close


  • सामान्यनिरुक्तिविवेचनी

 

 

            ।।समान्यनिरूक्तिविवेचनी।।
<1-1>


अनुमितिपदस्यानुमितिसामान्यपरत्वेऽतिप्रसङ्गात्
प्रकृतपक्षसाध्यहेतुकानुमितिपरत्वमावश्यकम् इति
गादाधरी।
</1-1>

    नन्वत्र प्रकृतहेतुकत्वमिवेशनं व्यर्थम्, प्रकृतपक्षसाध्यकत्वमात्रेणाप्यतिप्रसङ्ग ारणसंभवात् । न च स्वरूपासिद्विसंग्राहकं तदितिवाच्यम्। लक्षणयानुमितिकारणज्ञानमात्रपरत्व इत्यत्र परामर्शस्याप्रतिबध्यत्वं वदता ग्रनथकारेण पूर्वकल्पे स्वरूपासिद्विसंग्रहस्याभिप्रेतत्वात्। किं च प्रकृतहेतुकत्वनिवेशेऽपि कथं स्वरूपासिद्विसंग्रहः?प्रकृतहेतुकत्वं हि प्रकृतहेतुमत्तानिश्चयाव्यवहितोत्तरत्वम्। तच्च ह्रदोवह्निमान् धूमागित्यत्र ह्रदो वह्रिमानित्याकारकानुमितावेवास्ति। तत्र न स्वरूपासिद्विप्रतिबध्यातस्ति। आचार्यव्यतिरिक्तमतेऽनुमितेः पक्षांशेहेत्वनवगाहित्वादितिचेत्-

    न। पर्वतो वह्निमान् महानसीयवह्नीतरवह्न्रयभाववत्पर्वतकालीनधूमादित्यत्र महानसीयवह्नयभाववत्पर्वतरूपबाधस्य संग्रहायतस्यावश्यकत्वात्। अन्यथा प्रकृताहेतुकत्वानुपादाने शुद्वपर्वतो वह्निमानित्याकारकानुमितेरपि प्रकृतपक्षसाध्यकत्वेन तत्र महानसीयवह्नयभाववत्पर्वतरूपबाधनिश्चयप्रतिबध्यताया अभावेन तदसंग्रापत्तेः। तन्निवेशे च साध्यव्याप्यतादृशहेतुमत्तानिश्चयस्य इतरविशेषबाधनिश्चयरूपतया तदन्तरं जायमान पर्वतो महानसीयवह्निमानित्यमूहालम्बनानुमितिरेव। तस्याश्च तादृशबाधनिश्चयप्रतिबध्यत्वेन तत्संग्रहः। न च तथापि यत्र तादृशहेतुमत्तानिश्यात् पूर्वं पर्वतो महानसीयवह्नयभाववानिति बाधनिश्चयस्तत्र पर्वतो वह्निमानित्येवानुमितिः- जायते। तत्र च तादृशबाधनिश्चयप्रतिबध्यत्वं नास्तीति तदसंग्रही दुर्वार। एवेति वाच्यम्। तथापि ज्ञानपक्षके विषयितया वह्निसाध्यकेवह्रयभाववद्‌धूमवत्कालीनमहानसीयवह्रीतरवह्रयभाववज्ज्ञानकालीनधूमादिहेतुकस्थले महानसीययवह्रीतरवह्रयभाववज्ज्ञानात्मकबाधसंग्रहार्थं तस्य आवश्यकत्वात्।तत्र प्रकृतहेतुकत्वानिवेशे ज्ञानं वह्रिमदित्याकारकानुमितेरपि प्रकृतपक्षसाध्यकानुमितितया तत्र तादृशबाधनिश्चयप्रतिबध्यत्वाभावात्। प्रकृतहेतुकत्वनिवेशे तु तादृशहेत्ववगाहिपरामर्शानन्तरंज्ञानं वह्रिमदित्यनुमितिस्तु न जायते। तादृशपरामर्शस्य धूमावच्छेदेनवह्रयभावावगाहिनिश्चयविशिष्टप्रकृतपक्षे धूमविशेषावगाहिनिश्चयरूपतयातादृशानुमितिप्रतिबन्धकत्वात्। किं तु महानसीयवह्रिप्रकारकानुमितिरेव जायते। तत्र च तादृशबाधनिश्चयुप्रतिबध्यत्वमस्तीतित्संग्रहः।

संयोगादिसंबन्धेन साध्यत्वे धूमावच्छेदेन संयोगादिसंबन्धेनवह्रयभावावगाहिनिश्चयविशिष्टपक्षे तादृशधूमावगाहिपरामर्शकालेसंयोगादिसंबन्धेन वह्रयादिसामान्यानुमितेरिव वह्रयादिविशेषानुमतेरप्यसंभवात् विषयितया साध्यानुसारणम्।

न चैवमप्येतादृशपरामर्शकाले धूमवति वह्रयभावोऽव्याप्यवृत्तिरिति ज्ञानं महानसीयवह्रयभाववत् ज्ञानमिति च ज्ञानम्, तदनन्तरंवह्रिसामान्यानुमितिरेव जायते। तत्रच तादृशबाधनिश्चयप्रतिबन्धयत्वंनास्तीति कथं तत्संग्रह इति वाच्यम्।

यादृशाङ्‌कुरविशेषसाध्यकैतादृशहेतुकस्थले हेतुमति साध्यसामान्याभावेऽव्याप्यवृत्तित्वज्ञानं नास्ति तत्रत्यदोषसंग्रहस्यैव विवक्षयासंभवादिति।

<1-1>
अनुमितिपदस्यानुमितिसामान्यपरत्वेऽतिप्रसङ्गत्‌
प्रकुतपक्षसाध्यहेतुकानुमितिपरत्वमावश्यकम् इति
गादाधरी।
</1-1>

 


(साक्षात्कारघठितपरिष्कारः)
<1-2>
संबन्धिपदं संबन्धिद्वयसाधारणस्य तत्साक्षात्कारजनकसाक्षात्कारविषयतात्मकनिरूपकत्वस्य लाभायेति।
</1-2>
    तथा च प्रकृतपक्षतावछेदकावच्छन्नोद्देश्यकप्रकृतसा ध्यतावच्छेदकावच्छिन्नप्रकारप्रकृतहेतुतावच्छेदकावच्छिन्नहेतुकानुमितिनिष्ठकार्यतासाक्षात्कार जनसाक्षात्कारविषयताश्रयग्रहनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वम् इति पर्यवसितम्।

    अत्रानुमितिनिष्ठकार्यतानिवेशे पर्वतो वह्निमानित्यत्र पर्वतो वह्निमान् ह्रदश्च तथेत्याकारकानुमितिनिष्ठवह्निमद्‌ह्रदविषयकानुमितित्वावघ्छिन्नकार्यतामादाय ह्रदो वह्निमानित्यसमूहालम्बनानुमितिप्रतिबन्धकप्रमाविषये वह्न्यभाववद्‌ह्रदेऽतिव्याप्तिः। तादृशानुमितित्वव्यापककार्यतानिवेशे नानाविधव्याप्त्यवगाहिपरामर्शाजन्यानुमितिष्वेककार्यताविरहादसंभवः अतस्तादृशानुमितित्वावच्छिन्नकार्यता निवेश्या।


    अत्र च प्रकृतुहेतुकत्वानिवेशे पर्वतो वह्निमान् धूमादित्यादौ वह्न्यभाववद्वृत्तिद्रव्येऽतिव्याप्तिः। पर्वतपक्षकवह्निसाध्यकानुमितित्वावच्छिन्ना या वह्निव्याप्यद्रव्यवान् पर्वत इति परामर्शकार्यतात्साक्षात्कारजनकसाक्षात्कारविषयतादृशपरामर्शप्रतिबन्धकप्रमाविषयत्वात्तस्य। तन्निवेशे न तादृशपरामर्श उक्तसाक्षात्कारदनकसाक्षात्कारविषय इति न दोषः।


    न चैवमपि वह्निव्याप्यधूमवान् पर्वतो वह्निव्याप्यद्रव्यवांश्चेत्याकारकसमूहालम्बनपरमर्शोत्तरं पर्वतो वह्निमानित्याकारकानुमितौ या कार्यता सा वह्निव्याप्यधूमवान् पर्वत इति पारमर्शनिरूपिता वह्निव्याप्यद्रव्यवान् पर्वत इति परामर्शनिरूपिता चोभयलिङ्गकानुमितित्वावच्छिन्नैवेति तादृशकार्यतासाक्षात्कारजनकसाक्षात्कारविषयो
द्रव्यलिङ्गकपरामर्शोऽपीत्युक्तातिव्याप्तिर्दुर्वारैवेति वाच्यम्।

    प्रकृतेतुकत्वावच्छिन्नत्वस्यानुमितिनिष्ठकार्यतायां निवेशनीयत्वात्। तच्च प्रकृतहेतुतावच्छेदकावच्छिन्नप्रकारतानिष्ठनिरूपकतासंबन्धवच्छिन्नावच्छेदकतानिरूपितावच्छेदकतानिरूपकत्वम्। तथा च धूमत्वावच्छिन्नप्रकारतानिष्ठावच्छेदकतानिरूपकनिश्चयनिष्ठावच्छेदकतानिरूपकीभूता या कार्यता तस्या धूमलिङ्गकपरामर्शनिरूपिततया द्रव्यलिङ्गकपरामर्शनिरूपितत्वाभावेन तादृशपरामर्शस्योक्तकार्यतासाक्षात्कारजनकसाक्षात्काराविषयत्वात्।

    नन्वत्र प्रकृतहेतुकत्वावच्छिन्नत्वस्य कार्यतायां निवेशे प्रकृतहेतुतावच्छेदकावच्छिन्नप्रकारतानिष्ठावच्छेदकताकनिश्चयनिष्ठावच्छेदकतानिरूपकीभूता या प्रकृतपक्षतावच्छेदकावच्छिन्नोद्देश्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारताशाल्यनुनमितित्वावच्छिंन्नकार्यता तत्साक्षात्कारजनकसाक्षात्कारविषयेत्यादिलक्षणं पर्यवसननम्। एवमपि पर्वतो वह्निमान्‌धूमादित्यादौ काञ्चनमयत्वाभाववद्‌धूमादावतिव्याप्तिः। वह्निव्याप्यकाञ्चनमयधूमवान् पर्वत इति परामर्शनिरूपिता या पर्वतो वह्निमानित्यनुमितित्वार्वाच्छन्ना कार्याता तस्या अपि प्रकृतहेतुतावच्छेदकीभूतधूमत्वावच्छिन्नप्रकारतानिष्ठावच्छेदकतानिरूपकावच्छेदकानिरूपकत्वात् तत्‌साक्षात्कारजनकसाक्षात्कारविषयतादृशपरामर्शप्रतिबन्धककाञ्चनमयत्वाभाववान् धूम इति प्रमाविषयत्वात्तस्य।


    न च प्रकृतहेतुतावच्छेदकपर्याप्तावच्छेदकतानिरूपकप्रकारतानिष्ठावच्छेदकतानिरूपकावच्छेदकताकत्वेन कार्याता निवेशनीया, काञ्चनमयधूमवान् पर्वत इति परामर्शोत्तरानुमितिनिष्ठकार्यता च काञ्चनमयत्वधूमत्वधूर्मद्वयपर्याप्तावच्छेदकतानिपूपकप्रकारनिष्ठावच्छेदकतानिरूपकावच्छेदकताका, न तु हेतुतावच्छेदकशुद्वधूमत्वपर्याप्तावच्छेदकतानिरूपकावच्छेदकवच्छेदकताकेति नोक्तदोष इति वाच्यम्।


    सर्वत्र परामर्शनिष्ठा या अनुमितिकार्यतावच्छेदकता चन्निरूपितप्रकारतानिष्ठाव्च्छेदकतया निरूपितस्यावच्छेदकतात्वावच्छिन्नस्य हेतुतावच्छेदकव्याप्त्योरेव सर्वत्र पर्याप्तत्वात् असंभवापत्तेः।

