close


  • भगवद्गीता व्याख्याचतुष्टयोपेता

श्रीवेदव्यासप्रणीतमहाभारतान्तर्गता
श्रीश्रीमद्भगवद्गीता

(१)
अथ प्रथमोऽध्यायम्
अर्जुनविषादयोगम्

(१.१)

धृतराष्ट्र उवाच—
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवम् ।
मामकां पाण्डवाश्चैव किमकुर्वत संजय ॥

श्रीधरम् :
शेषाशेषमुखव्याख्याचातुर्यं त्वेकवक्त्रतम् ।
दधानमद्भुतं वन्दे परमानन्दमाधवम् ॥
श्रीमाधवं प्रणम्यो माधवं विश्वेशमादरात।
तद्भक्तियन्त्रितं कुर्वे गीताव्याख्यां सुबोधिनीम् ॥
भाष्यकारमतं सम्यक्तद्व्याख्यातृगिरस्तथा ।
यथामति समालोच्य गीताव्याख्यां समारभे ॥
गीता व्याख्यायते यस्यां पाठमात्रप्रयत्नतम् ।
सेयं सुबोधिनी टीका सदा ध्येया मनीषिभिम् ॥

इह खलु सकललोकहितावतारं परमकारुणिको भगवान्देवकीनन्दनस्तत्त्वाज्ञानविजृम्भितशोकमोहभ्रंशितविवेकतया निजधर्मपरित्यागपूर्वकपरधर्माभिसन्धिनमर्जुनं धर्मज्ञानरहस्योपदेशप्लवेन तस्माच्छोकमोहसागरादुद्दधार । तमेव भगवदुपदिष्टमर्थं कृष्णद्वैपायनं सप्तभिं श्लोकशतैरुपनिबबन्ध । तत्र च प्रायशं श्रीकृष्णमुखाद्विनिम्सृतानेव श्लोकानलिखत। कांश्चित्तत्सङ्गतये स्वयं च व्यरचयत। यथोक्तं गीतामाहात्म्ये—

गीता सुगीता कर्तव्या किमन्यैं शास्त्रविस्तरैम् ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिम्सृता ॥ इति ।

तत्र तावद्धर्मक्षेत्रे इत्यादिना । विषीदन्निदमब्रवीदित्यन्तेन ग्रन्थेन श्रीकृष्णार्जुनसंवादप्रस्तावाय कथा निरूप्यते । ततं परमासमाप्तेस्तयोर्धर्मज्ञानार्थे संवादम् । तत्र धर्मक्षेत्र इत्यादिना श्लोकेन धृतराष्ट्रेन हस्तिनापुरस्थितं स्वसारथिं समीपस्थं सञ्जयं प्रति कुरुक्षेत्रवृत्तान्ते पृष्ठे सञ्जयो हस्तिनापुरस्थितोऽपि व्यासप्रसादलब्धदिव्यचक्षुं कुरुक्षेत्रवृत्तान्तं साक्षात्पश्यन्निव धृतराष्ट्राय निवेदयामास । दृष्ट्वा तु पाण्डवानीकमित्यादिना ।

धृतराष्ट्र उवाचेति । धर्मक्षेत्र इति । भों सञ्जय । धर्मक्षेते धर्मभूमौ कुरुक्षेत्रे । धर्मक्षेत्र इति कुरुक्षेत्रविशेषणम् । एषामादिपुरुषं कश्चित्कुरुनामा बभूव । तस्य कुरोर्धर्मस्थाने मामका मत्पुत्रां पाण्डुपुत्राश्च युयुत्सवो योद्धुमिच्छन्तं समवेतां मिलितां सन्तं किमकुर्वत किं कृतवन्तम् ॥१॥

मधुसूदनम् : ॐ नमं परमहंसास्वादितचरणकमलचिन्मकरन्दाय भक्तजनमानसनिवासाय श्रीमद्रामचन्द्राय ॥

भगवत्पादभाष्यार्थमालोच्यातिप्रयत्नतम् ।
प्रायं प्रत्यक्षरं कुर्वे गीतागूढार्थदीपिकाम् ॥२॥
सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम् ।
परं निश्रेयसं गीताशास्त्रस्योक्तं प्रयोजनम् ॥३॥
सच्चिदानन्दरूपं तत्पूर्णं विष्णों परं पदम् ।
यत्प्राप्तये समारब्धा वेदां काण्डत्रयात्मकाम् ॥४॥
कर्मोपास्तिस्तथा ज्ञानमिति काण्डत्रयं क्रमात।
तद्रूपाष्टादशाध्यायैर्गीता काण्डत्रयात्मिका ॥५॥
एकमेकेन षट्केन काण्डमत्रोपलक्षयेत।
कर्मनिष्ठाज्ञाननिष्ठे कथिते प्रथमान्त्ययोम् ॥६॥
यतं समुच्चयो नास्ति तयोरतिविरोधतम् ।
भगवद्भक्तिनिष्ठा तु मध्यमे परिकीर्तिता ॥७॥
उभयानुगता सा हि सर्वविघ्नापनोदिनी ।
कर्ममिश्रा च शुद्धा च ज्ञानमिश्रा च सा त्रिधा ॥८॥
तत्र तु प्रथमे काण्डे कर्म तत्त्यागवर्त्मना ।
त्वंपदार्थो विशुद्धात्मा सोपपत्तिर्निरूप्यते ॥९॥
द्वितीये भगवद्भक्तिनिष्ठावर्णनवर्त्मना ।
भगवान्परमानन्दस्तत्पदार्थोऽवधार्यते ॥१०॥
तृतीये तु तयोरैक्यं वाक्यार्थो वर्ण्यते स्फुटम् ।
एवमप्यत्र काण्डानां सम्बन्धोऽस्ति परस्परम् ॥११॥
प्रत्यध्यायं विशेषस्तु तत्र तत्रैव वक्ष्यते ।
मुक्तिसाधनपर्वेदं शास्त्रार्थत्वेन कथ्यते ॥१२॥
निष्कामकर्मानुष्ठानं त्यागात्काम्यनिषिद्धयोम् ।
तत्रापि परमो धर्मो जपस्तुत्यादिकं हरेम् ॥१३॥
क्षीणपापस्य चित्तस्य विवेके योग्यता यदा ।
नित्यानित्यविवेकस्तु जायते सुदृढस्तदा ॥१४॥
इहामुत्रार्थवैराग्यं वशीकाराभिधं क्रमात।
ततं शमादिसम्पत्त्या संन्यासो निष्ठितो भवेत॥१५॥
एवं सर्वपरित्यागान्मुमुक्षा जायते दृढा ।
ततो गुरूपसदनमुपदेशग्रहस्ततम् ॥१६॥
ततं सन्देहहानाय वेदान्तश्रवणादिकम् ।
सर्वमुत्तरमीमांसाशास्त्रमत्रोपयुज्यते ॥१७॥
ततस्तत्परिपाकेण निदिध्यासननिष्ठता ।
योगशास्त्रं तु सम्पूर्णमुपक्षीणं भवेदिह ॥१८॥
क्षीणदोषे ततश्चित्ते वाक्यात्तत्त्वमतिर्भवेत।
साक्षात्कारो निर्विकल्पं शब्दादेवोपजायते ॥१९॥
अविद्याविनिवृत्तिस्तु तत्त्वज्ञानोदये भवेत।
तत आवरणे क्षीणे क्षीयेते भ्रमसंशयौ ॥२०॥
अनारब्धानि कर्माणि नश्यन्त्येव समन्ततम् ।
नत्वागामीनि जायन्ते तत्त्वज्ञानप्रभावतम् ॥२१॥
प्रारब्धकर्मविक्षेपाद्वासना तु न नश्यति ।
सा सर्वतो बलवता संयमेनोपशाम्यति ॥२२॥
संयमो धारणा ध्यानं समाधिरिति यत्त्रिकम् ।
यमादिपञ्चकं पूर्वं तदर्थमुपयुज्यते ॥२३॥
ईश्वरप्रणिधानात्तु समाधिं सिध्यति द्रुतम् ।
ततो भवेन्मनोनाशो वासनाक्षय एव च ॥२४॥
तत्त्वज्ञानं मनोनाशो वासनाक्षय इत्यपि ।
युगपत्त्रितयाभ्यासाज्जीवन्मुक्तिर्दृढा भवेत॥२५॥
विद्वत्संन्यासकथनमेतदर्थं श्रुतौ कृतम् ।
प्रागसिद्धो य एवांशो यत्नं स्यात्तस्य साधने ॥२६॥
निरुद्धे चेतसि पुरा सविकल्पसमाधिना ।
निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकम् ॥२७॥
व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितम् ।
अन्ते व्युत्तिष्ठते नैव सदा भवति तन्मयम् ॥२८॥
एवंभूतो ब्राह्मणं स्याद्वरिष्ठो ब्रह्मवादिनाम् ।
गुणातीतं स्थितप्रज्ञो विष्णुभक्तश्च कथ्यते ॥२९॥
अतिवर्णाश्रमी जीवन्मुक्त आत्मरतिस्तथा ।
एतस्य कृतकृत्यत्वाच्छास्त्रमस्मान्निवर्तते ॥३०॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थां प्रकाशन्ते महात्मनम् ॥३१॥
इत्यादिश्रुतिमानेन कायेन मनसा गिरा ।
सर्वावस्थासु भगवद्भक्तिरत्रोपयुज्यते ॥३२॥
पूर्वभूमौ कृता भक्तिरुत्तरां भूमिमानयेत।
अन्यथा विघ्नबाहुल्यात्फलसिद्धिं सुदुर्लभा ॥३३॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सम् ।
अनेकजन्मसंसिद्ध इत्यादि च वचो हरेम् ॥३४॥
यदि प्राग्भवसंस्कारस्याचिन्त्यत्वात्तु कश्चन।
प्रागेव कृतकृत्यं स्यादाकाशफलपातवत॥३५॥
न तं प्रति कृतार्थत्वाच्छास्त्रमारब्धुमिष्यते ।
प्राक्सिद्धसाधनाभ्यासा दुर्ज्ञेया भगवत्कृपा ॥३६॥
एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये ।
विधेया भगवद्भक्तिस्तां विना सा न सिद्ध्यति ॥३७॥
जीवन्मुक्तिदशायां तु न भक्तें फलकल्पना ।
अद्वेष्टृत्वादिवत्तेषां स्वभावो भजनं हरेम् ॥३८॥
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिम् ॥३९॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
इत्यादिवचनात्प्रेमभक्तोऽयं मुख्य उच्यते ॥४०॥
एतत्सर्वं भगवता गीताशास्त्रे प्रकाशितम् ।
अतो व्याख्यातुमेतन्मे मन उत्सहते भृशम् ॥४१॥
निष्कामकर्मानुष्ठानं मूलं मोक्षस्य कीर्तितम् ।
शोकादिरासुरं पाप्मा तस्य च प्रतिबन्धकम् ॥४२॥
यतं स्वधर्मविभ्रंशं प्रतिषिद्धस्य सेवनम् ।
फलाभिसन्धिपूर्वा वा साहंकारा क्रिया भवेत॥४३॥
आविष्टं पुरुषो नित्यमेवमासुरपाप्मभिम् ।
पुमर्थलाभायोग्यं सन्लभते दुम्खसन्ततिम् ॥४४॥
दुम्खं स्वभावतो द्वेष्यं सर्वेषां प्राणिनामिह ।
अतस्तत्साधनं त्याज्यं शोकमोहादिकं सदा ॥४५॥
अनादिभवसन्ताननिरूढं दुम्खकारणम् ।
दुस्त्यजं शोकमोहादि केनोपायेन हीयताम् ॥४६॥
एवमाकाङ्क्ष्याविष्टं पुरुषार्थोन्मुखं नरम् ।
बुबोधयिषुराहेदं भगवाञ् शास्त्रमुत्तमम् ॥४७॥

तत्र, अशोच्यानन्वशोचस्त्वं [गीता २.११] इत्यादिना शोकमोहादिसर्वासुरपाप्मनिवृत्त्युपायोपदेशेन स्वधर्मानुष्ठानात्पुरुषार्थं प्राप्यतामिति भगवदुपदेशं सर्व साधारणम् । भगवदर्जुनसंवादरूपा चाख्यायिका विद्यास्तुत्यर्था जनक याज्ञवल्क्यसंवादादिवदुपनिषत्सु । कथं ? प्रसिद्धमहानुभावोऽप्यर्जुनो राज्य गुरुपुत्रमित्रादिष्वहमेषां ममैत इत्येवंप्रत्ययनिमित्तस्नेहनिमित्ताभ्यां  शोकमोहाभ्यामभिभूतविवेकविज्ञानं स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि  तस्माद्युद्धादुपरराम । परधर्मं च भिक्षाजीवनादि क्षत्रियं प्रति प्रतिषिद्धं  कर्तुं प्रववृते । तथा च महत्यनर्थे मग्नोऽभूत्भगवदुपदेशाच्चेमां विद्यां  लब्ध्वा शोकमोहावपनीय पुनं स्वधर्मे प्रवृत्तं कृतकृत्यो बभूवेति  प्रशस्ततरेयं महाप्रयोजना विद्येति स्तूयते ।

अर्जुनापदेशेन चोपदेशाधिकारी दर्शितम् । तथा च व्याख्यास्यते । स्वधर्मप्रवृत्तौ जातायामपि तत्प्रच्युतिहेतुभूतौ शोकमोहौ कथं भीष्ममहं संख्ये  [गीता २.४] इत्यादिनार्जुनेन दर्शितौ । अर्जुनस्य युद्धाख्ये स्वधर्मं विनापि विवेकं किंनिमित्ता प्रवृत्तिरिति दृष्ट्वा तु पाण्डवानीकं [गीता १.२] इत्यादिना परसैन्यचेष्टितं तन्निमित्तमुक्तम् । तदुपोद्घातत्वेन धृतराष्ट्रप्रश्नं सञ्जयं प्रति धर्मक्षेत्रे इत्यादिना श्लोकेन ।

तत्र धृतराष्ट्र उवाच इति वैशम्पायनवाक्यं जनमेजयं प्रति । पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्यभ्रंशाद्भीतो धृतराष्ट्रं पप्रच्छ स्वपुत्रजयकारणमाशंसन। पूर्वं युयुत्सवो योद्धुमिच्छवोऽपि सन्तं कुरुक्षेत्रे समवेतां संगतां मामका मदीया दुर्योधनादयं पाण्डवाश्च युधिष्ठिरादयं किमकुर्वत किं कृतवन्तं ? किं पुर्वोद्भूतयुयुत्सानुसारेण युद्धमेव कृतवन्त उत केनचिन्निमित्तेन युयुत्सानिवृत्त्यान्यदेव किंचित्कृतवन्तं ? भीष्मार्जुनादिवीरपुरुषनिमित्तं दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव, अदृष्टभयमपि दर्शयितुमाह—धर्मक्षेत्र इति । धर्मस्य पूर्वमविद्यमानस्योत्पत्तेर्विद्यमानस्य च वृद्धेर्निमित्तं सस्यस्येव क्षेत्रं यत्कुरुक्षेत्रं सर्वश्रुतिस्मृतिप्रसिद्धम् । बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमिति जाबालश्रुतेम्, कुरुक्षेत्रं वै देवयजनमिति शतपथश्रुतेश्च । तस्मिन्गतां पाण्डवां पूर्वमेव धार्मिकां यदि पक्षद्वयहिंसानिमित्तादधर्माद्गीता निवर्तेरंस् ततं प्राप्तराज्या एव मत्पुत्राम्, अथवा धर्मक्षेत्रमाहात्म्येन पापानामपि मत्पुत्राणां कदाचिच्चित्तप्रसादं स्यात्, तदा च तेऽनुतप्तां प्राक्कपटोपात्तं राज्यं पाण्डवेभ्यो यदि दद्युस्तर्हि विनापि युद्धं हता एवेति स्वपुत्रराज्यलाभे पाण्डवराज्यलाभे च दृढतरमुपायमपश्यतो महानुद्वेग एव प्रश्नबीजम् ।

सञ्जयेति च सम्बोधनं रागद्वेषादिदोषान्सम्यग्जितवानसीति कृत्वा निर्व्याजमेव कथनीयं त्वयेति सूचनार्थम् । मामकां किमकुर्वतेत्येतावतैव प्रश्ननिर्वाहे पाण्डवाश्चेति पृथङ्निर्दिशन्पाण्डवेषु ममकाराभावप्रदर्शनेन तद्द्रोहमभिव्यनक्ति ॥१॥

विश्वनाथम् :
गौरांशुकं सत्कुमुदप्रमोदी
स्वाभिख्यया गोस्तमसो निहन्ता ।
श्रीकृष्णचैतन्यसुधनिधिर्मे
मनोऽधितिष्ठन्स्वरतिं करोतु ॥

प्राचीनवाचं सुविचार्य सोऽहम्
अज्ञोऽपि गीतामृतलेशलिप्सुम् ।
यतें प्रभोरेव मते तदत्र
सन्तं क्षमध्वं शरणागतस्य ॥

इह खलु सकलशास्त्राभिमतश्रीमच्चरणसरोजभजनं स्वयं भगवान्नराकृतिपरब्रह्मश्रीवसुदेवसूनुं साक्षाच्छ्रीगोपालपुर्यामवतीर्यापारपरमातर्क्यप्रापञ्चिकसकललोचनगोचरीकृतो भवाब्धिनिमज्जमानान्जगज्जनानुधृत्य स्वसौन्दर्यमाधुर्यास्वादनया स्वीयप्रेममहाम्बुधौ निमज्जयामास ।

शिष्टरक्षा दुष्टनिग्रहव्रतनिष्ठामहिष्ठप्रतिष्ठोऽपि भुवो भारदुम्खापहारमिषेण दुष्टानामपि स्वद्वेष्ट्èणामपि महासंसारग्रासीभूतानामपि मुक्तिदानलक्षणं परमरक्षणमेव कृत्वा स्वान्तर्धानोत्तरकालजनिष्यमाणाननाद्यविद्याबन्धनिबद्न्हनशोकमोहाद्याकुलानपि जीवानुद्धर्तुं शास्त्रकृन्मुनिगणगीयमानयशश्च धर्तुं स्वप्रियसखं तादृशस्वेच्छावशादेव रणमूर्धन्युद्भूतशोकमोहं श्रीमदर्जुनं लक्ष्यीकृत्य काण्डत्रितयात्मकसर्ववेदतात्पर्यपर्यवसितार्थरत्नालङ्कृतं श्रीगीताशास्त्रमष्टादशाध्यायमन्तर्भूताष्टादशविद्यं साक्षाद्विद्यमानीकृतमिव परमपुरुषार्थमाविर्भावयाम्बभूव ।

तत्राध्यायानां षट्केनन्प्रथमेन निष्कामकर्मयोगम् । द्वितीयेन भक्तियोगम् । तृतीयेन ज्ञानयोगो दर्शितम् । तत्रापि भक्तियोगस्यातिरहस्यत्वादुभयसङ्जीवकत्वेनाभ्यर्हितत्वात्सर्वदुर्लभत्वाच्च मध्यवर्तीकृतम् । कर्मज्ञानयोर्भक्तिराहित्येन वैयर्थ्यात्ते द्वे भक्तिमिश्रे एव सम्मतीकृते ।

भक्तिस्तु द्विविधा केवला प्रधानीभूता च । तत्राद्या स्वत एव परमप्रबला । ते द्वे कर्मज्ञाने विनैव विशुद्धप्रभावती अकिञ्चना अनन्यादिशब्दवाच्या । द्वितीया तु कर्मज्ञानमिश्रेत्यखिलमग्रे विवृतीभविष्यति ।

अथार्जुनस्य शोकमोहौ कथम्भूतावित्यपेक्षायां महाभारतवक्ता श्रीवैशम्पायनो जनमेजयं प्रति तत्र भीष्मपर्वणि कथामवतारयति धृतराष्ट्र उवाच इति । कुरुक्षेत्रे युयुत्सवो युद्धार्थं सङ्गता मामका दुर्योधनाद्यां पाण्डवाश्च युधिष्ठिरादयं किं कृतवन्तस्तद्ब्रूहि । ननु युयुत्सव इति त्वं ब्रवीष्येवातो युद्धमेव कर्तुमुद्यतास्ते तदपि किमकुर्वतेति केनाभिप्रायेण पृच्छसीत्यत आह धर्मक्षेत्र इति । कुरुक्षेत्रं देवयजनमिति श्रुतेस्तत्क्षेत्रस्य धर्मप्रवर्तकत्वं प्रसिद्धम् ।

अतस्तत्संसर्गमहिम्ना यद्यधर्मिकाणामपि दुर्योधनादीनां क्रोधनिवृत्त्या धर्मे मतिं स्यात। पाण्डवास्तु स्वभावत एव धार्मिकास्ततो बन्धुहिंसनमनुचितमित्युभयेषामपि विवेके उद्भूते सन्धिरपि सम्भाव्यते । ततश्च ममानन्द एवेति सञ्जयं प्रति ज्ञापयितुमिष्टो भावो बाह्यम् । आभ्यन्तरस्तु सन्धौ सति पूर्ववत्सकण्टकमेव राज्यं मदात्मजानामिति मे दुर्वार एव विषादम् । तस्मादस्माकीनो भीष्मस्त्वर्जुनेन दुर्जय एवेत्यतो युद्धमेव श्रेयस्तदेव भूयादिति तु तन्मनोरथोपयोगी दुर्लक्ष्यम् ।

अत्र धर्मक्षेत्रे इति क्षेत्रपदेन धर्मस्य धर्मावतारस्य सपरिकरयुधिष्ठिरस्य धान्यस्थानीयत्वम् । तत्पालकस्य श्रीकृष्णस्य कृषिबलस्थानीयत्वम् । कृष्णकृतनानाविधसाहाय्यस्य जलसेचनसेतुबन्धनादिस्थानीयत्वम् । श्रीकृष्णसंहार्यदुर्योधनादेर्धान्यद्वेषिधान्याकारतृणविशेषस्थानीयत्वं च बोधितं सरस्वत्या ॥१॥
 
बलदेवम् :
सत्यानन्ताचिन्त्यशक्त्येकपक्षे
सर्वाध्यक्षे भक्तरक्षातिदक्षे ।
श्रीगोविन्दे विश्वसर्गादिकण्डे
पूर्णानन्दे नित्यमास्तां मतिर्मे ॥

अज्ञाननीरधिरुपैति यया विशेषं
भक्तिं परापि भजते परिपोषमुच्चैम् ।
तत्त्वं परं स्फुरति दुर्गममप्यजस्रं
साद्गुण्यभृत्स्वरचितां प्रणमामि गीताम् ॥

अथ सुखचिद्घनं स्वयं भगवानचिन्त्यशक्तिं पुरुषोत्तमं स्वसङ्कल्पायत्तविचित्रजगदुदयादिविरिञ्च्यादिसञ्चिन्त्यचरणं स्वजन्मादिलीलया स्वतुल्यान्सहाविर्भूतान्पार्षदान्प्रहर्षयंस्तयैव जीवान्बहूनविद्याशार्दूलीवदनाद्विमोच्य स्वान्तर्धानोत्तरभाविनोऽन्यानुद्दिधीर्षुराहवमूर्ध्नि स्वात्मभूतमप्यर्जुनमवितर्क्यस्वशक्त्या समोहमिव कुर्वन्तन्मोहविमार्जनापदेशेन सपरिकरस्वात्मयाथात्म्यैकनिरूपिकां स्वगीतोपनिषदमुपादिशत।

तस्यां खल्वीश्वरजीवप्रकृतिकालकर्माणि पञ्चार्था वर्ण्यन्ते । तेषु विभुसंविदीश्वरम् । अणुसंविज्जीवम् । सत्त्वादिगुणत्रयाश्रयो द्रव्यं प्रकृतिम् । त्रैगुण्यशून्यं जडद्रव्यं कालम् । पुंप्रयत्ननिष्पाद्यमदृष्टादिशब्दवाच्यं कर्मेति ।

तेषां लक्षणानि । एष्वीश्वरादीनि चत्वारि नित्यानि । जीवादीनि त्वीश्वरवश्यानि । कर्म तु प्रागभाववदनादि विनाशि च । तत्र संवित्स्वरूपोऽपीश्वरो जीवश्च संवेत्तास्मदर्थश्च—विज्ञानमानन्दं ब्रह्म, यं सर्वज्ञं सर्ववित्, मन्ता बोद्धा कर्ता विजानात्मा पुरुषम्, इत्यादि श्रुतेम् । सोऽकामयत बहु स्याम्, सुखमहमस्वाप्सं न किञ्चिदवेदिषमित्यादि श्रुतेश्च । न चोभयत्र महत्तत्त्वजातोऽयमहङ्कारम् ।

तदा तस्यानुत्पत्तेर्विलीनत्वाच्च । स च स च कर्ता भोक्ता सिद्धं सर्वज्ञं सर्ववित्कर्ता बोद्धा इति पदेभ्यम् । अनुभवितृत्वं कह्लु भोक्तृत्वं सर्वाभ्युपगतम् । सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता इति श्रुतेस्तूभयोस्तत्प्रव्यक्तम् । यद्यपि संवित्स्वरूपात्संवेत्तृत्वादि नान्यत्प्रकाशस्वरूपाद्रवेरिव प्रकाशकत्वादि, तथापि विशेषसामर्थ्यात्तदन्यत्वव्यवहारम् । विशेषश्च भेदप्रतिनिधिर्न भेदम् । स च भेदाभावेऽपि भेदकार्यस्य धर्मधर्मिभावादिव्यवहारस्य हेतुम् ।सत्ता सती भेदो भिन्नं कालं सर्वदास्तीत्यादिषु विद्वद्भिं प्रतीतम् । तत्प्रतीत्यन्यथानुपपत्त्या—एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति इति श्रुत्या च सिद्धम् । इह हि ब्रह्मधर्मानभिधाय तद्भेदं प्रतिषिध्यते ।

न खलु भेदप्रतिनिधेस्तस्याप्यभावे धर्मधर्मिभावधर्मबहुत्वे शक्ये वक्तुमित्यनिच्छुभिरपि स्वीकार्यां स्युं त इमेऽर्थां शास्त्रेऽस्मिन्यथास्थानमनुसन्धेयाम् । इह हि जीवात्मपरमात्मतद्धाम तत्प्राप्त्युपायानां स्वरूपाणि यथावन्निरूप्यन्ते । तत्र जीवात्मयाथात्म्यपरमात्मयाथात्म्योपयोगितया परमात्मयाथात्म्यं तु तदुपासनोपयोगितया प्रकृत्यादिकं तु परमात्मनं स्रष्टुरुपकरणतयोपदिश्यते ।

तदुपायाश्च कर्मज्ञानभक्तिभेदात्त्रेध । तत्र श्रुततत्तत्फलनैरपेक्षेण कर्तृत्वाभिनिवेशपरित्यागेन चानुष्ठितस्य स्वविहितस्य कर्मणं हृद्विशुद्धिद्वारा ज्ञानभक्त्योरुपकारित्वात्परम्परया तत्प्राप्तावुपायत्वम् । तच्च श्रुतिविहितकर्म हिंसाशून्यमत्र मुख्यम् । मोक्षधर्मे पितापुत्रादिसंवादात्हिंसावत्तु गौणं विप्रकृष्टत्वात्तयोस्तु साक्षादेव तथात्वम् ।

ननु, तथानुष्ठितेन कर्मणा हृद्विशुद्ध्या ज्ञानोदयेन मुक्तौ सत्यां भक्त्या को विशेषम् । उच्यते, ज्ञानमेव किञ्चिद्विशेषाद्भक्तिरिति । निर्णिमेषवीक्षणकटाक्षवीक्षणवदनयोरन्तरं चिद्विग्रहतयानुसन्धिर्ज्ञानं तेन तत्सालोक्यादिम् । विचित्रलीलारसाश्रयतयानुसन्धिस्तु भक्तिस्तया क्रोडीकृतसालोक्यादितद्वरीवस्यानन्दलाभं पुमर्थम् । भक्तेर्ज्ञानत्वं तु “सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति” इति श्रुतें सिद्धम् ।

तदिदं श्रवणादिभावादिशब्दव्यपदिष्टं दृष्टम् । ज्ञानस्य श्रवणाद्याकारत्वं चित्सुखस्य विष्णों कुन्तलादिप्रतीकत्ववत्प्रत्येतव्यमिति वक्ष्यामम् । षट्त्रिकेऽस्मिन्शास्त्रे प्रथमेन षट्केनेश्वरांशस्य जीवस्यांशीश्वरभक्त्युपयोगिस्वरूपदर्शनम् । तच्चान्तर्गतज्ञाननिष्कामकर्मसाध्यं निरूप्यते । मध्येन परमप्राप्यस्यांशीश्वरस्य प्रापणी भक्तिस्तन्महिमधीपूर्विकाभिधीयते । अन्त्येन तु पूर्वोदितानामेवेश्वरादीनां स्वरूपाणि परिशोध्यन्ते । त्रयाणां षट्कानां कर्मभक्तिज्ञानपूर्वताव्यपदेशस्तु तत्तत्प्राधान्येनैव । चरमे भक्तें प्रतिपत्तेश्चोक्तिस्तु रत्नसम्पुटोर्ध्वलिखिततत्सूचकलिपिन्यायेन ।

अस्य शास्त्रस्य श्रद्धालुं सद्धर्मनिष्ठो विजितेन्द्रियोऽधिकारी । स च सनिष्ठपरिनिष्ठितनिरपेक्षभेदात्त्रिविधम् । तेषु स्वर्गादिलोकानपि दिदृक्ष्र्निष्ठया स्वधर्मान्हर्यर्चनरूपानाचरन्प्रथमम् । लोकसंजिघृक्षया तानाचरन्हरिभक्तिनिरतो द्वितीयम् । स च स च साश्रमम् । सत्यतपोजपादिभिर्विशुद्धचित्तो हर्येकनिरतस्तृतीयो निराश्रमम् । वाच्यवाचकभावं सम्बन्धम् । वाच्य उक्तलक्षणं श्रीकृष्णम् । वाचकस्तद्गीताशास्त्रं तादृशं सोऽत्र विषयम् । अशेषक्लेशनिवृत्तिपूर्वकस्तत्साक्षात्कारस्तु प्रयोजनमित्यनुबन्धचतुष्टयम् । अत्रेश्वरादिषु त्रिषु ब्रह्मशब्दोऽक्षरशब्दश्च बद्धजीवेषु तद्देहेषु च क्षरशब्दम् । ईश्वरजीवदेहे मनसि बुद्धौ धृतौ यत्ने चात्मशब्दम् । त्रिगुणायां वासनायां शीले स्वरूपे च प्रकृतिशब्दम् । सत्ताभिप्रायस्वभावपदार्थजन्मसु क्रियास्वात्मसु च भावशब्दम् । कर्मादिषु त्रिषु चित्तवृत्तिनिरोधे च योगशब्दं पठ्यते । एतच्छास्त्रं खलु स्वयं भगवतं साक्षाद्वचनं सर्वतं श्रेष्ठं—

गीता सुगीता कर्तव्या किमन्यैं शास्त्रविस्तरैम् ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिम्सृता ॥ इति पाद्मात।

धृतराष्ट्रादिवाक्यं तु तत्सङ्गतिलाभाय द्वैपायनेन विरचितम् । तच्च लवणाकरनिपातन्यायेन तन्मयमित्युपोद्घातम् ।

सङ्ग्राममूर्ध्नि संवादो
योऽभूद्गोविन्दपार्थयोम् ।
तत्सङ्गत्यै कथां प्राख्याद्
गीतासु प्रथमे मुनिम् ॥

इति तावद्भगवदर्जुनसंवादं प्रस्तौतुं कथा निरूप्यते। धर्मक्षेत्रे इत्यादिभिं सप्तविंशत्या । तद्भगवतं पार्थसारथ्यं विद्वान्धृतराष्ट्रं स्वपुत्रविजये सन्दिहानं सञ्जयं पृच्छतीत्याह । जन्मेजयं प्रति वैशम्पायनं धृतराष्ट्र उवाचेति । युयुत्सवो योद्धुमिच्छवो मामका मत्पुत्रां पाण्डवाश्च कुरुक्षेत्रे समवेतां किमकुर्वतेति ।

ननु युयुत्सवं समवेता इति त्वमेवात्थ्य ततो युधेरन्नेव पुनं किमकुर्वतेति कस्ते भाव इति चेत्, तत्राह—धर्मक्षेत्र इति । “यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमित्यादिश्रवणाद्धर्मप्ररोहिभूमिभूतं कुरुक्षेत्रं प्रसिद्धम् । तत्प्रभावाद्विनष्टविद्वेषा मत्पुत्रां किं पाण्डवेभ्यस्तद्राज्यं दातुं निश्चिक्युम् । किं वा, पाण्डवां सदैव धर्मशीला धर्मक्षेत्रे तस्मिन्कुलक्षयहेतुकादधर्माद्भीता वनप्रवेशमेव श्रेयो विममृशुरिति । हे सञ्जयेति व्यासप्रसादाद्विनष्टरागद्वेषस्त्वं तथ्यं वदेत्यर्थम् । पाण्डवानां मामकत्वानुक्तिर्धृतराष्ट्रस्य तेषु द्रोहमभिव्यनक्ति । धान्यक्षेत्रात्तद्विरोधिनां धान्याभासानामिव धर्मक्षेत्रात्तद्विरोधिनां धर्माभासानां त्वत्पुत्राणामपगमो भावीति धर्मक्षेत्रशब्देन गीर्देव्या व्यज्यते ॥१॥

 
(१.२)

संजय उवाच—
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत॥

श्रीधरम् : सञ्जय उवाच दृष्ट्वेत्यादि । पाण्डवानामनीकं सैन्यं व्यूढं व्यूहरचनया अधिष्ठितं दृष्ट्वा द्रोणाचार्यसमीपं गत्वा राजा दुर्योधनो वक्ष्यमाणं वचनमुवाच ॥२॥

मधुसूदनम् : एवं कृपालोकव्यवहारनेत्राभ्यामपि हीनतया महतोऽन्धस्य पुत्रस्नेहमात्राभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने विदिताभिप्रायस्य सञ्जयस्यातिधार्मिकस्य प्रतिवचनमवतारयति वैशम्पायनम् । तत्र पाण्डवानां दृष्टभयसम्भावनापि नास्ति, अदृष्टभयं तु भ्रान्त्यार्जुनस्योत्पन्नं भगवतोपशमितमिति पाण्डवानामुत्कर्षस्तुशब्देन द्योत्यते । स्वपुत्रकृतराज्यप्रत्यर्पणशङ्कया तु मा ग्लासीरिति राजानं तोषयितुं दुर्योधनदौष्ट्यमेव प्रथमतो वर्णयति—दृष्ट्वा इति । पाण्डुसुतानामनीकं सैन्यं व्यूढं व्यूहरचनया धृष्टद्युम्नादिभिं स्थापितं दृष्ट्वा चाक्षुषज्ञानेन विषयीकृत्य, तदा संग्रामोद्यमकाले आचार्यं द्रोणनामानं धनुर्विद्यासम्प्रदायप्रवर्तयितारमुपसंगम्य स्वयमेव तत्समीपं गत्वा, न तु स्वसमीपमाहूय । एतेन पाण्डवसैन्यदर्शनजनितं भयं सूच्यते । भयेन स्वरक्षार्थं तत्समीपगमनेऽप्याचार्यगौरवव्याजेन भयसंगोपनं राजनीतिकुशलत्वादित्याह—राज इति । आचार्यं दुर्योधनोऽब्रवीदित्येतावतैव निर्वाहे वचनपदं संक्षिप्तबह्वर्थत्वादिबहुगुणविशिष्टे वाक्यविशेषे संक्रमितुं वचनमात्रमेवाब्रवीन्न तु कंचिदर्थमिति वा ॥२॥

विश्वनाथम् : विदिततदभिप्रायस्तदाशांसितं युद्धमेव भवेत। किन्तु तन्मनोरथप्रतिकुलमिति मनसि कृत्वा उवाच दृष्ट्वेति । व्यूढं व्यूहरचनयावस्थितम् । राजा दुर्योधनं सान्तर्भयमुवाच । पश्यैतामिति नवभिं श्लोकैम् ॥२॥

बलदेवम् : एवं जन्मान्धस्य प्रज्ञाचक्षुषो धृतराष्ट्रस्य धर्मप्रज्ञाविलोपान्मोहान्धस्य मत्पुत्रं कदाचित्पाण्डवेभ्यस्तद्राज्यं दद्यादिति विम्लानचित्तस्य भावं विज्ञाय धर्मिष्ठं सञ्जयस्त्वत्पुत्रं कदाचिदपि तेभ्यो राज्यं नार्पयुष्यतीति तत्सन्तोषमुत्पादयन्नाह दृष्ट्वेति । पाण्डवानामनीकं सैन्यं व्यूढं व्यूहरचनयावस्थितम् । आचार्यं धनुर्विद्याप्रदं द्रोणमुपसङ्गम्य स्वयमेव तदन्तिकं गत्वा राजा राजनीतिनिपुणं वचनमल्पाक्षरत्वं गम्भीरार्थत्वं सङ्क्रान्तवचनविशेषम् । अत्र स्वयमाचार्यसन्निधिगमनेन पाण्डवसैन्यप्रभावदर्शनहेतुकं तस्यान्तर्भयं गुरुगौरवेण तदन्तिकं स्वयमागतवानस्मीति भयसङ्गोपनं च व्यज्यते । तदिदं राजनीतिनैपुण्यादिति च राजपदेन ॥२॥

(१.३)

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥

श्रीधरम् : तदेव वचनमाह पश्यैतामित्यादिभिं नवभिं श्लोकैम् । पश्येत्यादि हे आचार्य । पाण्डवानां महतीं विततां चमूं सेनां पश्य । तव शिष्येण द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां व्यूहरचनयाधिष्ठिताम् ॥३॥

मधुसूदनम् : अन्यच्च हे पाण्डुपुत्राणामाचार्य, न तु मम, तेषु स्नेहातिशयात। द्रुपदपुत्रेण तव शिष्येणेति त्वद्वधार्थमुत्पन्नोऽपि त्वयाध्यापित इति तव मौढ्यमेव ममानर्थकारणमिति सूचयति । शत्रोस्तव सकाशात्त्वद्वधोपायभूता विद्या गृहीतेति तस्य धीमत्त्वम् । अत एव तच्चमूदर्शनेनानन्दस्तवैव भविष्यति भ्रान्तत्वान्नान्यस्य कस्यचिदपि । यं प्रतीयं प्रदर्शनीयेति त्वमेवैतां पश्येत्याचार्यं प्रति तत्सैन्यं प्रदर्शयन्निगूढं द्वेषं द्योतयति । एवं च यस्य धर्मक्षेत्रं प्राप्याचार्येऽपीदृशी दृष्टबुद्धिस्तस्य कानुतापशङ्का सर्वाभिशङ्कित्वेनातिदुष्टाशयत्वादिति भावम् ॥३॥
 
विश्वनाथम् : द्रुपदपुत्रेण धृष्टद्युम्नेन तव शिष्येण स्ववधार्थमुत्पन्न इति जानतापि त्वयायमध्यापित इति तव मन्दबुद्धित्वम् । धीमतेति शत्रोरपि त्वत्तं सकाशात्त्वद्वधोपायविद्या गृहीतेत्यस्य महाबुद्धित्वं फल्कालेऽपि पश्येति भावम् ॥३॥

बलदेवम् : तत्तादृशं वचनमाह पश्यैतामित्यादिना । प्रियशिष्येषु युधिष्ठिरादिषु स्नेहातिशयादाचार्यो न युध्येदिति विभाव्य तत्कोपोत्पादनाय तस्मिंस्तदवज्ञां व्यञ्जयन्नाह एतामिति । एतामतिसन्निहितां प्रागल्भ्येनाचार्यमतिशूरं च त्वामविगणय्य स्थितां दृष्ट्वा तदवज्ञां प्रतीहीति, व्यूढां व्यूहरचनया स्थापिताम् । द्रुपदपुत्रेणेति त्वद्वैरिणा द्रुपदेन त्वद्वधाय धृष्टद्युम्नं पुत्रो यज्ञाग्निकुण्डादुत्पादितोऽस्तीति । तव शिष्येणेति त्वं स्वशत्रुं जानन्नपि धनुर्विद्यामध्यापितवानसीति तव मन्दधीत्वम् । धीमतेति शत्रोस्त्वत्तस्त्वद्वधोपायो गृहीत इति तस्य सुधीत्वम् । त्वदपेक्ष्यकारितैवास्माकमनर्थहेतुरिति ॥३॥

(१.४६)

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथम् ॥
धृष्टकेतुश्चेकितानं काशिराजश्च वीर्यवान।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवम् ॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाम् ॥

श्रीधरम् : अत्रेत्यादि । अत्र अस्यां चम्वाम् । इषवो बाणा अस्यस्ते क्षिप्यन्ते एभिरिति इषासां धनूंषि । महान्त इष्वासो येषां ते महेष्वासाम् । भीमार्जुनौ तावदत्रातिप्रसिद्धौ योद्धारौ । ताभ्यां समां शूरां शौर्येण क्षात्रधर्मेणोपेतां सन्ति । तानेव नामभिर्निर्दिशति युयुधानं सात्यकिम् । किं च धृष्टकेतुरिति । विक्रान्तो युधामन्युर्नामैकम् । सौभद्रोऽभिमन्युर्द्रौपदेयां द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जातां पुत्रां प्रतिविन्ध्यादयं पञ्च । महारथादीनां लक्षणम्—

एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महार्थ इति स्मृतम् ॥
अमितान्योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सम् ।
चैकेन यो युध्येत्तन्न्यूनोऽर्धरथं स्मृतम् ॥ इति ॥४६॥

मधुसूदनम् : नन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतामस्मदीयो यं कश्चिदपि जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह—अत्र शूरा इत्यादिभिस्त्रिभिम् । न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात। किन्त्वस्यां चम्वामन्येऽपि बहवं शूरा सन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायम् । शूरानेव विशिनष्टि—महेष्वासा इति । महान्तोऽन्यैरप्रधृष्या इष्वासा धनूंषि येषा ते तथा । दूरत एव परसैन्यविद्रावणकुशला इति भावम् ।

महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याह—युधि युद्धे भीमार्जुनाभ्यां सर्वसम्प्रतिपन्नपराक्रमाभ्यां समास्तुल्याम् । तानेवाह—युयुधान इत्यादिना महारथा इत्यन्तेन । युयुधानं सात्यकिम् । द्रुपदश्च महारथ इत्येकम् । अथवा, युयुधानविराटद्रुपदानां विशेषणं महारथ इति । धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति । पुरुजित्कुन्तिभोजशैब्यानां विशेषणं नरपुंगव इति । विक्रान्तो युधामन्युं वीर्यवांश्चोत्तमौजा इति द्वौ ।

अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानि । सौभद्रोऽभिमन्युम् । द्रौपदेयाश्च द्रौपदीपुत्रां प्रतिविन्ध्यादयं पञ्च । चकारादन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयम् । पञ्च पाण्डवास्त्वतिप्रसिद्धा एवेति न गणिताम् । ये गणितां सप्तदशान्येऽपि तदीयां सर्व एव महारथाम् । सर्वेऽपि महारथा एव नैकोऽपि रथोऽर्धरथो वा । महारथा इत्यतिरथत्वस्याप्युपलक्षणम् । तल्लक्षणं च—

एको दशसहस्त्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतम् ॥
अमितान्योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सम् ।     
रथस्त्वेकेन यो योद्धा तन्न्यूनोऽर्धरथं स्मृतम् ॥ इति ॥४६॥

विश्वनाथम् : अत्र चम्वाम् । महान्तं शत्रुभिश्छेत्तुमशक्या इष्वासा धनूंषि येषां ते । युयुधानं सात्यकिम् । सौभद्रोऽभिमन्युम् । द्रौपदेया युधिष्ठिरादिभ्यं पञ्चभ्यो जातां प्रतिविन्ध्यादयम् । महारथादीनां लक्षणम्—

एको दशसहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महार्थ इति स्मृतम् ॥
अमितान्योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सम् ।
चैकेन यो युध्येत्तन्न्यूनोऽर्धरथं स्मृतम् ॥ इति ॥४६॥

श्रीधरम् : नन्वेकेन धृष्टद्युम्नेनाधिष्ठिताल्पिका सेनास्मदीयेनैकेनैव सुजेया स्यादतस्त्वं मा त्रासीरिति चेत्तत्राह अत्रेति । अत्र चम्वां महान्तं शत्रुभिश्छेत्तुमशक्या इष्वासाश्चापा येषां ते । युद्धकौशलमाशङ्क्याह भीमेति । युयुधानं सात्यकिम् । महारथ इति युयुधानीदानां त्रयाणाम् । नरपुङ्गव इति पुरुजिदादीनां त्रयाणाम् । युद्येति विक्रान्त इति युधामन्योम् । वीर्यवानित्युत्तमौजसश्चेति विशेषणम् । सौभद्रोऽभिमन्युम् । द्रौपदेया युधिष्ठिरादिभ्यं पञ्चभ्यं क्रमाद्द्रौपद्यां जातां प्रतिविन्ध्यश्रुतसेनश्रुतकीर्तिशतानीकश्रुतकर्माख्यां पञ्चपुत्राम् । चशब्दादन्ये च घटोत्कचादयम् । पाण्डवास्त्वतिख्यातत्वात्न गणिताम् । ये एते सप्तदश गणिताम्, ये चान्ये तत्पक्षीयास्ते सर्वे महारथा एव । अतिरथस्याप्युपलक्षणमेतत। तल्लक्षणं चोक्तम्—

एको दशसहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महार्थ इति स्मृतम् ॥
अमितान्योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सम् ।
चैकेन यो युध्येत्तन्न्यूनोऽर्धरथं स्मृतम् ॥ इति ॥४६॥

(१.७)

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥

श्रीधरम् : अस्माकमिति । निबोध बुध्यस्व । नायका नेतारम् । संज्ञार्थं सम्यग्ज्ञानार्थम् ॥७॥

मधुसूदनम् : यद्येवं परबलमितप्रभूतं दृष्ट्वा भीतोऽसि, हन्त तर्हि सन्धिरेव परैरिष्यताम् । किं विग्रहाग्रहेण ? इत्याचार्याभिप्रायमाशङ्क्याह—अस्माकमिति ।

तुशब्देनान्तरुत्पन्नमपि भयं तिरोदधानो धृष्टतामात्मनो द्योतयति । अस्माकं सर्वेषां मध्ये ये विशिष्टां सर्वेभ्यं समुत्कर्षजुषम्, तान्मयोच्यमानान्निबोध निश्चयेन मद्वचनादवधारयेति, भौवादिकस्य परस्मैपदिनो बुधे रूपम् ।

ये च मम सैन्यस्य नायका मुख्या नेतारम्, तान्संज्ञार्थमसंख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि, न त्वज्ञातं किंचिदपि तव ज्ञापयामीति । द्विजोत्तम इति विशेषणेनाचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं सम्पादयति । दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं, तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्त्वान्नास्माकं महती क्षतिरित्यर्थम् ।

संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्ट्वा हर्षेण व्याकुलमनसस्तव स्वीयवीरविस्मृतिर्मा भूदिति ममेयमुक्तिरिति भावम् ॥७॥

विश्वनाथम् : निबोध बुध्यस्व । संज्ञार्थं सम्यग्ज्ञानार्थम् ॥७॥

बलदेवम् : तर्हि किं पाण्डवसैन्याद्भीतोऽसीत्याचार्यभावं सम्भाव्यान्तर्जातामपि भीतिमाच्छादयन्धार्ष्ट्येनाह—अस्माकमिति । अस्माकं सर्वेषां मध्ये ये विशिष्टां परमोत्कृष्टा बुध्यादिबलशालिनो नायका नेतारम् । तान्संज्ञार्थं सम्यक्ज्ञानार्थं ब्रवीमीति । पाण्डवप्रेम्णा त्वं चेन्नो योत्स्यसे, तदापि भीष्मादिभिर्मद्विजयं सेत्स्यत्येवेति तत्कोपोत्पादनार्थं द्योत्यम् ॥७॥

(१.८९)

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयम् ।
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथम् ॥
अन्ये च बहवं शूरा मदर्थे त्यक्तजीविताम् ।
नानाशस्त्रप्रहरणां सर्वे युद्धविशारदाम् ॥

श्रीधरम् : तानेषाह भवानिति द्वाभ्याम् । भवान्द्रोणम् । समितिं संग्रामं जयतीति तथा । सौमदत्तिं सोमदत्तस्य पुत्रो भूरिश्रवाम् । अन्ये चेति मदर्थे मत्प्रयोजनार्थं जीवितं त्यक्तुमध्यवसिता इत्यर्थम् । नाना अनेकानि शस्त्रानि प्रहरणसाधनानि येषां ते । युद्धे विशारदा निपुणा इत्यर्थम् ॥८९॥

मधुसूदनम् : तत्र विशिष्टान्गणयति—भवानिति । भवान्द्रोणं भीष्मं कर्णं कृपश्च । समितिं संग्रामं जयतीति समितिञ्जय इति कृपविशेषणम् । कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्क्य तन्निरासार्थमेते चत्वारं सर्वतो विशिष्टाम् । नायकान्गणयति—अश्वत्थामा द्रोणपुत्रम् । भीष्मापेक्षयाचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपरितोषार्थम् । विकर्णं स्वभ्राता कनीयान। सौमदत्तिं सोमदत्तस्य पुत्रं श्रेष्टत्वाद्भूरिश्रवाम् । जयद्रथं सिन्धुराजम् । “सिन्धुराजस्तथैव च” इति क्वचित्पाठम् । किमेतावन्त एव नायकां ? नेत्याह—अन्ये च शल्यकृतवर्मप्रभृतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुमध्यवसिता इत्यर्थेन त्यक्तजीविता इति । अनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते । एवं स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्तिं शौर्यं युद्धोद्योगो युद्धकौशलं च दर्शितं शूरा इत्यादिविशेषणैम् ॥८९॥

विश्वनाथम् : सौमदत्तिर्भूरिश्रवाम् । त्यक्तजीविता इति जीवितत्यागेनापि यदि मदुपकारं स्यात्, तदा तदपि कर्तुं प्रवृत्ता इत्यर्थम् । वस्तुतस्तु मयैवैते निहतां पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्[गीता ११.३३] इति भगवदुक्तेर्दुर्योधनसरस्वती सत्यमेवाह स्म ॥८९॥

बलदेवम् : भवानिति । भवान्द्रोणम् । विकर्णो मद्भ्राता कनिष्ठम् । सौमदत्तिर्भूरिश्रवाम् । समितिञ्जयं संग्रामविजयीति द्रोणादीनां सप्तानां विशेषणम् । नन्वेतावन्त एव मत्सैन्ये विशिष्टां किन्त्वसङ्ख्येयां सन्तीत्याह अन्ये चेति । बहवो जयद्रथकृतवर्मशल्यप्रभृतयम् । त्यक्तेत्यादि कर्मणि निष्ठा जीवितानि त्यक्तुं कृतनिश्चया इत्यर्थम् । इत्थं च तेषां सर्वेषां मयि स्नेहातिरेकात्शौर्यातिरेकाद्युद्धपाण्डित्याच्च मद्विजयं सिद्ध्येदेवेति द्योत्यते ॥८९॥

(१.१०)

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥

श्रीधरम् : ततं किं? अत आह—अपर्याप्तमित्यादि । तत्तथाभूतैं वीरैर्युक्तमपि भीष्मेणाभिरक्षितमपि अस्माकं बलं सैन्यमपर्याप्तं तैं सह योद्धुमसमर्थं भाति । इदमेतेषां पाण्डवानां बलं भीमाभिरक्षितं सत्पर्याप्तं समर्थं भाति । भीष्मस्योभयपक्षपातित्वातस्मद्बलं पाण्डवसैन्यं प्रत्यसमर्थम् । भीमस्यिकपक्षपातित्वात्पाण्डवानां बलं समर्थम् ॥१०॥

मधुसूदनम् : राजा पुनरपि सैन्यद्वयसाम्यमाशङ्क्य स्वसैन्याधिक्यमावेदयति—अपर्याप्तमनन्तमेकादशाक्षौहिणीपरिमितं भीष्मेण च प्रथितमहिम्ना सूक्ष्मबुद्धिनाभितं सर्वतो रक्षितं तत्तादृशगुणवत्पुरुषाधिष्ठितमस्माकं बलम् । एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितं सप्ताक्षौहिणीमात्रात्मकत्वान्न्यूनम् । भीमेन चातिचपलबुद्धिना रक्षितम्, तस्मादस्माकमेव विजयो भविष्यतीत्यभिप्रायम् ।

अथवा तत्पाण्डवानां बलमपर्याप्तं नालमस्माकमस्मभ्यम् । कीदृशं तत्? भीष्मोऽभिरक्षितोऽस्माभिर्यस्मै यन्निवृत्त्यर्थमित्यर्थम् । तत्पाण्डवबलं भीष्माभिरक्षितं, इदं पुनरस्मदीयं बलमेतेषां पाण्डवानां पर्याप्तं परिभवे समर्थं भीमोऽतिदुर्बलहृदयोऽभिरक्षितो यस्मै तदस्माकं बलं भीमाभिरक्षितं यस्माद्भीमोऽत्ययोग्य एवैतन्निवृत्त्यर्थं तै रक्षितम्, तस्मादस्माकं न किंचिदपि भयकारणमस्तीत्यभिप्रायम् । एवं चेन्निर्भयोऽसि तर्हि किमिति बहु जल्पसीत्यत आह । कर्तव्यविशेषद्योती तुशब्दम् ॥१०॥

विश्वनाथम् : अपर्याप्तमपरिपूर्णम् । पाण्डवैं सह योद्धुमक्षममित्यर्थम् । भीष्मेणातिसूक्ष्मबुद्धिना शस्त्रशास्त्रप्रवीणेनाभितो रक्षितमपि भीष्मस्योभयपक्षपातित्वात। एतेषां पाण्डवानां तु भीमेन स्थूलबुद्धिना शस्त्रशास्त्रानभिज्ञोऽपि रक्षितं पर्याप्तं परिपूर्णम् । अस्माभिं सह युद्धे प्रवीणमित्यर्थम् ॥१०॥

बलदेवम् : नन्वुभयों सैन्ययोस्तौल्यात्तवैव विजयं कथमित्याशङ्क्य स्वसैन्याधिक्यमाह अपर्याप्तमिति । अपर्याप्तमपरिमितमस्माकं बलम् । तत्रापि भीष्मेण महाबुद्धिमतातिरथेनाभिरक्षितम् । एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितम् । तत्रापि भीमेन तुच्छबुद्धिनार्धरथेनाभिरक्षितम् । अतं सिद्धविजयोऽहम् ॥१०॥

(१.११)

अयनेषु च सर्वेषु यथाभागमवस्थिताम् ।
भीष्ममेवाभिरक्षन्तु भवन्तं सर्व एव हि ॥

विश्वनाथम् : तस्माद्युष्माभिं सावधानैर्भवितुव्यमित्याह अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यैवावस्थिता भवन्तो भीष्ममेवाभितस्तथा रक्षन्तु यथान्यैर्युध्यमानोऽयं पृष्ठतं कैश्चिन्न हन्यते । भीष्मबलेनैवास्माकं जीवितमिति भावम् ॥११॥

मधुसूदनम् : समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि यानि नियम्यन्ते तान्यत्रायनान्युच्यन्ते । सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति । तत्रैवं सति यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थितां सन्तो भवन्तं सर्वेऽपि युद्धाभिनिवेशात्पुरतं पृष्ठतं पार्श्वतश्चानिरीक्षमाणं भीष्मं सेनापतिमेव रक्षन्तु । भीष्मे हि सेनापतौ रक्षिते तत्प्रसादादेव सर्वं सुरक्षितं भविष्यतीत्यभिप्रायम् ॥११॥

बलदेवम् : अथैवं मदुक्तिभावं विज्ञायाचार्यश्चेदुदासीत तदा मत्कार्यक्षतिरिति विभाव्य तस्मिन्स्वकार्यभारमर्पयन्नाह अयनेष्विति । अयनेषु सैन्यप्रवेशवर्त्मसु यथाभागं विभक्तां स्वां स्वां युद्धभूमिमपरित्यज्यावस्थिता भवन्तो भवदादयो भीष्ममे एवाभितो रक्षन्तु युद्धाभिनिवेशात्पार्श्वतं पृष्ठतश्चापश्यन्तं तं यथान्यो न विहन्यात्तथा कुर्वन्त्वित्यर्थम् । सेनापतौ भीष्मे निर्बोधे मद्विजयसिद्धिरिति भावम् ।

अयमाशयम्—भीष्मोऽस्माकं पित्यामहम् । भवांस्तु गुरुम् । तौ युवामस्मदेकान्तहितैषिणौ विदितौ । यावक्षसदसि मदन्यायं विदन्तावपि द्रौपद्या न्यायं पृष्टौ नावोचतां मया तु पाण्डवेषु प्रतीतं स्नेहाभासं त्याजयितुं तथा निवेदितमिति ॥११॥

(१.१२)

तस्य संजनयन्हर्षं कुरुवृद्धं पितामहम् ।
सिंहनादं विनद्योच्चैं शङ्खं दध्मौ प्रतापवान॥

श्रीधरम् : तदेवं बहुमानयुक्तं राजवाक्यं श्रुत्वा भीष्मं किं कृतवान। तदाह तस्येत्यादि । तस्य राज्ञो हर्षं कुर्वन्पितामहो भीष्म उच्चैर्महान्तं सिंहनादं विनद्य कृत्वा शङ्खं दध्मौ वादितवान॥१२॥

मधुसूदनम् : स्तौतु वा निन्दतु वा एतदर्थे देहं पतिष्यत्येवेत्याशयेन तं हर्षयन्नेव सिंहनादं विनद्य शङ्खवाद्यं च कारितवानित्याह—तस्येति । एवं पाण्डवसैन्यदर्शनादतिभितस्य भयनिवृत्त्यर्थमाचार्यं कपटेन शरणं गतस्य इदानीमप्ययं मां प्रतारयतीत्यसन्तोषवशादाचार्येण वाङ्मात्रेणाप्यनादृतस्याचार्योपेक्षां बुद्ध्वा, अयनेष्वित्यादिना भीष्म एव स्तुवतस्तस्य राज्ञो भयनिवर्तकं हर्षं बुद्धिगतमुल्लासविशेषं स्वविजयसूचकं जनयन्नुच्चैर्महान्तं सिंहनादं विनद्य कृत्वा । यद्वा, सिंहनादमिति णमुलन्तम् । अतो रैपोषं पुष्यतीतिवत्तस्यैव धातों पुनं प्रयोगम् । शङ्खं दध्मौ वादितवान। कुरुवृद्धत्वादाचार्यदुर्योधनयोरभिप्रायपरिज्ञानं पितामहत्वादनुपेक्षणं, न त्वाचार्यवदुपेक्षणं, प्रतापवत्त्वादुच्चैं सिंहनादपूर्वकशङ्खवादनं परेषां भयोत्पादनाय । अत्र सिंहनादशङ्खवाद्ययोर्हर्षजनकत्वेन पूर्वापरकालत्वेऽप्यभिचरन्यजेतेतिवज्जनयन्निति शतावश्यंभावित्वरूपवर्तमानत्वे व्याख्यातव्यम् ॥१२॥

विश्वनाथम् : ततश्च स्वसंमानश्रवणजनितहर्षस्तस्य दुर्योधनस्य भवविध्वंसनेन हर्षं सञनयितुं कुरुवृद्धो भीष्मं सिंहनादमिति उपमाने कर्मणि चेति णमुल्सिंह इव विनद्येत्यर्थम् ॥१२॥

बलदेवम् : एवं दुर्योधनकृतां स्वस्तुतिमवधार्य सहर्षो भीष्मस्तदन्तर्जातां भीतिमुत्सादयितुं शङ्खं दध्मावित्याह । सिंहनादमित्युपमाने कर्मणि चेति पाणिनिसूत्रात्णमुल। चात्कर्तर्युपमाने इत्यर्थम् । सिंह इव विनद्येत्यर्थम् । मुखतं किञ्चिदनुक्त्वा शङ्खनादमात्रकरणेन जयपराजयौ खल्वीश्वराधीनौ त्वदर्थे क्षत्रधर्मेण देहं त्यक्ष्यामीति व्यज्यते ॥१२॥

(१.१३)

ततं शङ्खाश्च भेर्यश्च पणवानकगोमुखाम् ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत॥१३॥

श्रीधरम् : तदेवं सेनापतें भीष्मस्य युद्धोत्सवमालोक्य सर्वतो युद्धोत्सवं प्रवृत्त इयाह तत इत्यादिना । पणवा मार्दलाम् । आनकां गोमुखाश्च वाद्यविशेषाम् । सहसा तत्क्षणमेवाभ्यहन्यन्त वादिताम् । स च शङ्खादिशब्दस्तुमुलो महानभूत॥१३॥

मधुसूदनम् : ततो भीष्मस्य सेनापतें प्रवृत्त्यनन्तरं पणवा आनका गोमुखाश्च वाद्यविशेषां सहसा तत्क्षणमेवाभ्यहन्यन्त वादिताम् । कर्मकर्तरि प्रयोगम् । स शब्दस्तुमुलो महानासीत्, तथापि न पाण्डवानां क्षोभो जात इत्यभिप्रायम् ॥१३॥

विश्वनाथम् : ततश्चोभयत्रैव युद्धोत्साहं प्रवृत्त इत्याह तत इति । पणवा मार्दलाम् । आनकां पटहाम् । गोमुखा वाद्यविशेषाम् ॥१३॥

बलदेवम् : तत इति । सेनापतौ भीष्मे प्रवृत्ते तत्सैन्ये सहसा तत्क्षणमेव शङ्खादयोऽभ्यहन्यन्त वादिताम् । कर्मकर्तरि प्रयोगम् । पणवादयस्त्रयो वादित्रभेदाम् । स शब्दस्तुमुल एकाकारतया महानासीत॥१३॥

(१.१४)

ततं श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवं पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुम् ॥

श्रीधरम् : ततं पाण्डवसैन्ये प्रवृत्तं युद्धोत्साहमाह तत इत्यादिभिं पञ्चभिम् । ततं कौरवसैन्यवाद्यकोलाहलानन्तरं महति स्यन्दने रथे स्थितौ सन्तौ श्रीकृष्णार्जुनौ दिव्यौ शङ्खौ प्रकर्षेण दध्मतुर्वादयामासतुम् । ॥१४॥

मधुसूदनम् : अन्येषामपि रथस्थत्वे स्थित एवासाधारण्येन रथोत्कर्षकथनार्थम् । ततं श्वेतैर्हयैर्युक्त इत्यादिना रथस्थत्वकथनम् । तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ । सर्वथा जेतुमशक्यावित्यर्थम् ॥१४॥

विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : अथ पाण्डवसैन्ये प्रवृत्तं युद्धोसवमाह तत इति । अन्येषामपि रथस्थितत्वे सत्यपि कृष्णार्जुनयों रथस्थितत्वोक्तिस्तद्रथस्याग्निदत्तत्वं त्रैलोक्यविजेतृत्वं महाप्रभवत्वं च व्यज्यते ॥१४॥

(१.१५१८)

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयम् ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरम् ॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरम् ।
नकुलं सहदेवश्च सुघोषमणिपुष्पकौ ॥
काश्यश्च परमेष्वासं शिखण्डी च महारथम् ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितम् ॥
द्रुपदो द्रौपदेयाश्च सर्वशं पृथिवीपते ।
सौभद्रश्च महाबाहुं शङ्खान्दध्मुं पृथक्पृथक॥

श्रीधरम् : तदेव विभागेन दर्शयन्नाह पाञ्चजन्यमिति । पाञ्चजन्यादीनि नामानि श्रीकृष्णादिशङ्खानाम् । भीमं घोरं कर्म यस्य सम् । वृकवतुदरं यस्य स वृकोदरो महाशङ्खं पौण्ड्रं दध्माविति । अनन्तेति । नकुलं सुघोषं नाम शङ्खं दध्मौ । सहदेवो मणिपुष्पकं नाम । काश्यश्चेति । काश्यं काशिराजम् । कथम्भूतम् । परमं श्रेष्ठमिष्वासो धनुर्यस्य सम् । द्रुपद इति । हे पृथिवीपते धृतराष्ट्र ॥१५१८॥

मधुसूदनम् : पाञ्चजन्यो देवदत्तं पौण्ड्रोऽनन्तविजयं सुघोषो मणिपुष्पकश्चेति शङ्खनामकथनम्, परसैन्ये स्वस्वनामभिं प्रसिद्धा एतावन्तं शङ्खां भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धं शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम् । सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायं पाण्डवानामिति कथयितुं हृषीकेशपदम् । दिग्विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम् । भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशं वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम् । कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धम्, स्वयं च राजसूययाजित्वेन मुख्यो राजा, युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षां स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम् । नकुलं सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते । परमेष्वासं काश्यो महाधनुर्धरं काशिराजम् । न पराजितं पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशं सात्यकिम् । हे पृथिवीपते धृतराष्ट्र ! स्थिरो भूत्वा शृण्वित्यभिप्रायम् । सुगममन्यत॥१५१८॥

विश्वनाथम् : पाञ्चजन्यादयं शङ्खादीनां नामानि । अपराजितं केनापि पराजेतुमशक्यत्वात। अथवा चापेन धनुषा राजितं प्रदीप्तम् ॥१५१८॥

बलदेवम् : पाञ्चजन्यमित्यादि पाञ्चजन्यादयं कृष्णादिशङ्खानामाह्वयाम् । अत्र हृषीकेशशब्देन परमेश्वरसहायित्वम् । पाञ्चजन्यादिशब्दैं प्रसिद्धाह्वयानेकदिव्यशङ्खवत्त्वम् । राजा भीमकर्मा धनञ्जय इत्येभिर्युधिष्ठिरादीनां राजसूययाजित्वहिडिम्बादिनिहन्तृत्वदिग्विजयाहृतानन्तधनत्वानि च व्यज्य पाण्डवसेनासूत्कर्षं सूच्यते । परसेनासु तदभावादपकर्षश्च । काश्य इति । काश्यं काशिराजम् । परमेष्वासं महाधुर्धरम् । चापराजितो धनुषा दीप्तम् । द्रुपद इति । पृथिवीपते हे धृतराष्ट्रेति तव दुर्मन्त्रणोदयं कुलक्षयलक्षणोऽ नर्थं समासत इति सूच्यते ॥१५१८॥

(१.१९)

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन॥

श्रीधरम् :  स च शङ्खानां नादस्त्वदीयानां महाभयं जनयामासेत्याह स घोष इत्यादि । धार्तराष्ट्राणां त्वदीयानां हृण्डयाणि व्यदारयत्विदारितवान। किं कुर्वन। नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन्प्रतिध्वनिभिरपूर्यन॥१९॥

मधुसूदनम् : धार्तराष्ट्राणां सैन्ये शङ्खादिध्वनिरतितुमुलोऽपि न पाण्डावानां क्षोभकोऽभूत्, पाण्डवानां सैन्ये जातस्तु स शङ्खघोषो धार्तराष्ट्राणां धृतराष्ट्रस्य तव सम्बन्धिनां सर्वेषां भीष्मद्रोणादीनामपि हृदयानि व्यदारयत। हृदयविदारणतुल्यां व्यथां जनितवानित्यर्थम् । यतस्तुमुलस्तीव्रम् । नभश्च पृथिवीं च प्रतिध्वनिभिरापूरयन॥१९॥

विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : स इति । पाण्डवैं कृतं शङ्खनादो धार्तराष्ट्राणां भीष्मादीनां सर्वेषां हृण्डयाणि व्यदारयत। तद्विदारणतुल्यां पीडामजनयदित्यर्थम् । तुमुलोऽतितीव्रमभ्यनुनादयन्प्रतिध्वनिभिं प्ûर्यन्नित्यर्थम् । धार्तराष्ट्रैं कृतस्तु शङ्खादिनादस्तुमुलोऽपि तेषां किञ्चिदपि क्षोभं नाजनयत्तथानुक्तेरिति बोध्यम् ॥१९॥

(१.२०)

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजम् ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवम् ॥२०॥

श्रीधरम् :  एतस्मिन्समये श्रीकृष्णमर्जुनो विज्ञापयामासेत्याह अथ इत्यादिभिं चतुर्भिं श्लोकैम् । अथेति अथानन्तरं व्यवस्थितान्युद्धोद्योगेन स्थितान। कपिध्वजोऽर्जुनम् ॥२०॥

मधुसूदनम् : धार्तराष्ट्राणां भयप्राप्तिं प्रदर्श्य पाण्डवानां तद्वैपरीत्यमुदाहरति—अथेत्यादिना ॥२०॥
 
विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : एवं धार्तराष्ट्राणां युद्धे भीतिं प्रदर्श्य पाण्डवानां तु तत्रोत्साहमाह अथेति सार्धकेन । अथ रिपुशङ्खनादकृतोत्साहभङ्गानन्तरं व्यवस्थितान्तद्भङ्गविरोधियुयुत्सयावस्थितान्धार्तराष्ट्रान्भीष्मादीन्कपिध्वजोऽर्जुनो येन श्रीदाशरथेरपि महान्ति कार्यानि पुरा साधितानि तेन महावीरेण ध्वजमधितिष्ञ्हिता हनुमतानुगृहीतो भयगन्धशून्य इत्यर्थम् । हे महीपते प्रवृत्ते प्रवर्तमाने । हृषीकेशमिति हृषीकेशं सर्वेन्द्रियप्रवर्तकं कृष्णं तदिदं वाक्यमुवाचेति । सर्वेश्वरो हरिर्येषां नियोज्यस्तेषां तदेकान्तभक्तानां पाण्डवानां विजये सन्देहगन्धोऽपि नेति भावम् ॥२०॥

(१.२१२३)

हृषीकेशं तदा वाक्यमिदमाह महीपते ।
 सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताम् ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवम् ॥

श्रीधरम् :  तदेव वाक्यमाह सेनयोरुभयोरित्यादि । यावदेतानिति । ननु त्वं योद्धा न तु युद्धप्रेक्षकस्तत्राह कैर्मयेत्यादि । कैं सह मया योद्धव्यम् । योत्स्यमानानिति धार्तराष्ट्रस्य दुर्योधनस्य प्रियं कर्तुमिच्छन्तो ये इह समागतां तानहं द्रक्ष्यामि यावत। तावदुभयों सेनयोर्मध्ये मे रथं स्थापयेत्यन्वयम् ॥२१२३॥

मधुसूदनम् : भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि तद्विरुद्धतया युद्धोद्योगेनावस्थितानेव परान्प्रत्यक्षेणोपलभ्य तदा शस्त्रसम्पाते प्रवर्तमाने सति । वर्तमाने क्तम् । कपिध्वजं पाण्डवो हनूमता महावीरेण ध्वजरूपतयानुगृहीतोऽर्जुनं सर्वथा भयशून्यत्वेन युद्धाय गाण्डीवं धनुरुद्यम्य हृषीकेशमिन्द्रियप्रवर्तकत्वेन सर्वान्तम्करणवृत्तिज्ञं श्रीकृष्णमिदं वक्ष्यमाणं वाक्यमाहोक्तवान्न त्वविमृश्यकारितया स्वयमेव यत्किंचित्कृतवानीति परेषां विमृश्यकारित्वेन नीतिधर्मयों कौशलं वदन्नविमृश्यकारितया परेषां राज्यं गृहीतवानसीति नीतिधर्मयोरभावत्तव जयो नास्तीति महीपते इति सम्बोधनेन सूचयति ।

तदेवार्जुनवाक्यमवतारयति—सेनयोरुभयों स्वपक्षप्रतिपक्षभूतयों संनिहितयोर्मध्ये मम रथं स्थापय स्थिरीकुर्विति सर्वेश्वरो नियुज्यतेऽर्जुनेन । किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठतीति ध्रुवो जयं पाण्डवानामिति ।

नन्वेवं रथं स्थापयन्तं मामेते शत्रवो रथाच्च्यावयिष्यन्तीति भगवदाशङ्कामाशङ्क्याह—अच्युत इति । देशकालवस्तुष्वच्युतं त्वां को वा च्यावयितुमर्हतीति भावम् । एतेन सर्वदा निर्विकारत्वेन नियोगनिमित्तं कोपोऽपि परिहृतम् ॥२१॥

मध्ये रथस्थापनप्रयोजनमाह—योद्धुकामान्, न त्वस्माभिं सह सन्धिकामान। अवस्थितान्, न तु भयात्प्रचलितानेतान्भीष्मद्रोणादीन्यावद्गत्वाहं निरीक्षितुं क्षमं स्याम् । तावत्प्रदेशे रथं स्थापयेत्यर्थम् । यावदिति कालपरं वा ।

ननु त्वं योद्धा, न तु युद्धप्रेक्षकोऽतस्तव किमेषां दर्शनेनेत्यत्राह—कैरिति । अस्मिन्रणसमुद्यमे बन्धूनामेव परस्परं युद्धोद्योगे मया कैं सह योद्धव्यं मत्कर्तृकयुद्धप्रतियोगिनं के ? कैर्मया सह योद्धव्यं ? किंकर्तृकयुद्धप्रतियोग्यहमिति च महदिदं कौतुकमेतज्ज्ञानमेव मध्ये रथस्थापनप्रयोजनमित्यर्थम् ॥२२॥

ननु बन्धव एव एते परस्परं सन्धिं कारयिष्यन्तीति कुतो युद्धं ? इत्याशङ्क्याह—य एते भीष्मद्रोणादयो धार्तराष्ट्रस्य दुर्योधनस्य दुर्बुद्धें स्वरक्षणोपायमजानतं प्रियचिकीर्षवो युद्धे, न तु दुर्बुद्ध्यपनयनादौ तान्योत्स्यमानानहमवेक्षे उपलभे, न तु सन्धिकामान। अतो युद्धाय तत्प्रतियोग्यवलोकनमुचितमेवेति भावम् ॥२३॥

विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : अर्जुनवाक्यमाह सेनयोरिति । हे अच्युतेदि स्वभावसिद्धाद्भक्तवात्सल्यात्पारमैश्वर्याच्च न च्यवसे स्मेति तेन तेन च नियन्तिर्तो भक्तस्य मे वाक्य्âत्तत्र रथं स्थितं कुरु निर्भय तत्र रथस्थापने फलमाह यावदिति । योद्धुकामान्न तु सहास्माभिं सन्धिं चिकीर्षून। अवस्थितान्न तु भीत्या प्रचलितान।

ननु त्वं योद्धा, न तु युद्धप्रेक्षकस्ततस्तद्दर्शनेन किमिति चेत्तत्राह कैरिति । अस्मिन्बन्धूनामेव मिथो रणोद्योगे कैर्बन्धुभिं सह मम युद्धं भावीत्येतज्ज्ञानायैवा मध्ये रथस्थापनमिति ।

ननु बन्धुत्वादीत्सन्धिमेव विधात्स्यन्तीति चेत्तत्राह योत्स्यमानानिति न तु सन्धिं विधास्यतम् । अवेक्षे प्रत्येमि । दुर्बुद्धें कुधियं स्वजीवनोपायानभिज्ञस्य युद्धे न तु दुर्बुद्ध्यपनयने । अतो मद्युद्धप्रतियोगिनिरीक्षणं युक्तमिति ॥२१२३॥

(१.२४२५)

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥
भीष्मद्रोणप्रमुखतं सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥

श्रीधरम् : ततं किं वृत्तम् । इत्यपेक्षायां सञ्जय उवाच एवमुक्त इत्यादि । उडाका निद्रा तस्य ईशेन जितनिद्रेण अर्जुनेन एवमुक्तं सन। हे भारत, हे धृतराष्ट्र सेनयोर्मध्ये रथानामुत्तमं रथं हृषीकेशं स्थापितवान। भीष्मद्रोण इति महीक्षितां राज्ञां च प्रमुखतं सम्मुखे रथं स्थापयित्वा । हे पार्थ एतान्कुरून्पश्येति श्रीभगवानुवाच— ॥२४२५॥

मधुसूदनम् : एवमर्जुनेन प्रेरितो भगवानहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात्तं व्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमालक्ष्य तन्निराचिकीर्षुं सञ्जयो धृतराष्ट्रं प्रत्युक्तवानित्याह वैशम्पायनम् । हे भारत धृतराष्ट्र, भरतवंशमर्यादामनुसन्धायापि द्रोहं परित्यज ज्ञातीनामिति सम्बोधनाभिप्रायम् । गुडाकाया निद्राया ईशेन जितनिद्रतया सर्वत्र सावधानेनार्जुनेनैवमुक्तो भगवानयं मद्भृत्योऽपि सारथ्ये मां नियोजयतीति दोषमासज्य नाकुप्यत्, न वा तं युद्धान्न्यवर्तयत्, किन्तु सेनयोरुभयोर्मध्ये भीष्मद्रोणप्रमुखतं तयों प्रमुखे संमुखे सर्वेषां महीक्षितां च संमुखे । आद्यादित्वात्सार्वविभक्तिकस्तसिम् । चकारेण समासनिविष्टोऽपि प्रमुखतं शब्द आकृष्यते । भीष्मद्रोणयों पृथक्कीर्तनमतिप्राधान्यसूचनाय । रथोत्तममग्निना दत्तं दिव्यं रथं भगवता स्वयमेव सारथ्येनाधिष्ठिततया च सर्वोत्तमं स्थापयित्वा हृषीकेशं सर्वेषां निगूढाभिप्रायज्ञो भगवानर्जुनस्य शोकमोहावुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच ।

हे पार्थ, पृथायां स्त्रीस्वभावेन शोकमोहग्रस्ततया तत्सम्बन्धिनस्तवापि तद्वत्ता समुपस्थितेति सूचयन्हृषीकेशत्वमात्मनो दर्शयति । पृथा मम पितुं स्वसा तस्यां पुत्रोऽसीति सम्बन्धोल्लेखेन चाश्वासयति । मम सारथ्ये निश्चितो भूत्वा सर्वानपि समवेतान्कुरून्युयुत्सून्पश्य निम्शङ्कतयेति दर्शनविध्यभिप्रायम् । अहं सारथ्येऽतिसावधानस्त्वं तु साम्प्रतमेव रथित्वं लक्ष्यसीति किं तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतो वाक्यम्, अन्यथा रथं सेनयोर्मध्ये स्थापयामासेत्येतावन्मात्रं ब्रूयात॥२४२५॥

विश्वनाथम् : हृषीकेशं सर्वेन्द्रियनियन्ताप्येवमुक्तोऽर्जुनेनादिष्टम् । अर्जुनवागिन्द्रियमात्रेणापि नियम्योऽभूदित्यहो प्रेमवश्यत्वं भगवत इति भावम् । गुडाकेशेन गुडा यथा माधुर्यमात्रप्रकाशकास्तत्तथा स्वीयस्नेहरसास्वादप्रकाशका अकेशा विष्णुब्रह्मशिवा यस्य तेन अकारो विष्णुं को ब्रह्मा ईशो महादेवम् । यत्र सर्वावतारिचूडामणीन्द्रं स्वयं भगवान्श्रीकृष्ण एव प्रेमाधीनं सन्नाज्ञानुवर्ती बभूव । तत्र गुणावतारत्वात्तदंशां विष्णुब्रह्मरुद्रां कथमैश्वर्यं प्रकाशयन्तु । किन्तु स्वकर्तृकं स्नेहरसं प्रकाश्यैव स्वं स्वं कृतार्थं मन्यन्त इत्यर्थम् । यदुक्तं श्रीभगवता परव्योमनाथेनापि द्विजात्ममजा मे युवयोर्दिदृक्षुणा [भा.पु. १०.८९.५९] इति ।

यद्वा, गुडाको निद्रा तस्या ईशेन जितनिद्रेनेत्यर्थम् । अत्रापि व्याख्यायां साक्षान्मायाया अपि नियन्ता यं श्रीकृष्णं स चापि येन प्रेम्णा विजित्य वशीकृतस्तेनार्जुनेन मायावृत्तिर्निद्रा वराकी जितेति किं चित्रमिति भावम् । भीष्मद्रोणयों प्रमुखतं प्रमुखे सम्मुखे सर्वेषां महीक्षितां राज्ञां च । प्रमुखतमिति समासप्रविष्टेऽपि प्रमुखतम्शब्द आकृष्यते ॥२४२५॥

बलदेवम् : ततं किं वृत्तमित्यपेक्षायां सञ्जयं प्राह एवमिति । गुडाका निद्रा तस्या ईशं स्वसखश्रीभगवद्गुणलावण्यस्मृतिनिवेशेन विजितनिद्रस्तत्परमभक्तस्तेनार्जुनेनैवमुक्तं प्रवर्तितो हृषीकेशस्तच्चित्तवृत्त्यभिज्ञो भगवान्सेनयोर्मध्ये भीष्मद्रोणयों सर्वेषां च महीक्षितां भूभुजां च प्रमुखतं सम्मुखे रथोत्तममग्निदत्तं रथं स्थापयित्वोवाच हे पार्थ समवेतानेतान्कुरून्पश्येति । पार्थहृषीकेशशब्दाभ्यामिदं सूच्यते मतिपितृस्वसृपुत्रत्वात्त्वत्सारथ्यमहं करिष्याम्येव त्वं त्वधुनैव युयुत्सां त्यक्ष्यसीति किं शत्रुसैन्यवीक्षणेनेति सोपहासो भावम् ॥२४२५॥

(१.२६)

तत्रापश्यत्स्थितान्पार्थं पित्èनथ पितामहान।
आचार्यान्मातुलान्भ्रात्èन्पुत्रान्पौत्रान्सखींस्तथा ॥
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥

श्रीधरम् : ततं किं प्रवृत्तमित्याह तत्रेत्यादि । पित्èन्पितृव्यानित्यर्थम् । पुत्रान्पौत्रानिति दुर्योधनादीनां ये पुत्रां पौत्राश्च तानित्यर्थम् । सखीन्मित्राणि । सुहृदं कृतोपकारांश्च अपश्यत॥२६॥

मधुसूदनम् : तत्र समरसमारम्भार्थं सैन्यदर्शने भगवताभ्यनुज्ञाते सति, सेनयोरुभयोरपि स्थितान्पार्थोऽपश्यदित्यन्वयम् । अथशब्दस्तथाशब्दपर्यायम् । परसेनायां पित्èन्पितृव्यान्भूरिश्रवम्प्रभृतीन्, पितामहान्भीष्मसोमदत्तप्रभृतीन्, आचार्यान्द्रोणकृपप्रभृतीन्, मातुलाञ् शल्यशकुनिप्रभृतीन्, भ्रात्èन्दुर्योधनप्रभृतीन्, पुत्रान्लक्ष्मणप्रभृतीन्, पौत्रान्लक्ष्मणादिपुत्रान्, सखीनश्वत्थामजयद्रथप्रभृतीन्वयस्यान्, श्वशुरान्भार्याणां जनयित्èन्, सुहृदो मित्राणि कृतवर्मभगदत्तप्रभृतीन। सुहृद इत्यनेन यावन्तं कृतोपकारा मातामहादयश्च ते द्रष्टव्याम् । एवं स्वसेनायामप्युपलक्षणीयम् ॥२६॥

विश्वनाथम् : दुर्योधनादीनां ये पुत्रां पौत्राश्च तान॥२६॥
 
बलदेवम् : एवं भगवतोक्तोऽर्जुनं परसेनामपश्यदित्याह तत्रेति सार्धकेन । तत्र परसेनायां पित्èन्पितृव्यान्भूरिश्रवम्प्रभृतीन्, पितामहान्भीष्मसोमदत्तादीन्, आचार्यान्द्रोणकृपादीन्, मातुलान्शल्यशकुन्यादीन्, भ्रात्èन्दुर्योधनादीन्, पुत्रान्लक्ष्मणादीन्, पौत्रान्नप्त्èन्, लक्ष्मणादिपुत्रान्, सखीन्वयस्यान्द्रौणिसैन्धवादीन्, सुहृदं कृतवर्मभगदत्तादीन। एवं स्वसैन्येऽप्युपलक्षणीयम् । उभयोरपि सेनयोरवस्थितान्तान्सर्वान्समीक्ष्येत्यन्वयात॥२६॥

(१.२७)

तान्समीक्ष्य स कौन्तेयं सर्वान्बन्धूनवस्थितान।
कृपया परयाविष्टो विषीदन्निदमब्रवीत॥

श्रीधरम् : ततं किं कृतवानित्याह तानिति । सेनयोरुभयोरेवं समीक्ष्य कृपया महत्या आविष्टं विषण्णं सनिदमर्जुनोऽब्रवीत। इत्युत्तरस्य अर्धश्लोकस्य वाक्यार्थम् । आविष्टो व्याप्तम् ॥२७॥

मधुसूदनम् : एवं स्थिते “महानधर्मो हिंसा” इति विपरीतबुद्ध्या मोहाख्यया शास्त्रविहितत्वेन धर्मत्वमिति ज्ञानप्रतिबन्धकेन च ममकारनिबन्धनेन चित्तवैकल्व्येन शोकमोहाख्येनाभिभूतविवेकस्यार्जुनस्य पूर्वमारब्धाद्युद्धाख्यात्स्वधर्मादुपरिरंसा महानर्थपर्यवसायिनी प्रवृत्तेति दर्शयति—तानिति ।

कौन्तेय इति स्त्रीप्रभत्वकीर्तनं पार्थवत्तात्त्विकमूढतामपेक्ष्य कर्त्र्या स्वव्यापारेणैवाविष्टो व्याप्तम्, न तु कृपां केनचिद्व्यापारेणाविष्ट इति स्वतम्सिद्धैवास्य कृपेति सूच्यते । एतत्प्रकटीकरणाय परयेति विशेषणम् । अपरयेति वा छेदम् । स्वसैन्ये पुरापि कृपाभूदेव तस्मिन्समये तु कौरवसैन्येऽप्यपरा कृपाभूदित्यर्थम् । विषीदन्विषादमुपतापं प्राप्नुवन्नब्रवीदित्युक्तिविषादयों समकालतां वदन्सगद्गदकण्ठताश्रुपातादि विषादकार्यमुक्तिकाले द्योतयति ॥२७॥

विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : अथ सर्वेश्वरो दयालुं कृष्णं सपरिकरात्मोपदेशेन विश्वमुद्दिधीर्षुरर्जुनं शिष्यं कर्तुं तत्स्वधर्मेऽपि युद्धे मा हिंस्यात्सर्वभूतानि इति श्रुत्यर्थाभासेनाधर्मतामाभास्य तं संमोहं कृतवानित्याह तान्समीक्ष्यते कौन्तेय इति स्वीयपितृस्वसृपुत्रत्वोक्त्या तद्धर्मो मोहशोकौ तदा तस्य व्यज्येते । कृपया कर्त्र्या इत्युक्तेम् । स्वभावसिद्धस्य कृपेति द्योत्स्यते । अतं परयेति तद्विशेषणम् । अपरयेति वा च्छेदं स्वसैन्ये पूर्वमपि कृपास्ति परसैन्ये त्वपरापि साभूदित्यर्थम् । विषीदन्ननुतापं विन्दन। अत्रोक्तिविषादयोरैककाल्याद्युक्तिकाले विषादकार्याण्यश्रुकम्पसन्नकण्ठादीनि व्यज्यते ॥२७॥

(१.२८२९)

अर्जुन उवाच——
दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सुं समुपस्थितम् ।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ।
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ॥

श्रीधरम् : किमब्रवीदित्यपेक्षायामाह दृष्ट्वेमानित्यादि यावदध्यायसमाप्ति । हे कृष्ण योद्धुमिच्छतं पुरतं समवस्थितान्स्वजनान्बन्धुजनान्दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते । किं च वेपथुश्चेत्यादि । वेपथुं कम्पम् । रोमहर्षं रोमाञ्चम् । स्रंसते निपतति । परिदह्यते सर्वतं सन्तप्यते ॥२८२९॥

मधुसूदनम् : तदेव भगवन्तं प्रत्यर्जुनवाक्यमवतारयति सञ्जयम्—अर्जुन उवाचेत्यादिना एवमुक्त्वार्जुनं संख्ये इत्यतं प्राक्तनेन ग्रन्थेन । तत्र स्वधर्मप्रवृत्तिकारणीभूततत्त्वज्ञानप्रतिबन्धकं स्वपरदेहे आत्मात्मीयाभिमानवतोऽनात्मविदोऽर्जुनस्य युद्धेन स्वपरदेहविनाशप्रसङ्गदर्शिनं शोको महानासीदिति तल्लिङ्गकथनेन दर्शयति त्रिभिं श्लोकैम् ।

इमं स्वजनमात्मीयं बन्धुवर्गं युद्धेच्छुं युद्धभूमौ चोपस्थितं दृष्ट्वा स्थितस्य मम । पश्यतो ममेत्यर्थम् । अङ्गानि व्यथन्ते मुखं च परिशुष्यतीति श्रमादिनिमित्तशोकापेक्षयातिशयकथनाय सर्वतोभाववाचिपरिशब्दप्रयोगम् ॥२८॥

वेपथुं कम्पम् । रोमहर्षं पुलकितत्वम् । गाण्डीवभ्रंशेनाधैर्यलक्षणं दौर्बल्यम् । त्वक्परिदाहेन चान्तम्सन्तापो दर्शितम् ॥२९॥

विश्वनाथम् : दृष्ट्वेत्यत्र स्थितस्येत्यध्याहार्यम् ॥२८२९॥

बलदेवम् : कौन्तेयं शोकव्याकुलं यदाह तदनुवदति दृष्ट्वेममिति । स्वजनं स्वबन्धुवर्गं जातावेकवचनं सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनां समामित्यमरम् । दृष्ट्वासव्थितस्य मम गात्राणि करचरणादीनि सीदन्ति शीर्यन्ते परिशुष्यतीति श्रमादिहेतुकाच्छोषादतिशयित्वमस्य शोषस्य व्यज्यते । वेपथुं कम्पम् । रोमहर्षं पुलकम् । गाण्डीवभ्रंशेनाधैर्यं त्वग्दाहेन हृद्विदाहो दर्शितम् ॥२८२९॥

(१.३०)

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनम् ।
निमित्तानि च पश्यामि विपरीतानि केशव ॥

श्रीधरम् : अपि च न शक्नोमीत्यादि । विपरीतानि निमित्तानि अनिष्टसूचकानि शकुनानि पश्यामि ॥३०॥

मधुसूदनम् : अवस्थातुं शरीरं धारयितुं च न शक्नोमीत्यनेन मूर्च्छा सूच्यते । तत्र हेतुम्—मम मनो भ्रमतीवेति भ्रमणकर्तृसादृश्यं नाम मनसं कश्चिद्विकारविशेषो मूर्च्छायां पूर्वावस्था । चौ हेतौ । यत एवमतो नावस्थातुं शक्नोमीत्यर्थम् । पुनरप्यवस्थानासामर्थ्ये कारणमाह—निमित्तानि च सूचकतया आसन्नदुम्खस्य विपरीतानि वामनेत्रस्फुरणादीनि पश्याम्यनुभवामि । अतोऽपि नावस्थातुं शक्नोमीत्यर्थम् । अहमनात्मवित्त्वेन दुम्खित्वाच्छोकनिबन्धनं क्लेशमनुभवामि, त्वं तु सदानन्दरूपत्वाच्छोकासंसर्गीति कृष्णपदेन सूचितम् । अतं स्वजनदर्शने तुल्येऽपि शोकासंसर्गित्वलक्षणाद्विशेषात्त्वं मामशोकं कुर्विति भावम् ।

केशवपदेन च तत्करणसामर्थ्यम् । को ब्रह्मा सृष्टिकर्ता, ईशो रूद्रं संहर्ता, तौ वात्यनुकम्प्यतया गच्छतीति तद्व्युत्पत्तेम् । भक्तदुम्खकर्षित्वं वा कृष्णपदेनोक्तम् । केशवपदेन च केश्यादिदुष्टदैत्यनिबर्हणेन सर्वदा भक्तान्पालयसीत्यतो मामपि शोकनिवारणेन पालयिष्यसीति सूचितम् । ॥३०॥

विश्वनाथम् : विपरीतानि निमित्तानि धननिमित्तकोऽयमत्र मे वास इतिवन्निमित्तशब्दोऽयं प्रयोजनवाची । ततश्च युद्धे विजयिनो मम राज्यलाभात्सुखं न भविष्यति, किन्तु तद्विपरीतमनुतापदुम्खमेव भावीत्यर्थम् ॥३०॥

बलदेवम् : अपि चेति अवस्थातुं स्थिरो भवितुं मनो भ्रम्तीव चेति दौर्बल्यमूर्च्छयोरुदयम् । निमित्तानि फलान्यत्र युद्धे विपरीतानि पश्यामि । विजयिनो मे राज्यप्राप्तिरानन्दो न भविष्यति किन्तु तद्विपरीतोऽनुताप एव भावीति । निमित्तशब्दं फलवाची कस्मै निमित्तायात्र वससि इत्यादौ तथा प्रतीतेम् ॥३०॥

(१.३१)

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ।
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥

श्रीधरम् : किं च न चेत्यादि । आहवे युद्धे स्वजनं हत्वा श्रेयं फलं न पश्यामि । विजयादिकं फलं किं न पश्यसीति चेत्तत्राह न काङ्क्ष इति ॥३१॥

मधुसूदनम् : एवं लिङ्गद्वारेण समीचीनप्रवृत्तिहेतुभूततत्त्वज्ञानप्रतिबन्धकीभूतं शोकमुक्त्वा, सम्प्रति तत्कारितां विपरीतप्रवृत्तिहेतुभूतां विपरीतबुद्धिं दर्शयति—न चेति । श्रेयं पुरूषार्थं दृष्टमदृष्टं वा बहुविचारणादनु पश्चादपि न पश्यामि । अस्वजनमपि युद्धे हत्वा श्रेयो न पश्यामि ।

द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखे हतम् ॥

इत्यादिना हतस्यैव श्रेयोविशेषाभिधानाद्धन्तुस्तु न किंचित्सुकृतम् । एवमस्वजनवधेऽपि श्रेयसोऽभावे स्वजनवधे सुतरां तदभाव इति ज्ञापयितुं स्वजनमित्युक्तम् । एवमनाहववधे श्रेयो नास्तीति सिद्धसाधनवारणायाहव इत्युक्तम् ।

ननु मा भूददृष्टं प्रयोजनं दृष्टप्रयोजनमिति तु विजयो राज्यं सुखानि च निर्विवादानीत्याह—न काङ्क्ष इति । फलाकाङ्क्षा ह्युपायप्रवृत्तौ कारणम् । अतस्तदाकाङ्क्षाया अभावात्तदुपाये युद्धे भोजनेच्छाविरहिण इव पाकादौ मम प्रवृत्तिरनुपपन्नेत्यर्थम् ॥३२॥

विश्वनाथम् : श्रेयो न पश्यामीति  ।

द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखे हतम् ॥

इत्यादिना हतस्यैव श्रेयोविधानात। हन्तुस्तु न किमप्सुकृतम् । नन दृष्टं फलं यशो राज्यं वर्तते युद्धस्येत्यत आह न काङ्क्ष इति ॥३१॥

बलदेवम् : एवं तत्त्वज्ञानप्रतिकूलं शोकमुक्त्वा तत्प्रतिकूलां विपरीतबुद्धिमाह न चेति । आहवे स्वजनं हत्वा श्रेयो नैव पश्यामीति ।

द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखे हतम् ॥

इत्यादिना हतस्य श्रेयम्स्मरणात्हन्तुर्मे न किञ्चिच्छ्रेयम् । अस्वजनमिति वा च्छेदमस्वजनवधेऽपि श्रेयसोऽभावात्स्वजनवधे पुनं कुतस्तरां तदित्यर्थम् ।

ननु यशोराज्यलाभो दृष्टं फलमस्तीति चेत्तत्राह न काङ्क्ष इति । राज्यादिस्पृहाविरहादुपाये विजये मम प्रवृत्तिर्न युक्ता, रन्धने यथा भोजनेछाविरहिणम् । तस्मादरण्यनिवसनमेवास्माकं श्लाघ्यजीवनत्वं भावीति ॥३१॥

(१.३२३५)

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।
येषामर्थे काङ्क्षितं नो राज्यं भोगां सुखानि च ॥
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।
आचार्यां पितरं पुत्रास्तथैव च पितामहाम् ॥

मातुलां श्वशुरां पौत्रां श्यालां सम्बन्धिनस्तथा ।
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ॥
अपि त्रैलोक्यराज्यस्य हेतों किं नु महीकृते ।
निहत्य धार्तराष्ट्रान्नं का प्रीतिं स्याज्जनार्दन ॥

श्रीधरम् : एतदेव प्रपञ्चयति—किं नो राज्येन इत्यादि सार्धद्वयेन । त इमे इति । यदर्थमस्माकं राज्यादिकमपेक्षितं ते एते प्राणधनानि त्यक्त्वा त्यागमङ्गीकृत्य युद्धार्थमवस्थिताम् । अतं किमस्माकं राज्यादिभिं कृत्यमित्यर्थम् ।

ननु यदि कृपया त्वमेतान्न हंसि तर्हि त्वामेते राज्यलोभेन हनिष्यन्त्येव । अतस्त्वमेवैतान्हत्वा राज्यं भुङ्क्ष्वेति । तत्राह एतानित्यादि सार्धेन । घ्नतोऽपि अस्मान्मारयतोऽपि एतान। अपीति । त्रैलोक्यराज्यस्यापि हेतों तत्प्राप्त्यर्थमपि हन्तुं नेच्छामि । किं पुनर्महीमात्रप्राप्तय इत्यर्थम् ॥३२३५॥

मधुसूदनम् : कुतं पुनरितरपुरुषैरिष्यमाणेषु तेषु तवानिच्छेत्यत आह—किं न इति । भोगैं सुखैर्जीवितेन जीवतसाधनेन विजयेनेत्यर्थम् । विना राज्यं भोगान्कौरवविजयं च वने विवसतामस्माकं तेनैव जगति श्लाघनीयजीवितानां किमेभिराकाङ्क्षितैरिति भावम् । गोशब्दवाच्यानीन्द्रियाण्यधिष्ठानतया नित्यं प्राप्तत्वमेव ममैहिकफलविरागं जानामीति सूचयन्बोधयति—गोविन्देति ।

राज्यादीनामाक्षेपे हेतुमाह—येषामिति । एतेन स्वस्य वैराग्येऽपि स्वीयानामर्थे यतनीयमित्यपास्तम् । एकाकिनो हि राज्याद्यनपेक्षितमेव । येषां तु बन्धूनामर्थे तदपेक्षितं त एते प्राणान्प्राणाशां धनानि धनाशां च त्यक्त्वा युद्धेऽवस्थिता इति न स्वार्थो वायं प्रयत्न इति भावम् । भोगशब्दं पूर्वत्र सुखपरतया निर्विष्टोऽप्यत्र पृथक्सुखग्रहणात्सुखसाधनविषयपरम् । प्राणधनशब्दौ तु तदाशालक्षकौ । स्वप्राणत्यागेऽपि स्वबन्धूनामुपभोगाय धनाशा सम्भवेदिति तद्वारणाय पृथग्धनग्रहणम् ॥

येषामर्थे राज्याद्यपेक्षितं तेऽत्र नागता इत्याशङ्क्य तान्विशिनष्टि—येषामिति । स्पष्टम् ॥

ननु यदि कृपया त्वमेतान्न हंसि, तर्हि त्वामेते राज्यलोभेन हनिष्यन्त्येव । अतस्त्वमेवैतान्हत्वा राज्यं भुङ्क्ष्व । इत्यत आह—एतान्नेति । त्रैलोक्यराज्यस्यापि हेतों तत्प्राप्त्यर्थमपि, अस्मान्घ्नतोऽप्येतान्न हन्तुमिच्छामि । इच्छामपि न कुर्याम्, अहं किं पुनर्हन्यां ? महीमात्रप्राप्तये तु न हन्यामिति किमु वक्तव्यमित्यर्थम् । मधुसूदनेति सम्बोधयन्वैदिकमार्गप्रवर्तकत्वं भगवतं सूचयति ॥

नन्वन्यान्विहाय धार्तराष्ट्रा एव हन्तव्याम् । तेषामत्यन्तक्रूरतरतत्तद्दुम्खदात्èणां वधे प्रीतिसम्भवादित्यत आह—निहत्येति । धार्तराष्ट्रान्दुर्योधनादीन्भ्रात्èन्निहत्य स्थितानामस्माकं का प्रीतिं स्यात्? न कापीत्यर्थम् । न हि मूढजनोचितक्षणमात्रवर्तिसुखाभासलोभेन चिरतरनरकयातनाहेतुर्बन्धुवधोऽस्माकं युक्त इति भावम् । जनार्दनेति सम्बोधनेन यदि वध्या एते, तर्हि त्वमेवैताञ् जहि, प्रलये सर्वजनहिंसकत्वेऽपि सर्वपापासंसर्गित्वादिति सूचयति ॥३२३५॥

विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : गोविन्देति । गां सर्वेन्द्रियवृत्तीं विन्दसीति त्वमेव मे मनोगतं प्रतीहीत्यर्थम् । राज्याद्यनाकाङ्क्षायां हेतुमाह येषामिति । प्राणान्प्राणाशां धनानि९ धनाशामिति लक्सणया बोध्यम् । स्वप्राणव्ययेऽपि स्वबन्धुसुखार्था राज्यस्पृहा स्यात्तेषामप्यत्र नाशप्राप्तेरपार्थैव युद्धे प्रवृत्तिरिति भावम् ।

ननु त्वं चेत्कारुणिकसेतान्न हन्यास्तर्हि ते स्वराज्यं निष्कण्टकं कर्तुं त्वामेव हन्युरिति चेत्तत्राहेतानिति । मां घ्नतोऽपि हिंसतोऽप्येतान्हन्तुमहं नेच्छामि । त्रैलोक्यराज्यस्य प्राप्तयेऽपि किं पुनर्भूमात्रस्य ।

नन्वन्वयान्हित्वा धृतराष्ट्रपुत्रा एव हन्तव्या, बहुदुम्खदात्èणां तेषां घाते सुखसम्भवादिति चेत्तत्राह निहत्येति । धार्तराष्ट्रान्दुर्योधनादीन्निहत्य स्थितानां नं पाण्डावानां का प्रीतिं प्रसन्नता स्यान्न कापीति अचिरसुखाभासस्पृहया चिरतरनरकहेतुभ्राऋहो न योग्य इति भावम् । हे जनार्दनेति यद्येते हन्तव्यास्तर्हि भूभारापहारी त्वमेव तान्हहि परेशस्य ते पापगन्धसम्बन्धो न भवेदिति व्यज्यते ॥३२३५॥

(१.३६)

पापमेवाश्रयेदस्मान्हत्वैतानाततायिनम् ।
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान।
स्वजनं हि कथं हत्वा सुखिनं स्याम माधव ॥

श्रीधरम् : ननु च,

अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहम् ।
क्षेत्रदारापहारी च षडेते ह्याततायिनम् ॥

इति स्मरणादग्निदाहादिभिं षड्भिर्हेतुभिरेते तावदाततायिनम् । आततायिनां च वधो युक्त एव ।

आततायिनमायान्तं हन्यादेवाविचारयन।
नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥ इति वचनात।

तत्राह—पापमेवेत्यादिसार्धेन । आततायिनमायान्तमित्यादिकमर्थशास्त्रम् । तच्च धर्मशास्त्रात्दुर्बलम् । यथोक्तं याज्ञवल्क्येन,

स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतम् ।
अर्थशास्त्रात्तु बलवान्धर्मशास्त्रमिति स्थितिम् ॥ इति ।

तस्मादाततायिनामप्येतेषामाचार्यादीनां वधेऽस्माकं पापमेव भवेत। अन्याय्यत्वादधर्मत्वाच्चैतद्वधस्य अमुत्र चेह वा न सुखं स्यादित्याह स्वजनमिति ॥३६॥

मधुसूदनम् : ननु,

अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहम् ।
क्षेत्रदारहरश्चैव षडेते ह्याततायिनम् ॥

इति स्मृतेरेतेषां च सर्वप्रकारैराततायित्वात्,

आतताययिनमायान्तं हन्यादेवाविचारयन।
नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥

इति वचनेन दोषाभावप्रतीतेर्हन्तव्या एव दुर्योधनादय आततायिन इत्याशङ्क्याह—पापमेवेति । एतानाततायिनोऽपि हत्वा स्थितानस्मान्पापमाश्रयेदेवेति सम्बन्धम् । अथवा पापमेवाश्रयेन्न किंचिदन्यद्दृष्टमदृष्टं वा प्रयोजनमित्यर्थम् । न हिंस्यातिति धर्मशास्त्रादाततायिनं हन्यातित्यर्थशास्त्रस्य दुर्बलत्वात। तदुक्तं याज्ञवल्क्येन—

स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतम् ।
अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिम् ॥ इति ।

अपरा व्याख्या । ननु धार्ताराष्ट्रान्घ्नतां भवतां प्रीत्यभावेऽपि युष्मान्घ्नतां धार्तराष्ट्राणां प्रीतिरस्त्येवातस्ते युष्मान्हन्युरित्यत आह—पापमेवेति । अस्मान्हत्वा स्थितानेतानाततायिनो धार्ताराष्ट्रान्पूर्वमपि पापिनं साम्प्रतमपि पापमेवाश्रयेन्नान्यत्किंचित्सुखमित्यर्थम् । तथा चायुध्यतोऽस्मान्हत्वैत एव पापिनो भविष्यन्ति, नास्माकं कापि क्षतिं पापासम्बन्धादित्यभिप्रायम् ॥

फलाभावादनर्थसम्भवाच्च परहिंसा न कर्तव्येति । न च श्रेयोऽनुपश्यामि इत्यारभ्योक्तं तदुपसंहरति—तस्मादिति । अदृष्टफलाभावोऽनर्थसम्भवश्च तच्छब्देन परामृश्यते ।

दृष्टसुखाभावमाह—स्वजनं हीति । माधवेति लक्ष्मीपतित्वान्नालक्ष्मीके कर्मणि प्रवर्तयितुमर्हसीति भावम् ॥३६॥

विश्वनाथम् : ननु,
 
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहम् ।
क्षेत्रदारापहारी च षडेते ह्याततायिनम् ॥ इति ।
आततायिनमायान्तं हन्यादेवाविचारयन।
नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥

इत्यादिवचनादेषां वध उचित एवेति । तत्राह पापमिति । एतान्हत्वा स्थितानस्मान। आततायिनमायान्तमित्यादिकमर्थशास्त्रं धर्मशास्त्रात्दुर्बलम् । यदुक्तं याज्ञवल्क्येन अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्मृतमिति । तस्मादाचार्यादीनां वधे पापं स्यादेव । न चैहिकं सुखमपि स्यादित्याह स्वजनमिति ॥३६॥

बलदेवम् : ननु,

अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहम् ।
क्षेत्रदारापहारी च षडेते ह्याततायिनम् ॥
आततायिनमायान्तं हन्यादेवाविचारयन।
नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥

इत्युक्तेरेषां षड्विध्येनाततायिनां युक्तो वध इति चेत्तत्राह पापमिति । एतान्हत्वा स्थितानस्मान्पापमेव बन्धुक्षयहेतुकमाश्रयेत। अयं भावमाततायिनमायान्तमित्यादिकमर्थशास्त्रं मा हिंस्यात्सर्वभूतानि इति धर्मशास्त्रात्दुर्बलम् । अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिम् ॥ इति स्मृतेम् । तस्माद्दुर्बलार्थशास्त्रबलेन पूज्यानां द्रोणभीष्मादीनां वधं पापहेतुरेवेति । न च श्रेयोऽनुपश्यामीत्यारभ्योक्तमुपसंहरति तस्मादिति । पापसम्भवात। दैहिकसुखस्याप्यभावाच्चेत्यर्थम् । न हि गुरुभिर्बन्धुजनैश्च विनास्माकं राज्यभोगं सुखायापि तु अनुतापायैव सम्पत्स्यते । हे माधवेति श्रीपतिस्त्वमश्रीके युद्धे कथं प्रवर्तयसिईति भावम् ॥३६॥

(१.३७)

यद्यप्येते न पश्यन्ति लोभोपहतचेतसम् ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥
कथं न ज्ञेयमस्माभिं पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥

श्रीधरम् : ननु तवैतेषामपि बन्धुवधदोषे समाने सति यथैवैते बन्धुवधदोषमङ्गीकृत्यापि युद्धे प्रवर्तते । तथैव भवानपि प्रवर्ततां किमनेन विषादेनेत्यत आह यद्यपीति द्वाभ्याम् । राज्यलोभेनोपहतं भ्रष्टविवेकं चेतो येषां ते एते दुर्योधनादयो यद्यपि दोषं न पश्यन्ति, तथापि अस्माभिर्दोषं प्रपश्यद्भिरस्मात्पापात्निवर्तितुं कथं न ज्ञेयं निवृत्तावेव बुद्धिं कर्तव्येत्यर्थम् ॥३७३८॥

मधुसूदनम् : कथं तर्हि परेषां कुलक्षये स्वजनहिंसायां च प्रवृत्तिं ? तत्राह—यद्यपीति । लोभोपहतबुद्धित्वात्तेषां कुलक्षयादिनिमित्तदोषप्रतिसन्धानाभावात्प्रवृत्तिं सम्भवतीत्यर्थम् । अत एव भीष्मादीनां शिष्टानां बन्धुवधे प्रवृत्तत्वाच्छिष्टाचारत्वेन वेदमूलत्वादितरेषामपि तत्प्रवृत्तिरुचितेत्यपास्तम्, हेतुदर्शनाच्च [जै.सू. १.३.४] इति न्यायात। तत्र हि लोभादिहेतुदर्शने वेदमूलत्वं न कल्प्यत इति स्थापितम् । यद्यप्येते न पश्यन्ति तथापि कथमस्माभिर्न ज्ञेयमित्युत्तरश्लोकेन सम्बन्धम् ॥३७॥

ननु यद्यप्येते लोभात्प्रवृत्तास्तथापि, आहूतो न निवर्तेत द्यूतादपि रणादपि इति, विजितं क्षत्रियस्य इत्यादिभिं क्षत्रियस्य युद्धं धर्मो युद्धार्जितं च धर्म्यं धनमिति शास्त्रे निश्चयाद्भवतां च तैराहूतत्वाद्युद्धे प्रवृत्तिरुचितैवेत्याशङ्क्याह—अस्मात्पापाद्बन्धुवधफलकयुद्धरूपात। अयमर्थम्—श्रेयम्साधनताज्ञानं हि प्रवर्तकं श्रेयश्च तद्यदश्रेयोऽननुबन्धि । अन्यथा श्येनादीनामपि धर्मत्वापत्तेम् । तथा चोक्तम्—

फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते ।
केवलप्रीतिहेतुत्वात्तद्धर्म इति कथ्यते ॥ इति ।

ततश्चाश्रेयोऽनुबन्धितया शास्त्रप्रतिपादितेऽपि श्येनादाविवास्मिन्युद्धेऽपि नास्माकं प्रवृत्तिरुचितेति ॥३८॥

विश्वनाथम् : नन्वेते तर्हि कथं युद्धे वर्तन्ते । तत्राह यद्यपीति ॥३७३८॥

बलदेवम् : ननु आहूतो न निवर्तेत द्यूतादपि रणादपि विदितं क्षत्रियस्येति क्षत्रधर्मस्मरणात्तैराहूतानां भवतां युद्धे प्रवृत्तिर्युक्तेति चेत्तत्राह यद्यपीहि द्वाभ्याम् । पापे प्रवृत्तौ लोभस्तेषां हेतुरस्माकं तु लोभविरहान्न तत्र प्रवृत्तिरिति । इष्टसावधानताज्ञानं खलु प्रवर्तकम् । इष्टं चानिष्टाननुबन्धिवाच्यम् । यदुक्तम्—

फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते ।
केवलप्रीतिहेतुत्वात्तद्धर्म इति कथ्यते ॥ इति ।    

तथा च श्येनेनाभिचरन्यजेत इत्यादि शास्त्रोक्तेऽपि श्येनादाविवानिष्टानुबन्धित्वाद्युद्धेऽस्मिन्नं प्रवृत्तिर्न युक्तेति । आहूत इत्यादि शास्त्रं तु कुलक्षयदोषं विना भूतविषयं भावि । हे जनार्दनेति प्राग्वत॥३७३८॥


(१.३९)

कुलक्षये प्रणश्यन्ति कुलधर्मां सनातनाम् ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥

श्रीधरम् : तमेव दोषं दर्शयति कुलक्षय इत्यादि । सनातनां परस्पराप्राप्ताम् । उत अपि अवशिष्टं कृत्स्नमपि कुलमधर्मोऽभिभवति व्याप्नोतीत्यर्थम् ॥३९॥

मधुसूदनम् : एवं च विजयादीनामश्रेयस्त्वेनानाकाङ्क्षितत्वान्न तदर्थं प्रवर्तितव्यमिति द्रढयितुमनर्थानुबन्धित्वेनाश्रेयस्त्वमेव प्रपञ्चयन्नाह—सनातनां परम्पराप्राप्तां कुलधर्मां कुलोचिता धर्मां कुलक्षये प्रणश्यन्ति, कर्तुरभावात। उत अपि अग्निहोत्राद्यनुष्ठातृपुरुषनाशेन धर्मे नष्टे । जात्यभिप्रायमेकवचनम् । अवशिष्टं बालादिरूपं कृत्स्नमपि कुलधर्मोऽभिभवति स्वाधीनतया व्याप्नोति । उतशब्दं कृत्स्नपदेन सम्बध्यते ॥३९॥

विश्वनाथम् : कुलक्षय इति सनातनां कुलपरस्पराप्राप्तत्वेन बहुकालतं प्राप्ता इत्यर्थम् ॥३९॥

बलदेवम् : दोषमेव प्रपञ्चयति कुलक्षय इति । कुलधर्मां कुलोचिता अग्निहोत्रादयो धर्मां सनातनां कुलपरस्परप्राप्तां प्रणश्यन्ति कर्तुर्विनाशात। उतेत्यप्यर्थे कृत्स्नमित्यनेन सम्बध्यते । धर्मे नष्टे सत्यवशिष्टं बालादिकृत्स्नमपि कुलमधर्मोऽभिभवति सतीत्यर्थम् ॥३९॥

(१.४०)

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियम् ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरम् ॥

श्रीधरम् : ततश्च अधर्माभिभवादित्यादि ॥४०॥

मधुसूदनम् : अस्मदीयैं पतिभिर्धर्ममतिक्रम्य कुलक्षयं कृतश्चेदस्माभिरपि व्यभिचारे कृते को दोषं स्यात्? इत्येवं कुतर्कहतां कुलस्त्रियं प्रदुष्येयुरित्यर्थम् । अथवा कुलक्षयकारिपतितपतिसम्बन्धादेव स्त्रीणां दुष्टत्वमाशुद्धें सम्प्रतीक्ष्यो हि महापातकदूषितमित्यादिस्मृतेम् ॥४०॥

विश्वनाथम् : प्रदुष्यन्तीति । अधर्म एव ता व्यभिचारे प्रवर्तयतीति भावम् ॥४०॥

बलदेवम् : ततश्चाधर्माभिभवादिति । अस्मद्भर्तृभिर्धर्ममुल्लङ्घ्य यथ्¨अकुलक्षयलक्षणे पापे वर्तितं, तथास्माभिं पातिव्रत्यमवज्ञाय दुराचारे वर्तितव्यमिति दुर्बुद्धिहतां कुलस्त्रियं प्रदुष्येयुरित्यर्थम् ॥४०॥

(१.४१)

संकरो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाम् ॥

श्रीधरम् : एवं सति सङ्कर इत्यादि । एषां कुलघ्नानां पितरं पतन्ति । हि यस्मात्लुप्तां पिण्डोदकक्रिया येषां ते तथा ॥४१॥

मधुसूदनम् : कुलस्य संकरश्च कुलघ्नानां नरकायैव भवतीत्यन्वयम् । न केवलं कुलघ्नानामेव नरकपातम्, किन्तु तत्पित्èणामपीत्याह—पतन्तीति । हिशब्दोऽप्यर्थे हेतौ वा । पुत्रादीनां कर्त्èणामभावाल्लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते । तथा कुलघ्नानां पितरं पतन्ति नरकायैवेत्यनुषङ्गम् ॥४१॥

विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : कुलस्य सङ्करं कुलघ्नानां नरकायैवेति योजना । न केवलं कुलघ्ना एव नरके पतन्ति, किन्तु तत्पितरोऽपीत्याह पतन्तीति हिर्हेतौ । पिण्डादिदात्èणां पुत्रादीनामभावाद्विलुप्तपिण्डादिक्रियां सन्तस्ते नरकायैव पतन्ति ॥४१॥

(१.४२)

दोषैरेतैं कुलघ्नानां वर्णसंकरकारकैम् ।
उत्साद्यन्ते जातिधर्मां कुलधर्माश्च शाश्वताम् ॥४२॥

श्रीधरम् : उक्तदोषमुपसंहरति दोषैरिति द्वाभ्याम् । उत्साद्यन्ते लुप्यन्ते । जातिधर्मा वर्णधर्मां कुलधर्माश्चेति चकारादाश्रमधर्मादयोऽपि गृह्यन्ते ॥४२॥

मधुसूदनम् : जातिधर्मां क्षत्रियत्वादिनिबन्धनाम्, कुलधर्मा असाधारणाश्च एतैर्दोषैरुत्साद्यन्ते उत्सन्नां क्रियन्ते । विनाश्यन्त इत्यर्थम् ॥४२॥

विश्वनाथम् : दोषैरिति । उत्साद्यन्ते लुप्यन्ते ॥४२॥

बलदेवम् : उक्तदोषमुपसंहरति दोषैरिति द्वाभ्याम् । उत्साद्यन्ते विलुप्यन्ते । जातिधर्मां क्षत्रियत्वादिनिर्बन्धनाम् । कुलधर्मास्त्वसाधारणाम् । चशब्दादाश्रमधर्मा ग्राह्याम् ॥४२॥

(१.४३)

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥

श्रीधरम् : उत्सन्नेति । उत्सन्नां कुलधर्मा येषामिति उत्सन्नजातिधर्मानामप्युपलक्षणम् । अनुशुश्रुम श्रुतवन्तो वयम् ।

प्रायश्चित्तमकुर्वाणां पापेषु निरता नराम् ।
अपश्चात्तापिनं कष्टान्निरयान्यान्ति दारुणान॥ इत्यादिवचनेभ्यम् ॥४३॥

मधुसूदनम् : ततश्च प्रेतत्वपरावृत्तिकारणाभावान्नरके एव केवलं निरन्तरं वासो भवति ध्रुवमित्यनुशुश्रुमेत्याचार्याणां मुखाद्वयं श्रुतवन्तो, न स्वाभ्यूहेन कल्पयाम इति पूर्वोक्तस्यैव दृढीकरणम् ॥४३॥

विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : उत्सन्नेति । जातिधर्मादीनामुपलक्षणमेतत। अनुशुश्रुम श्रुतवन्तो वयं गुरुमुखात।

प्रायश्चित्तमकुर्वाणां पापेषु निरता नराम् ।
अपश्चात्तापिनं कष्टान्निरयान्यान्ति दारुणान॥ इत्यादिवाक्यैम् ॥४३॥

(१.४४)

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताम् ॥

श्रीधरम् : बन्धुवधाध्यवसायेन सन्त्युपमाने आह अहो बतेत्यादि । स्वजनं हन्तुमुद्यता इति यतेतन्महत्पापं कर्तुमध्यवसायं कृतवन्तो वयम् । अहो बत महत्कष्टमित्यर्थम् ॥४४॥

मधुसूदनम् : बन्धुवधपर्यवसायी युद्धाध्यवसायोऽपि सर्वथा पापिष्ठतरम्, किं पुनर्युद्धमिति वक्तुं तदध्यवसायेनात्मानं शोचन्नाह—यदीदृशी ते बुद्धिं कुतस्तर्हि युद्धाभिनिवेशेनागतोऽसीति न वक्तव्यम् । अविमृश्यकारितया मयौद्धत्यस्य कृतत्वादिति भावम् ॥४४॥

विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : बन्धुवधाध्यवसायेनापि पापं सम्भाव्यानुपपन्नाह अहो इति । बतेति सन्देहे ॥४४॥

(१.४५)

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयम् ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत॥

श्रीधरम् : एवं सन्तप्तं सन्मृत्युमेवाशंसमान आह यदि मामित्यादि । अप्रतीकारं तुष्णीमुपविष्टं मां यदि हनिष्यन्ति तर्हि तद्धननं मम क्षेमतरमत्यन्तं हितं भवेत्पापानिष्पत्तेम् ॥४५॥

मधुसूदनम् : ननु तव वैराग्येऽपि भीमसेनादीनां युद्धोत्सुकत्वाद्बन्धुवधो भविष्यत्येव । त्वया पुनं किं विधेयं ? इत्यत आह—प्राणादपि प्रकृष्टो धर्मं प्राणभृतामहिंसा पापानिष्पत्तेम् । तस्माज्जीवनापेक्षया मरणमेव मम क्षेमतरमत्यन्तं हितं भवेत। “प्रियतरम्” इति पाठेऽपि स एवार्थम् । अप्रतीकारं स्वप्राणत्राणाय व्यापारमकुर्वाणं बन्धुवधाध्यवसायमात्रेणापि प्रायश्चित्तान्तरहितं वा । तथा च प्राणान्तप्रायश्चित्तेनैव शुद्धिर्भविष्यतीत्यर्थम् ॥४५॥

विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : ननु त्वयि बन्धुवधाद्विनिवृत्तेऽपि भीष्मादिभिर्युद्धोत्सुकैस्त्ववधं स्यादेव ततं किं विधेयमिति चेत्तत्राह यदि मामित्यादि । अप्रतीकारमकृतमद्वधाध्यवसायपापप्रायश्चित्तम् । क्षेमतरमतिहितं प्राणान्तप्रायश्चित्तेनैवैतत्पापावमर्जनम् । भीष्मादयस्तु न तत्पापफलं प्राप्स्यन्त्येवेति भावम् ॥४५॥

(१.४६)

एवमुक्त्वार्जुनं संख्ये रथोपस्थ उपाविशत।
विसृज्य सशरं चापं शोकसंविग्नमानसम् ॥

श्रीधरम् : ततं किं वृत्तमित्यपेक्षायां सञ्जय उवाच एवमुक्त्वेत्यादि । सङ्ख्ये सङ्ग्रामे रथोपस्थे रथस्योपरि उपाविशतुपविवेश । शोकेन संविग्नं प्रकम्पितं मानसं चित्तं यस्य सम् ॥४६॥

इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां
अर्जुनविषादो नाम प्रथमोऽध्यायम् ॥१॥

मधुसूदनम् : ततं किं वृत्तं ? इत्यपेक्षायां संख्ये संग्रामे रथोपस्थे रथस्योपर्युपविशेश । पूर्वं युद्धार्थमवलोकनार्थं चोत्थितं सन्शोकेन संविग्नं पीडितं मानसं यस्य सम् ॥४६॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यविश्वेश्वरसरस्वतीपादशिष्यसूनुमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां प्रथमोऽध्यायम् ॥१॥

विश्वनाथम् : सङ्ख्ये सङ्ग्रामे । रथोपस्थे रथोपरि ॥४६॥

इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् ।
गीतासु प्रथमोऽध्यायं सङ्गतं सङ्गतं सताम् ॥१॥

बलदेवम् : ततं किमभूदित्यपेक्षायां सञ्जय उवाच एवमुत्वेति । सङ्ख्ये युद्धे रथोपस्थे रथोपरि उपाविशतुपविवेश । पूर्वं युद्धाय प्रतियोद्धृविलोकनाय चोत्थितं सन॥४६॥

अहिंस्रस्यात्मजिज्ञासा दयार्द्रस्योपजायते ।
तद्विरुद्धस्य नैवेति प्रथमादुपधारितम् ॥१॥
 

 


अथ द्वितीयोऽध्यायम्

(२.१)

संजय उवाच—
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनम् ॥

श्रीधरम् : द्वितीये शोकसंतप्तमर्जुनं ब्रह्मविद्यया । प्रतिबोध्य हरिश्चक्रे स्थितप्रज्ञस्य लक्षणम् । ततं किं वृत्तमित्यपेक्षायां सञ्जय उवाच—तं तथेत्यादि । अश्रुभिं पूर्णे आकुले ईक्षणे यस्य तं तथा, उक्तप्रकारेण विसमर्जुनं प्रति मधुसूदन इदं वाक्यमुवाच ॥१॥

मधुसूदनम् : अहिंसा परमो धर्मो भिक्षाशनं चेत्येवंलक्षणया बुद्ध्या युद्धवैमुख्यमर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यमप्रचलितमवधार्य स्वस्थहृदयस्य धृतराष्ट्रस्य हर्षनिमित्तां ततं किं वृत्तमित्याकाङ्क्षामपनिनीषुं संजयस्तं प्रत्युक्तवानित्याह वैशम्पायनम् ।

कृपा ममैत इति व्यामोहनिमित्तं स्नेहविशेषम् । तयाविष्टं स्वभावसिद्ध्या व्याप्तम् । अर्जुनस्य कर्मत्वं कृपायाश्च कर्तृत्वं वदता तस्या आगन्तुकत्वं व्युदस्तम् । अत एव विषीदन्तं स्नेहविषयीभूतस्वजनविच्छेदाशङ्कानिमित्तं शोकापरपर्यायश्चित्तव्याकुलीभावो विषादस्तं प्राप्नुवन्तम् । अत्र विषादस्य कर्मत्वेनार्जुनस्य कर्तृत्वेन च तस्यागन्तुकत्वं सूचितम् ।

अत एव कृपाविषादवशादश्रुभिं पूर्णे आकुले दर्शनाक्षमे चेक्षणे यस्य तम् । एवमश्रुपातव्याकुलीभावाख्यकार्यद्वयजनकतया परिपोषं गताभ्यां कृपाविषादाभ्यामुद्विग्नं तमर्जुनमिदं सोपपत्तिकं वक्ष्यमाणं वाक्यमुवाच न तूपेक्षितवान। मधुसूदन इति । स्वयं दुष्टनिग्रहकर्तार्जुनं प्रत्यपि तथैव वक्ष्यतीति भावम् ॥१॥

विश्वनाथम् :
आत्मानात्मविवेकेन शोकमोहतमो नुदन।
द्वितीये कृष्णचन्द्रोऽत्र प्रोचे मुक्तस्य लक्षणम् ॥१॥

बलदेवम् :
द्वितीये जीवयाथात्म्यज्ञानं तत्साधनं हरिम् ।
निष्कामकर्म च प्रोचे स्थितप्रज्ञस्य लक्षणम् ॥

एवमर्जुनवैराग्यमुपश्रुत्य स्वपुत्रराज्याभ्रंशाशया हृष्यन्तं धृतराष्ट्रमालक्ष्य सञ्जय उवाच तं तथेति । मधुसूदन इति तस्य शोकमपि मधुवन्निहनिष्यतीति भावम् ॥१॥

(२.२)

श्रीभगवानुवाच——
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२॥

श्रीधरम् : तदेव वाक्यमाह श्रीभगवानुवाच— कुत इति । कुतो हेतोस्त्वा त्वां विषमे सङ्कटे इदं कुशलं समुपस्थितमयं मोहं प्राप्तम्, यत आर्यैरसेवितम् । अस्वर्ग्यमधर्म्यमयशस्करं च ॥२॥

मधुसूदनम् : तदेव भगवतो वाक्यमवतारयति कुतस्त्वेति ।

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसं श्रियम् ।
वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [वि.पु. ६.७४]

समगस्येति प्रत्येकं सम्बन्धम् । मोक्षस्येति तत्साधनस्य ज्ञानस्य । इङ्गना संज्ञा । एतादृशं समग्रमैश्वर्यादिकं नित्यमप्रतिबन्धेन यत्र वर्तते स भगवान। नित्ययोगे मतुप। तथा—

उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ [वि.पु. ६.७८]

अत्र भूतानामिति प्रत्येकं सम्बध्यते । उत्पत्तिविनाशशब्दौ तत्कारणस्याप्युपलक्षकौ । आगतिगती आगमिन्यौ सम्पदापदौ । एतादृशो भगवच्छब्दार्थं श्रीवासुदेव एव पर्यवसित इति तथोच्यते ।

इदं स्वधर्मात्पराङ्मुखत्वं कृपाव्यामोहाश्रुपातादिपुरम्सरं कश्मलं शिष्टगर्हितत्वेन मलिनं विषमे सभये स्थाने त्वा त्वां सर्वक्षत्रियप्रवरं कुतो हेतों समुपस्थितं प्राप्तं ? किं मोक्षेच्छातं ? किं वा स्वर्गेच्छातं ? इति किंशब्देनाक्षिप्यते । हेतुत्रयमपि निषेधति त्रिभिर्विशेसणैरुत्तरार्धेन । आर्यैर्मुमुक्षुभिर्न जुष्टमसेवितम् । स्वधर्मैराशयशुद्धिद्वारा मोक्सिच्छद्भिरपक्वकषायैर्मुमुक्षुभिं कथं स्वधर्मस्त्याज्य इत्यर्थम् । संन्यासाधिकारी तु पक्वकषायोऽग्रे वक्ष्यते । अस्वर्ग्यं स्वर्गहेतुधर्मविरोधित्वान्न स्वर्गेच्छया सेव्यम् । अकीर्तिकरं कीर्त्यभावकरमपकीर्तिकरं वा न कीर्तीच्छया सेव्यम् । तथा च मोक्षकामैं स्वर्गकामैं कीर्तिकामैश्च वर्जनीयम् । तत्काम एव त्वं सेवस्व इत्यहो अनुचितं चेष्टितं तवेति भावम् ॥२॥

विश्वनाथम् : कश्मलं मोहम् । विषमेऽत्र सङ्ग्रामसङ्कटे । कुतो हेतोम् । उपस्थितं त्वां प्राप्तमभूत। अनार्यजुष्टं सुप्रतिष्ठितलोकैरसेवितम् । अस्वर्ग्यमकीर्तिकरमिति पारत्रिकैहिकसुखप्रतिकूलमित्यर्थम् ॥२॥

बलदेवम् : तद्वाक्यमनुवदति श्रीभगवानिति ।

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसं श्रियम् ।
वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [वि.पु. ६.७४]

इति पराशरोक्तैश्वर्यादिभिं षड्भिर्नित्यं विशिष्टम् । समग्रस्येत्येतत्षट्सु योज्यम् । हे अर्जुन ! इदं स्वधर्मवैमुख्यं कश्मलं शिष्टनिन्द्यत्वान्मलिनं कुतो हेतोस्त्वां क्षत्रियचूडामणिं समुपस्थितमभूत्? विषमे युद्धसमये । न च मोक्षाय स्वर्गाय कीर्तये वैतद्युद्धवैराग्यमित्याह अनार्येति । आर्यैर्मुमुक्षुभिर्न जुष्टं सेवितम् । आर्यां खलु हृद्विशुद्धये स्वधर्मानाचरन्ति । अस्वर्ग्यं स्वर्गोपलम्भकधर्मविरुद्धम् । अकीर्तिकरं कीर्तिविप्लावकम् ॥२॥

(२.३)

क्लैब्यं मा स्म गमं पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥

श्रीधरम् : क्लैब्यं मा स्म गम इति । तस्मात्हे पार्थ ! क्लैब्यं कातर्यं मा स्म गमम् । न प्राप्नुहि । यतस्त्वयि एतन्नोपपद्यते योग्यं न भवति । क्षुद्रं तुच्छं हृदयदौर्बल्यं कातर्यं युद्धाय उत्तिष्ठ, हे परन्तप शत्रुतापन ! ॥३॥

मधुसूदनम् : ननु बन्धुसेनावेक्षणजातेनाधैर्येण धनुरपि धारयितुमशक्नुवता मया किं कर्तुं शक्यमित्यत आह क्लैब्यमिति । क्लैब्यं क्लीब्भावमधैर्यमोजस्तेजऽदिभङ्गरूपं मा स्म गमो मा गा । हे पार्थ पृथातनय! पृथया देवप्रसादलब्धे तत्तनयमात्रे वीर्यातिशयस्य प्रसिद्धत्वात्पृथातनयत्वेन त्वं क्लैब्यायोग्य इत्यर्थम् । अर्जुनत्वेनापि तदयोग्यत्वमाह नैतदिति । त्वयि अर्जुने साक्षान्महेश्वरेणापि सह कृताहवे प्रख्यातमहाप्रभावे नोपपद्यते न युज्यत एतत्क्लैब्यमित्यसाधारण्येन तदयोग्यत्वनिर्देशम् ।

ननु न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनमिति पूर्वमेव मयोक्तमित्याशङ्क्याह क्षुद्रमिति । हृदयदौर्बल्यं मनसो भ्रमणादिरूपमधैर्यं क्षुद्रत्वकारणत्वात्क्षुद्रं सुनिरसनं वा त्यक्त्वा विवेकेनापनीयोत्तिष्ठ युद्धाय सज्जो भव । हे परन्तप ! परं शत्रुं तापयतीति तथा संबोध्यते हेतुगर्भम् ॥३॥

विश्वनाथम् : क्लैब्यं क्लीब्धर्मं कातर्यम् । हे पार्थेति त्वं पृथापुत्रं सन्नपि गच्छसि । तस्मान्मा स्म गमम्, मा प्राप्नुहि, अन्यस्मिन्क्षत्रबन्धौ वरमिदमुपपद्यताम्, त्वयि मत्सखौ तु नोपयुज्यते ।

नन्विदं शौर्याभावलक्षणं क्लैब्यं मा शङ्किष्ठाम् । किन्तु भीष्मद्रोणादिगुरुषु धर्मदृष्ट्या विवेकोऽयं धार्तराष्ट्रेषु तु दुर्बलेषु मदस्त्राघातमासाद्य मर्तुमुद्यतेषु दयैवेयमिति तत्राह क्षुद्रमिति । नैते तव विवेकदये, किन्तु शोकमोहावेव । तौ च मनसो दौर्बल्यव्यञ्जकौ । तस्मात्हृदयदौर्बल्यमिदं त्यक्त्वा उत्तिष्ठ । हे परन्तप ! परान्शत्रून्तापयन्युध्यस्व ॥३॥

बलदेवम् : ननु बन्धुक्षयाध्यवसायदोषात्प्रकम्पितेन मया किं भाव्यमिति चेत्तत्राह क्लैब्यमिति । हे पार्थ ! देवराजप्रसादात्पृथायामुत्पन्न ! क्लैब्यं कातर्यं मा स्म गमं प्राप्नुहि । त्वयि विश्वविजेतरि मत्सखेऽर्जुने क्षत्रबन्धाविवैतदीदृशं क्लैब्यं नोपयुज्यते ।

ननु न मे शौर्याभावरूपं क्लैब्यं किन्तु भीष्मादिषु पूज्येषु धर्मबुद्ध्या विवेकोऽयं दुर्योधनादिषु भ्रातृषु मच्छस्त्रप्रहारेण मरिष्यत्सु कृपेयमिति चेत्तत्राह क्षुद्रमिति । नैते तव विवेककृपे, किन्तु क्षुद्रं लघिष्ठं हृदयदौर्बल्यमेव । तस्मात्तत्त्यक्त्वा युद्धायोत्तिष्ठ सज्जीभव । हे परन्तप ! शत्रुतापनेति शत्रुहासपात्रतां मा गाम् ॥३॥

(२.४)

अर्जुन उवाच——
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभिं प्रतियोत्स्यामि पूजार्हावरिसूदन ॥

श्रीधरम् : नाहं कातरत्वेन युद्धातुपरतोऽस्मि, किन्तु युद्धस्य अन्याय्यत्वादधर्म्यत्वाच्चेत्याह अर्जुन उवाच— कथमिति । भीष्मद्रोणौ पूजार्हौ पूजायामर्हो योग्यौ तौ प्रति कथमहं योत्स्यामि, तत्रापि इषुभिं यत्र वाचापि योत्स्यामीति वक्तुमनुचितं तत्र बाणैं कथं योत्स्यामीत्यर्थम् । हे अरिसूदन शत्रुमर्दन ॥४॥

मधुसूदनम् : ननु नायं स्वधर्मस्य त्यागं शोकमोहादिवशात्किन्तु धरत्वाभावादधर्मत्वाच्चास्य युद्धस्य त्यागो मया क्रियत इति भगवदभिप्रायमप्रतिपद्यमानस्यार्जुनस्याभिप्रायमवतारयति कथमिति । भीष्मं पितामहं द्रोणां चाचार्यं सङ्ख्ये रण इषुभिं सायकैं प्रतियोत्स्यामि प्रहरिष्यामि कथं ? न कथंचिदपीत्यर्थम् । यतस्तौ पूजार्हौ कुसुमादिभिरर्चनयोग्यौ । पूजार्हाभ्यां सह क्रीडास्थानेऽपि वाचापि हर्षफलमपि लीलायुद्धमनुचितं किं पुनर्युद्धभूमौ शरैं प्राणत्यागफलकं प्रहरणमित्यर्थम् ।

मधुसूदनारिसूदनेति सम्बोधनद्वयं शोकव्याकुलत्वेन पूर्वापरपरामर्शवैकल्यात। अतो न मधुसूदनारिसूदनेत्यस्यार्थस्य पुनरुक्तत्वं दोषम् । युद्धमात्रमपि यत्र नोचितं दूरे तत्र वध इति प्रतियोत्स्यामीत्यनेन सूचितम् ।

अथवा पूजार्हौ कथं प्रतियोत्स्यामि । पूजार्हयोरेव विवरणं भीष्मं द्रोणं चेति । द्वौ ब्राह्मणौ भोजय देवदत्तं यज्ञदत्तं चेतिवत्सम्बन्धम् । अयं भावम्—दुर्योधनादयो नापुरस्कृत्य भीष्मद्रोणौ युद्धाय सज्जीभवन्ति । तत्र ताभ्यां सह युद्धं न तावद्धर्मं पूजादिवदविहितत्वात। न चायमनिषिद्धत्वादधर्मोऽपि न भवतीति वाच्यम् । गुरुं हुङ्कृत्य त्वंकृत्य इत्यादिना शब्दमात्रेणापि गुरुद्रोहो यदानिष्टफलत्वप्रदर्शनेन निषिद्धस्तदा किं वाच्यं ताभ्यां सह सङ्ग्रामस्याधर्मत्वे निषिद्धत्वे चेति ॥४॥

विश्वनाथम् : ननु प्रतिबध्नाति हि श्रेयं पूज्यपूजाव्यतिक्रममिति धर्मशास्त्रम् । अतोऽहं युद्धान्निवर्त इत्याह कथमिति । प्रतियोत्स्यामि प्रतियोत्स्ये । नन्वेतौ युध्येते तर्ह्यनयों प्रतियोद्धा भवितुं त्वं किं न शक्नोषि ? सत्यं न शक्नोम्येवेत्याह पूजार्हाविति । अनयोश्चरणेषु भक्त्या कुसुमान्येव दातुमर्हामि न तु क्रोधेन तीक्ष्णशरानिति भावम् । भो वयस्य कृष्ण त्वमपि शत्रूनेव युद्धे हंसि, न तु सन्दीपनिं स्वगुरुं, नापि बन्धून्यदूनित्याह हे मधुसूदनेति । ननु माधवो यदव एव । तत्राह हे अरिसूदन ! मधुर्नाम दैत्यो यस्तवारिरिति ब्रवीमीति ॥४॥

बलदेवम् : ननु भीष्मादिषु प्रतियोद्धृषु सत्सु त्वया कथं न योद्धव्यम् । आहूतो न निवर्तेत इति युद्धविधानाच्च क्षत्रियस्येति चेत्तत्राह कथमिति । भीष्मं पितामहं द्रोणं च विद्यागुरुम् । इषुभिं कथं योत्स्ये ? यदिमौ पूजार्हौ पुष्पादिभिरभ्यर्च्यौ, परिहासवाग्भिरपि याभ्यां युद्धं न युक्तम् । ताभ्यां सहेषुभिस्तत्कथं युज्येत ? प्रतिबध्नाति हि श्रेयं पूज्य पूज्यपूजाव्यतिक्रममिति स्मृतेश्च । मधुसूदनारिसूदनेति सम्बोधनपुनरुक्तिम् । शोकाकुलस्य पूर्वोत्तरानुसन्धिविरहात। तद्भावश्च त्वमपि शत्रूनेव युद्धे निहंसि न तूग्रसेनसान्दीपन्यादीन्पूज्यानिति ॥४॥

(२.५)

गुरूनहत्वा हि महानुभावाञ्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान्रुधिरप्रदिग्धान॥

श्रीधरम् : तर्हि तानहत्वा तव देहयात्रापि न स्यादिति चेत्, तत्राह गुरूनिति । गुरून्द्रोणाचार्यादीनहत्वा परलोकविरुद्धं गुरुवधमकृत्वा इहलोके भैक्ष्यं भिक्षान्नमपि भोक्तुं श्रेय उचितम् । विपक्षे तु न केवलं परत्र दुम्खं, किन्तु इहैव च नरकदुम्खमनुभवेयमित्याह हत्वेति । गुरून्हत्वा इहैव तु रुधिरेण प्रदिग्धान्प्रकर्षेण लिप्तानर्थकामात्मकान्भोगानहं भुञ्जीय अश्नीयाम् । यद्वा अर्थकामानिति गुरूणां विशेषणम् । अर्थतृष्णाकुलत्वादेते तावद्युद्धान्न निवर्तेरन्तस्मादेतद्वधं प्रसज्येतैवेत्यर्थम् । तथा च युधिष्ठिरं प्रति भीष्मेणोक्तं—

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैम् ॥ इति [म.भा. ६.४१.३६] ॥५॥

मधुसूदनम् : ननु भीष्मद्रोणयों पूजार्हत्वं गुरुत्वेनैव, एवमन्येषामपि कृपादीनां, न च तेषां गुरुत्वेन स्वीकारं साम्प्रतमुचितम्—

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतम् ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [म.भा. ५.१७८.२४]

इति स्मृतेम् । तस्मादेषां युद्धगर्वेणावलिप्तानामन्यायराज्यग्रहणेन शिष्यद्रोहेण च कार्याकार्यविवेकशून्यानामुत्पथनिष्ठानां वध एव श्रेयानित्याशङ्क्याह गुरूनिति ।

गुरूनहत्वा परलोकस्तावदस्त्येव । अस्मिंस्तु लोके तैर्हृतराज्यानां नो नृपादीनां निषिद्धं भैक्षमपि भोक्तुं श्रेयं प्रशस्यतरमुचितं न तु तद्वधेन राज्यमपि श्रेय इति धर्मेऽपि युद्धे वृत्तिमात्रफलत्वं गृहीत्वा पापमारोप्य व्रते ।

नन्ववलिप्तत्वादिना तेषां गुरुत्वाभाव उक्त इत्याशङ्क्याह महानुभावानिति । महानुभावं श्रुताध्ययनतपऽचारादिनिबन्धनं प्रभावो येषां तान। तथा च कालकामादयोऽपि यैर्वशीकृतास्तेषां पुण्यातिशयशालिनां नावलिप्तत्वादिक्षुद्रपाप्मसंश्लेष इत्यर्थम् । हिमहानुभावानित्येकं वा पदम् । हिमं जाड्यमपहन्तीति हिमहा आदित्योऽग्निर्वा तस्यैवानुभावं सामर्थ्यं येषां तान। तथा चातितेजस्वित्वात्तेषामवलिप्तत्वादिदोषो नास्त्येव ।

धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नें सर्वभुजो यथा ॥ [भा.पु. १०.३३.३०]

ननु यदार्थलुब्धां सन्तो युद्धे प्रवृत्तास्तदैषां विक्रीतात्मनां कुतस्त्यं पूर्वोक्तं माहात्म्यं, तथा चोक्तं भीष्मेण युधिष्ठिरं प्रति—

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैम् ॥ [म.भा. ६.४१.३६]

इत्याशङ्क्याह हत्वेति । अर्थलुब्धा अपि ते मदपेक्षया गुरवो भवन्त्येवेति पुनर्गुरुग्रहणेनोक्तम् । तुशब्दोऽप्यर्थे ईदृशानपि गुरून्हत्वा भोगानेव भुञ्जीय न तु मोक्षं लभेय । भुज्यन्त इति भोगा विषयां कर्मणि घञ् । ते च भोगा इहैव न परलोके । इहापि च रुधिरप्रदिग्धा इवापयशोव्याप्तत्वेनात्यन्तजुगुप्सिता इत्यर्थम् । यदेहाप्येवं तदा परलोकदुम्खं कियद्वर्णनीयमिति भावम् ।

अथवा गुरून्हत्वार्थकामात्मकान्भोगानेव भुञ्जीय न तु धर्ममोक्षावित्यर्थकामपदस्य भोगविशेषणतया व्याख्यानान्तरं द्रष्टव्यम् ॥५॥

विश्वनाथम् : नन्वेवं ते यदि स्वराज्येऽस्मिन्नास्ति जिघृक्षा, तर्हि कया वृत्त्या जीविष्यसीत्यत्राह गुरूनहत्वेति । गुरुवधमकृत्वा भैक्ष्यं क्षत्रियैर्विगीतमपि भिक्षान्नमपि भोक्तुं श्रेयम् । ऐहिकदुर्यशोलाभेऽपि पारत्रिकममङ्गलं तु नैव स्यादिति भावम् । न चैव गुरवोऽवलिप्तां कार्याकार्यमजानन्तश्चाधार्मिकदुर्योधनाद्यनुगतास्त्याज्या एव । यदुक्तं—

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतम् ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [म.भा. ५.१७८.२४] इति वाच्यम् ।

इत्याह—महानुभावानिति । कालकामादयोऽपि यैर्वशीकृतास्तेषां भीष्मादीनां कुतस्तद्दोषसम्भव इति भावम् । ननु—

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैम् ॥ [म.भा. ६.४१.३६]

इति युधिष्ठिरं प्रति भीष्मेणैवोक्तमतं साम्प्रतमर्थकामत्वादेतेषां महानुभावत्वं प्राक्तनं विगलितं ? सत्यम्, तदप्येतान्हतवतो मम दुम्खमेव स्यादित्याह अर्थकामानर्थलुब्धानप्येतान्कुरून्हत्वाहं भोगान्भुञ्जीय किन्त्वेतेषां रुधिरेण प्रदिग्धान्प्रलिप्तानेव । अयमर्थम्—एतेषामर्थलुब्धत्वेऽपि मद्गुरुत्वमस्त्येव, अत एवैतद्वधे सति गुरुद्रोहिणो मम खलु भोगो दुष्कृतिमिश्रं स्यादिति ॥५॥

बलदेवम् : ननु स्वराज्ये स्पृहा चेत्तव नास्ति तर्हि देहयात्रा वा कथं सेत्स्यतीति चेत्तत्राह गुरूनिति । गुरूनहत्वा गुरुवधमकृत्वा स्थितस्य मे भैक्ष्यान्नं क्षत्रियाणां निन्द्यमपि भोक्तुं श्रेयं प्रशस्ततरम् । ऐहिकदुर्यशोहेतुत्वेऽपि परलोकाविघातित्वात।

नन्वेते भीष्मादयो गुरवोऽपि युद्धगर्वावलेपात्छद्मना युष्मद्राज्यापहारं युष्मद्द्रोहं च कुर्वतां दुर्योधनादीनां संसर्गेण कार्याकार्यविवेकविरहाच्च सम्प्रति त्याज्या एव–

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतम् ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [म.भा. ५.१७८.२४] इति स्मृतेम् ।

इति चेत्तत्राह—महानुभावानिति । महान्सर्वोत्कृष्टोऽनुभावो वेदाध्ययनब्रह्मचर्यादिहेतुकं प्रभावो येषां तान। कालकामादयोऽपि यद्वश्यास्तेषां तद्दोषसम्बन्धो नेति भावम् ।

ननु—
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैम् ॥ [म.भा. ६.४१.३६]

इति भीष्मोक्तेरर्थलोभेन विक्रीतात्मनां तेषां कुतो महानुभावता ? ततो युद्धे हन्तव्यास्ते इति चेत्तत्राह हत्वार्थकामानिति । अर्थकामानपि गुरून्हत्वाहमिहैव लोके भोगान्भुञ्जीय, न तु परलोके । तांश्च रुधिरप्रदिग्धान्तद्रुधिरमिश्रानेव, न तु शुद्धान्भुञ्जीय तद्धिंसया तल्लाभात। तथा च युद्धगर्वावलेपादिमत्त्वेऽपि तेषां मद्गुरुत्वमस्त्येवेति पुनर्गुरुग्रहणेन सूच्यते ॥५॥

(२.६)

न चैतद्विद्मं कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुम् ।
यानेव हत्वा न जिजीविषामस्
तेऽवस्थितां प्रमुखे धार्तराष्ट्राम् ॥

श्रीधरम् : किं च यद्यप्यधर्ममङ्गीकरिष्यामं तथापि किमस्माकं जयं पराजयो वा गरीयान्भवेदिति न ज्ञायत इत्याह न चेदित्यादि । एतद्द्वयोर्मध्ये नोऽस्माकं कतरत्किं नाम गरीयोऽधिकतरं भविष्यतीति न विद्मम् । तदेव द्वयं दर्शयति । यद्वा एतान्वयं जयेम जेष्यामं यदि वा नोऽस्मानेते जयेयुं जेष्यन्तीति । जयोऽपि किं चास्माकं कतरत्जयपराजययोर्मध्ये किं खलु गरीयोऽधिकतरं भविष्यति एतन्न विद्मम् । तदेव पक्षद्वयं दर्शयति एतान्वयं जयेम, नोऽस्मान्वा एते जयेयुरिति । किं च जयोऽप्यस्माकं फलतं पराजय एवेत्याह यानेवेति ॥६॥

मधुसूदनम् : ननु भिक्षाशनस्य क्षत्रियं प्रति निषिद्धत्वाद्युद्धस्य च विहितत्वात्स्वधर्मत्वेन युद्धमेव तत्र श्रेयस्करमित्याशङ्क्याह न चैतदिति । एतदपि न जानीमो भैक्षयुद्धयोर्मध्ये कतरन्नोऽस्माकं गरीयं श्रेष्ठम् । किं भैक्षं हिंसाशून्यत्वादुत युद्धं स्वधर्मत्वादिति । इदं च न विद्म आरब्धेऽपि युद्धे यद्वा वयं जयेमातिशयीमहि यदि वा नोऽस्मान्जयेयुर्धार्तराष्ट्राम् । उभयों साम्यपक्षोऽप्यर्थाद्बोद्धव्यम् ।

किं च जातोऽपि जयो नं फलतं पराजय एव । यतो यान्बन्धून्हत्वा जीवितुमपि वयं नेच्छामं किं पुनर्विषयानुपभोक्तुं ? त एवावस्थितां संमुखे धार्तराष्ट्रा धृतराष्ट्रसम्बन्धिनो भीष्मद्रोणादयं सर्वेऽपि । तस्माद्भैक्षाद्युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थम् ।

तदेवं प्राक्तनेन ग्रन्थेन संसारदोषनिरूपणादधिकारिविशेषणान्युक्तानि । तत्र न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे इत्यत्र रणे हतस्य परिव्राट्समानयोगक्षेमत्वोक्तेमन्यच्छ्रेयोऽन्यदुतैव प्रेयं [क.उ. २.१] इत्यादिश्रुतिसिद्धं श्रेयो मोक्षाख्यमुपन्यस्तम् । अर्थाच्च तदितरदश्रेय इति नित्यानित्यवस्तुविवेको दर्शितम्, न काङ्क्षे विजयं कृष्णेत्य्[गीता १.३२] अत्रैहिकफलविरागम् । अपि त्रैलोक्यराज्यस्य [गीता १.३५] हेतोरित्यत्र पारलौकिकफलविरागम् । नरके नियतं वास [गीता १.४४] इत्यत्र स्थूलदेहातिरिक्त आत्मा, किं नो राज्येन [गीता १.३२] इति व्याख्यातवर्त्मना शमम् । किं भोगैर्[गीता १.३२] इति दमम् । यद्यप्येते न पश्यन्ति [गीता १.३८] इत्यत्र निर्लोभता । तन्मे क्षेमतरं भवेद्[गीता १.४६] इत्यत्र तितिक्षा । इति प्रथमाध्यायार्थं संन्याससाधनसूचनम् । अस्मिंस्त्वध्याये श्रेयो भोक्तुं भैक्षमपि [गीता २.५] इत्यत्र भिक्षाचर्योपलक्षितं संन्यासं प्रतिपादितम् ॥६॥

विश्वनाथम् : किं च गुरुद्रोहे प्रवृत्तस्यापि मम जयं पराजयो वा भवेदित्यपि न ज्ञायत इत्याह न चैतदित्यादि । तथापि नोऽस्माकं कतरत्जयपराजययोर्मध्ये किं खलु गरीयोऽधिकतरं भविष्यति एतन्न विद्मम् । तदेव पक्षद्वयं दर्शयति—एतान्वयं जयेम, नोऽस्मान्वा एते जयेयुरिति । किं च जयोऽप्यस्माकं फलतं पराजय एवेत्याह यानेवेति ॥६॥

बलदेवम् : ननु भैक्षभोजनं क्षत्रियस्य विगर्हितं, युद्धं च स्वधर्मं विजानन्नपि विभाषसे इति चेत्तत्राह न चैतदिति । एतद्वयं न विद्मम् । भैक्ष्ययुद्धयोर्मध्ये नोऽस्माकं कतरद्गरीयं प्रशस्ततरम् । हिंसाविरहाद्भैक्षं गरीयं स्वधर्मत्वाद्युद्धं वेति, एतच्च न विद्मम् । समारब्धे युद्धे वयं धार्तराष्ट्रान्जयेम ते वा नोऽस्मान्जयेयुरिति ।

ननु महाविक्रमिणां धर्मिष्ठानां च भवतामेव विजयो भावीति चेत्तत्राह यानेवेति । यान्धार्तराष्ट्रान्भीष्मादीन्सर्वान। न जिजीविषामो जीवितुमपि नेच्छामं किं पुनर्भोगान्भोक्तुमित्यर्थम् । तथा च विजयोऽप्यस्माकं फलतं पराजय एवेति । तस्माद्युद्धस्य भैक्षाद्गरीयस्त्वमप्रसिद्धमिति । एवमेतावता ग्रन्थेन तस्मादेवंविच्छान्तदान्त उपरतस्तितिक्षुं श्रद्धान्वितो भूत्वात्मन्येवात्मानं पश्येतिति श्रुतिप्रसिद्धमर्जुनस्य ज्ञानाधिकारित्वं दर्शितम् । तत्र किं नो राज्येन [गीता १.३२] इति शमदमौ । अपि त्रैलोक्यराज्यस्य [गीता १.३५] इत्यैहिकपारत्रिकभोगोपेक्षालक्षणा उपरतिम् । भैक्षं भोक्तुं श्रेय इति द्वन्द्वसहिष्णुत्वलक्षणा तितिक्षा । गुरुवाक्यदृढविश्वासलक्षणा श्रद्धा तूत्तरवाक्ये व्यक्तीभविष्यति, न खलु शमादिशून्यस्य ज्ञानेऽस्त्यधिकारं पङ्गादेरिव कर्मणीति ॥६॥

(२.७)

कार्पण्यदोषोपहतस्वभावम्
पृच्छामि त्वां धर्मसंमूढचेताम् ।
यच्छ्रेयं स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥

श्रीधरम् : उपदेशग्रहणे स्वाधिकारं सूचयति कार्पण्येत्यादि । अर्थात्कार्पण्यदोषोपहतस्वभावमेतान्हत्वा कथं जीविष्याम इति कार्पण्यं दोसश्च स्वकुलक्षयकृतम्, ताभ्यामुपहतोऽभिभूतं स्वभावं शौर्यादिलक्षणो यस्य सोऽहं त्वां पृच्छामि, तथा धर्मे संमूढं चेतो यस्य सम् । युद्धं त्यक्त्वा भिक्षाटनमपि क्षत्रियस्य धर्मोऽधर्मो वेति सन्दिग्धचित्तं सन्नित्यर्थम् । अतो मे यन्निश्चितं श्रेयं युक्तं स्यात्तद्ब्रूहि । किं च तेऽहं शिष्यं शासनार्हम् । अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय ॥७॥

मधुसूदनम् : गुरूपसदनमिदानीं प्रतिपाद्यते समधिगतसंसारदोषजातस्यातितरां निर्विण्णस्य विधिवद्गुरुमुपसन्नस्यैव विद्याग्रहणेऽधिकारात। तदेवं भीष्मादिसंकटवशात। व्युत्थायाथ भिक्षाचर्यं चरन्ति [बृ.आ.उ.  ३.५.१] इति श्रुतिसिद्धभिक्षाचर्येऽर्जुनस्याभिलाषं प्रदर्श्य विधिवद्गुरूपसत्तिमपि तत्सङ्कटव्याजेनैव दर्शयति कार्पण्येति ।

यं स्वल्पामपि चित्तक्षतिं न क्षमते स कृपण इति लोके प्रसिद्धम् । तद्विधत्वादखिलोऽनात्मविदप्राप्तपुरुषार्थतया कृपणो भवति । यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपण [बृ.आ.उ.  ३.८.१०] इति श्रुतेम् । तस्य भावं कार्पण्यमनात्माध्यासवत्त्वं तन्निमित्तोऽस्मिन्जन्मन्येत एव मदीयास्तेषु हतेषु किं जीवितेनेत्यभिनिवेशरूपो ममतालक्षणो दोषस्तेनोपहतस्तिरस्कृतं स्वभावं क्षात्रो युद्धोद्योगलक्षणो यस्य स तथा । धर्मे विषये निर्णायकप्रमाणऽदर्शनात्संमूढं किमेतेषां वधो धर्मं किमेतत्परिपालनं धर्मम् । तथा किं पृथ्वीपरिपालनं धर्मं किं वा यथावस्थितोऽरण्यनिवास एव धर्म इत्यादिसंशयैर्व्याप्तं चेतो यस्य स तथा । न चैतद्विद्मं कतरन्नो गरीय इत्यत्र व्याख्यातमेतत। एवंविधं सन्नहं त्वा त्वामिदानीं पृच्छामि श्रेय इत्यनुषङ्गम् ।

अतो यन्निश्चितमैकान्तिकमात्यन्तिकं च श्रेयं परमपुमर्थभूतं फलं स्यात्तन्मे मह्यं ब्रूहि । साधनानन्तरमवश्यम्भावित्वमैकान्तिकतवं, जातस्याविनाश आत्यन्तिकत्वम् । यथा ह्यौषधे कृते कदाचिद्रोगनिवृत्तिर्न भवेदपि जातापि च रोगनिवृत्तिं पुनरपि रोगोत्पत्त्या विनाश्यते । एवं कृतेऽपि यागे प्रतिबन्धवशात्स्वर्गो न भवेदपि जातोऽपि स्वर्गो दुम्खाक्रान्तो नश्यति चेति नैकान्तिकत्वमात्यन्तिकत्वं वा तयोम् । तदुक्तम्—

दुम्खत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ ।
दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात॥ (Sअ.K. १) इति ।
दृष्टवदानुश्रविकं स ह्यवैशुद्धिक्षयातिशययुक्तम् ।
तद्विपरीतं श्रेयान्व्यक्ताव्यक्तज्ञविज्ञानात॥ (Sअ.K. १) इति ।

ननु त्वं मम सखा न तु शिष्योऽत आह शिष्यस्तेऽहमिति । त्वदनुशासनयोग्यत्वादहं तव शिष्य एव भवामि न सखा न्यूनज्ञानत्वात। अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया न त्वशिष्यत्वशङ्कयोपेक्षणीयोऽहमित्यर्थम् । एतेन—तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिं श्रोत्रियं ब्रह्मनिष्ठं [मु.उ.  १.२.११], भृगुर्वै वारुणिम् । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति [तै.उ. ३.१] इत्यादिगुरूपसत्तिप्रतिपादकं श्रुत्यर्थो दर्शितम् ॥७॥

विश्वनाथम् : ननु तर्हि सोपपत्तिकं शास्त्रार्थं त्वमेव ब्रुवाणं क्षत्रियो भूत्वा भिक्षाटनं निश्चिनोषि तर्ह्यलं मदुक्त्येति तत्राह कार्पण्येति । स्वाभाविकस्य शौर्यस्य त्याग एव मे कार्पण्यम् । धर्मस्य सूक्ष्मा गतिरित्यतो धर्मव्यवस्थायामप्यहं मूढबुद्धिरेवास्मि । अतस्त्वमेव निश्चित्य श्रेयो ब्रूहि ।

ननु मद्वाचस्त्वं पण्डतमानित्वेन खण्डयसि चेत्, कथं ब्रूयां ? तत्राह शिष्यस्तेऽहमस्मि । नातं परं वृथा खण्डयामीति भावम् ॥७॥

बलदेवम् : अथ तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिं श्रोत्रियं ब्रह्मनिष्ठं [मु.उ.  १.२.११], आचार्यवान्पुरुषो वेद [छा.उ. ६.१४.२] इत्यादि श्रुतिसिद्धां गुरूपसत्तिं दर्शयति कार्पण्येति । यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपण [बृ.आ.उ.  ३.८.१०] इति श्रवणादब्रह्मवित्त्वं कार्पण्यम् । तेन हेतुना यो दोषो यानेव हत्वेति बन्धुवर्गममतालक्षणस्तेनोपहतस्वभावो युद्धस्पृहालक्षणं स्वधर्मो यस्य सम् । धर्मे संमूढं क्षत्रियस्य मे युद्धं स्वधर्मस्तद्विहाय भिक्षाटनं वेत्येवं सन्दिहानं चेतो यस्य सम् । ईदृशं सन्नहं त्वामिदानीं पृच्छामि—तस्मान्निश्चितमेकान्तिकमात्यन्तिकं यन्मे श्रेयं स्यात्तत्त्वं ब्रूहि । साधनोत्तरमवश्यंभावित्वमैकान्तिकत्वं, भूतस्याविनाशित्वमात्यन्तिकत्वम् ।

ननु शरणागतस्योपदेशं तद्विज्ञानार्थं स गुरुमेवाभिगच्छेतित्यादिश्रुतेम् । सखायं त्वां कथमुपदिशामीति चेत्तत्राह शिष्यस्तेऽहमिति । शाधि शिक्षय ॥७॥

(२.८)

न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नं ऋद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥

श्रीधरम् : त्वमेव विचार्य यद्युक्तं तत्कुर्विति चेत्, तत्राह न हि प्रपश्यामीति । इन्द्रियाणामुच्छोषणमतिशोषणकरं मदीयं शोकं यत्कर्म अपनुद्यातपनयेत्तदहं न प्रपश्यामीति । यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि । तथा सुरेन्द्रत्वमपि यदि प्राप्स्यामि एवमभीष्टं तत्तत्सर्वमवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्यन्वयम् ॥८॥

मधुसूदनम् : ननु स्वयमेव त्वं श्रेयो विचारय श्रुतसम्पन्नोऽसि किं परशिष्यत्वेनेत्यत आह नहीति । यच्छ्रेयं प्राप्तं सत्कर्तृ मम शोकमपनुद्यादपनुदेन्निवारयेत्तन्न पश्यामि हि यस्मात्तस्मान्मां शाधीति सोऽहं भगवं शोचामि तं मा भगवाञ् छोकस्य पारं तारयतु [छा.उ. ७.१.३] इति श्रुत्यर्थो दर्शितम् । शोकानपनोदे को दोष इत्याशङ्क्य तद्विशेषणमाह इन्द्रियाणामुच्छोषणमिति । सर्वदा सन्तापकरमित्यर्थम् ।

ननु युद्धे प्रयतमानस्य तव शोकनिवृत्तिर्भविष्यति जेष्यसि चेत्तदा राज्यप्राप्त्या द्वावेतौ पुरुषौ लोके इत्यादिधर्मशास्त्रादित्याशङ्क्याह अवाप्येत्यादिना । शत्रुवर्जितं सस्यादिसम्पन्नं च राज्यं तथा सुराणामाधिपत्यं हिरण्यगर्भत्वपर्यन्तमैश्वर्यमवाप्य स्थितस्यापि मम यच्छोकमपनुद्यात्तन्न पश्यामीत्यन्वयम् । तद्यथेह कर्मजितो लोकं क्षीयत एवमेवामुत्र पुण्यजितो लोकं क्षीयते [छा.उ. ८.१.६] इति श्रुतेम् । यत्कृतकं तदनित्यमित्यनुमानात्प्रत्यक्षेणाप्यैहिकानां विनाशदर्शनाच्च नैहिक आमुत्रिको वा भोगं शोकनिवर्तकं किन्तु स्वसत्ताकालेऽपि भोगपारतन्त्र्यादिना विनाशकालेऽपि विच्छेदाच्छोकजनक एवेति न युद्धं शोकनिवृत्तयेऽनुष्ठेयमित्यर्थम् । एतेनेहामुत्रभोगविरागोऽधिकारिविशेषणत्वेन दर्शितम् ॥८॥

विश्वनाथम् : ननु मयि तव सख्यभाव एव, न तु गौरवम् । अतस्त्वां कथमहं शिष्यं करोमि ? तस्माद्यत्र तव गौरवं तं कमपि द्वैपायनादिकं प्रपद्यस्व इत्यत आह न हीति । मम शोकमपनुद्यात्दूरीकुर्यादेवं जनं न प्रकर्षेण पश्यामि त्रिजगत्येकं त्वां विना । स्वस्मादधिकबुद्धिमन्तं बृहस्पतिमपि न जानामीत्यतं शोकार्त एव खलु कं प्रपद्येय इति भावम् । यद्यतं शोकादिन्द्रियाणामुच्छोषणं महानिदाघात्क्षुद्रसरसामिव उत्कर्षेण शोषो भवति ।

ननु तर्हि साम्प्रतं त्वं शोकार्त एव खलु युध्यस्व । ततश्चैतान्जित्वा राज्यं प्रातवतस्तव राज्यभोगाभिनिवेशेनैव शोकोऽपयास्यतीत्याह अवाप्येति । भूमौ निष्कण्टकं राज्यं स्वर्गे सुराणामाधिपत्यं वा प्राप्यापि स्थितस्य ममेन्द्रियाणामेतदुच्छोषणमेवेत्यर्थम् ॥८॥

बलदेवम् : ननु त्वं शास्त्रज्ञोऽसि स्वहितं विचार्यानुतिष्ठ, सख्युर्मे शिष्यं कथं भवेरिति चेत्तत्राह न हीति । यत्कर्म मम शोकमपनुद्याद्दूरीकुर्यात्तदहं न प्रपश्यामि । शोकं विशिनष्टि—इन्द्रियाणामुच्छोषणमिति । तस्माच्छोकविनाशाय त्वां प्रपन्नोऽस्मीति । इत्थं च सोऽहं भगवं शोचामि तं मां भवान्शोकस्य पारं तारयतु इति श्रुत्यर्थो दर्शितम् ।

ननु त्वमधुना शोकाकुलं प्रपद्यसे युद्धात्सुखसमृद्धिलाभे विशोको भविष्यसीति चेत्तत्राह अवाप्येति । यदि युद्धे विजयी स्यां तदा भूमावसपत्नं निष्कण्टकं राज्यं प्राप्य यदि च तत्र हतं स्यां तदा स्वर्गे सुराणामाधिपत्यं प्राप्य स्थितस्य मे विशोकत्वं न भवेदित्यर्थम् । तद्यथेह कर्मजितो लोकं क्षीयत एवमेवामुत्र पुण्यजितो लोकं क्षीयते [छा.उ. ८.१.६] इति श्रुतेर्नैहिकं पारत्रिकं वा युद्धलब्धं सुखं शोकापहं तस्मात्तादृशमेव श्रेयस्त्वं ब्रूहीति न युद्धं शोकहरम् ॥८॥


(२.९)

संजय उवाच
एवमुक्त्वा हृषीकेशं गुडाकेशं परन्तपम् ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥

श्रीधरम् : एवमुक्त्वार्जुनं किं कृतवानित्यपेक्षायां सञ्जय उवाच एवमित्यादि । स्पष्टार्थम् ॥९॥

मधुसूदनम् : तदनन्तरमर्जुनं किं कृतवानिति धृतराष्ट्राकाङ्क्षायां सञ्जय उवाच एवमित्यादि । गुडाकेशो जितालस्यं परन्तपं शत्रुतापनोऽर्जुनो हृषीकेशं सर्वेन्द्रियप्रवर्तकत्वेनान्तर्यामिणं गोविन्दं गां वेदलक्षणां वाणीं विन्दतीति व्युत्पत्त्या सर्ववेदोपादानत्वेन सर्वज्ञमादावेवं कथं भीष्ममहं सङ्ख्य इत्यादिना युद्धस्वरूपायोग्यतामुक्त्वा तदनन्तरं न योत्स्य इति युद्धफलाभावं चोक्त्वा तूष्णीं बभूव बाह्येन्द्रियव्यापारस्य युद्धार्थं पूर्वं कृतस्य निवृत्त्या निर्व्यापारो जात इत्यर्थम् । स्वभावतो जितालस्ये सर्वशत्रुतापने च तस्मिन्नागन्तुकमालस्यमतापकत्वं च नास्पदमाधास्यतीति द्योतयितुं हशब्दम् । गोविन्दहृषीकेशपदाभ्यां सर्वज्ञत्वसर्वशक्तित्वसूचकाभ्यां भगवतस्तन्मोहापनोदनमनायाससाध्यमिति सूचितम् ॥९॥

विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : ततोऽर्जुनं किमकरोदित्यपेक्षायां सञ्जय उवाच एवमुक्त्वेत्यादि । गुडाकेशो हृषीकेशं प्रति एवं न हि प्रपश्यामीत्यादिना युद्धस्य शोकानिवर्तकत्वमुक्त्वा परन्तपोऽपि गोविन्दं सर्ववेदज्ञं प्रति न योत्स्ये इति चोक्त्वेति योज्यम् । तत्र हृषीकेशत्वाद्बुद्धिं युद्धे प्रवर्तयिष्यति । सर्ववेदवित्त्वाद्युद्धे स्वधर्मत्वं ग्राहयिष्यतीति व्यज्य धृतराष्ट्रहृदि संजाता स्वपुत्रराज्याशा निरस्यते ॥९॥

(२.१०)

तमुवाच हृषीकेशं प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचम् ॥

श्रीधरम् : ततं किं वृत्तमित्यपेक्षायामाह तमुवाचेति । प्रहसन्निव प्रसन्नमुखं सन्नित्यर्थम् ॥१०॥

मधुसूदनम् : एवं युद्धमुपेक्षितवत्यप्यर्जुने भगवान्नोपेक्षितवानिति धृतराष्ट्रदुराशानिरासायाऽह तमुवाचेति । सेनयोरुभयोर्मध्ये युद्धोद्यमेनागत्य तद्विरोधिनं विषादं मोहं प्राप्नुवन्तं तमर्जुनं प्रहसन्निवानुचिताचारणप्रकाशनेन लज्जाम्बुधौ मज्जयन्निव हृषीकेशं सर्वान्तर्यामी भगवानिदं वक्ष्यमाणमशोच्यानित्यादि वचं परमगम्भीरार्थमनुचिताचरणप्रकाशकमुक्तवान्न त्ûपेक्षितवानित्यर्थम् ।

अनुचिताचरणप्रकाशनेन लज्जोत्पादनं प्रहासम् । लज्जा च दुम्खात्मिकेति द्वेषविषय एव स मुख्यम् । अर्जुनस्य तु भगवत्कृपाविषयत्वादनुचिताचरणप्रकाशनस्य च विवेकोत्पत्तिहेतुत्वादेकदलाभावेन गौण एवायं प्रहास इति कथयितुमिवशब्दम् । लज्जामुत्पादयितुमिव विव्कमुत्पादयितुमर्जुनस्यानुचिताचरणं भगवता प्रकाश्यते । लज्जोत्पत्तिस्तु नान्तरीयकतयास्तु मास्तु वेति न विवक्षितेति भावम् ।

