close

  • अधिकरणचिन्तामणिः

             अधिकारण-चिन्तामणि

विषयानुक्रमणिकाः

प्रथमोऽध्यायः।

          प्रथम पादः       द्वितीय पादः     तृतीय पादः      चतुर्था पादः    

दितीयोऽध्यायः।

          प्रथम पादः       द्वितीय पादः     तृतीय पादः      चतुर्था पादः    

तृतीयोऽध्यायः 

          प्रथमपादः     द्वितीय पादः    तृतीय पादः चतुर्था पादः

चतुर्थोऽध्यायः ।

          प्रथम पादः   द्वितीय पादः   तृतीय पादः  चतुर्था पादः

               -------- -------  -------   ------- ------

                      श्रीः

॥श्रीमते लक्ष्मीनृसिम्हपरब्राहृणे नमः॥

1. वेदान्ताचार्यसूनुः सकलगुणनिधिर्वादिदर्पोपहन्ता

 विश्वामित्रान्ववाये समुचितनिमान्सर्वतन्त्रस्वतन्त्रः।

 शास्त्रे ब्राहृप्रधाने स्वगुरुविरचिताधिक्रियासारपङ्क्ते

 श्चिन्तामण्याख्याटीकां वरदगुरुरयं सुग्रहामातनोति।

इह खलु श्रीमान्वेदान्ताचार्यः शारीरकशास्त्राधिकरणेषु सारतमार्थसंग्राहकपद्यावलीरूपप्रबन्धनिर्माणेन

स्वस्य श्रीरङ्गराजदिव्याज्ञालब्धवेदान्ताचार्यसंज्ञामन्वर्थयितुमारिप्सितस्यप्रबन्धस्यविघ्नपरिसमाप्तिप्रचयगमनार्थमाशीर्वारूपं मङ्गलमाचरति- स्वस्तीति । स्वस्त्याशीः क्षेमपुण्यादाविति निघण्टुपाठात्स्स्वस्तिशब्द आशीर्वादपरः। क्षेमप्राप्त्यादिः सर्वविधाप्याशीरस्त्वित्यर्थः। ननु श्रीभाष्यादिप्राचीनप्रबन्धस्य विद्यामानत्वात्

किमपूर्वग्रन्थनिर्माणनेत्यत्राह-- श्रीरङ्गभर्तुरिति। अयमर्थः श्रीरङ्गराजादिव्याज्ञारूपं (शासनं) दधदहं तत्प्रसादलब्धसर्वार्थज्ञानवान्। तत्प्रसत्यै तत्प्रसादार्थम्। सत्यैकालम्बीति --सत्यैकालम्बिभाष्यम्।

उभयविभूतिविशिष्टस्यानन्तकल्याणगुणाकरस्य ब्राहृणः सत्यत्वमात्रप्रतिपादकं भाष्यम्। शश्वदध्याप्यानन्तरं पद्यावलीरूपप्रबन्धनिर्माणमिति न तत्परित्यागदोषः। ननु भगवदाज्ञापरिपालनस्य शश्वद्भाष्याध्यापनेनैव सिद्धत्वात् ग्रन्थारम्भो व्यर्थ इत्याशङ्कां परिहरति --- विश्वमिति । 'ज्ञ्टट्ठफ़्टप्र् ज्ञ्त्र्द्रत्थ्र्त्द्मद्वक़ज्ञ्ढ़द्मदध्ज्ञ् , ज्ञ्रूठद्मढ़त्र्न्र्ठ्ठद्मड्ढत्द्य व्याक्रियत' इत्यत्र प्रसिद्धेन निखिलजगन्नामरूपनिर्वाहकेन दगत्सृष्ट¬ादिरूपक्रियायुक्तेन भगवता दत्तां वेदान्याचार्यसंज्ञावहितबहुवित्सार्थं सावधानीकृतविद्वत्सङ्घं यथा तथाऽन्वर्थयामि। अयमर्थः ---- वेदान्तशास्त्रं सम्यगभिवर्धयेति श्रीरङ्गनाथस्य दिव्याज्ञां शिरसि निधाय तत्प्रसादार्थं यतिपति प्रणीतं सत्यैकालम्भिभाष्यं युक्तानास्तिकान्सर्वान् शश्वदद्याय सकलदगन्नामरूपनिर्वाहकेन तेनैव श्रीरङ्गनाथेन विरचितां वेदान्ताचार्यसंज्ञां सकलविद्वज्जन.........तुं

शारीरकाधिकरणसारार्थसंग्राहकपद्यावलीरूप्रबन्धनिर्माणमिति । ........प्रबन्धस्य निरतिशयभोग्यत्वेन शारीरकशास्त्राधिकरणाना मुपकारकत्वविशेषेण? ...।। 1।।

2. (श्रीमद्भ्यामिति ) स्वाचार्यो ज्र्ञानादिसमृद्धिः सूचिता। वरदाचार्यरामानुजाभ्यां सम्यग्दृष्टेनेत्यनन-

  "ईश्वरस्य च सौहार्दं यदृच्छासुकृतं तथा। विष्णोः कटाक्षमद्वेषमाभिमुख्यम च सात्त्विकैः।।

 संभाषणं षडेतानि ह्राचार्यप्राप्तिहेतवः।।'

 इत्याचार्यकटाक्षस्य भगवत्कटाक्ष हेतुत्वं .............. स्वस्य तादृशत्वसिद्ध्यर्थं सम्यग्दृष्टत्वोक्तिः।

द्रष्टृतुल्यगुणवत्त्वं तद्दृष्टिविषयस्य

 'जायमानं हि पुरुषं यं पश्येन्मधुसूदनः। सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः।।

इत्यनेन सिद्धम्। सम्यग्दर्शनकार्यमाह--- सर्वंसहनिशितधियेति एतेन स्वस्य शान्तियुक्तत्वं धियः सूक्ष्मविषयत्वं चोक्तम्। सर्वंसहत इति सहसहः। निशिता धीर्यस्य निशितधीः ।सर्वंसहश्चासौ निशितधीश्चेति कर्मधारयः। यद्वा धियः सर्वंसहत्वं सर्वविषयत्वम्। प्रबन्धस्य परिग्राह्रत्वसिद्ध्यर्थमाह--- वेङ्कटेशेनेति।

क्लृप्तः--- सारार्थनिष्कर्षेणोपकारविशेषार्थं परिक्लृप्तः। एवं च परिग्राह्रत्वे हेतुरुक्तः। अथ परिशीलनीयत्वमाह--सेव्य इति। असौ--सारार्थसंग्राहकपद्यावसीरूपः प्रबन्धः। शान्तचित्तैरिति-- अनेन 'सारासारविवेकज्ञा गरीयांसो विमत्सराः' इत्युक्तं विमत्सरत्वं द्योत्यते। शान्तपित्तस्य (हि) क्षीरास्वाद्यताबुद्धिः।

श्रवणमेव रसनेति रूपकम्।. दुग्धराशिपक्षे रसनया।सेव्यत्वं हि तत्प्रबन्धपरिशीलनम्। ........र्थिभिश्च सेव्यत्वमाह--- शान्तिलाभार्थिभिर्वेति । अस्तु वक्तृवैलक्षण्यम्, तथाप्य(नुपा)देयत्वमेव स्यादित्यत्राह-- सिद्ध- शारीरकार्थ इति। जगच्छरीरः परमात्मा शारीरः। तत्प्रति पादकं शास्त्रं शारीरकं तस्य सारतमार्थ संग्राहकत्वेन

सिद्धत्वान्नासदर्थप्रतिपादकत्वमित्यभिप्रायः। अस्तु वक्तृवैलक्ष्यण्यं प्रबन्धवैलक्ष्यञ्च, तथाप्यनपेक्षितार्थकथनपुनरुक्त्वादिदोषदुष्टत्वे परित्याज्यत्वमेव स्यादितीमामाशङ्कां परिहरति --

इति। रुाग्धरापक्षे समीचीनगुणयुक्तत्वादयः सहजबहुगुणाः। दुग्धराशिपक्षे माधुर्यादयो गुणाः। अत्रापि रुाग्धरैव दुग्धराशिरिति रूपकम् । अयमत्रवाक्यार्थः--- ज्ञानादिपरिपूर्णयो रामानुजवरदाचार्ययोर्दिव्यकटाक्षेण सम्यग्ज्ञानवता

वेङ्कटेशेन शारीरकाधिकरणार्थसंग्राहकत्वेन प्रणीतोऽयं प्रबन्धः शान्तपित्तैः क्षीरमिव मुमुक्षया शारीरकशास्त्राधिकर्तृभिरुपकारकत्वविशेषेणान्वहं परिशीलनीय इति। रुाग्धरादुग्धराशिरिति-- अत्र 'म्रभ्नै'रिति लक्षणात्।। 2।।

3. कोयमस्य प्रबन्धस्य शारीरकशास्त्राधिकर्तृणामुपकारकत्वप्रकारविशेष इत्याशङ्क्य तद्विशेषमेव दृष्टान्यविशेषोपादानेन विशदं प्रकाशयति-- पौनरुक्त्यम्---प्रयोजनमन्तरेण पुनरभिधानम्। कश्चिन्मन्यते-

पूर्वकाण्डप्रतिपादितैरेव न्यायैर्वेदान्तवाक्यानामपि निर्णीतार्थत्वात् किमनेन शारीरकशास्त्रेणेति। सोऽपि प्रतिक्षेप्य एव। यद्यपि वेदान्तशास्त्रं पूर्वकाण्डप्रणीतन्यायोपजीवनेन तत्र तत्र प्रवर्तते, तथापि तत्तदधिकरणप्रसक्तपूर्वपक्ष युक्तिविशेषापनोदनमन्तरेण वेदान्तार्थनिर्णयोऽपि न सेत्स्यति तानितान्यधिकरणानीह सफलानीति न पौनरुक्त्याशङ्कावकाशः। अन्यथा प्रकृतिषट्कोपात्तन्यायोपजीवनात् विकृतिषट्कमपि परित्याज्यं स्यात्। एवमुक्तबाधादिशङ्कापि परिहर्तव्या। यथा-- 'आम्नायस्य क्रियार्थत्वात्' इत्यत्रार्थवादानां विधिशेषत्वेनैव प्रामाण्यमभ्युधायि, समन्वयाधिकरणे स्वातन्त्र्येणापि, सतूक्तबाध एव कर्मब्राहृकाण्डयोरेकशास्त्रत्वात्। अत्रोत्तरम्--

अर्थवादाधिकरणे हि अर्थवादसामान्यस्य विध्येकवाक्येन शेषत्वेन प्रामाण्यं समर्थितम्। अत्र तु ब्राहृविषयार्थवादानां स्वातन्त्रेण प्रामाण्यमिति सामान्यविशेषभावान्न बाधप्रसंगोऽपि। विस्तरस्तु भाष्ट एवानुसंधेयः।

मन्दत्वम्-- अल्पप्रयोजनत्वं युक्तिदौर्बल्यञ्च। असंगतत्वम्--काण्डद्विकाध्यायपादपेटिकाधिकरणसूत्रसंगत्यभावः।

विशयः-- काण्डविशेषसंशयानुच्छेदः। अफलता -- नैष्फल्यम्। निष्प्रयोजनत्वं अनपेक्षितप्रयोजनत्वं वा। मानबाधः-- प्रत्यक्षादिप्रमाणान्तरबाधनम्। एतादृशान् दोषानपन्यायमूलत्वेनाशङ्कमानान् अल्पबुद्धीन् अन्धतमसावृते जगति दिङ्मोहक्षोभेण बंभ्र्म्यमाणान् प्रति, उषसि समुज्जिहाना दिनकरकिरणश्रेणिकेव ह्मद्येयं

पद्यावली धिनोतु सन्तुष्टान् करोत्विति श्लोकार्थः। मानबाधं च मन्तृनिति 'कर्तृकर्मणोः कृति' इति प्राप्तस्य

षष्टीप्रयोगस्य 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' इति तृन्प्रयोगेण प्रतिक्षेपात् प्रयुज्यते द्वितीयैव। अत्र तृनस्ताच्छील्यमेवार्थः परिगृह्रते, तामसबुद्धीनां हि तत्त्वाप्रतिपत्तेरेव विप्रतिपत्तेरेव वा स्वाभाव्यादिति भावः।।3।।

 4. अत्र कश्चिदप्रतिपत्तिविप्रतिपत्तिनिवारणरूपप्रतिज्ञाहान्यादिनिग्रहस्थानानि पुनश्चोदयति तत्र खलु पञ्चाशदधिका पञ्चशती रुाग्धराणां खलु  भवद्भिरारचिता, शारीरकशास्त्रं खलु भगवता बोधायनेन दशलक्षरूपेण वृत्तिग्रन्थेन विस्तृतम्, तद्द्विगुणेन कर्मभागोऽपि विस्तृतः स एव भवतां शास्त्रप्रवर्तकः, तेनानेन कार्त्स्न्येन शास्त्रार्थो न विव्रियते, नाप्येकदेशेन -- शिष्याणामाकाङ्क्षाप्रशमनाभावादिति। अत्रोत्तरमाचष्टे-- गम्भीर इत्यादिना। अतिगम्भीरे ब्राहृभागे निखिलमपि प्रमेयजातं गणयितुं साक्षात्परब्राहृणः सकाशात् श्रुतसकलवेदार्थः कः पितामह एव शक्नोतीत्यर्थः। तेनैवं शङ्कमानस्य भवतः पितामहदवराणां व्यासादीनां शारीरकशास्त्रप्रवर्तनाधिकारो न स्यादिति प्रतितर्कबाधः।अथवा किं शब्दः प्रतिक्षेपे। कः प्रभुः प्रभुर्नास्ति पितामहोऽपि न प्रभुरित्यर्थः। एवं सति पितामहादयोऽपि दिङ्मात्रं प्रदर्शयन्तीति भवतापि परिहर्तव्यम्। अहमपि

शारीरकशास्त्रस्य प्रधानार्थमल्पीयसा ग्रन्थेन गुणतो गरीयसा प्रकाशयामीति निपुणैरध्यायशास्त्रप्रवर्तकैः शुश्रूषुभिः प्राध्वमानुकूल्येनाध्यक्षणीयः--- ग्राह्र इत्यर्थः। अमुमर्थमनुकूलदृष्टान्तोपादानेन प्रकाशयति-- मा भूदित्यादिना। दुग्धार्णवमथने लक्ष्मीमणिवरसुरभिसुधाकराद्युपलम्भनहेतौ कौस्तुभादयः कतिचन मणय एवोपलब्धा नतु सकलमपि रत्नजातं नोपलभ्यते तथापि गुणविदः मण्याधइक्यावेदिनः, अथवा मुक्ताहारगुणवेदिनो हारमध्ये निधेयं लब्धं मौक्तिकं स्फीतनिस्सीमरत्ने किमब्धावेव जहति न जाहातीत्यर्थः।

तेनायमर्थस्सम्पद्यते परिमितग्रन्थत्वेऽपि सर्वार्थसिद्ध्यभावेऽपि प्रधानार्थपरिशोधनात् अयं ग्रन्थस्संग्राह्रतम इति। मध्येहारम् --'पारेमध्ये षष्ट¬ा वा' इति समासः।।4।।

5. एवं स्वग्रन्थस्योपादेयत्वमुक्त्वा प्रारीप्सितग्रन्थप्रतिपाद्यस्य ब्राहृकाण्डस्य त्रिकाण्डीरूपमीमांसाशास्त्र उपरितनभागरूपत्वात् तत्पूर्वकाण्डप्रतिपाद्ययोः कर्मदेवतयोः स्वरूपमेव तावत् अवान्तरविभागेन दर्शयति --वेदार्थ

इति। अयमर्थः-- त्रिकाण्डी खलु मीमांसा, तस्याश्च शास्त्रैक्यं विषयैक्यात् प्रयोजनैक्यात् प्रवृत्तिप्रकारैक्याच्चेति

त्रय्यन्तविदां निर्णयः। तत्र विषयैक्यं वेदार्थस्यैकस्यैव मीमांसाशास्त्रेण चिन्तनीयत्वात्, तन्निर्णयस्यैव प्रयोजनैक्यमपि सिद्धं भवति। न्यायचिन्त्य इति --- प्रवृत्तिप्रकार उच्यते।वेदवाक्यनिर्णयफलकन्यायसमुदायो हि मीमांसा। यदाहुः--- 'धर्मे प्रमीयमाणे हि वेदेन करणात्मना। इतिकर्तव्यताभागं मीमांसा पूरयिष्यति।।' इति।

तत्र प्रथमकाण्डार्थं दर्शयति- प्रथममधिगत इत्यादिना प्रसक्त्येत्यन्तेन। तदुक्तभियुक्तैः---

'धर्मधीर्मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः। सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः।।' इति।

तत्र भ्रमणं 'चोदनालक्षणोऽर्थो धर्मः' इत्यादिभिः प्रतिपादितः स्मृत्याचारोपबृंहितो वेदः। कर्मणां भेदस्तु शब्दान्तरादिभिर्द्वितीयलक्षणे निर्णीयते। तत्रपुनर्भेदलक्षणे शास्त्रभेदश्चिन्त्यत इत्येकदेशिनः। तृतीये श्रुतिलिङ्गादिभिरङ्गाङ्गिभावचिन्तनं क्रियते। एतच्चाध्यायत्रितय प्रतिपादितन्याय जातुमुत्ररत्र सर्वत्राप्युपकरोति

त्यध्यायत्रितय विवरणरूपसकलमपि शास्त्रमिति मन्यव्यमन्तेवासिभिः। एवमङ्गाङ्गिभावेनान्वितानां कर्मणां प्रयोज्यप्रयोजकभावचिन्तनं चतुर्थे क्रियते। किमिदं कर्म क्रतुप्रयुक्तमुत पुरुषप्रयुक्तम्। अङ्गानि क्रतुप्रयुक्तानि, अङ्गि तु पुरुषार्थत्वात् पुरुषप्रयुक्तमिति। लिङ्गादीनां स्वरूपं तदुपयोगश्च सेश्वरमीमांसायामाचार्यैरेव विस्तरेण प्रतिपादितमिति न विव्रियतेऽस्माभिः। क्रमस्तु अनुष्टेयानां कर्मणामनुक्रमः। सच श्रुत्यर्थपाठकाण्डमुख्य

प्रवृत्तिभेदेन षड्विधः प्रमाणगम्यः। यथाहुः'श्रुत्यर्थपठनस्थानमुख्यप्रावृत्तिकाः क्रमाः'। इति। अथाधिकृत्येति ---

कर्मणामधिकार्यभिधीयते। अधिकारीच स्वर्गस्वाराज्यपशुपुत्रादिकामनाविशिष्टः काम्ये, नित्यनैमित्तिकयोस्तु तत्तन्निमित्तविशिष्टः। निययनिमित्तं नित्यम्, अनियतनिमित्तं नैमित्तकम्,इति विभागमाहुस्तन्त्रज्ञाः।अतिदिष्ट¬ेति

द्वौ खलु भागौ कर्मकाण्डस्य-- उपदेशभागोऽतिदेशभागश्चेति।तेनोपदेशषट्कमिति कौमारिलानामालापः। उपदेशषट्कं कार्यषट्कमिति प्राभाकराः। तत्र कार्यमिति 'कृतिसाध्यं प्रधानं यत्तत्कार्यमभिधीयते' इत्यापादचूडम्

अशेषमीमांसाप्रतिपाद्यतयाऽभिमतं कार्यं न भवति। अपितु अतिदिष्टार्थविषयोपकारमात्रमेव। तेनोत्तरषट्क एव तत्सिद्धिः। अतिदेशस्तु- एकत्र सिद्धार्थस्यान्यत्रप्युपयोजनम्।सचातिदेशो द्विविधः 'प्रकृतिवद्विकृतिः कर्तव्या' इति

सामान्यातिदेशः, 'समानमितरच्छ्येनेन' इत्यादिभिर्विशेषातिदेशः। सपुनरष्टमलक्षणे द्रष्टव्यः। तदिदमाह-- तत्राशेषै रिति। श्रुत्यादिभेदेनातिदेशकारणानां बहुत्वा दशेषैरिति विशेषणं बहुवचनं च। तदन्वित्यष्टमादुपरितत्वमुच्यते,नवमलक्षण इत्यर्थः। तदनुवत्र्यहत इति --ऊहबाधादीनां विशेषातिदेशानुवर्तित्वं आह। ऊहो नाम 'अग्नये जुष्टं निर्वपामि' इत्यादिमन्त्रस्य तत्तत्कर्मानुरूप्येण 'सूर्याय जुष्टं निर्वपामि' इत्यादिविपरिणामविशेषः। प्राप्ताबाधैरिति-- बाधो हि द्विविधः-- अप्राप्तबाधः प्राप्तबाधश्चेति, अप्राप्तबाधस्तु-- श्रुतिलिङ्गाधिकरणे सिद्धः 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्' इति। अत्र हि प्रमाणप्रवृत्तिझाटित्यवमेव प्राबल्यम्। तेन प्रथमप्रवृत्त्या श्रुत्या चरमप्रवृत्तानामवघातादीनामर्थानां बाध उच्यते--प्रतीतिविलम्बात्। अतः पूर्वप्रवृत्तैः श्रुत्यादिभिस्तस्मिन् कालेऽप्रप्तानां लिङ्गादिसिद्धानामवघआतादीनाम्

अर्थानां बाधोऽप्राप्तबाधः। प्राप्तबाधस्तु दाशमः 'प्रकृतिवद्विकृतिः कर्तव्या' इति चोदनाप्रप्तानामवघातादीनाम् उरकाराभावेन कृष्णलादिषु बाधात्। तन्त्रेणेति-- देशकालकत्रैक्यादेकेनैवानुष्ठानेनोभयसिद्धिः। एतत्तु लोके वेदेच प्रसिद्धमेव। प्रसक्त्येति-- एकस्यावश्यकर्तव्यानुष्ठानात् नान्तरीयकेतरसिद्धिः। यथा-- आमिक्षायमगप्रसङ्गाद्वाजिनयागानुष्ठानम्। श्रूयते हि--'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्' इति। अयमर्थः-- आमिक्षार्थमेव दध्यायनं नतु वाजिनार्थम्, तेन न वाजिनयागे दध्यानयनं क्रियत इति। एवं कर्मकाण्डद्वादशलक्षणीविभागो दर्शितः। समनन्तरं देवताकाण्डचतुर्लक्षणीविभाग उच्यते-- तत उपरीति।

स्वरूपमादौ तद्भेदस्तदपपासनपूर्वकम्। फलं च देवताकाण्डे देवतानां तु कथ्यते।।5।।

6. एवं काण्डद्वयार्थप्रक्रियामुक्त्वा तदनन्तरं तृतीतकाण्डप्रवृत्तिप्रक्रियां सहेतुकमभिधाय शारीरकशास्त्रप्रवर्तक

प्रधानार्थं प्रदर्शयन् भाष्यकारोक्तक्रमेण कर्मकाण्डश्रवणात् प्रागेव वेदान्तश्रवणप्रवृत्तिमाशङ्क्य प्रतिबन्द्या परिहरति

-- प्राग्धर्म इति। वेदाध्ययनानन्तरं साङ्गाध्ययनसामथ्र्यात् संस्कृतप्रायदेशवासाच्च आपातप्रतीत्या सर्वत्र वेदार्थो

संशयो जायते-- कर्मकाण्डे 'अपाम सोमममृता अभूम' 'अक्षय्यं हवै चातुर्मास्ययाजिनस्सुकृतं भवति' इत्यादिभिरनन्तस्थिरफलत्वमापाततः प्रतीयते। साचापातप्रतीतिरावृत्तिविधानादिभिः 'अतोऽतो वा उत्तराणि श्रेयांसि

भवन्ति' इत्यादिश्रुत्या च सम्यक्कर्मनिरूपणानन्तरं निवर्तते 'ब्राहृविदाप्नोति परम्' 'ब्राहृ वेद ब्राहृैव भवति'

'पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति' इत्याद्यौपनिषदवाक्यजनितापातप्रतीतिरनुवर्तते। एवं च सति प्रतिबन्धकरूपकर्मफलानन्त्यापातप्रतीतौ निवृत्तायां ब्राहृज्ञानानन्त्यापायप्रतीति रप्रतिबद्धशक्तिः शारीरकशास्त्रं

प्रवर्कयतीति पूर्वार्घसंग्रहः। उत्तरार्धेतु वेदवेदान्तजनितकर्मफलापातप्रतीतिमात्रसन्तुष्टः क्वचित् 'प्रथमत एव कर्मविचारं

मुक्त्वा शारीरकशास्त्रमेव संचिन्त्यता' मित्याह, तस्योत्तरम्-- आपातप्रतीतमात्रेण ब्राहृभागोऽपि नं संचिन्तनीय इति। तत्प्रतिपन्नार्थो न्यायनिरूपणमन्तरेण संशयविपर्ययौ नातिवर्तत इति यदि वदसि-- तर्हि संशयविपर्ययापनोदनार्थं कर्मभागोऽपि संचिन्त्यतामिति प्रतिबन्द्या परिह्यियत इति । अतः कर्मफलाल्पास्थिरत्व

निर्णयपूर्वकब्राहृज्ञानानन्तस्थिरफलापातप्रतीतेस्तुल्योक्त्यबाधात्--तुल्यमित्युक्तेरबाधादित्यर्थः।।6।।

7. एवं मीमांसाशास्त्रस्य पूर्वोत्तरभागयोः पौर्वापर्यमभिधाय तत्प्रतिपादकहेतून् पञ्चमाध्यायप्रतिपादितान् अत्रापि नियामकत्वेन विशदं प्रकाशयति-- प्रावण्यमिति। श्रुत्यर्थपाठकाण्डमुख्यप्रवृत्तिक्रमैर्हितान्त्रिकाः कर्मणामानुपूर्वीमभिदधुः। 'हदयस्याग्रेऽवद्यत्यथ जिह्वायाः,अध्वर्युर्गृहपतिं दीक्षयित्वा ब्राहृाणं दीक्षयति' इत्यादिषु

श्रुत्यैव क्रमो विधीयते। समानकर्तृकयोः पूर्वाकाल एव हि त्वाप्रत्ययो विधीयते। अत्रापि 'परीक्ष्य लोकान् कर्मचितान्' इति विषयवाक्ये श्रौतक्रमः स्पष्टः। त्रिवर्गे प्रथमप्रावण्यमित्यर्थक्रमः। अनादौ खलु संसारे त्रिवर्गप्रवणानामधिकारिणामेतस्मिन्नपि जन्मनि अनादिवासनावशादादितस्त्रिवर्गप्रावण्यमेव योज्यते। तत्र दोषान् दृष्ट्वा पुनरपवर्गप्रावण्यमित्यर्थक्रमः। यथा-- 'अग्निहोत्रं जुहोति, यवागूं पचति' इत्यर्थौचित्यानुसारेण यवागूपाकस्यैव प्राथम्यं परिकल्प्यते। सफलेत्यादि-- कर्मणामुपासनाङ्गत्वात्प्रागेव कर्मविचारकाणां सफलव्यापारत्वमस्ति। अयमर्थः-- उपासनस्य हि कर्माणि सन्निपत्योपकारकत्वेन विधीयन्त इति वेदार्थनिरूपकाणां निर्णयः। 'कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते' इति परमर्षिणा साक्षादेव संनिपत्योपकारकत्ववर्णनात्। तथआचानुष्ठेययोः कर्मज्ञानयोः पौर्वापर्ये सिद्धे तदनुष्ठानौपयिकज्ञानद्वारेण तच्चिन्तयोरपि पौर्वापर्यं सिद्धमिति। अयमप्यर्थक्रमादौ यथायोगमन्तर्भवतीति। व्यारूयेति-- व्याख्येयो वेदः। व्याख्यानं मीमांसा तत्र 'इषेत्वा' इत्यारभ्य 'ब्राहृणो महिमानमाप्नोति' इति व्याख्येयपौर्वापर्यस्य अध्ययनादिनियम

सिद्धत्वात् तच्छेषस्य व्याख्यानस्यापि क्रम इति मुख्यक्रमः।पाठक्रमोऽपि वक्तुं शक्यते-- यथापाठमेव वेदं विचारयन्ति विचारका इति। दृश्यते हि 'समिधो यजति' इत्यादौ पाठक्रमः । तत्र हि यथापाठमेव श्रुतार्थमनुतिष्ठन्त्यनुष्ठातारः। अत्र प्रवृत्तिक्रमोऽपि प्रदर्शयितुं शक्यते-- वेदो हि धर्मप्रमितौ कारणम्। तस्य चेतिकर्तव्यता गुरोरन्ते वेदाध्ययनं तत्फलमक्षरराशिग्रहणमर्थविचारश्चेति। तथा च यत्क्रमेणाध्ययनं तत्क्रमेण

तत्फलमक्षरराशिग्रहणम्। यत्क्रमेणाक्षरराशिग्रहणं तत्क्रमेणार्थचिन्तनमिति। उपदिष्टं हि कर्मकाण्डे उपाकरण-

नियोजनप्रोक्षणाभिघाराणां प्राप्तक्रमाणां 'सप्तदश प्राजापत्यान् पशूनालभेत' इत्यादौ प्रथमानुष्ठानक्रमानति-

लङ्घनेनोत्तरानुष्ठानमिति। इदं किल मुख्यक्रमोदाहरणं कर्मकाण्डे 'सारस्वतौ होमौ भवतः' इति युगपदुतपन्नयोः

सरस्वतीदेवताक सरस्वद्देवताकयो र्याज्यानुवाक्यपाठक्रमेण क्रमे सिद्धे तदङ्गानामन्येषां पुनरमुख्यक्रमादेव क्रम इति। मानत्वादि रित्यादि-- मानभेदाङ्गादिपरिशोधनं पूर्वकाण्डे कृतं तदुत्तरकाण्डोपजीव्यम्। उपजीव्यस्य पूर्वभावित्वं सर्वलोकसिद्धमेव। अयमप्यर्थक्रमः। वाक्येति-- 'यज्ञेन' इत्यादिवाक्ये वेदनं वाक्यार्थत्वेन विधीयते

यज्ञादिकं पदार्थत्वेन। अत्रान्विताभिधानम्, अभिहितान्वयो वा भवतु। उभयत्रापि वाक्यार्थप्रतीत्यपेक्षया पदार्थप्रतीतेः पूर्वभावित्वमुच्यते। पदैरभिहिता इत्यभिहितान्वयवादिनः। स्मारितानन्वितार्थकमित्यन्विताभिधान

वादिनः। तथा च वाक्यार्थरूपोपासनाविचारात्पूर्वकर्मविचारः कर्तव्य इति उक्तं भवति।अयमप्यर्थक्रमः उपजीव्योपजीवकभावापरित्यागात्। दृष्टान्त इति-- 'हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम्'

इत्यादौ कर्मकाण्डोक्तार्थदृष्टान्तेन ज्ञानकाण्डोक्तार्थप्रसाधनात् दाष्र्टान्तिकप्रतीतेः पूर्वमेव दृष्टान्तप्रतीतेरवश्यं-

भावाच्चायमप्यर्थक्रमः। 'अत्के चेन्मधु विन्देत' इति न्यायेनार्थक्रमान्तरमाह-- यदीति। पूर्वकाण्डे हि ब्राहृज्ञानमन्तरेण केवलकर्मानुष्ठानेनापरिमितफलप्राप्तिरूच्यते। उत्तरकाण्डे तु कर्मपरिकर्मितात् ज्ञानात्।

' हतं ज्ञानं क्रियाहीनं हता चाज्ञानिनां क्रिया। दावाग्रिनान्धको दग्धः पश्यन्नपि च पङ्गुकः।।' इति हि वदन्ति।

तथाच लघूपायेन प्राप्ते फले गुरूपायस्य परित्याज्यत्वेन कर्मविचार एव प्रथमं क्रियते-- तत्र दोषं दृष्ट्वा ब्राहृविचार इति। अत्र स्थानक्रमोऽप्यनुसंधेयः। वेदाध्ययनान्तरकालस्य कर्मविचारकालत्वात् तेन

स्वस्थानापन्नकर्मविचारं त्यक्त्वा ब्राहृविचारः कथमिवानुष्ठेयः इति। यथा साद्यस्के कर्मणि 'सह पशूनालभेत' बहूनां पशूनां सहालम्भने सवनीयस्य स्वस्थानत्वात् पूर्वमनुष्ठानं प्रतिपेदिरे तान्त्रिकाः।।7।।

8.  एवं कर्मब्राहृविचारयोः पौर्वापर्यं कर्मकाण्डपञ्चमाध्यायप्रतिपादितश्रुत्यादिक्रमानुसारेणोक्त्वा परपक्षवादिभिरुक्तं क्रमान्तरं प्रतिक्षिपति-- व्याचख्युरिति। तत्र यादवप्रकाशीयाः खलु तापत्रयाभिहतिमेव त्रय्यन्तात् पूर्ववृत्तत्वेनाक्षते। यथाहुः

सांख्याः--'दुःखत्रयाभिघाताज्जिज्ञासा' इति। शाङ्करीयास्तु-- साधन चतुष्टयं पूर्ववृत्तमिति, तच्च नित्यानित्यवस्तुविवेकः शमदमादिसाधनसंपत् इहामुत्र फलभोगविरागो मुमुक्षुत्वं चेत्याक्षते। तदिदमुभयमपि वार्तम्। तथाहि किं तापत्रयोपहतिमात्रं तापत्रयाभिहतिः, किं वा स्वर्गादीनां नश्वरत्वादुपरि पर्वभिः खर्वितत्वादनर्धशतगर्भितत्वाच्च परित्याज्यत्वनिर्णयः, पूर्वत्र पामरपरीक्षकाविशेषेण सर्वसाधारण्यात् वेदान्तशास्त्रपूर्ववृत्तत्वानियमेन नियमेन तत्कथनं न संभवति। उत्तरत्र चोभयमीमांसाश्रवण साध्यत्वात् परस्पराश्रयप्रसङ्गो दुर्वारः। सांख्यशास्त्रश्रवणात् तन्निर्णय इति च न घटते। वेदाध्ययनानन्तरं मीमांसाश्रवणस्य प्राप्तत्वात् सांख्यादीनामवकाश एव नास्ति। कुतस्तच्छ्रवणम्? कुतस्तरां तन्मूला स्वर्गादिषु वैराग्योत्पत्तिः? कुतस्तमां च तापत्रयाभिहतिपूर्वकं शारीरकशास्त्रश्रवणम् ?इति महदिदं सङ्कटमापद्यते। किंच

सांख्यादिशास्त्रैः प्रकृतिरेव सर्वकत्र्री पुरुषश्च निर्लेपः, ईश्वरो नास्तीत्यादिविपरीतबोधनादयथायथमेव वैराग्यं जायत इति न सम्यग्वैराग्यसिद्धिः। इदं च परस्पराश्रयादि मृषावादिनामपि तुल्यमेव। नित्यानित्यवस्तुविवेकादीनां चतुर्णामपि शारीरकशास्त्रश्रवणमन्तरेणासिद्धिः, तत्सिद्धौ तच्छ्रवणमिति परस्पराश्रयावकाशात्। न्यायादिशास्त्रश्रवणजनितनित्यानित्यवस्तुविवेकस्तु पूर्ववदेव निरसनीयः। अत्र शास्त्रान्तराणामवकाशाभावात् विपरीतबोधजनकत्वाच्चेति। यस्तु कश्चित् पण्डितम्मन्यः प्राह-- नित्यमुपादेयमनित्यमनुपादेयमिति प्रतीतिमात्रमेव नित्यानित्यवस्तुविवेकः, इदं च वेदान्तशास्त्रश्रवणात् प्रागेव सिध्यतीति नान्योन्याश्रय इति, सोपि ग्राम्यजनविप्रलम्भकः। नित्यमुपादेयमनित्यमनुपादेयमिति साधारणप्रतीतेः सांख्यवैशेषिकादिसर्वशास्त्र साधारण्येन वेदान्तशास्त्रनियतपूर्वभावित्वेनावक्तव्यत्वादिति। तदिदं सर्वमभिप्रेत्याह--

कथयतीति ।'परीक्ष्य लोकान्' इत्यागमस्तापत्रयाभिहतिं नित्यानित्यवस्तुविवेकादिकं चोभ्यामपि वादिभ्यामुक्तं कर्मविचारमन्तरेण न सेत्स्यतीति कथयति । अयमर्थः-- किं वेदान्तवाक्यश्रवणमात्रोपायत्वेन स्वर्गादिविषयवैराग्यैकदेशो विवक्षितो भवता,अथवा 'शान्तो दान्तः' इत्याद्युपरमवैराग्यम्। पूर्वं तावत् कर्मविचारमन्तरेण न सेत्स्यति। परंतु कर्मविचारपूर्वकब्राहृविचारमन्तरेण न सेत्स्यति शारीरकशास्त्रपूर्ववृत्तत्वेन वक्तुमेव न शक्यते। इदं च दूषणं मृषावादिनामरि तुल्यमेव। शारीरकशास्त्रश्रवणात्पूर्वं सम्यङ्नित्यानित्यवस्तुविवेकादीनामसिद्धेः, एकदेशेन नित्यानित्यवस्तुविवेकादीनां कर्मकाण्डचिन्ताफलत्वाच्चेति। ननु साङ्गाध्ययनसामथ्र्यात्पूर्वमेव प्रतीतमिति चेत् तत्रोत्तरम्-- साङ्गाधीतिरिति । अध्ययनमात्रापादपातप्रतीत

मात्रं जायते नतु नित्यानित्यवस्तुविवेकादिनिश्चय इति। तर्हि सांख्यवैशेषिकादितन्त्रान्तराभ्यासात् निश्चयो जायत

इति चेत् तत्राप्युत्तरमाह-- अवसर इति। अध्ययनानन्तरं न्यायप्राप्ते मीमांसाश्रवणे जाग्रति अप्राप्तानां न्यायादीनामवकाशो नास्तीत्यर्थः। एवं क्रमस्यावश्यत्वेन क्रमेण कर्तव्यस्य मीमांसाश्रवणस्य विधिप्रप्तत्वं स्यादित्याशङ्क्याह-- औचित्यति। औचित्यात् योग्यतामात्रचिन्तनात् अयं क्रमः परिकल्प्यते। न पुनः श्रुत्या साक्षादेव विधीयते। कथं तर्हि 'परीक्ष्य लोकान्' इत्यादिश्रुतिः कर्मब्राहृविचारयोः पौर्वापर्यं विदधातीत्याशङ्क्याह--

नपुनरिति। सापि श्रुतिन्यायप्राप्तमेव प्रतिपत्तृणामनुग्रहाय विशदमेवानुवदति। 'गुरुमेवाभिगच्छेत्' इति तु विधिः 'अभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत्' इति वत् नियमविधिरति न सङ्कटं किञ्चिदिति। 'स्वाध्यायोऽध्येतव्यः' इति विधिस्त्वक्षरराशिग्रहणे विश्राम्यति। रागप्राप्ते तु मीमांसाश्रवणे क्रमपरिक्लृप्तिरौचित्यात् एव सिध्यतीति।।8।।

9. नित्यानित्यवस्तुविवेकादिनिराकरणपूर्वकं कर्मविचारस्य पूर्वपक्षवादिनां तत्तत्प्रतिक्षेप प्रकारमनूद्य तस्यापि प्रतिक्षेपप्रकारो भाष्य एव विस्तरेणाभिहित इति भाष्यमेव तत्रोत्तरयति-- नित्येति अयमभिप्रायः-- वयं खलु शिष्याणां सुखप्रतिपत्त्यर्थं शारीरशास्त्रशरीरसंग्रहे प्रवर्तामहे, नपरपक्षप्रतिक्षेपे, विस्तररूपं प्रथमसूत्रभाष्यमेवान्तेवासिभिः पौनः पुन्येनानुसन्धेयमिति। शब्दार्थस्तु--- नित्यप्राप्तस्य निर्विशेषस्य ब्राहृणः

कण्डचामीकरन्यायेनोपदेशः क्रियते शारीरतशास्त्रेण। न संसारो व्यावर्तत्यते। स च परमार्थः, निवर्तकञ्च तस्य

कर्मपरिकर्मितब्राहृोपासनमिति परपक्षमाशङ्क्य स्वपक्षपरिकल्पितान् निवत्र्योपायोपेयान् विशदं प्रकाशयति-- मिथ्येति । श्रुतिशकलभुवः कर्मनिरपेक्षात् 'तत्त्वमसि' इत्यादिवाक्यजन्यत्वात् प्रत्यक्षादेवविद्यानिवृत्तिः। न केवलं

कर्मणामनपेक्षितत्वमेव, अपितु प्रतिभटत्वमेपीति प्रदर्शयति-- प्रतिभटमपीति। कर्मणां भेदात्मकत्वात् ब्राहृणो निर्विशेषत्वात्। तस्मात् पूर्ववृत्तत्वोक्तिर्मदुक्ते नित्यानित्यवस्तुविवेकादौ प्राप्तेति प्रलापे प्रतिवचनगतिर्भाष्य एव विस्तरेण प्रतिपादितेति न वयं विस्तृणीमहे। अयमत्रोत्तरग्रन्थाशयः-- उभयविभूतिविशिष्टं परं ब्राहृ प्राप्यम्, प्रापकम् चोपासनम्,

