close


  • षट् सन्दर्भः श्रीभागवतसन्दर्भः

श्री-भागवत-सन्दर्भे प्रथमः

तत्त्व-सन्दर्भः

श्री-कृष्णो जयति |

कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् |
यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः ||१|| [Bह्P ११.५.३२]

BD: श्रीकृष्णो जयति |

भक्त्याभासेनापि तोषं दधाने
धर्माध्यक्षे विश्व-निस्तारि-नाम्नि |
नित्यानन्दाद्वैत-चैतन्य-रूपे
तत्त्वे तस्मिन् नित्यम् आस्तां रतिर् नः ||
मायावादं यस् तमः-स्तोमम्
उच्चैर् नाशं निन्ये वेद-वाग्-अंशु-जालैः |
भक्तिर् विष्णोर् दर्शिता येन लोके
जीयात् सोऽयं भानुर् आनन्द-तीर्थः ||

गोविन्दाभिधम् इन्दिराश्रित-पदं हस्त-स्थ-रत्नादिवत् |
तत्त्वं तत्त्व-विद् उत्तमौ क्षिति-तले यौ दर्शयाञ्चक्रतुः ||

मायावाद-महान्धकार-पटली-सत्-पुष्पवन्तौ सदा
तौ श्री-रूप-सनातनौ विरचिताश्चर्यौ सुवर्यौ स्तुमः ||

यः साङ्ख्य-पङ्केन कुतर्क-पांशुना
विवर्त-गर्तेन च लुप्त-दीधितिम् |
शुद्धं व्यधाद् वाक्-सुधया महेश्वरं
कृष्णं स जीवः प्रभुर् अस्तु नो गतिः ||

आलस्या अप्रवृत्तिः स्यात् पुंसां यद् ग्रन्थ-विस्तरे |
अतोऽत्र गूढे सन्दर्भे टिप्पन्य् अल्पा प्रकाश्यते ||
श्रीमज्-जीवेन ये पाठाः सन्दर्भेऽस्मिन् परिष्कृताः |
व्याख्यायन्ते त एवामी नान्ये ये तेन हेलिताः ||

श्री-बादरायणो भगवान् व्यासो ब्रह्म-सूत्राणि प्रकाश्य तद्-भाष्य-भूतं
श्री-भागवतम् आविर्भाव्य शुकं तद्-अध्यापितवान् | तद्-अर्थं निर्णेतु-
कामः श्री-जीवः प्रत्यूह-कुलाचल-कुलिशं वाञ्छित-पीयूष-बलाहक-
स्वेष्ट-वस्तु-निर्देशं मङ्गलम् आचरति कृष्णेति | निमि-नृपतिना पृष्टः कर-
भाजनो योगी सत्यादि-युगावतारानुक्त्वाऽथ कलाव् अपि तथा शृणु इति तम्
अवधाप्याह कृष्ण-वर्णम् इति | सुमेधसो जनाः कलाव् अपि हरिं भजन्ति |
कैः | इत्य् आह सङ्कीर्तन-प्रायैर् यज्ञैः अर्चनैर् इति | कीदृशं तम् | इत्य् आह
कृष्णो वर्णो रूपं यस्यान्तर् इति शेषः | त्विषा कान्त्या त्व् अकृष्णम् | शुक्लो
रक्तस् तथा पीतः इदानीं कृष्णतां गतः [Bह्P १०.८.१३] इति गर्गोक्ति-पारिशेष्य-
विद्युद्-गौरम् इत्य् अर्थः | अङ्गे नित्यानन्दाद्वैतौ | उपाङ्गानि
श्रीवासादयः | अस्त्राणि अविद्याच्छेत्तृत्वाद् भगवन्-नामानि | पार्षदाङ्
गदाधर-गोविन्दायः | तैः सहितम् इति महाबलित्वं व्यज्यते | गर्ग-वाक्ये
पीत इति प्राचीन-तद्-अवतारापेक्षया | अयम् अवतारः श्वेत-वराह-कल्प-
गताष्ट-विंश-वैवस्वतम् अन्वन्तरीय-कलौ बोध्यः | तत्रत्ये श्री-चैतन्य
एवोक्त-धर्म-दर्शनात् | अन्येषु कलिष् क्वचिच् छ्यामत्वेन क्वैच्च् चुक-
पत्राभत्वेन व्यक्तेर् उक्तेः | छन्नः कलौ यद् अभवः [Bह्P ७.९.३८] इति शुक्लो
रक्तस् तथा पीतः [Bह्P १०.८.१३] इति | कलाव् अपि तथा शृणु [Bह्P ११.५.३१] इति च |
ये विमृशन्ति ते सुमेधसः | छन्नत्वं च प्रेयसी-त्विषावृतत्वं बोध्यम् |
अङ्काः पूर्वाङ्कतोऽत्रान्ये टिप्पनी-क्रम-बोधकाः | द्वि-बिन्दवस् ते विज्ञेया
विषयाङ्कारस् त्व् अबिन्दवः | अत्र ग्रन्थे स्कन्धाध्याय-सूचका युग्माङ्का
ग्रन्थ-कृतां सन्ति | तेभ्योऽन्ये ये टिप्पनी-क्रम-बोधायास्माभिः कल्पितास्
ते द्विबिन्दु-मस्तकाः | विषय-वाक्येभ्यः परे येऽङ्कास् ते त्व् अबिन्दु-मस्तका
बोध्याः ||१||

अन्तःकृष्णं बहिर् गौरं दर्शिताङ्गादि-वैभवम् |
कलौ सङ्कीर्तनाद्यैः स्मः कृष्ण-चैतन्यम् आश्रिताः ||२||

BD: कृष्ण-वर्ण-पद्य-व्याख्या-व्याजेन तद्-अर्थम् आश्रयति अन्तर् इति |
स्फुटार्थः ||२||

जयतां मथुरा-भूमौ श्रील-रूप-सनातनौ |
यौ विलेखयतस् तत्त्वं ज्ञापकौ पुस्तिकाम् इमाम् ||३||
BD: अथाशीर् नमस्कार-रूपं मङ्गलम् आचरति जयताम् इति | श्रीलौ ज्ञान-
वैराग्य-तपः-सम्पत्तिमन्तौ रूप-सनातनौ मे गुरु-परम-गुरू जयतः
निजोत्कर्षं प्रकटयताम् | मथुरा-भूमाव् इति | तत्र तयोर् अध्यक्षता
व्यज्यते | तयोर् जयोऽस्त्व् इत्य् आशास्यते | जयतिर्
अत्र तद् इतर-सर्व-सद्-वृन्दोत्कर्ष-वचनः | तद्-उत्कर्षाश्रयत्वात् तयोस् तत्-
सर्व-नमस्यत्वम् आक्षिप्यते | तत्-सर्वान्तःपातित्वात् स्वस्य तौ नमयाव् इति
च व्यज्यते | तौ कीदृशाव् इत्य् आह | याव् इमां सम्दर्भाख्यां पुस्तिकां
विलेखयतस् तस्या लिखने मां प्रवर्तयतः | बुद्धौ सिद्धत्वात् इमाम् इत्य्
उक्तिः | तत्त्वं ज्ञापकौ तत्त्वं वाद्य-प्रभेदे स्यात् स्वरूपे परमात्मनि इति
विश्व-कोषात् | परेशं सपरिकरं ज्ञापयिष्यन्ताव् इत्य् अर्थः | कर्तरि
भविष्यति ण्वुल् षष्ठी-निषेधस् तु अकेनोर् भविष्यद् आधमर्णयोः (Pआण्
२.३.७०) इति सूत्रात् ||३||

कोऽपि तद्-बान्धवो भट्टो दक्षिण-द्विज-वंशजः |
विविच्य व्यलिखद् ग्रन्थं लिखिताद् वृद्ध-वैष्णवैः ||४||

BD: ग्रन्थस्य पुरातनत्वं स्वपरिष्कृतत्वं चाह कोऽपीति | तद्-बान्धवस्
तयो रूप=सनातनयोर् बन्धुर् गोपाल-भट्ट इत्य् अर्थः | वृद्ध-वैष्णवैः
श्री-मध्वादिभिर् लिखिताद् ग्रन्थात् तं विविच्य विचार्य सारं गृहीत्वा
ग्रन्थम् इमं व्यलिखत् ||४||

तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् |
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ||५||

BD: तस्य भट्टस्य आद्यं पुरातनं ग्रन्थनालेखं पर्यालोच्य जीवको
मल्-लक्षणः पर्यायं कृत्वा क्रमं निबध्य लिखति | ग्रन्थ सन्दर्भे
चौरादिकः | ततो ण्यास-श्रन्थ (Pआण् ३.३.१०७) इति कर्मणि युच् ग्रन्थना
ग्रन्थः | तस्य लेखं लिखनं, भावे घञ् | तं लेखं कीदृशम् इत्य् आह
क्रान्तं क्रमेण स्थितम् | व्युत्क्रान्तं व्युत्क्रमेण स्थितम् | खण्डितं
छिन्नम् इति स्वश्रमस्य सार्थक्यम् ||५||

यः श्री-कृष्ण-पदाम्भोज-भजनैकाभिलाषवान् |
तेनैव दृश्यताम् एतद् अन्यस्मै शपथोऽर्पितः ||६||

BD: ग्रन्थस्य रहस्यत्वम् आह यः श्रीति | कृष्ण-पारतम्येऽन्येनानादृते
तस्यामङ्गलं स्याद् इति | तन्-मङ्गलायैतत् | न तु ग्रन्थावद्य-भयात् |
तस्य सुव्युत्पन्नैर् निरवद्यत्वेन परीक्षितत्वात् ||६||

अथ नत्वा मन्त्र-गुरून् गुरून् भागवतार्थदान् |
श्री-भागवत-सन्दर्भं सन्दर्भं वश्मि लेखितुम् ||७||

BD: अथेति गूढस्य प्रकाशश् च सारोक्तिः श्रेस्ठा तथा | नानार्थवत्त्वं
वेद्यत्वं सन्दर्भः कथ्यते बुधैः | इत्य् अभियुक्तोक्त-लक्सणं सन्दर्भं
लेखितुं वश्मि वाञ्छामि | श्री-भागवतं सन्दृभ्यते ग्रथ्यतेऽत्रेति | हलश्
च (Pआण् ३.३.२१) इत्य् अधिकरणे घञ् ||७||

यस्य ब्रह्मेति संज्ञां क्वचिद् अपि निगमे याति चिन्-मात्र-सत्ताप्य्
अंशो यस्यांशकैः स्वैर् विभवति वशयन्न् एव मायां पुमांश् च |
एकं यस्यैव रूपं विलसति परम-व्योम्नि नारायणाख्यं
स श्री-कृष्णो विधत्तां स्वयम् इह भगवान् प्रेम तत्-पाद-भाजाम् ||८||

BD: अथ श्रोतृ-रुच्य्-उत्पत्तये ग्रन्थस्य विषयादीन् अनुबन्धान् सङ्क्षेपेण
तावद् आह यस्येति | स स्वयं भगवान् श्री-कृष्णः | इह जगति तत्-पाद-
भाजां तच्-चरण-पद्म-सेविनां स्व-विषयकं प्रेम विधत्ताम् अर्पयतु |
स कः | इत्य् आह यस्य स्वरूपानुबन्ध्याकृतिगुण-विभूति-विशिष्टस्यैव श्री-
कृष्णस्य | चिन्मात्र-सत्ता अनभिव्यक्त-तत्-तद्-विशेषा ज्ञान-रूपा
विद्यमानता | क्वचिद् अपि निगमे कस्मिंश्चित् सत्यं ज्ञानम् अनन्तं ब्रह्म
(Tऐत्त्U २.१.१) अस्तीत्य् एवोपलब्धव्यः (Kअठ्U २.३.१३) इत्य् आदि-रूपे श्रुति-
खण्डे ब्रह्मेति संज्ञां याति | तादृशतया चिन्तयतां तथा प्रतीतम् आसीद् इत्य्
अर्थः | भक्ति-भावित-मनसां तु व्यञ्जित-तत्-तद्-विशेषा सैव पुरुषत्वेन
प्रतीता भवतीति बोध्यम् | सत्यं ज्ञानम् इत्य् उपक्रान्तस्यैवानन्दमय-
पुरुषत्वेन निरूपणात् | अत एवम् उक्तं जितं ते स्तोत्रे -

न ते रूपं न चाकारो नायुधानि न चास्पदम् |
तथापि पुरुषाकारो भक्तानां त्वं प्रकाशते || इति |
स चैवं प्राचीनाङ्गीकृतम् इति वाच्यम् | उक्तरीत्या तस्याप्य्
अनभीष्टत्वाभावात् | यस्य कृष्णस्यांशः पुमान् मायां वशयन्न् एव स्वैर्
अंशकैर् विभवति | कारणार्णवशायी सहस्रशीर्षा पुरुषः सङ्कर्षणः
कृष्णांशः प्रकृतेर् भर्ता | तां वशे स्थापयन्न् एव स्व-वीक्षण-क्षुब्धया
तयाण्डानि सृष्ट्वा, तेषां गर्भेष्व् अम्बुभिर् अर्ध-पूर्णेषु सहस्र-शीर्षा
प्रद्युम्नः सन् स्वैर् अंशकैः मत्स्यादिभिः | विभवति विभव-संज्ञकान्
लीलावतारान् प्रकटयतीत्य् अर्थः | यस्यैव कृष्णस्य नारायणाख्यम् एकं
मुख्यं रूपम् | आवरणाष्टकाद् बहिःष्ठे परम-व्योम्नि विलसति स
नारायणो यय विलास इत्य् अर्थः | अनन्यापेक्षि-रूपः स्वयं भगवान् प्रायस्
तत्-सम-गुण-विभूतिर् आकृत्यादिभिर् अन्यादृक् तु विलास इति सर्वम् एतच्
चतुर्थ-सन्दर्भे विस्फुटीभविष्यद्-वीक्षणीयम् ||८||

अथैवं सूचितानां श्री-कृष्ण-तद्-वाच्य-वाचकता-लक्षण-सम्बन्ध-तद्-
भजन-लक्षण-विधेय-सपर्यायाभिधेय-तत्-प्रेम-लक्षण-
प्रयोजनाख्यानाम् अर्थानां निर्णयाय तावत् प्रमाणं निर्णीयते | तत्र
पुरुषस्य भ्रमादि-दोष-चतुष्टय-दुष्टत्वात् सुतराम् अलौकिकाचिन्त्य-
स्वभाव-वस्तु-स्पर्शायोग्यत्वाच् च तत्-प्रत्यक्षादीन्य् अपि सदोषाणि ||९||

BD:अथैवम् इति | सूचितानां व्यञ्जितानां चतुर्णाम् इत्य् अर्थः | श्री-कृष्णश् च
ग्रन्थस्य विषयः | तद्-वाच्य-वाचक-लक्षणश् च सम्बन्धः | तद्-भजनं
तच्-छ्रवण-कीर्तनादि-तल्-लक्षणं यद्-विधेयं तत्-सपर्यायां यद्
अभिधेयं तच् च | तत्-प्रेम-लक्षणं प्रयोजनं च पुरुषार्थस् तद्-
आख्यानाम् | एक-वाच्य-वाचकतवं पर्यायत्वम् | समानः पर्यायोऽस्येति
सपर्यायः | समानार्तह्क-सह-शब्देन समासाद् अस्वपद-विग्रहो बहु-
व्रीहिः | वोपसर्जनस्य इति सूत्रात् (Pआण् ६.३.८२) सहस्य सादेशः |

सह-शब्दस् तु साकल्प-यौगपद्य-समृद्धिषु |
सादृश्ये विद्यमाने च सम्बन्धे च सह स्मृतं || इति श्रीधरः |

तत्रेति पुरुषस्य व्यावहारिकस्य व्युत्पन्नस्यापि भ्रमादि-दोष-ग्रस्तत्वात्
तादृक्-पारमार्थैक-वस्तु-स्पर्शानर्हत्वाच् च तत्-प्रत्यक्षादीनि च
सदोषाणीइति योज्यम् | भ्रमः प्रमादो विप्रलिप्सा करणापटवं चेति जीवे
चत्वारो दोषाः | तेष्व् अतस्मिंस् तद्-बुद्धिर् भ्रमः | येन स्थाणौ पुरुष-
बुद्धिः | अनवधानतान्य-चित्ततालक्षणः प्रमादः | येनान्तिके गीयमानं
गानं न गृह्यते | वञ्चनेच्छा विप्रलिप्सा | ययाऽशिष्ये स्व-ज्ञातोऽप्य् अर्थो न
प्रकाश्यते | इन्द्रियम् आन्द्यं करणापटवम् | येन दत्त-मनसापि यथावत्
वस्तु न परिचीयते | एते प्रमातृ-जीव-दोषाः | पर्माणेषु सञ्चरन्ति | तेषु
भ्रमादि-त्रयं प्रत्यक्षे, तन्-मूलकेऽनुमाने च | विप्रलिप्सा तु शब्द इति
बोध्यम् | प्रत्यक्षादीन्य् अष्टौ भवन्ति प्रमाणानि | तत्रार्थ-सन्निकृष्टं
चक्षुरादीन्द्रियं प्रत्यक्षम् | अनुमिति-करणम् अनुमानम् (Tअर्क-
सङ्ग्रह) अग्न्यादि-ज्ञानम् अनुमितिः, तत्-करणं धूमादि-ज्ञानम् | आप्त-
वाक्यं शब्दः (इबिद्.) | उपमिति-करणम् उपमानम् (इबिद्.) गो-सदृशो गवय
इत्य् आदौ | संज्ञासंज्ञि-सम्बन्ध-ज्ञानम् उपमितिः (इबिद्.) तत्-करणं
सादृश्य-ज्ञानम् |

असैध्यद्-अर्थ-दृष्ट्या साधकान्यार्थकल्पनम् अर्थापत्तिः | यया
दिवाभुञ्जाने पीनत्वं रात्रि-भोजनं कल्पयित्वा साध्यते | अभाव-
ग्राहिकानुपलब्धिः | भूतले घटानुपलब्ध्या यथा घटाभावो गृह्यते |
सहस्रे शतं सम्भवेद् इति बुद्धौ सम्भावना सम्भवः | अज्ञात-
वक्तृकं परम्पराप्रसिद्धम् ऐतिह्यम् | यथेह तरौ यक्षोऽस्ति | इत्य् एवम्
अष्टौ ||९||

ततस् तानि न प्रमाणीत्य् अनादि-सिद्ध-सर्व-पुरुष-परम्परासि सर्व-
लौकिकालौकिक-ज्ञान-निदानत्वाद्-अप्राकृत-वचन-लक्षणो वेद एवास्माकं
सर्वातीत-सर्वाश्रय-सर्वाचिन्त्याश्चर्य-स्वभावं वस्तु विविदिषतां
प्रमाणम् ||१०||

BD: ततस् तानि च प्रमाणानीति | ततो भ्रमादि-दोष-योगात् | तानि
प्रत्यक्षादीनि परमार्थ-प्रमा-करणानि न भवन्ति | माया-मुण्डावलोके
तस्यैवेदं मुण्डम् इत्य् अत्र प्रत्यक्षं व्यभिचारि | वृष्ट्या तत्-काल-
निर्वापित-वह्नौ चिरं धूम-प्रोद्गारिणि गिरौ वह्मिनान् धूमात् इत्य्
अनुमानं च व्यभिचारि दृष्टम् | आप्त-वाक्यं च तथा, एकेनाप्तेन मुनिआ
सर्थितस्यार्थस्यापरेण तादृशेन दूषितत्वात् | अत उक्तं नासव् ऋषिर् यस्य
मतं न भिन्नम् इति |

एवं मुख्यानाम् एषां सदोषत्वात् तद् उपजीविनाम् उपमानादीनां तथात्वं
सुसिद्धम् एव | किंच् चाप्त-वाक्यं लौकिकार्थ-ग्रहे प्रमाणम् एव, यथा
हिमाद्रौ हिमम् इत्य् आदौ | तद्-उभय-निरपेक्षं च तत् दशमस् त्वम् असि
इत्य् आदौ | तद्-उभयागम्ये साधकतमं च तत् | ग्रहाणां राशिषु सञ्चारे
यथा | किं चाप्त-वाक्येनानुगृहीतं तद्-उभयं प्रमापकम् | दृष्ट-चर-
माया-मुण्डकेन पुंसा सत्येऽप्य् अविश्वस्ते तस्यैवेदं मुण्डम् इति
नभोवाण्यानुगृहीतं प्रत्यक्षं यथा | अरे शीतार्ताः पन्था मास्मिन्न्
अग्निं सम्भावयत, वृष्ट्या निर्वाणोऽत्र स दृष्टः किन्त्व् अमुष्मिन्
धूमोद्गारिणि गिरौ सोऽस्ति इत्य् आप्तवाक्येनानुगृहीतम् अनुमानं च यथेति |
तद् एवं प्रत्यक्षानुमान-शब्दाः प्रमाणानीत्य् आह मनुः -

प्रत्यक्षम् अनुमानं च शास्त्रं च विविधागमम् |
त्रयं सुविदितं कार्यं धर्म-शुद्धिम् अभीप्सता || इति (Mअनु १२.१०५) |

एवम् अस्मद्-वृद्धाश् च | सर्व-परम्परासु ब्रह्मोत्पन्नेषु देव-
मानवादिषु सर्वेषु वंशेषु | परम्परा परीपाट्यां सन्तानेऽपि वधे
क्वचित् इति विश्वः | लौकिक-ज्ञानं कर्म-विद्या | अलौकिक-ज्ञानं ब्रह्म-
विद्या | अप्राकृतेति वाचा विरूप नित्यया इति मन्त्र-वर्णनात् (RV ८.७५.६) |

अनादि-निधना नित्या वाग् उत्सृष्टा स्वयम्भुवा |
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ||
इति स्मरणाच् (Mभ् १२.२३१.५६-५७) च | स्फुटम् अन्यत् ||१०||

तच् चानुगतं तर्काप्रतिष्ठानात् (Vस्. २.१.११) इत्य् आदौ, अचिन्त्याः खलु ये
भावा न तांस् तर्केण योजयेत् [Mभ् ६.५.१२] इत्य् आदौ शास्त्र-योनित्वात् (Vस्. १.१.३)
इत्य् आदौ | श्रुतेस् तु शब्द-मूलत्वात् (Vस्. २.१.२७) इत्य् आदौ |

पितृ-देव-मनुष्याणां वेदश् चक्षुस् तवेश्वर |
श्रेयस् त्व् अनुपलब्धेऽर्थे साध-साधनयोर् अपि || [Bह्P ११.२०.४]
BD: ननु कोऽयम् आग्रहो वेद एवास्माकं प्रमाणम् इति चेत् तत्राह तच्
चानुमतम् इति | श्री-व्यासाद्यैर् इति शेषः | तद्-वायान्य् आह तर्केत्यादीनि
साध्य-साधनयोर् अपीत्य् अन्तानि | तर्केति ब्रह्म-सूत्र-खण्डः | तस्यार्थः -
परमार्थ-निर्णयस् तर्केण न भवति पुरुष-बुद्धि-वैविध्येन तस्य
नष्ट-प्रतिष्ठत्वात् | एवम् आह श्रुतिः नैषा तर्केण मतिर् आपनेया
प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ इति (KअठU १.२.९) | व्याप्यारोपेण
व्यापकारोपस् तर्कः (Tअर्क-सङ्ग्रह), यद्य् अयं निर्वह्निः स्यात् तदा
निर्धूमः स्यात् इत्य् एवं रूपः | स च व्याप्ति-शङ्कां निरस्यन्न्
अनुमानाङ्गं भवेद् अतस् तर्केणानुमानं ग्राह्यम् इति | अचिन्त्याः इत्य्
उद्यम-पर्वणि दृष्टम् | शास्त्रेति ब्रह्म-सूत्रम् | न इत्य् आकृष्यम् | उपास्यो
हरिर् अनुमानेनोपनिषदा वा वेद्य इति सन्देहे मन्तव्यः (Bऋहद्U ४.५.६) इति
श्रुतेर् अनुमानेन स वेद्य इति प्राप्ते नानुमानेन वेद्यो हरिः | कुतः ?
शास्त्रम् उपनिषद् योनिर् वेदन-हेतुर् यस्य तत्त्वात् | औपनिषदं पुरुषं
पृच्छामि (Bऋहद्U ३.९.२६) इत्य् आद्या हि श्रुतिः | श्रुतेस् तु इति ब्रह्म-सूत्रम्
(२.१.१७) | न इत्य् अनुवर्तते | ब्रह्मणि लोक-दृष्टाः श्रमादयो दोषा न स्युः |
कुतः | सोऽकामयत बहु स्यां प्रजायेय (Tऐत्त्U २.६.१) इति सङ्कल्प-मात्रेण
निखिल-सृष्टि-श्रवणात् | ननु श्रुतिर् बाधितं कथं ब्रूयाद् इति चेत् तत्राह
शब्देति | अविचिन्त्यार्थस्य शब्दैक-प्रमाणकत्वात् | दृष्टं चैतन् मणि-
मन्त्रादौ | पितृदेव इत्य् उद्धवोक्तिर् एकादेशे | हे ईश्वर, तव वेदः
पित्रादीनां श्रेयः श्रेष्ठं चक्षुः | क्वेत्य् आह अनुपलब्धेऽर्थ इत्य् आदि |
तथा च वेद एवास्माकं प्रमाणम् इति मद्-वाक्यं सर्व-सम्मतिम् इति
नापूर्वं मयोक्तम् ||११||

तत्र च वेद-शब्दस्य सम्प्रति दुष्पारत्वाद् दुरधिगमार्थत्वाच् च तद्-
अर्थ-निर्णायकानां मुनीनाम् अपि परस्पर-विरोधाद् वेद-रूपो वेदार्थ-
निर्णायकश् चेतिहास-पुराणात्मकः शब्द एव विचारणीयः | तत्र च यो वा
वेद-शब्दो नात्म-विदितः सोऽपि तद्-दृष्ट्यानुमेय एवेति सम्प्रति तस्यैव
प्रमोत्पादकत्वं स्थितम् | तथा हि महाभारते मानवीये च - इतिहास-
पुराणाभ्यां वेदं समुपबृंहयेत् इति [Mभ् १.१.२६७] | पूरणात् पुराणम् इति
चान्यत्र | न चावेदेन वेदस्य बृंहणं सम्भवति | न ह्य् अपरिपूर्णस्य
कनक-वलयस्य त्रपुणा पूरणं युज्यते |

ननु यदि वेद-शब्दः पुराणम् इतिहासं चोपादत्ते | तर्हि पुराणम् अन्यद्
अन्वेषणीयम् | यदि तु न, न तर्हीतिहास-पुराणयोर् अभेदो वेदेन | उच्यते -
विशिष्टैकार्थ-प्रतिपादक-पद-कदम्बस्यापौरुषेयत्वाद् अभेदेऽपि
स्वरक्रमभेदाद् भेद-निर्देशोऽप्य् उपपद्यते | ऋग्-आदिभिः समम् अनयोर्
अपौरुषेयत्वेनाभेदो माध्यन्दिन-श्रुताव् एव व्यज्यते एवं वा अरेऽस्य
महतो भूतस्य निश्वसितम् एतद् यद् ऋग्-वेदो यजुर्-वेदः साम-
वेदोऽथर्वाङ्गिरस इतिहासः पुराणम् इत्य् आदिना [Bऋहद्U २.४.१०] ||१२||

BD: एवं चेद् ऋग्-आदि-वेदेनास्तु परमार्थ-विचारः | तत्राह तत्र च वेद-
शब्दस्येति | तर्हि न्यायादि-शास्त्रैर् वेदार्थ-निर्णेतृभिः | सोऽस्तीति चेत् तत्राह
तद्-अर्थ-निर्णायकानाम् इति | तस्यैवेति इतिहास-पुराणात्मकस्य वेद-रूपस्येत्य्
अर्थः | समुपबृंहयेद् इति वेदार्थं स्पष्टीकुर्याद् इत्य् अर्थः | पुराणाद् इति
वेदार्थस्येति बोध्यम् | त्रपुणा सीसकेन | पुराणेतिहासयोर् वेद-रूपतायां
कश्चिच् छङ्कते नन्व् इत्य् आदिना | तत्र समाधत्ते उच्यत इत्य् आदिना | निखिल-
शक्ति-विशिष्ट-भगवद्-रूपैकार्थ-प्रतिपादकं यत् पदक-दम्ब-मृगादि-
पुराणान्तं तस्येति | ऋगादि-भागे स्वर-क्रमोऽस्ति इतिहास-पुराण-भागे तु स
नास्तीत्य् एतद्-अंशेन भेदः | एवं वा इति मैत्रेयीं पत्नीं प्रति याज्ञवल्क्य-
वचनम् | अरे मैत्रेयि अस्येश्वरस्य महतो विभोः पूज्यस्य वा भूतस्य
पूर्व-सिद्धस्य | स्फुटार्थम् अन्यत् ||१२||

अतएव स्कान्द-प्रभास-खण्डे -

पुरा तपश् चचारोग्रम् अमराणां पितामहः |
आविर्भूतास् ततो वेदाः सषड्-अङ्ग-पद-क्रमाः ||
ततः पुराणम् अखिलं सर्व-शास्त्र-मयं ध्रुवम् |
नित्य-शब्द-मयं पुण्यं शत-कोटि-प्रविस्तरम् ||
निर्गतं ब्रह्मणो वक्त्रात् तस्य भेदान् निबोधत |
ब्राह्म्यं पुराणं प्रथमम् इत्य् आदि | [Sकन्दP २.३-५]

अत्र शत-कोटि-सङ्ख्या ब्रह्म-लोके प्रसिद्धेति तथोक्तम् | तृतीय-स्कन्धे
च ऋग्-यजुः-सामाथर्वाख्यान् वेदान् पूर्वादिभिर् मुखैः [Bह्P ३.१२.३७] इत्य्
आदि-प्रकरणे,

इतिहास-पुराणानि पञ्चमं वेदम् ईश्वरः |
सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्व-दर्शनः || इति | [Bह्P ३.१२.३९]

अपि चात्र साक्षाद् एव वेद-शब्दः प्रयुक्तः पुराणेतिहासयोः | अन्यत्र च --
पुराणं पञ्चमो वेदः | इतिहासः पुराणं च पञ्चमो वेद उच्यते [Bह्P
१.४.२०] | वेदान् अध्यापयामास महाभारत-पञ्चमान् [Mभ् १२.३४०.११] इत्य्
आदौ | अन्यथा वेदान् इत्यादाव् अपि पञ्चमत्वं नावकल्पेत समान-जातीय-
निवेशितत्वात् सङ्ख्यायाः | भविष्य-पुराणे कार्ष्णं च पञ्चमं वेदं यन्
महाभारतं स्मृतम् इति | तथा च साम-कौथुमीय-शाखायां
छान्दोग्योपनिषदि च -- ऋग्-वेदं भगवोऽध्येमि यजुर्-वेदं साम-वेदम्
आथर्वणं चतुर्थम् इतिहासं पुराणं पञ्चमं वेदानां वेदम् [CहाU
७.१.२] इत्य् आदि | अतएव अस्य महतो भूतस्य [Bऋहद्U २.४.१०] इत्य् आदाव् इतिहास-
पुराणयोश् चतुर्णाम् एवान्तर्भूतत्व-कल्पनया प्रसिद्ध-प्रत्याख्यानं
निरस्तम् | तद् उक्तं ब्राह्म्यं पुराणं प्रथमम् इत्य् आदि ||१३||

BD: पुरेत्यादौ वेदानां पुराणानां चाविर्भाव उक्तः | ससृजे
आविर्भावयामास | समानेति यज्ञ-दत्त-पञ्चमान् विप्रान् आमन्त्रयस्व
इतिवत् | कार्ष्णम् इति कृष्णेन व्यासेनोक्तम् इत्य् अर्थः | अतएवेति पञ्चम-
वेदत्व-श्रवणाद् एवेत्य् अर्थः | चतुर्णाम् एवान्तर्गते | तेष्व् एव यत्
पुरावृत्तं यच् च पञ्च-लक्षणम् आख्यानं | ते एव तद्-भूते ग्राह्ये | न तु
ये व्यास-कृत-तत्त्वेन भुवि ख्याते शूद्राणाम् अपि श्रव्ये इति कर्मठैर् यत्
कल्पितं तन्-निरस्तम् इत्य् अर्थः ||१३||

पञ्चमत्वे कारणं च वायु-पुराणे सूत-वाक्यम् -

इतिहास-पुराणानां वक्तारं सम्यग् एव हि |
मां चैव प्रतिजग्राह भगवान् ईश्वरः प्रभुः ||
एक आसीद् यजुर् वेदस् तं चतुर्धा व्यकल्पयत् |
चातुर्होत्रम् अभूत् तस्मिंस् तेन यज्ञम् अकल्पयत् ||
आध्वर्यवं यजुर्भिस् तु ऋग्भिर् होत्रं तथैव च |
औद्गात्रं सामभिश् चैव ब्रह्मत्वं चाय् अथर्वभिः || [VआयुP ६०.१६-१८]
आख्यानैश् चाप्य् उपाख्यानैर् गाथाभिर् द्विज-सत्तमाः |
पुराण-संहिताश् चक्रे पुराणार्थ-विशारदः ||
यच् छिष्टं तु यजुर्वेद इति शास्त्रार्थ-निर्णयः | [VआयुP ६०.२१-२२]

इति ब्रह्म-यज्ञाध्ययने च विनियोगो दृश्यतेऽमीषां यद्-ब्राह्मणानीतिहास-
पुराणानि इति | सोऽपि नावेदत्वे सम्भवति | अतो यद् आह भगवान् मात्स्ये --

कालेनाग्रहणं मत्वा पुराणस्य द्विजोत्तमाः |
व्यास-रूपम् अहं कृत्वा संहरामि युगे युगे || इति [Mअत्स्यP ५३.८-९]

पूर्व-सिद्धम् एव पुराणं सुख-सङ्ग्रहणाय सङ्कल्पयामीति तत्रार्थः |
तद्-अनन्तरं ह्य् उक्तम् -

चतुर्लक्ष-प्रमाणेन द्वापरे द्वापरे सदा |
तद्-अष्टादशधा कृत्वा कृत्वा भूर्-लोकेऽस्मिन् प्रभाष्यते |
अद्याप्य् अमर्त्य-लोके तु शत-कोटि-प्रविस्तरम् |
तद्-अर्थोऽत्र चतुर्-लक्षः सङ्क्षेपेण निवेशितः || [Mअत्स्यP ५३.९-११] इति |

अत्र तु यच् छिष्टं तु यजुर् वेदे इत्य् उक्तत्वात् तस्याभिधेय-भागश्
चतुर्लक्षस् त्व् अत्र मर्त्य-लोके सङ्क्षेपेण सार-सङ्ग्रहेण निवेशितः | न तु
रचनान्तरेण ||१४||

BD: पञ्चमत्वे कारणं चेति | ऋग्-आदिभिश् चतुर्भिश् चातुर्होत्रं चतुर्भिर्
ऋत्विभिर् निस्पाद्यं कर्म भवति इतिहासादिभ्यां तन् न भवतीति तद्-
भागस्य पञ्चमत्वम् इत्य् अर्थः | आख्यानैः पञ्च-लक्षणैः पुराणानि |
उपाख्यानैः पुरावृत्तैः | गाथाभिश् छन्दो-विशेषैश् च | संहिता भारत-
रूपाश् चक्रे| ताश् च यच् छिष्टं तु यजुर् वेद तद्-रूपा इत्य् अर्थः | ब्रह्मेति |
ब्रह्म-यज्ञे वेदाध्ययनेऽमीषाम् इतिहासादीनां विनियोगो दृश्यते | सोऽपि
विनियोगस् तेषाम् अवेदत्वे न सम्भवति | कृत्वाऽविर्भाव्य | सङ्कलयामि
सङ्क्षिपामि | अभिधेय-भागः सारांशः ||१४||

तथैव दर्शितं वेद-सहभावेन शिव-पुराणस्य वायवीय-संहितायाम् -

सङ्क्षिप्य चतुरो वेदांश् चतुर्धा व्यभजत् प्रभुः |
व्यस्त-वेदतया ख्यातो वेद-व्यास इति स्मृतः ||
पुराणम् अपि सङ्क्षिप्तं चतुर्लक्ष-प्रमाणतः |
अद्याप्य् अमर्त्य-लोके तु शत-कोटि-प्रविस्तरम् || [ŚइवP १.३३-३४]

सङ्क्षिप्तम् इत्य् अत्र तेनेति शेषः | स्कान्दम् आग्नेयम् इत्य् आदि समाख्यास् तु
प्रवचन-निबन्धनाः काठकादिवत् | आनुपूर्वीर् निर्माण-निबन्धना वा |
तस्मात् क्वचिद् अनित्यत्व-श्रवणं त्व् आविर्भाव-तिरोभावापेक्षया | तद् एवम्
इतिहास-पुराणयोर् वेदत्वं सिद्धम् | तथापि सूतादीनाम् अधिकारः | सकल-
निगम-वल्ली-सत्-फल-श्री-कृष्ण-नामवत् | यथोक्तम् - प्रभास-खण्डे -

मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां
सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् |
सकृद् अपि परिगीतं श्रद्धया हेलया वा
भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम || इति ||

यथा चोक्तं विष्णु-धर्मे -
ऋग्-वेदोऽथ यजुर्-वेदः साम-वेदोऽप्य् अथर्वणः |
अधीतास् तेन येनोक्तं हैर् इत्य् अक्षर-द्वयम् || इति |

अथ वेदार्थ-निर्णायकत्वं च वैष्णवे -
भारत-व्यपदेशेन ह्य् आम्नायार्थः प्रदर्शितः |
वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः || इत्य् आदौ |

किं च वेदार्थ-दीपकानां शास्त्राणां मध्य-पातिताभ्युपगमेऽप्य्
आविर्भावक-वैशिष्ट्यात् तयोर् एव वैशिष्ट्यम् | यथा पाद्मे --

द्वैपायनेन यद् बुद्धं
ब्रह्माद्यैस् तन् न बुध्यते |
सर्व-बुद्धं स वै वेद
तद् बुद्धं नान्य-गोचरः ||१५||

BD: व्यस्तेति | व्यस्ता विभक्ता वेदा येन ततया वेद-व्यासः स्मृतः |
स्कान्दम् इत्य् आदि | स्कन्देन प्रोक्तं न तु कृतम् इति वक्तृ-हेतुका स्कान्दादि-
संज्ञा | कठेनाधीतं काठकम् इत्य् आदि संज्ञावत् | कठानां वेदः
काढकः | गोत्र-वरणाद् वुञ् (Pआण् ४.३.१२६), चरणाद् धर्माम्नाययोर् इति
वक्तव्यम् इति सूत्र-वार्तिकाभ्याम् | ततश् च कञ्हेनाधीतम् इति सुष्ठूक्तम् |
अन्यथा जनत्वेनानित्यतापत्तिः | आनुपूर्वी क्रमः | ब्राह्यम् इत्य्
आदिकरमनिर्माण-हेतुका वा सा सा स`ज्ञेत्य् अर्थः | ब्राह्म्यादिक्रमेअ
पुराण-भागो बोध्यः | तथापि सूतादीनाम् इति | इतिहासादेर् वेदत्वेऽपि तत्र
शूद्राधिकारः स्त्री-शूद्र-द्विज-बन्धूनाम् इत्य् आदि-वाक्य-बलाद् बोध्यः |
भारत-व्यपदेशेनेति | दुरूह-भागस्य व्याख्यानात्, छिन्न-भागार्थ-
पूरणाच् चपुराणे वेदाः प्रतिष्ठिताः नैश्चल्येन स्थिता इत्य् अर्थः | किं चेति |
वेदार्थ-दीपकानां मानवीयादीनां मध्ये यद्यपीतिहास-पुराणयोः
स्मृतित्वेनाभ्युपगमस् तथापि व्यासयेश्वरस्य तद्-आविर्भावकत्वात् तद्-
उत्कर्ष इत्य् अर्थः | तत्र प्रमाणं द्वैपायनेनेत्य् आदि ||१५||

स्कान्दे -
व्यास-चित्त-स्थिताकाशाद् अवच्छिन्नानि कानिचित् |
अन्ये व्यवहरन्त्य् एतान्य् उरीकृत्य गृहाद् इव || इति |

तथैव दृष्टं श्री-विष्णु-पुराणे पराशर-वाक्यम् -

ततोऽत्र मत्-सुतो व्यास अष्टाविंशतिमेऽन्तरे |
वेदम् एकं चतुष्पादं चतुर्धा व्यभजत् प्रभुः ||
यथात्र तेन वै व्यस्ता वेद-व्यासेन धीमता |
वेदस् तथा समस्तैस् तैर् व्यासैर् अन्यैस् तथा मया ||
तद् अनेनैव व्यासानां शाखाभेदान् द्विजोत्तम |
चतुर्युगेषु रचितान् समस्तेष्व् अवधारय ||
कृष्ण-द्वैपायनं व्यासं विद्धि नारायणं प्रभुम् |
कोऽन्यो हि भुवि मैत्रेय महाभारत-कृद् भवेत् || [VइP ३.४.२-५] इति |

स्कान्द एव -

नारायणाद् विनिष्पन्नं ज्ञानं कृत-युगे स्थितम् |
किञ्चित् तद् अन्यथा जातं त्रेतायां द्वापरेऽखिलम् ||
गौतमस्य ऋषेः शापाज् ज्ञाने त्व् अज्ञानतां गते |
सङ्कीर्ण-बुद्धयो देवा ब्रह्म-रुद्र-पुरःसराः ||
शरण्यं शरणं जग्मुर् नारायणम् अनामयम् |
तैर् विज्ञापित-कार्यस् तु भगवान् पुरुषोत्तमः ||
अवतीर्णो महायोगी सत्यवत्यां पराशरात् |
उत्सन्नान् भगवान् वेदान् उज्जहार हरिः स्वयम् || इति |

वेद-शब्देनात्र पुराणादि-द्वयम् अपि गृह्यते | तद् एवम् इतिहास-पुराण-
विचार एव श्रेयान् इति सिद्धम् | तत्रापि पुराणस्यैव गरिमा दृश्यते | उक्तं
हि नारदीये -

वेदार्थाद् अधिकं मन्ये पुराणार्थं वरानने |
वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ||
पुराणम् अन्यथा कृत्वा तिर्यग्-योनिम् अवाप्नुयात् |
सुदान्तोऽपि सुशान्तोऽपि न गतिं क्वचिद् आप्नुयात् || इति |१६||

BD: व्यासेति | बादरायणस्य ज्ञानं महाकाशम् | अन्येषां ज्ञानानि तु तद्-
अंश-भूतानि खण्डाकाशानीति तस्येश्वरत्वात् सार्वज्ञ्यम् उक्तम् | ततोऽत्र
मत्-सुतः इत्य् आदौ च व्यासान्तरेभ्यः पाराशर्यस्येश्वरत्वान् महोत्कर्षः |
नारायणात् इत्य् आदौ चेश्वरत्वं प्रस्फुटम् उक्तम् | गौतमस्य शापात् इति |
वरोत्पन्न-नित्यधान्य-राशिर् गौतमो महति दुर्भिक्षे विप्रान् अभोजयत् |
अथ सुभिक्षे गन्तुकामांस् तान् हठेन न्यवासयत् | ते च मायानिर्मिताया
गो-गौतम-स्पर्शेन मृताया हत्याम् उक्त्वा गताः | ततः कृत-प्रायश्चित्तोऽपि
गौतमस् तन्-मायां विज्ञाय शशाप | ततस् तेषां ज्ञान-लोप इति वाराहे
कथास्ति | अधिकम् इति | निःशन्देहत्वाद् इति बोध्यम् | अन्यथा कृत्वा
अवज्ञाय ||१६||

स्कान्द-प्रभास-खण्डे --

वेदवन् निश्चलं मन्ये पुराणार्थं द्विजोत्तमाः |
वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ||
बिभेत्य् अल्प-श्रुताद् वेदी माम् अयं चालयिष्यति |
इतिहास-पुराणैस् तु निश्चलोऽयं कुतः पुरा ||
यन् न दृष्टं हि वेदेषु तद् दृष्टं स्मृतिषु द्विजाः |
उभयोर् यन् न दृष्टं हि तत् पुराणैः प्रगीयते ||
यो वेद चतुरो वेदान् साङ्गोपनिषदो द्विजाः |
पुराणं नैव जानाति न च स स्याद् विचक्षणः || (२.९०-९३) इति |

अथ प्रुआणानाम् एवं प्रामाण्ये स्थितेऽपि तेषाम् अपि सामस्त्येनाप्रचरद्-
रूपत्वात् नानादेवताप्रतिपादक-प्रायत्वाद् अर्वाचीनैः क्षुद्रर्-बुद्धिभिर्
अर्थो दुरधिगम इति तद्-अवस्थ एव संशयः | यद् उक्तं मात्स्ये -

पञ्चाङ्गं च पुराणं स्याद् आख्यानम् इतरत् स्मृतम् |
सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः ||
राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः |
तद्वद् अग्नेश् च माहात्म्यं तामसेषु शिवस्य च |
सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते || इति |

अत्राग्नेस् तत्-तद्-अगनु प्रतिपाद्यस्य तत्-तद्-यज्ञस्येत्य् अर्थः | शिवस्य चेति
चकाराछ् छिवायाश् च | सङ्कीर्णेषु सत्त्व-रजस्-तमोमयेषु कल्पेषु बहुषु |
सरस्वत्याः नानावाण्यात्मक-तद्-उपलक्षिताया नानादेवताया इत्य् अर्थः |
पितॄणां कर्मणा पितृलोकः [BAU १.५.१६] इति | श्रुतेस् तत् प्रापक-कर्मणाम्
इत्य् अर्थः ||१७||

BD: वेदवद् इति | पुराणार्थो वेदवत् सर्व-सम्मत इत्य् अर्थः | ननु
पण्डितैः कृताद् वेद-भाष्यात् तद्-अर्थो ग्राह्य इति चेत् तत्राह बिभेतीति |
अकृते भाष्ये सिद्धे किं तेन कृत्रिमेणेति भावः | अथेति अस्न्दिग्धार्थतया
पुराणानाम् एव प्रामाण्ये प्रमाकरणत्व इत्य् अर्थः | अर्वाचीनैः क्ष्द्र-
बुद्धिभिर् इति | यस्य विभूतयोऽपीदृश्यः स हरिर् एव सर्व-श्रेष्ठ इति
तदैकार्थ्यम् -

वेद रामायणे चैव पुराणे भारते तथा |
आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयते || (HV १३२.९५)[*ENDNOTE #१]

इति हरिवंशोक्तम् अजानद्भिर् इत्य् अर्थः ||१७||

तद् एवं सति तत्-तत्-कल्प-कथामयत्वेनैव मात्स्य एव प्रसिद्धानां तत्-तत्-
पुराणानां व्यवस्था ज्ञापिता | तारतम्यं तु कथं स्यात् येनेतर-निर्णयः
क्रियेत | सत्त्वादि-तारतम्येनैवेति चेत्, सत्त्वात् सञ्जायते ज्ञानम् (Gईता १४.१७)
इति सत्त्वं यद् ब्रह्म-दर्शनम् इति च न्यायात् सात्त्विकम् एव पुराणादिक
परमार्थ-ज्ञानाय प्रब्लम इत्य् आयातम् | तथापि परमार्थेऽपि नाना-
भङ्ग्या विप्रतिपद्यमानानां समाधानाय किं स्यात् | यदि सर्वस्यापि
वेदस्य पुराणस्य चार्थ-निर्णयाय तेनैव श्री-भगवता व्यासेन ब्रह्म-
सूत्रं कृतं तद्-अवलोकनेनैव सर्वोऽर्थो निर्णये इत्य् उच्यते | तर्हि नान्य-
सूत्रकार-मुन्य्-अनुगतैर् मन्येत | किं चात्यन्त-गूढार्थानाम्
अल्पाक्षराणां तत्-सूत्राणाम् अन्यार्थत्वं कश्चिद् आचक्षीत | ततः कतरद्
इवात्र समाधानम् | तद् एव समाधेयम् यद्य् एकतमम् एव पुराण-
लक्षणम् अपौरुषेयं शास्त्रं सर्व-वेदेतिहास-पुराणानाम् अर्थ-सारं
ब्रह्म-सूत्रोपजीव्यं च भवद् भुवि सम्पूर्णं प्रचरद्-रूपं स्यात् |
सत्यम् उक्तम्, यत एव च सर्व-प्रमाणानां चक्रवर्ति-भूतम् अस्मद्-
अभिमतं श्रीमद्-भागवतम् एवोद्भावितं भवता ||१८||

BD: तद् एवम् इति | मात्स्य एवेति | पुराण-सङ्ख्या-तद्-दान-फल-
कथनाञ्चितेऽध्याय इति बोध्यम् | तारतम्यम् इति | अपकर्षोत्कर्ष-रूपं
येनेतरस्योत्कृष्टस्य पुराणस्य निर्णयः स्याद् इत्य् अर्थः | सात्त्विक-पुराणम्
एवोत्कृष्टम् इति भावेन स्वयम् आह सत्त्वाद् इति | पृच्छति तथापीति,
परमार्थ-निर्णयाय सात्त्विक-शास्त्राङ्गीकारेऽपीत्य् अर्थः | नाना-भङ्ग्येति
| सगुणं निर्गुणं ज्ञान-गुणकं जडम् इत्य् आदिकं कुटिल-युक्ति-कदम्बैर्
निरूपयताम् इत्य् अर्थः | नाना-सूत्र-कारेति | गौतमाद्य्-अनुसारिभिर् इत्य्
अर्थः | ननु ब्रह्म-सूत्र-शास्त्रे स्थिते कापेक्षा तद्-अन्य-सूत्राणाम् इति चेत्
तत्राह किं चात्यन्तेति | पृष्टः प्राह तद् एवेति | ब्रह्म-सूत्रोपजीव्यम् इति |
येन ब्रह्म-सूत्रं स्थिरार्थं स्याद् इत्य् अर्थः | पृष्टस्य हृद्-गतं
स्फुटयति सत्यम् उक्तम् इत्य् आदिना ||१८||

यत् खलु पुराण-जातम् आविर्भाव्य ब्रह्म-सूत्रं च प्रणीयाप्य
अपरितुष्टेन तेन भगवता निज-सूत्राणाम् अकृत्रिम-भाष्य-भूतं
समाधि-लब्धम् आविर्भावितं यस्मिन्न् एव सर्व-शास्त्र-समन्वयो दृश्यते |
सर्व-वेदार्थ-लक्षणां गायत्रीम् अधिकृत्य प्रवर्तितत्वात् | तथा हि तत्-
स्वरूपं मात्स्ये -

यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः |
वृत्रासुर-वधोपेतं तद्-भागवतम् इष्यते || (Mअत्स्यP ५३.२०)
लिखित्वा तच् च यो दद्याद् धेम-सिंह-समन्वितम् |
प्रौष्ठ-पद्यां पौर्णमास्यां स याति परमां गतिम् |
अष्टादश-सहस्राणि पुराणं तत् प्रकीर्तितम् || (Mअत्स्यP ५३.२२) इति |

अत्र गायत्री-शब्देन तत्-सूचक-तद्-अव्यभिचारि-धीमहि-पद-संवलित-तद्-
अर्थं एवेष्यते | सर्वेषां मन्त्राणाम् आदिरूपायास् तस्याः साक्षात्-
कथनानर्हत्वात् | तद्-अर्थता च जन्माद्य् अस्य यतः [Bह्P १.१.१],

तेन ब्रह्म हृदा इति सर्व-लोकाश्रयत्व-बुद्धि-वृत्ति-प्रेरकत्वादि-साम्यात् |
धर्म-विस्तर इत्य् अत्र धर्म-शब्दः परम-धर्म-परः | धर्मः
प्रोज्झित-कैतवोऽत्र परमः [Bह्P १.१.२] इत्य् अत्रैव प्रतिपादितत्वात् | स च
भगवद्-ध्यानादि-लक्षण एवेति पुरस्ताद् व्यक्तीभविष्यति ||१९||

BD: श्रीभागवतं स्तौति यत् खल्व् इत्य् आदि | अपरितुष्टेनेति | पुराण-जाते
ब्रह्म-सूत्रे च भगवत्-पारमैश्वर्य-माधुर्ययोः सन्दिग्धतया
गूढतया चोक्तेस् तत्र तत्र चापरितोषः | श्री-भागवते तु तयोस् तद्-
विलक्षणतयोक्तेस् तत्र परितोष इति बोध्यम् | तद्-अर्थता गायत्र्य्-अर्थता | स
च भगवद्-ध्यानादि-लक्षण इति | विशुद्ध-भक्ति-मार्ग-बोधक इत्य्
अर्थः ||१९||

एवं स्कान्दे प्रभास-खण्डे च यत्राधिकृत्य गायत्रीम् इत्य् आदि |

सारस्वतस्य कल्पस्य मध्ये ये स्युर् नरामराः |
सद्-वृत्तानोद्भवं लोके तच् च भागवतं स्मृतम् ||

लिखित्वा तच् च इत्य् आदि | अष्टादश-सहस्राणि पुराणं तत् प्रकीर्तितम् इति
पुराणान्तरं च -

ग्रन्थोऽष्टादश-साहस्रो द्वादश-स्कन्ध-सम्मितः |
हयग्रीव-ब्रह्म-विद्या यत्र वृत्र-वधस् तथा |
गायत्र्या च समारम्भस् तद् वै भागवतं विदुः || इति |

अत्र हयग्रीव-ब्रह्म-विद्या इति वृत्र-वध-साहचर्येण नारायण-
वर्मैवोच्यते | हयग्रीव-शब्देनात्राश्वशिरा दधीचिर् एवोच्यते | तेनैव च
प्रवर्तिता नारायण-वर्माख्या ब्रह्म-विद्या | तस्याश्व-शिरस्त्वं च षष्ठे
यद् वा अश्व-शिरो नाम [Bह्P ६.९.५२] इत्य् अत्र प्रसिद्धं नारायण-वर्मणो
ब्रह्म-विद्यात्वं च -
एतच् छ्रुत्वा तथोवाच दध्यङ् आथर्वणस् तयोः |
प्रवर्ग्यं ब्रह्म-विद्यां च सत्-कृतोऽसत्य-शङ्कितः || इति

टीकोत्थापित-वचनेन चेति | श्रीमद्-भागवतस्य भगवत्-प्रियत्वेन
भागवताभीष्टत्वेन च परम-सात्त्विकत्वम् | यथा पाद्मे अम्बरीषं
प्रति गौतम-प्रश्नः -

पुराणं त्वं भागवतं पठसे पुरतो हरेः |
चरितं दैत्य-राजस्य प्रह्लादस्य च भूपते || [Pअद्मP]

तत्रैव व्यञ्जुली-माहात्म्ये तस्य तस्मिन्न् उपदेशः -

रात्रौ तु जागरः कार्यः श्रोतव्या वैष्णवी कथा |
गीतानाम् असहस्रं च पुराणं शुक-भाषितम् |
पठितव्यं प्रयत्नेन हरेः सन्तोष-कारणम् || [Pअद्मP]

तत्रैवान्यत्र -

अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु |
पठस्व स्व-मुखेनैव यदीच्छसि भव-क्षयम् || [Pअद्मP]

स्कान्दे प्रह्लाद-संहितायां द्वारका-माहात्म्ये -

श्रीमद्-भागवतं भक्त्या पठते हरि-सन्निधौ |
जागरे तत्-पदं याति कुल-वृन्द-समन्वितः ||२०||

BD: ग्रन्थ इत्य् आदौ हयग्रीवादि-शब्दयोर् भ्रान्तिं निराकुर्वन् व्याचष्टे |
अत्र हयग्रीवेत्य् आदिना | एतच् छ्रुत्वेति | दध्यङ् दधीचिः | प्रवर्ग्यम् इति
प्राण-विद्याम् | ननु पाद्मादीनि सात्त्विकानि पञ्च सन्ति | तैर् अस्तु विचार इति
चेत् तत्राह श्रीमद् इति | एतस्य परम-सात्त्विकत्वे पाद्मादि-वचनान्य्
उदाहरति पुराणं त्वम् इत्य् आदिना | कुल-वृन्देति तत्-कर्तृक-श्रवण-
महिम्ना तत्-कुलस्य च हरि-पद-लाभ इत्य् अर्थः ||२०||

गारुडे च -

पूर्णः सोऽयम् अतिशयः |
अर्थोऽयं ब्रह्म-सूत्राणां भारतार्थ-विनिर्णयः ||
गायत्री-भाष्य-रूपोऽसौ वेदार्थ-परिबृंहितः |
पुराणानां साम-रूपः साक्षाद्-भगवतोदितः ||
द्वादश-स्कन्ध-युक्तोऽयं शतविच्-छेद-संयुतः |
ग्रन्थोऽष्टादश-साहस्रः श्रीमद्-भागवताभिधः || इति |

ब्रह्म-सूत्राणाम् अर्थस् तेषाम् अकृत्रिम-भाष्य-भूत इत्य् अर्थः | पूर्वं
सूक्ष्मत्वेन मनस्य् आविर्भूतं तद् एव सङ्क्षिप्य सूत्रत्वेन पुनः
प्रकटितम् पश्चाद् विस्तीर्णत्वेन साक्षाच्-छ्री-भागवतम् इति | तस्मात् तद्-
भाष्य-भूते स्वतः-सिद्धे तस्मिन् सत्यर्वचीनम् अन्यद् अन्येषां
स्वस्वकपोल-कल्पितं तद्-अनुगतम् एवादरणीयम् इति गम्यते |

भारतार्थ-विनिर्णयः -

निर्णयः सर्व-शास्त्राणां भारतं परिकीर्तितम् |
भारतं सर्व-वेदाश् च तुलाम् आरोपिताः पुरा |
देवैर् ब्रह्मादिभिः सर्वैर् ऋषिभिश् च समन्वितैः ||
व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् |
महत्त्वाद् भारवत्त्वाच् च महाभारतम् उच्यते ||

इत्य् आद्य्-उक्त-लक्षणस्य भारतस्यार्थ-विनिर्णयो यत्र सः | श्री-भगवत्य्
एव तात्पर्यं तस्यापि | तद् उक्तं मोक्ष-धर्मे नारायणीये श्री-वेद-व्यासं
प्रति जनमेजयेन -

इदं शतसहस्राद् धि भारताख्यान विस्तरात् |
आमथ्य मतिमन्थेन ज्ञानोदधिम् अनुत्तमम् ||
नव नीतं यथा दध्नो मलयाच् चन्दनं यथा |
आरण्यकं च वेदेभ्य ओषधिभ्यो ऽमृतं यथा ||
समुद्धृतम् इदं ब्रह्मन् कथामृतम् अनुत्तमम् |
तपो निधे त्वयोक्तं हि नारायण कथाश्रयम् || [Mभ् १२.३३१.२-४] इति |२१||

BD: गारुड-वचनैश् च परम-सात्त्विकत्वं व्यञ्जयन् ब्रह्म-सूत्राद्य्-अर्थ-
निर्णीयकत्वं गुणम् आह अर्थोऽयम् इति | गारुड-वाक्य-पदानि व्याचष्टे
ब्रह्म-सूत्राणाम् इत्य् आदिना | तस्मात् तद्-भाष्येत्य् आदि अन्यद् वैष्णवाचार्य-
रचितम् आधुनिकं भाष्यं तद्-अनुगतं श्री-भागवताविरुद्धम्
एवादर्तव्यं | तद्-विरुद्धं शङ्कर-भट्ट-भास्करादि-रचितं तु हेयम्
इत्य् अर्थः | भारतार्थेति पदं व्याकुर्वन् भारत-वाक्येनैव भारत-
स्वरूपं दर्शयति निर्णयः सर्वेति | भारतं किं तात्पर्यकम् इत्य् आह
श्रीभगवत्य् एवेति | तस्य भारतस्यापीत्य् अर्थः | भारतस्य भगवत्-तात्-
पर्यकत्वे नारायणीय-वाक्यम् उदाहरति इदं शतेत्य् आदि ||२१||

तथा च तृतीये -

मुनिर् विवक्षुर् भगवद्-गुणानां
सखापि ते भारतम् आह कृष्णः |
यस्मिन् नृणां ग्राम्य-सुखानुवादैर्
मतिर् गृहीता नु हरेः कथायाम् || इति [Bह्P ३.५.१२]

तस्माद् गायत्री-भाष्य-रूपोऽसौ | तथैव हि विष्णुधर्मोत्तरादौ तद्-
व्याख्याने भगवान् एव विस्तरेण प्रतिपादितः | अत्र जन्माद्यस्य इत्य् अस्य
व्याख्यानं च तथा दर्शयिष्यते |

वेदार्थ-परिबृंहितः | वेदार्थस्य परिबृंहणं यस्मात् | तच् चोक्तम् इतिहास-
पुराणाभ्याम् इत्य् आदि | पुराणानां साम-रूपः | वेदेषु सामवत् स तेषु
श्रेष्ठ इत्य् अर्थः | अतएव स्कान्दे -

शतशोऽथ सहस्रैश् च किम् अन्यैः शास्त्र-सङ्ग्रहैः |
न यस्य तिष्ठते गेहे शास्त्रं भागवतं कलौ ||
कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ |
गृहे न तिष्ठते यस्य स विप्रः श्वपचाधमः ||
यत्र यत्र भवेद् विप्र शास्त्रं भागवतं कलौ |
तत्र तत्र हरिर् याति त्रिदशैः सह नारद ||
यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने |
अष्टादश-पुराणानां फलं प्राप्नोति मानवः || इति |

शत-विच्छेद-संयुतः | पञ्चत्रिंशद्-अधिक-शत-त्रयाध्याय-विशिष्ट इत्य्
अर्थः | स्पष्टार्थम् अन्यत् | तद् एवं परमार्थ-विवित्सुभिः श्री-भागवतम्
एव साम्प्रतं विचारणीयम् इति स्थितम् | हेमाद्रेर् व्रत-खण्डे -

स्त्री-शूद्र-द्विजबन्धूनां त्रयी न श्रुति-गोचरा |
कर्म-श्रेयसि मूढानां श्रेय एवं भवेद् इह |
इति भारतम् आख्यानं कृपया मुनिना कृतम् || [Bह्P १.४.२५]

इति वाक्यं श्री-भागवतीयत्वेनोत्थाप्य भारतस्य वेदार्थ-तुल्यत्वेन
निर्णयः कृत इति | तन्-मतानुसारेण त्व् एवं व्याख्येयम् भारतार्थस्य
विनिर्णयः | वेदार्थ-तुल्यत्वेन विशिष्य निर्णयो यत्रेति | यस्माद् एव:अ
भगवत्-परस् तस्माद् एव यत्राधिकृत्य गायत्रीम् इति कृत-लक्षण-श्रीमद्-
भागवत-नामा ग्रन्थः श्री-भगवत्-पराया गायत्र्या भाष्य-रूपोऽसौ |
तद् उक्तं यत्राधिकृत्य गायत्रीम् इत्य् आदि | तथैव ह्य् अग्नि-पुराणे तस्य
व्याख्याने विस्तरेण प्रतिपादितः | तत्र तदीय-व्याख्या-दिग्-दर्शनं यथा -


तज्-ज्योतिः परमं ब्रह्म भर्गस् तेजो यतः स्मृतः |

इत्य् आरभ्य पुनर् आह -

तज्-ज्योतिर् भगवान् विष्णुर् जगज्-जन्मादि-कारणम् ||
शिवं केचित् पठन्ति स्म शक्ति-रूपं पठन्ति च |
केचित् सूर्यं केचिद् अग्निं दैवतान्य् अग्नि-होत्रिणः ||
अग्न्य्-आदि-रूपो विष्णुर् हि वेदादौ ब्रह्म गीयते |

अत्र जन्माद्यस्य इत्य् अस्य व्याख्यानं च तथा दर्शयिष्यते | कस्मै येन
विभासितोऽयम् [Bह्P १२.१३.१९] इत्य् उपसंहार-वाक्ये च तच्-छुद्धम् [Bह्P
१२.१३.१९] इत्य् आदि-समानम् एवाग्नि-पुराणे तद् व्याख्यानम् |

नित्यं शुद्धं परं ब्रह्म नित्य-भर्गम् अधीश्वरम् |
अहं ज्योतिः परं ब्रह्म ध्यायेम हि विमुक्तये || इति |

अत्राहं ब्रह्मेति नादेवो देवम् अर्चयेत् इति न्यायेन योग्यत्वाय स्वस्य
ताकृक्त्व-भावना दर्शिता | ध्यायेमेति अहं तावत् ध्यायेयं सर्वे च वयं
ध्यायेमेत्य् अर्थः | तद् एतन्-मते तु मन्त्रेऽपि भर्ग-शब्दोऽयम् अदनत एव
स्यात् | सुपां सुलुक् इत्य् [Pआण् ७.१.३९] आदिना छान्दस-सूत्रेण तु
द्वितीयैकवचनस्यामः सु-भावो ज्ञेयः |

यत् तु द्वादशे ॐ नमस्ते इत्य् आदि [Bह्P १२.६.६७] गद्येषु तद्-अर्थत्वेन सूर्यः
स्तुतः | तत् परमात्म-दृष्ट्यैव, न तु स्वातन्त्र्येणेत्य् अदोषः |

तथैवाग्रे श्री-शौनक-वाक्ये ब्रूहि नः श्रद्दधानानां व्यूहं
सूर्यात्मनो हरेः इति | न चास्य भर्गस्य सूर्य-मण्डल-
मात्राधिष्ठानत्वम् | मन्त्रे वरेण्य-शब्देन | अत्र च ग्रन्थे पर-
शब्देन परमैश्वर्य-पर्यन्तताया दर्शितत्वात् |

तद् एवम् अग्नि-पुराणेऽप्य् उक्तम् --

ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्य-मण्डले |
सत्यं सदा-शिवं ब्रह्म विष्णोर् यत् परमं पदम् || इति |

त्रिलोकी-जनानाम् उपासनार्थं प्रलये विनाशिनि सूर्य-मण्डले
चान्तर्यामितया प्रादुर्भूतोऽयं पुरुषो ध्यानेन द्रष्टव्य उपासितव्यः |
यत् तु विष्णोस् तस्य महा-वैकुण्ठ-रूपं परमं पदम् | तद् एव सत्यं
काल-त्रयाव्यभिचारि, सदा-शिवम् उपद्रव-शून्यं यतो ब्रह्म-स्वरूपम् इत्य्
अर्थः | तद् एतद् गायत्रीं प्रोच्य पुराण-लक्षण-प्रकरणे यत्राधिकृत्य
गायत्रीम् इत्य् आद्य् अप्य् उक्तम् अग्नि-पुराणे | तस्मात्

अग्नेः पुराणं गायत्रीं समेत्य भगवत्-पराम् |
भगवन्तं तत्र मत्वा जगज्-जन्मादि-कारणम् ||
यत्राधिकृत्य गायत्रीम् इति लक्षण-पूर्वकम् |
श्रीमद्-भागवतं शश्वत् पृथ्व्यां जयति सर्वतः ||

तद् एवम् अस्य शास्त्रस्य गायत्रीम् अधिकृत्य प्रवृत्तिर् दर्शिता |

यत् तु सारस्वत-कल्पम् अधिकृत्येति पूर्वम् उक्तम् | तच् च गायत्र्या भगवत्-
प्रतिपादक-वाग्-विशेष-रूप-सरस्वतीत्वाद् उपयुक्तम् एव | यद् उक्तम् अग्नि-
पुराणे -

गायत्र्य्-उक्थानि शास्त्राणि भर्गं प्राणांस् तथैव च ||
ततः स्मृतेयं गायत्री सावित्री यत एव च |
प्रकाशिनी सा सवितुर् वाग्-रूपत्वात् सरस्वती ||

अथ क्रम-प्राप्ता व्याख्या वेदार्थ-परिबृंहित इति | वेदार्थानां
परिबृंहणं यस्मात् | तच् चोक्तम् इतिहास-पुराणाभ्याम् इति | पुराणानां
साम-रूप इति वेदेषु सामवत् पुराणेषु श्रेष्ठ इत्य् अर्थः | पुराणान्तराणां
केषांचिद् आपाततो रजस्-तमसी जुषमाणैस् तत्-परत्वाप्रतीतत्वेऽपि वेदानां
काण्ड-त्रय-वाक्यैक-वाक्यतायां यथा साम्ना तथा तेषां श्री-भागवतेन
प्रतिपाद्ये श्री-भगवत्य् एव पर्यवसानम् इति भावः | तद् उक्तम् -

वेदे रामायणे चैव पुराणे भारते तथा |
आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयते || इति | [HV १३२.९५]

प्रतिपादयिष्यते च तद् इदं परमात्म-सन्दर्भे | साक्षाद् भगवतोदितम्
इति | कस्मै येन विभासितोऽयम् [Bह्P १२.१३.१९] इत्य् उपसंहार-वाक्यानुसारेण
ज्ञेयम् | शत-विच्छेद-संयुत इति | विस्तार-भिया न विविरियते | तद् एवं
श्रीमद्-भागवतं सर्व-शास्त्र-चक्रवर्ति-पदम् आप्तम् इति स्थिते हेम-
सिंह-समन्वितम् इत्य् अत्र हेम-सिंहासनम् आरूढम् इति टीकाकारैर् यद्
व्याख्यातं तद् एव युक्तम् |

अतः श्रीमद्-भागवतस्यैवाभ्यासावश्यकत्वं श्रेष्ठत्वं च स्कान्दे
निर्णीतम् - शतशोऽथ सहस्रैश् च किम् अन्यैः शास्त्र-सङ्ग्रहैः | तद् एवं
परमार्थ-विवित्सुभिः श्री-भागवतम् एव साम्प्रतं विचारणीयम् इति
स्थितम् ||२२||

BD: ननु श्री-भागवतस्य भारतार्थ-निर्णायकत्वं कथं प्रतीतम् इति
चेत् तत्राह तथा तृतीय इति | मुनिर् इति मैत्रेयं प्रति विदुरोक्तिः | ते
मैत्रेयस्य गुरु-पुत्रत्वात् सखा कृष्णो व्यासः | ग्राम्या
गृहिधर्मकर्तव्यतादि-लक्षणा व्यावहारिकी मूषिक-विडाल-गृध्र-गोमायु-
दृष्टान्तोपेता च कथा | तत्-तत्-स्वार्थ-कौतुक-कथा-श्रवणाय भारत-
सदसि समागतानां नॄणां श्री-गीतादि-श्रवणेन हरौ मतिर् गृहीता स्याद्
इति तत्-कथानुवाद एव | वस्तुतो भगवत्-परम् एव भारतम् इति श्री-
भागवतेन निर्णीतम् इत्य् अर्थः | सामवेदवदस्य श्रैष्ठ्यं स्कान्द-
वाक्यं शतशोऽथेत्यादि प्रकटार्थम् | तद् एवम् इति | उक्त-गुण-गणे सिद्धे
सतीत्य् अर्थः ||२२||

अतएव सत्स्व् अपि नाना-शास्त्रेष्व् एतद् एवोक्तम् - कलौ नष्ट-दृशाम् एष
पुराणार्कोऽधुनोदितः [Bह्P १.३.४५] इति | अर्कता-रूपकेण तद् विना नान्येषां
सम्यग्-वस्तु-प्रकाशकत्वम् इति प्रतिपद्यते | यस्यैव श्रीमद्-भागवतस्य
भाष्य-भूतं श्री-हयशीर्ष-पञ्चरात्रे शास्त्र-प्रस्तावे गणितं तन्त्र-
भागवताभिधं तन्त्रम् | यस्य साक्षाच् छ्री-हनुमद्भाष्य-
वासनाभाष्य-सम्बन्धोक्ति-विद्वत्कामधेनु-तत्त्वदीपिका-
भावार्थदीपिका-परमहंसप्रिया-शुकहृदयादयो व्याख्या-ग्रन्थाः |
तथा मुक्ताफल-हरिलीला-भक्तिरत्नावल्य्-आदयो निबन्धाश् च विविधा एव
तत्-तन्-मत-प्रसिद्ध-महानुभाव-कृता विराजन्ते | यद् एव च हेमाद्रि-
ग्रन्थस्य दान-खण्डे पुराण-दान-प्रस्तावे मत्स्य-पुराणीय-तल्-लक्षण-
धृत्या प्रशस्तम् | हेमाद्रि-परिशेष-खण्डस्य काल-निर्णये च कलि-युग-
धर्म-निर्णये कलिं सभाजयन्त्य् आर्याः (Bह्P ११.५.३६) इत्य् आदिकं यद्-
वाक्यत्वेनोत्थाप्य यत् प्रतिपादित-धर्म एव कलाव् अङ्गीकृतः |

अथ यद् एव कैवल्यम् अप्य् अतिक्रम्य भक्ति-सुख-व्याहारादि-लिङ्गेन निज-
मतस्याप्य् उपरि विराजमानार्थं मत्वा यद् अपौरुषेयं वेदान्त-
व्याख्यानं भयाद् अचालयतैव शङ्करावतारतया प्रसिद्धेन
वक्ष्यमाण-स्वगोपनादि-हेतुक-भगवद्-आज्ञा-प्रवर्तिताद्वय-वादेनापि
तन्-मात्र-वर्णित-विश्व-रूप-दर्शन-कृत-व्रजेश्वरी-विस्मय-श्री-व्रज-
कुमारी-वसन-चौर्यादिकं गोविन्दाष्टकादौ वर्णयता तटस्थीभूय निज-
वचः-साफल्याय स्पृष्टम् इति ||२३||

BD: अतएवेति वर्णित-लक्षणाद् उत्कर्षाद् एव हेतोर् इत्य् अर्थः | पुरातनानाम्
ऋषीणाम् आधुनिकानां च विद्वत्तमानाम् उपादेयम् इदं श्री-भागवतम्
इत्य् आह यस्यैवेति | विराजन्ते सम्प्रति प्रचरन्तीत्य् अर्थः | धर्म-शास्त्र-
कृतां चोपादेयम् एतद् इत्य् आह यद् एव च हेमाद्रीत्य् आदि | तत्-प्रतिपादितो
धर्मः कृष्ण-सङ्कीर्तन-लक्षणः | ननु चेद् ईदृशं श्री-भागवतं तर्हि
शङ्कराचार्यः कुतस् तन् न व्याचष्टेति चेत् तत्राह | अथ यद् एव कैवल्यम्
इत्य् आदि | अयं भावः प्रलयाधिकारी खलु हरेर् भक्तोऽहम् उपनिषद्-आदि
व्याख्याय तत्-सिद्धान्तं विलाप्य तस्याज्ञां पालितवान् एवास्मि | अथ तद्
अतिप्रिये श्री-भागवतेऽपि चालिते स प्रभुर् मयि कुप्येद् अतो न तच् चाल्यम् |
एवं सति मे सारज्ञता सुख-सम्पच् च न स्याद् अतः कथञ्चित् तत्
स्पर्शनीयम् इति तन्-मात्रोक्तं विश्व-रूप-दर्शनादि-स्व-काव्ये निबबन्धेति
तेन चादृत तद् इति सर्व-मान्यं श्री-भागवतम् इति ||२३||

यद् एव किल दृष्ट्वा श्री-मध्वाचार्य-चरणैर् वैष्णवान्तराणां तच्-
छिष्यान्तर-पुण्यारण्यादि-रीतिक-व्याख्या-प्रवेश-शङ्कया तत्र
तात्पर्यान्तरं लिखद्भिर् वर्त्मोपदेशः कृत इति च सात्वता वर्णयन्ति |
तस्माद् युक्तम् उक्तं तत्रैव प्रथम-स्कन्धे -

तद् इदं ग्राहयामास सुतम् आत्मवतां वरम् |
सर्व-वेदेतिहासानां सारं सारं सुमुद्धृतम् || [Bह्P १.३.४१-४२]

द्वादशे -
सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते |
तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् || [Bह्P १२.१३.१५]

तथा प्रथमे --

निगम-कल्प-तरोर् गलितं फलं
शुक-मुखाद् अमृत-द्रव-संयुतम् |
पिबत भागवतं रसम् आलयं
मुहुर् अहो रसिका भुवि भावुकाः || [Bह्P १.१.३]

अतएव तत्रैव -

यः स्वानुभावम् अखिल-श्रुति-सारम् एकम्
अध्यात्म-दीपम् अतितितीर्षतां तमो ऽन्धम् |
संसारिणां करुणयाह पुराण-गुह्यं
तं व्यास-सूनुम् उपयामि गुरुं मुनीनाम् || [Bह्P १.२.३]

श्री-भागवत-मतं तु सर्व-मतानाम् अधीश-रूपम् इति सूचकम् | सर्व-
मुनीनां सभा-मध्यम् अध्यास्योपदेष्टृत्वेन तेषां गुरुत्वम् अपि तस्य
तत्र सुव्यक्तम् ||२४||

BD: श्री-मध्वमुनेस् तु परमोपास्यं श्री-भागवतम् इत्य् आह यद् एव
किलेति | शङ्करेण नैतद् विचालितं किन्त्व् आदृतम् एवेति विभाव्येत्य् अर्थः किन्तु
तच्-छिष्यैः पुण्यारण्यादिभिर् एतद् अन्यथा व्याख्यातं तेन वैष्णवानां
निर्गुण-चिन्मात्र-परम् इदम् इति भ्रान्तिः स्याद् इति शङ्कया हेतुना तद्-
भ्रान्ति-च्छेदाय तत्र तात्पर्यान्तरं भगवत्-परता-रूपं ततोऽन्यत्
तात्पर्यं लिखद्भिस् तस्य व्याख्यान-वर्त्मोपदिष्टं वैष्णवान् प्रतीति |
मध्वाचार्य-चरणैर् इति अत्यादर-सूचक-बहुत्व-निर्देशः | स्व-
पूर्वाचार्यत्वाद् इति बोध्यम् | वायुदेवः खलु मध्व-मुनिः
सर्वज्ञोऽतिविक्रमी यो दिग्-विजयिनं चतुर्दश-विद्यं चतुर्दशभिः क्षणैर्
निर्जित्यासनानि तस्य चतुर्दश जग्राह | स च तच्-छिष्यः
पद्मनाभाभिधानो बभूवेति प्रसिद्धम् | तस्माद् इति प्रोक्त-गुणकत्वाद्
धेतोर् इत्य् अर्थः | आलयम् इति मोक्षम् अभिव्याप्येत्य् अर्थः | य इति अन्धं
तमोऽविद्याम् अतितितीर्षतां संसारिणां करुणया यः पुराण-गुह्यं श्री-
भागवतम् आहेत्य् अन्वयः | स्वानुय्भावम् असाधारण-प्रभावम् इत्य्
अर्थः ||२४||

यतः --

तत्रोपजग्मुर् भुवनं पुनाना
महानुभावा मुनयः स-शिष्याः |
प्रायेण तीर्थाभिगमापदेशैः
स्वयं हि तीर्थानि पुनन्ति सन्तः ||

अत्रिर् वसिष्ठश् च्यवनः शरद्वान्
अरिष्टनेमिर् भृगुर् अङ्गिराश् च |
पराशरो गाधि-सुतो ऽथ राम
उतथ्य इन्द्रप्रमदेध्मवाहौ ||

मेधातिथिर् देवल आर्ष्टिषेणो
भारद्वाजो गौतमः पिप्पलादः |
मैत्रेय और्वः कवषः कुम्भयोनिर्
द्वैपायनो भगवान् नारदश् च ||

अन्ये च देवर्षि-ब्रह्मर्षि-वर्या
राजर्षि-वर्या अरुणादयश् च |
नानार्षेय-प्रवरान् समेतान्
अभ्यर्च्य राजा शिरसा ववन्दे ||

सुखोपविष्टेष्व् अथ तेषु भूयः
कृत-प्रणामः स्व-चिकीर्षितं यत् |
विज्ञापयाम् आस विविक्त-चेता
उपस्थितो ऽग्रे ऽभिगृहीत-पाणिः || [Bह्P १.१९.८-१२] इत्य् आद्य्-अनन्तरम् -

ततश् च वः पृच्छ्यम् इमं विपृच्छे
विश्रभ्य विप्रा इति कृत्यतायाम् |
सर्वात्मना म्रियमाणैश् च कृत्यं
शुद्धं च तत्रामृशताभियुक्ताः || [Bह्P १.१९.२४]

इति पृच्छति राज्ञि -

तत्राभवद् भगवान् व्यास-पुत्रो
यदृच्छया गाम् अटमानो ऽनपेक्षः |
अलक्ष्य-लिङ्गो निज-लाभ-तुष्टो
वृतश् च बालैर् अवधूत-वेषः || [Bह्P १.१९.२५]

ततश् च -- प्रत्युत्थितास् ते मुनयः स्वासनेभ्यः (Bह्P १.१९.२८) इत्य्-आद्य्-अन्ते
स संवृतस् तत्र महान् महीयसां
ब्रह्मर्षि-राजर्षि-देवर्षि-सङ्घैः |
व्यरोचतालं भगवान् यथेन्दुर्
ग्रहर्क्ष-तारा-निकरैः परीतः || (Bह्P १.१९.३०) इत्य् उक्तम् || २५||
BD: मुनीनां गुरुम् इत्य् उक्तम् | तत् कथम् इत्य् अत्राह यत इति | यत इत्य् अस्य
इत्य् उक्तम् इति परेण सम्बन्धः | और्व इति विप्र-वंशं विनाशयद्भ्यो
दुष्टेभ्यः क्षत्रियेभ्यो भयाद् गर्भाद् आकृष्योरौ तन्-मात्रा स्थापितस्
ततो जातः क्षत्रियांस् तान् स्वेन तेजसा भस्मीचकार इति
भारते[*ENDNOTE #२] कथास्ति | निगृहीत-पाणि-योजिताञ्जलि-पुटः | एवं
कर्तव्यस्य भाव इतिकर्तव्यता | तस्यां विषये सर्वावस्थायां पुंसः किं
कृत्यम् | तत्रापि म्रियमाणैश् च किं कृत्यम् | तच् च शुद्धं हिंसा-शून्यं,
तत्रामृशत यूयम् | गां पृथिवीम् | अनपेक्षो निःस्पृहः | निजस्य शुद्धि-
पूर्ति-कर्तुः स्व-स्वामिनः कृष्णस्य लाभेन तुष्टः | तत्र सभायाम् ||२५||

अत्र यद्यपि तत्र श्री-व्यास-नारदौ तस्यापि गुरु-परम-गुरू, तथापि पुनस्
तन्-मुख-निःसृतं श्री-भागवतं तयोर् अप्य् अश्रुतचरम् इव जातम् इत्य् एवं
श्री-शुकस् ताव् अप्य् उपदिदेश देश्यम् इत्य् अभिप्रायः | यद् उक्तं शुक-
मुखाद् अमृत-द्रव्य-संयुतम् (१.१.३) इति | तस्माद् एवम् अपि श्री-
भागवतस्यैव सर्वाधिक्यम् | मात्स्यादीनां यत् पुराणाधिक्यं श्रूयते तत्
त्व् आपेक्षिकम् इति | अहो किं बहुना, श्री-कृष्ण-प्रतिनिधि-रूपम् एवेदम् | यत
उक्तं प्रथम-स्कन्धे--

कृष्णे स्व-धामोपगते धर्म-ज्ञानादिभिः सह |
कलौ नष्ट-दृशाम् एष पुराणार्को ऽधुनोदितः || (Bह्P १.३.४५) इति |

अतएव सर्व-गुण-युक्तत्वम् अस्यैव दृष्टं धर्मः प्रोज्झित-कैतवोऽत्र
(१.१.२) इत्य् आदिना,

वेदाः पुराणं काव्यं च प्रभुर् मित्रं प्रियेव च |
बोधयन्तीति हि प्राहुस् त्रिवृद् भागवतं पुनः ||

इति मुक्ताफले हेमाद्रि-कार-वचनेन च | तस्मान् मन्यन्तां वा केचित्
पुराणान्तरेषु वेद-सापेक्षत्वं श्री-भागवते तु तथा सम्भावना स्वयम्
एव निरस्तैत्य् अपि स्वयम् एव लब्धं भवति | अतएव परम-श्रुति-रूपत्वं
तस्य | यथोक्तम् --

कथं वा पाण्डवेयस्य राजर्षेर् मुनिना सह |
संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः || (Bह्P १.४.७) इति |

अथ यत् खलु सर्वं पुराण-जातम् आविर्भाव्येत्य् आदिकं पूर्वम् उक्तं तत्
तु प्रथम-स्कन्ध-गत-श्री-व्यास-नारद-संवादेनैव प्रमेयम् ||२६||

BD: वक्तव्यं योजयत्य् अत्र यद्यपीत्य्-आदिना | तस्माद् एवम् इति तद्-वक्तुः
श्री-शुकस्य सर्व-गुरुत्वेनापीत्य् अर्थः | आपेक्षिकम् इति एतद्-अन्य-
पुराणापेक्षयेत्य् अर्थः | अथ परमोत्कर्षम् आह अहो किम् इति # अतएवेति
कृष्ण-प्रतिनिधित्वात् कृष्णवत् सर्व-गुण-युक्तत्वम् इत्य् अर्थः | प्रियेव
कान्तेव | त्रिवृत् वेदादि-त्रय-गुण-युक्तम् इत्य् अर्थः | तस्माद् इति वेद-
सापेक्षत्वं वेद-वाक्येन पुराण-प्रामाण्यम् इत्य् अर्थः | अतएवेति
परमार्थावेदकत्वाद् वेदान्तस्येव भागवतस्य परम-श्रुति-रूपत्वम् इत्य्
अर्थः | यत्र संवादे | सात्वती वैष्णवीत्य् अर्थः | अर्थेति - इदं भगवता
पूर्वम् इत्य् आदि-द्वादशोक्तेर् ब्रह्म-नारायण-संवाद-रूपम् अष्टादशसु
मध्ये प्रकटितं, व्यास-नारद-संवाद-रूपं तत्रैव प्रवेशितं, तद्-
उभयस्य लक्षण-सङ्ख्ये तु मात्स्यादाव् उक्ते इति बोध्यम् इत्य् अर्थः | एवम्
एव भारतोपक्रमेऽपि दृष्टम् | आदाव् आख्यानैर् विना चतुर्विंशति-सहस्रं
भारतं ततस् तैः सहितं पञ्चाशत्-सहस्रं ततस् तैस् ततोऽप्य् अधिकम् इतोऽप्य्
अधिकम् इति तद्वत् ||२६||

तद् एवं परम-निःश्रेयस-निश्चयाय श्री-भागवतम् एव
पौर्वापर्याविरोधेन विचार्यते | तत्रास्मिन् सन्दर्भ-षट्कात्मके ग्रन्थे
सूत्र-स्थानीयम् अवतारिका-वाक्यं विषय-वाक्यं श्री-भागवत-वाक्यम् |
भाष्य-रूपा तद्-व्याख्या तु सम्प्रति मध्य-देशादौ व्याप्तान् अद्वैत-
वादिनो नूनं भगवन्-महिमानम् अवगाहयितुं तद्-वादेन कर्बुरित-
लिपीनां परम-वैष्णवानां श्रीधर-स्वामि-चरणानां शुद्ध-वैष्णव-
सिद्धान्तानुगता चेत् तर्हि यथावद् एव विलिख्यते | क्वचित् तेषाम् एवान्यत्र-
दृष्ट-व्याख्यानुसारेण द्रविडादि-देश-विख्यात-परम-भागवतानां
तेषाम् एव बाहुल्येन तत्र वैष्णवत्वेन प्रसिद्धत्वात् | श्री-भागवत एव,
क्वचित् क्वचिन् महाराज द्रविडेषु च भूरिशः (Bह्P ११.५.३९) इत्य् अनेन
प्रथित-महिम्नां साक्षाच् छ्री-प्रभृतितः प्रवृत्त-सम्प्रदायानां श्री-
वैष्णवाभिधानां श्री-रामानुज-भगवत्-पाद-विरचित-श्री-भाष्यादि-
दृष्ट-मत-प्रामाण्येन मूल-ग्रन्थ-स्वारस्येन चान्यथा च | अद्वैत-
व्याख्यानं तु प्रसिद्धत्वान् नातिवितायते ||२७||

BD: तद् एवम् इति | ननु वेद एवास्माकं प्रमाणम् इति प्रतिज्ञाय पुराणम्
एव तत् स्वीकरोतीति किम् इदं कौतुकम् इति चेन् मैवं भ्रमितव्यम् | एवं वा
अरेऽस्य महतो भूतस्य (Bऋहद्U २.४.१०) इत्य् आदि-श्रुत्यैव पुराणस्य
वेदत्वाभिधानात् | वेदेषु वेदान्तस्यैव पुराणेषु श्री-भागवतस्य
श्रैष्ठ्य-निर्णयाच् च तद् एव प्रमाणम् इति किम् असङ्गतम् उक्तम् इति | अथ
ब्रह्म-सूत्र-भाष्य-रीत्या सन्दर्भस्यास्य प्रवृत्तिर् इत्य् आह तत्रस्मिन्न् इति |
विचारार्हवाक्यं विषय-वाक्यम् | भाष्य-रूपा तद्-व्याख्येति | अयम् अर्थः
श्रीधर-स्वामिनो वैष्णवा एव, तट्-टीकासु भगवद्-विग्रह-गुण-विभूति-
धाम्नां तत्-पार्षद-तनूनां च नित्यत्वोक्तेः | भगवद्-भक्तेः
सर्वोत्कृष्ट-मोक्षानुवृत्त्योर् उक्तेश् च तथापि क्वचित् क्वचिन् मायावादोल्लेखस्
तद्-वादिनो भगवद्-भक्तौ प्रवेशयितुं बडिशामिषार्पण-न्यायेनैवेति
विदितम् इति | शुद्ध-वैष्णवेति यथा साङ्ख्यादि-शास्त्राणाम् अविरुद्धांशः
सर्वैः स्वीकृतस् तद्वद् इदं बोध्यम् | क्वचित् तेषाम् एवेति क्वचित्
स्थलान्तरीय-स्वामि-व्याख्यानुसारेण श्री-भाष्यादि-दृष्ट-मत-
प्रामाण्येन मूल-श्री-भागवत-स्वारस्येन चान्यथा च भाष्य-रूपा तद्-
व्याख्या मया लिख्यत इति मत्-कपोल-कल्पनं किञ्चिद् अपि नास्तीति
प्रमाणोपेतात्र टीकेत्य् अर्थः | ननु पूर्व-पक्ष-ज्ञानायाद्वैतं च
व्याख्येयम् इति तत्राह अद्वैतेति ||२७||

अत्र च स्व-दर्शितार्थ-विशेष-प्रामाण्यायैव, न तु श्रीमद्-भागवत-
वाक्य-प्रामाण्याय, प्रमाणानि श्रुति-पुराणादि-वचनानि यथा-दृष्टम्
एवोदाहरणीयानि | क्वचित् स्वयम् अदृष्टाकराणि च तत्त्व-वाद-गुरूणाम्
अनाधुनिकानां प्रचुर-प्रचारित-वैष्णव-मत-विशेषाणां दक्षिणादि-देश-
विख्यात-शिष्योपशिष्यीभूत-विजयध्वज-व्यासतीर्थादि-वेद-वेदार्थ-विद्-
वराणां श्री-मध्वाचार्य-चरणानां भागवत-तात्पर्य-भारत-तात्पर्य-
ब्रह्म-सूत्र-भाष्यादिभ्यः सङ्गृहीतानि | तैश् चैवम् उक्तं भारत-
तात्पर्ये -

शास्त्रान्तराणि संजानन् वेदान्तस्य प्रसादतः |
देशे देशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्-विधान् ||
यथा स भगवान् व्यासः साक्षान् नारायणः प्रभुः |
जगाद भारताद्येषु तथा वक्ष्ये तद्-ईक्षया || इति |

तत्र तद्-उद्धृता श्रुतिश् चतुर्वेद-शिखाद्या, पुराणं च गारुडादीनां
सम्प्रति सर्वत्राप्रचरद्-रूपम् अंशादिकम् | संहिता च महा-संहितादिका
तन्त्रं च तन्त्र-भागवतादिकं ब्रह्म-तर्कादिकम् इति ज्ञेयम् ||२८||

