॥ गुरुदक्षिणा ॥
गुरु बलायुत धीमय छेकान् । निरत दानरतान् प्रिय भूपान् ।
महितराष्ट्र हितैक महर्षीन् । भरतवर्ष सुखाय नमामि ॥
नान्द्यन्ते
सूत्रधारः -- (नेपथ्याभियुखं विलोक्य) अये विद्यावति प्रिये । (इति आहंवयति)।
नटी -- (नेपथ्ये) शान्तं भोः आगच्छामि ।
सूत्रधारः -- कालातीतो भवति त्वरस्व ।
नटी -- (ससम्भ्रमं प्रविश्य) एषाऽस्मि देवः । निवेदयतु भवान् ।
सूत्रधारः -- प्रिये विद्यावति अद्य का तिथिः ।
नटी -- न जाने ।
सूत्रधारः -- तत्र भवती अद्य तिथिमपि न जानाति ।
नटी -- सर्वं सर्वेषां ज्ञायते किं भोः ?
सूत्रधारः -- भवती विद्यावती इति पृच्छामि ।
नटी -- जानाम्यहं विद्यमान वस्तु स्थितिम् ।
सूत्रधारः -- भवती किं जानाति कथय ।
नटी -- अहं वासरान् मासान्श्च जानामि ।
सूत्रधारः -- तथा यदि स्यात् अवश्यं भवत्या तिथिज्ञानेनापि भवितव्यं इति मे वितर्कः ।
नटी -- आर्य ! शालासु, विद्यालयेषु, विश्वविद्यालयेषु, कार्यालयेषु सर्वं सर्वत्र वासराः आङ्ग्लमासाश्च उपयुञ्जते । प्रतिवर्षं विराम दिवसाश्च वासर मास दिनाङ्क रूपेण दीयन्ते । न कदापि तिथि रूपेण गणायित्वा । यच्छन्ति । एतादृशी परिपाटिः वर्तते जगति तस्मात् तिथिं न जानाम्यहम् ।
सूत्रधारः -- अत्र विद्यते न ते दोषः । साधूक्तं भवत्या । भारतीय संस्कृतिः पामव्याधिना परिव्याप्ता प्रतिभाति । सरोगः समूलं नाशयितव्यः ।
नटी -- प्रस्तुतांशः कः कथयतु भवान् ।
सूत्रधारः -- अद्य पौर्णिमा ।
नटी -- हाँ जानामि अद्य पौर्णिमा इति । किन्तु तिथिं न जानामि ।
सूत्रधारः -- अद्य पौर्णिमा तिथिः ।
नटी -- पौर्णिमा तिथिः प्रतिमासं भवति ।
सूत्रधारः -- अद्य आषाढ पौर्णिमा तिथिः ।
नटी -- कोऽत्र विशेषः ।
सूत्रधारः -- विद्यतेऽत्र महान् विशेषः । अयं भारतीयानां पर्व दिवसः ।
नटी -- किमयं पर्व दिवसः ? अहं श्रोतुमिच्छामि सविस्तरं कथयतु भवान् ।
सूत्रधारः -- इयं गुरु पौर्णिमा । श्रुणोतु भवती ।
भारते सर्व लोकस्य । प्रिया च गुरु पौर्णिमा ।
सर्वे जुहवति सर्वत्र । भक्त्या तां व्यासपूर्णिमाम् ॥
नटी -- (साश्चर्यं) तत्कथं भोः ।
सूत्रधारः -- भारतवर्षे भगवान् व्यासः अष्टादश पुराण स्रष्टा । महाभारत भागवत ब्रह्मसूत्र मीमांसादि ग्रन्थानां कर्ता । अयं विज्ञान निधिः । अपिच सूरिभिः कथ्यते यत् व्यासोऽच्छिष्ठं जगत्सर्वं इति । किम्बहुना भारतीय वाङ्मयस्य, भारतीय परम्परायाः अयमेव गुरुः । अयमेव मूलधारकः । भारतवर्षे अयं दिवसः गुरु दक्षिणा दिवसः इति गुरुपौर्णिमा दिवसः इति व्यास पौर्णिमा दिवसः इति सर्वैरपि परिगण्यते विषयमेनमुद्दिश्य बह्व्यः कथाः सन्ति ।
नटी -- आर्य अहं शुश्रूषे ।
सूत्रधारः -- श्रवणानन्दात् दर्शनानन्दः अधिकायते ।
नटी -- मां जिज्ञासा प्रेरयति प्रष्टुम् ।
सूत्रधारः -- पृच्छतु भवती ।
नटी -- अस्य नाटकस्य नाम किम् ?
सूत्रधारः -- अस्य नाटकस्य नाम गुरुदक्षिणा ।
नटी -- केन ग्रथितमिदं नाटकम् ।
सूत्रधारः -- नाटकमेतत् उभय भाषा प्रवीणेन महाकविना पण्डित परीक्षित् शर्मणा ग्रथितम् ।
नटी -- कीदृशोऽयं कविः ।
सूत्रधारः -- नितान्त साहित्य रसग्रहीता ।
नाट्ये तथा गायन लोलुपश्च ।
अनन्य साधारण देशभक्तः ।
संस्कारवाण्या समलङ्कतोऽयम् ॥
नटी -- अस्य कवेः माहात्म्यं मां कुतूहलयति नाटकं प्रदर्शयितुम् ।
सूत्रधारः -- एहि मयासार्थं गुरुदक्षिणा नाटकं प्रदर्शयितुम् । मा विलम्बं कुरु । अहं गच्छामि ।
नटी -- आर्य अहं त्वामेवानुसरामि । (इति गच्छतः)
(ततः प्रविशति वरतन्तुः शिष्यैस्सह । वहतन्तुः मध्ये उपविशति तं परितः छात्राः उपविष्टाः सन्ति ।
वरतन्तुः -- अयि भोः छात्राः ! अयं दिवसः भवतां विद्याभ्यासस्य अन्तिमः दिवसः । यूयं अधुना परिसमाप्तविद्याः सञ्जाताः गृहं गच्छन्तु ।
प्रथमः -- (चिन्ताक्रान्तः) गुरो विंशति वर्षाणि तत्र भवतः सन्निधौ विद्यामभ्यस्य अधुना गृहं गन्तुं वयं नोत्सेहामहे । विचार्यमाणे हृदयं व्यथाविलं भवति ।
द्वितीयः -- गुरो ! भवानेव अस्माकं पिता माता च । पितरौ केवलं जन्मदायिनः तस्मात् भवता विसृज्य गृहगमनोन्मुखाः न भवामः वयम् ।