    न च हेतुतावच्छदकतानिष्ठावच्छेदकताभिन्ना सती व्याप्तिनिष्ठावच्छेदकताभिन्ना सती प्रकारतात्वनिष्ठावच्छेदकताभिन्ना यावच्छेदकतातदनिरूपकप्रकारतानिष्ठावच्छेदकताकनिश्चयत्वावच्छिन्नावच्छेदकताकत्वंकार्यतायां निवेशनीयमिति वाच्यम्। नानाविधव्याप्तिष्वेकविधव्याप्तिनिवेशे अन्वयव्यतिरेकव्याप्त्यन्यतरनिवेशे च साधारणानुपसंहारित्वादावव्याप्तेः। सकलविधव्याप्तिनिष्ठावच्छेदकताभेदनिवेशे च वह्निमान् गगनादित्यादौ वह्नयसमानाधिकरणवह्न्यभावव्यापकीभूताभावप्रतियोगिगगनेऽतिव्याप्तेः। गगनव्यापकवह्निसमानाधिकरणवह्नव्यापकाभावंप्रतियोगिगगनवानिति परामर्शस्य पर्वतो वह्नमानित्यनुमितिं प्रति कारणतया तादृशानुमितिनिष्ठकार्यत्वत्वस्य तादृशपरामर्शनिरूपितस्य गगनत्वेअन्वयव्याप्तिव्यतिरेकव्याप्तिनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपकप्रकारतानिष्ठावच्छेदकतानिरूपकनिश्चयनिष्ठावच्छेदकतानिरूपितत्वात् तत्साक्षात्कारदनकसाक्षात्कारविषयपरामर्शनिष्ठवह्रिसामानाधिकरण्यप्रकारकवह्रयभावव्यापकाभावप्रतियोगिगगनत्वावच्छिन्नविशेष्यकबुद्वित्वावच्छिन्ननिरूपितबन्धकताशालिप्रमाविषयत्वात्तादृशगगनस्येति चेत्न।

प्रकृतहेतुतावच्छेदकतात्वातच्छिन्नपर्याप्त्यनुयोगितावच्छेदकधर्मवृत्तिविशेष्यत्वावच्छिन्नप्रकारतानिष्ठावच्छेदकतानिरूपकनिश्चयनिष्ठावच्छेकतचानिरूपकत्वस्य कार्यतायां विवक्षणीयत्वात्। तादृशधर्मवृत्तित्वं च विशेष्यतायां स्वनिरूपितावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन। तथा च काञ्चनधूमविषयकरपरामर्शवह्रयभावव्यापकाभावप्रतियोदिददनविषयकपरामर्शनिष्ठा या कार्यतावच्छेदकता तन्निरूपितावच्छेदकताश्रयीभूता या धूमगगनादिनिष्ठा प्रकारता तदवच्छेदकव्याप्तिनिष्ठप्रकारतानिरूपितविशेष्यता च न हेतुतावच्छेदकतापर्याप्त्युनुयोगितावच्छेदकीभूतधूमत्वगगनत्वनिष्ठैकत्वनिष्ठेति नातिव्याप्तिः।

 


    ननु परामर्शाव्यवहितोत्तरत्वस्य कार्यतावच्छेदकघट्‌कत्वे प्रकृतपक्षसाध्यकानुमितित्वस्य कार्यतावच्छेदकत्वे प्रयोदनविरहेण तदवच्छिन्नकार्यताघटितलक्षणस्यासंभवः।


    न च परमर्शाव्यवहितोत्तरत्वावच्छिन्नं प्रति परामर्शस्यं समवायघटितसामानाधिकरण्येन कारणत्वे यदत्मनि परामर्शस्तदात्मनि तदुत्तरंयद्‌घटात्मगतद्वित्वमुत्पद्यते तस्य घटेऽपि समवायेनोत्पत्त्या तत्र परामर्शस्य व्यभिचार इति वाच्यम् अनुमितित्वस्य कार्यतावच्छेदकत्वमात्रेणतादृशव्यभिचारवारणसम्भवे पक्षसाध्यविषयतायाः कार्यतावच्छेदककुक्षावप्रवेशादिति चेत्-

    न। अप्रामाण्याहार्यज्ञानां तत्तद्‌व्यक्त्यभावकूटस्य कारणतावच्छेदककुक्षौ निवेशपक्षे यत्र भाविज्ञानं धूमाभाववति धूमप्रकारकमिति भ्रमत्वज्ञानं तदनन्तरं च पर्वतो वह्रिव्याप्यधूमवान् घटव्याप्यपटवानिति परामर्शः तदनन्तरं घटानुमितिवह्रयनुमिती तत्र परामर्शद्वितीयक्षणे वह्रयनुमितिवारणाय तादृशपरामर्शद्वितीयक्षणोत्पन्नघटानुमितौ व्यभिचारवारणाय तादृशाप्रामाण्यज्ञानव्यक्त्यभावकूटस्य कार्यतावच्छेदककोटावनिवेशनीयतया तादृशाप्रामाण्यज्ञानास्कन्दितधूमालोकविषयकसमूहालम्बनपरामर्शोत्तरं पर्वते वह्रयनुमितौ व्यभिचारवारणाय तादृशाप्रामाण्यज्ञानव्यक्त्यभावनां कार्यतावच्छेदतककोटिप्रविष्टकूटान्तर्भावेऽपि उक्तस्थले तदनिवेशेन लाघवाय पक्षसाध्यावगाहित्वस्य कार्यतावच्छेदककोटौ निवेशौचित्यात्।

    नन्वेवं सति तादृशकार्यतावच्छेदतविषयत्वावच्छिन्नत्वेन प्रतिबन्धयतानिवेशेनैवातिव्याप्तिवारणसंभवे कार्यतासाक्षात्कारदनकसाक्षात्कारविषयताशालिग्रहनिष्ठत्वेन प्रतिबध्यतानिबेशनं व्यर्थम्, उत्तरकल्पानुसारणंचानुचितमिति चेत्-न। पर्वतो वह्रिमान् धूमादित्यादौ घटाभाववत्पर्वतेऽतिव्याप्तेः। तत्र वह्रिव्याप्यधूमघटवानित्येकत्रद्वयमितिरीत्या ज्ञानीया या घटत्वावच्छिन्नप्रकारतानिरूपितविशेष्यता तस्या अपिवह्रिव्याप्यधूमप्रकारतानिरूपितविशेष्यत्वाभिन्नयाः कार्यतावच्छेदकतयातदवच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकताशालिप्रमाविषयत्वस्य तत्र सत्वात्।

    न च तादृशकार्यतानवच्छेदकविषयत्वानच्छिन्नत्वस्य प्रतिबध्यतायां विवक्षणे नोक्तातिव्याप्तिः। घटाभाववत्पर्वतविषयकनिश्चयनिरूपितप्रतिबध्यतायास्तादृशतकार्यतानवच्छेदकघटत्वावच्छिन्नप्रकारत्वावच्छिन्नत्वादिति वाच्यम्।

    ह्रदो वह्रिमान् धूमादित्यादौ वह्रयभाववद्‌ह्रदादावव्याप्त्यापत्तेः। तञ्ज्ञानीयप्रतिबन्धयतावच्छेदकत्वस्य महानसीयवह्रिमान् ह्रद इत्याकारकज्ञानीयह्रदत्वावच्छिन्नविशेष्यतानिरूपितमहानसीयवह्रित्वावच्छिन्नप्रकारतायां सत्त्वात् तस्याश्च तादृशकार्यतायामनच्छेदकत्वात्।

    एवं घटो गगनवानित्यादौ अवृत्तिगगनादावव्याप्तिः। तादृशदोषविषयकनिश्चयप्रतिबध्यत्वस्य तादृशकार्यतावच्छेदकविषयताशून्यनिर्धर्मितावच्छेदककज्ञानसाधारणतया कार्यतानवच्छेदकविषयत्वानवच्छिन्नत्वाभावात्।

    न च तादृशकार्यतानवच्छेदकविषयताशून्यज्ञानीयविषयत्वावच्छिन्नत्वेन प्रतिबध्यता निवेश्या। तथा च तादृशकार्यतानवच्छेदकमहानसीयवह्रित्वावच्छिन्निविषयताशून्यह्रदो वह्रिमानित्यानुमितिमादायतादृशनिर्मितावच्छेदततज्ञानीयविषयताशून्यघटो गगनवानित्याकारकज्ञानमादाय च पूर्वोक्तस्थलद्वये लक्षणसमन्वयः वह्रिव्याप्यधूमघटवान् पर्वत इत्याकारकज्ञानीयघटत्वावच्छिन्नप्रकारतानिरूपितपर्वत्वावच्छिन्नविशेष्यताया उक्तज्ञानीयत्वाभावादेव तदवच्छिन्नप्रतिबध्यतामादाय नोक्तातिव्यर्तिश्चेति वाच्यम्।

 


    तादृशकार्यतानमवच्छेदकनिरवच्छिन्नविशेष्यताशून्यत्वस्य क्वापि ज्ञानोऽसत्त्वेनासंभावापत्तेः।

    न च तथापि कार्यतानवच्छेदकविषयताशून्यत्वमित्यनेन कार्यतावच्छेदकविषयताविशिष्टान्यविषयताशून्यत्वस्य विवक्षणान्नासंभवः। विषयतावैशिष्टयं च स्वतादत्म्य, स्वावच्छिन्नत्व, स्वावच्छिनिरूपितत्व स्वनिरूपितत्व, स्वनिरूपितावच्छेद्यत्व, स्वावच्छेद्यनिरूपितावच्छेद्यत्वैतदन्यतमसंबन्धेन।


    अत्र प्रथमद्वितीयसम्बन्धनिवेशश्च ह्रदो वह्रिमानित्यत्र ह्रदत्वावच्छिन्नविशेष्यतायाः ह्रदत्वनिरूपितनिरवच्छिन्नविशेष्यतायाश्चसंहरहाय। तृतीयचतुर्थसम्बन्धनिवेशश्च धूमाभाववद्‌वृत्तिवह्रिरूपव्यभिचारेऽव्याप्तिवारणाय। अन्यथा धूमाभाववदवत्तिह्रिमांस्तादूशालोकवान् धूमाभाववदवृत्तिमानित्यादिनानाहेतुतावच्छेदकावगाहिहेतुतावच्छेदककोटावेकधर्मावच्छिन्नं प्रति व्यापकसामानाधिकरण्यादिनानाविधव्याप्त्यवगाहिपरामर्शरीरे पूर्वोक्तपरामर्शानामेकरूपेणैव प्रवेशात् हेतुतावच्छेदकवद्रित्वादिनिष्ठायानिरवच्छिन्नविषेष्यचानिरूपितप्रकारतायाव्याप्तिप्रकारतानिरूपितधर्मितावच्छेदकतायाश्च तादृशानुमितिनिष्ठकार्यतानवच्छेदकतया तच्छून्यत्वस्य तादृशव्यभिचारज्ञानप्रतिबध्यज्ञानावृत्तितया अव्याप्त्यापत्तेः। पञ्चमषष्ठन्धनिवेशश्च पर्वतो वह्रयभाववानित्यादौ बह्रिमत्पर्वतरूपबाधसंग्रहाय। अन्यथा वह्रयभावन्याप्यहेतुमत्तापरामर्शस्य लाघवादविच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नवह्रित्वनिष्ठप्रकारतानिरूपपिताभावत्वावच्छिन्नविथेयतात्वेन वह्रयभावत्वावच्छिन्नविधयताशाल्यनुर्मितित्वावच्छिन्नं प्रत्येव कारणतया वह्रिनिष्ठवनिह्रित्वनिरूपितनिरवच्छिन्नविशेष्यत्वतन्निरूपितविशेष्यत्वादीनां कार्यतानवच्छेदकतया तच्छून्यत्वस्य तादृशबाधज्ञानप्रतिबध्यज्ञानेऽसत्त्वेनाव्याप्त्यापत्तेरितिवाच्याम्।
    पर्वतो धूमवान् गगनादित्यादावाघेयत्वप्रतियोगदित्वोभयाभाववद्गगेऽतिव्याप्तेः। तादृशकार्यतानवच्छेदकविषयताशून्यत्वस्य गगनव्यापकधूमसामानाधिकरण्यधूमाभावव्यापकीभूताभावप्रतियोगित्ववद्‌गगनवान् पर्वतः इत्याकारके व्याप्तिद्वयमेकत्र द्वयमिति रीत्यावगगाहिपरामर्शो ताद-शानुमितिकारणे सत्त्वेन तञ्ज्ञानप्रतिबन्धकज्ञानविषयत्वस्य तत्र सत्त्वात्।

 

    यत्किंचित्कार्यतानवच्छेदकविषयताशूनम्यत्वस्य ज्ञानविशेषणत्वेनतद्दोषवारणेऽपि ह्रदो वह्रिमान् धूमादिच्यादौ वह्नरयभाववदवृत्तिधूमतादृशालोकोभयाभाववद्रह्नदेऽतिव्याप्तेरशक्यपरिहारात्। एकत्र द्वयमिति रीत्या वह्रयभाववदवृत्तिधूमालोकवानिति ज्ञाने उभयसाधारणसाध्याभाववदवृत्तित्वत्वाच्छिन्नप्रकारताशालिनिश्चयाव्यवहितोत्तरत्वघटितथर्मावच्छिन्नयत्किंचित्कार्यतानवच्छेदकविषयताशून्यत्वस्याक्षतत्वात्।