BD: अत्रेति | इह ग्रन्थे यानि श्रुति-पुराणादि-वचनानि मया ध्रियन्ते तानि
स्वदर्शितार्थ-विशेष-प्रामाण्यैव | न तु श्री-भागवत-वाक्य-प्रामण्याय,
तस्य स्वतः प्रमाणत्वात् | तानि च यथा-दृष्टम् एवोदाहरणीयानि मूल-
ग्रन्थान् विलोक्योत्थापितानीत्य् अर्थः | कानिचिद् वाक्यानि तु मद्-अदृष्टाकराण्य्
अस्मद्-आचार्य-श्री-मध्वमुनि-दृष्टाकराण्य् एव क्वचिन् मया ध्रियन्त इत्य्
आह क्वचिद् इति | मद्-व्याख्यानं क्वचिद् अर्थ-विशेषे प्रामाण्याय श्री-
मध्वाचार्य-चरणानां भागवत-तात्पर्यादिभ्यो ग्रन्थेभ्यः
सङ्गृहीतानि श्रुति-पुराणादि-वचनानि ध्रियन्त इत्य् अनुषङ्गः | अत्रास्य
ग्रन्थ-कर्तुः सत्यवादित्वं ध्वनितम् | कौमार-ब्रह्मचर्यवान्
नैष्ठिको यः सत्य-तपोनिधिः स्वप्नेऽप्य् अनृतं नोचे चेति प्रसिद्धम् | तेषां
कीदृशानाम् इत्य् आह तत्त्वेति | सर्वं वस्तु सत्यम् इति वादस् तत्त्व-वादस् तद्-
उपदेष्टॄणाम् इत्य् अर्थः | अनाधुनिकानाम् अतिप्राचीनानां केनचिच्
छाङ्करेण सह विवादे मध्वस्य मतं व्यासः स्वीचक्रे | शङ्करस्य तु
तत्याजेत्यैतिह्यम् अस्ति | प्रचारितेति भक्तानां विप्राणाम् एव मोक्षः | देवा
भक्तेषु मुख्याः | विरिञ्चस्यैव सायुज्यम् | लक्ष्म्या जीवकोटित्वम् इत्य् एवं
मत-विशेषः | दक्षिणादिदेशेति तेन गौडेऽपि माधवेन्द्रादयस् तद्-
उपशिष्याः कतिचिद् बभूवुर् इत्य् अर्थः | शास्त्रान्तराणीति तेन स्वस्य दृष्ट-
सर्वाकरता व्यज्यते दिग्-विजयित्वं चेत्य् उपोद्घातो व्याख्यातः ||२८||

अथ नमस्कुर्वन्न् एव तथाभूतस्य श्रीमद्-भागवतस्य तात्पर्य-तद्-
वक्तुर् हृदय-निष्ठा-पर्यालोचनया सङ्क्षेपतस् तावन् निर्धारयति -

स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य् अभावोऽ
प्य् अजित-रुचिर् अलीलाकृष्ट-सारस् तदीयम् |
व्यतनुत कृपया यस् तत्त्व-दीपं पुराणं
तम् अखिल-वृजिन-घ्नं व्यास-सूनुं नतोऽस्मि || [Bह्P १२.१२.६९]

टीका च श्रीधर-स्वामि-विरचिता - श्री-गुरुं नमस्करोति | स्व-सुखेनैव
निभृतं पूर्णं चेतो यस्य सः | तेनैव व्युदस्तोऽन्यस्मिन् भावो भावना
यस्य तथाभूतोऽप्य् अजितस्य रुचिराभिर् लीलाभिर् आकृष्टः सारः स्व-सुख-
गतं धैर्यं यस्य सः | तत्त्व-दीपं परमार्थ-प्रकाशकं श्री-
भागवतं यो व्यतनुत तं नतोऽस्मि इत्य् एषा | एवम् एव द्वितीये तद्-वाक्यम्
एव प्रायेण मुनयो राजन् (Bह्P २.१.७) इत्य् आदि-पद्य-त्रयम् अनुसन्धेयम् |
अत्राखिल-वृजिनं तादृश-भावस्य प्रत्कूलम् उदासीनं च ज्ञेयम् | तद् एवम्
इह सम्बन्धि-तत्त्वं ब्रह्मानन्दाद् अपि प्रकृष्टो रुचिर-लीलावशिष्टः
श्रीमान् अजित एव | स च पूर्णत्वेन मुख्यतया श्री-कृष्ण-संज्ञ एवेति श्री-
बादरायण-समाधौ व्यक्तीभविष्यति | तथा प्रयोजनाख्यः पुरुषार्थश्
च तादृश-तद्-आसक्ति-जनकं तल्-लीलाश्रवणादि-लक्षणं तद्-भजनम् एवेत्य्
आयातम् | अत्र व्यास-सूनुम् इति ब्रह्म-वैवर्तानुसारेण श्री-कृष्ण-वराज्
जन्मत एव मायया तस्यास्पृष्टत्वं सूचितम् || १२.१२ || श्री-सूतः श्री-
शौनकम् ||२९||

BD: अथ यस्य ब्रह्मेति (Tअत्त्वS, वेर्से विइइ) पद्योक्तम् सम्बन्धि-कृष्ण-
तत्त्वं, तद्-भक्ति-लक्षणम् अभिधेयं, तत्-प्रेम-लक्षणं पुमर्थं च
निरूपतया पद्येन तावद्-ग्रन्थं प्रवर्तयन् ग्रन्थकृद् अवतारयति अथेति
मङ्गलार्थम् | यस्मिन् शास्त्र-वक्तुर् हृदय-निष्ठा प्रतीयते तद् एव
शास्त्र-प्रतिपाद्य-वस्तु, न त्व् अन्यद् इत्य् अर्थः | स्वेति तदीयम् अजित-निरूपकं
पुराणम् इत्य् अर्थः | टीका चेति स्व-सुखेनेति | स्वम् असाधारणं जीवानान्दाद्
उत्कृष्टम् | गुडाद् इव मधु, यद्-अनभिब्यक्त-संस्थान-गुण-विभूति-लीलम्
आनन्द-रूपं स्व-प्रकाशं ब्रह्म-शब्द-व्यपदेश्यं वस्तु तेनेत्य् अर्थः |
रुचिराभिर् इति पारमैश्वर्य-समवेत-माधुर्य-सम्भिन्नत्वान्
मनोज्ञाभिर् आनन्दैक-रूपाभिः पानक-रस-न्यायेन स्फुरद्-अजित-तत्-
परिकरादिभिर् लीलाभिर् इत्य् अर्थः | अत्राखिलेति | प्रतिकूलं प्रत्याख्यायकम् |
उदासीनं त्याजकम् इत्य् अर्थः | अङ्क-युग्मं स्कन्धाध्याययोर् ज्ञापकम् |
श्री-सूतः श्री-शौनकं प्रति निर्धारयतीत्य् अवतारिकावाक्येन सम्बन्धः |
एवम् उत्तरत्र सर्वत्र बोध्यम् ||२९||

तादृशम् एव तात्पर्यं करिस्यमाण-तद्-ग्रन्थ-प्रतिपाद्य-तत्त्व-निर्णय-
कृते तत्-प्रवक्तृ-श्री-बादरायण-कृते समाधाव् अपि सङ्क्षेपत एव
निर्धारयति -

भक्ति-योगेन मनसि सम्यक् प्रणिहिते ऽमले |
अपश्यत् पुरुषं पूर्णं मायां च तद्-अपाश्रयम् ||
यया सम्मोहितो जीव आत्मानं त्रि-गुणात्मकम् |
परो ऽपि मनुते ऽनर्थं तत्-कृतं चाभिपद्यते ||
अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे |
लोकस्याजानतो विद्वांश् चक्रे सात्वत-संहिताम् ||
यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे |
भक्तिर् उत्पद्यते पुंसः शोक-मोह-भयापहा ||
स संहितां भागवतीं कृत्वानुक्रम्य चात्म-जम् |
शुकम् अध्यापयाम् आस निवृत्ति-निरतं मुनिः || (Bह्P १.७.४-८)

तत्र --
स वै निवृत्ति-निरतः सर्वत्रोपेक्षको मुनिः |
कस्य वा बृहतीम् एताम् आत्मारामः समभ्यसत् || (Bह्P १.७.९)

इति शौनक-प्रश्नानन्तरं च -
आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे |
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः ||
हरेर् गुणाक्षिप्त-मतिर् भगवान् बादरायणिः |
अध्यगान् महद् आख्यानं नित्यं विष्णु-जन-प्रियः || (Bह्P १.७.१०-११)

भक्ति-योगेन प्रेम्णा |

अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् || (Bह्P ५.६.१८)
इत्य् अत्र प्रसिद्धेः | प्रणिहिते समाहिते समाधिनानुस्मर तद्-विचेष्टितम्
(Bह्P १.५.१३) इति तं प्रति श्री-नारदोपदेशात् | पूर्णदस्य मुक्त-प्रग्रहया
वृत्त्या -

भगवान् इति शब्दोऽयं तथा पुरुष इत्य् अपि |
वर्तते निरुपाधिश् च वासुदेवेऽखिलात्मनि ||

इति पाद्मोत्तर-खण्ड-वचनावष्टम्भेन, तथा -

काम-कामो यजेत् सोमम् अकामः पुरुषं परम् ||
अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः |
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् || (Bह्P २.३.९-१०)

इत्य् अस्य वाक्य-द्वयस्य पूर्व-वाक्ये पुरुषं परमात्मानं प्रकृत्य्-
एकोपाधिम् उत्तर-वाक्ये पुरुषं पूर्णं निरुपाधिम् इति टीकानुसारेण च
पूर्णः पुरुषोऽत्र स्वयं भगवान् उच्यते ||३०||

BD: ग्रन्थ-वक्तुः शुकस्य यत्र निष्ठावधारिता | तत्रैव ग्रन्थ-कर्तुर्
व्यासस्यापि निष्ठाम् अवधारयितुम् अवतारयति तादृशम् एवेति | निवृत्ति-निरतं
ब्रह्मानन्दाद् अन्यस्मिन् स्पृहा-विरहितम् | कस्येति संहिताभ्यासस्य किं
फलम् इत्य् अर्थः | अध्यगाद् अधीतवान् | मुक्त-प्रग्रहयेति यथाश्वः
प्रग्रहे मुक्ते बलावधि धावत्य् एवं पूर्ण-शब्दः प्रवृत्तः
पूर्णत्वावधि प्रवर्तेतेति वक्तुं तद्-अवधिश् च स्वयं-भगवत्य् एवेति
तथोच्यत इत्य् अर्थः ||३०||

पूर्वम् इति पाठे पूर्वम् एवाहम् इहासम्, इति तत्-पुरुषस्य पुरुषत्वम् इति
श्रौत-निर्वचन-विशेष-पुरस्कारेण च स एवोच्यते | तम् अपश्यत् श्री-वेद-
व्यास इति स्वरूप-शक्तिम् अन्तम् एवेत्य् एतत् स्वयम् एव लब्धम् पूर्णं
चन्द्रम् अपश्यद् इत्य् उक्ते कान्तिम् अन्तम् अपश्यद् इति लभ्यते | अतएव -

त्वम् आद्यः पुरुषः साक्षाद्
ईश्वरः प्रकृतेः परः
मायां व्युदस्य चिच्-छक्त्या
कैवल्ये स्थित आत्मनि || [Bह्P १.७.२३] इत्य् उक्तम् |

अतएव मायां च तद्-अपाश्रयम् इत्य् अनेन तस्मिन् अप अपकृष्ट आश्रयो
यस्याः | निलीय स्थितत्वाद् इति मायाया न तत्-स्वरूप-भूतत्वम् इत्य् अपि
लभ्यते | वक्ष्यते च - माया परैत्य् अभिमुखे च विलज्जमाना इति [Bह्P
२.७.४७] | स्वरूप-शक्तिर् इयम् अत्रैव व्यक्तीभविष्यति अनर्थोपशमं साक्षाद्
भक्ति-योगम् अधोक्षजे [Bह्P १.७.६] इत्य् अनेन आत्मारामाश् च [Bह्P १.७.१०] इत्य्
अनेन च | पूर्वत्र हि भक्ति-योग-प्रभावः खल्व् असौ मायाभिभावकतया
स्वरूप-शक्ति-वृत्तित्वेनैव गम्यते | परत्र च ते गुणा ब्रह्मानन्दस्याप्य्
उपरिचरतया स्वरूप-शक्तेः परम-वृत्तिताम् एवार्हन्तीति | मायाधिष्ठातृ-
पुरुषस् तु तद्-अंशत्वेन, ब्रह्म च तदीय-निर्विशेषाविर्भावत्वेन, तद्-
अन्तर्भाव-विवक्षया पृथङ् नोक्ते इति ज्ञेयम् | अतोऽत्र पूर्ववद् एव
सम्बन्धि-तत्त्वं निर्धारितम् ||३१||

BD: पाठान्तरेणापि स एवार्थ इति व्याख्यातुम् आह पूर्वम् इति | ईश्वरस्यैव
पूर्व-वर्तित्वात् पुरुषत्वम् इत्य् अर्थः | स एवेति स्वयं भगवान् एव |
स्वरूप-शक्तिमत्त्वे प्रमाणम् आह त्वम् इति | श्रुतिश् चात्रास्ति | परास्य शक्तिर्
विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च इति (Śवेत्U ६.८) | एषैव
ह्लादिनी सन्धिनीत्य् आदिना स्मर्यते | इत्य् उक्तम् इति कण्ठतः पाठितम्
अर्जुनेनेत्य् अर्थः | मायातोऽन्येयं बोध्येत्य् आह अतएवेत्य् आदिना | मूल-
वाक्येन स्वरूप-भूता चिच्-छक्तिर् इयं बोधितास्तीय् आह अतएवेत्य् आदिना |
पट्ट-महिषीव स्वरूप-शक्तिः, बहिर् द्वार-सेविकेव माया-शक्तिर् इत्य्
उभयोर् महद्-अन्तरं बोध्यम् | भगवद्-भक्तेर् भगवद्-गुणानां च
स्वरूप-शक्ति-सारांशत्वं सयुक्तिकम् आह पूर्वत्र हीत्यादिना |
ब्रह्मानन्दस्येति अनभिव्यक्त-संस्थानादि-विशेषस्येति बोध्यम् | ननु
परमात्म-रूपस् तादृश-ब्रह्म-रूपश् चाविर्भावः कुतो व्यासेन न दृष्ट
इति चेत् तत्राह मायाधिष्ठात्र् इति ||३१||

अथ प्राक्-प्रतिपादितस्यैवाभेध्येअस्य प्रयोजनस्य च स्थापकं जीवस्य
स्वरूपत एव परमेश्वराद् वैलक्षण्यम् अपश्यद् इत्य् आह- यया मायया
सम्मोहितो जीवः स्वयं चिद्-रूपत्वेन त्रिगुणात्मकाज् जडात् परोऽप्य् आत्मानं
त्रिगुणात्मकं जडं देहादि-सङ्घातं मनुते | तन्-मनन-कृतम् अनर्थं
संसार-व्यसनं चाभिपद्यते | तद् एवं जीवस्य चिद्-रूपत्वेऽपि यया
सम्मोहित इति मनुते इति च स्वरूप-भूत-ज्ञान-शालित्वं व्यनक्ति
प्रकाशैक-रूपस्य तेजसः स्वपर-प्रकाशन-शक्तिवत् | अज्ञानेनावृतं
ज्ञानं तेन मुह्यन्ति जन्तवः (Gईता ५.२५) इति श्री-गीताभ्यः | तद् एवं
उपाधेर् एव जीवत्वं तन्-नाशस्यैव मोक्षत्वम् इति मतान्तरं परिहृतवान् |
अत्र यया सम्मोहितः इत्य् अनेन तस्या एव तत्र कर्तृत्वं भगवतस्
तत्रोदासीनत्वं मतम् | वक्ष्यते च --

विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया
विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः || [Bह्P २.५.१३] इति |

अत्र विलज्जमानया इत्य् अनेनेदम् आयाति तस्या जीव-सम्म्होहनं कर्म श्री-
भगवते न रोचत इति यद्यपि सा स्वयं जानाति, तथापि भयं
द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य (Bह्P ११.२.३७) इति दिशा जीवानाम्
अनादि-भगवद्-अज्ञान-मय-वैमुख्यम् असहमाना स्वरूपावरणम्
अस्वरूपावेशं च करोति ||३२||

जीवो येन्श्वरं भजेत् भक्त्या च तस्मिन् प्रेमाणं विन्देत् ततो मायया
विमुक्तः स्यात् तम् ईश्वराज् जीवस्य वास्तवं भेदम् अपश्यद् इति व्याचष्टे,
अथ प्राग् इत्य् आदिना | जीवस्येति वैलक्षण्यम् इति सेवकत्व-सेव्यत्वाणुत्व-
विभुत्व-रूप-नित्य-धर्म-हेतुकं भेदम् इत्य् अर्थः | ननु चिन्-मात्रो
जीवः यो विज्ञाने तिष्ठन् (Bऋहद्U ३.७.२२), विज्ञानं यज्ञं तनुते (Tऐत्त्U
२.५.१) इत्य् आदौ चिद्-धातुत्व-श्रवणात्, न तस्य धर्म-भूतं नित्यं ज्ञानम्
अस्ति येन मोह-मनने वर्णनीये | तस्मात् सत्त्वा सञ्जायते ज्ञानम् (Gईता
१४.१७) इत्य् आदि-वाक्यात्, सत्त्वे या चैतन्यस्य च्छाया, तद् एव सत्त्वोपहितस्य
तस्य ज्ञानं येन मोह-मनने व्यासेन दृष्टे स्याताम् इति चेत् तत्राह तद्
एवम् इत्य् आदिना | छायाभावाच् च न तत्-कल्पनं युक्तम् इति भावः | ननु
स्वरूप-भूतं ज्ञानं कथम् इति चेत् तत्राह पर्काशैकेति | अहि-
कुण्डलाधिकरणे (Vस्. ३.२.२८) भाषितम् एतद् द्रष्टव्यम् | तृतीय-सन्दर्भे
विस्तरीष्याम एतत् | तद् एवम् उपाधेर् इति अन्तःकरणं जीवः अन्तः-करण-
नाशो जीवस्य मोक्ष इति शङ्कर-मतं दूसितम् | तथा सति परोऽपीत्य् आदि-
व्याकोपाद् इति भावः | अत्रेति तत्र जीव-मोहने कर्मणि | तस्या मायायाः |
विलज्जेति ब्रह्म-वाक्यम् | अमुया मायया | असहमानेति दास्या उचितम् एतत्
कर्म यत् स्वामि-विमुखान् दुःखाकरोतीति | ईश-वैमुख्येन पिहितं जीवं
माया पिधत्ते, घटेनावृतं दीपं यथा तम आवृणोतीति ||३२||

श्री-भगवांश् चानादित एव भक्तायां प्रपञ्चाधिकारिण्यां तस्यां
दाक्षिण्यं लङ्घितुं न शक्नोति | तथा तद्-भयेनापि जीवानां स्व-
साम्मुख्यं वाञ्छन्न् उपदिशति --

दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया |
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते || इति [Gईता ७.१४]

सतां प्रसङ्गान् मम वीर्य-संविदो
भवन्ति हृत्-कर्ण-रसायनाः कथाः |
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि
श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति || (३.२५.२५)

लीलया श्रीमद्-व्यास-रूपेण तु विशिष्टया तद्-उपदिष्टवान् इत्य् अनन्तरम्
एवायास्यति | अनर्थोपशमं साक्षाद् इति | तस्माद् द्वयोर् अपि तत् तत् समञ्जसं
ज्ञेयम् |

ननु माया खलु शक्तिः शक्तिश् च कार्य-क्षमत्वं | तच् च धर्म-विशेषः |
तस्याः कथं लज्जादिकम् | उच्यते एवं सत्य् अपि भगवति तासां शक्तीनाम्
अधिष्ठातृ-देव्यः श्रूयन्ते, यथा केनोपनिषदि महेन्द्र-माययोः
संवादः | तद् आस्तां, प्रस्तुतं प्रस्तूयते ||३३||

BD: नन्व् ईश्वरः कथं तन् मोहनं सहते | तत्राह भगवांश् चेति | तर्हि
कृपालुता-क्सिः | तत्राह तथेति | तद्-भयेनापीति मायातो यज्-जीवानां भयं
तेनापि हेतुनेत्य् अर्थः | ततश् च न तत्-क्सतिर् इत्य् अर्थः | दैवीति प्रपत्तिश्
चेयं सत्-प्रसङ्ग-हेतुकैव तद्-उपदिष्टा यया साम्मुख्यं स्यात् तद् विद्धि
प्रणिपातेन (Gईता ४.३४) इत्य् आदि तद्-वाक्यात् | सतां प्रसङ्गात् इत्य् आद्य्-अग्रिम-
वाक्याच् च | लीलयेति लीलावतारेण | विशिष्टतयेति आचार्य-रूपेणेत्य् अर्थः |
तस्माद् इति द्वयोर् माया-भगवतोर् अपि | तत् तद् इति | मोहनं साम्मुख्य-
वाञ्छा चेत्य् अर्थः | ननु मायाया मोहन-लज्जन-कर्तृत्वम् उक्तं तत् कथं
जडायास् तस्याः सम्भवेद् इति शङ्कते - ननु मायेति | धर्म-विशेष
उत्साहादिवद् इत्य् अर्थः | सिद्धान्तयति उच्यत इति | अधिष्ठातृ-देव्य इति |
विन्ध्यादि-गिरीणां यथाधिष्ठातृ-मूर्तयस् तद्वत् | केनेति तस्यां ब्रह्म
ह देवेभ्यो विजिग्ये (KएनU ३.१) इत्य् आदि-वाक्यम् अस्ति | तत्राग्नि-वायु-
मघोनः सगर्वान् वीक्ष्य तद्-गर्वम् अपनेतुं परमात्माविरभूत् | तम्
अजानन्तस् ते जिज्ञासयामासुः | तेषां वीर्यं परीक्षमाणः स तृणं
निदधौ | सर्वं दहेयम् इत्य् अग्निः | सर्वम् आददीयेति वायुश् च ब्रुवंस् तन्-
निर्दग्धुम् आदयेतुं च नाशकत् | ज्ञातुं प्रवृत्तान् मधोनस् तु स
तिरोऽधत्त | तद्-आकाशे मघवा हैमवतीम् उमाम् आजगाम | किम् एतद् इति
पप्रच्छ | सा च ब्रह्मैतद् इत्य् उवाचेति निष्कृष्टम् ||३३||

तत्र जीवस्य तादृश-चिद्-रूपत्वेऽपि परमेश्वरतो वैलक्षण्यं तद्-अपाश्रयम्
इति, यथा सम्मोहित इति च दर्शयति ||३४||
BD: तत्र जीवस्येति मायां च तद्-अपाश्रयाम् इतीश्वरस्य माया-नियन्तृत्वं
यया सम्मोहितो जीव इति जीवस्य माया-नियम्यत्वं च | तेन स्वरूपत ईशाज्
जीवस्य भेद-पर्यायं वैलक्षण्यं दृष्टवान् इति प्रस्फुटम् | अपश्यत् इत्य्
अनेन कालोऽप्य् आनीतः | तद् एवम् ईश्वर-जीव-माया-कालाख्यानि चत्वारि
तत्त्वानि समाधौ श्री-व्यासेन दृष्टानि | तानि नित्यान्य् एव | अथ ह वाव
नित्यानि पुरुषः प्रकृतिर् आत्मा कालः इत्य् एवं भाल्लवेय-श्रुतेः | नित्यो
नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् (KअठU
२.२.१३) इति काठकात् |

अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः |
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः || इति श्वेताश्वतराणां मन्त्राच् च
(Śवेत्U ४.५) |

अविकाराय शुद्धाय नित्याय पर्मात्मने |
सदैक-रूप-रूपाय विष्णवे सर्व-जिष्णवे || (VइP १.२.१)
प्रधानं पुरुषं चापि प्रविश्यात्मेच्छया हरिः |
क्षोभयामास सम्प्राप्ते सर्ग-काले व्ययाव्ययौ || (VइP १.२.२९)
अव्यक्तं कारणं यत् तत् प्रधान ऋषि-सत्तमैः |
प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सद्-असद्-आत्मकम् || (VइP १.२.१९)
अनादिर् भगवान् कालो नान्तोऽस्य द्विज विद्यते |
अव्युच्छिन्नास् ततस् त्व् एते सर्ग-स्थित्य्-अन्त-संयमाः || (VइP १.२.२६)

इति श्री-वैष्णवाच् च | तेष्व् ईश्वरः शक्तिमान् स्वतन्त्रः जीवादयस् तु तच्-
छक्तयोऽस्वतन्त्राः |

विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा |
अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते || (VइP ६.७.६१)

इति श्री-वैष्णवात् | स यावद् उर्व्या भरम् ईश्वरेश्वरः स्वकाल-शक्त्या
क्षपयंश् चरेद् भुवि (Bह्P १०.१.२२) इति श्री-भागवताच् च | तत्र
विभुविज्ञानम् ईश्वरः, अणु-विज्ञानं जीवः | उभयं नित्य-ज्ञान-गुणकम् |
सत्त्वादि-गुण-त्रय-विशिष्टं जडं द्रव्यं माया | गुण-त्रय-शून्यं भूत-
वर्तमानादि-व्यवहार-कारणं जडं द्रव्यं तु कालः | कर्माप्य् अनादि
विनाशि चास्ति न कर्माविभागाद् इति चेन् नानादित्वात् इति (Vस् २.१.३५) इति सूत्राद् इति
वस्तु-स्थितिः श्रुति-स्मृति-सिद्धा वेदितव्या ||३४||

यर्ह्य् एव यद् एकं चिद्-रूपं ब्रह्म मायाश्रयता-वलितं विद्यामयं तर्ह्य्
एव तन्-माया-विषयतापन्नम् अविद्या-परिभूतं चेत्य् उक्तम् इति जीवेश्वर-
विभागो æवगतः | ततश् च स्वरूप-सामर्थ्य-वैलक्षण्येन तद् द्वितयं
मिथो विलक्षण-स्वरूपम् एवेत्य् आगतम् ||३५||

BD: यत् तु एकम् एवाद्वितीयम् (CहाU ६.२.१), विज्ञानम् आनन्दं ब्रह्म
(Bऋहद्U ३.९.२८), नेह नानास्ति किञ्चन (Bऋहद्U ४.४.१९) इत्य् आदि-श्रुतिभ्यो
निर्विशेष-चिन्-मात्राद्वैतं ब्रह्म वास्तव्यम् | अथ सदसद्-विलक्षणत्वाद्
अनिर्वचनीयेन विद्याविद्या-वृत्तिकेनाज्ञानेन सम्बन्धात् तस्माद्
विद्योपहितम् ईश्वर-चैतन्यम् अविद्योपहितं जीव-चैतन्यं चाभूत् | स्वरूप-
ज्ञानेन निवृत्ते त्व् अज्ञाने न तत्रेश्वर-जीव-भावः, किन्तु निर्विशेषाद्वितीय-
चिन्मात्र-रूपावस्थितिर् भवेद् इत्य् आह मायी शङ्करः | तत्राह यर्ह्य् एव यद्
एकम् इति विस्फुटार्थम् | इत्य् उक्तम् इति | युगपद् एवाकस्माद् एवाज्ञान-योगाद्
एकस्य भागस्य विद्याश्रयत्वम् अन्यस्याविद्या-पराभूतिर् इति | किम्
अपराद्धं तेन ब्रह्मणा येन विविध-विक्षेप-
क्लेशानुभवभाजनताभूत् | पुनर् अप्य् आकस्मिकाज्ञान-
सम्बन्धस्याशक्यत्वाद् वक्तुम् इति न तद् उक्तरीत्या तद्-विभागो वाच्यः
किन्तु श्री-व्यास-दृष्ट-रीत्यैव सोऽस्माभिर् अवगत इत्य् अर्थः ||३५||

न चोपाधितारतम्यमय-परिच्छेद-प्रतिबिम्बत्वादि-व्यवस्थया तयोर्
विभागः स्यात् ||३६||

BD: यत् तु इन्द्रो मायाभिः पुरु-रूप ईयते (RV ६.४७.१८, Bऋहद्U २.५.१९) इत्य्
आदि-श्रुतेस् तस्याद्वितीयस्य ब्रह्मणो मायया परिच्छेदाद् ईश्वर-जीव-
विभागः स्यात् | तत्र विद्यया परिच्छिन्नो महान् खण्ड ईश्वरः | अविद्यया
परिच्छिन्नः कनीयान् खण्डस् तु जीवः | यथा घटेनावच्छिन्नः
शरावेणावच्छिन्नश् चाकाश-खण्डो महद्-अल्पता-व्यपदेशं भजति |

यथा ह्य् अयं ज्योतिर् आत्मा विवस्वान्
अपो भित्त्वा बहुधैकोऽनुगच्छन् |
उपाधिना क्रियते भेद-रूपो
देवः क्षेत्रेष्व् एवम् अजोऽयम् आत्मा || (श्रुति?)

इत्य् आदिषु ब्रह्मणस् तस्य प्रतिबिम्ब-श्रवणात् तद्-विभागः स्यात् | विद्यायां
प्रतिबिम्ब ईश्वरः | अविद्यायां प्रतिबिम्बस् तु जीवः | यथा सरसि रवेः
प्रतिबिम्बः यथा च घटे प्रतिबिम्बो महद्-अल्पत्व-व्यपदेशं भजते
तद्वद् इत्य् आह शङ्करः | तद् इदं निरसनाय दर्शयति न चेति | अनया रीत्या
तयोर् विभागो न च स्याद् इत्य् अन्वयः ||३६||

तत्र यद्य् उपाधेर् अनाविद्यकत्वेन वास्तवत्वं तर्ह्य् अविषयस्य तस्य
परिच्छेद-विषयत्वासम्भवः | निर्धर्मकस्य व्यापकस्य निरवयवस्य
च प्रतिबिम्बत्वायोगोऽपि | उपाधि-सम्बन्धाभावात् बिम्ब-प्रतिबिम्ब-
भेदाभावात्, दृश्यत्वाभावाच् च | उपाधि-परिच्छिन्नाकाशस्थ-ज्योतिर्-
अंशस्येव प्रतिबिम्बो दृश्यते, न त्व् आकाशस्य दृश्यत्वाभावाद् एव ||३७||

BD: कुतो न वाच्य इति तद्-अनुपपत्तेर् एवेत्य् आह तत्र यद्य् उपाधेर् इति |
परिच्छेद-पक्षं निराकरोति अनाविद्यकत्वेन रज्जु-भुजङ्गवद्-अज्ञान-
रचितत्वाभावेन वस्तु-भूतत्वे सतीत्य् अर्थः | अविषयस्येति अगृह्यो न हि
गृह्यते इति (Bऋहद्U ३.९.२६) श्रुतेः सर्वास्पृश्यस्य तस्य ब्रह्मण इत्य् अर्थः |
इदम् अत्र बोध्यम् - न च टङ्क-च्छिन्न-पाषाण-खण्डवद्-वास्तवोपाधि-
च्छिन्नो ब्रह्म-खण्ड-विशेष ईश्वरो जीवश् च | ब्रह्मणोऽच्छेद्यत्वाद्
अखण्डत्वाभ्युपगमाच् च | आदिमत्त्वापत्तैश् चेश्वर-जीवयोः | यत एकस्य
द्विधा त्रिधा विधानं छेदः | नाप्य् अच्छिन्न एवोपाधि-संयुक्तो ब्रह्म-
प्रदेश-विशेष एव स सः | उपाधौ चलत्य् उपाधि-संयुक्ति-ब्रह्म-प्रदेश-
चलनायोगात् प्रतिक्षणम् उपाधि-संयुक्त-ब्रह्म-प्रदेश-भेदाद्
अनुक्षणम् उपहितत्वानुपहितत्वापत्तेः | न च कृत्स्नं ब्रह्मैवोपहितं स
सः | अनुपहित-ब्रह्म-व्यपदेशासिद्धेः | नापि ब्रह्माधिष्ठानम् |
उपाधिर् एव स सः | मुक्तावीश-जीवाभावापत्तेर् इति तुच्छः परिच्छेद-
वादः |

अथ प्रतिबिम्ब-पक्षं निराकरोति निर्धर्मकस्येत्य् आदिना |
निर्धर्मकस्योपादि-सम्बन्धाभावात् | व्यापकस्य बिम्ब-प्रतिबिम्ब-
भेदाभावात् | निरवयवस्य दृश्यत्वाभावाच् च ब्रह्मणङ् प्रतिबिम्ब
ईश्वरो जीवश् च नेत्य् अर्थः | रूपादि-धर्म-विशिष्टस्य परिच्छिन्नस्य
सावयवस्य च सूर्यादेस् तद्-विदूरे जलाद्य्-उपाधौ प्रतिबिम्बो दृष्टः तद्-
विलक्षणस्य ब्रह्मणः स न शक्यो वक्तुम् इत्य् अर्थः | नन्व् आकाशस्य
तादृशस्यापि प्रतिबिम्ब-दर्शनाद् ब्रह्मणः स भविष्यतीति चेत् तत्राह
उपाधीति ग्रह-नक्षत्र-प्रभा-मण्डलस्येत्य् अर्थः | अन्यथा वायुकाल-
दिशाम् अपि स दर्शनीयः | यत् तु ध्वनेः पर्तिध्वनिर् इव ब्रह्मणः
प्रतिबिम्बः स्याद् इत्य् आह तन् न चारु | अर्थान्तरत्वाद् इति प्रतिबिम्ब-वादोऽप्य्
अतितुच्छः ||३७||

तथा वास्तव-परिच्छेदादौ सति सामानाधिकरण्य-ज्ञान-मात्रेण न तत्-
त्यागश् च भवेत् | तत्-पदार्थ-प्रभावस् तत्र कारणम् इति चेद् अस्माकम् एव
मत-सम्मतम् ||३८||

BD: ब्रह्मैवाहम् इति ज्ञान-मात्रेण तद्-रूपावस्थितिः स्याद् इति यद्-
अभिमतं तत् कह्लूपाधेर् वास्तवत्व-पक्षे न सम्भवतीत्य् आह तथा
वास्तवेति | आदिना प्रतिबिम्बो ग्राह्यः | न खलु निगडितः कश्चिद् दीनो
राजैवाहम् इति ज्ञान-मात्राद् राजा भवन् दृष्ट इति भावः | ननु
ब्रह्मानुसन्धि-सामर्थ्याद् भवेद् इति चेत् तत्राह तत्-पदार्थेति | तथा च
त्वन्-मत-क्षतिर् इति ||३८||

उपाधेर् आविद्यकत्वे तु तत्र तत्-परिच्छिन्नत्वादेर् अप्य् अघटमानत्वाद्
आविद्यकत्वम् एवेति घटाकाशादिषु वास्तवोपाधिमय-तद्-दर्शनया न
तेषाम् अवास्तव-स्वप्न-दृष्टान्तोपजीविनां सिद्धान्तः सिध्यति,
घटमानाघटमानयोः सङ्गतेः कर्तुम् अशक्यत्वात् | ततश् च तेषां तत्
तत् सर्वम् अविद्याविलसितम् एवेति स्वरूपम् अप्राप्तेन तेन तेन तत्-तद्-
व्यवस्थापयितुम् अशक्यम् ||३९||

BD: अथोपाधेर् आविद्यकत्व-पक्षे परिच्चेह्दादि-वाद-द्वयं निराकरोति
उपाधेर् इति | आविद्यकत्वे रज्जु-भुजङ्गादिवन् मिथ्यात्वे सतीत्य् अर्थः |
तत्रोपाधि-परिच्छिन्नत्व-तत्-प्रतिबिम्बत्वयोर् अप्य् अनुपपद्यमानत्वान्
मिथ्यात्वम् एवेति हेतोः | घटाकाशादिष् घट-परिच्छिन्नाकाशे घटाम्बु-
प्रतिबिम्बाकाशे च वास्तवोओपाधिमय-तद्-उभय-दृष्टान्त-दर्शनया तेषां
चिन्मात्राद्वैत्नाम् एकजीववाद-परिनिष्ठत्वाद् अवास्तव-स्वप्न-
दृष्टान्तोपजीविनां सिद्धान्तो न सिध्यति |

उपाधेर् मिथ्यात्वे तेन परिच्छेदः प्रतिबिम्बश् च ब्रह्मणो मिथैव स्यात् |
अतो मिथ्योपाधि-दृष्टान्तत्वेन सत्य-घट-घटाम्बुनोः प्रदर्शनम्
असमञ्जसम् एव | घट-घटाम्बु-दृष्टान्त-प्रदर्शनं घटमानं,
विद्याविधा-वृत्ति-रूप-दार्ष्टान्तिक-प्रदर्शनं स्व-घट-मानम् | तयोः
सङ्गतिः सादृश्य-विलक्षणा कर्तुम् अशक्यैव सादृश्याभावात् | ततश् चेति तत्
तत् सर्वं परिच्छेद-प्रतिबिम्ब-कल्पनम् अविद्याविलसितम् अज्ञान-
विजृम्भितम् एव | इति एवम्-उक्त-रीत्या | स्वरूपम् अप्राप्तेन असिद्धेन | तेन
परिच्छेदवादेन | तेन प्रतिबिम्बवादेन च | तत्-तद्-व्यवस्थापयितुं
प्रतिपादयितुम् अशक्यम् | ततश् च हन्तृ-हत-न्यायेन व्यास-दृष्ट-
प्रकारकस् तद्-विभागो ध्रुवः ||३९||

इति ब्रह्माविद्ययोः पर्यवसाने सति यद् एव ब्रह्म चिन्-
मात्रत्वेनाविद्यायोगस्यात्यन्ताभावास्पदत्वाच् छुद्धं तद् एव तद्-योगाद्
अशुद्ध्या जीवः | पुनस् तद् एव जीवाविद्या-कल्पित-मायाश्रयत्वाद् ईश्वरस् तद्
एव च तन्-माया-विषयत्वाज् जीव इति विरोधस् तद्-अवस्थ एव स्यात् | तत्र च
शुद्धायां चित्य् अविद्या | तद्-अविद्या-कल्पितोपाधौ तस्याम् ईश्वराख्यायां
विद्येति, तथा विद्यावत्त्वेऽपि मायिकत्वम् इत्य् असमञ्जसा च कल्पना स्याद् इत्य्
आद्य् अनुसन्धेयम् ||४०||

BD: ननु परिच्छेदादि-वाद-द्वये नास्माकं तात्पर्यं तस्याज्ञ-बोधनाय
कल्पितत्वात् | किन्त्व् एक-जीव-वाद एव तद् अस्ति |

स एव माया परिमोहितात्मा
शरीरम् आस्थाय करोति सर्वम् |
स्त्रियन्न-पानादि-विचित्र-भोगैः
स एव जाग्रत् परितुष्टिम् एति || (Kऐवल्यU १२)

इत्य् आदि कैवल्योपनिषदि तस्यिअवोपपादितत्वात् | तद्-वादश् चेत्थम् एकम्
एवाद्वितीयम् इत्य् आद्य् उक्त-श्रुतिभ्योऽद्वितीय-चिन्-मात्रो ह्य् आत्मा | स चात्मन्य्
अविद्यया गुणमयीं मायां तद्-वैषम्यजां कार्य-संहितं च कल्पन्यन्न्
अस्मद्-अर्थम् एकं युष्मद्-अर्थांश् च बहून् कल्पयति | तत्रास्मद्-अर्थः
स्व-स्वरूपः पुरुषः | युष्मद्-अर्थश् च महद्-आदीनि भूम्य्-अन्तानि जडानि |
स्व-तुल्यानि पुरुषान्तराणि, सवश्वराख्यः पुरुष-विशेषश् चेत्य् एवं
त्रिविधः | जीवेशाव् आभासेन करोति माया चाविद्या च स्वयम् एव भवति इति
(NTU २.९) इति श्रुत्य्-अन्तराच् च | गुण-योगाद् एव कर्तृत्व-भोक्तृत्वे
तत्रात्मन्य् अध्यस्ते | यथा स्वप्ने कश्चिद् राजधानीं राजानं तत्-प्रजाश् च
कल्पयति, तन्-नियम्यम् आत्मानं च मन्यते, तद्वत् | जाते च ज्ञाने, जागरे
च सति, ततोऽन्यन् न किञ्चिद् अस्तीति चिन्मात्रम् एकम् आत्म-स्वस्त्व् इति |

तम् इमं वादं निराकर्तुम् आह इति ब्रह्मेति | इति एवं पूर्वोक्त-रीत्या
परिच्छेदादि-वाद-द्वयस्य प्रत्याख्याने जाते, ब्रह्म चाविद्या चेति द्वयोः
पर्यवसाने सतीत्य् अर्थः | अत्यन्ताभावास्पदत्वाद् इति अगृह्यो न हि गृह्यते
(Bऋहद्U ३.९.२६) इत्य् आदि श्रुतेर् एवेत्य् अर्थः | विरोधस् तद्-अवस्थ इति
वोरोधत्वाद् एवाशक्य-व्यवस्थापन इत्य् अर्थः | तव च शुद्धायाम् इति
शुद्धे ब्रह्मण्य् अकस्माद् अविद्या-सम्बन्धस् तत्-सम्बन्धात् तस्य
जीवत्वम् | तेन जीवेन कल्पिताया मायाया आश्रयो भूत्वा तद्
ब्रह्मैवेश्वरः | तस्येश्वरस्य मायया परिभूतं ब्रह्मैव तज्-जीवः | इत्य्
आदि विप्रलापोऽयम् अविदुषाम् एव, न तु विदुषाम् इति भावः | मायिकत्वं
प्रतारकत्वम् इत्य् अर्थः | स एव माया इति श्रुतिस् तु ब्रह्मायत्त-वृत्तिकत्व-
ब्रह्म-व्याप्यत्वाभ्यां ब्रह्मणोऽनतिरिक्तो जीव इत्य् एव निवेदयन्ती
गतार्था | जीवेशौ इति श्रुतिस् तु माया-विमोहित-तार्किकादि-परिकल्पित-जीवेश-
परतया गतार्थेति न किञ्चिद् अनुपपन्नम् || ४० ||

किं च, यद्य् अत्राभेद एव तात्पर्यम् अभविष्यत् तर्ह्य् एकम् एव
ब्रह्माज्ञानेन भिन्नं, ज्ञानेन तु तस्य भेदमयं दुःखं विलीयत इत्य्
अपश्यद् इत्य् एवावक्ष्यत् | तथा श्री-भगवल्-लीलादीनां वास्तवत्वाभावे सति
श्री-शुक-हृदय-विरोधश् च जायते ||४२||

BD: अनुपपत्त्य्-अन्तरम् आह किं चेति | अत्र श्री-भागवते शास्त्रे | इत्य् एवेति
पूर्णः पुरुषः कश्चिद् अस्ति तद्-आश्रितया मायया जीवो विमोहितोऽनर्थं
भजति | तद्-अनर्थोपशमनी च पूर्णस्य तस्य भक्तिः इत्य् अपश्यत् | इत्य् एवं
नावक्ष्यद् इत्य् अर्थः ||४१||

तस्मात् परिच्छेद-प्रतिबिम्बत्वादि-प्रतिपादक-शास्त्राण्य् अपि कथञ्चित् तत्-
सादृश्येन गौण्यैव वृत्त्या प्रवर्तेरन् | अम्बुवद् अग्रहणात् तु न तथात्वम्
(Vस्. ३.२.१९), वृद्धि-ह्रास-भाक्त्वम् अन्तर्- (पगे ९८) भावाद् उभय-
सामञ्जस्योदेवम् (Vस् ३.२.२०) इति पूर्वोत्तर-पक्षमय-न्यायाभ्याम् ||४२||

BD: तस्माद् इति | तत्-सादृश्येन परिच्छिन्न-प्रतिबिम्ब-तुल्यत्वेनेत्य् अर्थः |
सिंहो देवदत्तः इत्य् अत्र यथा गौण्या वृत्त्या सिंह-तुल्यत्वं
देवदत्तस्योच्यते, न तु सिंहत्वं तद्वद् इत्य् अर्थः | नन्व् एवं केन निर्णीतम्
इति चेत् | सूत्रकृता श्री-व्यासेनैवेति तत् सूत्र-द्वयं दर्शयति |

तत्रैकेन तद्वाद-द्वयम् असम्भवान् निरस्यति अम्बुवद् इति | यथाम्बुना
भू-खण्डस्य परिच्छेदः, एवम् उपाधिना ब्रह्म-प्रदेशस्य स स्यात् | न,
अम्बुना भूखण्डस्येवोपाधिना ब्रह्म-प्रदेशस्य ग्रहणाभावात् | अगृह्यो
न हि गृह्यते (Bऋहद्U ३.९.२६) इति हि श्रुतिः | अतो न तथात्वं ब्रह्मण
उपाधि-परिच्छिन्नत्वं नेत्य् अर्थः |

यद् वा, अम्बुनि यथा रवेः पर्तिबिम्बः परिच्छिन्नस्य गृह्यते, एवम्
उपाधौ ब्रह्मणः प्रतिबिम्बो व्यापकस्य न गृह्यते | अतो न तथात्वम्
तस्य प्रतिबिम्बो नेत्य् अर्थः | तर्हि शास्त्र-द्वयं कथं सङ्गच्छते |
तत्राह, वृद्धीति द्वितीयेन | तद् द्वयं न मुख्य-वृत्त्या प्रवर्तते | किन्तु
वृद्धि-ह्रास-भाक्त्वं गुणांशम् आदायैव | यथा महद्-अल्पौ भू-
खण्डौ, यथा च रवि-तत्-प्रतिबिम्बौ वृद्धि-ह्रास-भाजौ, तथा परेश-
जीवौ स्याताम् | कुतः? अन्तर्भावात् | एतस्मिन्न् अंशे शास्त्र-तात्पर्य-पूर्तेः |
एवं सत्य् उभयोर् दृष्टान्तान्तिकयोः सामञ्जस्यात् सङ्गतेर् इत्य् अर्थः | पूर्व-
न्यायेन परिच्छेदादि-वाद-द्वयस्य खण्डनम्, उत्तर-न्यायेन तु गौण-
वृत्त्या तस्य व्यवस्थापनम् इति | ब्रह्मणः खण्डःय् प्रतिबिम्बो वा जीव
एवेति सूत्र-कृतां मतम् | ईशोऽपि ब्रह्मणः खण्डः प्रतिबिम्बो वेति
मायिनाम् ईश-विमुखानां मतम् इति बोधव्यम् ||४२||

तत एवाभेद-शास्त्राण्य् उभयोश् चिद्-रूपत्वे जीव-समूहस्य दुर्घट-
घटना-पटीयस्या स्वाभाविक-तद्-अचिन्त्य-शक्त्या स्वभावत एव तद्-रश्मि-
परमाणु-गुण-स्थानीयत्वात् तद्-व्यतिरेकेणाव्यतिरेकेण च विरोधं
परिहृत्याग्रे मुहुर् अपि तद् एतद्-व्यास-समाधि-लब्ध-सिद्धान्त-योजनाय
योजनीयानि ||४३||

BD: तत इति परिच्छेदादि-शास्त्र-द्वयस्य तत्-सादृश्यार्थकत्वेन नीतत्वाद् एव
हेतोः | त्वं वा अहम् अस्मि भगवो देव, अहं वै त्वम् असि तत्त्वम् असि इत्य्
आदीन्य् अभेद-शास्त्राणि | तद् एतद् व्यास-समाधि-सिद्धान्त-योजनाय मुहुर्
अप्य् अग्रे योजनीयानीति सम्बन्धः | केन हेतुनेत्य् आह उभयोर् ईश-जीवयोश्
चिद्-रूपत्वेन हेतुना | यथा गौर-श्यामयोस् तरुण-कुमारयोर् वा विप्रयोर्
विप्रत्वेनैक्यम् | ततश् च जात्यैवाभेदो, नतु व्यक्तोर् इत्य् अर्थः | तथा जीव-
समूहस्य दुर्घट-घटना-पटीयस्या तद्-अचिन्त्य-शक्त्या स्वभावत एव
तद्-रश्मि-परमाणु-गुण-स्थानीयत्वात् तद्-व्यतिरेकेण, अव्यतिरेकेण च
हेतुना विरोधं परिहृत्येति | परेशस्य कह्लु स्वरूपानुबन्धिनी पराख्या
शक्तिर् उष्णतेव रवेर् अस्ति | परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी
ज्ञान-बल-क्रिया च (Śवेत्U ६.८) इति मन्त्र-वर्णात् | विष्णु-शक्तिः परा प्रोक्ता
(VइP ६.७.६१) इति स्मरणाच् च | सा हि तद्-इतरान् निखिलान् नियमयति | यस्मात् तद्
अन्ये सर्वेऽर्थाः स्वस्वभावम् अत्यजन्तो वर्तन्ते | प्रकृतिः कालः कर्म च
स्वान्तः-स्थितम् अपीश्वरं स्पर्ष्टुं न शक्नोति | किन्तु ततो बिभ्येद् एव
स्वस्वभावे तिष्ठति | जीव-गणाश् च तत्-सजातीयोऽपि न तेन सम्पर्चितुं
शक्नोति किन्तु तमाश्रयन्न् एव वृत्तिं लभते | मुख्य-प्राणम् इव श्रोत्रादिर्
इन्द्रिय-गण इति | तथा यद्-अत्तिर् यद्-अधीना स तद्-रूपः इत्य् अभेद-
शास्त्रस्यापि भेद-शास्त्रेण सार्धम् अविरोधोऽयं श्री-व्यास-समाधि-लब्ध-
सिद्धान्त-सव्यपेक्ष इति | तथा चात्रेश-जीवयोः स्वरुऊपाभेदो नास्तीति
सिद्धम् ||४३||

तद् एवं मायाश्रयत्व-माया-मोहितत्वाभ्यां स्थिते द्वयोर् भेदे तद्-
भजनस्यैवाभिधेयत्वम् आयातम् ||४४||

तद् एवम् इति स्फुटार्थम् | तद्-भजनस्य माया-निवारकस्येत्य् अर्थः ||४४||

अतः श्री-भगवत एव सर्व-हितोपदेष्टृत्वात्, सर्व-धुःख-हरत्वात्,
रश्मीनां सूर्यवत् सर्वेषां परम-स्वरूपत्वात् सर्वाधिक-गुण-शालित्वात्,
परम-प्रेमयोगत्वम् इति प्रयोजनं च स्थापितम् ||४५||

BD: माया-मोह-निवारकत्वाद् यस्य भजनम् अभिधेयं, स भगवान् एव
भजतां प्रेम-योग्य इत्य् अर्थाद् आगतम् इत्य् आह अत इति | अतो मायामोह-
निवारक-भजनत्वाद् भगवत एव परम-प्रेम-योग्यत्वम् इति
सम्बन्धः | जीवात्मा प्रेम-योग्यः, परमात्मा भगवांस् तु परम-
प्रेम-योग्य इत्य् अर्थः | कुत इत्य् अपेक्षायां हेतु-चतुष्टयम् आह सर्वेति |
रश्मीनाम् इत्य् आदि - सूर्यो यथा रश्मीनां स्वरूपं न, किन्तु परम-
स्वरूपम् एव भवत्य् एवं जीवानां भगवान् इति स्वरूपैक्यं निरस्तम् |
अन्तर्यामि-ब्राह्मणात् सौबाल-ब्राहमणाच् च जीवात्मनः परमात्मनः
शरीराणि भवन्ति, स तु तेषां शरीरी इति भेदः प्रस्फुटो ज्ञातः | अतः
सर्वाधिकेति ||४५||

तत्राभिधेयं च तादृशत्वेन दृष्टवान् अपि, यतस् तत्-प्रवृत्त्य्-अर्थं श्री-
भागवताख्याम् इमां सात्वत-संहितां प्रवर्तितवान् इत्य् आह अनर्थेति |
भक्तियोगः श्रवण-कीर्तनादि-लक्षणः साधन-भक्तिः, न तु प्रेम-
लक्षणः | अनुष्ठानं ह्य् उपदेशापेक्षं प्रेम तु तत्-प्रसादापेक्षम् इति
तथापि तस्य तत्-प्रसाद-हेतोस् तत्-प्रेम-फल-गर्भत्वात् साक्षाद्
एवानर्थोपशमनत्वं, न त्व् अन्यसापेक्षत्वेन | यत् कर्मभिर् यत् तपसा
ज्ञान-वैराग्यतश् च यत् इत्य् आदौ (Bह्P ११.२०.३२), सर्वं मद्-भक्ति-योगेन
मद्-भक्तो लभतेऽञ्जसा | स्वर्गापवर्गं (Bह्P ११.२०.३३) इत्य् आदेः | ज्ञानादेस्
तु भक्ति-सापेक्षत्वम् एव श्रेयः-सृतिं भक्तिम् (Bह्P १०.१४.४) इत्य् आदेः |

अथवा अनर्थस्य संसार-व्यसनस्य तावत् साक्षाद्-अव्यवधानेनोपशमनं
सम्मोहादि-द्वयस्य तु प्रेमाख्य-स्वीय-फल-द्वारेत्य् अर्थः | अतः
पूर्ववद् एवात्राभिधेयं दर्शितम् ||४६||

BD: तत्राभीति | तादृशत्वेन मायानिवारकत्वेन | दृष्टवान् अपि श्री-व्यासः |
अनुष्ठानं कृति-साध्यम् | तत्-प्रसादेति भगवद्-अनुग्रहेत्य् अर्थः | तस्य
श्रवणादि-लक्षणस्य | अन्य-सापेक्षत्वेन कर्मादि-परिकरत्वेन | ज्ञानादेस्
त्व् इति ज्ञानम् अत्र यस्य ब्रह्म (पगे ६) इत्य् उक्त-ब्रह्म-विषयकम् |
सम्मोहादीयादि-पदाद् आत्मनो जड-देहादि-रूपता-मननं ग्राह्यम् | अत
इति | अत्र अनर्थेति वाक्ये ||४६||

अथ पूर्वदेव प्रयोजनं च स्पष्टयितुं पूर्वोक्तस्य पूर्ण-पुरुषस्य च
श्री-कृष्ण-स्वरूपत्वं व्यञ्जयितुं, ग्रन्थ-फल-निर्देश-द्वारा तत्र तद्-
अनुभवान्तरं प्रतिपादयन्न् आह यस्याम् इति | भक्तिः प्रेमा श्रवण-
रूपया (पगे १०९) साधन-भक्त्या साध्यत्वात् | उत्पद्यते आविर्भवति |
तस्यानुषङ्गिकं गुणम् आह शोकेति | अत्रैषां संस्कारोऽपि नश्यतीति भावः |
(पगे ११०) प्रीतिर् न यावन् मयि वासुदेव न मुच्यते देह-योगेन तावत् इति
(Bह्P ५.५.६) श्री-ऋषभदेव-वाक्यात् | परम-पुरुषे पूर्वोक्त-पूर्ण-पुरुषे |
किम् आकार इत्य् अपेक्षायाम् आह कृष्णे | कृष्णस् तु भगवान् स्वयम् इत्य् आदि
शास्त्र-सहस्र-भावितान्तः-करणानां परम्परया तत्-प्रसिद्दि-मध्य-
पातिनां चासाङ्ख्य-लोकानां तन्-नाम-श्रवण-मात्रेण यः प्रथम-
प्रतीति-विषयः स्यात्, तथा तन्-नाम्नः प्रथमाक्षर-मात्रं मन्त्राय
कल्पमानं यस्याभिमुख्याय स्यात् तद्-आकार इत्य् अर्थः | आहुश् च नाम-
कौमुदी-काराः | कृष्ण-शब्दस्य तमाल-श्यामल-त्विषि यशोदायाः
स्तनन्धये पर-ब्रह्मणि रूढिः इति ||४७||

BD: अथेति | प्रयोजनं भगवत्-प्रेम-लक्षणम् | तत्रेति तत्र समाधौ श्री-
व्यासस्यान्यम् अनुभवम् इत्य् अर्थः | आविर्भवतीति प्रेम्णः
परासारांशत्वेनोत्पत्त्य्-असम्भवाद् इत्य् अर्थः | तस्येति प्रेम्णः | अत्र प्रेम्णि
सति | कृष्णस् तु भगवान् स्वयं इति श्री-सूतादीनां श्री-जयदेवादीनां
चासङ्ख्य-लोकानाम् इत्य् अर्थः | तन्-नाम इति तन्-नाम्नः इति चोभयत्र
कृष्णेति नाम बोध्यम् | रूढिर् इति प्रकृति-प्रत्यय-सम्बन्धं विनैव
यशोदा-सुते प्रसिद्धिर् मण्डप-शब्दस्येव गृह-विशेष इत्य् अर्थः ||४७||

अथ तस्यैव प्रयोजनस्य ब्रह्मानन्दानुभवाद् अपि परमत्वम्
अनुभूतवान् | यतस् तादृशं शुकम् अपि तद्-आनन्द-वैशिष्ट्य-लम्भनाय
ताम् अध्यापयामासेत्य् आह स संहिताम् इति | कृत्वानुक्रम्य चेति प्रथमतः
स्वयं सङ्क्षेपेण कृत्वा पश्चात् तु श्री-नारदोपदेशाद् अनुक्रमेण विवृत्येत्य्
अर्थः | अतएव श्रीमद्-भागवतं भारतानन्तरं यद् अत्र श्रूयते, यच्
चान्यत्राष्टादश-पुराणानन्तरं भारतम् इति तद्-द्वयम् अपि समाहितं
स्यात् | ब्रह्मानन्दानुभव-निमग्नत्वात् निवृत्ति-निरतं सर्वतो निवृत्तौ
निरतं, तत्राव्यभिचारिणम् अपीत्य् अर्थः ||४८||

BD: अथेति ब्रह्मानन्दाद् यस्य ब्रह्मेत्य् उक्त-वस्तु-सुखाद् अपि |
परमत्वम् उत्कृष्टत्वम् अनुभूतवान् श्री-व्यासः | तादृशं तद्-
आनन्दानुभवैनम् अपि | तद्-आनन्देति कृष्ण-प्रेमानन्द-प्रापणायेत्य्
अर्थः | अत एवेति | यद् अत्रेति अत्र श्री-भागवते | अयत्र मात्स्यादौ अष्टाद्श-
पुराणानि कृत्वा सत्यवती-सुतः | चक्रे भारतम् आख्यानं वेदार्थैर्
उपबृंहितम् इत्य् अनेनेत्य् अर्थः | तत्रेति निवृत्ताव् इत्य् अर्थः ||४८||

तम् एतं श्री-वेद-व्यासस्य समाधि-जातानुभवं श्री-शौनक-
प्रश्नोत्तरत्वेन विशदयन् सर्वात्मारामानुभवेन सहेतुकं संवादयति
आत्मारामाश् चेति | निर्ग्रन्था विधि-निषेधातीता निर्गताहङ्कार-ग्रन्थयो
वा | अहैतुकीं फलानुसन्धि-रहिताम् | अत्र सर्वाक्षेपपरिहारार्थम् आह
इत्थम्भूत आत्मारामाणाम् अप्य् आकर्षण-स्वभावो गुणो यस्य स इति | तम्
एवार्थं श्री-शुकस्याप्य् अनुभवेन संवादयति हरेर् गुणेति | श्री-
व्यासदेवाद् यत्-किञ्चिच्-छ्रुतेन गुणेन पूर्वम् आक्षिप्ता मतिर् यस्य सः |
पश्चाद् अध्यगात् महद्-विस्तीर्णम् अपि | ततश् च तत्-सङ्कथा-सौहार्देन
नित्यं विष्णु-जनाः प्रिया यस्य तथाभूतो वा, तेषां प्रियो वा स्वयम् अभवद्
इत्य् अर्थः |

अयं भावः ब्रह्म-वैवर्तानुसारेण पूर्वं तावद् अयं गर्भम् आरभ्य
श्री-कृष्णस्य स्वरितया माया-निवारकत्वं ज्ञातवान् | तत्र श्री-व्येद-व्यासस्
तु तं वशीकर्तुं तद्-अनन्य-साधनं श्री-भागवतम् एव ज्ञात्वा, तद्-
गुणातिशय-प्रकाशमयांस् तदीय-पद्य-विशेषान् कथञ्च्च् छ्रावयित्वा तेन
तम् आक्षिप्त-मतिं कृत्वा, तद् एव पूर्णं तम् अध्यापयामासेति श्री-
भागवत-महिमातिशयः प्रोक्तः | तद् एवं दर्शितं वक्तुः श्री-शुकस्य
वेदव्यासस्य च समान-हृदयम् | तस्माद् वक्तुर् हृदयानुरूपम् एव
सर्वत्र तात्पर्यं पर्यालोचनीयं नान्यथा | यद् यत् तद् अन्यथा
पर्यालोचनं, तत्र तत्र कुपथ-गामितैवेति निष्टङ्कितम् || १.७ || श्री-सूतः ||
४९ ||

BD: समाधि-दृष्टस्यार्थस्य सर्व-तत्त्वज्ञ-सम्मतत्वम् आह तम् इत्य्
आदिना | निर्गताहङ्कारेति | महत्-तत्त्वाज् जातोऽयम् अहङ्कारः | न तु
स्वरूपानुबन्धीति बोध्यं, द्वितीये सन्दर्भे एवम् एव निर्णेष्यमाणत्वात् |
तदीय-पद्य-विशेषान् इति पूतनाधात्री-गति-दान-पाण्डव-सारथ्य-
प्रतीहारत्वादि-प्रदर्शकान् कतिचिच् छ्लोकान् इत्य् अर्थः | ब्रह्म-वैवर्ते शुको
योनि-जातः, भारते त्व् अयोनि-जातः कथ्यते | दार-ग्रहणं कन्या-सन्ततिश्
चेति | तद् एतत् सर्वं कल्प-भेदेन सङ्गमनीयम् ||४९||

अथ क्रमेण विस्तरतस् तथैव तात्पर्यं निर्णेतुं सम्बन्धाभिधेय-
प्रयोजनेषु षड्भिः सन्दर्भैर् निर्णेष्यमाणेषु प्रथमं यस्य वाच्य-
वाचकता-सम्बन्धीदं शास्त्रं तद् एव धर्मः प्रोज्झित-कैतवः इत्य् आदि-
पद्ये सामान्याकारतस् तावद् आह वेद्यं वास्तवम् अत्र वस्तु (Bह्P १.१.२) इति ||
टीका च अत्र श्रीमति सुन्दरे भागवते वास्तवं परमार्थ-भूतं वस्तु
वेद्यं, न तु वैशेषिकादिवद् द्रव्य-गुणादि-रूपम् इत्य् एषा ||१.१|| वेद-
व्यासः ||५०||

BD: सङ्क्षेपेणोक्तं सम्बन्धादिकं विस्तरेण दर्शयितुम् उपक्रमते
अथेत्यादि | तथैवेति श्री-शुकादि-हृदयानुसारेणेत्य् अर्थः | सामान्यत इति
अनिर्दिष्ट-स्वरूप-गुण-विभूति-कथनायेत्य् अर्थः | वैशेषिकादिवद् इति
कणाद-गौतमोक्त-शास्त्रवद् इत्य् अर्थः ||५०||

अथ किं रूपं तद्-वस्तु-तत्त्वम् इत्य् अत्राह वदन्ति तत् तत्त्व-विदस् तत्त्वं यज्
ज्ञानम् अद्वयम् इति (Bह्P १.२.११) | ज्ञानं चिद्-एक-रूपम् | अद्वयत्वं चास्य
स्वयं-सिद्धतादृशातादृशतत्त्वान्तराभावआत् स्वशक्त्येक-सहायत्वात् |
परमाश्रयं तं विना तासाम् असिद्धत्वाच् च | तत्त्वम् इति परम-
पुरुषार्थता-द्योतनया परम-सुख-रूपत्वं तस्य बोध्यते | अतएव तस्य
नित्यत्वं च दर्शितम् ||१.२|| श्री-सुतः ||५२||

BD: स्वरूप-निदेश-पूर्वकं तत्त्वं वक्तुम् अवतारयति अथ किम् इति | स्वयं
सिद्धेति आत्मनैव सिद्धं खलु स्वयं सिद्धम् उच्यते | स्वयं दासास्
तपस्विनः इत्य् अत्र तपस्व्-दास्यम् आत्मना तपस्विनैव सिद्धं प्रतीयते
तद्वत् | तादृशं च परेश-वस्त्व् एव, न तु तादृशम् अपि जीव-चैतन्यं, न त्व्
अतादृशं प्रकृति-काल-लक्षणं जड-वस्तु | तद्-अभावाद् अद्वयत्वम् | तयोः
स्वयंसिद्धत्वाभावः कुतः | इत्य् अत्राह परमाश्रयं तं विनेति | स्व-
शक्त्येक-सहायेऽप्य् अद्वय-पदं प्रयुज्यते धनुर् द्वितीयः पाण्डुर् इति |

ननु वेदान्ते व्ज्ञानम् आनन्दं ब्रह्म इति | विज्ञानानद-स्वरूपं ब्रह्म
पठ्यते, इह ज्ञानम् इति कथम् | तत्राह तत्त्वम् इति | इदम् अत्र तत्त्वम् इत्य्
उक्ते सारे वस्तुनि तत्त्व-शब्दो नीयते | सारं च सुखम् एव सर्वेषाम्
उपायानां तद्-अर्थत्वात् | तथा च सुख-रूपत्वम् अपि तस्यागतम् | ननु
ज्ञानं सुखं चानित्यं दृष्टं तत्राह अतएवेति | स्वयंसिद्धत्वेन
व्याख्यानान् नित्यं तद् इत्य् अर्थः | सद्-अकारणं यत् तन् नित्यं इति हि
तीर्थकाराः | एवं च तादृश-ब्रह्म-सम्बन्धीदं शास्त्रम् इत्य् उक्तम् ||५१||

ननु नील-पीताद्य्-आकारं क्षणिकम् एव ज्ञानं दृष्टम्, तत् पुनर् अद्वयं
नित्यं ज्ञानं कथं लक्ष्यते यन्-निष्ठम् इदं शास्त्रम् | इत्य् अत्राह सर्व-
वेदान्त-सारं यद् ब्रह्मात्वेकत्व-लक्षणम् | वस्त्व् अद्वितीयं तन्-निष्ठम्
इति (Bह्P १२.१३.१२) सत्यं ज्ञानम् अनन्तं ब्रह्म इति यस्य स्वरूपम् उक्तम्,
येनाश्रुतं श्रुतं भवति (Cहा ६.१.३) इति यद्-विज्ञानेन सर्व-विज्ञानं
प्रतिज्ञातम् | सद् एव सौम्येदम् अग्र आसीत् (Cहा U ६.२.१) इत्य् आदिना निखिल-
जगद्-एक-कारणता | तद् ऐक्षत बहु स्याम् (CहाU ६.२.३) इत्य् अनेन सत्य-
सङ्कल्पता च यस्य प्रतिपादिता, तेन ब्रह्मणा स्वरूप-शक्तिभ्यां सर्व-
बृहत्तमेन सार्धम् | अनेन जीवेनात्मना (Cहा U ६.३.२) इति
तदीयोक्ताविदन्तानिर्देशेन ततो भिन्नत्वेऽप्य् आत्मतानिर्देशेन तद्-आत्मांश-
विशेषत्वेन लब्धस्य बादरायण-समाधि-दृष्ट-युक्तेर् अत्यभिन्नता-
रहितस्य जीवात्मनो यद् एकत्वं तत्त्वम् असि (CहाU ६.८.७) इत्य् आदौ जात्या तद्-
अंश-भूत-चिद्-रूपत्वेन समानाकारता | तद् एव लक्षणं प्रथमतो ज्ञाने
साधकतमं यस्य तथाभूतं यत् सर्व-वेदान्त-सारम् अद्वितीयं वस्तु तन्-
निष्ठं तद्-एक-विषयम् इदं श्री-भागवतम् इति प्राक्तन-
पद्यस्थेनानुषङ्गः | यथा जन्म-प्रभृति कश्चिद् गृह-गुहावरुद्धः
सूर्यं विविदिषुः कथङ्चिद् गवाक्ष-पतितं सूर्यांशु-कणं दर्शयित्वा
केनचिद् उपदिश्यते एष स इति | एतत् तद्-अंश-ज्योतिः-समानाकारतया तन्-महा-
ज्योतिर्-मण्डलम् अनुसन्धीयताम् इत्य् अर्थस् तद्वत् | जीवस्य तथा तद्-
अंशत्वं च तच्-छक्ति-विशेष-सिद्धत्वेनैव परमात्म-सन्दर्भे
स्थापयिष्यामः | तद् एतज्-जीवादि-लक्षणांश-विशिष्टतयैवोपनिषदस् तस्य
सांशत्वम् अपि क्वचिद् उपदिशन्ति | निरंशत्वोपदेशिका श्रुतिस् तु केवल-तन्-
निष्ठा | अत्र कैवल्यैक-प्रयोजनम् इति चतुर्थ-पादश् च कैवल्य-पदस्य
शुद्धत्व-मात्र-वचनत्वेन शुद्धत्वस्य च शुद्ध-भक्तित्वेन
पर्यवसानेन प्रीति-सन्दर्भे व्याख्यास्यते ||१२|१३|| श्री-सूतः ||५२||

BD: आर्थिकं नित्यत्वं स्थिरं कुर्वन्, शास्त्रस्य विशिष्ट-ब्रह्म-
सम्बन्धित्वम् आह - ननु नीलेत्य् आदिना | अनेन जीवेनेत्य् आदि | तदीयोक्तौ
परदेवता-वाक्ये | तद्-आत्मांश-विशेषत्वेन तद्-विभिन्नांशत्वेन, न तु
मत्स्यादिवत् स्वांशत्वेनेत्य् अर्थः | जीवात्मनो यद् एकत्वम् इति जीवस्य चिद्-
रूपत्वेन जात्या यद्-ब्रह्म-समानाकारत्वं तद् एव तस्य ब्रह्मणा
सहैक्यम् इति व्यक्ति-भेदः प्रस्फुटः | एवम् एव यथेत्यादि-दृष्टान्तेनापि
दर्शितः | तद् एतद् इति उपनिषदः सोऽकामयत बहु स्याम् इत्य् आद्याः |
निरंशत्वोपदेशिकेति सत्यं ज्ञानम् अनन्तम् (Tऐत्त्U २.१), निष्कलं निष्रियं
शान्तं निरवद्यं निरञ्जनम् (Śवेत्U ६.१९) इत्य् आद्या श्रुतिस् तु केवल-तन्-
निष्ठा विशेष्यमात्र-परेत्य् अर्थः | अनभिव्यक्त-संस्थान-गुणकं ब्रह्म
वदतीति यावत् ||५२||

तत्र यदि त्वम्-पदार्थय्स जीवात्मनो ज्ञानत्वं नित्यत्वं च प्रथमतो
विचार-गोचरः स्यात् तदैव तत्-पदार्थस्य तादृशत्वं सुबोधं स्याद् इति | तद्
बोधयितुम् अन्यार्थश् च परामर्शः (Vस्. १.३.२०) इति न्यायेन जीवात्मनस् तद्-
रूपत्वम् आह |

नात्मा जजान न मरिष्यति नैधतेऽसौ
न क्षीयते सवनविद्-व्यभिचारिणां हि |
सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं
प्राणो यथेन्द्रिय-बलेन विकल्पितं सत् || (Bह्P ११.३.३८)

आत्मा शुद्धो जीवः | न जजान न जातः | जन्माभावाद् एव तद्-अनन्तरास्तिता-
लक्षणो विकारोऽपि नास्ति | नैधते न वर्धते | वृद्ध्य्-अभावाद् एव
विपरिणामोऽपि निरस्तः | हि यस्मात् | व्यभिचारिणाम् आगमापायिनां बाल-
युवादि-देहानां देव-मनुष्याद्य्-आकार-देहानां वा | सवनवित् तत्-तत्-काल-
द्रष्टा | नह्य् अवस्थावतां द्रष्टा तद्-अवस्थो भवतीत्य् अर्थः | निरवस्थः
कोऽसाव् आत्मा | अत आह उपलब्धि-मात्रं ज्ञानैक-रूपम् | कथम्भूतम् |
सर्वत्र देहे, शश्वत् सर्वदा अनुवर्तमानम् इति |

ननु नील-ज्ञानं नष्टं पीत-ज्ञानं जातम् इति प्रतीतेर् न
ज्ञानस्यानपायित्वम् | तत्राह इन्द्रिय-बलेनेति | सद् एव ज्ञानम् एकम् इन्द्रिय-
बलेन विविधं कल्पितम् | नीलाद्य्-आकारा वृत्तय एव जायन्ते नश्यन्ति च न
ज्ञानम् इति भावः | अयम् आगमापायितदवधि-भेदेन प्रथमस् तर्कः |
द्रष्टृ-दृश्य-भेदेन द्वितीयोऽपि तर्को ज्ञेयः | व्यभिचारिष्व् अवस्था-
व्यभिचारे दृष्टान्तः प्राणो यथेति |

BD: जीवात्मनि ज्ञाते परमात्मा सुज्ञातः स्याद् इत्य् उक्तम् | तद् अर्थं
जीवात्मानं निरूपयिष्यन्न् अवतारयति तत्र यदीत्य् आदिना | अन्यार्थश् चेति
ब्रह्म-सूत्रम् | दहर-विद्या छान्दोग्ये पठ्यते यद् इदम् अस्मिन् ब्रह्म-
पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्न् अन्तर्-आकाशस् तस्मिन् यद्-अन्तस्
तद् अन्वेष्टव्यम् (CहाU ८.१.१) इति | अत्रोपासकस्य शरीरं ब्रह्म-पुरं, तत्र
हृत्-पुण्डरीकस्थो दहरः परमात्मा ध्येयः कथ्यते | तत्रापहत-
पाप्मत्वादि-गुणाष्टकम् अन्वेष्टव्यम् उपदिश्यत इति सिद्धान्तितम् | तद्-
वाक्य-मध्ये स एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर्
उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः (Cहा ८.१२.३) इति
वाक्यं पठितम् | अत्र सम्प्रसादो लब्ध-विज्ञानो जीवस् तेन यत् परं ज्योतिर्
उपपन्नं स एव पुरुषोत्तम इत्य् अर्थः | दहर-वाक्यान्तराले जीव-
परामर्शः किम् अर्थम् इति चेत् तत्राह अन्यार्थ इति | तत्र जीव-
परामर्शोऽन्यार्थः | यं प्राप्य जीवः स्व-स्वरूपेणाभिनिष्पद्यते स
परमात्मेति परमात्म-ज्ञानार्थ इत्य् अर्थः | न जजानेति जायतेऽस्ति वर्धते
विपरिणमतेऽपक्षीयते नश्यति च इति भाव-विकाराः षट् पठिताः | ते जीवस्य
न सन्ति इति समुदायार्थः | ननु नील-ज्ञानम् इत्य् आदि ज्ञान-रूपम्
आत्मवस्तु ज्ञातृ भवति | प्रकाश-वस्तु सूर्यः प्रकाशयिता यथा | ततश् च
स्वरूपानुबन्धित्वाज् ज्ञानं तस्य नित्यं, तस्येन्द्रिय-प्रणाल्या नीलादि-निष्ठा
या विषयता वृत्ति-पद-वाच्या सैव नीलाद्यपगमे नश्यतीति ||५३||


दृष्टान्तं विवृण्वन्न् इन्द्रियादिलयेन निर्विकारात्मोपलब्धिं दर्शयति --

अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु
प्राणो हि जीवम् उपधावति तत्र तत्र |
सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते
कूटस्थ आशयम् ऋते तद् अनुस्मृतिर् नः || [Bह्P ११.३.३९]

अण्डेषु अण्डजेषु | पेशिषु जरायुजेषु | तरुषु उद्भिज्जेषु | अविनिश्चितेषु
स्वेदजेषु | उपधावति अनुवर्तते | एवं दृष्टान्ते निर्विकारत्वं प्रदर्श्य
दार्ष्टान्तिकेऽपि दर्शयति | कथम् | तदैवात्मा सविकार इव प्रतीयते यदा
जागरे इन्द्रिय-गणः | यदा च स्वप्ने तत्-संस्कारवान् अहङ्कारः | यदा तु
प्रसुप्तं तदा तस्मिन् प्रसुप्त इन्द्रिय-गणे सन्ने लीने | अहमि अनङ्कारे च
सन्ने लीने | कूटस्थो निर्विकार एवात्मा | कुतः | आशयम् ऋते लिङ्ग-शरीरम्
उपाधिं विना | विकार-हेतोर् उपाधेर् अभावात् इत्य् अर्थः |

नन्व् अहङ्कार-पर्यन्तस्य सर्वस्य लये शून्यम् एवावशिष्यते | क्व तदा
कूटस्थ आत्मा | अत आह तद्-अनुस्मृतिर् नः | तस्याखण्डात्मनः सुष्प्ति-
साक्षिणः स्मृतिः नः अस्माकं जाग्रद्-द्रष्टॄणां जायते एतावन्तं कालं
सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषम् इति | अतोऽननुभूतस्य
तस्यास्मरणाद् अस्त्य् एव सुष्प्तौ ताद्र्ग्-आत्मानुभवः | विषय-
सम्बन्धाभावाच् च न स्पष्ट इति भावः | अतः स्व-प्रकाश-मात्र-वस्तुनः
सूर्यादेः प्रकाशवद् उपलभ्दि-मात्रस्याप्य् आत्मन उपलभ्दिः स्वाश्रयेऽस्त्य्
एवेत्य् आयातम् | तथा च श्रुतिः -- यद् वै तन् न पश्यति पश्यन् वै
द्रष्टव्यान् न पश्यति, न हि द्रष्टुर् दृष्टोर्विपरिलोपो विद्यते (Bऋहद्U
४.३.२३) इति |

अयं साक्षि-साक्ष्य-विभागेन तृतीयस् तर्कः | दुःखि-प्रेमास्पदत्व-
विभागेन चतुर्थोऽपि तर्कोऽवगन्तव्यः ||५५||

BD: दृष्टान्तम् इति प्राणस्य नाना-देहेष्व् ऐकरूप्यान् निर्विकारत्वम् इत्य्
अर्थः | तस्मिन्न् आत्मनि | उपाधेर् लिङ्ग-शरीरस्य | अभावाद् विश्लेषाद् इत्य्
अर्थः | तदाप्य् अतिसूक्ष्माया वासनायाः सत्त्वान् मुक्तेर् अभाव इति ज्ञेयम् |
प्राकृताहङ्कारे लीनेऽपि स्वरूपानुबन्धिनोऽहम् अर्थस्य सत्त्वात् तेन सुखम्
अहम् अस्वाप्सम् इति विमर्शो भवतीति प्रतिपादयितुम् आह नन्व् इत्य् आदि |
शून्यम् एवेति अहं-प्रत्यय्ं विनात्मनोऽप्रतीतेर् इति भावः | अखण्डात्मन
इति | अणु-रूपत्वाद् विभागानर्हस्येत्य् अर्थः |

ननु स्वापाद् उत्थितस्यात्मनो,हङ्कारेण योगात् सुखम् अहम् अस्वाप्सम् इति
विमर्शो जागरे सिध्यति | सुषुप्तौ तु चिन्-मात्रः स इति चेत् तत्राह
अतोऽननुभूतस्येति | अनुभव-स्मरणयोः सामानाधिकरण्याद् इत्य् अर्थः |
तस्मात् तस्याम् अप्य् अनुभवितैवात्मेति सिद्धम् | ननूपलब्धि-मात्रम् इत्य्
उक्तम् | तस्योपलब्धृत्वं कथम् | तत्राह अत इत्य् आदि | यद् वै इति | तद्-आत्म-
चैतन्यं कर्तृ | सुषुप्तौ न पश्यतीति यद् उच्यते तत् खलु द्रष्टव्य-
विषयाभावाद् एव, न तु द्रष्टृत्वाभावाद् इत्य् अर्थः | स्फुटम् अन्यत् ||५४||

तद् उक्तं -

अन्वय-व्यतिरेकाख्यस् तर्कः स्याच् चतुरात्मकः |
आगमापायितदवधि-भेदेन प्रथमो मतः ||
द्रष्टृ-दृश्य-विभागेन द्वितीयोऽपि मतस् तथा |
साक्षि-साक्ष्य-विभागेन तृतीयः सम्मतः सताम् ||
दुःखि-प्रेमास्पदत्वेन चतुर्थः सुख-बोधकः ||

||११.३|| इति श्री-पिप्पलायनो निमिम् ||५५||

BD: पद्ययोर् व्याख्याने चत्वारस् तर्का योजितास् तान् अभियुक्तोक्ताभ्यां
सार्धकारिकाभ्यां निर्दिशति अन्वयेति | तर्क-शब्देन तर्काङ्गकम्
अनुमानं बोध्यम् | आगमापायिनो दृश्यात् साक्ष्याद् दुःखास्पदाच् च
देहादेर् आत्मा भिद्यते | तद्-अवधित्वात्, तद्-द्रष्टृत्वात्, तत्-साक्षित्वात्,
प्रेमास्पदत्वाच् चेति क्रमेण हेतवो नेयाः | व्यतिरेकश् चोह्यः ||५५||

एवम्भूतानां जीवानां चिन्-मात्रं यत् स्वरूपं तयैवाकृत्या तद्-अंशित्वेन
च तद्-अभिन्नं यत् तत्त्वं तद् अत्र वाच्यम् इति व्यष्टि-निर्देश-द्वारा
प्रोक्तम् | तद् एव ह्य् आश्रय-संज्ञकं महापुराण-लक्षण-रूपैः
सर्गादिभिर् अर्थैः समष्टि-निर्देश-द्वारापि लक्ष्यत इत्य् अत्राह द्वाभ्याम् -
-

अत्र सर्गो विसर्गश् च स्थानं पोषणम् ऊतयः |
मन्वन्तरेशानुकथा निरोधो मुक्तिर् आश्रयः ||
दशमस्य विशुद्ध्य्-अर्थं नवानाम् इह लक्षणम् |
वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा || (Bह्P २.१०.१-२)

मन्वन्तराणि चेशानुकथाश् च मन्वन्तरेशानुकथाः | अत्र सर्गादयो
दशार्था लक्ष्यन्त इत्य् अर्थः | तत्र च दशमस्य विशुद्ध्य्-अर्थं तत्त्व-
ज्ञानार्थं नवानां लक्षणं स्वरूपं वर्णयन्ति | नन्व् अत्र नैवं
प्रतीयते | अत आह श्रुतेन श्रुत्या कण्ठोक्त्यैव स्तुतयादि-स्थानेषु, अञ्जसा
साक्षाद् वर्णयन्ति | अर्थेन तात्पर्य-वृत्त्या च तत्-तद्-आख्यानेषु ||५६||

BD: ईश्वर-ज्ञानार्थं जीव-स्वरूप-ज्ञानं निर्णीतम् | अथ तत्-
सादृश्येनेश्वर-स्वरूपं निर्णेतुं पूर्वोक्तं योजयति एवम्भूतानाम् इत्य्
आदिना | चिन्-मात्रं यत् स्वरूपम् इति चेतयितृ चेति बोध्यं पूर्व-निरूपणात् |
ततहिवाकृत्येति चिन्मात्रत्वे सति चेतयितृत्वं याकृतिर् जातिस् तयेत्य् अर्थः | आकृतिस्
तु स्त्रियां रूपे सामान्य-वपुषोर् अपि इति मेदिनी | तद्-अंशित्वेन जीवांशित्वेन
चेत्य् अर्थः | तद्-अभिन्नं जीवाभिन्नं यद् ब्रह्म-तत्त्वम् | अंशः खल्व्
अंशिनो न भिद्यते व्यष्टिर् इत्य् अर्थः | जीवादि-शक्तिमद् ब्रह्म समष्टिः |
जीवस् तु व्यष्टिः | तादृश-समष्टि-ब्रह्म-निरूपणेन तस्य तथात्वं
वक्तव्यम् इत्य् अर्थः | दशमस्य चेश्वरस्य | अवशिष्टः स्फुटार्थः ||५६||

तम् एव दशमं विस्पष्टयितुं तेषां दशानां व्युत्पादिकां सप्त-श्लोकीम्
आह --

भूत-मात्रेन्द्रिय-धियां जन्म सर्ग उदाहृतः
ब्रह्मणो गुण-वैषम्याद् विसर्गः पौरुषः स्मृतः || (Bह्P २.१०.३)

भूतानि खादीनि | मात्राणि च शब्दादीनि इन्द्रियाणि च | धी-शब्देन महद्-
अहङ्कारौ | गुणानां वैषम्यात् परिणामात् | ब्रह्मणः परमेश्वरात्
कर्तृ-भूतादीनां जन्म सर्गः | पुरुषो वैराजो ब्रह्मा, तत्-कृतः पौरुषश्
चराचर-सर्गो विसर्ग इत्य् अर्थः |

स्थितिर् वैकुण्ठ-विजयः पोषणं तद्-अनुग्रहः
मन्वन्तराणि सद्-धर्म ऊतयः कर्म-वासनाः
अवतारानुचरितं हरेश् चास्यानुवर्तिनाम्
पुंसाम् ईश-कथाः प्रोक्ता नानाख्यानोपबृंहिताः || (Bह्P २.१०.४-५)

वैकुण्ठस्य भगवतो विजयः सृष्टानां तत्-तन्-मर्यादा-पालनेनोत्कर्षः |
स्थितिः स्थानम् | ततः स्थितेषु स्वभक्तेषु तस्यानुग्रहः पोषणम् |
मन्वन्तराणि तत्-तन्-मन्वन्तर-स्थितानां मन्वादीनां तद्-अनुगृहीतानां
सतां चरितानि, तान्य् एव धर्मस् तद्-उपासनाख्यः सद्-धर्मः | तत्रैव
स्थितौ नाना-कर्म-वासना ऊतयः | स्थिताव् एव हरेर् अवतारानुचरितम्
अस्यानुवर्तिनां च कथा ईशानुकथाः प्रोक्ता इत्य् अर्थः |

निरोधो ऽस्यानुशयनम् आत्मनः सह शक्तिभिः |
मुक्तिर् हित्वान्यथा रूपं स्व-रूपेण व्यवस्थितिः || (Bह्P २.१०.६)

स्थित्य्-अनन्तरं चात्मनो जीवस्य शक्तिभिः स्वोपाधिभिः सहास्य हरेर्
अनुशयनं, हरि-शयनानुगतत्वेन शयनं निरोध इत्य् अर्थः | तत्र हरेः
शयनं प्रपञ्चं प्रति दृष्टि-निमीलनम् | जीवानां शयनं तत्र लय इति
ज्ञेयम् | तत्रैव निरोधेऽन्यथारूपम् अविद्याध्यस्तम् अज्ञत्वादिकं हित्वा
स्वरूपेण व्यवस्थितिर् मुक्तिः ||५७||

BD: सर्गादीन् दश व्युत्पादयति तद् एवम् इत्य् आदिना | ब्रह्मणः
परमेश्वराद् इति | कारण-सृष्टिः पारमेश्वरी | कार्य-सृष्टिस् तु वैरिञ्चीत्य्
अर्थः | मुक्तिर् इति भगवद्-वैमुख्यानुगतयाऽविद्यया रचितम् अन्यथा-
रूपं देवम् आनवादिभावं हित्वा तत्-साम्मुख्यानुप्रवृत्तया तद्-भक्त्या
विनाश्य, स्वरूपेणापहत-पाप्मत्वादि-गुणाष्टक-विशिष्टेन जीव-स्वरूपेण
जीवस्य व्यवस्थितिर् विशिष्टा पुनर् आवृत्ति-शून्या पुनर् आवृत्ति-शून्या भगवत्-
सन्निधौ स्थितिर् मुक्तिर् इत्य् अर्थः ||५७||

आभासश् च निरोधश् च यतो ऽस्त्य् अध्यवसीयते
स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते | [Bह्P २.१०.७]
आभासः सृष्टिः | निरोधो लयश् च यतो भवति | अध्यवसीयत उपलभ्यते
जीवानां ज्ञानेन्द्रियेषु प्रकाशते च | स ब्रह्मेति परमात्मेति प्रसिद्ध
आश्रयः कथ्यते | इति शब्दः प्रकारार्थः | तेन भगवान् इति च | अस्य विवृतिर्
अग्रे विधेया ||५८||

BD: अथ नवभिः सर्गादिभिर् लक्षणीयम् आश्रय-तत्त्वम् आह आभासश् चेति |
यत इति हेतौ पञ्चमी ||५८||

स्थितौ च तत्राश्रय-स्वरूपम् अपरोक्षानुभवेन व्यष्टि-द्वारापि स्पष्टं
दर्शयितुम् अध्यात्मादि-विभागम् आह -

यो ऽध्यात्मिको ऽयं पुरुषः सो ऽसाव् एवाधिदैविकः |
यस् तत्रोभय-विच्छेदः पुरुषो ह्य् आधिभौतिकः ||
एकम् एकतराभावे यदा नोपलभामहे |
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः || [Bह्P २.१०.८-९]

योऽयम् आध्यात्मिकः पुरुषश् चक्षुर्-आदि-करणाभिमानी द्रष्टा जीवः | स
एवाधिदैविकश् चक्षुर् आद्य्-अधिष्ठाता सूर्यादिः | देह-सृष्टेः पूर्वं
करणानाआम् अधिष्ठानाभावेनाक्षमतया करण-प्रकाश-
कर्तृत्वाभिमानि-तत्-सहाययोर् उभयोर् अपि तयोर् वृत्ति-भेदानुदयेन जीवत्व-
मात्राविशेषात् | ततश् चोभयः करणाभिमानि-तद्-अधिष्ठातृ-देवता-रूपो
द्विरूपो विच्छेदो यस्मात् | स आधिभौतिकश् चक्षुर् गोलकाद्य्-उपलक्षितो दृश्यो
देहः पुरुष इति पुरुषस्य जीवस्योपाधिः | स वा एष पुरुषोऽन्न-रस-मयः
[Tऐत्तU २.१] इत्य् आदि श्रुतेः ||५९||

BD: ननु करणाभिमानिनो जीवस्य करण-प्रवर्तक-सूर्यादित्वम् अत्र
कथम् | तत्राह देह-सृष्टेः पूर्वम् इति करणानाम् इति | अधिष्ठानाभावेन
चक्ष्र् गोलकाद्यभावेनेत्य् अर्थः | उभयोर् अपि तयोर् वृत्ति-भेदानुदयेनेति
करणानां विषय-ग्रहणं वृत्तिः | देवतानां तु तत्र प्रवर्तकत्वं वृत्तिः |
अयम् अत्र निष्कर्षः देहोत्पत्तेः पूर्वम् अपि जीवेन सार्धम् इन्द्रियाणि तद्-
देवताश् च सन्त्य् एव | तदा तेषां वृत्त्य्-अभावाज् जीवेऽन्तर्भावो विवक्षितः |
उत्पन्ने तु देहे तयोर् विभागो यद्-भवतीत्य् आह ततश् चोभय इति ||५९||

एकम् एकतराभाव इत्य् एषाम् अन्योन्य-सापेक्ष-सिद्धत्वे नानाश्रयत्वं
दर्शयति | तथा हि दृश्यं विना तत्-प्रतीत्य्-अनुमेयं करणं न सिध्यति |
नापि द्रष्टा न च तद् विना करण-प्रवृत्त्य्-अनुमेयस् तद्-अधिष्ठाता
सूर्यादिः | न च तं विना करणं प्रवर्तते | न च तद् विना दृयम् इत्य्
एकतरस्याभाव एकं नोपलभामहे | तत्र तदा तत्-त्रितयम्
आलोचनात्मकेन प्रत्ययेन | यो वेद साक्षितया पश्यति स परमात्मा
आश्रयः | तेषाम् अपि परस्परम् आश्रयत्वम् अस्तीति तद्-व्यवच्छेदार्थं
विशेषणं स्वाश्रयोऽनन्याश्रयः | स चासाव् अन्येषाम् आश्रयश् चेति |
तत्रांशांशिनोः शुद्ध-जीव-परमात्मनोर् अभेदांश-स्वीकारेणैवाश्रय
उक्तः | अतः परोऽपि मनुतेऽनर्थम् [Bह्P १.७.५] इति |

जाग्रत्-स्वप्न-सुषुप्तं च गुणतो बुद्धि-वृत्तयः |
तासां विलक्षणो जीवः साक्षित्वेन विवक्षितः || [Bह्P ११.१३.२७] इति |

शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः [Bह्P ५.११.१२] इत्य् आद्य् उक्तस्य साक्षि-
संज्ञिनः शुद्ध-जीवस्याश्रयत्वं न शङ्कनीयम् | अथवा नन्व्
आध्यात्मिकादीनाम् अप्य् आश्रयत्वम् अस्त्य् एव | सत्यम् | तथापि
परस्पराश्रयत्वान् न तत्राश्रयताकैवल्यम् इति ते त्व् आश्रय-शब्देन
मुख्यतया नोच्यन्त इत्य् आह एकम् इति | तर्हि साक्षिण एवास्ताम् आश्रयत्वम् |
तत्राह त्रितयम् इति | स आत्मा साक्षी जीवस् तु यः स्वाश्रयोऽनन्याश्रयः
परमात्मा स एवाश्रयो यस्य तथाभूत इति | वक्ष्यते च हंस-गुह्य-स्तवे
सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्वज्ञम् अनन्तम् ईडे इति [Bह्P
६.४.२५] | तस्मात् आभासश् च इत्य् आदिनोक्तः परमात्मैवाश्रय इति ||२.१०|| श्री-
शुकः ||६०||