तच्चानभिसंहितफलकर्मानुष्ठानसाध्यम्, अनुष्ठानं च कर्मणां परिज्ञानादेव, तच्च परिज्ञानं कर्ममीमांसाश्रवणादेवेति कर्मविचारस्यैव पूर्वत्तत्वकथनं सम्यगेव, अपन्यायमूलं परेषां पूर्ववत्तत्वपरिकल्पनं प्रतिक्षिपाम इति।।9।।

10. ननु मीमांसाशास्त्रस्य पूर्वोत्तरभागयोरैक्ये सत्येव पौर्वापर्यक्लृप्तिः समुचिता। तदेव न विद्यत इत्याशङ्य प्रतिक्षिपति-- मीमांसाया इति। 'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः' इति, 'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः' इति च कर्मब्राहृविचारयोमीमांसेति साधारण्येनोपादानात् सिद्धमेव द्वयोरपि भागयोरैक्यम्। कथं तर्हि कर्ममीमांसा ब्राहृमीमांसेति विभागनिर्देश इति चेन्न; तस्यैवास्माकमनुकूलात्वात्। अत्र हि मीमांसेत्येकमेव शास्त्रम्, तत्र कर्मप्रधानो भागः कर्ममीमांसा, ब्राहृप्रधानो भागो ब्राहृमीमांसेति विभाग इति प्रतीयमानत्वात्। अन्यथा विद्यास्थानानां चतुर्दशत्वासंभवात्। तेन मीमांसाशास्त्रस्यैक्ये सत्यपि निरीश्वरमीमांसकास्तस्य शरीरमेव परिजिगृहुः । अत एव तान्कबन्धमीमांसका इत्याचक्षते विचक्षणाः। अपरे तु राहुकल्पं तच्छिर एव परिजिगृहुः। तानपि राहुमीमांसा इत्याचक्षतें। तयोरितरेतरांशपरित्यागोऽन्तर्विरोधनिबन्धन इत्यधिक्षिपति-- किं तैरित्यादिना। न केवलं पुराणादिप्रसिद्धिमात्रेण

कर्मब्राहृभागयोरैक्यम्, अपि तु न्यायानुसारेणापीत्याह-- स्वाध्यायेति। अत्र स्वाध्याय शब्देन सशिरस्को वेद उच्यते। तेनाध्ययनं तावदुभयभागविषयमेव। तत्फलभूतमक्षरराशिग्रहणमपि तथैवोभयविषयम्। तदनन्तरं साङ्गाध्ययनजनितापातप्रतीतिरपि उभयविषयणी। तथा तदन्तर्वर्तिवेदवाक्यार्थ विचाररूपमीमांसा सार्वत्रिकी। तदिदमाह-- कात्स्न्र्य इति। ननु स्वविधिप्रयुक्तं स्वाध्यायाध्ययनमिति कौमारिलाः। तच्चार्थज्ञानपर्यन्तम्। तन्मध्यभाविविचारोऽपि अध्ययनविधिप्रयुक्त एव। तथा च कथमापातप्रतीत्या प्रयुक्तिरुच्यते विचारस्य। एवमध्ययापनविधिप्रयुक्तमध्ययनम्। तत्र दृष्टफलत्वेनार्थज्ञानमनुमन्यते नियोगेन। तदन्तर्वर्तिविचारोऽ तदनुमत्यैव प्रवर्तते। किमापातप्रतीतिप्रेरणया मीमांसाशास्त्रस्येति। अत्रोत्तरमाह-- स्वविधीति। स्वविधिप्रयुक्तत्वं परविधिप्रयुक्तत्वं वा भवतु नाम, अन्यथा कृत्स्नाध्ययनस्यापि परित्याज्यत्वप्रसङ्गात्। अस्मत्पक्षे तु आपातप्रतीतेः कृत्स्नविषयत्वात्तत्प्रयुक्तं मीमांसाशास्त्रश्रवणमपि कृत्स्नविषयमेवेति पूर्वोत्तरभागयोः क्रमपरिकल्पनं युक्तमेव।।10।।

11. विषयैक्यात्प्रयोजनैक्यात् प्रवृत्तिप्रकारैक्याच्च शास्त्रैक्यमस्तु नाम। अथापि क्रमो न विवक्ष्यते। नहि सूत्रभाष्यवृत्तिवार्त्तिकटीकानिबन्धनप्रकरणादीनां कश्चित्क्रमः। तत्कथं कर्मब्राहृभागयोः क्रमपरिकलृÏप्त भवन्तमाक्षत इत्याशङ्क्याह-- प्राधईतस्येति । एकरुपप्रयतननियतयतादेकरुपोपकाराद्धिद्यास्थानैक्यसिद्धौ

क्रमाविशेषयुक्ताकाङ्क्षावशादेव प्रबन्धैक्यमपि परिकल्प्यते। प्रबन्धैक्यं च क्रमपरिक्लृप्तिरुपपद्यत्। अयमर्थः-

एको वेदराशिः, आपादचूडं तद्व्याख्यामरुपं मीमांसाशास्त्रमप्येकमेव मिबन्धम्। तत्र पौर्वापर्यमन्तरेण निबन्धनैक्यस्य वक्तुमशक्यत्वात् तत्रोपयुज्यते क्रमक्लृप्तिः। सूत्रभाष्यवार्त्तिकटीकानामन्योन्यसाकाङ्क्ष

स्वरुपत्वेऽपि वाक्यैकवाक्यत्वेन तदर्थप्रतिपादनरूपत्वेऽपि परस्पराकाङेक्षया भागविशेषार्थप्रतिपादकत्वाभावा

क्रमावश्यम्भावो न विवक्ष्यत इति युक्तमेवैतदिति। तत्र भदकारणमाशङ्क्य परिहरति---अध्यायदिष्विवेति।

योऽयं कर्मचिन्तनं ब्राहृचिन्तनमित्यवान्तरार्थठभेदउच्यते। स तु शारुाभेदक एव न भवति। साधारणार्थैक्ये

सति अवान्तरार्थभेदानां सर्वत्राभेदकत्वात्। अन्यता षट्कद्विकाध्यायपादपेटिकाधिकरणानामप्यर्थभेदभिन्नानां

पृथक्शास्त्रत्वं प्रसज्येत। अत्र,आदि शब्देन कारणभेदो विवक्ष्यते। 'अथातः शेषलक्षणम्' इत्यादावथातः

शब्दार्थानां भिन्नत्वात्। यत्पुनरुच्यते----कर्मकाण्डे जैमिनिः कर्ता,देवताकाण्डे काशकृत्स्नः,शारिरके बादरायण

इति कर्तृभेदात् शास्त्रभेदोऽस्तित्वति, तदप्यसारमित्याह----तत्तुल्य इति। नह्रेकस्य कार्यस्यैक एव कर्तेति

नियमोऽस्ति ; बहुकालसाध्यरथगोपुरादौ पूर्वकर्तृकृतशेष कत्र्रन्तरस्यापि दृष्टत्वात्। न च भिन्नानां कार्याणां

भिन्न एव कर्तार इति निर्बन्धः। एकेनैव कत्र्रा बहूनां कार्याणां कर्तुं शक्यत्वात्। तेन शास्त्रभेदाभेदप्रयोजकौ न

भवतः।दृष्यते हि पूर्वोत्तरकाण्डयोर्द्विकमप्युदाहर्तव्यम्। नन्व्यत्सर्वं भेतकारणमास्ताम्। महदिदं भेदकारणामस्ति,

यत्पुनरार्थविरोध इतयासङ्क्य तच्च प्रतिक्षिपति-कलिबलेति। शिष्याचार्यै हि जैमिनिबादरायणौ। उभावपि

सम्यङ्न्यायनिरूपणेन वेदार्थप्रकाशनप्रवृत्तौ। तयोः परस्परविरोधकथनं कथमिव संघटते। ततः कलिबलकलुषा

महासाहसिकाः परस्परविरोधं च कथयन्तीति तानेवाधिक्षिपामः। अत्रायं विभागः प्रवावदूकानां प्रवादेषु--उपनयन-

मध्यायनाङ्गम्। तच्चाध्ययनं ' स्वाध्यायोऽध्येतव्यः ' इति स्वविधिप्रयुक्तम् ; अध्ययनं च स्वाधयायसंकारः।

सच विधिर्नियमविधिरेव । अध्ययनगृहितेनैव स्वाध्यायेन ज्ञानं संपादयेदिति कृत्स्नयुक्तिविशोषपरिज्ञनार्थं तन्मत-

परिश्रमशालिभिर्भवितव्यम्। अपरे पुनरित्थमाचक्षते--' उपनिय तु यः शिष्यं वेदमध्यापयेत्' इत्यापनाङ्गमुपनयनम्,

तच्चाध्ययनं परविधिप्रयुक्तं साक्षात्तच्छेषत्वश्रवणात्, अध्ययनं च नियोगार्थत्वेन प्रधानकर्म। तद्विधिरप्यप्रप्तविधिः।

अद्यापनं पुनराचार्यकनियोगार्थं वृत्त्यार्थाध्यापनादन्यदेव विधियते। नियोगानुमत्यैव मध्येऽधिकारसिद्धयर्थं विषय-

फलत्वेनारथज्ञानमपि स्वीक्रियते ; दृष्टफलकस्यापरित्याज्यत्वात्। अत उभयोरपि पक्षयोरर्थज्ञानार्थं विचारो वैध

एव। वेदान्तवादिनस्तु भट्टपरिक्लृप्तिमनुमन्यन्ते।अयमत्र विशेषः--यदक्षररराशिग्रहमात्रफलमेवाध्ययनमामनन्ति।

अत्र न्यायानपिब्राुवते। अक्षरराशिग्रहणस्याव्यवहितफलत्वात्,हंफहादिष्वप्यनुगतत्वात् ,अर्थज्ञानवादिभिरप्यपरित्या-

ज्यत्वात्।अधितवेदानामनधिगतवेदान्तशास्त्रानामार्थज्ञानाभावेनाश्रोत्रियत्वप्रसङ्गात्,अक्षरप्राशिवदर्थज्ञनस्यापिब्राुवते।

अक्षरराशिग्रहणस्याव्यवहितफलत्वात् , हुंफडाष्वप्यनुरत्वात् , अर्थज्ञानवादिभिरप्यपरित्याज्यत्वात् , अधितवेदाण-

मनधिगतवेदान्तशैस्त्राणामर्थज्ञानाभावेनाश्रोत्रियत्वप्रसङ्गात्। अक्षरराशिवदर्थज्ञानस्यापि पारम्पर्येण पुरुषार्थत्वादि

त्यातयोऽपि हेतवो दरिदृष्यन्ते। यत्पुनरुचुः 'अधीत्य स्नायात्' इति स्नानविधिनैव रागप्राप्तमीमांसाश्रवणस्यबाधात्

युष्मत्पक्षेश्रवणमेव न जाघटीतीति , तन्न--विधिनापि स्वापेक्षितबाधस्य वक्तुमशक्यात्। यथा स्नानविधिर्गुरुदक्षिणा-

प्रदानार्थमर्थार्जनमनुमनुते। एवं स्नानोद्वाहाग्न्याधानयागदानहोमदिसर्वविधिनां साद्गुण्येनानुष्ठानानशिद्धयर्थं मध्ये

मीमांसाश्रवणमनुमन्वितेति न विस्तृनिमहे। विस्तरत्वस्माभिरारचितायां मीमांसापादुकाटिकायाम द्रष्टव्यः।

' उपनयीत ' इत्यात्मनेपदवादस्तु विस्तरभयादत्र न लिख्यते ।।11।।

12. अत्र शास्त्रैक्यप्रसिद्यर्थं पुर्वोतरकान्डयो र्विरोधो नास्तीत्युक्तम्। अत मन्दप्रतिबोधनार्थं विरोधाभासाना-

शाङ्क्य परिहरति---तत्तदिति। ' इन्द्राय वज्रिणे ' इत्यादौ वज्रित्वाधिराजत्वादिविशेषणभेदाद्देवताभेदमामनन्ति

तान्त्रिकाः। न केवलं विशेषणभेदादेव , इन्द्रमहेन्द्रशब्दभेदादपि भेदमाचक्षते।अतो देवातात्वमिति किञ्चिन्नियतं

पारमार्थिकं नास्तीति जैमिनेर्मतम्। बादरायणस्य पुनरास्तिकाग्रेसरत्वं सर्वसंमतम्। तत्कथमविरोध इति कश्चिन्-

मन्यते,तत्रोत्तरमाह--कथमिति। अयमर्थः--शायनासनभोजनादितत्तदवस्थाविशिष्ट एक एव राजा नियाधिकारिभिः

सिध्यत्तत्तदधिकारानुरुपनियतव्यवहारभाग्भवति।नैतावता राजा भिद्यते--स्वरूपत एकस्यापि तत्तत्कालोचित-

विशेषणव्यवहाराभ्यां वैशिष्ट¬भेदस्यैवर्जनीयत्वात्।एतदेव विशदं प्रकाशयति-उद्देश्येति। हविषां प्रयोगे विशेषण-

नामधेयाभ्यां उक्तिभिन्ने सति उद्देश्याकारभेद एवात्र प्रतिपाद्यते , न पुनः स्वरूपभेद इति। अनेन ' अग्निवैश्वा-

नरादिशब्दमात्रमेव देवता , अथवा तत्तल्लौकिकाग्न्याद्यर्थविशिष्टः शाब्द एव देवता ,न पुरग्यादित्येन्द्रचन्द्राकार-

विशेषविशिष्टार्थविशेषो देवतात्वेन स्वीकर्तव्यः ' इति वदन्तः प्रयुक्ताः। स्यादेतत्। 'द्रव्यदेवतासाम्ये द्रव्यं बलीयः'- इति साक्षाज्जैमिनिनैव द्रव्यबलीयस्त्वाभिधानात् देवता न विद्यतइति, तदभावे ह्रनुष्ठानविरोधः स्यादिति, इत्थं-

वदन् स्वव्याघातमेव न जानाति। देवतास्वरूपाभेवे कथं तस्या दैर्बस्यमुच्यते ? सति धर्मिणि धर्माश्चिन्यन्त इति-

न्यायवादिनः। तर्हि किमत्रोच्यते। सावधान एव श्रृणु। दर्शपुर्णमासविष्टिनां प्रकृतिरित्यादिवाक्यप्रसिद्धः प्रकृति-

विकृतिभावस्तावत्सिद्धः। तत्र द्रव्यसाम्याद् देवतासाम्याच्च प्रकृतिभावः परिकल्प्यते तान्त्रिकैः। इत्थं सति कस्य

कर्मणः का प्रकृतिः , का विकृतिरिति चिन्तायां क्कचिद् द्रव्यसाम्यां दृष्टम। , अन्यत्र देवतासाम्यम् , एवं च

सति द्रव्यसाम्याद् देवतासाम्साद्वा प्रकृतिभावेनानुष्ठानामिति विशये देवताया उद्देश्यत्वेन प्राधन्यात् तत्साम्याद-

नपष्ठानमिति पूर्वपक्षः। राद्धान्तस्तु द्रव्यस्य प्रत्यक्षत्वात् देवताया आगमैकसमधिगम्यत्वात् त्वमेवाप्रत्यक्षं द्रव्यस्य।

देवतायाः पुनः स्वरूपं देवतात्वं चात्प्रत्यक्षमिति प्रातीतिकमेवेदं दौर्बल्यं न स्वरूपभावनिबन्धनमिति,तदिदमाह---

दौर्बल्यमिति।।12

13. एवं विरोधभासं निराकृत्य स्फुटमपि किञ्चिद्विरोधमाशङ्य परिहरति-जैमिन्युक्त-मिति। बादरिजैमिनि-

काशकृत्स्नप्रभृतयो बहवो हि शिष्या बादरायणस्य। तत्र तत्र स्वाभिप्रायविरुद्धान् शिष्याभिप्रायान् प्रतिक्षिपन्जैमि-

नीयमपि पक्षं प्रतिक्षिपति बागरायणः। कथं जैमिनिबादरायणयोरविरोधः ? तस्मात् हठकृतमेवैकशास्त्र्यमिति ,

तत्प्रतिक्षिपति-नेति। तत्र हेतुमाह-ब्राहृेति।'परं जैमिनि र्मख्यात्' इत्यादौ हि जैमिनेः शारिरकाशास्त्रकिरधानभूत-

ब्राहृसंवादं दृढमेव प्राचिकशदाचार्यः। तस्मात् विरोधाभासप्रतिपत्त्या न शास्त्रभेदः शङ्कनियः। का गतिस्तर्हि

विरोधाभासप्रतिपत्तेरितिचेत् तत्रोत्तरमाह--तदित्यादिना। तात्पर्ये हि शब्दः प्रमाणम्। तेन तत्र तत्र सूत्रेषु तात्पर्य-

विशेषेण तद्विरोधः परिहरणियः। अत्र प्रदिबन्दीमाह--काण्डवदिति। यथा-एकस्मिन्काण्डे षट्कयोरध्याययोः

पादयोर्वा परस्परविरोधभासप्रतिपत्तौ पण्डितास्तात्पर्यभेदाद् विरोधं परिहरन्ति , एवमत्रापिती। अस्तु तत्रापि

विरोधपरिहारः , अथाप्यन्तविरोधे सिद्धे देवताधिकरणादौ कः परिहार इत्याशङ्क्योक्तमेव तात्पर्यविशेषं तत्रापि

योजयति--बाह्रेति। एवं किलाहुर्बाह्राः-- ' वाक्यत्वात्सकर्तृको वेदः , कर्तृणां च भ्रमविप्रलम्भ प्रमादाशक्त्यादिकं भवत्येव, तस्माद्वेदस्याप्रमाण्यम्, न च देवता नास्तीति वक्तुं शक्यते, 'वायवयं श्वेतमालभेत' इत्यादो कर्माराध्ययाया देवतायाः एवातिथिवत्प्राधान्येन कथनात्' इति, तत्प्रतिक्षेपार्थं कर्मप्राधान्यमाह देवताधिकरणे, न पुनर्देवतास्वरूपं प्रतिसञ्चष्टे। इयं किल देवताधिकरणे पञ्चसूत्री--'देवता वा प्रयोजयेदतिथिवत्। भोजनस्य तदर्थत्वात्। अर्थवत्त्वाच्च ततश्च तेन सम्बन्धः' इति पूर्वपक्षसूत्रत्रयम्। 'अपि वा शब्दपूर्वत्वाद यज्ञकर्म प्रधानं स्यात्। गुणत्वे देवताश्रुतिः' इति सिद्धानायसूत्रयुगलमपि। तत्रेदं तात्पर्यम्--- अर्थप्राधान्यस्य देवतायां विद्यमानत्वेऽपि शब्दप्राधान्यं यज्ञकर्मण्येवेति श्रुतिमूलानुष्ठानं यज्ञकर्मं प्राधान्येनैव कर्यव्यमिति। अत्र देवताप्रतिक्षेपमेव मन्दः कश्चिन्मनुते, तत्प्रतिक्षेपार्थं तत्र तत्र जैमिनिपक्षं प्रतिक्षिपति भगवान् बादरायणः। तदुक्तं वेदार्थसंग्रहे-- 'अश्रुतवेदान्तानां कर्मण्यश्रद्धा मा भूदिति देवताधिकरणेऽतिवादाः कृताः।' इति। अतिवादाः-- अन्यपरोक्तयः। न जैमिनिर्देवता निराचकार, नापि बादरायणस्तं प्रतिक्षिपतीति भावः।।13।।

14. अत्रान्यः प्राह 'जैमिनिबादरायणयोर्विरुद्धभाषणं माभूत् शिष्याचार्यभावात्, तथापि पौनरुक्त्यं दृश्यते। यथा

पूर्वकाण्डे श्रुतिविरोधे स्मृतिरनपेक्षणीयेत्युच्यते। तथा ब्राहृकाण्डेऽपि 'स्मृत्यनवकाशदोषप्रसङ इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्' इति। अपुनरुक्तमेव हि वाक्यजातं शास्त्रमित्युच्यते। तस्मात् कथमिव शास्त्रैक्यम्। एवं निबन्धनैक्यमपि निर्निबन्धैक्यमपि, तदभावे कुतः क्रमः। कुतो वा कर्मविचारस्य पूर्ववृत्तत्वम्' इति। एतत् सर्वं परिहरति-- आक्षिप्येति। कर्मकाण्डस्मृत्यधिकरणेन श्रुतिविरोधात् स्मृतिरनपेक्षणीयते सिद्धेऽपि

ब्राहृकाण्डे पुनस्तदेव कुतश्चित्कारणविशेषादाक्षिप्य समाधीयत इति न पौनरुक्त्यम्। अस्त्वपौनरक्तम् ,तथाप्य-

पूर्वार्थत्वाभावादनपेक्षणीयत्वमुत्तरकाण्डस्येत्याशङ्क्याह--केचिदिति। 'यथाक्रतुरस्मिनिलोके पुरुषो भवति तथेतः

प्रेत्य भवति' इति तत्क्रतुन्यायो ह्रत्र व्युत्पाद्यते। एवमन्यदपि यथोचितं द्रष्टव्यम्। एवं तर्हि पर्वकाण्डोक्तार्थस्य

प्रधानभूतस्य प्रतिक्षेप एवोत्तरकाण्डे प्राधान्येन क्रियते। अर्थवादाधिकरणार्थ एव हि कर्ममीमांसासारार्थः। एवं समन्वयाधिकरणार्थ एव हि ब्राहृमीमांसासारार्थः। तयोः परसपरविरोधे यति कथमिव युमाभिर्विरोधो नास्तीति भण्यत इतियाशङ्क्याह---क्वचिदपवदनं ख्याप्यमौत्सर्गिकस्येति। उत्सर्गापवादन्यायेनापि शास्त्रे प्रायेण विरोधं

परिहरन्ति तान्त्रिकाः। अत्राप्यर्थवादसामान्यस्य विधिशेषतया पुरुषार्थपर्यवसायित्वमियुत्सर्गः। निरतिशयानन्दरूप-

ब्राहृविषयार्थवादानां स्वतः पुरुषार्थरूपब्राहृप्रतिपादकत्वाद् विध्येकवाक्यत्वमन्तरेणापि पुरुषार्थपर्यवसायित्वमित्यप-

वादः। एवं सर्वत्रापि शास्त्रे पौनरुक्तयादिपरिहारचिताक्रम इति। एककाण्डान्तर्गतेषु बहुष्वधिकरणेषु विरोधः

परिह्यियत इति तद्भिन्नयोरपि काण्डयोः पौनरुक्तयादिपरिह्मतिस्तुल्यन्यायत्वानुसन्धानेन पक्षपातं विहाय मध्यस्थ-

दृष्ट¬ा सावधानेन सञ्चिन्तनीयेति।।14।।

15. एवं जैमिनिबादरायणवाक्ययोर्विरोधं परिह्मत्य तत्प्रसङ्गाद् व्याख्यातृवाक्ययोरपि प्रमाणभूतयोर्विरोधाभास-

मश्यं समाधेयत्वात् समाधत्ते--वृत्तीति। शङ्कते कश्चिद्विरोधम्। वृत्तिग्रन्थे हि जैमिन्युपरचिततया षोडषाध्या-

य्युपात्ता। सङ्कर्षः----सङ्कर्षकाण्डः,भदृपराशरास्तु तत्त्वरत्नाकाराख्ये शारिरकाशास्त्रप्रकरणे काशकृत्स्नप्रभव

इत्यक्तवन्तः। तत्कथमिगं संघटेतेति। अत्रोतरमाह--अत्रेति। द्वयोरपि ग्रन्थकत्र्रोर्विश्वसनीयत्वात् एकस्यापि वाक्ये

न वयमप्रामाण्यं ब्राूमः, अपितु तात्पर्यभेदेयोभयमत्रापि प्रामाण्यम्। तथा हि तत्त्वरत्नाकारवाक्यस्य मुख्यत्वेन

सङ्कर्षकाण्डस्य काशकृत्स्नप्रभवत्वे सिद्धे वृत्तिकारवाक्यं जैमिनेद्र्वादशलक्षणीकर्तृत्वात् प्राचुर्यादौपचारिकम्।

वृत्तिकारवाक्यानुसारेण जैनमिनेः षोडशसक्षणीकर्तृत्वेप्रामाणिके तत्त्वरत्नाकारवाक्यं काशकृत्स्नस्य देवताकाण्डे

विशेषेण प्रवर्तकत्वपरमिति सिद्ध एव समाधिरिति।।15।।

16. एवं 'अथातो ब्राहृजिज्ञासा' इति सूत्रानुसारेण कर्मविचारानन्तरं ब्राहृविचारस्य कर्तव्यत्वे परिपन्थितया प्रसक्तानर्थान् दिङ्मात्रेण प्रतिक्षिप्य क्रियमाणशास्त्रसूत्राधिकरणपादविभागेषु न्यूनाधिकभावं शिष्यानुग्रहार्थं प्रतिक्षिपति-- सौत्रीति । शुभाशीः सूत्राणां कटपयादिक्रमात् संख्यापरिकल्पना। पञ्चत्वारिंशदधिका पञ्चशतीति सूत्राणां संख्याप्रमाणम्।

अधिकरणसंख्या तु चिन्मयी षट्पञ्चाशदधिकं शतमित्यर्थः। एतत्तु परपक्षवादिभिः परिकल्पितापन्यायमूलाधिकसङ्ख्यानिराकरणार्थमुच्यते। तेषां परिकल्पनाया अपन्यायमूलत्वेन प्रकटयति-- तादथ्र्य इत्यादिना। उत्तरसूत्रस्य पूर्वाधिकरणशेषत्वे समनन्तरभावित्वे सति, अधिकरणभेदो न कल्पनीय इति तान्त्रिकाः प्राहुः। तेन गुहाधिकरणमित्यादिकं परवादिकल्पितमहसितं भवति। अथ संख्यातानामधिकरणानां प्रदिपादं विभागं दर्शयति-- अक्षेत्यादिना। अत्र लोकप्रसिद्धानुक्रमात् संख्यानिर्देशः। अक्षाण्येकादश, ऊर्मयः षट्, आशा दश, अहयः पुनरष्टौ, काष्ठा दश, द्विरदाश्चाष्टौ, मुनयः सप्त, वसवोऽप्यष्टौ, षडूर्मयः। अद्रयोऽष्टौ, तत्त्वानि षÏड्वशतिसंख्याकानि, अतिशक्वरी पञ्चदश, अक्षाण्येकादश,

पुनरप्यक्षाण्येकादश पञ्च प्रयाजाः, रसाः षट् इति सुप्रसिद्धमेतत्। अनया प्रक्रियया पादनीतिप्रबन्धः-- पादानां नीतयः प्रतिपादमधिकरणानि निबन्ध्यन्य इति।। 16।।

17. एवं पादाधिकरणविभागमुक्त्वाऽध्यायानां द्विकयोरपि विभागमर्थविभागेन प्रदर्शयन् उत्तरस्यापि द्विकस्य सिद्धोपायोपेयेरूपब्राहृप्रतिपादनपरत्वाद् ब्राहृजिज्ञासारूपत्वं सिद्धमित्याह-- शास्त्रमिति। अनेन शारीरकशास्त्रेण

समन्वयाविरोधसाधनफलरूपाश्चतुष्र्वध्यायेषु चत्वारोऽर्थाः प्रधानतया प्रतिपाद्यन्ते, एकैकस्याध्यायस्य पादचतुष्टयात्मकत्वात् षोडशाङ्घ्रित्वसिद्धिः। न केवलमध्यायभेदात्पादभेदाच्च भेदः, द्विकभेदादपि भेदोऽस्तीत्याह-- द्विकेति। तत्र दृष्टान्तमाह--षट्केति। कर्मकाण्डे पूर्वोत्तरषट्कभेदः सुप्रसिद्धः। आदिशब्देन

प्रथमकाण्डत्रिपादीव्यूहनपूर्वकाण्डप्रसिद्धभेदोऽप्युपादीयते। एवं सर्वत्रापि शास्त्रे तत्रतत्रोक्तविभागो दृष्टान्तीकरणीयः। अत्र द्विकभेदनिमित्तमर्थभेदाह--तत्रेति। पूर्वद्विकं सिज्झविषयनिरूपणपरम्-ब्राहृणः सिद्धत्वात्,

उत्तरद्विकप्रतिपाद्यपासनप्राप्त्योर्विषयत्वाच्च ब्राहृणः। उत्तरद्विकं साध्यविषयनिरूपणपरम्--उपासनप्राप्त्योः पुरुषसाध्यत्वात्, परब्राहृविषयत्वेन विषयित्वाच्च। ननु कथमुपासनप्राप्तिप्रतिपागनपरस्योत्तरद्विकस्य ब्राहृजिज्ञसा-

रूपत्वम्? कथं वा ब्राहृजिज्ञासारूपशास्त्रे सङ्गतिरित्याशङ्क्याह-स्वप्रप्तेरिति। द्विविधं हि साधनं प्रधानाप्रधान-

भावेन, ब्राहृ तदुपासनं चेति। एवं साध्यमपि द्विविधं ब्राहृ तत्प्रप्तिश्चेति। तथाच ब्राहृणः प्राधान्येन निविशत इति

न सङ्कटं किञ्चित्। उक्तं हि तान्त्रिकैरपि 'स स्वेनैव फलप्रदः फलमपि स्वेनैव नारायणः' इति।।17।।

18. एवमध्यायद्विकयोरर्थविभागमुक्त्वा पादानामर्थभेदमाह--तत्रेति। शारिरकाद्यपादे तावत् अस्पष्टतरजीवादि-

लिङ्गकवाचश्चिन्त्यन्ते। अस्पष्टवादिसिङ्गकवाचो द्विवितीये। स्ष्टजिवादिलिङ्गकवाचस्मृतीये। स्ष्टतरजिवादि-

लिङ्गकवाचश्चतुर्थे। उक्तं च सेनेश्वराचार्यैः 'अस्पष्टपरमस्पष्टं स्पष्टं छायानुसारि च' इति। तत्र जीवप्रधान-

प्रतिपादकवाक्ययोश्छायानुसारिरत्वं हि सिद्धान्तप्रतिपाद्यार्थानुसारेण प्रतीयमानत्वम्। एवमविरोधाध्यायेऽपि क्रम- माह--पश्चात्स्मृत्यादिकैरिति। स्मृतिपुराणेतिहासादिभिराधिकत्वेनाभिमन्यमानै र्वेदान्तवाक्यानां बाधः परिह्यियते।

अक्षतिः---अबाध इत्यर्थः। तर्कपादे तु वेदान्ततुल्यत्वेनाभिमन्यमानानां बाध उच्यते। अहितानांपरपक्षतर्काणां सत्तर्कानुग्रहशालिभिर्वेदान्तवाक्यैरहननमित्यर्थः। तथा च न प्रतिरोधेऽपि, तुल्यबलेनैव प्रतिरोधो न पुनर्दुर्बलेन।

तेन प्रथमपादे वेदान्तानां बाधपरिहारः क्रियते। द्वितीयेपादे प्रतिरोधपिरहार इति विभागः। तत्र द्वितीयाध्याये द्वाभ्यां पादाभ्यां कारणद्वारकबाह्रविरोधपरिहारः कृतः। उत्तराभ्यां वियत्प्राणपादाभ्यां कारयद्वारकान्तरविरोधपिरहारः क्रियते। तत्रापि वियत्पादे वियदादीनां कार्यत्वपरिशोधनम्। प्राणपादे तु जीवोपकरणभूतानां प्राणादीनामिति विभागः। तत्र विरोधस्यानन्तरत्वं वेदवाक्यानामन्योन्यविरोधरूपत्वादिति भाव्यम्। तृतीयाध्यायं पादभेदेन विभजतेऽधिकाराधिकर्तव्यभेदेन च --दोषादोषाविति। तृतीये साधिकारसाङ्गो-

पायविभागः। तत्र द्वाभ्यां पादाभ्यामधिकारः परिशोध्यते। अधिकारो हि सांसारिकसकलपुरुषार्थवैराग्यपूर्विका परब्राहृप्रेप्सा। तत्र वैराग्यपादे सिध्यति जाग्रदाद्यवस्थासु जीवानां सदोषत्वकथनात्। परब्राहृप्रेप्सा तु उभयलिङ्गपादश्रवणफलमेव। एवं द्वाभ्यां पादाभ्यामधिकारसिद्धिरुक्ता।उत्तराभ्यां पादाभ्यां साङ्गोपासनमधिककर्तव्यमुच्यते। तत्रापि तृतीयपादे प्रधानभूतोपासननिर्णयः। चतुर्थे पुनरितिकर्तव्यतानिर्णयः। इत्थं प्रतिपादितोपायफलचिन्तनं चतुर्थाध्याय इत्याह-- अथेति। उपासाऽऽरोहप्रभावो हि उत्तरपूर्वाघयोरश्लेष

विनाशौ तदिदं प्रथमपादे, देहादुत्क्रमणं द्वितीये, अर्चिरादिमार्गेण गमनं तृतीये, 'परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति वैकुण्डवासिनो वासुदेवस्यासङ्कुचितानुभवश्चतुर्थ इत्येषा फलाध्यायपरिपाटीतिदिक्।।

19. एवं पादभेदादर्थकथने सर्वेषामपि पादानां ब्राहृजिज्ञासारूपत्वं कथमित्याशङ्य परिहरति--रुाष्टेति। तत्तत्पादोक्तानामर्थविशेषाणामेकस्मिन्नेव ब्राहृणि पर्यवसानादिति परिहारः। तत्र रुाष्टेत्यादिषोडशाभिः पदैस्तत्तत्पादप्रतिपाद्यषोडशविशेषविशिष्टो भगवानेवाभिधीयते। प्रथमपादः रुाष्टृत्वप्रधानः। द्वितीयस्तु देहित्वप्रधान इत्यादि स्वयमेव भाव्यम्। स्वनिष्ठः - स भगवान् स्वस्मिन् प्रतिष्ठितः। 'स्वे महिम्नि' इत्यादि श्रुतिसिद्धमनन्य आधारत्वमुच्यते। श्रिताप्तः-- तर्कपादे हि अनाश्रितानां दुस्तर्कवादिनामनाप्तः, आश्रितानां पुनः पञ्चरात्रतन्त्रनिष्णातानां पाञ्चकालिकवृत्तीनामाप्त इत्युच्यते। संसृतौ तन्त्रवाही--जाग्रत्स्वप्नसुषुप्तिमूच्र्छामरणेषु

भगवानेव निर्वाहकत्वेनोच्यते। शेषं सुगमम्।।19।।

20. अत्र केचिच्चोदयन्ति 'भवतामुपपादनमन्यत्, अनुष्ठआनमन्यत्। कर्मविचारस्य पूर्ववृत्तत्वमुपपाद्यते। अनुतिष्ठन्ति च कर्मविचारमन्तरेणापि ब्राहृविचारमाचार्याः, कथमेतत् सङ्घटते? इति। अत्रोत्तरमालिख्यते-- विध्युक्त्येति। अत्र विधिः कार्यमेकेषाम्,शब्दभावना पुनरन्येषाम्। इषअटसाधनत्वं मण्डनस्य।इष्टस्य कृत्यधीनत्वमाचार्यैकदेशिनः। धात्वथभावनेति केचिदूचुः। आप्तस्य हितकामस्य नियोग इति न्यायवादिनः। तमेव पक्षमनुमन्यते त्रय्यन्तवादिनोऽपि। यथाहुः--

 'आप्तस्य हितकामस्य नियोगं केचिदूचिरे। भाष्यकारोऽपि भगवानेतमेवान्मन्यत।।' इति।

यो वा कोवा विधिर्भवतु तस्य विधेरुक्तिः। अयमर्थः -- कृतादिपुणअययुगेषु अधिकारिणोऽपरिमितबलधी

प्राणयोगाद् वेदानधीत्याविघ्नेन फलवदापातप्रतीतिजनितां त्रिकाण्डीं मीमांसामनुक्रमेण विचारयन्ति। अयमेव न्यायमार्गः। अधुना पुनरन्तिमयुगे संप्राप्ते बलधीप्राणानां परिमितत्वेन मध्ये विच्छेदसंभवात् ब्राहृविचाररूपमुख्यार्थ अनुष्ठानानुग्राहाय कर्मविचारात्मकङ्गविचारानुष्ठानं कंचित्कालं परित्यज्य शीघ्रमेवान्ते वेदान्तश्रवणे रमन्ते कतिचन कृतिनः कृतकृत्याधिकारिणो भाग्यवन्त इत्यर्थः। आहुश्च 'मुख्यामुख्यविरोधे मुख्यानुग्रहो न्याय्यः' इति। अयमर्थः 'गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंययोगः' इत्यत्रोच्यते। अयमत्र निर्णयः--अनुक्रमानुपपत्तिशाङ्कभावे न्यायानुसारादनुक्रमेणैव श्रोतव्यम्। तच्छङ्कायां पुनः प्रधानविरोधपरिहारय व्युत्क्रमेणापि न विरोधः। नन्वपरिज्ञाशाब्दान्तरादिभिः कथमिव शाण्डिल्यविद्यादीनां भेदाभेदचिन्ता, कथंचापरिज्ञा श्रुति लिङ्गादिभिश्च क्रमज्ञानयोरङ्गाङ्गि भावपरिकल्पनम् , कथं चापरिज्ञातश्रुत्यर्थपाठदिभिरार्चिरादिषु क्रमपरिकल्पनम्,एवमन्यत्रापि न्यायान्तरोपजिवनं कथमिव जाघटितीतिः घटतएव तत्त्वविद्विरचितै प्रकरणादिभिः कर्मकाण्डार्थं संक्षेपतः श्रुत्वा श्रूयतां शारिरकमिति। अथवा अप्रतिहतप्रतिभैरम्तेवासिभराचार्यसकाशादेव कर्मकाण्डार्थं संक्षेपतः श्रुत्वा श्रूयतां शारिरकमिति

वाऽविरोधः।यद्वा शारिरकश्रवणवेलायामेवातिशयित प्रतिभावन्तस्तत्तदपेक्षितमर्थजातं सहसैवावधारयन्तु नाम, तस्मादविरोध इति। क्रमश इति--अत्र हि द्वयि गातिः। केचिदक्षरराशिं गृहित्वा स्नानात्प्रागेव त्रिकाण्डीमपि मीमांसां श्रृण्वन्तीत्येका प्रक्रिया। अपरा पुनरधित्य स्नाया-

दिति वाक्यानुसारेण सहसैव स्नात्वा पश्चादनाश्रमी न तिष्ठेदिति ब्राहृणानुसारेण प्रागेव परिणयनमपि

कृत्वा कालेकाले मीमांसामपि श्रृण्वन्तीति। ननु कथं गृहस्थस्य यजमानाद्यवश्यकर्मभिरुत्तरकालस्यावरुद्धत्वात् ज्ञानार्जनावकाशः? उच्यते। यथा श्रुत्यर्थानामुत्तरकर्मानुष्ठानौपयिकद्रव्यार्जनरूपाणां याजनाध्यापर्दनकरूपस्य मीमांसाश्रवणस्याप्यवकाशो दीयतामिति महीनयं घण्टापथः।।20।।

 21. अत्रान्यः क्श्चिदचूचुदत् 'रागप्राप्तं मीमांसाश्रवणमित्यक्षरराशिग्रहणमात्रफलकाध्ययनविधिवादिनो भवन्तः

प्रतिपेदिरे। तर्हि आचार्यसकाशादेव श्रोतव्यमिति विर्बन्धो निर्निबन्धनः। स्वयमेव शारीरकशास्त्रपुस्तकावलोकनेन

कर्मब्राहृमीमांसापिरज्ञानमात्मनः करोतु प्राज्ञः। मुधैवाचार्यानुसरणप्रयासः' इति। तदिदमाह-- रागादित्यादिना।

तत्प्रतिक्षिपति--नेति। तत्र हेतुमाह-- ब्राहृेति। 'तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्' इति ब्राहृज्ञानार्थं गुर्वभिगमनविधेः। न केवलं विधिमात्रमुपदेशदर्शनमप्यस्तीति दर्शयति तेनेति। नपुनरिदं हेतुद्वयमेव, सद्विद्या पुनः'आचार्यवान्पुरुषो वेद' इत्याचार्योपदेशादेव सम्यग्ज्ञा#ानमुपजायत इति विशदमेव प्रकाशयतीत्याह-- सद्धिद्येति। अत्र मतुपा सम्यगुपासनं विवक्ष्यते। न केवलं सद्विद्यैवामुमर्थमुपदर्शयति, विद्यान्तरमपि विद्यायास्साधुत्वमुपदेशादेव सिध्यतीति प्रकटयतीत्याचष्टे-- तथेति। 'आचार्याद्वैव विदिता विद्या साधिष्ठं प्रापत्' इति हि श्रुतिः। साधिष्ठं साधुतमत्वम्। प्रापत्-- प्राप्नुयादित्यर्थः। 'छन्दसिलुङ्लङ्लिटः' इति व्यत्ययस्य सौत्रत्वात्। ननु रागप्राप्तं मीमांसाश्रवणमिति भवद्भिगङ्गीक्रियते, कथमधुना बहुश्रुत्युपपादनेन विधिप्राप्तत्वमुच्यते? तथा च ह्मद्यन्यद् वाच्यन्यमदिति वैयाकुलीमेवातनोति, नेत्याह--नियमविधिरिति। त्रिविधः खलु विधिः-- अप्राप्त विधिः, नियमविधिः, परिसंख्याविधिश्चेति। अत्र मा भूदप्राप्तविधिः माचभूत्परिसंख्याविधिः, नियमविधिमेव परिगृह्णीमहि' अभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत्' इतिवत् श्रोत्रियं ब्राहृनिष्ठमेव गुरुमेवाभिगच्छेदिति। तेनायमर्थः-- अत्र न श्रवणं विधीयते। नापि श्रवणार्थं गुर्वभिगमनम्। तस्यापि श्रवणार्थिभिः स्वयमेवाचरणात्। अपितु शिष्याचार्ययोर्गुणावेव विधीयते। तेन विधिप्राप्तत्वरागप्राप्तत्वविरोधचोदनं मन्दमिति।।21।।