यदि हि युद्धारम्भात्प्रागेव स्थितो युद्धमुपेक्षेत तदा नानुचितं कुर्यात। महता संरम्भेण तु युद्धभूमावागत्य तदुपेक्षणमतीवानुचितमिति कथयितुं सेनयोरित्यादिविशेषणम् । एतच्चाशोच्यानित्यादौ स्पष्टं भविष्यति ॥१०॥

विश्वनाथम् : अहो त्वाप्येतावान्खल्वविवेक इति सख्यभावेन तं प्रहसननौचित्यप्रकाशेन लज्जाम्बुधौ निमज्जयनिवेति तदानीं शिष्यभावं प्राप्ते तस्मिन्हास्यमनुचितमित्यधरोष्ठनिकुञ्चनेन हास्यमावृण्वंश्चेत्यर्थम् । हृषीकेश इति पूर्वं प्रेमाइवार्जुनवाङ्नियम्योऽपि साम्प्रतमर्जुनहितकारित्वात्प्रेम्णैवार्जुनमनोनियन्तापि भवतीति भावम् । सेनयोरुभयोर्मधे इत्यर्जुनस्य विषादो भगवता प्रबोधश्च उभाभ्यां सेनाभ्यां सामान्यतो दृष्ट एवेति भावम् ॥१०॥

बलदेवम् : व्यङ्गमर्थं प्रकाशयन्नाह तमुवाचेति तं विषीदन्तमर्जुनं प्रति हृषीकेशो भगवानशोच्यानित्यादिकमतिगम्भीरार्थं वचनमुवाच । अहोतवापीदृग्विवेकमिति सख्यभावेन प्रहसन। अनौचित्यभाषित्वेन त्रपासिन्धौ निमज्जयनित्यर्थम् । इवेति तदैव शिष्यतां प्राप्ते तस्मिन्हासानौचित्यादीषदधरोल्लासं कुर्वन्नित्यर्थम् । अर्जुनस्य विषादो भगवता तस्योपदेशश्च सर्वसाक्षिक इति बोधयितुं सेनयोरुभयोरित्येतत॥१०॥

(२.११)

श्रीभगवानुवाच——
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताम् ॥

श्रीधरम् : देहात्मनोरविवेकादस्यैवं शोको भवतीति तद्विवेकदर्शनार्थं श्रीभगवानुवाच— अशोच्यानित्यादि । शोकस्याविषयीभूतानेव बन्धून्त्वमन्वशोचमनुशोचितवानसि दृष्ट्वेमान्स्वजनान्कृष्ण इत्यादिना । तत्र कुतस्त्वा कश्मलमिदं विषमे समुपस्थितमित्यादिना मया बोधितोऽपि पुनश्च प्रज्ञावतां पण्डितानां वादान्शब्दान्कथं भीष्ममहं सङ्ख्ये इत्यादीन्केवलं भाषसे, न तु पण्डितोऽसि, यतं गतासून्गतप्राणान्बन्धूनगतासूंश्च जीवतोऽपि, बन्धुहीना एते कथं जीविष्यन्तीति नानुशोचन्ति पण्डिता विवेकिनम् ॥११॥

मधुसूदनम् : तत्रार्जुनस्य युद्धाख्ये स्वधर्मे स्वतो जातापि प्रवृत्तिर्द्विविधेन मोहेन तन्निमित्तेन च शोकेन प्रतिबद्धेति द्विविधो मोहस्तस्य निराकरणीयम् । तत्रात्मनि स्वप्रकाशपरमानन्दरूपे सर्वसंसारधर्माऽसंसर्गिणि स्थूलसूक्ष्मशरीरद्वयतत्कारणाविद्याख्योपाधित्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्मधर्मत्वादिप्रतिभासरूप एकं सर्वप्राणिसाधारणम् । अपरस्तु युद्धाख्ये स्वधर्मे हिंसादिबाहुल्येनाधर्मत्वप्रतिभासरूपोर्जुनस्यैव करुणादिदोषनिबन्धनोऽसाधारणम् । एवमुपाधित्रयविवेकेन शुद्धात्मस्वरूपबोधं प्रथमस्य निवर्तकं सर्वसाधारणम्, द्वितीयस्य तु हिंसादिमत्त्वेऽपि युद्धस्य स्वधर्मत्वेनाधर्मत्वाभावबोधोऽसाधारणम्, शोकस्य तु कारणनिवृत्त्यैव निवृत्तेर्न पृथक्साधनान्तरापेक्षेत्यभिप्रेत्य क्रमेण भ्रमद्वयमनुवदन्श्रीभगवानुवाच——अशोच्यानिति ।

अशोच्यान्शोचितुमयोग्यानेव भीष्मद्रोणादीनात्मसहितांस्त्वं पण्डितोऽपि सनन्वशोचोऽनुशोचितवानसि । ते म्रियन्ते मन्निमित्तमहं तैर्विनाभूतं किं करिष्यामि ? राज्यसुतथा च नेत्येवमर्थकेन दृष्ट्वेमं स्वजनमित्यादिना । तथा चाशोच्ये शोच्यभ्रमं पश्वादिसाधारणम्, तवात्यन्तपण्डितस्यानुचित इत्यर्थम् । तथा कुतस्त्वा कश्मलमित्यादिना मद्वचनेनानुचित्तमिदमाचरितं मयेति विमर्शे प्राप्तेऽपि त्वं स्वयं प्रज्ञोऽपि सन्प्रज्ञानामवादान्प्रज्ञैर्वक्तुमनुचिताञ् शब्दांश्च, कथं भीष्ममहं संख्ये इत्यादीन्भाषसे वदसि, न तु लज्जया तूष्णीं भवसि ।


अतं परं किमनुचितमस्तीति सूचयितुं चकारम् । तथा चाधर्मे धर्मत्वभ्रान्तिधर्मे चाधर्मत्वभ्रान्तिरसाधारणी तवातिपण्डितस्य नोचितेति भावम् । प्रज्ञावतां पण्डितानां वादान्भाषसे परं, न तु बुध्यस इति वा भाषणापेक्षयानुशोचनस्य प्राक्कालत्वादतीतत्वनिर्देशम् । भाषणस्य तु तदुत्तरकालत्वेनाव्यवहितत्वाद्वर्तमानत्वनिर्देशम् । छान्दसेन तिङ्व्यत्ययेनानुशोचसीति वर्तमानत्वं व्याख्येयम् ।

ननु बन्धुविच्छेदे शोको नानुचितं वसिष्ठादिभिर्महाभागैरपि कृतत्वादित्याशङ्क्याह—गतासूनिति । ये पण्डितां विचारजन्यात्मतत्त्वज्ञानवन्तस्ते गतप्राणानगतप्राणांश्च बन्धुत्वेन कल्पितान्देहान्नानुशोचन्ति । एते मृतां सर्वोपकरणपरित्यागेन गतां किं कुर्वन्ति ? क्व तिष्ठन्ति ? एते च जीवन्तो बन्धुविच्छेदेन कथं जीविष्यन्ति ? इति न व्यामुह्यन्ति । समाधिसमये तत्प्रतिभासाभावात्, व्युत्थानसमये तत्प्रतिभासेऽपि मृषात्वेन निश्चयात। न हि रज्जुतत्त्वसाक्षात्कारेण सर्पभ्रमेऽपनीते तन्निमित्तभयकम्पादि संभवति, न वा पित्तोपहतेन्द्रियस्य कदाचिद्गुडे तिक्तताप्रतिभासेऽपि तिक्तार्थितया तत्र प्रवृत्तिं संभवति, मधुरत्वनिश्चयस्य बलवत्त्वात।

एवमात्मस्वरूपाज्ञाननिबन्धनत्वाच्छोच्यभ्रमस्य तत्स्वरूपज्ञानेन तदज्ञानेऽपनीते तत्कार्यभूतं शोच्यभ्रमं कथमवतिष्ठेतेति भावम् । वसिष्ठादीनां प्रारब्धकर्मप्राबल्यात्तथा तथानुकरणं न शिष्टाचारतयान्येषामनुष्ठेयतामापादयति, शिष्टैर्धर्मबुद्ध्यानुष्ठीयमानस्यालौकिकव्यवहारस्यैव तदाचारत्वातन्यथा निष्ठीवनादेरप्यनुष्ठानप्रसङ्गादिति दृष्टव्यम् । यस्मादेवं तस्मात्त्वमपि पण्डितो भूत्वा शोकं माकार्षीरित्यभिप्रायं  ॥११॥

विश्वनाथम् : भो अर्जुन ! तवायं बन्धवधहेतुकं शोको भ्रममूलक एव, तथा कथं भीष्ममहं सङ्ख्ये इत्यादिको विवेकश्चाप्रज्ञामूलक एवेत्याह अशोच्यानित्यादि । अशोच्यान्शोकानार्हानेव त्वमन्वशोचोऽनुशोचितवानसि । तथा त्वां प्रबोधयन्तं मां प्रति प्रज्ञावादान्प्रज्ञायां सत्यामेव ये वादां कथं भीष्ममहं सङ्ख्ये इत्यादीनि वाक्यानि तान्भाषसे, न तु तव कापि प्रज्ञा वर्तते इति भावम् । यतं पण्डितां प्रज्ञावन्तो गतासून्गता निम्सृता भवन्त्यसवो येभ्यस्तान्स्थूलदेहान्न शोचन्ति, तेषां नश्वरभावत्वादिति भावम् । अगतासूननिम्सृतप्राणान्सूक्ष्मदेहानपि न शोचन्ति, ते हि मुक्तें पूर्वं नश्वरा एव । उभयेषामपि तथा तथा स्वभावस्य दुष्परिहरत्वात। मूर्खास्तु पिर्त्रादिदेहेभ्यं प्राणेषु निम्सृतेष्वेव शोचन्ति, सूक्ष्मदेहांस्तु न, ते प्रायं परिचिन्वन्त्यसतस्तैरलम् । एते हि सर्वे भीष्मादयं स्थूलसूक्ष्मदेहसहिता आत्मान एव । आत्मनां तु इत्यत्वात्तेषु शोकप्रवृत्तिरेव नास्तीत्यतस्त्वया यत्पूर्वमर्थशास्त्रात्धर्मशास्त्रं बलवदित्युक्तं तत्र मया तु धर्मशास्त्रादपि ज्ञानशास्त्रं बलवदित्युच्यत इति भावम् ॥११॥

बलदेवम् : एवमर्जुने तूष्णीं स्थिते तद्बुद्धिमाक्षिपन्भगवानाह अशोच्यानिति । हे अर्जुन ! अशोच्यान्शोचितुमयोग्यानेव धार्तराष्ट्रांस्त्वमन्वशोचं शोचितवानसि । तथा मां प्रति प्रज्ञावादान्प्रज्ञावतामिव वचनानि दृष्ट्वेमं स्वजनमित्यादीनि, कथं भीष्ममित्यादीनि च भाषसे, न च ते प्रज्ञालेशोऽप्यस्तीति भावम् । ये तु प्रज्ञावन्तस्ते गतासून्निर्गतप्राणान्स्थूलदेहान्, अगतासूंश्चानिर्गतप्राणान्सूक्ष्मदेहांश्च, शब्दादात्मनश्च न शोचन्ति । अयमर्थम्—शोकं स्थूलदेहानां विनाशित्वात्, नान्त्यं सूक्ष्मदेहानां मुक्तें प्रागवैनाशित्वात्तद्वतामात्मनां तु षड्भावविकारवर्जितानां नित्यत्वान्न शोच्यातेति । देहात्मस्वभावविदां न कोऽपि शोकहेतुम् । यदर्थशास्त्राद्धर्मशास्त्रस्य बलवत्त्वमुच्यते । तत्किल ततोऽपि बलवता ज्ञानशास्त्रेण प्रत्युच्यते । तस्मादशोच्ये शोच्यभ्रमं पामरसाधारणं पण्डितस्य ते न योग्य इति भावम् ॥११॥

(२.१२)

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाम् ।
न चैव न भविष्यामं सर्वे वयमतं परम् ॥

श्रीधरम् : अशोच्यत्वे हेतुमाह न त्वेवाहमिति । यथाहं परमेश्वरो जातु कदाचित्लीलाविग्रहस्याविर्भावतिरोभावतो नासमिति तु नैव । अपि त्वासमेव अनादित्वात। न च त्वं नासीं नाभूम्, अपि त्वासीरेव । इमे वा जनाधिपा नृपा नासन्निति न, अपि तु आसन्नेव मदंशत्वात। तथातं परमित उपर्यपि न भविष्यामो न स्थास्याम इति च नैव, अपि तु स्थास्याम एवेति जन्ममरणशून्यत्वादशोच्या इत्यर्थम् ॥१२॥

मधुसूदनम् : न त्वेवेत्याद्येकोनविंशतिश्लोकैम्, अशोच्यानन्वशोचस्त्वमित्यस्य विवरणं क्रियते । स्वधर्ममपि चावेक्ष्य इत्याद्यष्टभिं श्लोकैम् । प्रज्ञावादांश्च भाषसे इत्यस्य मोहद्वयस्य पृथक्प्रयत्ननिराकर्तव्यत्वात। तत्र स्थूलशरीरादात्मानं विवेक्तुं नित्यत्वं साधयति—न त्विति ।

तुशब्दो देहादिभ्यो व्यतिरेकं सूचयति । यथा अहमितं पूर्वं जातु कदाचिदपि नासमिति नैव, अपि तु आसमेव, तथा त्वमप्यासीम्, इमे जनाधिपाश्चासन्नेव । एतेन प्रागभावाप्रतियोगित्वं दर्शितम् । तथा सर्वे वयमहं त्वमिमे जनाधिपाश्चातम्परं नभविष्याम इति न, अपि तु भविष्याम एवेति ध्वंसाप्रतियोगित्वमुक्तम् । अतं कालत्रयेऽपि सत्तायोगित्वादात्मनो नित्यत्वेनानित्याद्देहाद्वैलक्षण्यं सिद्धमित्यर्थम् ॥१२॥

विश्वनाथम् : अथवा सखे त्वामहमेवं पृच्छामि । किं च प्रीत्यास्पदस्य मरणे दृष्टे सति शोको जायते, तत्रेह प्रीत्यास्पदमात्मा देहो वा ? सर्वेषामेव भूतानां नृप स्वात्मैव वल्लभं [भा.पु. १०.१४.५७] इति शुकोक्तेरात्मैव प्रीत्यास्पदमिति चेत्तर्हि जीवेश्वरभेदेन द्विविधस्यैवात्मनो नित्यत्वादेव मरणाभावादात्मा शोकस्य विषयो नेत्याह न त्वेवाहमिति । अहं परमात्मा जातु कदाचिदपि पूर्वं नासमिति न, अपि त्वासमेव । तथा त्वमपि जीवात्मा आसीरेव । तथेमे जनाधिपा राजानश्च जीवात्मान आसन्नेवेति प्रागभावाभावो दर्शितम् । तथा सर्वे वयमहं त्वमिमे जनाधिपाश्चातं परं न भविष्यामो न स्थास्याम इति न, अपि तु स्थास्याम एवेति ध्वंसाभावश्च दर्शित इति परमात्मनो जीवात्मनां च नित्यत्वादात्मा न शोकविषय इति साधितम् । अत्र श्रुतयम्—नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्[श्वे.उ. ६.१३] इत्याद्याम् ॥१२॥

बलदेवम् : एवमस्थानशोचित्वादपाण्डित्यमर्जुनस्यापाद्य तत्त्वजिज्ञासुं नियोजिताञ्जलिं तं प्रति सर्वेश्वरो भगवान्नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्[श्वे.उ. ६.१३] इति श्रुतिसिद्धं स्वस्माज्जीवानां च पारमर्थिकं भेदमाह न त्वेवाहमिति । हे अर्जुन ! अहं सर्वेश्वरो भगवानितं पूर्वस्मिन्नादौ काले जातु कदाचिन्नासमिति न, अपि त्वासमेव । तथा त्वमर्जुनो नासीरिति न, किन्त्वासीरेव । इमे जनाधिपा राजानो नासन्निति न, किन्त्वासन्नेव । तथेतं परस्मिन्नन्ते काले सर्वे वयमहं च त्वं च इमे च न भविष्याम इति न, किन्तु भविष्याम एवेति । सर्वेश्वरवज्जीवानां च त्रैकालिकसत्तायोगित्वात्तद्विषयको न शोको युक्त इत्यर्थम् । न चाविद्याकृतत्वाद्व्यवहारिकोऽयं भेदम् । सर्वज्ञे भगवत्यविद्यायोगात। इदं ज्ञानमुपाश्रित्य इत्यादिना मोक्षेऽपि तस्याभिदास्यमानत्वाच्च । न चाभेदज्ञस्यापि हरेर्बाधितानुवृत्तिन्यायेनेयमर्जुनादिभेददृष्टिरिति वाच्यम् । तथा सत्युपदेशासिद्धेम् । मरुमरीचिकादावुदकबुद्धिर्बाधिताप्यनुवर्तमाना मिथ्यार्थविषयत्वनिश्चयान्नोदकाहरणादौ प्रवर्तयेदेवमभेदबोधबाधिताप्यनुवर्तमानार्जुनादिभेददृष्टिस्तत्त्वनिश्चयान्नोपदेशादौ प्रवर्तयिष्यतीति यत्किञ्चिदेतत।

ननु फलवत्यज्ञातेऽर्थे शास्त्रतात्पर्यवीक्षणात्तादृशोऽभेदस्तात्पर्यविषयो वैफल्याज्ज्ञातत्वाच्च । भेदस्तद्विषयो न स्यात्, किन्तु अद्भ्यो वा एष प्रातरुदेत्यपं सायं प्रविशति इत्यादिश्रुत्यर्थवदनुवाद्य एव स इति चेन्मन्दमेतत। पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति [श्वे.उ. १.६] इत्यादिना भेद एवामृतत्वफलश्रवणात। विरुद्धधर्मावच्छिन्नप्रतियोगिकतया लोके तस्याज्ञातत्वाच्च । ते च धर्मा विभुत्वाणुत्वस्वामित्वभृत्यत्वादयं शास्त्रैकगम्या मिथो विरुद्धा बोध्याम् । अभेदस्त्वफलस्तत्र फलानङ्गीकारात। अज्ञातश्च शशशृङ्गवदसत्त्वात। तस्मात्परमार्थिकस्तद्भेदं सिद्धम् ॥१२॥

(२.१३)

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥

श्रीधरम् : नन्वीश्वरस्य तव जन्मादिशून्यत्वं सत्यमेव, जीवानां तु जन्ममरणे प्रसिद्धे । तत्राह देहिन इत्यादि । देहिनो देहाभिमानिनो जीवस्य यथास्मिन्स्थूलदेहे कौमाराद्यवस्थास्तद्देहनिबन्धना एव, न तु स्वतम्, पूर्वावास्थानाशे ।वस्थान्तरोत्पत्तावपि स एवाहमिति प्रत्यभिज्ञानात। तथैव एतद्देहनाशे देहान्तरप्राप्तिरपि लिङ्गदेहनिबन्धनैव । न तावदात्मनो नाशम्, जातमात्रस्य पूर्वसंस्कारेण स्तन्यपानादौ प्रवृत्तिदर्शनात। अतो धीरो धीमान्तत्र तयोर्देहनाशोत्पत्त्योर्न मुह्यति । आत्मैव मृतो जातश्चेति न मन्यते ॥१३॥

मधुसूदनम् : ननु, “देहमात्रं चैतन्यविशिष्टमात्मा” इति लोकायतिकाम् । तथा च स्थूलोऽहं गौरोऽहं गच्छामि चेत्यादिप्रत्यक्षप्रतीतानां प्रामाण्यमनपोहितं भविष्यति, यतं कथं देहादात्मनो व्यतिरेकम्, व्यतिरेकेऽपि कथं वा जन्मविनाशशून्यत्वं जातो देवदत्तो मृतो देवदत्त इति प्रतीतेर्देहजन्मनाशाभ्यां सहात्मनोऽपि जन्मविनाशोपपत्तेरित्याशङ्क्याह—देहिन इति ।

देहां सर्वे भूतभविष्यवर्तमाना जगन्मण्डलवर्तिनोऽस्य सन्तीति देही । एकस्यैव विभुत्वेन सर्वदेहयोगित्वात्सर्वत्र चेष्टोपपत्तेर्न प्रतिदेहमात्मभेदे प्रमाणमस्तीति सूचयितुमेकवचनम् । सर्वे वयमिति बहुवचनं तु पूर्वत्रदेहभेदानुवृत्त्या, न त्वात्मभेदाभिप्रायेणेति न दोषम् ।

तस्य देहिन एकस्यैव सतोऽस्मिन्वर्तमाने देहे यथा कौमारं यौवनं जरेत्यवस्थात्रयं परस्परविरुद्धं भवति, न तु तद्भेदेनात्मभेदम्, य एवाहं बाल्ये पितरावन्वभूवं, स एवाहं वार्धके प्रणप्त्èननुभवामीति दृढतरप्रत्यभिज्ञानात्, अन्यनिष्ठसंस्कारस्य चान्यत्रानुसन्धानाजनकत्वात। तथा तेनैव प्रकारेणाविकृतस्यैव सत आत्मनो देहान्तरप्राप्तिरेतस्माद्देहादत्यन्तविलक्षणदेहप्राप्तिं स्वप्ने योगैश्वर्ये च तद्देहभेदानुसन्धानेऽपि स एवाहमिति प्रत्यभिज्ञानात।

तथा च यदि देह एवात्मा भवेत्, तदा कौमारादिभेदेन देहे भिद्यमाने प्रतिसन्धानं न स्यात्, अथ तु कौमाराद्यवस्थानामत्यन्तवैलक्षण्येऽप्यवस्थावतो देहस्य, यावत्प्रत्यभिज्ञं वस्तुस्थितिमिति न्यायेनैक्यं ब्रूयात। तदापि स्वप्नयोगैश्वर्ययोर्देहधर्मभेदे प्रतिसन्धानं न स्यादित्युभयोदाहरणम् । अतो मरुमरीचिकादावुदकादिबुद्धेरिव स्थूलोऽहमित्यादिबुद्धेरपि भ्रमत्वमवश्यमभ्युपेयम्, बाधस्योभयत्रापि तुल्यत्वात। एतच्च न जायते इत्यादौ प्रपञ्चयिष्यते । एतेन देहाद्व्यतिरिक्तो देहेन सहोत्पद्यते विनश्यति चेति पक्षोऽपि प्रत्युक्तम् । तत्रावस्थाभेदे प्रत्यभिज्ञोपपत्तावपि धर्मिणो देहस्य भेदे प्रत्यभिज्ञानुपपत्तेम् ।

अथवा यथा कौमाराद्यवस्थाप्राप्तिरविकृतस्यात्मन एकस्यैव, तथा देहान्तर प्राप्तिरेतस्माद्देहादुत्क्रान्तौ । तत्र स एवाहमिति प्रत्यभिज्ञानाभावेऽपि जातमात्रस्य हर्षशोकभयादिसंप्रतिपत्तें पूर्वसंस्कारजन्याया दर्शनात। अन्यथा स्तनपानादौ प्रवृत्तिर्न स्यात। तस्या इष्टसाधनतादिज्ञानजन्यत्वस्यादृष्टमात्रजन्यत्वस्य चाभ्युपगमात। तथा च पूर्वापरदेहयोरात्मैक्यसिद्धिम् । अन्यथा कृतनाशाकृताभ्यागमप्रसङ्गादित्यन्यत्र विस्तरम् । कृतयों पुण्यपापयोर्भोगमन्तरेण नाशं कृतनाशम्, अकृतयों पुण्यपापयोरकस्मात्फलदातृत्वमकृताभ्यागमम् ।

अथवा देहिन एकस्यैव तव यथा क्रमेण देहावस्थोत्पत्तिविनाशयोर्न भेदं नित्यत्वात्, तथा युगपत्सर्वदेहान्तरप्राप्तिरपि तवैकस्यैव विभुत्वात्, मध्यमपरिमाणत्वे सावयवत्वेन नित्यत्वायोगात्, अणुत्वे सकलदेहव्यापिसुखाद्यनुपलब्धिप्रसङ्गात्, विभुत्वे निश्चिते सर्वत्र दृष्टकार्यत्वात्सर्वशरीरेष्वेक एवात्मा त्वमिति निश्चितोऽर्थम् ।

तत्रैवं सति वध्यघातकभेदकल्पनया त्वमधीरत्वान्मुह्यसि, धीरस्तु विद्वान्न मुह्यति । अहमेषां हन्ता, एते मम वध्या इति भेददर्शनाभावात। तथा च विवादगोचरापन्नां सर्वे देहा एकभोक्तृकां देहत्वात्त्वद्देहवतिति । श्रुतिरपि, एको देवं सर्वभूतेषु गूढं सर्वव्यापी सर्वभूतान्तरात्मा इत्यादि । एतेन यदाहुं “देहमात्रमात्मा” इति चार्वाकाम्, “इन्द्रियाणि मनं प्राणश्च” इति तदेकदेशिनम्, “क्षणिकं विज्ञानम्” इति सौगताम्, “देहातिरिक्तं स्थिरो देहपरिमाणम्” इति दिगम्बराम्, “मध्यमपरिमाणस्य नित्यत्वानुपपत्तें नित्योऽणुम्” इत्येकदेशिनम्, तत्सर्वमपाकृतं भवति नित्यत्वविभुत्वस्थापनात॥१३॥

विश्वनाथम् : ननु चात्मसम्बन्धेन देहोऽपि प्रीत्यास्पदं स्यात्, देहसम्बन्धेन पुत्रभ्रात्रादयोऽपि, तत्सम्बन्धेन तत्पुत्रादयोऽपि । अतस्तेषां नाशे शोकं स्यादेवेति चेदत आह देहिन इति । देहिनो जीवस्यास्मिन्देहे कौमार कौमारं कौमारप्राप्तिर्भवति, ततं कौमारनाशानन्तरं जराप्राप्तिर्यथा तथैव देहान्तरप्राप्तिरिति । ततस्चात्मसम्बन्धिनां कौमारादीनां प्रीत्यास्पदानां नाशे यथा शोको न क्रियते तथा देहस्यापि आत्मसम्बन्धिनं प्रीत्यास्पदस्य नाशे शोको न कर्तव्यम् । यौवनस्य नाशे जराप्राप्तौ शोको जायते इति चेत्कौमारस्य नाशे यौवनप्राप्तौ हर्षोऽपि जायते इत्यतो भीष्मद्रोणादीनां जीर्णदेहनाशे खलु नव्यदेहान्तरप्राप्तौ तर्हि हर्षं क्रियतामिति भावम् । यद्वा, एकस्मिन्नपि देहे कौमारादीनां यथा प्राप्तिस्तथैवैकस्यापि देहिनो जीवस्य नानादेहानां प्राप्तिरिति ॥१३॥

बलदेवम् : ननु भीष्मादिदेहावच्छिन्नानामात्मनां नित्यत्वेऽपि तद्देहानां तद्भोगायतनानां नाशे युक्तं शोक इति चेत्तत्राह देहिनोऽस्मिन्निति । त्रैकालिका बहवो देहा यस्य सन्ति, तस्य देहिनो जीवस्यास्मिन्वर्तमाने देहे क्रमात्कौमारयौवनजरास्तिस्रोऽवस्था भवन्ति । तासामात्मसम्बन्धिनां तद्भोगोपयुक्तानां पूर्वपूर्वविनाशेन परपरप्राप्तौ यथा न शोकस्तथैव तद्देहविनाशे सति देहान्तरप्राप्तिर्ययातियौवनप्राप्तिन्यायेन हर्षहेतुरेवेति, न तद्देहविनाशहेतुकं शोकस्तवोचित इति भावम् । धीरो धीमान्देहस्वभावजीवकर्मविपाकस्वरूपज्ञम् । अत्र देहिन इत्येकवचनं जात्यभिप्रायेण बोध्यं पूर्वत्रात्मबहुत्वोक्तेम् ।

अत्राहुम्—एक एव विशुद्धात्मा तस्याविद्ययापरिच्छिन्नस्य तस्यां प्रतिबिम्बितस्य वा नानात्मत्वम् । श्रुतिश्चैवमाह आकाशमेकं हि यथा घटादिषु पृथग्भवेत्, तथात्मैको ह्यनेकस्थो जलाधारेष्विवांशुमानिति । तद्विज्ञानेन तस्य विनाशे तु तन्नानात्वनिवृत्त्या तदैक्यं सिध्यतीत्येकवचनेनैतत्पार्थसारथिराहेति । तन्मन्दं जडया तया चैतन्यराशेश्छेदासम्भवात। तैरपि तद्विषयत्वानङ्गीकाराच्च । वास्तवे च्छेदे विकारित्वाद्यापत्तिं टङ्कछिन्नपाषाणवत्स्यात्—नीरूपस्य विभों प्रतिबिम्बासम्भवाच्च । अन्यथाकाशादिगादीनां तदापत्तिम् । न च प्रतीत्यन्यथानुपपत्तिरेवाकाशस्य प्रतिबिम्बे मानं तद्वर्तिग्रहनक्षत्रप्रभामण्डलं तस्यिअवाम्भसि भासमानत्वेन प्रतीतेम् । आकाशमेकं हि इति श्रुतिस्तु परमात्मविषया तस्याकाशवत्सूर्यवच्च बहुवृत्तिकत्वं वदतीत्यविरुद्धम् । न चात्मैक्यस्योपदेष्टा सम्भवति । स हि तत्त्वविन्न वा ? आद्येऽद्वितीयमात्मानं विजानतस्तस्योपदेश्यापरिस्फूर्तिम् । अन्त्ये त्वज्ञत्वादेव नात्मज्ञानोपदेष्टृत्वम् । बाधितानुवृत्त्याश्रयणं तु पूर्वनिरस्तम् ॥१३॥

(२.१४)

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुम्खदाम् ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥

श्रीधरम् : ननु तानहं न शोचामि, किन्तु तद्वियोगादिदुम्खभाजं मामेवेति चेत्तत्राह मात्रास्पर्शा इति । मीयन्ते जायन्ते विषया आभिरिति मात्रा इन्द्रियवृत्तयम्, तासां स्पर्शा विषयेषु सम्बद्धाम्, ते शीतोष्णादिप्रदा भवन्ति । ते तु आगमापायित्वादनित्या अस्थिराम् । अतस्तान्तितिक्षस्व सहस्व । यथा जलातपादिसंसर्गास्तत्तत्कालकृतां स्वभावतं शीतोष्णादि प्रयच्छन्ति एवमिष्टसंयोगवियोगा अपि सुखदुम्खानि प्रयच्छन्ति, तेषां चास्थिरत्वात्सहनं तव धीरस्योचितं न तु तन्निमित्तहर्षविषादपारवश्यमित्यर्थम् ॥१४॥

मधुसूदनम् : नन्वात्मनो नित्यत्वे विभुत्वे च न विवदामम्, प्रतिदेहमेकत्वं तु न सहामहे । तथा हि, “बुद्धिसुखदुम्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाख्यनवविशेषगुणवन्तं प्रतिदेहं भिन्नाम्, एवं नित्या विभवश्चात्मानम्” इति वैशेषिका मन्यन्ते । इममेव च पक्षं तार्किकमीमांसकादयोऽपि प्रतिपन्नाम् । सांख्यास्तु विप्रतिपद्यमाना अप्यात्मनो गुणवत्त्वे प्रतिदेहं भेदे न विप्रतिपद्यन्ते । अन्यथा सुखदुम्तथा च संकरप्रसङ्गात। तथा च भीष्मादिभिन्नस्य मम नित्यत्वे विभुत्वेऽपि सुखदुम्तथा च योगित्वाद्भीष्मादिबन्धुदेहविच्छेदे सुखवियोगो दुम्खसंयोगश्च स्यादिति कथं शोकमोहौ नानुचितावित्यर्जुनाभिप्रायमाशङ्क्य लिङ्गशरीरविवेकायाह—मीयन्ते आभिर्विषया इति मात्रा इन्द्रियाणि तासां स्पर्शा विषयैं संबन्धास्तत्तद्विषयाकारान्तम्करणपरिणामा वा ते आगमापायिन उत्पत्तिविनाशवतोऽन्तम्करणस्यैव शीतोष्णादिद्वारा सुखदुम्खदाम्, न तु नित्यस्य विभोरात्मनम्, तस्य निर्गुणात्वान्निर्विकारत्वाच्च । न हि नित्यस्यानित्यधर्माश्रयत्वं संभवति, धर्मधर्मिणोरभेदात्संबन्धान्तरानुपपत्तेम् । साक्ष्यस्य साक्षिधर्मत्वानुपपत्तेश्च । तदुक्तम्—

न र्ते स्याद्विक्रियां दुम्खी साक्षिता का विकारिणम् ।
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियम् ॥ इति ।

तथा च सुखदुम्खाद्याश्रयीभूतान्तम्करणभेदादेव सर्वव्यवस्थोपपत्तेर्न निर्विकारस्य सर्वभासकस्यात्मनो भेदे मानमस्ति, सद्रूपेण स्फुरणरूपेण च सर्वत्रानुगमात। अन्तम्करणस्य तावत्सुखदुम्खादौ जनकत्वमुभयवादिसिद्धम्, तत्र समवायिकारणत्वस्यैवाभ्यर्हितत्वात। तदेव कल्पयितुमुचितं, न तु समवायिकारणान्तरानुपस्थितौ निमित्तत्वमात्रम् । तथा च कामं संकल्पमित्यादिश्रुतिम्, एतत्सर्वं मन एव इति कामादिसर्वविकारोपादानत्वमभेदनिर्देशान्मनस आह । आत्मनश्च स्वप्रकाशज्ञानानन्दरूपत्वस्य श्रुतिभिर्बोधनान्न कामाद्याश्रयत्वम् । अतो वैशेषिकादयो भ्रान्त्यैवात्मनो विकारित्वं भेदं चाङ्गीकृतवन्त इत्यर्थम् । अन्तम्करणस्यागमापायित्वात्दृश्यत्वाच्च नित्यदृग्रूपात्त्वत्तो भिन्नस्य सुतथा च—जनका ये मात्रास्पर्शास्तेऽप्यनित्या अनियतरूपाम्, एकदा सुखजनकस्यैव शीतोष्णादेरन्यदा दुम्खजनकत्वदर्शनात। एवं कदाचिद्दुम्खजनकस्याप्यन्यदा सुखजनकत्वदर्शनात।

शीतोष्णग्रहणमाध्यात्मिकाधिभौतिकाधिदैविकसुखदुम्खोपलक्षणार्थम् । शीतमुष्णं च कदाचित्सुखं कदाचिद्दुम्खं सुखदुम्खे तु न कदापि विपर्ययेते इति पृथङ्निर्देशम् ।

तथा चात्यन्तास्थिरान्त्वद्भिन्नस्य विकारिणं सुखदुम्खादिप्रदान्भीष्मादिसंयोगवियोगरूपान्मात्रास्पर्शांस्त्वं तितिक्षस्व, नैते मम किंचित्करा इति विवेकेनोपेक्षस्व । दुम्खितादात्माध्यासेनात्मानं दुम्खिनं मा ज्ञासीरित्यर्थम् । कौन्तेय भारतेति संबोधनद्वयेनोभयकुलविशुद्धस्य तवाज्ञानमनुचितमिति सूचयति  ॥१४॥

विश्वनाथम् : ननु सत्यमेव तत्त्वम् । तदप्यविवेकिनो मम मन एवानर्थकानि वृतहिव शोकमोहव्याप्तं दुम्खयतीति । तत्र न केवलमेकं मन एवापि तु मनसो वृत्तयोऽपि सर्वास्त्वगादीन्द्रियरूपां स्वविषयाननुभाव्यानर्थकारिण्य इत्याह मात्रा इन्द्रियग्राह्यविषयास्तेषां स्पर्शा अनुभवाम् । शीतोष्णेत्यागमापायिन इति यदेव शीतलजलादिकमुष्णकाले सुखदम् । तदेव शीतकाले दुम्खदमतोऽनियतत्वादागमापायित्वाच्च तान्विषयानुभवान्तितिक्षस्व सहस्व । तेषां सहनमेव शास्त्रविहितो धर्मम् । नहि माघे मासि जलस्य दुम्खत्वबुद्ध्यैव शास्त्रे विहितं स्नानरूपो धर्मस्त्यज्यते । धर्म एव काले सर्वानर्थनिवर्तको भवति । एवमेव ये पुत्रभ्रात्राद्योत्पत्तिकाले धनाद्युपार्जनकाले च सुखदास्त एव मृत्युकाले दुम्खदा आगमापायिनोऽनित्यास्तानपि तितिक्षस्व । न तु तदनुरोधेन युद्धरूपं शास्त्रविहितं स्वधर्मस्त्याज्यो विहितधर्मानाचरणं खलु काले महानर्थकृदेवेति भावम् ॥१४॥

बलदेवम् : ननु भीष्मादयो मृतां कथं भविष्यन्तीति तद्दुम्खनिमित्तं शोको माभूत। तद्विच्छेददुम्खनिमित्तस्तु मे मनप्रभृतीनि प्रदहन्तीति चेत्तत्राह मात्रेति । मात्रास्त्वगादीन्द्रियवृत्तयं मीयन्ते परिच्छिद्यन्ते विषया अभिरिति व्युत्पत्तेम् । स्पर्शास्ताभिर्विषयाणामनुभवान्ते खलु शीतोष्णसुखदुम्खदा भवन्ति । यदेव शीतलमुदकं ग्रीष्मे सुखदं तदेव हेमन्ते दुम्खदमित्यतोऽनियतत्वादागमापायित्वाच्चानित्यानस्थिरांस्तान्तितिक्षस्व सहस्व । एतदुक्तं भवति माघस्नानं दुम्खकरमपि धर्मतया विधानाद्यथा क्रियते तथा भीष्मादिभिं सह युद्धं दुम्खकरमपि तथा विधानात्कार्यमेव । तत्रत्यो दुम्खानुभवस्त्वागन्तुको धर्मसिद्धत्वात्सोढव्यम् । धर्माज्ज्ञानोदयेन मोक्षलाभे तूत्तरत्र तस्य नानुवृत्तिश्च ज्ञाननिष्ठा परिपाकं विनैव धर्मत्यागस्त्वनर्थहेतुरिति । कौन्तेय भारतेति पदाभ्यामुभयकुलशुद्धस्य ते धर्मभ्रंशो नोचित इति सूच्यते ॥१४॥

(२.१५)

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुम्खसुखं धीरं सोऽमृतत्वाय कल्पते ॥

श्रीधरम् : तत्प्रतिकारप्रयत्नादपि तत्सहनमेवोचितं महाफलत्वादित्याह यं हीति । एते मात्रास्पर्शा यं पुरुषं न व्यथयन्ति नाभिभवन्ति । समे दुम्खसुखे स तम् । स तैरविक्षिप्यमाणो धर्मज्ञानद्वारा अमृतत्वाय मोक्षाय कल्पते योग्यो भवति ॥१५॥

मधुसूदनम् : नन्वन्तम्करणस्य सुखदुम्खाद्याश्रयत्वे तस्यैव कर्तृत्वेन भोक्तृत्वेन च चेतनत्वमभ्युपेयम्, तथा च तद्व्यतिरिक्ते तद्भासके भोक्तरि मानाभावान्नाममात्रे विवादं स्यात। तदभ्युपगमे च बन्धमोक्षयोर्वैयधिकरण्यापत्तिमन्तम्करणस्य सुखदुम्खाश्रयत्वेन बद्धत्वात्, आत्मनश्च तद्व्यतिरिक्तस्य मुक्तत्वादित्याशङ्कामर्जुनस्यापनेतुमाह भगवान्—यं हीति ।

यं स्वप्रकाशत्वेन स्वत एव प्रसिद्धं, अत्रायं पुरुषं स्वयंज्योतिर्भवति [बृ.आ.उ. ४.३.१९] इति श्रुतेम् । पुरुषं पूर्णत्वेन पुरि शयानं, स वा अयं पुरुषं सर्वासु पूर्षु पुरिशयो नैतेन किंचनानावृतं नैतेन किंचनासंवृतं [बृ.आ.उ. २.५.१८] इति श्रुतेम् । समदुम्खसुखं समे दुम्खसुखे अनात्मधर्मतया भास्यतया च यस्य निर्विकारस्य स्वयंज्योतिषस्तम् । सुखदुम्खग्रहणमशेषान्तम्करणपरिणामोपलक्षणार्थम् । एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान्[बृ.आ.उ. ४.४.२३] इति श्रुत्या वृद्धिकनीयस्तारूपयों सुखदुम्खयों प्रतिषेधात। धीरं धियमीरयतीति व्युत्पत्त्या चिदाभासद्वारा धीतादात्म्याध्यासेन धीप्रेरकम् । धीसाक्षिणमित्यर्थम् । स धीरं स्वप्नो भूत्वेमं लोकमतिक्रामति [बृ.आ.उ. ४.३.७] इति श्रुतेम् । एतेन बन्धप्रसक्तिर्दर्शिता । तदुक्तम्—

यतो मानानि सिध्यन्ति जाग्रदादित्रयं तथा ।
भावाभावविभागश्च स ब्रह्मास्मीति बोध्यते ॥ [बृ.वा.सं. १०८२] इति ।

एते सुखदुम्खदा मात्रास्पर्शां हि यस्मान्न व्यथयन्ति परमार्थतो न विकुर्वन्ति, सर्वविकारभासकत्वेन विकारायोग्यत्वात।

सूर्यो यथा सर्वलोकस्य चक्षुर्
न लिप्यते चाक्षुषैर्बाह्यदोषैम् ।
एकस्तथा सर्वभूतान्तरात्मा
न लिप्यते लोकदुम्खेन बाह्यम् ॥ इति श्रुतेम् ।

अतं स पुरुषं स्वस्वरूपभूतब्रह्मात्मैक्यज्ञानेन सर्वदुम्खोपादानतदज्ञाननिवृत्त्युपलक्षिताय निखिलद्वैतानुपरक्तस्वप्रकाशपरमानन्दरूपाय अमृतत्वाय मोक्षाय कल्पते । योग्यो भवतीत्यर्थम् । यदि ह्यात्मा स्वाभाविकबन्धाश्रयं स्यात्, तदा स्वाभाविकधर्माणां धर्मिनिवृत्तिमन्तरेणानिवृत्तेर्न कदापि मुच्येत । तथा चोक्तम्

आत्मा कर्त्रादिरूपश्चेन्मा काङ्क्षीस्तर्हि मुक्तताम् ।
न हि स्वभावो भावानां व्यावर्तेतौष्ण्यवद्रवेम् ॥ इति ।

प्रागभावासहवृत्तेर्युगपत्सर्वविशेषगुणनिवृत्तेर्धर्मिनिवृत्तेर्नान्तरीयकत्वदर्शनात। अथात्मनि बन्धो न स्वाभाविकम्, किन्तु बुद्ध्याद्युपाधिकृतम्, आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणं [क.उ. २.३.४] इति श्रुतेम् । तथा च, धर्मिसद्भावेऽपि तन्निवृत्त्या मुक्त्युपपत्तिरिति चेत्, हन्त तर्हि यं स्वधर्ममन्यनिष्ठतया भासयति स उपाधिरित्यभ्युपगमाद्बुद्ध्यादिरुपाधिं स्वधर्ममात्मनिष्ठतया भासयतीत्यायातम् । तथा चायातं मार्गे बन्धस्यासत्यत्वाभ्युपगमात्, न हि स्फटिकमणौ जपाकुसुमोपधाननिमित्तो लोहितिमा सत्यम्, अतं सर्वसंसारधर्मासंसर्गिणोऽप्यात्मन उपाधिवशात्तत्संसर्गित्वप्रतिभासो बन्धम् । स्वस्वरूपज्ञानेन तु स्वरूपाज्ञानतत्कार्यबुद्ध्याद्युपाधिनिवृत्त्या तन्निमित्तनिखिलभ्रमनिवृत्तौ निर्मृष्टनिखिलभास्योपरागतया शुद्धस्य स्वप्रकाशपरमानन्दतया पूर्णस्यात्मनं स्वत एव कैवल्यं मोक्ष इति न बन्धमोक्षयोर्वैयधिकरण्यापत्तिम् । अत एव नाममात्रे विवादमित्यपास्तम्, भास्यभासकयोरेकत्वानुपपत्तेम् । दुम्खी स्वव्यतिरिक्तभास्यं भास्यत्वात्घटवतित्यनुमानात्, भास्यस्य भासकत्वादर्शनात। एकस्यैव भास्यत्वे भासकत्वे च कर्तृकर्मविरोधादात्मनं कथमिति चेत। न । तस्य भासकत्वमात्राभ्युपगमात।

अहं दुम्खीत्यादिवृत्तिसहिताहंकारभासकत्वेन तस्य कदापि भास्यकोटावप्रवेशात। अत एव दुम्खी न स्वातिरिक्तभासकापेक्षं भासकत्वात्दीपवतित्यनुमानमपि न । भास्यत्वेन स्वातिरिक्तभासकसाधकेन प्रतिरोधात। भासकत्वं च भानकरणत्वं स्वप्रकाशभानरूपत्वं वा । आद्ये दीपस्येव करणान्तरानपेक्षत्वेऽपि स्वातिरिक्तभानसापेक्षत्वं दुम्खिनो न व्याहन्यते । अन्यथा दृष्टान्तस्य साध्यवैकल्यापत्तेम् । द्वितीये त्वसिद्धो हेतुरित्यधिकबलतया भास्यत्वहेतुरेव विजयते, बुद्धिवृत्त्यतिरिक्तभानानभ्युपगमात।

बुद्धिरेव भानरूपेति चेत। न । भानस्य सर्वदेशकालानुस्यूततया भेदकधर्मशून्यतया च विभोर्नित्यस्यैकस्य चानित्यपरिच्छिन्नानेकरूपबुद्धिपरिणामात्मकत्वानुपपत्तेम्,  उत्पत्तिविनाशादिप्रतीतेश्चावश्यकल्प्यविषयसंबन्धविषयतयाप्युपपत्तेम् । अन्यथा तत्तज्ज्ञानोत्पत्तिविनाशभेदादिकल्पनायामतिगौरवापत्तेरित्याद्यन्यत्र विस्तरम् । तथा च श्रुतिम्—न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्[बृ.आ.उ. ४.३.२३], आकाशवत्सर्वगतश्च नित्यं [बृ.आ.उ. ३.१४.३], महद्भूतमनन्तमपारं विज्ञानघन एव [बृ.आ.उ. २.४.१२], तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमभयमात्मा ब्रह्म सर्वानुभूं [बृ.आ.उ. २.५.१९] इत्याद्या विभुनित्यस्वप्रकाशज्ञानरूपतामात्मनो दर्शयति । एतेनाविद्यालक्षणादप्युपाधेर्व्यतिरेकं सिद्धम् । अतोऽसत्योपाधिनिबन्धनबन्धभ्रमस्य सत्यात्मज्ञानान्निवृत्तौ मुक्तिरिति सर्वमवदातम् ।

पुरुषर्षभेति संबोधयन्स्वप्रकाशचैतन्यरूपत्वेन पुरुषत्वं परमानन्दरूपत्वेन चात्मन ऋषभत्वं सर्वद्वैतापेक्षया श्रेष्ठत्वमजानन्नेव शोचसि । अतं स्वस्वरूपज्ञानादेव तव शोकनिवृत्तिं सुकरा—तरति शोकमात्मवित्[छा.उ. ७.१.३] इति श्रुतेरिति सूचयति । अत्र पुरुषमित्येकवचनेन सांख्यपक्षो निराकृतम् । तैं पुरुषबहुत्वाभ्युपगमात॥१५॥

विश्वनाथम् : एवं विचारेण तत्तत्सहनाभ्यासे सति ते विषयानुभवां काले किल नापि दुम्खयन्ति । यदि च न दुम्खयन्ति, तदात्ममुक्तिं स्वप्रत्यासन्नैवेत्याह यमिति । अमृतत्वाय मोक्षाय ॥१५॥

बलदेवम् : धर्मार्थदुम्खसहनाभ्यासस्योत्तरत्र सुखहेतुत्वं दर्शयन्नाह यं हीति । एते मात्रास्पर्शां प्रियाप्रियविषयानुभावा यं धीरं धियमीरयति धर्मेष्विति व्युत्पत्तेर्धर्मनिष्ठं पुरुषं न व्यथयन्ति सुखदुम्खमूर्च्छितं न कुर्वन्ति सोऽमृतत्वाय मुक्तये कल्प्यते । न तु तादृशो दुम्खसुखमूर्च्छित इत्यर्थम् । उक्तमर्थं स्फुटयन्पुरुषं विशिनष्टि समेति । धर्मानुष्ठानस्य कष्टसाध्यत्वाद्दुम्खमनुषङ्गलब्धं सुखं च यस्य समं भवति ताभ्यां मुखम्लानितोल्लासरहितमित्यर्थम् ॥१५॥

(२.१६)

नासतो विद्यते भावो नाभावो विद्यते सतम् ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिम् ॥

श्रीधरम् : ननु तथापि शीतोष्णादिकमतिदुम्सहं कथं सोढव्यम् । अत्यन्तं तत्सहने च कदाचिद्देहनाशं स्यादित्याशङ्क्य तत्त्वविचारतं सर्वं सोढुं शक्यमित्याशयेनाह नासतो विद्यत इति । असतोऽनात्मधर्मत्वादविद्यमानस्य शीतोष्णादेरात्मनि भावं सत्ता न विद्यते । तथा सतं सत्स्वभावस्यात्मनोऽभावो नाशो न विद्यते । एवमुभयों सदसतोरन्तो निर्णयो दृष्टम् । कैं ? तत्त्वदर्शिभिं वस्तुयाथार्थ्यवेदिभिम् । एवम्भूतविवेकेन सहस्वेत्यर्थम् ॥१६॥

मधुसूदनम् : ननु भवतु पुरुषैकत्वं, तथापि तस्य सत्यस्य जडद्रष्टृत्वरूपं सत्य एव संसारम् । तथा च, शीतोष्णादिसुखदुम्खकारणे सति तद्भोगस्यावश्यकत्वात्सत्यस्य च ज्ञानाद्विनाशानुपपत्तें कथं तितिक्षा ? कथं वा सोऽमृतत्वाय कल्पते ? इति चेत। न । कृत्स्नस्यापि द्वैतप्रपञ्चस्यात्मनि कल्पितत्वेन तज्ज्ञानाद्विनाशोपपत्तेम् । शुक्तौ कल्पितस्य रजतस्य शुक्तिज्ञानेन विनाशवत।

कथं पुनरात्मानात्मनों प्रतीत्यविशेषे आत्मवदनात्मापि सत्यो न भवेत्? अनात्मवदात्मापि मिथ्या न भवेत्? उभयोस्तुल्ययोगक्षेमत्वादित्याशङ्क्य विशेषमाह भगवान्—नासत इति ।

यत्कालतो देशतो वस्तुतो वा परिच्छिन्नं, तदसत्, यथा घटादि जन्मविनाशशीलं प्राक्कालेन परकालेन च परिच्छिद्यते, ध्वंसप्रागभावप्रतियोगित्वात्कादाचित्कं कालपरिच्छिन्नमित्युच्यते । एवं देशपरिच्छिन्नमपि तदेव मूर्तत्वेन सर्वदेशावृत्तित्वात। कालपरिच्छिन्नस्य देशपरिच्छेदनियमेऽपि देशपरिच्छिन्नत्वेनाभ्युपगतस्य परमाण्वादेस्तार्किकैं कालपरिच्छेदानभ्युपगमाद्देशपरिच्छेदोऽपि पृथगुक्तम् । स च किंचिद्देशवृत्तिरत्यन्ताभावम् । एवं सजातीयभेदो विजातीयभेदं स्वगतभेदश्चेति त्रिविधो भेदो वस्तुपरिच्छेदम् । तथा वृक्षस्य वृक्षान्तराच्छिलादें पत्रपुष्पादेश्च भेदम् । अथवा जीवेश्वरभेदो जीवजगद्भेदो जीवपरस्परभेद ईश्वरजगद्भेदो जगत्परस्परभेद इति पञ्चविधो वस्तुपरिच्छेदम् । कालदेशापरिच्छिन्नस्याप्याकाशादेस्तार्किकैर्वस्तुपरिच्छेदाभ्युपगमात्पृथङ्निर्देशम् । एवं सांख्यमतेऽपि योजनीयम् ।

एतादृशस्यासतं शीतोष्णादें कृत्स्नस्यापि प्रपञ्चस्य भावं सत्ता पारमार्थिकत्वं स्वान्यूनसत्ताकतादृशपरिच्छेदशून्यत्वं न विद्यते न संभवति, घटत्वाघटत्वयोरिव परिच्छिन्नत्वापरिच्छिन्नत्वयोरेकत्र विरोधात। न हि दृश्यं किंचित्क्वचित्काले देशे वस्तुनि वा न निषिध्यते सर्वत्राननुगमात्, न वा सद्वस्तु क्वचिद्देशे काले वस्तुनि वा निषिध्यते सर्वत्रानुगमात्, तथा च सर्वत्रानुगते सद्वस्तुन्यननुगतं व्यभिचारि वस्तु कल्पितं रज्जुखण्ड इवानुगते व्यभिचारि सर्पधारादिकमिति भावम् ।

ननु व्यभिचारिणं कल्पितत्वे सद्वस्त्वपि कल्पितं स्यात्, तस्यापि तुच्छव्यावृत्तत्वेन व्यभिचारित्वादित्यत आह—नाभावो विद्यते सत इति । सदधिकरणकभेदप्रतियोगित्वं हि वस्तुपरिच्छिन्नत्वं, तच्च न तुच्छव्यावृत्तत्वेन । तुच्छे शशविषाणादौ सत्त्वायोगात्, सदसद्भ्यामभावो निरूप्यते इति न्यायात। एकस्यैव स्वप्रकाशस्य नित्यस्य विभों सतं सर्वानुस्यूतत्वेन सद्व्यक्तिभेदानभ्युपगमात्घटं सन्नित्यादिप्रतीतें सार्वं लौकिकत्वेन सतो घटाद्यधिकरणकभेदप्रतियोगित्वायोगात। अभावं परिच्छिन्नत्वं देशतं कालतो वस्तुतो वा, सतं सर्वानुस्यूतसन्मात्रस्य न विद्यते न संभवति पूर्ववद्विरोधादित्यर्थम् ।

ननु सन्नाम किमपि वस्तु नास्त्येव यस्य देशकालवस्तुपरिच्छेदं प्रतिषिध्यते । किं तर्हि सत्त्वं नाम परं सामान्यं यदाश्रयत्वेन द्रव्यगुणकर्मसु सद्व्यवहारम् । तदेकाश्रयसंबन्धेन सामान्यविशेषसमवायेषु । तथा चासतं प्रागभावप्रतियोगिनो घटादें सत्त्वं कारणव्यापारात्सतोऽपि तस्याभावं कारणनाशाद्भवत्येवेति कथमुक्तं—नासतो विद्यते भावो नाभावो विद्यते सतमिति ? एवं प्राप्ते परिहरति—उभयोरपीत्यर्धेन ।

उभयोरपि सदसतों सतश्चासतश्चान्तो मर्यादा नियतरूपत्वं यत्सत्तत्सदेव यदसत्तदसदेवेति दृष्टो निश्चितं श्रुतिस्मृतियुक्तिभिर्विचारपूर्वकम् । कैम्? तत्त्वदर्शिभिर्वस्तुयाथात्म्यदर्शनशीलैर्ब्रह्मविद्भिम्, न तु कुतार्किकैम् । अतं कुतार्किकाणां न विपर्ययानुपपत्तिम् । तुशब्दोऽवधारणे । एकान्तरूपो नियम एव दृष्टो, न त्वनेकान्तरूपोऽन्यथाभाव इति तत्त्वदर्शिभिरेव दृष्टो नातत्त्वदर्शिभिरिति वा । तथा च श्रुतिम्, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमित्युपक्रम्य, ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो [छा.उ. ३.२.१] इत्युपसंहरन्ती सदेकं सजातीयविजातीयस्वगतभेदशून्यं सत्यं दर्शयति—वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं [छा.उ. ६.१.४] इत्यादिश्रुतिस्तु विकारमात्रस्य व्यभिचारिणो वाचारम्भणत्वेनानृतत्वं दर्शयति । अन्नेन सोम्य शुङ्गेनापोमूलमन्विच्छद्भिं सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलां सोम्येमां सर्वां प्रजां सदायतनां सत्प्रतिष्ठां [बृ.आ.उ. ६.८.४] इति श्रुतिं सर्वेषामपि विकाराणां सति कल्पितत्वं दर्शयति ।

सत्त्वं च न सामान्यं तत्र मानाभावात। पदार्थमात्रसाधारण्यात्सत्सदिति प्रतीत्या द्रव्यगुणकर्ममात्रवृत्तिसत्त्वस्य स्वानुपपादकस्याकल्पनात्वैपरीत्यस्यापि सुवचत्वातेकरूपप्रतीतेरेकरूपविषयनिर्वाह्यत्वेन संबन्धभेदस्य स्वरूपस्य च कल्पयितुमनुचितत्वात्विषयस्याननुगमेऽपि प्रतीत्यनुगमे जातिमात्रोच्छेदप्रसङ्गात। तस्मादेकमेव सद्वस्तु स्वतं स्फुरणरूपं ज्ञाताज्ञातावस्थाभासकं स्वतादात्म्याध्यासेन सर्वत्र सद्व्यवहारोपपादकं सन्घट इति प्रतीत्या तावत्सद्व्यक्तिमात्राभिन्नत्वं घटे विषयीकृतम्, न तु सत्तासमवायित्वम् । अभेदप्रतीतेर्भेदघटितसंबन्धानिर्वाह्यत्वात। एवं द्रव्यं सद्गुणं सन्नित्यादिप्रतीत्या सर्वाभिन्नत्वं सतं सिद्धम् । द्रव्यगुणभेदासिद्ध्या च न तेषु धर्मिषु सत्त्वं नाम धर्मं कल्प्यते, किंतु सति धर्मिणि द्रव्याद्यभिन्नत्वं लाघवात्, तच्च वास्तवं न संभवतीत्याध्यासिकमित्यन्यत। तदुक्तं वार्तिककारैम्—

सत्तातोऽपि न भेदं स्याद्द्रव्यत्वादें कुतोऽन्यतम् ।
एकाकारा हि संवित्तिं सद्द्रव्यं सद्गुणस्तथा ॥ इत्यादि ।

सत्तापि नासतो भेदिका तस्याप्रसिद्धेम् । द्रव्यत्वादिकं तु सद्धर्मत्वान्न सतो भेदकमित्यर्थम् । अत एव घटाद्भिन्नं पट इत्यादिप्रतीतिरपि न भेदसाधिका घटपटतद्भेदानां सद्भेदेनैक्यात। एवं यत्रैव न भेदग्रहस्तत्रैव लब्धपदा सती सदभेदप्रतीतिर्विजयते, तार्किकैं कालपदार्थस्य सर्वात्मकस्याभ्युपगमात्तेनैव सर्वव्यवहारोपपत्तौ तदतिरिक्तपदार्थकल्पने मानाभावात्तस्यैव सर्वानुस्यूतस्य सद्रूपेण स्फुरणरूपेण च सर्वतादात्म्येन प्रतीत्युपपत्तें स्फुरणस्यापि सर्वानुस्यूतत्वेनैकत्वान्नित्यत्वं विस्तरेणाग्रिमश्लोके वक्ष्यते ।

तथा च, यथा कस्मिंश्चिद्देशे काले वा घटस्य पटादेर्न देशान्तरे कालान्तरे वा घटत्वं, एवं कस्मिंश्चिद्देशे काले वा घटस्यान्यत्राघटत्वं शक्रेणापि न शक्यते संपादयितुं, पदार्थस्वभावभङ्गायोगात। एवं कस्मिंश्चिद्देशे काले वा सतो देशान्तरे कालान्तरे वा सत्त्वं कस्मिंश्चिद्देशे काले वा सतोऽन्यत्रासत्त्वं न शक्यते संपादयितुं युक्तिसामान्यात। अत उभयोर्नियतरूपत्वमेव द्रष्टव्यमित्यद्वैतसिद्धौ विस्तरम् । अतं सदेव वस्तु मायाकल्पिता सन्निवृत्त्याऽमृतत्वाय कल्पते सन्मात्रदृष्ट्या च तितिक्षाप्युपपद्यत इति भावम् ॥१६॥

विश्वनाथम् : एतच्च विवेकदशानधिरूढान्प्रति उक्तम् । वस्तुतस्तु असङ्गो ह्ययं पुरुषमिति श्रुतेर्जीवात्मनश्च स्थूलसूक्ष्मदेहाभ्यां तद्धर्मैं शोकमोहादिभिश्च सम्बन्धो नास्त्येव । तत्सम्बन्धस्य अविद्या कल्पितत्वादित्याह नेति । असतोऽनात्मधर्मत्वादात्मनि जीवे अवर्तमानस्य शोकमोहादेस्तदाश्रयस्य देहस्य च भावं सत्ता नास्ति । तथा सतं सत्यरूपस्य जीवात्मनोऽभावो नाशो नास्ति । तस्मादुभयोरेतयोरसत्सतोरन्तो निर्णयोऽयं दृष्टम् । तेन भीष्मादिषु त्वदादिषु च जीवात्मसु सत्यत्वादनश्वरेषु देहदैहिकविवेकशोकमोहादयो नैव सन्ति कथं भीष्मादयो नङ्क्षन्ति । कथं वा तांस्त्वं शोचसीति भावम् ॥१६॥

बलदेवम् : तदेवं भगवता पार्थस्यास्थानाशोचित्वेन तत्पाण्डित्यमाक्षिप्तम् । शोकहरं च स्वोपासनमेव तच्चोपासोपासकभेदघटितमित्युपास्याज्जीवांशिनं स्वस्मादुपासकानां जीवांशानां तात्त्विकं द्वैतमुपदिष्टम् । अथ यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तं प्रपश्येत्[श्वे.उ. २.१५] इत्यादावंशस्वरूपज्ञानस्यांशिस्वरूपज्ञानोपयोगित्वश्रवणात्तदादौ सनिष्ठादीन्सर्वान्प्रत्यविशेषेणोपदेश्यं तच्च देहात्मनोर्वैधर्म्यधियमन्तरा न स्यादिति तद्वैधर्म्यबोधायारभ्यते नासत इत्यादिभिम् । असतं परिणामिनो देहादेर्भावोऽपरिणामित्वं न विद्यते । सतोऽ परिणामिन आत्मनस्त्वभावं परिणामित्वं न विद्यते । देहात्मानौ परिणामापरिणामस्वभावौ भवतम् । एवमुभयोरसत्सच्छब्दितयोर्देहात्मनोरन्तो निर्णयस्तत्त्वदर्शिभिस्तदुभयस्वभाववेदिभिं पुरुषैर्दृष्टोऽनुभूतम् । अत्रासच्छब्देन विनश्वरं देहादि जडं सच्छब्देन त्वविनश्वरमात्मचैतन्यमुच्यते । एवमेव श्रीविष्णुपुराणेऽपि निर्णीतं दृष्टं ज्योतींषि विष्णुर्भुवनानि विष्णुर्[वि.पु. २.१२.३८] इत्युपक्रम्य यदस्ति यन्नास्ति च विप्रवर्य [?] इत्यस्ति । नास्तिशब्दवाच्ययोश्चेतनजडयोस्तथात्वं वस्त्वस्ति किं कुत्रद्चिदित्यादिभिर्निरूपितम् । तत्र नास्ति शब्दवाच्यं जडम् । अस्तिशब्दवात्यं तु चैतन्यमिति स्वयमेव विवृतम् । यत्तु सत्कार्यवादस्थापनायै तत्पद्यमित्याहुस्तन्निरवधानं देहात्मस्वभावानभिज्ञानमोहितं प्रति तन्मोहविनिवृत्तये तत्स्वभावाभिज्ञापनस्य प्रकृतत्वात॥१६॥

(२.१७)

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥

श्रीधरम् : अत्र सत्स्वभावमविनाशि वस्तु सामान्येनोक्तं ततं तत्साक्षित्वेन व्याप्तं तं तु आत्मस्वरूपमविनाशि विनाशशून्यं विद्धि जानीहि । तत्र हेतुमाह विनाशमिति ॥१७॥

मधुसूदनम् : नन्वेतादृशस्य सतो ज्ञानाद्भेदे परिच्छिन्नत्वापत्तेर्ज्ञानात्मकत्वमभ्युपेयं तच्चानाध्यासिकम्, अन्यथा जडत्वापत्तेम् । तथा चानाध्यासिकज्ञानरूपस्य सतो धात्वर्थत्वादुत्पत्तिविनाशवत्त्वं घटज्ञानमुत्पन्नं घटज्ञानं नष्टमिति प्रतीतेश्च । एवं चाहं घटं जानामीति प्रतीतेस्तस्य साश्रयत्वं सविषयत्वं चेति देशकालवस्तुपरिच्छिन्नत्वात्स्फुरणस्य कथं तद्रूपस्य सतो देशकालवस्तुपरिच्छेदशून्यत्वमित्याशङ्क्याह—अविनाशीति ।

विनाशो देशतं कालतो वस्तुतो वा परिच्छेदं सोऽस्यास्तीति विनाशि परिच्छिन्नं तद्विलक्षणमविनाशि सर्वप्रकारपरिच्छेदशून्यं तु एव तत्सद्रूपं स्फुरणं त्वं विद्धि जानीहि । किं तत्? येन सद्रूपेण स्फुरणेनैकेन नित्येन विभुना सर्वमिदं दृश्यजातं स्वतं सत्तास्फूर्तिशून्यं ततं व्याप्तं स्वसत्तास्फूर्त्यध्यासेन रज्जुशकलेनेव सर्पधारादि स्वस्मिन्समावेशितं तदविनाश्येव विद्धीत्यर्थम् ।

कस्मात्? यस्मात्विनाशं परिच्छेदमव्ययस्यापरिच्छिन्नस्यापरोक्षस्य सर्वानुस्यूतस्य स्फुरणरूपस्य सतं कश्चित्कोऽप्याश्रयो वा विषयो वा इन्द्रियसंनिकर्षादिरूपो हेतुर्वा न कर्तुमर्हति समर्थो न भवति, कल्पितस्याकल्पितपरिच्छेदकतायोगातारोपमात्रे चेष्टापत्तेम् । अहं घटं जानामीत्यत्र ह्यहंकार आश्रयतया भासते, घटस्तु विषयतया । उत्पत्तिविनाशवती काचिदहंकारवृत्तिस्तु सर्वतो विप्रसृतस्य सतं स्फुरणस्य व्यञ्जकतया आत्ममनोयोगस्य परैरपि ज्ञानहेतुत्वाभ्युपगमात्, तदुत्पत्तिविनाशेनैव च तदुपहिते स्फुरणरूपे सत्युत्पत्तिविनाशप्रतीत्युपपत्तेर्नैकस्य स्फुरणस्य स्वत उत्पत्तिविनाशकल्पनाप्रसङ्गम्, ध्वन्यवच्छेदेन शब्दवद्घटाद्यवच्छेदेनाकाशवच्च । अहंकारस्तु तस्मिन्नध्यस्तोऽपि तदाश्रयतया भासते, तद्वृत्तितादात्म्याध्यासात्सुषुप्तावहंकाराभावेऽपि तद्वासनावासिताज्ञानभासकस्य चैतन्यस्य स्वतम्स्फुरणात्, अन्यथैतावन्तं कालमहं किमपि नाज्ञासिषमिति सुषुप्तोत्थितस्य स्मरणं न स्यात। न चोत्थितस्य ज्ञानाभावानुमितिरियमिति वाच्यम् ।

सुषुप्तिकालरूपपक्षाज्ञानाल्लिङ्गासंभवाच्चास्मरणादेर्व्यभिचारित्वात्स्मरणाजनकनिर्विकल्पकाद्यभावासाधकत्वाच्च । ज्ञानसामग्र्यभावस्य चान्योन्याश्रयग्रस्तत्वात। तथा च श्रुतिम्—यद्वै तन्न पश्यति पश्यन्वै तद्द्रष्टव्यं न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्[बृ.आ.उ. ४.३.२४] इत्यादिम् । सुषुप्तौ स्वप्रकाशस्फुरणसद्भावं तन्नित्यतया दर्शयति ।

एवं घटादिर्विषयोऽपि तदज्ञातावस्थाभासके स्फुरणे कल्पितम् । य एव प्रागज्ञातम्, स एवेदानीं मया ज्ञात इति प्रत्यभिज्ञानात। अज्ञातज्ञापकत्वं हि प्रामाण्यं सर्वतन्त्रसिद्धान्तम् । यथार्थानुभवं प्रमेति वदद्भिस्तार्किकैरपि ज्ञातज्ञापिकायां स्मृतेर्व्यावर्तकमनुभवपदं प्रयुञ्जानैरेतदभ्युपगमात। अज्ञातत्वं च घटादेर्न चक्षुरादिना परिच्छिद्यते तत्रासामर्थ्यात्तज्ज्ञानोत्तरकालमज्ञानस्यानुवृत्तिप्रसङ्गाच्च । नाप्यनुमानेन लिङ्गाभावात। न हीदानीं ज्ञातत्वेन प्रागज्ञातत्वमनुमातुं शक्यं, धारावाहिकानेकज्ञानविषये व्यभिचारात। इदानीमेव ज्ञातत्वं तु प्रागज्ञातत्वे सतीदानीं ज्ञातत्वरूपं साध्याविशिष्टत्वादसिद्धम् । न चाज्ञातावस्थाज्ञानमन्तरेण ज्ञानं प्रति घटादेर्हेतुता ग्रहीतुं शक्यते, पूर्ववर्तित्वाग्रहात्, घटं न जानामीति सार्वलौकिकानुभवविरोधश्च । तस्मादज्ञातं स्फुरणं भासमानं स्वाध्यस्तं घटादिकं भासयतीति घटादीनामज्ञाते स्फुरणे कल्पितत्वसिद्धिम् । अन्यथा घटादेर्जडत्वेनाज्ञातत्वतद्भानयोरनुपपत्तें स्फुरणं चाज्ञातं स्वाध्यस्तेनैवाज्ञानेनेति स्वयमेव भगवान्वक्ष्यति—अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवं [गीता ५.१४] इत्यत्र । एतेन विभुत्वं सिद्धम् । तथा च श्रुतिम्—महद्भूतमनन्तमपारं विज्ञानघन एव [बृ.आ.उ. २.४.१२] इति, सत्यं ज्ञानमनन्तं [तै.उ. २.१] इति च ज्ञानस्य महत्त्वमनन्तत्वं च दर्शयति । महत्त्वं स्वाध्यस्तसर्वसंबन्धित्वं, अनन्तत्वं त्रिविधपरिच्छेदशून्यत्वमिति विवेकम् ।

एतेन शून्यवादोऽपि प्रत्युक्तम्, निरधिष्ठानभ्रमायोगान्निरवधिबाधायोगाच्च । तथा च श्रुतिम्—पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिं [क.उ. ३.११] इति सर्वबाधावधिं पुरुषं परिशिनष्टि । उक्तं च भाष्यकारैम्—सर्वं विनश्यद्वस्तुजातं पुरुषान्तं विनश्यति, पुरुषो विनाशहेत्वभावान्न विनश्यति इति । एतेन क्षणिकवादोऽपि परास्तम् । अबाधितप्रत्यभिज्ञानादन्यदृष्टान्यस्मरणाद्यनुपपत्तेश्च । तस्मादेकस्य सर्वानुस्यूतस्य स्वप्रकाशस्फुरणरूपस्य सतं सर्वप्रकारपरिच्छेदशून्यत्वादुपपन्नं नाभावो विद्यते सत इति  ॥१७॥

विश्वनाथम् : नाभावो विद्यते सतमित्यस्यार्थं स्पष्टयति अविनाशीति । तं जीवात्मस्वरूपं येन सर्वमिदं शरीरं ततं व्याप्तम् । ननु शरीरमात्रव्यापिचैतन्यत्वे जीवात्मनो मध्यमपरिमाणत्वेन अनित्यत्वप्रसक्तिं ? मैवम् । सूक्ष्माणामप्यहं जीवमिति भगवदुक्तेम् । एषोणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणं पञ्चधा संविवेश इति,

बालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवं स विज्ञेयं [श्वे.उ. ५.९] इति,

आराग्रमात्रो ह्यपरोऽपि दृष्टमिति श्रुतिभ्यश्च तस्य परमाणुपरिमाणत्वमेव । तदपि सम्पूर्णदेहव्यापिशक्तिमत्त्वं जतुजटितस्य महामणेर्महौषधिखण्डस्य वा शिरस्युरसि वा धृतस्य सम्पूर्णदेहपुष्टिकरणशक्तिमत्त्वमिव नासमञ्जसम् । स्वर्गनरकनानायोनिषु गमनं च तस्योपाधिपारवश्यादेव । तदुक्तं प्राणमधिकृत्य दत्तात्रयेण येन संसरते पुमानिति । अतएवास्य सर्वगतत्वमप्यग्रिमश्लोके वक्ष्यमाणं नासमञ्जसम् । अतएवाव्ययस्य नित्यस्य नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्[श्वे.उ. ६.१३] इति श्रुतेम् ।

यद्वा, ननु देहो जीवात्मा परमात्मेत्येतद्वस्तुत्रिकं मनुष्यतिर्यगादिषु सर्वत्र दृश्यते, तत्राद्ययोर्देहजीवयोस्तत्त्वं नासतो विद्यते भावमित्यनेनोक्तम् । तृतीयस्य परमात्मवस्तुनं किं तत्त्वमित्यत आह अविनाशि त्विति । तु भिन्नोपक्रमे । परमात्मनो मायाजीवाभ्यां स्वरूपतं पार्थक्यादिदं जगत॥१७॥

बलदेवम् : उक्तं जीवात्मदेहयों स्वभावं विशदयत्यविनाशीति द्वाभ्याम् । तज्जीवात्मतत्त्वमविनाशि नित्यं विद्धि । येन सर्वमिदं शरीरं ततं धर्मभूतेन ज्ञानेन व्याप्तमस्ति । अस्याव्ययस्य पर्माणुत्वेन च विनाशानर्हस्य विनाशं न कश्चित्स्थूलोऽर्थं कर्तुमर्हति प्राणस्येव देहम् । इह जीवात्मनो देहपरिमितत्वं न प्रत्येतव्यम् । एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणं पञ्चधा संविवेश [मु.उ.  ३.१.९] इत्यादिषु तस्य परमाणुत्वश्रवणात। तादृशस्य निखिलदेहव्याप्तिस्तु धर्मभूतज्ञानेनैव स्यात। एवमाह भगवान्सूत्रकारम्—गुणाद्वालोकवद्[वे.सू. २.३.२६] इति । इहापि स्वयं वक्ष्यति यथा प्रकाशयत्येकं [गीता १३.३३] इत्यादिना ॥१७॥

(२.१८)

अन्तवन्त इमे देहा नित्यस्योक्तां शरीरिणम् ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥

श्रीधरम् : आगमापायधर्मकं सन्दर्श्यति अन्तवन्त इति । अन्तो विनाशो विद्यते येषां ते अन्तवन्तम् । नित्यस्य सर्वदैकरूपस्य शरीरिणं शरीरवतम् । अतएवानाशिनो विनाशरहितस्य अप्रमेयस्यपरिच्छिन्नस्यात्मन इमे सुखदुम्खादिधर्मकदेहा उक्तास्तत्त्वदर्शिभिम् । यस्मादेवमात्मनो न विनाशम्, न च सुखदुम्खादिसम्बन्धम्, तस्मान्मोहजं शोक्तं त्यक्त्वा युध्यस्व । स्वधर्मं मा त्यक्षीरित्यर्थम् ॥१८॥

मधुसूदनम् : ननु स्फुरणरूपस्य सतं कथमविनाशित्वं तस्य देहधर्मत्वाद्देहस्य चानुक्षणविनाशादिति भूतचैतन्यवादिनस्तान्निराकुर्वन्नासतो विद्यते भाव इत्येतद्विवृणोति अन्तवन्त इति । अन्तवन्तो विनाशिन इमेऽपरोक्षा देहा उपचितापचितरूपत्वाच्छरीराणि । बहुवचनात्स्थूलसूक्ष्मकारणरूपा विराट्सूत्राव्याकृताख्यां समष्टिव्यष्ट्यात्मनं सर्वे नित्यस्याविनाशिन एव शरीरिण आध्यासिकसम्बन्धेन शरीरवतएकस्यात्मनं स्वप्रकाशस्फुरणरूपस्य सम्बन्धिनो दृश्यत्वेन भोग्यत्वेन चोक्तां श्रुतिभिर्ब्रह्मवादिभिश्च । तथा च तैत्तिरीयकेऽन्नमयाद्यानन्दमयानन्तान्पञ्च कोशान्कल्पयित्वा तदधिष्ठानमकल्पितं ब्रह्म पुच्छं प्रतिष्ठा [तै.उ. २.५] इति दर्शितम् । तत्र पञ्चीकृतपञ्चमहाभूततत्कार्यात्मको विराण्मूर्तराशिरन्नमयकोशं स्थूलसमष्टिम् । तत्कारणीभूतोऽपञ्चीकृतपञ्चमहाभूततत्कार्यात्मको हिरण्यगर्भं सूत्रममूर्तराशिं सूक्ष्मसमष्टिं त्रयं वा इदं नाम रूपं कर्म [बृ.आ.उ.  १.६.१] इति बृहदारण्यकोक्तत्र्यन्नात्मकं सर्वकर्मात्मकत्वेन क्रियाशक्तिमात्रमादाय प्राणमयकोश उक्तम् । नामात्मकत्वेन ज्ञानशक्तिमात्रमादायमनोमयकोश उक्तम् । रूपात्मकत्वेन तदुभयाश्रयतया कर्तृत्वमादाय विज्ञानमयकोश उक्तं  । ततं प्राणमयमनोमयविज्ञानमयात्मैक एव हिरण्यगर्भाख्यो लिङ्गशरीरकोशम् । तत्कारणीभूतस्तु मायोपहितचैतन्यात्मा सर्वसंस्कारशेषोऽव्याकृताख्य आनन्दमयकोशम् । ते च सर्व एकस्यैवात्मनं शरीराणीत्युक्तम् । तस्यैष एव शारीर आत्मा यं पूर्वस्य [तै.उ. २.३.४] इति । तस्य प्राणमयस्यैष एव शरीरे भवं शारीर आत्मा यं सत्यज्ञानादिलक्षणो गुहानिहितत्वेनोक्तं पूर्वस्यान्नमयस्य । एवं प्राणमयमनोमयविज्ञानमयानन्दमयेषु योज्यम् ।

अथवेमे सर्वे देहास्त्रैलोक्यवर्तिसर्वप्राणिसम्बन्धिन एकस्यैवात्मन उक्ता इति योजना । तथा च श्रुतिम्—

एको देवं सर्वभूतेषु गूढम्
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षं सर्वभूताधिवासम्
साक्षी चेतो केवलो निर्गुणश्च ॥ [श्वे.उ. ६.११]

इति सर्वशरीरसम्बन्धिनमेकमात्मानं नित्यं विभुं दर्शयति ।

ननु नित्यत्वं यावत्कालस्थायित्वं तथा चाविद्यादिवत्कालेन सह नाशेऽपि तदुपपन्नमित्यत आह अनाशिन इति । देशतं कालतो वस्तुतश्चपरिच्छिनस्याविद्यादें कल्पितत्वेनानित्यत्वेऽपि यावत्कालस्थायिस्वरूपमौपचारिकं नित्यत्वं व्यवह्रियते यावद्विकारं तु विभागो लोकवत्[वे.सू. २.३.७] इति न्यायात। आत्मनस्तु परिच्छेदत्रयशून्यस्याकल्पितस्य विनाशहेत्वभावान्मुख्यमेव कूटस्थनित्यत्वं न तु परिणामिनित्यत्वं यावत्कालस्थायित्वं चेत्यभिप्रायम् ।

नन्वेतादृशे देहिनि किंचित्प्रमाणमवश्यं वाच्यमन्यथा निष्प्रमाणस्य तस्यालीकत्वापत्तें शास्त्रारम्भवैयर्थ्यापत्तेश्च । तथा च वस्तुपरिच्छेदो दुष्परिहरं शास्त्रयोनित्वात्[वे.सू. १.१.३] इति न्यायाच्च । अत आह अप्रमेयस्येति । एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवं [बृ.आ.उ.  ४.७.२] अप्रमयमप्रमेयम् ।

न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निं  । [क.उ. ५.१५]

तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति [मु.उ.  २.२.१०]

इति च श्रुतें स्वप्रकाशचैतन्यरूप एवात्मातस्तस्य सर्वभासकस्य स्वभानार्थं न स्वभास्यापेक्षा, किन्तु कल्पिताज्ञानतत्कार्यनिवृत्त्यर्थं कल्पितवृत्तिविशेषापेक्षा । कल्पितस्यैव कल्पितविरोधित्वात। यक्षानुरूपो बलिमिति न्यायात। तथा च सर्वकल्पितनिवर्तकवृत्तिविशेषोत्पत्त्यर्थं शास्त्रारम्भम्, तस्य तत्त्वमस्यादिवाक्यमात्राधीनत्वात। स्वतं सर्वदाभासमानत्वात्सर्वकल्पनाधिष्ठानत्वाद्दृश्यमात्रभासकत्वाच्च न तस्य तुच्छत्वापत्तिम् । तथा चैकमेवाद्वितीयं सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिशास्त्रमेव स्वप्रमेयानुरोधेन स्वस्यापि कल्पितत्वमापादयति अन्यथा स्वप्रामाण्य्âनुपपत्तेम् ।

कल्पितस्य चाकल्पितपरिच्छेदकत्वं नास्तीति प्राक्प्रतिपादितम् । आत्मनं स्वप्रकाशत्वं च युक्तितोऽपि भगवत्पूज्यपादैरुपपादितम् । तथा हि—यत्र जिज्ञासों संशयविपर्ययव्यतिरेकप्रमाणानामन्यतममपि नास्ति तत्र तद्विरोधि ज्ञानमिति सर्वत्र दृष्टम् । अन्यथा त्रितयान्यतमापत्तेम् । आत्मनि चाहं वा नाहं वेति न कस्यचित्संशयम् । नापि नाहमिति विपर्ययो व्यतिरेकं प्रमा वेति तत्स्वरूपप्रमा सर्वदास्तीति वाच्यं तस्य सर्वसंशयविपर्ययधर्मित्वात। धर्म्यशे सर्वमभ्रान्तं प्रकारे तु विपर्ययमिति न्यायात। अत एवोक्तम्—

प्रमाणमप्रमाणं च प्रमाभासस्तथैव च ।
कुर्वन्त्येव प्रमां यत्र तदसम्भावना कुतम् ॥ [बृ.वा.पु. १.४.८७४]

प्रमाभासं संशयम् । स्वप्रकाशे सद्रूपे धर्मिणि प्रमाणाप्रमाणयोर्विशेषो नास्तीत्यर्थम् । आत्मनोऽभासमानत्वे च घटज्ञानं मयि जातं न वेत्यादिसंशयं स्यात।  न चान्तरपदार्थे विषयस्यैव संशयादिप्रतिबन्धकत्वस्वभावम् । बाह्यपदार्थे क्ÿप्तेन विरोधिज्ञानेनैव संशयादिप्रतिबन्धसंभव आन्तरपदार्थे स्वभावभेदकल्पनाया अनौचित्यात। अन्यथा सर्वविप्लवापत्तेम् । आत्ममनोयोगमात्रं चात्मसाक्षात्कारे हेतुम् । यस्य च ज्ञानमात्रे हेतुत्वाद्घटादिभानेऽप्यात्मभानं समूहालम्बनन्यायेन तार्किकाणां प्रवरेणापि दुर्निवारम् । न च चाक्षुषत्वमानसत्त्वादिसङ्करम् । लौकिकत्वालौकिकत्ववदंशभेदेनोपपत्तेम् । सङ्करस्यादोषत्वाच्चाक्षुषत्वादेर्जातित्वानभ्युपगमाद्वा । व्यवसायमात्र एवात्मभानसामग्र्या विद्यमानत्वादनुव्यवसायोऽप्यपास्तम् । न च व्यवसायभानार्थं स तस्य दीपवत्स्वव्यवहारे सजातीयानपेक्षत्वात। न हि घटतज्ज्ञानयोरिव व्यवसायानुव्यवसाययोरपि विषयत्वविषयित्वव्यवस्थापकं वैजात्यमस्ति व्यक्तिभेदातिरिक्तवैधर्म्यानभ्युपगमात। विषयत्वावच्छेदकरूपेणैव विषयित्वाभ्युपगमे घटतज्ज्ञानयोरपि तद्भावापत्तिरविशेषात।

ननु यथा घटव्यवहारार्थं घटज्ञानमभ्युपेयते तथा घटज्ञानव्यवहारार्थं घटज्ञानविषयं ज्ञानमभ्युपेयं व्यवहारास्य व्यवहर्तव्यज्ञानसाध्यत्वादिति चेत। कानुपपत्तिरुद्भाविता देवानांप्रियेण स्वप्रकाशवादिनम् । नहि व्यवहर्तव्यभिन्नत्वमपि ज्ञानविशेषणं व्यवहारहेतुतावच्छेदकं गौरवात। तथा चेश्वरज्ञानवद्योगिज्ञानवत्प्रमेयमिति ज्ञानवच्च स्वेनैव स्वव्यवहारोपपत्तौ न ज्ञानान्तरकल्पनावकाशम् । अनुव्यवसायस्यापि घटज्ञानव्यवहारहेतुत्वं किं घटज्ञानज्ञानत्वेन किं वा घटज्ञानत्वेनैवेति विवेचनीयम् । उभयस्यापि तत्र सत्त्वात। तत्र घटव्यवहारे घटज्ञानत्वेनैव हेतुतायां क्ÿप्तत्वात्तेनैव रूपेण घतज्ञानव्यवहारे,पि हेतुतोपपत्तौ न घटज्ञानज्ञानत्वं हेतुतावच्छेदकं गौरवान्मानाभावाच्च । तथा च नानुव्यवसायसिद्धिरेकस्यैव व्यवसायस्य वय्वसातरि व्यवसेये व्यवसाये च व्यवहारजनकत्वोपपत्तेरिति त्रिपुटीप्रत्यक्षवादिनं प्राभाकराम् ।

