह विद्यते  ॥ [११.१]६४४ ॥
न तादात्म्यं द्वयाभाव-प्रसंगाद्बुद्धिभेदतः  ।
शस्त्राद्युक्तौ मुखच्छेदादिसंगात्समयस्थितेः  ॥ [११.१]६४५ ॥
अर्थासंनिधिभावेन तद्दृष्टावन्यथोक्तितः  ।
अन्याभावनियोगाच्च न तदुत्पत्तिरप्यलम्  ॥ [११.१]६४६ ॥
परमार्थैकतानत्वे शब्दानामनिबन्धना  ।
न स्यात्प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु  ॥ [११.१]६४७ ॥
अतीताजातयोर्वापि न च स्यादनृतार्थता  ।
वाचः कस्याश्चिदित्येषा बौद्धार्थविषया मता  ॥ [११.१]६४८ ॥
वाच्य इत्थमपोहस्तु न जातिः पारमार्थिकी  ।
तदयोगाद्विना भेदं तदन्येभ्यस्तथास्थितेः  ॥ [११.१]६४९ ॥
सति चास्मिन् किमन्येन शब्दात्तद्वत्प्रतीतितः  ।
तदभावे न तद्वत्त्वं तद्भ्रान्तत्वात्तथा न किम्  ॥ [११.१]६५० ॥
अभ्रान्तजातिवादे तु न दण्डाद्दण्डिवद्गतिः  ।
तद्वत्युभयसाङ्कर्ये न भेदाद्वोऽपि तादृशम्  ॥ [११.१]६५१ ॥
अन्ये त्वभिदधत्येवं वाच्यवाचकलक्षणः  ।
अस्ति शब्दार्थयोर्योगस्तत्प्रतीत्यादितस्ततः  ॥ [११.१]६५२ ॥
नैतद्दृश्यविकल्प्यर्थैकीकरणेन भेदतः  ।
एकप्रमात्रभावाच्च तयोस्तत्त्वाप्रसिद्धितः  ॥ [११.१]६५३ ॥
शब्दात्तद्वासनाबोधो विकल्पस्य ततो हि यत् ।
तदित्थमुच्यतेऽस्माभिर्न ततस्तदसिद्धितः  ॥ [११.१]६५४ ॥
विशिष्टं वासनाजन्म बोधस्तच्च न जातुचित् ।
अन्यतस्तुल्यकालादेर्विशेषोऽन्यस्य नो यतः  ॥ [११.१]६५५ ॥
निष्पन्नत्वादसत्त्वाच्च द्वाभ्यामन्योदयो न सः  ।
उपादानाविशेषेण तत्स्वभावं तु तत्कुतः  ॥ [११.१]६५६ ॥
न ह्युक्तवत्स्वहेतोस्तु स्याच्च नाशः सहेतुकः  ।
इत्थं प्रकल्पने न्यायादत एव न युक्तिमत् ॥ [११.१]६५७ ॥
अनभ्युपगमाच्चेह तादात्म्यादिसमुद्भवाः  ।
न दोषा नो न चान्येऽपि तद्भेदाधेतुभेदतः  ॥ [११.१]६५८ ॥
वन्ध्येतरादिको भेदो रामादीनां यथैव हि  ।
मृषासत्यादिशब्दानां तद्वत्तद्धेतुभेदतः  ॥ [११.१]६५९ ॥
परमार्थैकतानत्वेऽप्यन्यदोषोपवर्णनम्  ।
प्रत्याख्यातं हि शब्दानामिति सम्यग्विचिन्त्यताम्  ॥ [११.१]६६० ॥
अन्यदोषो यदन्यस्य युक्त्या युक्तो न जातुचित् ।
वक्त्यवर्णं न बुद्धानां भिक्ष्वादिः शबरादिवत् ॥ [११.१]६६१ ॥
ज्ञायते तद्विशेषस्तु प्रमाणेतरयोरिव  ।
स्वरूपालोचनादिभ्यस्तथा दर्शनतो भुवि  ॥ [११.१]६६२ ॥
समयोपेक्षणं चेह तत्क्षयोपशमं विना  ।
तत्कर्तृत्वेन सफलं योगिनां तु न विद्यते  ॥ [११.१]६६३ ॥
सर्ववाचकभावत्वाच्छब्दानां चित्रशक्तितः  ।
वाच्यस्य च तथान्यत्र नागोऽस्य समयेऽपि हि  ॥ [११.१]६६४ ॥
अनन्तधर्मकं वस्तु तद्धर्मः कश्चिदेव च  ।
वाच्यो न सर्व एवेति ततश्चैतन्न बाधकम्  ॥ [११.१]६६५ ॥
अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः  ।
शब्दात्प्रत्येति भिन्नाक्षः न तु प्रत्यक्षमीक्षते  ॥ [११.१]६६६ ॥
अन्यथा दाहसम्बन्धाद्दाहं दग्धोऽभिमन्यते  ।
अन्यथा दाहशब्देन दाहार्थः संप्रतीयते  ॥ [११.१]६६७ ॥
इन्द्रियग्राह्यतोऽन्योऽपि वाच्योऽसौ न च दाहकृत् ।
तथाप्रतीतितो भेदाभेदसिद्ध्यैव वस्तु नः  ॥ [११.१]६६८ ॥
अपोहस्यापि वाच्यत्वमुपपत्त्या न युज्यते  ।
असत्त्वाद्वस्तुभेदेन बुद्ध्या तस्यापि बोधतः  ॥ [११.१]६६९ ॥
क्षणिकाः सर्वसंस्कारा अन्यथैतद्विरुध्यते  ।
अपोहो यन्न संस्कारो न च क्षणिक इष्यते  ॥ [११.१]६७० ॥
एवं च वस्तुनस्तत्त्वं हन्त शास्त्रादनिश्चितम्  ।
तदभावे च सुव्यक्तं तदेतत्तुषखण्डनम्  ॥ [११.१]६७१ ॥
बुद्धावर्णेऽपि चादोषः संस्तवेऽप्यगुणस्तथा  ।
आह्वानाप्रतिपत्त्यादि शब्दार्थायोगतो ध्रुवम्  ॥ [११.१]६७२ ॥