22. एममध्याययनानन्तरमथातोधर्मजिज्ञासेत्यारभ्यानावृत्तिः शब्दागनावृत्तिः शब्दादित्येवमन्तव्यमनुक्रमेण कर्तव्यं

मीमांसाशास्त्रशरीरमिति प्रमाणतर्काभ्यां प्रकटमेवोपपादितम्। अतः परं मीमांसाशास्त्रैकदेशभूतस्य शारीरकशास्त्रस्यानारम्भणीयत्वशङ्कां शारीरकाद्यभूतचतुरधिकरणी चतुर्भिन्र्यायविशेषैः प्रशमयतीति शास्त्रोपक्रम प्रतिपादनायोपक्रमते--सिद्ध इति। उक्तञ्च पूर्वाचार्यैः--

'व्युतपत्त्यभावात्प्रतिपत्तिदौस्स्थ्यादन्येन सिद्धेरफलत्वतश्च।

अमात्व्माशङ्क्य निराचकार न्यायैश्चतुर्भिः प्रतिपाद्य तत्तत्।।' इति।

उक्तमन्यैरपि शारीरकशास्त्रन्यायनिबन्धग्रन्थकर्तृभिर्धधन्यबुद्धिभिः--

'व्युतपत्त्यभावात्प्रतिपत्तिदौस्स्थ्यादन्येन सिद्धत्वमथआफलत्वम्।

एतानि वै सूत्रचतुष्टयेनानारम्भमूलानि निराकृतानि।।' इति।

इयं केवलचतुःसूत्री तावदेका पेटिका शास्त्रारम्भसमर्थनरूपार्थैक्यात्, तत्परिपन्थिपरोक्तन्यायनिराकरणरूप प्रयोजनैक्याच्च। तदवान्तरपेटिके द्वे द्वे सूत्रे। तत्र पूर्वसूत्रद्वितयं सिद्धप्रतिपादकस्य शब्दस्य व्युत्पत्ति समर्थनेन

वेदान्तवाक्यप्रामाण्यसमर्थनार्थम्। उत्तरं च तात्पर्यलिङ्गसमर्थनेन तदर्थमेवेति पेटिकाविभागः। तत्रापि पूर्वपेटिकायां सिद्धपरस्य शब्दसामान्यस्य व्युत्पत्तिः समथ्र्यते प्राथमिकेन सूत्रेण। द्वितीयेन तु सिद्धविशेषपरस्य ब्राहृशब्दस्य व्युत्पत्तिसमर्थनमित्ययवान्तरविभागः। उत्तरपेटिकायां तु तात्पर्यलिङ्गसमर्थनं ब्राहृणि वेदान्तवाक्यानाम्। तात्पर्यलिङ्गानि च--- 'उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्।

अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये।। '' इति षोढा विभज्यन्ते।

तत्र मानान्तरागोचरतारूपमपूर्वत्वलक्षणं तात्पर्यलिङ्गं शास्त्रयोन्यधिकरणे सिध्यति। साफल्यलक्षणं समन्वयाधिकरणे। तत्रापि शास्त्रसाफल्यं पूर्वत्र, तज्जन्यज्ञानसाफल्यमुत्तरत्रेति पेटिकाधिकरणविभागः प्रसिध्यति।

एतत्सर्वमनुक्रमेण तावदुपपादयामः। आद्या व्युत्पत्तिः सिद्धेऽर्थे न सिध्यतीति प्रथमाधिकरणपूर्वपक्षः। द्वितीयाधिकरणए

पूर्वपक्षं दर्शयति-- नचेति। लक्षणतो हि विशेषव्युत्पत्तिः शब्दानां गन्धवती पृथिवी सास्नादिमान्गौरित्यादौ। आहुश्च 'व्यावृत्तिव्र्यवहारो वा लक्षणस्यार्थः'इति। अÏस्मस्तु ब्राहृणि जगत्कारणत्वलक्षणं

न जाघटीति, तेन न योज्यते विवक्षितब्राहृशब्दस्य व्युत्पत्तिरिति।तृतीयाधिकरणपूर्वपक्षमाह-- किमिति। अनुमानसिद्धे किं शास्त्रेणेत्यर्थः। चतुर्थस्याधिकरणस्य पूर्वपक्षमाह--नचेति। निशमयितुः-- श्रोतुरित्यर्थः। एवं

ब्राहृण्युपनिषदो न मानानीति ब्राहृविचारे स्तम्भिते शारीरकशास्त्रारम्भं चतुस्सूत्री चतुर्भिन्र्याय विशेषैः समजीघटत्। सिद्धे व्युत्पत्तिसद्भावात् ब्राहृलक्षणता प्रतिपत्तिसौष्ठवात् मानान्तरागम्यत्वसाधदनाद् वेदान्तवाक्यजनितज्ञानानां तव गृहे निधिरस्तीत्यान्यायेन निरतिशयानन्दब्राहृविषयत्वेन स्वयमेव पुरुषार्थरूपत्वादिति चत्वारो न्यायशअचतुरधइकरणीनिर्णेयाः।।22।।

23. अत्र केचिद्वदन्ति 'चतुरधिकरणीपूर्वपक्षः खल्वन्वारुह्रवादेनापि परिहर्तुं शक्यते। तत्किमस्मिन्नाङ्गीक्रियते' इति। तत्परिहारमन्वारुह्रवादस्वरूपोपन्यासपूर्वकमाह--सिद्ध इति। इयं किल तस्य स्वरूपोपन्यासप्रक्रिया -- मास्तु नामाद्या व्युत्पत्तिः सिद्धे। तथापियागादिफलभूतस्वर्गादिस्वरूपवत्

'ब्राहृविदाप्नोति परम्' इति वाक्यविहितवेदनफलतया परं ब्राहृापि सिध्यतु। लक्षणभङ्गेऽपि पूराणादि

प्रसिद्धरावणयुधिष्टिरसुयोधनादिवत् तत्तददौपनिषदसूक्तप्रसिद्ध्या, ब्राहृापि सिध्यतु। नहि काव्येतिहासमपुराणादिषु सर्वत्रापि लक्षणं लक्ष्यते। नच तावता तत्तदर्थासिद्धिरनुवण्र्यते। अस्त्वनुमानप्रसिद्धमपि ब्राहृ तथापि निरतिशयानन्दरूपत्वाद्यनन्तगुणविशिष्टतया शास्त्रवेद्यमपि भवत्येव। विधिशेषत्वेऽपि वेदान्तवाक्यानामबाधितानां 'अग्निर्हिमस्य भेषजम्' इत्यादिवत् स्वार्थप्रमाण्ये को विरोध इत्यन्वारुह्रवादः। तथाच परमार्थदूषणे सति किमिति नाम दीनकृत्यमन्वारुह्रवादमाचरामीति भगवान् बादरायणो नारायणपरं शास्त्रं साक्षाद् युक्तिभिरेवासाधयदिति। ऋजुः -- आर्जवं मनोवाक्कायानामैकरूप्यम्। तथाच सूत्रकारह्मद्यन्यद्वाच्यन्यदिति द्विरूपां प्रक्रियां नानुसरतीत्यर्थः।।23।।

 24. चतुरधिकरण्यां पूर्वोत्तरपेटिकयोः प्रकारान्तरेणाप्यर्थविभागं दर्शयन् चतुर्णामधिकरणानामुपोद्घातत्वं

स्वपक्षेण प्रदश्र्य'एकमेवाधिकरणमुपोद्घातः' इत्येकदेशिनां मतमपि प्रधानार्थविरोधाभावेन प्रौढिप्रकर्षादनुवदति- द्वाभ्यामिति। अयमर्थविभागः-- द्वाभ्यामधिकरणाभ्यां सिद्धे ब्राहृणि प्रतीत्यपत्पत्तिरुक्ता, तस्याः प्रतीतेस्तत्कारणभूतस्यस शास्त्रस्य च साफल्यं द्वाभ्यामधिकरणाभ्यामुच्यते। इत्थं चतुरधइकरणी शास्त्रोपोद्घातः। उपोद्घातलक्षणस्य प्रधानभूतसकलवेदान्तचिन्तार्थचिन्तान्तरूपेषु चतुष्र्वधिकरणेषु साधारणत्वात्। इममवार्थं सहेतुकमुपपादयति-- औचित्येति। औचित्यम्-- अर्थौचित्यमुपोद्धातत्वोपपादकलक्षणतौल्यमित्यर्थः। अनेकेषु भाष्येषु चतुस्सूत्र्युपोद्घातत्वेन प्रतीयते। प्राक्तनी चेयं

वर्तनी श्रीमद्भाष्यकारशिष्यधुरन्धरैरात्रेयाचार्यश्रीविष्णुचित्तवरदाचार्यवादिहंलाम्बुप्रभृतिभिस्तत्तद्ग्रन्थेषूपपादनात्। मेघनाथसूरिप्रभृतयस्तु 'अथातो धर्मजिज्ञासेत सूत्रवदेकमेव वेदान्तसूत्रं शास्त्रोपोद्घातः' इति प्रतिपेदिरे, तदपि वैभववादत्वादुपन्यस्याम इत्याह-- शास्त्रेति।। 24।।

25. तस्य पक्षस्य वैभववादत्वमेव प्रदर्शयितुं सर्वलोकसंप्रतिपन्नबह्वाचार्यग्रन्थसंवादनात् चतुर्णामधिकरणानाम्

उपोद्घातत्वमेव प्रकटयति-- यत्तदित्यादिना। सेनेश्वरार्याः-- श्रीरङ्गराजान्तरङ्गपरिकरतल्लजाः शारीरकाधिकरणार्थसंग्राहकपद्यनिर्मातारः। वकुलभृÏत्ककराः-- वरदनारायणभट्टारकान्यायसुदर्शनकर्तारः। व्यासाचार्याः-- श्रुतप्रकाशिकाश्रुतप्रदीपिकानिर्मातारो हारीतकुलाचार्याः। द्विरिति-- द्वयोरपि ग्रन्थयोरुपात्तत्वमुच्यते। श्रीविष्णुचित्ताः-- शठमर्षणगोत्रप्रभवाः प्रमेयसंग्रहादिग्रन्थकर्तारः। सकलाचार्यसंभाव्या वादिहंसाम्बुवाहा आत्रेयवंशजा न्यायकुलिशादिग्रन्थनिर्मातारः। इत्थं कति कति आत्रेयवरदाचार्यप्रभृतयो वेदान्तशआस्त्रसंरक्षकग्रन्थान् व्यरीरचन्। तेन बह्वाचार्यग्रन्थसंवादाद् वयमपि चतुरधिकरण्युपोद्घातत्वपक्षमेवाचक्ष्मह इति निर्धार्य कथयति-- अद्धेति।।25।।

26. अत्र स्वपक्षेण चतुस्सूत्र्युपोद्घातत्वमुक्त्वा व्यत्ययेन चतुस्सूत्र्यां परवाद्युक्तां प्रक्रियामन्यायमूलतयाऽनुभाष्य प्रतिक्षिपति-- व्युत्क्रम्येति। इत्थं किलाहुरन्ये 'शारीरकाद्यसूत्रे प्रतीतिसाफल्यकथनम्। प्रतीत्युत्पत्तिकथनं तु समन्वयसूत्रे' इति। एतदप्राप्तमेव। कथमप्राप्तत्वमित्याशङ्कय तत्र हेतुमाह-- बोधासिद्धाविति। सति धर्मिणि धर्माश्चिन्त्यन्त इति हि न्यायः। तेन सिद्धे बोधे साफल्यासाफल्यचिन्तनं न्याय्यम्। नपुनः प्रागेव साफल्यादिचिन्तनं क्रियते । अनागतावेक्षणन्यायेन सिद्धं

कृत्वा चिन्त्यत इति चेत् तदपि न, तस्य न्यायस्य मन्दगतित्वात्ष तदिदमाह-- सिद्धवत्कारमान्द्यादिति। परपरिकल्पितं प्रक्रियान्तरमपि प्रतिक्षिपति--मध्याविति। रूपप्रपञ्चनिर्माणकथनं जन्माद्यधिकरणे, नामप्रपञ्चनिर्माकथनं शास्त्रयोन्यधिकरण इति तै रुच्यते। तद्वार्तम् 'इमानि भूतानि' इति रूपनामप्रपञ्चयोर्जम्वनि साधारण्येन श्रुत्यैव साक्षादुक्ते भवद्भिरपि तथैवोक्ते तस्मिन्नपेक्षिते च सति विफलविभजनममनुचितमेवेति

भावः। पुराणादिषु साधारण्यंनैकवारमुच्यते, पुनर्विभज्याप्युच्यते, तद्वदस्मिन्निर्वाह इति चेत् तत्राह-- नीतिसूत्र इति। काव्यपुराणादिषु यथाकथंचित्कथनमस्तु। न्याय निबन्धनात्मके शास्त्रे सकलं सर्वदा वक्तव्यमिति नीतिविदां निर्णयः। निष्फलं च भवत्कथितं विभजनमित्याचक्ष्महे।।26।।

1.1.1.

27. एवं कर्मविचारानन्तरमधिकर्तव्यस्य शारिकशास्त्रस्याधिकारिविशेषप्रतिपत्त्यर्थं शास्त्रोपोद्धातरूपप्रथमाधि-

करणपूर्वपक्षोपन्यासप्रकारानुसारेण राद्धान्तप्रक्रियावैविध्यमुप्युपदर्शयन् सूत्रप्रधानभूतब्राहृजिज्ञासां प्राधान्येन प्रदर्श-

यति सूत्रकार इति प्रकटयति-कार्य इति। शारीरकशास्त्रोपोद्धातरूपमिदमधिकरणमित्युक्तम्। अधिकरमं च

पञ्चाङ्गम्। यथाऽऽ--

'विषयः संशयश्चैव विचारो निर्णस्था।

प्रयोजनं च प्राञ्चोऽधिकरणं विदुः।।'

दशाङ्गमित्याहुराचार्याः।

'संगतिर्विषयश्चैव संशयोत्थानाकरणम्।

संशयस्य प्रकारश्च तदर्था च विचारणा।।

तस्यां फलफलित्वं च न्यायौ द्वौ पक्षयोद्र्वयोः

निर्णयस्तत्फलं चेति बोध्यान्यधिकृतौ दश।।'इति।

विषयोऽपि द्विविधः। अधिकरणप्रतिपाद्यार्थस्तादेवकः प्रधानः। तत्प्रतिपादकश्रुतिरवान्तरविषयः। तत्र प्रधान-

विषयः। तत्र प्रधानविषयमाद्यस्याधिकरणस्य दर्शयति--ब्राहृ जिज्ञास्यमिति। सर्वाधिकरणसुखग्रहणाय संगत्यादि-

कमप्येकत्र विव्रियते। शास्त्रकाण्डद्विकाध्यायपादपेटिकरणसूत्रभेदादष्टविधा संगतिर्वक्तव्या। अस्याधिकरणस्य वेदवाक्यार्थविचारात्मकत्वात् शास्त्रसंगातिः। वेदान्तवाक्यार्थविचारात्मकत्वात् काण्डसमगतिः। सिद्धविषय-

निरूपणपरत्वात् प्रथमद्धिके। समन्वयप्रधानत्वात् प्रथमाध्याये। अयोगव्यवच्छेदप्रतिपादनरूपत्वात् प्रथमपादे।

शास्त्रोपोद्धातरूपत्वात् प्रथमपेटिकायाम्। तत्रापि प्रतीति जननार्थत्वात् पेटिकापूर्वभागे समन्वयपप्रधाने। 'अन्ते-

हरौ तद्दर्शनात् स विष्णुराह हि तं ब्राहृेत्याचक्षते' इति देवाताकाण्डान्तिमाधिकरणप्रतिपन्नसर्वदेवतान्तर्यामिरूप-

विष्णुपरत्वात् पूर्वाधिकरमेन संगतिः। तत्रापि 'तं ब्राहृेत्याचक्षते तं ब्राहृेत्याचक्षते' इति प्रधानतया द्विरुक्तब्राहृ-

शब्दस्य साक्षादुपादानात् सूत्रसंगतिरपीति। विषयः प्रगेवोक्तः।संशयोत्थानकारणं तु समानधर्मादिष्वेकमेव ग्रह्रम्।

ब्राहृजिज्ञासापरं शास्त्रमारम्भणियं न वेति संशयप्रकारः। तदर्थविचारस्तु--वेदान्ता ब्राहृणि प्रमाणं न वेति। तदर्थ-

मपि विचार्यते-सिद्धे व्युत्पत्तिरस्ति न वेति। तदर्थं विचार्यते-कार्यपरवृद्धव्यवहारादन्यत्राद्यव्युत्पत्तिः संभवति न

वेति। फलफलिभावस्तु प्रधानतयाऽभिमते परस्मिन्ब्राहृणि व्युत्पत्त्यसंभवात् सत्यापि वा वृद्धव्यवहारादन्यत्राद्य-

व्युत्पत्त्यभावाच्च सिद्धे ब्राहृणि व्यत्पत्त्यभावेन वेदान्तानां ब्राहृणि प्रामाण्यस्य शाङ्कितुमप्यशक्यत्वादप्रमाणभूत- वेदान्तवाक्यार्थविचाररूपब्राहृविचारो न कर्तव्य इति पूर्वपक्षे। राद्धान्तेत्वेतद्विपर्येण फलफलिभावो वक्तव्यः। अत्र

पूर्वपक्षन्यायो व्युत्पत्त्यभावः। राद्धान्तन्यायस्तु व्युत्पत्तिसद्भावः। निर्णयस्त्वारम्भणियत्वनिर्मयः। फलं शास्त्रारम्भः।

एवमाद्याधिकरणप्रक्रिया। तत्र प्रथमाधिकरणे पूर्वपक्षसिद्धान्तावारचयति--कार्य इति। आद्या व्युत्पत्तिः कार्य एव-

नियता। अतः वर्वे शब्दाः कार्यपरा एव। अस्तु लोके ताद्दशी नीतिः,वेदे त्वान्यथेत्याशङ्क्य प्रतिक्षिपति-नान्येति।

लोकवेदाधिकरणन्यायेन वेदे न न्यायान्तरं कल्पनीयमित्यर्थः। फलितमाह--नात इति। ऊषरकल्पस्य वेदान्तस्य

चिरकालोपार्जनेऽपि नैष्फलयमेवेति भावः। तेन वेदान्तवेद्यपरब्राहृचिन्तनं न कार्यमिति प्रत्यवस्थीयमाने प्रति-

क्षिप्यमाणे शास्त्रारम्भे सिद्धे व्युत्पत्तिमाद्यां बहुमुखमवयन् निश्चिन्वन् ब्राहृ जिज्ञास्यमाह सूत्रकारः।

तदनुसारेण भाष्यकारोऽपीत्यर्थः।।27।।

28. सिद्धव्युत्पत्तिप्रकाराणां बहुमुखत्वमुक्तम्। तेष्वाबालगोपालं प्रसिद्धं परवादिभिरलङ्घनीयं तावदेकं प्रकारमाह--अङ्गुल्येति। इत्थं किल बालान् व्युत्पादयन्ति लौकिकाः। मातापित्रादयो ह्रग्रस्थितं किमपि किमपि वस्तु अङ्गुल्या निर्दिशन्तः, अङ्गुलिनिर्देशेन सह प्रयुक्तैरयं तात इयं माता मातुलोऽयमित्यादिभिर्वाक्यै र्बालान् व्युत्पादयन्ति। व्युत्पादकानामङ्गुलिनिर्देशस्तु बालानां तत्तदर्थाभिमुख्यार्थम्। ते बालाश्चानादिसंसारे संस्कारपाटवस्य बहुत्वात्, अङ्गुलिनिर्देशानां तत्तदर्थोपादेशाभिप्रायपूर्वकत्वं जानन्ति। एवं च सति सर्वेषां शब्दानामङ्गुलिनिर्देशमन्तरेणापि तत्तच्छब्दप्रयोगे चिरकालोत्पन्नसहोपदेशजनितसंस्कारसामथ्र्यात् तत्तदर्थप्रतीतिर्जायते। तत्र बाला निश्चिन्वन्ति' एतच्छब्दप्रयोगे खल्वस्माकमेतदर्थप्रतिपत्तिः। सा च शब्दार्थयोः संबन्धनिबन्धना।संयोगादिसंबन्धानन्तरं च न दृश्यते। सङ्केतपरिक्लृप्तौ सङ्केतहेतुभूतपुरुषादिकल्पनागौरवम्।

तस्माद् बोध्यबोधकभावसंबन्ध एवात्र संबन्धः' इति। अस्त्वेकैकत्र तत्तच्छब्दप्रतिपत्तिः, तथापि वाक्यार्थरूपमिलिप्रमितिः कथमिति चेत्तत्राह-क्रमभवेति । चिरकालानुभवात् तत्तन्मिलितप्रयोगाच्च मिलितव्युत्पत्तिरपि बालानां भविष्यतीति व्युत्पादका जानन्त्येव। व्युत्पादनीयाश्च बासास्तथैव व्युत्पद्यन्ते। ननु कार्यव्युत्पतिं्त प्रतिक्षिपतस्तव प्रयोज्यप्रयोजकवृद्धव्यवहारविरोध इत्याशङ्क्याह-- सङ्घाता इति। न वयं कार्य एव व्युत्पत्तिः सिद्ध एव व्युत्पत्तिरित्येकं पक्षं पक्षपातेनाचक्ष्महे।अपि तूभयमपि पक्षं कक्षीकुर्महे। यदि सिद्धे व्युत्पत्तौ विशिष्टरूपवाक्यार्थप्रतिपत्तिर्न स्यात्, तर्हि कार्ये व्युत्पत्तावपि वाक्यार्थप्रतिपत्तिर्न स्यात्। यद्यावापोद्वापसहितसमभिव्याहारसामथ्र्याद् वाक्यार्थप्रतिपत्तिमुपपादयसि कार्ये, सिद्धे वयमपि तथैवोपपादयाम इति

समः समाधिः यद्यभिहितान्वयो न्यायसिद्धः, तदा 'पदैरभिहिता' इत्युक्तप्रक्रमेण प्रतिपदव्युत्पत्तिपूर्वकं वाक्यार्थप्रतिपत्तिः सुलभा। यदिवाऽन्विताभिधानम्, तदानीमपि संसृष्टरूपवाक्यार्थद्योतकाभिनयेषु वाक्यार्थप्रतिपत्तिवत् पूर्वपूर्वानुभवजनितस्मरणसहकृतेन क्रमभवमिलितज्ञापकत्वानुसन्धानेन वाक्यार्थप्रतिपत्तिर्जायत इति साधारणोऽयं व्युत्पत्तिमार्गः। कार्यान्वितस्वार्थे व्युत्पत्तिरिति निश्चित्याचक्ष्मह इति भावः।।28।।

29. नन्वस्तु पूर्वसंस्कारप्राचुर्यात् शब्दव्युत्पत्तिः, तथापि प्रलयादौ कृत्स्नसंस्कारविच्छेदाद् आद्ये जन्मनि कथं व्युत्पत्तिः? तत्रापि यदि व्युत्पत्तिर्नस्यात् संस्कारेण कथं वा तदुत्तरस्मिन्नपि जन्मनि व्युत्पत्तिपिति, एवं जन्मनिजन्मनि कथं व्यवहारसिद्धिरिति बालकः कश्चिदाह।एवमादिशङ्कापरिहारार्थं पद्यान्तरमारभते-- संसार इति। ' वीतरागजन्मादर्शनात्' इति सूत्रोक्तप्रक्रियया संसारस्यानादित्वात् नायं दोष इति दर्शयति-- अनादिसिद्ध इति। कथं त्रिचतुरादिभिः संस्कारैरेतादृशी महती व्युत्पत्तिरिति पुनरप्याशङ्क्याह-- मुहुरिति। सहरुामपि संस्कारा भवन्तु नाम। कथं तदुद्बोधकाभावे कार्यसिद्धिरित्यत्रोत्तरमाचष्टे--संस्कारोद्बोधका इति। यथा संस्कारा बहवः कारणप्रवाहवैचित्र्यबाहुल्यात् तथा तदुद्बोधकाश्च सहरुाशः संभवन्तीति भावः। अथाप्यनुमानमन्तरेण शयनासनभोजनव्यवहारादयः सर्वेऽपि न संभवन्ति, अनुमानं चेष्टसाधनजातीयत्वग्रहणं अन्तरेण न सेत्स्यति, तस्मादस्य ग्रहणपावाभावात् कथं व्युत्पत्तिरिति, तत्रोत्तरमाह-- तत्तदिति। वृत्तयः-- बुद्धिवृत्तयः। साजात्यग्रहणसमुचिता बुद्धिवृत्तिः संस्कारपाटवात्सिध्यति, लोकव्यवहारस्य दृष्टत्वात्। तच्च

संस्कारपाटवमनतिलङ्घनीयमेव, अन्यथा भाषाव्यवहारोप्युच्छिद्येत, तदुच्छेदे मूकतैव शरणं स्यात्। अस्तु संस्कारपाटवात् प्रबुद्धानामियं व्यवहारपरिज्ञानपरिपाटी। अप्रबुद्धानां बालकानां कथं व्युत्पत्तिरिति परिचोदनां परिहरति-- तद्वदिति। सद्यस्संजातानामपि स्तन्याभिलाषादिदर्षशनेन संस्कारपारम्परी कल्प्यते न्यायवादिभिः। किं पुन पञ्चवर्षपरिमितानां बालकानाम्। तेषामपि भाषाव्युत्पत्तिर्मातापित्रादिव्यवहारबलात् प्रागेव सिद्धा।किमनेन

संस्कृतव्युत्पत्तिविडम्बनेन। तत्रापि सिद्धव्युत्पत्तिविडम्बनवत् कार्यव्युत्पत्तिविडम्बनं स्वयमेव सिद्धमिति सिद्धं नः

समीहितम्। तद्वदिति कृत्स्नस्यापि लोकव्यवहारपरिज्ञानस्य दृष्टान्ततयोपादानम्। दाष्र्टान्तिकं तावद् द्रष्टव्यमिति नेह प्रदश्र्यते।।29।।

30. ननु कथमयं व्युत्पत्तिप्रकारो बालमूकादिबहुले जगति सार्थो भविष्यतीत्याशङ्कमानस्यात्यन्तमूढस्य प्रबोधनार्थं पुनरप्यत्यन्तप्रसिद्धदृष्टान्तोपादानेन प्रदर्शयितुमारभते--दक्षैरिति। प्रायेण सत्त्वप्रचुराः खलु मनुष्यप्रभृतयः, तमः प्रचुराः रजः प्रचुराश्च गजविहगतुरगादयः। तेषामाधारेणाद्या गजादिशिक्षकाः शिक्षां कुर्वन्ति।

सा च शिक्षा सफलैव लोके दरीदृश्यते। शिक्षकाः शिक्षासाफल्यानुमित्यैव प्रवर्तन्ते। इत्थमत्यन्ताशक्यार्थसिद्धावत्यन्तसुग्रहमेव मनुष्यादिषु शिक्षासाफल्यमित्याह-- तस्मादिति। एवं भाष्यकारविरचितसिद्धव्युत्पत्तिप्राकारानङ्गीकारे भवत्कल्पितकार्यव्युत्पत्तिप्रकारोऽपि न सिध्यतीति प्रतिबन्दीं दर्शयति--कल्प इति। तत्र परोक्तापूर्वखण्डनं श्रीभाष्ये श्रीवत्याङ्गविरचितापूर्वभङ्गे च द्रष्टव्यम्।।30।।

31. प्रकारान्तरेणापि सिद्धे व्युत्पत्तिः सुलभेति दर्शयति--कस्मैचिदिति। इत्थमिह प्रक्रिया, देशान्तरस्थितस्यान्यत्र पुत्रे संजाते तत्समीपस्थितो मौनी कश्चित् पुत्रस्ते जात इति देवदत्ताय बोधयेति स्वोपान्तस्थितमन्तेवासिनं चेष्टयाऽऽदिशति। स चान्तेवासी सहसैव गत्वा देवदत्ताय तथैवाचष्टे। उभयत्र सहावस्थितो बालकः कश्चिन्मूकवत् चेष्टाविशेषज्ञः पुत्रजननबोधनाय यातीति जानाति, तथा च तेन वाक्ये प्रयुक्ते पुत्रजन्मबोधकमिदं वाक्यमिति प्रतिपद्यते। तद्धीसमविषयतया- बोधकशिष्यधीसमविषयतया। तद्वचः शिक्षते- तद्वाक्यं व्युत्पद्यत इत्यर्थः। अत्र प्रतिपदव्युत्पत्तिरप्यावापोद्वापाभ्यां सिध्यतीति सर्वेषामपि समानम्। न हि कार्ये व्युत्पत्तिरप्यावापोद्वापपरित्यागेन सिध्यति। अथाप्ययमेवानेन वाक्येनान्तेवासिना प्रोक्त इति कथमिव निश्चिनुते बालकः? इत्थमेव निश्चिनुत इत्याह-- आदिष्ट इति । यो यदर्थमादिष्टः स तत्कुरुत इति लोकसिद्धमेतत्। तेन योग्यतावशाद् विशेषार्थसिद्धिरिति भावः। चोदयति-- तद्वाक्यादिति। पुत्रजन्मवाक्य श्रवणानन्तरं देवदत्तो जातकर्मादिषु प्रवर्तते तदेव कार्यरूपं वाक्यार्थ इति, अत्राप्यन्ततः कार्यव्युत्पत्तिरेव स्यादिति, अत्रोत्तरम्--अस्त्विति। पुत्रजन्मनः प्राधान्यात् शब्दानामावापोद्वापादिसहकारिसामथ्र्याद् बालस्यापि तत्तद्विशेषपरिज्ञानवैचक्षण्याच्च पुत्रजन्मैव वाक्यार्थ इति निश्चयो जायते। उत्तरोत्तरकार्यकरणं तु श्रोतुः स्वबुद्ध्यैव जायते। गृहमलङ्कुरुते बान्धवानाकारयति जातकर्मादिकं करोति गां ददाति भेर्यादिकमुद्घोषयति किमेतादृशं सकलमपि पुत्रजन्मवाक्यार्थ इति प्रतिपद्यते भवानपि? तस्मादनेनापि प्रकारेण सिद्धे व्युत्पत्तिरपि सिध्यति।।31।।

32.  प्रकारान्तरेणापि लोकप्रसिद्धं परवादिकल्पनाप्रसिद्धं च सिद्धव्युत्पत्तिप्रकारमाचष्टे--पुत्र इति। लोके हि पितुः समीपमागत्य पुत्रस्ते जात इति कश्चिद्वदति। तस्य च तेन मुखप्रसादो जायते। तद्वाक्यं व्युत्पत्तिसुरपरः श्रृणोति। स चानुमिनोति-- एतद्वाक्यश्रवणसमनन्तरमेतस्य मुखविकासो जातः, अयं मुखविकासस्तावदनुकूलार्थ -

प्रतिपत्तिमन्तरेण न संभवति, इयमनुकूलार्थप्रतिपत्तिरेतद्वाक्यश्रवणसमनन्तरभाविनी स्वस्या स्तदेव कारणीकरोति, अत एतद्वाक्यं पुत्रजन्मप्रत्यायकमिति। एवं निश्चिन्वानः पुत्रस्तेजात इति वाक्यार्थं प्रतिपद्यते। एवं सर्पभयजनितपलायनस्य नायं सर्प इति वाक्यश्रवणसमनन्तरं पलायनान्निवृत्तस्येदं वाक्यं सर्पाभावप्रतिपादकमिति निश्चिनोति बालकः। एवमन्यान्यप्येतादृशान्युदाहरणान्युदाहर्तव्यानीति। ननु तव गृहे निधिरस्ति, पिता ते सुखमास्व इत्यादिभिरपि वाक्यैरनुकूलीर्थप्रतिपादकैर्मुखविकासो जायते।व्याघ्रोनास्तीत्यादिप्रतिकूलार्थनिवृत्तिप्रतिपादकैः पलायननिवृत्त्यादिकं जायते। कथं पुत्रस्ते जातो न सर्पोऽयमिति वचनयोरयमर्थ इति विषयनियमः स्यात्? स्यादेवेत्याह-- विषयनियतिरिति। आसात्तिः--सन्निहि- तत्वम्। अत्र पूर्वशब्देन विषयान्तरानासत्तिर्गम्यते। अथवा पुत्रजन्मानुकूलजातकर्मादिप्रवृत्तिसंरम्भः। एवं नायं सर्प

इत्यत्राप्यासत्त्यादिभिर्विषयनियमो वक्तव्यः। नन्वत्र सामान्यव्युत्पत्तिरेव स्यात् , न पुनः प्रतिपदव्युत्पत्तिः। कथमत्र

बालको व्युत्पद्यते? तत्राह-आवापेति। अयमर्थः। पुत्रस्ते जात इत्यक्ते मुखविकासः, एवं मृत इत्युक्ते रोदनादिकं

जायते, एवं शत्रुर्जातो मृत इति चोक्ते रोदनमुखविकासौ स्तः। तस्मादावापोद्धापावेवे प्रतिपदव्युत्पत्तौ तन्त्रमिति

तन्त्रज्ञाः। तस्मात् पुत्रजातादिशब्दानामत्र यथादर्शनं व्यपत्पत्तिरनुसर्तव्या विचक्षणैरिति। ननु कथं कतिपयव्यव-

हारदर्शिनो व्यत्पद्यन्ते बालका इत्याशङ्क्य न तथा वयमाचक्ष्मह इत्याह--भूयोद्दष्टिति।उक्तार्थस्थेम्ने प्रतिबन्दि-

मारचयति--कार्येति। कार्यवाक्यार्थवादिनोऽप्यावापोद्धापावेव प्रतिपदव्युत्पत्तौ तन्त्रमिति।। 32।।

33. परोक्तं कार्यव्युत्पत्तिमाद्यामङ्गीकृत्यापि कार्य एव शब्दशक्तिरिति परोक्तां प्रक्रियां निवार्य सिद्धे व्युत्पत्तिप्रकारान्तरमप्युपदिशति-- कार्य इति । आद्या व्युत्पत्तिः कार्य एवेति तु भवतु नाम। अथापि कार्य एव सर्वषां शब्दानां शक्तिरिति नियन्तुं न शक्यते। उक्तार्थप्रतिपादनार्थं प्रतिबन्दीमाह-- प्रागिति। प्राभाकराः किल प्रथमं व्युत्पतिं्त क्रियायामेव प्रतिपेदिरे लिङादेः। पश्चात् पुनः कामिनियोज्यान्वयानुपपत्त्या क्रियातिरिक्ते क्वचिदपूर्वशब्दाभिधेये शब्जदशकिं्त प्रचक्षते। तेनैवं वदतस्तव परगृहवह्निप्रक्षेपप्रवृत्त्या स्वगृहस्यापि दाहः स्यात्।

तर्हि कथं शक्तिनियमः शब्दनामित्यनुयुञ्जानस्य गलिताहङ्काररस्य शब्दशक्तिनियामकान् हेतूननुग्रहादुपदर्शयति

--- स्थाप्येति। अनन्यथासिद्धिः सुप्रसिद्धा। अनुगमोऽप्युक्तः। सत्प्रयोगोऽपि प्रसिद्धः। एतैस्त्रिभिरपि हेतुभिः

सिद्धे वा कार्ये वा शब्दशाक्तिरवगन्तव्येत्यर्थः। प्रकारान्तरेणापि सिद्ध व्युत्पत्तिमाह--कोऽसाविति। कोऽसा- वित्युक्ते पाञ्चाल इति व्यपदिसन्ति। कः पाञ्चालः इत्युक्ते,अयमिति तु स्वरूपविर्देशेनापि व्यपादिशन्ति।तस्मात्

कार्य एव व्युत्पत्तिरिति विर्बन्धो निर्निबन्धनः।।33।।

34. एवं परमार्थैरेव प्रकारभेदैः सिद्धे व्युत्पत्तिमुक्त्वा परवाद्यङ्गीकृतप्रकारभेददृष्टान्तैरपि प्रधानार्थानुबन्धिन्यर्थेऽपि प्रतिपत्तिमुपपादयन् ' ब्राहृविद्प्नोति परम्' इति विध्यर्थैः 'तदेषाऽभ्युक्ता' इत्युक्तमन्त्रार्थवादैब्र्राहृप्रतिपत्तिः स्यादित्यन्वारुह्रवादेनापि ब्राहृज्ञानोत्पत्तिहेतुत्वमुपवनिषदामुपपादयति-- दुःखासम्भिन्नेति। अत्र दृष्टान्तत्रयमुहादीयते कार्यार्थवादिभिरपि ' स्वर्गकामो यजेत' इति स्वर्गसाधनतया प्रतिपन्नकार्यान्वितसिद्धरूपस्वर्गप्रतिपत्तिः ' यन्न दुःखेन संभिन्नम्' इत्याद्यर्थवादवाक्यैर्विशेषो ज्ञायत इत्यङ्गीक्रियत इत्येको दृष्टान्तः। अपरस्तु विधिवाक्यप्रतिपन्नप्रतिष्ठादिफलमर्थववादवाक्यप्रतिपन्नमाकाङ्क्षा वशाद् रात्रिसत्रादौ स्वीक्रियत इति। तृतीयस्तु निषेधविध्यनुकूलं विपरीतफलमार्थवादिकं स्वीक्रियत इति। एवं

'परप्राप्तिकामो ब्राहृ विद्यात्' इति ब्राहृवेदनफलतया विधिवाक्यश्रुतमेव परब्राहृ मन्त्रार्थवादयोर्विशेषः प्रख्याप्यत,इति को विरोध इति श्लोकार्थः। अयमत्राधिकरणार्थसंग्रहः -- व्युत्पत्त्यायत्तं शब्दस्य प्रामाण्यम्। आद्या च व्युत्पत्तिः कार्य एव। सिद्धप्रतिपादकानां तु वेदान्तवाक्यानां न स्वार्थपरत्वमिति तद्विचाररूपं शास्त्रमनारम्भणीयमिति पूर्वपक्षः। सिद्धान्तस्तु - व्युत्पत्त्यायत्तमेव शब्दस्य प्रामाण्यम्। तथापि आद्या व्युत्पत्तिः सिद्धेऽपि संभवत्येव। तथा हि-- अम्बातातमातुलेत्यादिभाष्योक्तवेदकः प्रकारः। संसारइत्यादिर्द्वितीयस्य चोपपादकः। दक्षैरित्यात्यादिकम्पि तदेवोपपादयति। परस्तु प्रकार उच्यते कस्मै चिदित्यादिना। पुत्रस्तेऽभूदित्याना विधिनिषेधाभ्यां प्रकारान्तरद्वयमपि दर्शितम्। कार्य इत्यादिना पारङ्गीकारप्रकारेण द्वितीयव्युत्पत्तिप्रकारमाह। कोऽसावित्यादिप्रकारान्तरमपि सुप्रसिद्धम्। दुःखासंभिन्नेत्यादिरन्वारुह्रवादो भाष्य एव सुव्यक्तमुक्तः। एवं भाष्योक्तैः प्रकारभेदैरनुक्तैरप्याभिप्रायकैः सिद्धे व्युत्पत्तिः सिध्यति। प्रभिन्नकमलोदरे मधूनि मधुकरः पिबतीत्यादौ समभइव्याहारान्मधुकरशब्दव्युत्पत्तिमामनन्ति हि न्यायवादिनः। 'स्वरव्ययम्' इत्यादावभिधानपाठात् सिद्धे व्युत्पत्तिः सुप्रसिद्धा। प्रसिद्धा च 'प्रणाय्योऽसंमतौ' इत्यादिषु व्याकरणपरिचयात् सिद्धे व्युत्पत्तिः। काव्यपुराणादिश्रवणमपि सिद्धे कार्ये च द्वयोः पदानां साधारण्येन व्युत्पादकमेव। तेषु तेषु शास्त्रेषु साङ्केतिकी व्युत्पत्तिः सिद्धेऽपि सहरुामुखी। तेन सिद्धेऽपि व्युत्पत्तिसंभवोपपादनात् सिद्धपरं शारीरकशास्त्रमारम्भणीयमिति । ' अथातः' इत्यस्मिन् सूत्रे विशिष्टो हेतुरुच्यते। स च कर्मफलास्थिरत्वनिर्णयपूर्वकानन्तस्थिरफलब्राहृापातप्रतीतिः। तत्र विशेष्यापातप्रतीतिः सिद्धे व्युत्पत्तिसाधनादेव सिध्यतीति सूत्रकारह्मदयमेतत्।।34।।

1.1.2.