तृतीयः -- अयि भोः वयं परिसमाप्त विद्याः । पुनः जीवने युष्माभिस्साकं मेलनं अस्माकं कदा भविष्यति वयं न जानीमः । तस्मात् गुरु दक्षिणां समर्प्य वयं जिगमिषामः । यत् अस्माभिः दीयते तत् अनुगृह्णन्तु ।
वरतन्तुः -- अयि भोः पुत्रकाः कुर्वन्तु भवतां कामनानुसारम् ।
प्रथमः -- (दक्षिणां गृहीत्वा तस्य पुरतः स्थित्वा) अयि भोः गुरो ! अयं सुवर्ण खण्डः गृह्णातु भवान् । [इति समर्प्य साष्टाङ्गदण्ड प्रणामं करोति]
द्वितीयः -- अयि तपस्विन् । नाहं धनी, किन्तु पत्रं पुष्पं फलं तोयं इति न्यायेण अहं पुष्पचयः वस्त्रादिकं, चन्दनं, पूगीफल, कर्पूरयुक्त नागवल्लीदळ ताम्बूलं श्रीफलं च ददामि । [इति साष्टान्ङ्गप्रणामं करोति]
तृतीयः -- अयि ज्ञानदायिन् ! इयं रजत खण्डं स्वीकरोतु भवान्। [इति समर्प्य प्रणमति]
वरतन्तुः -- अयि भोः अन्ते वासिनः शृण्वन्तु भवन्तः । सत्यं वद । धर्मञ्चर । स्वाध्यायान्माप्रमदः । धर्मान्नप्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृ देवो भव । पितृ देवो भव । आचार्य देवो भव । अतिथि देवो भव । एष आदेशः । एष उपदेशः एषा वेदोपनिषत् । ॐ शान्तिः शान्तिः शान्तिः ।
[सर्वे छात्राः उत्थाय प्रणम्य गच्छन्ति । ततः प्रविशति प्रियशिष्यः कौत्सः ]
कौत्सः -- [प्रणम्य] अयि ज्ञानदायिन् गुरो ! सर्वे सहाध्यायिनः तत्र भवद्भ्यः सुवर्ण रजत महावस्त्रादिकं समर्प्य गुरुभक्तिं प्राकट्यन् । किन्तु [अर्थोकत्या]
वरतन्तुः -- त्वं न किमपि कर्तुं समर्थः असि । अरे डिम्भक कौत्स ! जानामि ते हृदयबाधाम् ।
कौत्सः -- गुरो ! भवाद्भिः अध्यापितं यत् गुं - अज्ञानान्धकारं राति = नाशयति इति गुरुः । तेन ज्ञानेन अहं प्रतिभा व्युत्पत्तिभ्यां समञ्चितः अभवम् । अहं भवतां शुश्रूषया सुशिक्षितः, क्रम शिक्षणालङ्कृतः अभवम् । भारतीय परम्परा गङ्गा वाहिनीव पवित्रा अविच्छिन्ना । तदनुसारं विद्यापरिसमाप्त्यनन्तरं गुरुदक्षिणा देया इति साम्प्रदायः । भोः गुरवे यत् रोचते तत् दातव्यं इति मे मनीषा । तस्मात् नाहं गुरुदक्षिणां कामपि एतावत्पर्यन्तं अयच्छम् । भोः भवतीयाभिलाषां प्रकटी कुर्वन्तु विनासङ्कोचं भवन्तः इति प्रणिपत्य याचे ।
वरतन्तुः -- अरे छात्र । न कामये किमपि । सर्वाः कामनाः असङ्गलवित्रेण विछिन्नाः मया ।
कौत्सः -- तथा मा कथयन्तु गुरुवर्यः । यदि गुरवः एवं भणान्ति तर्हि गुरुदक्षिणायाः कोवाऽर्थः । सा निरर्थका भवति । लोकसाम्प्रदायः विनश्यति । अहं साम्प्रदाय विनाशं न कामये ।
वरतन्तुः -- अरे पुत्रक ! तव विचारधारया अहं प्रभावितः अभवम् । अहं अतीव तुष्टोऽस्मि । मे महान् आनन्दः भवति, यतः त्वं भारतीय परम्पराभिलाषी सञ्जातः ।
कौत्सः -- धन्योऽस्मि गुरो ! अहं भवतां मनोरथं पूरयितुं अभिलषामि । यतः ।
गुरूणां सेवया पूर्णाः । भवन्ति च मनोरथाः ।
विद्या सदा ददात्येव । सर्वं कल्पलतेव सा ॥
वरतन्तुः -- भवतु । त्वं गुरुदक्षिणारूपेण मह्यं चुतुर्दश कोटि सुवर्ण मुद्राः सर्पय ।
कौत्सः -- अनुगृहीतोऽस्मि भोः । युष्मदीय कामनां पूरयिष्यामि । (इति नमस्कृत्य गच्छति)
वरतन्तुः -- ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गै स्तुष्टवागुं स्वस्तनूभिः व्यशेम देवहितं यदायुः । ॐ शान्तिः शान्तिः शान्तिः ।
(यवनिका पतति)
*******************************************************
.
द्वितीयं दृश्यम्
(रथ्यायां वटवृक्षस्य छाययां क्रमपदघन जटापाठकाः उपविश्य परस्परं भाषन्ते)
क्रमपाठकः -- अरे पदपाठक ! राजा रघुः अस्मिन् विश्वजिति अध्वरि सकलं सम्पच्चयं ब्राह्मणेभ्यः दक्षिणारूपेण, सम्भावना रूपेणच प्रददौ ।
पदपाठकः -- भवता कियती दक्षिणा प्राप्ता?
क्रमपाठकः -- मया प्राप्ता सहस्र रूप्यक परिमिता सम्भावनारूपा दक्षिणा ।
घनपाठकः -- अरे इयन्ती सम्भावना प्राप्ता ।
जटापाठकः -- भवान् कियत् प्राप्तवानस्ति ?
घनपाठकः -- अहं सहस्राधिक सुवर्ण मुद्राः प्राप्तवानस्मि ।
पदपाठकः -- भवता इयन्ती सम्भावना कथं प्राप्ता ?