BD: आध्यात्मिकादीनां त्रयाणां मिथः सापेक्षत्वेन सिद्धेस् तेषाम्
आश्रयत्वं नास्तीति व्याचष्टे एकम् एकतरेत्य् आदिना | त्रितयम् आध्यात्मिकादि-
त्रितयम् | ननु शुद्धस्य जीवस्य देहेन्द्रियादि-साक्षित्वाभिधानेनान्यान्
अपेक्षत्व-सिद्धेस् तस्याश्रयत्वं कुतो न ब्रूस तत्राह अत्रांशांशिनोर् इति |
अंशिनांशोऽपीह गृहीत इत्य् अर्थः | असन्तोषाद् व्याख्यान्तरम् अथवेति | तर्हीति
साक्षिणः शुद्ध-जीवस्य | सर्वम् इति पुमान् जीवः ||६०||

अस्य श्री-भागवतस्य महा-पुराणत्व-व्यञ्जक-लक्षणं प्रकारान्तरेण च
वदन्न् अपि तस्यैवाश्रयत्वम् आह द्वयेन -

सर्गोऽस्याथ विसर्गश् च वृत्ती रक्षान्तराणि च |
वंशो वंशानुचरितं संस्था हेतुर् अपाश्रयः ||
दशभिर् लक्षणैर् युक्तं पुराणं तद्-विदो विदुः |
केचित् पञ्च-विधं ब्रह्मन् महद्-अल्प-व्यवस्थया ||[Bह्P १२.७.९-१०]

अन्तराणि मन्वन्तराणि | पञ्च-विधम् -

सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च |
वंशानुचरितं चेति पुराणं पञ्च-लक्षणम् || इति केचिद् वदन्ति |

स च मतभेदो महद्-अल्प-व्यवस्थया महा-पुराणम् अल्प-पुराणम् इति
भिन्नाधिकरणत्वेन | यद्यपि विष्णु-पुराणादाव् अपि दशापि तानि लक्ष्यन्ते |
तथापि पञ्चानाम् एव प्राधान्येनोक्तत्वाद् अल्पत्वम् | अत्र दशानाम्
अर्थानां स्कन्धेषु यथाक्रमं प्रवेशो न विवक्षितः | तेषाम् द्वादश-
सङ्ख्यत्वात् | द्वितीय-स्कन्धोक्तानां तेषां तृतीयादिष् यथा-सङ्ख्यं न
समावेशः | निरोधादीनां दशमादिष्व् अष्टम-वर्जम् | अन्येषाम् अप्य्
अन्येषु यथोक्त-लक्षणतया समावेशनाशक्यत्वाद् एव | तद् उक्तं श्री-
स्वामिभिर् एव -

दशमे कृष्ण-सत्-कीर्ति-वितानायोपवर्ण्यते |
धर्म-ग्लानि-निमित्तस् तु निरोधो दुष्ट-भूभुजाम् || इति |

प्राकृतादि-चतुर्धा यो निरोधः स तु वर्णितः | इति |

अतोऽत्र स्कन्धे श्री-कृष्ण-रूपस्याश्रयस्यैव वर्णन-प्राधान्यं तैर्
विवक्षितम् | उक्तं च स्वयम् एव - दशमे दशमं लक्ष्यम् आश्रिताश्रय-
विग्रहम् इति | एवम् अन्यत्राप्य् उन्नेयम् | अतः प्रायशः सर्वेऽर्थाः सर्वेष्व्
एव स्कन्धेषु गुणत्वेन वा मुख्यत्वेन वा निरूप्यन्त इत्य् एव तेषाम्
अभिमतम् | श्रुतेनार्थेन चाञ्जसा इत्य् अत्र च तथैव प्रतिपन्नं सर्वत्र
तत्-तत्-सम्भवात् | ततश् च पर्थम-द्वितीययोर् अपि महा-पुराणतायां
प्रवेशः स्यात् | तस्मात् क्रमो न गृहीतः ||६१||

BD: अस्येति | प्रकारान्तरेणेति क्वचिन्-नामान्तरत्वाद् अर्थान्तरत्वाच् चेत्य्
अर्थः | एतानि दश-लक्षणानि केचित् तृतीयादिषु क्रमेण स्थूल-धियो
योजयन्ति | तान् निराकुर्वन्न् आह द्वितीय-स्कन्धोक्तानाम् इति | अष्टादश-
सहस्रित्वं द्वादश-स्कन्धित्वं च भागवत-लक्षणं व्याकुप्येत |
अध्याय-पूर्तौ भागवतत्वोक्तिश् च न सम्भवेद् इति च बोध्यम् | शुक-
भाषितं चेद् भागवतं तर्हि प्रथमस्य द्वादश-शेषस्य च
तत्त्वानापत्तिः | तस्माद् अष्टादश-सहस्रि तत्-पितुर् आचार्याच् छुकेनाधीतं
कथितं चेति साम्प्रतं संवादास् तु तथैवानादि-सिद्धा इति साम्प्रतम् ||६१||

अथ सर्गादीनां लक्षणम् आह -

अव्याकृत-गुण-क्षोभान् महतस् त्रिवृतोऽहमः |
भूत-मात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते || (Bह्P १२.७.११)

प्रधान-गुण-क्षोभान् महान्, तस्मात् त्रिगुणोऽहङ्कारः | तस्माद् भूत-
मात्राणां भूत-सूक्ष्माणाम् इन्द्रियाणां च | स्थूल-भूतानां च | तद्-
उपलक्षित-तद्-देवतानां च सम्भवः सर्गः | कारण-सृष्टिः सर्ग इत्य्
अर्थः |

पुरुषानुगृहीतानाम् एतेषां वासनामयः |
विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् || (Bह्P १२.७.१२)

पुरुषः परमात्मा | एतेषां महद्-आदीनां, जीवस्य पूर्वकर्म-वासना-
प्रधानोऽयं समाहारः | कार्य-भूतश् चराचर-प्राणि-रूपो बीजाद् बीजम्
इव प्रवाहापन्नो विसर्ग उच्यते | व्यष्टि-सृष्टि-विसर्ग इत्य् अर्थः | अनेनोतिर् अय्
उक्ता -

वृत्तिर् भूतानि भूतानां चराणाम् अचराणि च |
कृता स्वेन नॄणां तत्र कामाच् चोदनयापि वा || (Bह्P १२.७.१३)

चराणां भूतानां सामान्यतोऽचराणि, चकाराच् चराणि च कामाद् वृत्तिः | तत्र
तु नॄणां स्वेन स्वभावेन कामाच् चोदनयापि वा या नियता वृत्तिर्
जीविकाकृता, सा वृत्तिर् उच्यत इत्य् अर्थः |

रक्षाच्युतावतारेहा विश्वस्यानुयुगे युगे |
तिर्यङ्-मर्त्यर्षिदेवेषु हन्यन्ते यैस् त्रयी-द्विषः || (Bह्P १२.७.१४)

यैर् अवतारैः | अनेनेशकथा | स्थानं पोषणं चेति त्रयम् उक्तम् |

मन्वन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वराः |
ऋषयोऽंशावताराश् च हरेः षड्-विधम् उच्यते || (Bह्P १२.७.१५)

मन्वाद्याचरण-कथनेन सद्-धर्म एवात्र विवक्षित इत्य् अर्थः | ततश् च
प्राक्तन-ग्रन्थेनैकार्थ्यम् |

राज्ञां ब्रह्म-प्रसूतानां वंशस् त्रैकालिकोऽन्वयः |
वंश्यानुचरितं तेषां वृत्तं वंशधराश् च ये || (Bह्P १२.७.१६)

तेषां राज्ञां ये च वंश-धरास् तेषां वृत्तं वंश्यानुचरितम् || ६२ ||

BD: उद्दिष्टानां सर्गादीनां क्रमेण लक्षणानि दर्शयितुम् आह -
अथेत्यादि | अव्याकृतेति त्रिवृत्-पदं महतोऽपि विशेषणं बोध्यम् | सात्त्विकी
राजसश् चैव तामसश् च त्रिधा महान् (VइP १.२.३४) इति श्री-वैष्णवात् |
पुरुषः परमात्मा विरिञ्चान्तःस्थ इति बोध्यम् | स्फुटार्थानि शिष्टानि ||६२||

नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः |
संस्थेति कविभिः प्रोक्तश् चतुर्धास्य स्वभावतः || (Bह्P १२.७.१७)

अस्य परमेश्वरस्य | स्वभावतः शक्तितः | आत्यन्तिक इत्य् अनेन मुक्तिर् अप्य्
अत्र प्रवेशिता |

हेतुर् जीवोऽस्य सर्गादेर् अविद्या-कर्म-कारकः |
यं चानुशयिनं प्राहुर् अव्याकृतम् उतापरे || (Bह्P १२.७.१८)

हेतुर् निमित्तम् | अस्य विश्वस्य | यतोऽयम् अविद्यया कर्म-कारकः | यम् एव
हेतुं केचिच् चैतन्य-प्राधानेनानुशयिनं प्राहुः | अपर उपाधि-
प्राधान्येनाव्याकृतम् इति |

व्यतिरेकान्वयो यस्य जाग्रत्-स्वप्न-सुषुप्तिषु |
मायामयेषु तद् ब्रह्म जीव-वृत्तिष्व् अपाश्रयः || (Bह्P १२.७.१९)

श्री-बादरायण-समाधि-लब्धार्थ-विरोधाद् अत्र च जीव-शुद्ध-स्वरूपम्
एवाश्रयत्वेन न व्याख्यायते किन्त्व् अयम् एवार्थः | जाग्रद्-आदिष्व् अवस्थासु,
मायामयेषु माया-शक्ति-कल्पितेषु महद्-आदि-द्रव्येषु च | केवल-
स्वरूपेण व्यतिरेकः परम-साक्षितयान्वयश् च यस्य तद् ब्रह्म जीवानां
वृत्तिषु शुद्द-स्वरूपतया सोपाधितया च वर्तनेषु स्थितिष्व् अपाश्रयः |
सर्वम् अत्य् अतिक्रम्याश्रय इत्य् अर्थः | अप इत्य् एतत् कह्लु वर्जने, वर्जनं
चातिक्रमे पर्यवस्यतीति | तद् एवम् अपाश्रयाभिव्यक्ति-द्वार-भूतं हेतु-
शब्द-व्यपदिष्टस्य जीवस्य शुद्ध-स्वरूप-ज्ञानम् आह द्वाभ्याम् |

पदार्थेषु यथा द्रव्यं तन्-मात्रं रूप-नामसु |
बीजादि-पञ्चतां तासु ह्य् अवस्थासु युतायुतम् ||
विरमेत यदा चित्तं हित्वा वृत्ति-त्रयं स्वयम् |
योगेन वा तद्-आत्मानं वेदेहाया निवर्तते || (Bह्P १२.७.२०-२१)

रूप-नामात्मकेषु पदार्थेषु घटादिषु यथा द्रव्यं पृथिव्यादि युतम्
अयुतं च भवति | कार्य-दृष्टिं विनाप्य् उपलम्भात् | तथा तन्-मात्रं
शुद्धं जीव-चैतन्य-मात्रं वस्तु गर्भाधानादि-पञ्चतान्तासु नवस्व् अप्य्
अवस्थास्व् अविद्यया युतं स्वतस् त्व् अयुतम् इति शुद्धम् आत्मानम् इत्थं
ज्ञात्वा निर्विण्णः सन्न् अपाश्रयानुसन्धान-योग्यो भवतीत्य् आह विरमेतेति |
वृत्ति-त्रयं जाग्रत्-स्वप्न-सुषुप्ति-रूपम् | आत्मानं परमात्मानम् | स्वयं
वासुदेवादेर् इव मायामयत्वानुसन्धानेन देव त्यादेर् इवानिष्ठितेन
योगेन वा | ततश् चेहायास् तद्-अनुशीलन-व्यतिरिक्त-चेष्टायाः || १.७ || श्री-
सूतः || उद्दिष्टः सम्बन्धः ||६३||

BD: पूर्वोक्तायां दश-लक्षण्यां मुक्तिर् एक-लक्षणम् | अस्यां तु
चतुर्विधानां संस्थायां आत्यन्तिक-लय-शब्दिता मुक्तिर् आनीतेति | यं
चानुशयिनम् इति भुक्त-शिष्ट-कर्म-विशिष्टो जीवोनुशयीत्य् उच्यते | रूपेति
मूर्त्या संज्ञया चोपेतेष्व् इत्य् अर्थः | कार्य-दृष्टिम् इति घटादिभ्यः पृथग्
अपि पृथ्व्यादेः प्राप्तेर् इत्य् अर्थः | अपाश्रयेति ईश्वर-ध्यान-योग्यो भवतीत्य्
अर्थः | स्वयम् इति वामदेवः खलु गर्भस्य एव परमात्मानं बुबुधे,
योगेन देवहूतीत्य् अर्थः ||६३||

इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री-
भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन-
भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे
तत्त्व-सन्दर्भो नाम प्रथमः सन्दर्भः ||

BD: इति कलीति कलि-युग-पावनं यत् स्व-भजनं तस्य विभजनं विस्तरणं
प्रयोजनं यस्य तादृशोऽवतारः प्रादुर्भावो यस्य, तस्य श्री-भगवत्-
कृष्ण-चैतन्य-देवस्य चरणयोर् अनुचरौ, विश्वस्मिन् ये वैष्णव-राजास् तेषां
सभासु यत् स-भाजनं सत्-कारस् तस्य भाजने पात्रे च यौ श्री-रूप-
सनातनौ तयोर् अनुशासन-भारत्य उपदेश-वाक्यानि गर्भे मध्ये यस्य
तस्मिन् ||

टिप्पणी तत्त्व-सन्दर्भे विद्या-भूषण-निर्मिता |
श्री-जीव-पाठ-संपृक्ता सद्भिर् एषा विशोध्यताम् ||

इति श्रीमद्-बलदेव-विद्या-भूषण-विरचिता तत्त्व-सन्दर्भ-टिप्पणी
समाप्ता ||

 


[*ENDNOTE #१] Aल्तेर्नतिवे रेअदिन्ग्: वेद रामायणे पुण्ये भारते
भरतर्षभ | आदाव् चान्ते च मध्ये च हरिः सर्वत्र गीयते ||
[*ENDNOTE #२] आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः | और्वस्
तस्यां समभवद् ऊरुं भित्त्वा महा-यशाः || (Mभ् १.६६.४६)

 

 

षट्-सन्दर्भ-नामक-

श्री-भागवत-सन्दर्भे द्वितीयः

भगवत्-सन्दर्भः

श्री-श्री-राधा-गोविन्दो जयतः |

तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ |
दाक्षिणात्येन भट्टेन प्नुअर् एतद् विविच्यते ||ओ||
तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् |
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ||ओ||[१]

[१]
अथैवम् अद्वय-ज्ञान-लक्षणं तत् तत्त्वं सामान्यतो लक्षयित्वा पुनर्
उपासक-योग्यता-वैशिष्ट्येन प्रकटित-निज-सत्ता-विशेषं विशेषतो निरूपयति
वदन्तीत्य् अस्यैवोत्तरार्धेन

ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते | [ १.२.११]

अथ श्रीमद्-भागवताख्य एव शास्त्रे क्वचिद् अनयत्रापि तद् एकं तत्त्वं
त्रिधा शब्द्यते | क्वचिद् ब्रह्मेति क्वचित् परमात्मेति क्वचिद् भगवान् इति च
| किन्त्व् अत्र श्रीमद्-व्यास-समाधि-लब्धाद् भेदाज् जीव इति च शब्द्यते इति
स्वयम् एव व्याख्यातो भवतीति प्रथमतस् ताव् एव प्रस्तूयते | मूले तु
क्रमाद् वैशिष्ट्य-द्योतनाय तथा विन्यासः | अयम् अर्थः - तद् एकम्
एवाखण्डानन्द-स्वरूपं तत्त्वं थुत्कृत-पारमेष्ठ्यादिकानन्द-
समुदयानां परमहंसानां साधन-वशात् तादात्म्यम् आपन्ने सत्याम्
अपि तदीय-स्वरूप-शक्ति-वैचित्र्यां तद्-ग्रहणासामर्थ्ये चेतसि यथा
सामान्यतो लक्षितं तथैव स्फुरद् वा तद्वद् एवाविविक्त-शक्ति-
शक्तिमत्ताभेदतया प्रतिपाद्यमानं वा ब्रह्मेति शब्द्यते |

अथ तद् एकं तत्त्वं स्वरूप-भूतयैव शक्त्या कम् अपि विशेषं धर्तुं
परासाम् अपि शक्तीनां मूलाश्रय-रूपं तद्-अनुभावानन्द-सन्दोहान्तर्-
भावित-तादृश-ब्रह्मानन्दानां भागवत-परमहंसानां
तथानुभवैक-साधकतम-तदीय-स्वरूपानन्द-शक्ति-विशेषात्मक-
भक्ति-भावितेष्व् अन्तर्-बहिर् अपीन्द्रियेषु परिस्फुरद् वा तद्वद् एव विविक्त-
तादृश-शक्ति-शक्तिमत्ताभेदेन प्रतिपाद्यमानं वा भगवान् इति शब्द्यते
|

एवम् एवोक्तं श्री-जड-भरतेन -

ज्ञानं विशुद्धं परमार्थम् एकम्
अनन्तरं त्व् अबहिर् ब्रह्म सत्यम्
प्रत्यक् प्रशान्तं भगवच्-छब्द-संज्ञं
यद् वासुदेवं कवयो वदन्ति || [ ५.१२.११] इति |

श्री-ध्रुवं प्रति श्री-मनुना च -

त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त |
आनन्द-मात्र उपपन्न-समस्त-शक्तौ || [ ४.११.३०] इति |

एवं चानन्द-मात्रं विशेष्यं समस्ताः शक्तयो विशेषणानि विशिष्टो
भगवान् इत्य् आयातम् | तथा चैवं विशिष्टये प्राप्ते
पूर्णाविर्भावत्वेनाखण्ड-तत्त्व-रूपोऽसौ भगवान् | ब्रह्म तु स्फुटम्
अप्रकटित-वैशिष्ट्याकारत्वेन तस्यवासम्यग् आविर्भाव इत्य् आगतम् | इदं तु
पुरस्ताद् विस्तरेण विवेचनीयम् | भगवच् छब्दार्थः श्री-विष्णु-पुराणे
[६.५.६६-६९, ७३-७५, ७९] प्रोक्तः |

यत् तद् अव्यक्तम् अजरम् अचिन्त्यम् अजम् अक्षयम् |
अनिर्देश्यम् अरूपं च पाणि-पादाद्य्-असंयुतम् ||
विभुं सर्व-गतं नित्यं भूत-योनिम् अकारणम् |
व्याप्य्-अव्याप्तं यतः सर्वं तद् वै पश्यन्ति सूरयः ||
तद् ब्रह्म परमं धाम तद् ध्येयं मोक्ष-काङ्क्षिणाम् |
श्रुति-वाक्योदितं सूक्ष्मं तद् विष्णोः परमं पदम् ||
तद् एतद् भगवद्-वाच्यं स्वरूपं परमात्मनः |
वाचको भगवच्-छब्दस् तस्याद्यस्याक्षरात्मनः || इत्य्-आद्य् उक्त्वा ---

सम्भर्तेति तथा भर्ता भकारोऽर्थ-द्वयान्वितः |
नेता गमयिता स्रष्टा गकारार्थस् तथा मुने ||
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः |
ज्ञान-वैराग्ययोश् चैव षण्णां भग इतीङ्गना ||
वसन्ति तत्र भूतानि भूतात्मन्य् अखिलात्मनि |
स च भूतेष्व् अशेषेषु वकारार्थस् ततोऽव्ययः || इति चोक्त्वा --

ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः |
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः || इति [ ६.५.७९] पर्यन्तेन
|

पूर्ववद् अत्र विशेष्य-विशेषण-विशिष्टता विवेचनीया | विशेषणस्याप्य्
अहेयत्वं व्यक्तीभविष्यतीति | अरूपं पाणि-पादाद्य्-असंयुतम् इतीदं
ब्रह्माख्य-केवल-विशेष्याविर्भाव-निष्ठम् | विभुं सर्व-गतम् इत्य्
आदिकं तु विशिष्ट-निष्ठम् | अथवा अरूपम् इत्य् आदिकं प्राकृत-रूपादि-
निषेध-निष्ठम् | अतएव पाणि-पादाद्य-संयुतम् इति संयोग-सम्बन्ध एव
परिह्रियते न तु समवाय-सम्बन्ध इति ज्ञेयम् | विभुम् इति सर्व-वैभव-
युक्तम् इत्य् अर्थः | व्यापीति सर्व-व्यापकम् | अव्याप्तम् इति अन्येन व्याप्तुम्
अशक्यम् | तद् एतद् ब्रह्म-स्वरूपं भगवच्-छब्देन वाच्यम् | न तु
लक्ष्यम् | तद् एव निर्धार्यति भगवच्-छब्दोऽयं तस्य नदी-विशेषस्य
गङ्गा-शब्दवद् वाचक एव, न तु तट-शब्दवल्-लक्षकः | एवं सत्य-क्षर-
साम्यान् निर्ब्रूयाद् इति निरुक्त-मतम् आश्रित्य भगादि-शब्दानाम् अर्थम् आह
सम्भर्तेति. नेतास्व-भक्ति-फलस्य प्रेम्णः प्रापकः | गमयिता स्व-लोक-
प्रापकः | स्रष्टा स्व-भक्तेषु तत्-तद्-गुणस्योद्गमयिता | जगत्-
पोषकत्वादिकं तु तस्य परम्परयैव न तु साक्षाद् इति ज्ञेयम् |

ऐश्वर्यं सर्व-वशीकारित्वम् | समग्रस्येति सर्वत्रान्वेति | वीर्यं मणि-
मन्त्रादेर् इव प्रभावः | यशो वाङ्-मनः-शरीराणां साद्गुण्य-ख्यातिः |
श्रीः सर्व-प्रकारा सम्पत् | ज्ञानं सर्वज्ञत्वम् | वैराग्यं प्रपञ्च-वस्त्व्-
अनासक्तिः | इङ्गना संज्ञा | अक्षर-साम्य-पक्षे भगवान् इति वक्तव्ये
मतुपो व-लोपश् छान्दसः | सम्भर्तेय्-आदिषु सम्भर्तृत्वादिष्व् एव
तात्पर्यम् | यथा सुप्तिङ्-अन्तचयो वाक्यम् इत्य् अत्र पचति भवतीत्य् अस्य
वाक्यस्य पाको भवतीत्य् अर्थः क्रियते यथा वा सत्तायाम् अस्ति भवतीत्य् अत्र
धात्व्-अर्थ एव विवक्षितः | तद् एवम् एव भगवान् इत्य् अत्र मतुब्-अर्थो
योजयितुं शक्यते | प्रकारान्तरेण षड्-भगान् दर्शयति ज्ञान-शक्ती ज्ञानम्
अन्तः-करणस्य | शक्तिर् इन्द्रियाणाम् | ऐश्वर्य-वीर्ये व्याख्याते | तेजः कान्तिः
| अशेषतः सामग्र्येणेत्य् अर्थः | भगवच्-छब्द-वाच्यानीति | भगवतो
विशेषणान्य् एवैतानि न तूपलक्षआनीत्य् अर्थः | अत्र भगवान् इति नित्य-योगे
मतुप् |

अथ तथाविध-भगवद्-रूप-पूर्णाविर्भावं तत् तत्त्वं पूर्ववज् जीवादि-
नियन्तृत्वेन स्फुरद् वा प्रतिपाद्यमानं वा परमात्मेति शब्द्यत इति |
यद्यप्य् एतए ब्रह्मादि-शब्दाः प्रायो मिथोऽर्थेषु वर्तन्ते तथापि तत्र तत्र
सङ्केत-प्राधान्य-विवक्षयेदम् उक्तम् || श्री-सुतः ||
[२]

एवम् एव प्रश्नोत्त्तराभ्यां विवृणोति | राजोवाच -

नारायणाभिधानस्य ब्रह्मणः परमात्मनः |
निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्म-वित्तमाः || [ ११.३.३५]

श्री-पिप्पलायन उवाच -

स्थित्य्-उद्भव-प्रलय-हेतुर् अहेतुर् अस्य
यत् स्वप्न-जागर-सुषुप्तिषु यद् बहिश् च |
देहेन्द्रियासुहृदयानि चरन्ति येन
सञ्जीवितानि तद् अवेहि परं नरेन्द्र || [ ११.३.३६]

अत्र प्रश्नस्यार्थः | नारायणाभिधानस्य भगवतः | ब्रह्मेति
परमात्मेत्य् आदि-प्रसिद्ध-तत्-समुदाय-तृतीयतया पाठात् | नारायणे
तुरीयाख्ये भगवच्-छब-शब्दिते इत्य् अत्र स्पष्टीभावित्वाच् च | निष्ठां
तत्त्वम् | प्रश्न-क्रमेणैवोत्तरम् आह स्थितीति | यत् स्थित्यादि-हेतुर् अहेतुश् च
भवति | यच् च जागरादिषु यद् बहिश् च भवति | येन च देहादीनि
सञ्जीवितानि सन्ति चरन्ति | तद् एकम् एव परं तत्त्वं प्रश्न-क्रमेण
नारायणादि-रूपं विद्धीति योजनीयम् | तथापि भ्रमत्व-स्पष्टीकरणाय
विपर्ययेन व्याख्यायते | तत्रैकस्यैव विशेषण-भेदेन तद्-अविशिष्टत्वेन
च प्रतिपादनात् तथैव तत् तद् उपासक-पुरुषानुभव-भेदाच्
चाविर्भावनाम्भोदेर् भेद इत्य् उत्तर-वाक्य-तात्पर्यम् |

एतद् उक्तं भवति | स्वयम् अहेतुः स्वरूप-शक्त्यैक-विलासमयत्वेन
तत्रोदासीनम् अपि प्रकृतिजीव-प्रवर्तकावस्थ-परमात्मापर-पर्याय-
स्वांश-लक्षण-पुरुष-द्वारा यद् अस्य सर्ग-स्थित्य्-आदि-हेतुर् भवति तद्
भगवद्-रूपं विद्धि | परमात्मता चैवम् उपतिष्ठतीत्य् आह येन हेतु-
कर्त्रा आत्मांश-भूत-जीव-प्रवेशन-द्वारा सञ्जीवितानि सन्ति देहादीनि तद्-
उपलक्षणानि प्रधानादि-सर्वाण्य् एव तत्त्वानि येनैव प्रेरिततयैव चरन्ति
स्व-स्व-कार्ये प्रवर्तन्ते तत् परअमात्म-रूपं विद्धि |

तस्मै नमो भगवते ब्रह्मणे परमात्मने [ १०.२८.६] इत्य् अत्र वरुण-
कृत-श्री-कृष्ण-स्तुतौ टीका च - परमात्मने सर्व-जीव-नियन्त्रे इत्य् एषा |
जीवस्यात्मत्वं तद्-अपेक्षया तस्य परमत्वम् इत्य् अतः परमात्म-शब्देन
तत्-सहयोगी स एव व्यज्यते इति | तत् तद् अविशिष्टत्वेन ब्रह्मत्व-मात्रं
चैवम् उपतिष्ठतीत्य् आह, स्वप्नेति | यद् एव तत् तत्त्वं स्वप्नादौ अन्वयेन
स्थितं यच् च तद्-बहिः शुद्धायां जीवाख्य-शक्तौ तथा स्थितं चकारात्
ततः परत्रापि व्यतिरेकेण स्थितं स्वयम् अविशिष्टं तद् ब्रह्म-रूपं
विद्धीति || श्री-नारदः? || श्री-नारदः||२||

[३]

इदम् एव त्रयं सिद्धि-प्रसङ्गेऽप्य् आह त्रिभिः |

विष्णौ त्र्यधीश्वरे चित्तं धारयेत् काल-विग्रहे |
स ईशित्वम् अवाप्नोति क्षेत्रं क्षेत्रज्ञ-चोदनम् ||
नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दिते |
मनो मय्य् आदधद् योगी मद्-धर्मावशिताम् इयात् ||
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः |
परानन्दम् अवाप्नोति यत्र कामोऽवसीयते || [ ११.१५.१५-१७]

टीका च | त्र्य्-अधीश्वरे त्रिगुण-माया-नियन्तरि | अतएव काल-विग्रहे
आकलयिऋ-रूपे अन्तर्यामिणि | तुरीयाख्ये

विराट् हिरण्य-गर्भश् च कारणं चेत्य् उपाधयः |
ईशस्य यन्त्रिभिर् हीनः तुरीयं तत् पदं विदुः || इत्य् एवं लक्षणे |

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः |
ज्ञान-वैराग्ययोश् चैव षण्णां भग इतीङ्गना || [ ६.५.७४]
तद्वति भगवच्-छब्द-शब्दिते | इत्य् एषा ||

श्री-भगवान् ||३||

[४]

अथ वदन्तीत्य् आद्यस्य पद्यस्य प्रत्यवस्थानं यावत् तृतीय-सन्दर्भम्
उद्भाव्यते | यत्र योग्यता-वैशिष्ट्येनाविर्भाव-वैशिष्ट्यं वक्तुं
ब्रह्माविर्भावे तावद् योग्यताम् आह -

तथापि भूमन् महिमा-गुणस्य ते
विबोध्हुम् अर्हत्य् अमलान्तरात्मभिः |
अविक्रियात् स्वानुभवाद् अरूपतो
ह्य् अनन्य-बोध्यात्मयतया न चान्यथा || [ १०.१४.६]

यद्यपि ब्रह्मत्वे भगवत्त्वे च दुर्ज्ञेयत्वम् उक्तम्, तथापि हे भूमन्
स्वरूपेण गुणेन चानन्त ते तवागुणस्य अनाविष्कृत-स्वरूप-भूत-गुणस्य
यो महिमा महत्त्वं बृहत्त्वं ब्रह्मत्वम् इति यावत् | अथ कस्माद् उच्यते
ब्रह्म बृंहति बृंहयति चेति श्रुतेः | स तव महिमा अमलान्तरात्मभिः
शुद्धान्तःकरणैर् गुणैर् विबोद्धुम् अर्हति | तेषां बोधे प्रकाशितुम्
अर्हति समर्थो भवतीत्य् अर्थः |

कस्मान् निमित्तात्? तत्राह स्वानुभवात् शुद्धत्वं पदार्थस्य बोधात् |
नन्व् अनुभवः खल्व् अन्तःकरणस्य वृत्तिः, सा च स्थूल-सूक्ष्म-देह-
विकार-मय्य् एव सती कथं निर्विकारत्वम्-पदार्थः विषयं कुर्वीत |
तत्राह अविक्रियात् त्यक्त-तत्-तद्-विकारात् |

ननु विषयाकार एवानुभवो विषयम् उपाददीत शुद्धत्वम्-पदार्थस् तु
न कस्यापि विषयः स्यात् प्रत्यग्-रूपत्वात् | तत्राह अरूपतः रूप्यते भाव्यते
इति रूपो विषयः तदाकारता-रहितात् | देह-द्वयावेश-विषयाकारता-राहित्ये
सति स्वयं शुद्धत्वं-पदार्थः प्रकाशत इति भावः |

ननु सूक्ष्म-चिद्-रूपत्वम्-पदार्थानुभवे कथं पूर्ण-चिदाकार-रूप-
मदीय-ब्रह्म-स्वरूपं स्फुरतु | तत्राह अनन्य-बोध्यात्मतया चिद्-
आकारता-साम्येन शुद्धत्वं-पदार्थैक्य-बोध्य-स्वरूपतया | यद्यपि
तादृग्-आत्मानुभवानन्तरं तद्-अनन्य-बोध्यताकृतौ साधक-शक्तिर् नास्ति
तथापि पूर्वं तद्-अर्थम् एव कृतया सर्वत्राप्य् उपजीव्यया साधन-भक्त्य्-
आराधितस्य श्री-भगवतः प्रभावाद् एव तद् अपि तत्रोदयत इति भावः |

तद् उक्तम् वदन्तीत्य् आदि-पद्यानन्तरम् एव -

तच्-छ्रद्दधाना मुनयो
ज्ञान-वैराग्य-युक्तया |
पश्यन्त्य् आत्मनि चात्मानं
भक्त्या श्रुत-गृहीतया || [ १.२.१२] इति.

सत्यव्रतं प्रति श्री-मत्स्यदेवोपदेशे च -

मदीयं महिमानं च
परं ब्रह्मेति शब्दितम् |
वेत्स्यस्य् अनुगृहीतं मे
सम्प्रश्नैर् विवृतं हृदि || [ ८.२४.३८] इति.

ब्रह्मा श्री-भगवन्तम् ||४||

[५]

तादृशाविर्भावम् आह, सार्धेन -

शश्वत् प्रशान्तम् अभयं प्रतिबोध-मात्रं
शुद्धं समं सद्-असतः परमात्म-तत्त्वम् |
शब्दो न यत्र पुरु-कारकवान् क्रियार्थो
माया परैत्य् अभिमुखे च विलज्जमाना |
तद् वै पदं भगवतः परमस्य पुंसो
ब्रह्मेति यद् विदुर् अजस्र-सुखं विशोकम् || [ २.७.४७]

अयम् अर्थः | सर्वतो बृहत्तमत्वाद् ब्रह्मेति यद् विदुस् तत् खलु परम् अस्य
पुंसो भगवतः पदम् एव | निर्विकल्पतया साक्षात्-कृतेः प्राथमिकत्वात्
ब्रह्मणश् च भगवत एव निर्विकल्प-सत्ता-रूपत्वात् | विचित्र-रूपादि-विकल्प-
विशेष-विशिष्टस्य भगवतस् तु साक्षात्-कृतेस् तद्-अनन्तरजत्वात् | तदीय-
स्वरूप-भूतं तद् ब्रह्म तत् साक्षात्कारास्पदं भवतीत्य् अर्थः |
निर्विकल्प-ब्रह्मणस् तस्य स्वरूप-लक्षणम् आह प्रतिबोध-मात्रम् इति |
अजस्र-सुखम् इति च | जडस्य दुःखस्य च प्रतियोगितया प्रतीयते यद् वस्तु
यच् च नित्यं तद् एक-रूपं तद्-रूपम् इत्य् अर्थः | यत् आत्म-तत्त्वं सर्वेषाम्
आत्मत्नां मूलम् | आत्मा हि स्व-प्रकाश-रूपतया निरुपाधि-परम-
प्रेमास्पदतया च तत्-तद्-रूपेण प्रतीयत इत्य् अर्थः |

अथ तस्य सुख-रूपस्य अजस्रत्वे हेतुम् आह शाश्वत् प्रशान्तं नित्यम् एव
क्षोभ-रहितं तद्वद् अभयं भय-शून्यं विशोकं शोक-रहितं चेति | न
च सुख-रूपत्वे तस्य पुण्य-जन्यत्वं स्याद् इत्य् आह शब्दो न यत्रेति | यत्र
क्रियार्थो यज्ञाद्य्-अर्थः पुरु-कारकवान् शब्दो न प्रवर्तते इत्य् अर्थः |
त्वं त्व् औपनिषदं पुरुषम् इत्य् आदि रीत्या केवलम् उपनिषद् एव प्रकाशिका
भवतीत्य् अर्थः | पुनः सुख-स्वरूपत्वे चेन्द्रिय-जन्यत्वं व्यावर्तयति
शुद्धम् इत्य् आदिना | तत्र शुद्धं दोष-रहितम् | समम् उच्चावचता-शून्यम्
| सदसतः परं कारण-कार्य-वर्गाद् उपरि-स्थितम् | किं बहुनेत्य् आह माया
च यस्याभिमुखे यदुन्मुखतया स्थिते जीवन्-मुक्त-गणे विलज्जमानैव
परैति पलायते ततो दूरं गच्छतीत्य् अर्थः || श्री ब्रह्मा नारदम् ||५||

[६]

व्यञ्जिते भगवत्-तत्त्वे ब्रह्म च व्यज्यते स्वयम् |
अतोऽत्र ब्रह्म-सन्दर्भोऽप्य् अवान्तरतया मतः ||

अथ भगवद्-आविर्भावे योग्यताम् आह -

भक्ति-योगेन मनसि सम्यक् प्रणिहितेऽमले
अपश्यत् पुरुषं पूर्णं || [ १.७.४] इति | व्याख्यातम् एव ||६||

[७]

तद् इत्थं ब्रह्मणा चोक्तम् --

त्वं भक्ति-योग-परिभावित-हृत्-सरोज
आस्से श्रुतेक्षित-पथो ननु नाथ पुंसाम् || इति || [ ३.९.११] || श्री-सुतः
||७||[२]

[८]
तद्-आविर्भावम् आह सार्ध-दशभिः --

तस्मै स्व-लोकं भगवान् सभाजितः
सन्दर्शयाम् आस परं न यत्-परम् |
व्यपेत-सङ्क्लेश-विमोह-साध्वसं
स्व-दृष्टवद्भिर् पुरुषैर् अभिष्टुतम् ||९||

प्रवर्तते यत्र रजस् तमस् तयोः
सत्त्वं च मिश्रं न च काल-विक्रमः |
न यत्र माया किम् उतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः ||१०||

श्यामावदाताः शत-पत्र-लोचनाः
पिशङ्ग-वस्त्राः सुरुचः सुपेशसः |
सर्वे चतुर्-बाहव उन्मिषन्-मणि-
प्रवेक-निष्काभरणाः सुवर्चसः |
प्रवाल-वैदूर्य-मृणाल-वर्चसः
परिस्फुरत्-कुण्डल-मौलि-मालिनः ||११||

भ्राजिष्णुभिर् यः परितो विराजते
लसद्-विमानावलिभिर् महात्मनाम् |
विद्योतमानः प्रमदोत्तमाद्युभिः
सविद्युद् अभ्रावलिभिर् यथा नभः ||१२||

श्रीर् यत्र रूपिण्य् उरुगाय-पादयोः
करोति मानं बहुधा विभूतिभिः |
प्रेङ्खं श्रिता या कुसुमाकरानुगैर्
विगीयमाना प्रिय-कर्म गायती ||१३||

ददर्श तत्राखिल-सात्वतां पतिं
श्रियः पतिं यज्ञ-पतिं जगत्-पतिम् |
सुनन्द-नन्द-प्रबलार्हणादिभिः
स्व-पार्षदाग्रैः परिसेवितं विभुम् ||१४||

भृत्य-प्रसादाभिमुखं दृग्-आसवं
प्रसन्न-हासारुण-लोचनाननम् |
किरींइनं कुण्डलिनं चतुर्-भुजं
पीतांशुकं वक्षसि लक्षितं श्रिया ||१५||

अध्यर्हणीयासनम् आस्थितं परं
वृतं चतुः-षोडश-पञ्च-शक्तिभिः |
युक्तं भगैः स्वैर् इतरत्र चाध्रुवैः
स्व एव धामन् रममाणम् ईश्वरम् ||१६||

तद्-दर्शनाह्लाद-परिप्लुतान्तरो
हृष्यत्-तनुः प्रेम-भराश्रु-लोचनः |
ननाम पादाम्बुजम् अस्य विश्व-सृग्
यत् पारमहंस्येन पथाधिगम्यते ||१७||
तं प्रीयमाणं समुपस्थितं कविं
प्रजा-विसर्गे निज-शासनार्हणम् |
बभाष ईषत्-स्मित-शोचिषा गिरा
प्रियः प्रियं प्रीत-मनाः करे स्पृशन् ||१८ [ २.९.९-१८] ||

तस्मै भगवद्-आज्ञा-पुरस्कारेण श्री-नारायणाह्वय-पुरुष-नाभि-
पङ्कजे स्थित्यैव तत्-तोषणैस् तपोभिर् भजते ब्रह्मणे सभाजितस् तेन
भजनेन वशीकृतः सन् स्व-लोकं वैकुण्ठं भुवनोत्तमं भगवान्
सम्यग् दर्शयामास | यद् यतो विअकुण्ठात् परम् अन्यद् वैकुण्ठं परं
श्रेष्ठं न विद्यते परम-भगवद्-वैकुण्ठत्वात् | यद् वा, यद् यतो
वैकुण्ठात् परं ब्रह्माख्यं तत्त्वं परं भिन्नं न भवति | स्वरूप-
शक्ति-विशेषाविष्कारेण माययानावृतं तद् एव तद्-रूपम् इत्य् अर्थः | अग्रे त्व्
इदं व्यक्तीकरिष्यते | तादृशत्वे हेतुः व्यपेतेति स्व-दृष्टेतो च |
अविद्यास्मिताराग-द्वेषाभिनिवेशाः पञ्च क्लेशाः विइमोहस् तैः वैचित्र्यं
साध्वसं भयं व्यपेतानि सङ्क्लेशादीनि यत्र तम् | स्वस्य दृष्टं दर्शनं
तद् विद्यते येषां तैर् आत्मविद्भिर् अपि अभितः सर्वांशेनैव स्तुतं श्लाघितम्
|

अथ ते मुनयो दृष्ट्वा नयनानन्द-भाजनम् |
वैकुण्ठं तद्-अधिष्ठानं विकुण्ठं च स्वयं-प्रभम् ||
भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च |
प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् || [ ३.१६.२७-८]

पुनस् तादृशत्वम् एव व्यनक्ति, प्रवर्तते इति | यत्र वैकुण्ठे रजस् तमश् च
न प्रवर्तते | तयोर् मिश्रं सहचरं जडं यत् सत्त्वं न तद् अपि | किन्तु
अन्यद् एव | तच् च या सुष्ठु स्थापयिष्यमाणा मायातः परा भगवत्-
स्वरूप-शक्तिः तस्याः वृत्तित्वेन चिद्-रूपं शुद्ध-सत्त्वाख्यं सत्त्वम् इति
तदीय-प्रकरण एव स्थापयिष्यते | तद् एव च यत्र प्रवर्तते इत्य् अर्थः |

तथा च नारद-पञ्चरात्रे जितन्ते-स्तोत्रे -

लोकं वैकुण्ठ-नामानं
दिव्य-षड्-गुण-संयुतम् |
अवैष्णवानाम् अप्राप्यं
गुण-त्रय-विवर्जितम् ||

पाद्मोत्तर-खण्डे तु वैकुण्ढ-निरूपशो तस्य सत्त्वस्याप्राकृतत्वं
स्फुटम् एवं दर्शितम् | यतः प्रकृति-विभूति-वर्णनानन्तरम् -

एवं प्राकृत-रूपाया विभूते रूपम् उत्तमम् |
त्रिपाद्-विभूति-रूपं तु शृणु भूधर-नन्दिनि ||
प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी |
वेदाङ्गस्वेदजनित-तोयैः प्रस्राविता शुभा ||
तस्याः पारे पर-व्योम्नि त्रिपाद्-भूतं सनातनम् |
अमृतं शाश्वतं नित्यम् अनन्तं परं पदम् ||
शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् || इत्यादि ||

प्राकृत-गुणानां परस्पराव्यभिचारित्वं तूक्तं साङ्ख्य-कौमुद्यां -
अन्योन्य-मिथुन-वृत्तय इति | तट्-टीकायां च अन्योन्य-सहचरा अविनाभाव-
वर्तिन इति यावत् | भवति चात्रागमः -

अन्योन्य-मिथुनाः सर्वे
सर्वे सर्वत्र-गामिनः |
रजसो मिथुनं सत्त्वम् || इत्य् आद्य् उपक्रम्य

नैषाम् आदिश् च संयोगो
वियोगो चोपलभ्यते || इतीति ||

तस्माद् अत्र रजसोऽसद्-भावाद् असृज्यत्वं तमसोऽसद्-भावाद् अनाश्यत्वं
प्राकृत-सत्त्वाभावाच् च सच्चिदानन्द-रूपत्वं तस्य दर्शितम् | तत्र हेतुर्
न च काल-विक्रमः इति | काल-विक्रमेण हि प्रकृति-क्षोभात् सत्त्वादयः
पृथक् क्रियन्ते | तस्माद् यत्रासौ षड्-भाव-विकार-हेतुः काल-विक्रम एव
न प्रवर्तते तत्र तेषाम् अभावः सुतराम् एवेति भावः | किं च तेषां मूलत
एव कुठार इत्य् आह न यत्र मायेति | मायात्र जगत्-सृष्ट्य्-आदि-हेतुर्
भगवच्-छक्तिर् न तु कापट्य-मात्रम् | रज-आदि-निषेधेनैव तद्-व्युदासात्
| अथवा यत्र तयोः सम्बन्धि सत्त्वं प्राकृत-सत्त्वं यत् तद् अपि न
प्रवर्तते | मिश्रम् अपृथग्-भूत-गुण-त्रयं प्रधानं च | अग्रे माया-
प्रधानयोर् भेदो विवेचनीयः |

कैमुत्येनोक्तम् एवार्थं द्रढयति | किम् उतापरे इति | तयोर् विमिश्रं किञ्चिद्
रजस्-तमो-मिश्रं सत्त्वं च नेति व्याख्या तु पिष्ट-पेषणम् एव | सामान्यतो
रजस्-तमो-निषेधेनैव तत्-प्रतिपत्तेः | वक्ष्यते च तस्य सत्त्वस्य प्राकृताद्
अन्य्तमत्वं द्वादशे श्री-नारायण-र्षिं प्रति मार्कण्डेयेन --

सत्त्वं रजस् तम इतीश तवात्म-बन्धो
मायामयाः स्थित्-लयोद्भव-हेतवोऽस्य |
लीलाधृता यद् अपि सत्त्वमयी प्रशान्त्यै
नान्ये नॄणां व्यसन-मोह-भियश् च याभ्याम् ||

तस्मात् तवेह भगवन्न् अथ तावकानां
शुक्लां तनुं स्व-दयितां कुशला भजन्ति |
यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं
लोको यतोऽभयम् उतात्म-सुखं न चान्यद् || [ १२.८.३९-४०] इति ||

अनयोर् अर्थः | हे ईश यद् अपि सत्त्वं रजस् तम इति तवैव माया-कृता लीलाः
| कथम्भूताः - अस्य विश्वस्य स्थित्यादि-हेतवः तथापि या सत्त्वमयी सैव
प्रशान्त्यै प्रकृष्ट-सुखाय भवति | नान्ये रजस् तमो-मय्यौ | न केवलं
प्रशान्त्यभाव-मात्रम् अनयोः | किन्त्व् अनिष्टं चेत्य् आह व्यसनेति | हे
भगवन् तस्मात् तव शुक्लां सत्त्व-मय-लीलाधिष्ठात्रीं तनुं श्री-विष्णु-
रूपां कुशला निपुणा भजन्ति सेवन्ते न त्व् अन्यां ब्रह्म-रुद्र-रूपां ते
भजन्ति अनुसरन्ति | न तु दक्ष-भैरवादि-रूपाम् | कथम्भूतां स्वस्य
तवापि दयितां लोक-शान्ति-करत्वात् |

ननु मम रूपम् अपि सत्त्वात्मकम् इति प्रसिद्धं | तर्हि कथं तस्यापि
मायामयत्वम् एव | नहि नहीत्य् आह सात्वताः श्री-भागवता यत् सत्त्वं
पुरुषस्य तव रूपं प्रकाशम् उशन्ति मन्यन्ते यतश् च सत्त्वात् लोको
वैकुण्ठाख्यः प्रकाशते तद् अभयम् आत्म-सुखं पर-ब्रह्मानन्द-
स्वरूपम् एवलक्षण-स्वरूप-शक्ति-वृत्ति-विशेष उच्यते |

सत्त्वं विशुद्धं वसुदेव-शब्दितं
यद् ईयते तत्र पुमान् अपावृतः | [ ४.३.२३]

इत्याद्य् उदाहरिष्यमाणानुसारात् | अगोचरत्वे हेतुः प्रकृति-गुणः | सत्त्वम् इत्य्
अशुद्ध-सत्त्व-लक्षण-प्रसिद्ध्य्-अनुसारेण तथाभूतश् चिच्-छक्ति-वृत्ति-
विशेषः सत्त्वम् इति सङ्गति-लाभाच् च | ततश् च तस्य स्वरूप-शक्ति-वृत्तित्वेन
स्वरूपात्मतैवेत्य् उक्तम् तद् अभयम् आत्म-सुखम् इति | अर्थान्तरे
भगवद्-विग्रहं प्रति रूपं यद् एतद् [ २.८.२] इत्यादौ शुद्ध-सत्त्व-
स्वरूप-मात्रत्व-प्रतिज्ञाभङ्गः | अभयम् इत्य् आदौ प्राञ्जलता-हानिश् च
भवति | अन्यत् पदस्यैकस्यैव रजस् तमश् चेति द्विर्-आवृत्तौ प्रतिपत्ति-
गौरवं चोत्पद्यते | पूर्वम् अपि नान्ये इति द्विवचनेनैव परामृष्टे |
तस्माद् अस्ति प्रसिद्धाद् अन्यत् स्वरूप-भूतं सत्त्वम् |

यद् एवैकादशे यत् काय एष भुवन-त्रय-सन्निवेश [ ११.४.४] इत्यादौ
ज्ञानं स्वत इत्य् अत्र टीका-कृन्-मतं यस्य स्वरूप-भूतात् सत्त्वात् तनु-
भृतां ज्ञानम् इत्य् अनेन | तथा परो रजः सवितुर् जात-वेदा देवस्य भर्ग
[ ५.७.१४] इत्य् आदौ श्री-भरत-जाप्ये तन्-मतं परो रजः रजसः प्रकृतेः
परं शुद्ध-सत्त्वात्मकम् इत्य् आदिना | अतएव प्राकृताः सत्त्वादयो गुणा
जीवस्यैव न त्व् ईशस्येति श्रूयते | अथैकादशे सत्त्वं रजस् तम इति गुणा
जीवस्य नैव मे [ ११.२५.१२] इति |

श्री-भगवद्-उपनिषत्सु च -

ये चैव सात्त्विका भावा राजसास् तामसाश् च ये |
मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ||
त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् |
मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ||
दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया |
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते || इति [ ७.१२-४]

यथा दशमे -

हरिर् हि निर्गुणः साक्षात्
पुरुषः प्रकृतेः परः |
स सर्व-दृग् उपद्रष्टा
तं भजन् निर्गुणो भवेत् || इति [ १०.८८.५]

श्री-विष्णु-पुराणे च -

सत्त्वादयो न सन्तीशे
यत्र च प्राकृता गुणाः |
स शुद्धः सर्व-शुद्धेभ्यः
पुमान् आद्यः प्रसीदतु || इति [ १.९.४४]

अत्र प्राकृता इति विशिष्य अप्राकृतास् त्व् अन्ये गुणास् तस्मिन् सन्त्य् एवेति व्यञ्जितं
तत्रैव |

ह्लादिनी सन्धिनी संवित्
त्वय्य् एका सर्व-संश्रये |
ह्लाद-ताप-करी मिश्रा
त्वयि नो गुण-वर्जिते || इति [ १.१२.६९]

तथा च दशमे देवेन्द्रेणोक्तम् --

विशुद्ध-सत्त्वं तव धाम शान्तं
तपोमयं ध्वस्त-रजस्-तमस्कम् |
मायामयोऽयं गुण-संप्रवाहो
न विद्यते तेऽग्रणानुबन्ध || इति [ १०.२७.४]

अयम् अर्थः | धाम स्वरूप-भूत-प्रकाश-शक्तिः | विशुद्धत्वम् आह
विशेषण-द्वयेन | ध्वस्त-रजस्-तमस्कं तपो-मयम् इति च | तपोऽत्र ज्ञानं
स तपोऽतप्यतेति श्रुतेः | तपोमयं प्रचुर-ज्ञान-स्वरूपम् | जाड्यांशेनापि
रहितम् इत्य् अर्थः | आत्मा ज्ञान-मयः शुद्ध इतिवत् | अतः प्राकृत-सत्त्वम्
अपि व्यावृत्तम् | अत एव मायामयोऽयं सत्त्वादि-गुण-प्रवाहस् ते तव न
विद्यते | यतोऽसाव् अज्ञानेनैवानुबन्ध इति |

अतएव श्री-भगवन्तं प्रति ब्रह्मादीनां सयुक्तिकम् --

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेय-उपायनं वपुः |
वेद-क्रिया-योग-तपः-समाधिभिस्
तवार्हणं येन जनः समीहते ||

सत्त्वं न चेद् धातर् इदं निजं भवेद्
विज्ञानम् अज्ञान-भिदापमार्जनम् |
गुण-प्रकाशैर् अनुमीयते भवान्
प्रकाशते यस्य च येन वा गुणः || [ १०.२.३४-३५]

अयम् अर्थः | सत्त्वं तेन प्रकाशमानत्वात् तद्-अभिन्नतया रूपितं वपुर्
भवान् श्रयते प्रकटयति | कथम्भूतं सत्त्वं विशुद्धम् | अन्यस्य
रजस्-तमोभ्याम् अमिश्रस्यापि प्राकृतत्वेन जाड्यांश-संवलितत्वान् न
विशेषेण शुद्धत्वम् | एतत् तु स्वरूप-शक्त्य्-आत्मत्वेन तद्-अंशस्याप्य्
अस्पर्शाद् अतीव शुद्धम् इत्य् अर्थः | किम् अर्थं श्रये | शरीरिणां स्थितौ निज-
चरणारविन्दे मनःस्थैर्याय सर्वत्र भक्ति-सुखाद् अनस्यैव त्वदीय-
मुख्य-प्रयोजनत्वाद् इति भावः | भक्ति-योग-विधानार्थम् इति [ १.८.१९]
श्री-कुन्ती-वाक्यात् |

कथम्भूतं वपुः श्रेयसां सर्वेषां पुरुषार्थानाम् उपायनम् आश्रयम्
| नित्यानन्द-परमानन्द-रूपम् इत्य् अर्थः | अतो वपुषस् तव च भेद-
निर्देशोऽयम् औपचारिक एवेति भावः | अतएव येन वपुषा यद् वपुर्
आलम्बनेनैव जनस् तवार्हणं पूजां करोति | कैः साधनैः वेदादिभिस्
त्वद्-आलम्बकैर् इत्य् अर्थः | साधारणैस् त्व् अर्पितैर् एव त्वद्-अर्हण-
प्रायतासिद्धाव् अपि | वपुषोऽनपेक्षत्वात् | तादृश-वपुः-प्रकाश-हेतुत्वेन
स्वरूपात्मकत्वं स्पष्टयन्ति |

हे धातश् चेद् यदि इदं सत्त्वं यत् तव निजं विज्ञानम् अनुभवं तदात्मिका
स्व-प्रकाशता-शक्तिर् इत्य् अर्थः | तन् न भवेत् | तर्हि तु अज्ञान-भिदा स्व-
प्रकाशस्य तवानुभव-प्रकार एव मार्जनं शुद्धिम् अवाप | सैव जगति
पर्यवसीयते न तु तवानुभव-लेशोऽपीत्य् अर्थः |

ननु प्राकृत-सत्त्व-गुणेनैष भवतु किं निजेनेत्य् आह | प्राकृत-गुण-
प्रकाशैर् भवान् केवलम् अनुमीयते न तु साक्षात्क्रियत इत्य् अर्थः | अथवा
तव विज्ञान-रूपम् अज्ञान-भिदाया अपमार्जनं च यन् निजं सत्त्वं तद् यदि
न भवेन् नाविर्भवति तदैव प्राकृत-सत्त्वादि-गुण-प्रकाशैर् भवान्
अनुमीयते त्वन्-निज-सत्ताविर्भावेण तु साक्षात्-क्रियत एवेत्य् अर्थः | तद् एव
स्पष्टयितुं तत्रानुमाने द्वैविध्यम् आहुर् यस्य गुणः प्रकाशत इति |
अस्वरूप-भूतस्यैव सत्त्वादि-गुणस्य त्वद्-अव्यभिचारि सम्बन्धित्व-मात्रेण
वा त्वद् एव प्रकाश्यमानता-मात्रेण वा त्वल्-लिङ्गत्वम् इत्य् अर्थः | यथा
अरुणोदयस्य सूर्योदय-सान्निध्य-लिङ्गत्वं यथा वा धूमस्याग्नि-
लिङ्गत्वम् इति तत उभयथापि तव साक्षात्कारे तस्य साधकतमत्वाभावो
युक्त इति भावः |

तद् एवम् अप्राकृत-सत्त्वस्य तदीय-स्व-प्रकाशता-रूपत्वं येन
स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् | अत्र ये विशुद्ध-सत्त्वं
नाम प्राकृतम् एव रजस्-तमः-शून्यं मत्वा तत्-कार्यं भगवद्-
विग्रहादिकं मन्यन्ते ते तु न केनाप्य् अनुगृहीताः | रजः-
सम्बन्धाभावेन स्वतः प्रशान्त-स्वभावस्य सर्वत्रोदासीनताकृति-हेतोस्
तस्य क्षोभासम्भवात् विद्यामयत्वेन यथावस्थित-वस्तु-प्रकाशितामात्र-
धर्मत्वात्, तस्य कल्पनान्तरायोग्यत्वाच् च | तद् उक्तम् अपि अगोचरस्य
गोचरत्वे हेतुः प्रकृति-गुणः सत्त्वम् | गोचरस्य बहुरूपत्वे रजः |
बहुरूपस्य तिरोहितत्वे रजः | तथा परस्परोदासीनत्वे सत्त्वम् | उपकारित्वे
रजः | अपकारित्वे तमः | गोचरत्वादीनि स्थित्-सृष्टि-संहाराः उदासीनत्वादीनि
चेति |

अथ रजो-लेशे तत्र मन्तव्ये विशुद्ध-पदवैयर्थ्यम् इत्य् अलं तन्-मत-
रजो-घट-प्रघट्टनयेति | पाद्मोत्तर-खण्डे तु वैकुण्ठ-निरूपणे
तस्य सत्त्वस्याप्राकृतत्वं स्फुटम् एव दर्शितम् | यत उक्तं प्रकृति-विभूति-
वर्णनानन्तरम् |

एवं प्राकृत-रूपाय विभूतेर् रूपम् उत्तमम् |
त्रिपाद्-विभूति-रूपं तु शृणु भूधर-नन्दिनि ||
प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी |
वेदाङ्ग-स्वेद-जनित-तोयैः प्रस्राविता शुभा ||
तस्याः पारे पर-व्योम्नि त्रिपाद्-भूतं सनातनम् |
अमृतं शाश्वतं नित्यम् अनन्तं परं पदम् ||
शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् || इत्यादि |

तद् एतत् समाप्तं प्रासङ्गिकं शुद्ध-सत्त्व-विवेचनम् | अथ प्रवर्तते
इत्यादि प्रकृतम् एव पद्यं व्याख्यायते |

ननु गुणाद्य्-अभावान् निर्विशेष एवासौ लोक इत्य् आशङ्क्य तत्र विशेषस् तस्याः
शुद्ध-सत्त्वात्मिकायाः स्वरूपानतिरिक्त-शक्तेर् एव विलास-रूप इति द्योतयंस्
तम् एव विशेषं दर्शयति हरेर् इति | सुराः सत्त्व-प्रभवाः असुराः रजस्-
तमः-प्रभवाः तैर् अर्चिताः | तेभ्योऽर्हत्तमा इत्य् अर्थः | गुणातीतत्वाद् एवेति
भावः |

तान् एव वर्णयति श्यामावदाता इति | श्यामाश् च अवदाता उज्ज्वलाश् च ते |
पीतवस्त्राः सुपेशसोऽतिसुकुमाराः उन्मिषन्त इव प्रभावन्तो मणिप्रवेका
मण्य्-उत्तमा येषु तानि निष्काणि पदकान्य् आभरणानि येषां ते सुवर्चसस्
तेजस्विनः |

प्रवालेति [२.९.११] | केऽपि तेभ्यः श्री-भगवत्-सारूप्यं लब्धवद्भ्योऽन्ये
प्रवालादि-सम-वर्णाः | पुनर् अपि लोकं वर्णयति भ्राजिष्णुभिर् इति | श्रीर्
यत्रेति श्रीः स्वरूप-शक्तिः रूपिणी तत्-प्रेयसी-रूपा मानं पूजां विभूतिभिः
रूपिणी तत् प्रेयसी-रूपा मानं पूजां विभूतिभिः स्व-सखी-रूपाभिः |
प्रेङ्खमान्दोलनं श्रिता विलासेन | कुसुमाकारो वसन्तस् तद्-अनुगा
भ्रमरास् तैर् विविधं गीयमाना | स्वयं प्रियस्य हरेः कर्म गायन्ती
भवति | ददर्शेति तत्र लोक इति प्राक्तनानां यच्-छब्दानां विशेष्यं अखिल-
सात्वतां सर्वेषां सात्वतानां यादव-वीराणां पतिः

श्रियः पतिर् यज्ञ-पतिः प्रजापतिर्
धियां पतिर् लोक-पतिर् धरापतिः |
पतिर् गतिश् चान्धक-वृष्णि-सात्वतां
प्रसीदतां मे भगवन् सतां पतिः ||

इत्य् [ २.४.२०] एतद् वाक्य-संवादित्वात् | श्री-भागवत-मते श्री-कृष्णस्यैव
स्वयं-भगवत्त्वेन प्रतिपादयिष्यमानत्वात् | तच् चैतद् अनन्तरं ब्रह्मणे
चतुःश्लोकी-रूपं भागवतं श्री-भगवतोपदिष्टम् | तत्र च -

पुरा मया प्रोक्तम् अजाय नाभ्ये
पद्मे निषण्णाय ममादि-सर्गे |
ज्ञानं परं मन्-महिमावभासं
यत् सूरयो भागवतं वदन्ति ||

इति तृतीये [ ३.४.१३] उद्धवं प्रति श्री-कृष्ण-वाक्यानुसारेण ||

यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश् च प्रहिणोति तस्मै |
तं ह देवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अमुं व्रजेत् || इति [GTU १.२२]

श्री-गोपाल-तापन्य्-अनुसारेण च तस्मै वोपदेष्टृत्व-श्रुतेः ||

तदु होवाच ब्रह्मसवनं चरतो मे ध्यातः स्तुतः परार्धान्ते
सोऽबुध्यत गोपवेशो मे पुरुषः पुरस्तादाविर्बभूवेति श्रीगोपालतापन्य्-
अनुसारेणैव क्वचित् कल्पे श्री-गोपाल-रूपेण च सृष्ट्यादाव् इत्थम् एव
ब्रह्मणे दर्शित-निज-रूपतां तद्-धाम्नो महा-वैकुण्ठत्वेन श्री-कृष्ण-
सन्दर्भे साधयिष्यमाणत्वाच् च द्वारकायां प्राकट्यावसरे श्रुत-
सुनन्द-नन्दादि-साहचर्येण श्री-प्रबलादयोऽपि ज्ञेयाः | यथोक्तं प्रथमे
सुनन्द-नन्द-शीर्षण्या ये चान्ये सात्वत-र्षभा इति [ १.१४.३२]|

भृत्य-प्रसादेति [२.९.१५] | दृग् एवासव इव द्रष्टॄणां मदकरी यस्य तम् |
श्रिया वक्षो-वाम-भागे स्वर्ण-रेखाकारया | अध्यर्हणीयेति चतस्रः
शक्तयो धर्माद्याः | पाद्मोत्तर-खण्डे योग-पीठे त एव कथिताः | न
बहिरङ्गा अधर्माद्या इति | तथा हि,

धर्म-ज्ञान तथैश्वर्य-
वैराग्यैः पाद-विग्रहैः |
ऋग्-यजुः-सामाथर्वाण-
रूपैर् नित्यं वृतं क्रमाद् || इति |

समस्तान्तस् तथा शब्द-प्रयोगस् त्व् आर्षः | षोडश-शक्तयश् चण्डाद्याः |
तथा च तत्रैव - चण्डादि-द्वार-पालैस् तु कुमुदाद्यैः सुरक्षिता इति |
नगरीति पूर्वेणान्वयः | ते च -

चण्ड-प्रचण्डौ प्राग्-द्वारे याम्ये भद्र-सुभद्रकौ |
वारुण्यां जय-विजयौ सौम्ये धातृ-विधातरौ ||
कुमुदः कुमुदाक्षश् च पुण्डरीकोऽथ वामनः |
शङ्के कर्णः सर्व-नेत्रः सुमुखः सुप्रतिष्ठितः ||
एते दिक्पतयः प्रोक्ताः पुर्याम् अत्र सुशोभने || इति |

कुमुदादयस् तु द्वौ द्वाव् आग्नेयादि-दिक्-पतय इति शेषः | पञ्च-शक्तयः
कूर्माद्याः | तथा च तत्रैव -

कूर्मश् च नागराजश् च वनतेयस् त्रयीश्वरः |
छन्दांसि सर्व-मन्त्राश् च पीठ-रूपत्वम् आस्थिता || इति ||

त्रयीश्वर इति वैनतेय-विशेषणम् | तस्य छन्दोमयत्वात् |

यद्यप्य् उत्तर-खण्ड-वचनं तत् परम-व्योम-परं तथापि तत्-
सादृश्यागमादि-प्रसिद्धेश् च श्री-कृष्ण-योग-पीठम् अपि च तद्वज् ज्ञेयम्
| अत्र षोडश-शक्तयः साक्षात् श्री-कृष्ण एव श्री-कृष्ण-सन्दर्भे पुरस्ताद्
उदाहरिष्यमाण-प्रभास-खण्ड-वचनात् श्रुतालम्बिन्यादय एव वा ज्ञेया
इति | स्वैः स्वरूप-भूतैर् ऐश्वर्यादिभिर् युक्तम् | इतरत्र योगिषु अध्रुवैः
प्राप्तैर् इत्य् अर्थः | स्व-स्वरूप एव धामानि श्री-वैकुण्ठे रममाणं
अतएवेश्वरम् | कथम् अपि पराधीन-सिद्धत्वाभावात् |

तद्-दर्शनेति [२.९.१७] | यत् पदाम्बुजं पारमहंस्येन पथाधिगम्यत इति
सच्चिदानन्द-घनत्वं तस्य व्यनक्ति | त्वं प्रीयमाणम् इति तं ब्रह्माणं
भगवान् बभाषे | प्रजा-विसर्गे कार्ये निजस्य स्वांश-भूतस्य पुरुषस्य
शासनेऽर्हणं योग्यम् |

नन्व् असौ पुरुष एव तम् अनुगृह्णातु श्री-भगवतस् तु परावस्थत्वात् तेन
प्राकृत-सृष्टि-कर्त्रा सम्बन्धोऽपि न सम्बन्ध इत्य् आशङ्क्य तस्य भक्त-
वात्सल्यातिशय एवायम् इत्य् आह, प्रियं तस्मिन् प्रेमवन्तम् |

यतः सोऽपि प्रियः प्रेम-वशः | तत्रापि प्रीयमाणाम् इति प्रीतमना इति च
विशेषणं तदानीं प्रेमोल्लासातिशय-द्योतकम् | तं प्रति भगवच्-चिह्न-
दर्शनेन तस्यापि तत्र प्रीत्य्-अतिशयं व्यञ्जयति ईषत्-स्मित-रोचिषा गिरेति करे
स्पृशन्न् इति च | अस्य श्री-कृष्णोपासकत्वं श्री-गोपाल-तापनी-वाक्येन
दर्शितम् |

तथा च ब्रह्म-संहितायां [५.२२-५] -

तत्र ब्रह्माभवद् भूयश् चतुर्वेदी चतुर्मुखः |
स जातो भगवच्-छक्त्या तत्-कालं किल चोदितः ||
सिसृक्षायां मतिं चक्रे पूर्व-संस्कार-संस्कृताम् |
ददर्श केवलं ध्वान्तं नान्यत् किम् अपि सर्वतः ||
उवाच पुरतस् तस्मै तस्य दिव्या सरस्वती |
कामः कृष्णाय गोविन्दाय गोपी-जन इत्य् अपि ||
वल्लभाय प्रिया वह्नेर् अयं ते दास्यति प्रियम् |
तप त्वं तप एतेन तव सिद्धिर् भविष्यति ||
अथ तेपे स सुचिरं प्रीणन् गोविन्दम् अव्ययम् || इत्य् आदि ||

श्री-शुकः ||८||

[९]

अथ सा भगवत्ता च नारोपिता किन्तु स्वरूप-भूतैवेत्य् एतम् अर्थं पुनर्
विशेषतः स्थापयितुं प्रकरणान्तरम् आरभ्यते | तत्र वस्तुनस् तस्य
शक्तित्वम् आह |

वेद्यं वास्तवम् अत्र वस्त्व् इत्य् अस्य विशेषणाभ्याम् एव
शिवदं ताप-त्रयोन्मूलनम् इति | [ १.१.२]

शिवं परमानन्दः तद्-दानं स्वरूप-शक्त्या | ताप-त्रयं माया-शक्ति-
कार्यं तद्-उन्मूलनं च तयैवेत || श्री-व्यासः ||९||

[१०]

ते च माया-शक्ति-स्वरूप-शक्ती परस्पर-विरुद्धे तथा तयोर् वृत्तयश् च
स्व-स्व-गण एव परस्पर-विरुद्धा अपि बह्व्यः | तथापि तासाम् एकं
निधानं तद् एवेत्य् आह |

यच्-छक्तयो वदतां वादिनां वै
विवाद-संवाद-भुवो भवन्ति |
कुर्वन्ति चैषां मुहुर् आत्म-मोहं
तस्मै नमो æनन्त-गुणाय भूम्ने || [ ६.४.२६]

स्पष्टम् || दक्सः श्री-पुरुषोत्तमम् ||१०||
[११]

तथा -

यस्मिन् विरुद्ध-गतयो ह्य् अनिशं पतन्ति
विद्यादयो विविध-शक्तय आनुपूर्व्यात् |
तद् ब्रह्म विश्व-भवम् एकम् अनन्तम् आद्यम्
आनन्द-मात्रम् अविकारम् अहं प्रपद्ये || [ ४.९.१६]

आनुपूर्व्या स्व-स्व-वर्गे उत्तम-मध्यम-कनिष्ठ-भावेन वर्तमाना
विविध-शक्तयः प्रायः परस्परं विरुद्ध-गतयोऽपि यस्मिन् यद् आश्रित्य
अनिशं पतन्ति स्व-स्व-व्यापारं कुर्वन्ति || ध्रुवः श्री-पृश्निगर्भम् ||११||

[१२]

सर्गादि यो æस्यानुरुणद्धि शक्तिभिर्
द्रव्य-क्रिया-कारक-चेतनात्मभिः |
तस्मै समुन्नद्ध-निरुद्ध-शक्तये
नमः परस्मै पुरुषाय वेधसे || [ ४.१७.१८]

अनुरुणद्धि करोति | श्री-मैत्रेयो विदुरम् ||१२||

[१३]

तासाम् अचिन्त्यत्वम् आह |

आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिर् इति || [ ३.३३.३]

स्पष्टम् || उक्तं चाचिन्त्यत्वं श्रुतेस् तु शब्द-मूलत्वाद् इत्य् [Vस् २.१.२७] आदौ
| आत्मनि चैवं विचित्राश् च हीत्य् [?] आदौ च || श्री-देवहूतिः कपिलदेवम् ||१३||

[१४]

शक्तेस् तु स्वाभाविक-रूपत्वम् आह -

सत्त्वं रजस् तम इति त्रिवृद् एकम् आदौ
सूत्रं महान् अहम् इति प्रवदन्ति जीवम् |
ज्ञान-क्रियार्थ-फल-स्वरूपतयोरु-शक्तिर्
ब्रह्मैव भाति सद् असच् च तयोः परं यत् || [ ११.३.३८]

ब्रह्मैव उरू-शक्तिर् अनेकात्मक-शक्तिमद् भाति | एव-कारेण ब्रह्मण एव
सा शक्तिर् न तु कल्पितेति स्वाभाविक-रूपत्वं शक्तेर् बोधयति | तत्र हेतुः |
यद् ब्रह्म यत् स्थूलं कार्यं पृथिव्यादि-रूपं असत् सूक्ष्मं कारणं
प्रकृत्यादि-रूपं तयोर् बहिरङ्ग-वैभवयोः परं स्वरूप-वैभवं श्री-
वैकुण्ठादि-रूपं तटस्थ-वैभवं शुद्ध-जीव-रूपं च | अन्यथा तत्-
तद्-भावासिद्धिः |

किंरूपतया तत्-तद्-रूपम् | तत्राह ज्ञान-क्रियार्थ-फल-रूपतया महद्-
आदि-लक्षण-ज्ञान-शक्ति-रूपत्वेन, सूत्रादि-लक्षण-क्रिया-शक्ति-रूपत्वेन,
तन्-मात्रादि-लक्षणार्थ-रूपत्वेन, प्रकृति-लक्षण-तत्-तत्-सर्वैक्य-
रूपत्वेन सद्-असद्-रूपम् | फल-रूपत्वेन तयोः परम् | तत्र फलं
पुरुषार्थ-स्वरूपं स-वैभवं भगवद्-आख्यं चिद्-वस्तु तद्-
अनुमतत्वात् शुद्ध-जीवाख्यं चिद्-वस्तु च | एतेन ज्ञान-क्रियादि-रूपेणोरू-
शक्तित्वं व्यञ्जितम् | शक्तेः स्वाभाविक-रूपत्वं स-प्रमाणं स्पष्टयति |

आदौ यद् एकं ब्रह्म तद् एव सत्त्वं रजस् तम इति त्रि-वृत् प्रधानं ततः
क्रिया-शक्त्या सूत्रं ज्ञान-शक्त्या महान् इति | ततोऽहम् अहङ्कार इति | तद् एव
च जीवं शुद्ध-स्वरूपं जीवात्मानं तद्-उपलक्षणकं वैकुण्ठादि-
वैभवं च प्रवदन्ति वेदाः | ते च - सदैव सौम्येदम् अग्र आसीद् इत्य्
आद्याः [ ६.२.१] |

आदाव् एकं ततस् तत् तद्-रूपम् इति शक्तेः स्वाभाविकत्वम् आयातम्
अन्यस्यासद्भावेनौपाधिकत्वायोगात् | स्वरूप-वैभवस्याङ्ग-प्रत्यङ्गवन्
नित्य-सिद्धत्वेऽपि, सूर्य-सत्तया तद्-रश्मि-परमाणु-वृन्दस्येव, तत्-सत्तया
लब्ध-सत्ताकत्वात् तद्-उपादानत्वं तदादिकत्वं च स्यात् | तस्य भासा सर्वम्
इदं विभातीति [Kअठ २.२.१५] श्रुतेः |

शक्तेर् अचिन्त्यत्वं स्वाभाविकत्वं चोक्तं श्री-विष्णु-पुराणे -

निर्गुणस्याप्रमेयस्य
शुद्धस्याप्य् अमलात्मनः |
कथं सर्गादि-कर्तादि-कर्तृत्वं
ब्रह्मणोऽभ्युपगम्यत || [ १.३.१]

इति मैत्रेय-प्रश्नानन्तरं श्री-पराशर उवाच ---

शक्तयः सर्व-भावानाम्
अचिन्त्य-ज्ञान-गोचराः |
यतोऽतो ब्रह्मणस् तास् तु
सर्गाद्या भाव-शक्तयः |
भवन्ति तपसां श्रेष्ठ
पावकस्य यतोष्णता || [ १.३.२]

अत्र श्रीधर-स्वामि-टीका च -
तद् एवं ब्रह्मणः सृष्ट्य्-आदि-कर्तृत्वम् उक्तम् | तत्र शङ्कते - निर्गुणस्येति
| सत्त्वादि-गुण-रहितस्य, अप्रमेयस्य देश-कालाद्य्-अपरिच्छिन्नस्य शुद्धस्य
अदेहस्य सहकारि-शून्यस्येति वा, अमलात्मनः पुण्य-पाप-संस्कार-
शून्यस्य, रागादि-शून्यस्येति वा | एवम्भूतस्य ब्रह्मणः कथं सर्गादि-
कर्तृत्वम् इष्यते, एतद्-विलक्षणस्यैव लोके घटादिषु कर्तृत्वादि-दर्शनाद्
इत्य् अर्थः | परिहरति शक्तय इति सार्धेन | लोके हि सर्वेषां भावानां मणि-
मन्त्रादीनां शक्तयः अचिन्त्य-ज्ञान-गोचराः | अचिन्त्यं तर्कासहं यज्-
ज्ञानं कार्यान्यथानुपपत्ति-प्रमाणकं तस्य गोचराः सन्ति |

यद् वा - अचिन्त्या भिन्नाभिन्नत्वादि-विकल्पैश् चिन्तयितुम् अशक्याः केवलम्
अर्थापत्ति-ज्ञान-गोचराः सन्ति | यद् एवं अतो ब्रह्मणोऽपि तास् तथाविधाः
शक्तयः सर्गादि-हेतु-भूताः भाव-शक्तयः स्वभाव-सिद्धाः शक्तयः
सन्त्य् एव | पावकस्य दाहकत्वादि-शक्तिवत् | अतो गुणादिहीनस्याप्य् अचिन्त्य-
शक्तिमत्त्वाद् ब्रह्मणः सर्गादि-कर्तृत्वं घटत इत्य् अर्थः | श्रुतिश् च -

न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते |
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च || [Śवेत्U ६.८]

मायां तु प्रकृतिं विद्यान्
मायिनं तु महेश्वरम् || [Śवेत्U ४.१०]

यद् वा एवं योजना - सर्वेषां भावानां पावकस्योष्णता-शक्तिवद्-अचिन्त्य-
ज्ञान-गोचराः शक्तयः सन्त्य् एव | ब्रह्मणः पुनस् ताः स्वभाव-भूताः
स्वरूपाद् अभिन्नाः शक्तयः | परास्य शक्तिर् विविधैव श्रूयते इति श्रुतेः |

अतो मणि-मन्त्रादिभिर् अग्नौष्ण्यवन् न केनचिद् विहन्तुं शक्यन्ते | अत एव
तस्य निरङ्कुशम् ऐश्वर्यम् | तथा च श्रुतिः -

स वा अयम् अस्य सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिर् इत्य् आदिः [BAU
४.४.२२] |

यत एवं अतो ब्रह्मणो हेतोः सर्गाद्या भवन्ति नात्र काचिद् अनुपपत्तिः इत्य्
एषा |

अत्र प्रश्नः सोऽयं ब्रह्म खलु निर्विशेषम् एवेति पक्षम् आश्रित्य, परिहारस्
तु सविशेषम् एवेति पक्षम् आश्रित्य कृत इति ज्ञेयम् | अत एव प्रश्ने
शुद्धस्येत्य् अपि व्याख्यातम् | शुद्धत्वं ह्य् अत्र केवलत्वं मतम्, तच् च
युक्तं, परिहारे ब्रह्मणि शक्तिस्थापनात् | पूर्व-पक्षिमते ब्रह्मणि शक्तिर्
अपि नास्तीति गम्यते | ततः प्रश्न-वाक्येऽप्य् एवम् अर्थान्तरं ज्ञेयम् -
निर्गुणस्य प्राकृताप्राकृत-गुण-रहितस्य, अतएव प्रमाणागोचरस्य तत
एवामलात्मनोऽपि शुद्धस्य, न तु स्फटिकादेर् इव परच्छाययान्यथा-
दृष्टस्य | तद् एवं निर्विशेषताम् अवलम्ब्य प्रश्ने सिद्धे | परिहारे तु
प्रथम-योजनायां निर्विशेष-पक्षम् अनादृत्य ब्रह्मणि कर्तृत्व-प्रतिपत्त्य्-
अर्थं शक्तयः साधिताः | द्वितीय-योजनायां तत्र च विशेष-प्रतिपत्त्य्-अर्थं
यथा जलादिषु कदाचिद् उष्णतादिकम् आगन्तुकं स्यात् तथा ब्रह्मणि न स्याद्
इति निर्धारितम् | न तत् समश् चाभ्यधिकश् च दृश्यते इति श्रुतेः |

तथा मणिमन्त्रादिभिर् इति व्यतिरेक एव दृष्टान्त इत्य् अतो ब्रह्म-शक्तयस् तु
नान्येन पराभूता इत्य् एतच् च दर्शितम् | किं च, ब्रह्म-पदेन सर्वं खल्व्
इदं ब्रह्मेति प्रसिद्धिं व्यज्य सत्त्वादि-गुणमय-मायायास् तद्-अन्यत्वेऽपि,
निर्गुणस्येति प्राकृत-गुणैर् अस्पृष्टत्वम् अङ्गीकृत्य तेषां बहिरङ्गत्वं
स्वीकृतम् |

तद् एतद् एव मायां च प्रकृतिं विद्याद् इत्य् एषा श्रुतिः स्वीचकार | मायां च
तद् अपाश्रयाम् इतिवन् महेश्वरत्वान् मायाया बहिरङ्गाया आश्रय इति तां
पराभूय स्थितम् इति च लभ्यते | तस्मात् पूर्ववद् अत्रापि शक्ति-मात्रस्य
स्वाभाविकत्वं माया-दोषास्पृष्टत्वं च साधितम् | अतएव श्रीगीतोपनिषत्सु
च -

ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वाऽमृतम् अश्नुते |
अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते ||
सर्वतः पाणि-पादं तद् इत्य् आदि | [ १३.१२-१३]

अत्रेयं प्रक्रिया - एकम् एव तत् परम-तत्त्वं स्वाभाविकाचिन्त्य-शक्त्या
सर्वदैव स्वरूप-तद्-रूप-वैभव-जीव-प्रधान-रूपेण
चतुर्धावतिष्ठते | सूर्यान्तर्-मण्डलस्थ-तेज इव मण्डल-तद्-बहिर्गत-
रश्मि-तत्-प्रतिच्छवि-रूपेण | एवम् एव श्री-विष्णु-पुराणे ---

एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा |
परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगद् || इति || [ १.२२.५६]

यस्य भासा सर्वम् इदं विभातीति श्रुतेः | अत्र व्यापकत्वादिना तत्-तत्-
समावेशाद्य्-अनुपपत्तिश् च शक्तेर् अचिन्त्यत्वेनैव पराहता | दुर्घट-
घटत्वं ह्य् अचिन्त्यत्वम् | शक्तिश् च सा त्रिधा - अन्तरङ्गा बहिरङ्गा
तटस्था च | तत्रान्तरङ्गया स्वरूप-शक्त्याख्यया पूर्णेनैव स्वरूपेण
वैकुण्ठादि-स्वरूप-वैभव-रूपेण च तद् अवतिष्ठते | तटस्थया रश्मि-
स्थानीय-चिद्-एकात्म-शुद्ध-जीव-रूपेण, बहिरङ्गया मायाख्यया
प्रतिच्छवि-गत-वर्ण-शावल्य-स्थानीय-तदीय-बहिरङ्ग-वैभव-जडात्म-
प्रधान-रूपेण चेति चतुर्ध्वात्वम् | अतएव तदात्मकत्वेन जीवस्येव
तटस्थ-शक्तित्वं प्रधानस्य च मायान्तर्-भूतत्वम् अभिप्रेत्य शक्ति-
त्रयं श्री-विष्णु-पुराणे गणितम् -

विष्णु-शक्तिः परा प्रोक्ता क्षेत्र-ज्ञाख्या तथापरा |
अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते || [ ६.७.६१]
तया तिरोहितत्वाच् च शक्तिः क्षेत्र-ज्ञ-संज्ञिता |
सर्व-भूतेषु भूपाल तारतम्येन वर्तते ||[ ६.७.६३] इति ||

अविद्या कर्म कार्यं यस्याः सा तत्-संज्ञा मायेत्य् अर्थः | यद्यपीयं
बहिरङ्गा तथाप्य् अस्यास् तटस्थ-शक्तिमयम् अपि जीवम् आवरितुं
सामर्थ्यम् अस्तीत्य् आह तयेति | तारतम्येन तत्-कृतावरणस्य ब्रह्मादि-
स्थावरान्तेषु देहेषु लघु-गुरु-भावेन वर्तते इत्य् अर्थः | तद् उक्तम् -
यथा सम्मोहितो जीव इति [ १.७.५] | ययैवाचिन्त्य-मायया ज्ञेयम् |
प्रधानस्य माया-व्यङ्ग्यत्वं चाग्रे दर्शयिष्यते | अत्रान्तरङ्गत्व-
तटस्थत्व-बहिरङ्गत्वादिनैव तेषाम् एकात्मकानां तत् तत् साम्यम्, न तु
सर्वात्मनेति तत् तत् स्थानीयत्वम् एवोक्तम् | न तु तत्-तद्-रूपत्वं ततस् तत्
तद् दोषा अपि नावकाशं लभन्ते इति || श्री-पिप्पलायनो निमिम् ||१४||

[१५]

तद् एवं सर्वाभिर् मिलित्वा चिद्-अचिच्-छक्तिर् भगवान् | एवम् एव
परमेश्वरत्वेन स्तूयमानं ब्रह्माणं प्रति हिरण्यकशिपुनाप्य् उक्तम् -
चिद्-अचिच्-छक्ति-युक्तायेति [ ७.३.३४] |

चिद्-वस्तुनश् चिद्-वस्त्व्-अन्तराश्रयत्वं, रश्म्य्-आभासादि-ज्योतिषो ज्योतिर्-
मण्डलाश्रयत्वम् इव | तत्र तटस्थाख्या जीव-शक्तिर् यथावसरं
परमात्म-सन्दर्भे विवरणीया |

अथ अन्तरङ्गाख्या-विवरणाय बहिरङ्गाप्य् उद्दिश्यते ये चापरा परा चेति
| श्री-विष्णु-पुराणे श्रूयते -

सर्व-भूतेषु सर्वात्मन् या शक्तिर् अपरा तव |
गुणाश्रया नमस् तस्यै शाश्वतायै सुरेश्वर ||
यातीत-गोचरा वाचां मनसां चाविशेषणा |
ज्ञानि-ज्ञान-परिच्छेद्या वन्दे ताम् ईश्वरीं पराम् || इति || [ १.१९.७६-७]

सैषा बहु-वृत्तिकैव ज्ञेया, परास्य शक्तिर् बहुधैव श्रूयते इति श्रुतेः ||१५||

[१६]

तत्र बहिरङ्गाम् आह -

ऋतेऽर्थं यत् प्रतीयेत
न प्रतीयेत चात्मनि |
तद् विद्याद् आत्मनो मायां
यथाभासो यथा तमः || [ २.९.३३]

अर्थं परमार्थ-भूतं मां विना यत् प्रतीयेत, मत्-प्रतीतौ तत्-प्रतीत्य्-
अभावात् | मत्तो बहिर् एव यस्य प्रतीतिर् इत्य् अर्थः | यच् चात्मनि न प्रतीयते,
यस्य च मद्-आश्रयत्वं विना स्वतः प्रतीतिर् नास्तीत्य् अर्थः | तथा लक्षणं
वस्तु आत्मनो मम परमेश्वरस्य मायां जीव-माया गुण-मायेति द्व्य्-
आत्मिकां मायाख्य-शक्तिं विद्यात् | अत्र शुद्ध-जीवस्यापि चिद्-
रूपत्वाविशेषेण तदीय-रश्मि-स्थानीयत्वेन च स्वान्तःपात एव विवक्षितः
| तत्रास्या द्व्य्-आत्मिकत्वेनाभिधानं दृष्टान्त-द्वैविध्येन लभ्यते | तत्र
जीव-मायाख्यस्य प्रथमांशस्य तादृशत्वं दृष्टान्तेन स्पष्टयन्न्
असम्भावनां निरस्यति यथाभास इति | आभासो ज्योतिर्-बिम्बस्य स्वीय-
प्रकाशाद् व्यवहित-प्रदेशे कथञ्चिद् उच्छलित-प्रतिच्छवि-विशेषः | स यथा
तस्माद् बहिर् एव प्रतीयते, न च तं विना तस्य प्रतीतिस् तथा सापीत्य् अर्थः
| अनेन प्रतिच्छवि-पर्यायाभास-धर्मत्वेन तस्याम् आभासाख्यत्वम् अपि
ध्वनितम् | अतस् तत्-कार्यस्याभासाख्यत्वं क्वचित् आभासश् च निरोधश् चेत्य्
आदौ [ २.१०.७] | अत्र स यथा क्वचिद् अत्यन्तोद्भटात्मा स्वचाक्चिक्य-
च्छटापतितनेत्राणां नेत्र-प्रकाशम् आवृणोति | तम् आवृत्य च
स्वेनात्यन्तोद्भट-तेजस्त्वेनैव द्रष्टृ-नेत्रं व्याकुलयन् स्वोपकण्ठे
वर्ण-शावल्यम् उद्गिरति | कदाचित् तद् एव पृथग्-भावेन नानाकारतया
परिणमयति | तथेयम् अपि जीव-ज्ञानम् आवृणोति | सत्त्वादि-गुण-साम्य-रूपां
गुण-मायाख्यां जडां प्रकृतिम् उद्गिरति | कदाचित् पृथग्-भूतान् सत्त्वादि-
गुणान् नानाकारतया परिणमयति चेति ज्ञेयम् | तद् उक्तम् - एक-देश-
स्थितस्याग्नेर् [ १.२२.५६] इत्य् आदि |
तथा चायुर्वेद-विदः -

जगद्-योनेर् अनिच्छस्य चिद्-आनन्दैक-रूपिणः |
पुंसोऽस्ति प्रकृतिर् नित्या प्रतिच्छायेव भास्वतः ||
अचेतनापि चैतन्य-योगेन परमात्मनः |
अकरोद् विश्वम् अखिलम् अनित्यं नाटकाकृतिर् || इति ||

तद् एवं निमित्तांशो जीव-माया उपादानांशो गुण-मायेत्य् अग्रेऽपि
विवेचनीयम् | अथैवं सिद्धं गुण-मायाख्यं द्वितीयम् अप्य् अंशं
दृष्टान्तेन स्पष्टयति, यथा तम इति | तमः-शब्देनात्र पूर्वोक्तं तमः-
प्रायं वर्ण-शावल्यम् उच्यते | तद् यथा तन् मूल-ज्योतिष्य्-असद् अपि तद्-
आश्रयत्वं विना न सम्भवति तद्वद् इयम् अपीति | अथवा मायामात्र-
निरूपण एव पृथक् दृष्टान्त-द्वयम् | तत्राभास-दृष्टान्तो व्याख्यातः |

तमो-दृष्टान्तश् च | यथान्धकारे ज्योतिषोऽन्यत्रैव प्रतीयते, ज्योतिर् विना च
न प्रतीयते ज्योतिरात्मना चक्षुषैव तत् प्रतीतेर् न पृष्ठादिनेति तथेयम्
अपीत्य् एवं ज्ञेयम् | ततश् चांश-द्वयं तु प्रवृत्ति-भेदेनैवोह्यं न तु
दृष्टान्त-भेदेन | प्राक्तन-दृष्टान्त-द्वेधाभिप्रायेण तु पूर्वस्या
आभास-पर्याय-च्छाया-शब्देन क्वचित् प्रयोगः उत्तरस्यास् तमः शब्देनैव
चेति | यथा ससर्ज छाययाविद्यां पञ्च-पर्वाणम् अग्रतः [ ३.२०.१८] इत्य्
अत्र | यथा च क्वाहं तमो महद् अहम् [ १०.१४.११] इत्य् आदौ |
पूर्वत्राविद्याविद्याख्य-निमित्त-शक्ति-वृत्तिकत्वाज् जीव्-विषयकत्वेन जीव-
मायात्वम् |

तथा ससर्जेत्य् आदौ छाया-शक्तिं मायाम् अवलम्ब्य सृष्ट्यारम्भे ब्रह्मा
स्वयम् अविद्याम् आविर्भावितवान् इत्य् अर्थः |

विद्याविद्ये मम तनू व्द्ध्य् उद्धव शरीरिणाम् |
बन्ध-मोक्ष-करी आद्ये मायया मे विनिर्मित्ते || [ ११.११.३] इत्य् उक्तत्वात्
|

अनयोर् आविर्भाव-भेदश् च श्रूयते | तत्र पूर्वस्याः पाद्मे श्री-कृष्ण-
सत्यभामा-संवादीय-कार्त्तिक-माहात्म्ये देव-गण-कृत-माया-स्तुतौ -

इति स्तुतवन्तस् ते देवास् तेजो-मण्डल-संस्थितम् |
ददृशुर् गगने तत्र तेजो-व्याप्त-दिग्-अन्तरम् ||
तन्-मध्याद् भारतीं सर्वे शुश्रुवुर् व्योम-चारिणीम् |
अहम् एव त्रिधा भिन्ना तिष्ठामि त्रिविधैर् गुणैः || इत्य् आदि ||

उत्तरस्याः पाद्मोत्तर-खण्डे असङ्ख्यं प्रकृति-स्थानं निविड-ध्वान्तम्
अवययम् इति || श्री-भगवान् ब्रह्माणम् ||१६||

[१७]

अथ स्वरूप-भूताख्याम् अन्तरङ्गां शक्तिं सर्वस्यापि प्रवृत्त्य्-
अन्यथानुपपत्त्या तावद् आह द्वाभ्याम् -

यन् न स्पृशन्ति न विदुर् मनो-बुद्धीन्द्रियासवः |
अन्तर् बहिश् च विततं व्योमवत् तन् नतोऽस्म्य् अहम् || [ ६.१६.२३]