    एवमव्यवहितोत्तरत्वस्य कार्यतावच्छेदकोटौ निवेशनीयताया अप्रामाण्यज्ञानानामनुगतरूपेणोत्तेजकतामते पक्षसाध्यविषयतायाः प्रयोजनवविरहेण कार्यतावच्छेदककुक्ष्यप्रवेशेन तादृशकार्यत्वाप्रसिद्व्या असंभवस्य दुर्वारत्वात् गौरवाच्चेति दिक्।।

</1-2>
    संबन्धिपदं संबन्धिद्वयसाधारणस्य तत्साक्षात्कारजनकसाक्षात्कारविषयतात्मकनिरूपकत्वस्य लाभायेति।
</1-2>

 <1-3>
    अनुमितिनिष्ठकार्यतासाक्षात्कारजनकसाक्षात्कारीयविषयताश्रयग्रहनिष्ठप्रतिबन्धयतानिवेशे प्रकृतानुमितिनिष्ठकार्याता-अन्यानुमितिनिष्ठकार्यताविषयकसमूहालम्बनसाक्षात्कारजनकसाक्षात्कारविषयतां तादृशकार्यंतासाक्षात्कारत्वावच्छिन्नजन्यातानिरूपितदनकताश्रयसमूहालम्बनसाक्षात्कारविषयतां चादाय पर्वतो वह्निमानित्यादौ वह्न्यभाववद्‌ह्रदादावतिव्याप्तिः, अतः तादृशकार्यताविषयकसाक्षात्कारत्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकसाक्षात्कारीयविषयताश्रयग्रहनिष्ठप्रतिबध्यता निवेशनीया।
</1-3>

    नन्वत्र प्रथमसाक्षात्कारनिवेशे किं प्रयोजनमिति चेत्-न। अनुमितिनिष्ठकार्यताविषयकत्वावच्छिन्नजन्यतानिवेशे अनुमितिः परामर्शकार्येत्यनुमितिनिष्ठकार्यत्वविषयकानुमितित्वाद्यवच्छिन्नजन्यतानिरूपितजनकतावच्छेदिका या प्रत्यक्षपरामर्शोयहेतुविषयता तदाश्रयहेतुभूतलं घटवदिति ज्ञाननिष्ठप्रतिबध्यतामादाय पर्वतो वह्निमानित्यादौ घटाभाववद्‌भूतलेऽतिव्याप्तेः। साक्षात्कारत्वनिवेशे तु परामर्शकार्यतायास्तदनवच्छिन्नत्वेन नायं दोषः। द्वितीयासाक्षात्कारत्वानिवेशे तादृशकार्यतासाक्षात्कारत्वावच्छिन्नजन्यतानिरूपितजनकतावतच्छेदकीभूता याऽनुमितित्वेन भूतलं घटवदिति
ज्ञाननिष्ठसाक्षात्कारविषयता तदाश्रयग्रहनिष्ठप्रतिबध्यतामादाय घटाभाववद्‌भूतलेऽतिव्याप्तिः। यद्धर्मावच्छिन्नविषयतातादृशजनकतावच्छेदिका तद्धर्माश्रयग्रहनिष्ठप्रतिबध्यतानिवेशे परामर्शघटकं ज्ञानत्वमादाय स एव दोषः, अतो यद्धर्मावच्छिन्नग्रहत्वव्यापिका तादृशजनकतेति विवक्षणीयम्। तथाचासम्भवः। अनुमितित्वावच्छिन्नग्रहत्वाश्रयानुमिति शाब्दादौ तादृशजनकताविरहात्। अतस्साक्षात्कारत्वनिवेशः।

    ननु वस्तुतस्तत्कार्यता ९व्यक्तिसाक्षात्कारत्वावच्छिन्नं प्रति तदाश्रयव्यक्तिसाक्षात्कारत्वेनैवं हेतुतया प्रकृतपक्षसाध्यहेतुकानुमितिनिष्ठकार्यतानिष्ठाधेयतासम्बन्धावच्छिन्नावच्छेदकतानिरूपकविषयतानिष्ठावच्छेदकतानिरूपक जन्यतानिरूपितजनकतावच्छेदकविषयताश्रयग्रहनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकतानिवेशे अनुमितिनिष्ठकार्यताविधेयकानुमितित्वावच्छिन्नजन्यतानिरूपितसाध्यविषयतानिष्ठावच्छेदकतायां साध्यतावच्छेदकावच्छिन्नत्वस्यावच्छेदकतया साध्यस्याधेयतासम्बन्धेन नावच्छेदकत्वंभ्रमप्रमासाधारणसाध्यतावच्छेदकावच्छिन्नविषयताशाल्यनुमितित्वस्यैव परामर्शजन्यतावच्छेदकत्वात्। एवं च प्रथमसाक्षात्कारत्वानिवेशे पर्वतो वह्निमानित्यादौ घटाभाववद्‌भूतले न प्रागुक्तरीत्यातिव्याप्तिः।

    एवं तादृशकार्यतासाक्षात्कारं प्रति तादृशनुमितित्वेनान्यावगाहिज्ञानस्य कारणत्वाभावेन द्वितीयसाक्षात्कारनिवेशस्यापि न सार्थक्थक्यमितिचेत्

    अत्र-कश्चित्-तद्वयक्तेस्स्वरूपतो भानमते प्रथमसाक्षात्कारत्वानिवेशे प्रागुक्तातिव्याप्तिः। स्वरूपतस्तद्‌वयक्तिविधेयकानुमितिनिष्ठपरमर्शजन्यतायां साध्यविषयतायास्साध्यतावच्छेदकावच्छिन्नत्वेनावच्छेदकत्वासम्भवेनसाध्यनिष्ठविषयतात्वेनैवावच्छेदकत्वात्। द्वितीयसाक्षात्कारत्वानिवेशे तादृशकार्यतासाक्षात्कारत्वावच्छिन्नं प्रति तदाश्रयव्यक्तिसाक्षात्कारत्वेनहेतुत्वेऽपि तदाश्रयाननुमितेः भूतलं घटवदितिज्ञानस्य चानुमितित्वेन यस्साक्षात्कारस्तस्यापि हेतुतया तन्निरूपितानुमितित्वनिष्ठप्रकारतानिरूपितविशेष्यताया ऐक्येन तादृशजनकतावच्छेदक तादृशविषयताश्रयो भूतलं घटवदिति त्रानमिति तत्रातिव्याप्तिवारणाय यद्विषयताशालिसाक्षात्कारत्वयव्यापिका तादृशजनकतेति वक्तव्यम्। तथा च साक्षात्कारत्वानिवेशेऽसम्भवः, अनुमितिशाब्दादौ जनकत्वाभावत्। अतस्तन्निवेश इत्याह। तादृशकार्यताविषयकत्वावच्छिन्नजन्यतानिरूपितजनकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपिताधेयतासम्बन्धावच्छिन्नावच्छेदकताश्रयग्रहनिष्ठप्रतिबध्यतानिवेशे न प्रागुक्तदोषावकाशः। परामर्शनिष्ठानुमितिकारणतायां हेतुविषयताया हेतुतावच्छेदकतया तादृशविषयतानिष्ठावच्छेदकतायां हेतोराधेयतासम्बन्धेनावच्छेदकत्वाभावात्। अन्यथा हेतुतावच्छेदकरूपेणान्यावगाहिपरामर्शास्य अनुमित्यजनकत्वापत्तेः। एवञ्च तादृशानुमितिनिष्ठकार्यताविषयकानुमितिनिष्ठजन्यतानिरूपितजनकतावच्छेदकतावतच्छेदकता न हेतुभूतभूतलंघटवदित्याकारकज्ञानेऽनुमितिभूतलं घटवदिति ज्ञानयोर्योऽनुमितित्वेन साक्षात्कारस्तस्य कार्यताविषयकसाक्षात्कारं प्रति कारणत्वेऽपि तदीय विषयताया अनुमितिनिष्ठत्वेनैव जनकतावच्छेदकतया तत्र भूतलं घटवगदिति ज्ञानस्याधेयतासम्बन्धेनानवच्छेदकताया च पूर्वोक्तदोषाभावात्।

    तथापि साक्षात्कारत्वं विषयताविशेषो नातिरिक्त इति मताभिप्रायेण साक्षात्कारत्वनिवेशः।

    किञ्च व्याप्यधर्मपुरस्कारेण निवेशसम्भवे व्यापकधर्मपूरस्कारेणनिवेशस्यानुमितिग्रन्थे भट्टाचार्येणानङ्गीकृत्वात्साक्षात्कारत्वनिवेशः।

    यद्वा आधेयतासम्बन्धावच्छिन्नावच्छेदकताश्रयग्रहनिष्ठप्रतिबध्यतालाभार्थमेव तन्निवेश इति दिक्‌।।

 

    ननु! तादृशकार्यताविशिष्टग्रहत्वव्यापकप्रतिबध्यतानिपितप्रतिबन्धकतावच्छेदकयथार्थज्ञानविषयत्वं लक्षणमास्ताम्‌, कार्यतावैशिष्टयं च स्वाश्रयत्वस्वनिरूपित्वस्वनिरूपितकारणतावत्वोभयसम्बन्धेन। तथा च पक्षे साध्य साधयव्याप्यहेत्ववगाह्यनुमित्यात्मकग्रहमादाय सर्वलक्षणसमन्वय इति चेन्न, साधारण्यानुपसंहारित्वयोरव्याप्तेः, अनुपसंहारित्वनिश्चयप्रतिबध्यत्वस्य तादृशोभयसम्बन्धेन प्रकृतहेतुमत्तानिश्चयोत्तरप्रकृतपक्षसाध्यविषयकानुभितित्वर्घाचतधर्मावच्छिन्नकार्यतावत्यां प्रकृचपक्षे प्रकृतसाध्यतन्निरूपितान्वयव्याप्तिविशिष्टहेत्वगाह्यनुमितावसत्वात्, साघारण्यविषयकनिश्चय प्रतिबध्यत्वस्य व्यतिरेकव्याप्त्यवगाहितादृशसमूहालम्बनानुमितावसत्वातच्च।

    न च कार्यतावेशिष्टयं ग्रहेऽनिवेश्य तादृशप्रतिबध्यतायां निवेश्यते। वैशिष्टयं च स्वविशिष्टग्रहनिष्ठभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेगदकताक प्रतियोगिताकभेदवत्त्वसम्बन्धेन, स्ववैशिष्टयं च पूर्वोक्तोभयसम्बन्धेन। एवञ्च तादृशकार्यता विशिष्ट प्रतिबध्यता साधारण्यनिश्चयप्रतिबध्यता अनुपसंहारित्वनिश्चयप्रतिबध्यता च, स्वत्वस्याननुगतयता स्वपदेन यत्किञ्चित्कार्यताया एव ग्रहणसम्भवात्, प्रकृतहेतुविषयकनिश्चयोत्तरतादृशानुमितित्वघटिधर्मावच्छिन्नयत्किञ्चित्कार्यताग्रहे सर्वत्र साधारण्यनिश्चयप्रतिबध्यत्वस्य तादृशयत्किञ्चित्कार्यताविशिष्टग्रहेऽनुपसंहारित्वनिश्चयप्रतिबध्यत्वस्य च सत्त्वात्, परम्परायास्सम्बन्धत्वास्वीकारेतादृशसम्बन्धस्य प्रकारमुद्रया निवेशः कार्यः, तत्प्रकारश्च प्रकृतहेतुविषयकनिश्टयोत्तरप्रकृतपक्षसाध्यविषयकानुमितित्वघटितधर्मार्वाच्छिच्छन्नकार्यतात्वसमानाधिकरणोभयावृत्तिधर्मनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपकतादृशोभयसम्बन्धावच्छिन्नकार्यतानिष्ठावच्छेदकतानिरूपकग्रहनिष्ठावच्छेदकतानिरूपकवृत्तित्वनिष्ठावच्छेदकतानिरूपकभ दनिष्ठप्रतियोगिताकाभववत्‌प्रतिबन्धयतात्वेनेति, स्वनिरूपितकारणतायास्सम्बन्धत्वानङ्गीकारे तु तादृशसमूहालम्बनात्मकग्रहनिष्ठाश्रयतानिरूपकतायां तन्निष्ठकारणतानिरूपकनिरूपकतायां च द्वयोरेकमितिरीत्या तादृशयत्किञ्चित्कार्यतावगाहिप्रतीतिसिद्वाभाव एव प्रतिबध्यतायां निवेशनीयः।