(२) ज्ञान तथा किर्या के बीच प्राधान्याप्राधान्य का प्रश्न

ज्ञानादेव नियोगेन सिद्धिमिच्छन्ति केचन  ।
अन्ये क्रियात एवेति द्वाभ्यामन्ये विचक्षणाः  ॥ [११.२]६७३ ॥
ज्ञानं हि फलदं पुंसां न किर्या फलदा मता  ।
मिथ्याज्ञानात्प्रवृत्तस्य फलप्राप्तेरसंभवात् ॥ [११.२]६७४ ॥
ज्ञानहीनाश्च यल्लोके दृश्यन्ते हि महाक्रियाः  ।
ताम्यन्तेऽतिचिरं कालं क्लेशायासपरायणाः  ॥ [११.२]६७५ ॥
ज्ञानवन्तश्च तद्वीर्यात्तत्र तत्र स्वकर्मणि  ।
विशिष्टफलयोगेन सुखिनोऽल्पक्रिया अपि  ॥ [११.२]६७६ ॥
केवलज्ञानभावे च मुक्तिरप्यन्यथा न यत् ।
क्रिययावतोऽपि यत्नेन तस्मात्ज्ञानादसौ मता  ॥ [११.२]६७७ ॥
क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम्  ।
यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखिनो भवेत् ॥ [११.२]६७८ ॥
क्रियाहीनाश्च यल्लोके दृश्यन्ते ज्ञानिनोऽपि हि  ।
कृपायतनमन्येषां सुखसम्पद्विवर्जिताः  ॥ [११.२]६७९ ॥
क्रियोपेताश्च तद्योगादुदग्रफलभावतः  ।
मूर्खा अपि हि भूयांसो विपश्चित्स्वामिनोऽनघाः  ॥ [११.२]६८० ॥
क्रियातिशययोगाच्च मुक्तिः केवलिनोऽपि हि  ।
नान्यथा केवलित्वेऽपि तदसौ तन्निबन्धना  ॥ [११.२]६८१ ॥
फलं ज्ञानक्रियायोगे सर्वमेवोपपद्यते  ।
तयोरपि च तद्भावः परमार्थेन नान्यथा  ॥ [११.२]६८२ ॥
साध्यमर्थं परिज्ञाय यदि सम्यक्प्रवर्तते  ।
ततस्तत्साधयत्वेव तथा चाह बृहस्पतिः  ॥ [११.२]६८३ ॥
सम्यक्प्रवृत्तिः साध्यस्य प्राप्त्युपायोऽभिधीयते  ।
तदप्राप्तावुपायत्वं न तस्या उपपद्यते  ॥ [११.२]६८४ ॥
असाध्यारम्भिणस्तेन सम्यग्ज्ञानं न जातुचित् ।
साध्यानारम्भिणश्चेति द्वयमन्योऽन्य्संगतम्  ॥ [११.२]६८५ ॥
अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते  ।
आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते  ॥ [११.२]६८६ ॥
चिन्तामणिस्वरूपज्ञो दौर्गत्योपहतो न हि  ।
तत्प्राप्त्युपायवैचित्र्ये मुक्त्वान्यत्र प्रवर्तते  ॥ [११.२]६८७ ॥
न चासौ तत्स्वरूपज्ञो योऽन्यत्रापि प्रवर्तते  ।
मालतीगन्धगणविद्दर्भे न रमते ह्यलिः  ॥ [११.२]६८८ ॥
मुक्तिश्च केवलज्ञान-क्रियातिशयजैव हि  ।
तद्भाव एव तद्भावात्तदभावेऽप्यभावतः  ॥ [११.२]६८९ ॥
न विविक्तं द्वयं सम्यगेतदन्यैरपीष्यते  ।
स्वकार्यसाधनाभावाद्यथाह व्यासमहर्षिः  ॥ [११.२]६९० ॥
बठरश्च तपस्वी च शूरश्चाप्यकृतव्रणः  ।
मद्यपा स्त्री सतीत्वं च राजन्न श्रद्दधाम्यहम्  ॥ [११.२]६९१ ॥