देहेन्द्रिय-प्राण-मनो-धियोऽमी
यद्-अंश-बिद्धाः प्रचरन्ति कर्मसु |
नैवान्यदा लोहम् इवाप्रतप्तं
स्थानेषु तद्-द्रष्ट्र्-उपदेशम् एति || [ ६.१६.२४]

टीका च - यद् ब्रह्म व्योमवद् विततम् अपि असवः प्राणाः क्रियाशक्त्य न
स्पृशन्ति, मन-आदीनि च ज्ञान-शक्त्या न विदुः, तद् ब्रह्म नतोऽस्मि | तेषं
तज्-ज्ञाने हेतुम् आह | देहेन्द्रियादयोऽमी यद्-अंश-बिद्धा यच्-
चैतन्यांशेनाविष्टाः सन्तः कर्मसु स्वस्वविषयेषु प्रचरन्ति | यथा
अप्राप्तं लोहं न दहति | अतो यथा लोहम् अग्नि-शक्त्यैव दाहकं सत् अग्निं
न दहति, एवं ब्रह्म-गत-ज्ञान-क्रिया-शक्तिभ्यां प्रवर्तमाना देहादयस्
तन् न स्पृशन्ति न विदुश् चेति भावः | इत्य् एषा |

अत्राद्वैत-शारीरकेऽपि साङ्ख्यम् आक्षिप्योक्तम्, यथा - अथ पुनः साक्षि-
निमित्तम् ईक्षितृत्वं प्रधानस्य कल्प्येत यथाग्नि-निमित्तम् अयः-पिण्डादेर्
दग्धृत्वं, तथा सति यन् निमित्तम् ईक्षिततृत्वं प्रधानस्य, तद् एव
सर्वज्ञं मुख्यं जगतः कारणम् इति [Śअङ्कर-भाष्य, १.१.५] |

श्रुतिश् चात्र -

तम् एव भान्तम् अनुभाति [ २.२.१५]

को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात्, चक्षुषश्
चक्षुरूत श्रोत्रस्य श्रोत्रम् इत्य् आद्या | [Tऐत्त्U २.७]

अथ प्रकृतस्यावशिष्टता टीका -जीवस् तर्हि दष्टृत्वाज् जानातु, नेत्य् आह
स्थानेषु जाग्रद्-आदिषु द्रष्ट्र्-अपदेशं द्रष्टृ-संज्ञां तद् एवैति प्राप्नोति
| नान्यो जीवो नामास्ति नान्योऽतोऽस्ति द्रष्टेत्यादि श्रुतेः [BAU ३.१७.२३] | यद् वा
द्रष्ट्र्-अपदेशं द्रष्टृ-संज्ञं जीवम् अपि तदैवेति जानाति, न तु जीवस् तज्-
जानातीत्य् अर्थः इत्य् एषा |

तद् उक्तम् -

त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रय इति | [ २.१०.९]

श्रुतौ च - जीवो नामातोऽन्यः स्वयं सिद्धो नास्ति परन्तु तदात्मक एवेत्य्
अर्थः | तथातोऽन्यो द्रष्टा नास्ति, सर्व-द्रष्टुस् तस्यापरो द्रष्टा नास्तीत्य्
अर्थः इति व्याख्येयम् ||

श्री-नारदश् चित्रकेतुम् ||१७||

[१८]

किं च -

देहोऽसवोऽक्षा मनवो भूतमात्रा
नात्मनम् अन्यं च विदुः परं यत् |
सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो
न वेद सर्वज्ञम् अनन्तम् ईडे || [ ६.४.२५]

देहश् चासवश् च प्राणा अक्षाणीन्द्रियाणि च, मनवोऽन्तःकरणानि, भूतानि
च, मात्राश् च तन्-मात्राणि, आत्मानं स्व-स्वरूपम्, अन्यं स्वस्वविषय-
वर्गं, तयोः परं देवता-वर्गं च न विदुः | पुमान् जीवस् तु सर्वम्
आत्मानं स्व-स्वरूपं, तद् अन्यं प्रमातारं, तयोः पदं देहाद्य्-अर्थ-
जातं तद्-अधिष्ठातृ-देवता-वर्गं च वेद, तथा देहादि-मूल-भूतान्
गुणांश् च सत्त्वादीन् वेद |

तत्-तज्-ज्ञोऽप्य् असौ यं सर्वज्ञं देहादिजीवान्ताशेष-ज्ञातारं न वेद तम्
अनन्तं महद्-गुणत्वाद् यम् अनन्तम् आहुर् [ १.१८.१९] इति | अतएव हि यत्र
हि द्वैतम् इव भवति तद् इतर इतरं पश्यतीत्य् आरभ्य [BAU ४.५.१५]
जीवस्येतर-दृष्टत्वम् उक्त्वा, यत्र स्वस्य सर्वम् आत्मैवाभूत् तत् केन कः
पश्येद् इत्य् आदिना तस्य परमात्म-द्रष्टृत्वं निषिध्य परमात्मनस् तु तत्
तत् सर्व-द्रष्टृत्वं स्व-द्रष्टृत्वम् अप्य् अस्तीति, विज्ञातारम् अरे केन
विजानीयाद् इत्य् [BAU २.४.१४] अनेनाह |

अयम् अर्थः | यत्र माया-वैभवे द्वैतम् इव भवति, तन् मूलकत्वात् तद्
अनन्यद् अपि मायाख्याचिन्त्य-शक्ति-हेतुकतया जड-मलिन-नश्वरत्वेन तद्-
विलक्षणतया समादितं ततः स्वतन्त्र-सत्ताकम् इव मुहुर् जायते, तत् तत्र
इतरो जीव इतरं पदार्थं पश्यति, तस्य करण-दृश्ययोर् मिथो योग्यत्वाद् इति
भावः | यत्र तु स्वरूप-वैभवे तस्य जीवस्य रश्मि-स्थानीयस्य मण्डल-
स्थानीयो य आत्मा परमात्मा, स एव स्वरूप-शक्त्या सर्वम् अभूत्,
अनादितएव भवन्न् आस्ते, न तु तत्-प्रवेशेन, तत् तत्र इतरः स जीवः
केनेतरेण करण-भूतेन कं पदार्थं पश्येत्, न केनापि कम् अपि पश्येद्
इत्य् अर्थः | न हि रश्मयः स्व-शक्त्या सूर्य-मण्डलान्तर्गत-वैभवं
प्रकाशयेयुर् न चार्चिषो वह्निं निर्दहेयुर् इति भावः | तद् एवं सति यस्य
खल्व् एवम् अनन्तं स्वरूप-वैभवं तं विज्ञातारं सर्वज्ञं
परमात्मानं केनेतरेण करणेन विजानीयात् न केनापीत्य् अर्थः | तद् एवं
ज्ञान-शक्तौ तत्र सिद्धायां क्रियेच्छा-शक्ती च लक्ष्येते || दक्षः श्री-
पुरुषोत्तमम् ||१८||

[१९]

वशीकृत-मायत्वेनापि ताम् आह -

स त्वं हि नित्य-विजितात्म-गुणः स्व-धाम्ना
कालो वशी-कृत-विसृज्य-विसर्ग-शक्तिः | इति [ ७.९.२२]

स्व-धाम्ना चिच्-छक्त्या | यतः कालो माया-प्रेरकः इति टीका च | आत्मा त्व्
अत्र जीवः, तस्य गुणाः सत्त्वादयः, सत्त्वं रजस् तम इति गुणा जीवस्य नैव
मे
इत्य् [ ११.२५.१२] उक्तत्वात् || प्रह्लादः श्री-नरसिंहम् ||१९||

[२०]

तथा च -
करोति विश्व-स्थिति-संयमोदयं
यस्येप्सितं नेप्सितम् ईक्षितुर् गुणैः |
माया यथायो भ्रमते तद्-आश्रयं
ग्राव्णो नमस् ते गुण-कर्म-साक्षिणे || [ ५.१८.३८]

टीका च - यस्येक्षितुर् जीवार्थम् ईप्सितम् | अत्यन्तानिच्छायाम् ईक्षणायोगात्
| स्वार्थं तु नेप्सितम् | विश्व-स्थित्य्-आदि-स्व-गुणैर् माया करोति | तस्या
जडत्वेऽपीश्वर-सन्निधानात् प्रवृत्ति-दृष्टान्तेनाह, यथायो लोहं
ग्राव्णोऽयस्कान्तान् निमित्ताद् भ्रमति | तद्-आश्रयं तद्-अभिमुखं सत् |
गुणानां कर्मणां च जीवादृष्टानां साक्षिणं तस्मै नमः इत्य् एषा || भूः
श्री-वराह-देवम् ||२०||

[२१]

अथ माया-शक्ति-शावल्ये कैवल्यानुपपत्तेः कैवल्येऽप्य् अनुभवाभावे तद्-
आनन्दस्यार्थतानुपपत्तेश् चान्यथानुपपत्ति-प्रमाणतस् ताम् एवाह -

त्वम् आद्यः पुरुषः साक्षाद्
ईश्वरः प्रकृतेः परः |
मायां व्युदस्य चिच्-छक्त्या
कैवल्ये स्थित आत्मनि || [ १.७.२३]

त्वं साक्षात् स्वयम् एवाद्यः पुरुषो भगवान् | तथा य ईश्वरः अन्तर्याम्य्-
आख्यः पुरुषः सोऽपि त्वम् एव | तद् एवम् उभयस्मिन्न् अपि प्रकाशे प्रकृतेः
परस्तद्-असङ्गी |

ननु कथं केवलानुभवानन्दस्यापि तद्-अनुभवित्वं यतो भगवत्वम्
अपि लक्ष्यते, कथं चेश्वरत्वात् प्रकृत्य्-अधिष्ठातृत्वेऽपि तद्-असङ्गित्वम् |
तत्राह, मायां व्युदस्येति | अव्यभिचारिण्या स्वरूप-शक्त्या ताम् आभास-
शक्तिं दूरे विधाय तथैव स्वरूप-शक्त्या कैवल्ये ---

परावराणां परम आस्ते कैवल्य-संज्ञितः |
केवलानुभवानन्द-सन्दोहो निरुपाधिकः || [ ११.९.१८]

इत्य् एकादशोक्त-रीत्या कैवल्याख्ये केवलानुभवानन्दे आत्मनि स्व-स्वरूपे
स्थितः अनुभूत-स्वरूप-सुख इत्य् अर्थः | तद् उक्तं षष्ठे देवैर् अपि --
स्वयम् उपलब्ध-निज-सुखानुभवो भवान् इति [ ६.९.३३] |

सन्दोह-शब्देन चैकादशे वैचित्री दर्शिता, सा च शक्ति-वैचित्र्याद् एव
भवतीति | अतएवम् अस्त्य् एव स्वरूप-शक्तिः | प्रकृतिर् नामात्र मायायास्
त्रैगुण्यम् | एवम् एव शक्ति-त्रय-विवृतिः स्वामिभिर् एव दर्शिता | तथा हि श्री-
देवहूति-वाक्ये --

परं प्रधानं पुरुषं महान्तं
कालं कविं त्रि-वृतं लोक-पालम् |
आत्मानुभूत्यानुगत-प्रपञ्चं
स्वच्छन्द-शक्तिं कपिलं प्रपद्ये || [ ३.२४.३३] इत्य् अत्र |

परं परमेश्वरम् | तत्र हेतुः स्वच्छन्दाः शक्तयो यस्य | ता एवाह,
प्रधानं प्रकृति-रूपं, पुरुषं तद्-अधिष्ठातारं, महान्तं महत्-
तत्त्व-स्वरूपं, कालं तेषां क्षोभकं, त्रिवृत्म् अहङ्कार-भूतं,
लोकात्मकं तत्-पालात्मकं च | तद् एवं मायया प्रधानादि-रूपताम् उक्त्वा
चिच्-छक्त्या निष्प्रपञ्चताम् आह | आत्मानुभूत्या चिच्-छक्त्यानुगतः स्वस्मिन्
लीनः प्रपञ्चो यस्य तं, कविं सर्वज्ञं प्रधानाद्याविर्भाव-साक्षिणम्
इत्य् अर्थः इति |

अत्र पुरुषस्यापि मायान्तःपातित्वं तद्-अधिष्ठातृतयोपचर्यत एव | वस्तुतस्
तस्य तु तस्याः परत्वम् | तथा श्री-कपिल-देव-वाक्ये --

अनादिर् आत्मा पुरुषो निर्गुणः प्रकृतेः परः |
प्रत्यग्-धामा स्वयं-ज्योतिर् विश्वं येन समन्वितम् || [ ३.२६.३] इति

नाम-स्वरूपयोर् निरूपणेन महा-संहितायाम् अपि विविक्तं तत् त्रि-शक्ति -

श्रीर् भूर् दुर्गेति या भिन्ना जीव-माया महात्मनः |
आत्म-माया तद्-इच्छा स्यात् गुण-माया जडात्मिका || इति [?]
अस्यार्थः | श्रीर् अत्र जगत्-पालन-शक्तिः, भूस् तत्-सृष्टि-शक्तिः, दुर्गा तत्-
प्रलय-शक्तिः | तत्-तद्-रूपेन या भेदं प्राप्ता, सा जीव-विषया तच्-छक्तिर्
जीव-मायेत्य् उच्यते | पाद्मे श्री-कृष्ण-सत्यभामा-संवादे -

अहम् एव त्रिधा भिन्ना तिष्ठामि त्रिविधैर् गुणैर् इत्य् एतद्-वाक्यानन्तरं

ततः सर्वेऽपि ते देवाः श्रुत्वा तद्-वाक्य-चोदिताः |
गौरीं लक्ष्मीं धरां चैव प्रणेमुर् भक्ति-तत्-पराः || इति ||

एकादशे च -

एषा माया भगवतः सृष्टि-स्थित्य्-अन्तकारिणी |
त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि || इति || [ ११.३.१६]

आत्म-माया स्वरूप-शक्तिः | मीयतेऽनयेति माया-शब्देन शक्ति-मात्रम् अपि
भण्यते -

तस्यां तमोवन् नैहारं खद्योतार्चिर् इवाहनि |
महतीतरमायैश्यं निहन्त्य् आत्मनि युञ्जत || इति [ १०.१३.४५]

ब्रह्म-वाक्यं तथैव सङ्गच्छते | शक्ति-मात्रस्य तारतम्यं हि तत्र
विवक्षितम् | स्वल्पा शक्तिः खल्व् अनृतस्य सत्यस्य वा व्यञ्जिका भवतु नाम
| पराभवाय कल्पत एवेति हि तत्र गम्यते | दृष्टान्ताभ्यां च तथैव
प्रकटितं तस्यां तमोवद् इत्यादिभ्याम् | तथा युद्धेष मायामय-
शस्त्रादिना बहवश् छिन्न-भिन्ना जाता इति पुराणादिषु श्रूयते |

ततः सा च माया मिथ्याकल्पिका च भवतीति गम्यते | न हि मरु-मरीचिका-
जलेन केचिद् आर्द्रा भवन्तीति |

स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः |
अतो मायामयं विष्णुं प्रवदन्ति सनातनम् || इति चतुर्वेद-शिखाद्या श्रुतिश्
च |

ततश् च - आत्म-माया तद्-इच्छा स्यात् इत्य् अत्र ज्ञान-क्रिये अपि लक्ष्येते | माया
वयुनं ज्ञनम् इति निघण्टौ च पर्याय-शब्दाः |

त्रिगुणात्मिकाथ ज्ञानं च विष्णु-शक्तिस् तथैव च |
माया-शब्देन भण्यते शब्द-तत्त्वार्थ-वेदिभिः || इति त्रिकाण्ड-शेषे |

माया दम्भे कृपायां चेति विश्व-प्रकाशे | व्याख्यातं च टीका-कृद्भिर्
एकादशे कालो माया-मये जीवे इत्य् अत्र [ ११.२४.२७] माया-प्रवर्तके ज्ञान-
मये वा इति | तृतीयेऽपि आपुः परां मुदम् इत्य् आदौ [ ३.१५.२६] योग-माय-
शब्देन सनकादाव् अष्टाङ्ग-योग-प्रभावं व्याख्याय परमेश्वरे तु चिच्-
छक्ति-विलासो व्याख्यातः |

ततस् त्रिभेदैवात्म-मायेति सिद्धम् | यथा वा - त्वम् आद्यः पुरुषः [
१.७.२३] इत्य् आदि-मूल-पदाम् एवम् अवतार्यम् | श्री-वैकुण्ठे मायं
निषेधन्न् अपि साक्षात् ताम् एवाह त्वम् आद्य इति | कैवल्ये मोक्षाख्ये श्री-
वैकुण्ठ-लक्षणे आत्मनि स्वांश एव स्थितः | किं कृत्वा ? तत्राति-
विराजमानया चिच्-छक्त्या मायां दूरे स्थिताम् अपि तिरस्कृत्यैव | मतं
चैतम्मायादिकं निषेधता श्री-शुकदेवेन |

प्रवर्तते यत्र रजस् तमस् तयोः
सत्त्वं च मिश्रं न च काल-विक्रमः |
न यत्र माया किम् उतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः || [ २.९.१०] इति |

मोक्सं परं पदं लिङ्गम् अमृतं विष्णु-मन्दिरम् | इति पाद्मोत्तर-खण्डे
विअकुण्ठ-पर्याय-शब्दाः || अर्जुनः श्री-भगवन्तम् ||२१||

[२२]

अत ऊर्ध्वं गुणादीनां स्वरूपात्मता-निगमनात् स्वरूप-शक्तिर् एव पुनर्
अपि विव्रियते यावत् सन्दर्भ-समाप्तिः |[३] तत्र गुणानां
स्वरूपात्मताम् आहुः |

स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन्
भजति सरूपतां तद् अनु मृत्युम् अपेत-भगः |
त्वम् उत जहासि ताम् अहिर् इव त्वचम् आत्त-भगो
महसि महीयसेऽष्ट-गुणितेऽपरिमेय-भगः ||[ १०.८७.३८]

टीका च - स तु जीवो यद् यस्मात् अजया मायया अजाम् अविद्याम् अनुशयीत
आलिङ्गेत् | ततश् च गुणांश् च देहेन्द्रियादीन् जुषन् सेवमानः आत्मतया
अध्यस्यन् | तद् अनु तद्-अनन्तरं सरूपतां तद्-धर्म-योगं च जुषन् अपेत-
भगः पिहितानन्दादि-गुणः सन् मृत्युं संसारं भजति प्राप्नोति | त्वम् उत
त्वं तु जहासि तां मायाम् |

ननु सा मय्य् एवास्ति कथं त्यागस् तत्राह अहिर् इव त्वचम् इति | अयं भावः -
-यथा भुजङ्गः स्वगतम् अपि कञ्चुकं गुण-बुद्ध्या नाभिमन्यते तथा
त्वम् अजां मायां | न हि निरन्तराह्लाद-संवित्-कामधेनु-वृन्द-पतेर् अजया
कृत्यम् इति ताम् उपेक्षसे |

कुत एतत् तद् आह | आत्म-भग-नित्य-प्राप्तैश्वर्यः | महसि परमैश्वर्ये
अष्ट-गुणिते अणिमाद्य्-अष्ट-विभूतिमति | महीयसे पूज्यसे विराजसे |

कथम्भूतः ? अपरिमेय-भगः अपरिमेयैश्वर्यः | न त्व् अन्येषाम् इव
देश-काल-परिच्छिन्नं तवाष्ट-गुणितम् ऐश्वर्यम् | अपि तु परिपूर्ण-
स्वरूपानुबन्धित्वाद् अपरिमितम् इत्य् अर्थः | इत्य् एषा |

तथा च तत्रैव पूर्वम् उक्तं - त्वम् असि यद् आत्मना समवरुद्ध-समस्त-
भग इति [ १०.८७.१४] | यद् वा अहिर् इव त्वचम् इत्य् अत्र त्वक्-शब्देन
परित्यक्ता जीर्ण-त्वग् एवोच्यते | स यथा तां जहातीति तत्-समीपम् अपि न
व्रजति, तथा त्वम् अपि माया-समीपं न यासीत्य् अर्थः |

अन्यत्र च -

विशुद्ध-विज्ञान-घनं स्व-संस्थया
समाप्त-सर्वार्थम् अमोघ-वाञ्छितम् || इति [ १०.३७.२२] |

तथोद्धवं प्रति श्री-भगवद्-वाक्यं -

सिद्धयोऽष्टादश प्रोक्ता धारणा योग-पारगैः |
तासाम् अष्टौ मत्-प्रधाना दशैव गुण-हेतवः || [ ११.१५.३] इति |

अग्रे च - एता मे सिद्धयः सौम्य अष्टाव् औत्पत्तिका मताः | इति [ ११.१५.५]
|

अतएव दैत्य-बालकान् प्रति श्री-प्रह्लाद-वाक्यम् --

केवलानुभवानन्द-स्वरूपः परमेश्वरः |
माययान्तर्हितैश्वर्य ईयते गुण-सर्गया ||[ ७.६.२०]

टीका च - ननु स एव चेत् सर्वत्र तर्हि सर्वत्र सर्वज्ञताद्य् उपलभ्यते |
तत्राह - गुणात्मकः सर्गो यस्यास् तया मायया अन्तर्हितम् ऐश्वर्यं येन
इत्य् एषा |

अत्र भगवद् ऐश्वर्यस्य माययान्तर्हितत्वेन गुण-सर्गयेति मायाया
विशेषण-विन्यासेन च तद्-अतीतत्वं बोधयति स्वरूपवत् | अतः परमेश्वर
इति विशेषणम् अपि तत्-सहयोगेन पूर्वम् एव दत्तम् इति ज्ञेयम् | श्रुतयश् -

अजाम् एकां लोहित-शुक्ल-कृष्णां
वह्वीः प्रजाः सृजमानां सरूपाः |
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः || [Śवेत्U ४.५]
यद्-आत्मको भगवांस् तद्-आत्मिका व्यक्तिः | किम् आत्मको भगवान् ?
ज्ञानात्मक ऐश्वर्यात्मकः शक्त्य्-आत्मकश् च | दैवात्म-शक्तिं स्व-गुणैर्
निगूढाम् इत्य् आद्याः [Śवेत्U १.३] | अत्र स्व-गुणैर् इति यातीतगोचरा वाचाम् इत्य्
उक्तैः स्वीय-स्वभावैर् इत्य् अर्थः || श्रुतयः श्री-भगवन्तम् ||२२||

[२३]

मां भजन्ति गुणाः सर्वे
निर्गुणं निरपेक्षकम् |
सुहृदं प्रियम् आत्मानं
साम्यासङ्गादयोऽगुणाः || [ ११.१३.४०]

टीका च - कथम्भूताः ? अगुणाः, गुण-परिणाम-रूपा न भवन्ति किन्तु
नित्या इत्य् अर्थः | इत्य् एषा |

तथा च नारद-पञ्चरात्रे जितं ते स्तोत्रे -

नमः सर्व-गुणातीत-षड्-गुणायादि-वेधसे | इति |

यद् उक्तं ब्रह्म-तर्के -

गुणैः स्व-रूप-भूतैस् तु गुण्य् असौ हरिर् ईश्वरः |
न विष्णोर् न च मुक्तानां क्वापि भिन्नो गुणो मतः ||

कालिका-पुराणे देवी-कृत-विष्णु-स्तवे -

यस्य ब्रह्मादयो देवा मुनयश् च तप-धनाः |
न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ||
स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो |
नैव जानन्ति यद् रूपं सेन्द्रा अपि सुरासुराः || इति ||

श्री-हंस-देवः सनकादीन् ||२३||

[२४]

अन्यत्र श्री-हंस-वाक्य-स्थितादि-ग्रहण-क्रोडी-कृतान् तान् बहून् एव सत्यं
शौचम् इत्य् आदिभिर् गणयित्वाह -

एते चान्ये च भगवन्
नित्या यत्र महा-गुणाः |
प्रार्थ्या महत्त्वम् इच्छद्भिर्
न वियन्ति स्म कर्हिचित् || [ १.१६.२६]

टीका च - एते एकोनचत्वारिंशत् | अन्ये च ब्रह्मण्यत्व-शरण्यत्वादयो
महान्तो गुणा यस्मिन् नित्याः सहजा न वियन्ति न क्षीयन्ते स्म | इत्य् एषा |

अत्र श्री-विष्णु-पुराणम् -

कला-मुहूर्तादि-मयश् च कालो
न यद्-विभूतेः परिणाम-हेतुः || इति [ ४.१.८४] |

श्री-पृथिवी श्री-धर्मम् ||२४|

[२५]
अत एव आह -

नमस् तुभ्यं भगवते
ब्रह्मणे परमात्मने |
न यत्र श्रूयते माया
लोक-सृष्टि-विकल्पना || [ १०.२८.६]

यत्र भगवद्-आदित्वेन त्रिधैव स्फुरति स्वरूपे माया न श्रूयते | तस्य
तथा तथा स्फूर्तिर् मायया न भवतीत्य् अर्थः | तत्र हेतुः - लोक-सृष्टाव्
एव विकल्पितुं सृष्टि-स्थिति-संहारैर् विविधम् ईशितुं शीलं यस्याः सा | अतएव
भूगोल-प्रश्ने हेतुत्वेन राज्ञाप्य् उक्तम् --

भगवतो गुणमये स्थूल-रूप आवेशितं मनो ह्य् अगुणेऽपि सूक्ष्मतम
आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षमम् आवेशितुम् इति
[ ५.१६.३] |
वरुणः श्री-भगवन्तम् ||२५||

[२६]

तथा -

तस्मै नमो भगवते वासुदेवाय धीमहि |
यन्-मायया दुर्जयया मां वदन्ति जगद्-गुरुम् ||
विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया |
विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः || [ २.५.१२-१३]

तम-आदिमयत्वेन स्वस्य सदोषत्वात्, सच्चिदानन्द-घनत्वेन यस्य
निर्दोषस्य नेत्र-गोचरे विलज्जमानया अमुषा मायया विमोहिता अस्मद्-आदयो
दुर्धियः || श्री-ब्रह्मा श्री-नारदम् ||२६||

[२७]

तद् एवम् ऐश्वर्यादि-षट्कस्य स्वरूप-भूतत्वम् उक्त्वा, श्री-विग्रहस्य
पूर्ण-स्वरूप-भूतत्वं वक्तुं प्रकरणम् आरभ्यते | तत्र तस्य तादृशत्व-
सचिवं नित्यत्वं तावत् पूर्व-दर्शित-तादृश-वैकुण्ठाधिष्ठातृत्वेन
सिद्धम् एव | प्रपञ्चावतीर्णत्वेऽप्य् आह त्रिभिः -

नष्टे लोके द्वि-परार्धावसाने
महा-भूतेष्व् आदि-भूतं गतेषु |
व्यक्तेऽव्यक्तं काल-वेगेन याते
भवान् एकः शिष्यतेऽशेष-संज्ञः || [ १०.३.२५]
अतः शेष-संज्ञः | तत्र युक्तिः -

योऽयं कालस् तस्य तेऽव्यक्त-बन्धो
चेष्टाम् आहुश् चेष्टते येन विश्वम् |
निमेषादिर् वत्सरान्तो महीयांस्
तं त्वेशानं क्षेम-धाम प्रपद्ये || [ १०.३.२६]

हे अव्यक्त-बन्धो सान्निध्य-मात्रेण प्रकृति-प्रवर्तक चेष्टा
निमेषोन्मेष-रूपाम् | श्रुतिश् च - सर्वे निमेषा जज्ञिरे विद्युतः
पुरुषादधीति [Mअहा-नारायणU १.८] | सर्वे निमेषादयः कालावयवाः
विशेषेण द्योतते विद्युत् | पुरुषः परमात्मेति श्रुति-पदार्थः | सर्वत्र
सृष्टि-संहारयोर् निमित्तं काल एव, तस्य तु तद्-अङ्ग-चेष्टा-रूपत्वात् तौ
तत्र न सम्भवत एवेति भावः | तत्र हेत्व्-अन्तरं क्षेम-धामेति | त्वा
त्वाम् |

अत्र स्वाभीष्टात् तस्माद् आविर्भावाद् एव कंस-भयं कैमुत्येन वारितवती
| तथैव स्पष्टं पुनर् आह --

मर्त्यो मृत्यु-व्याल-भीतः पलायन्
लोकान् सर्वान् निर्भयं नाध्यगच्छत् |
त्वत्-पदाब्जं प्राप्य यदृच्छयाद्य
स्वस्थः शेते मृत्युर् अस्माद् अपैति || [ १०.३.२७]

लोकान् प्राप्य निर्भयं भयाभावम् | त्वत्-पादाब्जं तु प्राप्येत्य्
उभयत्राप्य् अन्वयः | अत्र त्वत्-पादाब्जम् इति श्री-विग्रहम् एव तथापि
विस्पष्टं साधितवती | अतएवामृत-वपुर् इति सहस्र-नाम-स्तोत्रे | मृतं
मरणं तद्-रहितं वपुर् अस्येत्य् अमृत-वपुर् इति शङ्कर-भाष्येऽपि | आद्येति
जन्माभावोऽपि दर्शितः, सजन्मनि सर्वत्र सादित्वअस्यैव सिद्धेः | तद् उक्तम्
- प्रादुरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः | इति | [ १०.३.८]

श्रुतिश् चात्र - स ब्रह्मणा सृजति स रुद्रेण विलापयति सोऽनुत्पत्तिर् अलय एव
हरिः परः परमानन्द इति महोपनिषदि[४] ||

श्रीदेवकी-देवी श्री-भगवन्तम् ||२७||

[२८]

तथा उत्पत्ति-स्थिति-लयेत्य्-आदि-पद्ये - यद् रूपं ध्रुवम् अकृतम् इति | [
५.२५.९]

यस्य श्री-सङ्कर्षणस्य रूपं ध्रुवम् अनन्तं अकृतं चानादि | अतएव
वर्षाधिपोपासना-वर्णने भवेनापि तद्-रूपम् अधिकृत्योक्तम् --

न यस्य माया-गुण-चित्त-वृत्तिभिर्
निरीक्षतो ह्य् अण्व् अपि दृष्टिर् अज्यते | इति [ ५.१७.१९]

यत् तु तत्र तद् एव रूपम् अधिकृत्य श्री-शुकेन - या वै कला भगवतस्
तामसीति [ ५.२५.१] | तथा भवानीनाथैर् इति गद्ये [ ५.१७.१६] तामसीं
मूर्तिम् इत्य् उक्तम्, तन् निजांश-शिव-द्वारा तमो-गुणोपकारकत्वेन ज्ञेयम्
| उत्पत्ति-स्थिति-लयेत्य्-आदि-पद्यानन्तरं श्री-शुकेनैव श्री-नारद-वाक्यम्
अनुक्तम् -- मूर्तिं न पुरु-कृपया बभार सत्त्वं संशुद्धं सदसद् इदं
विभाति यत्र | [ ५.२५.१०] | तस्मान् नित्यम् एव सर्वं भगवद्-रूपम् |

तथा च पाद्मोत्तर-खण्डे तत्-स्तुतिः - अनादि-निधनानन्त-वपुषे विश्व-
रूपिणे | इति |

यद् अत्र स्कान्दादौ क्वचिद् भ्रामकम् अस्ति तत् तु तत् तत् पुराणानां तामस-
कल्प-कथामयत्वात् तत्-तत्-कल्पेषु च भगवता स्व-महिमावरणाद्
युक्तम् एव तद् इति | श्री-भागवतेनापि - एवं वदन्ति राजर्षे [ १०.७७.३०]
इत्य् आदिना तादृशं मतं न मतम् | तद् इदं तु श्री-कृष्ण-सन्दर्भे विशिष्य
स्थापयिष्यामः | स्व-मतं तु - सत्यं शौचं दया क्षान्तिर् इत्य् आदिना [
१.१६.२७] श्री-पृथिवी-वाक्येन कान्ति-मह-ओजो-बलानाम् अपि स्वाभाविकत्वम्
अव्यभिचारित्वं दर्शयता दर्शितम् | नष्टे लोक[५] इत्य् आदिना
[ १०.३.२५] श्री-देवकी-वाक्येन च | तस्मात् साधूक्तं यद् रूपं ध्रुवम्
अकृतम् इति || श्री-शुकः ||२८||

[२९]

विभुत्वम् आह -

न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् |
पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ||
तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् |
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा || [ १०.९.१३-१४]

टीका च - बन्धनं हि बहिः-परीतेन दाम्ना अन्तरावृतस्य भवति | तथा
पूर्वापर-विभागवतो वस्तुनः पूर्वतो दाम धृत्वा परतः परिवेष्टनेन
भवति | न त्व् एतद् अस्तीत्य् आह न चान्तर् इति | किं च व्यापकेन व्याप्यस्य
बन्धो भवति | तच् चात्र विपरीतम् इत्य् आह पूर्वापरम् इति | किं च तद्-
व्यतिरिक्तस्य चाभावान् न बन्ध इत्य् आह - जगच् च यः इति | तं मर्त्य-
लिङ्गम् अधोक्षजम् आत्मजं मत्वा बबन्धेति | इत्य् एषा ||

जगच् च य इत्य् अत्र यस्य कारणस्य व्यतिरेकेण कार्यस्य जगतो व्यतिरेकः
स्याद् इति | तद् अनन्यस्य जगतस् तच्-छक्त्येव शक्तेस् तद्-अंशांश-रूपया रज्ज्वा
कथं बन्धः स्यात् | न हि वह्निम् अर्चिषो दहेयुर् इति भावः |

तं मर्त्य-लिङ्गम् इत्य् आदौ | टीका-कृताम् अयम् अभिप्रायः | ननु सर्व-
व्यापकं कथं बबन्ध, न हि ब्रह्माण्ड-गोलकादिकम् अपि कश्चिद्
बध्नाति | तत्राह मर्त्य-लिङ्गं मनुष्य-विग्रहम् | तर्हि कथं
व्यापकत्वम् ? तत्राह, अधोक्षजम् अधः कृतम् इन्द्रियजं ज्ञानं येन तं
सर्वेन्द्रिय-ज्ञानागोचरं प्रत्यक्षादि-प्रमाणैर् अचिन्त्य-स्वरूपम् इत्य् अर्थः
| तस्मात् तद्-आकारत्वेऽपि तस्मिन् विभुत्वम् अस्त्य् एवेति भावः | अधोक्षजत्वाद्
एवाव्यक्तत्वम् अपि व्याख्यातम् इति तन् नोद्धृतम् |

ननु मनुष्य-विग्रहत्वेऽप्य् अपरित्यक्त-विभुत्वं कथं मातुर् नास्फुरत्
? तत्राह - आत्मजं मत्वेति | वत्सलाद्य्-अभिध-प्रेम-रस-विशेषस्य
स्वभावोऽयम् | यद् असौ स्वानन्द-पूरेण तस्य तादृशत्वं प्रत्य् अनुभव-
पद्धतिम् आवृणोतीत्य् अर्थः | इत्थं चातद्-वीर्य-कोविदत्वं तस्या
माहात्म्यम् एव तं रज्जुभिर् बद्धम् अपि कर्तुस् तस्य प्रेम-
रसस्यानुभाव-रूपत्वात् | तद् उक्तम् -- नेमं विरिञ्चो न भव इत्य् आदि [
१०.९.२०] | प्राकृतं यथा इत्य् अनेन अधोक्षजम् इत्य् अनेन च, वस्तुनो
व्यापकत्वं मायया तु मर्त्य-लिङ्गत्वम् इत्य् अपि परिहृतम् |

यद् धि तर्क-गोचरो भवति, तत्रैव कदाचिद् असम्भव-रीति-दर्शनेन
साभ्युपगम्यते, यत् तु स्वत एव तद्-अतीतं, तत्र तत्-स्वीकृतिर् अतीव-
मूर्खता | यथा बाडव-नाम्नो वह्नेर् जल-निधि-मध्य एव
देदीप्यमानतायाम् ऐन्द्रजालिकत्ता-स्वीकरणम् | श्रुतिश् च - अर्वाग् देवा अस्य
विसर्जनेनाथ को वेद यत आबभूवेत्य् आद्या |

किं च यद् गतं बन्धनं तस्य श्री-विग्रहस्यैव व्यापकत्वं विवक्षितं
यत्तदोः [?] सामानाधिकरण्यात् तस्यास् तत्राकोविदत्वोपपादनत्वाच् च | तत्र
विग्रहत्वं परिच्छिन्नायाम् एव सम्भवति | कर-चरणाद्य्-आकार-सन्निवेशात्
| तस्माद् अस्यैव तस्मिन् परिच्छिन्नत्वं विभुत्वं च युगपद् एव | मूल-
सिद्धान्त एव परस्पर-विरोधि-शक्ति-शत-निधानत्वं तस्य दर्शितम् |
दृश्यतेऽपि लोके त्रिदोषघ्न-महौषधीनां तादृशत्वम् |

तथैव विभुत्वम् उक्तं ब्रह्म-संहितायां -

पन्थास् तु कोटि-शत-वत्सर-संप्रगम्यो
वायोर् अथापि मनसो मुनि-पुङ्गवानाम् |
सोऽप्य् अस्ति यत्-प्रपद-सीम्न्य् अविचिन्त्य-तत्त्वे
गोविन्दम् आदि-पुरुषं तम् अहं भजामि || इति [Bरह्मS ५.४०] ||

श्रुतिश् च मध्व-भाष्य-प्रमाणिता - अस्थूलोऽनणुर् अमध्यमो
मध्यमोऽव्यापको व्यापको हरिर् आदिर् अनादिर् अविश्वो विश्वः सगुणो निर्गुण
इति |

तथैव नृसिंह-तापनी च - तुरीयम् अतुरीयम् आत्मानम् अनात्मानम् उग्रम्
अनुग्रम् वीरम् अवीरं महान्तम् अमहान्तं विष्णुम् अविष्णुं ज्वलन्तम्
अज्वलन्तं सर्वतो-मुखम् असर्वतो-मुखम् इत्य् [NTU २.३] आदिका |

ब्रह्म-पुराणे -

अस्थूलोऽनुरूपोऽसाव् अविश्वो विश्व एव च |
विरुद्ध-धर्म-रूपेऽसाव् ऐश्वर्यात् पुरुषोत्तम || इति ||

तथैव दृष्टं श्री-विष्णु-धर्मे -

परमाण्व्-अन्त-पर्यन्त-
सहस्रांशाणु-मूर्तये |
जठरान्तायुतांशान्त-
स्थित-ब्रह्माण्ड-धारिणे || इति ||

अतः श्री-गीतोपनिषदश् च -
मया ततम् इदं सर्वं
जगद् अव्यक्त-मूर्तिना |
मत्-स्थानि सर्व-भूतानि
न चाहं तेष्व् अवस्थितः ||

न च मत्-स्थानि भूतानि
पश्य मे योगम् ऐश्वरम् |
भूत-भृन् न च भूत-स्थो
ममात्मा भूत-भावनः || इति | [ ९.४-५]

अव्यक्त-मूर्तिनेति तादृश-रूपत्वाद् बुद्धि-वैभवागोचर-स्वभाव-
विग्रहेणेत्य् अर्थः || श्री-शुकः ||२९||

[३०]

तद् एवं परिच्छिन्नस्यैव तद्-आकारस्य विभुत्वं पुनर्-विद्वद्-
अनुभ्वएनोक्त-न्यायेन दर्शयितुम् प्रकरणम् आरभ्यते | तत्रैकादश-
पद्यान्य् आह -

क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू-
संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः |
क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या-
वाताध्व-रोम-विवरस्य च ते महित्वम् || [ १०.१४.११]

स्पष्टम् ||

[३१]

उत्क्षेपणं गर्भ-गतस्य पादयोः
किं कल्पते मातुर् अधोक्षजागमे |
किम् आस्तिनास्ति-व्यपदेश-भूषितं
तवास्ति कुक्षेः कियद् अप्य् अनन्तः || [ १०.१४.१२]

अतः सर्वस्य तव कुक्षि-गतत्वेन ममापि तथात्वान् मातृवद् अपराधः
सोढव्य इति भावः |

[३२]

किं च विशेषतस् तु त्वत्तो यज् जन्म प्रसिद्धम् इत्य् आह -

जगत्-त्रयान्तोदधि-सम्प्लवोदे
नारायणस्योदर-नाभि-नालात् |
विनिर्गतोऽजस् त्व् इति वाङ् न वै मृषा
किन्त्व् ईश्वर त्वन् न विनिर्गतोऽस्मि || [ १०.१४.१३]

तथापि त्वत् त्वत्तः किं तु नोत्पन्नोऽस्मि ह अपि तु त्वत्त एवोत्पन्नोऽस्मीत्य्
अर्थः |

[३३]

ननु यद्य् अहं प्रलयोदधि-शायी नारायणः स्यां, तर्हि मत्तस् त्वम्
उत्पन्नोऽसीत्य् अपि घटते | तत् त्व् अन्यथैवेत्य् आशङ्क्याह -

नारायणस् त्वं न हि सर्व-देहिनाम्
आत्मास्य् अधीशाखिल-लोक-साक्षी |
नारायणोऽङ्गं नर-भू-जलायनात्
तच् चापि सत्यं न तवैव माया || [ १०.१४.१४]

हे अधीश ईशस्य सर्वान्तर्यामिणो नारायणस्याप्य् उपरि वर्तमान, हे
भगवन्न् इत्य् अर्थः | हि निश्चितं स नारायणस् त्वं, नासि, किन्तु नारायणोऽसौ
तविवाङ्गम् अंशः | यद्यप्य् एवम् अथापि मम तद्-अङ्गोत्पन्नत्वाद् अङ्गिनस्
त्वत्त एवोत्पत्तिर् इति भावः | कथम् असौ नारायण उच्यते | कथं वा मम
तस्माद् वैलक्षण्यम् ? तत्रह -

योऽसौ देहिनाम् आत्मा अन्तर्यामि-पुरुषः | अतएव नारस्य जीव-समूहस्य
अयम् आश्रयो यत्रेति तस्य नारायणत्वं, साक्साद् भगवतस् तव तु तद्
अन्तर्यामितायाम् अप्य् औदासीन्यम् इति भावः | किं च, अखिल-लोक-साक्षी,
यस्मात् अखिलं लोकं साक्षात् पश्यति, तस्मात् | नारम् अयते जानातीति
नारायणोऽसौ, त्वं पुनस् तेनांशेनैव तद्-द्रष्टा, न तु साक्षाद् इति तस्माद्
विलक्षण इत्य् अर्थः | तर्हि स नारायणस् त्वं न भवसीति ममाप्य् अन्यथा
नारायणत्वम् अस्तीति भवताभिप्रेतं, तत् कथम् ? इत्य् अस्योत्तरं तेनैव
सम्बोधनेन व्यञ्जयति, अधीशेति | ईशः प्रवर्तकः |

ततश् च नारस्य अयनं प्रवृत्तिर् यस्मात् स नारायणः | ततोऽप्य्
अधिकैश्वर्याद् अधीशस् त्वम् अपि नारायणः | यथा मण्डलेश्वरोऽपि नृपतिस्
तेषाम् अधिपोऽपि नृपतिर् इति | श्री-कृष्णस्यैव साक्षात् स्वयं भगवत्त्वेन
तस्माद् अपि परत्वम् | कृष्ण-सन्दर्भे प्रबन्धेन दर्शयिष्यते |

ननु, नराज् जातानि तत्त्वानि नाराणीति विदुर् बुधाः | तस्य तान्य् अयनं पूर्वं
तेन नारायणः स्मृतः इति | तथा,

आपो नारा इति प्रोक्ता आपो वै नर-सूनवः |
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ||

इति तस्यापि नारायणत्व-मन्मथाप्रसिद्धम् इत्य् आशङ्क्याह - नर-भू-
जलायनात् तच् चापीति | नराद् उद्भूतयेऽर्थास् तथा नराज् जातं यज् जलं, तद्-
अयनात् यच् च तच् चापि नारायणत्वं भवति तर्हि कथं प्रसिद्धि-
परित्यागेनान्यथा निर्वक्षीत्य् अत आह सत्यं नेति | तत् प्रलयोदधि-जलाद्य्-
आश्रयत्वं सत्यं न, किन्तु तथा ज्ञानं तवैव मायेत्य् अर्थः | मायात्र
प्रतारण-शक्तिः, माया दम्भे कृपायां चेति विश्व-प्रकाशात् | दुर्वितर्क-
स्वरूप-शक्त्यैव परिच्छिन्नापरिच्छिन्नायास् त्वन्-मूर्तेर् जलादिभिर्
अपरिच्छेदाद् इति भावः |

श्लोक-चतुष्टयेऽस्मिन् यस्य नारायणस्यान्ततं मद्-आदिकं सर्वम् एव जगत्,
सोऽपि तवान्तर्भूत इति तात्पर्यम् | नारायणस्य तादृशत्वे मन्त्र-वर्णः -

यच् च किञ्चिज् जगत् सर्वं दृश्यते श्रूयतेऽपि वा |
अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः || इति ||

[३४]

तन्-मूर्तेर् जलादिभिर् अपरिच्छेदे स्वानुभवं प्रमाणयति ---

तच् चेज् जल-स्थं तव सज्-जगद्-वपुः
किं मे न दृष्टं भगवंस् तदैव |
किं वा सुदृष्टं हृदि मे तदैव
किं नो सपद्य् एव पुनर् व्यदर्शि || [ १०.१४.१५]

जगद्-आश्रय-भूतं नारायणाभिधं तव तद्-वपुः जलस्थम् एवेत्य् एवं
यदि सत् सत्यं स्यात् तर्हि तदैव कमल-नाल-मार्गेणान्तः प्रविश्य
संवत्सर-शतं विचिन्वतापि मया हे भगवन्न् अचिन्त्यैश्वर्य तत् किम् इति न
दृष्टम् |

यदि च तद्-वपुर् माया-मात्रं, माया स्याच् छाम्बरी-बुद्ध्योर् इति
त्रिकाण्ड-शेष-रीत्या मिथ्याभिव्यञ्जक-कला-विशेष-दर्शित-मात्रं स्यात् तर्हि
किं वा रूढ-समाधि-योग-विरूढ-बोधेन मया हृदि तदैव सुष्ठु
सच्चिदानन्द-घनत्वेन दृष्टं, समाध्य्-अनन्तरं किं वा पुनः सपद्य्
एव नो व्यदर्शि न दृष्टम् | अतस् त्वन्-मूर्तेर् मायामयत्वं देश-विशेष-
कृत-परिच्छेदश् च सत्यो न भवतीत्य् अर्थः | एतद्-व्याख्यान-निदानं
तृतीय-स्कन्धेतिहासो द्रष्टव्यः |

[३५]

अत्र तच् चापि सत्यम् इत्य् अत्र, तच् चापि अङ्गं सत्यम् एव, न तु विराड्
अवन्मायेति तच् चेज् जलस्थम् इत्य् अत्र च, तज्-जलस्थं सद्-रूपं तव वपुर् यदि
जगत् स्यात्, प्रपञ्चान्तःपाति स्यात् इति व्याकुर्वन्ति | तस्माद् एवं
नारायणाङ्गकस्य भग्वद्-विग्रहस्य विश्वोऽपि प्रपञ्चोऽन्तर्भूत इति स्वयं
भगवता दर्शितम् | श्रीमत्या जनन्यैवानुभूतम् इत्य् आह --

अत्रैव मायाधमनावतारे
ह्य् अस्य प्रपञ्चस्य बहिः-स्फुटस्य |
कृत्स्नस्य चान्तर् जठरे जनन्या
मायात्वम् एव प्रकटीकृतं ते || [ १०.१४.१६]

अत्रैव तावत् श्री-कृष्णाख्ये मायोपशमनेऽवतारे प्रादुर्भावे, बहिश्
चान्तर्-जठरे च स्फुटस्य दृष्टस्य कृत्स्नस्य जगतः सम्बन्धे पूर्वोक्तं
यन् मायात्वम्, पर्पञ्चकृतत्वत्परिच्छेद्यत्वस्य मिथ्यात्वम् | तज्-जनन्या
जनन्यै ते त्वया प्रकटीकृतं दर्शितम् | तस्माद् भवान् जगद्-अन्तःस्थ एव,
जगत् तु भव-बहिर्-भूतम् इत्य् एवं माया-धर्मः | वस्तुतस् तु दुर्वितर्क-
स्वरूप-शक्त्या मध्यमत्वेऽपि व्यापकोऽसीति भावः |

[३६]

माया-धर्मेनेति यद् भवता कृपया दृष्ट-प्रमाणेऽपि श्री-विग्रहे सर्वोऽपि
प्रपञ्चोऽन्तर्भूत इति दर्शितं तत् सत्यम् एवेति द्योतनार्थं भगवत्य् अप्य्
अन्यथा प्रतीति-निरसनार्थं च पूर्वम् एवार्थम् उपपादयति --

यस्य कुक्षाव् इदं सर्वं
सात्मं भाति यथा तथा |
तत् त्वय्य् अपीह तत् सर्वं
किम् इदं मायया विना || [ १०.१४.१७]

यस्य तव कुक्षौ सर्वम् इदं सात्मं त्वत्-सहितं यथा भाति, तत् सर्वम् इह
बहिर् अपि तथैव त्वयि भाति इत्य् अन्वयः |

अयम् अर्थः - स्वस्य व्रजेऽन्तर्भूतता-दर्शनेनैव समं व्रजस्य स्वस्मिन्न्
अन्तर्भूततां दर्शयन् तच् चान्तर् बहिर् दर्शनं किं स्वप्न एतद् उत
देवमाया इत्य् आदौ [ १०.८.४०] श्री-जनन्या एव विचारे स्वाप्निकत्व-
मायोलत्व-बिम्ब-प्रतिबिम्बत्वानामयोग्यत्वाद् एकम् एवेत्य् अभिज्ञापयन्, किं
स्वप्न इत्य् आदाव् एव यः कश्चन औत्पत्तिक आत्मयोग इत्य् [ १०.८.४०] अनेन
चरम-पक्षावसितया दुर्वितर्क-स्वरूप-शक्त्यैव मध्यम-परिमाण-
विशेष एव सर्व-व्यापकोऽस्मीति स्वयम् एव भवान् जननीं प्रति युगपद्
उभयात्मकं निज-धर्म-विशेषं दर्शितवान् | अतएव द्वितीये गृह्णीत यद्
यद् उपबन्धम् अमुष्य माता इत्य् आदौ [ २.७.३०] प्रतिबोधितासीद् इत्य्
उक्तम् | तस्मात् तव कुक्षौ सर्वम् इदं यथा भाति, इह बहिर् अपि तथा, तद्-
अन्तर्भूतोऽपि तद्-व्यापकोऽसीति प्रकारेणैव तव मायया स्व-
याथार्थ्यावरण-शक्त्या विना किं सम्भवति ? नैव सम्भवतीत्य् अर्थः
|

[३७]

मयाप्य् एवम् एवानुभूतम् इत्य् आह --

अद्यैव त्वद् ऋतेऽस्य किं मम न ते मायात्वम् आदर्शितम्
एकोऽसि प्रथमं ततो व्रज-सुहृद्-वत्साः समस्ता अपि |
तावन्तोऽसि चतुर्भुजास् तद् अखिलैः साकं मयोपासितास्
तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते || [ १०.१४.१८]

अद्यैव ते त्वया किम् अस्य विश्वस्य त्वद्-ऋते त्वत्तो बहिर् मायात्वं माययैव
स्फुरणं भवतीति मम मां प्रति न दर्शितम् ? अपि तु दर्शितम् एव | एतन्
नराकार-रूपात् त्वत्तो भैर् एवेदं जगद् इति यन् मुग्धानां भाति | तन्-
माययिवेत्य् अर्थः | कथम् एतद् आकार-रूपस्य मम तादृशत्वम् ? तत्राह,
एकोऽसि इति | व्रज-सुहृदादि-रूपं यद् यस्माद् आविर्भूतं तत् तद् अखिलम्
अधुना तिरोधान-समये येन पुनर् अनेन श्री-विग्रह-रूपेणावशिष्यते | तद्
द्वयं ब्रह्मैवेत्य् अर्थः | अशेष-प्रापञ्चिक-वस्तूनां प्रादुर्भाव-स्थिति-
तिरोभाव-दर्शनेन तल्-लक्षणाक्रान्तत्वाद् इति भावः | ततश् चास्य ब्रह्मत्वे
सिद्धे व्यापकत्वम् अपि सिध्यतीति तात्पर्यम् |

[३८]

ननु, सृष्ट्य्-आदौ ब्रह्म-विष्णु-महेश्वरा भिन्ना एव कारण-भूतास् तथा
स्थितौ केचिद् अन्येऽवताराश् च, तत् कथं ममैवं सर्व-कारणत्वम् उच्यते
| तत्राह --

अजानतां त्वत्-पदवीम् अनात्मन्य्
आत्मात्मना भासि वितत्य मायाम् |
सृष्टाव् इवाहं जगतो विधान इव
त्वम् एषोऽन्त इव त्रिनेत्रः || [ १०.१४.१९]

त्वम् इत्य् अस्य भासीत्य् अनेनान्वयः | कर्तृ-क्रिययोर् अन्वयस्यैव
प्राथमिकत्वात् | कर्त्रा चात्र त्वम् इत्य् एव मधम-पुरुषेण युज्यते |
तस्माद् अत्र नैव शब्दः सम्बध्यते किन्त्व् एष इत्य् अत्रैव | ततश् च श्री-
विग्रहोऽमुः वाच्यः | स्वयं भगवत्त्वेनास्य गुणावतारत्वाभावात् | अद्यैव
त्वद्-ऋतेऽस्येत्य् अनेनाव्य्ववहित-वचनेन विरुद्धत्वाच् च |

तस्माद् अयम् अर्थः - त्वत्-पदवीं तव तथाभूतं स्वरूपम् अजानताम्
अजानतः प्रति | आत्मा तत् तद् अंशिस्वरूपस् त्वम् एव | आत्मना तत्-तद्-अंशेन,
मायां सृष्ट्य्-आदि-निमित्त-शक्तिम् | अनात्मनि जड-रूपे महद्-आद्य्-उपादाने
प्रधाने | वितत्य प्रवर्त्य्, तत्-तत्-कार्य-भेदेन भिन्न इव भासीत्य् अर्थः
| अन्ते त्रि-नेत्र इवेति | वस्तुतस् त्वम् एव तत्-तद्-रूपेण वर्तसे, मूढास् तु
त्वत्तस् तान् पृथक् पश्यन्तीति भावः | यतो द्वितीये ब्रह्म-वाक्यम् -

सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः |
विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् || इति [ २.६.३०]

[३९]

अतो भगवत्-स्वरूपैकत्वेन न ब्रह्मादिवद् विष्णुर् इवेति निर्दिष्टम् | एवं
यथा गुणावतारास् तथान्येऽप्य् अवतारा इत्य् आह --

सुरेष्व् ऋषिष्व् ईश तथैव नृष्व् अपि
तिर्यक्षु यादःस्व् अपि तेऽजनस्य |
जन्मायतां दुर्मद-निग्रहाय
विधातः यद् अनुग्रहाय च || [ १०.१४.२०]

अजनस्य जन्मेत्य् अनेन प्रादुर्भाव-मात्रं जन्मेति बोधयति | ननु
ब्रह्मन् किम् अत्र विचारितं भवता, यद् एकस्या एव मम मूर्तेर् व्यापकत्वे
सत्य-न्यासां दर्शन-स्थानं न सम्भवतीति | तथा जड-वस्तूनां
घटादीनाम् एव प्राकट्य-प्रकारो लोके दृष्टः | कथं तद् इतर-
स्वभावानां चिद्-वस्तूनां मम श्री-मूर्त्यादीनाम् इति | यथा यावत्यो
विभूतयो मम भवता दृष्टास् तावतीभिर् एव भवान् विस्मितो, नापराः
सन्तीति सम्भावयन्न् इव तत्-परिमितताम् अधिगतवान् अस्तीति | तथा ये
ममांशाः पूर्वं बालवत्सादि-रूपास् त एव चतुर्भुजा अभवन्न् इति कस्यापि
रूपस्य कदाचिद् उद्भवः कस्यापि कदाचिद् इति |

[४०]

किं च, सत्य-ज्ञानानन्तानन्दैकरस-मूर्तित्वात् युगपद् एव सर्वम् अपि तत्-
तद्-रूपं वर्तत एव, किन्तु यूयं सर्वदा सर्वं न पश्यथेति तत्र च
यौगपद्यं कथम् इति तत्राह --

को वेत्ति भूमन् भगवन् परात्मन्
योगेश्वरोतीर् भवतस् त्रिलोक्याम् |
क्व वा कथं वा कति वा कदेति
विस्तारयन् क्रीडसि योग-मायाम् || [ १०.१४.२१]

क्व वा कथं वा कति वा कदा वा योग-मायां दुस्तर्कां चिच्-छक्तिं
विस्तारयन् तथा तथा प्रवर्तयन् क्रीडसीति भवत ऊतीर् लीलास् त्रिलोक्यां को
वेत्ति? न कोऽपीत्य् अर्थः | यस्यामतं तस्य मतं मतं यस्य न वेद स इति
[KएनU २.३] भावः | अत्र दुर्ज्ञेयता-पुरस्कृतेनैव सम्बोधन-चतुष्टयेन
चतुर्षु युक्तिम् आह | हे भूमन् क्रोडीकृतानन्त-मूर्त्यात्मक-श्री-मूर्ते |

अयं भावः - एकम् अपि मुख्यं भगवद्-रूपं युगपद् अनन्त-
रूपात्मकं भवति | तथैवाक्रूरेण स्तुतं बहु-मूर्त्य्-एक-मूर्तिकम् इति
[ १०.४०.७] | तथा श्रुतिः - एकं सन्तं बहुधा दृश्यमानम् इति |

ततो यदा यादृशं येषाम् उपासनाफलोदय-भूमिकावस्थानं, तदा
तथैव ते पश्यन्ति | तथा च - प्रज्ञान्तर-पृथक्त्ववद् दृष्टिश् च तद् उक्तिम्
इत्य् अत्र ब्रह्म-सूत्रे [Vस् ३.३.५०] मध्व-भाष्यम् - उपासनाभेदाद् दर्शन-
भेद इति दृष्टान्तश् च | यथैकम् एव पट्टवस्त्र-विशेष-पिच्छावयव-
विशेषादि-द्रव्यं नाना-वर्णमय-प्रधानैक-वर्णम् अपि कुतश्चित् स्थान-
विशेषाद् दत्त-चक्षुषो जनस्य केनापि वर्ण-विशेषेण प्रतिभातीति |
अत्राखण्ड-पट्ट-वस्त्र-विशेषादि-स्थानीयं निज-प्रधान-भासान्तर्-
भावित-तत्-तद्-रूपान्तरं श्री-कृष्ण-रूपं, तत्-तद्-वर्ण-च्छवि-स्थानीयानि
रूपान्तराणीति ज्ञेयम् | यथा श्री-नारद-पञ्चरात्रे -

मणिर् यथा विभागेन नील-पीतादिभिर् युतः |
रूप-भेदम् अवाप्नोति ध्यान-भेदात् तथा विभुः || इति

मणिर् अत्र वैदुर्यं नील-पीतादयस् तद्-गुणाः | तद् एवं क्वेत्य् अय युक्तिर्
उक्ता | एवम् एव श्री-वामनावतारम् उपलक्ष्य श्री-शुक-वाक्यम् -

यत् तद् वपुर् भाति विभूषणायुधैर्
अव्यक्त-चिद्-व्यक्तम्म् अधारयद् धरिः |
बभूव तेनैव स वामनो बटुः
संपश्यतोर् दिव्य-गतिर् यथा नटः || [ ८.१८.१२]

अर्थश् चायम् - यद् वपुः शरीरं न केनापि व्यज्यते या चित् पूर्णानन्दस् तत्-
स्वरूपम् एव यद् विभूषणायुधैर् भाति | तद् वपुस् तदा प्रपञ्चेऽपि
व्यक्तं यथा स्यात् तथा अधारयत् स्थापितवान् | पुनश् च तेनैव वपुषा
वामनो बटुर् बभूव हरिः | एव-कारेण परिणाम-वेषान्तर-योगादिकं
निषिद्धम् | कदा ? पित्रोः सम्पश्यतोः | तेनैव वपुषा तद्-भावे हेतुः |
दिव्याः परम् अचिन्त्याः यद् गतं भवच् च भविष्यच् च इत्य् आदि श्रुतेः |
स्वस्मिन्न् एव नित्य-स्थितान् नाना-संस्थानां प्रकाशना-प्रकाशन-रूपा
गतयश् चेष्टा यस्य सः |
तत्रालक्सित-स्वधर्म-मात्रोल्लासांशे दृष्टान्त-लेशः, यथा नट इति | नटोऽपि
कश्चिद् आश्चर्यतमः दिव्या परम-विस्मापिका गतिर् हस्तक-रूपा चेष्टा यस्य
तथाभूतः सन् | तेनैव रूपेण वैषम्यादिकम् अनुरीकृत्यापि नानाकारतां
यथा दर्शयति | स्वर्ग्यो नटो वा दिव्य-गतिः | ततश् च तत्-तद्-अनुकरणं
तस्यात्यन्त-तद्-आकारम् एव भवति | अत्र परमेश्वरं विना अन्यस्य
सर्वांशे तादृशत्वाभावात् न च दृष्टान्ते खण्डत्व-दोषः प्रपञ्चनीयः
| यथा भक्षित-कीट-परिणाम-लाला-जात-तन्तु-साधनोऽप्य् ऊर्ण-नाभः
परमेश्वरस्य जगत्-सृष्टाव् अनन्य-साधकत्वे दृष्टान्तः श्रूयते, यथोर्ण-
नाभिर् हृदयाद् इत्य् आदि [ ११.९.२१] तद्वत् |

तद् एवं श्री-ब्रह्मणापि सर्व-रूप-सद्-भावाभिर्पायेणैवोक्तम् -

त्वं भक्ति-योग-परिभावित-हृत्-सरोज
आस्से श्रुतेक्षित-पथो ननु नाथ पुंसाम् |
यद् यद्-धिया त उरुगाय विभावयन्ति
तत् तद् वपुः प्रणयसे सद्-अनुग्रहाय || इति [ ३.९.११]

प्रणयसे प्रकर्षेण नयसि प्रकटयसि | श्रुतेक्सित-पथ इत्य् अनेन
कल्पनाया निरस्तत्वात् | सर्व-रूपत्वेऽपि भक्तानभिरुचित-रूपत्वेऽपवादः
श्री-कर्दम-वाक्येन -

तान्य् एव तेऽभिरूपाणि रूपाणि भगवंस् तव |
यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः || [ ३.२४.३०]

यानि यानि च त्वदीय-स्वभक्तेभ्यो रोचन्ते तानि नान्येव तव रूपाणि ते तव
अभिरूपाणि योग्यानि, नान्यानीत्य् अर्थः | अन्यानि च, यादृशं रन्तिदेवाय
कुत्सित-रूपं प्रपञ्चितं तादृशानि ज्ञेयानि | तादृशस्य च मायिकत्वेअम् एव
हि तत्रोक्तम् -

तस्य त्रिभुवनाधीशाः फलदाः फलम् इच्छताम् |
आत्मानं दर्शयाञ्चक्रुर् माया विष्णु-विनिर्मिता || इति [ ९.२१.१५]

टीका च - त्रिभुवनाधीशाः ब्रह्मादयः मायास् तदीय-धैर्य-
परीक्षार्थं प्रथमं मायया वृषलादि-रूपेण प्रतीताः सन्त इत्य् अर्थः
| इत्य् एषा |

अनभिरूपत्वे हेतुः | अरूपिण इति | प्राकृत-रूप-रहितस्येति | टीका च -
अप्राकृतत्वेन कुत्सितत्वासम्भवाद् इति भावः |

अथ प्रकृत-पक्षस्य कथं वेत्य् आदित्रय-युक्तयेऽवशिष्टं सम्बोधन-
त्रयं व्याख्यायते | हे भगवन्न् अचिन्त्य-शक्ते! अचिन्त्यस्य भगवन्-मूर्त्य्-
आद्याविर्भावस्यान्यथा-नुपपत्तेर् अचिन्त्या स्वरूप-शक्तिर् एव कारणम् इति
भावः | इयं कथं वेत्य् अस्य युक्तिः | तथा हे परमात्मन्! परेषां
प्रत्येकम् अप्य् अनन्त-शक्तीनां पुरुषाद्य्-अवताराणाम् आत्मन्न् अवतारिन् |
त्वयि तु तासां सुतराम् अनन्तत्वात् | तद्-आविर्भाव-विभूतयः कति वा वाङ्-
मनसोऽगोचरत्वम् आपयेरन्न् इति भावः | इयं कति वेत्य् अस्य युक्तिः | तथा
हे योगेश्वर! एकस्मिन्न् अपि रूपे नाना-रूप-योजना-लक्षणाया योग-
नाम्न्याः स्वरूप-शक्तेस् तया वा ईशन-शील | अयं भावः - यथा तव
प्रधानं रूपं अन्तर्भूतानन्त-रूपं तथा तवांश-रूपं च | ततश् च
यदा तव यत्रांशे तत्-तद्-उपासना-फलस्य यस्य रूपस्य प्रकाशनेच्छा
तदैव तत्र तद्-रूपं प्रकाशसे इति | इयं कदेत्य् अस्य युक्तिः |

[४१]

तस्मात् तत् तत् सर्वम् अपि तस्मिन् श्री-कृष्ण-रूपेऽन्तर्भूतम् इत्य् एवम् अत्रापि
तात्पर्यम् उपसंहरति |

तस्माद् इदं जगद् अशेषम् असत्-स्वरूपं
स्वप्नाभम् अस्त-धिषणं पुरु-दुःख-दुःखम् |
त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते
मायात उद्यद् अपि यत् सद् इवावभाति || [ १०.१४.२२]

यस्माद् एवं प्रपञ्चाप्रपञ्च-वस्तूनां सर्वेषाम् अपि तत्त्व-विग्रहोऽसि
तस्माद् एव नित्य-सुख-बोधन-लक्सणा या तनुस् तत्-स्वरूपेऽनन्ते त्वय्य् एव
शेषम् इदं जगद् अवभातीत्य् अन्वयः | कथम्भूतं सत् उद्यद् अपि यत्
मुहुर् उभव-तिरोभवच् च | यद्य् अस्मिन् मुहुर् जायते लीयते च तत् तस्मिन्न्
एवावभाति भुवि तद्-विकारे इवेति भावः | तर्हि किं मम विकारित्वं नेत्य्
आह | मायातो मायया त्वदीयाचिन्त्य-शक्ति-विशेषेण विकारादितस्यैव श्रुतेस्
तु शब्द-मूलत्वाद् इत्य् [Vस्. २.१.१७] आदौ परिणाम-स्वीकारात् | मुहुर् उद्भव-
तिरोभवत्वाद् एव स्वप्नाभं तत्-तुल्यं न त्व् अज्ञान-मात्र-कल्पितत्वाद् अपि
वैधर्म्याच् च न स्वप्नादिवद् इति [Vस्. २.२.२९] न्यायेन तथा अविद्या-वृत्तिक-
माया-कार्यत्वाच् च अस्त-धिषणं जीव-परमात्म-ज्ञान-लोप-कर्तृ |
उभयस्माद् अपि हेतोः पुरु-दुःख-दुःखं तदीय-सुखाभासस्यापि
वस्तुनो दुःख-रूपत्वाद् विना त्वत्-सत्तया असत्-स्वरूपं शश-विषाण-तुल्यं
तद् एवं भूतम् अपि सद् इवानश्वरम् इवाभाति मुग्धानाम् इति शेषः |
उपलक्षणं चैतद् व्यवहार-ज्ञानमय-महद्-आद्यात्मकत्वात्
ज्ञानोद्बोधकम् इव स्वर्गाद्यात्मकत्वात् मुखम् इव च | तद् एवम् अन्यस्य
तत्-परिच्छेद्यत्वात् स्वरूप-शक्त्यैव परिच्छिन्नम् अपरिच्छिन्नं च तवेदं
वपुर् इति प्रकरणार्थः || १०|१४|| ब्रह्मा श्री-भगवन्तम् ||४१||

[४२]

तद् इत्थं मध्यमाकार एव सर्वाधारत्वाद् विभुत्वं साधितम् |
सर्वगतत्वाद् अपि साध्यते -

चित्रं बतैतद् एकेन
वपुषा युगपत् पृथक् |
गृहेषु द्व्य्-अष्ट-साहस्रं
स्त्रिय एक उदावहत् || [ १०.६९.२]

एतद् बत अहो चित्रं किं तत् | एक एव श्री-कृष्णो द्व्यष्ट-साहस्रं स्त्रीर् यद्
उदावहत् परिणीतवान् | ननु किम् अत्राश्चर्यं तत्राह | गृहेष्व् इति तत्-
सङ्ख्येषु सर्वेष्व् इति शेषः | भवतु ततोऽपि किं तत्राह | पृथक् पृथग् एव
स्थित्वा पाणि-ग्रहणादि-विवाह-विधिं कृतवान् | ननु क्रमश उद्वाहे
नासम्भवम् एतत् तत्राह युगपद् इति | ननु योगेश्वरोऽपि युगपन् नाना-
वपूंषि विधाय तद् विधातुं शक्नोति किम् अत्र योगेश्वराराध्य-चरणानां
युष्माकम् अपि चित्रं तत्राह | एकेन वपुषा इति | तर्हि कथम् अनेक-बाह्व्-
आदिकेन व्यापकेनैकेन वपुषा तत् कृतवान् | मैवम् |

आसां मुहूर्त एकस्मिन्
नानागारेषु योषिताम् |
सविधं जगृहे पाणिन्
अनुरूपः स्वमायया || [ ३.३.८]

इति श्रीमद्-उद्धव-वाक्यादौ तत् तद् अनुरूपता-प्रसिद्धेः | इत्य् अभिप्रेत्य
पूर्वकेणैक-पदोपन्यासेन परिहरति पृथग् इति | एकेन नराकारेण वपुषा
पृथक्-पृथक्त्वेन दृश्यमानस् तथा विहितवान् | तस्माद् एकम् एव नर-
वपुर् यतो युगपत् सर्वदेशं सर्व-क्रियां च व्याप्नोति तस्मान् महद्-
आश्चर्यम् इति वाक्यार्थः |

इत्थम् एव पञ्चमे लोकाधिष्ठातुः श्री-भगवद्-विग्रहस्य तेषाम् इत्य् आदि
गद्योपदिष्टस्य तादृशत्वं व्याख्यातं श्री-स्वामि-चरणैः | महा-विभूतेः
पारमैश्वर्यस्य पतित्वाद् एकयैव मूर्त्या समन्ताद् आस्त इति |

अथो मुहूर्त एकस्मिन्
नानागारेषु ताः स्त्रियः |
यथोपयेमे भगवान्
तावद्-रूप-धरो æव्ययः || इत्य् [ १०.५९.४२]

अत्राप्य् अतस् तावद्-रूपत्वं नाम युगपत् तावत्-प्रदेश-प्रकाशत्वम् एवेति
व्याख्येयम् | न तु नारायणादिवद् भिन्नाकारत्वम् | यथोक्तम् -
अनेकत्र प्रकटता-
रूपस्यैकस्य यैकदा |
सर्वथा तत् स्वरूपैव
स प्रकाश इतीर्यते || इति [LBहाग् १.१.२१][६]

एष एवान्यत्राकारस्य प्रकाशस्य च भेदो ज्ञेयः || श्रीनारदः ||४२||

[४३]

तथैवाह |

इत्य् आचरन्तं सद्-धर्मान्
पावनान् गृह-मेधिनाम् |
तम् एव सर्व-गृहेषु
सन्तम् एकं ददर्श ह || [ १०.६९.२५]

सर्व-गृहेषु तमे एव न तु तस्यांशान् | एकम् एव सन्तं न तु काय-व्यूहेन
बहु-रूपम् | एकं सन्तं बहुधा दृश्यमानम् इति श्रुतेः | न चान्तर् न
बहिर् यस्येत्य् आदिना [ १०.९.११] विभुत्व-सिद्धेश् च ह स्फुटम् एव ददर्श
भगवद्-दत्त-शक्त्या साक्षाद् एवानुभूतवान्, न तु केवलम् अनुमितवान्
नारद इति शेषः |
[४४]

अतएव -

कृष्णस्यानन्त-वीर्यस्य
योग-माया-महोदयम् |
मुहुर् दृष्ट्वा ऋषिर् अभूद्
विस्मितो जात-कौतुकः || [ १०.६९.२५]

तत्र च योगमाया दुर्घट-घटनी चिच्-छक्तिः | तृतीये [ ३.१६.३७]
सनकादीनां वैकुण्ठ-गमने योगमाया-शब्देन परमेश्वरे तु
प्रयुज्यमानेन चिच्-छक्तिर् उच्यते इति स्वामिभिर् अपि व्याख्यातम् अस्ति | जात-
कौतुको मुनिर् मुहुर् दृष्ट्वा विस्मितोऽभूत् | काय-व्यूहस् तावत् तादृशेष्व् अपि
बहुष्व् एव सम्भवति | तं विनापि मध्यमाकारेऽपि तस्मिन् सर्व-
व्यापकत्व अपूर्वम् इति तस्यापि विस्मयं हेतुर् नान्यथेति स्पष्टम् एव
यथोक्तं ज्ञेयम् | अनेन सर्वतः पाणि-पादं तद् इति तादृश्यां श्री-मूर्त्याम्
एव व्याख्यातं भवति | अतएव न स्थानतोऽपि परस्योभय-लिङ्गं सर्वत्र
हि [Vस्. ३.२.११] इति सूत्रं तत्त्व-वादिभिर् एवं योजितम् | स्थानापेक्षयापि
परमात्मनो न भिन्नं रूपं हि यस्मात् तद्-रूपत्वं सर्वत्रैव | सर्व-
भूतेष्व् एवम् एव ब्रह्म इत्य् आचक्षत इति श्रुतेः |

एक एव परो विष्णुः सर्वत्रापि न संशयः |
ऐश्वर्याद् रूपम् एकं च सूर्यवद् बधुधेयते || इति मात्स्यात् |

प्रतिदृशम् इव नैकधार्कम् एकं
समधिगतोऽस्मि विधूत-भेद-मोहः || इति [ १.९.४२] भागवताच् चेति |

एवं न भेदाद् इति चेन् न प्रत्येकम् अतद्-वचनाद् इत्य् [Vस्. ३.२.१२] एतस्य अपि
चैवम् एकम् इत्य् [Vस्. ३.२.१३] एतस्य च सूत्रस्य व्याख्यानं तद्-भाष्ये दृश्यम्
|| श्री-शुकः||४३-४४||

[४५]

तम् इमम् अहम् अजं शरीर-भाजां
हृदि हृदि धिष्ठितम् आत्म-कल्पितानाम् |
प्रतिदृशम् इव नैकधार्कम् एकं
समधि-गतो ऽस्मि विधूत-भेद-मोहः || [ १.९.४२]

तम् इमम् अग्रत एवोपविष्टं श्री-कृष्णं व्यष्ट्य्-अन्तर्यामि-रूपेण
निजांशेन शरीर-भाजां हृदि हृदि धिष्ठितम् |

केचित् स्व-देहान्तर्-हृदयावकाशे
प्रादेश-मात्रं पुरुषं वसन्तम् || [ २.२.८] इत्य्-उक्त-दिशा तत्-तद्-रूपेण
भिन्न-मूर्ति-बद्ध-सन्तम् अपि एकम् अभिन्न-मूर्तिम् एव समधि-गतोऽस्मि
| अयं परमानन्द-विग्रह एव व्यापकः | स्वान्तर्-भूतेन निजाकार-
विशेषणान्तर्यामितया तत्र तत्र स्फुरतीति विज्ञानवान् अस्मि | यतोऽहं
विधूत-भेद-मोहः | अस्यैव कृपया दुरीकृतो भेद-मोहः | भगवद्-
विग्रहस्य व्यापकत्वासम्भावना-जनित-तन्-नानात्व-विज्ञान-लक्षणो मोहो
यस्य तथाभूतोऽहम् | तेषु व्यापकत्वे हेतुर् आत्म-कल्पितानाम् आत्मन्य् एव
परमाश्रये प्रादुष्कृतानाम् अवलोकनं प्रति यथैक एवार्को वृक्ष-
कुड्याद्य्-उपरि-गतत्वेन तत्रापि कुत्रचिद् अव्यवधानं सम्पूर्णत्वेन
सव्यवधानस् त्व् असम्पूर्णत्वेनानेकधा दृश्यते तथेत्य् अर्थः |

दृष्टान्तोऽयम् एकस्यैव तत्र तत्रोदय इत्य् एतन् मात्रांशे | वस्तुतस् तु श्री-
भगवद्-विग्रहोऽचिन्त्य-शक्त्या तथा भासते | सूर्यस् तु दूरस्य
विस्तीर्णात्मनास्वभावेनेति विशेषः | अथवा तं पूर्व-वर्णित-स्वरूपम्
इमम् अग्रत एवोपविष्टं शरीर-भाजां हृदि हृदि सन्तम् अपि
समधिगतोऽस्मि | यद्यप्य् अन्तर्यामिरूपम् एतस्माद् रूपाद् अन्याकारं
तथाप्य् एतद् रूपम् एवाधुना तत्र तत्र पश्यामि | सर्वतो महा-
प्रभावस्यैतस्य रूपस्यादेश-भेदेऽप्य् अभेद-बोधनाय ज्ञेयः | न तु
पूर्णापूर्णत्व-विवक्षायै | अमीलित-दृग्-व्यधारयद् इति कृष्ण एवं
भगवति मनो-वाक्-काय-वृत्तिभिर् इत्य् उपक्रमोप-संहारादिभिर् अत्र श्री-
विग्रह एव प्रस्तूयते | ततो नेदं पद्यं ब्रह्म-परं व्याख्येयम् | तद्
एवं परिच्छिन्नत्वापरिच्छिन्न-त्वयोर् युगपत्-स्थितेर् अचरं चरम् एव चेत्य्
एतद् अप्य् अत्र सुसङ्गच्छते | अतो विभुत्वेऽपि लीलया याथाथ्यं सिद्ध्यति ||
भीष्मः श्री-भगवन्तम् ||४५||

[४६]

एवं तस्य नित्यत्व-विभुत्वे साधिते | तथैव व्याख्यातं श्री-स्वामिभिर्
अष्टमस्य षष्ठे | अनाविराविरासेयं नाभूताभूद् इति ब्रुवन् |
ब्रह्माभिप्रैति नित्यत्व-विभुत्वे भगवत्-तनोर् इति | तथा हि श्लोक-द्वयं
तट्-टीका च --

अजात-जन्म-स्थिति-संयमाया-
गुणाय निर्वाण-सुखार्णवाय |
अणोर् अणिम्ने ऽपरिगण्य-धाम्ने
महानुभावाय नमो नमस् ते ||

रूपं तवैतत् पुरुषर्षभेज्यं
श्रेयो ऽर्थिभिर् वैदिक-तान्त्रिकेण |
योगेन धातः सह नस् त्रि-लोकान्
पश्याम्य् अमुष्मिन्न् उ ह विश्व-मूर्तौ || [ ८.६.८-९] इतीदम् |

श्री-मूर्तेर् अयं आविर्भाव एव नत्वस्मद्_अदि-वज् जन्मादि तदास्तीत्य् आह -
न जाता जन्मादयो यस्य | कुतः ? अगुणाय अतो निर्वाण-सुखस्यार्णवाय
अपी̀अर-मोक्ष-सुख-रूपायेत्य् अर्थः | तथापि अणोर् अणिम्न अतिसूक्ष्माय
दुर्ज्ञातत्वात् | वस्तुतस् तु अपरिगण्यम् इयत्तातीतं धाम मूर्तिर् यस्य तस्मै
| न चैतद् असम्भावितम् | यतो महान् अचिन्त्योऽनुभावो यस्य | तन्-मूर्तेः
सनातनत्वम् अपरिमेयत्वं चोपपादयत्ति रूपम् इति |

हे पुरुषर्षभ! हे धातः ! एतत् तव रूपं वैदेकेन तान्त्रिकेण च
उपायेन श्रेयोभिः सदा इज्यं पूज्यं अतो नेदम् अपूर्वं जातम् इति भावः |

ननु यूयं देवाः पूज्यत्वेन प्रसिद्धाः सत्यं सर्वेऽप्य् अत्रैवान्तर्भूता इत्य्
आह | उ अहो ह स्फुटम् अमुष्मिंस् त्वयि नोऽस्मांस् त्रिलोकांश् च सह पश्यामि
| तत्र हेतुः | विश्वं मूर्तौ यस्य अतस् तवैतद् रूपं परिच्छिन्नम् अपि न
भवतीत्य् अर्थः | इत्य् एषा |

अत्र निर्वाण-सुखार्णवायेति अर्णवत्व-रूपकेण निर्वाण-सुख-मात्रत्वं
निरस्य ततोऽप्य् अधिक-सहासुखत्वम् दर्शितम् | तद् उक्तं श्री-ध्रुवेन --

या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् |
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् || इति [ ४.९.१०]

तथा अणोर् अणिम्ने इति प्रोच्य अपरिमेय-धाम्न इत्य् उक्तेर् अचिन्त्य-शक्तित्व-
रूपेण महानुभावत्वेन सर्व-परिणामाधारत्वं तव दर्शितम् इति ज्ञेयम्
||

[४७]

अथ स्थूल-सूक्ष्मातिरिक्तताम् आह द्वाभ्याम् |

स वै न देवासुर-मर्त्य-तिर्यङ्
न स्त्री न षण्ढो न पुमान् न जन्तुः
नायं गुणः कर्म न सन् न चासन्
निषेध-शेषो जयताद् अशेषः || [ ८.६.२४]

एवं गजेन्द्रम् उपवर्णित-निर्विशेषं
ब्रह्मादयो विविध-लिङ्ग-भिदाभिमानाः
नैते यदोपससृपुर् निखिलात्मकत्वात्
तत्राखिलामर-मयो हरिर् आविरासीत् || [ ८.६.३०]

यस्य ब्रह्मादयो देवा[७] इत्य् आदि प्राक्तन-पद्य-द्वयेन
यस्मात् सर्व-कारण-कारणत्वं व्यञ्जितं तस्माद् देवादीनां मध्ये कोऽपि
न भवति | वैलक्षण्यं सात्त्विकत्व-भौतिकत्वादि-हीनतैव स्त्रीत्व-
पुरुषत्व-हीनता च प्राकृत-तत्-तद्-धर्म-राहित्यम् | अतएव न षण्ड इत्य्
उक्तम् | तस्मान् न कोऽपि जन्तुः | कारण-भूतः सत्त्वादिर् गुणः पुण्य-पाप-
लक्षणं कर्म च नेत्य् आह | नायं गुणः कर्मेति | तयोर् अपि प्रवर्तकत्वाद्
इति भावः | किं बहुना, यद् अत्र सत् स्थूलम् असत् सूक्ष्मं तद् एकम् अपि न
भ्वति स्व-प्रकाश-रूपत्वाद् इति भावः | किन्तु सर्वस्य निषेधेऽवधित्वेन
शिष्यत इति शेषः | मायया तत्-तद्-अशेषात्मकश् च | जयतात् मद्-
विमोक्षणायाविर्भवत्व् इति |

टीका च - एवम् उपवर्णितं निर्विशेषं देवादि-रूपं विना परं तत्त्वं येन
तं गजेन्द्रम् | विविध-लिङ्ग-भिदाभिमानाः | विविधा चासौ लिङ्ग-भिदा
देवादि-रूप-भेदश् च तस्याभिमानो येषाम् अतएव ते ब्रह्मादयो यदा
नोपजग्मुस् तत्र तदा निखिलात्मकत्वात् निखिलानां तेषां परमात्म-सुख-
रूपत्वात् तद्-विलक्षणो मायया अशेषात्मकत्वाद् अखिलामरमयो हरिर्
आविरासीद् इति |

एवम् आविर्भावं प्रार्थयमाने श्री-गजेन्द्रे यद् रूपेणाविर्भूतं तत् खलु
तादृशम् एव भवितुम् अर्हतीति साधूक्तं स्थूल-सूक्ष्म-वस्त्व्-अतिरिक्तस् तव
श्री-विग्रह इति | अन्यथा त्व् अपाणि-पाद-रूपत्वेनैव तच् चेतस्याविर्भूय तद्
विदध्यात् | तद् उक्तं स्वेच्छामयस्येति | श्लोक-द्वयम् इदं
श्लोकान्तरव्यवहितम् अप्य् अर्थेनाव्यवहितत्वाद् युगलतयोपदध्रे ||

प्रथमं गजेन्द्रः श्री-हरिम्, द्वितीयं श्री-शुकः ||४७||

[४८]

अथ प्रत्यग्-रूपतत्वम् अप्य् आह -

स त्वं कथं मम विभोऽक्ष-पथः
परात्मा योगेश्वरैः श्रुति-दृशामल-हृदि-भाव्यः |
साक्षाद् अधोक्षज उरु-व्यवसनान्ध-बुद्धेः
स्यान् मेऽनुदृश्य इह यस्य भवापवर्गः || [ १०.६४.१८]

टीका च - हे विभो स त्वं ममाक्ष-पथः लोचन-गोचरः एतच् चित्रम् इत्य्
अर्थः | किम् अत्राश्चर्यं तद् आह पर आत्मा अतएव योगेश्वरैर् अपि श्रुति-दृशा
अमल-हृदि विभाव्यश् चिन्त्यः | यतोऽधोक्षजः अक्षजम् ऐन्द्रियकं ज्ञानं
तद् अधः अर्वाग् एव यस्य सः | यस्य हि भवापवर्गो भवेत् तस्य भवान्
अनुदृश्यः स्यात् उरु-व्यसनेन कृकलास-भव-दुःखेन अन्ध-बुद्धेस् तु
मम एतच् चित्रम् इत्य् अर्थः | इत्य् एषा |

दर्शन-कारणं तूक्तं नारायणाध्यात्मे -

नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निज-शक्तितः |
ताम् ऋते परमात्मानं कः पश्येतामृतं प्रभुम् || इति |

तादृश-शक्तेर् अप्य् उल्लासे तत्-कृपैव कारणम् | तद् उक्तं श्रुतौ --

न चक्षुषा पश्यति रूपम् अस्य
यम् एवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनुं स्वाम् || [ १.२.२३]

न सन्दृशे तिष्ठति रूपम् अस्य | इत्य् आदिकं च कुत्रचित् | एवम् एव मोक्ष-
धर्मे नारायणीये नारदं प्रति श्री-श्वेतद्वीप-पतिनोक्तम् -

एतत् त्वया न विज्ञेयं रूपवान् इति दृश्यते |
इच्छन् मुहूर्तान् नश्येयम् ईशोऽहं जगतो गुरुः ||
माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद |
सर्वभूतगुणैर् युक्तं नैवं त्वं ज्ञातुम् अर्हसि || [ १२.३०६.४२-४३]

यथाऽन्यो रूपवान् इति हेतोर् दृश्यते तथायम् अपीत्य् एतत् त्वया न ज्ञेयम् |
ततश् च स्वय रूपित्वेऽप्य् अदृश्यत्वम् उक्त्वा निज-रूपस्याप्राकृतत्वम् एव
दर्शितम् | तद्-दर्शने च परम-कृपा-मय्य् अकुण्ढा ममेच्छैव कारणम्
इत्य् आह | इ

इच्छन्न् इति | नश्येयम् अदृश्यताम् आपद्येयम् | तत्र स्वातन्त्र्यं जगद्-
विलक्षणत्वं च हेतुम् आह - ईश इत्य् आदि | तथापि मां सर्व-भूत-गणैर्
युक्तं यत् पश्यसि तद् युक्तत्वेन यत् प्रत्येषि एषा माया मयैव सृष्टा
मम माययैव तथा भानम् इत्य् अर्थः | तस्मिन् नैवम् इत्य् आदि | मयात्र
प्रतारण-शक्तिः | तथा हि तत्रैव श्री-भाष्य-वचनम् |

प्रीतस् ततोऽस्य भगवान् देव-देवः सनातनः |
साक्षात् तं दर्शयामास दृश्यो नान्येन केनचिद् || इति | [ १२.३२३.११]

तम् उपरिचरं वसुं प्रति स्वात्मानम् इति शेषः | तद्-अग्रे च वस्व्-आदि-
वाक्यम् |

न शक्यः स त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते |
यस्य प्रसादं कुरुते स वै तं द्रष्टुम् अर्हति || इति | [ १२.३२३.१८]

तद् एवं श्रुताव् अप्य् अदृश्यत्वादयो धर्माः श्री-विग्रहस्यैवोक्ताः |
श्रुत्यन्तरं च न चक्षुषा पश्यति रूपम् अस्य | इति ||

नृपः श्री-भगवन्तम् ||४८||

[४९]

अतएव प्राकृतानि रूपादीनि निषिध्य अन्यानि सम्प्रतिपाद्यन्ते |

न विद्यते यस्य च जन्म कर्म वा
न नाम-रूपे गुण-दोष एव वा
तथापि लोकाप्यय-सम्भवाय यः
स्व-मायया तान्य् अनुकालम् ऋच्छति || [ ८.३.८]

अयम् अर्थः | अवस्थान्तर-प्राप्तिर् विकारः | तत्र प्रथम-विकारो जन्मेति
| अपूर्णस्य निज-पूर्त्य्-अर्था चेष्टा कर्मेति | मनोग्राह्यस्य वस्तुनो
व्यवहारार्थं केनापि सङ्केतितः शब्दो नामेति | चक्षुषा ग्राह्यो गुणो
रूपम् इति | सत्त्वादि-प्राकृत-गुण-निदानो द्रव्यस्योत्कर्ष-हेतुर्-धर्म-
विशेषो गुण इति प्रकृतिजे लोके दृश्यते | यस्य च सर्वदा स्वरूपस्थत्वात्
पूर्णत्वात् मनसोऽप्य् अगोचरत्वात् स्वप्रकाशत्वात् प्रकृत्य्-अतीत्वात् तानि न
विद्यन्ते |

तथापि यस् तानि ऋच्छति प्राप्नोति तस्मै नम इत्य् [ ८.३.९] उत्तर-
श्लोकेनान्वयः | अतएव श्रुत्यापि - निष्कलं निष्क्रियं शान्तम् इत्य् आदौ [Śवेत्U
६.१९], अशब्दम् अस्पर्शम् अरूपम् अव्ययम् इत्य् आदौ [ १.३.१५] च तन्
निषिध्यापि सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रस इत्य् [३.१४.४] आदौ विधीयते | गुण-दोष इति अपरमार्थत्वाद् गुण एव दोष इत्य्
अर्थः | ततो रूढ-दोषस् तु सर्वथा न सम्भवत्य् एवेति वक्ष्यते | तथा च
कौर्मे -

ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधीयते |
तथापि दोषाः परमे नैवाहार्यः कथञ्चन |
गुणा विरुद्धा अपि तु समाहार्याश् च सर्वतः || इति |
अयम् आत्मापहत-पाप्मा | इत्य् आद्याः [ ८.७.१] श्रुतयश् च |

एतं संयद् वाम इत्य् आवक्षते एतं सर्वाणि वामानि नयति एष उ एव
भामणीः एष सर्वेषु वेदेषु भातीत्य् [Cहा ४.१५.२] आद्या च | अतएव सर्व-
गन्ध इत्य् आदौ गन्धादि-शब्देन सौगन्ध्यादिकम् एवोच्यते | यदा तु
ऋच्छतिनान्वयस् तु गुणस्य दोषत्वेन रूपकम् अविवक्षितं श्रुति-विरुद्धत्वात्
परमार्थत्वेन प्रतिपादयिष्यमाणत्वाच् च |

नन्व् एकत्र तेषां जन्मादीनां भावाभावयोर् विरोध इत्य् आशङ्क्य तद्-
विरोधे हेतुम् आह स्व-मायया इति | अन्यथानुपपत्ति-प्रमिता दुस्तर्क्या
स्वरूप-शक्तिर् एव तत्र हेतुः | अतएव स्वरूप-भूतत्वेन तेभ्यः
प्राकृतेभ्यो विलक्षणत्वात् तान्य् अपि न विद्यन्त इति च वक्तुं शक्यत इति
भावः | यथा शाङ्कर-शारीररके समाकर्षाद् इत्य् [Vस्. १.४.१५] अत्र नाम-
रूप-व्याकृत-वस्तु-विषयः स्वच्छन्दः प्रायेण प्रसिद्ध इति तद्-
व्यकरणाभावापेक्षया प्राग्-उत्पत्तेः सद् एव ब्रह्म-श्रुताव् असद् इत्य् उच्यते
इत्य् उक्तम् तथैव ज्ञेयम् |

अतएव श्री-विष्णु-पुराणे - गुणांश् च दोषांश् च मुने व्यतीत इत्य् [ ६.५.८३]
उक्त्वा पुनर् आह समस्त-कल्याण-गुणात्मको हीति [ ६.५.८४] | तथा
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः |
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः || इति [ ६.५.७९]