    तत्प्रकारश्च तादृशकार्यतात्वसमानाधिकरणोभयावृत्तिधर्मानिष्ठनिरवच्छिन्नावच्छेदकतानिरूपकाधेयतासम्बन्धावच्छिन्नावच्छेकतानिरूपकनिरूपकतानिष्ठावच्छेदकतानिरूपकनिरूपित्त्वनिष्ठावच्छेदकतानिरूपकाश्रयत्वनिष्ठावच्छेदकतानिरूपकज्ञाननिष्ठावच्छेदकतानिरूपकाधेयत्वनिष्ठावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकतानिरूपकप्रतियोगित्वनिष्ठावच्छेेदकतानिरूपकीभूता या तादृशकार्यतानिष्ठावच्छेदकतानिरूपकनिरूपकत्विष्ठावच्छेदकतानिरूपकनिरूपितत्वनिष्ठावावच्छेदकतानिरूपककारणत्वनिष्ठावच्छेदकतानिरूपकत्राननिष्ठावच्छेदकतानिरूपकवृत्तित्वनिष्ठावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकतानिरूपकप्रतियोगित्वनिष्ठावच्छेदकताकावच्छेदकतात्वावच्छिन्नप्रतियोगिता तन्निरूपकाभाववत्प्रतिबध्यतेति, उभयावृत्तित्वं न स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धेन भेदविशिष्टन्यत्वं तादृशसम्बन्धास्वीकारात्।

    परन्तु एकत्ववदवन्यावृत्तित्वं तच्चाप्रसिद्वम्। एकत्वावदन्याप्रसिद्वेः।
अत एकत्वादिव्यक्तेः स्वरूपतोभानमतमवललम्ब्य तद्‌व्यक्तिनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपकाधिकरणनिष्ठावच्छेदकतानिरूपकप्रतियोगित्वनिष्ठावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकताधिकरणनिष्ठावच्छेदकतानिरूपकनिरूपितत्वनिष्ठावच्छेकतानिरूपकवृत्तित्वत्तवाच्छिन्नप्रतियोगिकाकाभाववत्वं, तथा च न पूर्वोक्तदोष इति वाच्यम्।

    तथापि धूमव्याप्यवान् धूमव्यप्यवह्रिमांस्तादृशालोकवानित्यादिज्ञानानामेकरूपेणकारणत्वेन धूमाभाववद्‌वृत्तिर्वह्निरिति व्यभिचारनिश्चयप्रतिबध्यतायाः धूमव्याप्यवह्निमांस्तदृशघटवांस्तादृशपटवानित्यादिसमूहालम्बनज्ञानेषु तादृशकार्यतावत्सु असत्वेन व्यभिचारेऽव्याप्त्यापत्तेरितिदिक्‌।।

    बाधसत्प्रतिपक्षस्वरूपासिद्‌वयाश्रयासिद्विष्वव्याप्तिवारणाय प्रकृतपक्षतावच्छेदकावच्छिन्नपक्षक्तवनिवेश इति।

    नन्वत्र? प्रकृतपक्षविषयकत्वानिवेशेऽसाधारण्यस्याप्यसङ्‌ग्रहात् कथं तदनभिधानमितिचेत्।

    न, पक्षविषयकत्वानिवेशेऽपि तत्राव्याप्तिविरहात्। तथाहि प्रकृतसाध्यतावच्छेदकावच्छिसाध्यविषयकत्वेसति प्रकृतसाध्यनिरूपितव्याप्तिविशिष्ट प्रकृतहेतुतावच्छेदकावच्छिहेतुविषयकानुमितित्वव्यापकत्वं प्रतिबध्यतायां लक्षणे निविष्ट, तच्च यदि स्वरूपसम्बन्धेन तदऽसाधारण्यासङ्‌ग्रहः पर्वतो वह्निमान् घटो वह्निमान् इत्यादिसमूहालम्बनानुमितिषु पक्षे हेतम्त्तात्रानकालीनासाधाण्यविषयकनिश्चयप्रतिबधयत्वाभावत्।

    किन्तु स्वनिरूपितप्रतिबन्धकतावच्छेकविषयित्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतावत्वसम्बन्धेन व्यापकत्वं विवक्षणीयम्। तथाचअसाधारणण्यविषयक निश्चयप्रतिबध्यतायास्स्वनिरूपितबनअधकतावच्छेदकपक्षधर्मिकहेतुमत्तात्रानकालीनज्ञानीयासाधारण्यविष्यत्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतायाः पर्वतघटादिधर्मिकावह्न्यमुमितिषु सर्वत्र विद्यमानत्वात् वह्न्यभाववदह्रदादिरूपबाधादिनिश्चयप्रतिबध्यताया घटोवह्निमान् इत्याद्यनुमितिषूक्तसम्बन्धेनासत्त्वात् बाधाद्यसङ्ग्रहः।

    न च पर्वतो वह्निमान् धूमादित्यत्र वह्निव्यापकीभूताभावप्रतियोगित्वेऽतिव्याप्तिः। वह्निव्यापकीभूताभावनिरूपितत्वाभाववत्प्रतियोगित्वमित्याकारकबुद्वित्वावच्छिन्ना या प्रतिबध्यता तस्याः स्वनिरूपितप्रतिबन्धकतावच्छेदकीभूता वह्निव्यापकीभूताभावप्रतियोगी धूम इति ज्ञानीया वह्निव्यापकाभूताभावप्रतियोगित्वविषयता तदवच्छिन्ना या घटो धूमवान् पटो धूमवानित्यादिज्ञानकालीनवह्निव्यापाकीभूताभावप्रतियोगी धूम इति निश्चयनिष्ठा प्रतिबन्धकता तन्निरूपितप्रतिबध्यताया घटोवह्निमान् पटो वह्निमानिति समूहालम्बनानुमितिषु सत्वेन निरूक्तप्रतिबध्यताया उक्तप्रतिबध्यतावत्वरूपपरम्परासम्बन्धेन उक्तसमूहालम्बनानुमितित्वव्यापकरत्वादिति वाच्यम्।

    स्वनिरूपितप्रतिबन्धकतावच्छेदकविषयतानिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभाववदवच्छेदकतानिरूपकप्रतिबन्धकतानिरूपकप्रतिबध्यतायाः सम्बन्धत्वस्वीकारात्।

    एवंसति वह्निव्यापकीभूताभावनिरूपितत्वाभाववत्प्रतियोगित्वमिति बुद्वित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतायामवच्छेदकीभूताया वह्निव्यापकीभूताभावनिरूपितं प्रतियोगित्वमिति निश्चयीया तादृशप्रतियोगित्वविषयता तत्र वह्निव्यापकीभूताभावप्रतियोगी धूम इति निश्चयीयधूमत्वावच्छिन्नविशेष्यतानिरूपितप्रकारत्वावत्मकादृशप्रतियोगिताविषयतायां वर्तमाना या वह्निमत्ताबुद्विप्रतिबन्धकतावच्छेदकता तद्वद्‌भेदस्य सतत्त्वात्तादृशविषयतात्वव्यापकावच्छेदकताकप्रतिबन्धकतानिरूपकप्रतकिबध्यतायाः पर्वतो वह्निमान् इत्याद्यनुमितावसत्त्वेनातिव्याप्तिविरहात्‌। असाधारण्यनिश्चयप्रतिबध्यतानिरूपितबन्धकतावच्छेदकविषयतासामान्यस्य घटटादिपक्षकानुमितिनिष्ठप्रतिबध्यतातिरूपितप्रतिबन्धकतावच्छेदकतया तत्सङ्‌ग्रहः।

    न च ह्रदो वह्निमान् जलादित्यादौ जलाभाववान्वह्निमान् ह्रदो वह्निव्याप्यजलवानित्यनुमितेरपि लक्षमघटकतया तत्रचासाधारण्यनिश्चयप्रतिबध्यत्वं नास्ति तत्र पक्षतावच्छेदकावच्छिन्ने हेतुमत्ताज्ञानस्याहार्यतया तत्कालीनासाधारण्यनिश्चयस्याप्रतिबध्कत्वात् कथमसाधाकण्ययसङ्‌ग्रह इति वाच्यम्।

    किञ्चिर्मविशिशष्टानुमितित्वव्यापकत्वस्य प्रतिबध्यतायां विवक्षणीयत्वात्ष वैशिष्टयञ्च स्वावच्छिन्नविशेष्यतानिरूपितसाध्यप्रकारतावत्वस्वावच्छिन्नविशेष्यतानिरूपितसाध्यव्याप्यहेतुप्रकारतावत्वोभयसाम्बन्धेन। तथाच जलाभाववान् ह्रिमान् ह्रदो व्हरिव्याप्यजलवानित्यनुमितिश्च न तादृशी, घटोवह्रिमान् पटोवह्रिमानित्यनुमितिश्च तादृशी तत्रासाधारण्यनिश्चयप्रतिबध्यतायाः सत्त्वात्। एतादृशपरम्परायास्सम्बन्धत्वाङ्गीकारे तु तादृशप्रतिबधन्यतायाः प्रकारमुद्रया निवेशोऽपि सुलभः।

    तथाहि-यत्किञ्चित्‌प्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेकविषयतासामान्यावच्छिन्नप्रतिबन्झधकतानिरूपितप्रतिबध्यतावान्नेति प्रतीतिसिद्वः प्रकृतानुमितिनिष्ठो यो भेदस्तन्निरूपिताधिकारणनिष्ठप्रतियोगितानिरूपितप्रतीबध्यत्वनिष्ठावच्छेदकतानिरूपितत्वनिष्ठाच्छेदकतानिरूपितप्रतिबंधकत्वनिष्ठावच्छेदकतानिरूपितनिरूपकत्वनिष्ठावच्छेकतानिरूपि तावच्छेदकत्वनिष्ठावच्छेदकतानिरूपिताभावनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठप्रतियोगित्वनिष्ठाववच्छेगकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितप्रतियोगित्वनिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेकत्वनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठाच्छेदकतानिरूरपितप्रतिबन्धकत्वनिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितनिरूपितत्वनिष्ठावच्छेकत्तवनिष्ठावच्छेदकतानिरूपितप्रतिबध्यतानिष्ठप्रतियोदितासम्बन्धावच्छिन्नावच्छेदकतानिष्ठावच्छेदकतानिरूपिताधेयतासम्बन्धावच्छिन्नावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभाववत्‌प्रतिबन्धयताया लक्षणे निवेश इति, अत्रोभयत्राभावोऽधिकन्यूनवारपर्याप्तिघटितो बोध्यः।


    किञ्च पक्षविषयकत्वानिवेशेऽसाधारण्येऽव्याप्तिशङ्कैव नावतरतियद्‌रूपावच्छिन्नविषयताशालिनि निश्चयसामान्ये प्रकृतानुमित्यप्रतिबद्वकत्वअसाधारण्याविषयकत्वोभयाव इति लक्षणस्य सव्यभिचारे ववक्षणीयत्वादिति दिक्‌।।

 

<1-3>
    अनुमितिनिष्ठकार्यतासाक्षात्कारजनकसाक्षात्कारीयविषयताश्रयग्रहनिष्ठप्रतिबध्यतानिवेशे प्रकृतानुमितिनिष्ठकार्यता-अन्यानुमितिनिष्ठकार्यताविषयकसमूहालम्बनसाक्षात्कारविषयतां तादृशकार्यतासाक्षत्‌कारत्वावच्छिननजन्यतानिरूपपितजनकताश्रयसमूहालम्बनसाक्षात्कारविषयतां चादाय पर्वतो वह्रिमानित्यादौ वह्रयभाववद्‌ह्रदादावतिव्याप्तिः, अतः तादृशकार्यताविषयकसाक्षात्कारत्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकसाक्षात्कारीय विषयताश्रयग्रहनिष्ठप्रतिबध्यता निवेशनीया।
</1-3>

 


(अनुमितिपदार्थविचारः)
<1-4>
    साध्याप्रसिद्वयव्याप्तिवारणप्रोजनकत्वं तदुपादानस्येति तु न सत् ।वह्निर्नकाञ्चनमय इति निर्णयस्य शुद्ववह्नित्वादिना वह्न्याद्यनुमित्यविरोधित्वेऽपि द्वितीयदले प्रकृतसाध्यतावच्छेदकावच्छिन्नान्तर्भावसत्त्वादिति-गादाधरी।
</1-4>
    नन्वत्र? प्रत्येकदलखण्डनस्य ग्रन्थकारतात्पर्यविषयत्वे पक्षतावच्छेदकव्यावृत्तिकाले बाधस्वरूपासिद्वयोरव्याप्तिदमसङ्गतं, दळद्वयनिवेशखण्डनपरत्वे साध्यप्रसिद्वयव्याप्तिवारणं न सदिति खण्डुमयुक्तमिति चेत्-