घनपाठकः -- अहं तु घनपाठकः । तस्मात् अधिकतमा सम्भावना मया लब्धा ।
जटापाठकः -- मम तावत् सहस्र सुवर्णमुद्राः प्राप्ताः आसन् ।
क्रमपाठकः -- विचार्यमाणे महानानन्दः भवति, यतः रघुवंशीयाः वेदपूजकाः इति । अस्मिन् अवसरे राजा रघुः सर्व सदस्यानां ब्राह्मणानां तेषां योग्यतानुसारं सम्भावनादिकं दत्वा, वेदवाङ्मये तेषां विद्यमान गौरवं प्रादर्शयन् ।
पदपाठकः -- रघुवंशीयानां वेदपाठकेषु अति भक्तिश्रद्धादयः भवन्ति ।
जटापाठकः -- अयि सुहृदः । विश्वजिति अध्वरे आकाशे नक्षत्राणीव ब्राह्मणाः वेदपारगाः समुपस्थिताः ।
घनपाठकः -- सर्वं जगत् जानाति यत् रघुवंशीयाः वितरणशीलिनः इति । तस्मात् समस्त राजन्यकं, ब्राह्मण्यं समागतं तत्र । एते सर्व विषयेषु अनन्वयालङ्कारिकाः भवन्ति ।
क्रमपाठकः -- आहाहा ! किं भोजनम् । का समाराधना । अहो भक्ष्य भोज्य चोष्य पेय लेह्यादिकं स्वादिष्टं रसप्रपूर्णं आसीत् । सर्वे मानवाः आकण्ठं भुक्त्वा उद्गारं कुर्वन्तः रघुं कीर्तयन्तः समापित भोजनाः उदतिष्ठन् ।
पदपाठकः -- तत्र न केवलं वेदपण्डिताः सन्मानिताः किन्तु सकल शास्त्र पुराणेतिहास निष्णाताः अपि भूखण्ड दानेन सन्मानिताः आसन् ।
जटापाठकः -- सालङ्कार रसप्रपूर्ण मधुराकाराः कवयः अपि कविता गोष्ठ्यां सन्मानिता अभवन् ।
क्रमपाठकः -- अस्मिन् विश्वजिति अध्वरे वेदपाठकः, षट्शास्त्र पण्डिताः, षडङ्ग निष्णाताः, भरतनाट्य पारीणाः, नर्तकाः इत्यादयः सर्वेऽपि सन्मानिताः । किमुत विस्तरेण । सर्वशुक्ला गीर्वाणसुन्दरी शारदा समाराधिता ।
पदपाठकः -- अधुना सराजा निर्धनो सञ्जातः इति जन शृतिः ।
घनपाठकः -- जनशृतिः निराधारा । यतः
कदापि निर्धनो भूयात् । राजा दानैर्न भूतले ।
कला निर्गत चन्द्रश्च । कलाहीनोऽस्ति किं सदा ॥
जटापाठकः -- रघुवंशीयाः त्यागाय सम्भृतार्थाः भवन्ति । ते कदापि निर्धनाः न भवन्ति ।
पदपाठकः -- अरे जटापाठक ! निर्गते सर्व कासारजले किं कासारः निर्जलः न भवति ?
क्रमपाठकः -- कासारः निर्जलः भवति । किन्तु रघुवंशीयाः निर्धनाः न भवन्ति ।
जटापाठकः -- शृणु ।
दानेन वर्धते लक्ष्मीः । जलेन तरवो यथा ।
तस्मात् दातव्यमस्माभिः । दाने धर्मः प्रतिष्ठितः ॥
पदपाठकः -- यदि वयं दानं एवं कुर्मः एकस्मिन् क्षणे निर्धनाः भवेम ।
क्रमपाठकः -- तत् दानं, तादृशी वितरणशीलता राज्ञां केवलं भूषणं योग्याच भवतः । ते कर रूपेण प्रजाभ्यः, गृह्यन्ति दानरूपेण समयेषु वितरन्ति ।
घनपाठकः -- सत्यमुदीरितं भवता । यथा रविः रसं गृहीत्वा समयेषु रूपान्तरेण वर्षारूपेण सहस्रगुणं आदत्ते तद्वत् राजापि करग्रहणं करोति ददाति च ।
जटापाठकः -- अनेन दृष्टान्तेन समयः अलङ्कृतः । वयं पल्वल सदृशाः । राजानः अकूपार समानाः ।
पदपाठकः -- इदं दृश्यं न कदापि विस्मरणीयं भवति मे । यतः ब्राह्मण्यं सर्वं विश्वजिति अध्वरे सन्तुष्टमभूत् । अनुपदमेव सर्वं ब्राह्मण्यं एक चित्तीभूय वेदमन्त्रैः राजानं रघुं आशीर्वचनपुरस्सरं कीर्तयामासुः । सर्वमपि अन्ततः शान्तरसे परिणद्धम् ।
जटापाठकः -- एतादृश समागमः, कार्यारम्भश्च मम जीवने एतावत्पर्यन्तं न शृतं न दृष्टं च ।
क्रमपाठकः -- अस्माभिरपि न कुत्रापि पठितं शृतञ्च ।
घनपाठकः -- अयि सुहृदः भोजनवेला अतिक्रान्ता त्वर्यतां त्वर्यतां भोजनार्थम् । सर्वं विहाय भोक्तव्यं इति सिद्धान्तः गच्छामः यूयं सर्वे मामनुसरन्तु । (इति सर्वे एकरेखायां गच्छन्ति)
(यवनिका पतति)
********************************************************************
.
तृतीयं दृश्यम्
(राजाः रघुः मृण्मयपात्र सहितः एकत्र उपविशति । ततः प्रविशति मन्त्री)
मन्त्री -- (प्रविश्य) अयि महाराज ! नमांसि ।
रघुः -- एहि मन्त्रिवर्य । उपविशतु भवान् ।
मन्त्री -- [उपविश्य] महाराज ह्यः सकलकला परिपूर्णः भवतः वदनचन्द्रः अद्य किञ्चित् कलाविहीनः भाति किमत्र कारणम् ।
रघुः -- सर्वमेतत् भवतां काल्पनिकं भवति । अहं सर्वदा आनन्देन परिपूर्ण कलानिधिः भवामि ।
मन्त्री -- महाराज ! भावगोपनं माकरोतु । मेघच्छन्नेन्दुरिव भवतां वदनं प्रतिभाति । विश्वजिति अध्वरे भवतां कोशागारः निश्शेषः अभूदिति किं चिन्ता ।
रघुः -- तादृशी चिन्ता न कदापि मां वृणीते ।
मन्त्री -- तत्र भवन्तः धीरोदात्त नायकाः ।
रघुः -- मन्त्रिवर्य शृणुतावन्मम वचनम् ।
चिन्ता मे न कदाप्यस्ति । स्वार्थाय जगती तले ।
सर्वदा दूयते स्वान्तम् । नास्ति दानाय साम्प्रतम् ॥
मन्त्री -- सर्वेभ्यः ब्राह्मणेभ्यः, गुरुभ्यः सर्वं सपच्चयं दत्वा तेभ्यः दारिद्र्यं क्रीतवानस्ति महाराज ।
रघुः -- मन्त्रिवर्य तथा मा वदतु भवान् ।
दत्तं हुतं विराजेते । गुरवे च धनञ्जये ।
यथाक्रमं धरण्यान्तु । साधनीयं हि शाश्वतम् ॥
मन्त्री -- एतादृश भावना मूलका कीर्तिः आचन्द्र तारार्कं जगति विराजते ।