पाद्मोत्तर-खण्डे च -

योऽसौ निर्गुण इत्य् उक्तः शास्त्रेषु जगद्-ईश्वरः |
प्राकृतैर् हेय-संयुक्तैर् गुणैर् हीनत्वम् उच्यते || इति |

न च स्व-माययेत्य् अन्यथार्थं मन्तव्यम् |

विशुद्ध-विज्ञान-घनं स्व-संस्थया
समाप्त-सर्वार्थ-मयी वाञ्छितम् |
स्व-तेजसा नित्य-निवृत्त-माया-
गुण-प्रवाहं भगवन्तम् ईमहि || इति [?][८] श्री-नारद-
वाक्यात् |

स्व-सुख-निभृतेद्यादि[९] | वक्तृ-हृदय-विरोधाच् च | ततः
सर्वथा चिच्-छक्त्या इत्य् अर्थः | अतः स्वामिभिर् अपि योग-माया-शब्देन चिच्-
छक्तिर् व्याख्याता |
ननु प्राप्नोति कदाचित्कत्वम् अप्य् अवगम्यते, तत्राह - अनुकालं नित्यम् एव
प्राप्नोति, कदाचिद् अपि न त्यजतीत्य् अर्थः | स्वरूप-शक्ति-प्रकाशित्वस्य च
मिथो हेतुमत्ता ज्ञेया |

ननु कथं जन्म-कर्मणोर् नित्यत्वम् ? ते हि क्रिये | क्रियात्वं च प्रति-
निजांशम् अप्य् आरम्भ-परिसमाप्तिभ्याम् एव सिध्यतीति ते विना स्व-स्वरूप-
हान्य्-आपत्तिः | नैष दोषः | श्री-भगवति सदिवाकारानन्त्यात्
प्रकाशानन्त्यात् जन्म-कर्म-लक्षण-लीलानन्त्याद् अनन्त-प्रपञ्चानन्त-
वैकुण्ठ-गत-तत्-तल्-लीला-स्थान-तत्-तल्-लीला-परिकराणां व्यक्ति-प्रकाशयोर्
आनन्त्याच् च | यत एवं सत्योर् अपि तत्-तद्-आकार-प्रकाश-गतयोस् तद्-आरम्भ-
समाप्त्योर् एकत्रिकत्र ते जन्म-कर्मणोर् अंशा यावत् समाप्यन्ते न
समाप्यन्ते वा तावद् एवान्यत्राप्य् आरब्धा भवतीत्य् एवं श्री-भगवति
विच्छेदाभावान् नित्ये एव तत्र ते जन्म-कर्मणी वर्तेते | तत्र ते क्वचित्
किञ्चिद् विलक्षणत्वेनारभ्येते ते क्वचिद् ऐकरूप्येण चेति ज्ञेयम् | विशेषण-
भेदाद् विशेषणैक्याच् च | एक एवाकारः प्रकाश-भेदेन पृथक् क्रियास्पदं
भवतीति | चित्रं बतैतद् एकेन वपुषा इत्य् आदौ प्रतिपादितम् |

ततः क्रिया-भेदात् तत्-तत्-क्रियात्मकेषु प्रकाश-भेदेष्व् अभिमान-भेदश्
च गम्यते | तथा सति एकत्रैकत्र लीला-क्रम-जनित-रसोद्बोधश् च जायते
|

ननु कथं ते एव जन्म-कर्मणी वर्तेते इत्य् उक्तं पृथग्-आरब्धत्वाद् अन्ये
एव ते | उच्यते | काल-भेदेनोदितानाम् अपि समान-रूपाणां क्रियाणाम्
एकत्वम् | यथा शङ्कर-शारीरके | द्विर्-गो-शब्दोभयम् उच्चरितो न तु द्वौ
गो-शब्दाव् इति | तथैव द्विः पाकः कृतोऽनेन न तु द्विधा पाकः कृतोऽनेनेति
प्रतीत्या भविष्यति | ततो जन्म-कर्मणोर् अपि नित्यता युक्तैव |
अतएवागमादाव् अपि भूत-पूर्व-लीलोपासन-विधानं युक्तम् | तथा चोक्तम्
मध्व-भाष्ये - परमात्म-सम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्व् अप्य्
उपसंहार्यत्वं युज्यते इति | अनुमतं चैतत् श्रुत्या यद् गतं भवच् च
भविष्यच् चेत्य् अनयैव | उपसंहार्यत्वम् उपासनायाम् उपादेयत्वम् इत्य्
अर्थः | तत्र तस्य जन्मनः प्राकृतात् तस्माद् विलक्षणत्वं प्राकृत-
जन्मानुकरणेनाविर्भाव-मात्रत्वं क्वचित् तद्-अननुकरणेन वा |
अजायमाना बहुधा विजायत इति श्रुतेः |

तद् यथा --

देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहाशयः |
आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः || इति [ १०.३.८]

तथा च -

सत्यं विधातुं निज-भृत्य-भाषितं
व्याप्तित्वं च भूतेष्व् अखिलेषु चात्मनः |
अदृश्यतात्य्-अद्भूत-रूपम् उद्वहन्
स्तम्भे सभायां न मृगं न मानुषम् || इति [ ७.८.१७]

कार्दमं वीर्यम् आपन्न इत्य् अत्र [ ३.२४.६] श्री-कपिल-देवावतार-
प्रसङ्गे कर्दमस्य भक्ति-सामर्थ्य-वशीभूत इत्य् एव व्याख्येयम् |
वीर्य-शब्द-न्यासस् तु प्रसिद्धं पुत्रत्वम् अपि श्लिष्टं भवतीत्य् एवम्
अर्थः | तथा कर्मणो वैलक्षण्यं स्वरूपानन्द-विलास-मात्रत्वम् | तद्
यथा लोकवत् तु लीला-कैवल्यम् इति [Vस् २.१.३३] | व्याख्यातं च तत्त्व-वादिभिः
| यथा लोके मत्तस्य सुखोद्रेकाद् एव नृत्यादि-लीला न तु प्रयोजनापेक्षया
एवम् एवेश्वरस्य | नारायण-संहितायां च -

सृष्ट्यादिकं हरिर् नैव प्रयोजनम् अपेक्ष्य तु |
कुरुते केवलानन्दाद् यथा मत्तस्य नर्तनम् ||
पूर्णानन्दस्य तस्येह प्रयोजन-मतिः कुतः |
मुक्ता अव्याप्त-कामाः स्युः किम् उतास्य् अखिलात्मनः || इति |

न चोन्मत्त-दृष्टान्तेनासर्वज्ञत्व प्रसञ्जयितव्यम् | स्वरूपानन्दोद्रेकेण
स्व-प्रयोजनम् अननुसन्धायैव लीलायते इत्य् एतद् अंशेनैव स्वीकारात् |
उच्छ्वास-प्रश्वास-दृष्टान्तेऽपि सुष्प्त्य्-आदौ तद्-दोषापातात् | तस्मात्
स्वरूपानन्द-स्वाभाविक्येन तल्-लीला | श्रुतिश् च - देवस्यैव स्वभावोऽयम्
आप्त-कामस्य का स्पृहा | इति |

अत्र प्राकृत-सृष्ट्य्-आदि-गतस्य साक्षाद्-भगवच्-चेष्टात्मकस्य वीक्षणादि-
कर्मणो वस्तुतस् तु तथा-विधत्वे वैकुण्ठादि-गतस्य कैमुत्यम्
एवापतितम् | यथोक्तं नाग-पत्नीभिः अव्याकृत-विहाराय इति [ १०.१६.४७]
| अतएव श्री-शुकादीनाम् अपि तल्-लीला-श्रवणे रागतः प्रवृत्तिर् युज्यते |

अतश् च --

एवं च जन्मानि कर्माणि ह्य् अकर्तुर् अजनस्य च |
वर्णयन्ति स्म कवयो वेद-गुह्यानि हृत्-पतेः || इति [ १.३.३५]

अत्र जन्म-गुह्याध्याय-पद्येऽप्य् एवम् एव व्याख्येयम् | यत्रेमे सद्-असद्-
रूपे [ १.३.३३-४] इत्य् आदिभ्याम् अव्यवहित-पद्याभ्यां यथा स्वरूप-
सम्यग्-ज्ञानेनैव कृतस्याविद्याकृतात्माध्यास-सद्-असद्-रूप-निषेधस्य
हेतोर् ब्रह्म-दर्शनं भवति | यथा च - मायोपरताव् एव स्वरूप-
सम्पत्तिर् भवति इत्य् उक्तम् | एवम् एव कवय आत्मारामा हृत्-पतेः
परमात्मनो जन्मानि कर्माणि च वर्णयन्ति | तत्-तत्-प्रतिषेधे तद्-उपरतौ
चैव सत्यां तज्-जन्म-कर्मानुभव-सम्पत्ती भवत इत्य् अर्थः | सम्पत्तिर्
अत्र साक्षाद् दर्शनम् | तस्मात् स्वरूपानन्दातिशयित-भगवद्-आनन्द-
विलास-रूपाण्य् एव तानीति भावः | अतएव प्राकृत-वैलक्षण्याद् अकर्तुर्
अजनस्य इत्य् उक्तम् | अतएव वेद-गुह्यान्य् अपि तानीति | यथा अक्रूर-स्तुतौ
त्वयोदितः [ १०.४८.२३-२४] इत्य् आदि द्वयं टीकायाम् एवेत्थम् उत्थापितम् |
ननु तर्हि ममावतारास् तच्-चरितानि च शुक्ति-रजत-वद् अविद्या-कल्पितान्य् एव
किम् ? नहि नहि इयं तु तव लीलेत्य् आह द्वयेन त्वयोदित इतीति |

तथैव च भगवत्-स्वरूप-साम्येनोक्तं वैष्णवे -

नाम-कर्म-स्वरूपाणि न परिच्छेद-गोचरे |
यस्याखिल-प्रमाणानं स विष्णुर् गर्भगस् तव || इति | [ ५.२.१९]
रूप-कर्मेति वा पाठान्तरम्[१०] | इत्थम् एवाभिप्रेतं श्री-
गीतोपनिषद्भिः -

जन्म-कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः | इति | [ ४.९]

तथा नाम्नो वैलक्षण्यं वाङ्-मनसागोचर-गुणावलम्बित्वेन स्वतः-
सिद्धत्वम् | तद् यथा वासुदेवाध्यात्मे - अप्रसिद्धेस् तद्-गुणानाम्
अनामासौ प्रकीर्तितः इति | ब्राह्मे - अनामा सोऽप्रसिद्धत्वाद् अरूपो भूत-
वर्जनात् इति |

न यत्र नाथ विद्यन्ते नाम-जात्यादि-कल्पनाः |
तद् ब्रह्म परमं नित्यम् अविकारि भवान् अज ||
न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यथः |
ततः कृष्णाच्युतानन्त-विष्णु-नामभिर् ईड्यसे || इति || [ ५.१८.५३-५४]

एतद्-वैष्णव-वचनानन्तरम् अपि न विरुद्धम् | तथा हि | अत्रापाततः
प्रतीतार्थतायां कल्पना-शब्दो व्यर्थः स्यात् | नाम-जात्य्-आदयो न विद्यन्ते
| इत्य् अनेनैव विवक्षितार्थ-सिद्धेः | स्वयम् एव ब्रह्माजादि-शब्दानां
परमार्थ-प्रतिपादक-नामतया स्वीकृतश् च | अजाम् एकां लोहित-शुक्ल-
कृष्णाम् [Śवेत्U ४.५] इत्य् आदिष्व् अजायमानत्व-लक्षण-जातिश् च दृश्यत एव |
तथा नामादि-कल्पना न विद्यन्ते इत्य् उक्ता स्वयं कृष्णादि-नाम-कल्पनोक्तिर्
विरुद्धा स्यात् कल्पनया वा कथम् ईडयता स्यात् कल्पनाया अनियतत्वाच् च
कथं कृष्णादिनाम् अनियत्यम् उच्यते | तस्मान् नाम-कर्म-स्वरूपाणीत्य्
अनुसाराच् चायम् अर्थः | यथा यत्र नाम-जात्य्-आदीनां नामनि कृष्णादीनि
जातयो देवत्व-मनुष्यत्व-क्षत्रियत्वादि-लीलाः तदादीनां कल्पना न
विद्यन्ते |

किन्तु स्व-संस्थया समाप्त-सर्वार्थम् इत्य् उक्त-दिशा स्वरूप-सिद्ध-नित्य-
शक्ति-विलास-रूपाण्य् एव तानीत्य् अर्थः | ततश् च यतो यस्मात् सर्वस्यापि
दृष्टस्य वस्तुनः कल्पनां नामादि-रचनामृते अधिगमो व्यवहारिक-
बोधो न भवति | ततस् तस्माद् एव हेतोः कल्पना-मयं नाम तन्-नामिनं
चार्थ सर्वम् अवज्ञाय निखिल-प्रमाण-परिच्छेदागोचरत्वेन वेदात्मतया
स्वतः-सिद्धैः कृष्णादि-नामोपलक्षणैः प्रसिद्धैर् एव नामभिः स्वतः-
सिद्धस् त्वम् एवेड्यसे मुनिभिर् वेदैश् च श्लाघ्यसे | न तु कल्पनामयैर्
अन्यैस् त्वम् अपि श्लाघ्यसे तादृश-महिमभिस् तैर् एव तव महिमा
व्यक्तीभवतीति | यद् वा | तैर् एवेड्यसे व्यक्त-माहात्मीक्रियस इति |

अत्र यैः शास्त्रेऽतिप्रसिद्धैः श्री-भगवान् एव झटिति प्रतीतो भवति | येषां
च साङ्केत्यादाव् अपि तादृश-प्रभावः श्रूयते | तेषां स्वतः सिद्धत्वम्
अन्येषां कल्पनामयत्वं ज्ञेयम् | अथवा हे नाथ| यत्र नाम-जात्यादीनां
कल्पना न विद्यन्ते तत् कवल-विशेष-रूपं परमं ब्रह्म भवान् |

तत्-तत्-कल्पनाया अविषयत्वे हेतुः | विशेषेण करोति लीलायत इति विकारि तथा
न भवतीत्य् अविकारि इति | तद्-रूपेण न जायते न प्रकटीभवतीति हे अजेति |
ततः किम् अवलम्ब्य तत्र नाम-जात्य्-आदि-कल्पनाः क्रियन्ताम् इति भावः | तत्-
तत्-कल्पनां विना च सर्वस्याप्य् अर्थस्य वस्तु-मात्रस्याधिगम-मात्रं न
भवेत् | किम् उत तादृश-ब्रह्म-स्वरूपस्य भवतः | कल्पनामय-नाम-
जात्य्-आदयस् तु न कस्यापि स्वरूप-धर्मा भवन्ति यत एवं ततः
साङ्केत्यादिना भावितैर् अपि भवद्वत्-सर्व-पुरुषार्थ-प्रदैस् तत्-तद्-
विशेष-प्रतिपादकैः कृष्णादि-नामभिर् एव त्वम् ईड्यसे नित्य-सिद्ध-श्रुति-
पुराणादिभिः श्लाघ्यसे न तु निर्विशेषता-प्रतिपादकैर् नितरां
कल्पनामयैर् इत्य् अर्थः |

किन्तु कृष्णादीनां चतुर्णां नाम्नां उपलक्सणत्वम् एव ज्ञेयम् |
नारायणादि-नाम्नाम् अपि साङ्केत्यादौ तथा प्रभाव-श्रवणात् | वर्ण एव
तु शब्द इति भगवान् उपवर्ष इत्य् अनेन तस्य च नित्यत्वाद् इत्य् अनेन च
न्यायेन वर्णतयैव नित्यत्वम् अस्य वेद-सार-वर्णात्मक-नाम्नः सिध्यति
| तथैव गोपाल-तापनी-श्रुतौ नाम-मयाष्टदशाक्षर-प्रसङ्गे ब्रह्म-
वाक्यम् - तेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं प्रकाशयन्न् [GTU १.२६] इति
| अत्रावतार-काल-जात-शब्दादिमय-जगत्-कारणत्वेन तद्-वैलक्षण्यात्
स्वतः-सिद्धत्वं तथा भगवत्-स्वरूपाभिन्नत्वं च तद्-वैलक्षण्यं
नाम्नः | तद् यथा श्रुतौ -

ॐ आस्य जानन्तो नाम चिद् विविक्तन् महस् ते विष्णो सुमतिं भजामहे | ॐ तत्
सद् इत्य् आदि |

अयम् अर्थः | हे विष्णो! ते तव नाम चित् चित्-स्वरूपम् अतएव महः स्व-
प्रकाश-रूपम् | तस्माद् अस्य नाम्नः आ ईषद् अपि जानन्तः न तु सम्यग्
उच्चार-माहात्म्यादि-पुरस्कारेण | तथापि विवक्तन् ब्रुवाणाः केवलं तद्-
अक्षराभ्यास-मात्रं कुर्वाणाः सुमतिं तद्-विषयां विद्यां भजामहे
प्राप्नुमः | यतस् तद् एव प्रणव-व्यञ्जितं वस्तु सत् स्वतः-सिद्धम् इति |
अतएव भय-द्वेषादौ श्री-मूर्तेः स्फूर्तेर् इव साङ्केत्यादाव् अप्य् अस्य
मुक्तिदत्वं श्रूयते | तथा चोक्तं पाद्मे -

अप्य् अन्य-चित्तः क्रुद्धो वा यः सदा कीर्तयेद् धरिम् |
सोऽपि बन्ध-क्सयान् मुक्तिं लभेच् चेदि-पतिर् यथा || इति |

तथा श्री-भगवत इव तस्य नाम्नः सकृद् अपि साक्षात्कारः संसार-
ध्वंसको भवति | यथा स्कान्दे -

सकृद् उच्चारितं येन हरिर् इत्य् अक्षर-द्वयम् |
बद्धः परिकरस् तेन मोक्षाय गमनं प्रति ||

इति श्रुतौ च प्रणवम् उद्दिश्य | ओम् इत्य् एतत् ब्रह्मणो नेदिष्टं नाम
यस्माद् उच्चार्यमाण एव संसार-भयात् तारयति तस्माद् उच्यते तार इत्य् आदि
बहुतरम् | न चास्यार्थ-वादत्वं चिन्त्यम् |

तथार्थवादो हरिनाम्नि कल्पनम् इति पद्म-पुराणानुसारेणापराधापातात्
| यस्य तु गृहीत-नाम्नोऽपि पुनः संसारस् तस्य नानुव्रजति यो मोहाद्
व्रजन्तं परमेश्वरम् | ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-
राक्षस इति श्री-विष्णु-भक्ति-चन्द्रोदयादि-प्रमाणित-पुराण-वचनवन्
महद् अपराध-तद्-अर्थ-वाद-कल्पनादिकं प्रतिबन्धकं ज्ञेयम् |
अतएवानन्द-रूपत्वम् अस्य महद्-धृदय-साक्षिकं प्रतिबन्धकं ज्ञेयम्
|

अतएवानन्द-रूपत्वम् अस्य म्हद्-धृदय-साक्षिकं यथा श्री-विग्रहस्य |
तद् उक्तं श्री-शौनकेन -

तद् अश्म-सारं हृदयं बतेदं
यद् गृह्यमाणैर् हरि-नाम-धेयैः |
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्र-रुहेषु हर्षः || [ २.३.२४]

अतएव प्रभास-पुराणे कण्ठोक्त्या कथितैर् हेतुभिः सकल-वेद-फलत्वेन
च भगवत्-स्वरूपत्वम् एव प्रतिपादितम् |

मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां
सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् |
सकृद् अपि परिगीतं श्रद्धया हेलया वा
भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम || इति ||

तस्माद् भगवत्-स्वरूपम् एव नाम | स्पष्टं चोक्तं श्री-नारद-
पञ्चरात्रेऽष्टादशाक्षरम् उद्दिश्य -

व्यक्तं हि भगवान् एव साक्षान्-नारायणः स्वयम् |
अष्टाक्षर-स्वरूपेन मुखेषु परिवर्तते || इति |

माण्डुक्योपनिषत्सु च प्रणवम् उद्दिश्य - ॐ इत्य् एतद् अक्षरम् इदं सर्वं
[ १] | ॐकार एवेदं सर्वम् [ २.२३.३] |

प्रणवो ह्य् अपरं ब्रह्म प्रणवश् च परं स्मृतम् |
अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ||
सर्वस्य प्रणवो ह्य् आदिर् मध्यम् अन्तस् तथैव च |
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद्-अनन्तरम् ||
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् |
सर्व-व्यापिनम् ओङ्कारं मत्वा धीरो न शोचति ||
अमात्रोऽनन्त-मात्रश् च द्वैतस्योपशमः शिवः |
ओङ्कारो विदितो येन स मुनिर् नेतरो जनः || इति [माण्डूक्य-कारिका २६-२९]

न तु परमेश्वरस्यैव तत्-तद्-योग्यतास्मभवाद् वर्ण-मात्रस्य तथोक्तिः
स्तुति-रूपैवेति मन्तव्यम् | अवतारान्तरवत् परमेश्वरस्यैव वर्ण-
रूपेणावतारोऽयम् इति अस्मिन्न् अर्थे तेनैव श्रुति-बलेनाङ्गीकृते तद्-अभेदेन
तत्-सम्भवात् | तस्मान् नाम-नामिनोर् अभेद एव | तद् उक्तं पाद्मे -

नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः |
पूर्णः शुद्धो नित्य-मुक्तो ऽभिन्नत्वान् नाम-नामिनोः || इति ||

अस्यार्थः - नामैव चिन्तामणिः सर्वार्थ-दातृत्वात् | न केवलं तादृशम् एव
अपि तु चैतन्यादि-लक्षणो यः कृष्णः स एव साक्षात् | तत्र हेतुर् अभिन्नत्वाद्
इतीति | ननु, तथाविधं नामादिकं कथं पुरुषेन्द्रिय-जन्यं भवति | न,
वेद-मात्रस्य भगवतिव पुरुषेन्द्रियादिष्व् आविर्भावनात् | यथोक्तम्
एकादशे स्वयं श्री-भगवता - शब्द-ब्रह्म सुदुर्बोधम् इत्य् [ ११.२१.३६]
आरभ्य,

मयोपबृंहितं भूम्ना ब्रह्मणानन्त-शक्तिना |
भूतेषु घोष-रूपेण विशेष-पूर्णेव लक्ष्यते || [ ११.२१.३७] इति ||

द्वादशस्य षष्ठे वेदव्यसन-प्रसङ्गे क्षीणायुषः इत्य् आदौ [ १२.६.४७]
| टीका च - तर्हि पुरुष-बुद्धि-प्रभवत्वान् नादरणीयं स्याद् इत्य्
आशङ्क्याह हृदि-स्थाच्युत-चोदिता इति |

कस्मै येन विभासितोऽयम् इत्य् आदौ [ १२.१३.१९] तद्-रूपेणेत्य् आदिवत् | एतत्
सर्वम् अभिप्रेत्य गर्भ-स्तुताव् उक्तम् -

न नाम-रूपे गुण-जन्म-कर्मभिर्
निरूपितव्ये तव तस्य साक्षिणः |
मनो-वचोभ्याम् अनुमेय-वर्त्मनो
देव क्रियायां प्रतियन्त्य् अथापि हि || [ १०.२.३६] इति ||

तथा-रूपस्यापि वैलक्षण्यं स्व-प्रकाशता-लक्षण-स्वरूप-
शक्त्यैवाविर्भावित्वम् | तच् च पूर्व-दर्शितम् | अतएव द्वितीये,

आत्म-तत्त्व-विशुद्ध्य्-अर्थं यद् आह भगवान् ऋतम् |
ब्रह्मणे दर्शयन् रूपम् अव्यलीक-व्रताद् ऋतः || इत्य् [ २.९.४] अत्र |

टीका च - यच् चोक्तम् अष्टमाध्यये परमेश्वरस्यापि देह-
सम्बन्धाविशेषात् कथं तद्-भक्त्या मोक्षः स्याद् इति | आसीद् यद् उदरात्
पद्मम् इत्य् आदिना [ २.८.८] तत्राह आत्म-तत्त्व-विशुद्ध्य्-अर्थम् इति |
आत्मनो जीवस्य तत्त्व-विशुद्ध्य्-अर्थं तत्त्व-ज्ञानार्थं तद् भवेद् एव | किं
तद् यत् तप्-आदिना स्व-भजनं भगवान् ब्रह्मण आह | किं कुर्वन्, ऋतं
सत्यं चिद्-घनं रूपं दर्शयन् | दर्शने हेतुर् अव्यलीकेन तपसादृतः
सेवितः सन् | अयं भावः | जीवस्याविद्यया मिथाभूत-देह-सम्बन्धः |
ईश्वरस्य तु योगमायया चिद्-घन-विग्रहाविर्भाव इति महान् विशेषः | अतस्
तद् भजने म्क्सोपपत्तिर् इति | इत्य् एषा ||

अतएव, स त्वं त्रिलोक-स्थितये [ १०.३.१७-१८][११] इत्य् आदि-द्वये
श्रीमद्-आनक-दुन्दुभिनापि समाहितम् | अत्र ह्य् अयम् अर्थः - स
प्रपञ्चस्य सृष्टि-स्थिति-प्रलय-कर्ता त्वं त्रिलोक-स्थितये यदा तस्य स्थितम्
इच्छसि | तदा स्व-मायया स्वाश्रितया माया-शक्त्या कृत्वा आत्मनः शुक्लं
वर्णं स्वेन सृष्टां धर्म-परां विप्रादि-जातिं बिभर्षि पालयसि | अत्र
सत्त्वमय्य् एव स्वमाया ज्ञेया निष्कृष्टत्वाद् उपयुक्तत्वाच् च |

अथ यदा सर्गम् इच्छसि तदा रजसा रजोमय्या स्वमायया कृत्वा उपबृंहितं
रक्तम् कामिनं विप्रादि-वर्णं बिभर्षि | यदा च जनात्ययम् इच्छसि तदा
तमो-मय्या कृत्वा कृष्णं मलिनं पाप-रतं तं बिभर्षि |

अथवा यदा स्थितिम् इच्छसि तदात्मनः श्री-विष्णु-रूपस्य शुक्लं शुद्धं
गुण-सङ्कर-रहितम् इत्य् अर्थः | शिव-ब्रह्म-वत् तस्य तत्-सङ्गाभावात् |
तथैव सिद्धान्तितं श्री-शुकदेवेन - शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो
गुण-संवृतः [ १०.८८.३] इत्य् आदौ, हरिर् हि निर्गुणः साक्षात् पुरुषः
प्रकृतेः परः [ १०.८८.५] इत्य् आदि | अतएव --

चन्द्रिका-विशद-स्मेरैः
सारुणापाङ्ग-वीक्षितैः |
स्वकार्थानाम् इव रजः-
सत्त्वाभ्यां स्रष्ंऋ-पालकाः || [ १०.१३.५०] इति |

अत्र सात्त्विकत्व-राज-सत्त्वे उत्प्रेक्षिते एव, न तु वस्तुतया निरूपिते | वर्णं
रूपं, न तु कान्ति-मात्रम् | गुण-मयत्व-स्वीकारेऽपि तत् तद् गुण-
व्यञ्जकाकारस्याप्य् अपेक्ष्यत्वात् न तु श्वेतं वर्णम् इति व्याख्येयं | श्री-
विष्णु-रूपस्य पालनार्थं गुणावतारस्य परमात्म-सन्दर्भे क्षीरोद-
शायित्वेन स्थापयिष्यमाणस्य तत्र श्यामत्वेनाति-प्रसिद्धेः | जनात्यय-
हेतो रुद्रस्य श्वेतताति-प्रसिद्ध्या तद्-वैपरीत्य-पातात् |

तथैव हि गोभिलोक्त-सन्ध्योपासनायाम् - अतोऽत्र ब्रह्मणो न शोणवर्णत्वे
तात्पर्यम् | न च तत्-तद्-गुणानां तत्-तद्-वर्ण-नियमः | परमतामसानां
बकादीनां श्यामत्व-श्रवणात् | स्व-मायया भक्तेषु कृपया बिभर्षि जगति
धारयसि प्रकटयसीत्य् अर्थः | रक्तं रजोमयत्वेन सिसृक्सादि-राग-
बहुलम् | कृष्णं तमोमयत्वेन स्वरूप-प्रकाश-रहितम् इत्य् अर्थः |

पार्थिवाद् दारुणो धूमस्
तस्माद् अग्निस् त्रयीमयः |
तमसस् तु रजस् तस्मात्
सत्त्वं यद् ब्रह्म-दर्शनम् || [ १.२.२४] इत्य् उक्तेः |

ननु, कथम् अन्यार्थेन वाक्येन लोक-भ्रामकं वर्णयसि, यतः सम्प्रति
जनात्ययआर्थं कृष्णोऽयं वर्णो मया तमसा गृहीत इत्य् अर्थोऽप्य् आयाति तद्
एतद् आशङ्क्य परिहरन्न् आह त्वम् अस्य इति [ १०.३.२१][१२]
| निर्व्यूह्यमाना इतस् ततश् चाल्यमानाः | अयं भावः - आस्तां तावद् ब्रह्म-
घनत्व-शुद्ध-सत्त्व-मयत्व-बोधकं प्रमाणान्तरं, गुणानुरूप-
रूपाङ्गीकारेऽपि यथा प्रलयस्य दुःख-मात्र-हेतुत्वात् सुषुप्ति-रूपत्वाच् च
तत्र तद्-अर्थावसरो भवति तथास्य तु कालस्य त्व-कृत-रक्षया जगत्-सुख-
हेतुत्वात् तमोमयासुर-विनाश-योग्यत्वात् तेषाम् असुराणाम् अपि हनन-
व्याजेन सर्व-गुणातीत-मोक्षात्मक-प्रसाद-लाभात् तद्-अर्थावसरो न
भवति, सैन्धव-मानवेतिवत् | तथैवोक्तम् -

जय-काले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् |
तमसो यक्ष-रक्षांसि तत्-कालानुगुणोऽभजत् || इति [ ७.१.८]

तस्मान् न तमः-कृतोऽयं वर्ण इति रजः-सत्त्वाभ्यां रक्त-शुक्लाव् एव
भवत इति पूर्व-पक्षि-मतम् | ततश् च पारिशेष्य-प्रमाणेन स्वरूप-शक्ति-
व्यञ्जितत्वम् एवात्रापि पर्यवस्यति इति भावः | तथैव तम् एवार्थं श्री-
देवकी-देव्य् अपि सम्भ्रमेण प्राग् एव विवृतवती - रूपं यत् तत् प्राहुर्à
अव्यक्तम् आद्याम् इति [ १०.३.२४] |

अथ प्रकृतम् अनुसरामः | तथा गुणस्य वैलक्षण्यम् आत्मारामाणाम् अप्य्
आकर्षण-लिङ्ग-गम्याद् भूतरूपत्वम् | तद् यथा श्री-सूतोक्तौ -
आत्मारामाश् च मुनय [ १.७.१०] इत्य् आदौ | हरेर् गुणाक्षिप्त-मतिर् [
१.७.११] इत्य् आदि च | अतएवोक्तं विष्णुधर्मोत्तरे -

गुणाः सर्वेऽपि युज्यन्ते ह्य् ऐश्वर्यात् पुरुषोत्तमे |
दोषाः कथञ्चिन् नैवात्र युज्यन्ते परमो हि सः ||
गुण-दोषौ माययैव केचिद् आहुर् अपण्डिताः |
न तत्र माया मायी वा तदीयौ तौ कुतो ह्य् अतः ||
तस्मान् न मायया सर्वं सर्वम् ऐश्वर्य-सम्भवम् |
अमायो हीश्वरो यस्मात् तस्मात् तं परमं विदुः || इति ||

अथ न विद्यते इत्य् अस्य प्रकृत-श्लोकस्य व्याख्यातावशेषः | तद् एवं
स्वरूप-शक्ति-विलास-रूपत्वेन तेषां प्राकृताद् वैलक्षण्यं साधितम् | तत्र
आशङ्कते |

ननु भवन्तु स्वस्वरूप-भूतान्य् एव तानि तथापि स्वरुपस्यैव पूर्णत्वात्
तत्-तत्-प्राप्तौ किं प्रयोजनं तत्राह लोकाप्यय-सम्भवाय | लोको भक्त-
जनः तस्याप्ययः संसार-ध्वंसस् तत्-पूर्वकः सम्भवो भक्ति-सुख-
प्राप्तिः | भू प्राप्तौ तद् अर्थम् एतद् अप्य् उपलक्षणं नित्य-पार्षदानाम्
अपि भक्ति-सुखोत्कर्षार्थम् | तद् उक्तं श्रीमद्-अर्जुनेन प्रथमे -

तथायं चावतारस् ते भुवो भार-जिहीर्षया |
स्वानां चानन्य-भावानाम् अनुध्यानाय चासकृत् || इति [ १.७.२५] |

अस्यार्थः -- यथान्ये पुरुषादयोऽवतारास् तथायं चावतारः साक्षाद्-
भगवतः श्री-कृष्णाख्यस्य तवैव प्राकट्यं, परम-भक्ताया भुवो
भार-जिहीर्षया जातोऽपि | अन्येषां स्वानां भक्तानाम् असकृच् च मुहुर् अप्य्
अनुध्यानाय निज-भजन-सौख्याय भवति |

ननु तर्हि भक्त-सौख्यम् एव प्रयोजनं जातम् इति पूर्णानन्दस्य तस्येह
प्रयोजन-मतिः कुत इत्य् एतत् कथम् उपपद्येत | तत्राह - अनन्यभावानाम्
इति | अन्यथा सर्व-ज्ञ-शिरोमणेर् निर्दोषस्य तस्य तन्-मात्रापेक्षकानां
तेषाम् उपेक्षायाम् अकारुण्य-दोषः प्रयुज्येत इति भावः | आत्मारामेऽपि
कारुण्य-गुणावकाशो गुणा विरुद्धा अपि तु समाखार्याश् च सर्वत इति
स्मरणात् विचित्र-गुण-निधाने श्री-भगवत्य् एव सम्भवति | ततोऽन्यत्र तु
सञ्चरित-तद्-गुणांशे तदीय एव यः प्रतिपदम् एव साश्चर्यं श्रुत्य्-आदिभिर्
उच्चैर् गीयते | यश् चाविरिञ्चिम् आपामर-जनम् आकर्षन्न् एव वर्तते | तद्
उक्तं स्वयम् एव -

भजतोऽपि न वै केचिद् भजन्त्य् अभजतः कुतः |
आत्मारामा ह्य् आप्त-कामा अकृत-ज्ञा गुरुद्रुहः ||

नाहं तु सख्यो भजतोऽपि जन्तून्
भजाम्य् अमीषाम् अनुवृत्ति-वृत्तये || इत्य् आदि [ १०.३२.१९-२०] |

तस्मात् परम-समर्थस्य तस्य कृपा-लक्षणं भक्त-जन-सुख-
प्रयोजनकत्वं नाम कोऽपि स्वरूपानन्द-विलास-भूत-परमाश्चर्य-
स्वभाव-विशेष इति मूल-पद्येऽप्य् अनुकालम् ऋच्छतीत्य् अनेनैव [ ८.३.८]
दर्शितम् | अतः प्रयोजनान्तर-मतित्वं तु तस्मिन् नास्त्य् एव | तत्-
प्रयोजनत्वं च तस्य परम-समर्थस्यानन्द-विलास एवेति दिक् | यथोक्तम् -

कृपालोर् असमर्थस्य दुःखायैव कृपालुता |
समर्थस्य तु तस्यैव सुखायैव कृपालुता || इति ||

गजेन्द्रः श्री-हरिम् || ४९ ||

[५०]

तस्माद् अपाणि-पाद-श्रुतेर् अपि यद् अनन्त-स्वप्रकाशानन्द-विग्रह एव
भगवति तात्पर्यं नान्यत्रेति प्रतिपादयन्ति |

त्वम् अकरणः स्वराड् अखिल-कारक-शक्ति-धरस्
तव बलिम् उद्वहन्ति समदन्त्यजयानिमिषाः |
वर्ष-भुजोऽखिल-क्सितिपतेर् इव विश्व-सृजो विदधति
यत्र ये त्व् अधिकृता भवतश् चकिताः || [ १०.८७.२८]


अयम् अर्थः | अत्र करणं नाम वास्यादिवत् कर्तृ-शक्ति-प्रेरिततया
कार्यकरं कर्तुर् भिन्नतमं केवल-करणत्वापन्नम् एव वस्त्व् अङ्गीकृतं,
न तु स्वरूपत्वापन्नम् अपि यत् तद् अपि | यथा दहनादौ तच्-छक्त्यादिकम्
| गौणार्थत्वात् स्वराट्-पद-निरुक्तौ स्वेनेति तृतीयान्त-पदस्य स्वरूप-
शक्ताव् एव पर्यवसानाच् च | ततो जीवस्य चिद्-रूपत्वात् पाण्यादीनां स्वतो
जडत्वात् तद्-अधीन-शक्तीनां तेषां भिन्नतमानां करणत्वं
मुख्यार्थम् एव | ततोऽसौ तद्-आसक्तत्वात् सकरणः त्वं तु तद्-अन्तर्यामी
तद्-अनासक्तत्वात् तद्-अनपेक्षो यतः स्वराट् स्वरूप-शक्त्यैव राजसे इति |
तथा प्रलय-कालावसाने |

स्त्रिय उरुगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः समदृशोऽङ्घ्रि-सरोज-सुधाः || [ १०.८७.२३]

इति विद्वद्-गण-गुरुभिर् अस्माभिर् अपि निजालम्बनत्वेन वर्ण्यमान-परम-
दिव्य-करण-गण-विचित्रोऽप्य् असौ अकरण एव | कुतः स्वराट् स्वेन स्वरूप-
शक्ति-विशेष-सिद्ध-प्रादुर्भाव-विशेषेषेण स्वरूपेणैव तत्-तत्-करणतया
राजसे | तेषां स्वरूप-भूतत्वेन मुख्य-करणत्वायोगाद् इति भावः |
अन्यथौपाधिक-वस्तु-द्वारा तवापि प्रकाशे कथं नाम स्वराट्त्वं
सिध्येद् इति च |

आनन्द-मात्रम् अजरं पुराणम् एकं सन्तं बहुधा दृश्यमानं नेह
नानास्ति किञ्चन इत्य् आदि श्रुतेः [BAU ४.४.१९] | आनन्द-मात्र-कर-पाद-
मुखोदरादिर् इत्य् आदि स्मृतेश् [Nआर्Pअञ्च्] च |

ननु, मयि तथाभूत-स्वरूप-शक्तीनाम् अस्तितायां किं प्रमाणम् | तत्राहुर्
अखिल-कारक-शक्ति-धर इति | अखिलेभ्यः प्राणिभ्यः कारकाणि करणानि
चकुषुर्-आदि-गोलकानि तेषु शक्तीश् चेन्द्रियाणि धरसि ददासीति तथा | सर्वेषु
तेषु तत्-तद्-धारणात् | तास् तु त्वयि स्वतः-सिद्धा अव्ययाः पूर्णा एव सन्तीति
भावः | तथा च श्रुतिः - प्राणस्य प्राणम् उत चक्षुषश् चक्षुर् इति आद्या
[KएनU १.२] | स्वाभाविकी ज्ञान-बल-क्रिया च इत्य् आद्या च [Śवेत्U ६.८] |

तद् उक्तम् एकादशे -

यस्येन्द्रियस् तनु-भृताम् उभयेन्द्रियाणि
ज्ञानं स्वतः श्वसनतो बलभोज ईहा || इति [ ११.४.४]

अतएव विकरणत्वान् नेति चेत् तद् उक्तम् इत्य् [Vस् २.१.३२] अत्र सूत्रकारोऽपि तद्
उक्तम् इत्य् अनेन श्रुतेस् तु शब्द-मूलत्वाद् इत्य् [Vस्. २.१.२७] उक्त-रीत्यैव श्रुत्य्-
एक-गम्यं तर्कातीतं तस्य विकरणत्वं सकरणत्वं च साधितवान् | श्रुतिश्
च - न तस्य कार्यं करणं च विद्यते इत्य् [Śवेत्U ६.८] आद्या |

अथवा, अखिल-कारक-शक्ति-धरोऽपि त्वम् असाव् अकरण एवेत्य् अन्वयः | कुतः
? स्वराड् इत्य् आदि | अतः सर्वतो विलक्षण-महिमत्वाद् अनिमिषा देवा
इन्द्रादयस् तत्-पूज्या विश्व-सृजो ब्रह्मादयोऽपि तव तुभ्यं बलिम् उपहारं
तद् उच्चैः शिरोभिर् वहन्ति | अजया तेषाम् अधिकारिण्या माययापि सहिताः |

सापि आभास-शक्ति-रूपा स्वरूपानन्द-शक्ति-मयाय तुभ्यम् आत्म-सम्पद्-
उद्भावार्थं बलिम् हरतीत्य् अर्थः | समदन्ति च मौष्यैर् दत्तं हव्य-
कव्य्-आदि-लक्षणं बलिं भक्षयन्ति च | अत्र दृष्टान्तः वर्ष-भुज इति |
वर्षं खण्ड-मण्डलम् |

कथं बलिम् उद्वहन्ति ? तद् आहुः विदधतीति | त्व-आज्ञा-पालनम् एव बलि-
हरणम् इत्य् अर्थः | भीषास्माद् वातः पवते भीसोदेति सूर्यः भीषास्माद्
अग्निश् चेन्द्रश् च मृत्युर् धावति पञ्चमः इति [Kअठ २.३.३] श्रुतेः |

अथवा, ननु मम पाण्य्-आदि-करणानां स्वरूप-भूतत्वे युक्ति कथयत्य् अत
आहुः अनिमिषाः करणाधिष्ठातृ-देवास् तव बलिम् उद्वनतीति | आज्ञान-
देवत्वाद् विश्व-सृजः विश्वेषां सृष्टि-हेतवः | अन्ये तत्-तद्-अधिष्ठातृ-
देवताश्रयाद् एव करणैर् विषयं प्रकाशयितुं शक्नुवन्ति | त्वं पुनस्
तेषाम् अप्य् आश्रय इति त्वत्-करणानां स्वप्रकाशतापत्तेः स्वरूप-भूतत्वम्
एवेति |

अथाप्य् आस्तां महा-शक्तिर् मायैवाश्रय इत्य् अत आहुः अजयेति | ननु जीवा अपि
निजेन्द्रियाधिष्ठातातॄणाम् आश्रया भवन्ति | तत्राहुः विदधतीति | विषय-
भोग-द्वारेएष्व् इन्द्रियेषु भवता विश्व-पतिना दत्ताधिकाराणां देवानाम्
एवाधिकार्याः कतिपय-ग्राम-भौमिका इव जीवा इति न तेषाम् आश्रयाः |
किन्तु भवान् एव तेषाम् अधिकारकत्वाद् आश्रय इति भावः ||

१०|८७|| श्रुतयः श्री-भगवन्तम् ||५०||

[५१]

तस्माद् विलक्षण-पाणि-पादादित्वेनैवापाणि-पादादित्वम् | यथाह -

त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर्
मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् |
जीवच्-छवं भजति कान्तम् अति-विमूढा
या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री || [ १०.६०.४५]

अथ श्री-भगवति केशादीनां श्रूयमाणानाम् आनन्द-स्वरूपत्वम् अन्येषां
त्व् अभाव एवेति वैलक्षण्यं स्पष्टम् एव | अतएव हि हिरण्यकशिपुं प्रति
तन्-मारक-जन-निषेध-लक्षण-ब्रह्म-वर-दानम् अपि सङ्गच्छते |
व्यसुभिर् वासुमद्भिर् वा सुरासुर-महोरगैर् इति [ ७.३.३७] | न चैतत्
करणस्य निषेध-परं, किन्तु कर्तुर् एव | कर्तृ-प्रकरणात् अप्राणिभिः
प्राणिभिर् वेत्य् उक्तेस् तस्यैव प्राप्तत्वात् | हन्तुर् जीवद्[१३]-
देह-साम्येऽपि सप्राण-भागान् निष्क्रान्तस्य कर्तनीय[१४]-
नखाग्र-भागस्य त्यक्त-प्राणत्वाच् च |

तस्माद् अस्माकम् अप्राणो ह्य् अमनाः शुभ्र इति | अस्य महतो भूतस्य
निःश्वसितम् एतद् इति [BAU २.४.१०] च श्रुतिर् नासङ्गतेति | अतएव वाराहे -

न यस्य प्राकृता मूर्तिर् मेदोमज्जास्थि-सम्भवा |
न योगित्वादीश्वरत्वात् सत्य-रूपोऽच्युतो विभुर् || इति ||

तच् चाप्राकृत-मूर्तित्वं तस्य महायोगित्वाद् इच्छा-कृतम् इति न, किन्त्व्
ईश्वरत्वान् नित्यम् एवेत्य् अर्थः | तथा च प्रयोगः | ईश्वरः स-विग्रहः
ज्ञानेच्छा-प्रयत्नवत् कर्तृत्वात् कुलालादिवत् | स च विग्रहो नित्यः ईश्वर-
करर्णत्वात् तज्-ज्ञानादिवद् इति | अतएव विलक्षणत्वम् अपि | जीवच्छवम् इति
चैतन्ययोगेन जीवन्तम् स्वतस् तु शवम् | ततः श्री-भगवद्-विग्रहस् तु चिद्
एक-रसत्वात् सदा जीवन्न् एवेति वैलक्षण्यं युक्तं नित्यानन्द-चिद्-रूपत्वाद्
भजनीयत्वं च युक्तम् इति भावः ||

|| १०.६० || श्री-रुक्मिणी श्री-भगवन्तम् ||५१||

[५२]

नाम-रूपित्व-विधिनिषेध-श्रुतिभिर् विवदमानानां विवादावसरे तद् एव
ह्य् अपपादयति |

अस्तीति नास्तीति च वस्तु-निष्ठयोर्
एक-स्थयोर् भिन्न-विरुद्ध-धर्मणोः
अवेक्षितं किञ्चन योग-साङ्ख्ययोः
समं परं ह्य् अनुकूलं बृहत् तत् || [ ६.४.३२]

अस्तीति योगः स्थूलोपासना-शास्त्रं, तत्र हि यद्-भगवतो नाम-रूपित्वं
श्रूयते तद्-दृष्ट-कल्पना-लाघवात् घट-पटादि-लक्षणाखिल-नाम-
धेयत्वं पाताल-पादादिकत्वं चेति विधीयते | नास्तीति साङ्ख्यं ज्ञान-
शास्त्रं तत्र हि निषेध-श्रुतिभिस् तस्य नाम-रूपित्वं यन् निषिध्यते तत्
प्रापञ्चिक-नाम-रूपित्वस्य कल्पितत्वात् सर्वथैव नास्तीति निश्चीयते | तद्
उक्तम् उभय-मतस्यैव प्राक् | स सर्व-नामा स च विश्व-रूपः इत्य् आदिना
यद् यन् निरुक्तं वचसा निरूपितम् इत्य् आदिना च [ ६.४.२८-२९] |

अस्तीति नास्तीति च वस्तुनि निष्ठा ययोः | तम् एव विवादं स्फुटयति, भिन्नौ
अस्तीति नास्तीत्य् एवम्भूतौ विरुद्धौ धर्मौ ययोस् तयोः |

नन्व् आस्ताम् अनयोर् भिन्न-विषयत्वं नेत्याह एकस्थयोः समान-विषयोः |
तद् एवं विवादे सति यत् किञ्चित् समं समञ्जसत्वेनैव अवेक्षितं प्रतीतं
वस्तु तद् द्वयोर् अपि बृहन् महद् अनुकूलं भवति | किं तत् समञ्जसं ? यत्
परं नाम-रूपाद् अत्यन्त-तद्-अभावाच् च विलक्षणं किम् अपि नाम-रूप-
लक्षणम् एव वस्त्व् इत्य् अर्थः |

एतद् उक्तं भवति | एकस्मिन्न् एव वस्तुनि नाम-रूपित्व-विधि-निषेधाभ्यां
परस्परं श्रुतयः पराहतार्थाः स्युः | अत्र तु परत्वेनोभयत्रापि
प्राक्तन-युक्त्या समञ्जसम् अप्राकृत-नाम-रूपित्वम् एव विधि-निषेध-
श्रुति-तात्पर्येनोपस्थाप्यत इति तत्-तन्-मतं विवाद-मात्रम् |

इत्थम् एवात्र श्री-ध्रुवेण निर्विवादत्वम् उक्तम् --

तिर्यङ्-नग-द्विज-सरीसृप-देव-दैत्य-
मर्त्यादिभिः परिचितं सद्-असद्-विशेषम्
रूपं स्थविष्ठम् अज ते महद्-आद्य्-अनेकं
नातः परं परम वेद्मि न यत्र वादः || इति [ ४.९.१३] |

अत्र रूप-शब्दस्यैवोभयत्र विशेष्यत्वेन | भूप रूपम् अरूपं च परं
चापरम् एव च इति [ ६.७.४७] वैष्णव-वाक्यानुसारेण च | अतः परं
चतुर्भुजादित्व-लक्षणं रूपं वपुर् इत्य् अर्थः | तच् चाग्रे दर्शयिष्यते |

[५२]

तन् न वेद्मि एतत् पर्यन्तं कालं नाज्ञासिषम् इत्य् अर्थः | तद् एव व्यनक्ति |

यो ऽनुग्रहार्थं भजतां पाद-मूलम्
अनाम-रूपो भगवान् अनन्तः |
नामानि रूपाणि च जन्म-कर्मभिर्
भेजे स मह्यं परमः प्रसीदतु || [ ६.४.३३]

यो नाम-रूप-रहित एव नामानि रूपाणि च भेजे प्रकटितवान् | जन्म-
कर्मभिः सह तानि च प्रकटितवान् इत्य् अर्थः | व्यतिरेके दोषम् आह अनन्त
इति | यदि तस्मिन् नाम-रूपित्वादिकं नास्ति तर्हि तच्-छक्तिमत्त्वं प्रति
सान्तत्वम् एव प्रसज्येतेति | तद् उक्तं प्रचेतोभिः -- न ह्य् अन्तस् त्वद्-
विभूतीनां सो ऽनन्त इति गीयसे इति [ ४.३०.३१] | तत्-तत्-प्रकाशने हेतुः |
भगवान् भगात्मक-शक्तिमान् | तस्याः शक्तेर् मायात्वम् निषेधति
परमः | पराख्य-शक्ति-रूपा मा लक्ष्मीर् यस्मिन् | अन्यथा परमत्व-
व्याघातः स्याद् इति भावः |

तस्मान् न मायया सर्वं सर्वम् ऐश्वर्य-सम्भवम् |
अमायो हीश्वरो यस्मात् तस्मात् तं परमं विदुः || इत्य् उक्तेः |

ननु, सर्व-नाम-विश्व-रूपत्वे तद्-राहित्ये च सन्त्य् एव तत्-तद्-उपासकाः
प्रमाणम् | अत्र तु के स्युर् इत्य् आशङ्क्याह - पाद-मूलं भजताम्
अनुग्रहार्थम् इति | योग-साङ्ख्ययोस् तत् तत्त्वं न सम्यक् प्रकाशते, किन्तु
भक्ताव् एव | भक्तिर् एवैनं दर्शयति इत्य् आदि श्रुतेः | तस्माद् युक्तं तयोर्
विवाद-मात्रत्वम् इति भावः | अतएव वक्ष्यतेऽनन्तरम् एव --

इति संस्तुवतस् तस्य स तस्मिन्न् अघ-मर्षणे |
प्रादुरासीत् कुरु-श्रेष्ठ भगवान् भक्त-वत्सलः ||
कृत-पादः सुपर्णांस इत्य् आदेः [ ६.४.३५-६]

पाद-मूलं भजताम् इत्य् अनेन तान् प्रति रूप-प्राकट्यात् पूर्वम् अपि रूपम्
अस्त्य् एवेति व्यञ्जितम् | चरणं पवित्रं विततं पुराणम् इत्य् आदि श्रुतेः | भेज
इत्य् अतीत-निर्देशः प्रामाण्य-दार्ढ्यायानादित्वं बोधयति | अनन्त-पदस्य
च नामानि रूपाणि चानन्तान्य् एवेति भावः | अत्र प्राकृत-नाम-रूप-रहितोऽपि
इति टीका च ||

|| ६.४ || दक्षः श्री-पुरुषोत्तमम् ||५२||

[५३]

तद् एवं नित्यत्वाद् विभुत्वात् सर्वाश्रयत्वात् स्थूल-स्”क्ष्माप्राकृत-वस्त्व्-
अतिरिक्तत्वात् प्रत्य-रूपत्वात् स्व-प्रकाशत्वात् सर्व-श्रुति-समन्वय-सिद्धत्वात्
तद्-रूपं परम-तत्त्व-रूपम् एवेति सिद्धम् | तथैव हि परम्-
वैदुष्येणानुभूतं स्पष्टम् एवाह त्रिभिः -

रूपं यद् एतद् अवबोध-रसोदयेन
शश्वन्-निवृत्त-तमसः सद्-अनुग्रहाय |
आदौ गृहीतम् अवतार-शतैक-बीजं
यन्-नाभि-पद्म-भवनाद् अहम् आविरासम् ||

नातः परं परम यद् भवतः स्वरूपम्
आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः |
पश्यामि विश्व-सृजम् एकम् अविश्वम् आत्मन्
भूतेन्द्रियात्मक-मदस् त उपाश्रितो ऽस्मि ||

तद् वा इदं भुवन-मङ्गल मङ्गलाय
ध्याने स्म नो दर्शितं त उपासकानाम् |
तस्मै नमो भगवते ऽनुविधेम तुभ्यं
यो ऽनादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः ||[ ३.९.२-४]

टीका च - ननु त्वम् अपि सम्यक् न जानासि यत् त्वया दृष्टं रूपम् एतद् अपि
गुणात्मकम् एव निर्गुणं ब्रह्मैव तु सत्यं तत्राह रूपम् इति द्वाभ्याम्
| अवबोध-रसोदयेन शश्वन् निभृतम् तमो यस्मात् तस्य तव यद् एतद्
रूपं त्वयैव स्वातन्त्र्येण सताम् उपासकानाम् अनुग्रहाय गृहीतम्
आविष्कृतम् | अवतार-शतस्य शुद्ध-सत्त्वात्मकस्य यद् एकं बीजं मूलम्,
तत्-प्रकाशनार्थं गुणावतार-बीजत्वं दर्शयति यन् माभातीति | हे परम
अबिद्ध-वर्चः अनावृत-प्रकाशम् अविकल्पं निर्भेदम् अतएवानन्द-मात्रम्
| एवम्भूतं यद् भवतः स्वरूपं तत् अतो रूपात् परं भिन्नं न पश्यामि
किन्तु इदम् एव तत् | अतः कारणात् ते तव अद इदं रूपम् आश्रितोऽस्मि |
योग्यत्वाद् अपीत्य् आह एकम् उपास्येषु मुख्यं यद् विश्व-सृजम् | अतएव
अविश्वं विश्वस्माद् अन्यत् | किं च, भ्”तेन्द्रियात्मकं भूतानाम् इन्द्रियाणां
चात्मानं कारणम् इत्य् अर्थः |

नन्व् एवम् अपि सोपाधिकम् एतद् अर्वाचीनम् एवेत्य् आशङ्क्याह तद् एवेदं हे
भुवन-मङ्गल यतस् ते त्वया अस्माकम् उपासकानां मङ्गलाय ध्याने
दर्शितम् | न ह्य् अव्यक्त-वर्त्माभिनिवेशित-चित्तानाम् अस्माकं सोपाधिकं
दर्शनं युक्तम् इति भावः | अतस् तुभ्यं नमोऽनुविधेम अनुवृत्त्या
करवाम | तर्हि किम् इति केचिन् मां नाद्रियन्ते, तत्राह योऽनादृत इति | असत्-
प्रसङ्गैर् निरीश्वर-कुतर्क-निष्ठैः | इत्य् एषा ||

अत्र कल्पितम् अप्य् अर्थान्तरं यस्य विद्वद्-गुण-गुरुत्वान् न सम्भवत्य्
एवेति व्यञ्जितम् | न ह्य् अव्यक्त-वर्त्मेति | उक्तं चैतत् स्तुतितः प्राक् अव्यक्त-
वर्त्माभिनिवेशितात्मा [ ३.८.३३] इति | मां नाद्रियन्ते इति विग्रहरूपं माम्
इत्य् एवार्थः | विग्रह्यैव पर-ब्रह्मत्वेन स्थापितत्वात् | अतएव ये विग्रहम्
एतादृशतया न मन्यन्ते ते विद्वद् अनुभव-विरुद्ध-मतयो नेश्वरम् अपि
मन्यन्त इत्य् अत आह निरीश्वर इति | यत एव --

ये तु त्वदीय-चरणाम्बुज-कोष-गन्धं
जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् |
भक्त्या गृहीत-चरणः परया च तेषां
नापैषि नाथ हृदयाम्बु-रुहात् स्व-पुंसाम् || [ ३.९.५]

इत्य् अनन्तर-पद्ये तु-शब्देन योऽनादृत इत्य्-आद्य्-उक्तेभ्यो बहिर्मुख-
जनेभ्यो विलक्षणत्वेन निर्दिष्टानां तादृश-श्री-भगवद्-रूप-निष्ठानाम्
एव श्रुति-वात-नीतम् इति शब्देन प्रमाणेन भक्त्या गृहीत-चरण इत्य्
अनुभवेन च प्राशस्त्यम् उक्तम् || ३.९ || ब्रह्मा श्री-नारायणम् ||५३||

[५४]

आवेशावतारतया प्रतीतस्य श्री-ऋषभदेवस्यापि विग्रह एवं योज्यते, यथा -


इदं शरीरं मम दुर्विभाव्यं
सत्त्वं हि मे हृदयं यत्र धर्मः |
पृष्ठे कृतो मे यद् अधर्म आराद्
अतो हि माम् ऋषभं प्राहुर् आर्याः || [ ५.५.१९]

इदं मनुष्याकार-शरीरं हि निश्चितं दुर्विभाव्यं दुर्वितर्क्यं यत् तत्त्वं
तद् एव | यत्रैव धर्मो भागवत-लक्षणस् तत्रैव मे हृदयं मनः | यद्
यस्मात् तद्-विपरीतादि-लक्षणोऽधर्मो मया पृष्ठे कृतः | ततः पराङ्-
मुखोऽहम् इत्य् अर्थः | अतएव वक्तुर् अस्य ऋषभदेवस्य च सर्वान्तिम-लीलापि
व्याजेनान्तर्धानम् एव प्राकृत-लोक-प्रतीत्य्-अनुसारेणैव तु तथा वर्णितम्
| आत्मारामता-रीति-दर्शनार्थम् | तद् उक्तम् -- योगिनां साम्पराय-विधिम्
अनुशिक्षयन् इति [ ५.६.६] | अतः स्वकलेवरं जिहासुर् इत्य् अत्र कएवर-
शब्दस्य प्रपञ्च एवार्थः | उपासना-शास्त्रे तस्य तथा प्रसिद्धेः |

तथा -- अथ समीर-वेग-विधूत-वेणु-विकर्षण-जातोग्र-दावानलस् तद्
वनम् आलेलिहानः सह तेन ददाह इत्य् [ ५.६.८] अस्य वास्तवार्थे तु तेन
सहेति कर्तृ-साहाय्ये तृतीया | गौण-मुख्य-न्यायेन कर्तर्य् एव प्राथमिक-
प्रवृत्तेः | ततश् च दावानलस् तद्-वन-वर्तितर्वादि-जीवानां स्थूलं देहं
ददाह, ऋषभदेवस् तु सूक्ष्मं देहम् इति तस्य सर्व्=मोक्सदत्वम्
अनुसन्धेयम् |

स यैः स्पृष्टो ऽभिदृष्टो वा संविष्टो ऽनुगतो ऽपि वा |
कोसलास् ते ययुः स्थानं यत्र गच्छन्ति योगिनः || [ ९.११.२२] इतिवत् |

ततोऽनल-साधर्म्यं वर्णयित्वा तद्वद् अन्तर्धानम् एव तस्येति च व्यञ्जितम्
| अतएव ऋषभ-देवाविर्भावस् तृतीयोऽध्याय इत्य् एवोक्तं न तु तज्-जन्मेति ||
५|५|| श्री-ऋषभदेवः स्व-पुत्रान् ||५४||

[५५]

तद् एवं ऋषभस्यापि विग्रहे तादृशता चेत् किम् उत स्वयं भगवत इत्य् आह -


मुनि-गण-नृप-वर्य-सङ्कुले ऽन्तः-
सदसि युधिष्ठिर-राजसूय एषाम् |
अर्हणम् उपपेद ईक्षणीयो
मम दृशि-गोचर एष आविर् आत्मा || [ १.९.४१]

टीका च - एष जगताम् आत्मा मम दृशि-गोचरो दृष्टि-पथः सन्न् आविः
प्रकटो वर्तते | अहो भाग्यम् इति भावः इत्य् एषा || १|९|| श्री-भीष्मः श्री-
भगवन्तम् ||५५||

[५६]

तथैव च -- रूपं यत् तद् इत्य् आदौ स त्वं साक्षाद् विष्णुर् अध्यात्म-दीपः
[ १०.३.२४] इति |[१५]

यत् तत् किम् अपि रूपं वस्तु प्राहुर् वेदाः | किं तद् वस्तु, तद् आह अव्यक्तम्
इत्य् आदि | एवम्भूतं किम् अपि कार्य-कल्पं वस्तु यत् स एव साक्षाद् ऐषि-
गोचरस् त्वं विष्णुर् इति | तथा च पाद्मे निर्माण-खण्डे श्री-भगवन्तं
प्रति श्री-वेद-व्यास-वाक्यम् ---

त्वाम् अहं द्रष्टुम् इच्छामि चक्षुर्भ्यां मधुसूदन |
यत् तत् सत्यं परं ब्रह्म जगद्-योनिं जगत्-पतिम् |
वदन्ति वेद-शिरसश् चाक्षुषं नाथ मेऽस्तु तद् || इति |

तत्र हेतुः अध्यात्म-दीपः देहि तत्-कारण-कार्य-सङ्घ-
प्रकाशकत्वेनावभासन इत्य् अर्थः | एवम्भूतस्य न तव भय-शङ्केति
भावः | इत्य् एष प्रकरणानुरूपः श्री-स्वामि-दर्शित-भावार्थोऽपि श्री-
विग्रह-पर एव | अन्यत्र भय-सम्भावनानुत्पत्तेः ||

१०.३ श्री-देवकी श्रीभगवन्तम् ||५६||

[५७]

अतस् तद्-अंशानाम् अपि तादृशत्वम् आह -

सत्य-ज्ञानानन्तानन्द-
मात्रैक-रस-मूर्तयः |
अस्पृष्ट-भूरि-माहात्म्या
अपि ह्य् उपनिषद्-दृशाम् || [ १०.१३.५४]

टीका च - सर्वेषां मूर्तिमत्त्वेऽप्य् अविशेषम् आह सत्य-ज्ञानेति | सत्याश् च
ज्ञान-रूपाश् च अनन्ताश् च आनन्द-रूपाश् च | तत्रापि तद्-एक-मात्रा विजातीय-
सम्भेद-रहिताः | तत्रापि च एक-रसाः सदैकरूपा मूर्तयो येषां ते | यद्
वा सत्य-ज्ञानादि-मात्रैक-रसं यद् ब्रह्म तद् एव मूर्तिर् येषाम् इति | अतएव
उपनिषत् आत्म-ज्ञानं सैव दृक् चक्षुर् येषां तेषाम् अपि हि निश्चितम् |
अस्पृष्ट-भूर्-माहात्म्याः न स्पृष्टं स्पर्श-योग्यं भूरि-माहात्म्यं
येषां ते तथा-भूताः सर्वे व्यदृश्यन्तेति | इत्य् एषा |

अत्र मात्र-पदं तद्-वर्णादीनां स्वरूपान्तरङ्ग-धर्मत्वं बोधयति |
न ह्य् अत्रापरस्मिन्न् अर्थे मूर्ति-शब्दः केवलात्म-पर इति स्वामिनः श्री-
शुक-देवस्य वा मतम्, लक्षणायाः कष्ट-कल्पनामयत्वात् | अस्पृष्टेत्य् अत्र
अस्पृष्टेति भूरि-माहात्म्येति अपीति उपनिषद्-दृग् इति पद-चतुष्टयस्यैव
व्यस्तस्य समस्तस्य च स्वारस्य-भङ्ग-प्रसङ्गात् उक्त-प्रकारानुरोधात्
तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् इत्य् अद्य्-उदाहरिष्यमाणानुसारात्
[ ३.१५.३८] स्व-सुखेत्य् आदि [ १२.१२.६८] श्री-शुक-हृदय-विरोधाच् च |
अतएव विशुद्ध-विज्ञान-घनं [ १०.३७.२०] विशुद्ध-ज्ञान-मूर्तये [
१०.२७.२१] त्वय्य् एव नित्य-सुख-बोध-तनाव् [ १०.१४.२२] इत्य् आदि वाक्यानि च
न लाक्षणिकतया कदर्थनीयानि |

तथैव आनन्द-मूर्तिम् उपगुह्य दृशात्म-लब्धम् इत्य् आदौ [ १०.४१.२५]

दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तम्
आनन्द-मूर्तिम् अजहाद् अतिदीर्घतापम् | इत्य् आदौ [ १०.४८.६] च
दर्शनालिङ्गनाब्याम् अन्यार्थत्वं व्यवच्छिद्यते | उक्तं च महावाराहे --

सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः |
हेयोपादेय-रहिता नैव प्रकृतिजाः क्वचित् ||
परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः |
देह-देहि-भिदा चात्र नेश्वरे विद्यते क्वचित् || इति ||

१०.१३ || श्री-शुकः ||५७||

[५८]

इत्थम् एवाभिप्रेत्याह --

कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् |
जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया || [ १०.१४.५५]

एनं नौमीड्य तेऽभ्र-वपुषे इत्य् [ १०.१४.१] आदि-वर्णित-रूपम् अवेहि मत्-
प्रसाद-लब्ध-विद्वत्तयैवानुभवो न तु तर्कादीनां विचारयेत्य् अर्थः |
एवम्भूतोऽपि मायया कृपया जगद्-धिताय सर्वस्यापि स्वात्मानं प्रति
चित्ताकर्षणाय देहीव जीव इवाभाति क्रीडति | इव-शब्देन श्री-कृष्णस् तु
जीववत् पृथग्-देहं प्रविष्टवान् इति गम्यते | अतएव श्री-विग्रहस्य परम-
पुरुषार्थ-लक्षणत्वम् उक्तं श्री-ध्रुवेण -

सत्याशिषो हि भगवंस् तव पाद-पद्मम्
आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः [ ४.९.१७] इत्य् अत्र |

टीका च - हे भगवन् पुरुषार्थः परमानन्दः स एव मूर्तिर् यस्य तस्य्
अतव पाद-पद्मम् आशिषो राज्यादेः सकाशात् सत्या | आशीः परमार्थ-फलं
हि निश्चितं कस्य तेन प्रकारेण त्वम् एव पुरुषार्थ इत्य् एवं निष्कामतया
अनुभ्जतः | इत्य् एषा ||

१०.१४ || श्री-शुकः ||५८||

[५९]

अतः शब्द-प्रतिपाद्यं यद् ब्रह्म तच् छ्री-विग्रह एवेत्य् उपसंहार-योग्यं
वाक्यम् आह -

तावत् प्रसन्नो भगवान्
पुष्कराक्षः कृते युगे |
दर्शयाम् आस तं क्षत्तः
शाब्दं ब्रह्म दधद् वपुः || [ ३.२१.७]

तद् वपुर् दधत् प्रकाशयन्न् असौ शुक्लाख्यो भगवान् कृते युगे वर्तते |
तद् एव शब्द-प्रतिपाद्यं ब्रह्म परम-तत्त्वं तं कर्दमं प्रति
दर्शयामासेत्य् अर्थः ||

|| ३.२१ || श्री-मैत्रेयः ||५९||
[६०]

तद् एवं सिद्धे भगवतस् तादृशे वैलक्षण्ये दृश्यत्वात् घटवद् इत्य् आद्य-
सद्-अनुमानं न सम्भवति कालात्ययोपदिष्टत्वात् | तद् एतद् अभिप्रेत्य
तस्मिन् सत्यता-पुरस्कृतं षड्-भाव-विकाराद्य-भावं स्थापयन् पूर्ण-
स्वरूपत्वम् अभुपगच्छति |

एकस् त्वम् आत्मा पुरुषः पुराणः
सत्यः स्वयं ज्योतिर् अनन्त आद्यः |
नित्योऽक्षरोऽजस्र-सुखो निरञ्जनः
पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः || [ १०.१४.२०]

नौमीड्य ते [ १०.१४.१] इत्य् आदिना स्तुत्यत्वेन प्रतिज्ञा-रूपोऽयम् अभ्र-
वपुर्-आदि-लक्षणत्वम् एक एव सर्वेषाम् आत्मा परमाश्रयः | तद् उक्तम् -
एकोऽसि प्रथमम् इति [ १०.१४.१८] इति च | कृष्णम् एनम् अवेहि त्वम् आत्मानम्
अखिलात्मनाम् इति च [ १०.१४.५५] | यतस् त्वम् आत्मा तत एव सत्यः |
परमाश्रयस्य सत्यताम् अबलम्ब्यैवान्येषां सत्यत्वात् त्वय्य् एव सत्यत्वस्य
मुख्या विश्रान्तिर् इति भावः | तद् उक्तम् - सत्य-व्रतं सत्य-परम् इत्य् आदि
[ १०.२.२६] |

सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम् |
सत्यात् सत्यं च गोविन्दस् तस्मात् सत्यो हि नामतः || इत्य् उद्यम-पर्वणि [
५.६८.१२] च |

न च त्वयि जन्मादयो विकाराः सन्तीत्य् आह आद्यः कारणम् | एकोऽसि
प्रथमम् इत्य् आदौ [ १०.१४.१८] तादृशत्व-दृष्टेः | अतो न जन्म, किन्तु
प्रत्यक्षत्वं हरेर् जन्म न विकारः कथञ्चन इति पाद्म-रीतिकम् एव |
अतएव स्कान्दे --

अविज्ञाय परं देहम् आनन्दात्मानम् अव्ययम् |
आरोपयन्ति जनिमत् पञ्च-भूतात्मकं जडम् || इति ||

आद्यत्वे हेतुः | पुरुषः पुरुषाकार एव सन् पुराणः पुरापि नवः कार्यात्
पूर्वम् अपि वर्तमान इत्य् अर्थः | श्रुतिश् च -- आत्मैवेदम् अग्र आसीत् पुरुष-
विध [Aइत्U १.१.१] इति | अतएव जन्मान्तरास्तित्व-लक्षणं विकारं वारयति
नित्यः सनातन-मूर्तिः | तथा पूर्ववन् मध्यमाकारत्वेऽपि पूर्ण इति
वृद्धिम् | अजस्र-सुखो नित्यम् एव सुख-रूप इति परिणामम् | सुखस्य
पुंस्त्वं छान्दसं विज्ञानम् आनन्दं ब्रह्म [BAU ३.९.२८] इत्य् अत्रानन्दस्य
नपुंसकत्ववत् |

तथा अक्षर इत्य् अपक्षयम् | अमृत इति विनाशम् | पूर्णत्वे हेतुः | अनन्त
अद्वय इति देश-काल-परिच्छेद-रहितः | वस्तु-परिच्छेद-रहितोऽपि | अन्यस्य
तच्-छक्तित्वात् तं विनानवस्थानात् | अत्रामृतत्वोपपादनाय चतुर्विध-
क्रिया-फलत्वं च वारयति | तत्रोत्पत्तिर् आद्य इत्य् अनेनैव निराकृता | शिष्ट-
त्रयं स्वयंज्योतिर् निरञ्जन उपाधितो मुक्त इति पद-त्रयेण | तत्र च
प्राप्तिः क्रियया ज्ञानेन वा भवेत् | क्रियया प्राप्तिर् आत्म-पदेनैव निराकृता,
सर्व-प्रत्यग्-रूपत्वात् | तथा ज्ञानतः प्राप्तिं वारयति | स्वयंज्योतिर् इति | तद्
उक्तं ब्रह्माणं प्रति श्री-भगवता मनीषितानुभावोऽयं मम
लोकावलोकनम् इति [ २.९.२२] |

टीका च - एतच् च मत्-कृपयैव त्वया प्राप्तम् इत्य् आह | मनीषितम् इच्छा,
तुभ्यं दातव्यम् इति या ममेच्छा तस्या अनुभावोऽयम् | कोऽसौ? तम् आह -
मम लोकस्यावलोकनं यत् | इत्य् एषा | तद् उक्तम् - नित्याव्यक्तोऽपि भगवान्
ईक्ष्यते निज-शक्तितः | इति |[१६]

ननु, श्री-भगवतोद्धवं प्रति वासुदेवो भगवताम् इत्य् आदिकं [
११.१६.२९] विभूति-मध्ये गणयित्वा सर्वान्ते मनोविकारा एवैते [ ११.१६.४१]
इत्य् उक्तम् | सत्यम् | तद्-गणनं प्राचुर्य-विवक्षया क्षत्रिणो गच्छन्तीतिवत्
| तत्रैव हि -

पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् |
विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् || इत्य् अत्र [ ११.१६.३७]

पर-शब्देन ब्रह्मापि तन्-मध्ये गणितम् अस्ति | तद् एवं प्राप्तिर् निषिद्धा
| अथ विकृतिर् अपि तुषापाकरणेनावधातेन व्रीहीणाम् इवोपाध्यपाकरेणेन
भवेत् | तच् चासङ्गत्वान् न सम्भवेद् इत्य् आह मुक्त उपाधित इति | तद् उक्तम्
-विशुद्ध-ज्ञान-मूर्तये [ १०.२७.२१] विशुद्ध-विज्ञान-घनं [
१०.३७.२०] इत्य् आदौ च | तस्मान् मम निशित-शरैर् विभिद्यमान-त्वचि
इत्यादिकं तु [ १.९.३४] मायिक-लीला-वर्णनम् एव |

एवं वदन्ति राजर्षे ऋषयः केचनान्विताः |
यत् स्व-वाचो विरुध्येत न नूनं ते समरन्त्य् अनु || इत्य् आदि [ १०.७७.३०]
न्यायेन वास्तवत्व-विरोधात् | तथा हि स्कान्दे -

असङ्गश् चाव्ययोऽभेद्योऽनिग्राह्योऽशोष्य एव च |
विद्धोऽसृग्-आचितो बद्ध इति विष्णुः प्रदृश्यते ||
असुरान् मोहयन् देवः क्रीडत्य् एष सुरेष्व् अपि |
मनुष्यान् मध्यया दृष्ट्या न मुक्तेषु कदाचन || इति ||

श्री-भीष्मस्य युद्ध-समये दैत्याविष्टत्वात् तथा भानं युक्तम् एवेति
| किन्त्व् अधुना दुःस्वप्न-दुःखस्येव तस्य निवेदनं कृतम् इति ज्ञेयम् |
संस्कारोऽपि किम् अतिशयाधानेन मलापाकारेण वा | तत्रातिशयाधानं
पूर्णत्वेनैव निराकृतम् | मलापकरणं वारयति निरञ्जनः निर्मलः
विशुद्ध-ज्ञान-मूर्तिर् इत्य् अर्थः ||

१०.१४ || श्री-ब्रह्मा ||६०||

[६१]

तद् एवं पूर्वं तद्-ऐश्वर्यादीनां स्वरूप-भूतत्वं साधितं तच् च तेषां
स्वरूपान्तरङ्ग-धर्मत्वाद् युक्तम् | यथा ज्योतिर् अन्तरङ्ग-धर्मानां
तदीय-शुक्लादि-गुणानां ज्योतिर्-भूतत्वम् एव, न तम आदिरूपत्वं तद्वत् |

अथ श्री-विग्रहस्य पूर्ण-स्वरूप-लक्षणत्वं तद्वत् | अथ श्री-विग्रहस्य
पूर्ण-स्वरूप-लक्षणत्वं साधितं, तच् च युक्तम्, सर्व-शक्ति-युक्त-परम-
वस्त्व्-एक-रूपत्वात् तस्य | तत्र यो निजान्तरङ्ग-नित्य-धर्मः श्री-
विग्रहतागमस् तत् तत् संस्थान-लक्षणस् तद् विशिष्टं परमानन्द-
लक्षणं वस्त्व् एव श्री-विग्रहः | स एव चान्तरङ्ग-धर्मान्तराणां,
ऐश्वर्यादीनाम् अपि नित्याश्रयत्वात् स्वयं भगवान्, यथा शुद्ध-खण्ड-
लड्डुकम् | यतो यथा लड्डुकतागमक-संस्थान-विशिष्ट-खण्डम् एव
लड्डुकं तद् एव खण्ड-स्वाभाविक-सौगन्ध्यादिमच् चेति लोकैः प्रतीयते
प्रयुज्यते च तथा रूपं यद् एतत् [ ३.९.२] इत्य् आदिषु परं तत्त्वम् एव श्री-
विग्रहः स एव च भगवान् इति विद्वद्भिः प्रतीयते प्रयुज्यते चैवेति |

तद् एवं श्री-विग्रहस्य पूर्ण-स्वरूपत्वं साधयित्वा, तो-पोषणार्थं
प्रकरणान्तरम् आरभ्यते | यावत् पार्षद-निरूपणम् | तत्र परिच्छदानां
तत्-स्वरूप-भूतत्वे तद्-अङ्ग-सहिततयैवाविर्भाव-दर्शन-रूपं लिङ्गम्
आह द्वयेन --

तम् अद्भुतं बालकम् अम्बुजेक्षणं
चतुर्-भुजं शङ्ख-गदाद्य्-उदायुधम् | इत्य् आदि || [ १०.३.९]

स्पष्टम् || १०.३ | श्री-शुकः ||६१||

[६२]

एवम् अभिप्रायेणैवेदम् आह -

यथैकात्म्यानुभावानां
विकल्प-रहितः स्वयम् |
भूषणायुध-लिङ्गाख्या
धत्ते शक्तीः स्व-मायया ||

तेनैव सत्य-मानेन
सर्व-ज्ञो भगवान् हरिः |
पातु सर्वैः स्वरूपैर् नः
सदा सर्वत्र सर्व-गः || [ ६.८.३२-३३]

ऐकास्म्यानुभावानां केवल-परम-स्वरूप-दृष्टि-पराणां विकल्प-रहितः
परमानन्दैक-रस-परम-स्वरूपतया स्फुरन्न् अपि, यथा येन
प्रकारेण, स्वेषु स्व-स्वामितया भजत्स्य् या मया कृपा तया हेतुना | स्वयं
विचित्र-शक्ति-मयेन स्वरूपेणैव कारण-भूतेन भूषणाद्य्-आख्याः शक्तीः
शक्ति-मयाविर्भावात् धत्ते गोचरयति | तेनैव विद्वद्-अनुभव-लक्षणेन
सत्य-प्रमाणेन | तेनैव विद्वद्-अनुभव-लक्षणेन सत्य-प्रमाणेन तद्
यदि सत्यं स्यात् तदेत्य् अर्थः | तैर् एव भूषणादि-लक्षणैः सर्वः स्वरूपैर्
विचित्र-स्वरूपाविर्भावैर् नः पातु | अतएव श्री-विष्णु-धर्मे बलि-कृत-चक्र-
स्तवे

यस्य रूपम् अनिर्देश्यम् अपि योगिभिर् उत्तमैर् इत्य् आदि |

तद्-अनन्तरं च -

भ्रमतस् तस्य चक्रस्य नाभि-मध्ये मही-पते |
त्रैलोक्यम् अखिलं दैत्यो दृष्टवान् भूर् भुवादिकम् || इति ||

तद् एवम् एव नवमे श्रीमद्-अम्बरीषेणापि चक्रम् इदं स्तुतम् अस्ति | लिङ्गानि
गरुडाकार-ध्वजादीनि | अनेन यत् क्वचिद् आकस्मिकत्वम् इव श्रूयते | तद् अपि
श्री-भगवद्-आविर्भाववज्-ज्ञेयम् | अत्र तृतीये चैत्यस्य तत्त्वम् अमलं
मणिम् अस्य कण्ठे इत्य् [ ३.२८.२८] अपि सहायम् | अतो द्वादशेऽपि कौस्तुभ-
व्यपदेशेन स्वात्म-ज्योतिर् विभर्त्य् अजः इत्य् [ १२.११.१०] आदिकं विराड्
गतत्वेनोपासनार्थम् अभेद-दृष्ट्या दर्शितम् एव यथा-सम्भवं साक्षाच्
छ्रीविग्रहत्वेनाप्य् अनुसन्धेयम् | तथा हि विष्णु-पुराणे --

आत्मानम् अस्य जगतो निर्लेपम् अगुणामलम् |
बिभर्ति कौस्तुभ-मणि-स्वरूपं भगवान् हरिर् || इति [ १.२२.६८] ||

|| ६.८ || विश्व-रूपो महेन्द्रम् ||६२||

[६३]

अथ श्री-वैकुण्ठ-लोकस्यापि तादृशत्वं तस्मै स्व-लोकं भगवान्
सभाजितः इत्य् अत्र [ २.९.९][१७] साधितम् एव | पुनर् अपि
दुर्धियां प्रतीत्य्-अर्थं साध्यते | यतः स कर्मादिभिर् न प्राप्यते
प्रपञ्चितातीतत्वेन श्रूयते, तं लब्धवताम् अस्खलन-गुण-सात्म्येन
स्तूयते नैर्गुण्यावस्थायाम् एव लभ्यते | लौकिक-भगवन्निके तस्यापि तद्-
आवेशात् | नैर्गुण्यम् अतिदिश्यत इत्य् अतः स तु तद्-रूपतया सुतराम् एव
गम्यते | साक्षाद् एव प्रकृतेः परतनः श्रूयते नित्यतयोद्घोष्यते मोक्ष-
सुखम् अपि तिरस्कुर्वन्त्या भक्त्यैव लभ्यते सच्चिदानन्द-
घनत्वेनाभिधीयत इति |

तत्र कर्मादिभिर् अप्राप्यत्वम् | यथा -

देवानाम् एक आसीत् स्वर्-भूतानां च भुवः पदम् |
मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात् परम् ||
अधोऽसुराणां नागानां भूमेर् एकोऽसृजत प्रभुः |
त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ||
योगस्य तपसश् चैव न्यासस्य गतयोऽमलाः |
महर्-जनस्-तपः-सत्यं भक्ति-योगस्य मद्-गतिः || [ ११.२४.१२-१४]

सिद्धानां योगादिभिः त्रितयात् परं महर्-लोकादि | भूमेर् अधश् चातलादि
| त्रिलोक्यां पातालादिक-भूर्-भुवः-स्वश् चेति | कर्मणां गार्हस्थ्य-
धर्माणां तपो वानप्रस्थेन ब्रह्मचर्यं च | तत्र
ब्रह्मचर्येणोपकुर्वाण-नैष्ठिक-भेदेन क्रमान् महर्-जनश् च
वानस्थेन तपः न्यासेन सत्यं योग-तारतम्येन तु सर्वम् इति ज्ञेयम् |
मद्-गतिः श्री-वैकुण्ठ-लोकः भक्ति-योग-प्राप्यत्वेन वक्ष्यमाणः यन्
न व्रजन्ति [ ३.१५.२३] इत्य् आदि-वाक्य-साहाय्यात् लोक-प्रकरणाच् च | उक्तं
च तृतीये देवान् प्रति ब्रह्मणैव तत्[१८] सङ्कुलं हरि-पदान्
अतिमात्र-दृष्टैर् इत्य् आदि [ ३.१५.२०] | टीका च - तावन् मात्रेण दृष्टैः
भक्तानां विमानैः न तु कर्मादि-प्राप्यैः | इत्य् एषा |

एवम् एव श्रुतिश् च परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदम् आयान्
नास्त्यकृतः कृतेन[१९] [Mउण्ड्U १.२.१२] इति | अत्राप्य् अकृत इत्य् अस्य
विशेष्यं... लोक इत्य् एव, तत्-प्रसक्तेः | ईश्वरः सर्व-भूतानाम् इत्य् आदौ
[ १८.६१] -

तम् एव शरणं गच्छ सर्व-भावेन भारत |
तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् || इति [ १८.६२] श्री-
भगवद्-उपनिषत्सु |

|| ११.१४ || श्री-भगवान् ||६३||

[६४]

प्रपञ्चातीतत्वम् --

स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्
विरिञ्चताम् एति ततः परं हि माम् |
अव्याकृतं भागवतो ऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये || [ ४.१४.३९]

ततो,पि पुण्यातिशयेन माम् एति भागवतस् तु अथ देहान्ते अव्याकृतं, नाम-
रूपे व्याकरवाणीति श्रुति-प्रसिद्ध-व्याकरणाविषयं प्रपञ्चातीतं
वैष्णवं पदं वैकुण्ठम् एति | यथाहं रुद्रो भूत्वाधिकारिकतया
वर्तमानः विबुधा देवाश् चाधिकारिकाः कलात्यये अधिकारान्ते लिङ्ग-
भङ्गे सत्य् एष्यन्तीति यावद् अधिकारम् अवस्थितिर् आधिकारिकाणाम् इति न्यायेन
||

|| ४.२४ || श्री-रुद्रः प्रचेतसम् ||६४||

[६५]

ततोऽस्खलनम् |

अथो विभूतिं मम मायाविनस् ताम्
ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् |
श्रियं भागवतीं वास्पृहयन्ति भद्रां
परस्य मे ते ऽश्नुवते तु लोके ||

न कर्हिचिन् मत्-पराः शान्त-रूपे
नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः |
येषाम् अहं प्रिय आत्मा सुतश् च
सखा गुरुः सुहृदो दैवम् इष्टम् || [ ३.२५.३६-३७]
अथोऽविद्या-निवृत्त्य्-अनन्तरं मम मायया भक्त-विषयक-कृपयाचितां तद्-
अर्थं प्रकटितां विभूतिं भोग-सम्पत्तिम् | तथा भागवतीं श्रियं
साक्षाद्-भगवत्-सम्बन्धिनीं सार्ष्टि-संज्ञां सम्पत्तिम् अपि अस्पृहयन्ति,
भक्ति-सुख-मात्राभिलाषेण यद्य् अपि तेभ्यो न स्पृहयन्तीत्य् अर्थः | तथापि
तु मे मम लोके वैकुण्ठाख्ये अश्नुवते प्राप्नुवन्त्य् एवेति स्व-वात्सल-
विशेषो दर्शितः | यथा सुदाम-मालाकार-वरे,

सोऽपि वव्रेऽचलां भक्तिं तस्मिन्न् एवाखिलात्मनि |
तद्-भक्तेषु च सौहार्दं भूतेषु च दयां पराम् |
इति तस्मै वरान् दत्त्वा श्रियश् चान्वय-वर्धिनीम् || इति [ १०.४१.५२]

अतस् तेषां तत्रानासक्तिश् च द्योतिता | अविद्यानन्तरम् इति मम कृपयाचिताम्
इति च तेषाम् अनर्थ-रूपत्वं खण्डितम् | किं वा माययाचितां ब्रह्म-
लोकादि-गतां सम्पत्तिम् अपीति तेषां सर्व-वशीकारित्वम् एव दर्शितं, न तु
तद्-भोगः | तस्यातितुच्छत्वेन तेष्व् अनर्हत्वात् | श्रुतिश् चात्र तद् यथेह
कर्म-जितो लोकः क्षीयते एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [
८.१.६] इत्य् अनन्तरं अथ य इहात्मानमनुविद्य व्रजन्त्य् एतांश् च सत्य-
कामांस् तेषां सर्वेषु लोकेषु कामचारो भवति इति |

नन्व् एवं तर्हि लोकत्वाविशेषात् स्वर्गादिवत् भोक्तृ-भोग्यानां कदाचिद्
विनाशः स्यात् | तत्राह - शान्त-रूपे शान्तम् अविकृतं रूपं यस्य तस्मिन्
वैकुण्ठे मत्-परास् तद्-वासिनो लोकाः कदाचिद् अपि न नङ्क्ष्यन्ति भोग्य-
हीना न भवन्ति | अनिमिषो मे हेतिः मदीयं काल-चक्रं नो लेढि, तान् न
ग्रसते | न स पुनर् आवर्तते इति श्रुतेः [ ८.१५.१] |

आब्रह्म-भुवनाल् लोकाः
पुनर् आवर्तिनो ऽर्जुन |
माम् उपेत्य तु कौन्तेय
पुनर् जन्म न विद्यते || [ ८.१६] इति श्री-गीतोपनिषद्भ्यः |
सहस्र-नाम-भाष्येऽप्य् उक्तम् - परम् उत्कृष्टम् अयनं स्थानं पुनर्
आवृत्ति-शङ्का-रहितम् इति परायणः | पुंलिङ्ग-पक्षे बहु-व्रीहिर् इति | न
केवलम् एतावत् तेषां माहात्म्यम् इत्य् आह येषाम् इति | येषां मां विना न
कश्चिद् अपरः प्रेम-भाजनम् अस्तीत्य् अर्थः | यद् वा - गोलोकादिकम्
अपेक्ष्यैवम् उक्तम् | तत्र हि तथाभावा एवं श्री-गोपा नित्या विद्यन्ते |
अथवा तं लोकं कीदृग्-भावा अविद्यानन्तरं प्राप्नुवन्तीति | तत्राह येषाम्
इति | ये केचित् पाद्मोत्तर-खण्डे दर्शित-मुनि-गण-सवासनाः आत्मा
ब्रह्मैवायं साक्षाद् इति मां भावयन्ति, एवम् अन्ये च ये ये, त एव
प्रापुन्वन्तीत्य् अर्थः | सुहृद इति बहुत्वं सौदृदस्य नाना-भेदापेक्षया
| एवं चतुर्थे श्री-नारद-वाक्ये -

शान्ताः सम-दृशः शुद्धाः सर्व-भूतानुरञ्जनाः |
यान्त्य् अञ्जसाच्युत-पदम् अच्युत-प्रिय-बान्धवाः || इति [ ४.१२.३७] ||

|| ३.२५ || श्री-कपिलः ||६५||

[६६]

प्रपञ्चातीतत्वं ततोऽस्खलनं च युगपद् आह -

आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम् | इति [ १२.११.१९]

प्रपञ्च-रूपस्यैवेति प्रकरणात् | द्विजा इति सम्बोधनम् ||

|| १२.११ || श्री-सुतः || ६६ ||

[६७]

सत्त्वे प्रलीनाः स्वर् यान्ति नराः लोकं रजोलयाः |
तमोलयास् तु निरयं यान्ति माम् एव निर्गुणाः || [ ११.२५.२२]

लोक-प्रसक्तेर् मल्लोकम् इति वक्तव्ये तत्-प्राप्तिर् नाम मत्-प्राप्तिर् एवेति
स्वाभेदम् अभिप्रेत्याह माम् एवेति || ११.२५ ||

श्री-भगवान् || ६७ ||


[६८]

सुतरां नैर्गुण्याश्रयत्वम् |

वनं तु सात्त्विको वासो ग्रामो राजस उच्यते |
तामसं द्यूत-सदनं मन्-निकेतं तु निर्गुणम् || [ ११.२५.२५]

तद्-आवेशेनैवास्यापि निर्गुणत्व-व्यपदेश इति भावः ||

|| ११.२५ || स एव ||६८||

[६९]

प्रकृतेः परत्वम् -

ततो वैकुण्ठम् अगमद् भास्वरं तमसः परम् |
यत्र नारायणः साक्षान् न्यासिनां परमा गतिः ||
शान्तानां न्यस्त-दण्डानां यतो नावर्तते गतः || [ १०.८८.२५-२६]

अगमत् जगाम शिव इति शेषः ||

|| १०.८८ || श्री-शुकः ||६९||

[७०]

नित्यत्वम् --

ग्रीवायां जनलोको ऽस्य
तपोलोकः स्तन-द्वयात्
मूर्धभिः सत्यलोकस् तु
ब्रह्मलोकः सनातनः [ २.५.३९]

टीका च - ब्रह्म-लोकः वैकुण्ठाख्यः सनातनो नित्यः | न तु
सृजाप्रपञ्चान्तर्वर्ति इत्य् एष | ब्रह्म-भूतो लोको ब्रह्म-लोकः ||

|| २.५ || श्री-ब्रह्मा श्री-नारदम् ||७०||

[७१]

मोक्ष-सुख-तिरस्कारि-भक्त्य्-एक-लभ्यत्वम् -

यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच्
छृण्वन्ति येऽन्य-विषयाः कुकथा मति-घ्नीः |
यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास्
तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त || [ ३.१५.२३]

यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या
दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः |
भर्तुर् मिथः सुयशसः कथनानुराग-
वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः || [ ३.१५.२५]