औपनिषदास्तु मन्यन्ते स्वप्रकाशज्ञानरूप एवात्मा न स्वप्रकाशज्ञानाश्रयं कर्तृकर्मविरोधेन तद्भानानुपपत्तेम् । ज्ञानभिन्नत्वे घटादिवज्जडत्वेन कल्पितत्वापत्तेश्च । स्वप्रकाशज्ञानमात्रस्वरूपोऽप्यात्माविद्योपहितं सन्साक्षीत्युच्यते । वृत्तिमदन्तम्करणोपहितं प्रमातेत्युच्यते । तस्य चक्षुरादीनि करणानि । स चक्षुरादिद्वारान्तम्करणपरिणामेन घटादीन्व्याप्य तदाकारो भवति । ततो घटावच्छिन्नचैतन्यं प्रमात्रभेदात्स्वाज्ञानं नाशयदपरोक्षं भवति । घटं च स्वावच्छेदकं स्वतादात्म्याध्यासाद्भासयति । अन्तम्करणपरिणामश्च वृत्त्याख्योऽतिस्वच्छं स्वावच्छिन्नेनैव चैतन्येन भास्यत इत्यन्तम्करणतद्वृत्तिघटानामपरोक्षता । तदेतदाकारत्रयमहं जानामि घटमिति । भासकचैतन्यस्यैकरूपत्वेऽपि घटं प्रति वृत्त्यपेक्षत्वात्प्रमातृता । अन्तम्करणतद्वृत्तीं प्रति तु वृत्त्यनपेक्षत्वात्साक्षितेति विवेकम् । अद्वैतसिद्धौ सिद्धान्तबिन्दौ च विस्तरम् ।

यस्मादेवं प्रागुक्तन्यायेन न्तियो विभुरसंसारी सर्वदैकरूपश्चात्मा तस्मात्तन्नाशशङ्कया स्वधर्मे युद्धे प्राक्प्रवृत्तस्य तव तस्मादुपरतिर्न युक्तेति युद्धाभ्यनुज्ञया भगवानाह—तस्माद्युध्यस्व भारतेति । अर्जुनस्य स्वधर्मे युद्धे प्रवृत्तस्य तत उपरतिकारणं शोकमोहौ । तौ च विचारजनितेन विज्ञानेन वाधितावित्यपवादापवाद उत्सर्गस्य स्थितिरिति न्यायेन युध्यस्वेत्यनुवादो न विधिम् । यथा कर्तृकर्मणों कृति [पा. २.३.६५] इत्युत्सर्गम् । उभयप्राप्तौ कर्मणि [पा. २.३.६६] इत्यपवादम् । अकाकारयों स्त्रीप्रत्यययों प्रयोगे नेति वक्तव्यमिति तदपवादम् । तथा च मुमुक्षोर्ब्रह्मणोर्जिज्ञासेत्यत्रापवादापवादे पुनरुत्सर्गस्थितें कर्तृकर्मणों कृतीत्यनेनैव षष्ठी । तथा च कर्मणि चेति निषेधाप्रसाराद्ब्रह्मजिज्ञासेति कर्मषष्ठीसमासं सिद्धो भवति । कश्चित्त्वेतस्मादेव विधेर्मोक्षे ज्ञानकर्मणों समुच्चय इति प्रलपति । तच्च युध्यस्वेत्यतो मोक्षस्य ज्ञानकर्मसमुच्चयसाध्यत्वाप्रतीतेम् । विस्तरेण चैतदग्रे भगवद्गीतावचनविरोधेनैव निराकरिष्यामम् ॥१८॥

विश्वनाथम् : नासतो विद्यते भावमित्यस्यार्थं स्पष्टयति अन्तवन्त इति । शरीरिणो जीवस्याप्रमेयस्यातिसूक्ष्मत्वाद्दुर्ज्ञेयस्य । तस्माद्युध्यस्व इति शास्त्रविहितस्य स्वधर्मस्य त्यागोऽनुचित इति भावम् ॥१८॥

बलदेवम् : अन्तवन्तो विनाशिस्वभावाम्, शरीरिणो जीवात्मनम् । अप्रमेयस्यातिसूक्ष्मत्वाद्विज्ञानविज्ञातृस्वरूपत्वाच्च प्रमातुमशक्यस्येत्यर्थम् । तथा चेदृशस्वभावत्वाज्जीवतद्देहौ न शोकस्थानमिति जीवात्मनो देहो धर्मानुष्टानुष्ठानद्वारा तस्य भोगाय मोक्षाय च परेशेन सृज्यते । स च स च धर्मेण भवेत्तस्माद्युध्यस्व भारत ॥१८॥

(२.१९)

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥

श्रीधरम् : तदेवं भीष्मादिमृत्युनिमित्तं शोको निवारितम्, यच्चात्मनो हन्तृत्वनिमित्तं दुम्खमुक्तमेतान्न हन्तुमिच्छामि इत्यादिना, तदपि तवदेव निर्निमित्तमित्याह य एनमिति । एनमात्मानम् । आत्मनो हननक्रियायां कर्मत्वं कर्तृत्वमपि नास्तीत्यर्थम् । तत्र हेतुर्नायमिति ॥१९॥

मधुसूदनम् : नन्वेवमशोच्यानन्वशोचचस्त्वमित्यादिना भीष्मादिबन्धुविच्छेदनिबन्धने शोकेऽपनीतेऽपि तद्वधकर्तृत्वनिबन्धनस्य पापस्य नास्ति प्रतीकारम् । नहि यत्र शोको नास्ति तत्र पापं नास्तीति नियमम् । द्वेष्यब्राह्मणवधे पापाभावप्रसङ्गात। अतोऽहं कर्ता त्वं प्रेरक इति द्वयोरपि हिंसानिमित्तपातकापत्तेरयुक्तमिदं वचनं तस्माद्युध्यस्व भारतेत्याशङ्क्य काठकपठितय र्चा परिहरति भगवान्य एनमिति ।

एनं प्रकृतं देहिनमदृश्यत्वादिगुणकं यो हन्तारं हननक्रियायां कर्तारं वेत्ति अहमस्य हन्तेति विजानाति । यश्चान्य एनं मन्यते हतं हननक्रियायां कर्मभूतं देहहननेन हतोऽहमिति विजानाति । तावुभौ देहाभिमानित्वादेनमविकारिणमकारकस्वभावमात्मानं न विजानीतो न विवेकेन जानीतं शास्त्रात। कस्मात्यस्मान्नायं हन्ति न हन्यते कर्ता कर्म च न बह्वतीत्यर्थम् ।

अत्र य एनं वेत्ति हन्तारं हतं चेत्येतावति वक्तव्ये पदानामावृत्तिर्वाक्यालङ्कारार्था । अथवा य एनं वेत्ति हन्तारं तार्किकादिरात्मनं कर्तृत्वाभ्युपगमात। तथा यश्चैनं मन्यते हतं चार्वाकादिरात्मनो विनाशित्वाभ्युपगमात। तावुभौ न विजानीत इति योज्यम् । वादिभेदख्यापनाय पृथगुपन्यासम् । अतिशूरातिकातरविषयतया वा पृथगुपदेशम् । हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतं [क.उ. १.२.१९] इति पूर्वार्धे श्रौतं पाठम् ॥१९॥

विश्वनाथम् : भो वयस्य अर्जुन ! त्वमात्मा । न हन्तें कर्ता, नापि हन्तें कर्म इत्याह य इति । एनं जीवात्मानं हन्तारं वेत्ति भीष्मादीनर्जुनो हन्तीति यो वेत्तीत्यर्थम्, हतमिति भीष्मादिभिरर्जुनो हन्यते इति यो वेत्ति, तावुभावप्यज्ञानिनौ । अतोऽर्जुनोऽयं गुरुजनं हन्तीत्यज्ञानिलोकगीताद्दुर्यशं का ते भीतिरिति भावम् ॥१९॥

बलदेवम् : उक्तमविनाशित्वं द्रढयति । एनमुक्तस्वभावमात्मानं जीवं यो हन्तारं खड्गादिना हिंसकं वेत्ति यश्चैनं तेन हतं हिंसितं मन्यते तावुभौ तत्स्वरूपं न विजानीतम् । अतिसूक्ष्मस्य चैतन्यस्य तस्य छेदाद्यसम्भवान्नायमात्मा हन्ति न हन्यते । हन्तें कर्ता कर्म च भवतीत्यर्थम् । हन्तेर्देहवियोगार्थत्वान्न तेनात्मनां नाशो मन्तव्यम् । श्रुतिश्चैवमाह—हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतं [क.उ. १.२.१९] इत्यादिना । एतेन मा हिंस्यात्सर्वभूतानि इत्यादिवाक्यं देहवियोगपरं व्याख्यातम् । न चात्रात्मनं कर्तृत्वं प्रसिद्धमिति वाच्यम् । देहवियोजने तत्तस्य सत्त्वात॥१९॥

(२.२०)

न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयम् ।
अजो नित्यं शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥

श्रीधरम् : न हन्यत इत्येतदेव षड्भावविकारशून्यत्वेन द्रढयति नेति । न जायत इत्यादि । न जायत इति जन्मप्रतिषेधम् । न म्रियत इति विनाशप्रतिषेधम् । वाशब्दौ चार्थे । न चायं भूत्वा उत्पद्य भविता भवति अस्तित्वं भजते, किन्तु प्रागेव स्वतं सद्रूप इति जन्मान्तरास्तित्वलक्षणद्वितीयविकारप्रतिषेधम् । तत्र हेतुं यस्मादजम् । यो हि न जायते स हि जन्मान्तरमस्तित्वं भजते, न तु यं स्वयमेवास्ति स भूयोऽपि अन्यदस्तित्वं भजते इत्यर्थम् । नित्यं सर्व्दैकरूप इति वृद्धिप्रतिषेधम् । शाश्वतं शश्वद्भव इति अपक्षयप्रतिषेधम् । पुराण इति विपरिणामप्रतिषेधम् । पुरापि नव एव न तु परिणामतं रूपान्तरं प्राप्य नवो भवतीत्यर्थम् ।

यद्वा न भवितेत्यस्यानुषङ्गं कृत्वा भूयोऽधिकं यथा भवितेति तथा न भवतीति वृद्धिप्रतिषेधम् । अजो नित्य इति चोभयवृद्ध्याद्यभावे हेतुरिति न पौनरुक्त्यम् । तदेवं जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यत्येवं यास्कादिभिर्वेदवादिभिरुक्तां षड्भावविकारा निरस्ताम् । यदर्थमेते विकारा निरस्तास्तं प्रस्तुतं विनाशाभावमुपसंहरति न हन्यते हन्यमाने शरीर इति ॥२०॥

मधुसूदनम् : कस्मादयमात्मा हननक्रियायां कर्ता कर्म च न भवति ? अविक्रियत्वादित्याह द्वितीयेन मन्त्रेण । जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीति षड्भावविकारा इति वार्ष्यायणिमिति नैरुक्ताम् । तत्राद्यन्तयोर्निषेधं क्रियते न जायते म्रियते वेति । वाशब्दं समुच्चयार्थम् । न जायते न म्रियते चेत्यर्थम् । कस्मादयमात्मा नोत्पद्यते ? यस्मादयमात्मा कदाचित्कस्मिन्नपि काले न भूत्वाभूत्वा प्राग्भूयं पुनरपि भविता न । यो ह्यभूत्वा भवति स उत्पत्तिलक्षणां विक्रियामनुभवति । अयं तु प्रागपि सत्त्वाद्यतो नोत्पद्यतेऽतोऽजम् । तथायमात्मा भूत्वा प्राक्कदाचिद्भूयं पुनर्न भविता । न वाशब्दाद्वाक्यविपरिवृत्तिम् । यो हि प्राग्भूत्वोत्तरकाले न भवति स मृत्लक्षणां विक्रियामनुभवति । अयं तूत्तरकालेऽपि सत्त्वाद्यतो न मिर्यतेऽतो नित्यो विनाशायोग्य इत्यर्थम् । अत्र न भूत्वेत्यत्र समासाभावेऽपि नानुपपत्तिर्नानुयोजेष्वतिवत। भगवता पाणिनिना महाविभाषाधिकारे नञ्समासपाठात। यत्तु कात्यायनेनोक्तं समासनित्यत्âभिप्रायेण वावचनानर्थक्यं तु स्वभावसिद्धत्वातिति तद्भगवत्पाणिइनिवचनविरोधादनादेयम् । तदुक्तमाचार्यशवरस्वामिना—असद्वादी हि कात्यायनमिति ।

अत्र न जायते म्रियते वेति प्रतिज्ञा । कदाचिन्नायं भूत्वा भविता वा न भूय इति तदुपपादनम् । अजो नित्य इति तदुपसंहार इति विभागम् । आद्यन्तयोर्विकारयोर्निषेधेन मध्यवर्तिविकाराणां तद्व्याप्यानां निषेधे जातेऽपि गमनादिविकाराणामनुक्तानामप्युपलक्षणायापक्षयश्च वृद्धिश्च स्वशब्देनैव निराक्रियेते । तत्र कूटस्थनित्यत्वादात्मनो निर्गुणत्वाच्च न स्वरूपतो गुणतो वापक्षयं सम्भवतीत्युक्तं शाश्वत इति । शश्वत्सर्वदा भवति नापक्षीयते नापचीयत इत्यर्थम् । यदि नापक्षीयते तर्हि वर्धतामिति नेत्याह पुराण इति । पुरापि नव एकरूपो न त्वधुना नूतनां काञ्चिदवस्थामनुभवति । यो हि नूतनां काञ्चिदुपचयावस्थामनुभवति स वर्धत इत्युच्यते लोके । अयं तु सर्वदैकरूपत्वान्नापचीयते नोपचीयते चेत्यर्थम् । अस्तित्वविपरिणामौ तु जन्मविनाशान्तर्भूतत्वात्पृथङ्न निषिद्धौ । यस्मादेवं सर्वविकारशून्य आत्मा तस्माच्छरीरे हन्यमाने तत्सम्बद्धोऽपि केनाप्युपायेन न हन्यते न हन्तुं शक्यत इत्युपसंहारम् ॥२०॥

विश्वनाथम् : जीवात्मनो नित्यत्वं स्पष्टतया साधयति न जायते मिर्यते इति जन्ममरणयोर्वर्तमानत्वनिषेधम् । नायं भूत्वा भविता इति तयोर्भूतत्वभविष्यत्वनिषेधम् । अत एव अज इति कालत्रयेऽपि अजस्य जन्माभावान्नास्य प्रागभावम् । शाश्वतं शश्वत्सर्वकाल एव वर्तत इति नास्य कालत्रयेऽपि ध्वंसम् । अतएवायं नित्यम् । तर्हि बहुकालस्थायित्वाज्जराग्रस्तोऽयमिति चेन्न । पुराणं पुरापि नवं प्राचीनोऽप्ययं नवीन इवेति षड्भावविकाराभावादिति भावम् । ननु शरीरस्य मरणादौपचारिकं तु मरणमस्यास्तु ? तत्राह नेति । शरीरेण सह सम्बद्धाभावात्न उपचारम् ॥२०॥

बलदेवम् : अथ जायते अस्ति वर्धते विपरणमते अपक्षीयते विनश्यति इति यास्काद्युक्तषड्भावविकारराहित्येन प्रागुक्तनित्यत्वं द्रढयति न जायते इति । चार्थे वाशब्दौ । अयमात्मा जीवं कदाचिदपि काले न जायते न म्रियते चेति जन्मविनाशयों प्रतिषेधम् । न चायमात्मा भूत्वोत्पद्य भविता भविष्यतीति जन्मान्तरस्यास्तित्वस्य प्रतिषेधम् । न भूय इति अयमात्मा भूयोऽधिकं यथा स्यात्तथा न भवतीति बुद्धें प्रतिषेधम् । कुतो भूयो न भवतीत्यत्र हेतुरजो नित्य इति । उत्पत्तिविनाशयोगी खलु वृक्षादिरुत्पद्य वृद्धिं गच्छन्नष्टम् । आत्मनस्तु तदुभयाभावात्न वृद्धिरित्यर्थम् । शाश्वत इत्यपक्षयस्य प्रतिषेधम् । शश्वत्सर्वदा भवति नापक्षीयते नापक्षयं भजतीत्यर्थम् । पुराण इति विपरिणामस्य प्रतिषेधम् । पुराणं पुरापि नवो न तु किंचिन्नूतनं रूपान्तरमधुना न लब्ध इत्यर्थम् । तदेवं षड्भावविकारशून्यत्वादात्मा नित्यम् । यस्मादीदृशस्तस्माच्छरीरे हन्यमानेऽपि स न हन्यते । तथा चार्जुनोऽयं गुरुहन्तेत्यविज्ञोक्त्या दुष्कीर्तेरबिभ्यता त्वया शास्त्रीयं धर्मयुद्धं विधेयम् ॥२०॥
(२.२१)

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषं पार्थ कं घातयति हन्ति कम् ॥

श्रीधरम् : अत एव हन्तृत्वाभावोऽपि पूर्वोक्तं प्रसिद्ध इत्याह वेदाविनाशिनमित्यादि । नित्यं वृद्धिशून्यम् । अव्ययमपक्षयशून्यम् । अजमविनाशिनं च । यो वेद स पुरुषं कं हन्ति । कथं वा हन्ति ? एवंभूतस्य वधे साधनाभावात। तथा स्वयं प्रयोजको भूत्वान्येन कं घातयति ? कथं वा घातयति ? न किञ्चिदपि । न कथञ्चिदपि इत्यर्थम् । अनेन मय्यपि प्रयोजकत्वाद्दोषदृष्टिं मा कार्षीरित्युक्तं भवति ॥२१॥

मधुसूदनम् : नायं हन्ति न हन्यत इति प्रतिज्ञाय न हन्यत इत्युपपादितमिदानीं न हन्तीत्युपपादयन्नुपसंहरति । न विनष्टुं शीलं यस्य तमविनाशिनमन्त्यविकाररहितम् । तत्र हेतुम्—अव्ययं न विद्यते व्ययोऽवयवापचयो गुणापचयो वा यस्य तमव्ययम् । अवयवापचयेन गुणापचयेन वा विनाशदर्शनात्तदुभयरहितस्य न विनाशं सम्भवतीत्यर्थम् ।

ननु जन्यत्वेन विनाशित्वमनुमास्यामहे नेत्याह—अजमिति । न जायते इत्यजमाद्यविकाररहितम् । तत्र हेतुम्—नित्यं सर्वदा विद्यामानं, प्रागविद्यमानस्य हि जन्म दृष्टं न तु सर्वता सत इत्यभिप्रायम् ।

अथवाविनाशिनमबाध्यं सत्यमिति यावत। नित्यं सर्वव्यापकम् । तत्र हेतुम्—अजमव्ययम् । जन्मविनाशशून्यं जायमानस्य विनश्यतश्च सर्वव्यापकत्वसत्यत्वयोरयोगात।

एवं सर्वविक्रियाशून्यं प्रकृतमेनं देहिनं स्वमात्मानं यो वेद विजानाति शास्त्राचार्योपदेशाभ्यां साक्षात्करोति अहं सर्वविक्रियाशून्यं सर्वभासकं सर्वद्वैतरहितं परमानन्दबोधरूप इति स एवं विद्वान्पुरुषं पूर्णरूपं कं हन्ति ? कथं हन्ति ? किंशब्द आक्षेपे । न कमपि हन्ति न कथमपि हन्तीत्यर्थम् । तथा कं घातयति कथं घातयति कमपि न घातयति कथमपि न घातयतीत्यर्थम् । नहि सर्वविकारशून्यस्याकर्तुर्हननक्रियायां कर्तृत्वं सम्भवति । तथा च श्रुतिम्—

आत्मानं चेद्विजानीयादयमस्मीति पूरुषम् ।
किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत॥ [बृ.आ.उ.  ४.४.१२]

इति शुद्धमात्मानं विदुषस्तदज्ञाननिबन्धनाध्यासनिवृत्तौ तन्मूलरागद्वेषाद्यभावात्कर्तृत्वभोक्तृत्वाद्यभावं दर्शयति ।

अयमत्राभिप्रायो भगवतम् । वस्तुगत्या कोऽपि नकरोति न कारयति च किंचित्सर्वविक्रियाशून्यस्वभावत्वात्परं तु स्वप्न इवाविद्यया कर्तृत्वादिकमात्मन्यभिमन्यते मूढम् । तदुक्तमुभौ तौ न विजानीतं [गीता २.१९] इति । श्रुतिश्च  ध्यायतीव लेलायतीव [बृ.आ.उ.  ४.३.७] इत्यादिम् । अत एव सर्वाणि शास्त्राण्यविद्वदधिकारिकाणि । विद्वांस्तु समूलाध्यासबाधान्नात्मनि कर्तृत्वादिकमभिमन्यते स्थाणुस्वरूपं विद्वानिव चोरत्वम् । अतो विक्रियारहितत्वादद्वितीयत्वाच्च विद्वान्न करोति कारयति चेत्युच्यते । तथा च श्रुतिम्—विद्वान्न बिभेति कुतश्चन [तै.उ. २.९.१] इति । अर्जुनो हि स्वस्मिन्कर्तृत्वं भगवति च कारयितृत्वमध्यस्य हिंसानिमित्तं दोषमुभयत्राप्याशशङ्के । भगवानपि विदिताभिप्रायो हन्ति घातयतीति तदुभयमाचिक्षेप । आत्मनि कर्तृत्वं मयि च कारयितृत्वमारोप्य प्रत्यवायशङ्कां मा कार्षीरित्यभिप्रायम् ।

अविक्रियत्वप्रदर्शनेनात्मनं कर्तृत्वप्रतिषेधात्सर्वकर्माक्षेपे भगवदभिप्रेते हन्तिरुपलक्षणार्थं पुरम्स्फूर्तिकत्वात। प्रतिषेधहेतोस्तुल्यत्वात्कर्मान्तराभ्यनुज्ञानुपपत्तेम् । तथा च वक्ष्यति तस्य कार्यं न विद्यत [गीता ३.१७] इति । अतोऽत्र हननमात्राक्षेपेण कर्मान्तरं भगवताभ्यनुज्ञायत इति मूढजनजल्पितमपास्तम् । तस्माद्युध्यस्वेत्यत्र हननस्य भगवताभ्यनुज्ञानाद्वास्तवकर्तृत्वाद्यभावस्य कर्ममात्रे समत्वादिति दिक॥२१॥

विश्वनाथम् : अत एवम्भूतज्ञाने सति त्वं युध्यमानोऽपि अहं युद्धे प्रेरयन्नपि दोषभाजौ नैव भवाव इत्याह वेदेति । नित्यमिति क्रियाविशेषणम् । अविनाशिनमिति, अजमिति, अव्ययमित्येतैर्विनाशजन्या अपेक्षया निषिद्धाम् । स पुरुषो मल्लक्षणं कं घातयति, कथं वा घातयति, स पुरुषस्त्वल्लक्षणं कं हन्ति ? कथं वा हन्ति ? ॥२१॥

बलदेवम् : एवं तत्त्वज्ञानवान्यो धर्मबुद्ध्या युद्धे प्रवर्तते यश्च प्रवर्तयति, तस्य तस्य च कोऽपि न दोषगन्ध इत्याह वेदेति । एनं प्रकृतमात्मानमविनाशिनमजमव्ययमपक्षयशून्यं च यो वेद शास्त्रयुक्तिभ्यां जानाति, स पुरुषो युद्धे प्रवृत्तोऽपि कं हन्ति कथं वा हन्ति ? तत्र प्रवर्तयन्नपि कं घातयति कथं वा घातयति ? किमाक्षेपे—न कमपि न कथमपीत्यर्थम् । न्तियमिति वेदनक्रियाविशेषणम् ॥२१॥

 (२.२२)

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही ॥

श्रीधरम् : नन्वात्मनोऽविनाशेऽपि तदीयशरीरनाशं पर्यालोच्य शोचामीइति चेत्? तत्राह वासांसीति । कर्मणि बन्धनानां नूतनानां देहानामवश्यम्भावित्वात्न तज्जीर्णदेहनाशे शोकावकाश इत्यर्थम् ॥२२॥

मधुसूदनम् : नन्वेवमात्मनो विनाशित्वाभावेऽपि देहानां विनाशित्वाद्युद्धस्य च तन्नाशकत्वात्कथं भीष्मादिदेहानामनेकसुकृतसाधनानां मया युद्धेन विनाशं कार्य इत्याशङ्काया उत्तरं वासांसीति ।

जीर्णानि विहाय वस्त्राणि नवानि गृह्णाति विक्रियाशून्य एव नरो यथेत्येतावतैव विर्वाहेऽपराणीइत्विशेषणमुत्कर्षातिशयख्यापनार्थम् । तेन यथा निकृष्टानि वस्त्राणि विहायोत्कृष्टानि जनो गृह्णातीत्यौचित्यायातम् । तथा जीर्णानि वयसा तपसा च कृशानि भीष्मादिशरीराणि विहायान्यानि देवादिशरीराणि सर्वोत्कृष्टानि चिरोपार्जितधर्मफलभोगाय संयाति सम्यग्गर्भवासादिक्लेशव्यतिरेकेण प्राप्नोति देही प्रकृष्टधर्मानुष्ठातृदेहवान्भीष्मादिरित्यर्थम् । अन्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गन्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वा इत्यादिश्रुतेम् ।

एतदुक्तं भवति भीष्मादयो हि यावज्जीवं धर्मानुष्ठानक्लेशेनैव जर्जरशरीरा वर्तमानशरीरपातमन्तरेण तत्फलभोगायासमर्था यदि धर्मयुद्धेन स्वर्गप्रतिबन्धकानि जर्जराणि शरीराणि पातयित्वा दिव्यदेहसम्पादनेन स्वर्गभोगयोग्यां क्रियन्ते त्वया तदत्यन्तमुपकृत्वा एव ते । दुर्योधनादीनामपि स्वर्गभोगयोग्यदेहसम्पादनान्महानुपकार एव । तथा चात्यन्तमुपकारके युद्धेऽपकारकत्वभ्रमं मा कार्षीरिति । अपराणि अन्यानि संयातीति पदत्रयवशाद्भगवदभिप्राय एवमभ्यूहितम् । अनेन दृष्टान्तेनाविकृतप्रतिपादनमात्मनं क्रियत इति तु प्राचां व्याख्यानमतिस्पष्टम् ॥२२॥

विश्वनाथम् : ननु मदीययुद्धाद्भीष्मसंज्ञकं शरीरं तु जीवात्मा त्यक्ष्यत्येव इत्यतस्त्वं चाहं च तत्र हेतु भवाव एव इत्यत आह वासांसीति । नवीनं वस्त्रं परिधापयितुं जीर्णवस्त्रस्य त्यजने कश्चित्किं दोषो भवतीति भावम् । तथा शरीराणीति भीष्मो जीर्णशरीरं परित्यज्य दिव्यं नव्यमन्यच्छरीरं प्राप्स्यतीति कस्तव वा मम वा दोषो भवतीति भावम् ॥२२॥

बलदेवम् : ननु मा भूदात्मनां विनाशो भीष्मादिसंज्ञानां तच्छरीराणां तत्सुखसाधनानां युद्धेन विनाशे तत्सुखविच्छेदहेतुको दोषं स्यादेव । अन्यथा प्रायश्चित्तशास्त्राणि निर्विषयाणि स्युरिति चेत्तत्राह वासांसीति । स्थूलजीर्णवासस्त्यागेन नवीनवासोधारणमिव वृद्धनृदेहत्यागेन युवदेवदेहधारणं तेषामात्मनामतिसुखकरमेव । तदुभयं च युद्धेनैव क्षिप्रं भवेदित्युपकारकात्तस्मान्मा विरंसीरिति भावम् । संयातीति सम्यग्गर्भवासादियातनां विनैव शीघ्रमेव प्राप्नोतीत्यर्थम् । प्रायश्चित्तवाक्यानि तु यज्ञयुद्धवधादन्यस्मिन्वधे नेयानि ॥२२॥

(२.२३)

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकम् ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतम् ॥

श्रीधरम् : कथं हन्तीति अनेन उक्तं वधसाधनाभावं दर्शयन्नविनाशित्वमात्मनं स्फुटीकरोति नैनमित्यादि । आपो क्लेदयन्ति मृदुकरणेन शिथिलं न कुर्वन्ति । मारुतोऽप्येनं न शोषयति ॥२३॥

मधुसूदनम् : ननु देहनाशे तदभ्यन्तरवर्तिन आत्मनं कुतो न विनाशो गृहदाहे तदन्तर्वर्तिपुरुषवदित्यत आह—नैनमिति । शस्त्राण्यस्यादीनि अतितीक्ष्णान्यपि एनं प्रकृतमात्मानं न छिन्दन्ति अवयवविभागेन द्विधा कर्तुं न शक्नुवन्ति । तथा पावकोऽग्निरतिप्रज्वलितोऽपि नैनं भस्मीकर्तुं शक्नोति । न चैनमापोऽप्यन्तं वेगवत्योऽपि आर्द्रीकरणेन विश्लिष्टावयवं कर्तुं शक्नुवन्ति । मारुतो वायुरतिप्रबलोऽपि नैनं नीरसं कर्तुं शक्नोति । सर्वनाशकाक्षेपे प्रकृते युद्धमये शस्त्रादीनां प्रकृतत्वादवयुत्यानुवादेनोपन्यासम् । पृथिव्यप्तेजोवायूनामेव नाशकत्वप्रसिद्धेस्तेषामेवोपन्यासो नाकाशस्य ॥२३॥

विश्वनाथम् : न च युद्धे त्वया प्रयुक्तेभ्यं शस्त्रास्त्रेभ्यं काप्यात्मनो व्यथा सम्भवेदित्याह नैनमिति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रमपि युष्मदादिप्रयुक्तम् । आपं पार्जन्यास्त्रमपि । मारुतो वायव्यास्त्रम् ॥२३॥

बलदेवम् : ननु शस्त्रपातैं शरीरविनाशे तदन्तम्स्थस्यात्मनो विनाशं स्यात्गृहदाहे तन्मध्यस्थस्यैव जन्तोरिति चेत्तत्राह नैनमिति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रम् । आपं पार्जन्यास्त्रमपि । मारुतो वायव्यास्त्रम् । तथा च तत्प्रयुक्तैं शस्त्रास्त्रैर्नात्मनं काचिद्व्यथेति ॥२३॥

(२.२४)

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यं सर्वगतं स्थाणुरचलोऽयं सनातनम् ॥

श्रीधरम् : तत्र हेतुमाह अच्छेद्य इत्यादिना सार्धेन । निरवयवत्वादच्छेद्योऽक्लेद्यश्च । अमूर्तत्वाददाह्यम् । द्रवत्वाभावादशोष्य इति भावम् । इतश्च छेदादियोग्यो न भवति । यतो नित्योऽविनाशी । सर्वगतं स्थाणुं स्थिरस्वभावो रूपान्तरापत्तिशून्यम् । अचलं पूर्वरूपापरित्यागी । सनातनोऽनादिम् ॥२४॥

मधुसूदनम् : शस्त्रादीनां तन्नाशकत्वासामर्थ्ये तस्य तज्जनितनाशानर्हत्वे हेतुमाह अच्छेद्य इति । यतोऽच्छेद्योऽयमतो नैनं छिन्दन्ति शस्त्राणि । अदाह्योऽयं यतोऽतो नैनं दहति पावकम् । यतोऽक्लेद्योऽयमतो नैनं क्लेदयन्त्यापम् । यतोऽशोष्योऽयमतो नैनं शोषयति मारुत इति क्रमेण योजनीयम् । एवकारं प्रत्येकं सम्बध्यमानो ऽच्छेद्यत्वाद्यवधारणार्थम् । चं समुच्चये हेतौ वा । छेदाद्यनर्हत्वे हेतुमाहोत्तरार्धेन ।

नित्योऽयं पूर्वापरकोटिरहितोऽतोऽनुत्पाद्यम् । असर्वगतत्वे ह्यनित्यत्वं स्यात। यावद्विकारं तु विभागमिति न्यायात्पराभ्युपगतपरमाण्वादीनामनभ्युपगमात। अयं तु सर्वगतो विभुरतो नित्य एव । एतेन प्राप्यत्वं पराकृतम् । यदि चायं विकारी स्यात्तदा सर्वगतो न स्यात। अयं तु स्थाणुरविकारी । अतं सर्वगत एव । एतेन विकार्यत्वमपाकृतम् । यदि चायं चलं क्रियावान्स्यात्तदा विकारी स्याद्घटादिवत। अयं त्वचलोऽतो न विकारी । एतेन संस्कार्यत्वं निराकृतम् । पूर्वावस्थापरित्यागेनावस्थान्तरापत्तिर्विक्रिया । अवस्थैक्येऽपि चलनमात्रं क्रियेति विशेषम् । यस्मादेवं तस्मात्सनातनोऽयं सर्वदैकरूपो न कस्या अपि क्रियायां कर्मेत्यर्थम् । उत्पत्त्याप्तिविकृतिसंस्कृत्यन्यतरक्रियाफलयोगे हि कर्मत्वं स्यात। अयं तु नित्यत्वान्नोत्पाद्यम् । अनित्यस्यैव घटादेरुत्पाद्यत्वात। सर्वगतत्वान्न प्राप्यं परिच्छिन्नस्यैव पयऽदें प्राप्यत्वात। स्थाणुत्वादविकार्यम् । विक्रियावतो घृतादेरेव विकार्यत्वात। अचलत्वादसंस्कार्यं सक्रियस्यैव दर्पणादें संस्कार्यत्वात। तथा च श्रुतयम्—आकाशवत्सर्वगतश्च नित्यं [छा.उ. ३.१४.३], वृक्ष इव स्तब्धो दिवि तिष्ठत्येकं [श्वे.उ. ३.९], निष्कलं निष्क्रियं शान्तं [श्वे.उ. ६.१९], इत्यादयम् । यं पृथिव्यां तिष्ठन्पृथिव्या अन्तरो योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यो वायौ तिष्टन्वायोरन्तरं [बृ.आ.उ.  ३.७.३ फ़्फ़्] इत्याद्या च श्रुतिं सर्वगतस्य सर्वान्तर्यामितया तदविषयत्वं दर्शयति । यो हि शस्त्रादौ न तिष्ठति तं शस्त्रादयश्छिन्दन्ति । अयं तु शस्त्रादीनां सत्तास्फूर्तिप्रदत्वेन तत्प्रेरकस्तदन्तर्यामी । अतं कथमेनं शस्त्रादीनि स्वव्यापारविषयी कुर्युरित्यभिप्रायम् । अत्र येन सूर्यस्तपति तेजसेद्धं [तै.ब्रा. ३.१२.९७] इत्यादि श्रुतयोऽनुसन्धेयाम् । सप्तमाध्याये च प्रकटीकरिष्यति श्रीभगवानिति दिक॥२४॥

विश्वनाथम् : तस्मादात्मायमेवमुच्यत इत्याह अच्छेद्य इति । अत्र प्रकरणे जीवात्मनो नित्यत्वस्य शब्दतोऽर्थतश्च पौनरुक्त्यं निर्धारणप्रयोजकं सन्दिग्धधीषु ज्ञेयम् । यथा कलावस्मिन्धर्मोऽस्ति धर्मोऽस्तीति त्रिचतुर्धाप्रयोगाद्धर्मोऽस्त्येवेति निम्संशया प्रतीतिं स्यादिति ज्ञेयम् । सर्वगतं स्वकर्मवशाद्देवमनुष्यतिर्यगादिसर्वदेहगतम् । स्थाणुरचल इति पौनरुक्त्यं स्थैर्यनिर्धारणार्थम् । अतिसूक्ष्मत्वादव्यक्तस्तदपि देहव्यापिचैतन्यत्वादचिन्त्योऽतर्क्यम् । जन्मादिषड्विकारानर्हत्वादविकार्यम् ॥२४२५॥

बलदेवम् : छेदाद्यभावादेव तत्तन्नामभिरयमाख्यायत इत्याह अच्छेद्योऽयमिति । एवकारं सर्वैं सम्बध्यते । सर्वगतं स्वकर्महेतुकेषु देवमानवादिषु पशुपक्ष्यादिषु च सर्वेषु शरीरेषु पर्यायेण गतं प्राप्तोऽपीत्यर्थम् । स्थाणुं स्थिरस्वरूपम् । अचलं स्थिरगुणकम् । अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा [Bौ ४.५.१४] इति श्रुतेरित्यर्थम् । न चानुच्छित्तिरेव धर्मो यस्येति व्याख्येयं तस्यार्थस्याविनाशीत्यनेनैव लाभात। तस्मादनुच्छित्तयो नित्या धर्मा यस्य स तथेत्येवार्थम् । सनातनं शाश्वतं पौनरुक्तदोषस्त्वग्रे परिहरिष्यते ॥२४॥

(२.२५)

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥

श्रीधरम् : किं च अव्यक्त इति । अव्यक्तश्चक्षुराद्यविषयम् । अचिन्त्यो मनसोऽप्यविषयम् । अविकार्यं कर्मेन्द्रियाणामप्यगोचर इत्यर्थम् । उच्यत इति नित्यत्वादिभियुक्तोक्तिं प्रमाणयति । उपसंहरति तस्मादेवमित्यादि । तदेवमात्मनो जन्मविनाशाभावान्न शोकं कार्य इत्युक्तम् ॥२५॥

मधुसूदनम् : छेद्यत्वादिग्राहकप्रमाणभावादपि तदभाव इत्याह—अव्यक्तोऽयमित्याद्यर्धेन । यो हीन्द्रियगोचरो भवति स प्रत्यक्षत्वाद्व्यक्त इत्युच्यते । अयं तु रूपादिहीनत्वान्न तथा । अतो न प्रत्यक्षं तत्र च्छेद्यत्वादिग्राहकमित्यर्थम् ।

प्रत्यक्षाभावेऽप्यनुमानं स्यादित्यत आह अचिन्त्योऽयं चिन्त्योऽनुमेयस्तद्विलक्षणोऽयम् । क्वचित्प्रत्यक्षो हि वह्न्यादिर्गृहीतव्याप्तिकस्य धूमादेर्दर्शनात्क्वचिदनुमेयो भवति । अप्रत्यक्षे तु व्याप्तिग्रहणासम्भवान्नानुमेयत्वमिति भावम् । अप्रत्यक्षस्यापीन्द्रियादें सामान्यतो दृष्टानुमानविषयत्वं दृष्टमत आह अविकार्योऽयं यद्विक्रियावच्चक्षुरादिकं तत्स्वकार्यान्यथानुपपत्त्या कल्प्यमानमर्थापत्तें सामान्यतोदृष्टानुमानस्य च विषयो भवति । अयं तु न विकार्यो न विक्रियावानतो नार्थापत्तें सामान्यतोदृष्टस्य वा विषय इत्यर्थम् । लौकिकशब्दस्यापि प्रत्यक्षादिपूर्वकत्वात्तन्निषेधेनैव निषेधम् ।

ननु वेदेनैव तत्र च्चेह्द्यत्वादि ग्रहीष्यत इत्यत आह—उच्यते वेदेन सोपकरणेनाच्छेद्याव्यक्तादिरूप एवायमुच्यते तात्पर्येण प्रतिपाद्यते । अतो न वेदस्य तत्प्रतिपादिकस्यापि च्छेद्यत्वादिप्रतिपादकत्वमित्यर्थम् ।

अत्र नैनं छिन्दन्ति [गीता २.२३] इत्यत्र शस्त्रादीनां तन्नाशकसामर्थ्याभाव उक्तम् । अच्छेद्योऽयमित्यादौ तस्य च्छेदादिकर्मत्वायोग्यत्वमुक्तम् । अव्यक्तोऽयमित्यत्र तच्छेदादिग्राहकमानाभाव उक्त इत्यपौनरुक्त्यं द्रष्टव्यम् । वेदाविनाशिनमित्यादीनां तु श्लोकानामर्थतं शब्दतश्च पौनरुक्त्यं भाष्यकृद्भिं परिहृतम् । दुर्बोधत्वादात्मवस्तुनं पुनं पुनं प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान्वासुदेवं कथं नु नाम संसारिणां बुद्धिगोचरतामापन्नं तत्त्वं संसारनिवृत्तये स्यातिति [शङ्करभाष्य २.२४] इति वदद्भिम् ।

एवं पूर्वोक्तयुक्तिभिरात्मनो नित्यत्वे निर्विकारत्वे च सिद्धे तव शोको नोपपन्न इत्युपसंहरति तस्मादित्यर्धेन । एतादृशात्मस्वरूपवेदनस्य शोककारणनिवर्तकत्वात्तस्मिन्सति शोको नोचितं कारणभावे कार्याभावस्यावश्यकत्वात। तेनात्मानमविदित्वा यदन्वशोचस्तद्युक्तमेव । आत्मानं विदित्वा तु नानुशोचितुमर्हसीत्यभिप्रायम् ॥२५॥

विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : अव्यक्तं प्रत्यङ्चक्षुराद्यग्राह्यम् । अचिन्त्यस्तर्कागोचरं श्रुतिमात्रगम्यम् । ज्ञानस्वरूपो ज्ञातेत्यादिकं श्रुत्यैव प्रतीयते । अविकार्यं षड्भावविकारानर्हम् । अत्र अविनाशि तु तद्विद्धि इत्यादिभिरात्मतत्त्वमुपदिशन्हरिं शब्दतोऽर्थतश्च यत्पुनं पुनरवोचत्तस्य दुर्बोधस्य सौबोध्यार्थमेवेत्यदोषम् । निर्धारणार्थं वा । अयं धर्मं वेत्तीत्युक्तौ तद्वेदनं निश्चितं यथा स्यात्तद्वत। एवमेवाग्रे वक्ष्यति आश्चर्यवत्पश्यति कश्चितित्यादिना ॥२५॥

(२.२६)

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥

श्रीधरम् : इदानीं देहेन सह आत्मनो जन्म तद्विनाशेन च विनाशमङ्गीकृत्यापि शोको न कार्य इत्याह अथ चैनमित्यादि । अथ च यद्यप्येनमात्मानं नित्यजातं नित्यं वा मन्यसे मृतं तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२६॥

मधुसूदनम् : एवमात्मनो निर्विकारत्वेनाशोच्यत्वमुक्तमिदानीं विकारवत्त्वमभ्युपेत्यापि श्लोकद्वयेनाशोच्यत्वं प्रतिपादयति भगवान। तत्रात्मा ज्ञानस्वरूपं प्रतिक्षणविनाशीति सौगताम् । देह एवात्मा स च स्थिरोऽप्यनुक्षणपरिणामी  जायते नश्यति चेति प्रत्यक्षसिद्धमेवैतदिति लोकायतिकाम् । देहातिरिक्तोऽपि देहेन सहैव जायते नश्यति चेत्यन्ये । सर्गाद्यकाल एवाकाशवज्जायते देहभेदेऽप्यनुवर्तमान एवाकल्पस्थायी नश्यति प्रलय इत्यपरे । नित्य एवात्मा जायते म्रियते चेति तार्किकाम् । तथा हि—प्रेत्यभावो जन्म । स चापूर्वदेहेन्द्रियादिसम्बन्धम् । एवं मरणमपि पूर्वदेहेन्द्रियादिविच्छेदम् । इदं चोभयं धर्माधर्मनिमित्तत्वात्तदाधारस्य नित्यस्यैव मुख्यम् । अनित्यस्य तु कृतहान्यकृताभ्यागमप्रसङ्गेन धर्माधर्माधारत्वानुपपत्तेर्न जन्ममरणे मुख्ये इति वदन्ति । न्तियस्यामेवेत्यन्ये । तत्रानित्यत्वपक्षेऽपि शोच्यत्वमात्मनो निषेधति अथ चैनमिति ।

अथेति पक्षान्तरे । चोऽप्यर्थे । यदि दुर्बोधत्वादात्मवस्तुनोऽसकृच्छ्रवणेऽप्यवधारणासामर्थ्यान्मदुक्तपक्षानङ्गीकारेण पक्षान्तरमभ्युपैषि । तत्राप्यनित्यत्वपक्षमेवाश्रित्य यद्येनमात्मानं नित्यं जातं नित्यं मृतं वा मन्यसे । वाशब्दश्चार्थे । क्षणिकत्वपक्षे नित्यं प्रतिक्षणं पक्षान्तरे आवश्यकत्वान्नित्यं नियतं जातोऽयं मृतोऽयमिति लौकिकप्रत्ययवशेन यदि कल्पयसि तथापि हे महाबाहो ! पुरुषधौरेयेति सोपहासं कुमताभ्युपगमात। त्वय्येतादृशी कुदृष्टिर्न सम्भवतीति सानुकम्पं वा । एवमह बत महत्पापं कर्तुं व्यवसिता वयं [गीता १.४५] इत्यादि यथा शोचसि एवं प्रकारमनुशोकं कर्तुं स्वयमपि त्वं तादृश एव सन्नार्हसि योग्यो न भवसि । क्षणिकत्वपक्षे देहात्मवादपक्षे देहेन सह जन्मविनाशपक्षे च जन्मान्तराभावेन पापभयासम्भवात्पापभयेनैव खलु त्वमनुशोचसि । तच्चैतादृशे दर्शने न सम्भवति बन्धुविनाशदर्शित्वाभावादित्यधिकम् । पक्षान्तरे दृष्टदुम्खनिमित्तं शोकमभ्यनुज्ञातुमेवंकारम् । दृष्टदुम्खनिमित्तशोकसम्भवेऽप्यदृष्टदुम्खनिमित्तं शोकं सर्वथा नोचित इत्यर्थं प्रथमश्लोकस्य ॥२६॥

विश्वनाथम् : तदेवं शास्त्रीयतत्त्वदृष्ट्या त्वामहं प्रबोधयन। व्यावहारहिकतत्त्वदृष्ट्यापि प्रबोधयामि अवधेहीत्याह अथेति । नित्यजातं देहे जाते सत्येनं नित्यं नियतं जातं मन्यसे । तथा देह एव मृते मृतं नित्यं नियतं मन्यसे । महाबाहो इति पराक्रमवतं क्षत्रियस्य तव तदपि युद्धमवश्यकं स्वधर्मम् । यदुक्तं—

क्षत्रियाणामयं धर्मं प्रजापतिविनिर्मितम् ।
भ्रातापि भ्रातरं हन्याद्येन घोरतरस्ततम् ॥ इति भावम् ॥२६॥

बलदेवम् : एवं स्वोक्तस्य जीवात्मनोऽशोच्यत्वमुक्त्वा परोक्तस्यापि तस्य तदुच्यते परमतज्ञानाय । तदभिज्ञं खलु शिष्यस्तदवकरैस्तन्निरस्य विजयी सन्स्वमते स्थैर्यमासीत। तथा हि मनुष्यत्वादिविशिष्टे भूम्यादिभूतचतुष्टये ताम्बूलरागवत्मदशक्तिवच्च चैतन्यमुत्पद्यते । तादृशस्तच्चतुष्टयभूतो देह एवात्मा । स च स्थिरोऽपि प्रतिक्षणपरिणामादुत्पत्तिविनाशयोगीति लोकप्रत्यक्षसिद्धमिति लोकायतिका मन्यन्ते । देहाद्भिन्नो विज्ञानस्वरूपोऽप्यात्मा प्रतिक्षणविनाशीति वैभाषिकादयो बौद्धा वदन्ति । तदेतदुभयमतेऽप्यात्मनं शोच्यत्वं प्रतिषेधति । अथेति पक्षान्तरे । चोऽप्यर्थे । त्वं चेन्मदुक्तजीवात्मयाथात्म्यावगाहनासमर्थो लोकायतिकादिपक्षमालम्बसे, तत्र देहात्मपक्षे एनं देहलक्षणमात्मानं नित्यं वा मृतं मन्यसे । वाशब्दश्चार्थे । तथापि त्वमेनमहो बत महत्पापमित्यादिवचनैं शोचितुं नार्हसि । परिणामस्वभावस्य तस्य तस्य चात्मनो जन्मविनाशयोरनिवार्यत्वाज्जन्मान्तराभावेन पापभयासम्भवाच्च । हे महाबाहो इति सोपहासं सम्बोधनं क्षत्रियवर्यस्य वैदिकस्य च ते नेदृशं कुमतं धार्यमिति भावम् ॥२६।

(२.२७)

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥

श्रीधरम् : कुत इति ? अत आह जातस्येत्यादि । हि यस्माज्जातस्य स्वारम्भककर्मक्षये मृत्युर्ध्रुवो निश्चितम् । मृतस्य च तद्देहकृतेन कर्मणा जन्मापि ध्रुवमेव । तस्मादेवमपरिहार्येऽर्थे अवश्यम्भाविनि जन्ममरणलक्षणेऽर्थे त्वं विद्वान्शोचितुं नार्हसि योग्यो न भवसि ॥२७॥

मधुसूदनम् : नन्वात्मन आभूतसंप्लवस्थायित्वपक्षे च दृष्टादृष्टदुम्खसम्भवात्तद्भयेन शोचामीत्यत आह द्वितीयश्लोकेन जातस्य हीति । हि यस्माज्जातस्य स्वकृतधर्माधर्मादिवशाल्लब्धशरीरेन्द्रियादिसम्बन्धस्य स्थिरस्यात्मनो ध्रुव आवश्यको मृत्युस्तच्छरीरादिविच्छेदस्तदारम्भककर्मक्षयनिमित्तं संयोगस्य वियोगावसानत्वात। तथा ध्रुवं जन्म मृतस्य च प्राग्देहकृतकर्मफलोपभोगार्थं सानुशयस्यैव प्रस्तुतत्वान्न जीवन्मुक्ते व्यभिचारम् । तस्मादेवमपरिहार्ये परिहर्तुमशक्येऽस्मिन्जन्ममरणलक्षणेऽर्थे विषये त्वमेवं विद्वान्न शोचितुमर्हसि । तथा च वक्ष्यति—ऋतेऽपि त्वां न भविष्यन्ति सर्वे [गीता ११.३२] इति । यदि हि त्वया युद्धेऽनाहन्यमाना एते जीवेयुरेव तदा युद्धाय शोकस्तवोचितं स्यात। एते तु कर्मक्षयात्स्वयमेव म्रियन्त इति तत्परिहारासमर्थस्य तव दृष्ट्दुम्खनिमित्तं शोको नोचित इति भावम् ।

एवमदृष्टदुम्खनिमित्तेऽपि शोके तस्मादपरिहार्येऽर्थे इत्येवोत्तरम् । युद्धाख्यं हि कर्म क्षत्रियस्य नियतमग्निहोत्रादिवत। तच्च युध सम्प्रहारे इत्यस्माद्धातोर्निष्पन्नं शत्रुप्राणवियोगानुकूलशस्त्रप्रहाररूपं विहितत्वाग्नीषोमीयादिसिंहावन्न प्रत्यवायजनकम् । तथा च गौतमं स्मरति न दोषो हिंसायामाहवेऽन्यत्र व्यश्वासारथ्यनुयुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यमिति । ब्राह्मणग्रहणंचात्रायोद्धृब्राह्मणविषयं गवादिप्रायपाठादिति स्थितम् । एतच्च सर्वं स्वधर्ममपि चावेक्ष्येत्यत्र स्पष्टीकरिष्यति । तथा च युद्धलक्षणेऽर्थेऽग्निहोत्रादिवद्विहितत्वादपरिहार्ये परिहर्तुमशक्ये तदकरणे प्रत्यवायप्रसङ्गात्त्वमदृष्टदुम्खभयेन शोचितुं नारहसीति पूर्ववत।

यदि तु युद्धाख्यं कर्म काम्यमेव—

य आहवेषु युध्यन्ते भूम्यर्थमपराङ्मुखाम् ।
अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ [यज्ञ. १३.३२४]

इति याज्ञवल्क्यवचनात। हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीं [गीता २.३७] इति भगवद्वचनाच्च । तदापि प्रारब्धस्य काम्यस्यापि अवश्यपरिसमापनीयत्वेन नित्यतुल्यत्वात्त्वया च युद्धस्य प्रारब्धत्वादपरिहार्यत्वं त्युल्यमेव ।

अथवात्मनित्यत्वपक्ष एव श्लोकद्वयमर्जुनस्य परमास्तिकस्य वेदबाह्यमताभ्युपगमासम्भवात। अक्षरयोजना तु नित्यश्चासौ देहेन्द्रियादिसम्बन्धवशाज्जातश्चेति नित्यजातस्तमेनमात्मानं नित्यमपि सन्तं जातं चेन्मन्यसे तथा नित्यमपि सन्तं मृतं चेन्मन्यसे तथापि त्वं नानुशोचितुमर्हसीति हेतुमाह जातस्य हीत्यादिना । नित्यस्य जातत्वं मृतत्वं च प्राग्व्याख्यातम् । स्पष्टमन्यत। भाष्यमप्यस्मिन्पक्षे योजनीयम् ॥२७॥

विश्वनाथम् : हि यस्मात्तस्य स्वारम्भककर्मक्षये मृत्युर्ध्रुवो निश्चितम् । मृतस्य च तद्देहकृतेन कर्मणा जन्मापि ध्रुवमेव । अपरिहार्येऽर्थे इति मृत्युर्जन्म च परिहर्तुम]चक्यमेव इत्यर्थम् ॥२७॥

बलदेवम् : अथ शरीरातिरिक्तो नित्य आत्मा । तस्यापूर्वशरीरेन्द्रिययोगो जन्म । पूर्वशरीरेन्द्रियवियोगस्तु मरणं तदुभयं च धर्माधर्महेतुकत्वात्तदाश्रयस्य नित्यस्यात्मनो मुख्यं, तदतिरिक्तस्य शरीरस्य तु गौणम् । तस्यानित्यस्य कृतहान्यकृताभ्यागमप्रसङ्गेन तदाश्रयत्वानुपपत्तेरिति तार्किका मन्यन्ते । तत्पक्षेऽप्यात्मनं शोच्यत्वं परिहरति जातस्येति । हिर्हेतौ । जातस्य स्वकर्मवशात्प्राप्तशरीरादियोगस्य नित्यस्याप्यात्मनस्तदारम्भककर्मक्षयहेतुको मृत्युर्ध्रुवो निश्चितम् । मृतस्य तच्छरीरकृतकर्महेतुकं जन्म च ध्रुवं स्यात। तस्मादेवमपरिहार्ये परिहर्तुमशक्ये जन्ममरणात्मकेऽर्थे त्वं विद्वान्शोचितुं नार्हसि । त्वयि युद्धान्निवृत्तेऽप्येते स्वारम्भके कर्मणि क्षीणे सति मरिष्यन्त्येव । तव तु स्वधर्माद्विच्युतिर्भाविनीति भावम् ॥२७॥

(२.२८)

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥

श्रीधरम् : किं च देहानां स्वभावं पर्यालोच्य तदुपाधिके आत्मनो जन्ममरणे शोको न कार्य इति । अत आह अव्यक्तादीनीत्यादि । अव्यक्तं प्रधानम् । तदेव आदिरुत्पत्तें पूर्वरूपं येषां तानि अव्यक्तादीनि । भूतानि शरीराणि । कारणात्मनापि स्थितानामेव उत्पत्तेम् । तथा व्यक्तमभिव्यक्तं मध्यं जन्ममरणान्तरालं स्थितिलक्षणं येषां तानि व्यक्तमध्यानि । अव्यक्ते निधनं लयो येषां तानीमान्येवंभूतान्येव । तत्र तेषु का परिदेवना ? कं शोकनिमित्तो विलापं ? प्रतिबुद्धस्य स्वप्नदृष्टवस्तुष्विव शोको न युज्यत इत्यर्थम् ॥२८॥

मधुसूदनम् : तदेवं सर्वप्रकारेणात्मनोऽशोच्यत्वमुपपादितमथेदानीमात्मनोऽशोच्यत्वेऽपि भूतसङ्घातात्मकानि शरीराण्युद्दिश्य शोचामीत्यर्जुनाशङ्कामपनुदति भगवानव्यक्तादीनीति । आदौ जन्मनं प्रागव्यक्तानि अनुपलब्धानि भूतानि पृथिव्यादिभूतमयानि शरीराणि मध्ये जन्मानन्तरं मरणात्प्राग्व्यक्तानि उपलब्धानि सन्ति । निधने पुनरव्यक्तान्येव भवन्ति । यथा स्वप्नेन्द्रजालादौ प्रतिभासमात्रजीवनानि शुक्तिरूप्यादिवन्न तु ज्ञानात्प्रागूर्ध्वं वा स्थितानि दृष्टिसृष्ट्यभ्युपगमात। तथा च—आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा [ंआ. Kआ. २.६] इति न्यायेन मध्येऽपि न सन्त्येवैतानि । नासतो विद्यते भावं [गीता २.१६] इति प्रागुक्तेश्च ।

एवं सति तत्र तेषु मिथ्याभूतेष्वत्यन्ततुच्छेषु भूतेषु का परिदेवना को वा दुम्खप्रलापो न कोऽप्युचित इत्यर्थम् । न हि स्वप्ने विविधान्बन्धूनुपलभ्य प्रतिबुद्धस्तद्विच्छेदेन शोचति पृथग्जनोऽपि एतदेवोक्तं पुराणे अदर्शनादापतितं पुनश्चादर्शनं गतं भूतसङ्घ इति शेषम् । तथा च शरीराण्यप्युद्दिश्य शोको नोचित इति भावम् ।

आकाशादिमहाभूताभिप्रायेण वा श्लोको योज्यम् । अव्यक्तमव्याकृतमविद्योपहितचैतन्यमादिं प्रागवस्था येषां तानि तथा व्यक्तं नामरूपाभ्यामेवाविद्यकाभ्यां प्रकटीभूतं न तु स्वेन परमार्थसदात्मना मध्यं स्थित्यवस्था येषां तादृशानि भूतानि आकाशादीनि अव्यक्तनिधनान्येवाव्यक्ते स्वकारणे मृदिव घटादीनां निधनं प्रलयो येषां तेषु भूतेषु का परिदेवनेति पूर्ववत। तथा च श्रुतिम्—तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत [बृ.आ.उ.  १.४.७] इत्यादिरव्यक्तोपादानतां सर्वस्य प्रपञ्चस्य दर्शयति । लयस्थानत्वं तु तस्यार्थसिद्धं कारण एव कार्यलयस्य दर्शनात। ग्रन्थान्तरे तु विस्तरम् । तथा चाज्ञानकल्पितत्वेन तुच्छान्याकाशादिभूतान्यप्युद्दिश्य शोको नोचितश्चेत्तत्कार्याण्युद्दिश्य नोचित इति किमु वक्तव्यमिति भावम् ।

अथवा सर्वदा तेषामव्यक्तरूपेण विद्यमानत्वाद्विच्छेदाभावेन तन्निमित्तं प्रलापो नोचित इत्यर्थम् । भारतेत्यनेन सम्बोधयन्शुद्धवंशोद्भवत्वेन शास्त्रीयमर्थं प्रतिपत्तुमर्होऽसि किमिति न प्रतिपद्यस इति सूचयति ॥२८॥

विश्वनाथम् : तदेवं न जायते न म्रियते इत्यादिना, देहपक्षे च जातस्य हि ध्रुवो मृत्युमित्यनेन शोकविषयं निराकृत्य इदानीमुभयपक्षेऽपि निराकरोति अव्यक्तेति । भूतानि देवमनुष्यतिर्यगादीनि । अव्यक्तानि न व्यक्तं व्यक्तिरादौ जन्मपूर्वकाले येषां, किन्तु तदानीमपि लिङ्गदेहं स्थूलदेहश्च स्वारम्भकपृथिव्यादिसत्त्वात्कारणात्मना वर्तमानोऽस्पष्टमासीदेवेत्यर्थम् । व्यक्तं व्यक्तिर्मध्ये येषां तानि । न व्यक्ति निधनादनन्तरं येषां तानि । महाप्रलयेऽपि कर्ममात्रादीनां सत्त्वात्सूक्ष्मरूपेण भूतानि सन्त्येव । तस्मात्सर्वभूतानि आद्यन्तरयोरव्यक्तानि मध्ये व्यक्तानीत्यर्थम् । यदुक्तं श्रुतिभिम्—स्थिरचरजातयं स्युरजयोत्थनिमित्तयुजमिति । का परिदेवना कं शोकनिमित्तं विलापं ? तथा चोक्तं नारदेन—

यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम् ।
सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात॥ [भा.पु. १.१३.४४] इति ॥२८॥

बलदेवम् : अथ देहात्मपक्षे आत्मातिरिक्तदेहपक्षे च देहविनाशहेतुकशोको न युक्तस्तदारम्भकाणां भूतमात्राणामविनाशादित्याह अव्यक्तादीनीति । अव्यक्तं नामरूपविरहात्सूक्ष्मं प्रधानमादि आदिरूपं येषां तानि अव्यक्तनिधनानि । अव्यक्ते तादृशि प्रधाने निधनं नामरूपविमर्दनलक्षणो नाशो येषां तानि । मृदादिके सद्रूपे द्रव्ये कम्बुग्रीवाद्यवस्थायोगे घटस्योत्पत्तिस्तद्विरोधिकपालाद्यवस्थायोगस्तु तस्य विनाशं कथ्यते । तद्द्रव्यं सर्वदा स्थायीति । एवमेवाह भगवान्पराशरम्—मही घटत्वं घटतं कपालिका चूर्णरजस्ततोऽणुं [वि.पु. २.१२.४२] इति । एवं शरीराण्याद्यन्तयोर्नामरूपायोगादव्यक्तिमन्ति । मध्ये तु तद्योगाद्व्यक्तिमन्ति । तदारम्भकानि भूतानि तु सर्वदा सन्तीति तेषु वस्तुतं सत्सु का परिदेवना कं शोकनिमित्तविलाप इत्यर्थम् । देहान्यनित्यात्मपक्षे तु वासांसि इत्यादिकं न विस्मर्तव्यम् । यत्त्वाद्यन्तयोरसत्त्वान्मध्येऽपि भूतान्यसन्त्येवातं स्वाप्निकरथाश्वादिप्रख्यानि मृषाभूतान्येव तेन तद्वियोगहेतुकं शोकं प्रतिबुद्धस्य न दृष्ट इति दृष्टिसृष्टिमभ्युपैत्याहुस्तन्मन्दं तदभ्युपगमे वैदिकासत्कार्यवादापत्तेम् । तदेवं मतद्वयेऽपि देहविनाशहेतुकं शोको नास्तीति सिद्धम् ॥२८॥

(२.२९)

आश्चर्यवत्पश्यति कश्चिदेनम्
आश्चर्यवद्वदति तथैव चान्यम् ।
आश्चर्यवच्चैनमन्यं शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित॥

श्रीधरम् : कुतस्तर्हि विद्वांसोऽपि लोके शोचन्ति ? आत्माज्ञानादेव इत्याशयेनात्मनो दुर्विज्ञेयत्वमाह आश्चर्यवदित्यादि । कश्चिदेनमात्मानं शास्त्राचार्योपदेशाभ्यां पश्यन्नाश्चर्यवत्पश्यति । सर्वगतस्य नित्यज्ञानानदस्वभावस्यात्मनमलौकिकत्वादैन्द्रजालिकवद्घटमानं पश्यन्निव विस्मयेन पश्यति असम्भावनाभिभूतत्वात। तथा आश्चर्यवदन्यो वदति च । शृणोति चान्यम् । कश्चित्पुनं विपरीतभावनाभिभूतं श्रुत्वापि नैव वेद । चशब्दादुक्त्वापि न दृष्ट्वापि न सम्यग्वेदेति द्रष्टव्यम् ॥२९॥

मधुसूदनम् : ननु विद्वांसोऽपि बहवं शोचन्ति तत्किं मामेव पुनं पुनरेवमुपालभसे । अन्यच्च वक्तुरेव हि तज्जाड्यं श्रोता यत्र न बुध्यते इति न्यायात्त्वद्वचनार्थापर्तिपत्तिश्च तवाप्यन्येषामिव स्वाशयदोषादिति नोक्तदोषद्वयमित्यभिप्रेत्यात्मनो दुर्विज्ञेयतामाह आश्चर्यवदिति ।

एनं प्रकृतं देहिनमाश्चर्येणाद्भुतेन तुल्यतया वर्तमानमाविद्यकनानाविधविरुद्धधर्मवत्तया सतन्मप्यसन्तमिव स्वप्रकाशचैतन्यरूपमपि जडमिवानन्दघनमपि दुम्खितमिव निर्विकारमपि सविकारमिव नित्यमनित्यमिव प्रकाशमानमप्यप्रकाशमानमिव ब्रह्माभिन्नमपि तद्भिन्नमिव मुक्तमपि बद्धमिवाद्वितीयमपि सद्वितीयमिव सम्भावितविचित्रानेकाकारप्रतीतिविषयं पश्यति शास्त्राचार्योपदेशाभ्यामाविद्यकसर्वद्वैतनिषेधेन  परमात्मस्वरूपमात्राकारायां वेदान्तमहावाक्यजन्यायां सर्वसुकृतफलभूतायामन्तम्करणवृत्तौ प्रतिफलितं समाधिपरिपाकेन साक्षात्करोति  कश्चिच्छमदमादिसाधनसम्पन्नचरमशरीरं कश्चिदेव न तु सर्वम् । तथा कश्चिदेनं यत्पश्यति तदाश्चर्यवदिति क्रियाविशेषणम् । आत्मदर्शनमप्याश्चर्यवदेव यत्स्वरूपतो मिथ्याभूतमपि सत्यस्य व्यञ्जकमाविद्यकमप्यविद्याया विघातकमविद्यामुपघ्नत्तत्कार्यतया स्वात्मानमप्युपहन्तीति । तथा यं कश्चिदेनं पश्यति स आश्चर्यवदिति कर्तृविशेषणम् । यतोऽसौ निवृत्ताविद्यातत्कार्योऽपि प्रारब्धकर्मप्राबल्यात्तद्वानिव व्यहरति सर्वदा समाधिनिष्ठोऽपि व्युत्तिष्ठति व्युत्थितोऽपि पुनं समाधिमनुभवतीति प्रारब्धकर्मवैचित्र्याद्विचित्रचरित्रं प्राप्तदुष्प्रापज्ञानत्वात्सकललोकस्पृहणीयोऽत आश्चर्यवदेव भवति । तदेतत्त्रयमप्याश्चर्यमात्मा तज्ज्ञानं तज्ज्ञाता चेति परमदुर्विज्ञेयमात्मानं त्वं कथमनायासेन जानीया इत्यभिप्रायम् ।

ईवमुपदेष्टुरभावादप्यात्मा दुर्विज्ञेयम् । यो ह्यात्मानं जानाति स एव तमन्यस्मै ध्रुवं ब्रूयात। अज्ञस्योपदेष्टृत्वासम्भवात्, जानंस्तु समाहितचित्तं प्रायेण कथं ब्रवीतु । व्युत्थितचित्तोऽपि परेण ज्ञातुमशक्यम् । यथा कथंचिज्ज्ञातोऽपि लाभपूजाख्यात्यादिप्रयोजनानपेक्षत्वाच्च ब्रवीत्येव । कथंचित्कारुण्यमात्रेण ब्रुवंस्तु परमेश्वरवदत्यन्तदुर्लभ एवेत्याह आश्चर्यवद्वदति तथैव चान्य इति । यथाजानाति तथैव वदति । एनमित्यनुकर्षणार्थश्चकारम् । स चान्यं सर्वाज्ञजनविलक्षणम् । न तु यं पश्यति ततोऽन्य इति व्याघातात। अत्रापि कर्मणि क्रियायां कर्तरि चाश्चर्यवदिति योज्यम् । तत्र कर्मणं कर्तुश्च प्रागाश्चर्यवत्त्वं व्याख्यातं क्रियायास्तु व्याख्यायते । सर्वशब्दावाच्यस्य शुद्धस्यात्मनो यद्वचनं तदाश्चर्यवत। तथा च श्रुतिम्—यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति । केनापि शब्देनावाच्यस्य शुद्धस्यात्मनो विशिष्टशक्तेन पदेन जहदजहत्स्वार्थलक्षणाया कल्पितसम्बन्धेन लक्ष्यतावच्छेदकमन्तरेणैव प्रतिपादनं तदपि निर्विकल्पसाक्षात्काररूपमत्याश्चर्यमित्यर्थम् ।

अथवा विना शक्तिं विना लक्षणां विना सम्बन्धान्तरं सुषुप्तोत्थापकवाक्यवत्तत्त्वमस्यादिवाक्येन यदात्मतत्त्वप्रतिपादनं तदाश्चर्यवत। शब्दशक्तेरचिन्त्यत्वात। न च विना सम्बन्धं बोधनेन्ऽतिप्रसङ्गं लक्षणापक्षेऽपि तुल्यत्वात। शक्यसम्बन्धस्यानेकसाधारणत्वात। तात्पर्यविशेषान्नियम इति चेत्, न । तस्यापि सर्वान्प्रत्यविशेषात। कश्चिदेव तात्पर्यविशेषमवधारयति न सर्व इति चेत। हन्त तर्हि पुरुषगत एव कश्चिद्विशेषो निर्दोषत्वरूपो नियामकम् । न चास्मिन्पक्षेऽपि न दण्डवारितम् । तथा च यादृशस्य शुद्धान्तम्करणस्य तात्पर्यानुसन्धानपुरम्सरं लक्षणया वाक्यार्थबोधो भवद्भिरङ्गी क्रियते तादृशस्यैव केवलं शब्दविशेषोऽखण्डसाक्षात्कारं विनापि सम्बन्धेन जनयतीति किमनुपपन्नम् । एतस्मिन्पक्षे शब्दवृत्त्यविषयत्वाद्यतो वाचो निवर्तन्त इति सुतरामुपपन्नम् । अयं च भगवदभिप्रायो वार्तिककारैं प्रपञ्चितम्—

दुर्बलत्वादविद्याया आत्मत्वाद्बोधरूपिणम् ।
शब्दशक्तेरचित्न्यत्वाद्विद्मस्तं मोहहानतम् ॥
अगृहीत्वैव सम्बन्धमभिधानाभिधेययोम् ।
हित्वा निद्रां प्रबुध्यन्ते सुषुप्तेर्बोधितां परैम् ॥
जाग्रद्वन्न यतं शब्दं सुषुप्ते वेत्ति कश्चन ।
ध्वस्तेऽतो ज्ञानतोऽज्ञाने ब्रह्मास्मीति भवेत्फलम् ॥
अविद्याघातिनं शब्दाद्याहं ब्रह्मेति धीर्भवेत।
नश्यत्यविद्यया सार्धं हत्वा रोगमिवौषधम् ॥ [बृ.वा. १.४.८६०८६३]
इत्यादिना ग्रन्थेन ।

तदेवं वचनविषयस्य वक्तुर्वचनक्रियायाश्चात्याश्चर्यरूपत्वादात्मनो दुर्विज्ञानत्वमुक्त्वा श्रोतुर्दुर्मिलत्वादपि तदाह आश्चर्यवच्चैनमन्यं शृणोति श्र्तुवाऽप्येनं वेदेति । अन्यो द्रष्टुर्वक्तुश्च मुक्ताद्विलक्षणो मुमुक्षुर्वक्तारं ब्रह्मविदं विधिवदुपसृत्यैनं शृणोति श्रवणाख्यविचारविषयी करोति वेदान्तवाक्यतात्पर्यनिश्चयेनावधारयतीति यावत। श्रुत्वा चैनं मनननिदिध्यासनपरिपाकाद्वेदापि साक्षात्करोत्यपि आश्चर्यवत। तथा चाश्चर्यवत्पश्यति कश्चिदेनमिति व्याख्यातम् । अत्रापि कर्तुराश्चर्यरूपत्वमनेकजन्मानुष्ठितसुकृतक्षालितमनोमलतयातिदुर्लभत्वात। तथा च वक्ष्यति—

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतम् ॥ [गीता ७.३] इति ।

श्रवणायापि बहुभिर्यो न लभ्यं
शृण्वन्तोऽपि बहवो यं न विद्युम् ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्टम् ॥ [क.उ. १.२.७] इति श्रुतेश्च ।

एवं श्रवणश्रोतव्ययोराश्चर्यत्वं प्राग्वद्व्याख्येयम् ।

ननु यं श्रवणमननादिकं करोति स आत्मानं वेदेति किमाश्चर्यमत आह—न चैव कश्चिदिति । चकारं क्रियाकर्मपदयोरनुषङ्गार्थम् । कश्चिदेनं नैव वेद श्रवणादिकं कुर्वन्नपि । तदकुर्वंस्तु न वेदेति किमु वक्तव्यम् । ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात्[वे.सू. ३.४.५१] इति न्यायात। उक्तं च वार्तिककारैम्—

कुतस्तज्ज्ञानमिति चेत्तद्धि बन्धपरिक्षयात।
असावपि च भूतौ वा भावी वा वर्ततेऽथवा ॥ [बृ.वा.स. २९४] इति ।

श्रवणादि कुर्वतामपि प्रतिबन्धपरिक्षयादेव ज्ञानं जायते । अन्यथा तु न । स च प्रतिबन्धपरिक्षयं कस्यचिद्भूत एव । यथा हिरण्यगर्भस्य । कस्यचिद्भावी । यथा वासुदेवस्य । कस्यचिद्वर्तते । यथा श्वेतकेतोम् । तथा च प्रतिबन्धक्षयस्यातिदुर्लभत्वात। ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणमिति स्मृतेश्च दुर्विज्ञेयोऽयमात्मेति निर्गलितोऽर्थम् ।

यदि तु श्रुत्वाप्येनं वेद न चैव कश्चिदित्येव व्याख्यायेत तदा आश्चर्यो ज्ञाता कुशलानुशिष्टं [क.उ. १.२.७] इति श्रुत्यैकवाक्यता न स्यात। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतं [गीता ७.३] इति भगवद्वचनविरोधश्चेति विद्वद्भिरविनयं क्षन्तव्यम् । अथवा न चैव कश्चिदित्यस्य सर्वत्र सम्बन्धं कश्चिदेनं न पश्यति न वदति न शृणोति श्रुत्वापि न वेदेति पञ्च प्रकारा उक्तां कश्चित्पश्यत्येव न वदति कश्चित्पश्यति न वदति च कश्चित्तद्वचनं शृणोति च तदर्थं जानाति च कश्चिच्छ्रुत्वापि न जानाति न कश्चित्तु सर्वबहिर्भूत इति । अविद्वत्पक्षे तु असम्भावनाविपरीतभावनाभिभूतत्वादाश्चर्यतुल्यत्वं दर्शनवदनश्रवणेष्विति निगदव्याख्यातं श्लोकम् । चतुर्थपादे तु दृष्ट्वोक्त्वा श्रुत्वापीति योजना ॥२९॥

विश्वनाथम् : ननु किमिदमाश्चर्यं ब्रूषे । किं चैतदप्याश्चर्यम् । यदेव प्रबोध्यमानस्याप्यविवेको नापयातीति तत्र सत्यमेवेमेव इत्याह आश्चर्यवदिति । एनमात्मानं देहं च तदुभयरूपं सर्वलोकम् ॥२९॥

बलदेवम् : ननु सर्वज्ञेन त्वया बहूपदिश्यमानोऽप्यहं शोकनिवारकमात्मयाथात्म्यं न बुध्ये किमेतदिति चेत्तत्राह आश्चर्यवदिति । विज्ञानान्दोभयस्वरूपत्वेऽपि तद्भेदाप्रतियोगिनं विज्ञानस्वरूपत्वेऽपि विज्ञातृतया सन्तं परमाणुत्वेऽपि व्याप्तबृहत्कायं नानाकायसम्बन्धेऽपि तत्तद्विकारैरस्पृष्टमेवमादि बहुविरुद्धधर्मतयाश्चर्यवदद्भुतसादृश्येन स्थितमेनं मदुपदिष्टं जीवं कश्चिदेव स्वधर्मानुष्ठानेन सत्यतपोजपादिना च विमृष्टहृद्गुरुप्रसादलब्धतादृशज्ञानं पश्यति याथात्म्येनानुभवति । आश्चर्यवदिति क्रियाविशेषणं वा कर्तृविशेषणं वेति व्याख्यातारं कश्चिदेनं यत्पश्यति तदाश्चर्यवत। यं कश्चित्पश्यति सोऽप्याश्चर्यवदित्यर्थम् । एवमग्रेऽपि । श्रुत्वाप्येनमिति कश्चित्सम्यगमृष्टहृदित्यर्थम् । तथा च दुरधिगमं जीवात्मयाथात्म्यम् । श्रुतिरप्येवमाह—

श्रवणायापि बहुभिर्यो न लभ्यम्
शृण्वन्तोऽपि बहवो यं न विद्युम् ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्ट ॥ [क.उ. १.२.७] इति ॥२९॥

(२.३०)

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥

श्रीधरम् : तदेवमवध्यत्वमात्मनं सङ्क्षेपेनोपदिशनशोच्यत्वमुपसंहरति देहीत्यादि । स्पष्टोऽर्थम् ॥३०॥

मधुसूदनम् : इदानीं सर्वप्राणिसाधारणभ्रमनिवृत्तिसाधनमुक्तमुपसंहरति देहीति । सर्वस्य प्राणिजातस्य देहे वध्यमानेऽप्ययं देही लिङ्गदेहोपाधिरात्मा वध्यो न भवतीति नित्यं नियतं यस्मात्तस्मात्सर्वाणि भूतानि स्थूलानि सूक्ष्माणि च भीष्मादिभावापन्नान्युद्दिश्य त्वं न शोचितुमर्हसि । स्थूलदेहस्याशोच्यत्वमपरिहार्यत्वात। लिङ्गदेहस्याशोच्यत्वमात्मवदेवावध्यत्वादिति न स्थूलदेहस्य लिङ्गदेहस्यात्मनो वा शोच्यत्वं युक्तमिति भावम् ॥३०॥

विश्वनाथम् : तर्हि निश्चित्य ब्रूहि किमहं कुर्यां किं वा न कुर्यामिति । तत्र शोकं मा कुरु युद्धं तु कुर्वित्याह देहीति द्वाभ्याम् ॥३०॥

बलदेवम् : तदेवं दुरधिगमं जीवयाथात्म्यं समासेनोपदिशन्नशोच्यत्वमुपसंहरति देहीति । सर्वस्य जीवगणस्य देहे हन्यमानेऽप्ययं देही जीवो नित्यमवध्यो यस्मात्तस्मात्त्वं सर्वाणि भूतानि भीष्मादिभावापन्नानि शोचितुं नार्हसि । आत्मनां नित्यत्वादशोच्यत्वं तद्देहानां त्ववश्यविनाशत्वात्तत्त्वमित्यर्थम् ॥३०॥

(२.३१)

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥

श्रीधरम् : यच्चोक्तमर्जुनेन वेपथुश्च शरीरे मे इत्यादि तदप्ययुक्तमित्याह स्वधर्ममपीति । आत्मनो नाशाभावादेव एतेसां हननेऽपि विकम्पितुं नार्हसि । किं च स्वधर्ममप्यवेक्ष्य विकम्पितुं नार्हसि इति सम्बन्धम् । यच्चोक्तं—न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहव इति तत्राह धर्म्यादिति । धर्मादनपेतान्न्यायाद्युद्धादन्यत॥३१॥

मधुसूदनम् : तदेवं स्थूलसूक्ष्मशरीरद्वयतत्कारणाविद्याख्योपाधित्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्मधर्मत्वादिप्रतिभासरूपं सर्वप्राणिसाधारणमर्जुनस्य भ्रमं निराकर्तुमुपाधित्रयविवेकेनात्मस्वरूपमभिहितवान। सम्प्रति युद्धाख्ये स्वधर्मे हिंसादिबाहुल्येनाधर्मत्वप्रतिभासरूपमर्जुनस्यैव करुणादिदोषनिबन्धनमसाधारणं भ्रमं निराकर्तुं हिंसादिमत्त्वेऽपि युद्धस्य स्वधर्मत्वेनाधर्मत्वाभावं बोधयति भगवान्स्वधर्ममपीति ।

न केवलं परमार्थतत्त्वमेवावेक्ष्य किं तु स्वधर्ममपि क्षत्रियधर्ममपि युद्धापराङ्मुखत्वरूपमवेक्ष्य शास्त्रतं पर्यालोच्य विकम्पितुं विचलितुं धर्मादधर्मत्वभ्रान्त्या निवर्तितुं नार्हसि । तत्रैवं सति यद्यप्येते न पश्यन्ति इत्यादिना नरके नियतं वासो भवति इत्यन्तेन युद्धस्य पापहेतुत्वं त्वया यदुक्तं कथं भीष्ममहं सङ्ख्ये इत्यादिना च गुरुवधब्रह्मवधाद्यकरणं यदभिहितं तत्सर्वं धर्मशास्त्रपर्यालोचनादेवोक्तम् । कस्मात्? हि यस्माद्धर्म्यादपराङ्मुखत्वधर्मादनपेताद्युद्धादन्यत्क्षत्रियस्य श्रेयं श्रेयम्साधनं न विद्यते । युद्धमेव हि पृथिवीजयद्वारेण प्रजारक्षणब्राह्मणशुश्रूषादिक्षात्रधर्मनिर्वाहकमिति तदेव क्षत्रियस्य प्रशस्ततरमित्यभिप्रायम् । तथा चोक्तं पराशरेण—

क्षत्रियो हि प्रजा रक्षन्शस्त्रपाणिं प्रदण्डयन।
निर्जित्य परसैन्यादि क्षितिं धर्मेण पालयेत॥ [पराशरस्मृति १.५८] इति ॥३१॥

मनुनापि—

समोत्तमाधमै राजा त्वाहूतं पालयन्प्रजाम् ।
न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन॥
संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् ।
शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ [मनु ७.८८९] इत्यादिना ।

राजशब्दश्च क्षत्रियजातिमात्रवाचीति स्थितमेवेष्ठ्यधिकरणे । तेन भूमिपालस्यैवायं धर्म इति न भ्रमितव्यम् । उदाहृतवचनेऽपि क्षत्रियो हीति क्षात्त्रं धर्ममिति च स्पष्टं लिङ्गम् । तस्मात्क्षत्रियस्य युद्धं प्रशस्तो धर्म इति साधु भगवतोऽभिहितम् । अपशवोऽन्ये गोअश्वेभ्यं पशवो गोअश्वामितिवत्प्रशंसालक्षणया युद्धादन्यच्छ्रेयम्साधनं न विद्यत इत्युक्तमिति न दोषम् । एतेन युद्धात्प्रशस्ततरं किंचिदनुष्ठातुं ततो निवृत्तिरुचितेति निरस्तम् । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे इत्येतदपि ॥३१॥

विश्वनाथम् : आत्मनो नाशाभावादेव वधाद्विकम्पितुं भेतुं नार्हसि । स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसीति सम्बन्धम् ॥३१॥

बलदेवम् : एवं परमात्मज्ञानोपयोगित्वादादौ जीवात्मज्ञानं सर्वान्प्रति तौल्येनोपदिश्य सनिष्ठान्प्रति निष्कामतयानुष्ठितानि कर्माणि हृद्विशुद्धिसहकृतामात्मज्ञाननिष्ठां निष्पादयन्तीति वदिष्यन्तस्यां प्रतीतिमुत्पादयितुं सकामतयानुष्ठितानां कर्मणां काम्यफलप्रदत्वमाह द्वाभ्यां स्वधर्ममपीति ।

युद्धं खलु क्षत्रियस्य नित्यतमग्निहोत्रादिवद्विहितम् । तच्च शत्रुप्राणविहंसनरूपमग्निष्टोमादिपशुहिंसनवन्न प्रत्यवायनिमित्तम् । उभयत्र हिंसेयमुपकृतिरूपैव । हीनयोर्देहलोकयोस्त्यागेन दिव्ययोस्तयोर्लोभात। आह चैवं स्मृतिम्—

आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितम् ।
युध्यमानां परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाम् ॥ [मनु ७.९०]
यज्ञेषु पशवो ब्रह्मन्हन्यन्ते सततं द्विजैम् ।
संस्कृतां किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन॥ [?] इत्याद्या ।

एवं निजधर्ममवेक्ष्य विकम्पितुं धर्मात्प्रचलितुं नार्हसि । युक्तं न च श्रेयोऽनुपश्यामीत्यादिना नरके नित्यतं वासो भवतीय्तन्त्येन युद्धस्य पापहेतुत्वं त्वयोक्तम् । तच्चाज्ञानादेवेत्याह धर्म्यादिति । युद्धमेव भूमिजयद्वारा प्रजापालनगुरुविप्रसंसेवनादिक्षात्रधर्मनिर्वाहीति । एवमाह भगवान्पराशरम्—

क्षत्रियो हि प्रजा रक्षन्शस्त्रपाणिं प्रदण्डयन।
निर्जित्य परसैन्यादि क्षितिं धर्मेण पालयेत॥ [पराशरस्मृति १.५८] इति ॥३१॥

(२.३२)

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनं क्षत्रियां पार्थ लभन्ते युद्धमीदृशम् ॥३२॥

श्रीधरम् : किं च महति श्रेयसि स्वयमेवोपागते सति कुतो विकम्पस इति । अत आह यदृच्छयेति । यदृच्छया अप्रार्थितमेव उपपन्नं प्राप्तमीदृशं युद्धं लभन्ते । यतो निरावरणं स्वर्गद्वारमेवैतत। यद्वा य एवंविधं युद्धं लभन्ते त एव सुखिन इत्यर्थम् । एतेन स्वजनं हि कथं हत्वा सुखिनं स्याम माधव इति यदुक्तं तन्निरस्तं भवति ॥३२॥

मधुसूदनम् : ननु युद्धस्य कर्तव्यत्वेऽपि न भीष्मद्रोणादिभिर्गुरुभिं सह तत्कर्तुमुचितमतिगर्हितत्वादित्याशङ्क्याह यदृच्छयेति । यदृच्छया स्वप्रयत्नव्यतिरेकेण । चोऽवधारणे । अप्रार्थनयैवोपस्थितमीदृशं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं कीर्तिराज्यलाभदृष्टफलसाधनं युद्धं ये क्षत्रियां प्रतियोगित्वेन लभन्ते ते सुखिनं सुखभाज एव । जये सत्येनायासेनैव यशसो राज्यस्य च लाभात। पराजये चातिशीघ्रमेव स्वर्गस्य लाभादित्याह स्वर्गद्वारमपावृतमिति । अप्रतिबद्धं स्वर्गसाधनं युद्धमव्यवधानेनैव स्वर्गजनकं ज्योतिष्ठोमादिकं तु चिरतरेण देहपातस्य प्रतिबन्धाभावस्य चापेक्षणादित्यर्थम् । स्वर्गद्वारमित्यनेन श्येनादिवत्प्रत्यवायशङ्का परिहृता । श्येनादयो हि विहिता अपि फलदोषेण दुष्टाम् । तत्फलस्य शत्रुवधस्य न हिंस्यात्सर्वा भूतानि, ब्राह्मणं न हन्यातित्यादिशास्त्रनिषिद्धस्य प्रत्यवायजनकत्वात्फले विध्यभावाच्च न विधिस्पृष्टे निषेधानवकाशमिति न्यायावतारम् । युद्धस्य हि फलं स्वर्गं स च न निषिद्धम् । तथा च मनुं —

    आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितम् ।
    युध्यमानां परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाम् ॥ [मनु ७.९०] इति ।

युद्धं तु अग्नीषोमीयाद्यालम्भवधविहितत्वान्न निषेधेन स्प्रष्टुं शक्यते षोडशिग्रहणादिवत। ग्रहणाग्रहयोस्तुल्यबलतया विकल्पवत्सामान्यशास्त्रस्य विशेषशास्त्रेण सङ्कोचसम्भवात। तथा च विधिस्पृष्टे निषेधानवकाशमिति न्यायाद्युद्धं न प्रत्यवायजनकं नापि भीष्मद्रोणादिगुरुब्राह्मणादिवधनिमित्तो दोषम् । तेषामाततायित्वात। तदुक्तं मनुना—

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवाविचारयन॥
आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत॥
नाततायिवधो दोषो हन्तुर्भवति कश्चन ॥ [मनु ८.३५०३५१] इत्यादि ।

ननु—
स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतम् ।
अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिम् ॥ [याज्ञवल्क्य २.२१]

इति याज्ञवल्क्यवचनादाततायिब्राह्मणवधेऽपि प्रत्यवायोऽस्त्येव । ब्राह्मणं न हन्यातिति हि दृष्टप्रयोजनानपेक्षत्वाद्धर्मशास्त्रं, जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेतिति च स्वजीवनार्थत्वादर्थशास्त्रम् ।

अत्रोच्यते ब्रह्मणे ब्राह्मणमालभेत इतिवद्युद्धविधायकमपि धर्मशास्त्रमेव सुखदुम्खे समे कृत्वा इत्यत्र दृष्टप्रयोजनानपेक्षत्वस्य वक्ष्यमाणत्वात। याज्ञवल्क्यवचनं तु दृष्टप्रयोजनोद्देश्यककूटयुद्धादिकृतवधविषयमित्यदोषम् । मिताक्षराकारस्तु धर्मार्थसन्निपातेऽर्थग्राहिण एतदेवेति द्वादशवार्षिकप्रायश्चित्तस्यैतच्छब्दपरामृष्टस्यापस्तम्बेन विधानान्मित्रलब्ध्याद्यर्थशास्त्रानुसारेण चतुष्पाद्व्यवहारे शत्रोरपि जये धर्मशास्त्रातिक्रमो न कर्तव्य इत्येतत्परं वचनमेतदित्याह । भवत्वेवं न नो हानिम् । तदेवं युद्धकरणे सुखोक्तें स्वजनं हि कथं हत्वा सुखिनं स्याम माधव इत्यर्जुनोक्तमपाकृतम् ॥३२॥

विश्वनाथम् : किं च, जेतृभ्यं सकाशादपि न्याययुद्धे मृतानामधिकं सुखमतो भीष्मादीन्हत्वा तान्प्रत्युत स्वतोऽपि अधिकसुखिनं कुरु इत्याह यदृच्छयेति । स्वर्गसाधनं कर्मयोगमकृत्वापीत्यर्थम् । अपावृतमपगतावरणम् ॥३२॥

बलदेवम् : किं चायत्नादागतेऽस्मिन्महति श्रेयसि न युक्तस्ते कम्प इत्याह यदृच्छयेति । चोऽवधारणे । यत्नं विनैव चोपपन्नमीदृशं भीष्मादिभिर्महावीरैं सह युद्धं सुखिनं सभाग्यां क्षत्रिया लभन्ते । विजये सत्यश्रमेण कीर्तिराज्ययोर्मृत्यौ सति शीघ्रमेव स्वर्गस्य च प्राप्तेरित्यर्थम् । एतद्व्यञ्जयन्विशिनष्टि—स्वर्गद्वारमुपावृतमिति । अप्रतिरुद्धस्वर्गसाधनमित्यर्थम् । ज्योतिष्टोमादिकं चिरतरेण स्वर्गोपलम्भकमिति ततोऽस्यातिशयम् ॥३२॥

(२.३३)

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
ततं स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥

श्रीधरम् : विपर्यये दोषमाह अथ चेदिति ॥३३॥

मधुसूदनम् : ननु नाहं युद्धफलकामम् । न काङ्क्षे विजयं कृष्ण, अपि त्रैलोक्यराज्यस्य इत्युक्तत्वात्तत्कथं मया कर्तव्यमित्याशङ्क्याकरणे दोषमाह अथ चेदिति । अथेति पक्षान्तरे । इमं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं धर्म्यं हिंसादिदोषणादुष्टं सतां धर्मादनपेतामिति वा । स च मनुना दर्शितम्—

न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून।
न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैम् ॥
न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् ।
न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥
न सुप्तं न विसंनाहं न नग्नं न निरायुधम् ।
नायुध्यमानं पश्यन्तं न परेण समागतम् ॥
नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् ।
न भीतं न परावृत्तं सतां धर्ममनुस्मरन॥ [मनु ७.९१९४] इति ।

सतां धर्ममुल्लङ्घ्य युध्यमानो हि पापीयान्स्यात। त्वं तु परैराहूतोऽपि सद्धर्मोपेतमपि सङ्ग्रामं युद्धं न करिष्यसि धर्मतो लोकतो वा भीतं परावृत्तो भविष्यसि चेत्ततो निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत्[पराशरस्मृति १.५८] इत्यादिशास्त्रविहितस्य युद्धस्याकरणात्स्वधर्मं हित्वाननुष्ठाय कीर्तिं च महादेवादिसमागमनिमित्तां हित्वा न निवर्तेत सङ्ग्रामातित्यादिशास्त्रनिषिद्धसङ्ग्रामनिवृत्त्या च रणजन्यं पापमेव केवलमवाप्स्यसि न तु धर्मं कीर्तिं चेत्यभिप्रायम् ।

अथवाऽनेकजन्मार्जितं धर्मं त्यक्त्वा राजकृतं पापमेवावाप्स्यसीत्यर्थम् । यस्मात्त्वां परावृत्तमेते दुष्टा अवश्यं हनिष्यन्ति अतं परावृत्तहतं संश्चिरोपार्जितनिजसुकृतपरित्यागेन परोपार्जितदुष्कृतमात्रभाङ्मा भूरित्यभिप्रायम् । तथा च मनुम्—

यस्तु भीतं परावृत्तं सङ्ग्रामे हन्यते परैम् ।
भर्तुर्यद्दुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते ॥
यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् ।
भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ [मनु ७.९५९६] इति ।

याज्ञवल्क्योऽपि राजा सुकृतमादत्ते हतानां विपलायिनामिति । तेन यदुक्तम्—पापमेवाश्रयेदस्मान्हत्वैतानाततायिनं [गीता १.३६], एतान्न हन्तुमिच्छामि घन्तोऽपि मधुसूदन [गीता १.३५] इति तन्निराकृतं भवति ॥३३॥

विश्वनाथम् : विपक्षे दोषमाह अथेति चतुर्भिम् ॥३३॥

बलदेवम् : विपक्षे दोषान्दर्शयति अथेत्यादिभिम् । स्वस्य तव धर्म्यं युद्धलक्षणं कीर्तिं च रुद्रसन्तोषणनिवातकवचादिवधलब्धां हित्वा पापं न निवर्तेत सङ्ग्रामादित्यादि स्मृतिप्रतिषिद्धं स्वधर्मत्यागलक्षणं प्राप्स्यसि ॥३३॥

(२.३४)


अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥३४॥

श्रीधरम् : किं च अकीर्तिमित्यादि । अव्ययां शाश्वतीम् । संभावितस्य बहुमतस्य । अतिरिच्यते अधिकतरा भवति ॥३४॥

मधुसूदनम् : एवं कीर्तिधर्मयोरिष्टयोरप्राप्तिरनिष्टस्य च पापस्य प्राप्तिर्युद्धपरित्यागे दर्शिता । तत्र पापाख्यमनिष्टं व्यवधानेन दुम्खफलदमामुत्रिकत्वात। शिष्टगर्हालक्षणं त्वनिष्टमासन्नफलदमत्यसह्यमित्याह अकीर्तिमिति । भूतानि देवर्षिमनुष्यादीनि ते तवाव्ययां दीर्घकालमकीर्तिं न धर्मात्मायं न शूरोऽयमित्येवंरूपां कथयिष्यन्त्यन्योन्यं कथाप्रसङ्गे । कीर्तिधर्मनाशसमुच्चयार्थौ निपातौ । न केवलं कीर्तिधर्मौ हित्वा पापं प्राप्स्यसि अपि तु अकीर्तिं च प्राप्स्यसि । न केवलं त्वमेव तां प्राप्स्यसि अपि तु भूतान्यपि कथयिष्यन्तीति वा निपातयोरर्थम् ।

ननु युद्धे स्वमरणसन्देहात्तत्परिहारार्थमकीर्तिरपि सोढव्या आत्मरक्षणस्यात्यन्तापेक्षितत्वात। तथा चोक्तं शान्तिपर्वणि —

साम्ना दानेन भेदेन समस्तैरथ वा पृथक।
विजेतुं प्रयतेतारीन्न युद्धेन कदा चन ॥
अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोम् ।
पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत॥
त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे ।
तथा युध्येत संपन्नो विजयेत रिपून्यथा ॥ [मनु ७.१९८२००]

एवमेव मनुनाप्युक्तम् ।

तथा च मरणभीतस्य किमकीर्तिदुम्खमिति शङ्कामपनुदति सम्भावितस्य धर्मात्मा शूर इत्येवमादिभिरनन्यलभ्यैर्गुणैर्बहुमतस्य जनस्याकीर्तिर्मरणादप्यतिरिच्यतेऽधिका भवति । चो हेतौ । एवं यस्मादतोऽकीर्तेर्मरणमेव वरं न्यूनत्वात। त्वमप्यतिर्सम्भावितोऽसि महादेवादिसमागमेन । अतो नाकीर्तिदुम्खं सोढुं शक्ष्यसीत्यभिप्रायम् । उदाहृतवचनं त्वर्थशास्त्रत्वात्न निवर्तेत सङ्ग्रामात्[मनु ७.८८] इत्यादिधर्मशास्त्राद्दुर्बलमिति भावम् ॥३४॥

विश्वनाथम् : अव्ययामनश्वराम् । संभावितस्यातिप्रतिष्ठितस्य ॥३४॥

बलदेवम् : न केवलं स्वधर्मस्य कीर्तेश्च क्षतिमात्रम् । युद्धे समारब्धेऽर्जुनं पलायत इत्यव्ययां शाश्वतीमकीर्तिं च तव भूतानि सर्वे लोकां कथयिष्यन्ति । ननु मरणाद्भीतेन मया अकीर्तिं सोढव्येति चेत्तत्राह सम्भावितस्यातिप्रतिष्ठितस्य । अतिरिच्यते अधिका भवति । तथा च तादृशाकीऋतेर्मरणमेव वरमिति ॥३४॥

(२.३५)


भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाम् ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥३५॥

श्रीधरम् : किं च भयादिति । येषां बहुगुणत्वेन त्वं पूर्वं सम्मतोऽभूस्त एव भयात्संग्रामान्निवृत्तं त्वां मन्येरन। ततश्च पूर्वं बहुमतो भूत्वा लाघवं लघुतां यास्यसि ॥३५॥

मधुसूदनम् : ननूदासीना जना मां निन्दन्तु नाम, भीष्मद्रोणादयस्तु महारथां कारुणिकत्वेन स्तोष्यन्ति मामित्यत आह—भयादिति । कर्णादिभ्यो भयाद्युद्धान्निवृत्तं न कृअपयेति त्वां मंस्यन्ते भीष्मद्रोणदुर्योधनादयो महारथाम् । ननु ते मां बहु मन्यमानां कथं भीतं मंस्यन्ते ? इत्यत आह—येषामेव भीष्मादीनां त्वं बहुमतो बहुभिर्गुणैर्युक्तोऽयमर्जुन इत्येवं मतस्त एव त्वां महारथां भयादुपरतं मंस्यन्त इत्यन्वयम् । अतो भूत्वा युद्धादुपरत इति शेषम् । लाघवमनादरविषयत्वं यास्यसि प्राप्स्यसि । सर्वेषमिति शेषम् । येषामेव त्वं प्राग्बहुमतोऽभूम्, तेषामेव तादृशो भूत्वा लाघवं यास्यसीति वा ॥३५॥

विश्वनाथम् : येषां त्वं बहुमतोऽस्मच्छत्रुरर्जुनस्तु महाशूर इति बहुसंमानविषयो भूत्वा सम्प्रति युद्धादुपरमे सति लाघवं यास्यसि ते दुर्योधनादयो महारथास्त्वां भयादेव रणादुपरतं मंस्यन्त इत्यन्वयम् । क्षत्रियाणां हि भयं विना युद्धोपरतिहेतुर्बन्धुस्नेहादिको नोपपद्यत इति मत्वेति भावम् ॥३५॥

बलदेवम् : ननु कुलक्षयदोषात्कारुण्याच्च विनिवृत्तस्य मम कथमकीर्तिं स्यादिति चेत्तत्राह भयादिति । महारथा दुर्योधनादयस्त्वां कर्णादिभयान्न तु बन्धुकारुण्याद्रणादुपरतं मंस्यन्ते । न हि शूरस्य शत्रुभयं विना बन्धुस्नेहेन युद्धादुपरतिरित्यर्थम् । इतं पूर्वं येषां त्वं बहुमतं शूरो वैरीति बहुगुणवत्तया संमतोऽभूरिदानीं युद्धे समुपस्थिते कातरोऽयं विनिवृत्त इत्येवं तत्कृतं लाघवं दुम्सहं यास्यसि ॥३५॥

(२.३६)

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताम् ।
निन्दन्तस्तव सामर्थ्यं ततो दुम्खतरं नु किम् ॥

श्रीधरम् : किं च अवाच्यवादानिति । अवाच्यान्वादान्वचनानर्हान्शब्दान्तव अहितां त्वच्छत्रवो वदिष्यन्ति ॥३६॥

मधुसूदनम् : ननु भीष्मादयो महारथा न बहु मन्यन्तां दुर्योधनादयस्तु शत्रवो बहु मंस्यन्ते मां युद्धनिवृत्त्या तदुपकारित्वादित्यत आह अवाच्येति । तवासाधारणं यत्सामर्थ्यं लोकप्रसिद्धं तन्निन्दन्तस्तव शत्रवो दुर्योधनादयोऽवाच्यान्वादान्वचनानर्हान्षण्ढतिलादिरूपानेव शब्दान्बहूननेकप्रकारान्वदिष्यन्ति न तु बहु मंस्यन्त इत्यभिप्रायम् । अथवा तव सामर्थ्यं स्तुतियोग्यत्वं तव निन्दन्तोऽहिता अवाच्यवादान्वदिष्यन्तीत्यन्वयम् ।

ननु भीष्मद्रोणादिवधप्रयुक्तं कष्टतरं दुम्खमसहमानो युद्धान्निवृत्तं शत्रुकृतसामर्थ्यनिन्दनादिदुम्खं सोढुं शक्ष्यामीत्यत आह ततस्तस्मान्निन्दाप्राप्तिदुम्खात्किं तु दुम्खतरं ततोऽधिकं किमपि दुम्खं नास्तीत्यर्थम् ॥३६॥

विश्वनाथम् : अवाच्यवादान। क्लीब इत्यादि कटूक्तीम् ॥३६॥

बलदेवम् : किं चावाच्येति । अहितां शत्रवो धार्तराष्ट्रास्तव सामर्थ्यं पूर्वसिद्धं पराक्रमं निन्दन्तं बहूनवाच्यवादान्शण्ढतिलादिशब्दान्वदिष्यन्ति । तत एवंविधावाच्यवादश्रवणादतिशायितं किं दुम्खमस्ति । इत्थं चैते षड्भिर्युद्धवैराग्यस्यास्वर्गत्वमकीर्तिकरत्वं चोक्तं दर्शितम् ॥३६॥

(२.३७)

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयम् ॥३७॥

श्रीधरम् : यदुक्तं न चैतद्विद्मं [गीता २.६] इति तत्राह हतो वेत्यादि । पक्षद्वयेऽपि तव लाभ एवेत्यर्थम् ॥३७॥

मधुसूदनम् : ननु तर्हि युद्धे गुर्वादिवधवशान्मध्यस्थकृता निन्दा ततो निवृत्तौ तु शत्रुकृता निन्देत्युभयतं पाशा रज्जुरित्याशङ्क्य जये पराजये च लाभध्रौव्याद्युद्धार्थमेवोत्थानमावश्यकमित्याह हतो वेति । स्पष्टं पूर्वार्धम् । यस्मादुभयथापि ते लाभस्तस्माज्जेष्यामि शत्रून्मरिष्यामि वेति कृतनिश्चयं सन्युद्धायोत्तिष्ठ । नयतरफलसन्देहेऽपि युद्धकर्तव्यताया निश्चितत्वात। एतेन न चैतद्विद्मं कतरन्नो गरीयं [गीता २.६] इत्यादि परिहृतम् ॥३७॥

विश्वनाथम् : ननु युद्धे मम जय एव भावीत्यपि नास्ति निश्चयम् । ततश्च कथं युद्धे प्रवर्तितव्यमित्यत आह हत इति ॥३७॥

बलदेवम् : ननु युद्धे विजय एव मे स्यादिति निश्चयाभावात्ततोऽहं निवृत्तोऽस्मीति चेत्तत्राह हतो वेति । पक्षद्वयेऽपि ते लाभ एवेति भावम् ॥३७॥

(२.३८)

सुखदुम्खे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥

श्रीधरम् : यदप्युक्तं पापमेवाश्रयेदस्मान्[गीता १.३६] इति तत्राह सुखदुम्खे इत्यादि । सुखदुम्खे समे कृत्वा । तथा तयों कारणभूतौ लाभालाभावपि । तयोरपि कारणभूताउ जयाजयावपि समौ कृत्वा । एतेषां समत्वे कारणं हर्षविषादराहित्यम् । युज्यस्व सन्नधो भव । सुखाद्यभिलासं हित्वा स्वधर्मबुद्ध्या युध्यमानं पापं न प्राप्स्यसीत्यर्थम् ॥३८॥

मधुसूदनम् : नन्वेवं स्वर्गमुद्दिश्य युद्धकरणे तस्य नित्यत्वव्याघातम् । राज्यमुद्दिश्य युद्धकरणे त्वर्थशास्त्रत्वाद्धर्मशास्त्रापेक्षया दौर्बल्यं स्यात। ततश्च काम्यस्याकरणे कुतं पापं दृष्टार्थस्य गुरुब्राह्मणादिवधस्य कुतो धर्मत्वं, तथा चाथ चेदिति श्लोकार्थो व्याहत इति चेत्तत्राह सुखदुम्खे इति ।

समताकरणं रागद्वेषराहित्यम् । सुखे तत्कारणे लाभे तत्कारणे लाभे तत्कारणे जये च रागमकृत्वा, एवं दुम्खे तद्धेतावलाभे तद्धेतावजये च द्वेषमकृत्वा ततो युद्धाय युज्यस्व सन्नधौ भव । एवं सुखकामनां दुम्खनिवृत्तिकामनां वा विहाय स्वधर्मबुद्ध्या युध्यमानो गुरुब्राह्मणादिवधनिमित्तं नित्यकर्माकरणनिमित्तं च पापं न प्राप्स्यसि । यस्तु फलकामनया करोति स गुरुब्राह्मणादिवधनिमित्तं पापं प्राप्नोति यो वा न करोति स नित्यकर्माकरणनिमित्तम् । अतं फलकामनामन्तरेण कुर्वन्नुभयविधमपि पापं न प्राप्नोतीति प्रागेव व्याख्यातोऽभिप्रायम् । हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीं [गीता २.३७] इति स्वानुषङ्गिकफलकथनमिति न दोषम् । तथा च आपस्तम्बं स्मरति—तद्यथाम्रे फलार्थे निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते नो चेदनूत्पद्यन्ते न धर्महानिर्भवति इति । अतो युद्धशास्त्रस्यार्थशास्त्रत्वाभावात्पापमेवाश्रयेदस्मान्[गीता १.३६] इत्यादि निराकृतं भवति ॥३८॥

विश्वनाथम् : तस्मात्तव सर्वथा युद्धमेव धर्मस्तदपि यदिमं पापकारणमाशङ्कसे, तर्हि मत्तं पापानुत्पत्तिप्रकारं शिक्षित्वा युध्यस्वेत्याह सुखदुम्खे समे कृत्वा । तद्धेतुर्लाभालाभौ राज्यलाभराजच्यूती अपि । तद्धेतुर्जयाजयावपि समौ कृत्वा विवेकेन तुल्यौ विभावेत्यर्थम् । ततश्चैवंभूतसाम्यलक्षणे ज्ञानवतस्तव पापं नैव भवेत। यद्वक्ष्यते लिप्यते न स पापेन पद्मपत्रमिवाम्भसा [गीता ५.१०] इति ॥३८॥

बलदेवम् : ननु अथ चेत्त्वमित्यादिपद्यार्थो व्याहृतम् । राज्याद्युद्देशेन कृतस्य युद्धस्य गुरुविप्रादिविनाशहेतुत्वेन पापोत्पादकत्वादिति चेन्मुमुक्षुवर्त्मना युद्धमानस्य तव तद्विनाशहेतुकं पापं न स्यादित्याह सुखेति । साम्यकरणमिह तत्र तत्र निर्विकारत्वं बोध्यम् । सुखे तद्धेतौ जये च रागमकृत्वा दुम्खे तद्धेतावलाभे तद्धेतौ पराजये च द्वेषमकृत्वा तत्र तत्र निर्विकारचित्तं सन्ततो युद्धाय युज्यस्व । केवलस्वधर्मधिया योद्धुमुद्युक्तो भवेत्यर्थम् । एवं मुमुक्षुरीत्या योद्धा त्वं पापं तद्विनाशहेतुकं नावाप्स्यसि । फलेच्छुं सन्यो युध्यते स तत्पापं विन्दति । विज्ञानार्थी तु पुरातनमनन्तपापमपनुदतीत्यर्थम् ।

ननु फलरागं विना दुष्करे युद्धदानादौ कथं प्रवृत्तिरिति चेदनन्तात्मानन्दरागं तत्र प्रवर्तकं गृहाण राज्याद्यनुरागमिव भृगुपाते ॥३८॥

(२.३९)

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥

श्रीधरम् : उपदिष्टं ज्ञानयोगमुपसंहरंस्तत्साधनं कर्मयोगं प्रस्तौति एषेत्यादि । सम्यक्ख्यायते प्रकाश्यते वस्तुतत्त्वमनयेति सङ्ख्या सम्यक्ज्ञानम् । तस्यां प्रकाशमानमात्मतत्त्वं साङ्ख्यम् । तस्मिन्करणीया बुद्धिरेषा तवाभिहिता । एवमभिहितायामपि तव चेदात्मतत्त्वमपरोक्षं न भवति तर्ह्यन्तम्करणशुद्धिद्वारा आत्मतत्त्वापरोक्षार्थं कर्मयोग त्विमां बुद्धिं शृणु । यया बुद्ध्या युक्तं परमेश्वरार्पितकर्मयोगेन शुद्धान्तम्करणं सन्तत्प्रसादलब्धापरोक्षज्ञानेन कर्मात्मकं बन्धं प्रकर्षेण हास्यसि त्यक्ष्यसि ॥३९॥

मधुसूदनम् :  ननु भवतु स्वधर्मबुद्ध्या युध्यमानस्य पापाभावम्, तथापि न मां प्रति युद्धकर्तव्यतोपदेशस्तवोचितम् । य एनं वेत्ति हन्तारं [गीता २.१९] इत्यादिना कथं स पुरुषं पार्थ कं घातयति हन्ति कं [गीता २.२१] इत्यन्तेन विदुषं सर्वकर्मप्रतिक्षेपात। न ह्यकर्त्र्भोक्तृशुद्धस्वरूपोऽहमस्मि युद्धं कृत्वा तत्फलं भोक्ष्य इति च ज्ञानं सम्भवति विरोधात। ज्ञानकर्मणों समुच्चयासम्भवात्प्रकाशतमसोरिव । अयं चार्जुनाभिप्रायो ज्यायसी चेदित्यत्र व्यक्तो भविष्यति । तस्मादेकमेव मां प्रति ज्ञानस्य कर्मणश्चोपदेशो नोपपद्यत इति चेत्, न । विद्वदविद्वदवस्थाभेदेन ज्ञानकर्मोपदेशोपपत्तेरित्याह भगवानेषेति ।

एषा न त्वेवाहमित्याद्येकविंशतिश्लोकैस्ते तुभ्यमभिहिता साङ्ख्ये सम्यक्ख्यायते सर्वोपाधिशून्यतया प्रतिपाद्यते परमात्मतत्त्वमनयेति सङ्ख्योपनिषत्तयैव तापर्यपरिसमाप्त्या प्रतिपाद्यते यं स साङ्ख्य औपनिषदं पुरुष इत्यर्थम् । तस्मिन्बुद्धिस्तन्मात्रविषयं ज्ञानं सर्वानर्थनिवृत्तिकारणं त्वां प्रति मयोक्तं नैतादृशज्ञानवतं क्वचिदपि कर्मोच्यते । तस्य कार्यं न विद्यत इति वक्ष्यमाणत्वात।

यदि पुनरेवं मयोक्तेऽपि तवैषा बुद्धिर्नोदेति चित्तदोषात्, तदा तदपनयेनात्मतत्त्वसाक्षात्काराय कर्मयोग एव त्वयानुष्ठेयम् । तस्मिन्योगे कर्मयोगे तु करणीयामिमां सुखदुम्खे समे कृत्वा इत्यत्रोक्तां फलाभिसन्धित्यागलक्षणां बुद्धिं विस्तरेण मया वक्ष्यमाणां शृणु । तुशब्दं पूर्वबुद्धेर्योगविषयत्वव्यतिरेकसूचनार्थम् । तथा च शुद्धान्तम्करणं प्रति ज्ञानोपदेशोऽशुद्धान्तम्करणं प्रति कर्मोपदेश इति कुतं समुच्चयशङ्कया विरोधावकाश इत्यभिप्रायम् ।

योगविषयां बुद्धिं फलकथनेन स्तौति—यथा व्यवसायात्मिकया बुद्ध्या कर्मसु युक्तस्त्वं कर्मनिमित्तं बन्धनाशायाशुद्धिलक्षणं ज्ञानप्रतिबन्धं प्रकर्षेण पुनं प्रतिबन्धानुत्पत्तिरूपेण हास्यसि त्यक्ष्यसि । अयं भावम्—कर्मनिमित्तो ज्ञानप्रतिबन्धं कर्मणैव धर्माख्येनापनेतुं शक्यते धर्मेण पापमपनुदति [म.ना.उ. १३.६] इति श्रुतेम् । श्रवणादिलक्षणो विचारस्तु कर्मात्मकप्रतिबन्धरहितस्यासम्भावनादिप्रतिबन्धं दृष्टद्वारेणापनयतीति न कर्मबन्धनिराकरणायोपदेष्टुं शक्यते । अतोऽत्यन्तमलिनान्तम्करणत्वाद्बहिरङ्गसाधनं कर्मैव त्वयानुष्ठेयं, नाधुना श्रवणादियोग्यतापि तव जाता । दूरे तु ज्ञानयोग्यतेति । तथा च वक्ष्यति—कर्मण्येवाधिकारस्ते [गीता २.४७] इति । एतेन साङ्ख्यबुद्धेरन्तरङ्गसाधनं श्रवणादि विहाय बहिरङ्गसाधनं कर्मैव भगवता किमित्यर्जुनायोपदिश्यत इति निरस्तम् । कर्मबन्धं संसारमीश्वरप्रसादनिमित्तज्ञानप्राप्त्या प्रहास्यसीति प्राचां व्याख्याने त्वध्याहारदोषं कर्मपदवैयर्थ्यं च परिहर्तव्यम् ॥३९॥

विश्वनाथम् : उपदिष्टं ज्ञानयोगमुपसंहरति एषेति । सम्यक्ख्यायते प्रकाश्यते वस्तुतत्त्वमनेनेति साङ्ख्यं सम्यक्ज्ञानम् । तस्मिन्करणीया बुद्धिरेष कथिता । अधुना योगे भक्तियोगे इमां वक्ष्यमाणां बुद्धिं करणीयां शृणु, यया भक्तिविषयिण्या बुद्ध्या युक्तं सहितम् । कर्मबन्धं संसारम् ॥३९॥

बलदेवम् : उक्तं ज्ञानयोगमुपसंहरन्तदुपायं निष्कामकर्मयोगं वक्तुमारभते एषेति । सङ्ख्योपनिषत्सम्यक्ख्यायते निरूप्यते तत्त्वमनया इति निरुक्तेम् । तया प्रतिपाद्यमात्मयाथात्म्यं साङ्ख्यम् । शैषिकान्तस्मिन्कर्तव्यैषा बुद्धिस्तवाभिहिता । ने त्वेवाहमित्यादिना तस्मात्सर्वाणि भूतानि इत्यन्तेन । सा चेत्तव चित्ततद्दोषान्नाभ्युदेति तर्हि योगे तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन इत्यादि श्रुत्युक्तान्तर्गतज्ञाने निष्कामकर्मयोगे कर्तव्यामिमां वक्ष्यमाणां बुद्धिं शृणु । फलोक्त्या तां स्तौति ययेति । कर्माणि कुर्वाणस्त्वं भगवदाज्ञया महाप्रयासानि कर्माणि कुर्वंस्तत्तदुद्देशमहिम्ना त्वदन्तरभ्युदितयात्मज्ञाननिष्ठया संसारं तरिष्यसीति । पशुपुत्रराज्यादिफलकं कर्म सकामं ज्ञानफलकं तु तन्निष्काममिति शास्त्रेऽस्मिन्परिभाष्यते ॥३९॥

(२.४०)

 नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात॥

श्रीधरम् : ननु कृष्यादिवत्कर्मणां कदाचिद्विघ्नबाहुल्येन फले व्यभिचारात्मन्त्राद्यङ्गवैगुण्येन च प्रत्यवायसम्भवऽत्कुतं कर्मयोगेन कर्मबन्धप्रहाणम् । तत्राह नेहेत्यादि । इह निष्कामकर्मयोगे अभिक्रमस्य प्रारम्भस्य नाशो निष्फलत्वं नास्ति । प्रत्यवायश्च न विद्यते । ईश्वरोद्देशेनैव विघ्नवैगुण्याद्यसम्भवात। किं चास्य धर्मस्य ईश्वराराधनार्थकर्मयोगस्य स्वल्पमप्युपक्रममात्रमपि कृतं महतो भयात्संसारलक्षणात्त्रायते रक्षति । न तु काम्यकर्मवत्किञ्चिदङ्गवैक्गुण्यादिना नैष्फल्यमस्येत्यर्थम् ॥४०॥

मधुसूदनम् : ननु तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [बृ.आ.उ.  ४.४.२२] इति श्रुत्या विविदिषां ज्ञानं चोद्दिश्य संयोगपृथक्त्वन्यायेन सर्वकर्मणां विनियोगात्तत्र चान्तम्करणशुद्धेर्द्वारत्वान्मां प्रति कर्मानुष्ठानं विधीयते । तत्र तद्यथेह कर्मजितो लोकं क्षीयत एवमेवामुत्र पुण्यजितो लोकं क्षीयते [छा.उ. ८.१.६] इति श्रुतिबोधितस्य फलनाशस्य सम्भावाज्ज्ञानं विविदिषां चोद्दिश्य क्रियमाणस्य यज्ञादें काम्यत्वात्सर्वाङ्गोपसंहारेणानुष्ठेयस्य यत्किंचिदङ्गासम्पत्तावपि वैगुण्यापत्तेर्यज्ञेनेत्यादिवाक्यविहितानां च सर्वेषां कर्मणामेकेन पुरुषायुषपर्यवसानेऽपि कर्तुमशक्यत्वात्कुतं कर्मबन्धं प्रहास्यसीतिफलं प्रत्याशेत्यत आह भगवान्नेहेति ।

अभिक्रम्यते कर्मणा प्रारभ्यते यत्फलं सोऽभिक्रमस्तस्य नाशस्तद्यथेहेत्यादिना प्रतिपादित इह निष्कामकर्मयोगे नास्ति । एतत्फलस्य शुद्धें पापक्षयरूपत्वेन लोकशब्दवाच्यभोग्यत्वाभावेन च क्षयासम्भवात। वेदनपर्यन्ताया एव विविदिषायां कर्मफलत्वाद्वेदनस्य चाव्यवधानेनाज्ञाननिवृत्तिफलजनकस्य फलमजनयित्वा नाशासम्भवादिह फलनाशो नास्तीति साधूक्तम् । तदुक्तं—

तद्यथेहेति या निन्दा सा फले न तु कर्मणि ।
फलेच्छां तु परित्यज्य कृतं कर्म विशुद्धिकृत॥ इति ।

तथा प्रत्यवायोऽङ्गवैगुण्यनिबन्धनं वैगुण्यमिह न विद्यते तमिति वाक्येन नित्यानामेवोपात्तदुरितक्षयद्वारेण विविदिषायां विनियोगात। तत्र च सर्वाङ्गोपसंहारनियमाभावात। काम्यानामपि संयोगपृथक्त्वन्यायेन  विनियोग इति पक्षेऽपि फलाभिसन्धिरहितत्वेन तेषां नित्यतुल्यत्वात। नहि काम्यनित्याग्निहोत्रयों स्वतं कश्चिद्विशेषोऽस्ति । फलाभिसन्धितदभाषाभ्यामेव तु काम्यत्वनित्यत्वव्यपदेशम् । इदं च पक्षद्वयमुक्तं वार्तिके—

वेदानुवचनादीनामैकात्म्यज्ञानजन्मने ।
तमेतमिति वाक्येन नित्यानां वक्ष्यते विधिम् ॥
यद्वा विविदिषार्थत्वं काम्यानामपि कर्मणाम् ।
तमेतमिति वाक्येन संयोगस्य पृथक्त्वतम् ॥ इति ।

तथा च फलाभिसन्धिना क्रियमाण एव कर्मणि सर्वाङ्गोपसंहारनियमात्तद्विलक्षणे शुद्ध्यर्थे कर्मणि प्रतिनिध्यादिना समाप्तिसम्भवान्नाङ्गवैगुण्यनिमित्तं प्रत्यवायोऽस्तीत्यर्थम् । तथास्य शुद्ध्यर्थस्य धर्मस्य तमेतमित्यादिवाक्यविहितस्य मध्ये स्वल्पमपि सङ्ख्ययेतिकर्तव्यतया वा यथाशक्तिभगवदाराधनार्थं किंचिदप्यनुष्ठितं सन्महतं संसारभयात्त्रायते भगवत्प्रसादसम्पादनेनानुष्ठातारं रक्षति ।

सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् ।
भूयस्तपस्वी भवति पङ्किपावनपावनम् ॥ इत्यादि स्मृतेम् ।

तमेतमिति वाक्ये समुच्चयविधायकाभावाच्चाशुद्धितारतम्यादेवानुष्ठानतारतम्योपपत्तेर्युक्तमुक्तं कर्मबन्धं प्रहास्यसि ॥४०॥

विश्वनाथम् : अत्र योगो द्विविधं श्रवणकीर्तनादिभक्तिरूपम्, श्रीभगवदर्पितनिष्कामकर्मरूपश्च । तत्र कर्मण्येवाधिकारमित्यतं प्राग्भक्तियोग एव निरूप्यते । निस्त्रैगुण्यो भवार्जुन इत्युक्तेर्भक्तेरेवे त्रिगुणातीतत्वात्तयैव पुरुषो निस्त्रैगुण्यो भवतीत्येकादशस्कन्धे  प्रसिद्धेम् । ज्ञानकर्मणोस्तु सात्त्विकत्वराजसत्वाभ्यां निस्त्रैगुण्यत्वानुपपत्तेर्भगवदर्पितलक्षणा भक्तिस्तु कर्मणो वैफल्याभावमात्रं प्रतिपादयति, न तु स्वस्य भक्तिव्यपदेशं प्राधान्याभावादेव । यदि च भगवदर्पितं कर्मापि भक्तिरेवेति मतं, तदा कर्म किं स्यात्? यद्भगवदनर्पितकर्म, तदेव कर्मेति चेन्, न ।

नैष्कर्म्यमप्यच्युतभाववर्जितं
न शोभते ज्ञानमलं निरञ्जनम् ।
कुतं पुनं शश्वदभद्रमीश्वरे
न चार्पितं कर्म यदप्यकारणम् ॥ [भा.पु. १.५.१२)

इति नारदोक्त्या तस्य वैयर्थ्यप्रतिपादनात। तस्मादत्र भग्वच्चरणमाधुर्यप्राप्तिसाधनीभूता केवलश्रवणकीर्तनादिलक्षणैव भक्तिर्निरूप्यते, यथा निष्कामकर्मयोगऽपि निरूपयितव्यम् । उभावप्येतौ बुद्धियोगशब्दवाच्यौ ज्ञेयौ—ददामि बुद्धियोगं तं येन मामुपयान्ति ते [१०.१०], दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय [२.४९] इति चोक्तेम् ।
अथ निर्गुणश्रवणकीर्तनादिभक्तियोगस्य माहात्म्यमाह नेहेति । इह भक्तियोगेऽभिक्रमे आरम्भमात्रे कृतेऽप्यस्य भक्तियोगस्य नाशो नास्ति । ततं प्रत्यवायश्च न स्यात। यथा कर्मयोगे आरम्भं कृत्वा कर्मानुष्ठितवतं कर्मनाशप्रत्यवायौ स्यातामिति भावम् ।

ननु तर्हि तस्य भक्त्यनुष्ठातुकामस्य समुचितभक्त्यकरणात्भक्तिफलं तु नैव स्यात। तत्राह स्वल्पमिति । अस्य धर्मस्य स्वल्पमप्यारम्भसमये या किञ्चिन्मात्री भक्तिरभूत। सापीत्यर्थम् । महतो भयात्संसारात्त्रायत एव । यन्नाम सकृच्छ्रवणात्पुक्कशोऽपि विमुच्यते संसारादित्य्[भा.पु. ६.१६.४४] आदिश्रवणात। अजामिलादौ तथा दर्शनाच्च ।

न ह्यङ्गोपक्रमे ध्वंसो
मद्धर्मस्योद्धवाण्वपि ।
मया व्यवसितं सम्यङ्
निर्गुणत्वादनाशिषम् ॥ [भा.पु. ११.२९.२०]

इति भगवतो वाक्येन सहास्यवाक्यस्यैकार्थमेव दृश्यते । किन्तु तत्र निर्गुणत्वान्न हि गुणातीतं वस्तु कदाचिद्ध्वस्तं भवतीति हेतुरुपन्यस्तम् । स चेहापि द्रष्टव्यम् । न च निष्कामकर्मणोऽपि भगवदर्पणमहिम्ना निर्गुणत्वमेवेति वाच्यम्—मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत्[भा.पु. ११.२५.२३] ॥४०॥
बलदेवम् : वक्ष्यमाणया बुद्ध्या युक्तं कर्मयोगं स्तौति नेहेति । इह तमेतमित्यादि वाक्योक्तें निष्कामकर्मयोगेऽभिक्रमस्यारम्भस्य फलोत्पादकत्वनाशो नास्ति । आरम्भस्यासमाप्तस्य वैफल्यं न भवतीत्यर्थम् । मन्त्राद्यङ्गवैकल्ये च प्रत्यवायो न विद्यते । आत्मोद्देशमहिम्ना ॐ तत्सतिति भगवन्नाम्ना च तस्य विनाशात। इह भगवदर्पितस्य निषामकर्मलक्षणधर्मस्य किञ्चिदप्यनुष्ठितं सन्महतो भयात्संसारात्त्रायते अनुष्ठातारं रक्षति । वक्ष्यति चैवं पार्थ नैवेह नामुत्र [गीता ६.४०] इत्यादिना । काम्यकर्माणि सर्वाङ्गोपसंहारेणानुष्ठितान्युक्तफलाय कल्पन्ते । मन्त्राद्यङ्गवैकल्ये तु प्रत्यवायं जनयन्तीति । निष्कामकर्माणि तु यथाशक्त्यनुष्ठितानि ज्ञाननिष्ठालक्षणं फलं जनयन्त्येवोक्तहेतुतं प्रत्यवायं नोप्तादयन्तीति ॥४०॥

(२.४१)

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥

श्रीधरम् : कुत इत्यपेक्षायामुभयोर्वैषम्यमाह व्यवसायात्मिकेति । इह ईश्वराराधनलक्षणे कर्मयोगे व्यवसायात्मिका परमेश्वरभक्त्यैव ध्रुवं तरिष्यामीति निश्चयात्मिका एकैव एकनिष्ठैव बुद्धिर्भवति । अव्यवसायिनां तु ईश्वराराधनबहिर्मुखानां कामिनां कामानामानन्त्यातनन्ताम् । तत्रापि हि कर्मफलगुणफलत्वादिप्रकारभेदाद्बहुशाखाश्च बुद्धयो भवन्ति । ईश्वराराधनार्थं हि नित्यं नैमित्तिकं च कर्म किञ्चिदङ्गवैगुण्येऽपि न नश्यति । यथा शक्नुयात्तथा कुर्यादिति हि तद्विधीयते । न च वैगुण्यमपि । ईश्वरोद्देशेनैव वैगुण्योपशमात। न तु तथा काम्यं कर्म । अतो महद्वैषम्यमिति भावम् ॥४१॥

मधुसूदनम् : एतदुपपादनाय तमेतमिति वाक्यविहितानामेकार्थत्वमाह व्यवसायात्मिकेति । हे कुरुनन्दनेह श्रेयोमार्गे तमेतमिति वाक्ये वा व्यवसायात्मिकात्मतत्त्वनिश्चयात्मिका बुद्धिरेकैव चतुर्णामाश्रमाणां साध्या विवक्षिता वेदानुवचनेन इत्यादौ तृतीयाविभक्त्या प्रत्येकं निरपेक्षसाधनत्वबोधनात। भिन्नार्थत्वे हि समुच्चयं स्यात। एकार्थत्वेऽपि दर्शपूर्णमासाभ्यामितिवद्द्वन्द्वसमासेन यदग्नये च प्रजापतये चेतिवच्चशब्देन न तथात्र किंचित्प्रमाणमस्तीत्यर्थम् । साङ्ख्यविषया  योगविषया च बुद्धिरेकफलत्वादेका व्यवसायात्मिका सर्वविपरीतबुद्धीनां बाधिका निर्दोषवेदवाक्यसमुत्थत्वादितरास्त्वव्यवसायिनां बुद्धयो बाध्या इत्यर्थ इति भाष्यकृतम् । अन्ये तु परमेश्वराराधनेनैव संसारं तरिष्यामीति निश्चयात्मिकैकनिष्ठैव बुद्धिरिह कर्मयोगे भवतीत्यर्थमाहुम् । सर्वथापि तु ज्ञानकाण्डानुसारेण स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयातित्युपपन्नम् । कर्मकाण्डे पुनर्बहुशाखा अनेकभेदां कामानामनेकभेदत्वात। अनन्ताश्च कर्मफलगुणफलादिप्रकारोपशाखाभेदात्, बुद्धयो भवन्त्यव्यवसायिनां तत्तत्फलकामानाम् । बुद्धीनामानन्त्यप्रसिद्धिद्योतनार्थो हिशब्दम् । अतं काम्यकर्मापेक्षया महद्वैलक्षण्यशुद्ध्यर्थकर्मणामित्यभिप्रायम् ॥४१॥

विश्वनाथम् : किं च सर्वाभ्योऽपि बुद्धिभ्यो भक्तियोगविषयिण्येव बुद्धिरुक्तृष्टेत्याह व्यवसायेति । इह भक्तियोगे व्यवसायात्मिका बुद्धिरेकैव । मम श्रीमद्गुरूपदिष्टं भगवत्कीर्तनस्मरणचरणपरिचरणादिकमेतदेव मम साधनमेतदेव मम साध्यमेतदेव मम जीवातुं साधनसाध्यदशयोस्त्यक्तुमशक्यमेतदेव मे काम्यमेतदेव मे कार्यमेतदन्यन्न मे कार्यं नाप्यभिलषणीयं स्वप्नेऽपीत्यत्र सुखमस्तु दुम्खं वास्तु संसारो नश्यतु वा न नश्यतु । तत्र मम कापि न क्षतिरित्येवं निश्चयात्मिका बुद्धिरकैतवभक्तावेव सम्भवेत। तदुक्तं—ततो भजेत मां भक्त्या श्रद्धालुर्दृढनिश्चयं [भा.पु. ११.२०.२८] इति ।

ततोऽन्यत्र नैव बुद्धिरेकेत्याह बह्विति । बहवं शाखा यासां ताम् । तथा हि कर्मयोगे कामानामानन्त्याद्बुद्धयोऽनन्ताम् । तथैव ज्ञानयोगे प्रथममन्तम्करणशुद्ध्यर्थं निष्कामकर्मणि बुद्धिस्ततस्तस्मिन्शुद्धे सति कर्मसंन्यासे बुद्धिम् । तदा ज्ञाने बुद्धिम् । ज्ञानवैफल्याभावार्थं भक्तौ बुद्धिं ज्ञानं च मयि संन्यसेतिति भगवदुक्तेर्ज्ञानसंन्यासे च भक्तौ बुद्धिरिति बुद्धयोऽनन्ताम् । कर्मज्ञानभक्तीनामवश्यानुष्ठेयत्वात्तत्तच्छाखा अप्यनन्ताम् ॥४१॥

बलदेवम् : काम्यकर्मविषयकबुद्धितो निष्कामकर्मविषयकबुद्धेर्वैशिष्ट्यमाह व्यवसायेति । हे कुरुनन्दन इह वैदिकेषु सर्वेषु कर्मसु व्यवसायात्मिका भगवदर्चनरूपैर्निष्कामकर्मभिर्विशुद्धचित्तो विषोर्णादिवत्तदन्तर्गतेन ज्ञानेनात्मयाथात्म्यमहमनुभविष्यामीति निश्चयरूपा बुद्धिरेका एकव्विषयत्वात। एकस्मै तदनुभवाय तेषां विहितत्वादिति यावत। अव्यवसायिनां काम्यकर्मानुष्ठात्èणां तु बुद्धयो ह्यनन्ताम् । पश्वन्नपुत्रस्वर्गाद्यनन्तकामविषयत्वात। तत्रापि बहुशाखाम् । एकफलकेऽपि दर्शपौर्णमासादावायुं सुप्रजस्ताद्यवान्तरानेकफलाशंसाश्रवणात। अत्र हि देहातिरिक्तात्मज्ञानमात्रमपेक्षते न तूक्तात्मयाथात्म्यं तन्निश्चये काम्यकर्मसु प्रवृत्तेरसम्भवात॥४१॥

(२.४२४४)

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितम् ।
वेदवादरतां पार्थ नान्यदस्तीति वादिनम् ॥
कामात्मानं स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिं समाधौ न विधीयते ॥

श्रीधरम् : ननु कामिनोऽपि कष्टान्कामान्विहाय व्यवसायात्मिकामेव बुद्धिं किमिति न कुर्वन्ति । तत्राह यामिमामित्यादि । यामिमां पुष्पितां विषलतावदापातरमणीयां प्रकृष्टां परमार्थफलपरामेव वदन्ति वाचं स्वर्गादिफलश्रुतिम् । तेषां तया वाचाऽपहृतचेतसां व्यवसायात्मिका बुद्धिं समाधौ न विधीयते इति तृतीयेनान्वयम् । किमिति तथा वदन्ति । यतोऽविपश्चितो मूढाम् । तत्र हेतुं वेदवादरता इति । वेदे ये वादा अर्थवादाम् । अक्षय्यं ह वै चातुर्मास्ययाजिनं सुकृतं भवति । तथा, अपां सोमममृता अम्भूम इत्याद्याम् । तेष्वेव रतां प्रीताम् । अतएवातम्परमन्यदीश्वरतत्त्वं प्राप्यं नास्तीतिवदनशीलाम् ॥४२॥

अत एव कामात्मान इति । कामात्मानं कामाकुलितचित्ताम् । अतं स्वर्ग एव परं पुरुषार्थो येषां ते । जन्म च तत्र कर्माणि च तत्फलानि च प्रददातीति तथा । तां भोगैश्वर्ययोर्गतिं प्राप्तिं प्रति साधनभूता ये क्रियाविशेषास्ते बहुला यस्यां तां प्रवदन्तीत्यनुषङ्गम् ॥४३॥

ततश्च भोगैश्वर्यप्रसक्तानामित्यादि । भोगैश्वर्ययों प्रसक्तानामभिनिविष्टानां तया पुष्पितया वाचापहृतमाकृष्टं चेतो येषां तेषाम् । समाधिश्चित्तैकाग्र्यम् । परमेश्वराभिमुखत्वमिति यावत। तस्मिन्निश्चयात्मिका बुद्धिस्तु न विधीयते । कर्मकर्तरि प्रयोगम् । सा नोत्पद्यत इति भावम् ॥४४॥

मधुसूदनम् : अव्यवसयिनामपि व्यवसायात्मिका बुद्धिं कुतो न भवति प्रमाणस्य तुल्यत्वादित्याशङ्क्य प्रतिबन्धकसद्भावान्न भवतीत्याह यामिमामिति त्रिभिम् । कुत एवमत आह भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुलाममृतपानोर्वशीविहारपारिजातपरिमलादिनिबन्धनो यो भोगस्तत्कारणं च यदैश्वर्यं देवादिस्वामित्वं तयोर्गतिं प्राप्तिं प्रति साधनभूता ये क्रियाविशेषा अग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादयस्तैर्बहुलां विस्तृतामतिबाहुल्येन भोगैश्वर्यसाधनक्रियाकलापप्रतिपादिकामिति यावत। कर्मकाण्डस्य हि ज्ञानकाण्डापेक्षया सर्वत्रातिविस्तृतत्वं प्रसिद्धम् । एतादृशीं कर्मकाण्डलक्षणां वाचं प्रवदन्ति प्रकृष्टां परमार्थस्वर्गादिफलामभ्युपगच्छन्ति ।

के येऽविपश्चितो विचारजन्यतात्पर्यपरिज्ञानशून्याम् । अत एव वेदवादरता वेदे ये सन्ति वादा अर्थवादामक्षय्यं ह वै चातुर्मास्ययाजिनं सुकृतं भवति इत्येवमादयस्तेष्वेव रता वेदार्थसत्यत्वेनैवमेवैतदिति मिथ्याविश्वासेन सन्तुष्टाम् । हे पार्थ ! अत एव नान्यदस्तीतिवादिनं कर्मकाण्डापेक्षया नास्त्यन्यज्ज्ञानकाण्डं सर्वस्यापि वेदस्य कार्यपरत्वात। कर्मफलापेक्षया च नास्त्यन्यन्निरतिशयं ज्ञानफलमिति वदनशीला महता प्रबन्धेन ज्ञानकाण्डविरुद्धार्थभाषिण इत्यर्थम् । कुतो मोक्षद्वेषिण्यस्ते ? यतं कामात्मानं काम्यमानविषयशताकुलचित्तत्वेन काममयाम् । एवं सति मोक्षमपि कुतो न कामयन्ते ? यतं स्वर्गपरां स्वर्ग एवोर्वश्याद्यपेतत्वेन पर उत्कृष्टो येषां ते तथा । स्वर्गातिरिक्तं पुरुषार्थो नास्तीति भ्राम्यन्तो विवेकवैराग्याभावान्मोक्षकथामपि  सोढुमक्षमा इति यावत।

तेषां च पूर्वोक्तभोगैश्वर्ययों प्रसक्तानां क्षयित्वादिदोषादर्शनेन निविष्टान्तम्करणानां तया क्रियाविशेषभुलया वाचापहृतमाच्छादितं चेतो विवेकज्ञानं येषां तथाभूतानामर्थवादां स्तुत्यर्थास्तात्पर्यविषये प्रमाणान्तराबाधिते वेदस्य प्रामाण्यमिति सुप्रसिद्धमपि ज्ञातुमशक्तानां समाधावन्तम्करणे वयवसायात्मिका बुद्धिर्न विधीयते न भवतीत्यर्थम् । समाधिविषया व्यवसायात्मिका बुद्धिस्तेषां न भवतीति वा अधिकरणे विषये वा सपतम्यास्तुल्यत्वात। विधीयत इति कर्मकर्तरि लकारम् । समाधीयतेऽस्मिन्सर्वमिति व्युत्पत्त्या समाधिरन्तम्करणं वा परमात्मा वेति नाप्रसिद्धार्थकल्पनम् । अहं ब्रह्मेत्यवस्थानं समाधिस्तन्निमित्तं व्यवसायात्मिका बुद्धिर्नोप्तद्यत इति व्याख्याने तु रूढिरेवादृता ।

अयं भावम्—यद्यपि काम्यान्यग्निहोत्रादीनि शुद्ध्यर्थेभ्यो न विशिष्यन्ते तथापि फलाभिसन्धिदोषान्नाशयशुद्धिं सम्पादयन्ति । भोगानुगुणा तु शुद्धिर्न ज्ञानोपयोगिनी । एतदेव दर्शयितुं भोगैश्वर्यप्रसक्तानामिति पुनरुपात्तम् । फलाभिसन्धिमन्तरेण तु कृतानि ज्ञानोपयोगिनीं शुद्धिमादधतीति सिद्धं विपश्चिदविपश्चितों फलवैलक्षण्यम् । विस्तरेण चैतदग्रे प्रतिपादयिष्यते ॥४२४४॥

विश्वनाथम् : तस्मादव्यवसायिनं सकामकर्मिणस्त्वतिमन्दा इत्याह यामिमामिति । पुष्पितां वाचं पुष्पितां विफलतामिवापाततो रमणीयम् । प्रवदन्ति प्रकर्षेण सर्वतं प्रकृष्टा इयमेव वेदवागिति ये वदन्ति, तेषां तया वाचा अपहृतचेतसां च व्यवसायात्मिका बुद्धिर्न विधीयते इति तृतीयेनान्वयम् । तेषु तस्या असम्भवात्सा तेषु नोपदिश्यत इत्यर्थम् । किं ? इति ते तथा वदन्ति, यतोऽविपश्चितो मूर्खाम् । तत्र हेतुं वेदेषु येऽर्थवादाम्—अक्षय्यं वै चातुर्मास्ययाजिनं सुकृतं भवति, अपां सोमममृता अम्भूम इत्याद्याम् । अन्यदीश्वरतत्त्वं नास्तीति प्रजल्पिनस्ते कीदृशीं वाचं प्रवदन्ति । जन्मकर्मफलप्रदायिनीं भोगैश्वर्यगतिं प्रति ये क्रियाविशेषास्तान्बहु यथा स्यात्तथा लाति ददाति प्रतिपादयतीति ताम् ॥४२४३॥

ततश्च भोगैश्वर्ययों प्रसक्तानां तया पुष्पितया वाचा अपहृतमाकृष्टं चेतो येषां ते । तथा तेषां समाधिश्चित्तैकाग्र्यं परमेश्वरैकोन्मुखत्वं तस्मिन्निश्चयात्मिका बुद्धिर्न विधीयते । कर्मकर्तरि प्रयोगम् । सा नोत्पद्यत इति भावमिति स्वामिवचनैम् ॥४४॥

बलदेवम् : नन्वेषां व्यवसायात्मिका बुद्धिर्भवेत्श्रुतेस्तौल्यादिति चेच्चित्तदोषान्न भवेदित्याह यामिति त्रिभिम् । अविपश्चितोऽल्पज्ञां यामिमां ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिकां वाचं प्रवदन्ति इयमेव प्रकृष्टा वेदवागिति कल्पयन्ति । तया वाचापहृतचेतसां तेषां समाधौ मनसि व्यवसायात्मिका बुद्धिर्न विधीयते नाभ्युदेति इत्यनुषङ्गम् । कीदृशीं वाचं ? इत्याह—पुष्पितामिति । कुसुमितविषलतावदापातमनोज्ञां निष्फलामित्यर्थम् । एवं कुतस्ते वदन्ति तत्राह वेदेति । वेदेषु ये वादामपां सोमममृता अम्भूम, अक्षय्यं ह वै चातुर्मास्ययाजिनं सुकृतं भवति इत्यादयोऽर्थवादास्तेष्वेव रतां वेदस्य सत्यभाषित्वादेवमेवैतदिति प्रतीतिमन्तम् । अत एव नान्यदिति कर्मफलात्स्वर्गादन्यत्जीवांशिपरमार्थज्ञानं लभ्यं मोक्षलक्षणं निरतिशयं नित्यसुखं नास्ति । तत्प्रतिपादिकानां वेदान्तवाचां कर्माङ्गकर्तृदेवतादेकतया तच्छेषत्वादिति वदनशीला इत्यर्थम् ॥४२॥

चित्तदोषमाह कामात्मानं वैषयिकसुखवासनाग्रस्तचित्ताम् । एवं चेत्तादृशं मोक्षं कुतो नेच्छन्ति तत्राह स्वर्गेति । स्वर्ग एव सुधा देवाङ्गनाद्युपेतत्वेन परं श्रेष्ठो येषां ते । तादृग्वासनाग्रस्तत्वात्तेषां नान्यद्भाषत इत्यर्थम् । जन्म कर्मेति जन्म च देहेन्द्रियसम्बन्धलक्सणं, तत्र कर्म च तत्तद्वर्णाश्रमविहितं, फलं च विनाशिपश्वन्नस्वर्गादि । तानि प्रकर्षेणाविच्छेदेन ददाति तां भोगैश्वर्ययोर्गतिं प्राप्तिं प्रति ये क्रियाविशेषा ज्योतिष्ट्प्मादयस्ते बहुलां प्रचुरा यत्र तां वाचं वदन्तीति पूर्वेणान्वयम् । भोगं सुधापानदेवाङ्गनादिम्, ऐश्वर्यं च देवादिस्वामित्वं तयोर्गतिमित्यर्थम् ॥४३॥

बलदेवम् : भोगेति तेषां पूर्वोक्तयोर्भोगैश्वर्ययों प्रसक्तानां क्षयित्वदोषास्फूर्त्या तयोरभिनिविष्टानां तया पुष्पितया वाचापहृतं विलुप्तं चेतो विवेकज्ञानं येषां तादृशानां समाधाविति योऽयम् । सम्यगाधीयतेऽस्मिन्नात्मतत्त्वयाथात्म्यमिति निरुक्तें समाधिर्मनस्तस्मिन्नित्यर्थम् ॥४४॥

(२.४५)

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान॥

श्रीधरम् : ननु स्वर्गादिकं परमं फलं यदि न भवति, तर्हि किमिति वेदस्तत्साधनतया कर्माणि विधीयन्ते । तत्राह त्रैगुण्यविषया इति । त्रिगुणात्मकां सकामा येऽधिकारिणस्तद्विषयास्तेषां कर्मफलसम्बन्धप्रतिपादका वेदाम् । त्वं तु निस्त्रैगुण्यो निष्कामो भव । तत्रोपायमाह—निर्द्वन्द्वम् । सुखदुम्खशीतोष्णादियुगलानि द्वन्द्वानि । तद्रहितो भव । तानि सहस्वेत्यर्थम् । कथमिति । अत आह नित्यसत्त्वस्थं सन। ध्र्यमवलम्ब्येत्यर्थम् । तथा निर्योगक्षेमम् । अप्राप्तस्वीकारो योगम्, प्राप्तपालनं क्षेमम् । तद्रहितम् । आत्मवानप्रमत्तम् । नहि द्वन्द्वाकुलस्य योगक्षेमव्यापृतस्य च प्रमादिनस्त्रैगुण्यातिक्रमं सम्भवतीति ॥४५॥

मधुसूदनम् : ननु सकामानां मा भूदाशयदोषाद्व्यवसायात्मिका बुद्धिम् । निष्कामानां तु व्यवसायात्मकबुद्ध्या कर्म कुर्वतां कर्मस्वाभाव्यात्स्वर्गादिफलप्राप्तौ ज्ञानप्रतिबन्धं समान इत्याशङ्क्याह त्रैगुण्येति । त्रयाणां गुणानां कर्म त्रैगुण्यं काममूलं संसारम् । स एव प्रकाशत्वेन विषयो येषां तादृशा वेदां कर्मकाण्डात्मका यो यत्फलकामस्तस्यैव तत्फलं बोधयन्तीत्यर्थम् । न हि सार्वेभ्यं कामेभ्यो दर्शपूर्णमासाविति विनियोगेऽपि सकृदनुष्ठानात्सर्वफलप्राप्तिर्भवति तत्तत्कामनाविरहात। यत्फलकामनयानुतिष्ठति तदेव फलं तस्मिन्प्रयोग इति स्थितं योगसिद्ध्यधिकरणे । यस्मादेवं कामाविरहे फलविरहस्तस्मात्त्वं निस्त्रैगुण्यो निष्कामो भव । हे अर्जुन ! एतेन कर्मस्वाभाव्यात्संसारो निरस्तम् ।

ननु शीतोष्णादिद्वन्द्वप्रतीकाराय वस्त्राद्यपेक्षणात्कुतो निष्कामत्वमत आह निर्द्वन्द्वम् । सर्वत्र भवेति सम्बध्यते । मात्रास्पर्शास्त्वित्युक्तन्यायेन शीतोष्णादिद्वन्द्वसहिष्णुर्भव । तस्मिंस्तिष्ठतीति तथा । रजस्तमोभ्यामभिभूतसत्त्वो हि शीतोष्णादिपीडया मरिष्यामीति मन्वानो धर्माद्विमुखो भवति । त्वं तु रजस्तमसी अभिभूय सत्त्वमात्रालम्बनो भव ।

ननु शीतोष्णादिसहनेऽपि क्षुत्पिपासादिप्रतीकारार्थं किंचिदनुपात्तमुपादेयमुपात्तं च रक्षणीयमिति तदर्थं यत्ने क्रियमाणे कुतं सत्त्वस्थत्वमित्यत आह निर्योगक्षेमम् । अलब्धलाभो योगम्, लब्धपरिरक्षणं क्षेमस्, तद्रहितो भव । चित्तविक्षेपकारिपरिग्रहरहितो भवेत्यर्थम् । न चैवं चिन्ता कर्तव्या कथमेवं सति जीविष्यामीति । यतं सर्वान्तर्यामी परमेश्वर एव तव योगक्षेमादि निर्वाहयिष्यतीत्याह आत्मवान। आत्मा परमात्मा ध्येयत्वेन योगक्षेमादिनिर्वाहकत्वेन च वर्तते यस्य स आत्मवान। सर्वकामनापरित्यागेन परमेश्वरमाराधयतो मम स एव देहयात्रामात्रमपेक्षितं सम्पादयिष्यतीति निश्चित्य निश्चिन्तो भवेत्यर्थम् । आत्मवानप्रमत्तो भवेति वा ॥४५॥

विश्वनाथम् : त्वं तु चतुर्वर्गसाधनेभ्यो विरज्य केवलं भक्तियोगमेवाश्रयस्वेत्याह त्रैगुण्येति । त्रैगुण्यास्त्रिगुणात्मिकां कर्मज्ञानाद्यां प्रकाश्यत्वेन विषया येषां ते त्रैगुण्यविषया वेदां स्वार्थे ष्यञ्, एतच्च भूम्ना व्यपदेशा भवन्ति इति न्यायेनोक्तम् । किन्तु भक्तिरेवैनं नयति इति । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ इत्यादि श्रुतयम् । पञ्चरात्रादिस्मृतयश्च गीतोपनिषद्गोपालतापन्याद्युपनिषदश्च निर्गुणां भक्तिमपि विषयीकुर्वन्त्येव वेदोक्तत्वाभावे भक्तेरप्रामाण्यमेव स्यात। ततश्च वेदोक्ता ये त्रिगुणमया ज्ञानकर्मविधयस्तेभ्य एव निर्गतो भव तान्न कुरु । ये तु वेदोक्ता भक्तिविधयस्तांस्तु सर्वथैवानुतिष्ठ । तदनुष्ठाने—

श्रुतिस्मृतिपुराणादिपाञ्चरात्रविधिं विना ।
ऐकान्तिकी हरेर्भक्तिरुत्पातायैव कल्प्यते ॥

इति दोषो दुर्वार एव । तेन सगुणानां गुणातीतानामपि, वेदानाविषयास्त्रैगुण्या निस्त्रैगुण्याश्च । तत्र त्वं तु निस्त्रैगुण्यो भव । निर्गुणया मद्भक्त्यैव त्रिगुणात्मकेभ्यस्तेभ्यो निष्क्रान्तो भव । तत एव निर्द्वन्द्वो गुणमयमानापमानादिरहितम् । अत एव नित्यैं सत्त्वैं प्राणिभिर्मद्भक्तैरेव सह तिष्ठतीति तथा सम् । नित्यं सत्त्वगुणस्थो भवेति व्याख्यायां निस्त्रैगुण्यो भएति व्याख्यायां विरोधं स्यात। अलब्धलाभो योगम्, लब्धस्य रक्षणं क्षेमस्तद्रहितम् । मद्भक्तिरसास्वादवशादेव तयोरननुसन्धानात। योगक्षेमं वहाम्यहमित्भक्तवत्सलेन मयैव तद्भारवहनात। आत्मवान्मद्दत्तबुद्धियुक्तम् । अत्र निस्त्रैगुण्यत्रैगुण्ययोर्विवेचनम् । यदुक्तमेकादशे—

मदर्पणं निष्फलं वा सात्त्विकं निजकर्म यत।
राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ [भा.पु. ११.२५.२३]

निष्फलं वेति नैमित्तिकं निजकर्मफलाकाङ्क्ष्यारहितमित्यर्थम् ।

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत।
प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥
वनं तु सात्त्विको वासो ग्रामो राजस उच्यते ।
तामसं द्युतसदनं मन्निकेतं तु निर्गुणम् ॥
सात्त्विकं कारकोऽसङ्गी रागान्धो राजसं स्मृतम् ।
तामसं स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयम् ॥
सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।
तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥
पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम् ।
राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदाशुचि ॥
सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ [भा.पु. ११.२५.२४२९] इति ।

इत्यन्तेन ग्रन्थेन त्रैगुण्यवस्तून्यपि भक्त्या स्वस्मिन्कथञ्चित्स्थितस्य त्रैगुण्यस्य निर्जयोऽप्युक्तस्तदनन्तरमेव । यथा—

द्रव्यं देशस्तथा कालो ज्ञानं कर्म च कारकम् ।
श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्यं सर्व एव हि ॥
सर्वे गुणमया भावां पुरुषाव्यक्तधिष्ठिताम् ।
दृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥
एतां संसृतयं पुंसो गुणकर्मनिबन्धनाम् ।
येनेमे निर्जितां सौम्य गुणाजीवेन चित्तजाम् ।
भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते ॥ [भा.पु. ११.२५.३०३२]

तस्माद्भक्त्यैव निर्गुणया त्रैगुण्यजयो नान्यथा । अत्राप्यग्रे कथं चैतांस्त्रीन्गुणानतिवर्तते इति प्रश्ने वक्ष्यते —

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ [गीता १४.२६]

श्रीस्वामिचरणानां व्याख्या च—चकारोऽत्रावधारणार्थम् । मामेव परमेश्वरमव्यभिचारेण भक्तियोगेन यं सेवते इत्येषा ॥४५॥
बलदेवम् : ननु फलनैरपेक्ष्येण कर्माणि कुर्वाणानपि तानि स्वफलैर्योजयेयुस्तत्स्वाभाव्यात्ततं कथं तद्बुद्धें सम्भव इति चेत्तत्राह त्रैगुण्येति । त्रयाणां गुणानां कर्म त्रैगुण्यम् । गुणवचनब्राह्मणादिभ्यं कर्मणि च इति सूत्रात्[पा. ५.१.१२४] ष्यञ्सकामत्वमित्यर्थम् । तद्विषया वेदां कर्मकाण्डानि त्वं तु तच्छिरोभूतवेदान्तनिष्ठो निस्त्रैगुण्यो निष्कामो भव ।

अयमर्थम्—पितृकोटिवत्सलो हि वेदोऽनादिभगवद्विमुखान्मायागुणैर्निबद्धांस्तद्गुणसृष्टसात्त्विकादिसुखसक्तान्प्रति तत्कामाननुरुध्य फलानि प्रकाशयन्स्वस्मिंस्तान्विश्रम्भयति । तद्विश्रम्भेण तत्परिशीलिनस्ते तन्मूर्धभूतोपनिसत्प्रतीतयाथात्म्यनिश्चयेन तां बुद्धिं यान्तीति न चाकामितान्यपि तान्यापतेयुं कामितानामेव तेषां फलत्वश्रवणात। न च सर्वेषां वेदानां त्रैगुण्यविषयत्वं निस्त्रैगुण्यताया अप्रामाणिकत्वापत्तेम् ।

ननु शीतोष्णादिनिवारणाय मात्रास्पर्शास्तु कौन्तेयेत्यादि विमर्शेन द्वन्द्वसहो भव । तत्र हेतुर्नित्येति । नित्यं यत्सत्त्वमपरिणामित्वं जीवनिष्ठं तत्स्थस्तद्विभाव्येत्यर्थम् । तत एव निर्योगक्षेमम् । अलब्धलाभो योगं लब्धस्य परिरक्षणं क्षेमं तद्रहितो भवेत्यर्थम् ।

ननु क्षुत्पिपासे तथापि वाधिके इति चेत्तत्राह आत्मवानिति । आत्मा विश्वम्भरं परमात्मा स यस्य ध्येयतयास्ति तादृशो भवेत्यर्थम् । स ते देहयात्रां सम्पादयेदित्यर्थम् ॥४५॥

(२.४६)

यावानर्थ उदपाने सर्वतं संप्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतम् ॥

श्रीधरम् : ननु वेदोक्तनानाफलत्यागेन निषामतयेश्वराराधनविषया व्यवसायात्मिका बुद्धिं कुबुद्धिरेवेत्याशड्क्याह यावानिति । उदकं पीयते यस्मिंस्तदुदपानं वापीकूपतडागादि । तस्मिन्स्वल्पोदक एकत्र कृत्स्नार्थस्यासम्भवात्तत्र तत्र परिभ्रमणेन विभागशो यावान्स्नानपानादिरर्थं प्रयोजनं भवति तावान्सर्वोऽप्यर्थं सर्वतं संप्लुतोदके महाह्रदे एकत्रैव यथा भवति । एवं यावान्सर्वेषु वेदेषु तत्तत्कर्मफलरूपोऽर्थस्तावान्सर्वोऽपि विजानतो व्यवसायात्मिकाबुद्धियुक्तस्य ब्राह्मणस्य ब्रह्मनिष्ठस्य भवत्येव । ब्रह्मानन्दे क्षुदानन्दानामन्तर्भावात। एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेम् । तस्मादियमेव सुबुद्धिरित्यर्थम् ॥४६॥

मधुसूदनम् : न चैवं शङ्कनीयं सर्वकामनापरित्यागेन कर्म कुर्वन्नहं तैस्तैं कर्मजनितैरानन्दैर्वञ्चितं स्यामिति । यस्मात्यावानिति । उदपाने क्षुद्रजलाशये । जातावेकवचनम् । यावानर्थो यावत्स्नानपानादिप्रयोजनं भवति सर्वतं संप्लुतोदके महति जलाशये तावानर्थो भवत्येव । यथा हि पर्वतनिर्झरां सर्वतं स्रवन्तं क्वचिदुपत्यकायामेकत्र मिलन्ति तत्र प्रत्येकं जायमानमुदकप्रयोजनं समुदिते सुतरां भवति सर्वेषां निर्झराणामेकत्रैव कासारेऽन्तर्भावात। एवं सर्वेषु वेदेषु वेदोक्तेषु काम्यकर्मसु यावानर्थो हैरण्यगर्भानन्दपर्यन्तस्तावान्विजानतो ब्रह्मतत्त्वं साक्षात्कृतवतो ब्राह्मणस्य ब्रह्मबुभूषोर्भवत्येव । क्षुदानन्दानां ब्रह्मानन्दांशत्वात्तत्र क्षुद्रानन्दानामन्तर्भावात। एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेम् । एकस्याप्यानन्दस्याविद्याकल्पिततत्तदुपाधिपरिच्छेदमादायांशांशिवद्व्यपदेश आकाशस्येव घटाद्यवच्छेदकल्पनया ।

तथा च निष्कामकर्मभिं शुद्धान्तम्करणस्य तवात्मज्ञानोदये परब्रह्मानन्दप्राप्तिं स्यात्तथैव च सर्वानन्दप्राप्तौ न क्षुद्रानन्दप्राप्तिनिबन्धनवैयग्र्यावकाशम् । अतं परमानन्दप्रापकाय तत्त्वज्ञानाय निष्कामकर्माणि कुर्वित्यभिप्रायम् । अत्र यथा तथा भवतीतिपदत्रयाध्याहारो यावांस्तावानिति पदद्वयानुषङ्गश्च दार्ष्टान्तिके द्रष्टव्यम् ॥४६॥

विश्वनाथम् : हन्त किं वक्तव्यं निष्कामस्य निर्गुणस्य भक्तियोगस्य माहात्म्यं यस्यैवारम्भणमात्रेऽपि नाशप्रत्यवायौ न स्तम् । स्वल्पमात्रेणापि कृतार्थतेत्येकादशेऽप्युद्धवायापि वक्ष्यते—

न ह्यङ्गोपक्रमे ध्वंसो
मद्धर्मस्योद्धवाण्वपि ।
मया व्यवसितं सम्यङ्
निर्गुणत्वादनाशिषम् ॥ इति । [भा.पु. ११.२९.२०]

किन्तु सकामो भक्तियोगोऽपि व्यवसायात्मिकबुद्धिशब्देनोच्यते । इति दृष्टान्तेन साधयति यावानिति । उदपान इति जात्यैकवचनमुदपानेषु कूपेषु । यावानर्थ इति कश्चित्कूपं शौचकर्मार्थकम्, कश्चिद्दान्तधावनार्थकम्, कश्चिद्वस्त्रधावनाद्यर्थकम्, कश्चित्केशादिमार्जनार्थकम्, कश्चित्स्नानार्थकम्, कश्चित्पानार्थक इत्येवं सर्वतं सर्वेषुदपानेषु यावानर्थो यावन्ति प्रयोजनानीत्यर्थं तस्मिनेकस्मिन्नेव शौचादिकर्मसिद्धेम् । किं च, तत्तत्कूपेषु पृथक्पृथक्परिभ्रमणश्रमेण, सरोवरे तु तं विनैव । तथा कूपेषु विरसजलेन सरोवरे तु सुरमजलेनैवेत्यपि विशेषो द्रष्टव्यम् । एवं सर्वेषु वेदेषु तत्तद्देवताराधनेन यावन्तोऽर्थास्तावन्त एकस्य भगवदाराधनेन विजानतो विज्ञस्य ब्राह्मणस्येति ब्रह्म वेदं बेत्तीति ब्रह्मणस्तस्य विजानतो वेदज्ञत्वेऽपि वेदतात्पर्यं भक्तिं विशेषतो जानतम् । यथा द्वितीयस्कन्धे—

ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणं पतिम् ।
इन्द्रमिन्द्रियकामस्तु प्रजाकामं प्रजापतिम् ॥ [भा.पु. २.३.२]

दैवीं मायां तु श्रीकाममित्याद्युक्त्या,

अकामं सर्वकामो वा मोक्षकाम उदारधीम् ।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ [भा.पु. २.३.१०]

इति मेघाद्यमिश्रस्य सौरकिरणस्य तीव्रत्वमिव भक्तियोगस्य ज्ञानकर्माद्यमिश्रत्वं तीव्रत्वं ज्ञेयम् । अत्र बहुभ्यो बहुकामसिद्धिरिति सर्वथा बहुबुद्धित्वमेव । एकस्माद्भगवत एव सर्वकामसिद्धिरित्यंशेनैकबुद्धित्वादेकबुद्धित्वमेव विषयसाद्गुण्याज्ज्ञेयम् ॥४६॥

बलदेवम् : ममि सर्वान्वेदानधीयानस्य बहुकालव्ययाद्बहुविक्षेपसम्भवाच्च कथं तद्बुद्धेरभुदयस्तत्राह यावानिति । सर्वतं सम्प्लुतोदकेति । विस्तीर्णे उदपाने जलाशये स्नानाद्यर्थिनो यावान्स्नानपानादिरर्थं प्रयोजनं तावानेव स तेन तस्मात्सम्पद्यते । एवं सर्वेषु सोपनिषत्सु वेदेषु ब्राह्मणस्य वेदाध्यायिनो विजानत आत्मयाथात्म्यज्ञानं लब्धुकामस्य यावान्तज्ज्ञानसिद्धिलक्षणोऽर्थं स्यात्तावानेव तेन तेभ्यं सम्पाद्यते इत्यर्थम् । तथा च स्वशाखयैव सोपनिषदाचिरेणैव तत्सिद्धौ तद्बुद्धिरभुदियादेवेति । इह दार्ष्टान्तिकेऽपि यावांस्तावानिति पदद्वयमनुषञ्जनीयम् ॥४६॥

(२.४७)

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥

श्रीधरम् : तर्हि सर्वाणि कर्मफलानि परमेश्वराराधनादेव भविष्यन्तीत्यभिसन्धाय प्रवर्तेत । किं कर्मणा इत्याशङ्क्य तद्वारयन्नाह कर्मण्येवेति । ते तव तत्त्वज्ञानार्थिनं कर्मण्येवाधिकारम् । तत्फलेषु अधिकारं कामो मास्तु । ननु कर्मणि कृति तत्फलं स्यादेव भोजने कृते तृप्तिवत। इत्याशङ्क्याह मेति । मा कर्मफलहेतुर्भूम् । कर्मफलं प्रवृत्तिहेतुर्यस्य स तथाभूतो मा भूम् । काम्यमानस्यैव स्वर्गादेर्नियोज्यविशेषणत्वेन फलत्वादकामितं फलं न स्यादिति भावम् । अत एव फलं बन्धकं भविष्यतीति भयादकर्मणि कर्माकरणेऽपि तव सङ्गो निष्ठा मास्तु ॥४७॥

मधुसूदनम् : ननु निष्कामकर्मभिरात्मज्ञानं सम्पाद्य परानन्दप्राप्तिं क्रियते चेदात्मज्ञानमेव तर्हि सम्पाद्यं किं बह्वायासैं कर्मभिर्बहिरङ्गसाधनभूतैरित्याशङ्क्याह कर्मण्येवेति । ते तवाशुद्धान्तम्करणस्य तात्त्विकज्ञानोत्पत्त्ययोग्यस्य कर्मण्येवान्तम्करणशोधकेऽधिकारो मयेदं कर्तव्यमिति बोधोऽस्तु न ज्ञाननिष्ठारूपं वेदान्तवाक्यविचारादौ । कर्म च कुर्वतस्तव तत्फलेषु स्वर्गादिषु कदाचन कस्यांचिदप्यवस्थायां कर्मानुष्ठानात्प्रागूर्ध्वं तत्काले वाधिकारो मयेदं भोक्तव्यमिति बोधो मास्तु ।

ननु मयेदं भोक्तव्यमिति बुद्ध्यभावेऽपि कर्म स्वसामार्थ्यादेव फलं जनयिष्यतीति चेन्नेत्याह मा कर्मफलहेतुर्भूम् । फलकामनया हि कर्म कुर्वन्फलस्य हेतेउरुत्पादको भवति । त्वं तु निष्कामं सन्कर्मफलहेतुर्मा भूम् । न हि निष्कामेन भगवदर्पणबुद्ध्या कृतं कर्म फलाय कल्पत इत्युक्तम् । फलाभावे किं कर्मणेत्यत आह—मा ते सङ्गोऽस्त्वकर्मणि । यदि फलं नेष्यते किं कर्मणा दुम्खरूपेणेत्यकरणे तव प्रीतिर्मा भूत॥४७॥

विश्वनाथम् : एवमेकमेवार्जुनं स्वप्रियसखं लक्षीकृत्य ज्ञानभक्तिकर्मयोगानाचिख्यासुर्भगवान्ज्ञानभक्तियोगौ प्रोच्य तयोरर्जुनस्यानधिकारं विमृश्य निष्कामकर्मयोगमाह कर्मणीति । मा फलेष्विति—फलाकाङ्क्षिणोऽप्यत्यन्तशुद्धचित्ता भवन्ति । त्वं तु प्रायं शुद्धचित्त इति मया ज्ञात्वैवोच्यस इति भावम् ।

ननु कर्मणि कृते फलमवश्यं भविष्यत्येवेति । तत्राह मा कर्मफलहेतुर्भूं फलकामनया हि कर्म कुर्वन्फलस्य हेतुरुत्पादको भवति । त्वं तु तादृशो मा भूरित्याशीर्मया दीयत इत्यर्थम् । अकर्मणि स्वधर्माकरणे विकर्मणि पापे वा सङ्गस्तव मास्तु, किन्तु द्वेष एवास्त्विति पुनरप्याशीर्दीयत इति । अत्राग्रिमाध्याये व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे इत्यर्जुनोक्तिदर्शनादत्राध्याये पूर्वोत्तरवाक्यानामवतारिकाभिर्नातीव सङ्गतिर्विधित्सितेति ज्ञेयम् । किन्तु त्वऽज्ञायां सारथ्यादौ यथाहं तिष्ठामि, तथा त्वमपि मदाज्ञायां तिष्ठेति कृष्णार्जुनयोर्मनोऽनुलापोऽयमत्र द्रष्टव्यम् ॥४७॥

बलदेवम् : ननु कर्मभिर्ज्ञानसिद्धिरिष्यते चेत्तर्हि तस्य शमादीन्येवान्तरङ्गत्वादनुष्ठेयानि सन्तु किं बहु प्रयासैस्तैरिति चेत्तत्राह—कर्मण्येवेति । जातावेकवचनम् । ते तव स्वधर्मेऽपि युद्धेऽधर्मबुद्धेरशुद्धचित्तस्य तावत्कर्मस्वेव युद्धादिष्वधिकारोऽस्तु मयैतानि भोक्तव्यानीति तत्फलेषु बन्धकेषु तवाधिकारो मास्तु मयैतानि भोक्तव्यानीति ।

ननु फलेच्छाविरहेऽपि तानि स्वफाइर्योजयेयुरिति चेत्तत्राह मा कर्मेति । कर्मफलानां हेतुरुत्पादकस्त्वं माभूं कामनया कृतानि तानि स्वफलैर्योजयन्ति कामितानामेव फलानां नियोज्यविशेषणत्वेन फलत्वाम्नातात। अत एव बन्धकानि फलानि आपतिष्यन्तीति भयादकर्मणि कर्माकरणे तव सङ्गं प्रीतिर्मास्तु किन्तु विद्वेष एवास्त्वित्यर्थम् । निष्कामतयानुष्ठितानि कर्माणि यष्टिधान्यवदन्तरेव ज्ञाननिष्ठां निष्पादयिष्यन्ति । शमादीनि तु तत्पृष्ठलग्नान्येव स्युरिति भावम् ॥४७॥

(२.४८)

योगस्थं कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्यों समो भूत्वा समत्वं योग उच्यते ॥

श्रीधरम् : किं तर्हि ? योगस्थ इति । योगं परमेश्वरैकपरता । तत्र स्थितं कर्माणि कुरु । तथा सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलमीश्वराश्रयेणैव कुरु । तत्फलस्य ज्ञानस्यापि सिद्ध्यसिद्ध्यों समो भूत्वा केवलमीश्वराश्रयेणैव कुरु । यत एवंभूतं समत्वमेव योग उच्यते सद्भिं चित्तसमाधानरूपत्वात॥४८॥

मधुसूदनम् : पूर्वोक्तमेव विवृणोति योगस्थ इति । हे धनञ्जय त्वं योगस्थं सन्सङ्गं फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा कर्माणि कुरु । अत्र बहुवचनात्कर्मण्येवाधिकारस्त इत्यत्र जातावेकवचनम् । सङ्गत्यागोपायमाह सिद्ध्यसिद्ध्यों समो भूत्वा फलसिद्धौ हर्षं फलासिद्धौ च विषादं त्यक्त्वा केवलमीश्वराराधनबुद्ध्या कर्माणि कुर्विति ।

ननु योगशब्देन प्राक्कर्मोक्तम् । अत्र तु योगस्थं कर्माणि कुर्वित्युच्यते । अतं कथमेतद्बोद्ध्यं शक्यमित्यत आह समत्वं योग उच्यते । यदेतत्सिद्ध्यसिद्ध्यों समत्वमिदमेव योगस्थ इत्यत्र योगशब्देनोच्यते न तु कर्मेति न कोऽपि विरोध इत्यर्थम् । अत्र पूर्वार्धस्योत्तरार्धेन व्याख्यानं क्रियत इत्यपौनरुक्त्यमिति भाष्यकारीयं पन्थाम् । सुखदुम्खे समे कृत्वा इत्यत्र जयाजयसाम्येन युद्धमात्रकर्तव्यता प्रकृतत्वादुक्ता । इह तु दृष्टादृष्टसर्वफलपरित्यागेन सर्वकर्मकर्तव्यतेति विशेषम् ॥४८॥

विश्वनाथम् : निष्कामकर्मणं प्रकारं शिक्षयति योगस्थ इति । तेन जयाजययोस्तुल्यबुद्धिं सन्सङ्ग्राममेव स्वधर्मं कुर्विति भावम् । अयं निष्कामकर्मयोग एव ज्ञानयोगत्वेन परिणमतीति । ज्ञानयोगोऽप्येवं पूर्वोत्तरग्रन्थार्थतात्पर्यतो ज्ञेयम् ॥४८॥

बलदेवम् : पूर्वोक्तं विशदयति योगस्थ इति । त्वं सङ्गं फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा योगस्थं सन्कर्माणि कुरु युद्धादीनि । आद्येन मायानिमज्जनमेव । द्वितीयेन तु स्वातन्त्र्यलक्षणपरेशधर्मचौर्यम् । तेन तन्मायाव्याकोपम् । अतस्तयों परित्याग इति भावम् । योगस्थपदं विवृणोति—सिद्ध्यसिद्ध्योरिति । तदनुषङ्गफलानां जयादीनां सिद्धावसिद्धौ च समो भूत्वा रागद्वेषरहितं सन्कुरु । इदमेव समत्वं मया योगस्थ इत्यत्र योगशब्देनोक्तं चित्तसमाधिरूपत्वात॥४८॥


(२.४९)

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणां फलहेतवम् ॥

श्रीधरम् : काम्यं तु कर्मातिनिकृष्टमित्याह दूरेणेति । बुद्ध्या व्यवसायात्मिकया कृतं कर्मयोगो बुद्धियोगो बुद्धिसाधनभूतो वा, तस्मात्सकाशादन्यत्साधनभूतं काम्यं कर्म दूरेण अवरमत्यन्तमपकृष्टं हि । यस्मादेवं तस्माद्बुद्धौ ज्ञाने शरणमाश्रयं कर्मयोगमन्विच्छ अनुतिष्ठ । यद्वा बुद्धौ शरणं त्रातारमीश्वरमाश्रयेत्यर्थम् । फलहेतुरस्तु सकामा नरां कृपणा दीनां यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपण [बृ.आ.उ.  ३.८.१०] इति श्रुतेम् ॥४९॥

मधुसूदनम् : ननु किं कर्मानुष्ठानमेव पुरुषार्थो येन निष्फलमेव सदा कर्तव्यमित्युच्यते प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति न्यायात। तद्वरं फलकामनयैव कर्मानुष्ठानमिति चेन्नेत्याह दूरेणेति । बुद्धियोगादात्मबुद्धिसाधनभूतान्निष्कामकर्मयोगाद्दूरेणातिविप्रकर्षेणावरमधमं कर्म फलाभिसन्धिना क्रियमाणं जन्ममरणहेतुभूतम् । अथवा परमात्मबुद्धियोगाद्दूरेणावरं सर्वमपि कर्म यस्माद्, हे धनञ्जय, तस्माद्बुद्धौ परमात्मबुद्धौ सर्वानर्थनिवर्तिकायां शरणं प्रतिबन्धकपापक्षयेण रक्षकं निष्कामकर्मयोगमन्विच्छ कर्तुमिच्छ । ये तु फलहेतवं फलकामा अवरं कर्म कुर्वन्ति ते कृपणां सर्वदा जन्ममरणादिघटीयन्त्रभ्रमणेन परवशा अत्यन्तदीना इत्यर्थम् । यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपण [बृ.आ.उ.  ३.८.१०] इति श्रुतेम् । तथा च त्वमपि कृपणो मा भूं किन्तु सर्वानर्थनिवर्तकात्मज्ञानोत्पादकं निष्कामकर्मयोगमेवानुतिष्ठेत्यभिप्रायम् । यथा हि कृपणा जना अतिदुम्खेन धनमर्जयन्तो यत्किंचिद्दृष्टसुखमात्रलोभेन दानादिजनितं महत्सुखमनुभवितुं न शक्नुवन्तीत्यात्मानमेव वञ्चयन्ति तथा महता दुम्खेन कर्माणि कुर्वाणां क्षुद्रफलमात्रलोभेन परमानन्दानुभवेन वञ्चिता इत्यहो दौर्भाग्यं मौढ्यं च तेषामिति कृपणपदेन ध्वनितम् ॥४९॥

विश्वनाथम् : सकामकर्म निन्दति दूरेणेति । अवरमतिनिकृष्टं काम्यं कर्म । बुद्धियोगात्परमेश्वरार्पितनिषामकर्मयोगात। बुद्धौ निष्कामकर्मण्येव बुद्धियोगो निष्कामकर्मयोगम् ॥४९॥

बलदेवम् : अथ काम्यकर्मणो निकृष्टत्वमाह दूरेणेति । बुद्धियोगादवरं कर्म दूरेण, हे धनञ्जय, आत्मयाथात्म्यबुद्धिसाधनभूतान्निष्कामकर्मयोगात्दूरेणातिविप्रकर्षेणावरमत्यपकृष्टं जन्ममरणाद्यनर्थनिमित्तं काम्यं कर्मेत्यर्थम् । हि यस्मादेवमतस्त्वं बुद्धौ तद्याथात्म्यज्ञाने शरणमाश्रयं निष्कामकर्मयोगमन्विच्छ कुरु । ये तु फलहेतवं फलकामा अवरकर्मकारिणस्ते कृपणास्तत्फलजन्मकर्मादिप्रवाहपरवशा दीना इत्यर्थम् । तथा च त्वं कृपणो माभूरिति इह कृपणां खलु कष्टोपार्जितवित्तादृष्टसुखलवलुब्धा वित्तानि दातुमसमर्था महता दानसुखेन वञ्चितास्तथा कष्टानुष्ठितकर्माणस्तुच्छतत्फललुब्धा महतात्मसुखेन वञ्चिता भवन्तीति व्यज्यते ॥४९॥

(२.५०)

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगं कर्मसु कौशलम् ॥५०॥

श्रीधरम् : बुद्धियोगयुक्तस्तु श्रेष्ठ इत्याह बुद्धियुक्त इति । सुकृतं स्वर्गादिप्रापकं दुष्कृतं निरयादिप्रापकम् । ते उभे इहैव जन्मनि परमेश्वरप्रसादेन त्यजति । तस्माद्योगाय तदर्थाय कर्मयोगाय युज्यस्व घटस्व । योगो हि कर्मसु कौशलम् । स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्यों समत्वबुद्धिरीश्वरार्पितचेतस्तया तत्कौशलं कुशलभावम् । तद्धि कौशलं यद्बन्धस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावान्निवर्तन्ते । तस्मात्समत्वबुद्धियुक्तो भव त्वम् ॥५०॥

मधुसूदनम् : एवं बुद्धियोगाभावे दोषमुक्त्वा तद्भावे गुणमाह बुद्धीति । इह कर्मसु बुद्धियुक्तं समत्वबुद्ध्या युक्तो जहाति परित्यजति उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण । यस्मादेवं तस्मात्समत्वबुद्धियोगाय त्वं युज्यस्व घटस्वोद्युक्तो भव । यस्मादीदृशं समत्वबुद्धियोग ईश्वरार्पितचेतसं कर्मसु प्रवर्तमानस्य कौशलं कुशलभावो यद्बन्धहेतूनामपि कर्मणां तदभावो मोक्षपर्यवसायित्वं च तन्महत्कौशलम् ।

समत्वबुद्धियुक्तं कर्मयोगं कर्मात्मापि सन्दुष्टकर्मक्षयं करोतीति महाकुशलम् । त्वं तु न कुशलो यतश्चेतनोऽपि सन्सजातीयदुष्टक्षयं न करोषीति व्यतिरेकोऽत्र ध्वनितम् । अथवा इह समत्वबुद्धियुक्ते कर्मणि कृते सति सत्त्वशुद्धिद्वारेण बुद्धियुक्तं परमात्मसाक्षात्कारवान्सञ्जहात्युभे सुकृतदुष्कृते । तस्मात्समत्वबुद्धियुक्ताय कर्मयोगाय युज्यस्व । यस्मात्कर्मसु मध्ये समत्वबुद्धियुक्तं कर्मयोगं कौशलं कुशलो दुष्टकर्मनिवारणचतुर इत्यर्थम् ॥५०॥

विश्वनाथम् : योगायोक्तलक्षणाय युज्यस्व घटस्व । यतं कर्मसु सकामनिष्कामेषु मध्ये योग एवोदासीनत्वेन कर्मकरणमेव । कौशलं नैपुण्यमित्यर्थम् ॥५०॥
बलदेवम् : उक्तस्य बुद्धियोगस्य प्रभावमाह बुद्धीति । इह कर्मसु यो बुद्धियुक्तं प्रधानफलत्यागविषयानुषङ्गफलसिद्ध्यसिद्धिसमत्वविषयया च बुद्ध्या युक्तस्तानि करोति, स उभे अनादिकालसञ्चिते ज्ञानप्रतिबन्धके सुकृतदुष्कृते जहाति विनाशयतीत्यर्थम् । तस्मादुक्ताय बुद्धियोगाय युज्यस्व घटस्व । यस्मात्कर्मयोगस्तादृशबुद्धिसम्बन्धम् । कौशलं चातुर्यं बन्धकानामेव बुद्धिसम्पर्काद्विशोधितविषपारदन्यायेन मोचकत्वेन परिणामात॥५०॥

(२.५१)

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणम् ।
जन्मबन्धविनिर्मुक्तां पदं गच्छन्त्यनामयम् ॥

श्रीधरम् : कर्मणां मोक्षसाधनत्वप्रकारमाह कर्मजमिति । कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थं कर्म कुर्वाणो मनीषिणो ज्ञानिनो भूत्वा जन्मरूपेण बन्धेन विनिर्मुक्तां सन्तोऽनामयं सर्वोपद्रवरहितं विष्णों पदं मोक्षाख्यं गच्छन्ति ॥५१॥

मधुसूदनम् : ननु दुष्कृतहानमपेक्षितं न तु सुकृतहानं पुरुषार्थभ्रंशापत्तेरित्याशङ्क्य तुच्छफलत्यागेन परमपुरुषार्थप्राप्तिं फलमाह कर्मजमिति । समत्वबुद्धियुक्ता हि यस्मात्कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थं कर्माणि कुर्वाणां सत्त्वशुद्धिद्वारेण मनीषिणस्तत्त्वमसि इत्यादिवाक्यजन्यात्ममनीषावन्तो भवन्ति । तादृशाश्च सन्तो जन्मात्मकेन बन्धेन विनिर्मुक्ता विशेषेणात्यन्तिकत्वलक्षणेन निरवशेषं मुक्तां पदं पदनीयमात्मतत्त्वमानन्दरूपं ब्रह्मानामयमविद्यातत्कार्यात्मकरोगरहिताभयं मोक्षाख्यं पुरुषार्थं गच्छन्त्यभेदेन प्राप्नुवन्तीत्यर्थम् ।

यस्मादेवं फलकामनां त्यक्त्वा समत्वबुद्ध्या कर्माण्यनुतिष्ठन्तस्तैं कृतान्तम्करणशुद्धयस्तत्त्वमस्यादिप्रमाणोत्पन्नात्मतत्त्वज्ञानतत्कार्यां सन्तं सकलानर्थनिवृत्तिपरमानन्दप्राप्तिरूपं मोक्षाख्यं विष्णों परमं पदं गच्छन्ति तस्मात्त्वमपि यच्छ्रेयं स्यान्निश्चितं ब्रूहि तन्मे [गीता २.७] इत्युक्तें श्रेयो जिज्ञासुरेवंविधं कर्मयोगमनुतिष्ठेति भगवतोऽभिप्रायम् ॥५१॥

विश्वनाथम् : न व्याख्यातम्.