35. प्रमाणपरीक्षा सिद्धा। ततः प्रमेयपरीक्षेति संगतिः। पूर्वस्मिन्नधिकरणे हेयत्वेनोपादेयत्वेन चाधिगतकर्मणोऽधिकारिणः प्रागुक्तादतःशब्दार्थाद् ब्राहृविचारस्य कर्तव्यत्वमुक्तम्, तत् किमिति शिष्याकाङ्क्षायां जन्माद्यधिकरणमारभ्यत,इति भाष्यकारैरेव संगतिरुक्ता। अत्रान्ये च संगतिविशेषा दरीदृश्यन्ते। पूर्वं ब्राहृेति स्वरूपनिर्देशादुद्देशः। अत्र जन्मादिकं लक्षणत्वेनोच्यते। उत्तराभ्यामपि सूत्राभ्यां परीक्ष्यत्वसिद्धिः । ततः परं परीक्षेति। एवं वा -- प्रथमसूत्रे सिद्धसामान्ये शब्दसामान्यव्युत्पत्तिसमर्थनम्। इह पुनः सिद्धेविशेषे ब्राहृणि शब्दविशेषस्य ब्राहृशब्दस्येति। इत्थं चाहुः-- पूर्वाधिकरणविषयवाक्ये सामान्येन 'तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्' इत्यादिना शिष्याचार्ययोः कृत्यविशेषविधानमुक्तम्। अत्र पुनः स्वरूपोदाहरणविशेषे तस्यैव श्रुतिसंवाद उच्यते। तत्र विहितमेवात्रानुष्ठेयत्वेन विशेष्यते। अयमत्र विशेषः -- पूर्व शिष्यसामान्यस्य गुरुणोपदेशः प्रकाशितः। अत्र पुनः शिष्यविशेषस्य पुत्रस्य पित्रोपदेशः प्रकाश्यते। उभयं श्रुतिसिद्धम् 'ज्येष्ठाय प्रणाय्यायान्तेवासिने प्रब्राूयात्' इति । अत्रासंमतः प्रणाय्यः। 'प्राणाय्योऽसंमतौ' इति परमर्षिणा पाणिनिनैवौक्तत्वात्। अत्र शिष्यस्यासंमतत्वमाचार्य उपदेशमात्रासन्तुष्टत्वम्। प्रबुद्धौ हि शिष्य उपदिष्टेऽप्यर्थे युक्तिमप्यपेक्षते। अत्र ज्येष्ठपुत्रोपादानं प्राधान्यात्।

' यो ब्राहृाणम्' 'अथर्वाय' इति च श्रुतेः। संगत्यन्तरमप्याहुः-- पूर्वत्राप्रतिपत्तिः पूर्वपक्षहेतुः। उत्तरत्र विप्रतिपत्तिः। अत एवाहुः-- 'व्युत्पत्यभावात् प्रतिपत्तिदौःस्थ्यात्' इति। किंच पूर्वाधिकरणे निरीश्वरवादिनिराकरणम्, उत्तरत्र निर्विशेषवादिनिराकरणम्। अत्रापि तत्त्वतो निरीश्वरवादिनिरीकरणमेव -- निर्विशेषस्यानीश्वरत्वात्ष

प्रथमाध्यायप्रतिपाद्यशब्दार्थसंबन्धप्रतिपादनं प्रधमाधिकरणे। द्वितीयाध्यायोक्तविरोधकथनं द्वितीय इति चाहुराचार्याः। एवमुत्तराधिकरणयोरध्यायद्वयसंग्रहरूपत्वं द्रष्टव्यम्। एवं संगत्यन्तराण्यप्याचार्याभिहितानि तत्रतत्र द्रष्टव्यानि। शास्त्रादसंगतिषु षट्कं प्रागुक्तमत्राप्यविशिष्टमिति न लिख्यते। विषयो ऽप्यविशिष्ट एव शास्त्रारम्भस्यैव विषयत्वात्। तदर्थविचारस्तु -- किं ब्राहृलक्षणतः प्रतिपत्तुं शक्यते न वेति। तदर्थमपि वियार्यते--'यतो वा' इत्यादिवाक्यानि जन्मादीनि किं ब्राहृलक्षणतया प्रतिपादयितुं शक्नुवन्ति न वेति। तदर्थम् विचार्यते-- जन्मादीन्युपलक्षणान्युत विशेषणानीति।उपलक्षणपक्षेऽपि ब्राहृणि प्रतिपन्नाप्रतिपन्नोपलक्षकाकारत्रयविभागोऽस्ति न वेति। विशेषणपक्षेऽपि किं विशेषाणानां विशेष्यभेदकत्वंस्वभाव किं वा विरुद्धविशेषणानामिति चिन्ताक्रमः सन्तन्यते। फलफलिभावोऽपि --उपलक्षणत्वे तावदाकारत्रय प्रतीत्यभावात् विशेषणपक्षे तु विशेषाणानां विशेष्यभेदापादनस्वभाव्याज्जन्मादीनां ब्राहृण्युभयथापि लक्षणत्वासंभवाद लक्षिते ब्राहृणि परीक्षारूपविचारो न कर्तव्य एवेति। उक्तार्थवैपरीत्येन सिद्धान्ते फलफलिभावो विभाव्यः। एतत् सर्वमभिप्रेत्याधिकरणपूर्वपक्षसिद्धान्तावारचयति-- जन्माद्यैरिति। अत्र द्वौ पक्षौ संभावितौ, विशेषणत्वोपलक्षत्वेन वा जगत्कारणत्वादिकं ब्राहृ व्यावर्तयतीति। उभयमपि न संभवति। खण्डो मुण्डः पूर्णश्रृङ्गो गौरित्यादिन्यायेन विशेषणानां विशेष्यभेदकत्वस्वाभावाद् विशेष्यभेदाद् ब्राहृणि नानात्वप्रसङ्गेन विशेषणपक्षस्तावदत्यन्तविरुद्ध एव।उपलक्षणपक्षोऽपि न घटते--निर्विशेषे परब्राहृणि प्रतिपन्नाप्रतिपन्नोपलक्षकाकाररूपविशेषाभावात्। लोके ह्राकारत्रयान्वयेन यत्रायं सारसः स देवदत्तकेदार इत्यादावुपलक्षणपरिज्ञप्तिः। केदारत्वं प्रसिद्धम्। देवदत्तीयत्वमप्रसिद्धम्। सारसंबन्धो ऽप्युपलक्षणत्वात् प्रसिद्ध एव। तेनोभयपक्षासंभवेन लक्षणाभावादलक्षिते विचारस्यान्याय्यत्वाच्च ब्राहृविचारो न संभवतीति पूर्वः पक्षः। अत्र विशेषपक्षे बहुवक्तव्यत्वात् सूचीमत्राभिप्रायः। ब्राहृ निर्गुणमिति निर्गुणानामेव प्रलापः। तेन जगत्कारणत्वादिब्र्राहृगुणः। स तूपलक्षणाकारतया सुप्रसिद्ध एव। उपलक्ष्योऽपि कश्चित्पुरुषविशेषः पुंसूक्तादिषु पुरुषः पुरुष इति सामान्यतः प्रसिद्ध एव। अप्रसिद्धं पुनरवशिष्यते। तत्तु निरतिशयबृहत्त्वबृंहणत्वाभ्यां ब्राहृशब्दवाच्यत्वम्। किं ब्राहृेति ह्रनुयुज्यते शिष्येण। तदिदं सर्वमभिप्रेत्याहुर्भाष्यकाराः ' उपलक्ष्यं ह्रनवधिकातिशयबृहदंबृहणञ्च बृहतेर्धातोस्तदर्थत्वात्' इति। अनेनोभयलिङ्दत्वमुच्यते। कल्याणगुणैकतानत्वं हि बृहत्वम्। अखिलहेयप्रत्यनीकत्वं पुनर्बृंहणत्वमिति। तदिदमुभयमप्याह-- गुणनिधिरघजिदिति।।35।।

36. एवमुपलक्षणपक्षे पूर्वपक्षं निराकृत्य विशेषणपक्षेऽपि विशेषेण पूर्पक्षमनूद्य निराकरोति-- नानाचेदिति।

उभयमिह लक्षणमिति वदन्ति वेदान्तवेदिनः। 'यतो वा इमानि' इत्यादिकमेकं 'सत्यं ज्ञानम्' इति शोधकवाक्य-

प्रतिपन्नमपरमिति। तत्र पूर्वं तटस्थलक्षणम् , उत्तरं स्वरूपलक्षणमिति मृषावादिन उद्धोषयन्ति। उभयमपि सामा-

नाधिकरण्यवैयधिकरम्याभ्यां ब्राहृस्वरूपप्रतिपत्त्यर्थत्वात् प्रायेण स्वरूपलक्षणे पर्वस्यतीति प्राज्ञाः। तत्र पूर्वपक्षवादि

न्यायसाम्यादुभयमपि विकल्प्य प्रतिक्षिपति--अत्र जगत्कारणत्वादिकं सत्यत्वादिकं वा किमैकैकश्येन सर्वं ब्राहृ-

लक्षणम्? यद्वा तेष्वेकम् , उत सर्वमपि समुदितं लक्षणमिति। नाद्यः---खण्डो मण्डः पूर्णश्रृङ्गो गौरित्यादिवद्

ब्राहृनानात्वप्रसङ्गात्। नापरः--तस्मिन्नपि पक्षे किं नियतमेकमुतान्यतमत्वेनानियतं वा?। पूर्वत्र दोषमाह-वृथेति।

उत्तरत्रपि ब्राहृानियति स्यादिति भावः। समुदितमपि पक्षं प्रतिक्षिपति--अफलमिति ।अफलत्वमेवोपपादयति-- स्यादिति ।लक्षणेषु विशेषणानि व्यभिचारवारणायैव प्रयुज्यन्ते। व्यभिचारो ह्रलक्ष्यगामित्वम्। तेनोक्तस्य विशेषणस्यालक्ष्यगामित्वे विशेषणान्तरं प्रयोज्यमिति न्यायविदां निर्णयः। अत्र जगत्कर्तृत्वादीनामब्राहृगामित्वं नास्तीति विशेषणान्तरमनर्थकमेव। तस्मात् खण्डो मुण्जः पूर्णश्रृङ्गो गौरितिवदसंगतोऽयं लक्षणव्यवहार इति।

एतत्प्रतिक्षिपति-- असदिति । तत्र हेतुमाह--अविहतित इति। द्विधा खलु विशेषणानि प्रयुज्यन्ते-- क्वचिद्विरुद्धानि क्वाप्यविरुद्धानीति। नीलमुत्पलं देवदत्तोऽयं ब्रााहृण इत्यादावविरुद्धानि। खण्डो मुण्ड इत्यादौ

विरुद्धानीति। अत्र विशेषणानां विरोधाभावात् परतो भिद्यत इत्यनुपालभ्य एव। इयं किलात्र

पूर्वपक्षसिद्धान्तवादिनोर्युक्तपरिपाटी। 'सत्यं ज्ञानम्' इत्यादौ समानाधिकरणवाक्ये सत्यत्वादिविशेषणसंबन्विवक्षायां

भेदकं विशेषणं भेद्यं विशेष्मितिन्यायेन खण्डो मुण्डः पूर्णश्रृङ्गो गौरितिवद् विशेष्यभेदः स्यादित्येकः प्राह।

अपरस्तु धर्मिवाचिपदैक्यात् समानविभक्तिनिर्देशाच्च नीलमुत्पलमित्यादिवद्विशेष्याभेद इति समाधत्ते। तत्र पूर्वपक्षवादी पुनरन्यथासिद्धमाह-- नीलमुत्पलमित्यादौ धर्मिवाचिपदैक्यादिना न धम्र्यैक्यम्, अपि तु प्रत्यक्षसिद्धत्वादिति। एवं तर्हि खण्डो

मुण्ड इत्यादावपि प्रत्यक्षसिद्धत्वादेव भेदो न पुनविशेषणभेदादिति परपक्षेऽपि विशेषणभेदस्याप्रयोजकत्वमाचष्टे सिद्धान्तवादी। एवं तर्हि भेदाभेदोदाहरणद्वयसद्भावे किं नियामकमिति गलिताहङ्कारेण पृष्टे वर्णयति निर्णेतारः-- विरुद्धमेव विशेषणं विशेष्यभेदकं न पुनरविरुद्धं विशेषणम्। तथैव दृष्टत्वादिष्टत्वाच्च सर्वेषामपि विदुषामिति।।36।।

37. तर्हि भेदकं विशेषणं भेद्यं विशेष्यमिति विचक्षणप्रवादो व्यर्थः स्यादित्याशङ्क्याह-- तत्तदिति। तत्र तत्तद्विशेषणप्रतिपन्नाकारविरुद्धाकारनिवर्तनं क्रियते न पुनरविरुद्धाकारनिवर्तनम्। यथा नीलमित्युक्ते सति अनीलाद्व्यावृत्तिः क्रियते न पुनरविरुद्धस्योत्पलत्वस्य व्यावृत्तिः। एवमुत्पलमित्युक्ते ऽप्यनुत्पलादेरेव व्यावृत्तिः।

न पुनरविरुद्धस्य नीलत्वस्य व्यावृत्तिः। नीलत्वोपलत्वयोस्सामानाधिकरण्येनैव दृष्टत्वात् नीलोत्पलशब्दयोर्यथा दर्शनं व्युत्पत्तेश्च। तेन भेदकत्वं च सिद्धं विशेषणानां विरोधे व्यावर्तकत्वात्। अविरोधे पुनरसिद्धमिति। तर्हि ' यतो वा इमानि भूतानि' इत्यादिवाक्यं भवद्भिर्लक्षणत्वेन प्रधानतयोच्यते। तस्मिन् वाक्ये यत इत्यादिना वैयधिकरण्ये सत्यपि यत्कारणं यच्च स्थापकं यच्च पुनः संहारकं तद्ब्राहृेत्युत्तरेण सामानाधइकरण्येमेव विवक्षितम्। तत्र हेतुत्वादीनां परस्यविरुद्धानां कथमिव लक्षणत्वम्? न हि जनक एव विनाशयति। अतो विरुद्धविशेषणत्वाद् हेतुत्वादिकं न ब्राहृलक्षणमिति। अत्रोत्तरमाह-- व्याघआत इति। एकस्यैव कर्तुर्विरुद्धेष्वपि कार्येषु कालभेदाद्विरोधः कार्येषु प्रशाम्यतीति भावः। एवं चोद्यमनिष्टं क्रमेण परिहरति--प्रत्येकमिति। अत्र ह्रेकैकमेव लक्षणमुचितम्। यथा चेष्टेन्द्रियार्थाश्रयः शरीरमिति, यथा वा क्रियावद् गुणवत् समवायिकारणं द्रव्यमित्यादि। बहूदाहरणं किमर्थमिति चोद्ये शिष्यशिक्षार्थमित्युत्तरं तथेत्याह--बह्विति। सम्भूत लक्षणमित्येकदेशिनां पक्षमपि समाधातुमुपक्रमते-- सम्भूयेति। समाधानमेवाह-- फलमिति। इत्थं किलाभिप्रायः

सृष्टिस्थितिसंहारकर्तारः परवादिकथितारुायः सन्ति। सर्वे ऽप्यीश्वरा ब्राहृशब्दवाच्याश्चेति चापरिचितवेदान्तैरकालितसम्यङ्न्यायकलापैरन्तेवासिभिराशङ्क्यते। तेषां प्रत्येकेश्वरत्वनिरसनफलं विशेषणत्रयोपादानमिति। सृष्ट¬ादिकर्तृत्वं समुदितमेव परब्राहृत्वनियामकम्। तच्च ब्राहृ नारायण एव। ' नारायण परं ब्राहृ' इति श्रुतेः।।37।।

38. पुनरपि पूर्वपक्षमुपक्षिप्य प्रकारान्तरेण प्रतिक्षिपति--ज्ञातमिति। अत्रायं विकल्पः-- किं ज्ञातमुपलक्ष्यम्?

उताज्ञातम्? ज्ञातं चेदुपलक्ष्यमेव न भवति ज्ञातत्वादेव। नाप्यज्ञातमुपलक्ष्यमज्ञातत्वादेव। सारसाद्यमुपलक्षणसम्बन्धित्वेन ज्ञात एव केदार उपलक्ष्यः। तथा च ज्ञाताज्ञातमुपलक्ष्यमिति वक्तव्यम्।तच्चात्र वक्तुं न शक्यते। केदारे हि प्रत्यक्षसिद्धं केदारत्वं ज्ञातं देवदत्तीयत्वमज्ञातम्। तेन तत्रोपलक्षणत्वं युज्यते। अत्र

पुनः श्रुतिसिद्धलक्षणैकवेद्ये ब्राहृणि ज्ञातत्वेन न संभवति। पुराणादिप्रसिद्धपुरुषस्तु ज्ञात एवेति चेत्; हन्त तर्हि तैरेव पुराणादिभिब्र्राहृत्वं ब्राहृशब्दवाच्यत्वं च ज्ञातमिति पुनरपि ज्ञातत्वादेव नोपलक्ष्यत्वम्। अज्ञातत्वं च भवता वक्तुं न शक्यते। सर्वथाऽप्यज्ञाते किं ब्राहृेति विशेषशङ्काया अनवकाशात्। तदिदमाह-- नोचेदिति। तदिदं प्रतिक्षिपति-- मैवमिति। अत्र हेतुमाह--नानेति। यद्यपि निरतिशयबृहत्त्वबृंहणत्वविशिष्टं ब्राहृेति 'ब्राहृ परिबृढं सर्वतः' ' बृहति बृंहयति तस्मादुच्यते परं ब्राहृ' ' बृहत्त्वाद् बृंहणत्वाच्च तद्ब्रमेत्यभिधीयते' इति प्रमाणप्रसिद्धम्, तथापि तच्छØतिपुराणोक्तं ब्राहृविष्णुरुद्रादिषु तादृक् परं ब्राहृ किंरूपमिति व्यक्तिविशेषपरिज्ञानं नास्ति। ह्नीलक्ष्मीश्वरत्वेन विशेषपरिज्ञानं जायते। तथा च श्रियः पतित्वमेव पूर्वमपरिज्ञातत्वात् परस्मिन् ब्राहृण्युपलक्ष्याकारः। अन्यत् सर्वं परिज्ञातत्वाप्रतिपन्नाकार उपलक्षणाकारोऽपि वा भवति। पूर्वं निरतिशयबृहत्त्व-

बृंहणत्वाभ्यां ब्राहृशब्दवाच्यत्वाकार उपलक्ष्याकार इत्युक्तम्। इदानीं पुनः परस्मिन्ब्राहृणि श्रियः पतित्वमुपलक्ष्याकार इति विभागः।।38।।

39. अत्र भाष्योक्तमुपलक्षणविशेषणात्मकपक्षद्वयं परस्परविरुद्धमेव लक्षणविरोधादित्याशङ्क्य

विरोधाभावमाचष्टे--यावदित्यादिना। लोके हि यावल्लक्ष्यावबोधं यस्यावगतिस्तेन विशेषणेन तद्विशेष्यमित्युच्यते। प्रकृष्टप्रकाशत्वं चन्द्रेण सह नित्यमेव प्रतीयते। यस्याबोधेऽपि पश्चाद्यदवगति स्तत् तेनोपलक्ष्यम्।यथा शाखाग्रे चन्द्र इत्यत्र शाखाग्रप्रतीतिमन्तरेणापि चन्द्रस्तत्र प्रतीयत एव। एवं च सति परस्परविरुद्धलक्षणोपेतत्वादुपलक्षणत्वेन विशेषणत्वेनोभयथापि भाष्यानुमतिरनुचितेति कश्चिदाह, तद् भाष्यकाराभिप्रायापरिज्ञाननिबन्धनमित्याह-- आशयेति। कोऽयमाशय इत्यत्र भाष्यकाराभिप्रायं विवृणोति-- मोक्षार्थेति। अयमर्थः --' ब्राहृविदाप्नोति परम्' इत्यादिना मोक्षार्थं ब्राहृोपास्यमिच्यते। तच्च ब्राहृ किमिति विशेषजिज्ञासायां ' यतो वा इमानि भूतानि' इत्यादिवाक्ये कारणत्वादिकं यथायोगं

विशेषणत्वेनोपलक्षणत्वेन वा ब्राहृणो लक्षणमभिधीयते। ब्राहृगुणाश्चानन्ताः। तत्र विद्याभेदनिबन्धनोपास्यभेदे सति यस्मिन् ब्राहृोपासने ये गुणा नियतमेवानुवर्तन्ते तानि विशेषणानि। ये पुनब्र्राहृप्रतिपत्तिवेलायामेवान्विता उपासनवेलायां तु नियतं नानुवर्तन्ते

तान्युपलक्षणानि। उपासनान्तरोपास्यानां स्वरूपैक्येऽपि गुणभेदेन भिन्नानां बहुत्वात् क्वचित् कस्यचित् उपलक्षणत्वं विशेषणत्वं वा भवत्यन्यत्रान्येषाम्। एतदुक्तं भवति 'कारणं तु ध्येयः' इति जगत्कारणत्वादिकं ध्येयमात्रानुवृत्ततयोच्यते। एवं ' आनन्दादयः प्रधानस्य' इति सत्यत्वज्ञानत्वानन्तत्वानन्दत्वामलत्वानि स्वरूपनिरूपधर्मत्वात् सर्वास्वपि विद्यासु सर्वदाऽप्यनुवर्तन्ते। तेन तानि विशेषणानि। ये पुनर्धर्मास्तत्रतत्र तदातदा प्रतीयन्ते व्यावर्तकाशअच ब्राहृणि भवन्ति तान्युपलक्षणानि। चन्द्रशाखाग्रवद् ब्राहृस्वरूपप्रतिपत्त्यनुवत्त्य भावात् श्रियः पतित्वमपि नित्यानुसंधेयमिति। उपलक्ष्याकारत्वात् श्रीनिवासे ब्राहृणि मम भक्तिर्भवत्विति भाष्यकारैरेव सर्वोपासनविषयत्वेनाभिधानाच्च।।39।।

40. अत्र परोक्तां प्रक्रियामत्यन्तन्यायविरुद्धत्वेऽपि बालानां प्रतिपत्तिर्विप्रतिपत्तिहेतुर्माभूदित्यनुभाष्य पदवाक्यप्रमाणादिविरुद्धत्वात् प्रलाप एवायमिति प्रतिक्षिपति-- चन्द्र इति। इयं किल परेषां प्रक्रिया --यथा-- चन्द्रे शाखा तद्वज्जगत्कारणत्वादिकं ब्राहृणि तटस्थमेव लक्षणं द्वारस्थमेव प्रतिबोधकमित्यर्थः। तेन विशेषणत्वपक्षः प्रतिक्षिप्यते। ननु चन्द्रस्य शाखाग्रेणोपलक्षितस्य स्वरूपगतं प्रकृष्टप्रकाशत्वादिकमनुवर्तते तद्वद् ब्राहृण्यपि कारणत्वाद्युपलक्षिते विशेषभूतं सर्वज्ञत्वादिकमनुवर्ततामित्याशङ्क्य परिहरति--सत्येति। अत्र विषमो

दृष्टान्तः। चन्द्रे प्रकृष्टप्रकाशत्वादिकं प्रमाणसिद्धत्वादबाधइतत्वाच्च स्वीक्रियते। इह तु निर्विशेषे परस्मिन् ब्राहृणि सर्वप्रमाणगोतरत्वात् 'सत्यं ज्ञानम्' इत्यादिश्रुतेर्विशेषप्रतिपादकत्वात्, अरुणाधिकरणन्यायविरुद्धत्वाच्च सर्वज्ञत्वादिकं न स्वीक्रियत इति। डिम्भाः--बालाः। प्रलपन्तीति शेषः। उक्तमर्थं प्रतिक्षिपति--एकत्रेति। द्विविधं हि वाक्यम्। तत्र ' यतो वा इमानि ' इत्यादि व्यधिकरणवाक्यं सर्वैरपि वादिभिर्भेदपरत्वेन निर्णीतार्थत्वात्। तत्परित्यज्य तावत् समानधिकरणवाक्यमेव परिशोधयामः। भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामा-

नाधिकरण्यमिति पदविदः। पाणिनीयस्य सर्वविद्यास्थानौपयिकत्वाद्वेदान्तवादिभिरपि तदेवानुसर्तव्यम्।तच्च न्याय-

सिद्धम्। सदसद्धा सामानाधिकरणं विशेषणमिति न्यायवादिनः। न केवलं पदविदो न्यायविदश्व वयमनुसरामः,

अपि तु वाक्यविदोऽपीत्याह--अरुणाद्युक्तिवदिति। अत्र न्यायवृद्धा इति तान्त्रिकाः परिगृह्रन्ते,अथवा पदवाक्यप्रमाणज्ञाः सर्वेऽपि। 'अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति' इत्येकहायनीपीङ्गाक्षीशब्दानां सामानाधिकरण्येन गुणोऽधीयते। द्विविधं हि सामानाधिकरण्यम्-- अर्थसामानाधिकरण्यं शब्दसामानाधिकरणयं चेति। अत्रार्थसामानाधिकरण्यं भिन्नानामर्थानामेकस्मिन्नर्थे वृत्तिः। यथा नीलत्वोत्पलत्वादीनाम्। शब्दसामानाधिकरण्यं तु भिन्नप्रवृत्तिनिमित्तानामिति लक्षणानुसारेण श्लोकस्थपदानामर्थो वर्णनीयः। अत्र न्यायवृद्धा इति सेश्वरमीमांसकानां स्वपक्षस्थआनामेवोपादानात् निरीश्वरमीमांसकोक्तमारुण्यादिगुणानामर्थान्वयं प्रतिक्षिपति। तत्प्रतिक्षेप्रकारश्च श्रीमति भाष्ये तद्व्याख्यानादिषु विस्तरेणोक्त इति नास्माभिरिह विव्रियते। वयमिहास्मिन् पद्ये तटस्थलक्षणवादिनं मृषावादिनमेव प्रतिक्षिपामः। तत्प्रतिक्षेपविस्तरोऽपि प्रथमसूत्रादिषु द्रष्ठव्यः।। 40।।

 41. शास्त्रारम्भार्थोपोद्धातपेटिकायां प्रतीतिप्रजननार्था पूर्वपेटिका निर्वृत्ता। तात्पर्यलिङ्गसमर्थनार्थोत्तर

पेटिकाऽऽरभ्यते। तत्राप्राप्तत्वलक्षणं तात्पर्यलिङ्गं तृतीयसूत्रे सफलत्वलक्षणं चतुर्थं इति प्रागेवोक्तमस्माभिः।

तत्र पूर्वपक्षवादी प्रत्यवतिष्ठते -- अप्राप्तत्वमेव नास्ति, अनुमानसिद्धत्वादित्येका संगतिः। किंच 'यतो वा इमानि भूतानि' इत्यादिवाक्यं पुरुषसूक्तादिप्रसिद्धं किमपि वस्त्वनूद्य तस्य बृहत्त्वबृंहणत्वादिकं विदधातीति

ब्राहृोपादानाभिर्भवद्भिरुच्यते, तद्वार्तम् ; अनुमानप्रसिद्धमेवोच्यताम्, तथाचागमस्याप्यनुमानमेव मूलमित्यपरा। एवं च सत्यनुमानविरुद्धमुपादानत्वं यत इति शब्देन वक्तुं न शक्यत इति भावः। अत्रापि प्रागुक्तमेव विषयवाक्यम्। प्रधानोऽपि विषयः स एव। तदर्थविचारस्तु वेदान्तानां ब्राहृणि प्रामाण्यमस्ति न वेति। तदर्थं विचार्यते वेदानातानां सिद्धे ब्राहृणि तात्पर्यलिङ्गमस्ति न वेति। तदर्थं विचार्यते ब्राहृणि प्रमाणान्तरप्राप्तिरस्ति न वेति। तदर्थं विचार्यते कार्यत्वादिकं लिङ्गमन्वयेन व्यतिरेकेण च ब्राहृ गमयितुं शक्नोति न वेति। पुनरपि विचार्यते-

अन्यथासिद्धत्वादयो हेतुदोषा जगत्कर्तृत्वसाधके कार्यत्वादिहेतौ संभवन्ति न वेति। फलफलिभावस्तु कार्यत्वादिकं हेतुजातमीश्वरसाधने निर्दोषत्वात् साधयितुं शक्नोतीतिश्वरस्य प्रमाणान्तरप्राप्तत्वाद्वेदान्तवाक्यानां ब्राहृणि

तात्पर्यलिङ्गाभावागप्रामाणयमित्यनारम्भणीयमेव शास्त्रमेतदिति पूर्वपक्षे। राद्धान्तेऽपि वैपरीत्येन वर्णनीयः। शेषं सुगमम्। अत्र पूर्वपक्षवादी प्राह--वीतेति। वीतः--अन्वयी, विशेषेणेतत्वात्। अवीतःव्यतिरेकी, अन्वयाभावात्। वीतावीतः पुनरन्वयव्यतिरेकी -- अन्वयित्वाद् व्यतिरेकित्वाच्च। अत्र कार्यता उपलक्षणम्। कार्यायोजनधृत्यादीनां बहूनामपि हेतूनां न्यायशास्त्रविद्भिरुपात्तत्वात्। इयं किल न्यायप्रक्रिया-- ईश्वरसाधने द्वयमनुमानं प्रधानतयोपादीयते। कार्यलिङ्गकानुमानमुपदेशलिङ्गकानुमानं चेति। कार्यलिङ्गकानुमानं च द्विविधम्-- अन्वयव्यतिरेक्यनुमानमेकं विवादाध्यासितं सकर्तृकं कार्यत्वादिति। अपरं तु व्यतिरेक्यनुमानं सर्वं कार्यं सर्ववित्कर्तृपूर्वकं कादाचित्कत्वादिति। एवमुपदेशलिङ्गकानुमानेऽपि भेदो द्रष्ठव्यः। वेदवाक्यानि सकर्तृकाणि वाक्यत्वादित्यन्वयव्यतिरेकी। वेदाः सर्वज्ञप्रणीता वेदत्वादिति केवलव्यतिरेकी। अत्र कार्यत्वस्योपलक्षणत्वात् सकर्तृकत्वप्रसाधकमहाविद्यारूपं प्रमेयत्वादिकं गृह्रते।विप्रतिपन्नं स्वस्वेतरवृत्तित्वानाक्रान्तसकर्तृकनिष्ठाधिकरणमिति महाविद्यावादयः प्रसाधयन्ति। तेन सकर्तृकत्वानुमानेऽभिहिताः पक्षधर्मतावशादर्थतः सिध्यन्ति। सर्वज्ञकर्तृकत्वानुमाने व्यतिरेकेण शब्दत एव सिध्यन्ति। एवमनमानादीश्वर सिद्धौ शास्त्रैस्तद्विचारो विफलः। अत्रोत्तरमाह-- इतीति।लघुत्वादिति। कार्यत्वादिना प्रसाध्यतां जगत्कर्ता यः

कश्चिदपि, स तु जीवः स्यात् तस्य दृष्टत्वात्। तेन जीवक्लृप्तौ लाघवम्, ईश्वरक्लृप्तौ गौरवमिति नेश्वरसिद्धिः। ननु जीवानामल्पज्ञत्वात् कथं महीमहीधराद्यतिशयितार्थकर्तृत्वमिति ;तत्राह--विश्वामित्रादिनीत्येति। अस्त्वेकस्मिन्नण्डे विश्वामित्रः, अन्यत्र स नास्तीति चेन्न ; अन्यत्राप्यन्यस्य विद्यमानत्वात्। भवद्भिरप्यनन्ता एव योगिनः कल्प्यन्ते सर्वज्ञाः सर्वशक्तयश्चेति। तैरेव तत्रतत्र विश्वसृष्टिः प्रवर्तताम्। किमनेन नित्यज्ञानचिकीर्षाप्रयत्नवत्तया विजातीयतया परिकल्पितेन? तथा चान्यथासिद्धिदूषितानि कार्यताद्यनुमानानीश्वरमनुमातुं न प्रभवन्ति। सर्वं कार्यमेककर्तृकं कार्यत्वादिति साधयाम इति चेत् तर्हि अनेककर्तृकेषु घटपटादिषु व्यभिचारः, अन्यथासिद्धिर्वा। नह्रेककर्तृकत्वाभावे कोऽपि विरोधः स्यात्। अनेककर्तृकं न भवति कार्यत्वादित्युक्तेऽप्ययमेव दोषः। तस्मादनुमानानामनेकदोषदुष्टत्वात् वेदान्तवाक्यानाम् अप्राप्तत्वात्वलक्षणं तात्पर्यलिङ्गमस्त्येव। महाविद्यानुमानाडम्बरस्तु विडम्बनेनैव विडम्ब्यत इति वयमत्र न विस्तृणीमहे।।41।।

  42. एवं कर्तुः सर्वज्ञत्वादिकं पक्षधर्मताबललभ्यमङ्गीकृत्य दूषणमुक्त्वा तदनङ्गीकारेणापि दूषणं वक्तुं तदेवानुमानं पुनरनुवदति-- क्षित्याद्यमिति। अयमर्थः--क्षित्याद्यं कार्यत्वादिभिः सकर्तृकम्, स तु कर्ता कर्तुरुपादानोपकरणसंप्रदायप्रयोजनाभिज्ञानापेक्षास्तीति क्षित्याद्युपादानरूपाण्यदृष्टप्रभृतिद्रष्टा भवति। तद्दर्शनं चास्मदादीनां न घटते। तदभिज्ञानशक्तिर्दूरत एव। तदिदमाह-- सर्वशक्तिरिति। प्रतिक्षिपति--मैवमिति। कुत इत्यत्रासाधकत्वे दृष्टान्तं तावदाह--श्रोत्राद्यैरिति। न ह्रन्येन्द्रियेणान्येन्द्रियविषयो गृह्रत इति। ननु तत्तदिन्द्रियाणां नियतविषयत्वादसामथ्र्यस्तु, अनुमानस्य पुनरनियतविषयत्वात् कथमिवासामथ्र्यमित्याशङ्क्याह-- तादृशेति। अनुमानमपि नियतविषयमेव। येन यस्य प्रतिसम्बन्धः, तत्तस्यानुमापकमिति न्यायविदां सम्प्रदायः। अत्र पुनः प्रतिसम्बन्धो नास्ति। कथमित्यत्राह-- सर्वमिति। अयमत्र विकल्पः --किं सर्वकारकद्रष्टा कर्ता? उत कतिपयकारकद्रष्टा? पूर्वत्र कुलालस्यापि सर्वकारकद्रष्टृत्वं न विद्यते। नच तावता कर्तृत्वहानिः। उत्तरत्र क्षित्यादिकर्तुः कतिपयकारकद्रष्टृट्वं सिध्यतीति नेश्वरसिद्धिः।।42।।

43.एवमीश्वरानुमानेषु साधारणं दूषणमुपन्यस्य केवलव्यतिरेकिणोऽव्याप्तिकत्वात्

साक्षादेवविवक्षितार्थप्रसाधकत्वेन परवादिभिः प्रबलतयाऽभिमतत्वाच्च शिष्यप्रतिबोधनार्थं विशेषतस्तस्वरूपमुपन्यस्य

तद्भङ्गे सर्वलक्षणविलोपप्रसङ्ग इति परोक्तं तर्काभासमपि निराकरोति--कार्यत्वादिति। इत्थं किलात्रानुमानप्रयोगः-- सर्ववित्कर्तृकत्वासर्ववित्कर्तृकत्वविवादास्पदमखिलमपि कार्यजातं सर्ववित्कर्तृकमेव कार्यत्वात् यन्नैवं तन्नैवम्, यत् सर्ववितकर्तृकं न भवति तत् कार्यमपि न भवति। साध्याभावे हि साधनाभावकथनं व्यतिरेकव्#ाप्तिप्रदर्शनमिति न्यायविदः। पुरुषवदिति-- आत्मवत्। सौगतव्यतिरिक्तानां सर्वेषामपि वादिनामात्मा नित्यत्वेनैव निर्णयत इति दृष्टान्तसिद्धिः। उक्तमर्थं प्रतिक्षिपति--नेति । तत्राह हेतुमाह-- अनन्यथेति। अनन्यथासिद्धिर्हि प्रमाणानां प्रामाण्यनियामिका। अनन्यथासिद्ध्यनङ्गीकारे हि सर्वेषामनुमानाभासादीनां कक्षीकारः प्रसज्येत। अन्यथासिद्धमप्रयोजकं व्याप्यत्वासिद्ध्यमनुकूलतर्करहितं प्रतिकूलतर्कपराहतं सोपाधिकं सन्दिग्धव्याप्तिकमित्येतादृशान् शब्दान् प्रायेण पर्यायत्वेन प्रयुञ्जते प्रवावदूकाः।अत्र पुनरित्थमन्यथासिद्धिः-- सर्ववितकर्तृपूर्वत्वं मा भूत् कार्यत्वमस्त्विति। अकर्तृकत्वे कार्यत्वं न स्यादिति हि तर्कः परिशुद्धः। त्वदुक्तः पुनरपरिशुद्ध एव व्यर्थविशेषणत्वात्, अन्ततः सोपाघिकत्वाच्च।

अकर्तृकत्वमेवाकार्यत्वे प्रयोजकं नपुनः सर्वज्ञकर्तृकत्वाभाव इति ह्रस्माभिरुच्यते। ननु क्वचित् केवलव्यतिरेक्यनङ्गीकारे सर्वमपि केवलव्यतिरेक्यनुमानजातं लोलुप्येतेत्याशङ्क्य लुप्यतामेव दूषणतौल्यादित्याह-- हेताविति। विचक्षणा एतादृशत्मनि व्यतिरेकिहेतौ सर्वत्रापि व्याप्त्यासिद्ध्यादिदौस्स्थ्यं प्रतिपद्यन्ते। ननु केवलव्यतिरेरिभङ्गे लक्षणानां व्यतिरेक्यनुमानरूपत्वात् तद्भङ्गे लक्षणस्यापि भङ्ग इति महानयं प्रहारो भावत्कानामित्याशङ्क्यव्यतिरेकिभङ्गेऽपि लक्षणं तत्प्रयोजनं च सिध्यतीति तत्त्वमुक्ताकलापे व्यक्तमुक्तमिति परिहरति-- तद्भङ्ग इति। अयमर्थः-- लक्षणं व्यतिरेकि मा भूत्। अन्वयव्यतिरेकित्वे पुनः सप्रयोजनमेव तत्। लोकेह्रम्बातातमातुलादिभिर्बहुशःशिक्षिता बाला गवादिशब्दांस्तेषुतेष्वर्थेषु वाचकत्वेन प्रतिपद्यन्ते। तादृग्भूतानुमानादिषु व्याप्तिग्रहणतुल्यमेतत्। ततश्च कश्चिद्बालो दूरावस्थितां गोव्यकिं्त दृष्ट्वा सहसैव निर्धारयितुमशक्तः शङ्कते कोऽयमिति। तत्रान्वयव्यतिरेकिरूपानुमानं प्रवर्तते। अयं गौरिति व्यवहर्तव्यः सास्नादिमत्त्वात् मातापित्राद्यभिहितप्राचीनगोपिण्डवदिति सार्वलोकिकीयं मर्यादा न्यायविदामप्यनुसर्तव्येति सुष्ठूक्तम्।।43।।

44. यदीश्वरानुमानं न स्यात् विप्रतिपन्नं शरीरं सात्मकं प्राणादिमत्त्वादिति भवद्भिरभिधीयमानं परात्मानुमानमपि भज्येत। यदि परात्मानुमानमङ्गीकुरुते, अङ्गीकुरुष्व त्वमीश्वरानुमानमपि; तस्यापि परात्मत्वादित्याशङ्क्य विषमोऽयं दृष्टान्त इत्याह-- यद्यपीति।वैषम्यमेव दर्शयति-- तथाऽपीति। लिङ्गभेदैरात्मान्तरानुमानसद्भावेऽपि तत्र प्रत्यक्षव्याप्तिमर्यादाभङ्गाभावादौचित्यमेवावतिष्ठते। ईश्वरानुमाने तु तद्भङ्गादनौचित्यमेव। नहि लोके कश्चित्कर्ता नित्यज्ञानचिकीर्षाप्रयत्नवान् दृश्यते। नच निष्प्रयोजनः कर्ताऽस्ति। ईश्वरस्यापि सप्रयोजनत्वे जीवत्वप्रसङ्ग इत्यादिबहुदोषदुष्टत्वात् न्यायवादिनामिष्टमिदमनुमानं कष्ठमेवासंभावतादृष्टार्थपरिकल्पनाबाहुल्यात्।तह्र्रदृष्टार्थोपवर्णनं शास्त्रस्यापि न स्यादित्याशङ्क्याह-- आम्नायेत्विति। तुशब्दो विशेषमाह। शास्त्रे ह्रपूर्वार्थकथनं भूषणमेव। 'शास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानम्' इति तान्त्रिकैरुपवर्णनात्। लोकदृष्टक्रमाच्चामुमर्थमुपपादयति-- तादृशेति। लोके हि देशान्तरादागतः कश्चिदत्यन्तादृष्टपूर्वमिष्टादिकमाचष्टे ।स चाप्तत्वादिप्रतिक्षेप्य एव। तथा वेदेऽपि कारणदोषादिरहिते प्रामाण्यस्यावर्जनीयत्वात्। ननु देशान्तरादागतपुरुषवाक्यं क्वचिदप्रमाणमपि स्यात्। ततस्तद्बाधकप्रमाणसद्भावे ऽप्रमाणम्, तदभावे प्रमाणमिति स्वतः प्रामाण्यन्यायसिद्धं प्रामाण्यमवतिष्ठते; एतदिहापि समानम्, तदिदमाह--बाधेति। तथाऽपि 'आदित्यो यूपः' 'यजमानः प्रस्तरः' इत्यादीनां बाधो दृश्यत इत्याशङक्याह-- विहतिमतीति। अयमाशयः-- द्वयं खल्वर्थवादवाक्यमबाधितं बाधितं चेति। 'यन्न दुःखेन संभिन्नम्' इत्यादिकमबाधितम्। तच्च प्रतिपन्नार्थवतया तथैवावतिष्ठते। 'आदित्यो यूपः' 'यजमानः प्रस्तरः इत्यादिकं बाधितम्। तत् मुख्यार्थं परित्यज्यौपचारिकार्थे वर्तते। स चात्र प्राशस्त्यादिरेव। तस्माद्बाधइतमबाधितं वा वेदवाक्यं सार्थकमेवेति सुशोभनमेतत्।।44।।