यद् वैकुण्ठं यच् च नोऽस्माकम् उपरि-स्थितं नः स्पृहणीय-शीला इति वा
दूरे यमो येषां ते सिद्धत्वेन दूरीकृत-यम-नियमाः सन्तो वा व्रजन्तीति
| भर्तुर् मिथः सुयशसः इत्य् अनेन तथाविधाया भक्तेर् मोक्ष-सुख-
तिरस्कारित्व-प्रसिद्धिः सूचिता | नात्यन्तिकं विगणयन्त्य् अपीत्य् आदौ येऽङ्ग
त्वद्-अङ्घ्रि-शरणा भवतः कथायां कीर्तन्य-तीर्थ-यशसः कुशला
रसज्ञा [ ३.१५.४८] इति सनकाद्य्-उक्तेः |

|| ३.१५ || श्री-ब्रह्मा देवान् || ७१ ||
[७२]

सच्-चिद्-आनन्द-रूपत्वम् |

एवम् एतान् मयादिष्टा
ननु तिष्ठन्ति मे पथः |
क्षेमं विन्दन्ति मत्-स्थानं
तद् ब्रह्म परमं विदुः || [ ११.२०.३७]

मे पथः ज्ञान-कर्म-भक्ति-लक्षणान् मत्-प्राप्त्य्-उपायान्, ज्ञान-
कर्मणोर् अपि भक्तेषु भक्तेः प्रथमतः क्वचित् कदाचित् किञ्चित् साहाय्य-
कारित्वात् | क्षेमं मद्-भक्ति-मङ्गल-मयं यत् स्थानं परमं ब्रह्मेति
विदुर् जानन्ति इत्थम् एवोदाहरिष्यते च इति सञ्चिन्त्य भगवान् महा-कारुणिको
विभुः |

दर्शयामास लोकं स्वं गोपानां तमसः परम् |
सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् |
यद् धि पश्यन्ति मुनयो गुणापायो समाहिता || [ १०.२८.१४-१५] इति |

उभयत्रापि चकाराद्य्-अध्याहारादिना त्व् अर्थान्तरं कष्ठं भवति | तैर्
एव च तमसः प्रकृतेः परम् इति वैकुण्ठस्यापि विशेषणत्वेन व्याख्यातम्
इति ||

|| ११.२० || श्री-भगवान् ||७२||

[७३]

तथैव --

न यत्र कालो ऽनिमिषां परः प्रभुः
कुतो नु देवा जगतां य ईशिरे |
न यत्र सत्त्वं न रजस् तमश् च
न वै विकारो न महान् प्रधानम् ||

परं पदं वैष्णवम् आमनन्ति तद्
यन् नेति नेतीत्य् अतद् उत्सिसृक्षवः |
विसृज्य दौरात्म्यम् अनन्य-सौहृदा
हृदोपगुह्यार्ह-पदं पदे पदे || [ २.२.१७-१८]

अतत् चिद्-व्यतिरिक्तं, नेति नेतीत्य् एवम् उत्स्रष्टुम् इच्छवो दौरात्म्यं
भगवद्-आत्मनोर् अभेद-दृष्टिं विसृज्य, अर्हस्य श्री-भगवतः, पदं
चरणारविन्दं, पदे पदे प्रतिक्षणं हृदा उपगुह्य आश्लिष्य, नान्यस्मिन्
सौहृदं येषां तथाभूताः सन्तो यद् आमनन्ति जानन्ति, तद् वैष्णवं पदं
श्री-वैकुण्ठम् इति ब्रह्म-स्वरूपम् एव तद् इति तात्पर्यम् | अनेन प्रेम-
लक्षण-साधन-लिङ्गेन निराकार-रूपम् अर्थान्तरं निरस्तम् | अत्र
निराकार-परायणस्यापि मुक्ता-फल-टीका-कृतो दैवाभिव्यञ्जिता गीर् यथा -
तत् परं पदं वैष्णवम् आमनन्ति | अधिकृताधिष्ठित-राजाधिष्ठितत्ववत्
| ब्रह्मादि-पदानाम् अपि | विष्णुनाधिष्ठितत्वात् परम् इत्य् उक्तम् |
विष्णुनैवाधिष्ठितम् इत्य् अर्थ इति | अतएव श्रुताव् अपि तस्य स्व-महिमैक-
प्रतिष्ठितत्वं स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि इति [
७.२४.१]| अतएवोक्तं क इत्था वेद यत्र स इति ||

|| २.२ || श्री-शुकः ||७३||

[७४]

क इत्थेत्यादि-श्रुतेर् अर्थत्वेनापि स्पष्टम् आह -

स्वं लोकं न विदुस् ते वै
यत्र देवो जनार्दनः |
आहुर् धूम्र-धियो वेदं
सकर्मकम् अतद्-विदः || [ ४.२९.४८]

ये धूम्र-धियो वेदं सकर्मकं कर्म-मात्र-प्रतिपादकम् आहुस् ते
जनार्दनस्य स्वं स्वरूपं लोकं न विदुः किन्तु स्वर्गादिकम् एव विदुः |
यत्र लोके || ४.२९ || श्री-नारदः प्राचीन-बर्हिषम् ||७४||

[७५]

एवं च --

ॐ नमस् ते ऽस्तु भगवन् इत्य् आदि गद्ये परमहंस-परिव्राजकैः
परमेणात्म-योग-समाधिना परिभावित-परिस्फुट-पारमहंस्य-
धर्मेणोद्घाटित-तमः-कपाट-द्वारे चित्ते ऽपावृत आत्म-लोके स्वयम्
उपलब्ध-निज-सुखानुभवो भवान् || [ ६.९.३३]

तमः प्रकृतिर् अज्ञानं वा | आत्मलोके स्व-स्वरूपे लोके | एष आत्म-लोक एष
ब्रह्म-लोक इति | दिव्ये ब्रह्म-पुरे ह्य् एष परमात्मा प्रतिष्ठित इत्य्-आदि-
श्रुतौ[२०] || यत् तत् सूक्ष्मं परमं वेदितव्यं नित्यं पदं
वैभवम् आमनन्ति |

एतल् लोका न विदुर् लोक-सारं विदन्ति तत् कवयो योग-निष्ठा इति पिप्पलाद-
शाखायाम् | परेण नाकं निहितं गुहायां बिभ्राजते यद् यतयो विशन्ति इति
परस्याम् |

तद् वा एतत् परं धाम मन्त्र-राजाध्यापकस्य यत्र न दुःखादि न सूर्यो
भाति यत्र न मृत्युः प्रविशति यत्र न दोषस् तद् आनन्दं शाश्वतं शान्तं
सदा-शिवं ब्रह्मादि-वन्दितं योगि-ध्येयं यत्र गत्वा न निवर्तन्ते
योगिनः[२१] तद् एतद् ऋचाभ्युक्तं तद् विष्णोः परमं पदं
सदा पश्यन्ति सूरयः दिवीव चक्षुर् आततम् | तद्-विप्रासो विपन्यवो
जागृवांसः समिन्धते | विष्णोर् यत् परमं पदम् इति श्री-नृसिंह-तापन्याम्
[५.१०] | न त्व् इयम् अपि ब्रह्म-पुरत्वे नैव व्याख्येया, वन्दितत्वेन यत्र
गत्वेत्य् अनेन च तद्-अनङ्गीकरोत् |

यतः श्री-विष्णु-पुराणे च श्री-विष्णु-लोकम् उद्दिश्य ऋग् इयम् अनुस्मृता, यथा
-
ऊर्ध्वोत्तरम् ऋषिभ्यस् तु ध्रुवो यत्र व्यवस्थितः ||
निर्धूत-दोष-पङ्कानां यतीनां संयतात्मनाम् |
स्थानं तत् परमं विप्र पुण्य-पाप-परिक्षये ||
अपुण्य-पुण्योपरमे क्षीणाशोषाप्ति-हेतवः |
यत्र गत्वा न शोचन्ति तद् विष्णोः परमं पदम् ||
धर्मं ध्रुवाद्यास् तिष्ठन्ति यत्र ते लोक-साक्षिणः |
तत्-सार्ष्ट्योत्पन्न-योगेद्धस् तद्-विष्णोः परमं पदम् ||
यत्रैतद् ओतं प्रोतं च यद् भूतं सचराचरम् |
भाव्यं च विश्वं मैत्रेय तद्-विष्णोः परमं पदम् || [ २.८.९८-१०२]

तापनी-श्रुतौ[२२] च यत्र न वायुर् वाती इत्य् आदिकं प्राकृत
तत्-तन्-मात्र-निषेधात्मकं तत्रापि तत्-तच्-छ्रवणात् | यत् तु मातुः
सपत्न्या वाग्-वाणैर् हृदि बिद्धस् तु तान् स्मरन् | नैच्छन् मुक्ति-पतेर्
मुक्तिं पश्चात् तापम् उपेयिवान् इति [ ४.९.२९] | तथा --

अहो बत ममानात्म्यं
मन्द-भाग्यस्य पश्यत |
भव-च्छिदः पाद-मूलं
गत्वा याचे यद् अन्तवत् || इति [ ४.९.३१] श्री-ध्रुवस्यापूर्णंमन्यता श्रूयते
|

तद्-उच्चपद-कामनयैव तत् प्रार्थितवता तेन लब्ध-मनोरथातीत-
वरेणापि स्व-सङ्कल्पम् एव तिरस्कर्तुम् उक्तम् इति घटते | तत्र ह्य् एवोक्तं
श्री-विदुरेण -- सुदुर्लभं यत् परमं पदं हरेर् [ ४.९.२८] इति | स्वयं
श्री-ध्रुव-प्रियेण --

ततो गन्तासि मत्-स्थानं
सर्व-लोक-नमस्कृतम् |
उपरिष्टाद् ऋषिभ्यस् त्वं
यतो नावर्तते गतः || इति [ ४.९.२५]

श्री-पार्षदाभ्याम् अपि -- आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं
पदम् इति [ ४.१२.२६] | श्री-सुतेन च - ध्रुवस्य वैकुण्ठ-
पदाधिरोहणम् इति [ ४.१०.१] | पञ्चमे ज्योतिश्-चक्र-वर्णने च - विष्णोर् यत्
परमं पदं प्रदक्षिणं प्रक्रामन्ति इति [ ५.२२.१७] | यद् विष्णोः
परमं पदम् अभिवदन्तीति च [ ५.२३.१] | प्रपञ्चान्तर्गतत्वेऽपि तद्
धर्मम् उक्तत्वं विकारावर्ति च तथा हि स्थितिम् आह इति न्यायेन | अतोऽस्मिन्
लोके प्रापञ्चिकस्य बहिर्-अंशस्यैव प्रलयो ज्ञेयः | तस्य तु तदानीम्
अन्तर्धानम् एव | एतद् आलम्ब्यैव हिरण्यकशिपुनोक्तम् - किम् अन्यैः काल-
निर्धूतैः कल्पान्ते वैष्णवादिभिर् इति [ ७.३.११] | अतोऽद्यापि ये तथा वदन्ति
तेऽपि तत्-तुल्या इति भावः |

अथ श्री-महावैकुण्ठस्य तादृशत्वं तु सुतराम् एव | यथा नाना-श्रुति-
पथोत्थापनेन पाद्मोत्तर-खण्डेऽपि[२३] प्रकृत्य्-अन्तर्गत-
विभूति-वर्णनान्तरं तादृशत्वम् अभिव्यञ्जितं श्री-शिवेन --

एवं प्राकृत-रूपाया विभूते रूपम् उत्तमम् |
त्रिपाद्-विभूति-रूपं तु शृणु भूधर-नन्दिनि ||
प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी |
वेदाङ्गस्वेद-जनित-तोयैः प्रस्राविता शुभा ||
तस्याः पारे पर-व्योम त्रिपाद्-भुतं सनातनम् |
अमृतं शाश्वतं नित्यम् अनन्तं परमं पदम् ||
शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् |
अनेक-कोटि-सूर्याग्नि-तुल्य-वर्चसम् अव्ययम् ||
सर्व-वेदमयं शुभ्रं सर्व-प्रलय-वर्जितम् |
हिरण्मयं मोक्षपदं ब्रह्मानन्द-सुखाह्वयम् ||
समानाधिक्य-रहितम् आद्य्-अन्त-रहितं शुभम् ||
तेजसात्य्-अद्भुतं रम्यं नित्यम् आनन्द-सागरम् |
एवम् आदि-गुणोपेतं तद् विष्णोः परमं पदम् ||
न तद् भासयते सूर्यो न शशाङ्को न पावकः |
यद् गत्वा न निवर्तन्ते तद् धाम परमं हरेः ||
तद् विष्णोः परमं धाम शाश्वतं नित्यम् अच्युतम् |
न हि वर्णयितुं शक्यं कल्प-कोटि-शतैर् अपि || (Pअद्मP ६.२२७.५७-
६५)[२४]

हरेः पदं वर्णयितुं न शक्यं
मया च धात्रा च मुनीन्द्र-वर्यैः |
यस्मिन् पदे अच्युत ईश्वरो यः
सो अङ्ग वेद यदि वा न वेद ||

यद् अक्षरं वेद-गुह्यं यस्मिन् देवा अधि विश्वे निषेदुः |
यस् तं न वेद किम् ऋचा करिष्यति य उ तद् विदुस् त इमे समासते ||
तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः |
अक्षरं शाश्वतं नित्यं दिवीव चक्षुर् आततम् ||
आ प्रवेष्टुम् अशक्यं तद् ब्रह्म-रुद्रादि-दैवतैः |
ज्ञानेन शास्त्र-मार्गेण वीक्ष्यते योगि-पुङ्गवैः ||
अहं ब्रह्मा च देवाश् च न जानन्ति महर्षयः |
सर्वोपनिषदाम् अर्थं दृष्ट्वा वक्ष्यामि सुव्रते ||
विष्णोः पदे परमे तु मध्य उत्सः शुभाह्वयः |
यत्र गावो भूरि-शृङ्गा आसते स्व-सुखं प्रजाः ||
अत्राहि तत् परं धाम गीयमानस्य शार्ङ्गिणः |
तद् भाति परमं धाम गोभिर् गेयैः शुभाह्वयैः ||
आदित्य-वर्णं तमसः परस्तात् ज्योतिर् उत्तमम् |
आधारो ब्रह्मणो लोकः शुद्धः स ह सनातनः ||
सामान्यावियुते दूरे अन्तेऽस्मिन् शाश्वते पदे |
तस्थजुर् जागरुकेऽस्मिन् युवानौ श्री-सनातनौ ||
यतः स्वसारा युवती भूलीले विष्णु-वल्लभे |
अत्र पूर्वे ये च साध्या विश्व-देवाः सनातनाः ||
ते ह नाकं महिमानः सचन्तः शुभ-दर्शनाः |
तत्-पदं ज्ञानिनो विप्रा जातृवांसः समिन्धते ||
तद् विष्णोः परमं पदं मोक्ष इत्य् अभिधीयते |
तस्मिन् बन्ध-विनिर्मुक्ताः प्राप्यन्ते स्व-मुखं पदम् ||
यं प्राप्य न निवर्तन्ते तस्मान् मोक्स उदाहृतः |
मोक्षः परं पदं लिङ्गम् अमृतं विष्णु-मन्दिरम् ||
अक्षरं परमं धाम वैकुण्ठं शाश्वतं परम् |
नित्यं च परम-व्योम सर्वोत्कृष्टं सनातनम् ||
पर्याय-वाचकन्य् अस्य परं धाम्नोऽच्युतस्य हि |
तस्य त्रिपाद्-विभूतेस् तु रूपं वक्ष्यामि विस्तरात् || इत्य् आदि ||

एतद् रीइतिक-श्रुतयो वैदिकेषु प्रायः प्रसिद्धा इति नोदह्रियन्ते | श्री-नारद-
पञ्चरात्रे च श्री-ब्रह्म-नारद-संवादे जितं ते स्तोत्रे च -

लोकं वैकुण्ठ-नामानं दिव्य-षड्-गुण-संयुतम् |
अवैष्णवानाम् अप्राप्यं गुण-त्रय-विवर्जितम् ||
नित्य-सिद्धेः समाकीर्णं तन्-मयैः पाञ्च-कालिकैः |
सभा-प्रासाद-जक्तं वनैश् चोपवनैः शुभम् ||
वापी-कूप-तडागैश् च वृक्ष-षण्डैः सुमण्डितम् |
अप्राकृतं सुरैर् वन्द्यम् अयुतार्क-सम-प्रभम् || इति ||

ब्रह्माण्ड-पुराणे -

तम् अनन्त-गुणावासं महत्-तेजो दुरासदम् |
अप्रत्यक्षं निरुपमं परानन्दम् अतीन्द्रियम् || इति ||

इतिहास-समुच्चये मुद्गलोपख्याने --

ब्रह्मणः सदनाद् ऊर्ध्वं तद् विष्णोः परमं पदम् |
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद् विदुः ||
निर्ममा निरहङ्कारा निर्द्वन्द्वा ये जितेन्द्रियाः |
ध्यान-योग-पराश् चैव तत्र गच्छन्ति साधवः ||
येऽर्चयन्ति हरिं विष्णुं कृष्णं जिष्णुं सनातनम् |
नारायणम् अजं देवं विष्वक्सेनं चतुर्भुजम् ||
ध्यायन्ति पुरुषं दिव्यम् अच्युतं च स्मरन्ति ये |
लभन्ते तेऽच्युत-स्थानं श्रुतिर् एषा सनातनी || इति ||

स्कान्दे श्री-सनत्-कुमार-मार्कण्डेय-संवादे -

यो विष्णु-भक्तो विप्रेन्द्र शुद्ध-चक्रादि-चिह्नितः |
स याति विष्णु-लोकं वै दाह-प्रलय-वर्जितम् || इति |

अत्र पद-धामादि-शब्देन स्थान-वाचकेन स्वरूपं त्व् अरूढेन यदि
कश्चित् कथञ्चित् स्वरूपम् एव वाचयति | तर्ह्य् अन्यत्र तत्-प्रसङ्गे
तेऽभिगच्छन्ति मत्-स्थानं यद् ब्रह्म परमं विदुर् इत्य् आदौ साक्षाद् एव
स्थान-शब्द-निगदेन तन् निरसनीयम् | यदि तत्रापि चकाराद्य्-अध्याहारादि-
दैन्येन पूर्व-दर्शितेतिहास-समुच्चयस्य परं ब्रह्मेति यद् विदुर् इति
विशेषण-विरुद्धं वाक्य-भेदम् एवाङ्गीकरोति तर्हि स्वमते तत्र तत्रोक्त-
लोक-शब्दः सहायीकर्तव्यः |

ततश् च पद-धाम-स्थान-लोक-रूपाणां तेषां शब्दानां एकत्र वस्तुनि
प्रयोगात् परस्परम् अन्यार्थं दूरीकुर्वन्तस् ते कं वा न बोधयन्ति स्वम्
अर्थं, यथा भगवान् हरिर् विष्णुर् अयम् इति |

अथ हन्त तत्रापि चेत्, स्वरूप-मात्र-वाचकतां भिक्षते तर्हि स्फुटम् एव
पाद्म-वैष्णवादि-वचनैः विपक्षो ह्रेपणीयः | कर्माद्य्-अप्राप्यत्वादि-
प्रतिपादक-वाक्यानि तु विशेषतो वेत्र-पाणि-रूपाणि सन्त्य् एवेति वक्तव्यम् |
तस्मात् ॐ नमस् ते [ ६.९.३३] इत्य् आदि-पद्यम् अपि साध्व् एव व्याख्यातम् ||

|| ६.९ || देवाः श्री-हरिम् ||७५||

[७६]

तद् एत्च् छ्री-वैकुण्ठ-स्वरूपं निरूपितम् | तच् च यथा श्री-भगवान् एव
क्वचित् पूर्णत्वेन क्वचिद् अंशत्वेन च वर्तते तथैवेति | बहवस् तस्यापि
भेदाः पाद्मोत्तर-खण्डादौ द्रष्टव्याः | येषु श्री-मत्स्य-देवादीनाम्
अपि पदानि वक्ष्यन्ते | तद् एव सूचयति -

एवं हिरण्याक्षम् असह्य-विक्रमं
स सादयित्वा हरिर् आदि-सूकरः |
जगाम लोकं स्वम् अखण्डितोत्सवं
समीडितः पुष्कर-विष्टरादिभिः || [ ३.१९.२८]

सादयित्वा हत्वा | पवित्रारोप-प्रसङ्गे चैवम् आह बोधायनः -

एवं यः कुरुते विद्वान् वर्षे वर्षे न संशयः |
स याति परमं स्थानं यत्र देवो नृकेशरी || इति |

वायु-पुराणे तु शिव-पुरम् अपि तद्वत् श्रूयते, यथा -

अन्तौघस्य समन्तात् तु सन्निविष्टो घनोदधिः |
समन्ताद् येन तोयेन धार्यमानः स तिष्ठति ||
बाह्यतो घन-तोयस्य तिर्यग् ऊर्ध्वं च मण्डलम् |
धारयमाणं समन्तात् तु तिष्ठते घन-तेजसा ||
अयोगुडनिभो वह्निः समन्तात् मण्डलाकृतिः |
समन्ताद् घन-वातेन धार्यमाणः स तिष्ठति ||
भूतादिश् च तथाकाशं भूतादिं च तथा महान् |
महान् व्याप्तो ह्य् अनन्तेन अव्यक्तेन तु धार्यते ||
अनन्तम् अपरिव्यक्तम् अनादि-निधनं च तत् |
तम एव निरालोकम् अमर्यादम् अदेशिकम् ||
तमसोऽन्ते च विख्यातम् आकाशान्ते च भास्वरम् |
यर्यान्तायाम् अतस् तस्य शिवस्यायतनं महत् |
त्रिदशानाम् अगम्यं तु स्थानं दिव्यम् इति श्रुतिर् || इति ||

|| ३.१९ || श्री-मैत्रेयः ||७६||

[७७]

एवं च यथा श्री-भगवद्-वपुर्-आविर्भवति लोके तथैव क्वचित् कस्यचित् तत्
पदस्याविर्भावः श्रूयते -

पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुर-सत्तमैः |
तयोः स्व-कलया जज्ञे वैकुण्ठो भगवान् स्वयम् ||
वैकुण्ठः कल्पितो येन लोको लोक-नमस्कृतः |
रमया प्रार्थ्यमानेन देव्या तत्-प्रिय-काम्यया || [ ५.८.४५]

यथा भगवत आविर्भाव-मात्रं जन्मेति भण्यते | तथैव
वैकुण्ठस्यापि कल्पनम् आविर्भावनम् एव न तु प्राकृतवत् कृत्रिमत्वम्
| उभयत्रापि नित्यत्वाद् इत्य् अभिप्रायेण तत्-साम्येनाह, जज्ञ इति | श्री-
विकुण्ठासुतस्यैवेदं वैकुण्ठम् | मूल-वैकुण्ठं तु सृष्टेः प्राक् श्री-
ब्रह्मणा दृष्टम् इति द्वितीये प्रसिद्धम् एव |

स तन्-निकेतं परिमृश्य शून्यम् अपश्यमानः कुपितो ननाद इत्य् [
८.१९.११] उक्तम् | तत्-स्थानं तु स्वर्गादि-गतम् एव ज्ञेयम् ||

|| ८.५ || श्री-शुकः ||७७||

[७८]

देहेन्द्रियासु-हीनानां
वैकुण्ठ-पुर-वासिनाम् | [ ७.१.३४]

जन्म-हेतु-भूतैः प्राकृतैर् देहेन्द्रियासुभिर् हीनानां शुद्ध-सत्त्व-मय-
देहानाम् इत्य् अर्थः ||

|| ७.१ || युधिष्ठिरः श्री-नारदम् || ७८ ||

[७९]

तथा -

आत्म-तुल्यैः षोडशभिर्
विना श्रीवत्स-कौस्तुभौ |
पर्युपासितम् उन्निद्र-
शरद्-अम्बुरुहेक्षणम् || [ ६.९.२९]

षोडशभिः श्री-सुनन्दादिभिः || ६.९ || श्री-शुकः ||

[८०]

अतएव कालातीतास् ते परम-भक्तानाम् अपि परम्-पुरुषार्थ-सामीप्याश् चेत्य्
आह | तस्माद् अमूस् तनु-भृताम् अहम् आशिषो ज्ञ आयुः श्रियं विभवम्
ऐन्द्रियम् आविरिञ्च्यात् |

नेच्छामि ते विलुलितान् उरुविक्रमेण
कालात्मनोपनय मां निज-भृत्य-पार्श्वम् || [ ७.९.२४]

स्पष्टम् || ७.९ || प्रह्लादः श्री-नृसिंहम् || ८० ||

[८१]

तथा च पाद्मोत्तर-खण्डे -
त्रिपाद्-विभूतेर् लोकास् तु असङ्ख्याः परिकीर्तिताः |
शुद्ध-सत्त्व-मयाः सर्वे ब्रह्मानन्द-सुखाह्वयाः ||
सर्वे नित्या निर्विकारा हेय-राग-विवर्जिताः |
सर्वे हिरण्मयाः शुद्धाः कोटि-सूर्य-सम-प्रभाः ||
सर्वे वेदमया दिव्याः काम-क्रोधादि-वर्जिताः |
नारायण-पदाम्भोज-भक्त्य्-एक-रस-सेविनः ||
निरन्तरं साम-गान-परिपूर्ण-सुखं श्रिताः |
सर्वे पञ्चोपनिषद-स्वरूपया वेद-वर्चसः || इत्य् आदि ||

अत्र त्रिपाद्-विभुति-शब्देन प्रपञ्चातीत-लोकोऽभिधीयते पाद-विभूति-
शब्देन तु प्रपञ्च इति | यथोक्तं तत्रैव -

त्रिपाद्-व्याप्तिः परं धाम्नि पादोऽस्येहाभवत् पुनः |
त्रिपाद्-विभूतेर् नित्यं स्यात् अनित्यं पादम् ऐश्वरम् ||
नित्यं तद्-रूपम् ईशस्य परं धाम्नि स्थितं शुभम् |
अच्युतं शाश्वतं दिव्यं सदा यौवनम् आश्रितम् ||
नित्यं सम्भोगम् ईश्वर्या श्रिया भूम्या च संवृत्तम् || इति ||

अतएव तद्-अनुसारेण द्वितीय-स्कन्धोऽप्य् एवं योजनीयः | तत्र --

सो ऽमृतस्याभयस्येशो
मर्त्यम् अन्नं यद् अत्यगात् |
महिमैष ततो ब्रह्मन्
पुरुषस्य दुरत्ययः || [ २.६.१७]

अमृतादि-द्वयं तत्-तृतीयत्वेअ वक्ष्यमाणस्य क्षेमस्याप्य् उपलक्षणम् |
श्रुतौ च - उतामृतत्वस्येशान इत्य् अत्रामृतत्वं तद् युगलोपलक्षम् | अत्र
धर्मि-प्रधान-निर्देशः, श्रुतौ तु तत्र धर्म-मात्र-निर्देशस्यापि
तत्रैव तात्पर्यम् | तत्रामृतं -स्व-दृष्टवद्भिर् पुरुषैर् अभिष्टुतम् इति |
परं न यत्-परम् [ २.९.९] इत्य् आद्य् उक्तानुसारेण परमानन्दः |

अतएव अमृत विष्णु-मन्दिरम् इति तत्-पर्यायः | अभयं -- न च काल-विक्रम
[ २.९.१०] इत्य् आदि भय-मात्राभावः | अतएव द्विजा धामाकुतोभयम्
[ १२.११.१९] इत्य् उक्तम् | क्षेमं न यत्र माया [ २.९.१०] इत्य् आद्य्
उक्तानुसारेण भगवद्-बहिर्मुखताकर-गुण-सम्बन्धाभावाद्
भगवद्-भजन-मङ्गलाश्रयत्वं ज्ञेयम् | तथा च नारदीये -

सर्व-मङ्गल-मूर्धन्या पूर्णानन्द-मयी सदा |
द्विजेन्द्र तव मय्य् अस्तु भक्तिर् अव्यभिचारिणी || इति ||

अतेव क्षेमं विन्दन्ति मत्-स्थानम् [ ११.२०.३७] इत्य् उक्तम् |

तत्र तत्-तच्-छब्देन लक्षणामय-कष्ट-कल्पनया जन-लोकादि-वाच्यतां
निषेधन् हेतुं न्यस्यति मर्त्यं ब्रह्मणोऽपि भयं मत्तो द्विपरार्ध-
परायुष [ ११.१०.३०] इत्य् आदि न्यायेन मरण-धर्मकम् | अन्नं कर्मादि-
फलं त्रिलोक्यादिकं यस्माद् अत्यगात् अतिक्रम्यैव तत्र विराजत इति | एषः -
अमृताद्यैश्वर्य-रूपः | दुरत्ययः - ब्रह्मचर्यादिभिः केनचिन् मनसाप्य्
अवरोद्धुम् अशक्यः |
[८२]

तद् एवम् अमर्त्यम् ऐश्वर्यं त्रिपात्, मर्त्यम् एकपात् इति तस्य चतुष्पाद्-
ऐश्वर्यं पुनर् विवृणोति ||

पादेषु सर्व-भूतानि
पुंसः स्थिति-पदो विदुः |
अमृतं क्षेमम् अभयं
त्रि-मूर्ध्नो ऽधायि मूर्धसु || [ २.६.१८]

तिष्ठन्त्य् अत्र सर्व-भूतानीति स्थितयो मर्ताद्यैश्वर्याणि तानि पादा
इवाधिष्ठान-भूतानि यस्य तस्य स्थित्-पदः पादेषु चतुर्ष्व् एव ऐश्वर्य-
भागेषु सर्व-भूतानि पार्षद-पर्यन्तानि | पादान् दर्शयति | त्रयाणां
सात्त्विकादि-पदर्थानां मूर्धैव मूर्धा प्रवृत्तिः तस्य त्रयाणां
मूर्धसु तद् उपरि विराजमानेषु श्री-वैकुण्ठ-लोकेषु अमृतं क्षेमम्
अभयं चाधायि नित्यं धृतम् एव तिष्ठतीत्य् अर्थः |

ततः पूर्वस्य मर्त्यान्न-मात्रात्मकत्वाद् एकपात्त्वम्, उत्तरस्यामृतादि-
त्रयात्मकत्वात् त्रिपात्त्वम् इति भावः | तद् अनेन पादोऽस्य विश्वा भूतानि
त्रिपादस्यामृतं दिवि इत्य् अस्यार्थो दर्शितः | अस्य पादस् तथास्यैव दिशि
वैकुण्ठे यद् अमृताद्य्-आत्मकं त्रिपात् तच् च विश्वा भूतानीत्य् अर्थः |
अत्राधिष्ठानाधिष्ठेययोर् ऐक्योक्तिः |

[८३]

अथ चतुष्पात्त्वे च त्रिलोकी-व्यवस्थावत् पक्षान्तरं दर्शयति |

पादास् त्रयो बहिश् चासन्न्
अप्रजानां य आश्रमाः |
अन्तस् त्रि-लोक्यास् त्व् अपरो
गृह-मेधो ऽबृहद्-व्रतः || [ २.६.१९]

च-शब्दः उक्त-समुच्चयार्थः | प्रपञ्चाद् बहिः पादास् त्रय आसन्न् एव
प्रपञ्चात्मकस्य चतुर्थ-पादस्यैव विभाग-विपक्षायां तु त्रिलोक्या बहिश्
चान्ये पादास् त्रय आसन्न् इत्य् एवं मन्त्रोऽपि हि तथैव पुनः शब्दः | ते के?
अप्रजानां ब्रह्मचारि-वनस्थ-यतीनाम् आश्रमाः प्राप्या ये लोकाः |

[८४]

अतएव धर्म-त्रय-प्राप्यत्वात् चतुर्णाम् अपि त्रिपात्त्वम् | अपरस् तु चतुर्थः
पादस् त्रिलोक्या अन्तर् इति गृहमेधस् तत्-प्राप्यः अतएवोभयथापि पुरुषश्
चतुष्पाद् इत्य् आह |

सृती विचक्रमे विश्वम्
साशनानशने उभे |
यद् अविद्या च विद्या च
पुरुषस् तूभयाश्रयः || [ २.६.२०]

विष्वङ् सर्व-व्यापी | पुरुषः पुरुषोत्तमः | एते सृती ते प्रपञ्चाप्रपञ्च-
लक्षणे जीवस्य गती | विचक्रमे - आक्रम्य स्थितः | कथम्भूते ?
साशनानशने कर्मादि-फल-भोग-तद्-अतिक्रम-युक्ते | तस्यैव एतद्-
आक्रमणे हेतुः | यत् ययोः सृत्योः अविद्या मायैकत्र विद्या चिच्-छक्तिर्
अन्यत्राश्रय इत्य् अर्थः | पुरुषोत्तमस् तु तयोर् द्वयोर् अप्य् आश्रयः |

वक्ष्यते च - यस्माद् दण्डं विराड् जज्ञे [ २.६.२१] इत्य् आदिना | तस्मात्
सर्वैश्वर्येणैकदेशैश्वर्येण च चतुष्पात्त्वम् इति भावः ||

|| २.६ || श्री-ब्रह्मा श्री-नारदम् || ८४ ||

[८५]

एवं शान्तरङ्ग-वैभवस्य भगवतः स्वरूप-भूतयैव शक्त्या
प्रकाशमानत्वात् स्वरूप-भूतत्वम् | सा च शक्ति-विशिष्टस्यैव स्वरूपत्वात्
स्वरूपान्तःपातेऽपि भेद-लक्षणां वृत्तिं भजन्ती तत्र प्रकाश-विशेषं
वैचित्री-वृन्दं च प्रकटयति | तत्र तत्र तादृशत्वे भ्रमोपासनासिद्ध-
गुरव एवास्माकं प्रमाणम् | तद् एतद् आह चतुर्दशभिः --

एवं तदैव भगवान् अरविन्द-नाभः
स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः |
तस्मिन् ययौ परमहंस-महा-मुनीनाम्
अन्वेषणीय-चरणौ चलयन् सह-श्रीः || [ ३.१५.३७]

तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस्
ते ञ्चक्षताक्ष-विषयं स्व-समाधि-भाग्यम् |
हंस-श्रियोर् व्यजनयोः शिव-वायु-लोलच्-
छुभ्रातपत्र-शशि-केसर-शीकराम्बुम् || [ ३.१५.३८]

कृत्स्न-प्रसाद-सुमुखं स्पृहणीय-धाम
स्नेहावलोक-कलया हृदि संस्पृशन्तम् |
श्यामे पृथाव् उरसि शोभितया श्रिया स्वश्-
चूडामणिं सुभगयन्तम् इवात्म-धिष्ण्यम् || [ ३.१५.३९]

पीतांशुके पृथु-नितम्बिनि विस्फुरन्त्या
काञ्च्यालिभिर् विरुतया वन-मालया च |
वल्गु-प्रकोष्ठ-वलयं विनता-सुतांसे
विन्यस्त-हस्तम् इतरेण धुनानम् अब्जम् || [ ३.१५.४०]

विद्युत्-क्षिपन्-मकर-कुण्डल-मण्डनार्ह-
गण्ड-स्थलोन्नस-मुखं मणिमत्-किरीटम् |
दोर्-दण्ड-षण्ड-विवरे हरता परार्ध्य-
हारेण कन्धर-गतेन च कौस्तुभेन || [ ३.१५.४१]

अत्रोपसृष्टम् इति चोत्स्मितम् इन्दिरायाः
स्वानां धिया विरचितं बहु-सौष्ठवाढ्यम् |
मह्यं भवस्य भवतां च भजन्तम् अङ्गं
नेमुर् निरीक्ष्य न वितृप्त-दृशो मुदा कैः || [ ३.१५.४२]
तस्यारविन्द-नयनस्य पदारविन्द-
किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः |
अन्तर्-गतः स्व-विवरेण चकार तेषां
सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः || [ ३.१५.४३]

ते वा अमुष्य वदनासित-पद्म-कोशम्
उद्वीक्ष्य सुन्दरतराधर-कुन्द-हासम् |
लब्धाशिषः पुनर् अवेक्ष्य तदीयम् अङ्घ्रि-
द्वन्द्वं नखारुण-मणि-श्रयणं निदध्युः || [ ३.१५.४४]

पुंसां गतिं मृगयताम् इह योग-मार्गैर्
ध्यानास्पदं बहु-मतं नयनाभिरामम् |
पौंसं वपुर् दर्शयानम् अनन्य-सिद्धैर्
औत्पत्तिकैः समगृणन् युतम् अष्ट-भोगैः || [ ३.१५.४५]

श्री-कुमारा ऊचुः
यो ऽन्तर्हितो हृदि गतो ऽपि दुरात्मनां त्वं
सो ऽद्यैव नो नयन-मूलम् अनन्त राद्धः |
यर्ह्य् एव कर्ण-विवरेण गुहां गतो नः
पित्रानुवर्णित-रहा भवद्-उद्भवेन || [ ३.१५.४६]

तं त्वां विदाम भगवन् परम् आत्म-तत्त्वं
सत्त्वेन सम्प्रति रतिं रचयन्तम् एषाम् |
यत् ते ऽनुताप-विदितैर् दृढ-भक्ति-योगैर्
उद्ग्रन्थयो हृदि विदुर् मुनयो विरागाः || [ ३.१५.४७]

नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं
किम्व् अन्यद् अर्पित-भयं भ्रुव उन्नयैस् ते |
ये ऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः
कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः || [ ३.१५.४८]

कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच्
चेतो ऽलिवद् यदि नु ते पदयो रमेत |
वाचश् च नस् तुलसिवद् यदि ते ऽङ्घ्रि-शोभाः
पूर्येत ते गुण-गणैर् यदि कर्ण-रन्ध्रः || [ ३.१५.४९]

प्रादुश्चकर्थ यद् इदं पुरुहूत रूपं
तेनेश निर्वृतिम् अवापुर् अलं दृशो नः |
तस्मा इदं भगवते नम इद् विधेम
यो ऽनात्मनां दुरुदयो भगवान् प्रतीतः || [ ३.१५.५०]

अथ क्रमेण व्याख्यायते | एवं तदैवेति | टीका च -

एवं स्वानां महत्सु अतिक्रमम् अपतराधं तत्-क्षणम् एव विबुध्य,
तस्मिन् यत्र ते सनकादयस् ताभ्यां जय-विजयाभ्यां रुद्धाः | तं देशं
ययौ | आर्याणां हृद्यः मनोज्ञः | चरणौ चलयन्न् इति | अयं भावः - मच्-
चरण-दर्शन्-प्रतिघातजं क्रोधं तौ दर्शयन् शमयिष्यामीति त्वरा-
व्याजेन पद्भ्याम् एव ययौ | श्री-साहित्यं च निष्कामान् अपि विभूतिभिः
पूरयित्वा क्षमापयितुम् इति | इत्य् एषा |

अत्र तेषाम् आत्मारामाणाम् अप्य् आनन्द-दानार्थं चरण-दर्शनेन तस्य
सच्चिदानन्द-घनत्वं | श्री-साहित्येन तच्-छक्ति-विलासस्यापि
स्वरूपानितरत्वं विवक्षितम् | स्वानाम् इति बहु-वचनं द्वयोर् अप्य्
अपराधः सर्वेष्व् एव परिवारेष्व् आपततीत्य् अपेक्षया तयोर् बहुमानाद् वा
| स्व-शब्देन मुनीनां न तादृशं तद्-आत्मीयत्वम् इति विवक्षितम् |

तत्र तैर् दृष्टं देवम् अनुवर्णयति पञ्चभिः | तं त्व् आगतम् इति | ते
सनकादयः स्व-समधिना भाग्यं भजनीयं फलं यद् ब्रह्म तद्
एवाक्ष-विषयं | यद् वा स्व-समाधेः स्वय्स हृदि ब्रह्माकारेण पर-तत्त्व-
स्फूर्तेर् भाग्यं फल-रूपं | यतोऽक्ष-विषयं तदीय-स्व-प्रकाशकता-
शक्ति-संस्कृत-निखिल-धीन्द्रिय-स्फुरितत्वेन सम्प्रति विस्पष्टम्
एवानुभूय-मानम् | अनेन पूर्ववत् तस्य शब्द-स्पर्श-रूप-रस-
गन्धाख्यानां सर्वेषाम् एव धर्माणां सच्-चिद्-आनन्द-घनात्मत्वं
साधितम् | तथा नित्यम् एव तथाविध-सततोदित्वर-माधुरी-
वैचित्र्यानुभव-पूर्वकं परम-प्रेमानन्द-सन्दोहेन सेवमानैस्
तस्यात्मीयैः पुरुषैर् आनीत सेवोपविक [?] -नाना-वस्तुभिः सेव्यमानं
भगवन्तं कथञ्चित् क्वचित् कदाचिद् एव तदानीं केनापि समाधिज-
भाग्योदयेन केवलम् अपश्यन्न् इति तेषां परम-विदुषां
स्पृहास्पदावस्थेषु श्री-वैकुण्ठ-पुरुषेषु कस्या अपि भगवद्-आनन्द-
शक्तेर् विलास-मयत्वं दर्शितम् |

अथ तेषां भगवद्-रतेर् उद्दीपनत्वेन चित्त-क्षोभकत्वात् तत्-
परिच्छदादीनाम् अपि तादृशत्वम् आह हंसेति सार्धैस् त्रिभिः | केशरा
मुक्ता-मय-प्रलम्बाः | कृत्स्न-प्रसादेति | कृत्स्नस्य द्वार-पाल-मुनि-
वृन्दस्य प्रसादे सुमुखम् इति स्पृहणीयानां गुणानां धाम स्थानम् इति
| तत्-तद्-गुणानां तादृशत्वं दर्शितम् | स्नेहावलोकेति विलासस्य | स्वः सुख-
भोग-स्थानानि नित्यानन्तानन्द-रूपित्वात् | तेषां चूडामणिम् आत्म-धिष्ण्यं
स्व-स्वरूपं स्थानं श्री-वैकुण्ठं | तादृशत्वेऽप्य् उरसि शोभितया श्रिया
कृत्वा सुभगयन्तम् इव तत्र भूषण-विशेषं निदधानम् इव | इवेति
वाक्यालङ्कारे | अनेन श्रीवैकुण्ठस्य |

उक्तं च तद्-विश्व-गुर्व् इत्यादौ आपुः परां मुदम् इत्य् आदि [ ३.१६.२६] |
वक्ष्यते च --

अथ ते मुनयो दृष्ट्वा
नयनानन्द-भाजनम् |
वैकुण्ठं तद्-अधिष्ठानं
विकुण्ठं च स्वयं-प्रभम् || [ ३.१६.२७]

भगवन्तं परिक्रम्य
प्रणिपत्यानुमान्य च |
प्रतिजग्मुः प्रमुदिताः
शंसन्तो वैष्णवीं श्रियम् || [ ३.१६.२८]

पीतांशुके इति | काञ्च्या वनमालया चेत्य् अत्रेत्थ्मभूत-लक्षणे तृतीया |
विद्युद् इति | हरता मनोहरेण |

तद् एवं परिच्छदादीनाम् अपि तादृशत्वं वर्णयित्वा पुनस् तस्यैवाति-मनो-
हरत्वम् आह अवोपसृष्टम् इति[२५] | इन्दिराया उत्स्मितं गर्वः
अव भगवति उपसृष्टं | अस्य कान्तस्य नित्येन लाभेन नित्यम् एवाधिकम्
आविर्भावितम् इति तदीयानां धिया वितर्कितम् | अत्र हेतुः - बहु-
सौष्ठवाढ्यम् अनन्त-स्वरूप-गुण-सम्पद्भिर् युक्तम् |

नन्व् एवम्भूतस्य लक्ष्म्या अपि रहस्यमहानिधिरूपस्य परम-वस्तुनः
कथं प्रकाशः स्मभवतीत्य् अत आह मह्यम् इति | मदादीनां भक्तानां
कृते अङ्गं भजन्तं मूर्तिं प्रकटयन्तम् अस्मद्-विषयकम् अङ्गीकारं
भजन्तम् इत्य् अर्थः |

उल्लङ्घित-त्रिविध-सीम-समातिशायि-
सम्भावनं तव परिव्रढिम-स्वभावम्
माया-बलेन भवतापि निगुह्यमानं
पश्यन्ति केचिद् अनिशं त्वद्-अनन्य-भावाः || [Sतोत्र-रत्न, १३] इतिवत् |

भक्तिर् एवैनं नयति भक्तिर् एवैनं दर्शयतीत्य् आदि श्रुतेः | तथाभूतं
तम् अचक्षतेति | निरीक्ष्य च मुदा कैः शिरोभिर् नेमुः | न विशेषेण तृप्ता
दृशो नेत्राणि येषां ते |

तस्येति [३.१५.४३]| टीका च - स्वरूपानन्दाद् अपि तेषां भजनानन्दाधिक्यम्
इत्य् आह | तस्य पदारविन्द-किञ्जल्कैः केशरैर् मिश्रा या तुलसी तस्या
मकरन्देन युक्तो यो वायुः, स्व-विवरेण नासा-च्छिद्रेण, अक्षर-जुषां
ब्रह्मानन्द-सेविनाम् अपि, संक्षोभं चित्तेऽतिहर्षं तनौ रोमाञ्चम् | इत्य्
एषा ||

अत्र पदयोर् अरविन्द-किञ्जल्क-मिश्रा या तुलसीति व्याख्येयम् | अरविन्द-
तुलस्यौ च तदानीं वन-माला-स्थिते एव ज्ञेये | अस्तु तावद्-भगवद्-आत्म-
भूतानां तेषाम् अङ्गोपाङ्गानां तेषु क्षोभ-कारित्वं तत्-समन्धि-
समन्धिनो वायोर् अपीति भावः |

हर्ष-कारितं सम्भ्रमम् आह द्वाभ्याम् | ते वा [३.१५.४४] इति | ते वै किल,
वदनम् एव असित-पद्म-कोषः ईषद्-विकसितं नीलाम्बुजं तं उत् ऊर्ध्वं
वीक्ष्य लब्ध-मनोरथाः सन्तः, नया एवारुण-मणयः तेषां श्रयणम्
आश्रय-भूतं अङ्घ्रि-द्वन्द्वं पुनर् अवेक्ष्य अधो-दृष्ट्या वीक्ष्य पुनः
पुनर् एवं वीक्ष्य युगपत् सर्वाङ्ग-लावण्य-ग्रहणाशक्तेः पश्चान्
निदधुश् चिन्तयामासुः, युगपद् एव कथम् इदम् इदं सर्वं पश्येमेत्य्-
उत्कण्ठाभिः स्थायिभाव-पोषकं चिन्ताख्यं भावम् आपुर् इत्य् अर्थः |

पुंसाम् इति | बहु-मतं ब्रह्मणोऽपि धन-प्रकाशत्वाद् अत्यादरास्पदम् |
पौंस्नं [?] वपुर् दर्शयानम् इति | पुरुषस्य गर्भोद-शायिनो गुणावतार-
रूपं श्री-विष्ण्व्-आख्यं यद् वपुस् तद् अभिन्नतया स्वं वपुर् दर्शयन्तं,
न तु ब्रह्मादिवद् अन्यथात्वेनेत्य् अर्थः | अनन्येन स्वेनैव सिद्धै`स्वरूप-
भूतैर् इत्य् अर्थः | अतएवोत्पत्तिकैः तद्वद् एवानादि-सिद्धैर् इत्य् अर्थः |
अणिमाद्य्-अष्टैश्वर्य-युतं विशिष्टं न तूपलक्षितम् | अनेन त्तेषां स्तुत्य्-
आस्पद-विशेषणत्वेन ऐश्वर्योपलक्षित-समस्त-भगानां तादृशत्वं
व्यञ्जितम् | समगृणन् सम्यग् अस्तुवन्न् इति |

अथ श्री-भगवतस् तादृश-भाव-व्यञ्जिनीं निजाम् उक्तिं तेषाम् एव स्व-
हार्दाभिव्यक्ति-करेण स्तुति-वाक्येन प्रमाणयति, श्री-कुमारा ऊचुर् इति |

स्तुतिम् आह य इति पञ्चभिः | अत्राक्षर-जुषाम् अपि [ ३.१५.४३] इत्य् अनुसृत्य
व्याख्यायते | नित्यं ब्रम-रूपेण प्रकाशसे न तच् चित्रम् | इदानीं तु
विशुद्ध-सत्त्व-लक्सणेन स्वरूप-शक्ति-वृत्ति-विशेषेण प्रकाशितया घन-
प्रकाश-पर-तत्त्वैक-रूपया मूर्त्या प्रत्यक्षोऽसि, अहो भाग्यम् अस्माकम्
इत्य् आहुः |

हे अनन्त यस् त्वं हृद्-गतोऽपि दुरात्मनाम् अन्तर्हितो न स्फुरसि, स
नोऽस्माकम् अन्तर्हितो न भवसि, नयन-मूलं त्वयैव राद्धः प्राप्तोऽसि |
तथा च - अपि संराधने प्रत्यक्षानुमानाभ्यां इत्य् अस्य विषय-वाक्यम्
पराञ्चि यानि व्यतृणत् स्वयम्भूस् तस्मात् पराङ् पश्यसि नान्तरात्मन् |
कश्चिद् धीरः प्रत्यग्-आत्मानम् ऐक्षद् आवृत्त-चक्षुर् अमृतत्वम् इच्छन्न् इति
| अन्तर्धानाभावे हेतुः भवद्-उद्भवेन ब्रह्मणा तेनास्मत्-पित्रा यर्हि
यदैवानुवर्णित-रहा उद्दिष्ट-ब्रह्माख्य-रहस्यः, तदैव नः कर्म-
मार्गेण तद्-रूपतया गुहाः बुद्धिं गतोऽस्मीति |

ननु, पित्रोपदिष्टं भवताम् अदृश्यम् आत्म-तत्त्वाख्यं रहः, अहं त्व् अन्य
एव स्यां दृश्यत्वात् | नैवम् | अस्मत् प्रत्य् अभिज्ञया भेद-निरासाद् इत्य् आहुः
तं त्वाम् इति | हे भगवन् परं केवलम् आत्म-तत्त्वं ब्रह्म-स्वरूपं त्वां
विदाम विद्मः प्रत्यभिजानीमः | केन प्रत्यभिजानीथ? सम्प्रति अधुना
सत्त्वेन, अस्मास्व् एतद्-रूपाविर्भावेन | एतावन्तं कालं न ज्ञातवन्तो वयं,
अधुना तु साक्षाद्-अनुभवेन निश्चितवन्तः स्म इत्य् अर्थः | त्वं शुद्ध-
चित्त-वृत्तौ ब्रह्मवत् नेत्रेऽप्य् अस्माकं स्फुरसि, न तु दृश्यत्वेनेति भावः
| न केवलं प्रत्यभिज्ञा-मात्रम् इत्य् आहुः | एषाम् अस्माकं रतिं रचयन्तम्
अन्यथा रतिर् अपि त्वय्य् अस्माकं नोद्भवेद् इति भावः |

निरहं-मानादित्वेनान्येषाम् अप्य् आत्मारामाणाम् अन्यतो रत्य्-अभावम् एव
द्योतयन्तस् तद्-आत्म-तत्त्वम् आहुः तत्रैव साधन-वशिष्ट्यात् किम् अपि
वैशिष्ट्यं चाहुः | यत् त्वद्-रूपत्वेनाविर्भवद्-आत्म-तत्त्वं तेऽनुतापः
कृपा, तेनैव विदितैर् दृढ-भक्ति-योगैर् विदुः | यद् वा अनुतापो दैन्यं तेन
विदितैस् ते तव दृढ-भक्ति-योगैः | कीदृशाः ? उद्ग्रन्थयो निरहं-मानाः
| अतएव विरागाः | तद् एवं पित्रानुवर्णित-रहा इत्य् अत्र रहः-शब्दश् चतुः-
श्लोकी-रीत्या प्रेम-भक्तेर् एव वाचक इति व्यञ्जितम् |

अथ पूर्वम् अभेद-मतयोऽपि सम्प्रति स्वरूपानन्द-शक्ति-विलासैर् विचित्रित-
मतयो भूयोऽपि भेदात्मिकां भक्तिम् एव प्रार्थयितुं भक्तानां
सुखातिशयम् आहुः, नात्यन्तिकम् इति | आत्यन्तिकं मोक्ष-लक्षणं प्रसादम्
अपि, किम् उतान्यद् इन्द्रादि-पदम् |

इदानीं स्वापराधं द्योतयन्तो भक्तिं प्रार्थयन्ते कामम् इति | हे
भगवन्म्, अतः पूर्वम् अस्माकं वृजिनं नाभवत् | इदानीं तु सर्वाण्य् अपि
जातानि यतस् त्वद्-भक्तौ शप्तौ | अतस् तैर् वृजिनैर् निरयेषु कामं
नोऽस्माकं भवो जन्म स्यात् | अनेन तद्-अधिगम उत्तर-पूर्वार्धयोर्
अश्लेष-विनाशौ तद्-व्यपदेशाद् इति न्यायेनासम्भव-तद्-भावानां ब्रह्म-
ज्ञानिनाम् अपि स्वेषां बहु-नरक-कारि-वृजिनापात-क्षमापणेन तयोर्
इत्थम्भूत-गुणो हरिर् इतिवत् सर्वाद्भुत-महत्तमत्वं सूचितम् | अहो निरया
अपि भवेयुर् एव, न तावतापि पर्याप्तं, तेभ्यश् च नास्माकम् अपि भयम्
| अत्र तु मूलं दुष्फलं भगवत्-पराङ्-मुखी-भाव एव, स त्व् अस्माकं
माभूद् इति सकाकु प्रार्थयन्ते | नु वितर्के | यदि तु नश् चेतस् ते पदयो
रमेत, तत्राप्य् अलिरद् एव केवल-तन्-माधुर्यास्वादापेक्षया, न तु
ब्रह्मात्मानुभवापेक्षया, एवं वाचश् चेत्य् आदि | अत्र भतापराधस्य
भगवता क्षमा तद्-इच्छा-मात्र-कृत-तत्-क्रोध-जननात् तेषाम्
अपराधाभासत्वेनेति ज्ञेयम् |

श्लोक-द्वयेऽस्मिन् कैवल्यान् नरकोऽपि त्वद्-भक्ति-मात्रं कामयमानानाम्
अस्माकं तद्-अविरोधत्वात् श्रेयान् इति स्वारस्य-लब्धं, तथापीत्थं
कृतार्थत्वम् अस्माकम् अतिचित्रम् इत्य् आहुः प्रादुर् इति | अनात्मनाम् आत्मनस्
तव एकान्त-भक्ति-रहितानाम् अप्रकटोऽपि इत् इत्थं यः प्रतीतोऽसि, तस्मै
तुभ्यं नम इदं विधेमेति | तत्रैतद् उक्तं भवति | एते ब्रह्म-विद्या-
सिद्धानां परावर-गुरूणाम् अपि गुरवः | अतएव परमहंस-महा-
मुनीनाम् इत्य् उक्तम् |

तं त्वाम् अहं ज्ञान-घनं स्वभाव-
प्रध्वस्त-माया-गुण-भेद-मोहैः |
सनन्दनाद्यैर् हृदि संविभाव्यम्[२६] [ ९.८.२३]

इति श्रीमद्-अंशुमद्-वाक्यादौ इहात्म-तत्त्वं सम्यग् जगाद मुनयो यद्
अचक्षतात्मन्न् इति [ २.७.५] ब्रह्म-वाक्यादौ, तस्मै मृदित-कषायाय
तमसः पारं दर्शयति भगवान् सनत्-कुमार इत्य् आदि श्रुतौ च तथा
प्रसिद्धम् | आसन् नानुभवस्यैव तु सिद्धस्याणिमादिभिर् विघ्नोऽपि
सम्भाव्यः | न तु सिद्धानुभवस्य, तं सप्रपञ्चम् अधिरूढ-समाधि-
योगः स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुर् इति [ ३.२८.३८] श्री-
कपिल-देव-वाक्यात् |

अतेव तेषां प्रध्वस्त-माया-गुण-भेद-मोहानां क्रोधादिकम् अपि
दुर्घट-घटना-कारिण्या श्री-भगवद्-इच्छयैव जातम् इति तैर् अपि
व्याख्यातम् | तद् एवं तेषां सतत-ब्रह्मानन्द-मग्नत्वं सिद्धम् | तद्
उक्तम् - अक्षर-जुषाम् अपीति [ ३.१५.४३], योऽन्तर्हित [ ३.१५.४६] इत्य् आदि च
| श्रूयते चान्यत्र ब्रह्म-जुषाम् अविक्षिप्त-चित्तत्वम् | यथा सप्तमे श्री-
नारद-वाक्यम् -

कामादिभिर् अनाबिद्धं प्रशान्ताखिल-वृत्तिर् यत् |
चित्तं ब्रह्म-सुख-स्पृष्टं नैवोत्तिष्ठेत कर्हिचित् || इति [ ७.१५.३५]

तथापि तेषां भगवद्-आनन्दाकृष्ट-चित्तत्वम् उच्यते | एवम् अन्येषाम् अप्य्
आत्मारामाणां तादृशत्वं श्रूयते | स्व-सुख-निभृत-चेतास् तद्-व्युदस् तान्य्
अभावोऽप्य् अजित-रुचिर-लीलाकृष्ट-सारः [ १२.१२.६८] इत्य् आदिषु |

अथ लोक-सङ्ग्रहार्थैर् वेषा तेषां भक्ति-प्रक्रिया प्राचीन-संस्कार-वशा
वा ? नैवम् | उभयत्रापि वासो यथा परिकृतं मदिरा-मदान्ध [
३.२८.३७] इतिवत् तत्रावेशासम्भवात् | दृश्यते त्व् अन्यत्रानावेशः मानसा मे
सुता युष्मत्-पूर्वजाः सनकादयः | चेरुर् विहायसा लोकान् लोकेषु विगत-
स्पृहा [ ३.१५.१२] इत्य् अभिधानात् | भगवति त्व् आवेशः परमहंस-
महामुनीनाम् अन्वेषणीय-चरणौ [ ३.१५.३७] इत्य् अत्र
यादृच्छिकताविरोध्य्-अन्वेषणीयत्वाभिधानात् | पञ्चमे तु, असङ्ग-निशित-
ज्ञानानल-विधूताशेष-मलानां भवत्-स्वभाव-नामात्मरामाणां
मुनीनाम् अनवरत-परिगुणित-गुण-गण [ ५.३.११] इत्य् अत्र गद्ये तद्-एक-
निष्ठत्वम् अप्य् उक्तम् | अजित-रुचिर-लीलाकृष्ट-सार इत्य् [ १२.१२.६९] अत्रैव
च | अत्रापि तेनेश निवृत्तिम् अवापुर् अलं दृशो न [ ३.१५.५०] इत्य् आदौ
सुखदत्वम् अपि साक्षाद् एवोक्तम् | अत्र पूर्वोक्त-हेतोश् च स्तुतौ
प्रतुतोपालम्भ-प्रसङ्गाच् च स्नेहावलोक-कलया हृदि संस्पृशन्तम् इति [
३.१५.३९] साक्षाद् उक्तेश् च दृशाम् एव सुखं जातम् इत्य् अनासक्तिर् एव व्यञ्जितेत्य्
अपि न व्याख्येयम् |

तस्माद् आत्मारामाणां रमणास्पदत्वाद् ब्रह्माख्यम् आत्म-वस्त्व् एव श्री-
भगवान् | तत्रापि चकार तेषां संक्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोर्
इति [ ३.१५.४३] श्रवणात् ततोऽपि घन-प्रकाशः | तत् तद् विचित्र-श्री-भगवद्-
अङ्गोपाङ्गाद्य्-अभिनिवेश-दर्शनानन्द-वैचित्री चोपलभ्यते, सा
चान्यथानुपपत्त्या स्वरूप-शक्ति-विलास-रूपैवेति |

ननु, भवतु तेषाम् आनन्दाधिक्यात् तस्मिन्निर्विशेष-स्वरूपानन्दस्यैव
घन-प्रकाशता, उपाधि-वैशिष्ट्यात् | यतः, विशुद्ध-सत्त्वांश-भावितायां
चित्त-वृत्तौ यद् ब्रह्म स्फुरति | तद् एव घनीभूताखण्ड-विशुद्ध-सत्त्व-
मये भगवति स्फुरत्-तद्-अध्यस्ततया तदैक्यम् आपन्नायां तस्यां
विशेषत एव स्फुरति | अतएव श्री-विग्रहादि-पर-ब्रह्मणोर् अभेद-वाक्यम्
अपि तद् अत्यन्त-तादात्म्यापेक्षयैव | अतएव तत्र तत्रोपाधाव् एक एव
निर्भेद-परमानन्दः समुपलभ्यते, न तु विशेषाकार-गन्धोऽपि, तत् तद्
उपाधेर् अपेक्षणं तु प्रतिपद-तद्-आनन्द-समाधि-कौतुक-निबन्धनं
तस्मात् कथम् अनेन प्रमाणेन तत्-तद्-उपाधीनाम् अपि पर-तत्त्वाकारत्वं
साध्यते इति | उच्यते - भवन्-मते तावत् शुद्ध-चित्त-वृत्तौ पर-ब्रह्म
स्फुरति सम्यग् एव स्फुरति | भेदांश-लेश-परित्यागेनैव ब्रह्म-
विद्यात्वाङ्गीकारात् | असम्यग्-ज्ञानस्य तत्त्वानङ्गीकारात् तेन
कैवल्यासम्भवाच् च | अतो न श्री-विग्रहादाव् अधिकाविर्भावाङ्गीकारो
युज्यते |

किं च, शुद्ध-सत्त्व-मया विग्रहादि-लक्षणोपाधय इति वदतस् तव
कोऽभिप्रायः ? किं तत् परिणामास् ते तत्-प्रचुरा वा ? नाद्यः, रजोऽसद्-
भावेन परिणामासम्भव इति ह्य् उक्तम् | न चान्त्यः, येषु विग्रहादिषु तत्-
प्राचुर्यं ते मिश्र-सत्त्वस्य कार्य-भूता इत्य् अर्थापत्तौ सत्त्वं विशुद्धं
श्रयते भवान् स्थितौ [ १०.२.३४] इत्य् आदि-वचन-जाते विशुद्ध-पद-
वैयर्थ्यम् इति चोक्तम् एव | अस्तु वा विमिश्रत्वं तथापि तादृशे ब्रह्म-
स्फुरण-योग्यतैव न सम्भवेत् किं पुनर् विशेषणेत्य् उद्देश्य-विस्मृतिश् च
स्यात् | अथाखण्ड-विशुद्ध-सत्त्वाश्रयत्वेन तेऽपि तद्-रूपतयैवोच्यन्ते |

ततश् च तेष्व् अनुभूताखण्ड-शुद्ध-सत्त्वे तस्मिन् ब्रह्मानुभवन्तीति चेत्,
तत् अयुक्तं कल्पना-गौरवात्, तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम्
इति [ ३.१५.३८] साक्षाद् एव गोचरी-कृतत्वेन उक्ततया परम्परा-दृष्टत्व-
प्रतिघाताच् च | तस्य शुद्ध-सत्त्वस्य प्राकृतत्वं तु निषिद्धम् एव | तस्मान्
न ते प्राकृत-सत्त्व-परिणामा न वा तत्-प्रचुराः, किन्तु स्व-प्रकाशत्ता-
लक्षण-शुद्ध-सत्त्व-प्रकाशिता इति प्राक्तनम् एवोक्तं व्यक्तम् | अतएव
तेषाम् उपाधित्व-निराकृतेस् तत्-तद्-अनुभवानन्द-वैचित्री च सम्पद्यते |
तथैव तम् एवम् एवम्भूतम् अचक्षतेति तत्-तद्-विषय-सौन्दर्य-वर्णनन्ं
प्रस्तुतोपकारित्वात् सार्थकं स्यात् | अखण्ड-शुद्ध-सत्त्व-मय-
मात्रेणैवाभिप्रेत-सिद्धेः | अतएव निरीक्ष्य च न वितृप्त-दृश [ ३.१५.४२]
इति दृक्-सम्बन्धि -त्वद्-रूप-कृतैवातृप्तिर् उक्ता |

तथैव च शब्देनैवाक्षर-जयित्वं पदारविन्द-परिमलात्मक-वायु-
लक्षणस्यतद्-विशेषस्यदर्शितम् | अन्यथोभयत्रापि ब्रह्मानन्दस्यैव
निर्विशेषतयोपलभ्यमानत्वे विद्याजुषाम् अपीत्युपाधि-प्रधानम् एवोच्यते
| उपाधि-युगलस्यैव मिथः स्पर्धित्व-प्राप्तेः | अनेनाक्षरानुभव-
मुख-जयित्व-कथनेन वैशिष्ठादीनं पुत्र-शोकादिकम् इव तद्-
आवेशाभास एवायम् इत्य् अपि निरस्तम् | अत एवम् एवोक्तं श्री-स्वामिभिरपि
स्वरूपानन्दाद् अपि तेषां भजनानन्दाधिक्यम् आहेति | तस्माद् अस्ति
वैचित्र्यम् | इति | अतएव तैर् अपि विचित्रतयैव प्रार्थितं चेतोऽलिवद् यदि नु ते
पदयो रमेत [ ३.१५.४९] इत्य् आदौ | अक्क चेन् मधु विन्देत किम् अर्थं
पर्वतं व्रजेत् इति न्यायेन तद्-उपाध्य्-अन्तरान्वेषण-वैयर्थ्यात् तेषाम्
अतद्-अन्वेषण-कौतुकाभावाच् च |

किं च, न तेषाम् अभेदात्मकोऽनुभवो वा दृश्यते, प्रत्युत नेमुर् निरीक्ष्य
न वितृप्त-दृशो मुदा कैः [ ३.१५.४२], कामं भवः स्व-वृजिनैर् निरयेषु
नः स्ताद् इत्य् आदौ [ ३.१५.४९], तत्-प्रतियोगि-नमस्काराद्य्-उपलक्षित-
भेदात्मक-भक्ति-सुखम् एव दृश्यते | तस्मान् मायिकोपाधि-निहीनत्वाद्-
धेयांशतया प्रतिभातत्वाच् च न तज्-जातीयं सुखम् अन्य-जातीयं कर्तुं
शक्नोतीति सन्त्य् एवान्यथानुपपत्ति-सिद्धायाःस्वरूप-शक्तेर् एव विलासाः |

अपि च - अस्तु तावज् जीवन्-मुक्त-दशायां तन्-मते विद्योपाधि-
प्रतिफलितस्यैव सतो ब्रह्मणः सकाशात् श्री-भगवतो घन-प्रकाशतो
सर्वोपाधि-विनिर्मुक्त-मुक्ति-दशायाम् अपि साक्षात् तादृशतास्त्य् एवेति
सुव्यक्तं नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादम् [ ३.१५.४८] इत्य् आदौ
तस्मान् नोपाधितारम्य-चिन्ता | भवतः कथाया [ ३.१५.४८] इत्य् अनेन
निरुपाधि-ब्रह्म-भूताद् उपरि च वैचित्री स्फुटम् एवासौ स्वीकृता | तस्मात्
सान्तरङ्ग-वैभवस्य भगवतः सुखैक-रूपत्वं, तद्-रूपत्वेऽपि
ब्रह्मतोऽपि घन-प्रकाशत्वं, स्वरूप-शकित्-विलास-वैचित्री चेति विद्वद्-
अनुभव-प्रमाणेन निर्णीतम् | तत्र, मुक्ता अपि लीलया विग्रहं कृत्वा
भजन्त इति | यं सर्वे देवा आमनन्ति मुमुक्षवो ब्रह्म-वादिनश् चेत्य् अत्र
श्रुताव् अद्वैत-वाद-गुरवोऽपि | कृष्णो मुक्तैर् इज्यते वीत-मोहैर् इति भारते
|

ब्रह्म-भूतः प्रसन्नात्मा
न शोचति न काङ्क्षति |
समः सर्वेषु भूतेषु
मद्-भक्तिं लभते पराम् || इति [ १८.५४] श्री-भगवद्-गीतोपनिषत्सु |

मुक्तानाम् अपि भक्तिर् हि नित्यानन्द-स्वरूपिणीति भारत-तात्पर्ये प्रमाणिता
श्रुतिश् च | तथा आप्रायणात् तत्रापि हि दृष्टम् इत्य् अत्र च मध्व-भाष्य-
प्रमाणिता सौपर्ण-श्रुतिः | सर्वदैनम् उपासीत यावन् मुक्तिम् उक्ता ह्य्
एनम् उपासत इति | अतेव श्री-प्रह्लाद-बलि-प्रभृति-महाभागवत-
सम्बन्धम् अभिप्रेत्य श्री-विष्णु-पुराणे[२७]ऽप्य् उक्तं पाताले
तस्य न प्रीतिर् विमुक्तस्यापि जायते इति |

|| ३.१५ || श्री-ब्रह्मा देवान् ||८५||

[८६]

अतएव शेष-पुरुषार्थ-स्वरूप एवासाव् इति स्फुटम् एवाहुर् गद्येन --

अथानयापि न भवत इज्ययोरु-भार-भरया समुचितम् अर्थम्
इहोपलभामहे | आत्मन एवानुसवनम् अञ्जसाव्यतिरेकेण
बोभूयमानाशेष-पुरुषार्थ-स्वरूपस्य || [ ५.३.७-८]

टीका च - आत्मनः स्वत एवानुसरणं सर्वदा अञ्जसा साक्षाद् वोभूयमाना
अतिशयेन भवन्तो ये अशेषाः पुरुषार्थास् ते स्वरूपं यस्य परमानन्दस्य
इत्य् एषा | श्रुतिश् च -सर्व-कामः सर्व-गन्धः सर्व-रसः इत्य् आदौ ||

|| ५.३ || ऋत्विग्-आदयः श्री-यज्ञ-पुरुषम् ||८६||

[८७]

तद् एवं ब्रह्मणोऽपि यत् श्री-भगवति प्रकाश-सम्यक्त्वं तत् पूर्वम् एव
विद्वद्-अनुभव-वचन-प्रचयेन सिद्धम् अपि विशेषतो विचार्यते | तत्रैकम्
एव तत्त्वं द्विधा शब्द्यत इति न वस्तुनो भेद उपपद्यते | आविर्भावस्यापि
भेद-दर्शनात् न च संज्ञा-मात्रस्य, किन्तुस्व-स्व-दर्शन-योग्यता-भेदेन
द्विविधोऽधिकारी द्विधा दृष्टं तद् उपास्त इति | तत्राप्य् एकस्य दर्शनस्य
वास्तवत्वम् अन्यस्य भ्रमजत्वम् इति न मन्तव्यम् उभयोर् अपि
याथार्थ्येन दर्शितत्वात् | न चैकस्य वस्तुनः शक्त्या
विक्रिअय्माणांशकत्वाद् अंशतो भेदः | विकृतत्व-निएधात् तयोः | तस्माद्
दृष्टेर् असम्यक्-सम्यक्त्व [?] सत्य् अपि सम्यक्त्वे तद्-अननुसन्धानाद् वा
एकस्मिन्न् अधिकारिण्य् एक-देशेन स्फुरद् एकभेदः परस्मिन्न् अखण्डतया
द्वितीयो भेदः | एवं सति यत्र विशेषं विनैव वस्तुनः स्फूर्तिः, सा दृष्टिर्
असम्पूर्णा, यथा ब्रह्माकारेण, यत्र स्वरूप-भूत-नाना-वैचित्री-
विशेषवद्-आकारेण, सा सम्पूर्णा, यथा श्री-भगवद्-आकारेणेति लभ्यते | त
एतद् अभिप्रेत्य प्रथमं दृष्टि-तारतम्येन तद्-अभिव्यक्ति-तारतम्यं तन्-
महा-पुराणाविर्भाव-कारणाभ्यां प्रतिपाद्यते षड्भिः |

श्री-नारद उवाच -

जिज्ञासितम् अधीतं च
ब्रह्म यत् तत् सनातनम् |
तथापि शोचस्य् आत्मानम्
अकृतार्थ इव प्रभो || [ १.५.४]

श्री-व्यास उवाच --
अस्त्य् एव मे सर्वम् इदं त्वयोक्तं
तथापि नात्मा परितुष्यते मे |
तन्-मूलम् अव्यक्तम् अगाध-बोधं
पृच्छामहे त्वात्म-भवात्म-भूतम् || [ १.५.५]

स वै भवान् वेद समस्त-गुह्यम्
उपासितो यत् पुरुषः पुराणः |
परावरेशो मनसैव विश्वं
सृजत्य् अवत्य् अत्ति गुणैर् असङ्गः || [ १.५.६]

श्री-नारद उवाच --
भवतानुदित-प्रायं
यशो भगवतो ऽमलम् |
येनैवासौ न तुष्येत
मन्ये तद् दर्शनं खिलम् || [ १.५.८]

नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं
न शोभते ज्ञानम् अलं निरञ्जनम् |
कुतः पुनः शश्वद् अभद्रम् ईश्वरे
न चार्पितं कर्म यद् अप्य् अकारणम् || [ १.५.१२]

ॐ नमो भगवते तुभ्यं
वासुदेवाय धीमहि |
प्रद्युम्नायानिरुद्धाय
नमः सङ्कर्षणाय च || [ १.५.३७]

इति मूर्त्य्-अभिधानेन
मन्त्र-मूर्तिम् अमूर्तिकम् |
यजते यज्ञ-पुरुषं
स सम्यग् दर्शनः पुमान् || [ १.५.३८]

श्लोका अमी बहुभिः संमिश्रा अप्य् अविस्तरत्वाय झटित्य् अर्थ-प्रत्ययस्य च
संक्षिप्यैव समुद्धताः | क्रमेणार्था यथा जिज्ञासितम् इति | टीका च - यत्
सनातनं नित्यं परं ब्रह्म, तच् च त्वया जिज्ञासितं विचारितम्, अधीतम्
अधिगतं प्राप्तं चेत्य् अर्थः | तथापि शोचसि तत् किम् अर्थम् इति शेषः | इत्य्
एषा |

त्वम् इति त्वम् अर्क इव त्रिलोकीं पर्यटन् तथा वैष्णव-योग-बलांशेन च
प्राण-वायुर् इव सर्व-प्राणिनाम् अन्तश्चरः सन् आत्मनां सर्वेषाम् एव
साक्षी बहिर् अन्तर् वृत्तिज्ञः | अतः परे ब्रह्मणि धर्मतो योगेन निष्टातस्य
| तद् उक्तं याज्ञवल्क्येन

इज्याचार-दयाहिंसा-
दान-स्वाध्याय-कर्मणाम् |
अयं परमो लाभो यद्
योगेनात्म-दर्शनम् || इति |

अवरे च ब्रह्मणि वेदाख्ये व्रतैः स्वाध्याय-नियमैर् निष्णातस्यापि मे
अलम अत्यर्थं यन् न्यूनं तत् स्वयम् एव विचक्ष्व वितर्कय | भवतेति |
भगवद्-यशो-वर्णनोपलक्षणं भजनं विना येनैव रुक्ष-ब्रह्म-
ज्ञानेन असौ भगवान् तु तुष्येत, तद् एव दर्शनं ज्ञानं खिलं न्यूनं
मन्ये तद् एव स्पष्टयति | नैष्कर्म्यम् इति |

टीका च - निष्कर्म ब्रह्मवेद् एकाकारत्वान् निष्कर्मता-रूपं नैष्कर्म्यम्
अज्यतेऽनेनेत्य् अञ्जनम् उपाधिः तन् निवर्तकं निरञ्जनम् | एवम्भूतम् अपि
ज्ञानम् अच्युते भावो भक्तिस् तद्-वर्जितं चेत् अलम् अत्यर्थं न शोभते
सम्यग्-अपरोक्षत्वाय न कल्पत इत्य् अर्थः | तदा शाश्वत् साधन-काले फल-
काले च अभद्रं दुःख-स्वरूपं यत् काम्यं कर्म, यद् अप्य् अकारणम्
अकाम्यं तच् चेति चकारस्यान्वयः | तद् अपि कर्म ईश्वरे नार्पितं चेत् कुतः
पुनः शोभते ? बहिर्मुखत्वेन सत्त्व-शोधकत्वाभावात् | इत्य् एषा |

यद् वा निरञ्जनम् इति निरूपाधिकम् अपीत्य् अर्थः | परमादरणीयत्वाद् एव
द्वादशान्ते श्री-सूतेनापि पुनः कृतम् इदं पद्यम् |

तस्माद् उक्तिर् एव सम्यग्-दर्शन-हेतुर् इत्य् उपसंहरति द्वाभ्याम् नम इति
| मन्त्र-मूर्तिं मन्त्रोक्त-मूर्तिं, मन्त्रोऽपि मूर्तिर् यस्येति वा | अमूर्तिकं
मन्त्रोक्त-व्यतिरिक्त-मूर्ति-शून्यं, प्राकृत-मूर्ति-रहितं वा, मूर्ति-
स्वरूपयोर् एकत्वात् प्राकृतवन् न विद्यते पृथक्त्वेन मूर्तिर् यस्य
तथाभूतं वा | स पुमान् सम्यग्-दर्शनः साक्षाच्-छ्री-भगवतः साक्षात्-
कर्तृत्वाद् इति भावः ||

|| १.५ || श्री-सुतः ||८७||

[८८]

तद् एवं दृष्टितारतम्यद्वारा तद्-अभिव्यक्ततारतम्येन श्री-भगवत
उत्कर्ष उक्तः | अथ लिङ्गान्तरैर् अपि दर्श्यते | तत्रात्मराम-जनाकर्ष-
लिङ्गेन गुणोत्कर्ष-विशेषेण तस्यैव पूर्णताम् आह |

आत्मारामाश् च मुनयो
निर्ग्रन्था अप्य् उरुक्रमे |
कुर्वन्त्य् अहैतुकीं भक्तिम्
इत्थम्-भूत-गुणो हरिः || [ १.७.१०]

टीका च - निर्ग्रन्था ग्रन्थेभ्यो निर्गताः | तद् उक्तं गीतासु -

यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च || [ २.५२] इति |

यद् वा ग्रन्थिर् एव ग्रन्थः निर्वृत्त-हृदय-ग्रन्थय इत्य् अर्थः | ननु
मुक्तानां किं भक्त्येत्यादि-सर्वाक्षेप-परिहारार्थम् आह इत्थम्भूत-
गुणः | इत्य् एषा ||

|| १.७ || श्री-सूतः ||८८||

[८९]

आरोहभूमिकाक्रमेणापि तस्यैवाधिक्यम् आह --

मनो ब्रह्मणि युञ्जानो
यत् तत् सद् असतः परम् |
गुणावभासे विगुण
एक-भक्त्यानुभाविते || [ ३.२४.४२]

निरहङ्कृतिर् निर्ममश् च
निर्द्वन्द्वः सम-दृक् स्व-दृक् |
प्रत्यक्-प्रशान्त-धीर् धीरः
प्रशान्तोर्मिर् इवोदधिः || [ ३.२४.४३]

वासुदेवे भगवति
सर्व-ज्ञे प्रत्यग्-आत्मनि |
परेण भक्ति-भावेन
लब्धात्मा मुक्त-बन्धनः || [ ३.२४.४४]

आत्मानं सर्व-भूतेषु
भगवन्तम् अवस्थितम् |
अपश्यत् सर्व-भूतानि
भगवत्य् अपि चात्मनि || [ ३.२४.४५]

इच्छा-द्वेष-विहीनेन
सर्वत्र सम-चेतसा |
भगवद्-भक्ति-युक्तेन
प्राप्ता भागवती गतिः || [ ३.२४.४६]

एक-भक्त्या अव्यभिचारिण्या साधन-लक्षणया भक्त्या, अनुभाविते
निरन्तरम् अपरोक्षीकृते, तां विना कस्यचिद् अप्य् अर्थस्यासिद्धेः |
निरहङ्कृतित्वाद् एव निर्ममः | तद्-द्वयाभावाद् एव मन-आदीनाम् अप्य्
अभावः सिध्यति | समदृक् भेदाग्राहकः | स्वदृक् स्वस्वरूपाभेदेन
ब्रह्मैव पश्यन् | प्रत्यक् अन्तर्मुखी प्रशान्ता विक्षेप-रहिता धीर् ज्ञानं
यस्य सः |

तद् एवं ब्रह्म-ज्ञान-मिश्र-भक्ति-साधन-वशेन ब्रह्मानुभवे जातेऽपि
भक्ति-संस्कार-बलेन लब्ध-प्रेमादेस् तद्-ऊर्ध्वम् अपि श्री-भगवद्-
अनुभवम् आह | वासुदेव इति | प्रत्यग्-आत्मनि सर्वेषाम् आश्रय-भूते परेण
प्रेम-लक्षणेन भक्ति-भावेन तत्-सत्तयैव लब्धा आत्मानस् तदीयात्मका
अहङ्कारादयो येनेति | ब्रह्म-ज्ञानेन प्राकृताहङ्कारादि-लयानन्तरम्
आविर्भूतान् प्रेमानन्दात्मक-शुद्ध-सत्त्व-मयान् लब्धवान् इत्य् अर्थः |

ननु त एव प्रत्यावर्तन्तां किं वा पूर्ववद् अमी अपि बन्ध-हेतवो
भवन्तु | नेत्य् आह, मुक्त-बन्धनः | अनावृत्तिः शब्दाद् इति न्यायात् भक्त्य्-
अतिशयेन लब्धात्मत्वम् एव प्रतिपादयति, आत्मानम् इति | आत्मात्र
परमात्मा, सर्वथा तस्य भगवान् एवास्फुरद् इति वाक्यार्थः | ततः
साक्षाद् एव तत्-प्राप्तिम् आह, इच्छा-द्वेषेति | तद् एवं तेन भागवती गतिः
प्राप्ता | हेयत्वाद् अन्यत्रेच्छा-द्वेष-विहीनेन तस्माद् एव हेतोः सर्वत्र
सम-चेतसा | तद् उक्तम् --

नारायण-पराः सर्वे
न कुतश्चन बिभ्यति |
स्वर्गापवर्ग-नरकेष्व्
अपि तुल्यार्थ-दर्शिनः || [ ६.१७.२८]

यद् वा, मया लक्ष्म्या सह वर्तते इति सम इति सहस्र-नाम-भाष्यात्
भगवच्-चेतसेति प्राप्तो भागवतीं गतिम् इति पाठे, स कर्दम एव तां
गतिं प्राप्तः | अत्र भगवद्-भक्ति-योगेनेत्य् एव विशेष्यम् इति | एवम् एवोक्तं
श्री-भगवद्-गीतोपनिषत्सु --

बुद्ध्या विशुद्धया युक्तो
धृत्यात्मानं नियम्य च |
शब्दादीन् विषयांस् त्यक्त्वा
रागद्वेषौ व्युदस्य च || [ १८.५१]

विविक्तसेवी लघ्वाशी
यत-वाक्-काय-मानसः |
ध्यान-योग-परो नित्यं
वैराग्यं समुपाश्रितः || [ १८.५२]

अहंकारं बलं दर्पं
कामं क्रोधं परिग्रहम् |
विमुच्य निर्ममः शान्तो
ब्रह्म-भूयाय कल्पते || [ १८.५३]

ब्रह्म-भूतः प्रसन्नात्मा
न शोचति न काङ्क्षति |
समः सर्वेषु भूतेषु
मद्-भक्तिं लभते पराम् || [ १८.५४]

भक्त्या माम् अभिजानाति
यावान् यश् चास्मि तत्त्वतः |
ततो मां तत्त्वतो ज्ञात्वा
विशते तद्-अनन्तरम् || [ १८.५५] इति |

अत्र विंशतिर् मिलनार्थः, यथा दुर्योधनं परित्यज्य युधिष्ठिरं
प्रविष्टवान् अयं राजेति | श्री-दशमेऽपि श्री-गोपैर् ब्रह्म-सम्पत्त्य्-
अनन्तरम् एव वैकुण्ठो दृष्ट इति श्री-स्वामिभिर् एव च व्याख्यातम् ||

|| ३.२४ || श्री-मैत्रेयः ||८९||

[९०]
तथा

तस्माज् ज्ञानेन सहितं
ज्ञात्वा स्वात्मानम् उद्धव |
ज्ञान-विज्ञान-सम्पन्नो
भज मां भक्ति-भावितः || [ ११.१३.५]

स्वात्मानं जीव-स्वरूपम् | ज्ञानं विज्ञानं च बाह्यम् | किं बहुना अत्र
श्री-चतुःसन-शुकादय एवोदाहरणम् इति ||

|| ११.१३ || श्री-भगवान् ||९०||

[९१]

श्री-भगवता शब्द-ब्रह्म-मय-कम्बु-स्पृष्ट-कपोलः तत्-प्रकाशित-
यथार्थ-निगदो ध्रुवो बालकोऽपि तथा विवृतवान् इत्य् एवम् आनन्द-
चमत्कार-विशेष-श्रवणाद् अपि तस्यैव पूर्णत्वम् आह |

या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात्
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् || [ ४.९.१०]

स्व-महिमनि असाधारण-माहात्म्येऽपि माभूत् न भवतीत्य् अर्थः |
अन्तकासिः कालः ||

|| ४.९ || ध्रुवः श्री-ध्रुवप्रियम् || ९१ ||

[९२]

परम-सिद्धि-रूपाद् ब्रह्मणि लयाद् अपि तद्-भजनस्य गरीयस्त्वेन तस्यैव
गरीयस्त्वम् उपदिशति |

अनिमित्ता भागवति
भक्तिः सिद्धेर् गरीयसी || [ ३.२५.३]

सिद्धेर् मुक्तेर् अपि टीका च | सिद्धेर् ज्ञानात् मुक्तेर् वेति श्री-भगवन्-नाम-
कौमुदी |

|| ३.२५ || श्री-कपिल-देवः || ९२ ||

[९३]

तद् एवं श्री-भगवान् एवाखण्डं तत्त्वं साधक-विशेषाणां तादृश-
योग्यत्वाभावात् सामान्याकारोदयत्वेन तद् असम्यक् स्फूर्तिर् एव ब्रह्मेति
साक्षाद् एव वक्ति द्वाभ्याम् -

ज्ञान-योगश् च मन्-निष्ठो
नैर्गुण्यो भक्ति-लक्षणः |
द्वयोर् अप्य् एक एवार्थो
भगवच्-छब्द-लक्षणः || [ ३.३२.३२]
यथेन्द्रियैः पृथग्-द्वारैर्
अर्थो बहु-गुणाश्रयः |
एको नानेयते तद्वद्
भगवान् शास्त्र-वर्त्मभिः || [ ३.३२.३३]

टीका च - अनेन च ज्ञान-योगेन भगवान् एव प्राप्यः यथा भक्ति-
योगेनेत्य् आह | नैर्गुण्यो ज्ञान-योगश् च मन्-निष्ठो भक्ति-लक्षणश् च यो
योगः तयोर् द्वयोर् अप्य् एक एवार्थः प्रयोजनम् | कोऽसौ ? भगवच्-छब्दो
लक्षणं ज्ञापको यस्य | तद् उक्तं गीतासु - ते प्राप्नुवन्ति माम् एव सर्व-
भूत-हिते रताः [ १२.४] इति |

ननु ज्ञान-योगस्य लाभः फलं शास्त्रेणावगम्यते | भक्ति-योगस्य तु
भजनीयेश्वर-प्राप्तिः | कुतस् तयोर् एकार्थत्वम् इत्य् आशङ्क्य
दृष्टान्तेनोपपादयति | यथा बहूनां रूप-रसादीनां गुणानाम् आश्रयः
क्षीरादिर् एक एवार्थो मार्ग-भेद-प्रवृत्तैर् इन्द्रिअय्र् नाना प्रतीयते |
चक्षुषा शुक्ल इति रसनेन मधुर् ऐति स्पर्शेन शीत इत्य् आदि तथा भगवान्
एक एव तत्-तद्-रूपेणआवगम्यते | इत्य् एषा |

अत्र भगवान् एवाङ्गित्वेन निगदितः | अतः सर्वांश-प्रत्यायकत्वाद् भक्ति-
योगश् च मनः-स्थानीयो ज्ञेयः ||

|| ३.३२ || श्री-कपिल-देवः || ९३ ||

[९४]

अतएव तद्-अंशत्वेनैव ब्रह्म श्रूयते |

अहं वै सर्व-भूतानि
भूतात्मा भूत-भावनः |
शब्द-ब्रह्म परं ब्रह्म
ममोभे शाश्वती तनू || [ ६.१६.५१]

टीका च - सर्व-भूतान्य् अहम् एव | भूतानाम् आत्मा भोक्ताप्य् अहम् एव |
भोक्तृ-भोग्यात्मकं विश्वं मद्-व्यतिरिक्तं नास्तीत्य् अर्थः | यतोऽहं भूत-
भावनः भूतानां प्रकाशकः कारणं च | ननु शब्द-ब्रह्म प्रकाशक्ं
पर-ब्रह्म कारणं प्रकाशकं च सत्यं ते उभे ममैव रूपे इत्य् आह,
शब्द-ब्रह्मेति | शाश्वती शाश्वत्यौ | इत्य् एषा ||

अत्र शब्द-ब्रह्मणः साहचर्यात् पर-ब्रह्मणोऽप्य् अंशत्वम् एवायाति |

|| ६.१६ || श्री-सङ्कर्षणश् चित्र-केतुम् || ९४ ||

[९५]

अतो भगवतोऽसम्यक्-प्रकाशत्वाद् विभूति-निर्विशेषम् एव तद् इत्य् अप्य् आह --

मदीयं महिमानं च
परब्रह्मेति शब्दितम् |
वेत्स्यस्य् अनुगृहीतं मे
सम्प्रश्नैर् विवृतं हृदि || [ ८.२४.३८]

|| ८.२४ || श्री-मत्स्य-देवः सत्यव्रतम् || ९५ ||

[९६]

तथा च विभूति-प्रसङ्ग एव -

पृथिवी वायुर् आकाश
आपो ज्योतिर् अहं महान् |
विकारः पुरुषोऽव्यक्तं
रजः सत्त्वं तमः परम् || [ ११.१६.३७]

टीका च - परं ब्रह्म च इत्य् एषा ||

अतएव श्री-वैष्णव-साम्प्रदायिकैः श्रीमद्भिर् बालमन्दराचार्य-
महानुभव-चरणैर् अप्य् उक्तम् -

यद् अण्ड-मण्डान्तर-गोचरं च
यद् दशोत्तराण्य् अवरणानि यानि च |
गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म ते विभूतयः || इति ||

|| ११.१६ || श्री-भगवान् ||९६||

[९७]

अतो ब्रह्म-रूपे प्रकाशे तद् वैशिष्ट्यानुपलम्भनात् तत्-प्रभावत्व-
लक्षणम् अपि तस्य व्यपदिश्यते | रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं
ब्रह्म-ज्योतिर् [ १०.३.२४][२८] इत्यादि |

ब्रह्मैव ज्योतिः प्रभा यस्य तथाभूतं रूपं श्री-विग्रहम् | तथा चोक्तं
ब्रह्म-संहितायां -

यस्य प्रभा प्रभवतो जग-अण्ड-कोटि-
कोटिष्व् अशेष-वसुधादि-विभूति-भिन्नम् |
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि || [Bरह्मS ५.४०] इति ||

|| १०.३ || श्री-देवकी श्री-भगवन्तम् || ९७ ||

[९८]

अतो ब्रह्मणः परत्वेन श्री-भगवन्तं कण्ठौक्त्यैवाह |

यः परं रहसः साक्षात्
त्रिगुणाज् जीव-संज्ञितात् |
भगवन्तं वासुदेवं
प्रपन्नः स प्रियो हि मे || [ ४.२४.२८]

रहो ब्रह्म तस्माद् अपि परं ततः सुतरां त्रिगुणात् प्रधानाज् जीव-
संज्ञितात् जीवात्मनः परं भगवन्तं यः साक्षात् श्रवणादिनैव न तु
कर्मार्पणादिना प्रपन्न इत्य् अन्वयः | तथा च विष्णु-धर्मे नरक-
द्वादशी-व्रते श्री-विष्णु-स्तवः -

आकाशादिषु शब्दादौ श्रोत्रादौ महद्-आदिषु |
प्रकृतौ पुरुषे चैव ब्रह्मण्य् अपि च स प्रभुः ||
येनैक एव सर्वात्मा वासुदेवो व्यवस्थितः |
तेन सत्येन मे पापं नरकार्ति-प्रदं क्षयम् ||
प्रयातु सुकृतस्यास्तु ममानुदिवसं जय || इति ||

अत्र प्रकरणानुरूपेण सर्वात्म-शब्देन चान्यथा समाधानं पराहतम्
| तथा च तत्रोचरं क्षत्र-बन्धूपाख्याने -

यन्-मयं परमं ब्रह्म तद्-अव्यक्तं च यन्-मयम् |
यन्-मयं व्यक्तम् अप्य् एतद् भविष्यामि हि तन्-मयः || इति ||