    न, पक्षतावच्छेदकस्य सकृन्निवेशाभिप्रायेणाव्याप्त्याभिधानात्, तन्निवेशस्तु प्रकृतपक्षतावच्छेदकविशिष्टानुमितित्वव्यापकप्रतिबध्यतेत्यादिरीत्या। वैशिशष्टयञ्च स्वावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारताकत्वस्वावच्छिन्नविशेष्यतानिरूपितसाध्यनिरूपितव्यप्तिविशिष्टहेतुतावच्छेदकावच्छिन्नप्रकारकत्वोभयसम्बन्धेन।

    नचैवं रोत्या साध्यतावच्छेदकस्यापि सकृन्निवेशसम्भवेन तन्निवेशस्य साध्याप्रसिद्वयव्याप्तिवाकत्वं युक्तमेव। तादृशरीतिस्तु स्वविशिष्टानुमितित्वव्यापकप्रतिबध्यतेत्यादिरूपा। स्ववैशिशष्टयञ्च स्वावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्ननविशेष्यातकत्व-हेतुव्यापकत्वविषतानिरूपितस्वावच्छिन्नविषयतानिरूपिताधिकरणत्वविषयतानिरपिझर्मिविषयतानिरूपितवृत्तित्वविषयतानिरूपितहेतुविषयतानिरूपितपक्षविशेष्यताकत्वस्वावच्छिन्नविषयतानिरूपिताभावविषयतानिरूपिव्यापकत्वविषयतानिरूपितपक्षविषयतावकत्वस्विशिष्टहेतुतावच्छेदकावच्छिन्न विशेष्यत्वावच्छिन्नप्रकारतानिरूपित पक्षविशेष्यताकत्वैतच्चुष्टयसम्बन्धेन। स्ववैशिश्टयञ्च स्वावच्छिन्नप्रकारतानिरूपितध्रर्मिविषयतानिरूपितवृत्तित्वविषयतानिरूपितत्व स्वावच्छिन्नप्रकारतानिरूपिताधिकरयणत्वविषयतानिरूपितधर्मिविषयतानिरूपितभेदविषयतानिरूपिताधिकरणविषयतानिरूपिकतवृत्तित्वनिषयतानिरूपिताभावविषयतानिरूपितत्वेभयसम्बन्धेनेति वाच्यम्।
परम्परायास्सम्बत्वानङ्गीकारात्।

    न च तथासति पक्षतावच्छेदकस्यापि सकृन्निवेशो न सम्भवतीति वात्यम्। अस्मन्मते पक्षतावच्छेदकस्य प्रकारविधया सकृन्निवेशसम्भवात्।

    तथाहि-पक्षतावच्छेदकनिष्ठावच्छिन्नत्वसम्बन्धच्छिन्नावच्छेदकताभिन्ना सती विशेश्यतात्वनिष्ठावच्छेदकताभिन्ना यावच्छेदकता तदनिरूपकविशेष्यतानिष्ठावच्छेदकताभिन्न सती, साध्यतावच्छेदकावच्छिन्नप्रकारतात्वनिष्ठावच्छेदकताभिन्न यावच्छेदकता तदनिरूपकतादृशप्रकारतानिष्ठावच्छेदकताभिन्ना सती, साध्यव्याप्यहेतुनिष्ठप्रकारतानिष्ठावच्छेदकताभिन्न सती, अनुमितित्वनिष्ठावच्छेदकताभिन्ना यावच्छेदकता तदनिरूपकानुमितिनिष्ठावच्छेदकताभिन्ना ,सती आधेयतात्वनिष्ठावच्छेदकताभिन्ना यावच्छेदकता तदनिरूपकाधेयत्वनिष्ठावच्छेकताभिन्ना सती, भेदत्वनिष्ठच्छेदकताभिन्ना यावच्छेदकता तदनिरूपकभेदन
िष्ठावच्छेदकताभिन्ना सती, प्रतियोगितात्वनिष्ठावच्छेदकताभिन्ना यावच्छेदकता तदनिरूपकप्रतियोगित्वनिष्ठावच्छेदकताभिन्ना सती, अवच्छेदकतात्वनिष्ठ
ावच्छेदकताभिन्ना यावच्छेदकता तदनिरूपकप्रतियोगितानिरूपितप्रतियोगित्वानिष्ठावच्झेददकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितानुमितिनिष्ठावच्छेदकतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारतानिष्ठावच्छेदकतानिरूपितविशेष्यत्वनिष्ठावच्छेदकतानिरूपितायावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकता तद्भिन्ना सती विशेष्यतात्वनिष्ठावच्छेदकताभिन्ना यावच्छेदकता तदनिरूपिकविशेष्यतात्वावच्छिन्नावच्छेदकताभिन्ना सती साध्यव्याप्यहेतुप्रकारतात्वनिष्ठावच्छेदकताभिन्ना यावच्छेदकता तदनिरूपकतादृशहेतुनिष्ठप्रकारतानिष्ठावच्छेदकतानिरूपकानुमितिनिष्ठावच्छेदकतानिरूपकवृत्तित्वनिष्ठावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकतानिरूपकप्रतियोगित्वनिष्ठावच्छेदकतानिरूपकावच्छेदकतात्वावच्छिन्नप्रतियोगिताकाभाववत् प्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वमिति तन्मते साध्यतावच्छेदकं सकृन्निवेश्यैवंरीत्या प्रकारविधयानिवेशसम्भवात् भट्टाचार्योक्तं दूषणं दुरपह्नवमिति।।

<1-4>
    साध्याप्रसिद्वयव्याप्तिवारणप्रयोदनकत्वं तदुपादानस्येति तु न सत्। वह्रिर्न काञ्चनमय इति निर्णयस्य शुद्ववह्रित्वादिना व्ह्रयाद्यनुमित्यविरोधित्वेऽपि द्वितीयदले प्रकृतसाध्यतावच्छेदकावच्छिन्नानतर्भावसत्त्वादिति-गादाधरी।
</1-4>

<1-5>
    तादृशव्याप्तिद्वयप्रकारतानिरूपितहेतुतावच्छेकावच्छिन्नप्रकारतायः तत्साध्यकतद्वेतुकानुमितिजनकतावच्छेदकप्रकारतात्वेन निवेशो न सम्भवतीति-गादाधरी।
</1-5>

    नन्वत्र?एवमनुगमासम्भवेऽपि तत्तद्वयाप्त्यवगाहितां स्वातन्त्येणानिवेश्य प्रकारन्तरेणानुगमसम्भवति।

    तथाहि-प्रकृतहेतुमत्तानिश्चयोत्तरप्रकृतपक्षसाध्यकानुमितित्वावच्छिन्नकार्यताविष्टा या प्रतिबध्यता तन्निरूपितबन्धकतेत्यादिलक्षणं तादृशकार्यतावैशिष्टयञ्च साधयतावच्छेदकावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताविशिष्टस्वनिरूपितकारणतावच्छेदकप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशल्यनुमितित्वव्यापकत्वसम्बन्धेन। तथाचान्वयव्याप्तिविशिष्टहेतुविषयकपरामर्शनिरूपित-तादशानुमितित्वघटिधर्मावच्छिकार्यताविशिष्टा प्रतिबध्यता तादृशव्याप्त्यवगाहिसमूहालम्बनानुमितिनिष्ठप्रतिबध्यतैव। एवं व्यतिरेकव्याप्तिविशिष्टहेतुविषयकपरामर्शानिरूपित तादृशानुमितित्वघटितधर्मावच्छिन्नकार्यताविशिष्टप्रतिबध्यता च तादृशव्याप्त्यवगाबिसमूलम्बनानुमितिनिष्ठैवेति न कुत्राप्यव्याप्तिः।

    न च साध्याबाववदवृत्तित्वरूपव्याप्त्यवगाबिपरामर्शस्य व्यप्त्यंशेनिर्धर्मितावच्छेदककज्ञानसाध्रारण्येन हेतुतावच्छेदकमनिवेश्यैकरूपेणकारणत्वमते तादृशसकलहेतुतावच्छेदकावगाहिपरामर्शानिरूपितकार्यताया ऐक्यात्तादृशकार्यताया धूमव्याप्यवह्न्यन्यालोकाद्यवगाहिसमूहालम्बनानुमितिषु सत्त्वात्तत्र सर्वत्र धूमाभाववद्‌वृत्तिह्न्यन्यादिविषयकनिश्चयप्रतिबध्यताया अभावेन तादृशव्यभिचारेसर्वात्राव्याप्तिरिति वाच्यम्।

    स्वनिरूपितकारणताननिरूरितपक्षतावच्छेदकावच्छिन्नमुख्यविशेष्यतानिष्ठावच्छेदकतानिरूपितनिरूपितत्वसम्बन्धावच्छिन्नप्रकारतानिष्ठावच्छदकतानिरूपितावच्छिन्नित्व-सम्बन्धावच्छिन्नविशेष्यत्वनिष्ठावच्छेदकतानिंरूपितत्वसम्बन्धावच्छिन्नावच्छेकताश्रयप्रकारतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नप्रकारतानिरूपितप्रकृतहेतुतावच्छेदकावच्छिन्नविशेष्यत्वावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नाया विशेष्यतातच्छाल्यनुमितित्वव्यापकत्वस्य सम्बन्धत्वात्।

    तथा च धूमवान् वह्नेरित्यादौ पर्वतो धूमवान्, धूमव्याप्यवह्निमान् इत्यनुमितावेव तादृशकार्यताविशिष्टानुमितित्वसत्वा त्तत्र च तादृशव्यभिचारनिश्चयप्रतिबध्यत्वस्य सत्वान्नोक्ताव्याप्त्यवकाशः।

    नचैवमपि साधारणग्रन्थे साध्याभाववद्‌वृत्तित्वसाध्यसामानाधिकरण्योभयाभाववज्वैतोरपि सव्यभिचारत्वाभिधानात्तत्राव्यप्तिः।

    तत्रहि साध्याभाववदृत्तित्वसाध्यसामानाधिकरण्यवद्वेतुमान्पक्षइत्याकारकतादृशव्यभिचार्रानश्चयप्रतिबध्यपरामर्शानिरूपितकार्यतानिरूपितकारणतानिरूपितमुख्यविशेष्यतानिष्ठावच्छेदकतानिरूपितवच्छेदकतानिरूपितावच्छेकतानिरूपितावच्छेदकतायाः- साध्याभाववद्वृत्तित्वाव-च्छिन्नप्रकारतायां सत्तवात्तदवच्छेदकतापर्याप्त्यधिकरणतादृशवृत्तित्वावच्छिन्नप्रकारतानिरूपितप्रकृतहेतुतावच्छेदकावतच्छिन्नविशेष्यत्वावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशाल्यनुमितित्वस्य पर्वतो धूमवान् धूमाभाववदवृत्तिवह्निमानित्यमितावपि सत्वेन तत्र धूमाभाववदवृत्तित्व- धूमसामानाधिकरण्योभयाववान्वह्निरिति व्यभिचारनिश्चयप्रतिबध्यत्वस्यासत्त्वादिति वाच्यम्।

    स्वनिरूपितकारणतानिरूपितमुख्यविशेष्यतानिष्ठावच्छेदकतानिरूपितावच्छेदकतानिरूपितावच्छेदकतानिरूपिता या प्रकारतानिष्ठा निरूपितत्वसम्बन्धावच्छिन्नावच्छेकता तन्निरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकीभूतो धर्मः तद्‌वत्तिहेतुतावच्छेदकावच्छिन्नविशेष्यत्वावच्छिन्नप्रकारतानिरूपितपक्षविशेष्यताशाल्यनुमितित्वव्यापकत्वस्य सम्बन्धत्वस्वीकारात्।


धर्मवृत्तित्वञ्च स्वनिष्ठनिरूप्यतानिरूपितप्रकारकतात्वघटिधर्मावच्छिन्नविरूपकतात्वावच्छेदकतावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन। तथा च पर्वतो धूमवान् धूमाभाववदवृत्तिमान् इत्यनुमतिावेतादृशसम्बन्धेन तादृशकार्यता नास्त्येव। धूमाभाववदवृत्तित्व, धूमसामानाधिकरण्यवत् वह्रिमान्पर्वत इति परामर्शनिरूपितकार्यतानिरूपिकरापणतानिरूपितमुख्यविशेष्यतानिष्ठावच्छेदकतानिरूपितावच्छेदकतात्ववच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वस्याभावत्वावच्छिन्न विशेष्यत्वावच्छिन्नत्व, तादृशप्रकारतात्वद्‌गतसमुदायत्वे सत्वेन तत्र च धूमाबाववदवृत्तिवह्रिमानित्यमुमितीयहेतुतावच्च्छेदकावच्छिन्नविशेष्यतायाः निरूक्तसम्बन्धेन आभावत्वावच्छिन्नविशेष्यत्वावच्छिन्नत्वधूमासामानाधिकरण्यवत् वह्रिमानित्यनुमितीयविशेष्यचाया एव तादश्यास्तसत्र सत्वेनाव्याप्तिविरहात्। तादृशपरम्परायास्संसर्गत्वानाङ्गीकारेप्रकारेमुद्रयैव निवेशः।