45. अत्र पूर्वपक्षवादी पुनश्चोदयति-- नन्विति। इत्थं किल तदभिप्रायः-- लोके हि भवन्मतानुसारिणः सर्वऽपि

ब्राहृआदिपिपीलिकान्तस्य विचित्ररचनस्य नारायणमन्तरेण सृष्टिर्न संभवतीति सर्वथा वदन्ति। तदेव केचित् प्रबन्धेषु प्रकरणरूपेषु युक्तिभिः प्रतिष्ठापयन्ति। तदेवानुमानम्। तच्चाभिप्रैति जन्मादिवाक्यम्। तस्मादनुमानमेव परस्मिन्ब्राहृणि प्रमाणम्। तस्मादनुमानस्य जगत्कर्तृसाधने प्राबल्यमित्यनुमानसिद्धानुवादमात्रम् एतत्ज्जन्मादिवाक्यम्। अनुवादत्वं च ' यतो वा इमानि भूतानि' इति यच्छब्दयोगादवगम्यत इत्येतस्मादेव-- हेतोर्वैदिकस्य भवत ईश्वरानुमानत्यजनमनुचितमिति। तदिदं प्रतिक्षिपति-- नेति। तत्र हेतुमाह-- क्वापीति। औचित्यम्-- योग्यतातिशयः। नारायणस्यैव कारणत्वे श्रुतिपुराणेतिहासलोकप्रसिद्ध्यादयो भूयांस संवदन्त इत्यास्माकानां प्रवादः। नच तावताऽनुमानगम्यत्वमेवेति प्रतिष्ठाप्यते। केषांचिद्ग्रन्थनिदर्शनेऽपि 'यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः' इत्युक्तप्रक्रियया ऽऽगमानुकूलतर्कमात्रमनुमन्यते। नपुनरागमविरुद्धनिमित्तमात्रेश्वरानुमानं परवादिभिरुपकल्पितं प्रमाणतया प्रतिष्ठाप्यते। यत इत्यनुवादश्चास्य पूर्वप्रसिद्धिमात्रमेवाक्षिपेत्। नपुनरनुमानेनैव प्रसिद्धम्। अत्र तु प्रसिद्धिः पुरुषसूक्तादिवाक्चैरिति पूर्वमेवोक्तमस्माभिः। इह च सद्विद्योपादानं सर्ववाक्योपलक्षणम्।।45।।

46. एवं सिद्धपराणां वेदान्तवाक्यानामप्राप्तत्वलक्षणं तात्पर्यलिङ्गं प्रसाध्य साफल्यलक्षणं तात्पर्यलिङ्गं समन्वयाधिकरणेन साध्यते इति संगतिः। अथवा शास्त्रयोन्यधिकरणे तार्किका निरस्ताः अधुना तान्त्रिकाः निरस्यन्त इति। एवं वा पूर्वं निमित्तमात्रेश्वरवादिनो निरस्ता इदानीं निरीश्वरवादिन इति। विषयस्तु शास्त्ररम्भ एव प्रधानः। अवान्तरविषयः पुनः-- अशेषमपि वेदान्तवाक्यजातम्, संशयकारणं वैदिकानामवैदिकानां प्रामाण्याप्रमाण्यसाधारण्यम्। तदर्थविचारस्तु --

वेदान्तशास्त्रमारम्भणीयमनारम्भणीयं वेति। तदर्थं विचार्यते-- सिद्धे ब्राहृणि वेदान्तवाक्यानां स्वातन्त्रेण विधिशेषत्वेनापि वा प्रामाण्यं संभवति न वेति। स्वातन्त्र्यपक्षे तात्पर्यलिङ्गमस्ति न वेति। तदर्थं विचार्यते-- वेदान्तानां ब्राहृप्रतिपादने सप्रयोजनत्वमस्ति न वेति। तच्च प्रयोजनवत्त्वं वाक्यानां स्वरूपप्रतिपत्त्या स्वादार्थत्वमात्रेण उक्त कार्यरूपप्रयोजनपरत्वेनेति। स्वादार्थत्वे पुनरर्थमिथ्यात्वेऽपि प्रयोजनपरत्वमस्ति न वेति। फलफलिभावस्तु --स्वादार्थत्वेऽमिथ्यात्वेऽपि प्रयोजनसिद्धेब्र्राहृयाथात्म्याभावात् प्रवृत्तिनिवृत्तिप्रयोजनपरत्वेऽपि वाक्यस्यान्यपरत्वेन परब्राहृयाथात्म्याभावस्याविशिष्टत्वात् निष्प्रयोजनत्वेन तात्पर्यलिङ्गाभावादर्थसद्भावे स्वातन्त्र्येण पारतन्त्र्येण वा वाक्यप्रामाण्याभावाद् वेदान्तशआस्त्रमनारम्भणीयमिति पूर्वपक्षे। सिद्धान्ते वैपरीत्येन वर्णनीयः। शेषं सुगमम्।

अत्र पूर्वपक्षमाह--कर्तव्य इति। 'स्वर्गकामो यजेत' इत्यादौ कर्तव्यार्थे प्रतिपादिते श्रोतुः फलं स्यात्।नपुनरष्टौ

काकदन्ता इत्यादौ सिद्धरूपप्रतिपादने।इयं हि लोकमर्यादा। इयमेव मर्यादा वेदेऽप्यङ्गीकार्या य एव लौकिकास्त एव वैदिका इतिन्यायत्। तेनोपनिषदामूषरप्रायत्वेमेव। प्रथमाधिकरणेऽप्युक्तमिहाप्युच्यत इति पौनरुक्त्यम्; न पुनरुक्तिः -- तत्र पदार्थप्रतिपत्तिर्न संभवतीति पूर्वपक्षः, अत्र पुनर्वाक्यार्थप्रतिपत्त्यनुपपत्तिकथनेनेति विभागः। विभागान्तरमपि-- तत्र केवलं नियोगवाक्यार्थवादिनो निरस्ताः।अत्र पुनर्भावनावाक्यार्थवादिनश्चेति विशेषः। ननु सिद्धरूपत्वेऽपि तव गृहे निधिरस्ति पिता ते सुखमास्त इत्यादि तादात्विकप्रीत्युत्पत्तिमात्रेण साफल्यं स्यात्, अर्थाभावेऽपि पिता ते सुखमास्त इत्यादि विप्रलम्भकवाक्यमपि प्रीतिमातनोति, तथा च वेदान्तवाक्यानां 'आनन्दो ब्राहृ' इति वाक्यमनर्थकमेव प्रीतिमातनोतीति मिथ्याभूततदर्थविचारात्मकं शारीरकशास्त्रं कथमिवारभ्येत? तर्हि स्वातन्त्रेण माभूत्प्रामाण्यम्, ' परप्राप्तिकामो ब्राहृ विद्यात्' इति विद्याविधिशेषत्वेन स्वरूपप्रतिपत्तिहेतुभूतानां सत्यज्ञानादिवाक्यानां प्रामाण्यमस्तीति चेत् तत्रोत्तरमाह-- विद्येति ।अन्यदृष्टिः- गरुडमात्मानं जानीयादित्यादिदृष्टिः । तदर्थो मिथ्या।एवं 'ब्राहृ विद्यात्' इत्यत्रापि फलार्थं विद्याविधावेव तात्पर्यम्। न पुनः सिद्धे ब्राहृणि। तथा च तात्पर्यविषयभूतवेद्यब्राहृपरिशोधनात्मकं सत्यज्ञानादिवाक्यमप्रमाणमिति तदर्थविचारात्मकं शास्त्रमनारम्भणीयम्।

एवं पूर्वपक्षमवनूद्य सिद्धान्तमारभते-- अनन्येति। अयमभिप्रायः-- विधिशेषत्वपक्षस्तु भाष्यादावेवादि। स्वातन्त्र्यपक्ष

एव साक्षात्सिद्धान्तः। तस्यैव बहुन्यायसिद्धत्वादिति।।46।।

47. एवं विवक्षितं विधिशेषत्वपक्षमङ्गीकृत्य स्वातन्त्र्यपक्षेण सामाधानमुक्तम्।इदानीं विधिशेषत्वपक्षेऽपि नास्माकं कश्चिद्दोष इत्युभयपक्षाङ्गीकारेण स्वाभीष्टमर्थं समर्थयते-- तात्पर्यमिति।द्विविधं

खल्वर्थवादप्रमितम्--विध्यपेक्षितमविहमित्येकमनपेक्षितं विहतमित्यपरम्। तत्र पूर्वमङ्गीक्रियते तान्त्रिकैः। यथा दुःखासंभिन्नदेशविशेषादि। तद्वद् ब्राहृणि विहत्यभावाद् विधिशेषत्वेन प्रामाण्यमस्त्येव। विहतपक्षस्त्वत्राङ्गीकारेणैव निरस्तः। अनपेक्षितत्वं पुनरत्र नास्तीत्याह-- न भवतीति। तत्र हेतुः--स्वादसिद्धे

नैरर्थक्याभवादित्यर्थः। उत्तरपक्षेऽप्युद्धाटितामनुपपतिं्त परिहरति-- स्वादार्थत्वमित्यादिना। तत्र हेतुमाह-- मृषेति

अयमर्थः तव गृहे निधिरस्ति , पिता ते सुखमास्ते इत्यादिवाक्यं मृषार्थमिति यदिप्रतिपद्येत, तदा कथमिव तस्य प्रीतिरुत्पद्यते। अस्मिन्नर्थे लोकदृष्टान्तमाह-- बालेति। बालाः खलु पिता ते सुखमास्त इत्यादिकं परमार्थप्रतिपादकमिति मत्वा सन्तुष्यन्ति। अन्यथा सन्तोषाभावात्। अत्र पुनर्विशेषणानां निरतिशयानन्दादीनां पारमाथ्र्यं .यदि प्रतिपद्यते श्रोता, तदानीमस्मच्छिष्य एव। अथ न प्रतिपद्यते तदा परमार्थप्रतिपत्त्यभावात् पुरुषार्थप्राप्तिर्न स्यादेव। तथा च स्वादार्थत्वं मृषात्वममित्यसंगतमेव।।47।।

 48. यत् प्रीत्यर्थं वाक्यं तत् वितथमित्युक्तं पूर्वपक्षिणा,तद् विकल्प्य दूषयति-- यदितिव। किं प्रीत्यर्थं वाक्यं निखिलमपि वितथनमित्युच्यते? किं वा यÏत्कचित् ? न तावदाद्यः-- अवितथेनापि पिता ते सुखमास्त इत्यादिना प्रीतिदर्शनात्। अतो व्यभिचरितार्थं वाक्यं वदन् अर्भकप्राय एव भवान् बालप्राय इत्यर्थः। तत्र हेतुमाह--सत्येति। परमार्थोक्त्याऽऽनन्ददृष्टेरित्यर्थः। उत्तरस्मिन्पक्षे व्याहतं वितथमित्युच्यते किमव्याहतमपि तत्र व्याहतिरत्र नास्तीत्याह-- नचेति। तत्रापि विकल्पोऽभिप्रेतः किं प्रत्यक्षेण व्याहतिरुतागमत इति। अव्याहतिपक्षेऽपि लौकिकवैदिकसर्वव्यवहारोच्छेदप्रसङ्ग इति भावः। किं च केवलं व्याहतत्वस्यैव वैतथ्यहेतुत्वे संभवति प्रीत्यर्थत्वे सति व्याहतत्वादिति विशिष्टप्रयोगो विशेषवैयथ्र्यादनुमानवार्तानभिज्ञतां दर्शयति। केवलं प्रीत्यर्थत्वादिति प्रयोगो व्यभिचारेण दुष्ट इतीदीनीमेवोक्तम्। एवं परोक्तप्रक्रियां निराकृत्य स्वोक्तमर्थं निगमयति--तेनेति। पूर्वपक्षोक्तार्थाशङ्कनस्तम्भनेन वेदान्ताः

परस्मिन् ब्राहृणि प्रमाणमित्यर्थः।।

  49. अस्मिन्नधिकरणे मृषानादिनां पक्षत्रितयमुपन्यस्तम्, तत्राद्यौ पक्षौ जरन्मायावादिभिरभिधीयेते,

एकस्त्वाधुनिकैः , तेन च तौ निरस्तो, सोऽपि पक्षोऽस्मत्पूर्वपक्षवादिना निरस्तः,स च वादी सिद्धान्तवादिनेति पक्षपञ्चकमुपन्यस्यते। तत्र पक्षत्रितयं भाष्यकारैरेवोपन्यस्य परास्तं तदनुवादिभिराचार्यैरपीति नास्माकमिह वक्तव्यं किंचिदवशिष्यत इत्यभिप्रायेणाह-- ब्राहृेति। तत्र निष्प्रपञ्चीकरण नियोगवाद एकः 'न दृष्टेद्र्रष्टारं पश्येः' इत्यादिनोपपादितः। अपरस्तु ध्याननियोगवादः 'ओमित्यात्मानं ध्यायीत' इत्यादिवाक्यसिद्धः। तृतीयोऽपि 'तत्त्वमसि' इत्यादिवाक्यसिद्ध इति तेषां प्रक्रिया। तेषामेकदर्शनेन दूषणं सूचयति-- तेषामिति।स्वपक्षविहतिः-- अपसिद्धान्तः। स्ववचनविहतिः-- प्रतिज्ञाविरोधः। अत्र व्याकुल शब्दः प्रकारान्तरेण वैयाकुलीमुपलक्षयति। अनेन सर्वनिग्रहस्थानोपहतिरुच्यते। बाह्रकल्पः-- साक्षात् बाह्र एवायं पक्षः , अथापि वाङ्मात्रेण तद्भक्तैर्वागिभिः यत्किञ्चिद्वैषम्यमुच्यत इति भावः। कृतमतयः--शिक्षइतमतयः, तेषां परिषदि पीठमर्दैः--एकासनाधिरूढैरतिशयितततत्त्वविद्भिरित्यर्थः।।

 50. एवं परस्परविरोधात् प्रस्फुटदोषत्वाद् भाष्यकारैरेव सुव्यक्तमेव निरस्तत्वाद् वक्तव्याभावेन परपक्षानुपेक्ष्य भाष्योक्तपूर्वपक्षसिद्धान्तयोः परिक्लृप्त प्रकारमाक्षिप्य समाधत्ते-- अन्यार्थ इति। अयमर्थः -- पूर्वस्मिन् काण्डेऽर्थवादानां विधिशेषतयैव प्रामाण्यमुक्तम्, अत्र पुनः स्वातन्त्र्येण, तेन पूर्वोत्तरविरोधात् पूर्वोत्तरकाण्डयोरैकशास्त्र्यवादिनां युष्माकमनुचितमेवेदं भाषणमित्याक्षेपः। समाधिस्तु द्वौ खल्वर्थवादौ --

एकस्तु विधिशेषतयैव निर्वाह्रः।अपरस्तु विधिशेषत्वमन्तरेणापि निर्वोढुं शक्यः। तेनोत्सर्गापवादन्यायेन पूर्वोत्तरकाण्डयोर्विरोधापशमनादैकशास्त्र्याक्षेपप्रसङ्गोऽपि न संघटते। एकत्रार्थवादसामान्यविषयत्वात् इतरत्र ब्राहृपरार्थवादविशेषविषयत्वात्। अत्र हि ब्राहृपरं विशेषवाक्यं स्वरूपपरतयाऽपि प्रमाणमित्युच्यते। इतरत्र शिष्टान्यर्थवादवाक्यानि सर्वाणि विधिशेषतया प्रमाणानीत्युच्यन्ते। ननु सर्वोऽप्यर्थवादो विधिशेष एव 'परप्राप्रिकामो ब्राहृ विद्यात्' इतिविधिशेषत्वात् ' तदेषाऽभ्युक्ता' इत्यारभ्योक्तानां सर्वेषामपि वाक्यानाम्। तेन नरविषाणकल्पत्वात् स्वरूपरार्थवादवाक्यस्य स्वरूपमेव नास्ति। कश्चात्र विरोधपरिहारः ? उच्यते-- ' सहरुाशीर्षं देवम् '

इत्यादिकं वाक्यं स्ववाक्ये विध्यदर्शनाद् विधिशेषमेव न भवति अपि तु परतत्त्वैकप्रतिपादनपरमिति

त्वदुक्तोऽभयमनुपालम्भः। मृषावादिभिरप्ययमेवार्थोऽङ्गीकार्यः ; ' तत्त्वमसि ' इत्यादिवाक्ये विध्यदर्शनात् केवलं

तत्त्वपरमेवेदं वाक्यमिति तेषामुद्धोषः। एवमन्यान्यपि विधिदर्शनमन्तरेण ब्राहृप्रतिपादकानि श्रौतानि पौराणिकान्यैतिहासिकान्यपि वाक्यानि प्रतिपत्तव्यानि।।

श्रीः

51. एवं काण्डद्वयवाक्यविरोधमुत्सर्गापवादन्यायेन परिह्मत्य पूर्वपक्षिणोत्थापितं कल्पसूत्रादि वाक्यविरोधमिति तैनैव न्यायेन परिहरति--त्रेधेति। इदमत्र विरोधाभासोपपादनं 'कर्मचोदना ब्रााहृणानि' इत्युपक्रम्य ' ब्रााहृणशेषोऽर्थवादो निन्दा प्रशंसा परकृतिः पुराकल्पश्च' इति चतुर्णामप्यर्थवादानां ब्रााहृणशेषत्माह भगवानापस्तम्बः।एवमन्यदपि द्रष्टव्यम्। तथा च कथमर्थवादानां विधिशेषत्वमन्तरेण ब्राहृणि प्रामाण्यमुच्यते? अत्रोत्तरमाह-- दत्तोत्तरमिति। अयमर्थः -- अर्थवादानां विधिशेषत्ववचनं सामान्यम्। अत्र पुनब्र्राहृविषयार्थवादानां स्वातन्त्रेण प्रामाण्यकथनं तस्यैवापवादः। अतस्तेनैवोत्सर्गापवादन्यायेन विरोधप्रशमनात् स्मृतिविरोधकथनमनुपालभ्य एव। तमेवोत्सर्गापवादन्यायमजानानस्य शिष्यस्य विशेषतः प्रकटयति--सामान्येति। इममेवार्थं तद्वाक्यस्थेनैव दृष्टान्तेनोपपादयति तत इति। तस्मिन्नेव ह्रापस्तम्बवाक्ये मन्त्रविध्योः परस्परमन्यत्वं ह्रुपरि कथ्यते ' ततो ऽन्ये मन्त्राः' इति। 'ततः' विध्यर्थवादाभ्यां 'अन्ये मन्त्राः' इति। एतत्तु सामान्यमेव मन्त्राणामपि विधायकत्वस्वीकारात्।मन्त्रो हि विधत्त इति ह्राहुस्तान्त्रिकाः। तेन मन्त्राणां विध्यन्यत्ववचनम् उत्सर्गः, विधायकत्ववचनमपवाद इति भवद्भिः परिगृह्रते।तद्वदत्रापि ब्रााहृणशेषत्ववचनमुत्सर्गः स्वातन्त्र्येण

प्रतिपदकत्ववचनमपवाद इति परिगृह्र परितुष्यतु भवान्।।

52. बहुषु प्रामाण्यहेतुषु विद्यामानेषु दूषणमुपनिषद्वाक्यानां विरीश्वरमीमांसकानां साहसमेव तद्व्यहारनिबन्धनमिति प्रतिपादयन् सर्वनिगममार्गापलापप्रतिबन्दीमारचयति-- आम्नातैरिति।वेदे 'कारीर्या वृष्टिकामो यजेत ' इति दृष्टफवाक्यानुसारेण ' स्वर्गकामो यजेत' इत्यदृष्टफलवाक्यानां प्रामाण्यं परिकल्प्यते। अविगुणसफलैरिति कर्मकर्तृसाधनवैगुण्यादेव क्वचित्कारीर्यादिषु फलासिद्धिरित्यर्थः। शाकुनच्योतिषाद्यैरिति-- यथाहि अविगुणसफलैर्वेदोक्तैः कारीर्यादिभिः फलसिद्धिः तथैवाविगुणसफलैः कुनज्योतिषाद्यैर्वेदोक्तैरपि फलसिद्धिर्वण्र्यत एव। तेन वेदे प्रामाण्यं दृष्टफलेषु क्वचित्प्रतीयते। तथा शिष्टानामदृष्टार्थप्रवृत्त्या ऽपि वेदप्रामाण्यं सर्वत्र निश्चीयत इत्याह-- पारत्रिक्येति। अतिनिपुणेति-- महानुभावानां परलोकहेतुभूतया प्रवृत्त्यापि वेदप्रामाण्यं निश्चीयत इत्यर्थः। अनेन महाजनपरिग्रहोऽभिधीयते।

आगमाश्वाससिद्धौ-- एवं बहुभिर्हेतुभिर्वेदप्रामाण्ये निश्चिते सति। अप्रामाण्यकारणाभावमाह-- शब्द इति। शब्दे तस्माच्च बोधे सतीत्यनुत्पत्तिलक्षणाप्रामाणयनिरासः। परविषये--ईश्वरविषये। दोषबाधव्यपेत इति कारणदोषबाधकप्रत्ययौ निरस्येते। अनादिनिधनाविच्छिन्नसंप्रदायत्वात् कारणदोषाभावाच्च अलौकिकार्थविषयत्वाद् बाधकप्रत्ययाभावाच्च प्रामाण्ये सत असति चाप्रामाण्यकारणे पुनरसौ वेदः परस्मिन् ब्राहृणि मानमेव। एवं च कारणमन्तरेण वेदान्तवाक्यानामप्रामाण्यकथने तेनैव न्यायेन कर्मभागेऽप्यप्रामाण्यं कथनीयमिति वेदमार्गापलाप एव स्यादित्यर्थः।।

 53.एवं चतुर्णामधिकरणानामर्थान् विभागेनाभिधाय सामान्यार्थानुवादपूर्वकमत्रत्ययोर्जन्माद्यधिकरणसमन्वयाधिकरणयोरुत्तरत्तरवक्ष्यमाणाभ्यां कारणत्वाधिकरणोभयलिङ्धिकरणाभ्यां पौनरुक्त्यमाशङ्क्योत्तररत्र तत्तदधिकरणार्थप्रसाधनम्, अत्र पुनर्वक्ष्यमाणार्थोपजीवनेन तत्तदर्थाभिधानमिति न पौनरुक्त्यमित्याह-- शास्त्रेत्यादिना। विशेषद्वयमेवम्-- ब्राहृादिशब्दानां श्रीनिवासपर्यवसानं द्वितीयाधिकरणोक्तम्। वेदान्तवेद्यस्य ब्राहृणो निरतिशयानन्दरूपत्वं चतुर्थाधिकरणोक्तम्। तत्र पूर्वं वक्ष्यमाणं कारणत्वाधिकरणमुपजीवति। उत्तरमुभयलिङ्गाधिकरणमिति सुशोभनमेतत्।।

 54. अत्र शारीरकशास्त्रारम्भहेतुभूतचतुस्सूत्र्यात्मकप्रथमपेटिकार्थं सामान्यतो विशेषतश्च दर्शयित्वा तदनन्तरं शास्त्रारम्भरूपद्वितीयपेटिकार्थाभिधानेन तयोःस संगतिमप्याह-- आत्मन्येवमिति। अत्र खलु चतुरधुकरण्यामात्मा ज्ञातव्य इत्यर्थैक्यम्, अकृत इतिमत इत्यादिकर्मचतुष्टयमधिकरणार्थविभागः; ब्राहृविशेषप्रतिपादकत्वात् सर्वेषामधिकरणानाम्। अथ द्वितीयपेटिकापूर्वपक्षानुवादमुखेन संगतिरपि दर्शयन् पेटिकाप्रवृत्तिप्रकारमपि विशदं दर्शयति-- ईदृक्त्वमिति। पूर्वपोटिकाप्रोक्तमर्थजातं यथार्हं प्रकृतिपुरुषयोरेव स्यादिति परकथनं न तावनुमानाद्ययोग्यौ दुःखास्पृष्टौ चेत्युत्तराभ्यां द्वाभ्यामधिकरणाभ्यां क्रमेण

दोधवीतीत्यर्थः। अथवा ईदृक्त्वमित्यारभ्य इतिशब्दपर्यन्तं पूर्वपक्षवाक्यमेव। प्रकृतिपुरुषयोरेव जगत्कारणत्वादिकं प्रमाणासिद्धं तयोरनुमानाद्ययोग्यत्वं दुःखास्पृष्टत्वं च नास्तीति पूर्वाधिकरणाक्षेपे उत्तरं योग्याभिरुक्तिभिर्दोधवीतीति। अथ --समनन्तरपेटिकया पादशेषेण वा। पूर्वं हि शास्त्रयोन्यधिकरण समन्वयाधिकरणाभ्यां वेदान्तवेद्यस्यार्थस्यानुमानाद्ययोग्यत्वं दुःखासंस्पृष्टत्वं चोक्तम्, उभयमपि प्रकृतिपुरुषयोरन्यतरस्य वेदान्तवेद्यत्वाङ्गीकारे न संभवतीति

पूर्वोक्तावान्तरपेटिकासंगतिरप्यत्रोच्यते। अकृत इति-- प्रथमाधिकरणे 'नास्त्यकृतः कृतेन' इति विषयवाक्योक्तमकृतत्वं प्रधानार्थ इति दर्शयति। एवं द्वितीयाधिकरणादिष्वपि विश्वहेतुत्वादिकं प्रधानार्थं इत्यनुक्रमेण मन्तव्यम्। तत्र हि वेदान्तवाक्यानां ब्राहृण्ययोदव्यवच्छेदपरे प्रथमपादे प्रकृत्याद्यन्ययोगव्यवच्छेदकथनमयोगव्यवच्छेदशेषत्वेन नपुनः प्राधान्येनेति समाधानात् ईक्षत्यधिकरणादीनामसंगतिरनाशङ्कनीया। अयं किल पेटिकाविभागः -- प्रथमपादे शास्त्रारम्भार्था चतुरधिकरणी तावदेका। तत्र द्वयोरवान्तरपेटिकात्वम्। पुंनरीक्षत्याधिकरण आनन्दमयाधिकरणयो -रेकपेटिकात्वमुच्यते। अतः परं पञ्चानामप्यधिकरणानां प्रकृतिपुरुषविशेषत्वात्एकपेटिकात्वं प्रतिपद्यते। अथवा ईक्षत्यधिकरणादीनि त्रीण्येका पेटिका सदात्मपुरुषरूपसामान्यश्रुत्या समुत्थितस्य पूर्वपक्षिण ईक्षत्यादि विशेषलिङ्गेन प्रतिक्षेपस्य तुल्यत्वात्। श्रुतिलिङ्गयोर्हि सामान्यश्रुत्यपेक्षया विशेषलिङ्गं प्रबलमिति तान्त्रिकाः। ततः परमाकाशप्राणज्योतिरादिविशेषश्रुत्या समुत्थितस्य पूर्वपक्षिणो न्यायानुकूलयौगिकश्रुत्यर्थाङ्गीकारेणाकाशप्राणाधिकरणाभ्यां तावन्निराकरणं क्रियते। आकाशप्राणशब्दयोस्तु यौगिकार्थावेवाङ्गीक्रियेते। नतु रूढिर्योगमपहरति। क्लृप्तो योगः कल्प्यांरूढिं बाधत इतिन्यायेन बाध्यते। तेनाकाशप्राणाधिकरणयोः सिद्धमवान्तरपेटिकात्वम्। ज्योतिरधिकरणेन्द्रप्राणाधिकरणयोस्तु रूढिभङ्गं विहाय तत्तद्रूढार्थविशिष्टपरमात्मपरत्वमुच्यत इति तयोरपि पेटिकान्तरत्वं सिद्धम्। अत्र चतुःसूत्र्यां सम्यगर्थावबोधनाय प्रमेयसंग्रहपरिश्रमशालिभिर्भवितव्यम्। अवलोकनीया च नियतमाचार्यकृता शतदूषणी।।

55. पूर्वं परमात्मनो वेदान्तवेद्यत्वमुक्तम्। इदानीं प्रकृत्यादीनां तदेव वेदान्तवेद्यत्वं न संभवतीत्युच्यते।तत्रापि सांख्यादिशास्त्रोक्तप्रकृतिपुरुषयोः प्रकृतेर्विश्वाकारेण परिणतायाः सर्वलोकप्रसिद्धत्वात् तदपेक्षया पुरुषस्य सूक्ष्यत्वात् सैव प्रथमं निराक्रियत इति संगतिः। अथवा पूर्वाधिकरणे वेदान्तवेद्यस्य वस्तुनः पुरुषार्थरूपत्वमुक्तम्, तन्न घटते अपुरुषार्थरूपायाः प्रकृतेरेव कारणत्वादिति। एवं वा सर्वेषामपि वेदान्तवाक्यानां प्रकृतिपुरुषोत्तीर्णब्राहृपरत्वमुक्तं पूर्वाधिकरणे, सर्ववेदान्तसारभूता सद्विद्या तावत् प्रकृतिमेवाचष्टे।किमन्यैर्वाक्याभासैरिति।एवं संभावितं संगत्यन्तरमपि वाच्यम्। विषयस्तु परमेव ब्राहृ, पुर्वं शास्त्रारम्भ इति ततो विभागः। संशयः पुनः किं प्रकृतिविलक्षणं ब्राहृ सद्विद्यावेद्यम्, उत प्रकृतिरिति। संशयोत्थानकारणं तु सदितिसामान्यश्रुतिः। सर्वभाववाचकस्य सच्छब्दस्य प्रकृतिपुरुषेश्वरसाधारणत्वात्।

तदर्थविचारस्तु-- सच्छब्दः किं परमात्मपरः, उत प्रकृतिपरः। प्रकृतिपरत्वे 'तदैक्षत' इत्यक्तमीक्षणं न घटते,

उत घटत इति। तदर्थं पुनर्विचार्यते-इदञ्चेक्षणं मुख्यमुत गौणमिति। पुनश्च विचार्यते-अत्र गौणेक्षणसाहचर्यं नास्ति उतास्त्येवेति। तत्रापि विचार्यते- 'तत्तेज ऐक्षत' इत्यादिकं तेजः प्रभृतीक्षणं मुख्य्मुतामुख्य्मिति। अतोऽपि

विचार्यते--किं मुख्यत्वानुरूपा हेतवो ऽनुरोद्धव्याः, उतामुख्यत्वानुरूपा हेत्वोऽपीत्यादि। फलफलिभास्तु अमुख्यत्वानुरुपाणां बहूनामपि युक्तीनामत्र विद्यमानत्वात् 'तत्तेज ऐक्षत' इत्यत्रेक्षेणस्य गौणत्वात् गौणेक्षा -साहचार्यस्य चात्र विद्यमानत्वेन सदीक्षणस्यापि गौणत्वात् अत्रोक्तमीक्षणं प्रकृतिपरत्वेऽपि संघटत इति सांख्याद्युक्तं प्रधानमेवात्र सच्छब्दः प्रतिपादयतीति पूर्वपक्षे। सिद्धान्ते फलफलीभावस्तु वैपरीत्येन। उक्तमर्थमनुक्रमेणाचष्टे--गौणेक्षासाहचर्यादिति। बहुभवनप्रेक्षणं नैव मुख्यमिति--इत्थं किल पूर्वपक्षी मन्यते ईक्षणगुणयोगात् प्रकृतिकारणत्वं निराक्रियते ब्राहृवादिभिः, तच्चेक्षणं गौणम्, कूलं पिपतिषति, वृष्टिप्रीतक्षत्राः शालय इत्यादिवत् चेतनधर्मस्याचेतनेऽपि योजयितुं शक्यत्वात् , अत्र गौणत्वे निदानं 'तत्तेज ऐक्षत' इत्यादिगौणेक्षणमाह-- चर्यमेव। किं च मृत्तत्कार्यदृष्टान्तादेवेदानां परिणामादित्यादिसांख्योक्तं प्रधानानुमानमेव प्रतिभातीत्याह-- दृष्टान्ताद्यैरिति। नच श्रुतिप्रतिभावनामात्रमेव, युक्तियुक्तमपीदमित्याह--तादृशादिति। अचेतनरूपकार्यस्याचेतनादेव जन्मयुक्तम्। ननु सविकारे प्रधाने कथं सच्छब्दः स्यादित्याशङ्क्याह--सदिति।

महदादीनां विकाराणां क्वाचित्कत्वेन सच्छब्दवाच्यत्वं मा भूत्, अविकृतिरूपायाः- प्रकृतेर्नित्यसिद्धत्वेन सच्छब्दवाच्यत्वं भवेदिति पूर्वपक्षे राद्धान्तमाह-- अयुक्तमिति। श्रुत्या-चेतनासाधारणात्मशब्दादिश्रुत्या। प्रकृत्यादीनां निरोधात्। न केवलं श्रुत्या, अपितु त्वदभिमत प्रकृतिकारणत्व तिरस्कारकेक्षणादिलिङ्गवाक्यप्रकरणैरप्ययमेवार्थ इति निश्चीयत इत्याह-- त्वदभिमतेति।।

56.अत्र सांख्योक्तानुमानिकप्रक्रियाप्रत्यभिज्ञानमाशङ्क्य निराकरोति--ज्ञात इति।अत्रैवं किल पूर्वपक्षी मन्यते

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा तावत् दृश्यते 'येनाश्रुतं श्रुतम्' इत्यादिना।न केवलं प्रतिज्ञामात्रं, दृष्टानोऽप्यस्तीत्याह--मृत्तदिति।आदिशव्दात् श्रुत्युक्तो नखनिकृन्तनादिर्गृह्रते।एवमनुमानप्रधानभुतयोः प्रतिज्ञादृष्टान्तयोरुपपादनेनेदंवाक्यंसांख्योक्तानुमानामुवादकमेवस्यादित्याह-त्येनेति।निराकरोति--वृथेति।तत्र

हेतुमाह--हेत्वनुक्तेरिति।अनुमानावयवेष्वत्यन्तप्रधानभूतहेत्वनुक्तेः। सन्ति सारूप्यादयो हेतवः सांख्यानामिति चेत् तन्न; तेषामुत्तरत्र सांख्याधिकरणे निराकरणादित्याह-- सारूप्यादेरिति। ननु तत्रचात्र च निराकरणे पौनरुक्त्यमित्याशङ्क्याह-- अत्रेति।उत्तरत्र प्रधानकारणत्वनिश्चायकहेतवो निश्शेषमुन्मूलयिष्यते। अत्र प्रधानकारणत्वानुमानसंभावनामात्रं निराक्रियत इति न पौनरुक्त्यावकाशः।।

57. एवं प्रतिपक्षप्रक्रियां निरस्य स्वपक्षानुकूलान् विषयवाक्यार्थान् हेतून् संगृह्णाति-- आदेशेति। 'उत तमादेशमप्राक्ष्यः' इत्युपक्रमे तावदादेशशब्देन सच्छब्दवाच्यं ब्राहृ निर्दिश्यते। आदेशशब्दो ऽप्यादेष्टारमेवाह। आदेष्टृत्वं पुनर्नियन्तृत्वमेव। नच तत् प्रधानपक्षे संभवति तस्याचेतनत्वात्। आत्मशब्दोऽप्यत्र श्रूयते "स आत्मा'

सतु चेतनस्यैवासाधरणः। तत्र सुषुप्तिप्रसङ्गे 'स्वमपीतो भवति' इति सुषुप्तिस्थानं परमात्मा स्वशब्देन निर्दिश्यते। अन्तर्यामित्वात् परमात्मैव स्वशब्देन निर्देशार्हः। न पुनः प्रधानम्। तस्य सुषुप्तं प्रत्यनन्तर्यामित्वात्।

अनितरशरणैः--अनन्यथआसिद्धैरित्यर्थः। एते हि शब्दाः परमात्मविषयत्वे मुख्याः ,प्रधानविषयत्वे पुनर्जघन्यवृत्तय-- इत्यर्थः। हेत्वन्तरमप्याह--त्वमिति।तच्छब्दवाच्येन सह त्वंशब्दस्य जीवस्यैक्यमत्र व्यपदिश्यते। यदि तच्छब्दः प्रधानपरः, तदानीमतत्वोपदेश एवायं स्यात्; चेतनाचेतनयोरैक्योपदेशस्य देहात्मोपदेशवत् भ्रान्तिहेतुत्वात्। अत्र साधकान्तरमाह--जीवेनेति। स्वेन -- स्वात्मकेनेत्यर्थः। 'अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि ' इत्युत्तमपुरुषसिद्धाहङ्कारपूर्वकमहमर्थव्यतिरिक्ताचिद्गणस्य प्रवेशात्,अत्र जीवशरीरकः परमात्मा जीवद्वारा जीवव्यतिरिक्तमचेतनजातं प्रविशतीत्यर्थः। तेन प्रवेष्टव्यस्याचिद्वस्तुनः साहङ्करणमहङ्कारसहितं प्रवेष्टृत्वं न योयुज्यत इत्युक्तं भवति। किं च 'येनाश्रुतं श्रुतं भवति' इत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा दृश्यते। सा पुनरीश्वरकारणत्व एव घटते नपुनः प्रधानकारणत्वे,प्रधानस्य चेतनं प्रत्यकारणत्वादित्याह--एकेति।हेत्वन्तरमप्याह--सर्वेति।'ऐतदात्म्यमिदं सर्वम्'इति

हि श्रुयते,प्रधानस्य क्रणत्वे कथं तत्तादात्म्यं सर्वशब्दान्तर्गस्य जीवस्य वक्तुं शक्यत इत्यर्थः।न केवलं छान्दोग्यश्रपत्यैव ब्राहृकारणत्वं प्रतीयते,अपितु श्रुत्यन्तरेणापि।छान्दोग्येऽपि न केकलं सद्विद्यावाक्येन,किं तु दहरव्द्याभुमविद्यादेरेपि।अत्र आदिशब्देन उपबृंहणस्मृतिपुराणादिकं गृह्रते।अत्र विश्वविदिति नमित्तत्वोपयुक्तं सार्वज्ञ्यं गृह्रते।विश्वमुर्तिरित्युपादानत्वोपयुक्तं सर्वशरीरत्वं गृह्रत इति विभागः।अत्र पुपक्षसिद्धान्तोपन्यासप्रंकियाविभागः श्रीमतिभाष्ये न्यायसुदर्शनादौ च द्रष्टव्यः।अत्र चोपक्रमोपसंहारमहावाक्योपपत्तिः श्रुत्यन्तरविद्यान्तरादिप्राकाशनपरानां सुत्राणामनुक्रमोऽपि तत्रैवानुसन्धेयः।।

58. पूर्वोत्तराधिकरणयोस्संगतिद्वयोक्तिपूर्वकमुत्तराधिकरणार्थं संग्रहेणोपदर्शयति--मुख्येति। यदि सतो मुख्यमीक्षणमिष्टम्, तर्हि चेतनत्वात् मुख्येक्षणार्हो जीव एव जगत्कारणमस्त्विति पूर्वपक्षोत्थानादेका संगतिः।अन्या च सद्विद्यावाक्ये तत्त्वमसीति त्रिभिः पदैर्जीवब्राहृणोरैक्यमेव नवकृत्वः प्रदर्शितम्, तथा च जीव एव जगत्कारणं ब्राहास्त्विति पूर्वपक्षोत्थानमिति। इत्यूहादुज्जिहानं पूर्वपक्षिणं निराकर्तुं पूर्वप्रस्तुतो विश्वकर्ता जीवस्याप्यन्तरातमा निरुपधिकमहानन्दवान् अत्राधिकरणे स्थाप्यते। तदर्थविचारस्तु --'ब्राहृविदाप्नोति परम्'

इत्यस्मिन्वाक्ये यः पुनरानन्दमय उच्यते स किं जीव उत परमात्मा। पुनर्विचार्यते-- अत्र मयड् विकारार्थः प्राचुर्यार्थो वा। तदर्थं विचार्यते-- उपक्रमगतान्नमयशब्दस्थमयटो विकारार्थत्वानुसारेण अत्रापि मयटो विकारार्थत्वमेव युक्तम्, उत प्राचुर्यार्थत्वम्। पुनश्च विचार्यते-- उपक्रमावगतस्य मध्ये प्राणमयमनोमयादिभिर्विच्छेदो