(३) मोक्ष का स्वरूप

मृत्यादिवर्जिता चेह मुक्तिः कर्मपरिक्षयात् ।
नाकर्मणः क्वचिज्जन्म यथोक्तं पूर्वसूरिभिः  ॥ [११.३]६९२ ॥
दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः  ।
कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः  ॥ [११.३]६९३ ॥
जन्माभावे जरामृत्योरभावो हेत्वभावतः  ।
तदभावे च निःशेष-दुःखाभावः सदैव हि  ॥ [११.३]६९४ ॥
परमानन्दभावश्च तदभावे हि शाश्वतः  ।
व्याबाधाभावसंसिद्धः सिधानां सुखमिष्यते  ॥ [११.३]६९५ ॥
सर्वद्वन्द्वविनिर्मुक्ताः सर्वाबाधाविवर्जिताः  ।
सर्वसंसिद्धसत्कार्याः सुखं तेषां किमुच्यते  ॥ [११.३]६९६ ॥
अमूर्ताः सर्वभावज्ञास्त्रैलोक्योपरिवर्तिनः  ।
क्षीणसङ्गा महात्मानस्ते सदा सुखमासते  ॥ [११.३]६९७ ॥

एता वार्ता उपश्रुत्य भावयन् बुद्धिमान्नरः  ।
इहोपन्यस्तशास्त्राणां भावार्थमधिगच्छति  ॥ [११.४]६९८ ॥
शतानि सप्त श्लोकानामनुष्टुप्छन्दसां कृतम्  ।
आचार्यहरिभद्रेण शास्त्रवार्तासमुच्चयम्  ॥ [११.४]६९९ ॥
कृत्वा प्रकरणमेतद्यदवाप्तं किञ्चिदिह मया कुशलम्  ।
भवविरहबीजमनघं लभतां भव्यो जनस्तेन  ॥ [११.४]७०० ॥
यं बुद्धं बोधयन्तः शिखिजलमरुतस्तुष्टुवुर्लोकवृत्त्यै ज्ञानं यत्रोदपादि प्रतिहतभुवनालोकवन्ध्यत्वहेतु  ।
सर्वप्राणिस्वभाषापरिणतिसुभगं कौशलं यस्य वाचां तस्मिन् देवाधिदेवे भगवति भवताधीयतां भक्तिरागः  ॥ [११.४]७०१ ॥

\Z

_____________________________________________