रघुः -- महामन्त्रि जीवितेन किं प्रयोजनम् ? शृणोतु भवान् ।
जीवितेन च किं भोगैः । साश्वतं भुवि जन्तवः ।
नैव जीवन्ति तस्माद्धि । कीर्तिस्साध्या धरातले ॥
मन्त्री -- प्रभो एतादृशं कर्म रघुवंशीयानां जन्मतः सङ्क्रामितं भवति किन्तु नान्येषाम् । सत्यं धर्मञ्च पालयितुं राजा दिलीपः सिंहाय स्वजीवितं समर्पयितुं प्रायतत ।
रघुः -- सत्यं दान दया धर्माः । रक्षणीयाहि सर्वशः ।
विनष्टास्ते भवेयुश्चेत् । धरातूर्णं विनश्यति ॥
मन्त्री -- भवतां यदुदीरितं तत् सत्यम् । मे समक्षं सर्व विश्वजित् अध्वरः चलन चित्रमिव भासते । सकल भारतात् नैकराजानः रथतुरग गजारूढाः अध्वर विशेषं दिदृक्षवः समागताः ।
रघुः -- सूर्यवंशीयाः आध्यात्मिक शक्तिसम्पन्नाः ।
मन्त्री -- तस्मात् सम्भावनार्थं समागतं वेदपारगाणां भासुर भूसुराणां मण्डलं भूतलावतीर्ण खगोळमिव व्यराजत ।
रघुः -- वयं भारतीय साम्प्रदायं प्रचारयितुं कटिबद्धाः स्मः ।
मन्त्री -- आसेतु हिमाचलं भरतवर्षः वेदमन्त्रैः प्रतिध्वानितः पूतश्चासीत् ।
रघुः -- वयं भारतदेश परम्परां न विस्मरिष्यामः ।
मन्त्री -- नैकजनः षड्रसोपेत भोजनं भुञ्जन्तः तवकीर्तिं प्रशंसयामासुः ।
रघुः -- अध्वर समये विशेषतः विश्वजिति अन्नदानं विशेषेण कर्तव्यं इति सिद्धान्तः ।
मन्त्री -- प्रभो मे हस्तात् याचकेभ्यः ब्राह्मणेभ्यः अर्बुद्धकोटि रूप्यकाणां दानमभूत् ।
रघुः -- सर्वमपि अध्वरे निश्शेषमासीत् ।
मन्त्री -- धन्योऽयं वंश एवासीत् । दानेन महताध्वरे ।
तृप्ताश्च बाडवास्सर्वे । भूतले सर्व याचकाः ॥
रघुः -- (उदासीनः विचारयति)
मन्त्री -- (हठात् रघुं विलोक्य) महाराज किमर्थं यूयं अतीव उदासीनाः दृश्यन्ते ।
रघुः -- इदं कर्म रघूणां सहजातं इति विचारयामि ।
मन्त्री -- सहजातमिति जानामि किन्तु भवतां वदने निर्लिप्तता नर्तते कारणं किम् ?
रघुः -- सर्व कोशागारः याचकेभ्यः, पण्डितेभ्यः, गायकेभ्यः दानरूपेण प्रदत्तः आसीत् । अधुनाऽहं समाप्त कोशागारः अभवम् । यदि कोऽपि याचकः अधुना समागत्य याचिष्यते तर्हि किं कर्तव्यं इति चिन्तयाम्यहम् ।
मन्त्री -- महाराज ! अधुना न कोऽपि याचकः अस्ति भारते । मा विचारयतु भवान् ।
रघुः -- अयि मन्त्रिमहाशय ! भवान् अधुना गत्वा सर्वातिथीन् सक्षेमं स्वीय गृहाणि प्रेषयितुं व्यवस्थां करोतु ।
मन्त्री -- भवतां आज्ञानुसारं गत्वाहं सर्वं यथास्थिति निर्वर्तयिष्ये । नमांसि महाराज । (इति नमस्कृत्य निर्गतः)
रघुः -- (दीर्घ निश्वस्य) यत् योग्यं तत् भविष्यति । (इति निर्गतः)
(यवनिका पतति)
*************************************************************************************
.
चतुर्थं दृश्यम्
(ततः प्रविशति कौत्सः)
कौत्सः -- [आत्मगतम्] गुरुदक्षिणार्थी कुत्र गच्छेयमहम् । चतुर्दशकोटि मुद्रा परिमितं धनं कः दास्याति । [इतस्ततः पश्यन् रथ्यायां गच्छन्तं स्वीय सहाध्यायिनं दृष्ट्वा तं उच्चैः एवं आह्वयति] अरे बदरिक एहि इतः अरे एहि इतः [इति हस्तमुन्नमय्य आह्वयति । ततः प्रविशति बदरिकः]
बदरिकः -- [प्रविश्य] अरे कौत्स । त्वं अत्र एकाकी रथ्यायां किं करोषि ?
कौत्सः -- मे रध्यायां न किमपि विद्यते कर्तुम् । किं करणीयं इति चिन्ता निमग्नः अभवम् ।
बदरिकः --केयं चिन्ता ।
कौत्सः -- कथ्यतेचेत् चिन्ता निवृत्तिः भवति किम् ?
बदरिकः -- मनसि निक्षिप्यते चेत् तस्याः निवृत्तिः भविष्यति किम् ?
कौत्सः -- न भविष्यति । किन्तु सुखदुःखौ, जयाजयौ लाभालाभौ समानतुलायां निक्षिप्य शान्ततया कार्यं कर्तव्यं इति मे चिन्ता ।
बदरिकः -- भवतु नाम । अहं किमर्थं आहूतः ।
कौत्सः -- अहं मे चिन्तां कथयामि शृणु । अहं गुरुदक्षिणार्थीं किं कर्तव्यता मूढतया एकान्ते अत्रोऽपविश्य रथ्यायां चिन्तयामि । अत्रान्तरे ते दर्शनं बभूव ।
बदरिकः -- गुरुदक्षिणा येनकेनापि रूपेण दातुं शक्यते ।
कौत्सः -- जानाम्यहम् । इयं गुरुदक्षिणा न सुलभ साधनीया भवति ।
बदरिकः -- कितात्मकेयं गुरुदक्षिणा कथय प्रथमम् ।
कौत्सः -- चतुर्दशकोटि मुद्रा परिमितं विद्यते ।
बदरिकः -- अरे बत ! इयन्ती गुरदक्षिणा भवता देया किम् ?
कौत्सः -- इयन्ती दातव्या इति चिन्तयामि ।
बदरिकः -- अस्मिन् धरातले न कोऽपि दाता विद्यते इयन्तं धनं दातुम् ।
कौत्सः -- अरे बदरिक ! एक शिरसः द्वे शिरसी योग्यरीत्या विचारयिष्यतः ।
बदरिकः -- भवान् यत् कथयति तत् सत्यम् । किन्तु न कोऽपि मे दृष्टिपथं न याति । [इति द्वावपि निमेष मात्रं मौनेन विचारयन्तौ स्तः । हठात् आश्चर्येण बदरिकः कथयति]
...बदरिकः -- अरे कौत्स ! शृणृ । राजा रघुः विश्वजिति अध्वरे पर्याप्तं धनं विद्वद्भ्यः याचकेभ्यः प्रादात् इति मया शृतम् ।
कौत्सः -- यद्यहं अधुना गच्छेयं तर्हि स राजा पृष्टः मह्यं इयन्तं धनं दास्यति किम् ?