ऽस्ति नवेत्यादि। फलफलिभावस्तु तत्राविच्छेदादुपक्रमावगतविकारार्थत्वस्यैवात्रापि ग्रहीतुं योग्यत्वेनानन्दमयशब्दस्थमयटो विकारार्थत्वादानन्दमयो जीव इति पूर्वपक्षे। व्यत्ययेन राद्धान्ते फलफलिभावः।।

59. अत्र कश्चिदाह 'आत्मन आकाशः संभूतः' इत्यादिना सृष्टेरेवाभिधानात् पूर्वं 'स वा एष पुरुषोऽन्नरसमयः' इत्यत्र विकारे मयड् दृश्यत इति चरमेऽपि 'अन्यो ऽन्तर आत्माऽऽनन्दमयः' इत्यत्रापि एवमस्तु मयटो विकारार्थत्वमेवास्तु पूर्वोक्तस्य मयटो विकारार्थप्रत्यभिज्ञानादिति, तदिदमाह--दृष्ट इति। तन्निराकरोति--अयुक्तमिति। तत्र हेतुमाह-- मध्य इति। प्राणमयादिषु विकारार्थत्वभङ्गदृष्टेरित्यर्थः। फलितमाह-- प्रचुरमिति। विकारार्थत्वे को दोष इत्याशङ्क्याह-- अन्यस्येति। आनन्दमयादतिरिक्तस्य वस्तुनो बाधेन विकारार्थत्वस्य बाधितत्वादित्यर्थः। नन्वत्रानन्द प्राचुर्याभिधाने दुःखाल्पत्वमेव स्यात् यथा ब्रााहृणप्रचुरो देश इत्युक्ते शूद्राल्पत्वं प्रतीयत इति, तत्प्रतिक्षिपति--आनन्देति। अत्रानन्दप्राचुरी मनुष्यानन्दमारभ्य चतुर्मुखानन्दपर्यन्ततया प्रकृतपरसुखाल्पत्वलब्धावधित्वात् आनन्दमयनिष्ञदुःखाल्पत्वं नापेक्षते, अपि तु

चतुर्मुखादिनिष्ठानन्दप्राचुर्यनिवृत्तिमेव। यथा 'अन्नमयो यज्ञः' इत्यादि। नन्वानन्दप्राचुरी दुःखाल्पत्वेनापि निर्वक्तुं शक्यत इत्याशङ्क्य नेत्याह--परेति। परदुरितभित् संश्रितानां दुरितं भिनत्ति 'आनन्दमयः' इति हि श्रूयते। 'अथ सोऽभयं गतो भवति' 'एतं ह वाव न तपति' ' न कर्मणा लिप्यते पापकेन ' इत्यादिकं वाक्यजातं शतशोह्रधीमहि। तस्मादत्र दुःखाल्पत्वशङ्का न संघटत इति। किं च 'भीषास्माद्वातः पवते' 'तस्य हवा एतस्य प्रशासने गार्गि' 'प्रशासितारं सर्वेषाम्' इत्यादिभिः प्रशासितृत्वेन प्रतिपन्नस्यानन्दमयस्य पापाल्पत्वविरोध इत्याह-- शासितुरिति।।

 60.नन्वस्मत्पक्षे भवद्भिरानन्दमयत्वलक्षणं लिङ्गं विरुद्धमिति ह्रुक्तम्। अस्माकमेक एवायं विरोधः, भवतां बहवो विरोधाः। आनन्दमयेऽपि 'तस्यैष एव शारीर आत्मा यः पूर्वस्य 'इत्यात्मान्तर कथनं विरुध्यते। शारीरत्वकथनमपि शरीरस्य कर्मफलत्वान्न युज्यते। न च घटते शोध्यत्ववादः परस्मिन्ब्राहृणि अशुद्धिप्रसङ्गाभावात्। श्रूयते ह्रानन्दमयेऽपि 'अन्नमयप्राणमनोमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम्'इति

शोध्यत्ववादः।किं च तस्मिन्नेवानन्दमये फलनिर्देशदशायामुपसंक्रमितव्यत्वमुच्यते--तदपि विरुद्धम्।परमात्मनि नित्यमेव वर्तमानस्य जीवस्य कथमपूर्वमुपसंक्रमणमिति।एवं चतुरोऽपि विरोधाननुद्य चतुर्भिरपि पादैरणुक्रमेण समाधत्ते--आत्मेति।इयं किल समाधानप्रक्रिया 'तसैव....आत्मा'इत्युक्तिरानन्दमये'स्वयं दासास्तस्विनः'इतिवदात्मान्तरनिवृत्यर्थेति को विरोधः?शारीरत्वकथनमपि भगवतः सर्वशरीरकत्वादानन्दमय एव

विशेषेणोपपद्यते।शोध्यत्वमपि'विशुद्धमेव राजह्मदयम्'इत्यादिवदानन्दमयस्य प्रसाद्यत्वमेव। न पुनः पूर्वशुमद्धस्य कश्चित् शुद्धिविशेषः।लोकेऽपि राजह्मदयं विशुद्धमित्यादौ निग्रहनिवृत्तिरेवोच्यते;अनुगुणस्यैवार्थस्य तत्रतत्र स्वीकार्यत्वात् ।आकाङक्क्षासन्निधानवद्योग्यत्वस्यापि वाक्यार्थनिर्णयाङ्गत्वात्।अत्रोपसंक्रमणमेव हि शिष्यते,तदप् संघटते;प्राप्तिरेव ह्रुपसंक्रमणमुच्यते।प्राप्तिश्च पूर्वमननुभूतस्य ब्राहृणः पश्चादनुभवसंभवः। एतदेवाभिधीयते ' सोऽश्नुते सर्वान् कामान् सह ' इति। अथवा देशविशेषप्राप्तिरेव ह्रस्माभिर्वक्तुं शक्यत इति। तदेव ह्रुच्यते 'वैकुण्ठे तु परे लोके ' इति। अतोऽस्मत्पक्षे न विरोधावकाशः। अत्र पदार्थत्वं स्वयमेव भाव्यम्।।

 61. अत्र पुच्छब्राहृवादी प्रत्यवतिष्ठते --निर्देह इति। आनन्दमयस्यैव ब्राहृत्वे तस्य निरंशत्वात् ' तस्य प्रियमेव शिरः' इत्यादिना शिरःपक्षादिभेदेन पञ्चप्रकारावयवक्लृप्तिर्न घटते। तस्मात् पुच्छं प्रतिष्ठा ' इत्युक्तं सर्वभूताधिष्ठानतया विश्वप्रतिष्ठारूपं पुच्छमेव परं ब्राहृ, आनन्दमयस्य ब्राहृत्वे शिरःपक्षादि क्लृप्ती-नामयोग्यत्वादिति। इमं पक्षं प्रितबन्द्या दूषयितुमुपक्रमते-- सोढेति।देशकालपरिच्छेदरहिततया भवद्भिरङ्गीकृतस्य सच्चिदानन्दरूपस्य ब्राहृणः पुच्छत्वकथनं कथं युज्यते। श्रुतिप्रामाण्यसिद्ध्यर्थमस्माभिः पुच्छत्वकल्पनं सोढव्यमिति चेत् हन्त तह्र्रस्माभिरपि आनन्दमये निरंशे प्रियमोदादितत्तद्विभागविवक्षया शिरः पक्षादिकल्पनं सोढव्यमिति संतोष्टव्यमायुष्मतेत्याह-- कथमिति। इतरत्--शिरःपक्षादिकमित्यर्थः। तह्र्रत्यन्तविरुद्धमेतत्, यदानन्दमयस्य ब्राहृण एव स्वप्रतिष्ठारूपत्वमिति। तच्च न विद्यते। स्वस्यैव स्वप्रतिष्ठानत्ववचनमनितराधारताख्यापनाय ' स भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्नि ' इति श्रुत्यन्तरप्रकारेण सर्वप्रतिष्ठारूपस्य ब्राहृणः प्रतिष्ठान्तरनिवृत्तिरेव ह्रत्रोच्यत इति को विरोधः। अत्र

पुच्छब्राहृवादिनां बहून्यपि दूषणानि भाष्य एव व्यक्तमुक्तानीति श्लोकार्थमेव प्रदश्र्य विरमामः।।

 62. ईक्षत्यधिकरणविषयवाक्ये ' तस्य तावदेव चिरम् ' इति शरीरपातपर्यन्तो दुःखसंबन्ध उच्यते। तेन 'तस्यैष एव शारीर आत्मा 'इति शरीरसंबन्धी पुरुषो जीव एव स्यादित्याशङ्क्य परिह्मतमान्दमयाधिकरणे कर्माधीनकरणकलेबरपरिग्रहस्यैव संसारात्मकत्वम्, नपुनः स्वाभाविकस्यैव विश्वशरीरस्येति। अतः परमन्तरादित्याधिकरणं प्रवर्तते अस्मिन्नधिकरणे न केवलमन्तर्यामित्वावस्थानमात्रेण शरीरात्मभाव उच्यते, अपितु पाणिपादाक्षिकेशादिविभागवच्छरीरसंबन्धी पुरुषः, तादृशशरीरसंबन्धित्वं जीवस्यैव संभवतीति पूर्वपक्षोत्थानेन संगतिः। पूर्वं जीवसामान्यस्य निरासः, इदानीं जीवविशेषस्य निरास इति च संगतिः। तदिदमाह-- भूयिष्ठेति।

पूर्वोक्ताः खलु मनुष्यानारभ्य प्रजापतिपर्यन्ता भूयिष्ठानन्तपुण्योपचयबलसमुद्बुद्धैश्वर्याः केचित्पुरुषाः, तेष्वेव कश्चिदीश्वरः प्रवाहरूपेण वर्तत इति कल्प्यमिति च पूर्वाधिकरणसंगत्यन्तरमुच्यते। अयमर्थः -- पापोत्तराः पुण्यपापयोस्तुल्यवृत्तयश्च मा भूवन् , अपि तु पुण्योत्तराः केचिदीश्वरत्वेन प्रकल्प्येरन्निति। अत्रोत्तरम् --तन्नेति। तत्र हेतून्प्रमाणानुसारेण संगृह्णाति -- अकर्मेति। अकर्माधीनदिव्यशरीरवान्। जनिः --जन्म। महिमा- माहात्म्यम् । सर्वपुंसां स्वाभाविकनियन्ता। नित्यश्रीः-- नित्यमेव लक्ष्मीसंबन्धवान्। एवंभूतः पुरुषः , ब्राध्नबिम्बे - सूर्यमण्डले, श्रुत इति, ' स य एषोऽन्तह्र्मदय आकाशः '

इत्यनुवाकश्रुतः परमपुरुषः एक एव --'एषोऽन्तरादित्ये ' इत्यन्तरादित्यविद्यायां श्रूयत इति न जीवविशेषशङ्कावकाशः। 'एष सर्वेभ्यः पाप्मभ्यः उदितः उदेति हवै सर्वेभ्यः पाप्मभ्यो य एवं वेद ' इत्यत्रैव हि श्रूयते। ' समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ' इत्यादिकमत्र भाव्यम्। 'न सा कर्मनिमित्तजा ' इति हि तत्रोच्यते। ऐतिहासिकमपि 'व्यक्तमेष महायोगी ' इत्यादिकं सुप्रसिद्धमेव। अत्रोक्तं शासितृत्वं हि ' अन्तः प्रविष्टऋ शास्ता जनानां सर्वात्मा ' ' प्रशआसितारं सर्वेषाम्' इत्यादि-- बहुप्रमाणसिद्धत्वात् सर्वविषयमेवानुसन्धातव्यम्। अयमत्रसंग्रहः -- सूर्यमण्डलान्तर्वर्तिनो भगवद्विग्रहस्याकर्माधीनत्वादप्राकृतत्वादाश्रितानुग्रहार्थत्वाच्च विग्रहसंबन्धमात्रेण जीवविशेषत्वाशङ्कावचनं परमपुरुषविद्वेषिणां पापिष्ठानां प्रलापः। अत्र तदर्थविचारोऽपि किंदिदालिख्यते। आदितमण्डलान्तर्वर्ती पुरुषः किं जीवविशेषः उत परमात्मेति। तदर्थं विचार्यते -- किं पाणिपादादिविभागवच्छशरीरादिसंबन्धो जीवत्वं प्रसाधयति न वेति। तदर्थं पुनर्विचार्यते -- किमयं शरीरसंबन्धः कर्माधीनः, उताकर्माधीन इति। पुनरपि विचार्यते -- सर्वपाप्मोदितत्वादिवचनं किं कर्माधीनत्वं निवारयति उत नेति। तदर्थमपि पुनर्विचार्यते -- तत्र पाप्मशब्दः किं पापमात्रपरः, उत पुण्यपापात्मककर्ममात्रपर इति। फलफलिभावस्तु पाप्मशब्दस्य पापमात्रपरत्वेन सर्वपाप्मोदितत्वादिवचनस्य कर्माधीनत्वनिवारकत्वाभावात् शरीरसंबन्धस्य कर्माधीनतया नियमेन जीवकर्माधीनत्वादित्यमण्लान्तर्वर्ती पुरुषो जीव इति। राद्धान्ते फलफलिभावोऽन्तेवासिभिः स्वयमेवोह्रः।।

 63. अत्र चेदकः प्राह -- अन्तरादित्यविद्यायां ' सर्वेभ्यः पाप्मभ्यः उदितः ' इति भगवतः सर्वपापरहितत्वमुच्यते, विशेषनिषेधे शेषाभ्यनुज्ञानमिति तान्त्रिकाणां प्रक्रिया, तथा चादित्यमण्डलान्तर्वर्तिनि पुरुषे पापनिषेधात् पुण्याभ्यनुज्ञानमस्तीति। तदिदमाह-- सर्वेभ्य इत्यादिना। तन्निराकरोति --मैवमिति। अत्र हेतूनाह--

आम्नात इत्यादिना। 'न तस्येशे कश्चन ' इत्यादिभिर्बहुभिः प्रमाणैर्भगवतोऽनन्यशास्यत्वं प्रतीयते, अन्यशास्यो हि राजकिंकरः शासनातिसङ्घनात् प्रत्यवायमुपेयात्, तदनुपालनादनुकूलं फलम्। ईश्वरस्यानन्यशास्यत्वाद् दुरितवत् परशासनानुवर्तनरूपं सुकृतमपि न संभवतीत्ययमेको हेतुः। हेत्वन्तरमाह ---स्ववशेति। 'फलमत उपपत्तेः' इति न्यायेन परेषामिष्टमनिष्टं वा फलं भगवानेव ददातीत्युच्यते तस्य कथं सुकृतसंबन्धः संभवतीति। किं च ' स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् ' इति ह्रर्थात् सुकृतसंबन्धः प्रतिक्षिप्यते, तच्च विरुद्धं तव। तर्हि पाप्मशब्दः पुण्ये कथं प्रयुज्यते? इत्यत्राह -- स्यादिति। पुण्येऽपि पापलक्षणयोगादिह पाप्मशब्दः प्रयुज्यते। अस्ति हि पुण्येऽपि पापलक्षणयोगः, अनिष्टफलसंबन्धित्वात् । लोके हि कस्यचिदिष्टं फलमन्यस्यानिष्टं भवति।तथा च स्वर्गादिकमिष्टं फलमध्यात्मविदामनिष्टमित्यधिकारिविशेषापेक्षया पापमेव काम्यं कर्म। अत्र श्रौतप्रयोगरूपं प्रबलव्यवस्थापकमाह-- न सुकृतमित्यादिनेति। अत्र हि सुकृतं दुष्कृतमुभयमपि निर्दिश्य द्वयोरपि पाप्मशब्देन निर्देशः स्पष्टमेव क्रियते। तस्मात् दुरितवत् सुकृतस्यापि पाप्मशब्दवाच्यत्वात् सर्वपाप्मो#ोदितवचनं सुकृमनिवृत्तिमप्याहेति सिद्धम्।।

64. अत्र पुनश्चोदयति परस्य ब्राहृणो विग्रहोऽस्तीति भवद्भिरुक्तम्, स विग्रहः किं पारकृतः, उताप्राकृतः, अप्राकृतत्वेपि किं भगवत्स्वरूपमेव उत तत्त्वान्तरम्। पूर्वत्रास्मदुक्तं संसारित्वमेवापद्यत इति घट्टकुटीन्यायः, द्वितीये पक्षे स्वरूपपरिणामप्रसङ्गः, तृतीयोऽपि पक्षो न घटते, प्रकृतिपुरुषेश्वरकालव्यतिरिक्ततत्त्वान्तराभावात्, अतः कथं तदिति। एतन्निराकरोति --प्रख्यातमिति। प्रख्यातम् -- 'पादोऽस्यविश्वा भूतानि त्रिपादस्यामृतं दिवि '

' वैकुण्ठे तु परे लोके ' ' तमसः परमो धाता ' ' स्वसत्ताभासकं सत्त्वम् ' इत्यादिभिः । शुद्धसत्त्वम् -- रजस्तमोरहितसत्त्वाश्रयभूतम्। दिव्यं किमपि द्रव्यं तत्। अनघत्वं संसारप्रवर्तनोपकारणत्वाभावादुच्यते। तस्याव्यक्ततोऽन्यत्वं ' त्रिपाद्स्यामृतं दिवि' इति व्यक्तमेवाभिधीयते। अनेन भगवतो रूपं प्राकृतं स्वरूपं च न भवति अपितु अप्राकृतं द्रव्यान्तरमित्याह -- तद्रूपमिति। ' तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत्' इति भगवान् पराशरः प्राह। वैरुप्यं विरूपमित्यर्थः। तेन विप्रतिपन्नं रूपं प्राकृतं रूपत्वात् तदनित्यं सावयवत्वादित्यादयः परेषां हेतवो निरस्ताः। तादृग्विधरूपसिद्धौ धर्मिग्राहकप्रमाणविरोधः। अप्राकृतानित्यत्वादिविशेषणयोगेनैव प्रमाणसिद्धत्वात्। असिद्धौ चाश्रयासिद्धेरिति स्वकीयां प्रक्रियां स्वयमेव स्मरतु हैतुकः। नन्वस्तु भगवतस्तादृशं रूपम्, अनन्तगरुडादीनां का गतिरिति चेत् भगवानेव गतिः। ' तद्विष्णोः परमं पदम्' ' आस्ते विष्णुरचिन्त्यात्मा भक्तैर्भागवतैः सह ' इत्यादिप्रमाणशतव्याहतत्वात् शङ्कापिशाचिकायाः। अस्तु वैकुण्ठवासिनस्तादृशं रूपम्, अथापि तस्य नित्यत्वादौ निश्चायकं किमित्याशङ्क्य श्रुतिपुराणादीत्यभिप्रायेणाह-- नित्यमिति। 'सदा पश्यन्ति' ' नित्यं नित्याकृतिधरम् ' ' नित्यसिद्धे तदाकारे तत्परत्वे च

पौष्कर ' ' श्रीवत्सवक्षा नित्यश्रीः ' इत्यादिप्रमाणसहरुामनुसन्धेयम्। अस्तु सर्वं गुणजातं वैकुण्ठवासिनो भगवतः, रामकृष्णादयस्तु प्राकृताः कर्मवशेन सुखदुःखादिभाजश्च, कथं तेषामाराधनेनास्माकमापवर्गिकी सिद्धिरित्याशङ्क्य पराशरपाराशर्यादिमतानुसारेण अप्राकृतत्वादिकं गुणजातमाह-- अजहदित्यादिना ग्रन्थशेषेण। ' समस्तशक्ति' इत्यादि पराशरवचनम्। 'न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः ' इति पाराशर्यवचनमप्यनुसन्धेयम्। ' व्यक्तमेष महायोगी परमात्मा सनातन ' इति वल्मीकसंभवोऽप्याह। तेनावतारेषु शोकमोहाद्यनुकरणं नटानां नाटकेष्विव परिहासरूपमेवेति मन्तव्यम्। परव्यूहादिविभागः पञ्चरात्रादिषु स्पष्टमेवानुसन्धेयः।।

 65. उक्तमेवार्थं पूर्वपक्षानुवादपूर्वकं प्रतिबन्द्या स्थिरीकुर्वन् दुःखित्वादि नटनफलमपि प्रदर्शयति -- देहत्वादिति । इहैवं प्रतिबन्दी -- यदि शास्त्रैकवेद्यार्थे बाधः क्वचिदिष्यते - तर्हि अग्नीषोमीयहिंसादावपि बाधः स्यादिति। अत्र श्रुतिसिद्धत्वान्न बाध इति प्रतिबन्दीमोचने बन्दीमोचनमपि तथैव स्यादिति। भगवद्विग्रहादेरपि श्रुतिसिद्धत्वात् दुःखमिश्रत्वादिवचनमासुरोपप्लवार्थमित्युक्तम्। आसुराः - कंसादयः। कृष्णादीनां बाल्यादिनटनं परमार्थ एवेति मत्वा पुनः पुनः प्रातिकूल्ये प्रवर्तेरन् तत्प्रवृत्त्यैव विध्वंसेरन्निति। 'विनाशाय च दुष्कृताम्' इत्युक्तदुष्कृद्विनाशफलं बाल्यादिनटनमित्यर्थः।।

 66. अत्रोक्तानामधिकरणानामर्थैक्यादेकपेटिकात्वमध्यायपरिसमाप्तिपर्यन्तमागामिनामधिकरणानामर्थविशेषा

-- भावान्नैरर्थक्यमाशङ्क्यमानस्य पूर्वपक्षवादिनः प्रकारभेदेन प्रयोजनवत्त्वमुपपादयन् सर्वाधिकरणसाधारणं भगवद्गुणविशेषानुसन्धानरूपं प्रधानं प्रयोजनं प्रकटमेवाचष्टे -- इत्थमिति। विद्यात्रयेण सद्विद्याद्यधिकरणत्रयोक्तेन स्थावरजङ्गमात्मकचेतनाचेतनात्मकस्य सर्वकारणस्य भगवतः प्रधानाज्जीववर्गाच्चादित्यादेरप्याधिक्यं यद्यपि स्यात् । तथापि ' अस्पष्टतरमस्पष्टं स्पष्टं छायानुसारी च ' इत्युक्तक्रमेणोत्थानद्वारभेदात् क्रमेणोत्थितान् मृदूपक्रमक्रूरनिष्ठान् प्रतिवादिनो ऽस्मिन्नध्याये निरुन्धन् सन् शिष्टैरधिकरणैर्भगवद्गुणानपि विशेषतः प्रकाशयतीतिशब्दार्थः। अयमत्रभावः -- यथा युद्धेषु पदात्यश्वगजरथानां पूर्वपूर्वदुर्बलानां दुर्बलभङ्गे प्रबलयोधनम्, एवमस्पष्टतरजीवलिङ्गानां पूर्वपूर्वभङ्गे पुनरुत्तरोत्तरपरिग्रहेण पूर्वपक्षः प्रवर्तते। तत्प्रवृत्तिकुण्ठनमन्तरेण जातमपि तत्त्वज्ञानं न प्रतितिष्ठतीति। तेनाध्यायशेषोऽप्यारम्भणीय एव। किं च सर्वेष्वप्यधिकरणेषु तत्तदधिकरणप्रतिनियता भगवद्गुणा विशेषतः प्रकाशन्ते, तेषां गुणानां कार्त्स्न्येनानुसन्धानमध्यायशेषप्रयोजनमित्यास्माको मार्गः। निर्विशेषावादिनां तु एकेनैवाधिकरणेन निर्विशेषं प्रतिपन्नमिति प्रतिपाद्यगुणविशेषाभावादुत्तरेषामधिकरणानां नैष्फल्यमेवेति ह्मदयम्।।

 67. एवं पूर्वपेटिकया सहाध्यायशेषस्य संगतिमुक्त्वा पादशेषस्य संगतिं वक्तुं पूर्वोत्तरपेटिकयोः स्वरूपमपि

विशेषतः प्रकाशयति--- शब्दैरिति। ' अथातो ब्राहृजिज्ञासा ' इति शारीरकशास्त्राद्यपेटिकायां ब्राहृ जिज्ञास्यमित्युक्तम्। तत् ब्राहृसदात्मापुरुषरूपसाधारणशब्दप्रतिपन्नं ब्राहृ किं प्रकृतिः किं वा जीवः अथवा उपचितपुण्यविशेषः कश्चिज्जीवविशेषः, पाप्मशब्दस्य साधारणत्वेन पुण्यापुण्यरूपपाप्मोदितत्वेऽपि किं पुण्डरीकाक्षः, अन्यो वा कश्चिच्चतुर्मुखविरूपाक्षादिरित्याशङ्क्य पुण्डरीकाक्ष एवेति निर्धारितं पूर्वपेटिकायाम्। तत्रेतरव्यावर्तकलिङ्गान्याह-- संकल्पेति। संकल्पात् प्रधानव्यावृत्तिः। आनन्दाभ्यासाज्जीवसामान्यं व्यावत्र्यते। अप्राकृतरूपविशेषादुपचितपुण्यविशेषो जीवोऽपि । तत्रापि पुण्डरीकाक्षत्वश्रवणात् चतुर्मुखादिरपीति हार्दो भावः।

अतदननुगुणैः -- अनन्यथासिद्धैरित्यर्थः। अत्र पूर्वपक्षी प्रत्यवतिष्ठते --पूर्वाधिकरणत्रये लिङ्गैरेव सामान्यश्रुतिबाधेन प्रधानादिव्यावृत्तिर्भवद्भिरभिहिता। लिङ्गाद् विशेषश्रुतिर्बलीयसी। सा हि रूढिशक्त्या वर्तते। तेनाकाशप्राणज्योतिरिन्द्रियादिविशेषश्रुत्या लिङ्गानि बाधित्वा प्रसिद्धाकाशादिकमेव जिज्ञास्यब्राहृत्वेन स्वीकार्यमिति। तेन पादशेषात्मकपेटिकासंगत्यमुक्तं भवति। तदेतदाह-- भूतेति। आकाशो द्विविधः -- ' यदेव आकाश आनन्दो न स्यात् ' इत्यध्यात्मवितसम्मतएकः, पामरपरीक्षकाविशेषेण सर्वलोकप्रसिद्धो भूताकाशोऽपरः। तेन प्रसिद्ध्यतिशयानुसारेण भूताकाशएवात्र ग्राह्रः। एवं प्राणादावपि द्रष्टव्यम्। एवमाकाशादीनां विशेषश्रुत्या पूर्वाधिकरणत्रयोक्तं लिङ्गं बाधित्वा पूर्वपक्ष्यभिप्रायेण निरस्य सिद्धान्ती पुनराकाशादिविशेषसमुदायासंभव प्रतिपादनेन तदेव ब्राहृप्रतिपादकं लिङ्गं प्रधानादिव्यावर्तकं भुनक्ति- रक्षतीत्यर्थः। ' भुजोऽनवने ' इति रक्षणव्यतिरिक्तार्थविवक्षायामात्मनेपदविधानात्। अयमाशयः -- रूढिर्योगमपहरतीति सिद्धमेव, अथापि प्रमाणपरिक्लृप्तो योगो रूढिमेव बाधत इति न्यायविदां निर्णयः। अत्र च ' सर्वाणि ह वा इमानि' इति प्रसिद्धवन्निर्देशो दृश्यते। हवा इति प्रसिद्धइप्रतिपादकाव्ययदर्शनात्। प्रसिद्धिश्च कारणवाक्येषु ।

तेषु च छागपशुन्यायादिना नारायणपरत्वं सिद्धमेव। अतो नारायणप्रत्यभिज्ञापकप्रसिद्धवन्निर्देशयुक्तानन्यथासिद्धवाक्यस्थ सर्वकारणत्वलिङ्गपरिक्लृप्तो योग आकाशशब्दस्य रूढिं बाधत इति युक्तमेव। शेषं भाष्ये।।

 68.अतः परमुत्तरेषां चतुर्णामधिकरणानां युगद्वयेन भेदमन्योन्यसंगतमप्याह -आकाशेति। आकाशप्राणशब्दावनितरगतिकौ प्रसिद्धाकाशप्राणप्रतिपादनानार्हौ परस्मिन्ब्राहृणि रूढिं हित्वा योगशक्त्यैव प्रतिपादनीयौ। तेन द्वयोरधिकरणयोरेकपेटिकात्वसिद्धिः। तथोत्तराधिकरणयोरूढिभङ्गमन्तरेण रूढार्थविशिष्टब्राहृपरत्वादेकपेटिकात्वं सिद्धम्। तत्र ज्योतिश्शब्दस्य तावद्रूढार्थविशिष्टपरत्वं दर्शयति -- ज्योतिरिति। 'न तत्र सूर्यो भाति ' 'नचोदेति नास्तमेति ' ' यदादित्यगतं तेजः ' इत्यादिकं हि प्रमाणजातमुपलभ्यते। एवमिन्द्रियादिशब्दोऽपि इन्द्रादिविशिष्टपरमात्मपरतया रूढ¬भङ्गेन विशेषणमात्रार्थवसानमाश्रित्य नेतव्यः। तथाचार्थभेदात् पेटिकाद्वयसिद्धिरिति निगमयति -इत्येवमिति। एकत्र यौगिकशक्तिरन्यत्र विशेषणमात्रापर्यवसिता रूढिशक्तिरिति शब्दप्रवृत्तिक्रमः।।

 69. पूर्वं ' य एषोऽन्तरादित्ये हिरण्मयः पुरुषः ' इत्यादित्यान्तर्वर्तिनः कस्यचित् पुरुषस्य विशेषलिङ्गात् वेदान्तवेद्यत्वमुक्तम्। इदानीं तदभावादाकाशस्य विशेषश्रुत्या वेदान्तवेद्यत्वमाशङ्क्य परिह्यियत इति संगतिः।

प्रसिद्धाकाशब्राहृणोराकाशशब्दयोगसाधारण्यं संशयबीजमित्यादि स्वयमेव भाव्यम्। तदर्थविचारस्तु ' सर्वाणि हवा इमानि भूतानि ' इत्यादिच्छान्दोग्यवाक्यस्थाकाशशब्दः किं प्रसिद्धाकाशपर उत परमात्मपर इति; तदर्थं विचार्यते -- किमयमाकाशशब्दो रूढिशक्त्या वर्तते उत नेति, तदर्थमपि विचार्यते-- किं रूढिर्योगमपहरतीतिन्यायापवादकं

न्यायान्तरं न विद्यते, उत विद्यत इति। पुनश्च विचार्यते -- प्रसिद्धवन्निर्देयुक्तमत्रत्यकारणत्वादिकं चेतनमात्रविषयमुत चेतनाचेतनाविषयमित्यादि।। फलफलिभावस्तप ' इमानि भूतानि' इति प्रसिद्धार्थविषयकारणत्वानुवादस्याचेतनमात्रविषयत्वेन योगशक्तिकल्पकन्यायान्तराभावात् आकाशशब्दो रूढ¬ैव वर्तत इत्ययं शब्दः प्रसिद्धाकाशपरः। सिद्धान्तेऽपि स्वयमेव वाच्यः। अत्र पूर्वपक्षवादी मन्यते -- छान्दोग्ये ह्राकाशशब्दः सर्वोत्पत्तिविलयकारणवाचकतया दृश्यते , स चाकाशस्तैत्तिरीयेऽनन्योत्पाद्यतया कथ्यते ' आत्मन आकाशः संभूतः ' इति, तस्यानन्योत्पाद्यत्वं सर्वकारणत्वेन नित्यत्वादेव युज्यते इति। तदिदमाह -- अत्रेत्यादिना। तन्निराकरोति -- मैवमिति। तत्र हेतुमाह-- सिद्धेति।' हवै' इति प्रसिद्धवन्निर्देशयुक्तस्यास्य वाक्यस्य सिद्धानुवादविषयत्वात् पूर्वप्रसिद्धिरवश्यापेक्षणीया। प्रसिद्धिश्च कारणवाक्येषु, तानि च नारायणविषयाणीति

प्रागेवोक्तम्। तस्मादाकाशशब्दो न प्रसिद्धाकाशपर इत्यर्थः। किं च ' आकाशः परायणम्' इति आकाशस्य परमप्राप्यत्वमत्रैव श्रूयते। नह्रचेतनं किंचित् परमप्राप्यमित्यात्मविदो वदन्ति। तदिदमाह- अथेति। तस्मिन्नाकाशे परमप्राप्यत्वं न संभवतीत्यर्थः । दूषणान्तरमाह-- तदिति। ' तदैक्षत, तत्तेज ऐक्षत, ता आप ऐक्षन्त ' इत्यादिषु तत्तकर्ता विपश्चित्त्वेनैव हि श्रुतः। तथाचाकाशस्य विविधदर्शनं न संभवति। अथवा तत्कर्तेतिआकाशकर्तेति। ब्राहृवल्ल्यां विपश्चिता ब्राहृणेति जगत्कारणं वस्तु विपश्चित्त्वेनैव हि श्रूयते। विविधं पश्यच्चित्त्वं हि विपश्चित्त्वमिति व्याचख्युः। तेनात्मशब्दः परमात्मवाचकः। यत्तूक्तमात्मन आकाश इति स्वात्मन आकाशोत्पत्तिरभिधीयत इति, तत्र मुख्यार्थस्वीकारे बाधः, अमुख्यार्थस्वीकारे स एव दोषः। तस्मादात्मनः परमात्मन आकाशः संभूत इत्ययमेवार्थ इत्यभिप्रायेणाह-- विहतेति।।

70.अत्रैवं पूर्वपक्षवादी मन्यते-- प्रसिद्धाकाशे जगदुत्पत्तेरप्रत्यक्षत्वात् आकाशशब्दे रूढिभङ्गो न्याय्यः, इह तु प्राणे सर्वेषामपि पुरुषाणां प्राणायत्तप्रवृत्तिकत्वस्योपलम्भादस्माकमनुकूललिङ्गं यत् तदेव युष्माकं प्रातिकूललिङ्गम्, तेनानुकूललिङ्गसघ्रीची प्राणरूढिशक्तिरभञ्जनीयेति। तदिदमाह-- प्राणायत्तमिति। तन्निराकरोति - तन्नेति । तत्र हेतुमाह- प्राणस्येति। ' सर्वाणि हवै ' इति चेतनाचेतनविभागाभावेन कृत्स्नस्यापि प्रपञ्चस्य प्राणायत्तप्रवृत्तिकत्वमुच्यते। अचेतनेष्वेव केषुचिच्छिलाकाष्ठादिषु प्राणायतीति व्युत्पत्तिमाश्रित्य प्राणशब्दवाच्यतया स्वीकार्य इत्यर्थः। पूर्वाधिकरणोक्तं हेतुमत्रापि योजयति -- पूर्ववदिति। उभयत्रापि हवा इति शब्दस्य विद्यमानत्वादित्यर्थः। अत्र भगवति प्राणशब्दस्य श्रौतं प्रयोगं सदृष्टान्तमाह-- आकाशेति। यथा परमात्मविषयस्याकाशशब्दस्य श्रुतौ तत्रतत्रोपलभ्यमानत्वादाकाशशब्दः परमात्मविषयः, एवं निखिलप्राणिप्राणनोक्तेर्दृष्टत्वात् प्राणशब्दोऽपि परमात्मविषय इत्युक्तं भवति। तदर्थविचारफलफलिभावौ पूर्वाधिकरणवत् स्वयमेव कल्पनीयौ। संगतिः पुनातिदेशिकी।।

 71. पूर्वोक्ताधिकरणद्वयसाध्यप्रसाकयुक्तीनामुक्ताधिकरणद्वयविषयवाक्योरभावेनोज्जिहानस्य पूर्वपक्षिणो निराकरणं प्रकारान्तरेणात्र क्रियत इति पूर्वोत्तरपेटिकावैषम्यं प्रकाशयति शिष्यानुग्रहेण नोक्तिमिति। यत् सिद्धान्तानुकूलं लिङ्गं तत्

पूर्वपक्षविरुद्धं यत् पुनः पूर्वपक्षानुकूललिङ्गं तदेव सिद्धान्ताविरुद्धमिति विरोधाविरोधप्रक्रिया। अत्राकाशादिविशेषशब्देन पूर्वयोरधिकरणयोः ।स्वसाध्योपस्थापकसिद्धान्तानुरूपपूर्वपक्षयुक्तिदाढर्¬ात् सिद्धान्तनिर्णयः कृतः। अत्र तावत् पूर्वपक्षवादी मन्यते- यथा पूर्वयोरधिकरणयोः सर्वकारणत्वादिकं लिङ्गं विशेषोकिं्त व्याहरन्ति तथोत्तरयोरधिकरणयोः किमपि लिङ्गं विशेषोकिं्त न व्याहन्ति। अपि तु पूर्वपक्षोक्तप्रसिद्धज्योतिरिन्द्रियोरनुकूलं कौक्षेयज्योतिरैक्यादिकं लिङ्गमप्यस्तीति दर्शयति--- भवतीति। तदेव सिद्धान्तभूतपरब्राहृत्वप्रतिकूलम्। नकेवलं लिङ्गेनैव वदामः, किंतु प्रधानभूतया श्रुत्यापीति दर्शयति -- शब्द इति। अनन्यनिष्ठः --विशेषशब्द इत्यर्थः। एवं चतुर्भिर्हेतुभिः परमात्मा न ज्योतिराद्युक्तिवेद्य इति पूर्वपक्षिणो विशेषाभिप्रायसंग्रहः। एवं तर्हि ज्योतिरादिषु साक्षात्कारणत्वकथनाभावे कथं ज्योतिरादिकारणत्वशङ्कावकाश इत्याशङ्क्य साक्षात्कारणत्वकथनाभावेऽपि कारणत्वाक्षेपकयत्किञ्चिदाभासनिरतिशयगीप्त्यादिलिङ्गेन ज्योतिरादिकारणत्वं शङ्कितुमपि कथंचिच्छक्यमित्याह-- विश्वेति। एवमाक्षिपन्तमनन्तराधिकरणाभ्यां निराकरोति -- रुन्ध इति। तदुचितेति -- भगवत इदिद्युत्यनुरूपचेतनाचेतनवैशिष्ट¬प्रदर्शनेन निरुन्ध इति शब्दार्थः।।

 72. अत्राकाशादिषु त्रिष्वधिकरणेषु ' आकाशाद्वायुः ' इत्यादिश्रुत्युक्तक्रमेण पूर्वपक्षोत्थानं समाधानं चेति

संगतिः। प्रसिद्धज्योतिः परमात्मनोस्तत्रतत्र ज्योतिश्शब्दप्रयोगसाधारण्यं संशयकारणम्। तदर्थविचारस्तु --' अथ यदतः परोदिवः ' इत्यादिवाक्ये ज्योतिश्शब्दः प्रसिद्धज्योतिर्वाचकः, उत परमात्मवाचकः। तदर्थं विचार्यते -- स्ववाक्ये परमात्मासाधारणलिङ्गाभावेऽप्युपक्रमस्थं परमात्मासाधारणं लिङ्गं ज्योतिश्शब्दस्य परमात्मवाचकत्वं न प्रतिपादयति, उत प्रतिपादयतीति। तदर्थमपि विचार्यते -- उपक्रमेऽपि परमात्मासाधारणं लिङ्गं नास्ति उतास्तीति। ततश्च विचार्यते। -- ' गायत्रीवा इदं सर्वम् ' इत्युपक्रमस्थगायत्रीशब्दः परमात्मपरत्वं बाधते न वेति। पुनश्च विचार्यते - एतद्वाक्यस्थो भूतादिपादव्यपदेशो गायत्रीमात्रपरत्वं न व्यावर्तयति, उत व्यावर्तयतीति।

फलफलिभावः स्वयमेवोन्नेयः। अत्र पूर्वपक्षी मन्यते -- आकाशप्राणाधिकरणयोरिव ज्योतिरधिकरणविषयवाक्ये

ज्योतिश्शब्दस्य परमपुरुषवाचकत्वस्थापकं सर्वकारणत्वादिकं प्रसिद्धज्योतिर्विरुद्धलिङ्गं नोपलभ्यते। उपलभ्यते चानुकूललिङ्गं कौक्षेयज्योतिषैक्यम्। तदिदमाह-- कौक्षेयेति। तथा च तदेव जगत्कारणम्। न केवलमनया विद्यया प्रतीयते अपितु वैश्वानरविद्यायामपि तदेव जगत्कारणत्वेन प्रतीतमित्याह-- तरयेति।फलितमा-- अत इति। निराकरोति -- मैवमिति। हेतुमाह-- पुंसूक्तेति। उपक्रमे हि ' पादोऽस्य सर्वा भूतानि ' इति वाक्येन पुरुषसूक्तस्थं ' पादोस्य विश्वा भूतानि ' इत्यादिवाक्यं प्रत्यभिज्ञाप्यते। पुरुषसूक्ते हि नारायणपरत्वं सुप्रसिद्धमेव। तच्च कारणत्वं नारायणे ' ह्यीश्च ते लक्ष्मीश्च पत्न्यौ ' इति लक्ष्मीपतित्वलिङ्गसामथ्र्यात् , ' भगवानितिशब्दः' इति पराशरवाक्याच्च। तर्हि वाक्यशेषस्थकौक्षेयज्योतिरैक्यस्य का गतिरिति चेत् तस्य न्यायविरोधेन बाध एव गतिः। उपक्रमोपसंहारयोरुपक्रमो बलीयानिति हि न्यायविदः। अत्राश्वप्रतिग्रहेष्टिन्याय एवोदाहरणम्। ननु सर्वोक्रमे ' गायत्री वा इदं सर्वम् ' इति गायत्रीपरत्वप्रदर्शनादुपक्रमवाक्यं गायत्रीमेव प्रतिपादयति न पुनः परमपुरुषमित्याशङ्क्य तस्याप्यन्यथासिद्धिमाह-- गायत्रीति। गायत्र्युक्तिश्चतुष्पात्त्व साम्यादेव न पुनः गायत्रीस्वरूपत्वात्। इत्थमवगमे को हेतुरित्याशङ्क्य नियामकं हेतुमाह-- अपि चेति। अस्मिन्खलु वाक्ये गायत्रीशब्दवाच्यस्य परस्य ब्राहृणः सादृश्येन भूतपृथ्वीशरीरह्मदयानि निर्दिश्यन्ते। गायत्रीशब्दस्य परमात्मपरत्वे नियामकं परमात्मनो विश्वात्मकत्वं न केवलमक्षरसंघातरूपायां गायत्र्याम्, अत उपक्रमवाक्यानुसारेणैवोपसंहारस्य वर्णयितुं शक्यत्वात् ज्योतिश्शब्दवाच्यं परमेव ब्राहृेति निर्णयः। प्रयुज्यते च ' तं देवा ज्योतिषां ज्योतिः ' इत्यादिषु परस्मिन्नेव ब्राहृणि ज्योतिशब्दः स्थलान्तरेष्वपि।।