तत्रैव मासर्क्ष-पूजा-प्रसङ्गे ततः परत्वं स्फुटम् एवोक्तं --

यथाच्युतस् त्वं परतः परस्मात्
स ब्रह्म-भूतात् परमः परात्मन् |
तथाच्युत त्वं वाञ्छितं तन्
ममापदं चापहराप्रमेय || इति ||

श्री-विष्णु-पुराणे च - स ब्रह्म-पारः पर-पार-भूत इति | अक्षरात् ततः
परतः पर इति श्रुतेः ||

|| ४.२४ || श्री-रुद्रः प्रचेतसम् || ९८ ||

[९९]

तद् एवम् एवाभिप्रायेण स वा एष पुरुषोऽन्न-रस-मय इत्य् आदाव् [Tऐत्त्U २.१]
अन्तरङ्गान्तरङ्गैकैकात्म-कथनान्ते इदं पुच्छं प्रतिष्ठा पृथिवी
पुच्छं प्रतिष्ठा महः पुच्छं प्रतिष्ठा ब्रह्म पुच्छं प्रतिष्ठेति
[Tऐत्त्U २.१] श्रुत्य्-उक्तायाः पञ्चम्या अपि प्रतिष्ठाया उपरि |

श्री-गीतोपनिषदो यथा --ब्रह्मणो हि प्रतिष्ठाहम् [ १४.२७] इत्य् अत्र
ब्रह्म-शब्द-सन्निहित-प्रतिष्ठा-शब्देन सा श्रुतिः स्मर्यते | ततश् चैवम्
एव व्याख्येयम् | हि-शब्दः,

मां च यो ऽव्यभिचारेण
भक्ति-योगेन सेवते |
स गुणान् समतीत्यैतान्
ब्रह्म-भूयाय कल्पते || [ १४.२६]

इत्य् अस्य निरन्तर-प्राचीन-वचनस्य हेतुतया विवक्षया | अतो गुणातीत-
ब्रह्मणः प्रकृतार्थत्वात् प्राचीनार्थ-हेतु-वचनेऽस्मिन्न् उपचारेण तच्-
छब्दस्य ब्रह्म-शक्ति-रूपं हिरण्यगर्भ-रूपं वा अर्थान्तरम् अयुक्तं
किन्त्व् एवम् एव युक्तं यथा |

ननु त्वद्-भक्त्या कथं निर्गुण-ब्रह्म-धर्म-प्राप्तिः | सा तु तद्-
एकानुभवेन तत्राह ब्रह्मणो हीति | हि यस्मात् ब्रह्म-पुच्छं प्रतिष्ठेति
परम-प्रतिष्ठत्वेन श्रुतौ यत् प्रसिद्धं तच् च तस्याम् एव श्रुतौ
आनन्द-मयाङ्गत्वेन दर्शितं तस्य पुच्छत्व-रूपित-ब्रह्मणः | आनन्द-
मयोऽभ्यासाद् इति सूत्रकार-सम्मत-पर-ब्रह्म-भाव आनन्दमयाख्यः
प्रचुर-प्रकाशो रविर् इतिवत् प्रचुरश् चानन्द-रूपः श्री-भगवान् अहं
प्रतिष्ठा ते |

यद्यपि ब्रह्मणो मम च न भिन्न-वस्तुत्वं तथापि श्री-भगवद्-
रूपेणैवोद् इव मयि प्रतिष्ठात्वस्य परा काष्ठेत्य् अर्थः | स्वरूप-शक्ति-
प्रकाशेनैव स्वरूप-प्रकाशस्याप्य् आधिक्यार्हत्वात् | निर्विशेष-ब्रह्म-
प्रकाशस्याप्य् उपरि श्री-भगवत्-प्रकाश-श्रवणात् | अत एकस्यापि वस्तुनस्
तथा तथा प्रकाश-भेदो रजनी-खण्डिनो ज्योतिषो मार्तण्ड-मण्डल-गत-
गभस्ति-भेदवद् उत्प्रेक्ष्यः |

अतो ब्रह्म-प्रकाशस्यापि मद्-अधीनत्वात् कैवल्य-कामनया कृतेन मद्-
भजनेन ब्रह्मणि नीयमानो ब्रह्म-धर्मम् अपि प्राप्नोतीत्य् अर्थः | अत्र
श्री-विष्णु-पुराणम् अपि सम्प्रवदते - शुभाश्रयः स चित्तस्य सवर्गस्य
तथात्मनः इति [ ६.७.७६] | व्याख्यातं च तत्रापि स्वामिभिः |
सवर्गस्यात्मनः पर-ब्रह्मणोऽप्य् आश्रयः प्रतिष्ठा |
तद् उक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहम् इति | अत्र च तैर् व्याख्यातम्
| ब्रह्मणोऽहं प्रतिष्ठा घनीभूतं ब्रह्मैवाहम् | यथा घनीभूत-
प्रकाश एव सूर्य-मण्डलं तद्वद् इत्य् अर्थः | इति |

अत्र च्वि-प्रत्ययस् तु तत्-तद्-उपासक-हृदि तत्-प्रकाशस्याभूतत्वं ब्रह्मण
उपचर्यते इतीत्थम् एव | अत्रैव प्रतिष्ठा प्रतिमेति टीका मत्सर-कल्पिता |
न हि तत्-कृता असम्बन्धत्वात् | न हि निराकारस्य ब्रह्मणः प्रतिमा
सम्भवति | न च तत्-प्रकाशस्य प्रतिमा सूर्यः | न चामृतस्याव्ययस्येत्य्
आद्य्-अनन्तर-पाद-त्रयोक्तानां मोक्षादीनां प्रतिमात्वं घटते | न वा
श्रुति-शैली-विष्णु-पुराणयोः संवादितास्ति | तस्मान् न आदरणीया यदि
वादरणीया तदा तच्-छब्देनाप्य् आश्रय एव वाचनीयः | प्रतिलक्षीकृत्य
नातिपरिमितं भवति यत्रेति तद् एतत् सर्वम् अभिप्रेत्याहुः |

दृतय इव श्वसन्त्य् असु-भृतो यदि तेऽनुविधा
महद्-अहम्-आदयोऽण्डम् असृजन् यद् अनुग्रहतः |
पुरुष-विधोऽन्वयोऽत्र चरमोऽन्नमयादिषु
यः सद्-असतः परं त्वम् अथ यद् एष्व् अवशेष-मृतम् || [ १०.८७.१७]

असुभृतो जीवा दृतय इव श्वसद्-आभासा अपि यदि ते तवानुविधा भक्ता
भवन्ति तदा श्वसन्ति प्राणन्ति | तेषु तद्-भक्तानाम् एव जीवानां जीवनं
मन्यामहे इति भावः | कथं यस्य तव अनुग्रहतः समष्टि-व्यष्टि-
रूपम् अखण्डं देहं महद्-अहम्-आदयोऽसृजन् अतः स्वयम् एव तथाविधात्
त्वत्तः पराङ्-मुखानाम् अन्येषां दृति-तुल्यत्वं युक्तम् एवेति भावः |
अनुग्रहम् एव दर्शयन्ति अत्र महद्-अहम्-आदिषु अन्वयः प्रविष्टस् त्वम्
इति |

कथं मद्-आदेश-मात्रेण तेषां तथा सामर्थ्यं स्यात् | तत्राहुः यद्
यस्मात् सत आनन्द-मयाख्य-ब्रह्मणोऽवयवस्य प्रियादेर् असतस् तद्-
अन्यस्माद् अन्नम्यादेश् च यत् परं पुच्छ-भूतं सर्व-प्रतिष्ठा ब्रह्म
तत् खलु त्वं तत्रापि एषु प्रतिष्ठा-वाक्येषु अवशेषं वाक्य-शेषत्वेन
स्थितं ब्रह्मणो हि प्रतिष्ठाहम् इत्य् आदाव् अन्यत्र प्रसिद्धम् | आत्म-तत्त्व-
विशुद्ध्य्-अर्थ्यं यद् आह भगवान् ऋतम् इत्य् आदौ ऋतत्वेनापि प्रसिद्धं श्री-
भगवद्-रूपम् एव त्वम् अतोऽन्नमयादिषु पुरुष-विधः पुरुषाकारो यश्
चरमः प्रिय-मोद-प्रमोदानन्द-ब्रह्मणाम् अवयवी आनन्द-मयः स
त्वम् इति |

तस्मान् मूल-परमानन्द-रूपत्वात् तवैव प्रवेशेन तेषां तथा
सामर्थ्यं युक्तम् एवेति भावः | को ह्य् एवान्यात् कः प्राण्याद् यद् एष आकाश
आनन्दो न स्याद् इति [Tऐत्त्U २.७.१] श्रुतेः | प्रकरण्ऽस्मिन्न् एतद् उक्तं भवति
| यद्यप्य् एकस्-स्वरूपेऽपि वस्तुनि स्वगत-नाना-विशेषो विद्यते तथापि तादृश-
शक्ति-युक्ताया एव दृष्टेस् तत् तत् सर्व-विशेष-ग्रहणे निमित्तता दृश्यते न त्व्
अन्यस्याः | यथा मांस-मयी दृष्टिः सूर्य-मण्डलं प्रकाश-मात्रत्वेन
गृह्णाति, दिव्या तु प्रकाश-मात्र-स्वरूपत्वेऽपि तद्-अन्तर्गत-दिव्य-सभादिकं
गृह्णाति | एवम् अत्र भक्तेर् एव सम्यक्त्वेन तयैव सम्यक् तत्त्वं दृश्यते
| तच् च ब्रह्मेति तस्य असम्यग्-रूप्तवम् | तत्र च सामान्यत्वेनैव ग्रहणे
कारणस्य ज्ञानस्य तद्-अन्तरीणावान्तर-भेद-पर्यालोचनेष्व् असामार्थ्याद्
बहिर् एवावस्थितेन तेन भागवत-परमहंस-वृन्दानुभवासिद्ध-नाना-
प्रकाश-विचित्रेऽपि स्व-प्रकाशः | लक्षण-पर-तत्त्वे प्रकाश-सामान्य-
मात्रं यद् गृह्यते तत् तस्य प्रमा-रूपत्वेनैवोत्प्रेक्ष्यते | ततश् चात्मत्वम्
अंशत्वं विभूतित्वं च व्यपदिश्यते तस्य | तस्माद् अखण्ड-तत्त्व-रूपो
भगवान् सामान्य-कार-स्फूर्ति-लक्षणत्वेन स्व-प्रभाकारस्य
ब्रह्मणोऽप्य् आश्रय इति युक्तम् एव |

अतएव यस्य पृथिवी शरीरं यस्य आत्मा शरीरं यस्याव्यक्तं शरीरं
यस्याक्षरं शरीरम् एष सर्व-भूतान्तरात्मा अपहत-पाप्मा दिव्यो देव
एको नारायण इत्य् एतच् छ्रुत्य्-अन्तरं चाक्षर-शब्दोक्तस्य ब्रह्मणोऽप्य्
आत्मत्वेन नारायणं बोधयति |

उक्तात्मादि-शब्द-पारिशेष्य-प्रमाणेन चकार तेषां सङ्क्षोभम् अक्षर-
जुषाम् अपीति प्रयोग-दृष्ट्या चात्र ह्य् अक्षर-शब्देन ब्रह्मैव वाच्यम् |
तथा श्री-भगवता साङ्ख्य-कथने | कालो माया-मये जीवे [ ११.२४.२७]
इत्य् आदौ महा-प्रलये सर्वावशिष्टत्वेन ब्रह्मोपदिश्य तदापि तस्य
द्रष्टृत्वं स्वस्मिन्न् उक्तम् |

एष साङ्ख्य-विधिः प्रोक्तः
संशय-ग्रन्थि-भेदनः |
प्रतिलोमानुलोमाभ्यां
परावर-दृशा मया || [ ११.२४.२९]

इत्य् अत्र परावर-दृशेत्य् अनेन सोऽयं चात्र विवेकः | साङ्ख्यं ख्यानं तच्-
छास्त्रं खलु स्वरूप-भूत-तद्-विशेषम् अनुसन्धाय यत् तत् स्वरूप-
मात्रं तदानीम् अवशिष्टं वदति तद् एव च ब्रह्माख्यं तद् एव च
प्रपञ्चावच्छिन्न-चरम-प्रदेशे प्रपञ्च-लयाद् वैकुण्ठ इव स्वरूप-
भूत-विशेष-प्रकाशाद् अवैशिष्यमानत्वेन वक्तुं युज्यते |

तच् च स्व-विशेष्य-मात्रं स्वरूप-शक्ति-विशिष्टेन वैकुण्ठ-स्थेन श्री-
भगवता पृथग् इव तत्रानुभूयत इति | तद् एवं निर्विशेषत्वेन स्पर्श-रूप-
रहितस्यापि तस्य भगवत्-प्रभा-रूपत्वम् अनुत्प्रेक्ष्य तद्-अभिन्नत्वेन
ब्रह्मत्वं व्यपदिष्टम् | ततः स्वरूपादि-माधुरी-धारितया सविशेषस्य
साक्षाद् भगवद्-अङ्ग-ज्योतिषः सुतराम् एव तत् सिध्यति | यथोक्तं श्री-
हरिवंशे महा-काल-पुराख्याने श्रीमद्-अर्जुनं प्रति स्वयं भगवता |

ब्रह्म-तेजो-मयं दिव्यं महद् यद् दृष्टवान् असि |
अहं स भरत-श्रेष्ठ मत्-तेजस् तत् सनातनम् ||
प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी |
तां प्रविश्य भवन्तीह मुक्ता योग-विद्-उत्तमाः ||
सा साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् |
तत् परं[२९] परमं ब्रह्म सर्वं विभजते जगत् ||
माम् एव[३०] तद् घनं तेजो ज्ञातुम् अर्हसि भारत || इति || [HV
२.११४.९-१२]

प्रकृतिर् इति तत्-प्रभात्वेन स्वरूप-शक्तित्वम् अपि तस्य निर्दिष्टम् | एवं
पूर्वोदाहृत-कौस्तुभ-भविष्यक-विष्णु-पुराण-वाक्यम् अप्य् एतद्
उपोद्वलकत्वेन द्रष्टव्यम् | तस्माद् दृतय इवेत्य् अपि साध्व् एव व्याख्यातम्
|

|| १०.८७ || श्रुतयः श्री-भगवन्तम् || ९९ ||

[१००]

ततश् च यस्मिन् परम-बृहति सामान्याकार-सत्तायास् त-अङ्ग-ज्योतिषोऽपि
बृहत्वेन ब्रह्मत्वं तस्मिन्न् एव मुख्या तच्-छब्द-प्रवृत्तिः | तथा च
ब्राह्मे -

अनन्तो भगवान् ब्रह्म आनन्देत्यादिभिः पदैः |
प्रोच्यते विष्णुर् एवैकः परेषाम् उपचारतः || इति |

यथा पाद्मे -

पृथग् वक्तुं गुणास् तस्य न शक्यन्तेऽमितत्वतः |
यतोऽतो ब्रह्म-शब्देन सर्वेषां ग्रहणं भवेत् ||
एतस्माद् ब्रह्म-शब्दोऽसौ विष्णोर् एव विशेषणम् |
अमितो हि गुणो यस्मान् नान्येषां तम् ऋते विभुम् || इति |

अत्र निर्गोलितोऽयं महा-प्रकरणार्थः | यद् अद्वयं ज्ञानं तद् एव तत्त्वम्
इति तत्त्वविदो दो [?] वदन्ति | तच् च वैशिष्ट्यं विनैवोपलभ्यमानं ब्रह्मेति
शब्द्यते वैशिष्ट्येन सह तु श्री-भगवान् इति | स च भगवान् पूर्वादित-
लक्षण-श्री-मूर्त्यात्यात्मक एव न तु अमूर्तः |

अथ, भूप मूर्तम् अमूर्तं च परं चापरम् एव च इति [ ६.७.४७] विष्णु-
पुराण-पद्ये[३१] तस्य चतुर्विधत्वम् अङ्गीकुर्वद्भिर् यद्य्
अमूर्तत्वम् अपि पृथग् अङ्गीकर्तव्यं तदा ब्रह्मत्ववत् तद्-उपासक-दृष्टि-
योगयतानुरूपम् एवास्तु | तथा हि यस्य समीचीना भक्तिर् अस्ति तस्य पर-
मूर्त्या श्यामसुन्दर-चतुर्भुजादि-रूपतया प्रादुर्भवति |
यस्यार्वाचीनोपासना-रूपा तस्यापर-मूर्त्या पाताल-पादादि-कल्पना-मय्य्
एव | यस्य च रुक्षं ज्ञानं तस्य परेण ब्रह्म-लक्षण-मूर्तत्वेन | यस्य
ज्ञान-प्रचुरा भक्तिस् तस्य त्व् अपरेणेश्वर-लक्सण-मूर्तत्वेनेति |
अत्रापरत्वं परम-मूर्त्याविर्भावाननतर-सोपानत्वेन न ब्रह्मवद्
अतीव मूर्तत्वानपेक्ष्यम् इत्य् एवम् | न त्व् अश्रेष्ठत्व-विवक्षयेति ज्ञेयम्
| पर-मूर्तापेक्षया परत्वं वा | तत्रैव तद् विश्व-रूपं वैरूप्यम् अन्यद्
धरेर् महद् इति विश्वाधिष्ठानत्वेन नित्यत्व-विभूत्वे | मूर्तं भगवतो
रूपं सर्वापाश्रय-निःस्पृहम् इति [ ६.७.७८] निरुपाधित्वम् | चिन्तयेद्
ब्रह्म-
भूतं तम् इति [ ६.७.८३] परतः लक्षणत्वम् |

त्रिभाव-भावनातीत [ ६.७.७६] इति तत्र प्रसिद्ध-कर्म-मय-ज्ञान-
कर्म-समुच्चय-मय-केवल-ज्ञान-मय-भावना-त्रयातीतत्वेन पर-
तत्त्व-लक्षणत्वेऽपि भक्त्यैकाविर्भावितया सम्यक् प्रकाशत्वं मूर्तस्यैव
व्यञ्जितम् | अतएव शुभाश्रयः स चित्तस्य
सर्वगस्याचलात्मनः[३२] [ ६.७.७६] इत्य् उक्तम् |

ततश् च तस्याः श्री-मूर्तेर् अपि सकाशात् तद्-अन्ते प्रत्याहारोक्तिः केवला
भेदोपासकं प्रति वय्वस्थापिता भवतीत्य् अप्य् अनुसन्धेयम् | अत्र तद्-
विश्व-रूप-वैरूप्यम् इत्य् [ ६.७.७०] एतत् पद्यं मूर्त-परम् एव ज्ञेयम् |

समस्त-शक्ति-रूपाणि
यत् करोति नरेश्वरः |
देव-तिर्यङ्-मनुष्याख्या
चेष्टावन्ति स्वलीलया ||[३३] [ ६.७.७१] इत्य् अनन्तर-वाक्य-बलात्
|

प्रथमस्य तृतीये - यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः [
१.३.२] इत्य्-अद्य्-उक्त-लक्सणस्य मूर्तस्यैव तत्-तद्-अवतारित्वं दर्शितम्, एतन्
नानावताराणां निधानं बीजम् अव्ययम् इति [ १.३.५] | तद्-विश्व-रूप-
वैरूप्यम् इति [ ६.७.७०] पठद्भिः श्री-रामानुज-चरणैर् अपि मूर्त-
परत्वेनैव व्याख्यातम् | विश्व-रूपाद् वैरूप्यं वैलक्सण्यं यत्र तद्-
विश्व-लक्षणं मूर्तं स्वरूपम् इति |

तद् एवं तस्य वस्तुनः श्री-मूर्त्य्-आत्मकत्व एव सिद्धे यत् सर्वतः पाणि-
पादादि-लक्षणा मूर्तिः श्रूयते सापि पूर्वोक्ति-लक्षणायाः श्री-मूर्तेर् न
पृथग् इति विभुत्व-प्रकरणान्ते व्यञ्जितम् एव | यत् तु

बृहच्-छरीरोऽभिविमान-रूपो
युवा कुमारत्वम् उपेयिवान् हरिः |
रेमे श्रियाऽसौ जगतां जनन्या
स्व-ज्योत्स्नया चन्द्र इवामृतांशुः || इति पाद्मोत्तर-खण्ड-वचनम् |

अत्र पर-ब्रह्म-स्वरूप-शरीरः सर्वतो-भावेन विगत-परिमाणोऽपि नित्यं
कैशोराकारम् एव प्राप्तः सन् श्रिया सह रेमे इत्य् अर्थः | उपेयिवान् इत्य् उक्ताव्
अपि नित्यत्वम् अपहत-पाप्मेतिवत् | तत्रैव तदीय-तच्-छ्री-मूर्त्य्-
अधिष्ठातृक-त्रिपाद्-विभूतेर् अपि प्रघट्टकेन वाक्य-समूहकेन परम-
नित्यता-प्रतिपादनात् | तथा चोक्तं तत्रैव -

अच्युतं शाश्वतं दिव्यं
सदा यौवनम् आश्रितम् |
नित्यं सम्भोगम् ईश्वर्या
श्रिया भूम्या च संवृतम् || इति ||

तस्मात् श्री-भगवान् यथोक्त-लक्षण एव | स एव वदन्तीत्य् अस्य
मुख्यार्थ-भूतं मूलं तत्त्वम् इति पर्यवसानम् | तद् उक्तं मोक्ष-
धर्मे श्री-नारायणोपाख्याने -

तत्त्वं जिज्ञासमानानां
हेतुभिः सर्वतो-मुखैः |
तत्त्वम् एको महा-योगी
हरिर् नारायणः प्रभुः || इति [ १२.३३५.८३] |

नारायणोपनिषदि च - नारायणः परं ब्रह्म तत्त्वं नारायणः परम् इति
[MNU १३.४] | अत्र श्री-रामानुजोदाहृताः श्रुतयश् च - यस्य पृथिवी शरीरम्
इत्य् आरभ्य एष सर्व-भूतान्तरात्मा दिव्यो देव एको नारायण इत्य् आद्या
बह्व्यः | इह श्री-भगवद्-अंश-भूतानां पुरुषादीनां परम-तत्त्व-
विग्रहता-साधनं वाक्य-जातम् अपि तस्यांशिनस् तद्-रूप-विग्रहत्वं
कैमुत्येनाभिव्यनक्तीति पूर्वत्र चोत्तरत्र ग्रन्थे तथोदाहरणानि |

विष्णु-पुराणे तु साक्षात् श्री-भगवन्तम् अधिकृत्य तथोदाहरणम् -

द्वे रूपे ब्रह्मणस् तस्य
मूर्तं चामूर्तम् एव च |
क्षराक्षर-स्वरूपे ते
सर्व-भूतेष्व् अवस्थिते |

अक्षरं तत् परं ब्रह्म
क्षरं सर्वम् इदं जगत् || [ १.२२.५५]

इत्य् उक्त्वा जगन्-मध्ये ब्रह्म-विष्ण्व्-ईश-रूपाणि च पठित्वा पुनर् उक्तम् -


तद् एतद् अक्षरं नित्यं
जगन्-मुनि-वराखिलम् |
आविर्भाव-तिरोभाव-
जन्म-नाश-विकल्पनात् || इति [ १.२२.६०]

तद् एतद् अक्षराख्यं पर-ब्रह्म नित्यम् अखिलं जगत् तु
आविर्भावादिभेदवद् इत्य् अर्थः | तत्राविर्भाव-तिरोभावादिकत्वेनैव
पूर्वेषां ब्रह्मादीनां तद्-अन्तःपात-व्यपदेशो न वस्तुत इत्य् अर्थः |

अथ सदा स्व-धाम्नि विराजमानत्वेन क्षर-रूपतो मूर्तत्वादिना
चाक्षरतोऽपि विलक्षणं तृतीयं रूपं भगवतः परमं स्वरूपम् इति पुनर्
उच्यते |

सर्व-शक्ति-मयो विष्णुः
स्वरूपं ब्रह्मणोऽपरम् |
मूर्तं तद् योगिभिः पूर्वं
योगारम्भेषु चिन्त्यते ||[ १.२२.६१]

स परः सर्व-शक्तीनां
ब्रह्मणः समनन्तरम् |
मूर्तं ब्रह्म महा-भाग
सर्व-ब्रह्म-मयो हरिः || [ १.२२.६३]

तत्र सर्वम् इदं प्रोतम्
ओतं चैवाखिलं जगत् || [ १.२२.६४] इति |
ब्रह्म-साक्षात्-कारात् पूर्वं योगिभिश् चिन्त्यते | तथा ब्रह्मणः
समनन्तरम् उपासनानुक्रमेण यथाग्रेऽक्षराद् अनन्तरं तद् उक्तम्,
यथा - ब्रह्म-भूतः प्रसन्नात्मेत्य् [ १८.५५] आद्यानुसारेण
ब्रह्म[व]साक्षात्कारानन्तराविर्भावी च स इत्य् अर्थः | यतः सर्वासां
शक्तीनां स्वरूप-भूतादीनां परमाश्रयः | अतएव सर्व-ब्रह्म-
मयोऽखण्ड-ब्रह्म-स्वरूपश् च | अक्षराख्यस्य पूर्वस्य शक्ति-हीनत्वेन
खण्डत्वात् | यद् वा अतएव सर्व-वेद-वेद्य इत्य् अर्थः | तत एव च तत्र
सर्वम् इत्य् आदीति | एवं -

यस्मात् क्षरम् अतीतो ऽहम्
अक्षराद् अपि चोत्तमः |
अतो ऽस्मि लोके वेदे च
प्रथितः पुरुषोत्तमः || इत्य् आदि [ १५.१८] श्री-गीतोपनिषद् अपि योज्या |

अत्र यद्यपि कूटस्थोऽक्षर उच्यते इत्य् [ १५.१६] अक्षर-शब्देन शुद्ध-
जीव एव प्रस्तूयते तथापि पर-ब्रह्म एव च लक्षणम् | अक्षरं परमं
ब्रह्म [ ८.३] इति तच् च तत्र पूर्वोक्तम् इति | अनयोश् चिन्मात्र-
वस्तुत्वेनैकार्थत्वाद् इति तद् एतद् अभिप्रेत्य मल्लानाम् अशनिर् नॄणां
नरवर इत्य् आदौ मूर्तस्यैव स्वयं भगवत एव लक्षणत्वं [तल्-
लक्ष्यत्वं] साक्षाद् एवाह तत्त्वं परं योगिनाम् [ १०.४३.१७] इति |

योगिनां चतुःसनादीनाम् इति ||

|| १०.४३ || श्री-शुकः || १०० ||

[१०१]

अतएव श्रीमद्-भागवतस्य निगम-कल्प-तरु-परम-फल-भूतस्य
श्रैष्ठ्ये सत्य् अपि तथाभूतस्यापि भगवद्-आख्य-परम-तत्त्वस्योत्कर्ष-
विद्या-रूपत्वाद् एव परम-श्रैष्ठ्यम् आह --

धर्मः प्रोज्झित-कैतवो ऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवम् अत्र वस्तु शिवदं ताप-त्रयोन्मूलनम् |
श्रीमद्-भागवते महा-मुनि-कृते किं वा परैर् ईश्वरः
सद्यो हृद्य् अवरुध्यते ऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् || [ १.१.२]

अत्र यस् तावद् धर्मो निरूप्यते स खलु स वै पुंसां परो धर्मो यतो
भक्तिर् अधोक्षजे इत्य् [ १.२.६] आदिकया

अतः पुम्भिर् द्विज-श्रेष्ठा
वर्णाश्रम-विभागशः |
स्वानुष्ठितस्य धर्मस्य
संसिद्धिर् हरि-तोषणम् || [ १.२.१३]

इत्य् अन्तया रीत्या भगवत्-सन्तोषणैक-तात्पर्येण शुद्ध-भक्त्य्-
उत्पादकतया निरूपणात् परम एव | यतः सोऽपि तद्-एक-तात्पर्यत्वात्
प्रकर्षेण उज्झितं कैतवं फलाभिसन्धि-लक्सणं कपटं यस्मिन्
तथाभूतः | प्र-शब्देन सालोक्यादि-सर्व-प्रकार-मोक्षाभिसन्धिर् अपि
निरस्तः | यत एवासौ तद्-एक-तात्पर्यत्वेन निर्मत्सराणां फल-
कामुकस्यैव परोत्कर्षासहनं मत्सरः तद्-रहितानाम् एव तद्-
उपलक्षणत्वेन पश्व्-आलम्भने, दयालूनाम् एव च सतां स्व-धर्म-
पराणां विधीयते इति एवम् ईदृश-स्पष्टम् अनुक्तवतः कर्म-शास्त्राद्
उपासना-शास्त्राच् चास्य तत्-तत्-प्रतिपादकांशे श्रैष्ठ्यम् उक्तम् |
उभयत्रैव धर्मोत्पत्तेः | तद् एवं सति साक्षात् कीर्तनादि-रूपस्य वार्ता ति
दूरत एव आस्ताम् इति भावः |

अथ ज्ञान-काण्ड-शाखेभ्योऽप्य् अस्य पूर्ववत् श्रैष्ठ्यम् आह वेद्यम् इति |
भगवद्-भक्ति-निरपेक्ष-प्रायेषु तेषु प्रतिपादितम् अपि श्रेयः-सृतिं
भक्तिम् उदस्य [ १०.१४.४] इत्य्-आदि-न्यायेन वेद्यं निश्चेयं भवतीत्य्
अत्रैव वेद्यम् इत्य् अर्थः |

ताप-त्रयम् उन्मूलयति तन्-मूल-भूताविद्या-पर्यन्तं खण्डयतीति तथा
शिवं परमानन्दं ददात्य् अनुभावयतीति तथा | अन्यत्र मुक्ताव्
अनुभवामनने ह्य् अपुरुषार्थत्वापातः स्यात् इति तन्-मननाद् अत्र तु
वैशिष्ट्यम् इति | न चास्य तत्-तद्-दुर्लभ-वस्तु-साधनत्वे तादृश-निरूपण-
सौष्ठवम् एव कारणम् |

अपि तु स्वरूपम् अपीत्य् आह श्रीमद्-भागवत इति | श्रीमद्-भागवतत्वं
भगवत्-प्रतिपादकत्वं श्रीमत्त्वं श्री-भगवन्-नामादेर् इव तादृश-
स्वभाविक-शक्तिमत्त्वम् | नित्य-योगे मतुप् | अतएव समस्ततयैव निर्दिश्य
नीलोत्पलादिवत्त्वन्-नामत्वम् एव बोधितम् | अन्यथा त्व् अविमृष्ट-
विधेयांश-दोषः स्यात् |

अत उक्तं श्री-गारुडे - ग्रन्थोऽष्टादश-साहस्रः श्रीमद्-भागवताभिधः
| इति टीकाकृद्भिर् अपि श्री-भागवताभिधः सुर-तरुर् इति |
अतः क्वचित् केवल-भागवताख्यत्वं तु सत्य-भामा भामा इतिवत् | तादृश-
प्रभावत्वे कारणं परम-श्रेष्ठ-कर्तृत्वम् अप्य् आह | महामुनिः श्री-
भगवान् तस्यैव परम-विचार-पारङ्गत-महा-प्रभाव-गण-
शिरोमणित्वाच् च | स मुनिर् भूत्वा समचिन्तयद् इति श्रुतेः | तेन प्रथमं
चतुः-श्लोकी-रूपेण सङ्क्षेपतः प्रकाशिते कस्मै येन विभाषितोऽयम् इत्य्
[ १२.१३.१९][३४] आद्य्-अनुसारेन सम्पूर्ण एव प्रकाशिते |

तद् एवं श्रैष्ठ्य-जातम् अन्यत्रापि प्रायः सम्भवतु नाम सर्व-ज्ञान-
शास्त्र-परम-ज्ञेय-पुरुषार्थ-शिरोमणि-श्री-भगवत्-साक्षात्कारस् तत्रैव
सुलभ इति वदन् सर्वोर्ध-प्रभावम् आह किं वेति | परैः शास्त्रैस् तद्-उक्त-
साधनैर् वा ईश्वरो भगवान् हृदि किं वा सद्य एवावरुध्यते स्थिरीक्रियते
| वा-शब्दः कटाक्षे | किन्तु विलम्बेन कथञ्चिद् एव | अत्र तु शुश्रूषुभिः
श्रोतुम् इच्छद्भिर् एव तत्-क्षणाद् अवरुध्यते |

ननु इदमे एव तर्हि सर्वे किम् इति न शृण्वन्ति तत्राह कृतिभिर् इति सुकृतिभिर्
इत्य् अर्थः | श्रवणेच्छा तु तादृश-सुकृतिं विना नोत्पद्यत इति भावः | अथवा
अपरैर् मोक्ष-पर्यन्त-कामना-रहितेश्वराराधन-लक्षण-धर्म-
ब्रह्म-साक्षात्कारादिभिर् उक्तैर् अनुक्तैर् वा साध्यैस् तैर् अत्र किं वा कियद्
वा माहात्म्यम् उपपन्नम् इत्य् अर्थः | यतो य ईश्वरः कृतिभिः कथञ्चित् तत्-
तत्-साधनानुक्रम-लब्धया भक्त्या कृतार्थैः सद्यस् तद्-एक-क्षणम् एव
व्याप्य हृदि स्थिरीक्रैयते स एवात्र श्रोतुम् इच्छद्भिर् एव तत्-क्षणम्
आरभ्य सर्वदैवेति | तस्माद् अत्र काण्ड-त्रय-रहस्यस्य प्रव्यक्त-
प्रैत्पादनादेर् विशेषत ईश्वराकर्षि-विद्या-रूपत्वाच् च इदम् एव सर्व-
शास्त्रेभ्यः श्रेष्ठम् | अतएवात्र इति पदस्य त्रिर्-उक्तिः कृता | सा हि
निर्धारणार्थेति | अतो नित्यम् एतद् एव सर्वैर् एव श्रोतव्यम् इति भावः ||

|| १.१ || वेद-व्यासं श्री-शुकम् || १०१ ||

[१०२]

तद् एवं श्री-शुक-हृदयम् अपि सङ्गमितं स्यात् | अतश् चतुःश्लोकी-प्रसङ्गेऽपि
श्री-भगवान् एवार्थः | स हि स्व-ज्ञानाद्य्-उपदेशेन स्वम् एवोपदिदेश |
तत्र परम-भागवताय ब्रह्मणे श्रीमद्-भागवताख्यं निजं शास्त्रम्
उपदेष्टुं तत्-प्रतिपाद्यतमं वस्तु-चतुष्टयं प्रतिजानीते |

ज्ञानं परम-गुह्यं मे
यद् विज्ञान-समन्वितम् |
सरहस्यं तद्-अङ्गं च
गृहाण गदितं मया || [ २.९.३०]

मे मम भगवतो ज्ञानं शब्द-द्वारा याथार्थ्य-निर्धारणं मया
गदितं सत् गृहाण इत्य् अन्यो न जानातीति भावः | यतः परम-गुह्यं ह्य्
अज्ञानाद् अपि रहस्यतमं मुक्तानाम् अपि सिद्धानाम् [ ६.१४.५] इत्य् आदेः
| तच् च विज्ञानेन तद्-अनुभावेनापि युक्तं गृहाण | न चैतावद् एव | किं च
सरहस्यं तत्रापि रहस्यं यत् किम् अप्य् अस्ति तेनापि सहितम् | तच् च प्रेम-
भक्ति-रूपम् इत्य् अग्रे व्यञ्जयिष्यते | तथा तद्-अङ्गं च गृहाण | तच् च सति
त्व् अपराधाख्य-विघ्ने न झटिति |विज्ञान-रहस्ये प्रकटयेत् | तस्मात् तस्य
ज्ञानस्य सहायं च गृहाणेत्य् अर्थः | तच् च श्रवणादि-भक्ति-रूपम् इत्य् अग्रे
व्यञ्जयिष्यते | यद् वा स-रहस्यम् इति तद्-अङ्गस्यैव विशेषणं ज्ञेयम् |
हृदेर् इव मिथः संवर्धकयोर् एकत्रावस्थानात् ||

[१०३]

अत्र साध्ययोर् विज्ञान-रहस्ययोर् आविर्भावार्थम् आशिषं ददाति -

यावान् अहं यथा-भावो
यद्-रूप-गुण-कर्मकः
तथैव तत्त्व-विज्ञानम्
अस्तु ते मद्-अनुग्रहात् [ २.९.३१]

यावान् स्वरूपतो यत्-परिमाणकोऽहम् | यथा भावः सत्ता यस्येति | यल्-
लक्षणोऽहम् इत्य् अर्थः | यानि स्वरूपान्तरङ्गानि रूपाणि श्यामत्व-चतुर्-
भुजत्वादीनि गुणा भक्त-वात्सल्याद्याः कर्माणि तत्-तल्-लीला यस्य स यद्-
रूप-गुण-कर्मकोऽहम् | तथैव तेन तेन सर्व-प्रकारेणैव तत्त्व-
विज्ञानं याथार्थ्यानुभवो मद्-अनुग्रहात् ते तवास्तु भवताद् इति | एतेन
चतुःश्लोक्य्-अर्थस्य निर्विशेषत्वं स्वयम् एव परास्तम् | वक्ष्यते च
चतुःश्लोकीम् एवोद्दिशता श्री-भगवता स्वयम् उद्धवं प्रति | पुरा
मयेत्यादौ ज्ञानं परं मन्-महिमावभासम् इति [ ३.४.१३] | तत्र
विज्ञान-पदेन रूपादीनाम् अपि स्वरूप-भूतत्वं व्यक्तम् | अत्र्र विज्ञानाशीः
स्पष्टा | रहस्याशीश् च परमानन्दात्मक-तत्-तद्-
याथार्थ्यानुभवेनावश्यं प्रेमोदयात् ||

[१०४]

तद् एव उपदेश्य-चतुष्टयं चतुःश्लोक्या निरूपयन् प्रथमं ज्ञान-
विज्ञानार्थं स्व-लक्षणं प्रतिपादयति द्वाभ्याम् | तत्र ज्ञानार्थम् आह -


अहम् एवासम् एवाग्रे
नान्यद् यत् सद्-असत् परम् |
पश्चाद् अहं यद् एतच् च
यो ऽवशिष्येत सो ऽस्म्य् अहम् || [ २.९.३२]

अत्राहं-शब्देन तद् वक्ता मूर्त एवोच्यते न तु निर्विशेषं ब्रह्म तद्-
अविषयत्वात् | आत्म-ज्ञान-तात्पर्यके तु तत्त्वम् असीतिवत् त्वम् एवात्येव वतुर्म्
उपयुक्तवात् | ततश् चायम् अर्थः - सम्प्रति भवन्तं प्रति प्रादुर्भवन्न्
असौ परम-मनोहर-श्री-विग्रहोऽहम् एवाग्रे महा-परलय-कालेऽप्य् आसम्
एव | वासुदेवो वा इदम् अग्र आसीन् न ब्रह्मा न च शङ्करः | एको नारायण
आसीन् न ब्रह्मा नेशान इत्य् आदि श्रुतिभ्यः | भगवान् एक आसेदम् अग्र
आत्मात्मनां विभुर् इत्य् [ ३.५.२३] आदि तृतीयात् | अतो वैकुण्ठ-तात्-पार्षद्-
आदीनाम् अपि तद्-उपाङ्गत्वाद् अहं-पदेनैव ग्रहणं राजासौ प्रयातीतिवत्
| ततस् तेषां च तद्वद् एव स्थितिर् बोध्यते | तथा च राज-प्रश्नः - स चात्र

स चापि यत्र पुरुषो
विश्व-स्थित्य्-उद्भवाप्ययः |
मुक्तात्म-मायां मायेशः
शेते सर्व-गुहाशयः || [ २.८.१०] इति |

श्री-विदुर-प्रश्नश् च -

तत्त्वानां भगवंस् तेषां
कतिधा प्रति-सङ्क्रमः |
तत्रेमं क उपासीरन्
क उ स्विद् अनुशेरत || इति [ ३.७.३७] |

काशीखण्डेऽप्य् उक्तं श्री-ध्रुव-चरिते -

न च्यवन्ते हि मद्-भक्ता
महत्यां प्रलयापदि |
अतोऽच्युतोऽखिले लोके
स एकः सर्वगोऽव्ययः || इति |

अहम् एवेत्य् एव-कारेणकर्त्-अन्तरस्यारूपत्वादिकस्य च व्यावृत्तिः | आसम् एवेति
तत्रासम्भावनाया निवृत्तिः | तद् उक्तं यद्-रूप-गुण-कर्मक [ २.९.३२]
इति | अतएव | यद् वा आसम् एवेति ब्रह्मादि-बहिर्जन-ज्ञान-गोचर-सृष्ट्य्-आदि-
लक्षण-क्रियान्तरस्यैव व्यावृत्तिः | न तु स्वान्तरङ्ग-लीलाया अपि |
यथाधुनासौ राजा कार्यं न किञ्चित् करोतीत्य् उक्ते राज्य-सम्बन्धि-कार्यम्
एव निषिध्यते न तु शयन-भोजनादिकम् अपीति तद्वत् | यद् वा अस गति-
दीप्त्य्-आदानेष्व् इत्य् अस्मात् आसं साम्प्रतं भवता दृश्यमानैर् विशेषैर् एभिर्
अग्रेऽप्रि विराजमान एवातिष्ठम् इति निराकारत्वादिकस्यैव विशेषतो व्यावृत्तिः
|

तद् उक्तम् अनेन श्लोकेन साकार-निराकार-विष्णु-लक्षण-कारिण्याम् मुक्ता-
फल-टीकायाम् अपि | नापि साकारेष्व् अव्याप्तिः | तेषाम् आकारातिरोहितत्वाद् इति
| ऐतरेयक-श्रुतिश् [?] च आत्मैवेदम् अग्र आसीत् पुरुष-विध [BAU ४.१.१] इति
| एतेन प्रकृतीक्षणतोऽपि प्राग्-भावात् पुरुषाद् अप्य् उत्तमत्वेन भगवज्-
ज्ञानम् एव कथितम् |

ननु क्वचिन् निर्विशेषम् एव ब्रह्म आसीद् इति श्रूयते तत्राह - नान्यद् यत् सद्-
असत्-परम् इति | सत् कार्यम् असत् कारणं तयोः परं यत् ब्रह्म तन् न
मत्तोऽन्यत् | क्वचिद् अधिकारिणि शास्त्रे वा स्वरूप-भूत-विशेष-व्युत्पत्त्य्-
असमर्थे सोऽयम् अहम् एव निर्विशेषतया प्रतिभातीत्य् अर्थः | यदा तदानीं
प्रपञ्चे विशेषाभावान् निर्विशेष-चिन्-मात्राकारेण विकुण्ठे तु स-विशेष-
भगवद्-रूपेणेति शास्त्र-द्वय-व्यवस्था | एतेन च ब्रह्मणो हि
प्रतिष्ठाहम् इत्य् अत्रोक्तं भगवज्-ज्ञानम् एव प्रतिपादितम् | अतएवास्य
परम-गुह्यत्वम् उक्तम् |

ननु सृष्टेर् अनन्तरं नोपलभ्यसे | तत्राह पश्चात् सृष्टेर् अनन्तरम् अप्य्
अहम् एवास्म्य् एव वैकुण्ठेषु भगवद्-आद्याकारेण प्रपञ्चेष्व् अन्तर्याम्य्-
आकारेणेति शेषः | एतेन सृष्टि-स्थिति-प्रलय-हेतुर् अस्येत्य् आदि प्रतिपादितं
भगवज्-ज्ञानम् एवोपदिष्टम् |

ननु सर्वत्र घट-पटाकारा ये दृश्यन्ते ते तु तद्-रूपाणि न भवन्तीति
तवापूर्णत्व-प्रसक्तिः स्याद् इत्य् आशङ्क्याह | यद् एतद् विश्वं तद् अप्य् अहम्
एव मद्-अनन्यत्वान् मद्-आत्मकम् एवेत्य् अर्थः | अनेन सोऽयं तेऽभिहितस् तात
भगवान् विश्व-भावनः | समासेन हरेर् नान्यद् अन्यस्मात् सद्-असच् च यद्
इत्य् आद्य् उक्तं भगवज्-ज्ञानम् एवोपदिष्टम् | तथा प्रलये योऽवशिष्यते
सोऽहम् एवास्म्य् एव | एतेन भवान् एकः शिष्यते शेष-संज्ञ इत्य् उक्तं
भगवज्-ज्ञानम् एवोपदिष्टम् | तथा पूर्वं स्वानुग्रह-प्रकाश्यत्वेन
प्रतिज्ञातं यावत् त्वं सर्व-काल-देशापरिक्च्छेद्यत्व-ज्ञापनायोपदिष्टम्
| एवं नान्यद् यत् सद्-असत्-परम् इत्य् अनेन ब्रह्मणो हि प्रतिष्ठाहम् इति
ज्ञापनया यथा-भावत्वम् | सर्वाकारावयव-भगवद्-आकार-निर्देशेन
विलक्षणानन्त-रूपत्व-ज्ञापनया यद्-रूपत्वम् | सर्वाश्रयाति-निर्देशेन
विलक्षणानन्त-गुणत्व-ज्ञापनया यद्-गुणत्वम् | सृष्टि-स्थिति-
प्रलयोपलक्षित-विविध-क्रियाश्रयत्व-कथनेन लौकिकानन्त-कर्मत्व-
ज्ञापनया यत्-कर्मत्वं च |

[१०५]

अथ तादृश-रूपादि-विशिष्टस्यात्मनो व्यतिरेक-मुखेन विज्ञानार्थं माया-
लक्सणम् आह ऋते ऽर्थम् [ २.९.३३] इत्य् आदि |

पूर्वं व्याख्यातम् एव[३५] | सङ्क्षेपश् चायम् अर्थः |
परम-पुरुषार्थ-भूतं माम् ऋते मद्-दर्शनाद् अन्यत्रैव यत् प्रतीयते
यच् चात्मनि न प्रतीयेत मां विना स्वतः प्रतीतिर् अपि यस्य नास्तीत्य् अर्थः तद्
वस्तु आत्मनो मम परमेश्वरस्य मायां विद्यात् | अत्र दृष्टान्तः |
यथाऽऽभासः प्रतिबिम्ब-रश्मिः | यथा च तमस् तिमिरम् इति | तत्राभासस्य
तादृशत्वं स्पष्टम् एव | तमसोऽपि ज्योतिर् दर्शनाद् अन्यत्रैव प्रतीतेर् ज्योतिर्
आत्मकं चक्षुर् विना चाप्रतीतिर् इति | विद्याद् इति प्रथम-पुरुष-
निर्देशस्यायं भावः | अन्यान् प्रत्य् एव खल्व् अयम् उपदेशः | त्वं तु मद्-
दत्त-शक्त्या साक्षाद् एवानुभवन्न् असीति | एवं मायिक-दृष्टिम् अतीत्यैव
रूपादि-विशिष्टं माम् अनुभवेद् इति | व्यतिरेक-मुखेनानुभावनस्यायं
भावः | शब्देन निर्धारितस्यापि सत्-स्वरूपादेर्
मायाकार्यावेशेनैवानुभवो न भवति | अतस् तद्-अर्थं माया-त्यजनम् एव
कर्तव्यम् इति | एतेन तद्-अविनाभावात् प्रेमाप्य् अनुभावित इति गम्यते |


[१०६]

अथ तस्यैव प्रेम्नो रहस्यत्वं बोधयति --

यथा महान्ति भूतानि
भूतेषूच्चावचेष्व् अनु
प्रविष्टान्य् अप्रविष्टानि
तथा तेषु न तेष्व् अहम् [ २.९.३४]

यथा महाभूतानि भूतेष्व् अप्रविष्टानि बहिः-स्थितान्य् अपि अनुप्रविष्टान्य्
अन्तः-स्थितानि भान्ति | तथा लोकातीत-वैकुण्ठ-स्थितत्वेनाप्रविष्टोऽप्य् अहं
तेषु तत्-तद्-गुण-विख्यातेषु न तेषु प्रणत-जनेषु प्रविष्टो हृदि स्थितोऽहं
भामि | अत्र महाभूतानाम् अंश-भेदेन प्रवेशाप्रवेशौ तस्य तु
प्रकाश-भेदेनेति भेदेऽपि प्रवेशाप्रवेश-मात्र-साम्येन दृष्टान्तः | तद्
एवं तेषां तादृग्-आत्म-वशकारिणी प्रेम-भक्तिर् नाम रहस्यम् इति सूचितम्
|

तथा च ब्रह्म-संहितायाम् --

आनन्द-चिन्मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः |
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि || [Bरह्मS ५.२९]

प्रेमाञ्जन-च्छुरित-भक्ति-विलोचनेन
सन्तः सदैव हृदयेषु विलोकयन्ति |
यं श्यामसुन्दरम् अचिन्त्य-गुण-स्वरूपं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि || [Bरह्मS ५.३०]

अचिन्त्य-गुण-स्वरूपम् अपि प्रेमाख्यं यद् अञ्जनं तेन च्छुरितवत् उच्चैः
प्रकाशमानं भक्ति-रूपं विलोचनं तेन इत्य् अर्थः |

ये भजन्ति तु मां भक्त्या
मयि ते तेषु चाप्य् अहम् | इति [ ९.२९] गीतोपनिषदश् च |

यद् वा तेषु यथा तानि बहिः-स्थितानि चान्तः-स्थितानि च भान्ति तद्वत्
भक्तेषु अहम् अन्तर्मनोवृत्तिषु बहिर्-इन्द्रिय-वृत्तिषु च स्फुरामीति च |
भक्तेषु सर्वथाऽनन्य-वृत्तिताहेतुर् नाम किम् अपि स्व-प्रकाशं
प्रेमाख्यम् आनन्दात्मकं वस्तु मम रहस्यम् इति व्यञ्जितम् | तथैव
श्री-ब्रह्मणोक्तम् --

न भारती मे ऽङ्ग मृषोपलक्ष्यते
न वै क्वचिन् मे मनसो मृषा गतिः |
न मे हृषीकाणि पतन्त्य् असत्-पथे
यन् मे हृदौत्कण्ठ्यवता धृतो हरिः || [ २.६.३४] इति |

यद्यपि व्याख्यान्तरानुसारेणायम् अर्थोऽपलपनीयः स्यात् तथाप्य् अस्मिन्न्
एवार्थे तात्पर्यं प्रतिज्ञा-चतुष्टय-साधनायोपक्रान्तत्वात् तद्-अनुक्त्रम-
गतत्वाच् च | किं तस्मिन्न् अर्थे न तेषु इति छिन्न-पदम् अपि व्यर्थं स्याद्
दृष्टान्तस्यैव क्रियाभ्याम् अन्वयोपपत्तेः | अपि च रहस्यं नाम ह्य् एतद्
एव यत् परम-दुर्लभं वस्तु दुष्टोदासीन-जन-दृष्टि-निवारणार्थं
साधारण-वस्त्व्-अन्तरेणाच्छाद्यते | यथा चिन्तामणिः सम्पुटादिना | अतएव
परोक्ष-वादा ऋषयः परोक्षं च मम प्रियम् इति [ ११.२१.३५] श्री-
भगवद्-वाक्यं च | तद् एवं परोक्षं क्रियते यद् अदेयं विरल-प्रचारं
महद्-वस्तु भवति | अस्यैवादेयत्वं विरल-विचारत्वं महत्त्वं च | मुक्तिं
ददाति कर्हिचित् स्म न भक्ति-योगम् इत्य् [ ५.६.१८] आदिषु बहुत्र व्यक्तम्
|

इदं भागवतं नाम
यन् मे भगवतोदितम् |
सङ्ग्रहो ऽयं विभूतीनां
त्वम् एतद् विपुली कुरु || [ २.७.५१]
यथा हरौ भगवति
नृणां भक्तिर् भविष्यति |
सर्वात्मन्य् अखिलाधारे
इति सङ्कल्प्य वर्णय || [ २.७.५२]

तस्मात् साधु व्याख्यातं स्वामि-चरणैर् अपि रहस्यं भक्तिर् इति ||

[१०७]

अथ कथं तथाभूतं रहस्यम् उदयेतेत्य् अपेक्षायां क्रम-प्राप्तं तद्-
अङ्ग-भूतं तदीय-साधनम् उपदिशति |

एतावद् एव जिज्ञास्यं
तत्त्व-जिज्ञासुनात्मनः |
अन्वय-व्यतिरेकाभ्यां
यत् स्यात् सर्वत्र सर्वदा || [ २.९.३५]

आत्मनो मम भगवतस् तत्त्व-जिज्ञासुना प्रेम-रूपं रहस्यम्
अनुभवितुम् इच्छुना एतावद् एव जिज्ञास्यं श्री-गुरु-चरणेभ्यः शिक्षणीयम्
| किं तत् ? सद् एकम् एव अन्वय-व्यतिरेकाभ्यां विधि-निषेधाभ्यां सदा
सर्वत्र स्याद् उपपद्यते | यथा -

न ह्य् अतोऽन्यः शिवः पन्था
विशतः संसृताव् इह |
वासुदेवे भगवति
भक्ति-योगो यथा भवेत् || [ २.२.३३]

इति व्यतिरेकेणोपक्रम्य तद्-उपसंहारे -

तस्मात् सर्वात्मना राजन्
हरिः सर्वत्र सर्वदा |
श्रोतव्यः कीर्तितव्यश् च
स्मर्तव्यो भगवान् नॄणाम् || [ २.२.३६]

इत्य् अन्वयेन सर्वदेत्य् उक्तम् |

तस्मात् स्व-ज्ञान-विज्ञान-रहस्य-तद्-अङ्गानाम् उपदेशेन चतुःश्लोक्याम् अपि
स्वयं श्री-भगवच्-छब्देन ददर्श तत्राखिल-सात्वतां पतिम् [ २.९.१५]
इत्य् अत्र तापनी-श्रुत्य्-अनुकूलितं श्री-कृष्ण-लिङ्गत्वेन च अस्य वक्तुः श्री-
भगवत्त्वम् एव स्फुटम् | न जातु तद्-अंश-भूत-नारायणाख्य-
गर्भोदशायि पुरुषत्वम् |

अतएवास्य महापुराणस्यापि श्री-भागवतम् इत्य् एव व्याख्या | तथैवोक्तम् -
- कस्मै केन विभाषितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा इत्य् आदौ तच्
छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि इत्य् [ १२.१३.१९]
अत्र पर-शब्देन भगच्-वक्तृत्वम् | आद्योऽवतारः पुरुषः परस्येति द्वितीये
भेदाभिधानात् | अत इदं भगवता पूर्वं ब्रह्मणे नाभि-पङ्कजे |
स्थिताय भव-भीताय कारुण्यात् सम्प्रकाशितम् इत्य् अत्रापि भगवच्-छब्द-
प्रयोगः | श्री-नारायण-नाभि-पङ्कजे स्थितं ब्रह्माणं प्रति स्वयं श्री-
भगवता तत्रैव व्यापि-महा-वैकुण्ठं प्रकाश्येदं पुराणं प्रकाशितम्
इत्य् अर्थः | अनुगतं चैतत् द्वितीय-स्कन्धेतिहासस्येति |

|| २.९ || श्री-भगवान् ब्रह्माणम् || १०२-१०७ ||

[१०८]

तद् एतत् सर्व-शास्त्राणां समन्वयस् तस्मिन्न् एव भगवति | तथा च सर्वैश्
च वेदैः परमो हि देवो जिज्ञास्यो नान्यो वेदैः प्रसिध्येत् | तस्माद् एनं
सर्व-वेदान् अधीत्य विचार्य च ज्ञातुम् इच्छेन् मुमुक्षुर् इति चतुर्वेद-
शिखायाम् | यं सर्व-देवा आनमन्ति मुमुक्षवो ब्रह्मवादिनश् चेति श्री-
नृसिंह-तापन्याम् [NTU २.४.१०] |

न वेदविन् मनुते तं बृहन्तं सर्वानुभूतम् आत्मानं साम्पराये | त्वं
त्व् औपनिषदं पुरुषं पृच्छामीत्य् [BAU ३.९.२७] आदिर् अन्यत्र | वेदैश् च
सर्वैर् अहम् एव वेद्यो वेदान्त-कृद् वेद-विद् एव चाहम् इति [ १५.१५] श्री-
गीतोपनिषत्सु | सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम-
व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयत इति पाद्मे | सर्व-
नामाभिधेयश् च सर्व-वेदेडितश् च स इति स्कान्दे | नताः स्म सर्व-जगतां
वचसां प्रतिष्ठा यत्र शाश्वती इति [ १.१४.२३] वैष्णवे |

सर्व-वेदान् सेतिहासान्
स-पुराणान् स-युक्तिकान् |
स-पञ्चरात्रान् विज्ञाय
विष्णुर् ज्ञेयो न चान्यथा || इति ब्रह्म-तर्के |

तद् एवं सर्व-वेद-समन्वयं स्वस्मिन् श्री-भगवत्य् एव स्वयम् आह -

मां विधत्ते ऽभिधत्ते मां
विकल्प्यापोह्यते ह्य् अहम् | [ ११.२१.४२]

|| ११.२१ || श्री-भगवान् || १०८ ||

[१०९]

तद् एवं भगवत एव सर्व-वेदार्थत्वं दर्शितम् | तत्र राज्ञः प्रश्नः |

श्री-विष्णु-रात उवाच -

ब्रह्मन् ब्रह्मण्य् अनिर्देश्ये
निर्गुणे गुण-वृत्तयः |
कथं चरन्ति श्रुतयः
साक्षात् सद्-असतः परे || [ १०.८७.१]

अस्यार्थः | श्रुतयस् तावच् छब्द-मात्रस्य साधारण्याद् गुणेषु सत्त्वादिषु
वृत्तिर् यासां तादृशो दृश्यन्ते | ब्रह्म तु निर्गुणं सत्त्वादि-गुणातीतं तस्माद्
एवानिर्देश्यम् | तत्-तद्-गुण-कार्य-भूत-जाति-गुण-क्रियाख्याननां
गुणान्तराणाम् अभावास्पदत्वात् तादृश-द्रव्यस्याप्य् अप्रसिद्धत्वाद्
अनिर्देश्यं सत्त्वादि कार्यं भूताभ्यां सद्-असद्भ्यां कार्य-कारणाभ्यां
परम् इति तेन तेनासम्बन्धं चेत्य् अर्थः | तथा च सति यथा डित्थ-वाचि
कस्मिंश्चिद् अद्वितीये द्रव्ये तच्-छब्दस्य मुख्या वृत्तिः प्रवर्तते | यथा च
सिंहो देवदत्त इत्य् अत्र गौण्या वृत्त्या शौर्य-गुण-युक्ते देवदत्ते सिंह-
शब्दः प्रवर्तते | यथा च गङ्गायां घोष इत्य् अत्र-लक्षणया वृत्त्या
गङ्गा-शब्दस् तस्मिन्न् इत्य् असम्बन्धे तटे प्रवर्तते | तथा तत्-तद्-
भावास्पदे ब्रह्मणि तया तया वृत्त्या श्रुतयः कथं प्रवर्तेरन् |
श्रुतीनां च शास्त्र-योनित्वाद् इति [Vस् १.१.३] न्यायेन तत्-प्रतिपादकतायाम्
अनन्यानां तत्र प्रवृत्तिर् अवश्यं वक्तव्या | तस्मात् तस्मिंस् ताः साक्षाद्-
रूपतया मुख्यया वृत्त्या केन प्रकारेण चरन्ति | तं प्रकारं विशेषः
कृपयापि स्वयम् उपदिशेति | अन्यथा पदार्थत्वायोगाद् अपदार्थस्य च
वाच्यार्थत्वायोगान् न श्रुति-गोचरत्वं ब्रह्मणः स्याद् इति स्थिते कुतस्तरां
तद् उपरि चर-स्फूर्तेर् भगवतस् तद्-गोचरत्वं तत् कथम् एवं
स्वभक्तयोर् इत्य् आदौ स्वतां स्वतः प्रमाण-भूतानां वेदानां मार्गं
भगवत्-परत्वम् आदिश्येत्य् उक्तम् इति |
[११०]

अत्र श्री-शुकदेवेन दत्तम् उत्तरम् आह -

ऋषिर् उवाच -
बुद्धीन्द्रिय-मनः-प्राणान्
जनानाम् असृजत् प्रभुः |
मात्रार्थं च भवार्थं च
आत्मनेऽकल्पनाय च || [ १०.८७.२]

बुद्ध्यादीन् उपाधीन् जनानाम् अनुशायिनां जीवानां मात्राद्य्-अर्थं
प्रभुः परमेश्वरोऽसृजत न तु जनाः स्वाविद्ययासृजन्न् इति विवर्त-वादः
परिहृतः | मीयन्त इति माया विषयाः तद्-अर्थम् | भवार्थं भवः जन्म-
लक्षणं कर्म तत्-प्रभृति-कर्म-करणार्थम् इत्य् अर्थः | आत्मने
लोकान्तर-गामिने आत्मनस् तत्-तल्-लोक-भोगायेत्य् अर्थः | अकल्पनाय
कल्पना-निवृत्तये मुक्तये इत्य् अर्थः | अर्थ-धर्म-काम-मोक्षार्थम् इति
क्रमेण पद-चतुष्टयस्यार्थः | मोक्षोऽप्य् अत्र चिन्-मात्रतयावस्थिति-रूपः
| यथावर्ण-विधानम् अपवर्गश् च भवति, योऽसौ भगवतीत्य् आदिना
अनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-
द्वारेणेत्य् [ ५.१९.२०] अन्तेन पञ्चमोक्त-गद्येन तथा निरुक्तत्वात् साध्य-
भक्ति-प्रादुर्भाव-लक्षणं चेति द्विविधो ज्ञेयः | उभयत्रापि कल्पना-
रूपाविद्याया निवृत्तेः | एतद् उक्तं भवति | यस्मात् स्वयम् ईश्वरस् तत्-तद्-
अर्थं तत्-तत्-साधकत्वेन दृश्यमानानां बुद्ध्यादीन् सृष्टवान् तस्मात् तत्-
तत्-सम्पादन-शक्ति-निधान-योग्यतया तेषु कृतवान् इति लभ्यते | तत्र
त्रिवर्ग-सम्पादिकाः शक्तयः कल्पनात्मिका माया-वृत्त्य्-अविद्या-शक्तेर् अंशाः
बहिर्मुख-कर्मात्मकत्वात् स्वरूपान्यथा-भाव-संसारित्व-हेतुत्वाच् च |
एवं च यावज्-जीवानां भगवद्-बहिर्मुखता तावत् केवलं
कल्पनात्मिकानाम् अविद्या-शक्तीनां प्रकाशात् तत्-प्रधाना बुद्ध्य्-आदयः
स-गुणा एवेति निर्गुणं साक्सान् न कुर्वत इत्य् एवं सत्यम् एव | यदा तु तद्-
अन्तर्मुखता तदा तेषु चिच्-छक्तेः प्रादुर्भावात् तं साक्षात् कुर्वत एव इति
स्थितम् | बुद्ध्यादिमयत्वाद् वचसोऽपि तथा व्यवहारः सिध्यति | तद्
अत्रैवाभेदेन सिद्धान्तितम् अन्ते |
तद् एतद् वर्णितं राजन्
यो नः प्रश्नः कृतस् त्वया |
यथा ब्रह्मण्य-निर्देश्ये
नरिगुण्येऽपि मनश् चरेत् || इत्य् अत्र मन इति |

तत्र बुद्ध्य्-आदौ चिच्-छक्तिस् तदीयाप्राकृत-परमानन्द-स्वरूप-तादृश-
गुणादौ स्वयं प्रकाशमयी वचसि च तत्तन्-निर्देश-मयीति ज्ञेया |

अतोऽप्राकृत-तादृश-स्वरूपाद्यालम्बनेन श्रुतयश् चरन्तीति सिद्धान्त-
सिद्धये | तद् एवं पौरुषस्यापि वचसो भगवच्-चरित्रं सिद्धम् |
यथोक्तम् -यस्मिन् प्रति श्लोकम् अबद्धवत्य् [ १.५.११] अपीति | तथा च सति
तथाविध-वच-आदीनाम् एकाश्रयस्य साक्षाद्-भगवन्-
निश्वासाविर्भाविनोऽपौरुषेयस्य तच्-चारित्वं किम् उत | तस्मात् साक्षात् चरन्त्य्
एव श्रुतयः | वक्ष्यते च - क्वचिद् अजयात्मना च चरतोऽनुचरेन्
निगम[३६] इति | तथा च प्रणवम् उद्दिश्योक्तं द्वादशे --

स्वधाम्नो ब्रह्मणः साक्षाद्
वाचकः परमात्मनः |
स-सर्व-मन्त्रोपनिषद्
वेद-बीजं सनातनम् || [ १२.६.४१] इति |

श्रुतौ च - ओम् इत्य् एतद् ब्रह्मणो नेदिष्ठं नामेति नेदिष्ठं लक्षणादि-
व्यवधानं विनेत्य् अर्थः | अतएव केन च प्रकटिण साक्षाच् चरन्ति स
कथ्यताम् इत्य् एवं राजाभिप्रायः | अत्र शब्दो निर्देश्यत्वे दोषस् त्व् अग्रे
द्युपतय इत्य् [ १०.८७.४१] अत्र परिहार्यः |

अथ श्रुतिष्व् अपि याः काश्चित् त्रिवर्ग-परत्वेन बहिर्मुखाः प्रतीयन्ते तासाम्
अप्य् अन्तर्मुखतायाम् एव पर्यवसानम् | तथा हि परमेश्वरस्य सतत-
परमार्थ-बहिर्मुखता-पराहत-जीव-निकाय-विषय-कृपा-विलास-
पर्यवसायि-निःश्वास-रूपाः श्रुतयः प्रथमतः स्व-विषयकं विश्वासं
जनयितुम् अदृष्टवस्त्वनभिज्ञानसततदृष्टम् ऐहिकम् एवार्थम्
ईहमानांस् तान् प्रति तत्-सम्पादकं पुत्रेष्ट्यादिकं विदधति | ततश् च तेन
जात-विश्वासानैहिकस्यात्यन्तम् अस्थिरत्वे प्रदर्श्य दिव्यानन्द-चमत्कार-
विचित्रस्य पारलौकिक-स्वर्गादि-लक्षण-तत्-तत्-कामस्य जनकेऽग्निष्टोमादौ
प्रवर्तयन्ति | ततस् तेषां निरन्तर-तद्-अभ्यासाद् धर्म एव रुचिं जनयन्ति
|

अथ लब्ध-धर्म-रुचीनां शुद्धान्तः-करणानां तद्-अर्तह-विचार-
पराणां जगद् अप्य् अनित्यम् इति ज्ञानवतां संसार-भय-दीनानां
निर्वाणानन्दाभिलाषं सम्पादयन्ति | निर्वाणानन्दश् च पर-
तत्त्वाविर्भाव-रूप एवेति |

तद् उक्तम् श्री-सूतेन --

धर्मस्य ह्य् आपवर्ग्यस्य
नार्थो ऽर्थायोपकल्पते |
नार्थस्य धर्मैकान्तस्य
कामो लाभाय हि स्मृतः || [ १.२.९]
कामस्य नेन्द्रिय-प्रीतिर्
लाभो जीवेत यावता |
जीवस्य तत्त्व-जिज्ञासा
नार्थो यश् चेह कर्मभिः || [ १.२.१०] इति |

ततश् च यथा बुद्ध्यादयोऽन्तर्मुखता-तारतम्येन चिच्-छक्त्याविर्भावात्
परे तत्त्वे तारतम्येन चरन्ति, तथा श्रुति-लक्षणं वचनम् अपि चिच्-छक्ति-
प्रकाशानुक्रमेण त्रैगुण्य-विषयत्वम् अतिक्रम्य केवल-नैर्गुण्य-
विषयम् एव सत् तस्मिन् निर्गुणे तत्त्वे सम्यग् एव चरितुं शक्नोति | अगुण-
वृत्तित्वेन योग्यत्वात् | तद् उक्तं द्वादशे प्रणवम् उपलक्ष्य -

ततोऽभूत् त्रिवृद् ओङ्कारो
योऽव्यक्त-प्रभवः स्वराट् |
यत् तल् लिङ्गं भगवतो
ब्रह्मणः परमात्मनः || [ १२.६.३९] इति ||

तत्र तत् तत्त्वं द्विधा स्फुरति भगवद्-रूपेण ब्रह्म-रूपेण चेति | चिच्-
छक्तिर् अपि द्विधा तदीय-स्वयं-प्रकाशादि-मय-भक्ति-रूपेण तन्-मय-
ज्ञान-रूपेण च | ततो भक्ति-मय-श्रुतयो भगवति चरन्ति ज्ञान-मय-
श्रुतयो ब्रह्मणीति सामान्यतः सिद्धान्तितम् |

[१११]

अथ तत्र विशेषं वक्तुं तदीय एवेतिहास उपक्षिप्यते |

श्री-सनन्दन उवाच -
स्व-सृष्टम् इदम् आपीय
शयानं सह शक्तिभिः |
तद् अन्ते बोधयाञ्चक्रुस्
तल्-लिङ्गैः श्रुतयः परम् || [ १०.८७.१२]

स्वयं निर्मितम् इदं विश्वं लय-समये आपीय संहृत्य शक्तिभिः सह
शयानं प्रकृतिं पुरुषं तद्-अंशांशश् चात्म-सात्कृत्य तत्-कार्यं प्रति
निमीलिताक्षं परं भगवन्तं तद्-अन्ते प्रलय-कालावसान-प्राये तल्-लिङ्गैस्
तत्-प्रतिपादकैर् वाक्यैः श्रुतयः प्रबोधयाञ्चक्रुः प्रातः प्रबोधनः
स्तुति-भङ्ग्या तुष्टुवुर् इत्य् अर्थः | अस्य भगवत्त्वम् एव गम्यते न तु
पुरुष

त्वं भगवान् एक आसेदम्
अग्र आत्मात्मतां विभुः |
आत्मेच्छानुगतावात्मो
नानाम् अत्य् उपलक्षणः || [ ३.५.२३]

इति तृतीय-स्कन्ध-प्रकरणे तदानीं पुरुषस्य तद्-अन्तर्भाव-श्रवणात् |

[११२]

पूर्व-पद्यार्थे दृष्टान्तः |
यथा शयानं सम्राजं
वन्दिनस् तत्-पराक्रमैः |
प्रत्यूषेऽभ्येत्य सुश्लोकैर्
बधियन्त्य् अनुजीविनः || [ १०.८७.१३]

तस्य सम्राजः पराक्रमो य एतैर् न तु निर्विशेषत्व-व्यञ्जकैः शोभनैः
श्लोकैः | यथा शयानं सम्राजम् इत्य् अस्यायम् अभिप्रायः | यथा रात्रौ
सम्राट् महिषिभिः क्रीडन्न् अपि बहिःकार्यं परित्यज्यान्तर्गृहादौ
स्थितत्वात् तज्-जनैः शयान एवोच्यते | वन्दिभिश् च तत्-प्रभावमय-श्लोक-
कृत-प्रबोधन-भङ्ग्या स्तूयते तथायं भगवान् तदानीं जगत्-
कार्याकृत-दृष्टिर् निगूढं निज-धाम्नि निज-परिकरैः क्रीडन्न् अपीति |
अनुजीविन इत्य् अनेन ते यथा तन्-मर्मज्ञास् तथा न अपीति सूचितम् |


[११३]

तत्र प्रथमतो ज्ञानादि-गुण-सेवितेन सम्यग्-दर्शन-कारणेन भक्ति-
योगेनानुभूयमानं भगवद्-आकारम् अखण्डम् एव तत्त्वं स्व-
प्रतिपाद्यत्वेन दर्शयन्त्यो ब्रह्म-स्वरूपम् अपि तथात्वेन
क्रोडीकुर्वन्त्यः श्रुतयः ऊचुः |

जय जय जह्य् अजाम् अजित दोष-गृभीत-गुणां
त्वम् असि यद् आत्मना समवरुद्ध-समस्त-भगः |
अग-जगद्-ओकसाम् अखिल-शक्त्य्-अवबोधक ते
क्वचिद् अजयात्मना च चरतो ऽनुचरेन् निगमः || [ १०.८७.१४]

बोह् अजित जय जय निजोत्कर्षम् आविष्कुरु | आदरे वीप्सा | अत्राजितेति
सम्बोधनेनेदं लभ्यते | नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिर्
इति [ ६.२.१०] न्यायेन नाम्ना भगवान् असौ साक्षाद् अभिमुखीक्रियत इति
लिङ्गाद् एव तच्-छ्री-विग्रहवत् तद् अपि तत्-स्वरूप-भूतम् एव भवति | तद्
विजानीये तद्-अभिमुखी-करणार्हत्वात् | अतएव भय-द्वेषादौ श्री-मूर्तेः
स्फूर्तेर् इव साङ्गेत्य्-आदाव् अप्य् अस्य प्रभावः श्रूयते | विशेषतश् चात्र श्रुति-
विद्वद्०अनुभआव् अपि पूर्वम् एव प्रमाणीकृतौ | तस्मात् यत् त्वं श्री-
विग्रह-रूपेण चक्षुर् आदाव् उदयते तद् एव नाम-रूपेण वाग्-आदाव् इति
स्थितम् | तस्मान् नाम-नामिनोः स्वरूपाभेदेन तत्-साक्षात्-कारे तत्-साक्षात्-
कार एवेत्य् अतः किं वक्तव्यम् अन्यत्रान्यवद् भगवति श्रुतयोऽपि जात्यादि-
कृत-संज्ञा-संज्ञि-सङ्केतादि-रीत्या रूढ्यादि-वृत्तिभिश् चरन्तीति | यासां श्रुत्य्-
अभिधानां वल्लीनां साक्षात् तथाभूतानि नामान्य् एव फलानीति |

उत्कर्षम् आविष्कुर्व् इत्य् अनेन इत्थं सर्वोत्कृष्टता-गुण-योगेन मुख्ययैव
वृत्त्या श्रुतयस् तस्मिंश् चरन्तीति दर्शितम् | श्रुतयश् च न ते महि त्वाम् अन्व्
अश्नुवन्ति [?], न तत् समश् चाभ्यधिकश् च दृश्यते [Śवेत्U ६.८] इत्य् आद्याः |

अत्र श्रुतयो जय जयेति स्व-भक्त्याविष्कारात् भक्तिम् एव तत्-प्रकाशे हेतुं
गमयन्ति | केन व्यापारेणोत्कर्षम् आविष्कर-वाणीत्य् आशङ्क्य माया-
निरसन-द्वारा स्व-भक्ति-दानेनेत्य् आहुः |

अजां मायां जहि | ननु माया नाम विद्याविद्या-वृत्तिका शक्तिः | तर्हि तद्-
धनने विद्याया अपि हतिः स्याद् इत्य् अत्र आह दोष-गृभीत-गुणां जीवानाम्
आत्म-विस्मृति-हेताव् अविद्या-लक्षणे दोषे एव गृभीतो गृहीतस् तत्-स्मृति-हेतोर्
विद्या-लक्षणो गुणो यया ताम् | स्वयम् एव स्वावेशेनाविद्या-लक्षणं दोषम्
उत्पाद्य क्वचिद् एव कदाचिद् एव कथञ्चिद् एव कञ्चिद् एव जीवं त्यजतीति तस्यास्
त्यागात्मक-विद्याख्य-गुणेऽपि दोष एव | तस्मात् तां निर्मूलां विधाय
जीवेभ्यो निज-चरणारविन्द-विषयां भक्तिम् एव दिशेति तात्पर्यम् |

अतो माया-घातक-योग्य-शक्तित्वेन तद्-अतीतत्वं व्यपदिश्य सच्-चिद्-आनन्द-
घनत्वं भगवतो व्यञ्जयन्त्योऽतन्-निरसन-मुखेन तात्पर्य-वृत्त्या
श्रुतयश् चरन्तीति व्यञ्जितम् | श्रुतयश् च - मायां तु प्रकृतिं विद्यान्
मयिनं तु महेश्वरम् [Śवेत् ४.१०][३७] इति |

अजाम् एकाम् इति | सर्वस्याधिपतिः सर्वस्येशानः [BAU ४.४.२२] स वा एष नेति
नेतीत्य्[३८] आद्याः |

ननु माया-नाशं सम्प्रार्थ्य मम तद्-उपाधिकम् ऐश्वर्यादिकम् अपि
नाशयितुम् इच्छथेत्य् अत्र समाधत्ते त्वम् इति | यद् यस्मात् त्वम् आत्मना
स्वरूपेणैव समवरुद्ध-समस्त-भग-प्राप्त-त्रिपाद्-विभूत्य्-आख्य-
सर्वैश्वर्यादिर् असि | तस्मात् तव तुच्छया तद्-उपाधिकैश्वर्यादिभिर् वा किम्
इत्य् अर्थः |

तथा च स यद् अजया त्व् अजाम् इत्य् अत्र पद्ये टीका - नहि निरन्तराह्लादि-संवित्-
काम-धेनु-वृन्द-पतेर् अजया कृत्यम् इति | तथा न ह्य् अन्येषाम् इव देश-
कालादि-परिच्छिन्नं तवाष्ट-गुणितम् ऐश्वर्यम् अपि तु परिपूर्ण-
स्वरूपानुबन्धित्वाद् अपरिमितम् इत्य् अर्थः | इत्य् एषा |

अत्रात्म-शब्देन स्वरूप-मात्र-वाचकेन तथा भग-शब्देन स्वरूप-
भूत-गुण-वाचकेनेदं ध्वन्यते | स्वरूपादि-शब्दा ईश्वरादि-शब्दाश् च
स्वरूप-मात्रावलम्बनया स्वरूप-भूत-गुणावलम्बनयापि रूढ्या
निर्देष्टुं शक्नुवन्तीति | श्रुतयश् च - यद्-आत्मको भगवान् तद्-आत्मिका
व्यक्तिः इत्य् [?] आद्याः परास्य शक्तिर् विविधैव श्र्”यते इत्य् [Śवेत्U ६.८] आदिकाश्
च |

सा च स्वरूप-शक्तिः सर्वैर् एवावगम्यत इत्य् आहुः अगानि स्थावराणि जगन्ति
जङ्गमानि ओकांसि शरीराणि येषां तेषां सर्वेषाम् एव जीवानां या अखिलाः
शक्तयस् तासाम् अवधकेति सम्बोधनम् | तेषु विचित्र-शक्ति-लहरी-रत्नाकर
इत्य् अनुमीयत इत्य् अर्थः |

यद् वा | ननु माया-हननेन तद्-उपाधेर् जीवस्य तु शक्ति-हानिः स्यात्
तत्राहुः अगेति | अथ पूर्ववद् एव | ततः स्वरूप-शक्त्यैव प्रत्युत तेषां
सुखैक-प्रदा पूर्णा शक्तिर् भविष्यतीति भावः | अत्रेत्थं तटस्थ-
लक्षणेन श्रुतयश् चरन्तीत्य् उक्तम् | श्रुतयश् च को ह्य् एवान्याद् [Tऐत्ति २.७]
इत्य् आदिकाः प्राणस्य प्राणम् इत्य् आदिकाः | तम् एव भान्तम् [ २.२.१५]
इत्य् आदिकाः | देहान्ते देवस् तारकं ब्रह्म व्याचष्टे [NTU
१.७][३९] इति | यस्य देवे परा भक्तिर् [Śवेत्U ६.२३] इत्य् आद्याश् च
|
ननु विशेषतो भवत्यः कथं जानन्ति यद् अजया मम कृत्यं नास्ति तथा
सच्-चिद्-आनन्द-घन एव स्वरूप-शक्त्या समवरुद्ध-समस्त-भग इति
तत्राहुः क्वचिद् इति | क्वचित् कदाचित् सृष्ट्यादि-समये पुरुष-रूपेण अजया
मायया चरतः क्रीडतः नित्यं च स्वरूप-शक्त्याविष्कृत-स्वरूप-भूत-
भगेन सत्य-ज्ञानानन्दैक-रसेनात्मना चरतस् तवास्मल्-लक्षणो निगमः
शब्द-रूपेण देवता-रूपेण च अनुचरेत् सेवते | तस्माद् वयं सत् सर्वं
जानीम इत्य् अर्थः | कर्मणि षष्ठी |

एतद् उक्तं भवति | अत्र द्विविधो वेदस् त्रैगुण्य-विषयो निस्त्रैगुण्य-विषयश्
च | तत्र त्रैगुण्य-विषयस् त्रिविधः | प्रथम-प्रकारस् तावत् तद्-
अवलम्बन-ताटस्थ्येन तल्-लक्षकः | यथा यतो वा इमानि भूतानीत्य् आदिः
| द्वितीय-प्रकारश् च त्रिगुणमय-तद्-ईशितव्यादि-वर्णनादि-द्वारा तन्-
महिमादि-दर्शकः | यथा इन्द्रो यतोऽवसितस्य राजेत्य् आदिः | तृतीय-प्रकारश्
च त्रैगुण्य-निरासेन परम-वस्तूद्देशकः | सोऽप्य् अयं द्विविधः | निषेध-
द्वारा सामानाधिकरण्य-द्वारा च | तत्र पूर्व-द्वारा अस्थूलम् अनणु नेति
नेतीत्य् [BAU ३.७.८] आदिः | उत्तर-द्वारा सर्वं खल्व् इदं ब्रह्म तत्त्वम् असीत्य्
आदिः | पूर्व-वाक्ये | तज्-जातत्वाद् इति हेतोः सर्वस्यैव ब्रह्मत्वं निर्दिश्य
तत्राविष्कृतः सद् इदम् इति प्रतीति-परमाश्रयो योऽंशः स एव शुद्धं
ब्रह्मेत्य् उद्दिश्यते | उत्तर-वाक्ये त्वं-पदार्थस्य तद्वच् चिद्-आकार-तच्-
छक्ति-रूपत्वेन तत्-पदार्थैक्यं यद् उपपाद्यते तेनापि तत्-पदार्थो
ब्रह्मैवोद्दिश्यते | तत्-पदार्थ-ज्ञानं विना त्वं-पदार्थ-ज्ञान-मात्रम्
अकिञ्चित्-करम् इति तत्-पदोपन्यासः | त्रैगुण्यातिक्रमस् तूभयत्रापि | अत्र
त्रैगुण्य-निरासेन तद्-उद्देशेन यत्र तदीय-धर्माः स्पष्टम् एव गम्यते
तत्र भगवत्-परत्वं यत्र त्व् अस्पष्टं तत्र ब्रह्म-परत्वम् इत्य्
अवगन्तव्यम् | व्याख्यातस् त्रैगुण्य-विषयः | तद् एतद् अजया चरतोऽनुचरे
व्याख्यातम् |

अथ निस्त्रैगुण्योऽपि द्विविधः | ब्रह्म-परो भगवत्-परश् च | यथा
आनन्दो ब्रह्मेत्यादि |

न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते |
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च || [Śवेत्U ६.८] इत्यादिश् च |

तद् एतद् आत्मना चरतोऽनुचरे इति व्याख्यातम् | अतः श्रुतेस् तच् चारित्वं
सिद्धम् | साक्षाच् चारित्वं च निस्त्रैगुण्यानां स्वत एव अन्येषां तु तद्-एक-
वाक्यतया ज्ञेयम् | माया-निरसनार्थम् एव तत्-तद्-गुणानुवादः क्रियते
पश्चाद् अखण्डम् एव तां निरस्य साक्षाद्-भगवत्-स्वरूप-गुणादिकं
निर्दिश्यते इति तद् एक-वाक्यता-द्योतनया स एष एव सिद्धान्तोऽस्मिन्न्
उपक्रम-वाक्ये समुद्दिष्टः | तथोपसंहारे च श्रुतयस् त्वयि हि फलन्त्य्
अतन्-निरसनेन भवन्-निधना [ १०.८७.४१] इति | श्रुतयश् च मध्व-
भाष्य-प्रमाणिताः न चक्षुर् न श्रोत्रं न तर्को न स्मृतिर् वेदो ह्य् एवैनं
वेदयति इत्य् आद्या | औपनिषदः पुरुष इत्य् [BAU ३.९.२६] आद्याश् च |

[११४]

अथ विशेषतो ब्रह्मण्य् अपि यथा चरन्ति ब्रह्मणि चरन्तीनाम् अपि यथा
भगवत्य् एव पर्यवसानं तथैवोद्दिशन्ति |

बृहद्-उपलब्धम् एतद् अवयन्त्य् अवशेषतया
यत उदयास्तमयौ विकृते दिवाविकृतात् |
अत ऋषयो दधुस् त्वयि मनो-वचनाचरितं
कथम् अयथा भवन्ति भुवि दत्त-पदानि नॄणाम् || [ १०.८७.१५]

एतत् सर्वं बृहद्-ब्रह्मैवोपलब्धम् अवगतम् | तत् कथं विकृते विश्वस्मात्
सकाशाद् अवशिष्यमाणत्वेन सर्वं घटादि-द्रव्यं मृद् एवोपलब्धा दृष्टा
तथा बृहद् अपीत्य् अर्थः | तत्र हेतुः | यतो बृहतः सकाशाद् विकृतेर् उदयास्
तमयौ अवयन्ति मन्यन्ते श्रुतयः यतो वा इमानीत्य् आद्याः | तस्मान् मृत-
साम्यं तस्य युज्यत इति भावः | तर्हि कथं तद्-विकारि त्वम् अपि नेत्य् आहुः
| अविकृतात् | श्रुतेस् तु शब्द-मूलत्वाद् इति न्यायेनाचिन्त्य-शक्त्या तथाप्य्
अविकृतम् एव यत् तस्माद् इत्य् अर्थः | यद्यप्य् अत्रापि स-शक्तिकम् एव बृहद्
उपपद्यते तथाप्य् आविष्कृत-भगवत्त्वेनानुपादानात् ब्रह्मैवोपपादितं
भवति | सर्वथा शक्ति-परित्यागे तद्-उपपादानात् सामर्थ्यात् तुच्छत्वापाताच्
च | तस्माद् अत्र ब्रह्मैवोदाहृतम् | अतएव मृन्-मात्र-दृष्टान्तेन
कर्तृत्वादिकम् अपि तत्र नोपस्थापितम् | तद् एतद् ब्रह्म-प्रतिपादनम् अपि
श्री-भगवत्य् एव पर्यवस्यतीत्य् आहुः | अत इति | अतो ब्रह्म-प्रतिपादनाद् अपि
ऋषयो वेदास् त्वयि श्री-भगवत्य् एव मनस आचरितं तात्पर्यं
वचनस्याचरितम् अभिधानं च दधुर् धृतवन्तः | द्वयोर् एक-वस्तुत्वाद्
भगादीनाम् आविष्कारानाविष्कार-दर्शन-मात्रेण भेद-कल्पनाच् च
तत्रार्थान्त्र-न्यासः | नॄणां भू-चराणां सम्यग्-दर्शिनाम् असम्यग्
दर्शिनां वा भुवि दत्तानि निक्षिप्तानि पदानि कथम् अयथा भवन्ति भुवं
न प्राप्नुवन्ति अपि तु तत्रैव पर्यवस्यन्ति | तस्माद् यथा कथम् अपि
प्रतिपादयन्तु फलितं तु त्वय्य् एव भवतीति भावः | तद् उक्तं -

ज्ञान-योगश् च मन्-निष्ठो
नैर्गुण्यो भक्ति-लक्षणः |
द्वयोर् अप्य् एक एवार्थो
भगवच्-छब्द-लक्षणः || इति | [ ३.३२.३२]

अत्र श्रुतयश् मध्व-भाष्य-प्रमाणिताः - हन्त तम् एव पुरुषं सर्वाणि
नामान्य् अभिवदन्ति यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रम्
अभिनिविशन्ति एवम् एवैतानि नामानि सर्वाणि पुरुषम् अभिविशन्तीति |

[११५]

तद् एवं भगवत्त्वेन ब्रह्मत्वेन न त्वम् एव तात्पर्याभिधानाभ्यां
सर्व-निगम-गोचर इत्य् उक्तम् | तच् च यथार्थम् एव न तु काल्पनिकम् इत्य्
आहुः |

इति तव सूरयस् त्र्य्-अधिपतेऽखिल-लोक-मल-
क्षपण-कथामृताम् अवगाह्य तपांसि जहुः |
किम् उत पुनः स्व-धाम-विधुताशय-काल-गुणाः
परम भजन्ति ये पदम् अजस्र-सुखानुभवम् || [ १०.८७.१६]

भोस् त्र्यधिपते त्रयाणां ब्रह्मादीनां पतिस् तत्-तद्-अवतारी नारायणाख्यः
पुरुषस् तस्याप्य् उपरिचर-स्वरूपत्वाद् अधिपतिर् भगवान् | ततो हे
सर्वेश्वरेश्वर यस्मात् त्वय्य् एव वेदानां तात्पर्यम् अभिधानं च
पर्यवसितम् इति अतो हेतोर् एव सूरयो विवेकिनः परम्परात्वत्-
प्रतिपादनमयं वेद-भागम् अपि परित्यज्य केवलं तवाखिल-लोकम्
अलक्षपण-कथामृताब्धिं सकल-वृजिन-निरसन-हेतुकीर्ति-सुधा-सिन्धुम्
अवगाह्य श्रद्धया निषेव्य तपः-प्राधान्येन तापकत्वेन वा तपांसि
कर्माणि तानि जहुस् त्यक्तवन्तः | तेषां साधकानाम् अपि यदि तत्रैवं तदा
किम् उत वक्तव्यं स्वधाम-विधुताशय-काल-गुणाः शुद्धात्म-स्वरूप-
स्फुरणेन निर्जितम् अन्तःकरणं जरादि-हेतुः काल-प्रभावः सत्त्वादयो
गुणाश् च यैस् ते ये पुनः तवाजस्र-सुखानुभव-स्वरूपं पदं
ब्रह्माख्यं तत्त्वं भजन्ति ते तम् अवगाह्य तानि जहुर् इति | किं तर्हि
ब्रह्म-मात्रानुभ्व-निष्ठाम् अपि जहुर् इत्य् अर्थः | एतद् उक्तं भवति | अत्र
तावत् त्रिविधा जना मुग्धा विवेकिनः कृतार्थाश् च इति |

तत्र सर्वान् एवाधिकृत्य वेदानाम् अकल्पनामयत्वेनैव भगवन्-
निर्देशकता दृश्यते | तथा हि यदि तथात्वेनैव सा न दृश्येत तदा वस्तुतस्
तत्-सम्बन्धाभावाद् अखिल-लोकम् अलक्ष-पणत्वेन पद-पदार्थ-ज्ञान-
हीनानां मुग्धानाम् अपि यत् पाप-हारित्वं वेदान्तर्-वर्तिन्या भगवत्-
कथायाः प्रसिद्धं तन् न स्यात् | अस्पृष्टानल-लोह-दाहकतावत् | किं च
तस्याः कल्पनामयत्वे सति विवेकिनस् तु न तत्र प्रवेर्तेरन् बन्ध्यायाः
सुप्रजस्त्व-गुण-श्रवणवत् | प्रवर्तन्तां वा तद्-आवेशेन स्व-धर्मं पुनर्
न त्यजेयुः | राजयशसो गङ्गात्व-श्रवणेन तीर्थान्तर-सेवनवत् | अपि च
तथा सति ये पुनर् आत्मारामत्वेन परम-कृतार्थास् ते तद्-अनादरेण तत्-
कथां नैवावगाहेरन् | अमृत-सरसीम् अवगाढा आरोपित-तद्-अधिक-गुणक-
नदीवत् | श्रूयते च तस्यास् तत्-तद्-गुणकत्वम् | यथा वैष्णवे - हन्ति
कलुषं श्रोत्रं स यातो हरिर् [ ?.?.?] इत्य् आदौ | अत्रैव त्वद्-अगवमी न
वेत्तीत्य् आदौ | प्रथमे हरेर् गुणाक्षिप्त-मतिर् इत्य् [ १.७.११] आदौ | तस्माद्
गुणानां गुणादि-प्रतिपादक-वेदानां च भगवतो सम्बन्धः स्वाभाविक
एव सर्वथेति सिद्धम् | अत्र श्रुतयः - ओम् आस्य जानन्त इत्य् आद्याः | यथा
पुष्कर-पलाशम् आपो न श्लिष्यन्ति एवम् एवंविदं पापं कर्म न श्लिष्यति
| न कर्मणा लिप्यते पापकेन तत्-सुकृत-दुष्कृते विधुनुते | एवं वाव न
तपति किम् अहं साधु करवं किम् अहं नाकरवम् इत्य् आद्या मुक्ता ह्य् एनम्
उपासत इत्य् आद्याश् च | एवम् अन्येऽपि श्लोका उपासनादि-वाक्यानां भगवत्-
परतादर्शका यथायथं योजयितव्या इत्य् अभिप्रेत्य नोद्धियन्ते |