बदरिकः -- प्रयत्ने दोषो नास्ति । अधुना बहु विलम्बनं जातम् । स राजा याचकेभ्यः वेदशास्त्र पुराणेतिहास सङ्गीत नाट्य विद्वद्भ्यः सर्वस्वं प्रदाय मृण्मयपात्र द्वितीयः बभूवेति किं वदन्ती प्रचलति ।
कौत्सः -- तव मतानुसारेण न किमपि प्रयोजनं विद्यतेऽति भवान् वदति ।
बदरिकः -- गच्छ त्वम् । भवान् अवश्यं अस्मिन् विषये सफलो भविष्यति इति मे अन्तरात्मा कथयति ।
कौत्सः -- गत्वा तं राजानं पृच्छेयम् । यतः श्रणु !
कासारपूर्णं जलमातनोतुम् । ऋते च वर्षात् नहि कोऽपि शक्तः ।
दाता रघुस्सर्व महीतलेऽस्मिन् । नीहाररुपाः खलु सर्व भूपाः ॥
बदरिकः -- साधु श्लोकितं तदीय महिमान मुद्दिश्य । अरे कौत्स ! त्वमन्तरेण न कोऽपि समर्थः भवति गुरुकामनां पूरयितुम् । अधुनैव त्वं गच्छ ।
कौत्सः -- अरे बदरिक ! दैवेच्छया तव समागमः जातः । सम्यक् मार्गदर्शनमपि जातम् । इतःपर मे कर्म अविघ्नपरिसमाप्तिं प्राप्स्यति इति कथने न कापि शङ्का ।
बदरिकः -- रघुवंशीयाः असाध्यमपि स्वीय पराक्रमेण साधयिष्यन्ति । तत् तेषां व्रतम् ।
कौत्सः -- यदि एतावन्मात्रं धनं रघोः समीपे नस्यात् तर्हि अन्यत्र गत्वा तीवन्मात्रं समानीय मह्यं दास्यति इति भवान् वदति ।
बदरिकः -- ते राजानः दातारः । प्रतिगृहीतारः वयम् । जगत् आथाराधेयेन प्रचलति । चतुर्दश भुवनाः अपि अन्योन्याश्रयेण सहकारभावेन चलन्ति । स राज रक्षकः । वयं रक्षणीयाः । वयं अस्मदीय तपोशक्त्या सकल वसुन्धरां निरोगां करिष्यामः । अत्र अन्योन्याश्रय गुणः वर्तते । तस्मात् ते कार्यं अवश्यं भविता । गम्छाम्यहम् ।
कौत्सः -- तिष्ठरे तिष्ठ । अहं अत्यन्त ऋणी भवामि ते ।
मित्रेणाहं समादिष्टः । भ्राजे ज्ञानेन रंहसा ।
मित्रोदये द्रुवं ध्वान्तम् । भजते खलु शुद्धताम् ॥
(इति बदरिकेनसार्थं हस्तचालनं कृत्वा तेन सार्थं गच्छति)
(यवनिका पतति)
**************************************************************
.
पञ्चमं दृश्यम्
(रघुः एकाकी उपविश्य चिन्तयति । ततः प्रविशति परिचारकः)
परिचारकः -- (प्रविश्य) अयि महाराज ! कौत्सोनाम वरतन्तु शिष्यः तत्र भवतः द्रष्टुं द्वारि तिष्ठति ।
रघुः -- क्षिप्रं प्रवेशय ।
परिचारकः -- यथाज्ञापयति देवः । (इति नमस्कृत्य गच्छति)
रघुः -- (आत्मगतम्) अवश्यं अयं वरतन्तुशिष्यः यत् किमपि अर्थं याचितुं समागतः इति मन्ये । (ततः प्रविशति विनम्र कौत्सः)
कौत्सः -- महाराज स्वस्ति भवते । चिरकालं राष्ट्रं धारयतु भवान् ।
रघुः -- [उत्थाय] नमोवाकं प्रशंसामहे ऋषिवराय । [इति नमस्करोति]
कौत्सः -- प्रभो रघो ! तत्र भवतः कीर्तिचन्द्रिका दिगन्तरालं स्पृशति ।
रघुः -- धन्योऽस्मि महाभाग । [इति कौत्सस्य पादयुगुलं स्वमृण्मय पात्रजलेन प्रक्षाळ्य तमर्चयित्वा पीठोऽपरि उपविष्टुं विज्ञापयति]
कौत्सः -- [उपविशति]
रघुः -- [हस्तौ बद्ध्वा विनम्रः]
कुशाग्रबुद्धे कुशली गुरुस्ते । यस्मादवाप्तोसि भवानशेषम् ।
विज्ञानराशिं वदनारविन्दात् । लोकस्तु चैतन्यमिवार्क बिम्बात् ॥
कौत्सः -- प्रभो रघो ! विलसति सूर्यवंशे जगतीतले प्रजानां क्लेशः कुतः ।
रघुवंशे प्रशास्तीह । क्लेशस्य प्रभवः कुतः ।
आदित्ये पुष्करे भाति । तमसस्थानमस्ति किम् ॥
रघुः -- महात्मन् सन्तुष्टोऽस्मि भवतां कृपया । किमत्र कारणं भवतामागमनेन निवेदयन्तु भवन्तः ।
कौत्सः -- अयि प्रभो ! अद्य आषाढ पौर्णिमा अयं गुरुपौर्णिमा दिवसः । नामान्तरमस्य विद्यते ध्वजदिवसः इति च ।
रघुः -- अयं दिवसः भारतीय संस्कृत्याः निकषोपलः वर्तते ।
कौत्सः -- अहं अस्मिन् दिवसि गुरुदक्षिणां दित्सामि गुरवे वरतन्तवे । तस्मात् महाराजानं भवन्तं याचितुं समागतोऽस्मि ।
रघुः -- अहो तपस्विन् । भवान् मत्सकाशं अधुना याचितुं समागतोऽस्ति । (मुहूर्तं विचिन्त्य) साधु किं याच्यते तत्र भवता ।
कौत्सः -- नरेन्द्र ! शरीरमात्रेण तिष्ठन् आभाति । नृपाः गलित विभवाः शोभन्ते । क्रमेण पीतस्य कलानिधेः कलाक्षयः पुनः वृद्धे भवति खलु । तस्मात् अधुना गुर्वर्थमाहर्तुं अन्यत्राहं यतिष्ये । निर्गलिताम्बुगर्भं शरत्घनं चातकः न याचते । (इत्युक्त्वा उत्थाय जिगमिषति)
रघुः -- विद्वन् । त्वया गुरवे प्रदेयं वस्तु किमात्मकम् । किं परिमाणं भणतु ।
कौत्सः -- राजन् । परिसमाप्त विद्येन मया वरतन्तुमहर्षिः गुरुदक्षिणायै विज्ञापितः विद्यापरिसङ्ख्यानुसारेण चतुर्दशकोटि मुद्रापरिमितं धनं मह्यमाहरेत्युक्तवान् । अहं अधुना भवन्तं प्रभुशब्दशेषं मत्वा विद्यामूल्यं अल्पेतरत्वात् निर्बन्धुं नाभ्युत्सहे । तस्मात् अहं जिगमिषुः अस्मि ।