बलदेवम् : कर्मजमिति । बुद्धियुक्तास्तादृशबुद्धिमन्तं कर्मजं फलं त्यक्त्वा कर्माण्यनुतिष्ठन्तो मनीषिणं कर्मान्तर्गतात्मयाथात्म्यप्रज्ञावन्तो भूत्वा जन्मबन्धेन विनिर्मुक्तां सन्तोऽनामयं क्लेशशून्यं पदं वैकुण्ठं गच्छन्तीति । तस्मात्त्वमपि श्रेयो जिज्ञासुरेवं विधानि कर्माणि कुर्विति भावम् । स्वात्मज्ञानस्य परमात्मज्ञानहेतुत्वात्तस्यापि तत्पदगतिहेतुत्वं युक्तम् ॥५१॥

(२.५२)

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥

श्रीधरम् : कदाहं तत्पदं प्राप्स्यामि इत्यपेक्षायामाह यदेति द्वाभ्याम् । मोहो देहादिषु आत्मबुद्धिम् । तदेव कलिलं गहनम् । कलिलं गहनं विदुरित्यभिधानकोषस्मृतेम् । ततश्चायमर्थम् । एवं परमेश्वराराधने क्रियमाणे यदा तत्प्रसादेन तव बुद्धिर्देहाभिमानलक्षणं मोहमयं गहनं दुर्गं विशेषेणातितरिष्यति तदा श्रोतव्यस्य श्रुतस्य चार्थस्य निर्वेदं वैराग्यं गन्तासि प्राप्स्यसि । तयोरनुपादेयत्वेन जिज्ञासां न करिष्यसीत्यर्थम् ॥५२॥

मधुसूदनम् : एवं कर्माण्यनुतिष्ठतं कदा मे सत्त्वशुद्धिं स्यादित्यत आह यदेति । न ह्येतावता कालेन सत्त्वशुद्धिर्भवतीति कालनियमोऽस्ति । किन्तु यदा यस्मिन्काले ते तव बुद्धिरन्तम्करणं मोहकलिलं व्यतितरिष्यति अविवेकात्मकं कालुषमहमिदं ममेदमित्याद्यज्ञानविलसितमतिगहनं व्यतिक्रमिष्यति रजस्तमोमलमपहाय शुद्धभावमापत्स्यत इति यावत। तदा तस्मिन्काले श्रोतव्यस्य श्रुतस्य च कर्मफलस्य निर्वेदं वैतृष्ण्यं गन्तासि प्राप्तासि । परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायात्[मु.उ. १.२.१२] इति श्रुतेम् । निर्वेदेन फलेनान्तम्करणशुद्धिं ज्ञास्यसीत्यभिप्रायम् ॥५२॥

विश्वनाथम् : एवं परमेश्वरार्पितनिष्कामकर्माभ्यासात्तव योगो भविष्यतीत्याह यदेति । तव बुद्धिरन्तम्करणं मोहकलिलं मोहरूपं गहनं विशेषतोऽतिशयेन तरिष्यति, तदा श्रोतव्यस्य श्रोतव्येष्वर्थेषु श्रुतस्य श्रुतेष्वप्यर्थेषु निर्वेदं प्राप्स्यसि असम्भावनाविपरीतभावनयोर्नष्टत्वात्किं मे शास्त्रोपदेशवाक्यश्रवणेन । साम्प्रतं मे साधनेष्वेव प्रतिक्षणमभ्यासं सर्वथोचित इति मंस्यस इति भावम् ॥५२॥

बलदेवम् : ननु निष्कामाणि कर्माणि कुर्वतो मे कदात्मविषया मनीषाभ्युदियादिति चेत्तत्राह यदेति । यदा ते बुद्धिरन्तम्करणं मोहकलिलं तुच्छफलाभिलाषहेतुमज्ञानगहनं व्यतितरिष्यति परित्यक्ष्यतीत्यर्थम्, तदा पूर्वं श्रुतस्यानन्तरं श्रोतव्यस्य च तस्य तुच्छफलस्य सम्बन्धिनं निर्वेदं गन्तासि गमिष्यसि । परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्ति [मु.उ. १.२.१२] इति श्रवणात। निर्वेदेन फलेन तद्विषयां तां परिचेष्यति इति नास्त्यत्र कालनियम इत्यर्थम् ॥५२॥

(२.५३)

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यस्यि ॥

श्रीधरम् : ततश्च श्रुतीति । श्रुतिभिर्नानालौकिकवैदिकार्थश्रवणैर्विप्रतिपन्ना । इतं पूर्वं विक्षिप्ता सती तव बुद्धिर्यदा समाधौ स्थास्यति । समाधीयते चित्तमस्मिन्निति समाधिं परमेश्वरम् । तस्मिन्निश्चला विषयैरन्तरैरनाकृष्टा । अतएवाचला । अभ्यासपाटवेन तत्रैव स्थिरा च सती योगं योगफलं तत्त्वज्ञानमवाप्स्यसि ॥५३॥

मधुसूदनम् : अन्तम्करणशुद्ध्यैवं जातनिर्वेदस्य कदा ज्ञानप्राप्तिरित्यपेक्षायामाह श्रुतीति । ते तव बुद्धिं श्रुतिभिर्नानाविधफलश्रवणैरविचारिततात्पर्यैर्विप्रतिपन्नाऽनेकविधसंशयविपर्यासवत्त्वेन विक्षिप्ता प्राक। यदा यस्मिन्काले शुद्धिजविवेकजनितेन दोषदर्शनेन तं विक्षेपं परित्यज्य समाधौ पर्मात्मनि निश्चला जाग्रत्स्वप्नदर्शनलक्षणविक्षेपरहिताचला सुषुप्तिमूर्च्छास्तब्धीभावादिरूपलयलक्षणचलनरहिता सती स्थास्यति लयविक्षेपलक्षणौ दोषौ परित्यज्य समाहिता भविष्यतीति यावत। अथवा निश्चलासम्भावनाविपरीतभावनारहिताचला दीर्घकालादरनैरन्तर्यसत्कारसेवनैर्विजातीयप्रत्ययादूषिता सती निर्वातप्रदीपवदात्मनि स्थास्यतीति योजना । तदा तस्मिन्काले योगं जीवपरमात्मैक्यलक्षणं तत्त्वमसीत्यादिवाक्यजन्यमखण्डसाक्षात्कारं सर्वयोगफलमवाप्स्यसि । तदा पुनं साध्यान्तराभावात्कृतकृत्यं स्थितप्रज्ञो भविष्यसीत्यभिप्रायम् ॥५३॥

विश्वनाथम् : ततश्च श्रुतिषु नानालौकिकवैदिकार्थश्रवणेषु विप्रतिपन्ना असम्मता विरकेतित्यावत। तत्र हेतुं निश्चला तेषु तेष्वर्थेषु चलितुं विमुखीभूतेत्यर्थम् । किन्तु समाधौ षष्ठेऽध्याये वक्ष्यमाणलक्षणेऽचला स्थैर्यवती । तदा योगमपरोक्षानुभवप्राप्त्या, जीवन्मुक्त इत्यर्थम् ॥५३॥

बलदेवम् : ननु कर्मफलनिर्विण्णतया कर्मानुष्ठानेन लब्धहृद्विशुद्धेरभ्युदितात्मज्ञानस्य मे कदात्मसाक्षात्कृतिरिति चेत्तत्राह श्रुतीति । श्रुत्या कर्मणां ज्ञानगर्भतां प्रबोधयन्त्या तमेतमित्यादिकया विप्रतिपन्ना विशेषेण संसिद्धा ते बुद्धिरचला असम्भावनाविपरीतभावनाभ्यां विरहिता यदा समाधौ मनसि निर्वातदीपशिखेव निश्चला स्थास्यति तदा योगमात्मानुभवलक्षणमवाप्स्यसि । अयमर्थं फलाभिलाषशून्यतयानुष्ठितानि कर्माणि स्थितप्रज्ञतारूपां ज्ञाननिष्ठां साधयन्ति । ज्ञाननिष्ठारूपा स्थितप्रज्ञता त्वात्मानुभवमिति ॥५३॥
 
(२.५४)

अर्जुन उवाच——
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीं किं प्रभाषेत किमासीत व्रजेत किम् ॥

श्रीधरम् : पूर्वश्लोकोक्तस्यात्मतत्त्वज्ञस्य लक्षणं जिज्ञासुरर्जुन उवाच——स्थितप्रज्ञस्येति । स्वाभाविके समाधौ स्थितस्य, अत एव स्थिता निश्चला प्रज्ञा बुद्धिर्यस्य तस्य भाषा का ? भाष्यतेऽनया इति भाषा लक्षणमिति यावत। स केन लक्षणेन स्थितप्रज्ञ उच्यते इत्यर्थम् । तथा स्थितधीं किं कथं भाषणमासनं व्रजनं च कुर्यादित्यर्थम् ॥५४॥

मधुसूदनम् : एवं लब्धावसरं स्थितप्रज्ञलक्षणं ज्ञातुमर्जुन उवाच— । यान्येव हि जीवन्मुक्तानां लक्षणानि तान्येव मुमुक्षूणां मोक्षोपायभूतानीति मन्वानम् । स्थिता निश्चला अहंब्रह्मास्मि इति प्रज्ञा यस्य स स्थितप्रज्ञोऽवस्थाद्वयवान्समाधिस्थो व्युत्थितचित्तश्चेति । अतो विशिनष्टि समाधिस्थस्य स्थितप्रज्ञस्य का भाषा ? कर्मणि षष्ठी । भाष्यतेऽनयेति भाषा लक्षणम् । समाधिस्थं स्थितप्रज्ञं केन लक्षणेनान्यैर्व्यवह्रियत इत्यर्थम् ।

स च व्युत्थितचित्तं स्थितधीं स्थितप्रज्ञं स्वयं किं प्रभाषेत ? स्तुतिनिन्दादावभिनन्दनद्वेषादिलक्षणं किं कथं प्रभाषेत ? सर्वत्र सम्भावनायां लिङ। तथा किमासीतेति व्युत्थितचित्तनिग्रहाय कथं बहिरिन्द्रियाणां निग्रहं करोति ? तन्निग्राहाभावकाले किं व्रजेत कथं विषयान्प्राप्नोति ? तत्कर्तृकभाषणासनव्रजनानि मूढजनविलक्षणानि कीदृशानीइत्यर्थम् ।

तदेवं चत्वारं प्रश्नां समाधिस्थे स्थितप्रज्ञ एकम् । व्युत्थिते स्थितप्रज्ञे त्रय इति । केशवेति सम्बोधयन्सर्वान्तर्यामितया त्वमेवैतादृशं रहस्यं वक्तुं समर्थोऽसीति सूचयति ॥५४॥

विश्वनाथम् : समाधावचला बुद्धिरिति श्रुत्वा तत्त्वतो योगिनो लक्षणं पृच्छति स्थितप्रज्ञस्येति । स्थिता स्थिराचला प्रज्ञ बुद्धिर्यस्येति । का भाषा ? भाष्यतेऽनयेति भाषा लक्षणं किं लक्षणमित्यर्थम् । कीदृशस्य समाधिस्थस्येति समाधौ स्थास्यतीति । अस्यार्थम्—एवं च स्थितप्रज्ञ इति । समाधिस्थ इति जीवन्मुक्तस्य संज्ञाद्वयम् । किं प्रभाषेतेति सुखदुम्खयोर्मानापमानयों स्तुतिनिन्दयों स्नेहद्वेषयोर्वा समुपस्थितयों किं प्रभाषेत ? स्पष्टं स्वगतं वा किं वदेदित्यर्थम् । किमासीत ? तदिन्द्रियाणां बाह्यविषयेषु चलनाभावं कीदृशं ? व्रजेत किं ? तेषु चलनं वा कीदृशमिति ॥५४॥

बलदेवम् : एवमुक्तोऽर्जुनं पूर्वपद्योक्तस्य स्थितप्रज्ञस्य लक्षणं ज्ञातुं पृच्छति स्थितेति । स्थितप्रज्ञेऽत्र चत्वारं प्रश्नाम्—समाधिस्थे एकम्, व्युत्थिते तु त्रयम् । तथा हि—स्थिता स्थिरा प्रज्ञ धीर्यस्य तस्य समाधिस्थस्य का भाषा किं लक्षणं ? भाष्यतेऽनयेति व्युत्पत्तेम् । केन लक्षणेन स्थितप्रज्ञोऽभिधीयत इत्यर्थम् । तथा व्युत्थितं स्थितप्रज्ञं कथं भाषणादीनि कुर्यात्? तदीयानि तानि पृथग्जनविलक्षणानि कीदृशानीत्यर्थम् । तत्र किं प्रभाषेत ? स्वयों स्तुतिनिन्दयों स्नेहद्वेषयोश्च प्राप्तयोर्मुखतं स्वगतं वा किं ब्रूयात्? किमासीत बाह्यविषयेषु कथमिन्द्रियाणां निग्रहं कुर्यात्? व्रजेत किं ? किं तन्निग्राहाभावे च कथं विषयानवाप्नुयादित्यर्थम् । त्रिषु सम्भावनायाम् ॥५४॥

(२.५५)

श्रीभगवानुवाच——
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान।
आत्मन्येवात्मना तुष्टं स्थितप्रज्ञस्तदोच्यते ॥

श्रीधरम् : अत्र च यानि साधकस्य ज्ञानसाधनानि तान्येव स्वाभाविकानि सिद्धस्य लक्षणानि । अतं सिद्धस्य लक्षणानि कथयन्नेवान्तरङ्गानि ज्ञानसाधनान्याह यावदध्यायसमाप्ति । तत्र प्रथमप्रश्नस्योत्तरमाह प्रजहातीति द्वाभ्याम् । मनसि स्थितान्कामान्यदा प्रकर्षेण जहाति । त्यागे हेतुमाह आत्मनीति । आत्मन्येव स्वस्मिन्नेव परमानन्दरूपे आत्मना स्वयमेव तुष्ट इत्यात्मारामं सन्यदा क्षुद्रविषयाभिलाषांस्त्यजति तदा तेन लक्षणेन मुनिं स्थितप्रज्ञ उच्यते ॥५५॥

मधुसूदनम् : एतेषां चतूर्णां प्रश्नानां क्रमेणोत्तरं भगवानुवाच प्रजहातीति यावदध्यायसमाप्ति । कामान्कामसङ्कल्पादीन्मनोवृत्तिविशेषान्प्रमाणविपर्ययविकल्पनिद्रास्मृतिभेदेन तन्त्रान्तरे पञ्चधा प्रपञ्चितान्सर्वान्निरवशेषान्प्रकर्षेण कारणबाधेन यदा जहाति परित्यजति सर्ववृत्तिशून्य एव यदा भवति स्थितप्रज्ञस्तदोच्यते समाधिस्थ इति शेषम् । कामानामनात्मधर्मत्वेन परित्यागयोग्यतामाह मनोगतानिति । यदि ह्यात्मधर्मां स्युस्तदा न त्यक्तुं शक्येरन्वह्न्यौष्ण्यवत्स्वाभाविकत्वात। मनसस्तु धर्मा एते । अतस्तत्परित्यागेन परित्यक्तुअं शक्या एवेत्यर्थम् ।

ननु स्थितप्रज्ञस्य मुखप्रसादलिङ्गगम्यं सन्तोषविशेषं प्रतीयते स कथं सर्वकामपरित्यागे स्यादित्याह—आत्मन्येव परमानन्दरूपे न त्वनात्मनि तुच्छ आत्म्नऽ स्वप्रकाशचिद्रूपेण भासमानेन न तु वृत्त्या तुष्टं परितृप्तं परमपुरुषार्थलाभात। तथा च श्रुतिम्—

    यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताम् ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ [क.उ. २.३.१४] इति ।

तथा च समाधिस्थं स्थितप्रज्ञ एवंविधैर्लक्षणवाचिभिं शब्दैर्भाष्यत इति प्रथमप्रश्नस्योत्तरम् ॥५५॥

विश्वनाथम् : चतूर्णां प्रश्नानां क्रमेणोत्तरमाह प्रजहातीति यावदध्यायसमाप्तिम् । सर्वानिति कस्मिन्नप्यर्थे यस्य किंचिन्मात्रोऽपि नाभिलाष इत्यर्थम् । मनोगतानिति कामानामात्मधर्मत्वेन परित्यागे योग्यता दर्शिता । यदि ते ह्यात्मधर्मां स्युस्तदा तांस्त्यक्तुमशक्येरन्वह्नेरौष्ण्यवदिति भावम् । तत्र हेतुम्—आत्मनि प्रत्याहृते मनसि प्राप्तो य आत्मानन्दरूपस्तेन तुष्टम् । तथा च श्रुतिम्—

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताम् ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ [क.उ. २.३.१४] इति ॥५५॥

बलदेवम् : एवं पृष्टो भगवान्क्रमेण चतूर्णामुत्तरमाह यावदध्यायपूर्तिम् । तत्र प्रथमस्याह प्रजहातीत्येकेन । हे पार्थ ! यदा मनोगतान्मनसि स्थितान्कामान्सर्वान्प्रजहाति संत्यजति तदा स्थितप्रज्ञ उच्यते । कामानां मनोधर्मत्वात्परित्यागो युक्तम् । आत्मधर्मत्वे दुम्शक्यं स स्याद्वह्न्युष्णतादीनामिवेति भावम् ।

ननु शुष्ककाष्ठवत्कथं तिष्ठतीति चेत्तत्राह आत्मन्येवेति । आत्मनि प्रत्याहृते मनसि भासमानेन स्वप्रकाशानन्दरूपेणात्मना स्वरूपेण तुष्टं परितृप्तं क्षुद्रविषयाभिलाषान्संत्यज्यात्मानन्दारामं समाधिस्थं स्थितप्रज्ञ इत्यर्थम् ।

    आत्मा पुंसि स्वभावेऽपि प्रयन्तमनसोरपि ।
    धृतावपि मनीषायां शरीरब्रह्मणोरपि ॥ इति मेदिनीकारम् ।

ब्रह्म चात्र जीवेश्वरान्यतरद्ग्राह्यम् ॥५५॥

(२.५६)

दुम्खेष्वनुद्विग्नमनां सुखेषु विगतस्पृहम् ।
वीतरागभयक्रोधं स्थितधीर्मुनिरुच्यते ॥

श्रीधरम् : किं च दुम्खेष्विति । दुम्खेषु प्राप्तेष्वपि अनुद्विग्नमक्षुभितं मनो यस्य सम् । सुखेषु विगता स्पृहा यस्य सम् । तत्र हेतुम्—वीता अपगता रागभयक्रोधा यस्मात। तत्र रागं प्रीतिम् । स मुनिं स्थितधीरुच्यते ॥५६॥

मधुसूदनम् : इदानीं व्युत्थितस्य स्थितप्रज्ञस्य भाषणोपवेशनगमनानि मूढजनविलक्षणानि व्याख्येयानि । तत्र किं प्रभाषेतेत्यस्योत्तरमाह दुम्खेष्विति द्व्याभ्याम् । दुम्खानि त्रिविधानि शोकमोहज्वरशिरोरोगादिनिमित्तान्याध्यात्मिकानि व्याघ्रसर्पादिप्रयुक्तान्याधिभौतिकानि अतिवातातिवृष्ट्यादिहेतुकान्याधिदैविकानि तेषु दुम्खेषु रजम्परिणामसन्तापात्मकचित्तवृत्तिविशेषेषु प्रारब्धपापकर्मप्रापितेषु नोद्विग्नं दुम्खपरिहाराक्षमतया व्याकुलं न भवति मनो यस्य सोऽनुद्विग्नमनाम् । अविवेकिनो हि दुम्खप्राप्तौ सत्यामहो पापोऽहं धिङ्मां दुरात्मानमेतादृशदुम्खभागिनं को मे दुम्खमीदृशं निराकुर्यादित्यनुतापात्मको भ्रान्तिरूपस्तामसश्चित्तवृत्तिविशेष उद्वेगाख्यो जायते । यद्ययं पापानुष्ठानसमये स्यात्तदा तत्प्रवृत्तिप्रतिबन्धकत्वेन सफलं स्यात। भोगकाले तु भवन्कारणे सति कार्यस्योच्छेत्तुमशक्यत्वान्निष्प्रयोजनो दुम्खकारणे सत्यपि किमिति मम दुम्खं जायते इति अविवेकजभ्रमरूपत्वान्न विवेकिनं स्थितप्रज्ञस्य सम्भवति । दुम्खमात्रं हि प्रारब्धकर्मणा प्राप्यते न तु तदुत्तरकालीनो भ्रमोऽपि ।

ननु दुम्खान्तरकारणत्वात्सोऽपि प्रारब्धकर्मान्तरेण प्राप्यतामिति चेत्, न । स्थितप्रज्ञस्य भ्रमोपादानाज्ञाननाशेन भ्रमासम्भवऽत्तज्जन्यदुम्खप्रापकप्रारब्धाभावात। यथाकथंचिद्देहयात्रामात्रनिर्वाहकप्रारब्धकर्मफलस्य भ्रमाभावेऽपि बाधितानुवृत्त्योपपत्तेरिति विस्तरेणाग्रे वक्ष्यते ।

तथा सुखेषु सत्त्वपरिणामरूपप्रीत्यात्मकचित्तवृत्तिविशेषेषु त्रिविधेषु प्रारब्धपुण्यकर्मप्रापितेषु विगतस्पृह आगामितज्जातीयसुखस्पृहारहितम् । स्पृहा हि नाम सुखानुभवकाले तज्जातीयसुखस्य कारणं धर्ममननुष्ठाय वृथैव तदाकाङ्क्षारूपा तामसी चित्तवृत्तिर्भ्रान्तिरेव । सा चाविवेकिन एव जायते । न हि कारणाभावे कार्यं भवितुमर्हति । अतो यथा सति कारणे कार्यं मा भूदिति वृथाकाङ्क्षारूप उद्वेगो विवेकिनो न सम्भवति तथैवासति कारणे कार्यं भूयादिति वृथाकाङ्क्षारूपा तृष्णात्मिका स्पृहापि नोपपद्यते प्रारब्धकर्मणं सुखमात्रप्रापकत्वात।

हर्षात्मिका वा चित्तवृत्तिं स्पृहाशब्देनोक्ता । सापि भ्रान्तिरेव । अहो धन्योऽहं यस्य ममेदृशं सुखमुपस्थितं को वा मया तुलस्त्रिभुवने केन वोपायेन ममेदृशं सुखं न विच्छिद्येतेत्येवमात्मिकोत्फुल्लतारूपा तामसी चित्तवृत्तिम् । अतएवोक्तं भाष्ये—नाग्निरिवेन्धनाद्याधाने यं सुखान्यनुविवर्धते स विगतस्पृहमिति । वक्ष्यति च—न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियं [गीता ५.२०] इति । सापि न विवेकिनं सम्भवति भ्रान्तित्वात।

तथा वीतरागभयक्रोधम् । रागं शोभनाध्यासनिबन्धनो विषयेषु रञ्जनात्मकश्चित्तवृत्तिविशेषोऽत्यन्ताभिनिवेशरूपम् । रागविषयस्य नाशके समुपस्थिते तन्निवारणासामर्थ्यमात्मनो मन्यमानस्य दैन्यात्मकश्चित्तवृत्तिविशेषो भयम् । एवं रागविषयविनाशके समुपस्थिते तन्निवारणसामर्थ्यमात्मनो मन्यमानस्याभिज्वलनात्मकश्चित्तवृत्तिविशेषं क्रोधम् । ते सर्वे विपर्ययरूपत्वाद्विगता यस्मात्स तथा । एतादृशो मुनिर्मननशीलं संन्यासी स्थितप्रज्ञ उच्यते । एवंलक्षणं स्थितधीं स्वानुभवप्रकटनेन शिष्यशिक्षार्थमनुद्वेगनिस्पृहत्वादिवाचं प्रभाषेत इत्यन्वय उक्तम् । एवं चान्योऽपि मुमुक्षुर्दुम्खे नोद्विजेत्सुखे न प्रहृष्येत्, रागभयक्रोधरहितश्च भवेदित्यभिप्रायम् ॥५६॥

विश्वनाथम् : किं प्रभाषेतेत्यस्य उत्तरमाह दुम्खेषु क्षुत्पिपासज्वरशिरोरोगादिष्वाध्यात्मिकेषु सर्पव्याघ्राद्युत्थितेष्वनुद्विग्नमनां प्रारब्धं दुम्खमिदं मयावश्यं भोक्तव्यमिति स्वगतं केनचित्पृष्टं सन्स्पष्टं च ब्रुवन। न दुम्खेषूद्विजत इत्यर्थम् । तस्य तादृशमुखविक्रियाभाव एवानुद्वेगलिङ्गं सुधिया गम्यम् । कृत्रिमानुद्वेगलिङ्गवांस्तु कपटी । सुधिया परिचितो भ्रष्ट एवोच्यत इति भावम् । एवं सुखेष्वप्युपस्थितेषु विगतस्पृह इति प्रारब्धमिदमवश्यभोग्यमिति स्वगतं स्पष्टं च ब्रुवाणस्य तस्य सुखस्पृहाराहित्यलिङ्गं सुधिया गम्यमेवेति भावम् । तत्तल्लिङ्गमेव स्पष्टीकृत्य दर्शयति वीतो विगतो रागोऽनुरागं सुखेषु बन्धुजनेषु यस्य सम् । यथैवादिभरतस्य देव्यां पार्श्वं प्रापितस्य स्वच्छेदचिकीर्षोर्वृषलराजान्न भयम् । नापि तत्र क्रोधोऽभूदिति ॥५६॥

बलदेवम् : अथ व्युत्थितं स्थितप्रज्ञं किं भाषेतेत्यस्योत्तरमाह दुम्खेष्विति द्व्याभ्याम् । त्रिविधेष्वध्यात्मिकादिषु दुम्खेषु समुत्थितेषु सत्स्वनुद्विग्नमनां प्रारब्धफलान्यमूनि मयावश्यं भोक्तव्यानीति केनचित्पृष्टं स्वगतं वा ब्रुवन्तेभ्यो नोद्विजत इत्यर्थम् । सुखेषु चोत्तमाहारसत्कारादिना समुपस्थितेषु विगतस्पृहस्तृष्णाशून्यं प्रारब्धाकृष्टान्यमूनि मयावश्यभोक्तव्यानीति केनचित्पृष्टं स्वगतं वा ब्रुवन्तैरुपस्थितं प्रहृष्टमुखो न भवतीत्यर्थम् । वीतेति—वीतरागं कमनीयेषु प्रीतिशून्यम् । वीतभयं विषयापहर्तृषु प्राप्तेषु दुर्लभस्य ममैतानि धर्म्यैर्भवद्भिर्ह्रियन्त इति दैन्यशून्यम् । वीतक्रोधं तेष्वेव प्रबलस्य ममैतानि तुच्छैर्भवद्भिं कथमपहर्तव्यानीति क्रोधशून्यश्च । एवंविधो मुनिरात्ममननशीलं स्थितप्रज्ञ इत्यर्थम् । इत्थं स्वानुभवं परान्प्रति स्वगतं वा वदन्नौद्वेगो निस्पृहतादिवचं प्रभाषते इत्युत्तरम् ॥५६॥

(२.५७)

यं सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥

श्रीधरम् : कथं भाषेत इत्यस्योत्तरमाह य इति । यं सर्वत्र पुत्रमित्रादिष्वप्यनभिस्नेहं स्नेहवर्जितम् । अत एव बाधितानुवृत्त्या तत्तत्शुभमनुकूलं प्राप्य नाभिनन्दति अशुभं प्रतिकूलं प्राप्य न द्वेष्टि न निन्दति । किन्तु केवलमुदासीन एव भाषते । तस्य प्रज्ञा प्रतिष्ठितेत्यर्थम् ॥५७॥

मधुसूदनम् : किं च । सर्वदेहेषु जीवनादिष्वपि यो मुनिरनभिस्नेहम्, यस्मिन्सत्यन्यदीये हानिवृद्धी स्वस्मिन्नारोप्येते स तादृशोऽन्यविषयं प्रेमापरपर्यायस्तामसो वृत्तिविशेषं स्नेहं सर्वप्रकारेण तद्रहितोऽनभिस्नेहम् । भगवति परमात्मनि तु सर्वथाभिस्नेहवान्भवेदेव । अनात्मन्स्नेहाभावस्य तदर्थत्वादिति द्रष्टव्यम् ।

तत्तत्प्रारब्धकर्मपरिप्रापितं शुभं सुखहेतुं विषयं प्राप्य नाभिनन्दति हर्षविशेषपुरम्सरं न प्रशंसति । अशुभं दुम्खहेतुं विषयं प्राप्य न द्वेष्टि अन्तरसूयापूर्वकं न निन्दति । अज्ञस्य हि सुखहेतुर्यं स्वकलत्रादिं स शुभो विषयस्तद्गुणकथनादिप्रवर्तिका धीवृत्तिर्भ्रान्तिरूपाभिनन्दम् । स च तामसम्, तद्गुणकथनादें परप्ररोचनार्थत्वाभावेन व्यर्थत्वात। एवमसूयोत्पादनेन दुम्खहेतुं परकीयविद्याप्रकर्षादिरेनं प्रत्यशुभो विषयस्तन्निन्दादिप्रवर्तिका भ्रान्तिरूपा धीवृत्तिविशेषम् । सोऽपि तामसम् । तन्निन्दाया निवारणार्थत्वाभावेन व्यर्थत्वात। तावभिनन्दद्वेषौ भ्रान्तिरूपौ तामसौ कथमभ्रान्ते शुद्धसत्त्वे स्थितप्रज्ञे सम्भवताम् । तस्माद्विचालकाभावात्तस्यानभिस्नेहस्य हर्षविषादरहितस्य मुनें प्रज्ञा परमात्मतत्त्वविषया प्रतिष्ठिता फलपर्यवसायिनी स स्थितप्रज्ञ इत्यर्थम् । एवमन्योऽपि मुमुक्षुं सर्वत्रानभिस्नेहो भवेत। शुभं प्राप्य न प्रशंसेत्, अशुभं प्राप्य न निन्देदित्यभिप्रायम् । अत्र च निन्दाप्रशंसादिरूपा वाचो न प्रभाषेतेति व्यतिरेक उक्तम् ॥५७॥

विश्वनाथम् : अनभिस्नेहं सोपाधिस्नेहशून्यो दयालुत्वान्निरुपाधिरीषन्मात्रस्नेहस्तु तिष्ठेदेव । तत्तत्प्रसिद्धं सम्मानभोजनादिभ्यं स्वपरिचरणं शुभं प्राप्याशुभमनादरणं मुष्टिप्रहारादिकं च प्राप्य क्रमेण नाभिनन्दति । न प्रशंसति त्वं धार्मिकं परमहंससेवी सुखी भवेति न ब्रूते । न द्वेष्टि त्वं पापात्मा नरके पतेति नाभिशपति । तस्य प्रज्ञा प्रतिष्ठिता समाधिं प्रति स्थिता सुस्थिरप्रज्ञा उच्यत इत्यर्थम् ॥५७॥

बलदेवम् : य इति सर्वेषु प्राणिषु अनभिस्नेह औपाधिकस्नेहशून्यम् । कारुणिकत्वान्निरुपाधिरीषद्स्नेहस्त्वस्त्येव । तत्तत्प्रसिद्धं शुभमुत्तमभोजनस्रक्चन्दनार्पणरूपं प्राप्य नाभिनन्दति तदर्पकं प्रति धर्मिष्ठस्त्वं चिरं जीवेति न वदति । अशुभमपमानं यष्टिप्रहारादिकं च प्राप्य न द्वेष्टि, पापिष्ठस्त्वं मिर्यस्वेति नाभिशपति । तस्य प्रज्ञेति स स्थितप्रज्ञ इत्यर्थम् । अत्र स्तुतिनिन्दारूपं वचो न भाषत इति व्यतिरेकेण तल्लक्षणम् ॥५७॥

(२.५८)

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशम् ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥

श्रीधरम् : किं च यदेति । यदा चायं योगी इन्द्रियार्थेभ्यं शब्दादिभ्यं सकाशादिन्द्रियाणि संहरते सर्वत एवं ज्ञाननिष्ठ इन्द्रियाणीनिद्र्यार्थेभ्यं सर्वविषयेभ्यमुपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता । इत्युक्तार्थं वाक्यम् ॥५८॥

मधुसूदनम् : इदानीं किमासीतेति प्रश्नस्योत्तरं वक्तुमारभते भगवान्षड्भिं श्लोकैम् । तत्र प्रारब्धकर्मवशाद्व्युत्थानेन विक्षिप्तानीन्द्रियाणि पुनरुपसंहृत्य समाध्यर्थमेव स्थितप्रज्ञस्योपवेशनमिति दर्शयितुमाह यदेति । अयं व्युत्थितं सर्वशं सर्वाणीन्द्रियार्थेभ्यं शब्दादिभ्यं सर्वेभ्यम् । चं पुनरर्थे । यदा संहरते पुनरुपसंहरति सङ्कोचयति । तत्र दृष्टान्तं कूर्मोऽङ्गानीव । तदा तस्य प्रज्ञां प्रतिष्ठितेति स्पष्टम् । पूर्वश्लोकाभ्यां व्युत्थानदशायामपि सकलतामसवृत्त्यभाव उक्तम् । अधुना तु पुनं समाध्यवस्थायां सकलवृत्त्यभाव इति विशेषम् ॥५८॥

विश्वनाथम् : किमासीतेत्यस्योत्तरमाह यदेति । इन्द्रियार्थेभ्यं शब्दादिभ्य इन्द्रियाणि श्रोत्रादीनि संहरते । स्वाधीनानामिन्द्रियाणां बाह्यविषयेषु चलनं निषिध्यान्तरेव निश्चलतया स्थापनं स्थितप्रज्ञस्यासनमित्यर्थम् । तत्र दृष्टान्तम् । कूर्मोऽङ्गानि मुखनेत्रादीनि यथा स्वान्तरेव स्वेच्छया स्थापयति ॥५८॥

बलदेवम् : अथ किमासीतेत्यस्योत्तरमाह यदेत्यादिभिं षड्भिर। अयं योगी यदा चेन्द्रियार्थेभ्यं शब्दादिभ्यं स्वाधीनानीन्द्रियाणि श्रोत्रादीन्यनायासेन संहरति समाकर्षति तदा तस्य प्रज्ञा प्रतिष्ठितेत्यन्वयम् । अत्र दृष्टान्तं कूर्मोऽङ्गानीवेति । मुखकरचरणानि यथानायसेन कमठं संहरति तद्वत्विषयेभ्यं समाकृष्टेन्द्रियाणामन्तम्स्थापनं स्थितप्रज्ञस्यासनम् ॥५८॥

(२.५९)

विषया विनिवर्तन्ते निराहारस्य देहिनम् ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥

श्रीधरम् : ननु नेन्द्रियाणां विषयेष्वप्रवृत्तिर्स्थितप्रज्ञस्य लक्षणं भवितुमर्हति । जडानामातुराणामुपवासपराणां च विषयेष्व्प्रवृत्तेरविशेषात। तत्राह विषया इति । इन्द्रियाइर्विषयाणामाहरणं ग्रहणमाहारम् । निराहारस्य इन्द्रियाइर्विषयग्रहणमकुर्वतो देहिनो देहाभिमानिनोऽज्ञस्य रागोऽभिलाषस्तद्वर्जम् । अभिलाषस्य न निवर्तत इत्यर्थम् । यद्वा निराहारस्य उपवासपरस्य विषयां प्रायशो निवर्तन्ते क्षुधासन्तप्तस्य शब्दस्पर्शाद्यपेक्षाभावात्, किन्तु रसवर्जं रसापेक्षा तु न निवर्तत इत्यर्थम् । शेषं समानम् ॥५९॥

मधुसूदनम् : ननु मूढस्यापि रोगादिवशाद्विषयेभ्य इन्द्रियाणामुपसंहरणं भवति तत्कथं तस्य प्रज्ञा प्रतिष्ठितेत्युक्तं ? अत आह विषया इति । निराहारस्य इन्द्रियाइरिन्द्रियाइर्विषयाननाहरतो देहिनो देहाभिमानवतो मूढस्यापि रोगिणं काष्ठतपस्विनो वा विषयां शब्दादयो विनिवर्तन्ते किन्तु रसवर्जं रसतृष्णा तं वर्जयित्वा । अज्ञस्य विषया निवर्तन्ते तद्विषयो रागस्तु न निवर्तत इत्यर्थम् । अस्य तु स्थितप्रज्ञस्य परं पुरुषार्थं दृष्ट्वा तदेवाहमस्मीति साक्षात्कृत्य स्थितस्य रसोऽपि क्षुद्रसुखरागोऽपि निवर्तते । अपिशब्दाद्विषयाश्च । तथा च यावानर्थ इत्यादौ व्याख्यातम् । एवं च सरागविषयनिवृत्तिं स्थितप्रज्ञलक्षणमिति न मूढे व्यभिचार इत्यर्थम् । यस्मान्नासति परमात्मसम्यग्दर्शने सरागविषयोच्छेदस्तस्मात्सरागविषयोच्छेदिकायां सम्यग्दर्शनात्मिकायां प्रज्ञायां स्थैर्यं महता यत्नेन सम्पादयेदित्यभिप्रायम् ॥५९॥

विश्वनाथम् : मूढस्यापि उपवासतो रोगादिवशाद्वेन्द्रियाणां विषयेष्वचलनं सम्भवेत्तत्राह विषया इति । रसवर्जं रसो रागोऽभिलाषस्तं वर्जयित्वा । अभिलाषस्तु विषयेषु न निवर्तन्त इत्यर्थम् । अस्य स्थितप्रज्ञस्य तु परं परमात्मानं दृष्ट्वा विषयेष्वभिलाषो निवर्तत इति न लक्षणव्यभिचारम् । आत्मसाक्षात्कारसमर्थस्य तु साधकत्वमेव, न तु सिद्धत्वमिति भावम् ॥५९॥

बलदेवम् : ननु मूढस्यामयग्रस्तस्य विषयेष्विन्द्रियाप्रवृत्तिदृष्टा तत्कथमेतत्स्थितप्रज्ञस्य लक्षणं तत्राह विषया इति । निराहारस्य रोगभयाद्भोजनादीन्यकुर्वतो मूढस्यापि देहिनो जनस्य विषयास्तदनुभवा विनिवर्तन्ते । किन्तु रसो रागतृष्णा तद्वर्जं विषयतृष्णा तु न निवर्तत इत्यर्थम् । अस्य स्थितप्रज्ञस्य तु रसोऽपि विषयरागोऽपि विषयेभ्यं परं स्वप्रकाशानन्दमात्मानं दृष्ट्वानुभूय निवर्तते विनश्यतीति सरागविषयनिवृत्तिस्तस्य लक्षणमिति न व्यभिचारम् ॥५९॥

(२.६०)

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितम् ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनम् ॥

श्रीधरम् : इन्द्रियसंयमं विना स्थितप्रज्ञता न सम्भवति । अतं साधकावस्थायां तत्र महान्प्रयत्नं कर्तव्य इत्याह यततो ह्यपीति द्वाभ्याम् । यततो मोक्षार्थं प्रयतमानस्य । विपश्चितो विवेकिनोऽपि । मन इन्द्रियाणि प्रसभं बलाद्हरन्ति । यतं प्रमाथीनि प्रमथनशीलानि क्षोभकानीत्यर्थम् ॥६०॥

मधुसूदनम् : तत्र प्रज्ञास्थैर्ये बाह्येन्द्रियनिग्रहो मनोनिग्रहश्चासाधारणं कारणं तदुभयाभावे प्रज्ञानाशदर्शनादिति वक्तुं बाह्येन्द्रियनिग्रहाभावे प्रथमं दोषमाह यतत इति । हे कौन्तेय !

यततो भूयो भूयो विषयदोषदर्शनात्मकं यत्नं कुर्वतोऽपि, चक्षिङो ङित्वकरणादनुदात्तेतोऽनावश्यकमात्मनेपदमिति ज्ञापनात्परस्मैपदमविरुद्धम् । विपश्चितोऽत्यन्तविवेकिनोऽपि पुरुषस्य मनं क्षणमात्रं निर्विकारं कृतमपीन्द्रियाणि हरन्ति विकारं प्रापयन्ति ।

ननु विरोधिनी विवेके सति कुतो विकारप्राप्तिस्तत्राह प्रमाथीनि प्रमथनशीलानि अतिबलीयस्त्वाद्विवेकोपमर्दनक्षमाणि । अतं प्रसभं प्रसह्य बलात्कारेण पश्यत्येव विपश्चिति स्वामिनि विवेके च रक्षके सति सर्वप्रमाथीत्वादेवेन्द्रियाणि विवेकजप्रज्ञायां प्रविष्टं मनस्ततं प्रच्याव्य स्वविषयाविष्टत्वेन हरन्तीत्यर्थम् । हिशब्दं प्रसिद्धिं द्योतयति । प्रसिद्धो ह्ययमर्थो लोके यथा प्रमाथिनो दस्यवं प्रसभमेव धनिनं धनरक्षकं चाभिभूय तयों पश्यतोरेव धनं हरन्ति तथेन्द्रियाण्यपि विषयसन्निधाने मनो हरन्तीति ॥६०॥

विश्वनाथम् : साधकावस्थायां तु यत्न एव महान्, न त्विन्द्रियाणि परावर्तयितुं सर्वथा शक्तिरित्याह यतत इति । प्रमाथीनि प्रमथनशीलानि क्षोभकानीत्यर्थम् ॥६०॥

बलदेवम् : अथास्या ज्ञाननिष्ठया दौर्लभ्यमाह यततो हीति । विपश्चितो विषयात्मस्वरूपविवेकज्ञस्य तत इन्द्रियजये प्रयतमानस्यापि पुरुषस्य इन्द्रियाणि श्रोत्रादीनि कर्त्èणि मनं परसभं बलादिव हरन्ति । हृत्वा विषयप्रवणं कुर्वन्तीत्यर्थम् । ननु विरोधिनि विवेकज्ञाने स्थिते कथं हरन्ति तत्राह प्रमाथीनीति अतिबलिष्ठत्वात्तज्ज्ञानोपमर्दनक्षमाणीत्यर्थम् । तस्मात्चौरेभ्यो महानिधेरिवेन्द्रियेभ्यो ज्ञाननिष्ठायां संरक्षणं स्थितप्रज्ञस्यासनमिति ॥६०॥

(२.६१)

तानि सर्वाणि संयम्य युक्त आसीत मत्परम् ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥

श्रीधरम् : यस्मादेवं तस्मात्तानीति । युक्तो योगी तानि इन्द्रियाणि संयम्य मत्परं सन्नासीत । यस्य वशे वशवर्तिनीन्द्रियाणि । एतेन च कथमासीतेति प्रश्नस्य वशीकृतेन्द्रियं सन्नासीतेति ॥६१॥

मधुसूदनम् : एवं तर्हि तत्र कं प्रतीकार इत्यत आह तानीति । तानीन्द्रियाणि सर्वाणि ज्ञानकर्मसाधनभूतानि संयम्य वशीकृत्य युक्तं समाहितो निगृहीतमनां सन्नासीत निर्वापारस्तिष्ठेत। प्रमाथिनां कथं स्ववशीकरणमिति चेत्तत्राह मत्पर इति । अहं सर्वात्मा वासुदेव एव पर उत्कृष्ट उपादेयो यस्य स मत्पर एकान्तमद्भक्त इत्यर्थम् । तथा चोक्तं न वासुदेवभक्तानामशुभं विद्यते क्वचितिति । यथा हि लोके बलवन्तं राजानमाश्रित्य दस्यवो निगृह्यन्ते राजाश्रितोऽयमिति ज्ञात्वा च स्वयमेव तद्वश्या भवन्ति तथैव भगवन्तं सर्वान्तर्यामिनमाश्रित्य तत्प्रभावेणैव दुष्टानीन्द्रियाणि निग्राह्याणि पुनश्च भगवदाश्रितोऽयमिति मत्वा तानि तद्वश्यान्येव भवन्तीति भावम् । यथा च भगवद्भक्तेर्महाप्रभावत्वं तथा विस्तरेणाग्रे व्याख्यास्यामम् । इन्द्रियवशीकारे फलमाह वशे हीति । स्पष्टम् । तदेतद्वशीकृतेन्द्रियं सन्नासीतेति किमासीतेति प्रश्नस्योत्तरमुक्तं भवति ॥६१॥

विश्वनाथम् : मत्परो मद्भक्त इति । मद्भक्तिं विना नैवेन्द्रियजय इत्यग्रिमग्रन्थेऽपि सर्वत्र द्रष्टव्यम् । यदुक्तमुद्धवेन—

प्रायशं पुण्डरीकाक्ष युञ्जन्तो योगिनो मनम् ।
विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिताम् ।
अथात आनन्ददुघं पदाम्बुजं हंसां श्रयेरन॥ [भा.पु. ११.२९.१२] इति ।

वशे हीति स्थितप्रज्ञस्येन्द्रियाणि वशीभूतानि भवन्तीति साधकाद्विशेष उक्तम् ॥६१॥

बलदेवम् : ननु निर्जितेन्द्रियाणामप्यात्मानुभवो न प्रतीतस्तत्र कोऽभ्युपाय इति चेत्तत्राह तानीति । तानि सर्वाणि संयम्य मत्परो मन्निष्ठं सन्युक्तं कृतामसमाधिरासीत तिष्ठेत । मद्भक्तिप्रभावेन सर्वेन्द्रियविजयपूर्विका स्वात्मदृष्टिं सुलभेति भावम् । एवं स्मरन्ति—


यथाग्निरुद्धतशिखं कक्षं दहति सानिलम् ।
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ [वि.पु. ६.७.७४] इत्यादि ।

वशे हीति स्पष्टम् । इत्थं च वशीकृतेन्द्रियतयावस्थितिं किमासीतेत्यस्योत्तरमुक्तम् ॥६१॥

(२.६२६३)

ध्यायतो विषयान्पुंसं सङ्गस्तेषूपजायते ।
सङ्गात्संजायते कामं कामात्क्रोधोऽभिजायते ॥
क्रोधाद्भवति संमोहं संमोहात्स्मृतिविभ्रमम् ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥

श्रीधरम् : बाह्येन्द्रियसंयमाभावे दोषमुक्त्वा मनम्संयमाभावे दोषमाह ध्यायत इति द्वाभ्याम् । गुणबुद्ध्या विषयान्ध्यायतं पुंसं तेषु सङ्ग आसक्तिर्भवति । आसक्त्या च तेषु अधिकं कामो भवति । कामाच्च केनचित्प्रतिहतात्क्रोधो भवति । किं च, क्रोधादिति । क्रोधात्संमोहं कार्याकार्यविवेकाभावम् । ततं शास्त्राचार्योपदिष्टस्मृतेर्विभ्रमो विचलनं भ्रंशम् । ततो बुद्धेश्चेतनाया नाशम् । वृक्षादिष्विवाभिभवम् । ततं प्रणश्यति मृततुल्यो भवति ॥६२६३॥

मधुसूदनम् : निगृहीतबाह्येन्द्रियस्यापि शब्दादीन्विषयान्ध्यायतो मनसा पुनं पुनश्चिन्तयतं पुंसस्तेषु विषयेषु सङ्ग आसङ्गो ममात्यन्तं सुखहेतव एत इत्येवं शोभनाध्यासलक्षणं प्रीतिविशेष उपजायते सङ्गात्सुखहेतुत्वज्ञानलक्षणात्संजायते कामो ममैते भवन्त्विति तृष्णाविशेषम् । तस्मात्कामात्कुतश्चित्प्रतिहन्यमानात्तत्प्रतिघातविषयं क्रोधोऽभिज्वलनात्माभिजायते । क्रोधाद्भवति संमोहं कार्याकार्यविवेकाभावरूपम् । संमोहात्स्मृतिविभ्रमं स्मृतें शास्त्राचार्योपदिष्टार्थानुसन्धानस्य विभ्रमो विचलनं विभ्रंशम् । तस्माच्च स्मृतिभ्रंशाद्बुद्धेरैकात्म्याकारमनोवृत्तेर्नाशो विपरीतभावनोपचयदोषेण प्रतिबन्धादनुत्पत्तिरुत्पन्नायाश्च फलायोग्यत्वेन विलयम् । बुद्धिनाशात्प्रणश्यति तस्याश्च फलभूताया बुद्धेर्विलोपात्प्रणश्यति सर्वपुरुषार्थायोग्यो भवति । यो हि पुरुषार्थायोग्यो जातं स मृत एवेति लोके व्यवह्रियते । अतं प्रणश्यतीत्युक्तम् । यस्मादेवं मनसो निग्रहाभावे निगृहीतबाह्येन्द्रियस्यापि परमानर्थप्राप्तिस्तरमान्महता प्रयत्नेन मनो निगृह्णीयादित्यभिप्रायम् । अतो युक्तमुक्तं तानि सर्वाणि संयम्य युक्त आसीतेति ॥६२६३॥

विश्वनाथम् : स्थितप्रज्ञस्य मनोवशीकार एव बाह्येन्द्रियवशीकारकारणं सर्वथा मनोवशीकाराभावे तु यत्स्यात्तत्शृण्वित्याह ध्यायत इति । सङ्ग आसक्तिम् । आसक्त्या च तेष्वधिकं कामोऽभिलाषम् । कामाच्च केनचित्प्रतिहतात्क्रोधम् । क्रोधात्संमोहं कार्याकार्यविवेकाभावम् । तस्माच्च शास्त्रोपदिष्टस्वार्थस्य स्मृतिनाशम् । तस्माच्च बुद्धें सद्व्यवसायस्य नाशम् । ततं प्रणश्यति संसारकूपे पतति ॥६२६३॥

बलदेवम् : विजितेन्द्रियस्यापि मय्यनिवेशितमनसं पुनरनर्थो दुर्वार इत्याह ध्यायत इति द्व्याभ्याम् । विषयान्शब्दादीन्सुखहेतुत्वबुद्ध्या ध्यायतं पुनं पुनश्चिन्तयतो योगिनस्तेषु सङ्ग आसक्तिर्भवति । सङ्गाद्धेतोस्तेषु कामतृष्णा जायते । कामाच्च केनचित्प्रतिहतात्क्रोधश्चित्तज्वालस्तत्प्रतिघातको भवति । क्रोधात्संमोहं कार्याकार्यविवेकविज्ञानविलोपम् । संमोहात्स्मृतेरिन्द्रियविजयादिप्रयत्नानुसन्धेर्विभ्रमो विभ्रंशम् । स्मृतिभ्रंशाद्बुद्धेरात्मज्ञानार्थकस्याध्यवसायस्य नाशम् । बुद्धिनाशात्प्रणश्यति पुनर्विषयभोगनिमग्नो भवति संसरतीत्यर्थम् । मदनाश्रयणाद्दुर्बलं मनस्तानि स्वविषयैर्योजयन्तीति भावम् । तथा च मनोविजिगीषुणा मदुपासनं विधेयम् ॥६२६३॥

(२.६४)

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥

श्रीधरम् : नन्विन्द्रियाणां विषयप्रवणस्वभावानां निरोद्धुमशक्यत्वादयं दोषो दुष्परिहर इति स्थितप्रज्ञत्वं कथं स्यात्? इत्याशङ्क्याह रागद्वेष इति द्वाभ्याम् । रागद्वेषरहितैं विगतदर्पैरिन्द्रियैं विषयांश्चरन्नुपभुञ्जानोऽपि प्रसादं शान्तिं प्राप्नोति । रागद्वेषराहित्यमेवाह आत्मेति । आत्मनो मनसं वश्यैरिन्द्रियैं विधेयो वशवर्ती आत्मा मनो यस्येति । अनेनैव कथं व्रजेतेत्यस्य चतुर्थप्रश्नस्य स्वाधीनैरिन्द्रियैर्विषयान्गच्छतीत्युत्तरमुक्तं भवति ॥६४॥

मधुसूदनम् : मनसि निगृहीते तु बाह्येन्द्रियनिग्रहाभावेऽपि न दोष इति वदन्किं व्रजेतेत्यस्योत्तरमाहाष्टभिम् । योऽसमाहितचेतां स बाह्येन्द्रियाणि निगृह्यापि रागद्वेषदुष्टेन मनसा विषयांश्चिन्तयन्पुरुषार्थाद्भ्रष्टो भवति । विधेयात्मा तु तुशब्धं पूर्वस्माद्व्यतिरेकार्थम् । वशीकृतान्तम्करणस्तु आत्मवश्यैर्मनोऽधीनैं स्वाधीनैरिति वा रागद्वेषाभ्यां वियुक्तैर्विरहितैरिन्द्रियैं श्रोत्रादिभिर्विषयान्शब्दादीननिषिद्धांश्चरन्नुपलभमानं प्रसादं प्रसन्नातां चित्तस्य स्वच्छतां परमात्मसाक्षात्कारयोग्यतामधिगच्छति । रागद्वेषप्रयुक्तानीन्द्रियाणि दोषहेतुतां प्रतिपद्यन्ते । मनसि स्ववशे तु न रागद्वेषौ । तयोरभावे च न तदधीनेन्द्रियप्रवृत्तिम् । अवर्जनीयतया तु विषयोपलम्भो न दोषमावहतीति न शुद्धिव्याघात इति भावम् ।

एतेन विषयाणां स्मरणमपि चेदनर्थकारणं सुतरां तर्हि भोगस्तेन जीवनार्थं विषयान्भुञ्जानं कथमनर्थं न प्रतिपद्येतेति शङ्का निरस्ता । स्वाधीनैरिन्द्रियैर्विषयान्प्राप्नोतीति च किं व्रजेतेति प्रश्नस्योत्तरमुक्तं भवति ॥६४॥

विश्वनाथम् : मानसविषयग्रहणाभावे सति स्ववश्यैरिन्द्रियैर्विषयग्रहणेऽपि न दोष इति वदन्स्थितप्रज्ञो व्रजेत किमित्यस्योत्तरमाह रागेति । विधेयो वचने स्थ्त आत्मा मनो यस्य सम् ।

    विधेयो विनयग्राही वचने स्थित आश्रवम् ।
    वश्यं प्रणयो निभृतविनीतप्रश्रिताम् ॥ इत्यमरम् ।

प्रसादमधिगच्छतीत्येतादृशस्याधिकारिणो विषयग्रहणमपि न दोष इति किं वक्तव्यं ? प्रत्युत गुण एवेति । स्थितप्रज्ञस्य विषयत्यागस्वीकारावेव आसनव्रजने ते उभे अपि तस्य भद्रे इति भावम् ॥६४॥

बलदेवम् : मनसि निर्जिते श्रोत्रादिनिर्जयाभावोऽपि न दोष इति ब्रुवन्व्रजेत किमित्यसोत्तरमाह रागेति आदिभिरष्टभिम् । विजितबहिरिन्द्रियोऽपि मदनर्पितमनां परमार्थाद्विच्युत इत्युक्तम् । यो विधेयात्मा स्वाधीनमना मदर्पितमनास्तत एव निदग्धरागादिमनोमलं स त्वात्मवश्यैर्मनोऽधीनैरत एव रागद्वेषाभ्यां वियुक्तैरिन्द्रियैं श्रोत्राद्यैर्विषयान्निषिद्धान्शब्दादींश्चरन्भुञ्जानोऽपि प्रसादं विषयासक्त्यादिमलानागमाद्विमलमनस्तमधिगच्छतीत्य्प्राप्नोतीत्यर्थम् ॥६४॥

(२.६५)

प्रसादे सर्वदुम्खानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिं पर्यवतिष्ठते ॥

श्रीधरम् : प्रसादे सति किं स्यादित्यत्राह प्रसाद इति । प्रसादे सति सर्वदुम्खनाशम् । ततश्च प्रसन्नचेतसो बुद्धिं प्रतिष्ठिता भवतीत्यर्थम् ॥६५॥

मधुसूदनम् : प्रसादमधिगच्छतीत्युक्तं तत्र प्रसादे सति किं स्यादित्युच्यते प्रसाद इति । चित्तस्य प्रसादे स्वच्छत्वरूपे सति सर्वदुम्खानामाध्यात्मिकादीनामज्ञानविलसितानां हानिर्विनाशोऽस्य यतेरुपजायते । हि यस्मात्प्रसन्नचेतसो यतेराशु शीघ्रमेव बुद्धिर्ब्रह्मात्मैक्याकारा पर्यवतिष्ठते परि समन्तादवतिष्ठते स्थिरा भवति विपरीतभावनादिप्रतिबन्धाभावात। ततश्च प्रसादे सति बुद्धिपर्यवस्थानं ततस्तद्विरोध्यज्ञाननिवृत्तिम् । ततस्तत्कार्यसकलदुम्खहानिरिति क्रमेऽपि प्रसादे यत्राधिक्याय सर्वदुम्खहानिकरत्वकथनमिति न विरोधम् ॥६५॥

विश्वनाथम् : बुद्धिं पर्यवतिष्ठते सर्वतोभावेन स्वाभीष्टंप्रति स्थिरीभवतीति विषयग्रहणाभावादपि समुचितविषयग्रहणं तस्य सुखमिति भावम् । प्रसन्नचेतसो इति चित्तप्रसादो भक्त्यैवेति ज्ञेयम् । तया विना तु न चित्तप्रसाद इति प्रथमस्कन्ध एव प्रपञ्चितम् । कृतवेदान्तशास्त्रस्यापि व्यासस्याप्रसन्नचित्तस्य श्रीनारदोपदिष्टया भक्त्यैव चित्तप्रसाददृष्टेम् ॥६५॥

बलदेवम् : प्रसादे सति किं स्यादित्याह अस्य योगिनो मनं प्रसादे सति सर्वेषां प्रकृतिसंसर्गकृतानां दुम्खानां हानिरुपजायते । प्रसन्नचेतसं स्वात्मयाथात्म्यविषया बुद्धिं पर्यवतिष्ठते स्थिरा भवति ॥६५॥

(२.६६)

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतं शान्तिरशान्तस्य कुतं सुखम् ॥

श्रीधरम् : इन्द्रियनिग्रहस्य स्थितप्रज्ञतासाधनत्वं व्यतिरेकमुखेनोपपादयति नास्तीति । अयुक्तस्य अवशीकृतेन्द्रियस्य नास्ति बुद्धिम् । शास्त्राचार्योपदेशाभ्यामात्मविषया बुद्धिं प्रज्ञैव नोत्पद्यते । कुतस्तस्यां प्रतिष्ठावार्ता । कुत इत्यत्राह न चेति । न चायुक्तस्य भावना ध्यानम् । भावनया हि बुद्धेरात्मनि प्रतिष्ठा भवति, सा च अयुक्तस्य यतो नास्ति । न चाभावयतमात्मध्यानमकुर्वतं शान्तिमात्मनि चित्तोपरमम् । अशान्तस्य कुतं सुखं मोक्षानन्द इत्यर्थम् ॥६६॥

मधुसूदनम् : इममेवार्थं व्यतिरेकमुखेन द्रढयति नास्तीति । अयुक्तस्याजितचित्तस्य बुद्धिरात्मविषया श्रवणमननाख्यवेदान्तविचारजन्या नास्ति नोत्पद्यते । तद्बुद्ध्यभावे न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहरूपा । सर्वत्र नञोऽस्तीत्यनेनान्वयम् । न चाभावयत आत्मानं शान्तिं सकार्याविद्यानिवृत्तिरूपा वेदान्तवाक्यजन्या ब्रह्मात्मैक्यसाक्षात्कृतिम् । अशान्तस्यात्मसाक्षात्कारशून्यस्य कुतं सुखं मोक्षानन्द इत्यर्थम् ॥६६॥

विश्वनाथम् : उक्तमर्थं व्यतिरेकमुखेन द्रढयति नास्तीति । अयुक्तस्यावशीकृतमनसो बुद्धिरात्मविषयिणी प्रज्ञा नास्ति । अयुक्तस्य तादृशप्रज्ञारहितस्य भावना परमेश्वरध्यानं च । अभावयतोऽकृतध्यानस्य शान्तिर्विषयोपरमो नास्ति । अशान्तस्य सुखमात्मानन्दम् ॥६६॥

बलदेवम् : पूर्वोक्तमर्थं व्यतिरेकमुखेनाह अयुक्तस्यायोगिनो मदनिवेशितमनसो बुद्धिरुक्तलक्षणा नास्ति न भवति । अत एव तस्य भावना तादृगात्मचिन्तापि नास्ति । तादृशमात्मानमभावयतं शान्तिर्विषयतृष्णानिवृत्तिर्नास्ति । अशान्तस्य तत्तृष्णाकुलस्य सुखं स्वप्रकाशानन्दात्मानुभवलक्षणं कुतं स्यात॥६६॥

(२.६७)

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥

श्रीधरम् : नास्ति बुद्धिरयुक्तस्य [गीता २.६६] इत्यत्र हेतुमाह इन्द्रियाणामिति । इन्द्रियाणामवशीकृतानां स्वैरं विषयेषु चरतां मध्ये यदैवैकमिन्द्रियं मनोऽनुविधीयते ।वशीकृतं सदिन्द्रियेण सह गच्छति, तदैवैकमिन्द्रियस्य मनसं पुरुषस्य वा प्रज्ञां बुद्धिं हरति विषयविक्षिप्तां करोति । किमुत वक्तव्यं बहूनि प्रज्ञां हरन्तीति । यथा प्रमत्तस्य कर्णधारस्य नावं वायुं सर्वतं परिभ्रमयति तद्वदिति ॥६७॥

मधुसूदनम् : अयुक्तस्य कुतो नास्ति बुद्धिरित्यत आह इन्द्रियाणामिति । चरतां स्वविषयेषु स्वस्वविषयेषु प्रवर्तमानानामवशीकृतानामिन्द्रियाणां मध्ये यदेकमपीन्द्रियमनुलक्ष्यीकृत्य मनो विधीयते प्रेर्यते प्रवर्तते इति यावत। कर्मकर्तरि लकारम् । ततिन्द्रियमेकमपि मनसानुसृतमस्य साधकस्य मनसो वा प्रज्ञामात्मविषयां शास्त्रीयां हरति अपनयति मनसस्तद्विषयाविष्टत्वात। यदैकमपीन्द्रियं प्रज्ञां हरति तदा सर्वाणि हरन्तीति किमु वक्तव्यमित्यर्थम् ।

दृष्टान्तस्तु स्पष्टम् । अभ्यस्येति वायोर्नौकाहरणसामर्थ्यं न भुवीति सूचयितुमम्भसीत्युक्तम् । एवं दार्ष्टान्तिकेऽप्यम्भम्स्थानीये मनश्चाञ्चल्ये सत्येव प्रज्ञाहरणसामर्थ्यमिन्द्रियस्य न तु भूस्थानीये मनम्स्थैर्य इति सूचितम् ॥६७॥

विश्वनाथम् : अयुक्तस्य बुद्धिर्नास्तीत्युपपादयति इन्द्रियाणां स्वस्वविषयेषु चरतां मध्ये यन्मम एकमिन्द्रियमनुविधीयते । पुंसां सर्वेन्द्रियानुवर्तिं क्रियते, तदेव मनोऽस्य प्रज्ञां बुद्धिं हरति । यथाम्भसि नीयमानां नावं प्रतिकूलो वायुम् ॥६७॥

बलदेवम् : मन्निवेशितमनस्कतयेइन्द्रियनियमनाभावे दोषमाह इन्द्रियाणामिति । विषयेषु चरतामविजितानामिन्द्रियाणां मध्ये यदेकं श्रोत्रं वा चक्षुर्वानुलक्ष्यीकृत्य मनो विधीयते प्रवर्तते, तदेकमेवेन्द्रियं मनसानुगतमस्य प्रवर्तकस्य प्रज्ञां विविक्तात्मविषयां हरत्यपनयति मनससस्तद्विषयाकृष्टत्वात। किं पुनं ? सर्वाणि तानीति । प्रतिकूलो वायुर्यथाम्भसि नीयमानां नावं तद्वत॥६७॥

(२.६८)

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशम् ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥

श्रीधरम् : इन्द्रियसंयमस्य स्थितप्रज्ञत्वे साधनत्वं चोक्तमुपसंहरति तस्मादिति । साधनत्वोपसंहारे तस्य प्रज्ञा प्रतिष्ठिता ज्ञातव्येत्यर्थम् । महाबाहो ! इति सम्बोधयन्वैरिनिग्रहे समर्थस्य तवात्रापि सामर्थ्यं भवेदिति सूचयति ॥६८॥

मधुसूदनम् : हि यस्मादेवं तस्मादिति । सर्वशं सर्वाणि समनस्कानि । हे महाबाहो इति सम्बोधयन्सर्वशत्रुनिवारणक्षमत्वादिन्द्रियशत्रुनिवारणेऽपि त्वं क्षमोऽसीति सूचयति । स्पष्टमन्यत। तस्येति सिद्धस्य साधकस्य च परामर्शम् । इन्द्रियसंयमस्य स्थितप्रज्ञं प्रति लक्षणत्वस्य मुमुक्षुं प्रति प्रज्ञासाधनत्वस्य चोपसंहरणीयत्वात॥६८॥

विश्वनाथम् : यस्य निगृहीतमनसम् । हे महाबाहो ! इति यथा शत्रून्निगृह्णासि, तथा मनोऽपि निगृहाणेति भावम् ॥६८॥

बलदेवम् : तस्मादिति । यस्य मन्निष्ठमनसं प्रतिष्ठितात्मनिष्ठा भवति । हे महाबाहो इति यथा रिपून्निगृह्णासि तथेन्द्रियाणि निगृहाणेत्यर्थम् । एभिं श्लोकैर्भगवन्निविष्टतयेन्द्रियविजयं स्थितप्रज्ञस्य सिद्धस्य स्वाभाविकम् । साधकस्य तु साधनभूत इति बोध्यम् ॥६८॥

(२.६९)

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेम् ॥

श्रीधरम् : ननु न कश्चिदपि प्रसुप्त इव दर्शनादिव्यापारशून्यं सर्वात्मना निगृहीतेन्द्रियो लोके दृश्यते । अतोऽसक्तावितमिदं लक्षणमित्याशङ्क्याह या निशेति । सर्वेषां भूतानां या निशा । निशेव निशा आत्मनिष्ठा । अज्ञानध्वान्तावृतमतीनां तस्यां दर्शनादिव्यापाराभावात। तस्यामात्मनिष्ठायां संयमी निगृहीतेन्द्रियो जाग्रति प्रबुध्यन्ते । सात्मतत्त्वं पश्यतो मुनेर्निशा । तस्यां दर्शनादिव्यापारस्तस्य नास्ति इत्यर्थम् । एतदुक्तं भवति—यथा दिवान्धानामुलुकादीनां रात्रावेव दर्शनं न तु दिवसे । एवं ब्रह्मज्ञस्योन्मीलिताक्षस्यापि ब्रह्मण्येव दृष्टिम् । न तु विषयेषु । अतो नासम्भावितमिदं लक्षणमिति ॥६९॥

मधुसूदनम् : तदेवं मुमुक्षुणा प्रज्ञास्थैर्याय प्रयत्नपूर्वकमिन्द्रियसंयमं कर्तव्य इत्युक्तं स्थितप्रज्ञस्य तु स्वतं सिद्ध एव सर्वेन्द्रियसंयम इत्याह या निशेति । या वेदान्तवाक्यजनितसाक्षात्काररूपाहं ब्रह्मास्मीति  प्रज्ञा सर्वभूतानामज्ञानां निशेव निशा तान्प्रत्यप्रकाशरूपत्वात। तस्यां ब्रह्मविद्यालक्षणायां सर्वभूतनिशायां जागर्ति अज्ञाननिद्रायां प्रबुद्धं सन्सावधानो वर्तते संयमीन्द्रियसंयमवान्स्थितप्रज्ञ इत्यर्थम् । यस्यां तु द्वैतदर्शनलक्षणायामविद्यानिद्रायां प्रसुप्तान्येव भूतानि जाग्रति स्वप्नवद्व्यवहरन्ति सा निशा न प्रकाशत आत्मतत्त्वं पश्यतोऽपरोक्षतया मुनें स्थितप्रज्ञस्य । यावद्धि न प्रबुध्यते तावदेव स्वप्नदर्शनं बोध्यपर्यन्तत्वाद्भ्रमस्य तत्त्वज्ञानकाले तु न भ्रमनिमित्तं कश्चिद्व्यवहारम् । तदुक्तं वार्तिककारैम्—

कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यन्ते ।
शुद्धे वस्तुनि सिद्धे च कारकव्यापृतिस्तथा ॥
काकोलूकनिशेवायं संसारोऽज्ञात्मवेदिनोम् ।
या निशा सर्वभूतानामित्यवोचत्स्वयं हरिम् ॥ इति ।

तथा च यस्य विपरीतदर्शनं तस्य न वस्तुदर्शनं विपरीतदर्शनस्य वस्त्वदर्शनजन्यत्वात। यस्य च वस्तुदर्शनं तस्य न विपरीतदर्शनं विपरीतदर्शनकारणस्य वस्त्वदर्शनस्य वस्तुदर्शनेन बाधितत्वात। तथा च श्रुतिम्—यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत। यत्र स्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत॥ इति विद्याविद्ययोर्व्यवस्थामाह । यथा काकस्य रात्र्यन्धस्य दिनमुलूकस्य दिवान्धस्य निशा रात्रौ पश्यतश्चोलूकस्य यद्दिनं रात्रिरेव सा काकस्येति महदाश्चर्यमेतत। अतस्तत्त्वदर्शिभिं कथमाविद्यकक्रियाकारकादिव्यवहारं स्यादिति स्वतं सिद्ध एव तस्येन्द्रियसंयम इत्यर्थम् ॥६९॥

विश्वनाथम् : स्थितप्रज्ञस्य तु स्वतम्सिद्ध एव सर्वेन्द्रियनिग्रह इत्याह येति । बुद्धिर्हि द्विविधा भवति आत्मप्रवणा विषयप्रवणा च । तत्र या आत्मप्रवणा बुद्धिं सा सर्वभूतानां निशा । निशायां किं किं स्यादिति तस्यां स्वपन्तो जना यथा न जानन्ति, तथैव आत्मप्रवणबुद्धौ प्राप्यमाणं वस्तु सर्वभूतानि न जानन्ति । किन्तु तस्यां संयमी स्थितप्रज्ञो जागर्ति । न तु स्वपिति । अत आत्मबुद्धिनिष्ठमानन्दं साक्षादनुभवति । यस्यां विषयप्रवणायां बुद्धौ भूतानि जाग्रति, तन्निष्ठं विषयसुखशोकमोहादिकं साक्षादनुभवन्ति न तु तत्र स्वपन्ति । सा मुनें स्थितप्रज्ञस्य निशा तन्निष्ठं किमपि नानुभवति इत्यर्थम् । किन्तु पश्यतं सांसारिकानां सुखदुम्खप्रदान्विषयान्तत्रौदासीन्येनावलोकयतं स्वभोग्यान्विषयानपि यथोचितं निर्लेपमाददानस्येत्यर्थम् ॥६९॥

बलदेवम् : साधकावस्थस्य स्थितप्रज्ञस्येन्द्रियसंयमं प्रयत्नसाध्य इत्युक्तम् । सिद्धावस्थस्य तु तस्य तन्नियमं स्वाभाविक इत्याह या निशेति । विविक्तात्मनिष्ठा विषयनिष्ठा चेति बुद्धिर्द्विविधा । यात्मनिष्ठा बुद्धिं सर्वभूतानां निशारूपकेणोपमात्र व्यज्यते रात्रितुल्या तद्वदप्रकाशिका । रात्राविवात्मनिष्ठायां बुद्धौ स्वपन्तो जनास्तल्लभ्यमात्मानं सर्वे नानुभवन्तीत्यर्थम् । संयमी जितेन्द्रियस्तु तस्यां जागर्ति न तु स्वपिति । तया लभ्यमात्मानमनुभवतीत्यर्थम् । यस्यां विष्यनिष्ठायां बुद्धौ भूतानिओ जाग्रति विषयभोगाननुभवन्ति न तु तत्र स्वपन्ति सा मुनें स्थितप्रज्ञस्य निशा । तस्य विषयभोगाप्रकाशिकेत्यर्थम् । कीदृशस्येत्याह पश्यत इति । आत्मानं साक्षादनुभवतं प्रारब्धऽकृष्टान्विषयानप्यौदासीन्येन भुञ्जानस्य चेत्यर्थम् । नर्तकीमूर्धघटावधानन्यायेनात्मदृष्टेर्न तदन्यरसग्रह इति भावम् ॥६९॥

(२.७०)

आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापं प्रविशन्ति यद्वत।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥७०॥

श्रीधरम् : ननु विषयेषु दृष्ट्यभावे कथमसौ तान्भुङ्क्ते इत्यपेक्षायामाह आपूर्यमाणमिति । नानानदनदीन्भिरापूर्यमाणमपि अचलप्रतिष्ठमनतिक्रान्तमर्यादमेव समुद्रं पुनरपि अन्या आपो यथा प्रविशन्ति तथा कामा विषया यं मुनिमन्तर्दृष्टिं भोगैरविक्रियमाणमेव प्रारब्धकर्मभिराक्षिप्तां सन्तं प्रविशन्ति स शान्तिं कैवल्यं प्राप्नोति । न तु कामकामी भोगकामनाशीलम् ॥७०॥

मधुसूदनम् : एतादृशस्य स्थितप्रज्ञस्य सर्वविक्षेपशान्तिरप्यर्थसिद्धेति सदृष्टान्तमाह आपूर्यमाणमिति । सर्वाभिर्नदीभिरापूर्यमाणं सन्तं वृष्ट्यादिप्रभवा अपि सर्वा आपं समुद्रं प्रविशन्ति । कीदृशमचलप्रतिष्ठमनतिक्रान्तमर्यादम् । अचलानां मैनाकादीनां प्रतिष्ठा यस्मिन्निति वा गाम्भीर्यातिशय उक्तम् । यद्वद्येन प्रकारेण निर्विकारत्वेन तद्वत्तेनैव निर्विकारत्वप्रकारेण यं स्थितप्रज्ञं निर्विकारमेव सन्तं कामा अज्ञैर्लोकैं काम्यमानां शब्दाद्यां सर्वे विषया अवर्जनीयतया प्रारब्धकर्मवशात्प्रविशन्ति न तु विकर्तुं शक्नुवन्ति स महासमुद्रस्थानीयं स्थितप्रज्ञं शान्तिं सर्वलौकिकालौकिककर्मविक्षेपनिवृत्तिं बाधितानुवृत्ताविद्याकार्यनिवृत्तिं चाप्नोति ज्ञानबलेन । न कामकामी कामान्विषयान्कामयितुं शीलं यस्य स कामकाम्यज्ञं शान्तिं समाख्यातां नाप्नोति । अपि तु सर्वदा लौकिकालौकिककर्मविक्षेपेण महति क्लेशार्णवे मग्नो भवतीति वाक्यार्थम् । एतेन ज्ञानिन एव फलभूतो विद्वत्संन्यासस्तस्यैव च सर्वविक्षेपनिवृत्तिरूपा जीवन्मुक्तिर्दैवाद्ध्नीनविषयभोगेऽपि निर्विकारतेत्यादिकमुक्तं वेदितव्यम् ॥७०॥