तत्प्रकारश्च-प्रकृतपक्षसाध्यहेतुकानुमितित्वावच्छिन्नकार्यतात्वसमानाधिकरणोभयावृत्तिधर्मनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपककार्यतानिष्ठावच्छेकतानिरूपककारणतानिष्ठावच्छेदकतानिरूपकमुख्यविशेष्यतानिष्ठावच्छेदकतानिष्ठाच्छेदकतानिरूपकप्रकारतानिष्ठावच्छेदकतानिष्ठावच्छेदकतानिरूपकविषेष्यतानिष्ठाच्छेदकतानिष्ठावच्छेदकतानिरूपकप्रकारतानिष्ठावच्छेदकतानिष्ठावच्छेदकतानिरूपिका सती अवच्छेदकतात्वनिष्ठावच्छेदकतानिरूपिका या प्रतियोगितातन्निरूपकपर्याप्त्यनुयोगितावच्छेदकतावद्वर्मनिष्ठावच्छेदकतानिरूपकानुयोगितानिरूपकपर्याप्तिनिरूपितावच्छदकतात्वावच्छन्नप्रतियोगितानिरूपितनिरूपकत्वनिष्ठावच्छेदकतानिरपूतनिरूपितत्वनिष्ठावच्छेदकतानिरूपितनिरूप्यत्वनिष्ठावच्छेदकतामनिरूपिताधेयतासम्बन्धावच्छिन्नावच्छेदकताश्रयप्रकृतहेतुतावच्छेदकावच्छिन्नविषेष्यत्वावच्छिन्नप्रकारतानिरूपिता या प्रकृतपक्षतावच्छेदकावच्छिन्नाविशेष्यता प्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपित प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताविशिष्टदमनुमितिनिष्ठभेदप्रतियोगितावच्छेदक्तवं नास्तीति प्रतीसिद्वाभावः प्रतिबध्यतायां विशेषणमिति चेत्-


न । साध्याभाववदवृत्तित्वरूपव्याप्त्यवगाहिनानालिङ्गकपरामर्शानांहेतुतावच्छेदकमनिवेश्यैकरूपेण कारणत्वमतेऽप्रामाण्यज्ञानानाममुगतरूपेणोत्तेजकतया पक्षसाध्यादिविषयतानां कार्यतावच्छेदकत्वानाश्यकतया अमम्भवापत्तेरिति दिक्‌।।


        
</1-5>
तादृशव्याप्तिद्वयप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकरतायाः तत्साध्यकतद्वेतुकानुमितिजनकतावच्छेदकप्रकारतात्वेन निवेशो न सम्भवतीति-गादाधरी।
</1-5>

(लिङ्गोपधानमतविचारः)
<1-6>
यथाश्रुतार्थंपरतानिर्वाहाय लिङ्गोपधानमतमेवाश्रीयत इति-गादाधरी।
</1-6>

नन्वत्र?प्रथमकल्पपरित्यगो लक्षणारूपदोष एव बीजमिति तदभिप्रायो ज्ञायते। सच न सम्भवति। तादृशकार्यतानिरूपकसम्बन्धिग्रहनिष्ठप्रतिबध्यतानिवेशेऽतिव्याप्तेः। ग्रहत्वावव्यापकप्रतिबध्यतानिवेशेऽव्याप्तेस्तदवच्छिन्नप्रतिबध्यतानिवेशेऽसम्भवस्यच अथेत्यादिना भट्टाचार्योक्तस्य जागरूकत्वादिति चेत्-

न। प्रकृतपक्षसाध्यहेतुकानुमितिकार्यताप्रतियोगिक यत्किञ्चित्सम्बन्धवद्‌ग्हत्वव्यापकप्रतिबध्यताया एव लक्षणे निवेशनीयतया व्यापकत्वपक्षे भट्टाचार्योक्तबाधव्यभिचाराद्यव्यप्त्यभावात्। तादृशकार्यत्वप्रतियोगिकाश्रयत्वरूपसम्बन्धवद्‌ग्रहत्वव्यापकत्वस्यानुमितिविरोधिदोषप्रतिबध्यतायां तादृशकार्यत्वप्रतियोगिकनिरूपकत्वरूपसम्बन्धवद्‌ग्रहत्वव्यापकत्वस्य परामर्शविरोधिदोषप्रतिबध्यतायां च सर्वत्र सत्त्वात्।

नचैवंसति भट्टाचार्यमते प्रकारान्तरानुसरणे किं बीजमिति वाच्यम्।

साध्याभाववदवृत्तिहेतुमत्ताज्ञानस्य हेतुतावच्छेदकविषयतामनिवेश्यैकरूपेण कारणतामवलसम्ब्य भट्टाचार्येणैततल्लक्षमकरणात्। तथाति तादृषकार्यताप्रतियोगिकनिरूपकत्वरूपसम्बन्धस्य वह्रीन्धनादिहेतुविषयकपरामर्शोषु सत्वेन तत्र च सर्वत्र वह्रिर्धूमव्यभिचारीति व्यभिचारनिर्णयप्रतिबध्यत्‌वाभावेन तादृशव्यभिचारेऽव्यप्त्यापत्तेः।

केचित्तु कारणे तु तादृशव्याप्तिज्ञानानां पृथक्कारणतामतस्यैवाचलम्बनात् तत्रच तादृशकार्यत्वप्रतियोदिकोक्तान्यतरात्मकयत्किञ्चित्‌सबन्धविशिष्टग्रहत्वस्य तादृशनानाविधपरामर्शोष्वसत्त्वेन तथानिवेशेऽव्याप्तिविरहात्।

नचैवं सति प्रकृतपक्षादिविषयकानुमितित्वावच्छिन्नकार्यतानिवेशे अप्रामाण्यज्ञानानामेकरूपेणोत्तेजकत्वमतेऽसंभवः। तादुशानुमितित्वव्यापकपरामर्शनिरूपितकार्यता त्वप्रसिद्वैव। अनुमितिनिष्ठकार्यतानिवेशे पर्वतीवह्रिमान् ह्रदश्चट तथेत्याकारकानुमितिनिष्ठह्रदविषयकपरामर्शकार्यता मादाय पर्वतो वह्रिमान् धूमादित्यादौ वह्रयन्यभाववत् ह्रदादावतिव्याप्तिरिति वात्यम्। कार्यतायामनुमितिनिष्ठत्वस्यैव निवेशात्। उक्तातिव्याप्तिस्तु अनुमितौ विधेयताद्वयानिरूकत्वविशेषणेन वारणीया।

न च वह्रिव्याप्यधूमवान् घटव्याप्यपटवांश्च पर्वत इति परामर्शानन्त्तरं घटानुमितिप्रतिबन्धकसत्वे पर्वतो वह्रिमानित्यनुमितेरेवोदयात् विधेयताद्वयानिरूपकतन्निष्ठघटव्याप्यविषयरामर्शोत्तरत्वावच्छिन्नाक्रयाताप्रतियोगिकनिरूपकत्वरूपसम्बन्धविशिष्टघटव्याप्यविषयकपरामर्शनिष्ठप्रतिबध्यतामादाय पर्वतो वह्रिमान् धूमादित्यादौ घटाभाववद्‌वत्तिपटेऽतिव्याप्तिरिति वाच्यम्।

अव्यवहितोत्तरत्वावच्छिन्नकार्यतानिरूपितज्ञाननिष्ठकारणताविशिष्टान्यत्वेन अनुमितेर्विशेषणीयत्वात्। कारणतावैशिष्टयञ्च स्वनिरूपितकार्यतावत्व, स्वाभाववज्ज्ञाननिष्ठकारणतानिरूपिताव्यवहितोत्तरत्वावच्छिन्नकार्यतावत्त्वोभयसम्बन्धेन।

तथा-च तादृशानुमितौ परामर्शाद्वयनिष्ठकारणतानिरूपिकार्यताद्वयसत्त्वात् तद्‌व्यावृत्तिः। कारणतायामव्यवहितोत्तरत्वावच्छिन्नकार्यतानिरूपित्त्वविषेणादीश्वरज्ञाननिष्ठकारणतामादाय न तादृशानुमित्यप्रसिद्विः। ज्ञाननिष्ठत्वविषेषणात्सिद्विविशिष्टानुमितीच्छायाः कारणत्वमते इच्छदिकारणत्वमादाय न तादृशानुमित्यप्रसिद्विः। वैशिष्टयघटकप्रथमसम्बन्धनिवेशेनोदासीनानुमितिनिरूपितोदासीनपरामर्शनिष्ठकारणतामादाय नाप्रसिद्विः। द्वितीयसम्बन्धनिवेशात्परामर्शनिष्ठकारणतामादाय नाप्रसिद्विः। द्वितीयसम्बन्धघटततारणतायां ज्ञाननिष्ठत्वविशेषणात् प्रागुक्तत्येच्छादिकारणतामादाय नाप्रसिद्विः। कार्यतायामव्यवहितोत्तरत्वावच्छिन्नत्वनिवेशात् विशेषणज्ञानकार्यतामादायनाप्रसिद्विः।
न च तथापि पर्वतो वह्रिमान् धूमादित्यादौ वह्रयन्यभाववद्वत्तिदद्रव्येऽतिव्याप्तिः। प्रकृतहेत्वंशे व्याप्त्यनवगाहिप्रकृतविषयकवगह्रिव्याप्यद्रव्यवान् पर्वत इति परामर्शोत्तरानुमितौ प्रकृतपक्षसाध्यहेतुकायां तादृशकारणताविशिष्टान्यत्वस्य सत्वात्तन्निष्ठाकार्यत्वप्रतियोगिकनिरूपकत्ववत्तादृशपरामर्शत्वव्यापकप्रतिबध्यत्वस्य ग्रहणसम्भवादिति वाच्यम्। कारणतावदन्यप्रकृतपक्षसाध्यकानुमितिनिष्ठप्रकृतहेतुमत्तानिश्चयाव्यवहितोत्तरत्वावच्थिन्नकार्यतात्वेनैतादृशकार्यताया लक्षणे निवेशनीयत्वात्।

इदमत्र चिनत्यम्- एवं रीत्या पूर्वोक्तदूषणोद्वारेण पूर्वोक्तरीत्या नानाविधव्याप्तिप्रकारताः प्रातिस्विकरूपेणानिवेश्यामुगमसम्भवेन पक्षसाध्यहेतुकानुमितित्वावच्छिन्नकार्यत्वाप्रसिध्याऽसम्भवाभिधानमनुचितमिति।


<1-6>
यथाश्रुतार्थंपरतानिर्वाहाय लिङ्गोपधानमतमेवाश्रीयत इति-गादाधरी।
</1-6>

(कार्यतावच्च्छेदविचारः)
<1-7>
अव्यवहितोत्तरत्वसम्बन्धेन तद्वर्मावच्छिन्नधर्मिकव्यभिचारज्ञानविशिष्टं यत्तदन्यत्वं वा कार्यतावच्छेदकमितिगादाधरी।।
</1-7>
नन्वत्र कथं लक्षणशरीरम्? यदि प्रकृतपक्षसाध्यहेतुकानुमितित्वव्यापकत्वघटितमेव प्रकृतहेतुकत्वं च प्रकृतहेतुतावच्छेदकावच्छिन्नधर्मिक व्यभिचारज्ञाविशिष्चटान्यत्वम्।

तथाच तकादृशव्यभिचारज्ञानविशिष्चटान्य प्रकृतपक्षसाध्यकानुमितित्वव्यापकप्रतिबध्यतेत्यादि लक्षणम्। तथा च व्यभिचारे नाव्याप्तिरिति तदा स्वरूपासिद्वयसङ्‌ग्रहः। एकरूपेण स्वरूपासिद्विज्ञानेऽप्यपररूपेण पक्षधर्मताज्ञानादनुमित्युत्पत्या स्वरूपासिद्विनिश्चयप्रतिबध्यतायास्तादृशानुमितित्वाव्यपकत्वात्। यदि चैवं स्वरूपासिग्विज्ञानविशिष्टान्यत्वमपिविवक्षितमित्युच्यते। तदा साधनाप्रसिद्विविरोधानुपसंहारित्वादिज्ञानविशिष्टान्यत्वस्य निवेशनीयतया महागौरवमिति चेत्-