रघुः -- अयि भोः शृतपारवश्य । गुरुदक्षिणार्थं रघोः सकाशात् मनोरथ मनवाण्य दात्रान्तरं गतोऽसिचेत् मे परिवादस्य नूतनाविर्भावः भविष्यति, तथा मा भूयात् । महात्मन् त्वां प्रशस्ते मदीये अग्नयागारे द्वित्राण्यहानि चतुर्थः अग्निः इव वसन् सोढुमर्हसि । अहं तव प्रयोजनं साधयितुं यतिष्ये ।
कौत्सः -- राजन् तथैव वसिष्ये । स्वस्ति भवते । [इति निष्क्रान्तः]
रघुः -- [आत्मगतम्] अहो अयं वरतन्तुशिष्यः गुरुदक्षिणार्थं अर्थहीनं मां शरणं प्रपन्नः । किं कर्तव्यमधुना । मत्सकाशे यदासीत् तत् सर्वं प्रदत्तं ब्राह्मण याचकेभ्यः । वयं रघुवंशीयाः त्यागाय सम्भृतार्थाः । यदि न दास्यामि रघूणां कलङ्कः भवति । भवतु तत्र मे न व्यथा । किन्तु भारतीय संस्कृतिः भ्रष्टा भविष्यति । तदहं नसेहे । देश परम्परा समक्षं वैयक्तिक जीवनं तुच्छम् । कुटुम्बजीवनं निरर्थकम् । तस्मात् भारत संस्कृति संरक्षणार्थं अवश्यं करणीयं बह्वस्ति । क्षतात् त्रायते इति क्षत्रियः । अयं क्षत्रिय शब्दः भुवनेषु रूढः ।
वयं हि लोके खलु नीच जन्तवः । सुखेषु नित्यं मधुरं विलोलुपाः ।
अशाश्वतं कश्मल दूषितं तनुः । विदद्महे देशहिताय केवलम् ॥
देशगोवेद रक्षणार्थं युद्धमपि वरं भविष्यति । तस्मात् अहं धनाधिपं कुबेरं रोत्स्यामि । रघुवंशीयानां असाध्यं भुवि न विद्यते ।
अशाश्वतेन देहेन । साधनीयं हि शाश्वतम् ।
वस्तुलोके नितान्न्तं च । सज्जनानामियं कृतिः ॥
[इति गच्छति]
[यवनिता पतति]
**************************************************
.
षष्ठं दृश्यम्
[ततः प्रविशति कुबेरः श्रेष्ठीसहितः द्वावपि स्वीय स्थानयोः उपविशतः]
श्रेष्ठी -- महाभाग कुबेर । भवान् मे अत्यन्तं रोचते यतः धनी ।
कुबेरः -- अहं धनमन्तरेण नान्यत् चिन्तयामि । सर्वमपि कर्म धन सम्पादनार्थं मया क्रियते ।
धनं सत्यं धनं विद्या । धनं ज्ञानं धनं प्रभुः ।
कृत्याऽकृत्यं भवत्येव । धनार्थं वसुधातले ॥
श्रेष्ठी -- चतुर्विध पुरुषार्थेषु अर्थार्जनं पुरुषलक्षणम् । जीवने अर्थं यदिस्यात् धर्म काम मोक्ष पुरुषार्थान् मानवः साधयिष्यति । सर्वे गुणाः काञ्चनमाश्रयन्ते । इति लोकोक्तिः सत्यमेव भवति ।
कुबेरः -- मदपेक्षया जगति नऽकोपि धनाढ्यः विराजते । अहं सर्वं करिष्यामि । अहं असाध्यं साधयिष्यामि । दिक्पालेषु अहं धनाढ्यः उत्तराधिपतिश्च ।
अर्थोहि सत्यं जगति प्रजानाम् । अर्थोहि नूनं व्यवहारयोग्यः ।
अर्थोहि लोके बलदायकः परम् । अर्थेन हीनः खलु शष्पतुल्यः ॥
श्रेष्ठी -- न केवलं भूवलयं किन्तु लोकत्रयमपि धने प्रतिष्ठितम् ।
कुबेरः -- सत्यं भणितं भवता । यतः ।
धनमग्निर्धनं वायुः । धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पति । र्वरुणं धनमश्नुते ॥
अर्थेन हीनः मानवः सकलगुणगणसमञ्चितोऽपि, सुन्दरोऽपि, बुद्धिमानपि, कुलीनोऽपि, वक्ताऽपि लोके गौरवहीनः भवति । तस्मात् यथा कथञ्चित् मानवेन अर्थवता भवितव्यम् । अर्थसाधनं वाणिज्येन भवति । ततः अर्थकाङिक्षणः वाणिज्यं कुर्वन्ति ।
श्रेष्ठी -- भवतां भाषणे प्रत्यक्षरं अर्थयुक्तं भाति मे ।
कुबेरः -- अपिच शृणु ।
वाणिज्यं सर्व देशेषु । कर्तव्यं मानवैः प्रियम् ।
वाणिज्येन विना राष्ट्रम् । अशान्तिमधिगच्छति ॥
तस्मात् देशहिताय वाणिज्यं षाड्गुण्यरसायनमिव शक्तिदायकं भवति ।
श्रेष्ठी -- (इतस्ततः विलोक्य) अयि राजन् कुबेर । उत्तरस्यां दिशि धरापराग पटलः धूम मालिकेव सर्वत्र व्याप्नोति ।
कुबेरः -- अयं आषाढमासः । कालकण्ठ कन्धर कालकूटच्छायानुकारी मेघमालेयं अम्बराङ्गणे प्रच्छन्ना भाति न परागपटलः ।
(ततः प्रविशति गणकः)
गणकः -- (ससम्भ्रमम्) अयि भोः कुबेर शस्त्रास्त्रपाणिः राजा रघुः सबलं गज तुरग रथ पदातिभिः पत्तनं रोध्दुं समायाति इति जनाः हाहारावं कुर्वन्ति ।
कुबेरः -- राजा रघुः मां रोध्दुं समायाति ।
गणकः -- इति किंवदन्ती प्रचलति ।
श्रेष्ठी -- तस्य राज्ञः धनस्यावसरः कुतः । अयं वंशः रघूणां भवति । तेषां धनावश्यकता कदापि न भवति । ते पालकाः धर्मरक्षकाश्च ।
कुबेरः -- गणक त्वं गत्वा कोशागारं अन्य कनिष्ठगणकैः सह परिरक्षस्व ।
गणकः -- यथाज्ञापयति देवः । (नमस्कृत्य गणकः गच्छति)
कुबेरः -- अयि भोः श्रेष्ठिन् ! न ज्ञायते भवता । अयं राजा विश्वजिति अध्वरे सर्वमषि स्वीय कोशागारं वेदशास्त्र पुराणेतिहास तज्ञेभ्यः अभिनय दक्षेभ्यः दक्षिणारूपेण दत्तवान् । अयं तेषां राज्ञां अनूचान साम्प्रदायः ।