 73.श्रीमद्भाष्यग्रन्थे मन्दप्रतिबोधार्थं पूर्वोत्तरवाक्ययोः परस्परं व्याहतिमाशङ्क्य परिहरति-- उत्थानमित्यादिना इत्थमित्यन्तेन। एतदधिकरणारम्भे ज्योतिरादावधिकरणयुगे कारणव्याप्त- लिङ्गादुत्थानमिति भाष्यकारैरेवाभाष्य पुनरपि पूर्वपक्षोपन्याससमये प्रसिद्धवन्निर्देशेऽप्याकाशप्राणादिवत् स्ववाक्योपात्तपरमात्मलिङ्गविशेषादर्शनादित्युक्तम्, अतः कथमविरोध इति। अत्र निराकरणहेतुमाह-- विश्वेति। अयं किल भाष्यकाराभिप्रायः -- एवं किल मन्यते पूर्वपक्षी '' विश्वतःपृष्टेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु ' इत्यादिकं कारणत्वाक्षेपकमवभासात्मकं लिङ्गमस्ति।

अथाप्युभयलिङ्त्वादिविशिष्टपरमपुरुषप्रतिष्ठापकं जगत्कारणत्वादिकं स्ववाक्ये लिङ्गं नास्तीति। अतो न विरोधइत्याह-- व्याहतिरिति। अयमर्थः - सिद्धान्तोपन्यासभाष्ये यद्यपि ' अथ यदतः परदिवो ज्योतिः' इत्येतस्मिन्वाक्ये परमपुरुषासाधारणं लिङ्गमस्तीति भाष्यकारह्मदयम्। अनुत्तमेषूत्तमेषु लोकेषु द्योतत इति विशेषणद्वयोपादानमप्राकृतदिव्यलोकवासिनो ज्योतिष एव संघटते। न पुनरण्डान्तर्वर्तिनो वा ज्योतिर्मात्रस्येति भावः।।

1.1.11

 74. अत्र संगतिर्भाष्यकारैरेवोक्ता ' निरतिशय ' इत्यादिना। आदित्यादिपरज्योतिश्शब्दे निरस्ते परो ज्योतिषामधिपतित्वेन परकल्पित इन्द्रोऽपि जगत्कारणत्वेनाशङ्क्य निरस्यत इति। अथवा उपक्रमप्राबल्यादुपसंहारोक्तार्थनिरासः पूर्वाधिकरण उक्तः, तर्हि तेनैव न्यायेन प्रतर्दनविद्यायामपि उपक्रमप्राबल्यादुपसंहारवाक्यप्रतिपन्नपरमपुरुषपिरकल्पनं बाध्यमिति पूर्वपक्षोत्थानेन संगतिः। तदर्थविचारस्तु प्रतर्दनविद्यायां किं प्रसिद्ध एवेन्द्रः प्रतिपाद्यते उतेन्द्रशरीरकः परमात्मा। एवं प्राणेऽपि वाच्यम्। तदर्थं विचार्यते - पूर्वाधिकरणोक्तोपक्रमाधिकरणन्यायेनात्राप्यर्थोपवर्णनं न्याय्यम्, अथवा नेति। उपक्रमाधिकरणन्यायेबाधकमुपक्रममहावाक्यविरोधे महावाक्यमेवानुसरणीयमिति न्यायनन्तरं न विद्यते, अथवा विद्यत इति। पुनर्विचार्यते अस्मिन्वाक्ये सर्वत्र परब्राहृत्वनिश्चायकं हेतुजातं नानुगम्यते, उतानुगम्यत इति। अत्र पूर्वपक्षी मन्यते-- पूर्वमुपक्रमानुसारेणैवोपसंहारवर्णनं न्याय्यमिति भवद्भिरुक्तम्, प्रतर्दनविद्यायामुपक्रमे पूर्वमिन्द्रशब्दः प्रयुज्यते, स तु विशेषश्रुतिः, तेनोपक्रमस्थश्रुत्यानुगुण्यमस्त्येव, किं च ' त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे' इति हिततमोपास्तिकर्मत्वं तथैवोच्यते, तच्च परब्राहृत्वलिङ्गम्, तेनोपक्रमस्थश्रुतिलिङ्गाभ्यामिन्द्र एव परमपुरुषः, किं च त्वदभिमतनारायणविरुद्धं प्रसिद्धेन्द्रसाधारणं त्वाष्ट्रवधादिकं चोपलभ्यते, तच्च परमपुरुषविरुद्धमेव। फलितमाह-- तदिति। तस्मात् । असौ - शक्रादिपद वाच्य इन्द्र एव, जगत्कर्ता। परहरति-- नेति। अयमाशयः -- उपक्रमस्थहिततमोपास्तिकर्मत्वं प्रसिद्धेन्द्रस्य न

घटते, एवं हिततमोपास्तितरपवर्गार्थोपासनम्, प्रसिद्धेन्द्रस्तु देवगणान्तर्गतः स्वर्गादिपरिमितदेशवासी कश्चित्कीटकल्पः, स कथं हिततमोपास्तिकर्म भवेत्, तेनार्थविरोधात् शब्दार्थासंकोचसिद्ध्यर्थं चेन्द्रशब्देन परमपुरुष एवाभिधीयते, ' इदि परमैश्वर्यं ' इति हि व्युत्पादयन्ति, निपुणनिरूपणे पितामहोऽप्युदुम्बरकीटः, किमुत मेघनादादिजितः प्रसिद्धेन्द्र इति त्वमेव भावय। तर्हि मामुपास्स्वेति स्वोपासनं विदधातीन्द्रः, त्वाष्ट्रवधादिकं चास्मिन्नेव प्रकरणे प्रख्याप्यते परमपुरुषविरुद्धं प्रसिद्धेन्द्रानुकूलं लिङ्गम्, तत्कथमिति चेदत्र समाधिमाह-- ब्राहृेत्यादिना। स्वात्मना चेत्यन्तेन। अयमभिप्रायः -- त्रेधा ह्रुपास्यं ब्राहृ अचिद्विशिष्टोपासनं चिद्विशिष्टोपासनं केवलं परमात्मोपासनमिति। तेन प्रसिद्धेन्द्रादिकमपि ब्राहृविशेषणत्वेनोपास्यतयाऽभिधीयते । तेन विशेषणभूतप्रसिद्धेन्द्रादिप्रतिपत्त्यर्थं त्वाष्ट्रवधादिकमपि लिङ्गं सार्थकमेव न पुनर्विरुद्धम्। अयमत्र निर्णयः-- हिततमोपास्तिकर्मत्वादिभिः परमपुरुषस्यैव प्रतर्दनविद्यायामिन्द्रशब्दप्रधानवाच्यत्वं सिद्धमेव। त्वाष्ट्रवधादिना लिङ्गेन तद्विशेषणत्वेन प्रसिद्धेन्द्रोऽपि परिगृह्रते । एवं प्राकरणिकेन लिङ्गेविशेषेण प्रसिद्धप्राणोऽपि स्वीक्रियतां, नतु स्वरूपेण। स्वरूपेण परमात्मनोपासनं सुप्रसिद्धमेव । तेनोपासात्रैविध्यसिद्ध्यर्थं प्रसिद्धेन्द्राद्यसाधारणलिभ्गं प्रतर्दनविद्यायामुक्तमिति न विरोधः। अत इन्द्रादिविशिष्टः परमात्मेव प्रतर्दनविद्यायामुपास्य इतीन्द्रादिरूढु#िशक्त्या विशेषणपरित्यागेन विशेष्यपर्यन्चाभिधानमिति सिद्धम्। कथं तर्हि उपक्रमविरोधे वाक्यार्थनिर्णय इत्याशङ्क्याह-- प्राणेन्द्राति । उभयमिह प्रकाष्यते उपक्रमोपसंहारयो उपक्रमोपसंहारयोपुरक्रमो बलीयान्, उपक्रममहावनक्ययोर्विरोधे महावाक्यमेव बलीय इति। इदं पुनर्विरोधे सत्यमेव। अत्र पुनर्विरोध एव नास्तीति भाष्यकारह्मदयम्। महावाक्यगतोपक्रमस्यापीन्द्रविशिष्ट परमात्मविषयत्वेनाध्यात्मविद्भिपनुसन्धानादिति।।

 75. अत्राधिकरणारम्भानुपपत्तिमाशङ्क्य समाधत्ते -- यदिति। अयमर्थः -- ज्योतिषीन्द्रे च यल्लिङ्गं कारणैकस्थितमिति कथितं भवता ज्योतिषि तावत् ' अथ यदतः' इत्याद्युक्तमुत्तमेषु लोकेषु निरतिशयदीप्तियुक्तत्वम्, यच्चेन्द्रे त्वमित्याद्यभिप्रेतं ' मामुपास्स्व ' इति साक्षान्मुक्त्यर्थं मुमुक्षूपास्यत्वम्, तदुभयमपि प्रख्यातान्यैकनिष्ठं कारणत्वेन प्रख्यातनारायणमैकनिष्ठं प्रथममितम् --आकाशाधिकरणत्ववयाप्तं लिङ्गद्वयम्, तत्कथमुच्यते। यथा सर्वजगत्कारणत्वं परमपुरुषविषयतया प्रथममितम्, तद्वत्, तेन समव्याप्तम् लिङ्गद्वयमपि तथैव प्रमितमेवेत्यर्थः। फलितमाह-- अत इति। निरतिशयदीप्तियुक्तत्वलिङ्गस्य मुमुक्षूपास्यत्वस्य च परमपुरुषनिष्ठतया पूर्वमेव प्रमितत्वात् कारणत्वव्याप्तलिङ्गेन

पूर्वपक्षोत्थानमिति न घटते। इत्थं लिङ्गद्वयस्य परमपुरुषस्थितत्वपरामर्शे दूषणमुक्तम् तदभावेऽपि दूषणमाह-- अप्राप्त इति। लिङ्गद्वयस्य सर्वकारणस्थितत्वपरामर्शाभावे लिङ्गद्वयान्वितं यÏत्कचिज्जोतिरस्तु यः कश्चिदिन्द्रोऽस्तु न चैतावता पूर्वोक्तमेकनिष्ठं कारणत्वं परमकारणत्वं भ्रश्यति किमर्थमधिकरणाम्भ इत्याशङ्क्यार्धाङ्गीकारेण परिहरति सत्यमिति। यद्यप्यधिकरणप्रयोजनं नास्ति, अथापि किंचित्प्रयोजनमस्ति, यद्यपि लिङ्गद्वयं परमपुरुषैकनिष्ठम्, अथापि स एव परमपुरुष उपेन्द्रत्वमास्थाय वर्तते, अतः सोऽप्युपास्य एव, तस्य श्रुतिः पुराणादिरिवोपेन्द्रोत्पतिं्त वावदीतीति कश्चित् बालबुद्धि भ्र्राम्यति, तच्छङ्कानिराकरणमारम्भ इत्यर्थः। उपेन्द्रस्य परमपुरुषत्वं श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम्, तेष्वेवेन्द्रस्य पुरुषोत्तमकिङ्गरत्वमपि तत्रैव प्रसिद्धमिति भावः।।

 76. एवमुक्तयोरधिकरणयोर्विरोधाभासं शमयित्वा पूर्वपक्षिणा परिगृहीतेऽर्थे संमतासंमतविभागं दर्शयन् विरोधिलिङ्गत्वेन कथितस्य कौक्षेयज्योतिषैक्यस्य मुख्यप्राणादिलिङ्गस्य चोपासनार्थत्वेन प्रयोजनमपि दर्शयति-- ज्योतिरिति। ज्योतिरादिशब्दानां विशेषणविशिष्ठपरमवस्तुवाचित्वं संमतम्। विशेषणमात्रवाचित्वसंमतम्। कौक्षोयज्योतिषैक्यमुपासनार्थम्। तथा मुख्यप्राणलिङ्गम्प्युपास्यविशेषणप्रकाशनार्थमिति श्लोकार्थसंक्षेपः। स्पष्टमेवावशिष्ठम्।।   

 77. अत्र शिष्यामुग्रहार्थं आकाशज्योतिराद्यधिकरणोक्तार्थवैशद्यायेतरवाचिशब्दानां ब्राहृणि प्रयोगे विषयभेदेन नियमं दर्शयति -- कार्यमिति। यत् कार्यमिति दृढमितमधिगतमाकाशादिकं यदपि कर्मवश्यमिति

दृढमितं प्राजापत्यादिकं तयो र्निरूढैः प्रसिद्धैः शब्दैः ब्राहृणि निर्दिष्ठे सति क्वचित् आत्मावस्थितेष्वाकाशादिशब्देषु गत्यन्तराभावाद्रूढिर्बाध्या। अगतिहता -- रूढित्वेन निर्वाहासंभवस्त्विह-- अगतिः तया निवार्यते रूढिः। तेन योग एवाश्रीयत इत्यर्थः। क्वचिदन्यत्र प्रकारान्तरेण निर्वाहमाह-- तदिति। ज्योतिषि

लिङ्गं कौक्षेयज्योतिषैक्यम्, इन्द्रे त्वाष्ट्रवधादिकं तदुभयमनन्यथासिद्धं व्याप्तमित्यर्थः।। तत्तलिङ्गानन्यथासिद्धेज्र्ञानबलात् तद्विशेषणविशिष्ठविषयत्वं स्यात्। अत्रोदाहरणचतुष्टयमाह-- ज्योतिरिति। ज्योतिर्विशिष्टे ब्राहृणि ज्योतिशब्दः। इन्द्रविशिष्ठे पुनरिन्द्रशब्दः। एवमहं ब्राहृास्मीत्यत्राहंशब्दः स्वात्मविशिष्टं परमात्मानमाह। अत्र ऐन्द्रानयेनेत्येतदवशिष्यते, तदप्याचक्ष्महे ' ऐन्द्र¬ा गार्हपत्यम्' इत्यत्रेन्द्रशब्दस्य गार्हपत्ये रूढिशक्त्यभावात् गौणीवृत्तिव्र्युत्पत्तिर्वा समाश्रयणीया। उभयमप्याहुः ---

 ' इन्द्रत्वमग्नौ गौणं स्यात् यज्ञसम्बन्धकारितम्। इन्दत्यर्थानुसाराद्वा स्वकार्ये सोऽपि हीश्वरः।। ' इति।

तेनाकाशप्राणशब्दयोरस्माभिः परस्मिन् ब्राहृणि व्युत्पत्तिरेवाश्रीयत इति सुसंगतमेतत्। अयमर्थः--

 व्युपत्त्या परमात्मानं तत्तदुक्तिः प्रकाशयेत्। तल्लिङ्गानन्यथासिद्धौ  तद्विशिष्टावलम्बिनी।। इति।।

 78. पूर्वं तद्गुणाद्गृणातीत्यागामिनामधिकरणानां प्रत्येकमेकैकभगवद्गुणप्रकाशने तात्पर्यमिति प्रतिपादितम्। अधुना पुनरतीतानां सप्तानामधिकरणानां सप्तसु भगवद्गुणेषु तात्पर्यमनुक्रमा इत्यादौजेतृवीतहव्यविजेवृतया बलपौरुषादिशययुक्त इत्यानुशासनिकादि दाचष्टे -- स्वेच्छात इत्यादिना। शुभेति  शुभगुणविभवरूपानन्तनिस्सीमहर्ष इत्यर्थः। अनुपधिकेति-- देशकालवस्तुपिरच्छेदराहित्येनेत्यर्थः। सप्राणेति-- सप्राणानामप्राणानां प्राणहेतुरित्यर्थः। तत्र प्रभुरितिकथनं सर्वाधिकरणोक्त वैभवप्रकाशनार्थम्।।

 प्रथमाध्यायस्य तृतीयः पादः

1.3.1.

1. अतीतानां पादाभ्यामस्पष्टतरास्पष्टजीवादिलिङ्गकानि वाक्यानि निरूपितानि उत्तराभ्यां पुनः पादाभ्यां स्पष्टस्पष्टतरजीवादिलिङ्गकानि वाक्यानि क्रमेण निरूप्यन्ते। अत एव द्वितीय तृतीयपादयोः परस्परसंगतिरपि सिद्धा। अधिकरणसंगतिस्तु पूर्वपादान्ते द्युपृथिव्यादिसंबन्धिनः परमात्मत्वमुक्तम्, तदेवाक्षिप्य समाधीयते। किंचादृश्यत्वाद्यधिकरण एव त्रैलोक्यशरीरत्वेन परमात्मत्वं प्रसाधितम्, तत्प्रसङ्गात् वैश्वानराधिकरणेऽपि जीवत्वमाशङ्क्य निराकृतम्। अत्र पुनः प्रासङ्गिकपरिसमाप्तौ पूर्वाधिकरणोक्तार्थशेषाभिधानेन पुनद्र्युभ्वादिवाक्यमेव समाधीयते। इह तृतीयपादे निवेशस्तु निरसनीयजीवादिलिङ्गानां स्पष्टत्वात्। अस्मिन्खलु पादे सप्तैवाधिकरणानि साक्षात्संगतानि।मध्ये देवताधिकरणादीनि त्रीण्यर्थान्तरत्वात् न संगतानीत्याशङ्क्य परिहरति--स्पष्टैरिति। स्पष्टैर्जीवादिलिङ्गैर्युतमस्मिन् तृतीये पादे ब्राह्निष्ठं वचः प्रसाध्यते मध्ये त्रिष्वधिकरणेषु विद्याधिकारोक्तिः किमर्था? तन्न प्रसङ्गादुक्तेः 'ह्मद्यपेक्षया तु मनुष्याधिकारत्वात्' इत्यधिकारप्रसङ्गात् तदुक्तेः समुचितत्वात्। किं च देवताधिकरणाद्युक्तौ अर्धलोकायतिकानां निरीश्वरमीमांसकानां निरसनं परमपुरुषस्य चतुर्मुखादिपिपीलिकान्तसकलजगत्कारणत्वरूपप्रस्तुतार्थप्रसाधनोपयुक्तमेव। देवतानामभावे

तदपेक्षया कारणत्वापादानायोगात्। तदपेक्षयापि भगवत आराध्यत्वेन ब्राहृोतकर्षश्च सिध्येत्। तासां देवतानां कारणैक्यभ्रमोऽपि गलत्येव।।

 2.अतः सप्तानामधिकरणानां साक्षात् संगतिः, प्रसङ्गादन्येषाम्, तदिदमनूद्य साक्षात्संगतेषु सप्तसु षष्ठदशमयोः परस्परसंगतिं चाह-- न्याया इति। सप्तैव न्यायाः साक्षात्परविषयतया संघटन्तेऽत्रपादे। किंचास्मिन् पादे सर्वाधारः स एवात्मा ' कस्मिन्प्रतिष्ठितः स्वे महिम्निइत्युक्तक्रमेण भगवतः स्वमहिनिलयत्वोपपादनमनन्याधारत्वं च पादस्य तात्पर्यविषयः। उक्तं हि पूर्वमेव रुाष्टा देही स्वनिष्ठः इति 'स्वयं दासास्तपस्विनः' इतिवत्। एतस्य तात्पर्यस्य प्रसिद्ध्यर्थं भगवतः सर्वप्रशासितृत्वादिकं तत्तदधिकरणार्थजातं कथितं मिथरस्यूतं परस्परसंश्लिष्टमालोचनीयम्। तर्हि त्रिभिरधिकरणैः षष्ठदशमयोव्र्यवधाने कथं सम्बन्ध इत्याशङ्क्य षष्ठाधिकरणप्रमितं भगवतः सर्वेशत्वं

दशमाधिकरणेन तस्यैव मोक्षप्रदत्वप्रतिष्ठापनेन संरक्षणीयमिति परस्परसंबन्धः सिध्यत्येव।।

 3. सूत्रे द्युभ्वादीतिपदद्वयोपादानमूध्र्वलोकोपलक्षणार्थमिति मन्तव्यम्। अत्राधिकरणारम्भमाक्षिप्य

समाधत्ते-- सिद्धमित्यादिना। प्रागेव-- अदृश्यत्वाधिकरण एव। मुण्डोपनिषदिपरं ब्राहृ स्वव्यवस्थापकैस्तत्तद्धर्मभेदैः सिद्धभेदमेव। भेदोक्तेश्च --साक्षाज्जीवपरयोर्भेदकथनाच्च। तथा च सति किमर्थमिमामुपनिषदं पिष्टपेषं पिनष्टि विशिष्य पुनः पुनः पिनष्टीत्यर्थः। अर्धाङ्गीकारेण समाधत्ते --सत्यमित्यादिना। अस्तु पूर्वमेव विचारितं मुण्डोपनिषद्वाक्यम्, अथापि विचार्यते तत् किमर्थमित्यत्राह--क्षेत्रज्ञेति। नाड¬ाधारत्वादिभिरसाधारणैर्जीवधर्मैरुपनता शङ्कायाः पुनरुदयाभावेनोन्मूल्यते शब्दपूर्वैः श्रुत्यादिभिः प्रमाणैः। अयमर्थः-- मुण्डोपनिषद्वाक्ययोरुभयत्रापि परमपुरुषगुणप्रत्यभिज्ञानात् प्रकरणभेदशङ्कैव नास्ति। नाडीसम्बन्धादयश्चाभासहेतवः। तत उचितैः

समाधानरहेतुभिर्भाष्यकाराभिप्रेतैरेव समाधेया इति। तदर्थविचारस्तु -- किं द्युपृथिव्याद्यायतनं जीव उत परमात्मेति। तदर्थं पुनर्विचार्यते-- 'यस्मिन्द्यौ' इत्यादिवाक्यजातं किमदृश्यत्वादिगुणकप्रकरणात् भिन्नमुताभिन्नमिति। तदर्थं पुनः प्राणादिसंबन्धः किमुपकार्योपकारकत्वनिबन्धन उताधाराधेयभावलक्षणः। तदर्थं पुनः प्राणादिसंबन्धः किमुपकार्योपकारकत्वनिबन्धन उताधारधेयभावलक्षणः। तदर्थं द्युपृथिव्याद्यायतनत्वामृतसेतुत्वादिधर्माः किं कर्मफलानुभवितुर्जीवस्य संभवन्ति उत नेति।।

 4. अत्र पूर्वपक्षसिद्धान्तौ संगृह्णाति-- यस्मिन्नोतमित्यादिना। 'यस्मिन् द्यौः पृथिवी च' इत्यादिवाक्येष्वन्यकरणैस्सह मनो यस्मिन्नोतं यस्मिन्नैरन्तर्येण संबद्धम्। यश्च नाना जायते

नाड¬ाधारश्च यश्च देहेऽन्तश्चरतीति कथयते , स चक्षुरादिना करणी करणवान् कर्मभोक्तैवेति चेत्, उक्तमर्थं प्रतिक्षिपति--नेति। तत्र हेतूनाह--विश्वेति। विश्वाधारात्मभावेनास्मिन् प्रकरणे परमपुरुषस्य कथनात् 'अमृतस्यैष सेतुः' इति मोक्षप्रदत्वप्रतिपादनात् मुक्तप्राप्यत्वप्रतिपादनात् पूर्वोक्तब्राहृप्रकरणविच्छेदाभावात् 'अनश्नन्नन्यो अभिचाकशीति' इति कर्मफलभोक्तृत्वाभावेन निरतिशयदीप्तियोगात् चकारादन्यस्मादपि ब्राहृासाधारणगुणयोगात् त्वदुक्तं न घटत इत्यन्वयः।।

 5. अथ पूर्वपक्षयुक्तीनामन्यथासिदिं्ध वक्तुमारभते --व्याप्त इति। सर्वव्याप्ते भगवति इन्द्रियादिकमोतं चेत् किमिह

ततः किं नोपपद्यत इत्यर्थः। भगवतो जन्म नोपपद्यत इति चेतच्चोपपद्यते ऐच्छत्वाज्जन्मन इत्याह--जन्मेति। 'अजायमानो बहुधा विजायते' इति हि श्रूयते।

नाडीचक्रहार्दरूपेण तिष्ठन् ह्मदयान्तर्वर्तित्वेन वर्तमानः। सर्वासामपि नाडीनां ह्मदयान्तर्वर्तिपरमपुरुष सम्बन्धित्वात्। श्रूयते हि 'शतं चैका ह्मदयस्य नाड¬' इति। तर्हि सर्वव्यापिनः कथमन्तश्तरणमिति चेत्तदप्यनूद्य समाधत्ते-- निष्कम्पेति। द्विरूपं खल्वन्तर्यामित्वं भगवतः, विग्रहपरिग्रहेणैकम्, सर्वव्याप्तेन स्वरूपेणापरम्। विग्रहेण देहान्तश्चरणं तावन्मुख्यत एव स्वरूपेणान्तश्चरणं तु 'यः पृथिवीमन्तरे सञ्चरन् ' इत्यादिना सुबालोपनिषदाम्नातसर्वान्तर्यामित्वरूपचरणवदत्रापि संघटत एव। अन्तर्यामित्वेनाधिष्ठानमात्रस्यैव चरणशब्दवाच्त्वादित्यर्थः।।

 ।1.3.2.

 6.परमात्मप्रकरणविच्छेदात् मुण्डोपनिषदि आपादचूढं परमात्मपरत्वमेव प्रसाधितम्। तर्हि च्छान्दोग्ये भूमविद्यायां जीवप्रकरणाविच्छेदात् जीव एव प्रतिपाद्यत इति पूर्वपक्षोत्थानेन प्रमाणद्वारा संगतिः। अर्थद्वारापि संगतिरभिधीयते-- पूर्वत्र ' ओतं मनः सह प्राणैः' इति प्राणसम्बन्धी पुरुष उक्तः, अत्रापि प्राणसम्बन्धित्वेन प्राणशब्दवाच्यो जीवएवोच्यत इति। तदर्थविचारस्तु किं भूमशब्दनिर्दिष्टः प्रत्यगात्मा उत परमात्मेति। किं भूमशब्दनिमित्तवैपुल्येन प्रत्गात्मानिर्दिश्यते उत परमात्मेति। किं प्राणशब्दनिर्दिष्टप्रत्गात्मनि प्रश्नप्रतिवचनाभ्यां भूमापि समाप्तो नेति। किं च ' स वा एष एवंपश्यन्नेवं मन्वान एवंविजानन्नतिवादी भवति' इत्यतिवादित्वं प्राणातिवादिन उक्त्वा ' एष तु वा अतिवदति यः सत्येनातिवदति' इति प्राणातिवादिनः सत्यवजनमङअगतया विदधाति उत सत्यशब्देन परमात्मानं निर्दिश्य तदतिवादिनः प्राणातिवादिनोऽप्यतिवादित्वं वदतीति। किमस्मिन्वाक्ये ' एष तु वा अतिवदति'

इत्यत्र प्राणातिवादिनः प्रत्यभिज्ञास्ति नेति। किं तुशब्दः प्रत्यभिज्ञानविरोथे नेति। अत्र पूर्वपक्षसिद्धान्तौ संगृह्णाति --आत्मेति। इह खलु भूमविद्यायां सनत्कुमारो गुरुर्नारदः शिष्यः। स च सर्वमपि विद्यास्थानं परिज्ञातवान् तथापि च भगवज्ज्ञानशून्योऽहमिति 'सोऽहं भगवतो मन्त्रविदेवास्मि नात्मवित्' इति आत्मज्ञानाभिलाषादनुपरत शोको नारदः। अस्मै नारदाय प्रवृत्तं सनत्कुमारवचनं प्राणे पर्यवस्यति। तदेव प्रतिपादयति-- प्राण इति। स च प्राणाख्यो जीव एव तस्मिन्नेव प्रकरणे तस्य हिंसनार्हत्वेन कथनात्। किं च अत्राल्पप्रत्यर्थित्वेनाभिधीयमानो भूमशब्दवाच्योऽर्थो निरवधिकसुखाश्रयो जीव एव स्यादित्याशङ्क्य प्रतिक्षिपति --नेति। तदेव विवृणोति--प्राणाख्यादिति। तत्र हि प्राणब्देन जीवमुक्त्या प्राणवेदिनश्चेतरसुखातिशयितसुखरूपजीववेदिनोऽतिवादित्वमुक्त्वा तस्यापि जीवस्याल्पत्वेन परमात्मसुखवेदिन एवान्ततोऽतिवादित्वं प्रतिष्ठाप्यते। तेन प्राणाख्यादधिकं सत्यशब्द वाच्यं परं ब्राहृैवास्मिन्प्रकरणे प्रधानप्रतिपाद्यमुच्यत इति ।।

 7. पूर्वपक्षाभिप्रायं विस्तरेणोक्त्वा स्वाभिप्रायमपि तथैव कथयति-- नामेति। नामोपक्रम्य आशान्ते दिक्पर्यन्ते वेद्ये प्रश्नप्रतिवचनयोरनुवृत्तत्वादुत्तरोत्तरमतिशयितफलवत्त्वेनाधिकोक्तेश्च दृष्टत्वात्

प्राणे तादृगभिधानस्य विश्रान्तिदर्शनाच्च प्रस्तुतात्मोपदेशः- प्राणावधिः स्यात्। ततः प्राणस्योपरि सत्यशब्दवाच्यतया आत्मोपदेशो नास्ति। उक्तमर्थं प्रतिक्षिपति--मैवमिति। इह-- अस्मिन्प्रकरणे। नामादिवत् प्राणोऽपि परस्मादात्मनो जात उक्तः। जातस्य तस्य कथं परमात्मत्वम्। नन्वत्रात्मशब्दः स्वात्मपरः, तेन स्वस्माज्जात इति प्रकरणाविरोधः स्यादित्याशङ्क्य प्रतिक्षिपति -- नेति। तत्र

हेतुमाह-- विघटनादिति। कार्यकारणभावप्रतिपादिकायाः स्वारसिक्या विभक्तेर्विघटनात् । कार्यकारणभावोऽपि भेदगर्भ एव। स्वात्मन उत्पत्तिकथनं क्लिष्टमेवेति भावः।।

 8. शिष्यप्रतिबोधनार्थं पूर्वपक्षाभिप्रायं विविच्य तदुचितमुत्तरमप्याह-- प्राणद्रष्टेति। अत्र हि प्राणद्रष्टा अतिवादित्वेनोक्तः, तदनूद्य सत्यवादोऽङ्गत्वेन विधीयते, तस्मात् सर्वाहमर्थो जीवः खल्वदृष्टद्वारा सकलतत्त्वोत्पादकः प्राण एवेति चेत् तदेतत्प्रतिक्षिपति --नेति। प्रतिक्षेपहेतुं विवृणोति-- एष इति। 'एष तु वा अग्निहोत्री यः सत्यं वदति' इत्यत्रापि तुशब्दशिरस्क एषशब्दोल दृश्यते अथापि तत्राधिकार्यन्तरं न कल्प्यते तद्वदत्रापि स्यादित्याशङ्क्याह-- तद्वदिति। तत्र ह्रग्निहोत्रद्वयं न प्रमितम्, इह तु प्रमितमेव। पूर्वं प्राणातिवादिनमुक्त्वा पुनश्च 'एष तु वा अतिवदति यः सत्येनातिवदति' इति द्विवारमतिवादित्वमुच्यते नैवमग्निहोत्रवाक्ये द्विवारमग्निहोत्रित्वमुच्यते। तेन पूर्वाग्रिहोत्रिणमुद्दिश्य सत्यवदनमङ्गतया विधीयत इति युक्तम्। अत्र पुनस्तुशब्दसहितैतच्छब्देनातिवाद्यन्तरं प्रतीयत इति विशेषः। अन्यथा

पुनरत्रापि 'एष तु वा अतिवदति यः सत्येनातिवदति' इत्यधिकार्यन्तरं न श्रूयेत। किं च यदि जीवे विश्रान्तिः स्याद्वाक्यस्य तदानीमेतत्प्रकरणोक्तानां परमात्मासाधारणधर्माणामनुपपत्तिः स्यात्। तेन स्वमहिमनिलये परमात्मन्येव सर्वधर्मोपपत्तिः स्यादित्ययमपि हेतुः परमात्मसाधने भवति।।

 9. अत्र भूमविद्यायां नामाद्याशापर्यन्तवस्तूनां स्वरूपप्रतिपत्त्यर्थं तत्संग्रहश्लोकमाह-- नामेति। आदौ नाम तस्योपरि वाक् तदनु मनः अथ संकल्पनामा ततश्चित्तं ततोऽप्यनन्तरं ध्यानं ततो विज्ञानं ततो बलं तस्मादन्नं तस्मात्तोयं तस्मादपि तेजः ततः पुनराकाशस्ततो मन्मथः तत आशा ततः प्राणशब्दवाच्यो जीवः सर्वेषामुपरि सत्यशब्दवाच्यः परमात्मा सर्वनियन्ताऽयमेवेति गम्यत इति।।

 ।1.3.3.

 10.पूर्वाधिकरणे स्वमहिमप्रतिष्ठितत्वमुक्तम्। तत्तु परमपुरुषव्यतिरिक्तेऽपि श्रूयत इति पूर्वपक्षोत्थानेन संगतिः। अथवा ' येनाक्षरं पुरुषं वेद सत्यम्' इति सत्याक्षरशब्दाभ्यां निर्दिश्य परस्य ब्राहृणः सत्यशब्दवाच्यत्वं पूर्वत्र प्रतिष्ठापितम्, अत्राक्षरशब्दवाच्यत्वं प्रतिष्ठाप्यत इति वा संगतिः।

एवंवा--- पूर्वं जीवनिरासः, इह तु जीवप्रधानयोद्र्वयोरपि निरास इति। तदर्थविचारस्तु 'एतद्वै तदक्षरं गार्गि ब्रााहृणा अभिवदन्ति' इति वाक्ये पुनरक्षरशब्दनिर्दिष्टं प्रधानं वा जीवो वा परमपुरुषो वेति। तदर्थं चिन्त्यते--'कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च' इत्यत्र प्रतीयमानमाकाशाधारत्वं किं प्रधानस्य किं वा जीवस्य उत परमात्मन एवेति। किमत्राकाशशब्दनिर्दिष्टो भूताकाश उत अव्याकृताकाश इति। अत्र पूर्वपक्षसिद्धान्तावनुक्रमेणाचष्टे --प्रख्यातेति।'कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च' इत्यादौ प्रसिद्धाकाशपूर्वस्वकार्यवहनादक्षरशब्दवाच्यं प्रधानमेवेत्येकः पक्षः। तस्यापि प्रधानस्य कारणाकाशत्वेन आकाशत इति व्युत्पत्त्या अवधारितस्याप्याधारत्वेनाभिधीयमानमक्षरं धृतनिखिलजगत् समष्टि जीवतत्त्वमेव स्यात् प्रकृतेर्जीवाधिष्ठानत्वात्। पक्षद्वयमपि व्युदस्यति--मैवमिति। तत्र हेतुमाह--द्रष्टृत्वेति।चेतनाचेतनयोरसंभावितैः सर्वद्रष्टृत्वादिभिर्धर्मैर्भगवदसाधारणैः 'सा च प्रसाशनात्' इत्युक्त प्रकारेण स्वशासनायत्तधारणाच्च। किंच अस्मिन्प्रकरणे द्रष्ट्रन्तरस्य व्युदसनं दृश्यते। तत्तु परमात्मनपक्ष एव संभवति, न पुनर्जीवपक्षे द्रष्टुर्जीवादन्यस्य सर्वद्रष्टुः परमात्मनो विद्यमानत्वात्। तेन द्रष्ट्रन्यरनिराकरणमीश्वरान्तरनिराकरणमेव। तदिदमाह-- द्रष्ट्कन्तरस्येति। विश्वाधारतया नियन्तृत्वेन

विश्वद्रष्टुः परमपुरुषसादन्यस्य द्रष्टुव्र्युदसनं परमपुरुषाधिकतया परमपुरुषनियन्तृत्वेन- -अवस्थिततत्सदृशेश्वरान्तरनिरास इत्यर्थः।।

 ।1.3.4.

 11. सूत्रे 'सः' इति पुल्लिङ्गनिर्देशः परमपुरुषविवक्षया। पूर्वत्र खलु 'अदृष्टो द्रष्टा' इति परमात्मनोऽन्यैरदृष्टत्वमुक्तम्, तर्हीक्षतिकर्मत्वेनाभिधीयमानः परमपुरुषो म स्यादेवेति पूर्वपक्षोत्थानेन संगतिः। अथवा पूर्वत्राकाशशब्दस्यार्थविरोधादर्थान्तरपरत्वं प्रत्यपादि, तद्वदेवान्तरिक्षशब्दस्यापि मुखान्तरेण निर्वाहः संभवेदिति शङ्कया संगतिरिति चाहुः। यद्वा आकाशशब्दस्याम्बरान्तपरत्वात्

ब्राहृलोकशब्दस्याप्यन्यथानिर्वाहोऽस्तीति सङ्गतिः। तदर्थविचारस्तु ' यः पुनरेतं त्रिमात्रेणोमित्येनेनैवाक्षरेण परमपुरुषमभिध्यायीत' इति निर्दिष्टः चतुर्मुख उत परमात्मेति। किं 'पुरुषमीक्षते' इत्यत्रेक्षतिकर्मत्वं चतुर्मुखस्य उत परमात्मन इति। किं जीवधनशब्देन चतुर्मुखस्यापि ग्रहणमस्ति नेति। किमत्र ब्राहृलोकशब्दश्चतुर्मुखस्थानवचन उत परमव्योमवचन इति। ईक्षतिकर्मविषयतयोगाह्मते श्लोके 'यत्तत्कवया वेदयन्ते' इति वैष्णवं पदं प्रत्भिज्ञायते नेति। अत्र पूर्वपक्षमुक्त्वा क्रमेण प्रत्याचष्टे -- लक्षीभूत इति। अस्मिन् प्रकरणे यथोपासनं फलमिति न्यायेन य एव ध्यानविषयस्स एव प्राप्य इति द्वयोरपि वादिनोः सम्मतो ध्यायतेरीक्षतेश्च विषयीभूतः पुरुषः। स तु मुख्यो जीव एक एव क्षेत्रज्ञः। स एवाण्डाधिपतिः। 'परात्परं पुरिशयं पुरुषमीक्षते' इति सैव ईक्षतिकर्मत्वेन व्यपदेशः। अस्य परात्परत्वं प्रकृत्यादिभ्यः परस्माज्जीवात्परत्वेन। इत्थमनङ्गीकारेण दोषमाह--नोचेदिति। परिहरति--अयुक्तमिति। प्रणवोपास्ये तस्मिन् परस्मिन् वस्तुनि शान्तामृतत्वादिपरमात्मगुणोपवर्णनस्य तदनुवादस्य चायोगात्। तेन परमात्मासाधारण गुणान्वयादेतत्प्रकरणप्रतिपाद्यः परमपुरुष एवेत्यर्थः।।

 12.अत्र चोदयति--नन्विति। पूर्वमेकद्विमात्रप्रणवोपासनफलतया निर्दिष्टभूम्यन्तरिक्षगणनानिर्दिष्टो ब्राहृलोकः

त्रिमात्रप्रणवोपासनफलतया निर्दिश्यमानः पूर्वोक्तप्रतयासत्त्या चतुर्मुखलोक एव स्यात्। न स्यादित्याह-- मैवमिति।तत्र हेतुमाह--पापोन्मुक्तेनेति। अस्मिन्प्रकरणे सर्वपापविनिर्मुक्तस्य प्राप्यतया श्रूयमाणो ब्राहृलोको न क्षयिष्णुचतुर्मुखस्थानं भवितुमर्हति। किं च 'स तेजसि सूर्ये सम्पन्नः' इति सूर्यसम्पत्तिपूर्वकं प्राप्यतया श्रूयमाणो ब्राहृलोकः 'संवत्सरादादित्यम्' इत्यर्चिरादिमार्गप्रत्यभिज्ञानान्मुक्तप्राप्यो वैकुण्ठ एव स्यादिति। अस्मिन्नपि प्रकरणे 'यत्तत्कवयो वेदयन्ते'

इति सूरिद्दस्यत्वमुच्यते। तदिदमाह---सूर्यसम्पत्तिपूर्वमिति। नन्वन्तरिक्षलोकप्रत्यासत्त्या चतुर्मुखलोक एव

स्यादिति चेन्न ;मध्ये स्वर्गादीनां बहूनां लोकानां व्यवधानेन प्रत्यासत्तेरभावात्। तावद्व्वधानं सोढव्यमिति चेत् समः समाधिः। अत्र चतुर्मुखलोकव्यवधानामपि तदाह--सोढव्य इत्यादिना। किंचोपक्रमे 'परमपुरुषमभिध्यायीत' इतिध्यानविषयस्यैवेक्षतिकर्मत्वं वाच्यम्। अन्यथा तत्क्रतुन्यायविरोधः स्यादित्यादिदूषणमूह्रम् । तस्मादीक्षतिकर्मत्वेन व्यपदिश्यमानः परमात्मैवेति सिद्धम्।।

 ।1.3.5.