विश्वनाथम् : विषयग्रहणे क्षोभराहित्यमेव निर्लेपेत्याह आपूर्यमाणमिति । यथा वर्षासु इतस्ततं नादेया आपं समुद्रं प्रविशन्ति कीदृशम् । आ ईषदपि आपूर्यमाणं तावतीभिरप्यद्भिं पूरयितुं न शक्यम् । अचलप्रतिष्ठमनतिक्रान्तमर्यादं तद्वदेव कामा विषया यं प्रविशन्ति भोग्यत्वेनायान्ति । यथा अपां प्रवेशे अप्रवेशे वा समुद्रो न कमपि विशेषमापद्यते । एवमेव यं कामानां भोगे अभोगे च क्षोभरहित एव स्यात्स स्थितप्रज्ञम् । शान्तिं ज्ञानम् ॥७०॥

बलदेवम् : उक्तं भावं स्फुटयन्नाह आपूर्येति । स्वरूपेणैवापूर्यमाणं तथाप्यचलप्रतिष्ठमनुल्लङ्घितवेलं समुद्रं यथापोऽन्या वर्षोद्भवा नद्यं प्रविशन्ति, न तु तत्र किञ्चिद्विशेषं शक्नुवन्ति कर्तुं, तद्वत्सर्वे कामां प्रारब्धाकृष्टा विषया यं प्रविशन्ति न तु विकर्तुं प्रभवन्ति स शान्तिमाप्नोति । शब्दादिषु तदिन्द्रियगोचरेष्वपि सत्स्वात्मानन्दानुभवतृप्तैर्विकारलेशमप्यविन्दन्स्थितप्रज्ञ इत्यर्थम् । यं कामकामी विषयलिप्सुं स तूक्तलक्षणां शान्तिं नाप्नोति ॥७०॥

(२.७१)

विहाय कामान्यं सर्वान्पुमांश्चरति निम्स्पृहम् ।
निर्ममो निरहंकारं स शान्तिमधिगच्छति ॥

श्रीधरम् : यस्मादेवं तस्मात्विहायेति । प्राप्तान्कामान्विहाय त्यक्त्वोपेक्ष्य अप्राप्तेषु च निम्स्पृहं यतो निरहङ्कारोऽतएव तद्भोगसाधनेषु निर्ममं सन्नन्तर्दृष्टिर्भूत्वा यश्चरति प्रारब्धवशेन भोगान्भुङ्क्ते । यत्र कुत्रापि गच्छति वा । स शान्तिं प्राप्नोति ॥७१॥

मधुसूदनम् : यस्मादेवं तस्मात्विहायेति । प्राप्तानपि सर्वान्बाह्यान्गृहक्षेत्रादीनान्तरान्मनोराज्यरूपान्वासनामात्ररूपांश्च पथि गच्छंस्तृणस्पर्शरूपान्कामांस्त्रिविधान्विहायोपेक्ष्य शरीरजीवनमात्रेऽपि निस्पृहं सन। यतो निरहङ्कार शरीरेन्द्रियादावयमहमित्यभिमानशून्यम् । विद्यावत्त्वादिनिमित्तात्मसम्भावनारहित इति वा । अतो निर्ममं शरीरयात्रामात्रार्थेऽपि प्रारब्धकर्माक्षिप्ते कौपीनाच्छादनादौ ममेदमित्यभिमानवर्जितं सन्यं पुमांश्चरति प्रारब्धकर्मवशेन भोगान्भुङ्क्ते यादृच्छिकतया यत्र क्वापि गच्छतीति वा । स एवंभूतं स्थितप्रज्ञं शान्तिं सर्वसंसारदुम्खोपरमलक्षणामविद्यातत्कार्यनिवृत्तिमधिगच्छति ज्ञानबलेन प्राप्नोति । तदेतदीदृशं व्रजनं स्थितप्रज्ञस्येति चतुर्थप्रश्नस्योत्तरं परिसमाप्तम् ॥७१॥

विश्वनाथम् : कश्चित्तु कामेषु अविश्वसन्नैव तान्भुङ्क्ते इत्याह । विहायेति निरहङ्कारो निर्मम इति देहदैहिकेषु अहंताममताशून्यम् ॥७१॥

बलदेवम् : विहायेति । प्राप्तान्कामान्विषयान्सर्वान्विहाय शरीरोपजीवनमात्रेऽपि निर्ममो मम्ताशून्यं निरहङ्कारोऽनात्मनि शरीरे आत्माभिमानशून्यश्चरति तदुपजीवनमात्रं भक्षयति यत्र क्वापि गच्छति वा स शान्तिं लभते इति व्रजेत किमित्यस्योत्तरम् ॥७१॥

(२.७२)

एषा ब्राह्मी स्थितिं पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणं ऋच्छति ॥

श्रीधरम् : उक्तां ज्ञाननिष्ठां स्तुवन्नुपसंहरति एषेति । ब्राह्मी स्थितिर्ब्रह्मज्ञाननिष्ठा । एषैवंविधा । एनां परमेश्वराराधनेन विशुद्धान्तम्करणं पुमान्प्राप्य न विमुह्यति । पुनं संसारमोहं न प्राप्नोति । यतोऽन्तकाले मृत्युसमयेऽप्यस्यां लक्षमात्रमपि स्थित्वा ब्रह्मनिर्वाणं ब्रह्मणि निर्वाणं लयं ऋच्छति प्राप्नोति । किं पुनर्वक्तव्यं बाल्यमारभ्य स्थित्वा प्राप्नोतीति ॥७२॥

शोकपङ्कनिमग्नं यं साङ्ख्ययोगोपदेशतम् ।
उज्जहारार्जुनं भक्तं स कृष्णशरणं मम ॥

इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां
द्वितीयोऽध्यायम्
॥२॥

मधुसूदनम् : तदेवं चतुर्णां प्रश्नानामुत्तरव्याजेन सर्वाणि स्थितप्रज्ञलक्षणानि मुमुक्षुकर्तव्यतया कथितानि । सम्प्रति कर्मयोगफलभूतां साङ्ख्यनिष्ठां स्तुवन्नुपसंहरति एषेति । एषा स्थितप्रज्ञलक्षणव्याजेन कथिता । एषा तेऽभिहिता साङ्ख्ये बुद्धिरिति च प्रागुक्ता स्थितिर्निष्ठा सर्वकर्मसंन्यासपूर्वकपरमात्मज्ञानलक्षणा ब्राह्मी ब्रह्मविषया । हे पार्थ ! एनां स्थितिं प्राप्य यं कश्चिदपि प्नर्न विमुह्यति । न हि ज्ञानबाधितस्याज्ञानस्य पुनं सम्भवोऽस्ति अनादित्वेनोत्पत्त्यसम्भवात। अस्यां स्थितावन्तकालेऽपि अन्त्येऽपि वायसि स्थित्वा ब्रह्मनिर्वाणं ब्रह्मणि निर्वाणं निर्वृत्तिं ब्रह्मरूपं निर्वाणमिति वा । ऋच्छति गच्छत्यभेदेन । किमु वक्तव्यं यो ब्रमचर्यादेव संन्यस्य यावज्जीवमस्यां ब्राह्म्यां स्थिताववतिष्ठते स ब्रह्मनिर्वाणं ऋच्छतीत्यपिशब्दार्थम् ॥७२॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां सर्वगीतार्थसूत्रणं नाम
द्वितीयोऽध्यायम् ॥२॥

विश्वनाथम् : उपसंहरति एषेति । ब्राह्मी ब्रह्मप्रापिका । अन्तकाले मृत्युसमयेऽपि । किं पुनराबाल्यम् ॥७२॥

ज्ञानं कर्म च विस्पष्टमस्पष्टं भक्तिमुक्तवान।
अतएवायमध्यायं श्रीगीतासूत्रमुच्यते ॥
इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् ।
श्रीगीतासु द्वितीयोऽयं सङ्गतं सङ्गतं सताम् ॥२॥

बलदेवम् : स्थितप्रज्ञतां स्तौति एषेति । ब्राह्मी ब्रह्मप्रापिका । अन्तकाले चरमे वयसि । किं पुनराकौमारं ब्रह्म ऋच्छति लभते । निर्वाणममृतरूपं तत्प्रदमित्यर्थम् । ननु तस्यां स्थितं कथं ब्रह्म प्राप्नोति । तत्प्राप्तेस्तद्भक्तिहेतुकत्वादिति चेदुच्यते । तस्यास्तद्भक्तिहेतुकत्वात्तद्भक्तिहेतुत्वाच्च तत्प्रापकतेति ॥७२॥

निष्कामकर्मभिर्ज्ञानी हरिमेव स्मरन्भवेत।
अन्यथा विघ्न एवेति द्वितीयोऽध्यायनिर्णयम् ॥

इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये द्वितीयोऽध्यायम् ।
॥२॥

 

 


 

 

अथ तृतीयोऽध्यायम्

(३.१)

अर्जुन उवाच—
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥

श्रीधरम् :

साङ्ख्ये योगे च वैषम्यं मत्वा मुग्धाय जिष्णवे ।
तयोर्भेदनिरासाय कर्मयोगे उदीर्यते ॥

एवं तावदशोच्यानन्वशोचस्त्वं [गीता २.११] इत्यादिना प्रथमं मोक्षसाधनत्वेन देहात्मविवेकबुद्धिरुक्ता । तदनन्तरमेषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु [गीता २.३९] इत्यादिना कर्म चोक्तम् । न च तयोर्गुणप्रधानभावं स्पष्टं दर्शितम् । तत्र बुद्धियुक्तस्य स्थितप्रज्ञस्य निष्कामत्वनियतेन्द्रियत्वनिरहङ्कारत्वाद्यभिधानादेषा ब्राह्मी स्थितिं पार्थ [गीता २.७२] इति सप्रशंसमुपसंहाराच्च बुद्धिकर्मणोर्मध्ये बुद्धें श्रेष्ठत्वं भगवतोऽभिप्रेतं मन्वानोऽर्जुन उवाच ज्यायसी चेदिति । कर्मणं सकाशात्मोक्षान्तरङ्गत्वेन बुद्धिर्ज्यायसी अधिकतरा श्रेष्ठा चेत्तव संमता तर्हि किमर्थं तस्माद्युध्यस्वेति तस्मादुत्तिष्टेति च वारं वारं वदन्घोरे हिंसात्मके कर्मणि मां नियोजयसि प्रवर्तयसि ॥१॥

मधुसूदनम् : एवं तावत्प्रथमेनाध्यायेनोपोद्घातितो द्वितीयेनाध्यायेन कृत्स्नं शास्त्रार्थं सूत्रितम् । तथा हि—आदौ निष्कामकर्मनिष्ठा । ततोऽन्तम्करणशुद्धिम् । ततं शमदमादिसाधनपुरम्सरं सर्वकर्मसंन्यासम् । ततो वेदान्तवाक्यविचारसहिता भगवद्भक्तिनिष्ठा । ततस्तत्त्वज्ञाननिष्ठा तस्यां फलं च त्रिगुणात्मकाविद्यानिवृत्त्या जीवन्मुक्तिं प्रारब्धकर्मफलभोगपर्यन्तं तदन्ते च विदेहमुक्तिम् । जीवन्मुक्तिदशायां च परमपुरुषार्थालम्बनेन परवैराग्यप्राप्तिर्दैवसम्पदाख्या च शुभवासना तदुपकारिण्यादेया । आसुरसम्पदस्तु राजसी तामसी चेति हेयोपादेयविभागेन कृत्स्नशास्त्रार्थपरिसमाप्तिम् ।

तत्र योगस्थं कुरु कर्माणि [गीता २.४८] इत्यादिना सूत्रिता सत्त्वशुद्धिसाधनभूता निष्कामकर्मनिष्ठा सामान्यविशेषरूपेण तृतीयचतुर्थाभ्यां प्रपञ्च्यते । ततं शुद्धान्तम्करणस्य शमदमादिसाधनसम्पत्तिपुरम्सरा विहाय कामान्यं सर्वान्[गीता २.७१] इत्यादिना सूत्रिता सर्वकर्मसंन्यासनिष्ठा सङ्क्षेपविस्तररूपेण पञ्चमषष्ठाभ्याम् । एतावता च त्वंपदार्थोऽपि निरूपितम् । ततो वेदान्तवाक्यविचारसहिता युक्त आसीत मत्परं [गीता २.६१] इत्यादिना सूत्रितानेकप्रकारा भगवद्भक्तिनिष्ठाध्यायषट्केन प्रतिपाद्यते । तावता च तत्पदार्थोऽपि निरूपितम् । प्रत्यध्यायं चावान्तरसङ्गतिमवान्तरप्रयोजनभेदं च तत्र तत्र प्रदर्शयिष्यामम् । ततस्तत्त्वंपदार्थैक्यज्ञानरूपा वेदाविनाशिनं नित्यं [गीता २.२१] इत्यादिना सूत्रिता तत्त्वज्ञाननिष्ठा त्रयोदशे प्रकृतिपुरुषविवेकद्वारा प्रपञ्चिता । ज्ञाननिष्ठायां च फलं त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन [गीता २.४५] इत्यादिना सूत्रिता त्रैगुण्यनिवृत्तिश्चतुर्दशे सैव जीवन्मुक्तिरिति गुणातीतलक्षणकथनेन प्रपञ्चिता । तदा गन्तासि निर्वेदं [गीता २.५२] इत्यादिना सूत्रिता परवैराग्यनिष्ठा संसारवृक्षच्छेदद्वारेण पञ्चदशे । दुम्खेष्वनुद्विग्नमनां [गीता २.५६] इत्यादिना स्थितप्रज्ञलक्षणेन सूत्रिता परवैराग्योपकारिणी दैवी सम्पदादेया यामिमां पुष्पितां वाचं [गीता २.४२] इत्यादिना सूत्रिता तद्विरोधिन्यासुरी सम्पच्च हेया षोडशे । दैवसम्पदो ऽसाधारणं कारणं च सात्त्विकी श्रद्धा निर्द्वन्द्वो नित्यसत्त्वस्थो [गीता २.४५] इत्यादिना सूत्रिता तद्विरोधिपरिहारेण सप्तदशे । एवं सफला ज्ञाननिष्ठाध्यायपञ्चकेन प्रतिपादिता । अष्टादशेन च पूर्वोक्तसर्वोपसंहार इति कृत्स्नगीतार्थसङ्गतिम् ।

तत्र पूर्वाध्याये साङ्ख्यबुद्धिमाश्रित्य ज्ञाननिष्ठा भगवतोक्ता एषा तेऽभिहिता साङ्ख्ये बुद्धिं [गीता २.३९] इति । तथा योगबुद्धिमाश्रित्य कर्मनिष्ठोक्ता योगे त्विमां शृणु इत्यारभ्य कर्मण्येवाधिकारस्ते .. मा ते सङ्गोऽस्त्वकर्मणि [गीता २.४७] इत्यन्तेन । न चानयोर्निष्ठयोरधिकारिभेदं स्पष्टमुपदिष्टो भगवता । न चैकाधिकारिकत्वमेवोभयों समुच्चयस्य विवक्षितत्वादिति वाच्यम् । दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय [गीता २.४९] इति कर्मनिष्ठाया बुद्धिनिष्ठापेक्षया निकृष्टत्वाभिधानात। यावानर्थ उदपाने [गीता २.४६] इत्यत्र च ज्ञानफले सर्वकर्मफलान्तर्भावस्य दर्शितत्वात। स्थितप्रज्ञलक्षणमुक्त्वा च एषा ब्राह्मी स्थितिं पार्थ [गीता २.७२] इति सप्रशंसं ज्ञानफलोपसंहारात। या निशा सर्वभूतानां [गीता २.६९] इत्यादौ ज्ञानिनो द्वैतदर्शनाभावेन कर्मानुष्ठानासम्भवस्य चोक्तत्वात। अविद्यानिवृत्तिलक्षणे मोक्षफले ज्ञानमात्रस्यैव लोकानुसारेण साधनत्वकल्पनात्, तमेव विदित्वातिमृत्युमेति नान्यं पन्था विद्यतेऽनयनाय [श्वे.उ. ३.८] इति श्रुतेश्च ।

ननु तर्हि तेजस्तिमिरयोरिव विरोधिनोर्ज्ञानकर्मणों समुच्चयासम्भवाद्भिन्नाधिकारिकत्वमेवास्तु । सत्यम् । नैवं सम्भवति एकमर्जुनं प्रति तूभयोपदेशो न युक्तम् । नहि कर्माधिकारिणं प्रति ज्ञाननिष्ठोपदेष्टुमुचिता न वा ज्ञानाधिकारिणं प्रति कर्मनिष्ठा । एकमेव प्रति विकल्पेनोभयोपदेश इति चेत्, न । उत्कृष्टनिकृष्टयोर्विकल्पानुपपत्तेम् । अविद्यानिवृत्त्युपलक्षितात्मस्वरूपे मोक्षे तारतम्यासम्भवाच्च । तस्माज्ज्ञानकर्मनिष्ठयोर्भिन्नाधिकारिकत्वे एकं प्रत्युपदेशायोगादेकाधिकारिकत्वे च विरुद्धयों समुच्चयासम्भवात्कर्मापेक्षया ज्ञानप्रशस्त्यानुपपत्तेश्च विकल्पाभ्युपगमे चोत्कृष्टमनायाससाध्यं ज्ञानं विहाय निकृष्टमनेकायासबहुलं कर्मानुष्ठातुमयोग्यमिति मत्वा पर्याकुलीभूतबुद्धिरर्जुन उवाच—ज्यायसी चेदिति ।

हे जनार्दन ! सर्वैर्जनैरर्द्यते याच्यते स्वाभिलषितसिद्धय इति त्वं तथाभूतो मयापि श्रेयोऽनिश्चयार्थं याच्यस इति नैवानुचितमिति सम्बोधनाभिप्रायम् । कर्मणो निष्कामादपि बुद्धिरात्मतत्त्वविषया ज्यायसी प्रशस्ततरा चेद्यदि ते तव मता तत्तदा किं कर्मणि घोरे हिंसाद्यनेकायासबहुले मामतिभक्तं नियोजयसि कर्मण्येवाधिकारस्त इत्यादिना विशेषेण प्रेरयसि । हे केशव सर्वेश्वर । सर्वेश्वरस्य सर्वेष्टदायिनस्तव मां भक्तं शिष्यस्तेऽहं शाधि मामित्यादिना त्वदेकशरणतयोपसन्नं प्रति प्रतारणा नोचितेत्यभिप्रायम् ॥१॥

विश्वनाथम् :

निष्काममर्पितं कर्म तृतीये तु प्रपञ्च्यते ।
कामक्रोधजिगीषायां विवेकोऽपि प्रदर्श्यते ॥

पूर्ववाक्येषु ज्ञानयोगान्निष्कामकर्मयोगाच्च निस्त्रैगुण्यप्रापकस्य गुणातीतभक्तियोगस्य उत्कर्षमाकलय्य तत्रैव स्वौत्सुक्यमभिव्यञ्जन्स्वधर्मे संग्रामे प्रवर्तकं भगवन्तं सख्यभावेनोपालभते । ज्यायसी श्रेष्ठा बुद्धिर्व्यवसायात्मिका गुणातीता भक्तिरित्यर्थम् । घोरे युद्धरूपे कर्मणि किं नियोजयसि प्रवर्तयसि । हे जनार्दन जनान्स्वजनान्स्वाज्ञया पीडयसीत्यर्थम् । न च तवाज्ञा केनापि अन्यथा कर्तुं शक्यत इत्याह । हे केशव को ब्रह्मा ईशो महादेवम् । तावपि वयसे वशीकरोषि ॥१॥

बलदेवम् :

तृतीये कर्मनिष्कामं विस्तरेणोपवर्णितम् ।
कामादेर्विजयोपायो दुर्जयस्यापि दर्शितम् ॥

पूर्वत्र कृपालुं पार्थसारथिरज्ञानकर्दमनिमग्नं जगत्स्वात्मज्ञानोपासनोपदेशेन समुद्दिधीर्षुस्तदङ्गभूतां जीवात्मयाथात्म्यबुद्धिमुपदिश्य तदुपायतया निष्कामकमबुद्धिमुपदिष्टवान। अयमेवार्थो विनिश्चयाय चतुर्भिरध्यायैर्विधान्तरैर्वर्ण्यते । तत्र कर्मबुद्धिनिष्पाद्यत्वाज्जीवात्मबुद्धें श्रेष्ठं स्थितम् । तत्रार्जुनं पृच्छति ज्यायसीति । कर्मणा निष्कामादपि चेत्तव तत्साध्यत्वात्जीवात्मबुद्धिर्ज्यायसी श्रेष्ठा मता । तर्हि तत्सिद्धये मां घोरे हिंसाद्यनेकायासे कर्मणि किं नियोजयसि तस्माद्युद्धस्वेत्यादिना कथं प्रेरयसि । आत्मानुभवहेतुभूता खलु सा बुद्धिर्निखिलेन्द्रियव्यापारविरतिसाध्या तदर्थं तत्स्वजातीयां शमादय एव युज्येरन्न तु सर्वेन्द्रियव्यापाररूपाणि तद्विजातीयानि कर्माणीति भावम् । हे जनार्दन श्रेयोऽर्थिजनयाचनीय, हे केशव विधिरुद्रवशकारिन।

क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् ।
आवां तवाङ्गसम्भूतौ तस्मात्केशवनामभाग॥

इति हरिवंशे कृष्णं प्रति रुद्रोक्तिम् । दुर्लङ्घ्याज्ञस्त्वं श्रेयोऽर्थिना मयाभ्यर्थितो मम श्रेयो निश्चित्य ब्रूहीति भावम् ॥१॥

(३.२)

व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥

श्रीधरम् : ननु धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यत इत्यादिना कर्मणोऽपि श्रेष्ठत्व्मुक्तमेव इत्याशङ्क्याह व्यामिश्रेणेति । क्वचित्कर्मप्रशंसा क्वचित्ज्ञानप्रशंसा इत्येवं व्यामिश्रं सन्देहोऽपादकमिव यद्वाक्यं तेन मे मम बुद्धिं मतिमुभयत्र दोलायितां कुर्वन्मोहयसीव । अत उभयोर्मध्ये यद्भद्रं तदेकं निश्चित्य वदेति । यद्वा, इदमेव श्रेयम्साधनमिति निश्चित्य येनानुष्ठितेन श्रेयो मोक्षमहमाप्नुयां प्राप्स्यामि तदेवैकं निश्चित्य वदेत्यर्थम् ॥२॥

मधुसूदनम् : ननु नाहं कंचिदपि प्रतारयामि किं पुनस्त्वामतिप्रियम् । त्वं तु किं मे प्रतारणाचिह्नं पश्यसीति चेत्तत्राह व्यामिश्रेणेति । तव वचनं व्यामिश्रं न भवत्येव मम त्वेकाधिकारिकत्वभिन्नाधिकारिकत्वसन्देहाद्व्यामिश्रं सङ्कीर्णार्थमिव ते यद्वाक्यं मां प्रति ज्ञानकर्मनिष्ठाद्वयप्रतिपादकं त्वं मे मम मन्दबुद्धेर्वाक्यतात्पर्यापरिज्ञानाद्बुद्धिमन्तम्करणं मोहयसीव भ्रान्त्या योजयसीव । परमकारुणिकत्वात्त्वं न मोहयस्येव मम तु स्वाशयदोषान्मोहो भवतीतीवशशब्दार्थम् । एकाधिकारित्वे विरुद्धयों समुच्चयानुपपत्तेरेकार्थत्वाभावेन च विकल्पानुपपत्तें प्रागुक्तेर्यद्यधिकारिभेदं मन्यसे तदैकं मां प्रति विरुद्धयोर्निष्ठयोरुपदेशऽयोगात्तज्ज्ञानं वा कर्म वैकमेवाधिकारं मे निश्चित्य वद । येनाधिकारनिश्चयपुरम्सरमुक्तेन त्वया मया चानुष्ठितेन ज्ञानेन कर्मणा वैकेन श्रेयो मोक्षमहमाप्नुयां प्राप्तुं योग्यं स्याम् ।

एवं ज्ञानकर्मनिष्ठयोरेकाधिकारित्वे विकल्पसमुच्चययोरसम्भवादधिकारिभेदज्ञानायार्जुनस्य प्रश्न इति स्थितम् ।

इहेतरेषां कुमतं समस्तं
श्रुतिस्मृतिन्यायबलान्निरस्तम् ।
पुनं पुनर्भाष्यकृतातियत्नाद्
अतो न तत्कर्तुमहं प्रवृत्तम् ॥

भाष्यकारमतसारदर्शिना
ग्रन्थमात्रमिह योज्यते मया ।
आशयो भगवतं प्रकाश्यते
केवलं स्ववचसो विशुद्धये ॥२॥

विश्वनाथम् : भो वयस्य अर्जुन ! सत्यं गुणातीता भक्तिं सर्वोत्कृष्टैव । किन्तु सा यादृच्छिकमदैकान्तैकमहाभक्तकृपैकलभ्यत्वात्पुरुसोद्यमसाध्या न भवति । अत एव निस्त्रैगुण्यो भव गुणातीतया मद्भक्त्या त्वं निस्त्रैगुण्यो भूया इत्याशीर्वाद एव दत्तम् । स च यदा फलिष्यति तदा तादृशयादृच्छिकैकान्तिकभक्तकृपया प्राप्तामपि लप्स्यसे । साम्प्रतं तु कर्मण्येवाधिकारस्ते इति मयोक्तं चेत्, सत्यम् । तर्हि कर्मैव निश्चित्य कथं न ब्रूषे । किमिति सन्देहसिन्धौ मां क्षिपसीत्याह व्यामिश्रेणेति । विशेषतमा सम्यक्तया मिश्रणं नानाविधार्थमिलनं यत्र तेन वाक्येन मे बुद्धिं मोहयसि । तथा हि कर्मण्येवाधिकारस्ते [गीता २.४७], सिद्ध्यसिद्ध्यों समो भूत्वा समत्वं योग उच्यते [गीता २.४८],

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगं कर्मसु कौशलम् ॥ [गीता २.५०]

इति योगशब्दवाच्यं ज्ञानमपि ब्रवीषि । यदा ते मोहकलिलं [गीता २.५२] इत्यनेन ज्ञानं केवलमपि ब्रवीषि । किं चात्र इवशब्देन त्वद्वाक्यस्य वस्तुतो नास्ति नानार्थमिश्रितत्वम् । नापि कृपालोस्तव मन्मोहनेच्छा । नापि मम तत्तदर्थानभिज्ञत्वमिति भावम् । अयं गूढोऽभिप्रायं राजसात्कर्मणं सकाशात्सात्त्विकं कर्म श्रेष्ठं, तच्च सात्त्विकमेव । निर्गुणभक्तिश्च तस्माद्नतिश्रेष्ठैव । तत्र सा यदि मयि न सम्भवेदिति ब्रूषे, तदा सात्त्विकं ज्ञानमेवैकं मामुपदिश । तत एव दुम्खमयात्संसारबन्धनान्मुक्तो भवेयमिति ॥२॥

बलदेवम् : व्यामिश्रेणेति । साङ्ख्यबुद्धियोगबुद्ध्योरिन्द्रियनिवृत्तिरूपयों साध्यसाधकत्वावरोधि यद्वाक्यं तद्व्यामिश्रमुच्यते । तेन मे बुद्धिं मोहयसीव । वस्तुतस्तु सर्वेश्वरस्य मत्सखस्य च मे मन्मोहकता नास्त्येव । मद्बुद्धिदोषादेवं प्रयेम्यहमतीवशब्दार्थम् । तत्तस्मादेकमव्यामिश्रं वाक्यं वद । न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुर्नास्त्यकृतं कृतेन इति श्रुतिवत। येनाहमनुष्ठेयं निश्चित्यात्मनं श्रेयं प्राप्नुयाम् ॥२॥

(३.३)

श्रीभगवानुवाच——
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥

श्रीधरम् : अत्रोत्तरं श्रीभगवानुवाच— लोकेऽस्मिन्निति । अयमर्थम् । यदि मया परस्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरूपं निष्ठाद्वयमुक्तं स्यात्तर्हि द्वयोर्मध्ये यद्भद्रं स्यात्तदेकं वद इति त्वदीयप्रश्नं संगच्छते । न तु मया तथोक्तम् । द्वाभ्यामेकैव ब्रह्मनिष्ठा उक्ता । गुणप्रधानभूतयोस्तयों स्वातन्त्र्यानुपपत्तेमेकस्या एव तु प्रकारभेदमात्रमधिकारिभेदेनोक्तमिति । अस्मिन्शुद्धाशुद्धान्तं करणतया द्विविधे लोके अधिकारिजने द्वे विधे प्रकारौ यस्यां सा । द्विविधा निष्ठा मोक्षपरता पूर्वाध्याये मया सार्वज्ञेन प्रोक्ता स्पष्टमेवोक्ता । प्रकारद्वयमेव निर्दिशति ज्ञानयोगेनेत्यादि । साङ्ख्यानां शुद्धान्तम्करणानां ज्ञानभूमिकामारूढानां ज्ञानपरिपाकार्थं ज्ञानयोगेन ध्यानादिना निष्ठा ब्रह्मपरतोक्ता । तानि सर्वाणि संयम्य युक्त आसीत मत्पर इत्यादिना । साङ्ख्यभूमिकामारुरुक्षूणां त्वन्तम्करणशुद्धिद्वारा तदारोहणार्थं तदुपायभूतकर्मयोगाधिकारिणां योगिनां कर्मयोगेन निष्ठोक्ता धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यत इत्यादिना । अत एव तव चित्तशुद्धिरूपावस्थाभेदेन द्विविधापि निष्ठोक्ता । एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृण्विति ॥३॥

मधुसूदनम् : एवमधिकारिभेदेऽर्जुनेन पृष्टे तदनुरूपं प्रतिवचनं श्रीभगवानुवाच—लोकेऽस्मिन्निति । अस्मिन्नधिकारित्वाभिमते लोके शुद्धाशुद्धान्तम्करणभेदेन द्विविधे जने द्विविधा द्विप्रकारा निष्ठा स्थितर्ज्ञानपरता कर्मपरता च पुरा पूर्वाध्याये मया तवात्यन्तहितकारिणा प्रोक्ता प्रकर्षेण स्पष्टत्वलक्षणेनोक्ता । तथा चाधिकार्यैक्यशङ्कया मा ग्लासीरिति भावम् । हेऽनघापापेति सम्बोधयन्नुपदेशयोग्यतामर्जुनस्य सूचयति । एकैव निष्ठा साध्यसाधनावस्थाभेदेन द्विप्रकारा न तु द्वे एव स्वतन्त्रे निष्ठे इति कथयितुं निष्ठेत्येकवचनम् । तथा च वक्ष्यति— एकं सांख्यं च योगं च यं पश्यति स पश्यति [गीता ५.५] इति ।

तामेव निष्ठां द्वैविध्येन दर्शयति साङ्ख्येति । सङ्ख्या सम्यगात्मबुद्धिस्तां प्राप्तवतां ब्रह्मचर्यादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां ज्ञानभूमिमारूढानां शुद्धान्तम्करणानां साङ्ख्यानां ज्ञानयोगेन ज्ञानमेव युज्यते ब्रह्मणानेनेति व्युत्पत्त्या योगस्तेन निष्ठोक्ता तानि सर्वाणि संयम्य युक्त आसीत मत्परं [गीता २.६१] इत्यादिना । अशुद्धान्तम्करणानां तु ज्ञानभूमिमनारूढानां योगिनां कर्माधिकारयोगिनां कर्मयोगेन कर्मैव युज्यतेऽन्तम्करणशुद्ध्यानेनेति व्युत्पत्त्या योगस्तेन निष्ठोक्तान्तम्करणशुद्धिद्वारा ज्ञानभूमिकारोहणार्थं धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते [गीता २.३१] इत्यादिना ।

अत एव न ज्ञानकर्मणों समुच्चयो विकल्पो वा । किन्तु निष्कामकर्मणा शुद्धान्तम्करणानां सर्वकर्मसंन्यासेनैव ज्ञानमिति चित्तशुद्ध्यशुद्धिरूपावस्थाभेदेनैकमेव त्वां प्रति द्विविधा निष्ठोक्ता । एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु [गीता २.३९] इति । अतो भूमिकाभेदेनैकमेव प्रत्युभयोपयोगान्नाधिकारभेदेऽप्युपदेशवैयर्थ्यमित्यभिप्रायम् । एतदेव दर्शयितुमशुद्धचित्तस्य चित्तशुद्धिपर्यन्तं कर्मानुष्ठानं न कर्मणामनारम्भात्[गीता ३.४] इत्यादिभिर्मोघं प्राथ स जीवति [गीता ३.१६] इत्यन्तैस्त्रयोदशभिर्दर्शयति । शुद्धचित्तस्य तु ज्ञानिनो न किंचिदपि कर्मापेक्षितमिति दर्शयति यस्त्वात्मरतिर्[गीता ३.१७] इति द्वाभ्याम् । तस्मादसक्तमित्यारभ्य तु बन्धहेतोरपि कर्मएओ मोक्षहेतुत्वं सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण सम्भवति फलाभिसन्धिराहित्यरूपकौशलेनेति दर्शयिष्यति । ततं परं त्वथ केनेति प्रश्नमुत्थाप्य कामदोषेणैव कार्यकर्मणं शुद्धिहेतुत्वं नास्ति । अतं कामराहित्येनैव कर्माणि कुर्वन्नन्तम्करणशुद्ध्या ज्ञानाधिकारी भविष्यसीति यावदध्यायसमाप्ति वदिष्यति भगवान॥३॥

विश्वनाथम् : अत्रोत्तरम् । यदि मया परस्परनिरपेक्षावेव मोक्षसाधनत्वेन कर्मयोगज्ञानयोगावुक्तौ स्याताम् । तदा तदेकं वद निश्चित्येति त्वत्प्रश्नो घटते । मया तु कर्मानुष्ठाज्ञाननिष्ठावत्त्वेन यद्द्वैविध्यमुक्तम्, तत्खलु पूर्वोत्तरदशाभेदादेव, न तु वस्तुतो मोक्षं प्रत्यधिकारिद्वैधमित्याह लोके इति द्वाभ्याम् । द्विविधा द्विप्रकारा निष्ठा नितरां स्थितिमर्यादेत्यर्थम् । पुरा प्रोक्ता पूर्वाध्याये कथिता । तामेवाह साङ्ख्यानां साङ्खं ज्ञानं तद्वताम् । तेषां शुद्धान्तम्करणत्वेन ज्ञानभूमिकामधिरूढानां ज्ञानयोगेनैव निष्ठा तेनैव मर्यादा स्थापिता । अत्र लोके तु ज्ञानित्वेनैव ख्यापिता इत्यर्थम्— तानि सर्वाणि संयम्य युक्त आसीत मत्परं [गीता २.६१] इत्यादिना । तथा शुद्धान्तम्करणत्वाभावेन ज्ञानभूमिकामधिरोढुमसमर्थानां योगिनां तदारोहणार्थमुपायवतां कर्मयोगेन मदर्पितनिष्कामकर्मणा निष्ठा मर्यादा स्थापिता । ते खलु कर्मित्वेनैव ख्यापितेत्यर्थम्— धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते [गीता २.३१] इत्यादिना । तेन कर्मिणं ज्ञानिनमिति नाममात्रेणैव द्वैविध्यम् । वस्त्गुतस्तु कर्मिण एव कर्मिभिं शुद्धचित्ता ज्ञानिनो भवन्ति । ज्ञानिन एव भक्त्या मुच्यन्त इति मद्वाक्यसमुदायार्थ इति भावम् ॥३॥

बलदेवम् : एवं पृष्टो भगवानुवाच लोकेऽस्मिन्निति । हे अनघ निर्मलबुद्धे पार्थ ज्यायसी चेदिति कर्मबुद्धिसाङ्ख्यबुद्ध्योर्गुणप्रधानभावं जानन्नपि तमस्तेजसोरिव विरुद्धयोस्तयों कथमेकाधिकारित्वमिति शङ्कया प्रेरितं पृच्छसीति भावम् । अस्मिन्मुमुक्षुतयाभिमते शुद्धाशुद्धचित्ततया द्विविधे लोके जने द्विविधा निष्ठा स्थितिर्मया सर्वेश्वरेण पुरा पूर्वाध्याये प्रोक्ता । निष्ठेत्येकवचनेन एकात्मोद्देश्यत्वादेकैव निष्ठा साध्यसाधनदशाद्वयभेदेन द्विप्रकारा न तु द्वे निष्ठे इति सूच्यते । एवमेवाग्रे वक्ष्यति एकं साङ्ख्यं च योगं च [गीता ५.५] इति । तां निष्ठां द्वैविध्येन दर्शयति ज्ञानेति । साङ्ख्यज्ञान अर्ह आद्यच। तद्वतां ज्ञानिनां ज्ञानयोगेन निष्ठास्थितिरुक्ता प्रजहाति यदा कामान्[गीता २.५५] इत्यादिना । ज्ञानमेव योगो युज्यते आत्मनानेनेतिव्युत्पत्तेम् । योगिनां निष्कामकर्मवतां कर्मयोगेन निष्ठा स्थितिरुक्ता कर्मण्येवाधिकारस्ते [गीता २.४७] इत्यादिना । कर्मैव योगो युज्यते ज्ञानगर्भया चित्तशुद्धयानेनेति व्युत्पत्तेम् । एतदुक्तं भवति— न खलु मुमुक्षुर्जनस्तदैव शमाद्यङ्गिकां ज्ञाननिष्ठां लभते । किन्तु साचारेण कर्मयोगेन चित्तमालिन्यं निर्धूयैवेत्येतदेव मया प्रागभाणि एषा तेऽभिहिता साङ्ख्ये [गीता २.३९] इत्यादिना ।

(३.४)

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥

श्रीधरम् : अतं सम्यक्चित्तशुद्ध्या ज्ञानोत्पत्तिपर्यन्तं वर्णाश्रमोचितानि कर्माणि कर्तव्यानि । अन्यथा चित्तशुद्ध्यभावेन ज्ञानानुत्पत्तेरित्याह न कर्मणामिति । कर्मणामनारम्भादननुष्ठानान्नैष्कर्म्यं ज्ञानं नाश्नुते न प्राप्नोति । ननु चैतमेव प्रव्राजिनो लोकमिच्छन्तं प्रव्रजन्तीति श्रुत्या संन्यासस्य मोक्षादङ्गत्वश्रुतें संन्यसनादेव मोक्षो भविष्यति । किं कर्मभिं ? इत्याशङ्क्योक्तं न चेति । चित्तशुद्धिं विना कृतात्संन्यसनादेव ज्ञानशून्यात्सिद्धिं मोक्षं न समधिगच्छति न प्राप्नोति ॥४॥

मधुसूदनम् : तत्र कारणाभावे कार्यानुपपत्तेराह न कर्मणामिति । कर्मणा तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्यात्मज्ञाने विनियुक्तानामनारम्भादननुष्ठानाच्चित्तशुद्ध्यभावेन ज्ञानायोग्यो बहिर्मुखं पुरुषो नैष्कर्म्यं सर्वकर्मशून्यत्वं ज्ञानयोगेन निष्ठामिति यावत्नाश्नुते न प्राप्नोति ।

ननु एतमेव प्रव्राजिनो लोकमिच्छन्तं प्रव्रजन्ति इति श्रुतें सर्वकर्मसंन्यासादेव ज्ञाननिष्ठोपपत्तें  कृतं कर्मभिरित्यत आह न च संन्यसनादेव चित्तशुद्धिं विना कृतात्सिद्धिं ज्ञाननिष्ठालक्षणां सम्यक्फलपर्यवसायित्वेनाधिगच्छति नैव प्राप्नोतीत्यर्थम् । कर्मजन्यां चित्तशुद्धिमन्तरेण संन्यास एव न सम्भवति । यथाकथंचिदौत्सुक्यमात्रेण कृतोऽपि न फलपर्यवसायीति भावम् ॥४॥

विश्वनाथम् : चित्तशुद्ध्यभावे ज्ञानानुत्पत्तिमाह नेति । शास्त्रीयकर्मणामनारम्भादननुष्ठानान्नैष्कर्म्यं ज्ञानं न प्राप्नोति न चाशुद्धचित्तम् । संन्यसनाच्छास्त्रीयकर्मत्यागात॥४॥

बलदेवम् : अतोऽशुद्धचित्तेन चित्तशुद्धें स्वविहितानि कर्माण्येवानुष्ठेयानीत्याह न कर्मणामित्यादिभिस्त्रयोदशभिम् । कर्मणां तमेतमिति वाक्येन ज्ञानाङ्गतया विहितानामनारम्भादननुष्ठानादविशुद्धचित्तं पुरुषो नैष्कर्म्यं निखिलेन्द्रियव्यापाररूपकर्मविरतिं ज्ञाननिष्ठामिति यावत्नाश्नुते न लभते । न च स तेषां कर्मणां संन्यासात्परित्यागात्सिद्धिं मुक्तिं समधिगच्छति ॥४॥

(३.५)

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत।
कार्यते ह्यवशं कर्म सर्वं प्रकृतिजैर्गुणैम् ॥

श्रीधरम् : कर्मणां च संन्यासस्तेष्वनासक्तिमात्रम् । न तु स्वरूपेण । अशक्यत्वादिति । आह न हि कश्चिदिति । जातु कस्यांचिदप्यवस्थायां क्षणमात्रमपि कश्चिदपि ज्ञान्यज्ञानो वा अकर्मकृत्कर्माण्यकुर्वाणो न तिष्ठति । अत्र हेतुम्—प्रकृतिजैर्स्वभावप्रभवै रागद्वेषादिभिर्गुणैं सर्वोऽपि जनं कर्म कार्यते । कर्मणि प्रवर्त्यते । अवशोऽस्वतन्त्रं सन॥५॥

मधुसूदनम् : तत्र कर्मजन्यशुद्ध्यभावे बहिर्मुखम् । हि यस्मात्क्षणमपि कालं जातु कदाचित्कश्चिदप्यजितेन्द्रियोऽकर्मकृत्सन्न तिष्ठति । अपि तु लौकिकवैदिककर्मानुष्ठानव्यग्र एव तिष्ठति तस्मादशुद्धचित्तस्य संन्यासो न सम्भवतीत्यर्थम् ।

कस्मात्पुनरविद्वान्कर्माण्यकुर्वाणो न तिष्ठति । हि यस्मात। सर्वं प्राणी चित्तशुद्धिरहितोऽवशोऽस्वतन्त्र एव सन्प्रकृतिजैं प्रकृतितो जातैरभिव्यक्तैं कार्याकारेण सत्त्वरजस्तमोभिं स्वभावप्रभवैर्वा रागद्वेषादिभिर्गुणैं कर्म लौकिकं वैदिकं वा कार्यते । अतं कर्माण्यकुर्वाणो न कश्चिदपि तिष्ठतीत्यर्थम् । यतं स्वाभाविका गुणाश्चालका अतं परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धें सर्वकर्मसंन्यासो न सम्भवतीति न संन्यासनिबन्धना ज्ञाननिष्ठा सम्भवतीत्यर्थम् ॥५॥

विश्वनाथम् : किन्त्वशुद्धचित्तं कृतसंन्यासं शास्त्रीयं कर्म परित्यज्य व्यवहारिके कर्मणि निमज्जतीत्याह न हीति । ननु संन्यास एव तस्य वैदिकलौकिककर्मप्रवृत्तिर्विरोधी ? तत्राह कार्यत इति । अवशोऽस्वतन्त्रम् ॥५॥

बलदेवम् : अविशुद्धचित्तं कृतवैदिककर्मसंन्यासो लौकिकेऽपि कर्मणि निमज्जतीत्याह नहीति । ननु संन्यास एव तस्य सर्वकर्मविरोधीति चेत्तत्राह कार्यत इति । प्रकृतिजैं स्वभावोद्भवैर्गुणै रागद्वेषादिभिम्, कार्यते प्रवर्त्यते अवशं पराधीनं स्यात॥५॥

(३.६)

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारं स उच्यते ॥

श्रीधरम् : अतोऽज्ञं कर्मत्यागिनं निन्दति कर्मेन्द्रियाणीति । वाक्पाण्यादीनि कर्मेन्द्रियाणि । संयम्य भगवद्ध्यानच्छलेन इन्द्रियार्थान्विषयान्स्मरन्नास्ते अविशुद्धतया मनसा आत्मनि स्थैर्याभावात्, स मिथ्याचारं कपटाचारो दाम्भिक उच्यत इत्यर्थम् ॥६॥

मधुसूदनम् : यथाकथंचिदौत्सुक्यमात्रेण कृतसंन्यासस्त्वशुद्धचित्तस्तत्फलभाङ्न भवति यतम् । यो विमूढात्मा रागद्वेषादिदूषितान्तम्करण औत्सुक्यमात्रेण कर्मेन्द्रियाणि वाक्पाण्यादीनि संयम्य निगृह्य बहिरिन्द्रियैं कर्माण्यकुर्वन्निति यावत। मनसा रागादिप्रेरितेन्द्रियार्थान्शब्दादीन्न त्वात्मतत्त्वं स्मरन्नास्ते कृतसंन्यासोऽहमित्यभिमानेन कर्मशून्यस्तिष्ठति स मिथ्याचारं सत्त्वशुद्ध्यभावेन फलायोग्यत्वात्पापाचार उच्यते ।

    त्वंपदार्थविवेकाय संन्यासं सर्वकर्मणाम् ।
    श्रुत्येह विहितो यस्मात्तत्त्यागी पतितो भवेत॥

इत्यादिधर्मशास्त्रेण । अत उपपन्नं न च संन्यसनादेवाशुद्धान्तम्करणं सिद्धिं समधिगच्छतीति ॥६॥

विश्वनाथम् : ननु तादृशोऽपि सन्न्यासी कश्चित। कश्चिदिन्द्रियव्यापारशून्यो मुद्रिताक्षो दृश्यते ? तत्राह कर्मेन्द्रियाणि, वाक्पाण्यादीनि निगृह्य यो मनसा ध्यानच्छलेन विषयान्स्मरन्नास्ते, स मिथ्याचारो दाम्भिकम् ॥६॥

बलदेवम् : ननु रागदिव्यापारशून्यो मुद्रितश्रोत्रादिं कश्चित्कश्चिद्यदि दृश्यते तत्राह कर्मेन्द्रियाणीति । यो यतिं कर्मेन्द्रियाणि वागादीनि संयम्य मनसा ध्यानछद्मना इन्द्रियार्थान्शब्दस्पर्शादीन्स्मरन्नास्ते स विमूढात्मा मूर्खो मिथ्याचारं कथ्यते । स च निरुद्धरागादेरज्ञस्य निष्कामकर्मानुष्ठानेन मनम्शुद्धेरनुदयात्श्रोत्राद्यप्रसारेऽप्यशुद्धत्वान्मनसा तद्विषयाणां स्म रणाज्ज्ञानायोद्यतस्यापि तस्य ज्ञानलाभात्मिथ्याचारो व्यर्थवागादिनियमक्रियो दाम्भिक इत्यर्थम् ॥६॥

(३.७)

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन
कर्मेन्द्रियैं कर्मयोगमसक्तं स विशिष्यते ॥

श्रीधरम् : एतद्विपरीतं कर्मकर्ता तु श्रेष्ठ इत्याह यस्त्विन्द्रियाणीति । यस्त्विन्द्रियाणि मनसा नियम्य ईश्वरपराणि कृत्वा कर्मेन्द्रियैं कर्मरूपं योगमुपायमारभतेऽनुतिष्ठति । असक्तं फलाभिलाषरहितं सन। स विशिष्यते विशिष्टो भवति चित्तशुद्ध्या ज्ञानवान्भवतीत्यर्थम् ॥७॥

मधुसूदनम् : औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निष्कामकर्माण्येव यथाशास्त्रं कुर्यात। तस्मात्यस्त्विति । तुशब्दोऽशुद्धान्तम्करणसंन्यासिव्यतिरेकार्थम् । इन्द्रियाणि ज्ञानेन्द्रियाएइ श्रोत्रादीनि मनसा सह नियम्य पापहेतुशब्दादिविषयासक्तेर्निवर्त्य मनसा विवेकयुक्तेन नियम्येति वा । कर्मेन्द्रियैर्वाक्पाण्यादिभिं कर्मयोगं शुद्धिहेतुतया विहितं कर्मारभते करोत्यसक्तं फलाभिलाषशून्यं सन्यो विवेकी स इतरस्मान्मिथ्याचाराद्विशिष्यते । परिश्रमसाम्येऽपि फलातिशयभाक्त्वेन श्रेष्ठो भवति । हेऽर्जुनाश्चर्यमिदं पश्य यदेकं कर्मेन्द्रियाणि निगृह्णन्ज्ञानेन्द्रियाणि व्यापारयन्पुरुषार्थशून्योऽपरस्तु ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियाणि व्यापारयन्परमपुरुषार्थभाग्भवतीति ॥७॥

विश्वनाथम् : एतद्विपरीतं शास्त्रीयकर्मकर्ता गृहस्थस्तु श्रेष्ठ इत्याह यस्त्विति । कर्मयोगं शास्त्रविहितम् । असक्तोऽफलाकाङ्क्षी विशिष्यते । असम्भावितप्रसादित्वेन ज्ञाननिष्ठादपि पुरुषाद्विशिष्टमिति श्रीरामानुजाचार्यचरणाम् ॥७॥

बलदेवम् : एतद्वैपरीत्येन स्वविहितकर्मकर्ता गृहस्थोऽपि श्रेष्ठ इत्याह यस्त्विति । आत्मानुभवप्रवृत्तेन मनसेन्द्रियाणि श्रोत्रादीनि नियम्यासक्तं फलाभिलाषशून्यं सन्यं कर्मेन्द्रियैं कर्मरूपं योगमुपायमारभतेऽनुतिष्ठति स विशिष्यते । सम्भाव्यमानज्ञानत्वात्पूर्वतं श्रेष्ठो भवतीत्यर्थम् ॥७॥

(३.८)

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणम् ।
शरीरयात्रापि च ते न प्रसिध्येदकर्मणम् ॥

श्रीधरम् : नियतमिति । यस्मादेवं तस्मान्नियतं नित्यं कर्म सन्ध्योपासनादि कुरु । हि यस्मात। सर्वकर्मणोऽकरणात्सकाशात्कर्मकरणं ज्यायोऽधिकतरम् । अन्यथाकर्मणं सर्वकर्मशून्यस्य तव शरीरयात्रा शरीरनिर्वाहोऽपि न प्रसिध्येन्न भवेत॥८॥

मधुसूदनम् : यस्मादेवं तस्मान्मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियैस्त्वं प्रागननुष्ठितशुद्धिहेतुकर्मा नियतं विध्युद्देशे फलसम्बन्धशून्यतया नियतनिमित्तेन विहितं कर्म श्रौतं स्मार्तं च नित्यमिति प्रसिद्धं कुरु । कुर्विति मध्यमपुरुषप्रयोगेणैव त्वमिति लब्धे त्वमिति पदमर्थान्तरे संक्रमितम् ।

कस्मादशुद्धान्तम्करणेन कर्मैव कर्तव्यं हि यस्मादकर्मणोऽकरणात्कर्मैव ज्यायं प्रशस्यतरम् । न केवलं कर्माभावे तवान्तम्करणशुद्धिरेव न सिध्येत। किन्तु अकर्मणो युद्धादिकर्मरहितस्य ते तव शरीरयात्रा शरीरस्थितिरपि न प्रकर्षेण क्षात्रवृत्तिकृतत्वलक्षणेन सिध्येत। तथा च प्रागुक्तम् । अपि चेत्यन्तम्करणशुद्धिसमुच्चयार्थम् ॥८॥

विश्वनाथम् : तस्मात्त्वं नियतं नित्यं सन्ध्योपासनादि# अकर्मणं कर्मसन्न्यासात्सकाशाज्ज्यायं श्रेष्ठम् । सन्न्याससर्वकर्मणस्तव शरीरनिर्वाहोऽपि न सिध्येत॥८॥

बलदेवम् : नियतमिति तस्मात्त्वमविशुद्धचित्तो नियतमावश्यककरं कुरु चित्तविशुद्धये निष्कामतया स्वविहितं कर्माचरेत्यर्थम् । अकर्मणमौत्सुक्यमात्रेण सर्वकर्मसंन्याससकाशात्कर्मैव ज्यायं प्रशस्ततरं क्रमसोपानन्यायेन ज्ञानोत्पादकत्वात। औत्सुक्यमात्रेण कर्म त्यजतोर्मलिने हृदि ज्ञानप्रकाशात। किं चाकर्मणं संन्यस्तसर्वकर्मणस्तव शरीरयात्रा देहनिर्वाहोऽपि न सिध्येत। यावत्साधनपूर्तिदेहधारणस्यावश्यकत्वात्तदर्थं ज्ञानी भिक्षाटनादिकर्मानुतिष्ठति । तच्च क्षत्रियस्य तवानुचितम् । तस्मात्स्वविहितेन युद्धप्रजापालनादिकर्मणा शुल्कानि वित्तान्युपार्ज्य तैर्निर्व्यूहदेहयात्रं स्वात्मानमनुसन्धेहीति ॥८॥

(३.९)

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनम् ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गं समाचर ॥

श्रीधरम् : साङ्ख्यास्तु सर्वमपि कर्मबन्धक्तवान्न कार्यमित्याहुम् । तन्निराकुर्वन्नाह यज्ञार्थादिति । यज्ञोऽत्र विष्णुम् । यज्ञो वै विष्णुरिति श्रुतेम् । तदाराधनार्थात्कर्मणो ।न्यत्र तदेकं लोकोऽयं कर्मबन्धनं कर्मभिर्वध्यते । न तु ईश्वराराधनार्थेन कर्मणा । अतस्तदर्थं विष्णुप्रीत्यर्थं मुक्तसङ्गो निष्कामं सन्कर्म सम्यगाचर ॥९॥

मधुसूदनम् : कर्मणा बध्यते जन्तुं [म.भा. १२.२४१.७] इति स्मृतें सर्वं कर्म बन्धात्मकत्वान्मुमुक्षुणा न कर्तव्यमिति मत्वा तस्योत्तरमाह
यज्ञार्थादिति । यज्ञं परमेश्वरं यज्ञो वै विष्णुर्[तै.सं. १.७.४] इति श्रुतेम् । तदाराधनार्थं यत्क्रियते कर्म तद्यज्ञार्थं तस्मात्कर्मणोऽन्यत्र कर्मणि प्रवृत्तोऽयं लोकं कर्माधिकारी कर्मबन्धनं कर्मणा बध्यते न त्वीश्वराराध्नार्थेन । अतस्तदर्थं यज्ञार्थं कर्म हे कौन्तेय ! त्वं कर्मण्यधिकृतो मुक्तसङ्गं सन्समाचर सम्यक्श्रद्धादिपुरम्सरमाचर ॥९॥

विश्वनाथम् : ननु तर्हि कर्मणा बध्यते जन्तुमिति स्मृतेम् । कर्मणि कृते बन्धं स्यादिति चेन्न । परमेश्वरार्पितं कर्म न बन्धकमित्याह यज्ञार्थादिति । विष्ण्वर्पितो निष्कामो धर्म एव यज्ञ उच्यते । यदर्थं यत्कर्म ततोऽन्यत्रैवायं लोकं कर्मबन्धनं कर्मणा बध्यमानो भवति । तस्मात्त्वं तदर्थं तादृशधर्मसिद्ध्यर्थं कर्म समाचर ।

ननु विष्ण्वर्पितोऽपि धर्मं कामनामुद्दिश्य कृतश्चेद्बन्धको भवत्येवेत्याह मुक्तसङ्गं फलाकाङ्क्षारहितम् । एवमेवोद्धवं प्रत्यपि श्रीभगवतोक्तम्—

स्वधर्मस्थो यजन्यज्ञैर्
अनाशीम्काम उद्धव ।
न याति स्वर्गनरकौ
यद्यन्यन्न समाचरेत॥

अस्मिन्लोके वर्तमानं
स्वधर्मस्थोऽनघं शुचिम् ।
ज्ञानं विशुद्धमाप्नोति
मद्भक्तिं वा यदृच्छया ॥ [भा.पु.११.२०.१०१] इति ॥९॥

बलदेवम् : ननु कर्मणि कृते बन्धो भवेत। कर्मणा बध्यते जन्तुरित्यादिस्मरणाच्चेति तत्राह यज्ञार्थादिति । यज्ञं परमेश्वरं यज्ञो वै विष्णुरिति श्रुतेम् । तदर्थात्तत्तोषफलात्कर्मणोऽन्यत्र स्वसुखफलककर्मणि क्रियमाणेऽयं लोकं प्राणी कर्मबन्धनं कर्मणा बध्यते । तस्मात्तदर्थं विष्णुतोषार्थं कर्म समाचर । हे कौन्तेय मुक्तसङ्गस्त्यक्तसुखाभिलाषं सन्न्यायोपार्जितद्रव्यसिद्धेन यज्ञादिना विष्णुराराध्य तच्छेषेण देहयात्रां कुर्वन्न बध्यत इत्यर्थम् ॥९॥

(३.१०)

सहयज्ञां प्रजां सृष्ट्वा पुरोवाच प्रजापतिम् ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक॥

श्रीधरम् : प्रजापतिवचनादपि कर्मकर्तैव श्रेष्ठ इत्याह सहयज्ञा इति । यञेन सह वर्तन्त इति सहयज्ञां यज्ञाधिकृता ब्राह्मणादिप्रजां पुरा सर्गादौ सृष्ट्वा इदमुवाच ब्रह्मा अनेन यज्ञेन प्रसविष्यध्वम् । प्रसवो हि वृद्धिम् । उत्तरोत्तराभिवृद्धिं लभध्वमित्यर्थम् । तत्र हेतुम् । एष यज्ञो वो युष्माकमिष्टकामधुक। इष्टान्दोग्धीति तथा । अभीष्टभोगप्रदोऽस्तु इत्यर्थम् । अत्र च यज्ञग्रहणमावश्यककर्मोपलक्षणार्थम् । काम्यकर्मप्रशंसा तु प्रकरणेऽसङ्गतापि सामान्यतोऽकर्मणं कर्म श्रेष्ठमित्येतदर्थमित्यदोषम् ॥१०॥

मधुसूदनम् : प्रजापतिवचनादप्यधिकृतेन कर्म कर्तव्यमित्याह सहयज्ञा इत्यादिचतुर्भिम् । सह यज्ञेन विहितकर्मकलापेन वर्तन्त इति सहयज्ञा समाधिकृता इति यावत। वोपसर्जनस्य [पा. ६.३.८२] इति पक्षे सादेशाभावम् । प्रजास्त्रीन्वर्णान्पुरा कल्पादौ सृष्ट्वोवाच प्रजानां पतिं स्रष्टा । किमुवाचेत्याह—अनेन यज्ञेन स्वाश्रमोचितधर्मेण प्रसविष्यध्वं प्रसूयध्वम् । प्रसवो वृद्धिम् । उत्तरोत्तरामभिवृद्धिं लभध्वमित्यर्थम् । कथमनेन वृद्धिं स्यादित्याह एष यज्ञाख्यो धर्मो वो युष्माकमिष्टकामधुक। इष्टानभिमतान्कामान्काम्यानि फलानि दोग्धि प्रापयतीति तथा । अभीष्टभोगप्रदोऽस्त्वित्यर्थम् ।

अत्र यद्यपि यज्ञग्रहणमावश्यककर्मोपलक्षणार्थमकरणे प्रत्यवायस्याग्रे कथनात। काम्यकर्मणां च प्रकृते प्रस्तावो नास्त्येव मा कर्मफलहेतुर्भूरित्यनेन निराकृतत्वात। तथाइ नित्यकर्मणामानुषङ्गिकफलसद्भावात। एष वोऽस्त्विष्टकामधुकित्युपपद्यते । तथा च आपस्तम्बं स्मरति तद्यथाम्रे फलार्थे निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते नो चेदनूत्पद्यन्ते न धर्महानिर्भवति इति । फलसद्भावेऽपि तदभिसन्ध्यनभिसन्धिभ्यां काम्यनित्ययोर्विशेषम् । अनभिसंहितस्यापि वस्तुस्वभावादुत्पत्तौ न विशेषम् । विस्तरेण चाग्रे प्रतिपादयिष्यते ॥१०॥

विश्वनाथम् : तदेवाशुद्धचित्तौ निष्कामं कर्मैव कुर्यान्न तु सन्न्यासमित्युक्तम् । इदानीं यदि च निष्कामोऽपि भवितुं न शक्नुयात्तदा सकाममपि धर्मं विष्ण्वर्पितं कुर्यान्न तु कर्मत्यागमित्याह सहेति सप्तभिम् । यज्ञेन सहितां सहयज्ञां वोपसर्जनस्य इति सहस्यादेशाभावम् । पुरा विष्ण्वर्पितधर्मकारिणीं प्रजां सृष्ट्वा ब्रह्मोवाच अनेन धर्मेण प्रसविष्यध्वं प्रसवो वृद्धिरुत्तरोत्तरमतिवृद्धिं लभध्वमित्यर्थम् । तासां सकामत्वमभिलक्ष्याह एष यज्ञो व इष्टकामधुगभीष्टभोगप्रदोऽस्त्वित्यर्थम् ॥१०॥

बलदेवम् : अयज्ञेशेषेण देहयात्रां कुर्वतो दोषमाह सहेति । प्रजापतिं सर्वेश्वरो विष्णुं पतिं विश्वस्यात्मेश्वरमित्यादिश्रुतेम् । ब्रह्म प्रजानां पतिरच्युतोऽसावित्यादिस्मरणाच्च । पुरा आदिसर्गे सहयज्ञा यज्ञैं सहिता देवमानवादिरूपां प्रजां सृष्ट्वा नामरूपविभागशून्यां प्रकृतिशक्तिके स्वस्मिन्विलीनां पुरुषार्थायोग्यास्तास्तत्सम्पादकनामरूपभाजो विधाय यज्ञं तन्निरूपकं वेदं च प्रकाश्येत्यर्थम् । तां प्रतीदमुवाच कारुणिकम् । अनेन वेदोक्तेन मदर्पितेन यज्ञेन यूयं प्रसविष्यध्वम् । प्रसवो वृद्धिं स्ववृद्धिं भजध्वमित्यर्थम् । एष मदर्पितो यज्ञो वो युष्माकमिष्टकामधुखृद्विशुद्ध्यात्मज्ञानदेहयात्रासम्पादनद्वारा वाञ्छितमोक्षप्रदोऽस्तु ॥१०॥

(३.११)

देवान्भावयतानेन ते देवा भावयन्तु वम् ।
परस्परं भावयन्तं श्रेयं परमवाप्स्यथ ॥

श्रीधरम् : कथमिष्टकामदोग्धा यज्ञो भवेदिति ? तत्राह देवानिति । अनेन यज्ञेन देवान्भावयत । हविर्भागैं संवर्धयत ते च देवा वो युष्मान्संवर्धयन्तु वृष्ट्यादिना अन्नोत्पत्तिद्वारेण । एवमन्योन्यं संवर्धयन्तो देवाश्च यूयं च परस्परं श्रेयोऽभीष्णमर्थमवाप्स्यथ प्राप्स्यथ ॥११॥

मधुसूदनम् : कथमिष्टकामदोग्धृत्वं यज्ञस्येति तदाह देवानिति । अनेन यज्ञेन यूयं यजमाना देवानिन्द्रादीन्भावयत हविर्भोगैं संवर्धयत तर्पयतेत्यर्थम् । ते देवा युष्माभिर्भावितां सन्तो वो युष्मान्भावयन्तु वृष्ट्यादिनान्नोत्पत्तिद्वारेण संवर्धयन्तु । एवमन्योन्यं संवर्धयन्तो देवाश्च यूयं च वरं श्रेयोऽभिमतमर्थं प्राप्स्यथ देवास्तृप्तिं प्राप्स्यन्ति यूयं च स्वर्गाख्यं परं श्रेयं प्राप्स्यथेत्यर्थम् ॥११॥

विश्वनाथम् : कथमिष्टकामप्रदो यज्ञो भवेत्तत्राह देवानिति । अनेन यज्ञेन देवान्भावयत । भाववतं कुरुत । भावं प्रीतिस्तद्युक्तान्कुरुत प्रीणयनित्यर्थम् । ते देवा अपि वं प्रीणयतु ॥११॥

बलदेवम् : इदं च प्रजां प्रयुक्तामनेन यज्ञेन मदङ्गभूतानिन्दादीन्भावयत तत्तद्धविर्दानेन प्रीतान्यूयं कुरुत । ते देवा वो युष्मांस्तद्वरदानेन भावयन्तु प्रीतान्कुर्वन्तु । इत्थं शुद्धाहारेण मिथो भावतास्ते यूयं परं मोक्षलक्षणं श्रेयं प्राप्स्यथं तत्राहारशुद्धिर्हि ज्ञाननिस्ठाङ्गं, तत्राहारशुद्धौ सत्त्वशुद्धिं सत्त्वशुद्धौ ध्रुवा स्मृतिम्स्मृतिलब्धे सर्वग्रन्थीनां विप्रमोक्षमिति श्रुतेम् ॥११॥

(३.१२)

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताम् ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सम् ॥

श्रीधरम् : एतदेव स्पष्टीकुर्वन्कर्माकरणे दोषमाह इष्टानिति । यज्ञैर्भावितां सन्तो देवा वृष्ट्यादिद्वारेण वो युष्मभ्यं भोगान्दास्यन्ते हि । अतो देवैर्दत्तानन्नादीनेभ्यो देवेभ्यं पञ्चयज्ञादिभिरदत्त्वा यो भुङ्क्ते, स स्तेनश्चौर एव ज्ञेयम् ॥१२॥

मधुसूदनम् : न केवलं पारत्रिकमेव फलं यज्ञात्, किन्त्वैहिकमपीत्याह इष्टानिति । अभिलषितान्भोगान्पश्वन्नहिरण्यादीन्वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति । हि यस्माद्यज्ञैर्भावितास्तोषितास्ते । यस्मात्तैरृणवद्भवद्भ्यो दत्ता भोगास्तस्मात्तैर्देवैर्दत्तान्भोगानेभ्यो देवेभ्योऽप्रदाय यज्ञेषु देवोदेशेनाहुतीरसम्पाद्य यो भुङ्क्ते देहेन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव स देवस्वापहारी देवार्णपाकरणात॥१२॥

विश्वनाथम् : एतदेव स्पष्टीकुर्वन्कर्माकरणे दोषमाह इष्टानिति । तैर्दत्तान्वृष्ट्यादिद्वारेणान्नादीन्नादीनुत्पादेत्यर्थम् । एभ्यो देवेभ्यं पञ्चमहायज्ञादिभिरदत्त्वा यो भुङ्क्ते, स तु चौर एव ॥१२॥

बलदेवम् : एतदेव विशदयन्कर्मानुष्ठानेन दोषमाह इष्टानिति । पूर्वभावितमदङ्गभूता देवा वो युष्मभ्यमिष्टान्मुमुक्षुकाम्यानुत्तरोत्तरयज्ञापेक्षान्भोगान्दास्यन्ति वृष्ट्यादिद्वारा व्रीह्यादीनुत्पाद्येत्यर्थम् । स्वार्चनार्थं तैर्देवैर्दत्तांस्तान्भोगानेभ्यं पञ्चयज्ञादिभिरप्रदाय केवलात्मतृप्तिकरो यो भुङ्क्ते स स्तेनश्चौर एव । देवस्तान्यपहृत्य तैरात्मनं पोषात। चौरो भूपादिव स यमाद्दण्डमर्हति पुमर्थानर्हम् ॥१२॥

(३.१३)

यज्ञशिष्टाशिनं सन्तो मुच्यन्ते सर्वकिल्बिषैम् ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात॥

श्रीधरम् : अतश्च यजन्त एव श्रेष्ठाम् । नेतर इत्याह यज्ञशिष्टाशिन इति । वैश्वदेवादियज्ञावशिष्टं येऽश्नन्ति ते पञ्चसूनाकृतैं सर्वैं किल्बिषैर्मुच्यन्ते । पञ्चसूनाश्च स्मृतावुक्ताम्—

कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।
पञ्चसूना गृहस्थस्य ताभिं स्वर्गं न विन्दति ॥ इति ॥

ये आत्मनो भोजनार्थमेव पचन्ति, न तु वैश्वदेवाद्यर्थं ते पापा दुराचारा अघमेव भुञ्जते ॥१३॥

मधुसूदनम् : ये तु वैश्वदेवादियज्ञावशिष्टममृतं येऽश्नन्ति ते सन्तं शिष्टा वेदोक्तकारित्वेन देवाद्यृणापाकरणाततस्ते मुच्यन्ते सर्वैर्विहिताकरणनिमित्तैं पूर्वकृतैश्च पञ्चसूनानिमित्तैं किल्बिषैम् । भूतभाविपातकासंसर्गिणस्ते भवन्तीत्यर्थम् ।

एवमन्वये भूतभाविपापाभावामुक्त्वा व्यतिरेके दोषमाह भुञ्जते ते वैश्वदेवाद्यकारिणोऽघं पापमेव । तुशब्दोऽवधारणे । ये पापां पञ्चसूनानिमित्तं प्रमादकृतहिंसानिमित्तं च कृतपापां सन्त आत्मकारणादेव पचन्ति न तु वैश्वदेवाद्यर्थम् । तथा च प्âञ्चसूनादिकृतपापे विद्यमान एव वैश्वदेवादिनित्यकर्माकरणनिमित्तमपरं पापमाप्नुवन्तीति भुञ्जते ते त्वघं पापा इत्युक्तम् । तथा च स्मृतिम्—

कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।
पञ्चसूना गृहस्थस्य ताभिं स्वर्गं न विन्दति ॥ इति ।

पञ्चसूनाकृतं पापं पञ्चयज्ञैर्व्यपोहति इति च । श्रुतिश्च इदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्नमो व्यावर्तते मिश्रं ह्येततिति । मन्त्रवर्णोऽपि—

मोघमन्नं विन्दते अग्रचेताम्
सत्यं ब्रवीमि वध इत्स तस्य ।
नार्यमाणं पुष्यति नो सखायं
केवलाधो भवति केवलादी ॥ इति ।

इदं चोपलक्षणं पञ्चमहायज्ञानां स्मार्तानां श्रौतानां च नित्यकर्मणाम् । अधिकृतेन नित्यानि कर्माण्यवश्यमनुष्ठेयानीति प्रजापतिवचनार्थम् ॥१३॥

विश्वनाथम् : वैश्वदेवादियज्ञावशिष्टमन्नं येऽश्नन्ति ते पञ्चसूनाकृतैं सर्वैं पापैर्मुच्यन्ते । पञ्चसूनाश्च स्मृत्युक्ताम्—

कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।
पञ्चसूना गृहस्थस्य ताभिं स्वर्गं न विन्दति ॥ इति ॥१३॥

बलदेवम् : ये इन्द्राद्यङ्गतयावस्थितं यज्ञं सर्वेश्वरं विष्णुमभ्यर्च्य तच्छेषमश्नन्ति तेन तद्देहयात्रां सम्पादयन्ति ते सन्तं सर्वेश्वरस्य यज्ञपुरुषस्य भक्तां सर्वकिल्बिषैरनादिकालविवृद्धैरात्मानुभवप्रतिबन्धकैर्निखिलैं पापैर्विमुच्यन्ते । ते तु पापां पापग्रस्तामघमेव भुञ्जते । ये तत्तद्देवताङ्गतयावस्थितेन यज्ञपुरुषेण स्वार्चनाय दत्तं व्रीह्याद्यात्मकारणात्पचन्ति तद्विपच्यात्मपोषणं कुर्वन्तीत्यर्थम् । पक्वस्य व्रीह्यादेरघरूपेण परिणामादघत्वमुक्तम् ॥१३॥

(३.१४)

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवम् ।
यज्ञाद्भवति पर्जन्यो यज्ञं कर्मसमुद्भवम् ॥

श्रीधरम् : जगच्चक्रप्रवृत्तिहेतुत्वादपि कर्म कर्तव्यमित्याह अन्नादिति त्रिभिम् । अन्नात्शुक्रशोणितरूपेण परिणताद्भूतान्युत्पद्यन्ते । अन्नस्य च सम्भवं पर्जन्याद्वृष्टेम् । स च पर्जन्यो यज्ञाद्भवति । स च यज्ञं कर्मसमुद्भवम् । कर्मणा यजमानादिव्यापारेण सम्यक्सम्पद्यत इत्यर्थम् ।

अग्नौ प्रास्ताहुतिं सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततं प्रजाम् ॥१४॥

मधुसूदनम् : न केवलं प्रजापतिवचनादेव कर्म कर्तव्यमपि तु जगच्चक्रप्रवृत्तिहेतुत्वादपीत्याह अन्नादिति त्रिभिम् । अन्नाद्भुक्ताद्रेतोलोहितरूपेण परिणताद्भूतानि प्राणिशरीराणि भवन्ति जायन्ते । अन्नस्य सम्भवो जन्मान्नसम्भवं पर्जन्याद्वृष्टेम् । प्रत्यक्षसिद्धमेवैतत। अत्र कर्मोपयोगमाह यज्ञात्कारीर्यादेरग्निहोत्रादेश्चापूर्वाख्याद्धर्माद्भवति पर्जन्यम् । यथा चाग्निहोत्राहुतेर्वृष्टिजनकत्वं तथा व्याख्यातमष्टाध्यायीकाण्डे जनकयाज्ञवल्क्यसंवादरूपायां षट्प्रश्न्याम् । मनुना चोक्तम्—

अग्नौ प्रास्ताहुतिं सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्तिर्वृष्तेरन्नं ततं प्रजाम् ॥ [मनु ३.७६] इति ।

स च यज्ञो धर्माख्यं सूक्ष्मं कर्मसमुद्भव ऋत्विग्यजमानव्यापारसाध्यम् । यज्ञस्य हि अपूर्वस्य विहितं कर्म कारणम् ॥१४॥

विश्वनाथम् : जगच्चक्रप्रवृत्तिहेतुत्वादपि यज्ञं कुर्यादेवेत्याह अन्नाद्भूतानि प्राणिनो भवन्तीति भूतानां हेतुरन्नम् । अन्नादेव शुक्रशोणितरूपेण परिणतात्प्राणिशरीरसिद्धेस्तस्यान्नस्य हेतुं पर्जन्यम् । वृष्टिभिरेवान्नसिद्धेस्तस्य पर्जन्यस्य हेतुर्यज्ञम् । लोकैं कृतेन यज्ञेनैव समुचितवृष्टिप्रदमेघसिद्धेस्तस्य यज्ञस्य हेतुं कर्मऋत्विग्यजमानव्यापारात्मकत्वात्कर्मण एव यज्ञसिद्धेम् ॥१४॥

बलदेवम् : प्रजापतिना परेशेन प्रजां सृष्ट्वा तदुपजीवनाय तदैव यज्ञं सृष्टस्ततं परेशानुबर्तिनावश्यं सकार्य इत्याह अन्नादिति द्वाभ्याम् । भूतानि प्राणिनोऽन्नाद्व्रीह्यादेर्भवन्ति । शुक्रशोणितरूपेण परिणतास्तस्मात्तद्देहानां सिद्धेम् । तस्यान्नस्य सम्भवं पर्जन्याद्वृष्टेर्भवति । पर्जन्यश्च यज्ञाद्भवति सिध्यतीत्यर्थम् ।

अग्नौ प्रास्ताहुतिं सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततं प्रजाम् ॥ इति मनुस्मृतेम् ॥१४॥

(३.१५)

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥

श्रीधरम् : तथा कर्मेति । तच्च यजमानादिव्यापाररूपं कर्म ब्रह्मोद्भवं विद्धि । ब्रह्म वेदम् । तस्मात्प्रवृत्तं जानीहि । अस्य महतो भूतस्य निम्श्वसितमेतदृग्वेदो यजुर्वेअं सामवेदोऽथाङ्गीरसं [बृ.आ.उ. २.४.१०] इति श्रुतेम् । यत एवमक्षरादेव यज्ञप्रवृत्तेरत्यन्तमभिप्रेतो यज्ञम्, तस्मात्सर्वगतमप्यक्षरं ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितम् । यज्ञेनोपायभूतेन प्राप्यत इति यज्ञे प्रतिष्ठितमुच्यत इति । उद्यमस्था सदा लक्ष्मीरितिवत। यद्वा, जगच्चक्रस्य मूलं कर्म तस्मात्सर्वगतं मन्त्रार्थवादैं सर्वेषु सिद्धार्थप्रतिपादकेषु भूतार्थाख्यानादिषु गतं स्थितमपि वेदाख्यं ब्रह्म सर्वदा यज्ञे तात्पर्यरूपेण प्रतिष्ठितम् । अतो यज्ञादि कर्म कर्तव्यमित्यर्थम् ॥१५॥

मधुसूदनम् : तच्चापूर्वोत्पादकम् ।  ब्रह्मोद्भवं ब्रह्म वेदं स एवोद्भवं प्रमाणं यस्य तत्तथा । वेदविहितमेव कर्मापूर्वसाधनं जानीहि । न त्वन्यत्पाषण्डप्रतिपादितमित्यर्थम् । ननु पाषण्डशास्त्रापेक्षया वेदस्य किं वैलक्षण्यं यतो वेदप्रतिपादित एव धर्मो नान्य इत्यत आह ब्रह्म वेदाख्यमक्षरसमुद्भवमक्षरात्परमात्मनो निर्दोषात्पुरुषनिम्श्वासन्यायेनाबुद्धिपूर्वं समुद्भव आविर्भावो यस्य तदक्षरसमुद्भवम् । तथा चापौरुषेयत्वेन निरस्तसमस्तदोषाशङ्कं वेदवाक्यं प्रमितिजनकमिति भावम् । तथा च श्रुतिम्—अस्य महतो भूतस्य निम्श्वसितमेतदृग्वेदो यजुर्वेअं सामवेदोऽथाङ्गीरस इतिहासं पुराणं विद्या उपनिषदं श्लोकां सूत्राण्यनुव्याखानानि व्याख्यानान्यस्यैवैतानि निम्श्वसितानि [बृ.आ.उ. २.४.१०] इति ।

तस्मात्साक्षात्परमात्मसमुद्भवतया सर्वगतं सर्वप्रकाशकं नित्यमविनाशि च ब्रह्म वेदाख्यं यज्ञे धर्माख्येऽतीन्द्रिये प्रतिष्ठितं तात्पर्येण । अतं पाषण्डप्रतिपादितोपधर्मपरित्यागेन वेदबोधित एव धर्मोऽनुष्ठेय इत्यर्थम् ॥१५॥

विश्वनाथम् : तस्य कर्मणो हेतुर्ब्रह्म वेदम् । वेदोक्तविधिवाक्यश्रवणादेव यज्ञं प्रति व्यापारोत्पत्तेस्तस्य वेदस्य हेतुरक्षरं ब्रह्म । ब्रह्मत एव वेदोत्पत्तेम् । तथा च श्रुतिम्— अस्य महतो भूतस्य निम्श्वसितमेतदृग्वेदो यजुर्वेअं सामवेदोऽथाङ्गीरसमिति । तस्मात्सर्वगतं ब्रह्म यज्ञे प्रतिष्ठितमिति यज्ञेन ब्रह्मापि प्राप्यत इति भावम् । अत्र यद्यपि कार्यकारणभावेनान्नाद्या ब्रह्मपर्यन्तां पदार्थो उक्तास्तदपि तेषु मध्ये यज्ञ एत विधेयत्वेन शास्त्रेणोच्यत इति । स एव प्रस्तुतम्—

अग्नौ प्रास्ताहुतिं सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततं प्रजाम् ॥ इति स्मृतेम् ॥१५॥

बलदेवम् : तच्च ऋत्विगादिव्यापाररूपकर्मब्रह्मोद्भवं विद्धि । ब्रह्मवेदस्तस्मात्तत्प्रवृत्तिं जानीहीत्यर्थम् । तच्च वेदरूपं ब्रह्म अक्षरात्परेशात्समुद्भवं प्रकटं विद्धि । अस्य महतो भूतस्य निम्श्वसितमेतदृग्वेदो यजुर्वेअं सामवेदो ।थाङ्गीरसमित्यादिश्रवणात। यस्मात्स्वसृष्टप्रजोपजीवनातिप्रियो यज्ञस्तस्मात्सर्वगतं निखिलव्यापकमपि ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितं तेनैव तत्प्राप्यत इत्यर्थम् ॥१५॥

(३.१६)

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यम् ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥

श्रीधरम् : यस्मादेवं परमेश्वरेणैव भूतानां पुरुषार्थसिद्धये कर्मादिचक्रं प्रवर्तितं तस्मात्तदकुर्वतो वृथैव जीवितमित्याह एवमिति । परमेश्वरवाक्यभूताद्वेदाख्याद्ब्रह्मणं पुरुषाणां कर्मणि प्रवृत्तिम् । ततं कर्मनिष्पत्तिम् । ततं पर्जन्यम् । ततोऽन्नम् । ततो भूतानि । भूतानां पुनस्तथैव कर्मप्रवृत्तिरिति । एवं प्रवर्तितं चक्रं यो नानुवर्तयति नानुतिष्ठति सोऽघायुम् । अघं पापरूपमायुर्यस्य सम् । यत इन्द्रियैर्विषयेष्वेवारमति, न तु ईश्वराराधनार्थे कर्मणि । अतो मोघं व्यर्थं स जीवति ॥१६॥

मधुसूदनम् : भवत्येवं ततं किं फलितमित्याह एवमिति । परमेश्वरात्सर्वावभासकनित्यनिर्दोषवेदाविर्भावम् । ततं कर्मपरिज्ञानं ततोऽनुष्ठानाद्धर्मोत्पादम् । ततं पर्जन्यस्ततोऽन्नं ततो भूतानि पुनस्तथैव भूतानां कर्मप्रवृत्तिरित्येवं परमेश्वरेण प्रवर्तितं चक्रं सर्वजगन्निर्वाहकं यो नानुवर्तयति नानुतिष्ठति सोऽघायुं पापजीवनो मोघं व्यर्थमेव जीवति हे पार्थ तस्य जीवनान्मरणमेव वरं जन्मान्तरे धर्मानुष्ठानसम्भवादित्यर्थम् । तथा च श्रुतिम्—अथो अयं वा आत्मा सर्वेषां भूतानां लोकं स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पित्èणामथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकं [बृ.आ.उ. १.४.१६] इति ।

ब्रह्मविदं व्यावर्तयति इन्द्रियाराम इति । यत इन्द्रियैर्विषयेष्वारमति अतं कर्माधिकारी संस्तदकरणात्पापमेवाचिन्वन्व्यर्थमेव जीवतीत्यभिप्रायम् ॥१६॥

विश्वनाथम् : एतदनुष्ठाने प्रत्यवायमाह एवमिति । चक्रं पूर्वपश्चाद्भागेन प्रवर्तितम् । यज्ञान्पर्जन्यम् । पर्जन्यादन्नम् । अन्नात्पुरुषम् । पुरुषात्पुनर्यज्ञम् । यज्ञात्पर्जन्य इत्येवं चक्रं यो नानुवर्तयति यज्ञानुष्ठानेन न परिवर्तयति, स अघायुं पापव्याप्तायुम् । को नरके न मङ्क्ष्यतीति भावम् ॥१६॥

बलदेवम् : यज्ञाकरणे दोषमाहैवमिति । परस्माद्ब्रह्मणो वेदाविर्भावस्तस्माद्ब्रह्मप्रतिबोधकात्यज्ञस्ततं पर्जन्यस्ततोऽन्नं ततो भूतानि पुनस्तथैव भूतानां कर्मप्रवृत्तिरित्येवं निखिलजगन्निर्वाहकं परेशेन प्रजापतिना प्रवर्तितं चक्रं यो नानुवर्तयति स जनं परेशविमुखोऽघायुं पापजीवनो मोघं व्यर्थमेव जीवति । हे पार्थ यदसाविन्द्रियैर्विषयेष्वेव रमते न तु परब्रह्माभिमते यज्ञे तच्छेषाशने च ॥१६॥

(३.१७)

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवम्
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥

श्रीधरम् : तदेवं न कर्मणामारम्भादित्यादिना अज्ञस्य अन्तम्करणशुद्ध्यर्थं कर्मयोगमुक्त्वा ज्ञानिनं कर्मानुपयोगमाह यस्त्विति द्वाभ्याम् । आत्मन्येव रतिं प्रीतिर्यस्य सम् । ततश्चात्मन्येव तृप्तं स्वानन्दानुभवेन निर्वृतम् । अत एव आत्मन्येव सन्तुष्टो भोगापेक्षारहितो यस्तस्य कर्तव्यं कर्म नास्तीति ॥१७॥

ंअधुसूदनमः यस्त्विन्द्रियारामो न भवति परमार्थदर्शी स एवं जगच्चक्रप्रभृतिहेतुभूतं कर्माननुतिष्ठन्नपि न प्रत्यवैति कृतकृत्यत्वादित्याह द्वाभ्यां यस्त्विति । इन्द्रियारामो हि स्रक्चन्दनवनितादिषु रतिमनुभवति मनोज्ञान्नपानादिषु तृप्तिं पशुपुत्रहिरण्यादिलाभेन रोगाद्यभावेन च तुष्टिम् । उक्तविषयाभावे रागिणामरत्यतृप्त्यतुष्टिदर्शनाद्रतितृप्तितुष्ट्यौ मनोवृत्तिविशेषां साक्षिसिद्धाम् । लब्धपरमात्माननस्तु द्वैतदर्शनाभावादतिफल्गुत्वाच्च विषयसुखं न कामयत इत्युक्तं यावानर्थ उदपाने इत्यत्र । अतोऽनात्मविषयकरतितृप्तितुष्ट्यभावादात्मानं परमानन्दमद्वयं साक्षात्कुर्वन्नुपचारादेवमुच्यते— आत्मरतिरात्मतृप्त आत्मसन्तुष्ट इति । तथा च श्रुतिम्—आत्मक्रीड आत्मरतिं क्रियावानेव ब्रह्मविदां वरिष्ठमिति । आत्मतृप्तश्चेति चकार एवकारानुकर्षणार्थम् । मानव इति यं कश्चिदपि मनुष्य एवम्भूतं स एव कृतकृत्यो न तु ब्राह्मणत्वादिप्रकर्षेणेति कथयितुम् । आत्मन्येव च सन्तुष्ट इत्यत्र चकारं समुच्चयार्थम् । य एवम्भूतस्याधिकारहेत्वभावात्किमपि कार्यं वैदिकं लौकिकं वा न विद्यते ॥१७॥