श्रेष्ठी -- त्यागे भारतीयसंस्कृतिः समुद्भूता । ततस्ततः ।
कुबेरः -- अधुना तस्य राज्ञः सकाशे एकं द्रम्मकमपि न विद्यते ।
श्रेष्ठी -- दानेन दारिद्र्यं क्रीतवान् । ततः सः निर्धनो जातः ।
कुबेरः -- अधुना धनस्य काप्यत्यन्तावश्यकाता सञ्जाता इति मन्ये ।
श्रेष्ठी -- तस्मात् धनार्थं धनदं त्वां रोध्दुं स राजा समायाति ।
कुबेरः -- यदि मां स राजा प्रष्टुं समायाति उत रोध्दुं, नाहं जाने । किन्तु जनशृतिः प्रचलति यथेच्छम् ।
श्रेष्ठी -- ते राजानः सर्वदा देशहिताय गोब्राह्मण रक्षणाय सर्वस्वं त्यागं कुर्वन्ति ।
कुबेरः -- राजा योध्दुमेव समायाति चेत् तं प्रतिरोध्दुं न कस्यापि शक्तिः विद्यते । अयं अप्रतिहत शरवेगः ।
श्रेष्ठी -- अयि कुबेर ! तव वाक्य श्रवणेन ममापि किञ्चित् घर्मजलाविर्भावः दृश्यते शरीरे । मुखञ्च परिशुष्यते । वेपथुः जायते । किं कर्तव्यमधुना धनद !
कुबेरः -- श्रेष्ठिन् ! वयं कर्तुं व्यवसिताः । मा बिभेहि ।
श्रेष्ठी -- किं कथम् ?
कुबेरः -- नास्त्यत्र उपायान्तरं धनकनक वर्षादृते ।
श्रेष्ठी -- किं सुवर्ण वृष्टिः वर्षाप्यते ?
कुबेरः -- हां सुवर्ण रौप्यमय मुद्रावर्षं वर्षापयिष्यामि ।
श्रेष्ठी -- यदि भवता तथा क्रियते तर्हि सः प्रति निवृत्तः भविष्यति किम् ?
कुबेरः -- हां सत्यमेव सः प्रतिनिवृत्तः भविष्यति । वयं च लोके सर्वैरपि कीर्त्यमानाः भवेम । यतः विना युद्धेन सर्वं शान्तगत्या कृतमिति ।
श्रेष्ठी -- युद्धेन न प्रयोजनं विद्यते । अनुपदं भवान् सुवर्णं वर्षापयतु यथा सः राजा निवृत्तः भवति तथा ।
कुबेरः -- एहि गच्छावः सुवर्णवर्षं वर्षापयिष्यावः । (इति गच्छतः)
(यवनिका पतति)
*********************************************************************
.
सप्तमं दृश्यम्
(ततः प्रविशति रघुः)
रघुः -- (प्रशान्त वदनः) धनाढ्यः कुबेरः रघूणां गुणगणान् सम्यक् जानाति । तस्मात् रजत सुवर्णवर्षं वर्षापयामास । अद्य मे वाग्दानं सफलं भविष्यति । सर्वत्रापि सुवर्ण मुद्राः वर्षापिताः । सर्वधनं सञ्चयनं विधाय आगतस्य कौत्साय प्रदास्यामि ।
प्रतिष्ठा भाति सर्वत्र । रघूणां त्याग चेतसाम् ।
यथा भानोः प्रकाशस्तु । सर्वत्र धरणीतले ॥
सत्यमेव कुबेरः मे भावनां तर्कयित्वा विना च युद्धं सर्वमपि सुकरं चकार ।
सङ्कल्पमात्रेण मनोरथे मे । पूर्णस्सुकाले च विना प्रयासम् ।
यत्रास्ति भावस्तु पवित्र रूपः । तत्रैव कार्यं फलरूपमेति ॥
यतः अस्मदीय वंशजाः देशहिताय सर्वस्वं त्यक्तवन्तः आसन् ततः सर्वमपि कर्म सुकरं सपद फलदायकं बभूव ।
सत्यं दानदयाधर्माः । शाश्वताः मौलिकाः प्रियम् ।
रघुवंशीय भूपानाम् । नितान्तं भारतावनौ ॥
अधुना कौत्सः मे अग्निहोत्रगृहे चतुर्थाग्निरिव प्रतिभाति तस्य सकाशं गत्वा सर्वमपि धनकनक वस्तुचयं तस्मै प्रदास्यामि । (इत्युक्त्वा निर्गच्छति)
(यवनिका पतति)
******************************************************************
.
अष्टमं दृश्यम्
(कौत्सः उपविश्य गायत्रीजपं कुर्वन्नास्ते । ततः प्रविशति रघुः धनग्रन्थि संवाहकेन सार्थम्)
रघुः -- महातेजाः कौत्स ! अहं अभिवादये । (इति नमस्करोति)
कौत्सः -- अयि भोः राजन् । किमहं कामितपलग्रहीता भविष्यामि ।
रघुः -- अहं सत्यं ते कामित फलदायकः भवामि ।
कौत्सः -- राजन् रघो ! मे आनन्दः अगति प्रवाहः भवति ।
रघुः -- महात्मन् ! एताः सुवर्ण रजत मुद्राराशयः । एनाः गृहीत्वा मां अनुगृह्णन्तु भवन्तः ।
कौत्सः -- राजन् ! मम केवलं चतुर्दश कोटि मुद्रापरिमितं धनं अपेक्षितमस्ति । तस्मात् तावत् धनं गृहिष्यामि । नाधिकम् ।
रघुः -- कौत्स ! लक्ष्मीः त्वां वृणोति । सा ते पादसन्निधिं समागता । तां मा तृणीकुरुष्व ।
कौत्सः -- प्रभो रघो ! किं भवान् मां परीक्षितुमिच्छति ।
गृह्णामि राजन् गुरुदक्षिणार्थम् । कुर्यां सदा ज्ञान समार्जनं च ।
विप्रस्य माभूत् विषयानुरक्तिः । मधुप्रमग्ना मधुमक्षिकेव ॥
(इति चतुर्दशकोटि मुद्रापरिमितं गृहीत्वा)
प्रतिष्ठा भाति सर्वत्र । रघूणां त्यागचेतसाम् ।
यथा भानोः प्रकाशस्तु । सर्वत्र धरणीतले ॥
राजन् -- स्वस्ति भवते । (इति गच्छति)
रघुः -- अहो तपस्विनां प्रभावः । यदि ईदृशानां तपस्विनां स्थितिः भारते भवेत् तर्हि भारतं सर्वथा भारतं स्थास्यति । नमांसि भूयांसि तपस्विभ्यः । (इति नमस्करोति)
(यवनिका पतति)
*********************************************************************
.