न। प्रकृतपक्षविशेष्यकसाध्यव्याप्यहेचुप्रकारकानुमितित्वव्यापकप्रतीबध्यतानिरूपितबन्धकताश्रयज्ञानविशिष्चान्यप्रकृतपक्षसाध्यकानुमितित्वव्यापक प्रतिबध्यताघटिलक्षणस्य विवक्षितत्वात् इति दिक्‌।।

        
<1-7>
अव्यवहितोत्तरत्वसम्बन्धेन तद्वर्मावच्छिन्नधर्मिकव्यभिचारज्ञानविशिष्टं यत्तदन्यत्वं वा कार्यतावतच्छेदकमिति गादाधरी।।
</1-7>

(भ्रमत्वोपपत्तिः)
<1-8>
अभिधेयत्वं प्रमेयत्वस्य व्यभिचारीत्यत्र स्वरूपसम्बन्धावच्छिन्नप्रमेयत्वावच्छिन्नप्रतियोगिताकत्वासम्बन्धेन प्रमेयत्वस्य भ्रमो वाच्यः, प्रतियोगित्वांशे साध्यतावच्छेदतावच्छित्वसाध्यतावच्छेकसंबन्धावच्छिन्नत्वयोस्साध्याभाववदवृत्तित्वरूपव्याप्तिघटकतया तदंशे तदुभयावगाहिव्यभिचारज्ञानस्यैव व्याप्तिज्ञानविकोधित्वादिति-गादाधरी।।
</1-8>

    ननु? साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारतानिरूपिताधिकरणविषयतानिरूपितवृत्तित्वविषयतानिरूपिताभावविषयतानिरूपितहेतुतावच्छेदकावच्छिन्नविषयतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयताशालिनिश्चयत्वेनैव कारणत्वमास्ताम्। एवं च स्वरूपसम्बन्धावच्छिन्नप्रमेयत्वत्वावच्छिन्नप्रतियोगित्वाप्रसिद्वावपि न भ्रमानुपपत्तिरिति चेत्-

    न। महानसीयवह्रयन्याभाववदवृत्तिधूमवान् पर्वत इति परामर्शस्य तादृशनिश्चयत्वाऋन्ततया ततः पर्वतो वह्रिमानित्यनुमित्यापत्तेः।

    न च साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धावच्छिन्नसाध्यतावच्छेदकपर्याप्तावच्छेदकताकप्रकारताघटितनिश्चयत्वं कारणतावच्छेकमिति वात्यम्।

    महानसोयत्वमुपलक्षणविधयावगाहमानात्तादृशपरामर्शात् पर्वतो वह्रिमानित्यनुमित्यनापत्तेः। तादृशपरामर्शस्याभावांशे महानसीयत्ववह्रित्वधर्मद्वयावच्छिन्नप्रकारताकतया तादृशप्रकारतावच्छेदकताया धर्मद्वय एव पर्याप्तत्वात्। साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रकारताघटितधर्मस्य कारमतावच्छेदकत्वे तु महानसीयवह्रिव्याप्यधूमवान् पर्वत इति परामर्शात् पर्वतो वह्रिमानित्यनुमितिवारणाय साध्यतावच्छेदकेसंसर्गतावच्छेदकतापर्याप्तिर्निविश्या।


    तथा च महानसीयत्वमुपलक्षणविधयावगाहमानतादृशपरामर्शोयाभावविशेष्यतानिरूपितसाध्यनिष्ठप्रकारतावच्छेदकसम्बन्धीभूतप्रतियोगितानिरूपितावच्छेदकतापर्याप्तिः शुद्ववह्रित्व एव। अभावप्रतियोगितावच्छेदककुक्षौ उपलक्षणविधया प्रविष्टस्यावच्छेदकत्वाभावादिति तादृशपरामर्शादनुमित्युपपत्तिरिति दिक्‌।।
<1-8>
    अभिधेयत्वं प्रमेयत्वस्य व्यभिचारीत्यत्र स्वरूपसम्बन्धावच्छिन्नप्रमेयत्ववच्छिन्नप्रतियोगिताकत्वसम्बन्धेन प्रमेयत्वस्य भ्रमो वाच्यः, प्रतियोगित्वांशे साध्यतावच्छेदकावच्छिन्नत्वसाधयतावच्छेदकसंबन्धावच्छिन्नत्वयोस्साध्याभाववदवृत्तित्वरूपव्याप्तिघटकतया तदंशे तदुभयावगाहिव्यभिचारज्ञानस्यैव व्याप्तिज्ञानविरोधत्वादिति-गादाधरी।।
</1-8>

<1-9>
    
    लाघवात् प्रतियोदितासंसर्गकज्ञानस्यैवानुमितिजनकतयेतिगादाधरी।
</1-9>

    ननु कथं प्रतियोगितासंसर्गकज्ञानस्य हेतुता? तत्प्रकारकज्ञानस्य तथात्व एव
लाघवात् तत्संसर्गकज्ञानस्य तथात्वे साध्यतावच्छेदकमसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगितासम्बन्धावच्छिन्नसाध्यतावच्छेकावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यताघटितपरामर्शत्वेनैव हेतुत्वस्यावश्यकता साध्यतावच्छेदकस्य द्विधा निवेशेन गौरवात्। प्रतियोदिताप्रकारकज्ञानस्य कारणत्वे तु साध्यतावच्छेदकस्य संसर्गकुक्षावनिवेशेन लाघवात्।

    न च साध्यतावच्छेगकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगितासम्बन्धावच्छिन्नप्रकारतात्वेनैव साध्यप्रकारतायाः कारणतावच्छेदककुक्षौ प्रवेशः नतु तादृशुप्रकारतायां साध्यतावच्छेदकावच्छिन्नत्वस्यापीति वाच्यम्।

    अन्यनिष्ठप्रचियोगिताया अन्यस्य सम्बन्धत्वस्वीकारे वह्रित्वावच्छिन्नसंयोगसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेनाभावांशे घटावगाहिनो घटाभाववदवृत्तिधूमावानिति परामर्शात् वह्रिमानित्यनुमित्यापत्तेरितिचेत्-

    न। प्रतियोगिताप्रकारकज्ञानस्य कारणत्वे प्रतियोगितासंसर्गस्य तत्कुक्षिप्रविष्टसाध्यतावच्छेदकसम्बन्धावच्छिन्नत्वसाध्यतावच्छेदकावच्छिन्नत्वादिविषयतानां कारणतावतच्छेकशरीरे निवेशनीयतया गौरवात् इति।।
<1-9>
    लाघवात् प्रतियोगितासंसर्गकज्ञानस्यैवानुमितिजनकतयेति गादाधरी।
</1-9>

<1-10>    
    स्ववच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगि-
    ताकत्वसम्बन्धेन साध्यतावच्छेदकवत्वमेवाभावस्य साध्याभाव-
    वदवृत्तित्वरूपव्याप्तिघटकं लाघवादिति-गादाधरी।।
</1-10>
    
    तथा च तादृशसम्बन्धावच्छिन्नसाध्यध्यतावच्छेदकनिष्ठप्रकारतानिरूपिताभावत्वावच्छिन्नविषेष्यत्वावच्छिन्नप्रकारताघटितनिश्चयत्वेन कारणत्वमिति पर्यवसितम्।


    ननु महानसीयवग्रयनुमितितद्वयाप्यपरामर्शयोः कथं कार्यकारणभाव?यदि महानसीयत्व, वह्रित्व, धर्मद्वयनिष्ठप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यताघटिधर्मपुरस्कारेण तदा क्वचिन्माहानसीयवह्रिमान् क्वचित् वह्रिमानसीयवानिति कथमनुमितिः?

    न च व्याप्तिघटकसामानाधिकरण्यांशे साध्यस्य येन रूपेण परामर्शो भानं तेनैव रूपेणानुमितावपि भानमित्यनुमितिवैलक्षण्यमुपपद्यत इति वाच्यम्।

    महानसीयवह्रयभाववदवृत्तिवह्रिमहानसीयसामानाधिकरणधूमवान् इति परामर्शदपि वह्रिमहानसीयवानित्यनुमित्यापत्तेरिति चेत्-

    न। यत्र परामर्शे अभावविशेषणतापन्नवह्रयंशे वह्रित्वं धर्मितचावच्छेदकीकृत्य महानसीयत्वं भासते तत्र विशिष्चवैशिष्टयबोधमर्यादयामाहानसीयत्वस्य वह्रित्वांशे भानात् महानसीयत्वावतच्छिन्नस्वनिष्ठावच्छेदकचानिरूपकप्रतियोगितासम्बन्धावच्छिन्नवह्रित्वनिष्ठप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यचाघटितनिश्चयत्वेन महानसीयवह्रिमानित्युनमितिं प्रतिकारणत्वम्, यत्र परामर्शे महानसीयत्वं धर्मितावच्छेदकीकृत्य वह्रित्वं भासते तस्य वह्रिमहानसीयाभाववदवृत्तिवह्रिमाहानसीयसमानाधिकरणधूमवानिकि पारमर्शस्य वह्रित्वावतच्छिन्नस्वनिष्ठावच्छेदकतानिरूपकप्रतियोगितासम्बन्धावच्छिन्नमहानसीयत्वनिष्ठप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यताघटितनिश्चयत्वेन वह्रिमहानसीयवानित्यनुमितिं प्रतिकारणत्वमिति न काप्यनुपपत्तिरिति।

            
<1-10>
    स्वावच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन साध्यतावच्छेदकवात्वमेवाभावस्य साध्याभाववदवृत्तित्वरूपव्याप्तिघटकं लाघवादिति-गादाधरी।।
</1-10>

(सर्वांशे भ्रमत्वपरिष्कारः)
<1-11>    
    स्वव्यधिकरणप्रकारावच्छिन्नाया या विशेष्यता तत्तदननिरूपकत्वस्य सर्वांशे प्रमात्वस्य विवक्षणीयतयेति0-गादाधरी।।
</1-11>
    अत्र व्यधिकरणप्रकारावच्छिन्नत्वं स्वव्यधिकरणनिष्ठप्रकारतानिरूपकत्वम्, स्वव्यधिकरणत्वं च न स्वानधिकरणवृत्तित्वं घटो द्रव्यमितिज्ञानस्य प्रमात्वानुपपत्तेःकिन्तु स्वाधिकरणावृत्तित्वम्। तथा च स्वाधिकरणावृत्तिनिष्ठप्रकारतानिरूपिता या या विशेष्यता तत्तदनिरूपकत्वमिति पर्यवसितम्।
    
    नन्वत्र? स्वाधिकरणावृत्तित्वं यदि सम्बन्धसामान्येन तदा ह्रदोवह्रिमानिति ज्ञानस्य प्रमात्वापत्तिः, तत्ज्ञानीयविशेष्यत्वाधिकरणह्रदादौ कालिकादिसम्बन्धेन वह्रन्यादिरूपप्रकारसत्त्वेन घटो गगनवान् इत्यादिज्ञानीयविशेष्यताया एव घटादिनिष्ठायाः स्वपदेन धर्तव्यतया तदनिरूपकत्वस्योक्तभ्रमे सत्त्वात्।

    न च स्वाधिकरणनिरूपितप्रकारतावच्छेदतसम्बन्धावच्छिन्नवृत्तित्वाभावो विवक्षणीयः। तथा च तादृशज्ञानीयविशेष्यताधिकरणह्रदादिनिरूपितप्रकारतावच्छेदकसंयोगसम्बन्धावच्छिन्नवृत्तित्वाभावस्य वह्रन्यादौ सत्त्वेन नोक्तज्ञानसङ्‌ग्रह इति वाच्यम्। गुणः संयोगेन घटवानितिज्ञानस्य प्रमात्वापत्तेः। तत्ज्ञानीयविशेष्यताश्रयगुणनिरूपितसंयोगसम्बन्धावच्छिन्नवृत्तित्वाप्रसिद्वया तादृशविषयतायाः स्वपदेन धर्तुमशक्यत्वात्।

    न च प्रकारतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वीयस्वरूपसम्बन्धेन स्वाधिकरणनिरूपितवृत्तित्वस्याभावः प्रकारताश्रयधर्मे विवक्षणीयः।

    तथा च संयोगसम्बन्धावच्छिन्नवृत्तित्वीयस्वरूपसम्बन्धस्य गुणनिरूपितवृत्तित्वस्य व्यधिकरणतया तत्सम्बन्धावच्छिन्नतादृशविषयताश्रयगुनिरूपितवृत्तित्वनिष्ठप्रतियोगिताकाभावस्य प्रकारीभूतघटे सत्त्वेन तदसंग्रह इति वाच्यम्।