 13. पूवाधिकरणे 'परात्परं पुरिशयं पुरुषम्' इत्युक्तस्य पुरिशयपुरुषस्य परमात्मत्वं साधितम्, अत्र पुरिशयस्याकाशशब्दवाच्यस्य परमात्मत्वं निरस्यत इति संगतिः। पूर्वं ब्राहृलोकशब्दस्य परमात्मस्थानपरत्वमुक्तम्। तद्वदिहापि ब्राहृलोकशब्दब्राहृपुरशब्दयोः स्थानपरत्वं स्यादिति शङ्कया संगतिः। यद्वा पूर्वत्रान्तरिक्षशब्दस्य प्रसिद्धान्तरिक्षपरत्वं व्यावर्तितम्, तद्वत् दहराकाशस्य प्रसिद्धाकाशधर्मिपरत्वं प्रतिपाद्यत इति संगतिः परस्मिन्नन्वेष्टव्यान्तरप्रतीत्यनुपपत्तेः पक्षद्वयेऽप्युपमानोपमेयाभावानुपपत्तेश्च संशयः। तदर्थविचारस्तु किं दहराकाशो भूताकाश उत जीवोऽथ परमात्मेति। तदर्थमन्वेष्टव्यान्तरनिर्देशः किं दहराकाशस्य परमात्मत्वविरोधी उत नेति। 'तस्मिन्यदन्तः'इति निर्देशः किं गुणजातविषय उतार्थान्तरपरः। 'एष आत्मा' इति वाक्योक्तमपहतपाप्मत्वादिकं किं प्रजापतिवाक्योक्तजीवधर्मः उत न। जीवधर्मत्वेऽपहतपाप्मत्वादिश्रुति

--स्वारस्यमस्ति उत नेति। फलफलिभावस्तु यदा 'तस्मिन्यदन्तः'इति निर्देशोऽर्थान्तरपरः, तदाऽन्वेष्टव्यशब्दस्य गुणविषयत्वाभावेन दहराकाशस्य भूताकाशत्वं स्यात्। यदा 'एष आत्मा' इति वाक्योक्तगुणाष्टकस्य प्रजापतिवाक्योक्तजीवधर्मत्वे स्वारस्यमस्ति, तदानीं 'एष आत्मा' इति वाक्यस्य जीवविषयतया दहराकाशो जीवः स्यादिति पूर्वपक्षे फलफलिभावः। यदा तस्मिन्यदन्तः' इति गुणजातविषयोक्तिस्तदाऽन्वेष्टव्यशब्दस्य गुणजातविषयत्वाद् दहराकाशो भूताकाशादतिरिक्तःस्यात् , यदा 'एष आत्मा' इति वाक्यस्य प्रजापतिवाक्योक्तधर्मविषयत्वे स्वारस्यं नास्ति तदा स्वरसो गुणाष्टकविशिष्टपरमात्मप्रतिपादकतया स दहराकाशः परमात्मा स्यादिति राद्धान्ते फलफलिभावः।

विषयवाक्यशोधपूर्वकं पूर्वपक्षसिद्धान्तौ संगृह्णाति-- दह्यं ह्मत्पुण्टरीक इति। अयमर्थः -- ' दहरोऽस्मिन्नन्तराकाशः' इति तैत्तरीये च गगनाकाशशब्दोः पर्यायत्वेनाकाश एवोक्तः, स चाकाशो भूताकाश एव स्यात्, आकाशशब्दस्य ब्राहृणि च प्रसिद्धिप्रकर्षादिति । तदाह--- प्रसिद्धेर्महिमत इति।

तदेतत्प्रतिक्षिपति---नेति। तत्र हेतुमाह--- प्रत्यनीकैरिति। 'एष आत्माऽपहपाप्मा' इत्यादिवाक्यगतैर्निरुपाधिकात्मत्वापहतपाप्मतावसत्यसंकल्पत्वादिभिः परमात्मासाधरणैर्धर्मैरत्राकाशशब्दनार्दिष्टस्य विशेष्यमाणत्वात् । किंच द्विविधा हि प्रसिद्धिर्वैदिकी लौकिकी चेति। तत्र वैदिकी प्रसिद्धिर्वेदविदां व्यवहारेषु बलवती तेनात्राकाशशब्दनिर्दिष्टः परमात्मैव। किंच निरुपाधिकापहतपाप्मत्वादिलिङ्गसनाथायाः 'यदेष आकाश आनन्दो न स्यात्' इत्यादिश्रुत्यन्तरसिद्धाया आकाशशब्दप्रसिद्धेर्भगवति बलीयस्त्वाच्च। तदिदमाह---श्रौती चेति। नकेवलं श्रौतप्रसिद्धि:, लिङ्गान्यपि विद्यन्त इत्याह---लिङ्गवर्गैरिति।।

 14.पुनरपि भूताकाशत्वनिरासकान् विषयवाक्यान् हेतून् संह्णाति---बाह्राकाश इत्यादिपूर्वार्धेन। तस्यायमर्थः---'यावान्वायमाकाशस्तावानेषोऽन्तह्र्मदय आकाशः ' इत्युपमानोपमेय भावस्तु दहराकाशस्य भूताकाशत्वे नोपपद्यते उपमानोपमेयभावस्य भेदगर्भत्वात् । ह्मदयावच्छेदनिबन्धन उपमानोपमेयभाव इति चेत् तथा सति ह्मदयावच्छिन्नस्य 'उभे अस्मिन्द्यावापृथिवी' इत्यादिप्रतिपादितसर्वाश्रयत्वानुपपत्तेः। किंच 'एतत्सत्यं ब्राहृपुरुमेष आत्मा' इत्यादिनिर्दिष्टसत्यात्मब्राहृशब्दवाच्यत्वं भूताकाशे न संभवतीति। तदिदमाह--सत्येति। ननु 'तस्मिन्यदन्तस्तदन्वेष्टव्यम्' इत्याकाशान्तर्वत्र्यन्वेष्टव्यान्तरनिर्देशाद् दहराकाशो न परमात्मेति चेत् तत्राह- कामाधारश्चेति। अत्र यः कामाधारः समगणि गणित उक्तः, नित्यः स एव दहराकाशवाचाप्युक्तः, अतस्तस्यैव एष आत्मेत्यनुवदनं

तद्गुणाश्च चिन्त्यकामा इति योजना। अयं भावः-किं तदत्र विद्यते यदन्वेष्टव्यमिति प्रश्नपूर्वकं 'तस्मिन्कामाः समाहिताः' इति दहराकाशशब्दनिर्दिष्टस्य परमात्मनस्तदन्तर्वर्तिनो गुणाष्टकस्य च प्रथममुपासनं विधीयते। अत एव फलवाक्ये 'अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्' इत्युभयोरप्युपास्यत्वं निर्दिश्यत इति दहराकाशः परमात्मा। तदन्तर्वत्यन्वेष्टव्यं चापहतपाप्मत्वादिगुणजातं कामशब्देनोच्यत इति। काम्यन्त इति कामाः कल्याणगुणाः।।

 15. छान्दोग्ये दहराकाशः परमात्मेत्यभिधीयते, वाजसनेयिनां तु शाखायां 'य एषोऽन्त्ह्मदय आकाशस्तस्मिञ्थेते सर्वस्य वशी सर्वस्येशानः' इत्याकाशे शयान एव परमात्मत्वेनाभिधीयते, प्रसिद्धाकास एव तद्वाचकेन शब्देनोच्यतचे, तत्कथमुभयोन्वयः। अत्र समाधिमाह--सर्वेशेति। वाजिनां तु शाखायां सर्वेश्वरस्याधारतया ह्मदयव्योमाभिधीयते तेन तत्र व्योमशब्दाभिधेयंलिङ्गविशेषात् प्रसिद्धाकाश एवेत्यङ्गीकुर्महे। छान्दोग्ये आकाशशब्दः सर्वकामाधारत्वकथनाल्लिङ्गात् परमपुरुषपरएव। ननु च्छान्दोग्ये ब्राहृलोकशब्दः प्रयुज्यते नतु ब्राहृैव लोको ब्राहृलोक इति समासः, ब्राहृणो लोको ब्राहृलोक इति षष्ठीतत्पुरुषसमासाश्रयणस्य न्याय्यत्वादिति चेन्न 'एतया निषादस्थपतिं याचयेत्' इत्यत्र कर्मधारयसमासस्यैवाश्रयणात् तेन न्यायानुसारेण ब्राहृैव लोको ब्राहृलोक इत्यस्माभिव्र्याख्यातमिति न कश्चिद्दोषः। तदिदमाह--छान्दोग्येति। निर्णायकन्यायाभावे ह्रर्थान्तरमाशङ्क्यते। अस्य च ब्राहृणः

सर्वाधारत्वेन लोकशब्दवाच्यत्वं च युज्यते।इममेवार्थमापस्तम्बोऽपि वदतीति दर्शयति--आपस्तम्ब इति। 'स वै वैभाजनं पुरंस च भूतं स भव्यम् 'इति सर्वात्मभूतं ब्राहृैव सर्वेषां पुरत्वेन प्रतिपादयति।स वैभाजनम्--सर्वेषां पदार्थांनां प्रत्येकविभजनेन स्थातुं योग्यं स्थानम्। 'पुः प्राणिनः सर्व एव गुहाशयस्य ' इत्यप्याह।सर्वे प्राणिनो गुहाशयस्य परमात्मनः पुरमित्यर्थः।तेन प्राणिनः परमात्मानः पुरमावासस्थानम्। तदपि---तथापि।तदपि---ब्राहृापि।तेषां पुरंसर्वाधारत्वेन सर्वेषामस्मिन्वासात्।तेन 'सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ' इति वासुदेवशब्दार्थोऽनुस्मृतो भवति।

 16.इत्थं दहराकशस्य प्रसिद्धकाशत्वमाशङ्क्य निराकृतम्।इदानीं जीवत्वमाशङ्क्य निराक्रियते--जीव इति।तर्हि गुणाधारत्वानुपपत्त्या प्रसिद्धकाशत्वे निवृत्तेऽप्यपहतपात्वादिगुणोपपत्तेः 'एष

आत्मा ' इति जीवस्यैव परामर्शनात् 'तत्रापि दह्यं गगनं विशोकः ' इति अल्पप्रमाणत्वकथनाच्च जीव एव दहराकाशः स्यादित्याशङ्क्य प्रतिक्षिपति--असदिति।अत्र हेतुमाह--अनुपधिकादिति।स्वाभाविकादित्यर्थः।परमात्मनो हि स्वाभाविकं सत्यसंकल्पत्वादिकम्।जीवस्य तु तत्प्रसादलभ्यम्। 'परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ' इति वचनात्।किंच प्रपञ्चाधारत्वं परमपुरुषस्यात्र कथ्यतेतेनापि पर एव प्रतिपाद्यः। ननु दहरत्वमुक्तं तस्य तत्कथमित्याशङ्क्य परिहरति---औपाधिकीति। नात्र परमात्मनः स्भाविकं दहरत्वमुच्यते अपितु ह्मदयावच्छेदनिबन्धनं तदुच्यत इत्यर्थः। ननु प्रजापतिवाक्ये जीवस्याप्यपहतपाप्मत्वादिगुणाष्टकमभिधीयते तेनापहतपाप्मत्वादीनां भगवदसाधारण्यं कथं सिध्यतीत्याशङ्क्याह---प्राजापत्य इति। अयमर्थः---दहरवाक्यप्रकरणसमाम्नातं प्रजापतिवाक्यं दहरवाक्यशेषमेव तत्र प्रतिपाद्योऽपि जीवः परमपुरुषप्रसादलभ्यतत्साम्यदशयाऽपहतपाप्मत्वादिगतुणौधपरिकर्मितः स्यात्। तथा च न कश्चिद्दोषः।।

 17.तर्हि प्रजापतिवाक्यं दहरवाक्यद्भिन्नमेव स्यात्, तत्प्रतिपाद्योऽपकि जीवः स्वतन्त्र एव स्यात् किमर्थं निराकाङ्क्षयोद्र्वयोरपि वाक्योः परस्परसंबन्धो भवद्भिरुपपाद्यत इत्याशङ्क्य परिहरति---दह्याकाश इति। नास्माभिरत्राकाङ्क्षा परिकल्प्यते अपितु वाक्यस्याभाव्यादेव। अत्र हि पूर्वस्मिन्वाक्ये प्रतिपन्नस्य भगवतो मोक्षप्रदत्वं प्रतिपादयितुं जीवकथनम्। संप्रसादो जीवः। भगवत्संबन्धज्ञानरसिकत्वेन प्रसन्नस्वभावत्वात्। उतरत्र प्रजापतिवाक्येऽपि प्रतिपाद्यस्य जीवस्य प्राप्यविशेषनिर्धारणार्थं तस्मिन्वाक्ये परमात्मपरिपठनम्। तद्वमाङक्षासत्तियोग्यत्वैरुभयोरपकि वाक्ययोरन्वितत्वे सति न वाक्यभेदः परिकल्प्यः। तथा च न पूर्वोत्तरवाक्ययोन्यबाधः शङ्क्यः । नच नैरपेक्ष्यं परिकल्प्यम् ; संभवत्वेकवाक्यत्वे वाक्यभेदस्तु नेष्यत इति न्यायेनैकवाक्यत्वे संभवति वाक्यभेदाङ्गीकारस्यान्याय्यत्वात्। अतो द्वयोरपि वाक्ययोः सामरस्यमेव सूत्रकारः प्रोहेति दर्शयति---तदिति।।

 ।1.3.6.

 18.पूर्व दहरविद्यायामल्पत्वेन श्रुतः परमरुष इति 'अल्पश्रुतेरिति चेत्तदुक्तम्' इति सूत्र प्रत्यपादि, तदल्पपिमाणयुक्तत्वं जीवस्यैवान्यत्र श्रूयत इति पूर्वपक्षोत्थानेन संगतिरिति भाष्य एवोक्तम्। तदर्थविचारस्तु 'अङ्गुष्ठमात्र पुरुषः' इत्यङ्गुष्ठप्रमितः प्रत्यगात्मा उत परमात्मेति। तदर्थविचारस्तु किमीशानत्वं देहेन्द्रियाद्यपेक्षम्, उत सर्वापेक्षमिति। तदर्थविचारस्तु--किमुपक्रमगतप्रमितत्वमीशानन्वलिङ्गस्वारस्यविरोधि न वेतिः। तदर्थ विचार्यते---किं तत्प्रमितत्वं जीवे

समञ्जसमुत उभयत्रासमञ्जसमिति। अत्र विषयवाक्यानि भाष्यदीपयोव्र्यक्तं द्रष्टव्यानि। तत्र पूर्वपक्षमुक्तवाप्रतिक्षिपति--प्राणशइति। 'प्राणाधिपस्सञ्चरति स्वकर्मभिः। अङ्गुष्ठमात्रो रवितुल्यरूपः' इति श्रुतिरत्राभिसन्धीयते। कर्मभिः स्वैरसञ्चरन् प्राणेन एव क्वचित् श्रुतावङच्गुष्ठमात्रः कथितः। अन्यत्र वाक्ये पुनः 'अङ्गुष्ठमात्रं पुरुषं निश्चकर्म यमो बलात्' इति द्दष्टम् तस्मादेतत्प्रमाणप्रमितमङागुष्ठमात्रं जावमुपनिषदाहेति पूर्वपक्षपरिकल्पनम्। तदयुक्तं स्ववाक्यस्थितेन 'ईशानो भूतभव्यस्य' इत्युक्तेनेशानत्वादिना लिङ्गेन निरस्तत्वात्। कथं तर्हीषशानस्याङ्गुष्ठप्रमितत्वमित्याशङ्क्याह---नरेति। उपासकह्मदयपरिच्छ्दापेक्षया तदङ्गुष्ठप्रमितत्वमुच्यते नपुनः स्वाभाविकम्।।

 19. अत्राधिकरणमध्ये मनुष्याधिकारत्वप्रसङ्गादधिकरणत्रयकथनं तेनात्र तृतीयाध्यायप्रसाध्याधिकार चिन्तनादध्यायसङ्करप्रसङ्ग इत्यत्राह--नहीत्यादिना। इत्थं किल कश्चिन्मन्यते-- पूर्वत्राङ्गुष्ठप्रमितत्वं परमपुरुषस्योक्तं तच्च ह्मदयापेक्षयेत्युक्तं नहि सर्वेषां जन्तूनां ह्मदयाङ्गुष्ठप्रमितत्वम्; अङ्गुष्ठाभावात् तेनाखिलजन्त्वाश्रयंह्मदयमङ्गुषष्ठप्रमितमिति वक्तुं न शक्यत इति। सत्यमेतत्, सर्वाश्रयं ह्मदयमङ्गुष्ठप्रमितमिति नोच्यते अपितूपासकह्मदयम्। तेन सर्वव्याप्ते परस्मिन् ब्राहृण्यङ्गुष्ठ -प्रमितत्वकथनं क्वचिन्मनुष्याधिकारापेक्षयेति मन्तव्यम्। तेनाधिकारप्रसङ्गेनास्मिन्नधिकरणे सूत्रचतुष्टयात्मके द्वयोद्र्वयोः सूत्रयोर्मध्ये त्रिभिरधिकरणैरधिकारविशेषश्चिन्त्यते।न पुनरत्र

तृतीयाध्यायस्थैरधिकरणैः स्थापनीयाऽधिक्रिया अवगन्तुमिष्टा तेन नाध्यायसङ्गरप्रसङ्गः।तदिदमाह-- तातीर्यैरिति।इतिकर्तव्यता नाम अङ्गकलापः।।

 1.3.7.

20. पूर्वस्मिन्नधिकरणे 'ह्मद्यपेक्षया तु मनुष्यादिकारत्वात्' इति ब्राहृोपासनस्य मनुष्याधिकारत्वमुक्ततम्। तर्हि देवादीनां ब्राहृविद्यायामधिकारो न स्यादित्याशङ्कया संगतिः। तदर्थविचारस्तु किं ब्राहृविद्यायां देवादीनामधिकारोऽस्ति नेति। किं तद्विग्रहप्रतिपादकानां मन्त्रार्थावादानां तत्परत्वं संभवति नेति। किं तेषां विग्रहवत्त्वं संभवति नेति। किं तद्विग्रहप्रतिपादकानां मन्त्रार्थवादानां तत्परत्वं संभवति नेति। किं मन्त्रार्थवादानामनुष्ठेयार्थप्रकाशनस्तुतिपरत्वाभ्यां प्रतीयमानविग्रहरपरत्वाविक्षा शक्याभिधाना नेति। किं विग्रहवत्त्वमनुष्ठेयार्थप्रकाशनस्तुत्युपयोगि नेति। अत्र देवताधिकरणपूर्वपक्षमुक्त्वा प्रतिक्षिपति--शब्दात्मेति। चतुथ्र्यन्तःशब्द एव देवता अथवा लौकिकाग्न्यादिरर्थ एव यद्वा अर्थोपश्लिष्टशब्दो देवता अथस्तस्या ब्राहृोपासनं न संभवतीति।अनार्षम्--अवैदिकमित्यर्थः। देवताया अभावे सति देवतायाः फलप्रदत्वमेव न स्यात्। तथा च 'स एवं प्रीतः प्रीणाति' इति श्रुताया देवतायाः प्रीतेः परिहरणं परित्आगः स्यात्। अश्रुतस्य अपूर्वस्य कल्प्यस्य वाच्यस्य वा मतभेदेन परिकल्पनं भवेत्। तच्चायुक्तमेव श्रुतहानाश्रुतकल्पनयोरत्यन्तजघन्यत्वात्। नन्वेवं सति शास्त्रयोन्यधिकरणे निरस्तमीश्वरानुमानं तत्कथमत्र देवताङ्गीकारः? ईश्वरस्यापि देवतान्तर्भावादित्याशङ्क्य परिहरति--विश्वरुाष्टेति। तत्रेश्वरस्यानुमानिकत्वं निरस्यतेऽस्माभिः न पुनरागमिकत्वम्, तेन प्राक् शास्त्रयोन्यधिकरणे निर्बाधैस्यात्पर्यशालिभिः शास्त्र स्थापितः परमपुरुषस्तेनापि सर्वशक्तिनाऽपलपितुमशक्यः । तेनागमिकेश्वरवादिनामस्माकं न कोऽपि दोष इति।।

21. अर्थित्वसामथ्र्योः सद्भावात् देवतानामुक्तमेवाधिकारं विशेषेण स्थापयति--सामथ्र्यमिति। अर्थी समर्था विद्वान् शास्त्रेणापर्युदस्त इति चातुर्विध्येनाधिकार उच्यते। अथवाऽर्थित्वं सामथ्र्यं चेति द्विधेवाधिकारः। सामथ्र्यं पुनरिुाधा जन्मसामथ्र्यं कर्मसामथ्र्यं बुद्धिसामथ्र्यं चेति, तदेततसर्वमपि देवतानामस्तीत्युच्यते--उचिततनुभृतामिति। शरीरसंबन्धस्य प्रमाणप्रतिपन्नत्वात् बुद्धिसामथ्र्यं कर्मसामथ्र्यं चास्त्येव। दृश्यते हि क्वतिज्जन्मान्तराविस्मरणाद् बुद्धिसामथ्र्यम्, क्वचिदुपदेशाच्च। श्रूयते हीन्द्रादीनां ब्राहृविद्योपदेशः। जन्मसामथ्र्यं सत्त्वोत्पत्तिशरीरपरिग्रहादेव। अर्थित्वं तु तापत्रयाभिहतत्वादेव

सम्पद्यत इति तासामपि देवतानां भगवदुपासनवर्गाघिकारो भवत्येव। अत्र निरीश्वरमीमांसकाः प्रत्यवतिष्ठन्ते देहादीनामनुपलब्धं तदेव हि प्रख्याप्यते वेदेनेति तान्त्रिकमर्यादा। तथा च प्रमाणान्तराप्रतिपन्नार्थप्रत्यायकमन्त्रार्थवादप्रमितं सकलमपि देवताविग्रहादिकं कारणदोषबाधकप्रत्ययाभावे सति तथ्यमित्यङ्गीकरणीयम्, ये पुनस्तन्मिथ्येत्युद्घोषयन्ति निरीश्वरमीमांसकाः ते तु स्वोक्तमेव वेदस्य स्वतःप्रामाण्यं विस्मरन्ति। स्वत एव प्रामाण्यं, परतः पुनरप्रामाण्यमिति हि

मीमांसकानां मर्यादा। परं पुनः कारणदोषादिकं तत्र नास्तीत्यर्थः।।

22. अत्र कश्चिदाह--अर्थवादादेः स्तुतिपरत्वमुच्यते तान्त्रिकैः, अर्थपारामाथ्र्ये स्तुतित्वं बाध्यत इति। इमामाशङ्कां परिहरति--द्वेधा वृत्तिरिति। गुणेन गुणिनः सम्बन्धाभिधानं हि स्तोत्रम्। तद् द्विविधं मुख्यमौपचारिकं चेति। मुख्यं तावद्यथार्थम्--'अपहतपाप्मा विरजः' इत्यादिकम्। औपचारिकं तु राजादिविषयं त्वमिन्द्रश्चन्द्र इत्यादिकम्। तत्रापि तत्तदिन्द्रचन्द्रादिगुणसम्बन्धकथनं परमार्थविषयमेव, तदेतत्सर्वमत्र पूर्वोर्धेनोक्तम्। तथाहि। स्तुतौ द्वेधावृत्तिः स्वगुणमुखी काचित् परगुणमुखीचान्या। तत्र प्राक्तनी तावदथ्र्या अर्थादनपेता। पश्चिमायामपि स्तुतौ मुख्यधर्मैकदेशो निपुणधीभिरनुमन्तव्यः। ननु बालोपच्छन्दनार्थमनृतमपि कथ्यते तच्चौषधादिस्तुतिरूपं, तन्मिथ्यैव अतः स्तुतिमिथ्यात्वं दृष्टमेवेत्याशङ्क्याह--रुच्यर्थायामिति। अयमर्थः-- यत्र रुच्यर्थमप्यनृतमुच्यते तत्रापि श्रोता न मुग्धश्चेत्

अनृतकथनतः प्ररोचना नैव सिध्यति। मुग्धश्चेत् परमार्थविषयत्वप्रतिपत्त्यैव तद्वाक्यं तस्मै रोचते। अतोऽर्थपारमाथ्र्यं स्तुत्युपयुक्तमेव। ननु भूतार्थे का स्तुतिः स्यात् इति मुनिभिरुक्तम्, कविभिरपि

'भूतार्थव्याह्मतिः सा हि न स्तुतिः परमेष्ठिनः' इति, ततः स्तुतेः पारमाथ्र्यं नास्तीत्युच्यते;तन्न औपचारिकनिवृत्त्यर्थत्वात्तद्वाक्यस्य। नपुनः सर्वथा पारमाथ्र्यं निषिध्यते स्तुतीनाम्। परमेष्ठिनस्तुतित्वौपचारिकस्तुतिर्न भवति, अपि तु तात्त्विकीत्यर्थः।।

23. अत्र 'विग्रहो हविरादानम्' इत्यादिना विग्रहादिपञ्चकनिरासेन देवतानामधिकारो ब्राहृविद्यायां नास्तीति प्रलापं प्रत्याचष्टे----नानेति। नानादेहपरिग्रहसमर्था देवादय इति श्रुतिपुराणादिषु प्रसिद्धमेव तेन तादृशशक्तियुक्तानां देवतानां युगपत्कर्मसन्निधिः कथमिव न संयोयुज्यते। ननु सविग्रहाणां देवतानां तद्व्यापाराणां च प्रतिपादने तासामनित्यत्वात् श्रुतीनां नित्यत्वात् नित्यानित्यसंयोगदोषः प्रसज्येतेत्याशङ्क्य परिहरति--तत्तदिति।तत्र हेतुमाह--प्रवाहादिति।

अनित्येष्वपि देवताविग्रहेषु तत्तद्वृत्तान्तेषु तादृग्विधेषु अनित्यसंयोगदोषो नास्ति श्रुतीनाम्, इन्द्रादिप्रवाहादिविषयत्वात्। तर्हि श्रुतीनां नित्यत्वमुच्यते भवद्भिः.तन्नोपपद्यते काठकं विश्वामित्रस्य सूक्तमित्यादिषु , सकर्तृकत्वं प्रतीयते। नेत्याह--काण्डादाविति। श्रुतिषु केषांचित् कर्तृत्ववादः प्रवचनादेव। नपुनः साक्षात्कर्तृत्वेन । तत्कथमितिचेत्तत्र हेतुमाह--वेदेति। वेदनित्यत्वस्य प्रमाणप्रतिपन्नत्वादित्यर्थः। अस्तु मध्ये वेदप्रवर्तकत्वमेव व्यासविश्वामित्रादीनाम्। आदिकल्पे भगवानेव वेदं विविधं करोतीति 'तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतत् ' इत्यादिभिः श्रतिभिः प्रतिपन्नमित्याशङ्क्य परिहरति--ईश इति।'धाता यथापूर्वमकल्पयत्' इति भगवतोऽपि पूर्वकल्पक्रमेण प्रवर्तकत्वमभिधीयते।यद्यपि वेदो भगवच्छासनम्,तथापि भगवतो नित्यमेकरूपेण वाक्येन प्रशासितृत्वान्नित्यत्वं नापभ्रश्यतीति भगवच्छासनमत्ववादः।अत्र वर्णसर्गेऽपीति वर्णेष्वनित्यमङ्गीक्रियते तेन वर्णनित्यात्ववादिभ्यो निरीश्वरमीमांसकेभ्यो भेदः सिद्ध्यति।।

24.अत्र न्यायवादिनां पक्षमनूद्य निराकरोति-- वेदानावमिति।'प्रतिमन्वन्तरं चैषा श्रुतुरन्या विधीयते' इत्युक्तत्वाद् वेदानावमीश्वरबुद्ध्या क्रमनियमहतिस्तेषु कल्पेष्वन्यथा भवतीति यदीष्टा यज्ञादिषु प्रयुज्मानानां मन्त्राणामपि तथैवान्यथाकरणं स्यात्। अस्त्वन्यथाकरणमित्याशङ्क्य प्रतिक्षिपति--नेति। तत्र हेतुमाह--व्रीहीति। अयमर्थः-- लोके कार्यकारणभावो नियत एव दृश्यते यथा कपालेन घटस्तन्तुना पट इति। नहि कल्पभेदेन तन्तुभ्यो घटो जायते पटो वा कपालेभ्य इति परिकल्पेषु न्यायवादिभिः। एवं वैदिकेऽप्युदाहरणे 'व्रीहिभिर्यजेत, सोमेन यजेत' इत्यादौ सर्वेष्वपि कल्पेषु तत्तत्कार्यहेतुभूतानां मन्त्राणामन्यथाकरणं न संघटत एव। तथा च वेदनित्यत्वसिद्धिः। तह्र्रस्तु मन्त्राणां

क्रमनियम आवश्यकत्वात्, मास्तु विध्यर्थवादयोरिति चेत् तत्रोत्तरमाह--इत्थमिति। अयमर्थः मन्त्राणामिव

विध्यर्थवादयोऽपि तेषुतेषु ज्ञानेषु कारणत्वमस्त्येव तत्र यथात्वं नियममन्तरेण न कारणत्वम्। एवं क्रमनियममन्तरेण न कारणमिति भवतैव विचार्य सन्तोष्टव्यम्, तथाच कार्यकारणयोरन्यथाकरणशङ्काया नावकाशः। अत्र यथेश्वरशिक्षितक्रम इति प्रागल्भयाद् यदि वदसि अथापि क्रमनियमः कदाचिद् भवताऽङ्गीकृत एव। तथा च नित्यमेवायमङ्गीकार्यः क्रमनियम इति श्रेयानेवायं पक्ष इत्यभिप्रायेणाह--पाक्षिक इति। तर्हि न्यायमार्गः किं भेदवादिना भवता परित्यज्यते? परित्यज्यत एवेत्याह--पक्ष इति। अयमाक्षपादः पक्षोऽस्माकं वेदान्तिनां बाह्रासिद्धान्तकोटिं प्राप्नोतु का नो हानिरित्यर्थः।।

25. यदि देवतानां विग्रहागिकमस्ति तर्हि किमर्थमस्माभिर्नोपलभ्यत इत्याशङ्क्यानुपलब्धिकारणानां बहुत्वमाचष्टे --सौक्ष्म्यादिति। 'अतिदूरात् सामीप्यात्' इति साङ्ख्यग्रन्थे हि विद्यमानामप्यनुपलब्धिकारणानि परिपठितानि।

सौक्ष्म्यात्परमाण्वादीनामनुपलब्धिः। तुल्याभिघारात् तैलसिक्तस्य तैलबिन्दोः। सहकृदपगमात् सहकार्यभावादन्धकारवर्तिनो घटादेः। छादकात् पटावारितानां पदार्थानाम्। आन्यपर्यात् व्यासक्तह्मदयस्याग्रतः स्थितानां पदार्थानाम्। अत्यासत्त्या स्वनयनगतस्य। अतिदूरात् देशान्तरगतस्य। बलवदभिभवात् मध्यन्दिनोल्काप्रकाशस्य. अनुद्भवात् चाक्षुषकिरणसंघातरूपादेः। अक्षोपघातात् रुग्णनयनस्य पुरोऽवस्थितस्य वस्तुनोऽनुपलब्धिरिति

सर्वत्रान्वयः। एतेभ्यस्सर्वेभ्यो हेतुभ्यः पुरतो वर्तमानान्यपि नोपलभ्यते। तद्वदग्नीन्द्रादिदेवतागणोऽप्यन्तर्धआनशक्त्या नोपलभ्यते। किं च शास्त्रेषु जन्मना तपसा योगेन मन्त्रौषधीदिभिश्च माहात्म्यात् सिद्धिविशेषाः प्रख्याताः। जन्मतः पिशाचादीनाम्, तपसो महर्षीणाम्, योगतो योगिनामन्तर्धिशक्तिरस्त्येव। मन्त्रौषधिभ्यस्तच्च प्रसिद्धमेव। तेन देवादीनामन्तर्धिशक्तेरनुपलभ्य इति सुष्ठूक्तम्।।

1.3.8.

26. पूर्वस्मिन्नधिकरणे देवतासामान्यस्य भगवदुपासनाधिकारश्चिन्तितः, इदानीं पुनर्देवताविशेषस्योपासनाविशेषाधिकारो निरूप्यत इति संगतिः। यद्वा पूर्वत्राधिकारसंभव उक्तः अधुना मध्वादिविद्यायामेतदसंभवेन पूर्वपक्षोत्थानमिति संगतिः। तदर्थविचारस्तु मध्वादिविद्यासु या देवतोपास्या तासु किं तस्या अधिकारोऽस्ति उत नेति। किं तस्यास्तद्विद्योपसंहारसामथ्र्यमस्ति उत नेति। किं मधुविद्यायां वस्वादिदेवतामात्रमुपास्यमुत तदवस्थं ब्राहृेति। किं वसुत्वमात्रं विद्या फलमुत ब्राहृप्राप्तिपर्यन्तं वसुत्वमिति। अत्र संगत्यभिधानगतर्भं पूर्वपक्षप्रकारमनूद्य तत्र पूर्वपक्षेण विरोधद्वयमाशङ्क्य परिहरति---स्यादेवमिति। मनुष्येष्विव देवतासामान्ये परमपुरुषपासनसामान्यमेवं भवत्येव तथापि मध्वादिषु केषुचिदुपासनेषु यासां देवतानामुपास्यत्वं न स्यात्। तथा च यासां देवतानां प्राप्यतादिनिवेशस्तासामेव देवतानां प्राप्तृत्वं विरुद्धमेव। तथचोपास्योपासकयोः कर्मकर्तृविरोधेन मध्वादिषुदीनामधिकारो न स्यात्। शब्दार्थस्तु-वस्वादिभुज्यमानस्यादित्यस्याराध्यभावात् विशेषणतया निविष्टस्य वस्वादेराराधकभावो विरुद्ध एव। तथा च वसुप्राप्तिपूर्वकपरमात्मप्राप्तेः फलत्वात् स्यादेव पूर्वमेव विद्यमानवस्वादीनां वसुपदस्याप्राप्यत्वात्तत्रापि विरोध एव। तेन तत्राधिकार एव नस्यादिति। उक्तमिमं पूर्वपक्षं निराकरोति---मैनमिति। तत्रोपासनविरोधं तावत्परिहरति---सर्वान्तरात्मेति।न केवलं स्वात्मेपास्यः अपि तु स्वविशिष्टः परमात्मा तेन परमात्मप्रधानस्यात्मनो नोपासनानधिकारः। नच फलप्राप्तावपि विरोध इत्याह---कामादिति। वसुत्वेन वर्तमानस्य वर्तमानमेव वसुपदं फलञ्चेत् तदा ह विरोधः स्यात्। अत्र हि कल्पान्तरे मन्वन्तरेऽपि वसुपदप्राप्तिःफलत्वेन प्राप्यते। तथा च को विरोध इति।।

1.3.9.

27. मनुष्यव्यतिरिक्तानां देवतानां वस्वादिदेवताविशेषाणां चार्थित्वसामथ्र्ययोस्संभवादधिकारोऽस्तीत्युक्तम्, तह्र्रर्थित्वसामथ्र्ययोः मनुष्यविशेषाणां शूद्रादीनामप्यधिकारः स्यादित्याशङ्क्या संगतिः। तदर्थविचारस्तु-- किं ब्राहृविद्यायां शूद्रस्याधिकारोऽस्ति नेति। किं तस्य तदुपंसहारसामथ्र्यमस्ति नेति। किं ब्राहृविषयमनोवृत्तिरूपा ब्राहृविद्या ऽनधीतवेदस्यापि संभवति नेति। किं वेदादेव ब्राहृावगतिः, उतेतिहासपुराणादिनापि संभवतीति। किमितिहासपुराणादिनापि संभवतीति। किमितिहासपुराणयोर्वेदोपबृंहणं कुर्वतोरेव ब्राहृावगतिहेतुत्वमुत स्वातन्त्र्येणेति। किं जानश्रुतेः पौत्रायणस्य शूद्रेत्यामन्त्र्य विद्योपदेश इतिहासपुराणयोर्निरपेक्षब्राहृावबोधकत्वमुपोद्बलयति नेति। किमत्र शूद्रशब्दो वृषलजातिपर उत शुगस्येति विगृह्र 'शुचेर्दश्च' इति रक्प्रत्यययोगवृत्त्या शोकवत्परः। यद्यपि पूर्वकाण्डे भगवता जैमिनिना शूद्राणामग्निविद्ययोरभावात् कर्माधिकारो नास्तीत्युक्तम्। अथापि--

"मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्।।"

इति भगवद्वचनादधिकारशङ्कया पूर्वपक्षमाह--जैमिन्युक्तेति। 'मां हि' इति शूद्राणामधिकारित्वं भगवतैव स्मर्यते तस्मादधिकारो ऽस्ति इति। अथापि ज्ञानाभावे कथमुपासनं संयोयुज्यत इत्याशङ्कयाह-- श्रोतृत्वादिति। अयमर्थः---वेदाध्ययनपूर्वकं भगवज्ज्ञानं मा भूच्छूद्रादेः। अथापि भारतादिश्रवपूर्वकमस्त्येव भारतादेः श्रोतृत्वात्----श्रोतुं योग्यत्वादित्यर्थः। अस्तु ज्ञानं भारतादिश्रवणात् तथापि कर्मभिरपक्वकषायस्य कथं भगवतः सत्यवचनादुपासनं जायत इति पुनरप्याशङ्क्य निराकरोति--स्वजनीति। यथा ब्रााहृणादयः स्वाधिकारानुरूपैर्यज्ञादिभिः कर्मभिर्विद्याविरोधिपापनिबर्हणं कुर्वते, एवं शूद्रोऽपि स्वाधिकारानुगुणैः

शुश्रूषादिभिब्र्राहृोपासनविरोधिपापनिबर्हणं कुर्यादित्यर्थः। इत्थं पूर्वपक्षमनूद्य निराकरोति-- अयुक्तमिति। तत्र हेतुं दर्शयति--प्राप्त इति। ब्राहृोपदेशे प्राप्ते सति 'संस्कारपरामर्शात्तदभावाभिलापाच्च' इत्यादिभिः सूत्रैरुपनयनसद्भावावश्यंभावः सूत्रकारैरेव प्रदर्शितः। अतस्त्रैवर्णिकानामेव ब्राहृविद्यायामधिकारो न शूद्रादीनामित्यर्थः।।

  28. शूद्रादीनां भारतादिश्रवणं किमर्थमनुमतमित्याशङ्क्याह--शूद्राणामित्यादिना। पापशान्त्यर्थं नपुनः श्रौतज्ञानार्थं शास्त्रात् प्रतिपन्नार्थविशदीकरणाकरणार्थमित्यर्थः। तदेव विवृणोति-- वेदार्थेति।वेदार्थापातबुद्धिः शूद्रस्य यदि स्यात् तदानीं शूद्र इतिहासपुराणैरुपबृंह्रेत विशदज्ञानवान् परिकल्प्येतेत्यर्थः। नच शूद्रस्यापातबुद्धिरेवास्ति। तस्य ब्रााहृण्याभावादुपनयाभावः, तदभावाद्वेदाध्ययनाभावः। तस्मादापातप्रतीतिरेव नास्ति। सा पुनरापातप्रतीतिर्यदनधिकरणा यच्छूद्रानाधारा स शूद्र इतिहासपुराणैर्नोपबृंह्रेत तत्त्वज्ञानवत्तया नोपह्मंह्रेतेत्यर्थः। तस्मादितिहासपुराणश्रवणं शूद्रस्य पापक्षयार्थमेव। नपुनस्तत्त्वज्ञानाभिवृद्धियर्थमिति। यद्वा वेदार्थापातबुद्धिरित्यादेरयमर्थः-- वेदो हि द्विविधः अधीतोऽनधीतस्चेति। अधीतो ब्रााहृणादेः। अनधीतस्तु शूद्रस्य ,अधीतो वेद आपातप्रतीतिं जनयति अनधीतस्तु न जनयति। तथा च वेदार्थापातबुद्धिर्यदनाधिकरणा यस्मादनधीताद्वेदान्न जायते। सोऽनधीतो वेदस्तैरितिहासपुराणाद्यैर्नोपबृंह्रेत । आपातुप्रतिपन्नार्थविशदीकरणं ह्रुपबृंहणम्। शूद्रविषयेत्वापातप्रतीतिजनकत्वाभावात् वेदस्योपबृंहणीयत्वं न युज्यत इति। किंच