ननु तर्हि भवन्-मते शब्द-निर्देश्यत्वे प्राकृतत्वम् एव तत्रापतति | किं
च श्रुतिभिर् अपि यतो वाचो निवर्तन्ते अप्राप्य मनसा सह | अवचनेनैव
प्रोवाच | यद्-वाचानभ्युदितं येन वाग् अभ्युद्यते यत् श्रोत्रं न शृणोति
येन श्रोत्रम् इदं श्रुतम् इत्य् आदौ शब्द-निर्देश्यत्वम् एव तस्य निषिध्यत
इत्य् आशङ्कायाम् उच्यते | यथा साक्षान् निर्देश्यत्वे दोषस् तथा लक्ष्यत्वेऽपि
कथं न स्यात् | उभयत्रापि शब्द-वृत्ति-विषयत्वेनाविशेषात् | किं च न तस्य
प्राकृतवत् साक्षान् निर्देश्यत्वं किन्त्व् अनिर्देश्यत्वेनैव तथा निर्देश्यत्वम्
इति सिद्धान्त्यते |

[११६]
तथैव तासां महावाक्योपसंहारः -
द्युपतयः एव ते न ययुर् अन्तम् अनन्ततया
त्वम् अपि यद्-अन्तरान्त-निचया ननु सावरणाः |
ख एव रजांसि वान्ति वयसा सह यच् छ्रुतयस्
त्वयि हि फलन्त्य् अतन्-निरसनेन भवन्-निधनाः || [ १०.८७.४१]

अत्र स्वरूप-गुणयोर् द्वयोर् अपि द्विधैवानिर्देश्यत्वम् | आनन्त्येन इदम्
इत्तं तद् इति निर्देशासम्भवेन च | तत्र प्रथमम् आनन्त्यम् आहुः | हे
भगवन् ते तव अन्तम् एतावत् त्वं द्युपतयः स्वर्गादि-लोक-पतयो
ब्रह्मादयोऽपि न ययुर् न विदुः | तत् कुतः | अनन्ततया | यद् अन्तव तत् किम्
अपि न भवसीति | आसतां ते यस्मात् त्वम् ऐ आत्मनोऽन्तं न यासि | कुतस् तर्हि
सर्वज्ञता सर्व-शक्तिता वा तत्राप्य् आहुः | अनन्ततयेति अन्ताभावेनैव | नहि
शश-विषाणाज्ञानं सार्वज्ञ्यं तद्-अप्राप्तिर् वा शक्ति-वैभवं विहन्ति |
श्रुतिश् च - योऽस्याध्यक्षः परमे व्योमन् | सोऽङ्ग वेद यदि वा न वेदेति
[Ṛग्वेद १०.१३०.१८] |

अनन्तत्वम् एवाहुः यद् अन्तर् इति यस्य तवान्तरा मध्ये | ननु अहो सावरणा
उत्तरोत्तर-दश-गुण-सप्तावरण-युक्ता अण्ड-निचया वान्ति परिभ्रमन्ति
वयसा काल-चक्रेण खे रजांसि इव सह एकदैव न तु पर्यायेण | अनेन
ब्रह्माण्डानाम् अनन्तानां तत्र भ्रमणात् स्वरूप-गतम् आनन्त्यं तेषां
विचित्र-गुणानाम् आश्रयत्वात् गुण-गतं च ज्ञेयम् | श्रुतयश् च - यद् ऊर्ध्वं
गार्गि दिवः यद् अर्वाक् पृथिव्या यद् अन्तरं द्याव् आपृथिवी इमे यद् भूतं
भवच् च भविष्यच् चेत्य् [BAU ३.७.३] आद्याः | विष्णोर् नु कं वीर्याणि प्रवोचं
यं पार्थिवानि विममे रजांसि इत्य् आद्याश् च |

हि यस्माद् एवम् अतः श्रुतयश् त्वयि पर्यवस्यन्ति | अतः श्रुताव् अपि
प्राजापत्यानन्दतः शत-गुणानन्दत्वम् अभिधाय पुनर् यतो वाच इत्य्
आदिना अनन्तत्वेन वाग्-अतीत-सङ्ख्यानन्दत्वं ब्रह्मण उक्तम् | यद् उक्तम्
-

न तद् ईदृग् इति ज्ञेयं
न वाच्यं न च तर्क्यते |
पश्यन्तोऽपि न जानन्ति
मेरो रूपं विपश्चितः || इति ||

अतोऽत्रानिर्देश्यत्वेनैव निर्देश्यत्वम् | यत् तु सत्यं ज्ञानम् इत्य् आदौ
स्वरूपस्य साक्षाद् एव निर्देशः | स्वाभाविकी ज्ञान-बल-क्रिया चेत्य् आदौ
गुणस्य च श्रूयते तत्र च तथैव इत्य् आहुः | अतन्-निरसनेन भवन्-निधना
इति | अतत् प्राकृतं यद् वस्तु तन् निरस्यैव भवत्-पर्यवसानात् | अयम् अर्थः
| बुद्धिर् ज्ञानम् असंमोहम् इत्य् आदिना ह्रीर् धीर् भीर् एतत् सर्वं मन
एवेत्यादिना च यत् प्राकृतं ज्ञानादिकम् अभिधीयते तत् सर्वं ब्रह्म न
भवति इति नेति नेतीत्यादिना न तस्य कार्यं करणं च विद्यते इत्य् आदिना च
निषिध्यते |

अथ च सत्य-ज्ञानादि-वाक्येन स्वाभाविकी ज्ञान-बल-क्रिया चेत्य् आदि वाक्येन
च तद् अभिधीयते | न तस्मात् प्राकृताद् अन्यद् एव तज्-ज्ञानादि इति तेषां
ज्ञानादि-शब्दानाम् अतन्-निरसनेनैव त्वै पर्यवसानम् इति | ततश् च
बुद्ध्य्-अगोचर-वस्तुत्वाद् अनिर्देश्यत्वं तथापि तद्-रूपं किञ्चिद् अस्ति इति
उद्दिश्यमानत्वाद् अनिर्देश्यत्वं च |
तथा परोक्ष-ज्ञाने च दशमस् त्वम् असीतिवद् वाक्य-मात्रेणैव तस्य
स्वप्रकाश-रूपस्यापि वस्तुनो विशुद्ध-चित्ते सुप्रकाश-दर्शनात् श्रुति-
शब्दस्य स्वप्रकाशता-शक्तिमयत्वम् एवावसीयते | शब्द-ब्रह्म परं
ब्रह्म ममोभे शाश्वती तनू इति [ ६.१६.५१][४०] | वेदस्य
चेश्वरात्मत्वात् [ ११.३.४४] इति | वेदो नारायणः साक्षात् स्वयम्भूर् इति
शुश्रुम इति [ ६.१.४०] | किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र
कृतिभिः शुश्रूषुभिस् तत् क्षणाद् इति [ १.१.२] | अतएवौपनिषदः पुरुषः
इत्य् अत्रोपनिषन्-मात्र-गम्यत्वं श्रुतिर् बोधयति | चाक्सुषं रूपम् इतिवत् |

ततश् च श्रुतिमय्या स्वप्रकाशताशक्त्या प्राकृत-तत्-तद्-वस्तु-जातं तम इव
निरस्य स्वयं प्रकाशते | तस्मान् न तत्रापि निर्देश्यत्वम् | नहि स्वेन
प्रकाशेन रविः प्रकाश्यो भवति यथा तेन घट इति वक्तुं युज्यते
स्वाभिन्नत्वात् | यदि च शक्ति-शक्तिमतोर् भेद-पक्षः स्वीक्रियते तदा
निर्देश्यत्वम् अपीत्य् अत्रानिर्देश्यत्वेनैव निर्देश्यत्वं सिद्धम् | अतएवोक्तं
गारुडे -

अप्रसिद्धेर् अवाच्यं तद्
वाच्यं सर्वागमोक्तितः |
अतर्क्यं तर्क्यम् अज्ञेयं
ज्ञेयम् एवं परं स्मृतम् || इति |

श्रुतौ च - अन्यद् एव तद्वद् इताद् अथो [इत्य् आदयो?] अविदिताद् अधीति | इदम्
अभिप्रेत्योक्तं श्री-पराशरेणापि |

यस्मिन् ब्रह्मणि सर्व-शक्ति-निलये मानानि नो मानिनां
निष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिर् || इति | [ ६.८.५९]

नन्व् आविष्कृत-शक्तेर् भगवद्-आख्यस्य ब्रह्मणः स्व-प्रकाशता-शक्ति-
स्वरूपत्वं वेदस्य स्मभवति | ततश् चानाविष्कृत-शक्तेर् ब्रह्मणः
प्रकाशस् तस्मात् कथम् इति | उच्यते - अस्मन्-मते तस्यापि प्रकाशो भगवच्-
छक्त्यैव | तद् उक्तम् -

मदीयं महिमानं च
पर-ब्रह्मेति शब्दितम् |
वेत्स्यस्य् अनुगृहीतं मे
सम्प्रश्नैर् विवृतं हृदि || इति | [ ८.२४.३८][४१]

न चैते न पर-प्रकाश्यत्वम् आपतति | ब्रह्म-भगवतोर् अभिन्न-वस्तुत्वात्
| अत्र लौकिक-शब्देनापि यः कश्चित् तद्-उपदेशः स तु तद्-अनुगतेस् तया
श्रुत्यैवानुगृहीततया सम्भवतीत्य् उक्तम् | अतस् तद्-अनुशीलनावसरे तद्-
भक्त्य्-अनुभाव-रूपस्य तच्-छब्दस्य तु सुतरां तत्-स्वरूप-शक्ति-विलास-
मयत्वात् न तत्र निषेधः | किं तर्हि मनो-विलासमयस्यैवेति सर्वम्
अनवद्यम् | अतएव सुपर्ण-श्रुतौ - प्रकृतिश् च प्राकृतं च यन् न जिघ्रन्ति
जिघ्रन्ति, यन् न पश्यन्ति पश्यन्ति, यन् न शृण्वन्ति शृण्वन्ति, यन् जानन्ति
जानन्ति च इति |

|| १०.८७ || श्रुतयः श्री-भगवन्तम् || १०९-११६ ||

[११७]

अथैकम् एव स्वरूपं शक्तित्वेन शक्तिमत्त्वेन च विराजतीति | यस्य शक्तेः
स्वरूप-भूतत्वं निरूपितं तच्-छक्ति-मत्ता-प्राधान्येन विराजमानं
भगवत्-संज्ञाम् आप्नोति तच् च व्याख्यातम् | तद् एव च शक्तित्व-
प्राधान्येन विराजमानं लक्ष्मी-संज्ञाम् आप्नोतीति दर्शयितुं तस्याः स्व-
वृत्ति-भेदेनानन्तायाः कियन्तो भेदा दर्श्यन्ते | यथा -

श्रिया पुष्ट्या गिरा कान्त्या
कीर्त्या तुष्ट्येलयोर् जया |
विद्ययाविद्यया शक्त्या
मायया च निषेवितम् || [ १०.३९.५५]

शक्तिर् महा-लक्ष्मी-रूपा स्वरूप-भूता | शक्ति-शब्दस्य प्रथम-प्रवृत्त्य्-
आश्रय-रूपा भगवद्-अन्तरङ्ग-महा-शक्तिः | माया च बहिरङ्गा शक्तिः
| श्र्य्-आदयस् तु तयोर् एव वृत्ति-रूपया चेति सर्वत्र ज्ञेयम् | तत्र पूर्वस्याः
भेदः | श्रीर् भागवती सम्पत् | न त्व् इयं महा-लक्ष्मी-रूपा तस्या मूल-
शक्तित्वात् | तद् अग्रे विवरणीयम् | उत्तरस्याः भेदः | श्रीर् जागती सम्पत् |
इमाम् एवाधिकृत्य न श्रीर् विरक्तम् अपि मां विजहातीत्यादि-वाक्यम् | यत
उक्तं चतुर्थ-शेषे श्री-नारदेन |

श्रियम् अनुचरतीं तद्-अर्थिनश् च
द्विपद-पतीन् विबुधांश् च यः स्व-पूर्णः |
न भजति निज-भृत्य-वर्ग-तन्त्रः
कथम् अमुम् उद्विसृजेत् पुमान् रसज्ञः || [ ४.३१.२२] इति |

तत्र तद्-अर्थि-द्विपद-पत्यादि-सह-भाव उपजीव्यः | तथा दुर्वाससः शाप-
नष्टायास् त्रैलोक्य-लक्ष्म्या आविर्भावं साक्षाद्-भगवत्-प्रेयसी-रूपा
स्वयं क्षीरोदाद् आविर्भूय दृष्ट्या कृतवतीति श्रूयते | एवम् अपरापि | तत्र
इला भूस् तद् उपलक्षणत्वेन लीला अपि | तत्र च पूर्वस्या भेदो विद्या
तत्त्वावबोध-कारणं संविद्-आख्यायास् तद्-वृत्तेर् वृत्ति-विशेषः | उत्तरस्या
भेदस् तस्या एव विद्यायाः प्रकाश-द्वारम् | अविद्या-लक्षणो भेदः
पूर्वस्या भगवति विभुत्वादि-विमृति-हेतुर् मातृ-भावादिमय-प्रेमानन्द-
वृत्ति-विशेषः | अतएव गोपी-जन-विद्या-कला-प्रेरक इति तापन्यां श्रुतौ |
यथावसरम् एतद् अपि विवरणीयम् |

उत्तरस्याः स भेदः संसारिणं स्व-स्वरूप-विस्मृत्यादि-हेतुर् आवरणात्मक-
वृत्ति-विशेषः च-कारात् पूर्वस्याः | सन्धिनी संवित् ह्लादिनी भक्त्य्-आधार-
शक्ति-मूर्ति-विमला-जया-योगा प्रह्वीशानानुग्रहादयश् च ज्ञेयाः | अत्र
सन्धिन्य् एव सत्या जयैवोत्कर्षिणी योगैव योगमाया संविद् एव ज्ञानाज्ञान-
शक्तिः शुद्ध-सत्त्वं चेति ज्ञेयम् | प्रह्वी विचित्रानन्त-सामर्थ्य-हेतुः |
ईशाना सर्वाधिकारिता-शक्ति-हेतुर् इति भेदः | एवम् उत्तरस्याश् च
यथायथम् अन्या ज्ञेयाः | तद् एवम् अप्य् अत्र माया-वृत्तयो न विव्रियन्ते |
बहिरङ्ग-सेवित्वात् | मूले तु सेवांशभतपुरुषस्य विदूर-
वर्तितयिअवाश्रित्यत्वात् | तथा च दशमस्य सप्त-त्रिंशे नारदेन भगवान्
श्री-कृष्ण एवास्तावि -

विशुद्ध-विज्ञान-घनं स्व-संस्थया
समाप्त-सर्वार्थम् अमोघ-वाञ्छितम् |
स्व-तेजसा नित्य-निवृत्त-माया-
गुण-प्रवाहं भगवन्तम् ईमहि ||

त्वाम् ईश्वरं स्वाश्रयम् आत्म-मायया
विनिर्मिताशेष-विशेष-कल्पनम् |
क्रीडार्थम् अद्यात्त-मनुष्य-विग्रहं
नतोऽस्मि धुर्यं यदु-वृष्णि-सात्वताम् || इति | [ १०.३७.२३-२४]

अनयोर् अर्थः | विशुद्धं यद् विज्ञानं परम-तत्त्वं तद् एव घनः श्री-
विग्रहो यस्य | स्व-संस्थया स्वरूप-कारेण स्वरूप-शक्त्यैव वा सम्यग्
आप्ता इवाप्ता नित्य-सिद्धाः पूर्णा वा सर्वे अर्था ऐश्वर्यादयो यत्र | अतएव
न विद्यते अतितुच्छत्वात् मोघे वृथाभूते जगत्-कार्ये वाञ्छितं वाञ्छा
यस्य | क्वचिद् अवाञ्छितस्यापि सम्बन्धो दृश्यते इत्य् आशङ्क्याह | स्वतेजसा
स्वरूप-शक्ति-प्रभावेण नित्यम् एव निवृत्तो दूरीभूतया शक्त्या युक्तम् |
गुणमय्या विरहितम् इति | तं भगवन्तं शरणं व्रजेम |

तथा त्वां श्री-कृष्णाख्यं भगवन्तम् एव स्वांशेनेश्वरम् अन्तर्यामि-
पुरुषम् अपि सन्तं नतोऽस्मि | कथ्मभूतम् ईश्वरं स्वरूप-शक्त्या
स्वाश्रयम् अपि आत्म-मायया आत्मात्र जीवात्मा तद्-विषयया मायया |
विनिर्मित्ता अशेष-विशेषाकारा कल्पना येन | यद् वा आत्ममायया स्वरूप-
शक्त्या स्वाग्रम् विनिर्मिता अशेष-विशेषा यया तथाभूता कल्पना माया-
शक्तिर् यस्य कीदृशं त्वाम् | सम्प्रति त्व-आविर्भाव-समये तस्यापीश्वरस्य
त्वयि भगवत्य् एव प्रवेशात् | युगपद्-विचित्र-तत्-तच्-छक्ति-प्रकाशेन या
क्रीडा तद्-अर्थम् अभ्यात्तः अभि भक्ताभिमुख्येन आत्तः आनीतः प्रकटितो
मनुष्याकारो नराकृतिः परं ब्रह्मेति स्मरणात् तद्-रूपो भगवद्-आख्यो
विग्रहो येन | तम् एव पुनर् विशिनष्टि | यदु-वृष्टि-सात्वतां धुर्यम् | तेषां
नित्य-परिकराणां प्रेम-भारवहम् इति | अथवा मूल-पद्ये शक्त्येति
सर्वत्रैव विशेष्य-पदम् | श्रीर् मूल-रूपा | पुष्ट्यादयस् तद्-अंशाः | विद्या
ज्ञानम् | आ समीचीना विद्या भक्तिः | राज-विद्या राज-गुह्यम् इत्य् आद्य् उक्तेः
| माया बहिरङ्गा | तद्-वृत्तयः श्र्य्-आदयस् तु पृथक् ज्ञेयाः | शिष्टं समम्
|

ततश् चात्र शुद्ध-भगवत्-प्रकरणे स्वरूप-शक्ति-वृत्तिष्व् एव गणनायां
पर्यवसितासु विवेचनीयम् इदम् | प्रथमं तावद् एकस्यैव तत्त्वस्य
सच्चिदानन्दत्वाच् छक्तिर् अप्य् एका त्रिधा भिद्यते | तद् उक्तं विष्णु-पुराणे
श्री-ध्रुवेण[४२] --

ह्लादिनी सन्धिनी संवित्
त्वय्य् एका सर्व-संस्थितौ |
ह्लाद-ताप-करी मिश्रा
त्वयि नो गुण-वर्जिते || इति [ १.१२.६८]

व्याख्यातं च स्वामिभिः | ह्लादिनी आह्लाद-करी सन्धिनी सन्तता संविद्
विद्या-शक्तिः | एका मुख्या अव्यभिचारिणी स्वरूप-भूतेति यावत् | सा सर्व-
संस्थितौ सर्वस्य सम्यक् स्थितिर् यस्मात् तस्मिन् सर्वाधिष्ठान-भूते त्वय्य्
एव न तु जीवेषु च सा गुणमयी त्रिविधा सा त्वयि नास्ति | ताम् एवाह ह्लाद-
ताप-करी मिश्रा इति | ह्लाद-करी मनः-प्रसादोत्था सात्त्विकी | तापकरी
विषय-वियोगादिषु ताप-करी तामसी | तद्-उभय-मिश्रा विषय-जन्या राजसी
| तत्र हेतुः सत्त्वादि-गुण-वर्जिते | तद् उक्तं सर्वज्ञ-सूक्तौ -

ह्लादिन्या संविद्-आश्लिष्टः
सच्-चिद्-आनन्द ईश्वरः |
स्वाविद्या-संवृतो जीवः
सङ्क्लेश-निकराकरः || इति [Bहावार्थ-दीपिका १.७.६]

अत्र क्रमाद् उत्कर्षेण सन्धिनी-संविद्-ध्लादिन्या ज्ञेयाः | तत्र च सति
घटानां घटत्वम् इव सर्वेषां सतां वस्तूनां प्रतीतेर् निमित्तम् इति क्वचित्
सत्ता-स्वरूपत्वेन आम्नातोऽप्य् असौ भगवान् सद् एव सोम्येदम् अग्र आसीद् इत्य्
अत्र सद्-रूपत्वेन व्यापदिश्यमाना मया सत्तां दधाति धारयति च सा
सर्व-देश-काल-द्रव्यादि-प्राप्तिकरी सन्धिनी | तथा संविद्-रूपोऽपि यया
संवेत्ति संवेदयति च सा संवित् | तथा ह्लाद-रूपोऽपि यया संविद् उत्कट-
रूपया तं ह्लादं संवेत्ति संवेदयति च सा ह्लादिनीति विवेचनीयम् |

तद् एवं तस्या मूल-शक्तेस् त्र्य्-आत्मकत्वेन सिद्धे येन स्व-प्रकाशता-
लक्षणेन तद्-वृत्ति-विशेषेण स्वरूपं स्वयं स्वरूप-शक्तिर् वा विशिष्टम्
आविर्भवति तद् विशुद्ध-सत्त्वम् | तच् चान्य-निरपेक्षयस् तत्-प्रकाश इति
ज्ञापन-ज्ञान-वृत्तिकत्वात् संविद् एव | अस्य मायया स्पर्शाभावात्
विशुद्धत्वम् |[४३]

उक्तं च तस्य सत्त्वस्य प्राकृताद् अन्यतरत्वं द्वादशे श्री-नारायणर्षिं
प्रति मार्कण्डेयेन |

सत्त्वं रजस् तम इतीश तवात्मबन्धो
मायामयाः स्थिति-लयोद्भव-हेतवोऽस्य |
लीलाधृता यद् अपि सत्त्व-मयी प्रशान्त्यै
नान्ये नॄणां व्यसन-मोह-भियश् च याभ्याम् || [ १२.८.३९]

तस्मात् तवेह भगवन्न् अथ तावकानां
शुक्लां तनुं स्व-दयितां कुशला भजन्ति |
यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं
लोको यतोऽभयम् उतात्म-सुखं न चान्यद् || [ १२.८.४०] [४४]

अनयोर् अर्थः | हे ईश यद् अपि सत्त्वं रजस् तम इति तवैव माया-कृता लीलाः
| कथम्भूताः - अस्य विश्वस्य स्थित्यादि-हेतवः तथापि या सत्त्वमयी सैव
प्रशान्त्यै प्रकृष्ट-सुखाय भवति | नान्ये रजस् तमो-मय्यौ | न केवलं
प्रशान्त्यभाव-मात्रम् अनयोः | भजने[४५] किन्त्व् अनिष्टं
चेत्य् आह व्यसनेति | हे भगवन् तस्मात् तव शुक्लां सत्त्व-मय-
लीलाधिष्ठात्रीं तनुं श्री-विष्णु-रूपां ते कुशला निपुणा भजन्ति सेवन्ते |
न त्व् अन्यां ब्रह्म-रुद्र-रूपान् |

तथा तावकानां जीवानां मध्ये शुक्लां सत्त्वैक-निष्ठांअ तनुं
भगवद्-भक्त-लक्षण-स्वायम्भुव-मन्वादि-रूपांअ[४६]
ये भजन्ति अनुसरन्ति | न तु दक्ष-भैरवादि-रूपाम् | कथम्भूतां स्वस्य
तवापि दयितां लोक-शान्ति-करत्वात् |

ननु मम स्वरूपम् अपि सत्त्वात्मकम् इति प्रसिद्धं | तर्हि कथं तस्यापि
मायामयत्वम् एव | नहि नहीत्य् आह सात्वताः श्री-भागवता यत् सत्त्वं
पुरुषस्य तव रूपं प्रकाशम् उशन्ति मन्यन्ते | यतश् च सत्त्वात् लोको
वैकुण्ठाख्यः प्रकाशते | तद् अभयम् आत्म-सुखं पर-ब्रह्मानन्द-
स्वरूपम् एवब् न त्व् अन्यत् प्रकृतिजं सत्त्वं तद् इति | अत्र सत्त्व-शब्देन स्व-
प्रकाशताब्-लक्षण-स्वरूप-शक्ति-वृत्ति-विशेष उच्यते |

सत्त्वं विशुद्धं वसुदेव-शब्दितं
यद् ईयते तत्र पुमान् अपावृतः | [ ४.३.२१]

इति श्री-शिव-वाक्यानुसारात्च् | अगोचरस्य गोचरत्वे हेतुः प्रकृति-गुणः |
सत्त्वम् इत्य् अशुद्ध-सत्त्व-लक्षण-प्रसिद्ध्य्-अनुसारेण तथाभूतश् चिच्-
छक्ति-विशेषः सत्त्वम् इति सङ्गति-लाभाच् च | ततश् च तस्य स्वरूप-शक्ति-
वृत्तित्वेन स्वरूपात्मतैवेत्य् उक्तम् | तद् अभयम् आत्म-सुखम् इति द्शक्ति-
प्राधान्य-विवक्षयोक्तं लोको यत इतिद् | अर्थान्तरे भगवद्-विग्रहं प्रति
रूपं यद् एतद् [ २.८.२] इत्यादौ शुद्ध-स्वरूप-मात्रत्व-प्रतिज्ञा-
भङ्गः | अभयम् इत्य् आदौ प्राञ्जलता-हानिश् च भवति | अन्यत्
पदस्यैकस्यैव रजस् तमश् चेति द्विर्-आवृत्तौ प्रतिपत्ति-गौरव उत्पद्यते |
पूर्वम् अपि नान्य इति द्वि-वचनेनैव हे परामृष्टे | तस्माद् अस्ति प्रसिद्धाद्
अन्यत् स्वरूप-भूतं सत्त्वम् |

यद् एवैकादशे यत् काय एष भुवन-त्रय-सन्निवेश [ ११.४.४] इत्यादौ
ज्ञानं स्वत इत्य् अत्र टीका-कृन्-मतं यस्य स्वरूप-भूतात् सत्त्वात् तनु-
भृतां ज्ञानम् इत्य् अनेन यथा ब्रह्मणः स्तवान्ते एतत् सुहृद्भिश् चरितम् इत्य्
अत्र व्यक्तेतरं व्यक्ताज् जड-प्रपञ्चाद् इतरत् शुद्ध-सत्त्वात्मकम् इत्य् आदिना
|
तथा परो रजः सवितुर् जात-वेदा देवस्य भर्ग [ ५.७.१४] इत्य् आदौ श्री-
भरत-जाप्ये तन्-मतम् | परो रजः रजसः प्रकृतेः परं शुद्ध-
सत्त्वात्मकम् इत्य् आदिना | अतएव प्राकृताः सत्त्वादयो गुणा जीवस्यैव न त्व्
ईशस्येति श्रूयते | यथैकादशे सत्त्वं रजस् तम इति गुणा जिवस्य नैव मे
| [११.२५.१२] इति | श्री-भगवद्-उपनिषत्सु च -

ये चैव सात्त्विका भावा
राजसास् तामसाश् च ये |
मत्त एवेति तान् विद्धि
न त्व् अहं तेषु ते मयि ||

त्रिभिर् गुणमयैर् भावैर्
एभिः सर्वम् इदं जगत् |
मोहितं नाभिजानाति
माम् एभ्यः परम् अव्ययम् ||

दैवी ह्य् एषा गुणमयी
मम माया दुरत्यया |
माम् एव ये प्रपद्यन्ते
मायाम् एतां तरन्ति ते || [ ७.१२-१४]

यथा दशमे -

हरिर् हि निर्गुणः साक्षात्
पुरुषः प्रकृतेः परः |
स सर्व-दृग् उपद्रष्टा तं
भजन् निर्गुणो भवेत् || [ १०.८८.४]

श्री-विष्णु-पुराणे -

सत्त्वादयो न सन्तीशे
यत्र च प्राकृता गुणाः |
स शुद्धः सर्व-शुद्धेभ्यः
पुमान् आद्यः प्रसीदतु || इति | [ १.९.४४]

तथा च दशमे देवेन्द्रेणोक्तम् --

विशुद्ध-सत्त्वं तव धाम शान्तं
तपोमयं ध्वस्त-रजस्-तमस्कम् |
मायामयोऽयं गुण-संप्रवाहो
न विद्यते तेऽग्रणानुबन्धः || इति [ १०.२७.४]

अयम् अर्थः | धाम स्वरूप-भूत-प्रकाश-शक्तिः | विशुद्धत्वम् आह
विशेषण-द्वयेन | ध्वस्त-रजस्-तमस्कं तपो-मयम् इति च | तपोऽत्र ज्ञानं
स तपोऽतप्यत इति श्रुतेः | तपोमयं प्रचुर-ज्ञान-स्वरूपम् जाड्यांशेनापि
रहितम् इत्य् अर्थः | आत्मा ज्ञान-मयः शुद्ध इतिवत् |
धृतः[४७] प्राकृत-सत्त्वम् अपि व्यावृत्तम् | अत एव
मायामयोऽयं सत्त्वादि-गुण-प्रवाहस् ते तव न विद्यते | यतोऽसाव्
अज्ञानेनैवानुबन्ध इति |

अतएव श्री-भगवन्तं प्रति ब्रह्मादीनां सयुक्तिकं वाक्यम् |

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेय-उपायनं वपुः |
वेद-क्रिया-योग-तपः-समाधिभिस्
तवार्हणं येन जनः समीहते || [ १०.२.३४]

सत्त्वं न चेद् धातर् इदं निजं भवेद्
विज्ञानम् अज्ञान-भिदापमार्जनम् |
गुण-प्रकाशैर् अनुमीयते भवान्
प्रकाशते यस्य च येन वा गुणः || [ १०.२.३५]

अयम् अर्थः | सत्त्वं तेन प्रकाशमानत्वात् तद्-अभिन्नतया रूपितं वपुर्
भवान् श्रयते प्रकटयति | कथम्भूतं सत्त्वं विशुद्धम् | अन्यस्य
रजस्-तमोभ्याम् अमिश्रस्यापि[४८] प्राकृतत्वेन जाड्यांश-
संवलितत्वान् न विशेषेण शुद्धत्वम् | एतत् तु स्वरूप-शक्त्य्-आत्म[क]त्वेन
तद्-अंशस्याप्य् अस्पर्शाद् अतीव शुद्ध[त्व]म् इत्य् अर्थः |

किम् अर्थं श्रयते | शरीरिणां स्थितौ निज-चरणारविन्दे मनःस्थैर्याय
सर्वत्र [भक्तेषु] भक्ति-सुख-दानस्यैव त्वदीय-मुख्य-प्रयोजनत्वाद्
इति भावः | भक्ति-योग-विधानार्थम् इति [ १.८.१९] श्री-कुन्ती-वाक्यात् |
कथम्भूतं वपुः श्रेयसां सर्वेषां पुरुषार्थानाम् उपायनम् आश्रयम्
| नित्यानन्त-परमानन्द-रूपम् इत्य् अर्थः | अतो वपुषस् तव च भेद-
निर्देशोऽयम्[४९] औपचारिक एवेति भावः | अतएव येन वपुषा
यद् वपुर् आलम्बनेनैव जनस् तवार्हणं पूजां करोति | कैः साधनैः
वेदादिभिस् त्वद्-आलम्बनकैर् इत्य् अर्थः | साधारणैस् त्व् अर्पितैर् एव त्वद्-
अर्हण-प्रायता-सिद्धाव् अपि | वपुषोऽनपेक्षत्वात् | तादृशए-
वपुषोऽनपेक्ष्यत्वात् तादृशए[५०]-वपुः-प्रकाश-हेतुत्वेन
स्वरूपात्मकत्वं स्पष्टयन्ति |

हे धातश् चेद् यदि इदं सत्त्वं यत् तव निजं विज्ञानम् अनुभवं[ः]
तदात्मिका स्व-प्रकाशता-शक्तिर् इत्य् अर्थः | तन् न भवेत् | तर्हि त्व् अज्ञान-
भिदा स्व-प्रकाशस्य तवानुभवf-प्रकार एव मार्जनं शुद्धिम् अवाप |
सैव जगति पर्यवसीयते न तु तवानुभवf[५१]-लेशोऽपीत्य्
अर्थः |

ननु प्राकृत-सत्त्व-गुणेनैव ग्ममानुभवोग्[५२] भवतु
किं निज-ह्ग्रहण्ह्[५३]एन तत्राह | प्राकृत-गुण-प्रकाशैर्
भवान् केवलम् अनुमीयते न तु साक्षात्क्रियत इत्य् अर्थः | अथवा तव
विज्ञान-रूपम् अज्ञान-भिदाया अपमर्जनं च यन् निजं सत्त्वं तद् यदि न
भवेन् नाविर्भवति तदैव प्राकृत-सत्त्वादि-गुण-प्रकाशैर् भवान्
अनुमीयते | त्[व्]अन्-निज-सत्ताविर्भावेण तु साक्षात्-क्रियत एवेत्य् अर्थः | तद्
एव स्पष्टयितुं तत्रानुमाने द्वैविध्यम् आहुर् यस्य गुणः प्रकाशत इयेन
वा गुणः प्रकाशतै[५४] इति | अस्वरूप-भूतस्यैव [प्राकृत-
]सत्त्वादि-गुणस्य त्वद्-अव्यभिचारि-सम्बन्धित्व-मात्रेण वा त्वद्-एक-
प्रकाश्यमानता-मात्रेण वा त्वल्-लिङ्गत्वम् इत्य् अर्थः | यथा अरुणोदयस्य
सूर्योदय-सान्निध्य-लिङ्गत्वं यथा वा धूमस्याग्नि-लिङ्गत्वम् इति | तत
उभयथापि तव साक्षात्कारे तस्य साधकतमत्वाभावो युक्त इति भावः |

तद् एवम् अप्राकृत-सत्त्वस्य तदीय-स्व-प्रकाशता-रूपत्वं येन
स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् | अत्र ये विशुद्ध-सत्त्वं
नाम प्राकृतम् एव रजस्-तमः-शून्यं मत्वा तत्-कार्यं भगवद्-
विग्रहादिकं मन्यन्ते ते तु न केनाप्य् अनुगृहीताः | रजः-
सम्बन्धाभावेन स्वतः प्रशान्त-स्वभावस्य सर्वत्रोदासीनताकृति-हेतोस्
तस्य क्षोभासम्भवात् विद्यामयत्वेन यथावस्थित-वस्तु-प्रकाशितामात्र-
धर्मत्वात्, तस्य कल्पनान्तरायोग्यत्वाच् च | तद् उक्तम् अप्य् अगोचरस्य
गोचरत्वे हेतुः प्रकृति-गुणः सत्त्वम् | गोचरस्य बहु-रूपत्वे रजः |
बहुरूपस्य तिरोहितत्वे रजः[५५] | तथा परस्परोदासीनत्वे
सत्त्वम् | उपकारित्वे रजः | अपकारित्वे तमः | गोचरत्वादीनि स्थित्-सृष्टि-
संहाराः उदासीनत्वादीनि चेति |

अथ रजो-लेशे तत्र मन्तव्ये विशुद्ध-पदवैयर्थ्यम् इत्य् अलं तन्-मत-
रजो-ज्लेशे तत्र मन्तव्ये विशुद्ध-पद-वैयर्थ्यम् इत्य् अलं तन्-
मतज्[५६]-रजो-
घट-प्रघट्टनयेति |[५७]

क्तत्र चेदम् एव विशुद्ध-सत्त्वं सन्धिन्य्-अंश-प्रधानं चेद् आधार-
शक्तिः | संविद्-अंश-प्रधानम् आत्म-विद्या | ह्लादिनी-सारांश-प्रधानं
गुह्य-विद्या | युगपत् शक्ति-त्रय-प्रधानं मूर्तिः | अत्राधार-शक्त्या
भगवद्-धाम प्रकाशते | तद् उक्तं - यत् सात्वताः पुरुष-रूपम् उशन्ति
सत्त्वं लोको यत [ १२.८.४०][५८] इति |

तथा ज्ञान-तत्-प्रवरक-लक्षण-वृत्ति-द्वयकयात्म-विद्यया तद्-वृत्ति-
रूपम् उपासकाश्रयं ज्ञानं प्रकाशते | एवं भक्ति-तत्-प्रवर्तक-लक्षण-
वृत्ति-द्वयकया गुह्य-विद्यया तद्-वृत्ति-रूपा प्रीत्यात्मिका भक्तिः प्रकाशते
|

एते एव विष्णु-पुराणे लक्ष्मी-स्तवे स्पष्टीकृते -

यज्ञ-विद्या महा-विद्या
गुह्य-विद्या च शोभते |
आत्म-विद्या च देवि त्वं
विमुक्ति-फल-दायिनी || [ १.९.११८] इति |

यज्ञ-विद्या कर्म | महा-विद्या अष्टाङ्ग-योगः | गुह्य-विद्या भक्तिः |
आत्म-विद्या ज्ञानम् | तत्-तत्-सर्वाश्रयत्वात् त्वम् एव तत्-तद्-रूपा विविधानां
मुक्तीनाम् अन्येषां च विविधानां फलानां दात्री भवसीत्य् अर्थः
|क्[५९]

अथ मूर्त्या परतत्त्वात्मकः श्री-विग्रह प्रकाशते | इयम् एव
वसुदेवाख्या | तद् उक्तं चतुर्थस्य तृतीये महादेवेन -

सत्त्वं विशुद्धं वसुदेव-शब्दितं
यद् ईयते तत्र पुमान् अपावृतः |
सत्त्वे च तस्मिन् भगवान् वासुदेवो
ह्य् अधोक्षजो मे मनसा विधीयते || इति | [ ४.३.२३] |

अस्यार्थः | विशुद्धं स्व-रूप-शक्ति-वृत्तित्वाज् जाड्यांशेनापि रहितम् इति
विशेषेण शुद्धं तद् एव वसुदेव-शब्देनोक्तम् | कुतस् तस्य सत्त्वता
वसुदेवता वा तत्राह- यद् यस्मात् तत्र तस्मिन् पुमान् वासुदेव ईयते
प्रकाशते | आद्ये तावद् अगोचर-गोचरता-हेतुत्वेन लोक-प्रसिद्ध-सत्त्व-
साम्यात् सत्त्वता व्यक्ता | द्वितीये त्व् अयं अर्थः | वसुदेवे भवति प्रतीयत
इति वासुदेवः परमेश्वरः प्रसिद्धः | स च विशुद्ध-सत्त्वं प्रतीयते |
अतः प्रत्ययार्थेन प्रसिद्धेन प्रकृत्य्-अर्थो निर्धार्यते | ततश् च वासयति
देवम् इति व्युत्पत्त्या व वसत्य् अस्मिन्न् इति वा वसुः | तथा दीव्यति द्योतत इति
देवः | स चासौ स चेति वासुदेवः | धर्म इष्टं धनं नॄणां इति स्वयं
भगवद् उक्ते वसुभिर् भगवद्-धर्म-लक्षणैः पुण्यैः प्रकाशत इति वा
वसुदेवः | तस्माद् वसुदेव-शब्दितं विशुद्ध-सत्त्वम् |

इत्थं स्वयं प्रकाश-ज्योतिर्-एक-विग्रह-भगवज्-ज्ञान-हेतुत्वेन

कैवल्यं सात्त्विकं ज्ञानं
रजो वैकल्पिकं तु यत् |
प्राकृतं तामसं ज्ञानं
मन्-निष्ठम् निर्गुणं स्मृतम् || इत्य् आदौ [ ११.२५.२४]

बहुत्र गुणातीतावस्थायाम् एव भगवज्-ज्ञान-श्रवणेन न च सिद्धम् अत्र
विशुद्ध-पदावगतं स्वरूप-शक्ति-वृत्ति-भूत-स्वप्रकाशता-लक्षणत्वं
तस्य व्यक्तम् | ततश् च सत्त्वे प्रतीयत इत्य् अत्र करण एवाधिकरण-
विवक्षया || स्वरूप-शक्ति-वृत्तित्वम् एव विशदयति | अपावृत आवरण-शून्यः
सन् प्रकाशते | प्राकृतं सत्त्वं चेत् तर्हि तत्र प्रतिफलनम् एवावसीयते |
ततश् च दर्पणे मुखस्येव तद्-अन्तर्गततया तस्य तत्रावृतत्वेनैव
प्रकाशः स्याद् इति भावः | फलितार्थम् आह एवम्भूते सत्त्वे तस्मिन् नित्यम्
एव प्रकाशमानो भगवान् मे मया मनसा विशेषेण विधीयते चिन्त्यत इत्य्
अर्थः | तत् सत्त्वं तादात्म्यापन्नमे एवअन्यथा नैव मनसा चिन्तयितुं
शक्यते इति पर्यवसितम् |

ननु केवलेन मनसैव चिन्त्यतां किं तेन सत्त्वेन तत्राह | हि यस्माद्
अधोक्षजः अधःकृतम् अतिक्रान्तम् अक्षजम् इन्द्रिय-ज्ञानं येन सः |
नमसेति पाठे हि शब्द-स्थानेऽप्य् अनु-शब्दः पठ्यते | ततश् च विशुद्ध-
सत्त्वाख्यया स्वप्रकाशता-शक्त्यैव प्रकाशमानोऽसौ नमस्कारादिना
केवलम् अनुविधीयते सेव्यते | न तु केनापि प्रकाश्यत इत्य् अर्थः | तद् एव
सोऽदृश्यत्वेनैव स्फुरन्न् असौ अदृश्येनैव नमस्कारादिना अस्माभिः सेव्यत
इति तत्-प्रकरण-सङ्गतिश् च गम्यते |

तथा यतो भगवद्-विग्रह-प्रकाशक-विशुद्ध-सत्त्वस्य मूर्तित्वं
वसुदेवत्वं च तत एव तत्-प्रादुर्भाव-विशेषे धर्म-पत्न्या मूर्तित्वं
प्रसिद्धम् |

श्रीमद्-आनकदुन्दुभौ च वसुदेवत्वम् इति विवेचनीयम् | अत्र श्रद्धा-
पुष्ट्य्-आदि-लक्षण-प्रादुर्भूतं भगवच्-छक्त्यंश-रूपस्य भगिनीतया
पाठ-साहचर्येण मूर्तेस् तस्यास् तच्-छक्त्य्-अंश-प्रादुर्भावत्वम्
उपलभ्यते | तुर्ये धर्म-कला-सर्गे नर-नारायणाव् ऋषी इत्य् [ १.३.९] अत्र
कला-शब्देन च शक्तिर् एवाभिधीयते | ततः शक्ति-लक्षणायां तस्यां च नर-
नारायणाख्य-भगवत्-प्रकाश-फल-दर्शनात् वसुदेवाख्य-शुद्ध-
सत्त्व-रूपत्वम् एवावसीयते |

तद् एवम् एव तस्या मूर्तिर् इत्य् आख्याऽप्य् उक्ता | मूर्तिः सर्व-गुणोत्पत्तिर् नर-
नारायणाव् ऋषी इति [ ४.१.५२] | सर्व-गुणस्य भगवतः उत्पत्तिः प्रकाशो
यस्याः सा ताव् असूतेति पूर्वेणान्वयः | भगवद्-आख्यायाः सच्-चिद्-आनन्द-
मूर्तेः प्रकाश-हेतुत्वात् मूर्तिर् इत्य् अर्थः तथैव तत्-प्रकाश-फलत्व-
दर्शनेन च नास्य् ऐक्येन च श्रीमद्-आनकदुन्दुभेर् अपि शुद्ध-सत्त्वादि-
भावत्वं ज्ञेयम् | तच् चोक्तं नवमे -

वसुदेवं हरेः स्थानं
वदन्त्य् आनकदुन्दुभिम् | इति | [ ९.२४.३०]

अन्यथा हरेः स्थानम् इति विशेषणस्य अकिञ्चित्-करत्वं स्याद् इति | तद् एवं
ह्लादिन्य्-आद्य्-एकतमांश-विशेष-प्रधानेन विशुद्ध-सत्त्वेन यथायथं
श्री-प्रभृतीनाम् अपि प्रादुर्भावो विवेक्तव्यः | तत्र च तासां भगवति
सम्पद्-रूपत्वं तद्-अनुग्राह्ये सम्पत्-सम्पादक-रूपत्वं सम्पद्-
अंशजत्वं चेत्य्-आदि-त्रिजगत्वं ज्ञेयम् | तत्र तासां केवल-शक्ति-
मात्रत्वेनामूर्तानां भगवद्-विग्रहाद्यैकाम्येन स्थितस् तद्-अधिष्ठात्री-
रूपत्वेन मूर्तीनां तु तद्-आवरणतयेति द्विरूपत्वम् अपि ज्ञेयम् इति दिक् ||
|| १०.३९ || श्री-शुकः || ११७ ||

[११८]

लथैवं भूतानन्त-वृत्तिका या स्वरूप-शक्तिः सा त्व् इह भगवद्-
धामांश-वर्तिनी मूर्तिमती लक्ष्मीर् एवेत्य् आह -

अनपायिनी भगवती श्रीः
साक्षाद् आत्मनो हरेः || इति || [ १२.११.२०]

टीका च - अनपायिनी हरेः शक्तिः तत्र हेतुः साक्षाद् आत्मनः स्व-स्वरूपस्य
चिद्-रूपत्वात् तस्यास् तद्-अभेदाद् इत्य् अर्थः | इत्य् एषा |

अत्र साक्षाच्-छब्देन विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया इत्य् [
२.५.१३] आद्य् उक्ता माया नेति ध्वनितम् | तत्रानपायित्वं यथा |

श्री-हायशीर्ष-पञ्चरात्रे -

परमात्मा हरि देवस्
तच्-छक्तिः श्रीर् इहोदिता |
श्रीर् देवी प्रकृतिः प्रोक्ता
केशवः पुरुषः स्मृतः |
न विष्णुना विना देवी
न हरिः पद्मजां विना || इति |

श्री-विष्णु-पुराणे --

नित्यैव सा जगन्-माता
विष्णोः श्रीर् अनपायिनी |
यथा सर्व-गतो विष्णुस्
तथैवेयं द्विजोत्तम || इति | [ १.८.१७]क्[६०]

तत्रान्यत्र -

एवं यथा जगत्-स्वामी
देव-देवो जनार्दनः |
अवतारं करोत्य् एषा
तथा श्रीस् तत्-सहायिनी || [ १.९.१४२] इति |

चिद्रूपत्वम् अपि स्कान्दे -

अपरं त्व् अक्षरं या
सा प्रकृतिर् जड-रूपिका |
श्रीः परा प्रकृतिः प्रोक्ता
चेतना विष्णु-संश्रया ||

ताम् अक्षरं परं प्राहुः
परतः परम् अक्षरम् |
हरिर् एवाखिल-गुण
अक्षर-त्रयम् ईरितम् || इति |

अत एव श्री-विष्णु-पुराणे एव -

कला-काष्ठा-निमेषादि[६१]-
काल-सूत्रस्य गोचरे |
यस्य शक्तिर् न शुद्धस्य
प्रसीदतु स मे हरिः ||

प्रोच्यते परमेशो यो
यः शुद्धोऽप्य् उपचारतः |
प्रसीदतु स नो विष्णुर्
आत्मा यः सर्व-देहिनाम् || इति [ १.९.४५-४६]

अत्र स्वामिभिर् एव व्याख्यातं च | कला-काष्ठा-निमेषादि-काल एव सूत्रवत्
सूत्रं जगच्-चेष्टा नियामकत्वात् तस्य गोचरे विषये यस्य शक्तिर् लक्ष्मीर् न
वर्तते | स्वरूपाभिन्नत्वान् नित्यैव सा कालाधीना न भवतीत्य् अर्थः ||
अतएव तस्याः स्वरूपाभेदाच् छुद्धस्येत्य् उक्तम् ||

ननु यदि लक्ष्मीस् तत्-स्वरूपाभिन्ना कथं तर्हि लक्ष्म्याः पतिर् इत्य् उच्यते
तत्राह प्रोच्यते इति परा चासौ मा च लक्ष्मीस् तस्या ईशो यः शुद्धः
केवलोऽपि उपचारतो भेद-विवशया प्रोच्यते | द्वितीयो यच्-छब्दः प्रसिद्धाव्
इति एवम् एवाभिप्रेत्य प्रार्थितं श्री-ब्रह्मणा तृतीये |

एष प्रपन्न वरदे रमयात्म-शक्त्या
यद् यत् करिष्यति गृहीत-गुणावतारः |
तस्मिन् स्व-विक्रमम् इदं सृजतोऽपि चेतो
युञ्जीत कर्म शमलं च यथा विजह्याम् || इति [ ३.९.२३] |

अतो यत् तु -

साक्षाच् छ्रीः प्रेषिता देवैर्
दृष्ट्वा तं महद् अद्भुतम् |
अदृष्टाश्रुत-पूर्वत्वात्
सा नोपेयाय शङ्किता || इति [ ७.९.२] श्री-नृसिंह-प्रादुर्भूताव् उक्तम् |

|| १२.११ || श्री-सूतः || ११८ ||

[११९]

तद् एवं सच्चिदानन्दैक-रूपः स्वरूप-भूताचिन्त्य-विचित्रानन्त-शक्ति-युक्तो
धर्मत्व एव धर्मित्वं निर्भेदत्व एव नाना भेदवत्त्वम् अपरुपित्व एव
रूपित्वं, व्यापकत्व एव मध्यमत्वं, सत्यम् एवेत्य् आदि-परस्पर-
विरुद्धानन्त-गुण-निधिः | स्थूल-सूक्ष्म-विलक्षण-स्व-प्रकाशाखण्ड-
स्व-स्वरूप-भूत-श्री-विग्रहस् तथाभूत-भगवद्-आख्या-मुख्यैक-
विग्रह-व्यञ्जित-तादृशानन्त-विग्रहस् तादृश-स्वानुरूप-स्वरूप-
शक्त्याविर्भाव-लक्षण-लक्ष्मी-रञ्जित-वामावशः स्व-प्रभा-विशेषाकार-
परिच्छेद-परिकर-निज-धामसु विराजमानाकारः स्वरूप-शक्ति-विलास-
लक्षणाद्भुत-गुण-लीलादि-चमत्कारितात्मारामादि-गुणो जिज-सामान्य-
प्रकाशाकार-ब्रह्म-तत्त्वो निजाश्रयैक-जीवन-जीवाख्य-तटस्थ-शक्तिर्
अनन्त-प्रपञ्च-व्यञ्जित-स्वाभास-शक्ति-गुणो भगवान् इति विद्वद्-
उपलब्धार्थ-शब्दैर् व्यञ्जितम् | तत्र तत्-स्वभावं वस्त्व्-अन्तरम्
अपश्यताम् अविदुषाम् असम्भावना न युक्तेति विविदिषून् श्रद्दापयितुं
प्रक्रियते तत्रैकेन तस्याविदुषां ज्ञान-गोचरत्वं, किन्तु वेदैक-वेद्यत्वम्
एवेत्य् आहुः -

क इह नु वेद बतावर-जन्मालयोऽग्रसरं
यत उदगाद् ऋषिर् यम् अनु देव-गणो उभये |
तर्हि न सन्न् अचासद् उभयं न च काल-जवः
किम् अपि न तत्र शास्त्रम् अवकृष्य शयीत यदा || [ १०.८७.२४]

बत अहो भगवन् इह जगति अग्रसरं पूर्व-सिद्धं त्वां अवर-जन्मालयः
अर्वाचीनोत्पत्ति-नाशवान् कोऽपि पुमान् वेद जानाति | ईश्वरस्य पूर्व-सिद्धाव्
अन्यस्य चार्वाचीनत्वे कारणं वदन्त्यो ज्ञान-कारणाभावम् आहुः | यत
उदगाद् इति यतस् त्वत्त एव ऋषिर् ब्रह्मा उत्पन्नः | अतोऽर्वाचीनाः सर्वे | यदा
तु भवान् शास्त्रं स्व-विज्ञापकं वेदम् अवकृष्य वैकुण्ठ एवाकृष्य
शयीत जगत्-कार्यं प्रति दृष्टिं निमीलयति तर्हि तदा अनुशायिनं जीवानां
ज्ञान-साधनं नास्ति | यतस् तदा न सत् स्थूलम् आकाशादि न चासत् सूक्ष्मं
महद्-आदि न चोभयं सदसद्भ्याम् आरब्धं शरीरम् | न च काल-जवः
तन्-निमित्तीभूतं काल-वैषम्यं एवं सति तत्र तदा किम् अपि इन्दिर्य-
प्राणाद्य् अपि न | अयम् अर्थः | यदा सृष्टि-गतत्वात् देहाद्य्-उपाधि-
कृतान्तरत्वात् | काल-कर्म-वशेन मलिन-सत्त्वात् तेषाम् तद्-अवधारणे
सामर्थ्यं नास्ति | यदा तु प्रलये समये न बह्व्-अन्तरम् अपि तदापि तेषां
वेदानर्धान-महा-तमोमय-सुषुप्तिभ्यां साधनाभावान् न
तवानुभव-सामर्थय्म् इति |

तथा श्रुतयः -

न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरं बभूव [?] |

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [Tऐत्त्U २.४.१] |

को अद्धा वेद क इह प्रावोचत् | कुत आयाता कुत इयं विसृष्टिः [?]
अर्वाग्-देवा अस्य विसर्जनेनाथ को वेद यत आवभूव [?] |

अनेजद् एकं मनसो जवीयो
नेदं देवा आप्नुवन् पूर्वम् अर्शद् |
तद्-धावतोऽन्यान् अत्येति तिष्ठत्
तस्मिन्न् अपो मातरिश्वा दधाति || [Īशोपनिषद्, ४]

न चक्षुर् न श्रोत्रं न तर्को न स्मृतिर् वेदो ह्य् एवैनं वेदयति इत्य् आद्याः
|

||१०.८७|| श्रुतयः श्री-भगवन्तम् ||११९||

[१२०]

अथ तत्-पूर्वकं विदुषां भक्त्यैव साक्षाद् अनुभवतीयत्वम् आह त्रिभिः -


न पश्यति त्वां परमात्मनोऽजनो
न बुध्यतेऽद्यापि समाधि-युक्तिभिः |
कुतोऽपरे तस्य मनः शरीर-धीर्
विसर्ग-सृष्टा वयम् अप्रकाशाः || [ ९.८.२१]

अपरे अर्वाचीनास् तु कुतस् त्वां पश्येयुर् बुध्येरन् अर्वाचीनत्वे हेतुः तस्य
ब्रह्मणः | मनश् च शरीरं च धीश् च सत्त्व-तमो-रजः-कार्याणि ताभिर्
विविधा ये देव-तिर्यङ्-नराणां सर्गास् तेषां सृष्टाः | तत्रापि वयम्
अप्रकाशाः अतो कुतः पश्येम इत्य् अर्थः |

[१२१]

अपरे तर्हि किं पश्यन्ति तत्राह |

ये देह-भाजस् त्रिगुण-प्रधाना
गुणान् विपश्यत्य् उत वा तमश् च |
मन्-मायया मोहित-चेतसस् त्वां विदुः
स्व-संस्थं न बहिः प्रकाशाः || [ ९.८.२२]

ये देह-भाहस् ते स्वस्मिन् सम्यक्-स्थितम् अपि त्वां न विदुः | किन्तु गुणान्
एव विपश्यन्ति कदाचिच् च केवलं तम एव पश्यन्ति यतस् त्रिगुणा बुद्धिर् एव
प्रधानं येषां | बुद्धि-परतन्त्रतया जाग्रत्-स्वप्नयोर् विषयान् पश्यन्ति
सुषुप्तौ तु तम एव न तु स्वस्तुतो निर्गुणानां सर्वेषां आत्मारामाणाम्
आत्म-भूतं त्वाम् | सर्वत्र हेतुः ! यत् यतः मायया यस्य तव मायया वा
मोहितं चेतो येषां ते तथापि त्वं विचारेण ज्ञास्यसीति | यतो नास्मद्-
विधानां ज्ञान-गोचरस् त्वं किन्तु भक्तानाम् एवेत्य् आह |

तं त्वाम् अहं ज्ञान-घनं स्वभाव-
प्रध्वस्त-माया-गुण-भेद-मोहैः |
सनन्दनाद्यैर् हृदि संविभाव्यम्
कथं विमूढः परिभावयामि ||[६२] [ ९.८.२३]

तं नानाश्चर्य-वृत्तिक-पर-शक्ति-निधानं त्वां कथं परिभावयामि | किं
स्वरूपं ज्ञान-घनं सत्य-ज्ञानानन्तानन्दैक-रस-मूर्तिं अतएव
अनिर्देश्य-वपुर् इति सहस्र-नाम-स्तवे | अयं भावः | ज्ञान-घनत्वान् न
तावत् ज्ञान-विषयस् त्वं विचार-विषयत्वेऽपि माया-गुणैर् अभिभूतोऽहं न
विचारे समर्थ इति |

ननु तर्हि मम तथाविधत्वे किं प्रमाणं तत्राह | स्वेन त्वदीयेन
भावेन भक्त्या स्वस्यात्मनो स्वभावेनाविर्भावेनैव वा प्रध्वस्ता
माया-गुण-प्रकार-कृत-मोहा येभ्यस् तैः सनन्दनाद्यैर् भगवत्-तत्त्व-
विद्भिर् मुनिभिर् विभाव्यं विचार्यं साक्षाद् अनुभवईयं चेत्य् अर्थः |
तस्माद् उलूकैः प्रकाश-गुणकत्वेनासम्मतेऽपि रवौ यथान्यैर्
उपलभ्यमान-तद्-गुणकत्वम् अस्त्य् एव तथार्वाग्-दृष्टिभिर्
असम्भाव्यमानम् अपि त्वयि तद्-गुणकत्वं तद्-भक्त-विद्वत्-प्रत्यक्ष-
सिद्धम् अस्त्य् एवेति भावः |

तथा च श्रुतिः -

पराञ्चि खानि व्यतृणत् स्वयम्भू-
स्तस्मात्पराङ्पश्यति नान्तरात्मन् |
कश्चिद्धीरः प्रत्यगात्मानमैक्श-
दावृत्तचक्शुरमृतत्वमिच्छन् || [ २.१.१]

भक्तिर् एवैनं नयति
भक्तिर् एवैनं दर्शयति |
भक्ति-वशः पुरुषः
भक्तिर् एव भूयसी || [Mआठर-श्रुति]

यम् एवैष वृणुते तेन लभ्यः
तस्यैष आत्मा विवृणुते तनूं स्वाम् [ १.२.२३]


|| ९.८ || अंशुमान् श्री-कपिल-देवम् || १२०-१२१ ||

विवृतौ ब्रह्म-भगवन्तौ ||

इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री-
भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन-
भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे
भगवत्-सन्दर्भो नाम द्वितीयः सन्दर्भः ||

 

 

 

[१] Iत् इस् लुदिच्रोउस् तो चोन्सिदेर् थे मङ्गलाचरण वेर्सेस् अस्
सेपरतेल्य् नुम्बेरेद् सेच्तिओन्स्.
[२] Fरोम् थिस्, I wओउल्द् अस्सुमे थत् थिस् इस् नोत् मेअन्त् तो बे अ
सेपरते सेच्तिओन्, बुत् रेfएर्स् बच्क् तो थे प्रेविओउस् #८.
[३] Tहिस् परग्रफ् इस् तकेन् अस् अ सेपरते सेच्तिओन् नुम्बेर् २४ इन्
थे Yअदव्पुर् एदितिओन्, बुत् थिस् दोएस्न्ऽत् सेएम् तो बे नेचेस्सर्य्.
[४] Nओत् fओउन्द् इन् Mअहोपनिषद्.
[५] Sएए सेच्तिओन् ३०.
[६] Tहे वेर्से थत् fओल्लोwस् थिस् इन् LBहाग्: द्वारवत्यां यथा
कृष्णः प्रत्यक्षं प्रति मन्दिरम् | चित्रं बतैतद् इत्यादि-प्रमाणेन स
सेत्स्यति ||
[७] Sएए qउओते fरोम् Kआलिका-पुराण इन् सेच्तिओन् २६ अबोवे.
[८] Tहे मेत्रे ओन् थिस् वेर्से इस् इन्चोर्रेच्त्, मिxएद् जगती अन्द्
त्रिष्टुभ्. Tहे सेचोन्द् लिने अप्पेअर्स् तो बे मिस्सिन्ग् अ स्य्ल्लब्ले. Iत् इस् प्रोबब्ल्य् fरोम्
Pअद्मP, Uत्तरखण्ड.
[९] Sओ wहेरे दोएस् थिस् रेfएरेन्चे चोमे fरोम्?  १२.१२.६९? Tहिस्
इस् fइर्स्त् मेन्तिओन् हेरे.
[१०] Tहिस् इस् थे Gइत Pरेस्स् रेअदिन्ग्. GP अल्सो हस् प्रमाणानि नोत्
प्रमाणानाम्.
[११] Iन् सेच्तिओन् २१ अबोवे.
[१२] त्वम् अस्य लोकस्य विभो रिरक्षिषुर् गृहेऽवतीर्णोऽसि
ममाखिलेश्वरः |
राजन्य-संज्ञासुर-कोटि-यूथपैर् निर्व्यूह्यमाना निहनिष्यसे चमूः ||
[१३] हन्तृ-जीववद्-
[१४] कर्तरीय-
[१५] रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं
ब्रह्म ज्योतिर् निर्गुणं निर्विकारम् |
सत्ता-मात्रं निर्विशेषं निरीहं
स त्वं साक्षाद् विष्णुर् अध्यात्म-दीपः ||
[१६] Qउओतेद् fरोम् Nआरायणाध्यात्म इन् Sएच्तिओन् ४७ अबोवे.
[१७] Dइस्चुस्सेद् अबोवे इन् Sएच्तिओन् ८.
[१८] यतो
[१९] Tहे Bहगवत् सन्दर्भ रेअदिन्ग् wअस् परीत्य लोकान्
कर्म-चितान्... नात्यकृतः.
[२०] Mउण्डकU २.२.७: दिव्ये ब्रह्म-पुरे ह्य् एष व्योम्न्य् आत्मा
प्रतिष्ठितः ||
[२१] तद् वा एतत् परमं धाम मन्त्रराजाध्यापकस्य यत्र
न सूर्यस् तपति यत्र न वायुर् वाति यत्र न चन्द्रमा भाति यत्र न
नक्षत्राणि भान्ति यत्र नाग्निर् दहति यत्र न मृत्युः प्रविशति यत्र न
दुःखं सदानन्दं परमानन्दं शान्तं शाश्वतं सदा-शिवं ब्रह्मादि-
वन्दितं योगि-ध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः ||

[२२] NTU ५.१० qउओतेद् अबोवे.
[२३] Tहिस् सेच्तिओन् इस् fउल्ल् ओf qउओतेस् fरोम् Sरुति थत् स्होउल्द् बे
पोइन्तेद् ओउत्. Tहे सेच्तिओन् इस् अल्सो qउओतेद् इन् LBहाग् १.५.२४७-२५०.
[२४] Aल्तेर्नतिवे नुम्बेरिन्ग् गिवेन् अस् ६.२५५.५६-६४
[२५] Aल्त्. अत्रोपसृष्टम्. Sएए ३.१५.४२ अबोवे.
[२६] Vअरिअन्त् - सनन्दनाद्यैर् मुनिभिर् विभाव्यम्.
[२७] I चोउल्द्न्ऽत् fइन्द् थिस् वेर्से इन् थे .
[२८] Tहिस् वेर्से हस् अल्रेअद्य् बेएन् रेfएरेद् तो इन् सेच्तिओन्स् ४८ अन्द् ५६.
Tहे चोम्प्लेते वेर्से इस्:
रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं ब्रह्म-ज्योतिर् निर्गुणं निर्विकारम् |
सत्ता-मात्रं निर्विशेषं निरीहं स त्वं साक्षाद् विष्णुर् अध्यात्म-दीपः ||
[२९] पदं इन् ओरिगिनल् HV. Tहेसे वेर्सेस् अरे १०४.९-१३ इन् थे
च्रितिचल् एदितिओन्.
[३०] माम् एव इन् ओरिगिनल् HV.
[३१] Qउओतेद् अबोवे इन् सेच्तिओन् ५१.
[३२] Tहे Bहग्S रेअद्स् सर्वगस्य तथात्मा, wहिछ् इस् ओब्विओउस्ल्य्
wरोन्ग्.
[३३] Tहे  रेअदिन्ग् इस् समस्त-शक्ति-रूपाणि तत् करोति
जनेश्वर | देव-तिर्यङ्-मनुष्यादि-चेष्टावन्ति स्वलीलया ||
[३४] Tहिस् वेर्से इस् अल्सो चितेद् इन् सेच्तिओन्स् ४८ अन्द् १०७.
[३५] Sएच्तिओन् १८ अबोवे.
[३६] I चन्ऽत् fइन्द् थे सोउर्चे ओf थिस् अन्द् थे प्रेविओउस् वेर्से. Tहे
रेअदिन्ग् सेएम्स् तो बे चोर्रुप्त् - क्वाचिदजयत्त्मना...
[३७] Qउओतेद् अबोवे इन् ४.१०.
[३८] Tहिस् फ्रसे इस् fओउन्द् इन् मन्य् प्लचेस् इस् थे Bऋहद्-आरण्यक
Uपनिषद्.
[३९] देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे | Tहे
Bहग्S तेxत् हस् तारकः fओर् तावकम्.
[४०] Qउओतेद् अबोवे इन् सेच्तिओन् ९४.
[४१] Sएच्तिओन्स् ४ अन्द् ९५ अबोवे.
[४२] Tहिस् एन्तिरे सेच्तिओन् एन्दिन्ग् wइथ् स्पर्शाभावाद्
विशुद्धत्वम् इस् fओउन्द् इन् Rआधा-कृष्णी̀अर्चन-दीपिका, पगेस् १०-११.
[४३] Nओत् qउइते सुरे wहेरे Śरीधर Sवामीऽस् चोम्मेन्तर्य् एन्द्स्.
[४४] Bओथ् वेर्सेस् qउओतेद् अबोवे इन् सेच्तिओन् ८. Tहिस् wहोले सेच्तिओन्
इस् fओउन्द् थेरे, wओर्द्-fओर् wओर्द्. Tहिस् इस् प्रोबब्ल्य् अन् एर्रोर्, सुर्प्रिसिन्ग्ल्य् नोत् चल्लेद्
इन्तो qउएस्तिओन् ब्य् थे Jअदव्पुर् एदितोर्. Aनोथेर् MS इस् नेएदेद् fओर् चोम्परिसोन्.
[४५] Tहिस् wओर्द् इस् नोत् इन् थे व्याख्या गिवेन् इन् सेच्तिओन् ७, wहिछ्
ओथेर्wइसे fओल्लोwस् wओर्द्-fओर्-wओर्द् उन्तिल् ??. Tहिस् इस् प्रोबब्ल्य् अन् एर्रोर्,
सुर्प्रिसिन्ग्ल्य् नोत् चल्लेद् इन्तो qउएस्तिओन् ब्य् थे Jअदव्पुर् एदितोर्. Aनोथेर् MS इस्
नेएदेद् fओर् चोम्परिसोन्.
[४६] Tहे सेच्तिओन् बेत्wएएन् सुपेर्स्च्रिप्त् अऽस् इस् नोत् इन् थे एअर्लिएर्
व्याख्या ओf थेसे वेर्सेस्, बुत् ओब्विओउस्ल्य् बेलोन्ग्स् अन्द् इस् लिकेल्य् इन् थे ओरिगिनल्
वेर्सिओन्. Tहे समे गोएस् fओर् ओथेर् फ्रसेस् इन् बेत्wएएन् सुपेर्स्च्रिप्तेद् लेत्तेर्स् इन् थे
पस्सगे बेलोw.
[४७] अतः
[४८] मिश्रस्यापि
[४९] निर्देशोभयम्
[५०] ए. Nओत् इन् थे सेच्तिओन् ११७ वेर्सिओन्.
[५१] f. नोत् इन् थे सेच्तिओन् ११७ वेर्सिओन्.
[५२] Nओत् इन् थे सेच्तिओन् ८ वेर्सिओन्.
[५३] Nओत् इन् थे सेच्तिओन् ८ वेर्सिओन्.
[५४] Nओत् इन् ११७.
[५५] इन् सेच्तिओन् ११७ तमः
[५६] Nओत् इन् सेच्तिओन् ८.
[५७] Tहिस् सेएम्स् तो बे थे एन्द् ओf थे चोम्मोन् मतेरिअल्.
[५८] Tहिस् अप्पेअर्स् तो बे एविदेन्चे थत् ८ इस् थे ओरिगिनल् सोउर्चे ओf
थे मतेरिअल्, नोत् ११७. Tओ बे fओल्लोwएद्.
[५९] क्. Tहिस् सेच्तिओन् चन् बे fओउन्द् इन् RKAD १२-१३.
[६०] क्. Tहिस् सेच्तिओन् इस् fओउन्द् इन् RKAD १३-१४.
[६१] मुहूर्तादि इन् थे  वेर्सिओन्. Tहेरे इस् अनोथेर् वेर्से थत्
बेगिन्स् थिस् wअय् अत् ३.५.१८.
[६२] Dइस्चुस्सेद् अबोवे इन् Sएच्तिओन् ८५.

 

षट्-सन्दर्भ-नामक-
श्री-भागवत-सन्दर्भे तृतीयः
परमात्म-सन्दर्भः


तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ |
दाक्षिणात्येन भट्टेन प्नुअर् एतद् विविच्यते ||इ||
तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् |
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ||इइ||

[१]

अथ परमात्मा विव्रियते | अत्र तं जगद्-गत-जीव-निरूपण-पूर्वकं
निरूपयति द्वाभ्याम् -

क्षेत्रज्ञ एता मनसो विभूतीर्
जीवस्य माया-रचितस्य नित्याः |
आविर्हिताः क्वापि तिरोहिताश् च
शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः || [Bह्P ५.११.१२]

क्षेत्रज्ञ आत्मा पुरुषः पुराणः
साक्षात् स्वयं ज्योतिर् अजः परेशः |
नारायणो भगवान् वासुदेवः
स्व-माययात्मन्य् अवधीयमानः || [Bह्P ५.११.१३]

यः शुद्धोऽपि मायातः परोऽपि माया-रचितस्य वक्ष्यमाणस्य सर्व-
क्षेत्रस्य मायया कल्पितस्य मनसोऽन्तः-करणस्यैताः विभूतीर् वृत्तीर्
विचष्टे विशेषेण पश्यति, पश्यंस् तत्राविष्टो भवति, स खल्व् असौ जीव-नामा
स्व-शरीर-द्वय-लक्षण-क्षेत्रस्य ज्ञातृत्वात् क्षेत्रज्ञ उच्यते इत्य् अर्थः |

तद् उक्तम् -

यया संमोहितो जीवो
आत्मानं त्रिगुणात्मकं
परोऽपि मनुतेऽनर्थं
तत्-कृतं चाभिपद्यते || [Bह्P १.७.५] इति |

तस्य मनसः कीदृशतया माया-रचितस्य तत्राह - जीवध्य जीवोपाधितया
जीव-तादात्म्येन रचितस्य | ततश् च तत् तयोपचर्यमाणस्येत्य् अर्थः | ततश्
च कीदृशस्य, अविशुद्धं भगवद्-बहिर्मुखं कर्म करोतीति तादृशस्य |
कीदृशीर् विभूतीर् नित्या अनादित एवानुगताः |

अत्र स कदा कीदृशीर् इत्य् अपेक्षायाम् आह - जाग्रत् स्वप्नयोर् आविर्भूताः
सुषुप्तौ तिरोहिताश् चेति | यस् तु पुराणो जगत्-कारण-भूतः पुरुषः
आद्योऽवतारः पुरुषः परस्येत्य् आदि [Bह्P २.६.४१] द्वितीयादौ प्रसिद्धः |
साक्षाद् एव स्वयं ज्योतिः स्वप्रकाशो तनु जीववद् अन्यापेक्षया | अजो
जन्मादि-शून्यः | परेषां ब्रह्मादीनां अपीशः | नारं जीव-समूहः
स्वनियम्यत्वेनायनं यस्य सः | भगवान् ऐश्वर्याद्य्-अंशत्वात् | वासुदेवः
सर्व-भूतानाम् आश्रयः | स्व-मायया स्व-स्वरूप-शक्त्या आत्मनि स्व-
स्वरूपे अवधीयमानः अवस्थाप्य-मानः | कर्म-कर्तृ-प्रयोगः |
मायायां मयिकेऽप्य् अन्तर्यामितया प्रविष्टोऽपि स्वरूप-शक्त्या स्वरूपस्य एव
न तु तत्-संसक्त इत्य् अर्थः | वासुदेवत्वेन सर्व-क्षेत्र-ज्ञातृत्वात् सोऽपरः |
माया-मोहितात् जीवाद् अन्यः माया-रहितः शुद्धः | क्षेत्रज्ञः आत्मा
परमात्मेति |

तद् एवम् अपि मुख्यं क्षेत्रज्ञत्वं परमात्मन्य् एव | तद् उक्तम् -

सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो
न वेद सर्वज्ञम् अनन्तम् ईडे इति [Bह्P ६.४.२५] |

श्री-गीतोपनिषत्सु -

इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते |
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः || [Gईता १३.१]
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत |
क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम || [Gईता १३.१]

अत्र खलु क्षेत्रज्ञं चापि मां विद्धीति सर्वेष्व् अपि क्षेत्रेषु मां च
क्षेत्रज्ञं विद्धि, न तु जीवम् इव स्वक्षेत्र एव इत्य् एवार्थं वहति | न च
जीवेशयोः समानाधिकरण्येन निर्विशेष-चिद्-वस्त्व् एव ज्ञेयतया निर्दिशति |
सर्व-क्षेत्रेष्व् इत्य् अस्य विअयर्थ्यापत्तेः | ज्ञेयं यत् तत् प्रवक्ष्यामीत्य् आदौ
सर्वतः पाणि-पादं तद् सर्वतोऽक्षि-शिरो-मुखम् इत्य् [Gईता १३.१३] आदिना
सविशेषस्यैव निर्देक्ष्यमाणत्वात् | अमानित्वम् इत्य् आदिना ज्ञानस्य च
तथौपदेक्ष्यमाणत्वात् |

किं च क्षेत्रज्ञं चापीत्य् अत्र त्त्वम् असीतिवत् सामानाधिकरण्येन तन्-
निर्विशेष-ज्ञाने विवक्षिते क्षेत्रज्ञेश्वरयोर् ज्ञानम् इत्य् एवनानूद्येत न तु
क्षेत्र-क्षेत्रज्ञयोत् ज्ञानम् इति | किन्तु क्षेत्र-क्षेत्रज्ञयोर् इत्य् अस्यायम् अर्थः |
द्विव्दिहयोर् अपि क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं तन् ममैव ज्ञानं मतम् |
अन्यार्थस् तु परामर्श इति न्यायेन यज्-ज्ञानैकतात्-पर्यकम् इत्य् अर्थः |
ज्ञेयस्यैकत्वेनैव निर्दिष्टत्वात् योग्यत्वाच् च | न च निरीश्वर-साङ्ख्यवत्
क्षेत्र-क्षेत्रज्ञ-मात्र-विभागाद् अत्र ज्ञानं मतं ममेत्य्
अनेनेश्वरस्यावेक्षितत्वात् | न च विवर्त-वादवद् ईश्वरस्यापि भ्रम-मात्र-
प्रतीत-पुरुषत्वम् | तद्-वचन-लक्षण-सवेद-गीतादि-शास्त्राणाम्
अप्रामाण्याद् बौद्ध-वादापत्तेः | तस्यां च सत्यां बौद्धानाम् इव विवर्त-
वादिनां तद्-व्याख्यानायुक्तेः | न च तस्य सत्य-पुरुषत्वेऽपि निर्विशेष-
ज्ञानम् एव मोक्ष-साधनम् इति तदीय-शास्त्रान्तरतः समाहार्यम् |

एवं सतत-युक्ता ये [१२.१] इत्य् आदि पूर्वाध्याये निर्विशेष-ज्ञानस्य हेयत्वेन
विवक्षितत्वात् | तत्रैव च ये तु सर्वाणि कर्माणि इत्य् [१२.६] आदिनानन्य-भक्तान्
उद्दिश्य तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागराद् इत्य् [१२.७] अनेन तज्
ज्ञानापेक्षापि नादृतेति | तद् उक्तम् एकादशे स्वयं भगवता - यत् कर्मभिर्
यत् तपसेत्य् आदि [Bह्P ११.२०.३२] | मोक्ष-धर्मे च -
य वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये |
तया विना तद् आप्नोति नरो नारायणाश्रयः || इति |

अत्र तु पूर्वाध्याय-विश्लाघितं तद् एवावृथाकर्तुं सविशेषतया निर्दिश्य

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः
मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते || [Gईता १३.१८]

इत्य् अन्तेन भक्ति-संवलिततया सुकरार्थ-प्रायं कृतम् | अतएवात्र व्यष्टि-
क्षेत्रज्ञ एव भक्तत्वेन निर्दिष्टः समष्टि-क्षेत्रज्ञस् तु ज्ञेयत्वेनेति
क्षेत्र-ज्ञानाभ्यां सह ज्ञेयस्य पाठाद् अनुस्मार्य तद्-अनन्तरं च तस्य
तस्य च जीवत्वम् ईश्वरत्वं च क्षरं नेति दर्शितम् | यतः -

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृति-जान् गुणान् |
कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु || [Gईता १३.२१]

इति जीवस्य प्रकृतिस्थत्वं निर्दिश्य स्वतस् तस्याप्राकृतत्व-दर्शनया स्फुटम्
एवाक्षरत्वं ज्ञापितम् |

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः
परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः || [Gईता १३.२२]

इति जीवात् परत्वेन निर्दिष्टस्य परमात्माख्य-पुरुषस्य तु कैमुत्येनैव
तद् दर्शितम् |

द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च
क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते || [Gईता १५.१६]
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः
यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः || [Gईता १५.१७]

इत्य् अत्र जीवस्याप्य् अक्षरत्वं कण्ठोक्तम् एव | तत्रोपद्रष्टा परम-साक्षी,
अनुमन्ता तत्-तत्-कर्मानुरूपः प्रवर्तकः | भर्ता पोषकः | भोक्ता
पालयिता | महेश्वरः सर्वाधिकर्ता | परमात्मा सर्वान्तर्यामीति
व्याख्येयम् |

उत्तरपद्ययोस् तु | कूटस्थ एक-रूपतया तु यः काल-व्यापी स कूटस्थ इत्य्
अमरकोषाद् अवगतार्थः | असौ शुद्ध-जीव एव उत्तमः पुरुषस् त्व् अन्य इत्य्
उत्तरात् | तद् एवम् अत्रापि क्षेत्र-क्षेत्रज्ञ-सर्व-क्षेत्रज्ञा उक्ताः | अत्र
चोत्तरयोर् अन्य इत्य् अनेन भिन्नयोर् एव सतोर् अक्षरयोर्न तत्-तद्-रूपता-
परित्यागः सम्भवेद् इति न कदाचिद् अपि निर्विशेष-रूपेनावस्थितिर् इति
दर्शितम् | तस्मान् मद्-भावायोपपद्यते इति यद् उक्तं तद् अपि तत्-सार्ष्टि-
प्राप्ति-तात्पर्यकम्[*ENDNOTE #१] | तद् एवं द्वयोर् अक्षरत्वेन साम्येऽपि
जीवस्य हीन-शक्तित्वात् प्रकृत्य्-आविष्टस्य तन्-निवृत्त्य्-अर्थम् ईश्वर एव
भजनीयत्वेन ज्ञेय इति भावः |

तस्माद् इदं शरीरम् इत्य् आदिकं पुनर् इत्थं विवेचनीयम् | इदं स्व-
स्वापरोक्षम् इत्य् अर्थः | शरीर-क्षेत्रयोर् एकैकत्वेन ग्रहणम् अत्र व्यक्ति-
पर्यवसानेन जाति-पुरस्कारेणैवेति गम्यते | सर्व-क्षेत्रेष्व् इति बहु-
वचनेनानुवादात् | एतद् यो वेत्ति इत्य् अत्र देहो ऽसवो ऽक्षा-मनव इत्य् आदौ
सर्वं पुमान् वेद-गुणांश् च तज्-ज्ञः [Bह्P ६.४.२५] इत्य्-उक्त-दिशा क्षेत्रज्ञ एता
मनसो विभूतीर् इत्य्-उक्त-दिशा च जानातीत्य् अर्थः |

क्षेत्रज्ञं चापि मां विद्धीति | तद् उक्तम् -- विष्टभ्याहम् इदं कृत्स्नम्
एकांशेन स्थितो जगत् [Gईता १०.४२] | यत्र गत्य्-अन्तरं नास्ति तत्रैव लक्षणा-
मय-कष्टम् आश्रीयेत | तथापि तेन सामानाधिकरण्यं यदि विवक्षितं
स्यात् तर्हि क्षेत्रज्ञं चापि मां विद्धीत्य् एतावद् एव तं च मां विद्धीत्य्
एतावद् एव वा प्रोच्येत, न तु सर्व-क्स्रेषु भारतेत्य् अधिकम् अपि | किन्तु
क्षेत्रज्ञ एता मनसो व्भूतीर् इत्य् आदिवत् क्षेत्रज्ञ-द्वयम् अपि वक्तव्यम् एव
स्यात् |

तथा च ब्रह्म-सूत्रं गुहां प्रविष्टावात्मानौ हि तद्-दर्शनाद् इति [Vस्
१.२.११] तद्-वैध्यम् एव चोपसंहृतम् | पुरुषः प्रकृतिस्थो हीत्य् आदिना |
तस्माद् उपक्रमार्थस्योपसंहाराधीनत्वाद् एष एवार्थः समञ्जसः |
यथोक्तं ब्रह्म-सूत्र-कृद्भिः - असद् व्यपदेशान् नेति चेन् न
धर्मान्तरेण वाक्य-शेषाद् इति [Vस् २.१.१७] |

अथ क्षेत्र-क्षेत्रज्ञयोर् ज्ञानम् इत्य् अत्र यत् क्षेत्रे ज्ञानेन्द्रिय-गतं चेतना-
गतं च ज्ञानं दर्शयिष्यते यच् च पूर्व-क्षेत्र-ज्ञे निज-निज-क्षेत्र-ज्ञानं
दर्शितं तत् तत् मज्-ज्ञानांशस्य क्षेत्रेषु च्छाया-रूपत्वात् क्षेत्र-ज्ञेषु यत्
किञ्चिद् अंशांशतया प्रवेशान् ममैव ज्ञानं मतम् इति | तस्मात् साधूक्तं
मुख्यं क्षेत्रज्ञत्वं परमात्मन्य् एवेति |

अत्र श्री-भगवतः परमात्म-रूपेणाविर्भावोऽपि | अजनि च यन् मयं तद्-
अविमुच्य-नियन्तृ भवेद् इत्य्-उक्त-दिशा [Bह्P १०.८७.३०] शक्ति-विशेषालिङ्गित्वाद्
यस्माद् एवांशाज् जीवानाम् आविर्भावस् तेनैवेति ज्ञेयम् | तद् उक्तं तत्रैव
विष्टभ्याहम् इत्य् आदि | श्री-विष्णु-पुराणे च -

यस्यायुतांशांशे विश्व-शक्तिर् इयं स्थिता |
पर-ब्रह्म-स्वरूपस्य प्रणमाम तम् अव्ययम् || इति [VइP १.९.५३]

पूर्ण-शुद्ध-शक्तिस् तु कला-काष्ठा-निमेषाद् इत्य् अनेन दर्शिता | तथा श्री-
नारद-पञ्चरात्रे --

नारद उवाच -
शुद्ध-सर्गम् अहं देव ज्ञातुम् इच्छामि तत्त्वतः |
सर्ग-द्वयस्य चैवस्य यः परत्वेन वर्तते ||

तत्रैतत् पूर्वोक्तः प्राधानिकः शाक्तश् चेत्य् एतत् सर्गद्वयस्येति ज्ञेयम् |

श्री-भगवान् उवाच -
यः सर्व-व्यापको देवः पर-ब्रह्म च शाश्वतम् |
चित्-सामान्यं जगत्य् अस्मिन् परमानन्द-लक्षणम् ||
वासुदेवाद् अभिन्नस् तु बह्न्-अर्केन्दु-शत-प्रभम् |
वासुदेवोऽपि भगवांस् तद्-धर्मा परमेश्वरः ||
स्वां दीप्तिं क्षोभयत्य् एव तेजसा तेन वै युतम् |
प्रकाश-रूपो भगवान् अच्युतं चासकृद् द्विज ||
सोऽच्युतोऽच्युत-तेजाश् च स्वरूपं वितनोति वै |
आश्रित्य वासुदेवं च स्वस्थो मेघो जलं यथा ||
क्षोभयित्वा स्वम् आत्मानं सत्य-भास्वर-विग्रहम् |
उत्पादयामास तदा समुद्रोर्मि-जलं यथा ||
स चिन्मयः प्रकाशात्मा उत्पाद्यात्मानम् आत्मना |
पुरुषाख्यम् अनन्तं च प्रकाश-प्रसरं महत् ||
स च वै सर्व-जीवानाम् आश्रयः परमेश्वरः |
अन्तर्यामी च तेषां वै तारकाणाम् इवाम्बरम् ||
सेन्धनः पावको यद्वत् स्फुलिङ्ग-निचयं द्विज |
अनिच्छातः प्रेरयति तद्वद् एव परः प्रभुः ||
प्राग्-वासना-निबन्धानां बन्धानां च विमुक्तये |
तस्माद् विद्धि तद्-अंशांशस् तान् सर्वांशत्वम् अजम् प्रभुम् || इति |

अतएव यत् तु ब्रह्मादौ श्री-प्रद्युम्नस्य मन्वादौ श्री-विष्णोः, रुद्रादौ
श्री-सङ्कर्षणस्यान्तर्यामित्वं श्रूयते तन् नानांशम् आदायावतीर्णस्य
तस्यैव तत्-तद्-अंशेन तत्-तद्-अन्तर्यामित्वम् इति मन्तव्यम् | अतएव रुद्रस्य
सङ्कर्षण-प्रकृतित्वं पुरुष-प्रकृतित्वं चेत्य् उभयम् अप्य् आम्नातं
प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञां भव उपधावतीत्य् आदौ [Bह्P ५.१७.१६]
आदाव् अभूच् छत-धृतिर् इत्य् आदौ च [Bह्P ११.४.५] | एष एव--

भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् |
आत्मा च परमात्मा च त्वम् एकः पञ्चधा स्थितः ||

इत्य् [VइP ५.१८.५०] आदौ विवृतम् | तस्मात् सर्वान्तर्यामी पुरुष एव ब्रह्मेति
परमात्मेतीत्य् आदौ परमात्मत्वेन निर्दिस्ट इति स्थितम् | व्याख्यातं च
स्वामिभिः | नमस् तुभ्यं भगवते ब्रह्मणे परमात्मन [Bह्P १०.२८.६]
इत्य् अत्र वरुण-स्तुतौ | परमात्मने सर्व-जीव-नियन्त्रे इति | अस्य
परमात्मनो मायोपाधितया पुरुषत्वं तूपचरितम् एव | तद् उक्तं
वैष्णवे एव -

नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति
वृद्धिर् न यस्य परिणाम-विवर्जितस्य |
नापेक्षयं च समुपैत्य विकल्प-स्वस्तु
यस् तं नतोऽस्मि पुरुषोत्तमम् आद्यम् ईड्यम् || [VइP ६.८.६०]

तस्यैव योऽनुगुण-भुग् बहुधैक एव
शुद्धोऽप्य् अशुद्ध इव मूर्ति-विभाग-भेदैः |
ज्ञानान्वितः सकल-सत्त्व-विभूति-कर्ता
तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय || [VइP ६.८.६१] इति |

तस्यैवानुपूर्वोक्तात् परमेश्वरात् समनन्तरम् | बहुधा ब्रह्मादि-
रूपेण | अशुद्ध इव सृष्ट्य्-आदिष्व् आसक्त इव | मूर्ति-विभागानां दक्षादि-
मन्व्-आदि-रूपाणां भेदैः | अर्व-सत्त्वानां विभूतीकर्ता विस्तारकृत् इति
स्वामी |

तत्र गुण-भुग् इति षाड्-गुण्यानन्द-भोक्तेत्य् अर्थः |

यत् तत् सूक्ष्मम् अविज्ञानम् अव्यक्तम् अचलं ध्रुवम् |
इन्द्रियैर् इन्द्रियार्थैश् च सर्व-भूतैश् च वर्जितम् ||
स ह्य् अन्तरात्मा भूतानां क्षेत्रज्ञश् चेति कथ्यते |
त्रिगुण-व्यतिरिक्तो वै पुरुषश् चेति कल्पितः || [MBह् १२.३२१.२८-२९]

इति मोक्षधर्मेऽपि नारायणीयोपाख्याने | श्रुतयोऽप्य् एनं शुद्धत्वेनैव
वर्णयन्ति

एको देवो सर्व-भूतेषु गूढः
सर्व-व्यापी सर्व-भूतान्तरात्मा |
कर्माध्यक्षः सर्व-भूताधिवासः
साक्सी चेताः केवलो निर्गुणश् च || [Śवेत्U ६.११] |

अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमाना सरूपाः |
अजो ह्य् एको जूषमाणोऽनुशेते जहात्य्
एनां भुक्त-भोगाम् अजोऽन्यः || इत्य् आद्याः [Śवेत्U ४.५]

तस्मात् साधु व्याख्यातं क्षेत्रज्ञ एता इत्य् आदि-पद्य-द्वयम् ||

|| ५.११ || श्री-ब्राह्मणो रहूगणम् || १ ||

[२]

अथ तस्याविर्भावे योग्यता-प्राग्वद् भक्तिर् एव ज्ञेया | आविर्भावस् तु त्रिधा
यथा नारदीये तन्त्रे[*ENDNOTE #२] -

विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः |
एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् |
तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ||

अत्र प्रथमो यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति स
ऐक्षतेत्याद्युक्तेः | महा-समष्टि-जीव-प्रकृत्योर् एकतापन्नयोर् द्रष्टेत्य्
एक एव | अयम् एव सङ्कर्षण इति महाविष्णुर् इति च | ब्रह्म-संहितायां
यथा --

तल्-लिङ्गं भगवान् शम्भुर् ज्योती-रूपं सनातनम् |
तस्मिन्न् आविरभूल् लिङ्गे महा-विष्णुर् जगत्-पतिः || [Bरह्मS ५.८]

सहस्र-शीर्षा पुरुष इत्य् आरभ्य [Bरह्मS ५.११]

नारायणः स भगवान् आपस् तस्मात् सनातनात् |
आविरासन् कारणार्णोनिधिं सङ्कर्षणात्मकः |
योग-निद्रां गतस् तस्मिन् सहस्रांशः स्वयं महान् || [Bरह्मS ५.१२]
तद्-रोम-बिल-जालेषु बीजं सङ्कर्षणस्य च |
हैमान्य् अण्डानि जातानि महा-भूतावृतानि तु || ईत्य् आदि [Bरह्मS ५.१३]

लिङ्गम् इति यस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थितेत्य् [VइP १.९.५३]
अनुसारेण तस्य महा-भगवतः श्री-गोविन्दस्य पुरुषोत्पादकत्वाल् लिङ्गम्
इव लिङ्गं यः खल्व् अंअ-विशेषस् तद् एव शम्भुः | शम्भु-शब्दस्य
मुख्याया वृत्तेर् आश्रय इत्य् अर्थः |

अथ द्वितीय-पुरुषस् तत् सृष्ट्वा तद् एवानुप्रविशद् इत्य् आद्य् उक्तः समष्टि-
जीवान्तर्यामी | तेषां ब्रह्माण्डात्मकानां बहु-भेदाद् बहु-भेदः |
तत्रैव सूक्ष्मान्तर्यामी प्रद्युम्नः स्थूलान्तर्याम्य् अनिरुद्ध इति क्वचित् |
अनेन महा-वैकुण्ठ-स्थाः सङ्कर्षणादयस् तद्-अंशिनः | ये तु चित्ताद्य्-
अधिष्ठातारो वासुदेवादयस् ते तद्-अंशा एवेत्य् आदि विवेचनीयम् |

तृतीयोऽपि पुरुषः --

द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते |
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्
अनश्नन्न् अन्यो ऽभिचाकशीति || [Ṛग्-वेद १.१६३.२०, Mउण्ड्U ७.१.१]

इत्य्-आद्य्-उक्तो व्यष्ट्य्-अन्तर्यामी | तेषाम् बहुभेदाद् बहुभेदः |

तत्र प्रथमस्याविर्भावो यथा आद्योऽवतारः पुरुषः परस्येति [Bह्P २.६.४१] |
टीका च परस्य भूम्नः पुरुषः प्रकृति-प्रवर्तकः | यस्य सहस्र-शीर्षेत्य्
आद्य् उक्तो लीला-विग्रहः स आद्योवतारः | इत्य् एषा || अत्र चान्यत्र चावतारत्वं
नामैक-पाद-विभूत्