नवमं दृश्यम्
(वरतन्तुः प्राणायामादिकं कुर्वन् आस्ते । ततः प्रविशति सधनं कौत्सः)
कौत्सः -- (वरतन्तुं विलोक्य, आत्मगतम्)
अयं गुरुः परं साक्षात् । भ्राजतेऽत्र पितामहः ।
इवायं दृश्यते लोके । ज्ञानाद्दिव्यं न विद्यते ॥
गुरो अहं भोः अभिवादये । (इति साष्टाङ्गं नमस्कारोति)
वरतन्तुः -- वत्स ! अपि कुशली भवान् । कथं हठात् समागतोऽसि । त्व विलोक्य बहुवर्षाणि व्यतीतानीवास्ति मे ।
कौत्सः -- अयि तपस्विन् ! भवतां आशीर्वादबलेन अहं सुखी । अयि गुरो ! भवद्भिः यावत्परिमितं धनं पृष्टं तावत् परिमितं समानीतं धनं स्वीकृत्य मां अनुगृह्णन्तु । (इति धनं गुरोः पादमूले निक्षिपति)
वरतन्तुः -- छात्र ! त्वया कथं आनीतं कथं सम्पादितं इयन्तं धनं कथयस्व ।
कौत्सः -- गुरो अहं दिवसमेकं गुरुदक्षिणार्थी भ्रामं भ्रामं अन्ततः भवतां छात्रेण, मम सहाध्याय भूतेन बदरिकेन समादिष्टः सर्वथा अलोच्य महाराजानं रघुं प्रति गतवानस्मि ।
वरतन्तुः -- ततस्ततः ।
कौत्सः -- स राजा विश्वजिति अध्वरे सर्वं स्वीय सम्पत्तिं वेदशास्त्र, पुराण, सङ्गीत, नाट्य तज्ञेभ्यः अपिच याचकेभ्यः प्रदाय निर्धनो जातः । स राजा मृण्मय पात्रावशिष्टः आसीत् ।
वरतन्तुः -- अयं रघूणां त्याग चेतसां कीर्तिं वितनोति । अयं तेषां परम्परागत आचारः । ततस्ततः ।
कौत्सः -- स राजा मया याचितः न किमपि दातुं शक्तः अभूत् ।
वरतन्तुः -- बत ! ततस्ततः ।
कौत्सः -- मां अन्यत्र जिगमिषुं विलोक्य स्वीयाग्निगृहे चतुर्थाग्निरिव मां निवसितुं प्रोक्त्वा स राजा स्वयं कुबेरं अरौत्सीत् ।
वरतन्तुः -- ततस्ततः ।
कौत्सः -- कुबेरः तदीयागमनं शृत्वा सुवर्णमुद्रा वर्षं वर्षापयामास ।
वरतन्तुः -- ततस्ततः ।
कौत्सः -- स राजा रघुः सर्वमपि धनं समानीय गुरुःक्षिणार्थं गृहाणेति मां न्यवेदयत् ।
वरतन्तुः -- ततस्ततः ।
कौत्सः -- मम गुरवे चतुर्दशकोटि मुद्रापरिमितं धनं केवलं अपेक्षितं दातव्यमस्ति नाधिकं इत्यहं राजानमवोचम् ।
वरतन्तुः -- ततस्ततः ।
कौत्सः -- सर्वमपि धनं नेतव्यम् इति राजा मां प्रार्थयामास । किन्तु अहम् ।
नास्ति काङ्क्षा धने राजन् । तापसानां महौजसाम् ।
ज्ञानार्जने सदामग्नम् । जीवितं न तु भौतिके ॥
इत्युक्त्वा चतुर्दशकोटि मुद्रापरिमितं धनं गृहीत्वा समागतोऽस्मि ।
वरतन्तुः -- वत्स ! साधुकृतं भवता । त्वं अतीव ज्ञानी । सत्यमेव भौतिक सुखं त्यक्तवानसि । त्वया कृतं सर्वं महदानन्ददायकं भवति मे । तव गुरुभक्तिं अपश्यमहम् । रघुवंशीयानां नीवारमुष्टिपञ्चेषु कियानादरभावः गौरवश्च विद्येति तं अधुना अवगतोऽस्मि । राजा रघुः अस्मान् परीक्षितुमेव सर्वमपि धनं गृहाणेति उक्तवान् । अस्मिन् सन्दर्भे कुबेरस्य रघुवंशे भक्तिः । रघुवंशस्य तपस्विषु समादर भावः । धनविषये तापसानां भावना । शिष्याणां गुरौ भक्तिः । परम्परागत गुरुदक्षिणा पद्धतिः इत्येवमादयः लोकस्य कमपि महान्तं सन्देशं प्रयच्छन्ति । अयं अपि तव एकः नवीन पाठः ।
कौत्सः -- अनुग्रहितोऽस्मि गुरो ।
वरतन्तुः -- वयं नीहार मुष्टिम्पचाः । जगति भौतिकसौख्यं विसृज्य केवलं परब्रह्माणी सञ्चार्यमाणाः स्मः । अस्माकं अनेन धनेन न किमपि प्रयोजनं विद्यते । तस्मात् धनमेतत् गृहीत्वा त्वं लोकहिताय बहुजन सुखाय, भारतीय परम्परा वृद्ध्यर्थं व्ययी कुरुष्व इति प्रोक्त्वा रघु महाराजाय समर्पय । (इति धनं शिष्याय ददाति)
कौत्सः -- यथाज्ञापयति महात्मा । (इति गृहीत्वा निर्गतः)
वरतन्तुः -- ओं न कर्मणा न प्रजया धनेन त्यागे नैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजदेतद्यतयो विशन्ति । वेदान्त विज्ञान सुनिञ्चितार्थाः सन्यास योगाद्यतयश्शुद्धसत्वाः । ते ब्रह्म लोकेतु परान्तकाले परामृतात्परि मुच्यन्ति सर्वे । ॐ शान्तिः शान्तिः शान्तिः ।
(यवनिका पतति)
************************************************************