विश्वनाथम् : तदेवं निष्कामत्वासामर्थ्ये सकामोऽपि कर्म कुर्यादेवेत्युक्तम् । यस्तु शुद्धान्तम्करणत्वात्ज्ञानभूमिकामारूढं स तु नित्यं काम्यं च न करोतीत्याह यस्त्विति द्वाभ्याम् । आत्मरतिरात्मारामो यत आत्मतृप्तमात्मानन्दानुभवेन निर्वृतम् । न स्वात्मनि निर्वृतो बहिर्विषयभोगेऽपि किञ्चिन्निर्वृतो भवतु । अत्र नैवेत्याहऽत्मन्येव न तु बहिर्विषयभोगे तस्य कार्यं कर्तव्यत्वेन कर्म नास्ति ॥१७॥

बलदेवम् : यस्तु मदुक्तेन निष्कामकर्मणा मदुपासनेन च विमृष्टे चित्तदर्पणे सञ्जातेन धर्मभूतज्ञानेनात्मानमदर्शत्तस्य न किञ्चित्कर्म कर्तव्यमित्याह यस्त्विति द्वाभ्याम् । आत्मन्यपहतपाप्मत्वादिगुणाष्टकविशिष्टे स्वस्वरूपे अवलोकिते रतिर्यस्य सम् । आत्मना स्वप्रकाशानन्देनावलोकितेन तृप्तो न त्वन्नपानादिना । आत्मन्येव च तादृशे सन्तुष्टो न तु नृत्यगीतादौ । तस्यैवम्भूतस्य तदवलोकानाय किञ्चित्कर्म कर्तव्यं न विद्यते सर्वदावलोकितात्मस्वरूपत्वात॥१७॥
 
(३.१८)

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयम् ॥

श्रीधरम् : तत्र हेतुमाह नैवेति । कृतेन कर्मणा तस्य अर्थं पुण्यं नैवास्ति । न चाकृतेन कश्चन कोऽपि प्रत्यवायोऽस्ति । निरहङ्कारत्वेन विधिनिषेधातीतत्वात। तथापि तस्मात्तदेषां देवानां न प्रियं यदेतन्मनुषा विदुरिति श्र्तुएर्मोक्षे देवकृतविघ्नसम्भवात्तत्परिहारार्थं कर्मभिर्देवां सेव्या इत्याशङ्क्योक्तं सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कश्चिदर्थव्यपाश्रयमाश्रय एव व्यपाश्रयम् । अर्थो मोक्ष आश्रयणीयोऽस्य नास्तीत्यर्थम् । विघ्नाभावस्य श्रुत्यैवोक्तत्वात। तथा च श्रुतिम्—तस्य ह न देवाश्च नाभूत्या ईशते आत्मा ह्येषां स भवति इति श्रवणात। हनेत्यव्ययमप्यर्थे । देवा अपि तस्यात्मतत्त्वज्ञस्य अभूत्यै ब्रह्मभावप्रतिबन्धाय नेशते न शक्नुवन्तीति श्रुतेरर्थम् । देवकृतास्तु विघ्नां सम्यग्ज्ञानोत्पत्तें प्रागेव । यदेतद्ब्रह्म मनुष्या विदुस्तदेषां देवानां न प्रियमिति ब्रह्मज्ञानस्यैव अप्रियत्वोक्त्या तत्रैव विघ्नकर्तृत्वस्य सूचितत्वात॥१८॥

मधुसूदनम् : नन्वात्मविदोऽपि अभ्युदयार्थं निम्श्रेयसार्थं प्रत्यवायपरिहारार्थं वा कर्म स्यादित्यत आह नैवेति । तस्यात्मरतें कृतेन कर्मणाभ्युदयलक्षणो निम्श्रेयसलक्षणो वार्थं प्रयोजनं नैवास्ति तस्य स्वर्गाद्यभ्युदयानर्थित्वात। निम्श्रेयसस्य च कर्मासाध्यत्वात। तथा च श्रुतिम्—परीक्ष्य लोकान्कर्मचित्तान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतं कृतेन इति । अकृतो नित्यो मोक्षं कृतेन कर्मणा नास्तीत्यर्थम् । ज्ञानसाध्यस्यापि व्यावृत्तिरेवकारेण सूचिता । आत्मरूपस्य हि निम्श्रेयस्य नित्यप्राप्तस्याज्ञानमात्रमप्राप्तिम् । तच्च तत्त्वज्ञानमात्रापनोद्यम् । तस्मिंस्तत्त्वज्ञानेनापनुन्ने तस्यात्मविदो न किंचित्कर्मसाध्यं ज्ञानसाध्यं वा प्रयोजनमस्तीत्यर्थम् ।

एवंभूतेनापि प्रत्यवायपरिहारार्थं कर्माण्यनुष्ठेयान्येवेत्यत आह नाकृतेनेति । भावे निष्ठा । नित्यकर्माकरणेनेह लोके गर्हितत्वरूपं प्रत्यवायप्राप्तिरूपो वा कश्चनार्थो नास्ति । सर्वत्रोपपत्तिं  आहोत्तरार्धेन । चो हेतौ । यस्मादस्यात्मविदं सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कोऽपि अर्थव्यपाश्रयं प्रयोजनसम्बन्धो नास्ति । कंचिद्भूतविशेषमाश्रित्य कोऽपि क्रियासाध्योऽर्थो नास्तीति वाक्यार्थम् । अतोऽस्य कृताकृते निष्प्रयोजनं नैव कृताकृते तपतमिति श्रुतेम् । तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां न भवति इति श्रुतेर्देवा अपि तस्य मोक्षाभवनाय न समर्था इत्युक्तेर्न विघ्नाभावार्थमपि देवाराधनरूपकर्मानुष्ठानमित्यभिप्रायम् ।

एतादृशो ब्रह्मविद्भूमिकासप्तकभेदेन निरूपितो वसिष्ठेन—

ज्ञानभूमिं शुभेच्छाख्या प्रथमा परिकीर्तिता ।
विचारणा द्वितीया स्यात्तृतीया तनुमानसा ॥
सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनासिका ।
पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता ॥ इति ।

तत्र नित्यानित्यवस्तुविवेकादिपुरम्सरा फलपर्यवसायिनी मोक्षेच्छा प्रथमा । ततो गुरुमुपसृत्य वेदान्तवाक्यविचारं श्रवणमननात्मको द्वितीया । ततो निदिध्यासनाभ्यासेन मनस एकाग्रतया सूक्ष्मवस्तुग्रहणयोग्यत्वं तृतीया । एतद्भूमिकात्रयं साधनरूपं जाग्रदवस्थोच्यते योगिभिम् । भेदेन जगतो भानात। तदुक्तम्—

भूमिकात्रितयं त्वेतद्राम जाग्रदिति स्थितम् ।
यथावद्भेदबुद्ध्येदं जगज्जाग्रति दृश्यते ॥ इति ।

ततो वेदान्तवाक्यान्निर्विकल्पको ब्रह्मात्मैक्यसाक्षात्कारश्चतुर्थी भूमिका फलरूपा सत्त्वापत्तिं स्वप्नावस्थोच्यते । सर्वस्यापि जगतो मिथ्यात्वेन स्फुरणात। तदुक्तम्—

अद्वैते स्थैर्यमायाते द्वैते प्रशममागते ।
पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकामिताम् ॥ इति ।

सोऽयं चतुर्थभूमिं प्राप्तो योगी ब्रह्मविदित्युच्यते । पञ्चमीषष्ठीसप्तम्यस्तु भूमिका जीवन्मुक्तेरेवावान्तरभेदाम् । तत्र सविकल्पकसमाध्यभ्यासेन निरुद्धे मनसि या निर्विकल्पकसमाध्यवस्था सासंसक्तिरिति सुषुप्तिरिति चोच्यते । ततं स्वयमेव व्युत्थानात। सोऽयं योगी ब्रह्मविद्वरम् । ततस्तदभ्यासपरिपाकेण चिरकालावस्थायिनी सा पदार्थाभावनीति गाढसुषुप्तिरिति चोच्यते । ततं स्वयमनुस्थितस्य योगिनं परप्रयत्नेनैव व्युत्थानात। सोऽयं ब्रह्मविद्वरीयान। उक्तं हि—

पञ्चमीं भूमिकामेत्य सुषुप्तिपदनामिकाम् ।
षष्ठीं गाढसुषुप्त्याख्यां क्रमात्पतति भूमिकाम् ॥ इति ।

यस्यास्तु समाध्यवस्थाया न स्वतो न वा परतो व्युत्थितो भवति सर्वथा भेददर्शनाभावात। किन्तु सर्वदा तन्मय एव स्वप्रयत्नमन्तरेणैव परमेश्वरप्रेरितप्राणवायुवशादन्यैर्निर्वाह्यमाणदैहिकव्यवहारं परिपूर्णपरमानन्दघन एव सर्वतस्तिष्ठति । सा सप्तमी तुरीयावस्था । तां प्राप्तो ब्रह्मविद्वरिष्ठ इत्युच्यते । उक्तं हि—

षष्ठ्यां भूमामसौ स्थित्वा सप्तमीं भूमिकामाप्नुयात।
किंचिदेवैष सम्पन्नस्त्वथवैष न किंचन ॥
विदेहमुक्तता तूक्ता सप्तमी योगभूमिका ।
अगम्या वचसां शान्ता सा सीमा योगभूमिषु ॥ इति ।

यामधिकृत्य श्रीमद्भागवते स्मर्यते—

देहं च नश्वरमवस्थितमुत्थितं वा
सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् ।
दैवादपेतमथ दैववशादुपेतं
वासो यथा परिकृतं मदिरामदान्धम् ॥

देहोऽपि दैववशगं खलु कर्म यावत्
स्वारम्भकं प्रतिसमीक्षत एव सासुम् ।
तं सप्रपञ्चमधिरूठसमाधियोगम्
स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुम् ॥ [भा.पु.११.१३.३६३७]

श्रुतिश्च— तद्यथाऽहिनिर्ल्व्ययनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतं प्राणो ब्रह्मैव तेज एव इति ।

तत्रायं सङ्ग्रहम्—

चतुर्थी भूमिका ज्ञानं तिस्रं स्युं साधनं पुरा ।
जीवन्मुक्तेरवस्थास्तु परास्तिस्रं प्रकीर्तिताम् ॥

अत्र प्रथमभूमित्रयमारूढोऽज्ञोऽपि न कर्माधिकारी किं पुनस्तत्त्वज्ञानी तद्विशिष्टो जीवन्मुक्तो वेत्यभिप्रायम् ॥१८॥

विश्वनाथः कृतेनानुष्ठितेन कर्मणा नार्थो न फलम् । अकृतेन कञ्चन प्रतवायोऽपि न, यस्मादस्य सर्वभूतेषु ब्रह्माण्डस्थावरादिषु मध्ये कश्चिदप्यर्थाय स्वप्रयोजनार्थं व्यपाश्रय आश्रयणीयो न भवति । पुराणादिषु व्यपाश्रयशब्देन तथैवोच्यते, यथा—वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् । तथा—यदुपाश्रयाश्रयां शुद्ध्यन्ति [भा.पु.२.७.४६] इति । संस्थाहेतुरुपाश्रयमित्यादावप्यपेत्युपसर्गस्यानधिकार्थं दृष्टम् ॥१८॥

बलदेवम् : कृतेन तदवलोकनायानुष्ठितेन कर्मणार्थं फलं नैवास्ति । अकृतेन तदवलोकनासाधनेन कर्मणा कश्चनानर्थश्च तदवलोकनक्षतिलक्षण इह न भवति । स्वाभाविकात्मावलोकनात। न त्वीदृशोऽपि देवकृताद्विघ्नाद्बिभ्यत्तत्तोषाय तत्पूजात्मकं कर्म कुर्यात। श्रुतिश्च देवान्ज्ञानद्विषं प्राह—तस्मात्तदेषां देवानां न प्रियं यदेतन्मनुषा विदुरिति । तत्राह न चेति । अस्य लब्धात्मावलोकस्य विदुषं सर्वभूतेषु देवेषु मानवेषु च मध्ये कश्चिदप्यर्थायात्मरतिर्नैर्विघ्नाय व्यपाश्रयं कर्मभिं सेव्यो न भवति । ज्ञानोदयात्पूर्वमेव देवकृता विघ्नां तेनात्मरतौ सत्यां तु न तत्कृतास्ते तत्प्रभावेण सम्भवन्ति । तस्य ह न देवाश्च नाभूत्या ईशते आत्मा ह्येषां सम्भवति इति श्रवणात। हनेत्यप्यर्थे निपातम् । देवा अपि तस्यात्मानुभविनो ।भूत्यै आत्मरतिक्षतये नेशते । हि यस्मादेषां स आत्मा तद्वत्प्रेष्ठो भवतीत्यर्थम् ॥१८॥

(३.१९)

तस्मादसक्तं सततं कार्यं कर्म समाचर
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषम् ॥

श्रीधरम् :यस्मादेवम्भूतस्य ज्ञानिन एव कर्मानुपयोगो नान्यस्य तस्मात्त्वं कर्म कुर्वित्याह तस्मादिति । असक्तं फलसङ्गरहितं सन्कार्यमवश्यकर्तव्यतया विहितं नित्यं नैमित्तिकं कर्म सम्यगाचर । हि यस्मादसक्तं कर्माचरन्पुरुषं परं मोक्षं चित्तशुद्धिज्ञानद्वारा प्राप्नोति ॥१९॥

मधुसूदनम् : यस्मान्न त्वमेवंभूतो ज्ञानी किन्तु कर्माधिकृत एव मुमुक्षुम् । असक्तं फलकामनारहितं सततं सर्वदा न तु कदाचित्कार्यमवश्यकर्तव्यं यावज्जीवादिश्रुतिचोदितं तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्या ज्ञाने विनियुक्तं कर्म नित्यनैमित्तिकलक्षणं सम्यगाचर यथाशास्त्रं निर्वर्तय । असक्तो हि यस्मादाचरन्नीश्वरार्थं कर्म कुर्वन्सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण परं मोक्षमाप्नोति पूरुषं पुरुषं स एव सत्पुरुषो नान्य इत्यभिप्रायम् ॥१९॥

विश्वनाथम् : तस्मात्तव ज्ञानभूमिकारोहणे नास्ति योग्यता । काम्यकर्मणि तु सद्विवेकवतस्तव नैवाधिकारम् । तस्मात्निष्कामकर्मैव कुर्वित्याह तस्मादिति । कार्यमवश्यकर्तव्यत्वेन विहितं परं मोक्षम् ॥१९॥

बलदेवम् : यस्माल्लब्धात्मावलोकनस्यैव कर्मानुपयोगस्तस्मादेतादृक्त्वं कार्यं कर्तव्यत्वेन विहितं कर्म समाचर । असक्तं फलेच्छाशून्यं सन। परं देहादिभिन्नमात्मानमाप्नोत्यवलोकते याथात्म्येन ॥१९॥

(३.२०)

कर्मणैव हि संसिद्धिमास्थिता जनकादयम्
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥

श्रीधरम् : अत्र सदाचारं प्रमाणयति कर्मणैवेति । कर्मणैव शुद्धसत्त्वां सन्तं संसिद्धिं सम्यग्ज्ञानं प्राप्ता इत्यर्थम् । यद्यपि त्वं सम्यग्ज्ञानिनमेवात्मानं मन्यसे, तथापि कर्माचरणं भद्रमेवेत्याह लोकसङ्ग्रहमित्यादि । लोकस्य सङ्ग्रहं स्वधर्मे प्रवर्तनम् । मया कर्मणि कृते जनं सर्वोऽपि करिष्यति । अन्यथा ज्ञानिदृष्टान्तेनाज्ञो निजधर्मं नित्यं कर्म त्यजन्पतेत। इत्येवं लोकरक्षणमपि तावत्प्रयोजनं संपश्यन्कथं कर्तुमेवार्हसि । न त्यक्तुमित्यर्थम् ॥२०॥

मधुसूदनम् : ननु विविदिषोरपि ज्ञाननिष्ठाप्राप्त्यर्थं श्रवणमनननिदिध्यासनानुष्ठानाय सर्वकर्मत्यागलक्षणं संन्यासो विहितम् । तथा च न केवलं ज्ञानिन एव कर्मानधिकारं किन्तु ज्ञानार्थिनोऽपि विरक्तस्य । तथा च मयापि विरक्तेन ज्ञानार्थिना कर्माणि हेयान्येवेत्यर्जुनाशङ्कां क्षत्रियस्य संन्यासानधिकारप्रतिपादनेनापनुदति भगवान्कर्मणैवेति ।

जनकादयो जनकाजातशत्रुप्रभृतयं श्रुतिस्मृतिप्रसिद्धां क्षत्रिया विद्वांसोऽपि कर्मणैव सह न तु कर्मत्यागेन स संसिद्धिं श्रवणादिसाध्यां ज्ञाननिष्ठामास्थितां प्राप्ताम् । हि यस्मादेवं तस्मात्त्वमपि क्षत्रियो विविदिषुर्विद्वान्वा कर्म कर्तुमर्हसीत्यनुषङ्गम् । ब्राह्मणं पुत्रैषणायाश्च वित्तषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति इति संन्यासविधायके वाक्ये ब्राह्मणत्वस्य विवक्षितत्वात। स्वाराज्यकामो राजा राजसूयेन यजेत इत्यत्र क्षत्रियत्वावत। चत्वार आश्रमा ब्राह्मणस्य त्रयो राजन्यस्य द्वौ वैश्यस्य इति च स्मृतेम् । पुराणेऽपि—

    मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम् ।
बाहुजातोरुजातानां नायं धर्मं प्रशस्यते ॥

इति क्षत्रियवैश्ययों संन्यासाभाव उक्तम् । तस्माद्युक्तमेवोक्तं भगवता कर्मणैव हि संसिद्धिमास्थिता जनकादयम् ।

सर्वे राजाश्रिता धर्मा राजा धर्मस्य धारकमित्यादि स्मृतेर्वर्णाश्रमप्रवर्तकत्वेनापि क्षत्रियोऽवश्यं कर्म कुर्यादित्याह लोकेति । लोकानां स्वे स्वे धर्मे प्रवर्तनमुन्मार्गान्निवर्तनं च लोकसङ्ग्रहस्तं पश्यन्नपिशब्दाज्जनकादिशिष्टाचारमपि पश्यन्कर्म कर्तुमर्हस्येवेत्यन्वयम् । क्षत्रियजन्मप्रापकेण कर्मणारब्धशरीरस्त्वं विद्वानपि जनकादिवत्प्रारब्धकर्मफलेन लोकसङ्ग्रहार्थं कर्म कर्तुं योग्यो भवसि न तु त्यक्तुं ब्राह्मणजन्मालाभादित्यभिप्रायम् । एतादृशभगवदभिप्रायविदा भगवता भाष्यकृता ब्राह्मणस्यैव संन्यासो नान्यस्येति निर्णीतम् । वार्तिककृता तु प्रौढिवादमात्रेण क्षत्रियवैश्ययोरपि संन्यासोऽस्तीत्युक्तमिति द्रष्टव्यम् ॥२०॥

विश्वनाथम् : अत्र सदाचारं प्रमाणयति कर्मणेति । यदि वा त्वमात्मानं ज्ञान्¨धिकारिणं मन्यसे, तदपि लोके शिक्षा ग्रहणार्थं कर्मैव कुर्वित्याह लोकेति ॥२०॥

बलदेवम् : सदाचारमत्र प्रमाणयति कर्मणैवेति । कर्मणैवोपायेन विशुद्धचित्तां सन्तं संसिद्धिं स्वात्मावलोकनलक्षणामास्थितां प्रापुम् । कर्मणैवेति विशेषणसम्बन्ध एवकारस्तस्यायोगं व्यवच्छिन्नत्ति शङ्खपाण्डुर एवेतिवत। तेन श्रवणादेर्न व्युदासम् । कर्मणा यज्ञादिना सहैव श्रवणादिनेति केचित।

ननु सनिष्ठस्यात्मावलोकने कर्मानुष्ठानं नास्तीत्युक्तम् । मम परिनिष्ठितस्यावलोकितस्वपरात्मनं कर्मोपदेशं कुत इति चेत्तत्राह लोकेति । सत्यं त्वमीदृश एव तथापि लोकसङ्ग्रहाय कर्म कुर्विति अर्जुने मयि कर्म कुर्वाणे सर्वलोकं कर्म करिष्यति । इतरथा मद्दृष्टान्तेनाज्ञोऽपि लोकं कर्म त्यजन्पतिष्यतीति लोकसंरक्षणं तत्फलम् ॥२०॥

(३.२१)

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनम् ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥

श्रीधरम् : कर्मकरणे लोकसङ्ग्रहो यथा स्यात्तदाह यदिति । इतरं प्राकृतोऽपि जनस्तत्तदेवाचरति । स श्रेष्ठो जनं कर्मशास्त्रं तन्निवृत्तिशास्त्रं वा यत्प्रमाणं मन्यते, तदेव लोकोऽप्यनुसरति ॥२१॥

मधुसूदनम् : ननु मया कर्मणि क्रियमाणेऽपि लोकं किमिति तत्सङ्गृह्णीयादित्याशङ्क्य श्रेष्ठाचारानुविधायित्वादित्याह यद्यदिति । श्रेष्ठं प्रधानभूतो राजादिर्यद्यत्कर्माचरति शुभमशुभं वा तत्तदेवाचरतीतरं प्राकृतस्तदनुगतो जनम् । न त्वन्यत्स्वातन्त्र्येणेत्यर्थम् ।

ननु शास्त्रमवलोक्याशास्त्रीयं श्रेष्ठाचारं परित्यज्य शास्त्रीयमेव कुतो नाचरति लोक इत्याशङ्क्याचारवत्प्रतिपत्तावपि श्रेष्ठानुसारितामितरस्य दर्शयति स यदिति । स श्रेष्ठो यल्लौकिकं वैदिकं वा प्रमाणं कुरुते प्रमाणत्वेन मन्यते तदेव लोकोऽप्यनुवर्तते प्रमाणं कुरुते न तु स्वातन्त्र्येण किंचिदित्यर्थम् । तथा च प्रधानभूतेन त्वया राज्ञा लोकसंरक्षणार्थं कर्म कर्तव्यमेव प्रधानानुयायिनो जनव्यवहारा भवन्तीति न्यायादित्यभिप्रायम् ॥२१॥

विश्वनाथम् : लोकसङ्ग्रहप्रकारमेवाह यद्यदिति ॥२१॥

बलदेवम् : लोकसङ्ग्रहप्रकारमेवाह यद्यदिति । श्रेष्ठो महत्तमो यत्कर्म यथाचरति तत्कर्म तथैवेतरं कनिष्ठोऽप्याचरति । स श्रेस्ठस्तस्मिन्कर्मणि यच्छास्त्रं प्रमाणं कुरुते मन्यते लोकं कनिष्ठोऽपि तदनुयायी तदेवानुवर्ततेऽनसरति । शास्त्रोपेतं श्रेष्ठाचरणं कल्याणलिप्सुना कनिष्ठेनानुष्ठेयमित्यर्थम् । इत्थं च तेजस्विनं श्रेष्ठस्य च यत्क्वचित्स्वैराचरणं तद्व्यावृतम् । तस्य श्रेष्ठकृतत्वेऽपि शास्त्रोपेतत्वाभावात॥२१॥

(३.२२)

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥

श्रीधरम् : अत्र चाहमेव दृष्टान्त इत्याह न म इति त्रिभिम् । हे पार्थ ! मे कर्तव्यं नास्ति । यतस्त्रिष्वपि लोकेषु अनवाप्तमप्राप्तं सदावप्तव्यं प्राप्यं नास्ति । तथापि कर्मण्यहं वर्त एव कर्म करोम्येवेत्यर्थम् ॥२२॥

मधुसूदनम् : अत्र चाहमेव दृष्टान्त इत्याह न म इति त्रिभिम् । हे पार्थ न मे मम त्रिष्वपि लोकेषु किमपि कर्तव्यं नास्ति । यतोऽनवाप्तं फलं किंचिन्ममावाप्तव्यं नास्ति । तथापि वर्त एव कर्मण्यहं कर्म करोम्येवेत्यर्थम् । पार्थेति सम्बोधयन्विशुद्धक्षत्रियवंशोद्भवस्त्वं शूरापत्यापत्यत्वेन चात्यन्तं मत्समोऽहमिव वर्तितुमर्हसीति दर्शयति ॥२२॥

विश्वनाथम् : अत्राहमेव दृष्टान्त इत्याह त्रिभिम् ॥२२॥

बलदेवम् : श्रेष्ठं कर्मफलनिरपेक्षोऽपि लोकसङ्ग्रहाय शास्त्रोदितानि कर्माण्याचरेदित्यर्थे स्वं दृष्टान्तमाह न मे पार्थेति त्रिभिम् । सर्वेशस्य सत्यसङ्कल्पस्य सत्यकामस्य मे कर्तव्यं नास्ति । फलार्थिना खलु कर्मानुष्ठेयम् । न च निखिलफलाश्रयस्य स्वयं परमफलात्मनो मे कर्मापेक्ष्यमित्यर्थम् । एतद्दर्शयति त्रिष्विति । यतं सर्वेषु लोकेषु कर्मणा यत्फलमवाप्तव्यं तदनवाप्तमलब्धं मम नास्ति सर्वं तन्मदीयमेवेत्यर्थम् । तथापि शास्त्रोक्तं कर्माहं करोम्येवेत्याह वर्त इति ॥२२॥

(३.२३)

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितम् ।
मम वर्त्मानुवर्तन्ते मनुष्यां पार्थ सर्वशम् ॥

श्रीधरम् : अकरणे लोकस्य नाशं दर्शयति यदि ह्यहमिति । जातु कदाचित। अतन्द्रितोऽनलसं सन्यदि कर्मणि न वर्तेय कर्म नानुतिष्ठेयम्, तर्हि ममैव वर्त्म मार्गं मनुष्या अनुवर्तन्ते अनुवेर्तेरन्नित्यर्थम् ॥२३॥

मधुसूदनम् : लोकसङ्ग्रहोऽपि न ते कर्तव्यो विफलत्वादित्याशङ्क्याह यदि ह्यहमिति । यदि पुनरहमतन्द्रितोऽनलसं सन्कर्मणि जातु कदाचिन्न वर्तेय नानुतिष्ठेयं कर्माणि तदा मम श्रेष्ठस्य सतो वर्त्म मार्गं हे पार्थ मनुष्यां कर्माधिकारिणं सन्तोऽनुवर्तन्तेऽनुवर्तेरन्सर्वशं सर्वप्रकारैम् ॥२३॥

विश्वनाथम् : अनुवर्ततेऽनुवर्तेरन्नित्यर्थम् ॥२३॥

बलदेवम् : यदीति । अहं सर्वेश्वरं सिद्धसर्वार्थोऽपि यदुकुलावतीर्णो जातु कदाचित्तत्कुलोचिते शास्त्रोक्ते कर्मणि न वर्तेय तन्न कुर्यामतन्द्रितं सावधानं सन्तर्हि मां दृष्टान्तं कृत्वा मनुष्यां श्रेष्ठस्य मम वर्त्म कुलविहिताचारत्यागरूपमनुवर्तेरन्ततो भ्रंशेरन्नित्यर्थम् ॥२३॥

(३.२४)

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमां प्रजाम् ॥

श्रीधरम् : ततं किं ? अत आह उत्सीदेयुरिति । उत्सीदेयुर्धर्मलोपेन नश्येयुम् । ततश्च यो वर्णसङ्करो भवेत्तस्याप्यहमेव कर्ता स्यां भवेयम् । एवमहमेव प्रजा उपहन्यां मलिनीकुर्यामिति ॥२४॥

मधुसूदनम् : श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणामुचितमेव अनुवर्तित्वे को दोष इत्यत आह उत्सीदेयुरिति । अहमीश्वरश्चेद्यदि कर्म न कुर्यां तदा मदनुवर्तिनां मन्वादीनामपि कर्मानुपपत्तेर्लोकस्थितिहेतों कर्मणो लोपेनेमे सर्वे लोका उत्सीदेयुर्विनश्येयुम् । ततश्च वर्णसंकरस्य च कर्ताहमेव स्याम् । तेन चेमां सर्वां प्रजा अहमेवोपहन्यां धर्मलोपेन विनाशयेयम् । कथं च प्रजानामनुग्रहार्थं प्रवृत्त ईश्वरोऽहं तां सर्वा विनाशयेयमित्यभिप्रायम् ।

यद्यदाचरतीत्यादेरपरा योजना । न केवलं लोकसंग्रहं सम्पश्यन्कर्तुमर्हस्यपि तु श्रेष्ठाचारत्वादपीत्याह यद्यदिति । तथा च मम श्रेष्ठस्य यादृश एव आचारस्तादृश एव मदनुवर्तिना त्वयानुष्ठेयो न स्वातन्त्र्येणान्य इत्यर्थम् । कीदृशस्तवाचारो यो मयानुवर्तनीय इत्याकाङ्क्षायां न मे पार्थेत्यादिभिस्त्रिभिं श्लोकैस्तत्प्रदर्शनमिति  ॥२४॥

विश्वनाथम् : उत्सीदेयुर्मां दृष्टान्तीकृत्य धर्ममकुर्वाणा भ्रंशेयुम् । ततश्च वर्णसङ्करो भवेत्तस्याप्यहमेव कर्ता स्यामेवमहमेव प्रजा हन्याम् । मलिनां कुर्याम् ॥२४॥

बलदेवम् : ततं किं स्यादित्याह उत्सीदेयुरिति । अहं सर्वश्रेष्ठश्चेत्शास्त्रोक्तं कर्म न कुर्यां तर्हीमे लोका उत्सीदेयुर्विभ्रष्टमर्यादां स्युम् । तद्विभ्रंशे सति यं सङ्करं स्यात्तस्याप्यहमेव कर्ता स्याम् । एवं च प्रजापतिरहमिमां प्रजां साङ्कर्यदोषेणोपहन्यां मलिनां कुर्याम् । तथा च— एष सेतुर्विधरण एषां लोकानामसंभेदाय इति श्रुत्या लोकमर्यादाविधारकत्वेन परिगीतस्य मे तन्मर्यादाभेदकत्वं स्यादिति । एवमुपदिशतोऽपि हरेर्यत्किंचित्स्वभक्तसुखेच्छों स्वैराचरितं दृष्टं, तत्खलु विधायकेन तद्वचसानुपेतत्वादीश्वरीयत्वाच्चावरैर्नैवाचरणीयम् । यदुक्तं श्रीमता शुकेन—

ईश्वराणां वचं सत्यं
तथैवाचरितं क्वचित।
तेषां यत्स्ववचोयुक्तं
बुद्धिमांस्तत्समाचरेत॥

नैतत्समाचरेज्जातु
मनसापि ह्यनीश्वरम् ।
विनश्यत्याचरन्मौढ्याद्
यथारुद्रो ।ब्धिजं विषम् ॥ [भा.पु.१०.३३.३१२] इति ॥२४॥

(३.२५)

सक्तां कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥

श्रीधरम् : तस्मादात्मविदापि लोकसङ्ग्रहार्थ तत्कृपया कर्म कार्यमेवेत्युपसंहरति सक्ता इति । कर्मणि सक्ता अभिनिविष्टां सन्तो यथाज्ञां कर्माणि कुर्वन्ति, असक्तं सन्विद्वानपि कुर्यात्लोकसंग्रहं कर्तुमिच्छुम् ॥२५॥

मधुसूदनम् : ननु तवेश्वरस्य लोकसंग्रहार्थं कर्माणि कुर्वाणस्यापि कर्तृत्वाभिमानाभावान्न कापि क्षतिम् । मम तु जीवस्य लोकसंग्रहार्थं कर्माणि कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवं स्यादित्यत आह सक्ता इति । सक्तां कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्मण्यभिनिविष्टा अविद्वांसोऽज्ञा यथा कुर्वन्ति कर्म लोकसंग्रहं कर्तुमिच्छुर्विद्वानात्मविदपि तथैव कुर्यात। किन्तु असक्तं सन्कर्तृत्वाभिमानं फलाभिसन्धिं चाकुर्वन्नित्यर्थम् । भारतेति भरतवंशोद्भवत्वेनभा ज्ञानं तस्यां रतत्वेन वा त्वं यथोक्तशास्त्रार्थबोधयोग्योऽसीति दर्शयति ॥२५॥

विश्वनाथम् : तस्मात्प्रतिष्ठितेन ज्ञानिनापि कर्म कर्तव्यमित्युपसंहरति सक्ता इति ॥२५॥

बलदेवम् : तस्मात्प्रतिष्ठितेऽपि त्वं लोकहिताय वेदोक्तं स्वकर्म प्रकुर्वित्याशयेनाह सक्ता इति । अज्ञा यथा कर्मणि सक्तां फललिप्सयाभिनिविष्टास्तत कुर्वन्त्येवं विद्वानपि कुर्यात। किन्त्वसक्तं फललिप्साशून्यं सन। स्फुटमन्यत॥२५॥

(३.२६)

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तं समाचरन॥

श्रीधरम् : ननु कृपया तत्त्वज्ञानमेवोपदेष्टुं युक्तम् । नेत्याह न बुद्धिभेदमिति अज्ञानामत एव कर्मसङ्गिनां कर्मासक्तानामकर्तात्मेओपदेशेन बुद्धेर्भेदमन्यथात्वं न जनयेत। कर्मणं सकाशाद्बुद्धिविचालनं न कुर्यात। अपि तु जोषयेत्सेवयेत। अज्ञान्कर्माणि कारयेदित्यर्थम् । कथं ? युक्तोऽवहितो भूत्वा स्वयमाचरन्सन। बुद्धिविचालने कृते सति कर्मसु श्रद्धानिवृत्तेर्ज्ञानस्य चानुत्पत्तेस्तेसामुभयभ्रंशं स्यादिति भावम् ॥२६॥

मधुसूदनम् : ननु कर्मानुष्ठानेनैव लोकसंग्रहं कर्तव्यो न तु तत्त्वज्ञानोपदेशेनेति को हेतुरत आह न बुद्धीति । अज्ञानामविवेकिनां कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्मसङ्गिनां कर्मण्यभिनिविष्टानां या बुद्धिरहमेतत्कर्म करिष्य एतत्फलं च भोक्ष्य इति तस्या भेदं विचालनमकर्त्रात्मोपदेशेन न कुर्यात। किन्तु युक्तोऽवहितं  सन्विद्वान्लोकसंग्रहं चिकीर्षुरविद्वदधिकारिकाणि सर्वकर्मणि समाचरंस्तेषां श्रद्धामुत्पाद्य जोषयेत्प्रीत्या सेवयेत। अनधिकारिणामुपदेशेन बुद्धिविचालने कृते कर्मसु श्रद्धानिवृत्तिर्ज्ञानस्य चानुत्पत्तेरुभयभ्रष्टत्वं स्यात। तथा चोक्तं—

अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत।
महानिरयजालेषु स तेन विनियोजितम् ॥ इति ॥२६॥

विश्वनाथम् : अलं कर्मजडिम्ना । त्वं कर्मसन्न्यासं कृत्वा ज्ञानाभ्यासेनाहमिव कृतार्थीभवैति बुद्धिभेदं न जनयेत्कर्मसङ्गिनमशुद्धान्तम्करणत्वेन कर्मस्वेवासक्तिमताम् । किन्तु त्वं कृतार्थीभविष्यन्निष्कामकर्मैव क्रु इति कर्माण्येव योजयेत्कारयेत। अत्र कर्माणि समाचरन्स्वयमेव दृष्टान्तीभवेत।

ननु,
स्वयं निम्श्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमम् ॥ [भा.पु.६.९.५]

इत्यजितवाक्येनैतद्विरुध्यते । सत्यम् । तत्खलु भक्त्युपदेष्टृकविषयमिदं तु ज्ञानोपदेष्टृकविषयमित्यविरोधम् । ज्ञानस्यान्तम्करणशुद्ध्यधीनत्वात। तच्छुद्धेस्तु निष्कामकर्माधीनत्वात्, भक्तेस्तु स्वतं प्राबल्यादन्तम्करणशुद्धिपर्यन्तानपेक्षत्वात। यदि भक्तौ श्रद्धामुत्पादयितुं शक्नुयात्, तदा कर्मिणां बुद्धिभेदमपि जनयेत्, भक्तौ श्रद्धावतां कर्मानधिकारात्—

तावत्कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ [भा.पु.११.२०.९] इति ।

धर्मान्सन्त्यज्य यं सर्वान्मां भजेत्स तु सत्तमं [भा.पु.११.११.३२] इति, सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज [गीता १८.६६] इति, त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्भजन्नपक्वोऽथ पतेत्ततो यदि [भा.पु.१.५.१७] इत्यादिवचनेभ्य इति विवेचनीयम् ॥२६॥

बलदेवम् : किं च, लोकहितेच्छुर्ज्ञानी सावहितं स्यादित्याह न बुद्धीति । विद्वान्परिनिष्ठितोऽपि कर्मसङ्गिनां कर्मश्रद्धाजाड्यभाजामज्ञानां बुद्धिभेदं न जनयेत। किं कर्मभिरहमिव ज्ञानेनैव कृतार्थो भवेति कर्मनिष्ठातस्तद्बुद्धिं नापनयेदित्यर्थम् । किन्तु स्वयं कर्मसु युक्तं सावधानस्तानि सम्यक्सर्वाङ्गोपसंहारेणाचरन्सर्वाणि विहितानि कर्माणि योषयेत्प्रीत्या सेवयेतज्ञान्कर्माणि कारयेदित्यर्थम् । बुद्धिभेदे सति कर्मसु श्रद्धानिवृत्ते ज्ञानस्य चानुदयादुभयविभ्रष्टास्ते स्युरिति भावम् ।

स्वयं निम्श्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमम् ॥ [भा.पु.६.९.५]

इत्यजितोक्तिस्तु कर्मसङ्गीतरपरतया नेया ॥२६॥

(३.२७)

प्रकृतें क्रियमाणानि गुणैं कर्माणि सर्वशम् ।
अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥

श्रीधरम् : ननु विदुषोऽपि चेत्कर्म कर्तव्यं तर्हि विद्वदविदुषों को विशेषं ? इत्याशङ्क्योभयोर्विशेषं दर्शयति प्रकृतेरिति द्वाभ्याम् । प्रकृतेर्गुणैं प्रकृतिकार्यैरिन्द्रियैं सर्वप्रकारेण क्रियमाणानि कर्माणि । तान्यहमेव कर्ता करोमीति मन्यते । अत्र हेतुम्— अहंकारेण इन्द्रियादिष्वात्माध्यासेन विमूढबुद्धिं सन॥२७॥

मधुसूदनम् : विद्वदविदुषों कर्मानुष्ष्ठानसाम्येऽपि कर्तृत्वाभिमानतदभावाभ्यां विशेषं दर्शयन्सक्तां कर्मणीतिश्लोकार्थं विवृणोति द्वाभ्यां प्रकृतेरिति । प्रकृतिर्माया सत्त्वरजस्तमोगुणमयी मिथ्याज्ञानात्मिका पारमेश्वरी शक्तिं मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं [श्वे.उ.] इति श्रुतेम् । तस्यां प्रकृतेर्गुणैर्विकारैं कार्यकारणरूपैं क्रियमाणानि लौकिकानि वैदिकानि च कर्माणि सर्वशं सर्वप्रकारैरहङ्कारेण कार्यकारणसंघातात्मप्रत्ययेन विमूढं स्वरूपविवेकासमर्थ आत्मान्तम्करणं यस्य सोऽहङ्कारविमूढात्मानात्मन्यात्माभिमानी तानि कर्माणि कर्ताहमिति करोम्यहमिति मन्यते कर्तृत्वाध्यासेन । कर्ताहमिति तृन्प्रत्ययम् । तेन न लोकाव्ययनिष्ठाखलर्थतृणां [पा. २.३.६९] इति षष्ठीप्रतिषेधम् ॥२७॥

विश्वनाथम् : ननु यदि विद्वानपि कर्म कुर्यात्, तर्हि विद्वदविदुषों को विशेषं ? इत्याशङ्क्य तयोर्विशेषं दर्शयति प्रकृतेरिति द्वाभ्याम् । प्रकृतेर्गुणैं कार्यैरिन्द्रियैं सर्वशं सर्वप्रकारेण क्रियमाणानि यानि कर्माणि तान्यहमेव कर्ता करोमीत्यविद्वान्मन्यते ॥२७॥


बलदेवम् : कर्मित्वसाम्येऽपि विज्ञाज्ञयोर्विशेषमाह प्रकृतेरिति द्वाभ्याम् । अहंकारविमूढात्मा जनोऽहं कर्माणि कर्तेति मन्यते । न लोकाव्ययनिष्ठा इति सूत्रात्षष्ठीनिषेधम् । कर्माणि लौकिकानि वैदिकानि च । तानि कीदृशानीत्याह प्रकृतेरीशमायाया गुणैस्तत्कार्यैर्शरीरेन्द्रियप्राणैरीश्वरप्रवर्तितैं क्रियमाणानीति । इदमेव वेदितव्यम्— उपक्रमविनिर्णयात्संविद्वपुर्जीवात्मास्मदर्थं कर्ता चानादिकालविषयभोगवासनाक्रान्तस्तद्भोगार्थिकां स्वसन्निहितां प्रकृतिमाश्लिष्टस्तत्कार्येणाहङ्कारेण विमूढात्मा तादृशस्वविज्ञानशून्यं शरीराद्यहंभाववान्प्राकृतैं शरीरादिभिरीशेन च सिद्धानि कर्माणि मयैवैकेन कृतानीति मन्यते । कर्तुरात्मनो यत्कर्तृत्वं तत्किल देहादिभिस्त्रिभिं परमात्मना च सर्वप्रवर्तकेन च सिद्ध्यति । न त्वेकेन जीवेनैव । तच्च मयैव सिद्ध्यतीति जीवो यन्मन्यते तदहङ्कारविमौढ्यादेव— अधिष्ठानं तथा कर्था [गीता १८.१४] इत्यादिकाच्चरमाध्यायवाक्यत्रयात। कार्यकारणकर्तृत्वे हेतुं प्रकृतिरुच्यते [गीता १३.१८] इत्यत्र शरीरेन्द्रियादिकर्तृत्वं प्रकृतेरिति यद्वर्णयिष्यते, तत्रापि केवलायास्तस्यास्तन्न शक्यं मन्तुम् । पुरुषसंसर्गेणैव तत्प्रवृत्तेरङ्गीकारात। ततश्च पुरुषस्य कर्तृत्वमवर्जनीयमिति व्याख्यास्यते ॥२७॥

(३.२८)

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोम् ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥

श्रीधरम् : विद्वांस्तु न तथा मन्यते इत्याह तत्त्वविदिति । नाहं गुणात्मक इति गुणेभ्य आत्मनो विभागम् । न मे कर्माणीति कर्मभ्योऽप्यात्मनो विभागम् । तयोर्गुणकर्मविभागयोर्यस्तत्त्वं वेत्ति स तु न कर्तृत्वाभिनिवेशं न करोति । तत्र हेतुम्— गुणा इति । गुणा इन्द्रियाणि गुणेषु विषयेषु वर्तन्ते नाहमिति मत्वा ॥२८॥

मधुसूदनम् : विद्वांस्तु तथा न मन्यत इत्याह तत्त्वविदिति । तत्त्वं  याथात्म्यं वेत्तीति तत्त्ववित। तुशब्देन तस्याज्ञाद्वैशिष्ट्यमाह । कस्य तत्त्वमित्यत आह गुणकर्मविभागयोम् । गुणा देहेन्द्रियान्तम्करणान्यहङ्कारास्पदानि कर्माणि च तेषां व्यापारभूतानि ममकारास्पदानीति गुणकर्मेति द्वन्द्वैकवद्भावम् । विभज्यते सर्वेषां जडानां विकारिणां भासकत्वेन पृथग्भवतीति विभागं स्वप्रकाशज्ञानरूपोऽसङ्ग आत्मा । गुणकर्म च विभागश्चेति द्वन्द्वम् । तयोर्गुणकर्मविभागयोर्भास्यभासकयोर्जडचैतन्ययोर्विकारिनिर्विकारयोस्तत्त्वं याथात्म्यं यो वेत्ति स गुणां करणात्मका गुणेषु विषयेषु प्रवर्तन्ते विकारित्वान्न तु निर्विकार आत्मेति मत्वा न सज्जते सक्तिं कर्तृत्वाभिनिवेशमतत्त्वविदिव न करोति । हे महाबाहो ! इति सम्बोधयन्सामुद्रिकोक्तसत्पुरुषलक्षणयोगित्वान्न पृथग्जनसाधारण्येन त्वमविवेकी भवितुमर्हसीति सूचयति ।

गुणविभागस्य कर्मविभागस्य च तत्त्वविदिति वा । अस्मिन्पक्षे गुणकर्मणोरित्येतावतैव निर्वाहे विभागपदस्य प्रयोजनं चिन्त्यम् ॥२८॥

विश्वनाथम् : गुणकर्मणोर्यौ विभागौ तयोस्तत्त्वं वेत्तीति सम् । तत्र गुणविभागं सत्त्वरजस्तमांसि । कर्मविभागं सत्त्वादिकार्यभेदा देवतेन्द्रियविषयाम् । तयोस्तत्त्वं स्वरूपम् । तज्ज्ञस्तु तत्त्ववित। गुणा देवतां प्रयोज्यानीन्द्रियाणि चक्षुरादीनि गुणेषु रूपादिषु विषयेषु वर्तन्ते । अहं तु न गुणम्, नापि गुणकार्यं कोऽपि, नापि गुणेषु गुणकार्येषु तेषु मे कोऽपि सम्बन्ध इति मत्वा विद्वांस्तु न सज्जते ॥२८॥

बलदेवम् : विज्ञस्तु न तथेत्याह तत्त्ववित्त्विति । गुणविभागस्य कर्मविभागस्य च तत्त्ववित। गुणेभ्य इन्द्रियेभ्यं कर्मभ्यश्च तत्कृतेभ्यो यं स्वयस विभागो भेदस्तस्य तत्त्वं स्वरूपं तत्तद्वैधर्म्यपर्यालोचनया यो नाहं गुणकर्मवपुमिति वेत्तीत्यर्थम् । स हि गुणा इन्द्रियाणि गुणेषु शब्दादिषु विषयेषु तत्तद्देवताप्रेरितानि प्रवर्तन्ते तान्प्रकाशयन्ति । अहं त्वसङ्गविज्ञानानन्दत्वात्तद्भिन्नो, न तेषु ताद्रूप्येण वर्ते, न तान्प्रकाशयामीति मत्वा तेषु न सज्जन्ते । किन्त्वात्मन्येव सज्जते । अत्रापि मत्वेत्यनेन कर्तृत्वं जीवस्योक्तं बोध्यम् ॥२८॥

(३.२९)

प्रकृतेर्गुणसंमूढां सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत॥

श्रीधरम् : न बुद्धिभेदमित्युपसंहरति प्रकृतेरिति । ये प्रकृतेर्गुणैं सत्त्वादिभिं संमूढां सन्तं गुणेष्विन्द्रियेषु तत्कर्मसु च सज्जन्ते । तानकृत्स्नविदो मन्दान्मन्दमतीन्कृत्स्नवित्सर्वज्ञो न विचालयेत॥२९॥

मधुसूदनम् : तदेवं विद्वदविदुषों कर्मानुष्ठानसाम्येन विद्वानविदुषो बुद्धिभेदं न कुर्यादित्युक्तमुपसंहरति । प्रकृतें पूर्वोक्ताया मायाया गुणैं कार्यतया धर्मैर्देहादिभिर्विकारैं सम्यङ्मूढां स्वरूपास्फुरणेन तानेवात्मत्वेन मन्यमानास्तेषामेव गुणानां देहेन्द्रियान्तम्करणानां कर्मसु व्यापारेषु सज्जन्ते सक्तिं वयं कुर्मस्तत्फलायेति दृढतरामात्मीयबुद्धिं कुर्वन्ति ये तान्कर्मसङ्गिनोऽकृत्स्नविदोऽनात्माभिमानिनो मद्नानशुद्धचित्तत्वेन ज्ञ्¨नाधिकारमप्राप्तान्कृत्स्नवित्परिपूर्णात्मवित्स्वयं न विचालयेत्कर्मश्रद्धातो न प्रच्यावयेदित्यर्थम् । ये त्वमन्दां शुद्धान्तम्करणास्ते स्वयमेव विवेकोदयेन विचलन्ति ज्ञानाधिकारं प्राप्ता इत्यभिप्रायम् ।

कृत्स्नाकृत्स्नशब्दावात्मानात्मपरतया श्रुत्यर्थानुसारेण वार्तिककृद्भिर्व्याख्यातौ—

    सदेवेत्यादिवाक्येभ्यं कृत्स्नं वस्तु यतोऽद्वयम् ।
    सम्भवस्तद्विरुद्धस्य कुतोऽकृत्स्नस्य वस्तुनम् ॥
    यस्मिन्दृष्टेऽप्यदृष्टोऽर्थं स तदन्यश्च शिष्यते ।
    तथादृष्टेऽपि दृष्टं स्यादकृत्स्नस्तादृगुच्यते ॥ इति ।

अनात्मनं सावयवत्वादनेकधर्मवत्ताच्च केनचिद्धर्मेण केनचिदवयवेन वा विशिष्टे तस्मिन्नेकस्मिन्घटादौ ज्ञातेऽपि धर्मान्तरेण अवयवान्तरेण वा विशिष्टं स एवाज्ञातोऽवशिष्यते । तदन्यश्च पटादिरज्ञातोऽ वशिष्यत एव । तथा तस्मिन्घटादावज्ञातेऽपि पटादिर्ज्ञातं स्यादिति तज्ज्ञानेऽपि तस्यान्यस्य चाज्ञानात्तदज्ञानेऽप्यन्यज्ञानाच्च सोऽकृत्स्न उच्यते । कृत्स्नस्त्वद्वय आत्मैव तज्ज्ञाने कस्यचिदवशेषस्याभावादिति श्लोकद्वयार्थम् ॥२९॥

विश्वनाथम् : ननु यदि जीवा गुणेभ्यो गुणकार्येभ्यश्च पृथग्भूतास्तदसम्बन्धास्तर्हि कथं ते विषयेषु सज्जन्तो दृश्यन्ते ? तत्राह प्रकृतेर्गुणसंमूढास्तदावेशात्प्राप्तसंमोहा यथा भूताविष्टो मनुष्य आत्मानं भूतमेव मन्यते, तथैव प्रकृतिगुणाविष्टा जीवां स्वान्गुणानेव मन्यन्ते । ततो गुणकर्मसु गुणकार्येषु विषयेषु सज्जन्ते । तानकृत्स्नविदो मन्दमतीन्कृत्स्नवित्सर्वज्ञो न विचालयेत। त्वं गुणेभ्यं पृथग्भूतो जीवो न तु गुणमिति विचारं प्रापयितुं न यतते, किन्तु गुणावेशनिवर्तकं निष्कामकर्मैव कारयेत। न हि भूताविष्टो मनुष्यं न त्वं भूतं किन्तु मनुष्य एव इति शतकृत्वेऽप्युपदेशेन न स्वास्थ्यमापद्यते, किन्तु तन्निवर्तकौषुधमणिमन्त्रादिप्रयोगेनैवेति भावम् ॥२९॥

बलदेवम् : न बुद्धिभेदं जनयेदित्येतदुपसंहरति प्रकृतेरिति । प्रकृतेर्गुणेन तत्कार्येणाहङ्कारेण मूढा भूतावेशन्यायेन देहादिकमेवात्मानं मन्यमाना जना गुणानां देहेन्द्रियाणां कर्मसु व्यापारेषु सज्जन्ते । तानकृत्स्नविदोऽल्पज्ञान्मन्दानात्मतत्त्वग्रहणालसान्कृत्स्नवित्पूर्णात्मज्ञानो न विचालयेत्गुणकर्मान्यो विशुद्धचैतन्यानन्दस्त्वमिति तत्त्वं ग्राहयितुं नेच्छेत्, किन्तु तद्रुचिमनुसृत्य वैदिककर्माणि श्रेण्याक्रमादात्मतत्त्वप्रवणं चिकीर्सेदिति भावम् ॥२९॥

(३.३०)

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरम् ॥

श्रीधरम् : तदेवं तत्त्वविदोऽपि कर्म कर्तव्यम् । त्वं तु नाद्यापि तत्त्ववित। अतं कर्मैव कुर्वित्याह मयीति । सर्वाणि कर्माणि मयि संन्यस्य समर्प्य । अध्यात्मचेतसा अन्तर्याम्यधीनोऽहं कर्म करोमीति दृष्ट्या । निराशी निष्कामम् । अत एव मत्फलसाधनं मदर्थमिदं कर्मेत्येवं ममताशून्यश्च भूत्वा । विगतज्वरस्त्यक्तशोकश्च भूत्वा ॥३०॥

मधुसूदनम् : एवं कर्मानुष्ठानसाम्येऽप्यज्ञविज्ञेयों कर्तृत्वाभिनिवेशतदभावाभ्यां विशेष उक्तम् । इदानीमज्ञस्यापि मुमुक्षोरमुमुक्ष्वपेक्षया भगवदर्पणं फलाभिसन्ध्यभावं च विशेषं वदन्नज्ञतयार्जुनस्य कर्माधिकारं द्रढयति मयीति । मयि भगवति वासुदेवे परमेश्वरे सर्वज्ञे सर्वनियन्तरि सर्वात्मनि सर्वाणि कर्माणि लौकिकानि वैदिकानि च सर्वप्रकाराणि अध्यात्मचेतसाहं कर्तान्तर्याम्यधीनस्तस्मा एवेश्वराय राज्ञ इव भृत्यं कर्माणि करोमीत्यनया बुद्ध्या संन्यस्य समर्प्य निराशीर्निष्कामो निर्ममो देहपुत्रभ्रात्रादिषु स्वीयेषु ममताशून्यो विगतज्वरम् । सन्तापहेतुत्वाच्छोक एव ज्वरशब्देनोक्तम् । ऐहिकपारत्रिकदुर्यशोनरकपातादिनिमित्तशोकरहितश्च भूत्वा त्वं मुमुक्षुर्युध्यस्व विहितानि कर्माणि कुर्वित्यभिप्रायम् । अत्र भगवदर्पणं निष्कामत्वं च सर्वकर्मसाधारणं मुमुक्षोम् । निर्ममत्वं त्यक्तशोकत्वं च युद्धमात्रे प्रकृत इति द्रष्टव्यमन्यत्र ममताशोकयोरप्रसक्तत्वात॥३०॥

विश्वनाथम् : तस्मात्त्वं मय्यध्यात्मचेतसात्मनीत्यर्थम् । एवमध्यात्ममव्ययीभावसमासात। ततश्च आत्मनि यच्चेतस्तदध्यात्मचेतस्तेनात्मनिष्ठेनैव चेतसा, न तु विषयनिष्ठेनेत्यर्थम् । मयि कर्माणि संन्यस्य समर्प्य निराशीर्निष्कामो निर्ममं सर्वत्र ममताशून्यो युध्यस्व ॥३०॥

बलदेवम् : मयीति । यस्मादेवं तस्मात्परिनिष्ठितस्त्वमध्यात्मचेतं स्वात्मतत्त्वविषयकज्ञानेन सर्वाणि कर्माणि राज्ञि भृत्य इव मयि परेशे संन्यस्य समर्पयित्वा युध्यस्व । कर्तृत्वाभिनिवेशशून्यम् । यथा राजतन्त्रो भृत्यस्तदाज्ञया कर्माणि करोति, तथा मत्तन्त्रस्त्वं मदाज्ञया तानि कुरु लोकान्संजिघृक्षुम् । आत्मनि यच्चेतस्तदध्यात्मचेतस्तेन । विभक्त्यर्थेऽव्ययीभावम् । निराशीं स्वाम्याज्ञया करोमीति तत्फलेच्छाशून्यम् । अत एव मत्फलसाधनानि मदर्थममूनि कर्माणीत्येवं ममत्ववर्ज्जितम् । विगतज्वरस्त्यक्तबन्धुवधनिमित्तकसन्तापश्च भूत्वेति । अर्जुनस्य क्षत्रियत्वाद्युध्यस्वेत्युक्तम् । स्वाश्रमविहितानि कर्माणि मुमुक्षुभिं कार्याणीति वाक्यार्थम् ॥३०॥

(३.३१)

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाम् ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिम् ॥

श्रीधरम् : एवं कर्मानुष्ठाने गुणमाह ये म इति । मद्वाक्ये श्रद्धावन्तो ।नसूयन्तो दुम्खात्मके कर्मणि प्रवर्तयतीति दोषदृष्टिमकुर्वन्तश्च मे मदीयमिदं मतमनुतिष्ठन्ति तेऽपि शनैं कर्म कुर्वाणां सम्यग्ज्ञानिवत्कर्मभिर्मुच्यन्ते ॥३१॥

मधुसूदनम् : फलाभिसन्धिराहित्येन भगवदर्पणबुद्ध्या भगवदर्पणबुद्ध्या विहितकर्मानुष्ठानं सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण मुक्तिफलमित्याह ये म इति । इदं फलाभिसन्धिराहित्येन विहितकर्माचरणरूपं मम मतं नित्यं नित्यवेदबोधितत्वेनानादिपरम्परागतमावश्यकमिति वा सर्वदेति वा । मानवां मनुष्या ये केचिन्मनुष्याधिकारित्वात्कर्मणां श्रद्धावन्तं शास्त्राचार्योपदिष्टे ऽर्थेऽननुभूतेऽप्येवमेवैतदिति विश्वासं श्रद्धा तद्वन्तम् । अनसूयन्तो गुणेषु दोषाविष्करणमसूया । सा च दुम्खात्मके कर्मणि मां प्रवर्तयन्नकारुणिकोऽयमित्येवंरूपा प्रकृते प्रसक्ता तामसूयां मयि गुरौ वासुदेवे सर्वसुहृद्यकुर्वन्तो येऽनुतिष्ठन्ति तेऽपि सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण सम्यग्ज्ञानिवन्त्मुच्यन्ते कर्मभिर्धर्माधर्माख्यैम् ॥३१॥

विश्वनाथम् : स्वकृतोपदेशे प्रवर्तयितुमाह ये म इति ॥३१॥

बलदेवम् : श्रुतिरहस्ये स्वमतेऽनुवर्तिनां फलं वदन्तस्य श्रैष्ठ्यं व्यञ्जयति ये म इति । नित्यं सर्वदा श्रुतिबोधितत्वेनानादिप्राप्तं वा । श्रद्धावन्तो दृढविश्वस्ताम् । अनसूयन्तो मोचकत्वगुणवति तस्मिन्किममुना श्रमबहुलेन निष्फलेन कर्मणेत्येवं दोषारोपशून्याम् । तेऽपीत्यपिरवधारणे । यद्वा, ये ममेदं मतमनुतिष्ठन्ति ये चानुष्ठातुमशक्नुवन्तोऽपि तत्र श्रद्धालवम्, ये च श्रद्धालवोऽपि तन्नासूयन्ते तेऽपीत्यर्थम् । साम्प्रतानुष्ठानाभावेऽपि तस्मिन्श्रद्धयानसूयया च क्षीणदोषास्ते किंचित्प्रान्ते तदनुष्ठाय मुच्यन्ते इति भावम् ॥३१॥

(३.३२)

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसम् ॥

श्रीधरम् : विपक्षे दोषमाह ये त्वेतदिति । ये तु नानुतिष्ठन्ति तानचेतसो विवेकशून्यानत एव सर्वस्मिन्कर्मणि ब्रह्मविषये च यज्ज्ञानं तत्र विमूढान्नष्टान्विद्धि ॥३२॥

मधुसूदनम् : एवमन्वये गुणमुक्त्वा व्यतिरेके दोषमाह ये त्विति । तुशब्दं श्रद्दावद्वैधर्य्म्यमश्रद्धां सूचयति । तेन ये नास्तिक्यादश्रद्दधाना अभ्यसूयन्तो दोषमुद्भावयन्त एतन्मम मतं नानुवर्तन्ते तानचेतसो दुष्टचित्तानत एव सर्वज्ञानविमूढान्सर्वत्र कर्मणि ब्रह्मणि सगुणे निर्गुणे च यज्ज्ञानं तत्र विविधं प्रमाणतं प्रमेयतं प्रयोजनतश्च मूढान्सर्वप्रकारेणायोग्यान्नष्टान्सर्वपुरुषार्थभ्रष्टान्विद्धि जानीहि ॥३२॥

विश्वनाथम् : विपक्षे दोषमाह ये त्विति ।

बलदेवम् : विपक्षे दोषमाह ये त्वेतदिति । ये तु नानुतिष्ठन्ति तानचेतसो विवेकशून्यानत एव सर्वस्मिन्कर्मणि ब्रह्मविषये च यज्ज्ञानं तत्र विमूढान्नष्टान्विद्धि ॥३२॥

(३.३३)

सदृशं चेष्टते स्वस्यां प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहं किं करिष्यति ॥

श्रीधरम् : ननु तर्हि महाफलत्वादिन्द्रियाणि निगृह्य निष्कामां सन्तं सर्वेऽपि स्वधर्ममेव किं नानुतिष्ठन्ति ? तत्राह सदृशमिति । प्रकृतिं प्राचीनकर्मसंस्काराधीनं स्वभावम् । स्वस्यां स्वकीयायां प्रकृतें स्वभावस्य सदृशमनुरूपमेव गुणदोषज्ञानवानपि चेष्टते । किं पुनर्वक्तव्यमज्ञश्चेष्टत इति । यस्माद्भूतानि सर्वेऽपि प्राणिनं प्रकृतिं यान्त्यनुवर्तन्ते । एवं च सति इन्द्रियनिग्रहं किं करिष्यति ? प्रकृतेर्बलीयस्त्वादित्यर्थम् ॥३३॥

मधुसूदनम् : ननु राज्ञ इव तव शासनातिक्रमे भयं पश्यन्तं कथमसूयन्तस्तव मतं नानुवर्तन्ते कथं वा सर्वपुरुषार्थसाधने प्रतिकूला भवन्तीत्यत आह सदृशमिति । प्रकृतिर्नाम प्राग्जन्मकृतधर्माधर्मज्ञानेच्छादिसंस्कारो वर्तमानजन्मन्यभिव्यक्तं सर्वतो बलवान्तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च इति श्रुतिप्रमाणकम् । तस्यां स्वकीयायां प्रकृतें सदृशमनुरूपमेव सर्वो जन्तुर्ज्ञानवान्ब्रह्मविदपि पश्वादिभिश्चाविशेषातिति न्यायात। गुणदोषज्ञानवान्वा चेष्टते किं पुनर्मूर्खम् । तस्माद्भूतानि सर्वे प्राणिनं प्रकृतिं यान्त्यनुवर्तन्ते पुरुषार्थभ्रंशहेतुभूतामपि । तत्र मम वा राज्ञो वा निग्रहं किं करिष्यति । रागौत्कट्येन दुरितान्निवर्तयितुं न शक्नोतीत्यर्थम् । महानरकसाधनत्वं ज्ञात्वापि दुर्वासनाप्राबल्यात्पापेषु प्रवर्तमाना न मच्छ्वासनातिक्रमदोषाद्बिभ्यतीति भावम् ॥३.३३॥

विश्वनाथम् : ननु राज्ञ इव तव परमेश्वरस्य मतमननुतिष्ठन्तो राजकृतादिव त्वकृतान्निग्रहात्किं न विभाति ? सत्यम् । ये खलु इन्द्रियाणि चारयन्तो वर्तन्ते, ते विव्वेकिनोऽपि राज्ञं परमेश्वरस्य च शासनं मन्तुं न शक्नुवन्ति । तथैव तेषां स्वभावोऽभूदित्याह सदृशमिति । ज्ञानवानपि एवं पापे कृते सत्येवं नरको भविष्यत्येवं राजदण्डो भविष्यति । एवं दुर्यशश्च भविष्यतीति विवेकवानपि स्वस्यां प्रकृतें चिरन्तनपापाभ्यासोत्थदुम्खभारस्य सदृशमनुरूपमेव चेष्टते । तस्मात्प्रकृतिं स्वभावं यान्त्यनुसरन्ति । तत्र निग्रहस्तच्छास्त्रद्वारा मत्कृतो राजकृतो वा तेनाशुद्धचित्तानुक्तलक्षणो निष्कामकर्मयोगं शुद्धचित्तान्ज्ञानयोगश्च संस्कर्तुं प्रबोधयितुं च शक्नोति, न त्वत्यन्ताशुद्धचित्तान्, किन्तु तानपि पापिष्ठस्वभावान्यादृच्छिकमत्कृपोत्थभक्तियोग एव उद्धर्तुं प्रभवेत। यदुक्तं स्कान्दे—

    अहो धन्योऽसि देवर्षे कृपया यस्य ते क्षणात।
    नीचोऽप्युत्पुलको लेभे लुब्धको रति मुच्यते ॥३३॥

बलदेवम् : ननु सर्वेश्वरस्य ते मतमतिक्रमतां दण्डं शास्त्रेणोच्यते तस्मात्ते किमु न बिभ्यति इत्याह सदृशमिति । प्रकृतिरनादिकालप्रवृत्त्या स्वदुर्वासना तस्यां स्वीयायां सदृशमनुरूपमेव ज्ञानवान्शास्त्रोक्तं दण्डं जानन्नपि जनश्चेष्टते प्रवर्तते किमुताज्ञम् । ततो भूतानि सर्वे जनां प्रकृतिं पुरुषार्थविभ्रंशहेतुभूतामपि तां यान्त्यनुसरन्ति । तत्र निग्रहं शास्त्रज्ञानोऽपि दण्डं सत्प्रसङ्गशून्यस्य किं करिष्यति ? दुर्वासनायां प्राबल्यतां निवर्तयितुं न शक्ष्यतीत्यर्थम् । सत्प्रसङ्गसहितस्य तु तां प्रबलामपि निहन्ति— सन्त एवास्य छिन्दन्ति मनोव्यसनमुक्तिभिं [भा.पु.११.२६.२६] इत्यादि स्मृतिभ्यम् ॥३३॥

(३.३४)

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥

श्रीधरम् : नन्वेवं प्रकृत्यधीनेव चेत्पुरुषस्य प्रवृत्तिस्तर्हि विधिनिषेधशास्त्रस्य वैयर्थ्यं प्राप्तमित्याशङ्क्याह इन्द्रियस्येति । इन्द्रियस्येन्द्रियस्येतिवीप्सया सर्वेषामिन्द्रियाणां प्रत्येकमित्युक्तम् । अर्थे स्वस्वविषयेऽनुकूले रागं प्रतिकूले द्वेष इत्येवं रागद्वेषौ व्यवस्थिताववश्यं भाविनौ । ततश्च तदनुरूपा प्रवृत्तिरिति भूतानां प्रकृतिम् । तथापि तयोर्वशवर्ती न भवेदिति शास्त्रेण नियम्यते । हि यस्माद। अस्य मुमुक्षोस्तौ परिन्पन्थिनौ प्रतिपक्षौ । अयं भावम्— विषयस्मरणादिना रागद्वेषऽवुत्पाद्यानवहितं पुरुषमनर्थेऽतिगम्भीरे स्रोतसीव प्रकृतिर्बला प्रवर्तयति । शास्त्रं तु ततं प्रागेव विषयेषु रागद्वेषप्रतिबन्धके परमेश्वरभजनादौ तं प्रवर्तयति । ततश्च गम्भीरस्रोतम्पातात्पूर्वमेव नावमाश्रित इव नानर्थं प्राप्नोति । तदेवं स्वाभाविकी पश्वादिसदृशीं प्रवृत्तिं त्यक्त्वा धर्मे प्रवर्तितव्यमित्युक्तम् ॥३४॥

मधुसूदनम् : ननु सर्वस्य प्राणिवर्गस्य प्रकृतिवशवर्तित्वे लौकिकवैदिकपुरुषकारविषयाभावाद्विधिनिषेधार्थक्यं प्राप्तं, न च प्रकृतिशून्यं कश्चिदस्ति यं प्रति तदर्थवत्त्वं स्यादित्यत आह इन्द्रियस्येन्द्रियस्यार्थे इति । इन्द्रियस्येन्द्रियस्येति वीप्सया सर्वेषामिन्द्रियाणामर्थे विषये शब्दे स्पर्शे रूपे गन्धे च । एवं कर्मेन्द्रियविषयेऽपि वचनादावनुकूले शास्त्रनिषिद्धेऽपि रागं प्रतिकूले शास्त्रविहितेऽपि द्वेष इत्येवं प्रतीन्द्रियार्थं रागद्वेषौ व्यवस्थितावानुकूल्यप्रातिकूल्यव्यवस्थया स्थितौ न त्वनियमेन सर्वत्र तौ भवतम् । तत्र पुरुषकारस्य शास्त्रस्य चायं विषयो यत्तयोर्वशं नागच्छेदिति । कथं या हि पुरुषस्य प्रकृतिं सा बलवदनिष्टानुबन्धित्वज्ञानाभावसहकृतेष्टसाधनत्वज्ञाननिबन्धनं रागं पुरस्कृत्यैव शास्त्रनिषिद्धे कलञ्जभक्षणादौ प्रवर्तयति । तथा बलवदनिष्टानुबन्धित्वज्ञानाभावसहकृतेष्टसाधनत्वज्ञाननिबन्धनं रागं पुरस्कृत्यैव शास्त्रनिषिद्धे कलञ्जभक्षणादौ प्रवर्तयति । तत्र शास्त्रेण प्रतिषिद्धस्य बलवदनिष्टानुबन्धित्वे ज्ञापिते सहकार्यभावात्केवलं दृष्टेष्टसाधनताज्ञानं मधुविषसंपृक्तान्नभोजन इव तत्र न रागं जनयितुं शक्नोति । एवं विहितस्य शास्त्रेण बलवदिष्टानुबन्धित्वे बोधिते सहकार्यभावात्केवलमनिष्टसाधनत्वज्ञानं भोजनादाविव तत्र न द्वेषं जनयितुं शक्नोति । ततश्चाप्रतिबद्धं शास्त्रं विहिते पुरुषं प्रवर्तयति निषिद्धाच्च निवर्तयतीति शास्त्रीयविवेकविज्ञानप्राबल्येन स्वाभाविकरागद्वेषयों कारणोपमर्देनोपमर्दान्न प्रकृतिर्विपरीतमार्गे पुरुषं शास्त्रदृष्टिं प्रवर्तयितुं शक्नोतीति न शास्त्रस्य पुरुषकारस्य च वैयर्थ्यपोरसङ्गम् ।

तयो रागद्वेषयोर्वशं नागच्छेत्तदधीनो न प्रवर्तेत निवर्तेत वा किन्तु शास्त्रीयतद्विपक्षज्ञानेन तत्कारणविघटनद्वारा तौ नाशयेत। हि यस्मात्तौ रागद्वेषौ स्वाभाविकदोषप्रयुक्तावस्य पुरुषस्य श्रेयोऽर्ह्तिनं परिपन्थिनौ शत्रू श्रेयोमार्गस्य विघ्नकर्तारौ दस्यू इव पथिकस्य । इदं च द्वया ह प्राजापत्या देवाश्चासुराश्च ततं कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त इत्यादिश्रुतौ स्वाभाविकरागद्वेषनिमित्तशास्त्रविपरीतप्रवृत्तिमसुरत्वेन शास्त्रीयप्रवृत्तिं च देवत्वेन निरूप्य व्याख्यातमतिविस्तरेणेत्युपरम्यते ॥३४॥

विश्वनाथम् : यस्माद्दुम्स्वभावेषु लोकेषु विधिनिषेधशास्त्रं न प्रभवति, तस्माद्यावत्पापाभ्यासोत्थदुम्स्वभावो नाभूत्तावद्यथेष्टमिन्द्रियाणि न चारयेदित्याह इन्द्रियसेन्द्रियस्येति वीप्सा प्रत्येकम् । सर्वेन्द्रियाणामर्थे स्वस्वविषये परस्त्रीमात्रगात्रदर्शनस्पर्शनतत्सम्प्रदानकद्रव्यदानादौ शास्त्रनिषिद्धेऽपि रागस्तथा गुरुविप्रतीर्थातिथिदर्शनस्पर्शनपरिचरणतत्सम्प्रदानकधनवितरणादौ शास्त्रविहितेऽपि द्वेष इत्येतौ विशेषणावस्थितौ वर्तेते । तयोर्वशमधीनत्वं न प्राप्नुयात। यद्वा, इन्द्रियार्थे स्त्रीदर्शनादौ रागस्तत्प्रतिघाते केनचित्कृते सति द्वेष इत्यस्य पुरुषार्थसाधकस्य क्वचित्तु मनोऽनुकूलेऽर्थे सुरसस्निग्धान्नादौ रागो मनं प्रतिकूलेऽर्थे विरसरुक्षान्नादौ द्वेषस्तथा स्वपुत्रादिदर्शनश्रवणादौ रागो वैरिपुत्रादिदर्शनश्रवणादौ द्वेषम् । तयोर्वशं न गच्छेदित्य्व्याचक्षते ॥३४॥

बलदेवम् : ननु प्रकृत्यधीना चेत्पुंसां प्रवृत्तिस्तर्हि विधिनिषेधशास्त्रे व्यर्थ इति चेत्तत्र्हा इन्द्रियस्येन्द्रियस्येति । वीप्सया सर्वेषामित्युक्तम् । ततश्च ज्ञानेन्द्रियाणां श्रोत्रादीनामर्थे विषये शब्दादौ, कर्मेन्द्रियाणां च वागादीनामर्थे वचनादौ रागम्, प्रतिकूले शास्त्रविहितेऽपि सत्सम्भाषणसत्सेवनसत्तीर्थागमनादौ द्वेष इत्येवं रागद्वेषौ व्यवस्थितौ चानुकूल्यप्रातिकूल्ये व्यवस्थया स्थितौ भवतो न त्वनियमेनेत्यर्थम् । यद्यपि तदनुगुणा प्राणिनां प्रवृत्तिस्तथापि श्रेयोलिप्सुर्जनस्तयो रागद्वेषयोर्वशं नागच्छेत। हि यस्मात्तावस्य परिपन्थिनौ विघ्नकर्तारौ भवतं पान्थस्येव दस्यू । एतदुक्तं भवति— अनादिकालप्रवृत्ता हि वासना निष्ठानुबन्धित्वज्ञानाभावसहकृतेनेष्टसाधनत्वज्ञानेन निषिद्धेऽपि परदारसम्भाषणादौ रागमुत्पाद्य पुंसं प्रवर्तयति । तथेष्टसाधनत्वज्ञानाभावसहकृतेनानिष्टसाधनत्वज्ञानेन विहितेऽपि सत्सम्भाषणादौ द्वेषमुत्पाद्य ततस्तान्निवर्तयति । शास्त्रं किल सत्प्रसङ्गश्रुतमनिष्टानुभन्धित्वबोधनेन निषिद्धान्मनोऽनुकूलादपि निवर्तयति द्वेषमुत्पाद्य । इष्टानुबन्धित्वबोधनेन विहिते मनम्प्रतिकूलेऽपि रागमुत्पाद्य प्रवर्तयतीति न विधिनिषेधशास्त्रयोर्वैयर्थ्यमिति ॥३४॥

(३.३५)

श्रेयान्स्वधर्मो विगुणं परधर्मात्स्वनुष्ठितात।
स्वधर्मे निधनं श्रेयं परधर्मो भयावहम् ॥

श्रीधरम् : तर्हि स्वधर्मस्य युद्धादेर्दुम्खरूपस्य यथावत्कर्तुमशक्यत्वात्परधर्मस्य चाहिंसादें सुकरत्वाद्धर्मत्वाविशेषाच्च तत्र प्रवर्तितुमिच्छन्तं प्रत्याह श्रेयानिति । किंचिदङ्गहीनोऽपि स्वधर्मं श्रेयान्प्रशस्यतरम् । स्वनुष्ठितात्सकलाङ्गसम्पूर्त्या कृतादपि परधर्मात्सकाशात। तत्र हेतुम्— स्वधर्मे युद्धादौ प्रवर्तमानस्य निधनं मरणमपि श्रेष्ठं स्वर्गादिप्रापकत्वात। परधर्मस्तु भयावहो निषिद्धत्वेन नरकप्रापकत्वात॥३५॥

मधुसूदनम् : ननु स्वाभाविकरागद्वेषप्रयुक्तपश्वादिसाधारणप्रवृत्तिप्रहाणेन शास्त्रीयमेव कर्म कर्तव्यं चेत्तर्हि यत्सुकरं भिक्षाशनादि तदेव क्रियतां किमतिदुम्खावहेन युद्धेनेत्यत आह श्रेयानिति । श्रेयान्प्रशस्यतरं स्वधर्मो यं वर्णाश्रमं वा प्रति यो विहितं स तस्य स्वधर्मो विगुणोऽपि सर्वाङ्गोपसंहारमन्तरेण कृतोऽपि परधर्मात्स्वं प्रत्यविहितात्स्वनुष्ठितात्सर्वाङ्गोपसंहारेण सम्पादितादपि । न हि वेदातिरिक्तमानगम्यो धर्मम्, येन परधर्मेऽप्यनुष्ठेयो धर्मत्वात्स्वधर्मवदित्यनुमानं तत्र मानं स्यात।  चोदनलक्षणोऽर्थो धर्ममिति न्यायात। अतं स्वधर्मे किंचिदङ्गहीनेऽपि स्थितस्य निधनं मरणमपि श्रेयं प्रशस्यतरं परधर्मस्थस्य जीवितादपि । स्वधर्मस्थस्य निधनं हीहलोके कीर्त्यावहं परलोके च स्वर्गादिप्रापकम् । परधर्मस्तु इहाकीर्तिकरत्वेन परत्र नरकप्रदत्वेन च भयावहो यतोऽतो रागद्वेषादिप्रयुक्तस्वाभाविकप्रवृत्तिवत्परधर्मोऽपि हेय एवेत्यर्थम् ।

एवं तावद्भगवन्मताङ्गीकारिणां श्रेयम्प्राप्तिस्तदनङ्गीकारिणां च श्रेयोमार्गभ्रष्टत्वमुक्तम् । श्रेयोमार्गभ्रंशेन फलाभिसन्धिपूर्वककाम्यकर्माचरणे च केवलपापमात्राचरणे च बहूनि कारणानि कथितानि ये त्वेतदभ्यसूयन्त इत्यादिना । तत्रायं सङ्ग्रहश्लोकम्—

    श्रद्धाहानिस्तथासूया दुष्टचित्तत्वमूढते ।
प्रकृतेर्वशवर्तित्वं रागद्वेषौ च पुष्कलौ ।
परधर्मरुचित्वं चेत्युक्ता दुर्मार्गवाहकाम् ॥।३५॥

विश्वनाथम् : ततश्च युद्धरूपस्य यथावद्रागद्वेषादिराहित्येन कर्तुमशक्यत्वात्परधर्मस्य चाहिंसादें सुकरत्वाद्धर्मत्वाविशेषाच्च तत्र प्रवर्तितुमिच्छन्तं प्रत्याह श्रेयानिति । विगुणं किंचिद्दोषविशिष्टोऽपि सम्यगनुष्ठातुमशक्योऽपि परधर्मात्स्वनुष्ठितात्साध्वेवानुष्ठातुं शक्यादपि सर्वगुणपूर्णादपि सकाशात्श्रेयान। तत्र हेतुम्— स्वधर्म इत्यादि ।

विधर्मं परधर्मश्च
आभास उपमा छलम् ।
अधर्मशाखां पञ्चेमा
धर्मज्ञोऽधर्मवत्त्यजेत॥ [भा.पु.७.१५.१२] इति सप्तमोक्तेम् ॥३५॥

बलदेवम् : ननु स्वप्रकृतिनिर्मितां रागद्वेषमयीं पश्वादिसाधारणीं प्रवृत्तिं विहाय शास्त्रोक्तेषु धर्मेषु वर्तितव्यमित्युक्तम् । धर्महृद्विशुद्धौ तादृशप्रवृत्तिर्निवर्तेन, धर्माश्च युद्धादिवदहिंसादयोऽपि शास्त्रेणोक्ताम् । तस्माद्रागद्वेषराहित्येन कर्तुमशक्याद्युद्धादेरहिंसाशिलोञ्छवृत्तिलक्षणो धर्म उत्तम इति चेत्तत्राह श्रेयानिति ।

यस्य वर्णस्याश्रमस्य च यो धर्मो वेदेन विहितम्, स च विगुणं किंचिदङ्गविकलोऽपि स्वनुष्ठिता सर्वाङ्गोपसंहारेणाचरितादपि परधर्मात्श्रेयान। यथा ब्राह्मणस्याहिंसादिं स्वधर्मं क्षत्रियस्य च युद्धादिम् । न हि धर्मो वेदातिरिक्तेन प्रमाणेन गम्यते । चक्षुर्भिन्नेन्द्रियेणेव रूपम् । यथाह जैमिनिम्— चोदनालक्षणो धर्ममिति । तत्र हेतुम्— स्वधर्मे निधनं मरणं श्रेयं प्रत्यवायाभावात्परजन्मनि धर्माचरणसम्भवाच्चेष्टसाधकमित्यर्थम् । परधर्मस्तु भयावहोऽनिष्टजनकम् । तं प्रत्यविहितत्वेन प्रत्यवायसम्भवात। न च परशुरामे विश्वामित्रे चव्यभिचारम् । तयोस्तत्तत्कुलोत्पन्नावपि तत्तच्चोरुमहिम्ना तत्कर्मोदयात। तथापि विगानं कष्टं च तयों स्मर्यते । अत एव द्रोणादें क्षात्रधर्मोऽसकृद्विगीतम् ।

ननु दैवरात्यादें क्षत्रियस्य पारिव्राज्यं श्रूयते ततं कथमहिंसादें परधर्मत्वमिति चेत्सत्यं, पूर्वपूर्वाश्रमधर्मैं क्षीणवासनया पारिव्राज्याधिकारे सति तं प्रत्यहिंसादें स्वधर्मत्वेन विहितत्वात। अत एव स्वधर्मे स्थितस्येति योज्यते ॥३५॥

(३.३६)

अर्जुन उवाच—
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषम् ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितम् ॥३६॥

श्रीधरम् : तयोर्न वशमागच्छेत्[गीता ३.३४] इत्युक्तम् । तदेतदशक्यं मन्वानोऽर्जुन उवाच अथेति । वृष्णेर्वंशे अवतीर्णो वार्ष्णेयम् । हे वार्ष्णेय ! अनर्थरूपं पापं कर्तुमिच्छन्नपि केन प्रयुक्तं प्रेरितोऽयं पुरुषं पापं चरति ? कामक्रोधौ विवेकबलेन निरुद्धतोऽपि पुरुषस्य पुनं पापे प्रवृत्तिदर्शनात। अन्योऽपि तयोर्मूलभूतं कश्चित्प्रवर्तको भवेदिति सम्भावनया प्रश्नम् ॥३६॥

मधुसूदनम् : तत्र काम्यप्रतिषिद्धकर्मप्रवृत्तिकारणमपनुद्य भगवन्मतमनुवर्तितुं तत्कारणावधारणाय अर्जुन उवाच—अथेति । ध्यायतो विषयान्पुंसं [गीता २.६२] इत्यादिना पूर्वमनर्थमूलमुक्तम् । साम्प्रतं च प्रकृतेर्गुणसंमूढा [गीता ३.२९] इत्यादिना बहुविस्तरं कथितम् । तत्र किं सर्वाण्यपि समप्राधान्येन कारणानि । अथवैकमेव मुख्यं कारणमितराणि तु तत्सहकारीणि केवलम् । तत्राद्ये सर्वेषां पृथक्पृथङ्निवारणे महान्प्रयासं स्यात। अन्त्ये त्वेकस्मिन्नेव निराकृते कृतकृत्यता स्यादित्यतो ब्रूहि मे केन हेतुना प्रयुक्तं प्रेरितोऽयं त्वन्मताननुवर्ती सर्वज्ञानविमूढं पुरुषं पापमनर्थानुबन्धि सर्वं फलाभिसन्धिपुरम्सरं काम्यं चित्रादि शत्रुवधसाधनं च श्यनादि प्रतिषिद्धं च कलञ्जभक्षणादि बहुविधं कर्माचरति स्वयं कर्तुमनिच्छन्नपि न तु निवृत्तिलक्षणं परमपुरुषार्थानुबन्धि त्वदुपदिष्टं कर्मेच्छन्नपि करोति । न च पारतन्त्र्यं विनेत्थं सम्भवति । अतो येन बलादिव नियोजितो राज्ञेव भृत्यस्त्वन्मतविरुद्धं सर्वानर्थानुबन्धित्वं जानन्नपि तादृशं कर्माचरति तमनर्थमार्गप्रवर्तकं मां प्रति ब्रूहि ज्ञात्वा समुच्छेदायेत्यर्थम् । हे वार्ष्णेय वृष्णिवंशे मन्मातामहकुले कृपयावतीर्णेति सम्बोधनेन वार्ष्णेयीसुतोऽहं त्वया निपेक्षणीय इति सूचयति ॥३६॥

विश्वनाथम् : यदुक्तं रागद्वेषौ व्यवस्थिताव्[गीता ३.३४] इत्यत्र शास्त्रनिषिद्धे ।पीन्द्रियार्थे परस्त्रीसम्भाषणादौ राग इत्यत्र पृच्छति अथेति । केन प्रयोजककर्त्रानिच्छन्नपि विधिनिषेधशास्त्रार्थज्ञानवत्त्वात्पापे प्रवर्तितुमिच्छारहितोऽपि बलादिवेति प्रयोजकप्रेरणवशात्प्रयोज्यस्यापीच्छा सम्यगुत्पद्यते इति भावम् ॥३६॥

बलदेवम् : इन्द्रियस्य इत्यादौ शास्त्रनिषिद्धेऽपि परदारसम्भाषणादौ