    विशेषरूपेण सम्बन्धत्वस्वीकारे घटत्वप्रतियोगिकसमवायेन पटत्ववान् पट इत्याकारकज्ञानस्य प्रमात्वापत्तेः। प्रकारतावच्छेदकसमवायसम्बन्धावच्छिन्नवृत्तित्वीयस्वरूपसम्बन्धावच्छिन्नतज्ज्ञानीयविषयताश्रयपटनिरूपितवृत्तित्वस्य पटत्वरूपप्रकारे सत्वात्।

    न च प्रकारतानिरूपितसंसर्गनिष्ठावच्छेदकतानिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकतानिरूपकसंसर्गनिष्ठावच्छेदकतानिरूपकवृत्तित्वी-यस्वरूपसम्बन्धेन स्वाधिकारणनिरूपितवृत्तित्वाभावो विवक्षणीयः।

    तथा च उक्तज्ञानीयपटत्वनिष्ठप्रकारतानिरूपितसमवायनिष्ठावच्छेदकतानिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोदिताकपर्याप्त्यनुयोगितावच्छेदकं यत् घटत्वप्रतियोगिकत्वसमवायत्वनिष्ठद्वित्वं तदवच्छिन्नानुयोगिकपर्याप्तिकावच्छेदकतानिरूपकघटत्वप्रतियोगिकसमवायत्वनिष्ठद्वित्वं तदवच्छिन्नानुयोगिकपर्याप्तिकावच्छेदकतानिरूपकघटत्वप्रतियोगिकसमवायनिष्ठावच्छेदकतानिरूपकवृत्तित्वस्य व्ययधिकरणसम्बन्धतया तत्सम्बन्धावच्छिन्नतदभावस्य पटत्वादिरूपप्रकारे सत्त्वात् न तत्सङ्‌ग्रह इति वाच्यम्।

    गुणीयसंयोगेन घटवान्गुण इति ज्ञानस्य प्रमात्वापत्तेः। तत्ज्ञानीयप्रकारतावच्छेदकतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदक गुणप्रतियोगिकत्व संयोगत्वनिष्ठद्वित्ववच्छिन्नानुयोगिताकप्रयाप्तिकावच्छेदकतावकावच्छेदकताकवुत्तित्वाप्रसिद्वया स्वपदेन तादृशज्ञानीयविषयताया धर्तुमशक्यत्वादिति चेत्-

    न। स्वनिरूपितप्रकारतावच्छेदकतावच्छेदकतावत्वावच्छिन्नप्रतियोगिकाकप्रयाप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकतानिरूपकावच्छेदकतानिरूपकीयस्वरूपसम्बन्धेन स्वाश्रयनिरूपितवृत्तित्वाभावस्य विवक्षणीयतया प्रकृते गुणप्रतियोगिकत्व संयोगत्वनिष्ठतादृशप्रयाप्त्यनुयोगितावच्छेदकीभूत द्वित्वावत्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकतानिरूपीकीभूता या संयोगनिष्ठसंसर्गविधयाऽवच्छेदकतातन्निरूपकत्वस्य वृत्तित्वेऽप्रसिद्वावपि तत्ज्ञानीयघटत्वावच्छिन्नप्रकारत्वेतत्प्रसिद्वेस्तादृशप्रकारत्वीयस्वरूपसम्बन्धस्य वृत्तित्वव्यधिकरमसम्बन्धतया उक्तदोषानवकाशात्।

    न च तद्वयक्तत्वादिना घटत्वावगाहिज्ञाने विषयितासम्बन्धेन स्वरूपतो घटत्वप्रकारकज्ञानस्य प्रमात्वापत्तिः तत्‌ज्ञानीयतत्‌ज्ञाननिष्ठविषयतानिरूपितप्रकारतानिरूपितसंसर्गनिष्ठावच्छेदकतानिरूपितावच्छेद कत्वात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकं यद्विषयतात्वनिष्ठतद्वयक्तित्वं तदवच्छिन्नानुयोगिताकपर्याप्तिकावच्छेकतानिरूपकसंसर्गनिष्ठावच्छेदकतानिरूपकविषयितासम्वन्धावच्छिन्नवृत्तित्वीयस्वरूपसम्बन्धेन तादृशज्ञाननिरूपितवृत्तित्वस्य घटत्वादिरूपप्रकारे सत्त्वेन स्वपदेन तादृशविषयताया धर्तुमशक्यत्वादिति वाच्यम्।

    तादृशसम्बन्धेन स्वाश्रयनिरूपितनिरवच्छिन्नवृत्तित्वाभाववन्निष्ठनिरवच्छिन्नप्रकारतानिरूपिकविशेष्यतानिरूपकत्वस्य विवक्षितत्वात्। एवंच तादृशज्ञाननिरूपितविषयतासम्बन्धावच्छिन्नवृत्तित्वस्य घटत्वे सत्वेऽपि न तद्‌वृत्तित्वं निरवच्छिन्नमतो नोक्तदोषः। प्रकारतायां निरवच्छिन्नत्वविशेषणात् घटत्वत्वेन घटत्वावगाहिज्ञाने विषयिताम्बन्धेन घटत्वत्वेन घटत्वप्रकारकज्ञानस्य नासङ्‌ग्रह।

    नचैवं सति ह्रदो वह्रिमानित्याकारकज्ञानस्य प्रमात्वापत्तिः। तत्ज्ञानीयवह्रिनिष्ठप्रकारताया निरवच्छिन्नत्वाभावादिति वाच्यम्।

    स्वाश्रयनिरूपितवृत्तितानवच्छेदकधर्मावच्छिन्नप्रकारतानिरूपितविशेष्यत्वानिरूपकत्वस्यापि विवक्षणीयतया तद्‌ज्ञानीयविषयताश्रयह्रदनिरूपितवृत्तितानवच्छेदकवह्रित्वावच्छिन्नप्रकारतानिरूपिताविशेष्यतानिरूपक तया तदसङ्‌ग्रहात्। अत्र च स्वाश्रयनिरूपितवृत्तिता प्रकारतावच्छेदकसम्बन्धावच्छिन्ना ग्राह्या, अनन्यथा पूर्वोक्तदोषात्। एवं तादृशावच्छेदकत्वाभावो न स्वरूपसम्बन्धेन, किन्तु स्वनिरूपितप्रकारतानिरूपितसंसर्गतानिरूपितावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकतानिरूपकसंसर्गतानिरूपकनिरूपितावच्छेदकत्वीयस्वरूपसम्बन्धेन।अतो न प्रागुक्तरीत्या दोषावकाश इति।

    यद्वा विशेष्यताविशिष्टप्रकारताशन्यत्वं सर्वांशे प्रमात्वं स्वव्यधिकरणप्रकारावच्छिन्नेत्यादिना विवक्षितं, विशेष्यतावैशिष्टयञ्च स्वनिरूपितत्व, स्वाश्रयनिरूपितनिरूपकताविशेष्टान्यत्वोभयसम्बन्धेन, निरूपकतावैशिष्टयञ्च स्वावच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामानाधिकरण्य, स्वानवच्छेकानवच्छिन्नत्व, स्ववृत्तित्वैतच्चतुष्टयसम्बन्धेन। स्ववृत्तित्वञ्च स्वानवच्छदेकानवच्छिन्नत्वसम्बत्धेन। अत्र प्रथमसम्बन्धनिवेशे ह्रदो व्ह्रिमानित्याकारकज्ञानीयविषयतानिरूपितवह्रिप्रकारतायां ह्रदनिरूपितकालिकसम्बन्धावतच्छिन्नवह्रिनिष्ठनिरूपकतायाः सामानाधिकरण्यादिरम्बन्धत्रयेण सत्त्वेन तादृशविषयतायाः स्वपदेन धर्तुमशक्यतया घटो गगनवानितिज्ञानीयघटविषयताया एव तादृशत्वेन तदनिरूपकोक्तज्ञानस्य प्रमात्वापत्तिः। द्वितीयसम्बन्धानिवेशे गुणो द्रव्यमित्यादिज्ञानस्य प्रमात्वापत्तिः। गुणत्वनिष्ठनिरवच्छिन्ननिरूपकताय अप्यत्र सम्बन्धत्रयेण द्रव्यत्वनिष्ठप्रकारतायां सत्त्वात्।

    न च निरवच्छिन्ननिरूपकताया द्रव्यनिष्ठप्रकारतायाश्चावच्छेदकत्वाप्रसिद्वया नायं दोष इति वाच्यम्।

    घटो द्रव्यमितिज्ञानसङ्ग्रहायोभयत्र स्वावच्छेदकतासंबन्धेन स्वाभाववत्वरूपस्य वक्तव्यत्वात्। तृतीयसम्बन्धानिवेशे स्वरूपतो घटत्वावगाहिज्ञाने घटत्वत्वादिना विषयितासम्बन्धेन घटत्वप्रकारकज्ञानस्य प्रमात्वापत्तिः, एवं विशेष्टसत्तावान्, गुण इति ज्ञानस्य प्रमात्वापत्तिश्य। चतुर्थसम्बन्धानिवेशे घटत्वत्वेन घटत्वावगाहिज्ञाने विषयितासम्बन्धेन स्वरूपतो घटत्वप्रकारकज्ञास्य प्रमात्वापत्तिरिति दिक्।।

            
</1-11>
    स्वव्यधिकरणप्रकारवच्छिन्नाया या विशेष्यता तत्तदनिरूपकत्वस्य सर्वांशे प्रमात्वस्य विवक्षणीयतयेति-गादाधरी।।
</1-11>

(यथार्थपदसार्धक्यम्)
<1-12>    
    व्यर्थमिति। तथार्थरदादानेऽपि सद्वीतुस्थलेऽति
    व्याप्तिवारणसम्भवादिति-गादाधरी।।
</1-12>    
    
    नन्वत्र? यथार्थरदानुपादाने दोषविषयकसंशये प्रतिबन्धकत्वाभावेनासम्भव इति चैत्-
    न। यथार्थपदोपादानेऽपि भावाभावयोरविरूद्वत्वज्ञानदशायां तत्कोटिकसंशयाङ्गीकर्तुमते ह्रदो जलवान् वह्न्यभाववान्वेति संशयसम्भवात् तत्रचानुमितिप्रतिबन्धकत्वाभावदसंभवः। अतो ज्ञाने संशयान्यत्वं निवेशनीयम्। एवञ्चासंभवाभावेन तद्वैयर्थ्यात्।

    किञ्च तादृशसंशयानङ्गीकारेऽपि संशयान्यत्वं विशेषणमावश्यकम्।
    अन्यथा बाधग्रन्धे कपिसंयोगाभाववद्‌वृक्षस्य भट्टावचार्येण बाधत्वाभिधानात्तत्र च कपसंयोगाभाववान्नवा वृक्ष इत्याकारकसंशयस्य याथार्थ्यविशेषणेनावारणेनाव्याप्त्यापत्तेः।

    न च तथापि वह्निमान् ह्रदो वह्न्यभाववान् इत्याहार्य दोषविषयकनिश्चये प्रतिूबन्धकत्वाभावेनासंभववारणाय याथार्थ्यविशेषणमावश्यकमिति वाच्यम्।

    याथार्थ्यविशेषणेनाप्रामाण्यज्ञानास्कन्दितदोषज्ञानवारणादसम्भववारणायाप्रा माणअयज्ञानाभावस्य ज्ञानविशेषणत्वावश्यकतया तत्तदप्रामाण्यज्ञानभावनिवेशे गौरवेणानुगतरूपेणैवाप्रमाण्यज्ञानाभावो निवेशनीयः। तत्प्रकारश्चाभावविशिष्टान्यत्वमिति, अभाववैशिष्चयं च स्वाभाववत्वस्वावच्छिन्नप्रतिबंधकतावच्छेदकविषयतावत्वोभयसंबन्धेन। एवञ्चैतादृशविशेषणेनैवोक्ताहार्यस्यापि वारणसंभवेन याथार्थ्यविशेषणस्य वैयर्थ्यात्।

    न च तथाप्युक्त विशेषणेनानियताहार्यवारणेऽपि नियताहार्यवारणं न संभावति। समानाकारकज्ञानीयविषयताया ऐक्येऽपि नियताहार्यज्ञानीयविषयताया देषवियकानाहार्यज्ञानीयविषयतातो भेदस्य वक्ष्यमाणत्वात्तस्याः प्रतिबन्धकतावच्छेदकत्वेन तत्‌ज्ञाने उक्तोभयसम्बन्धेन अभाववैशिष्टयस्याभावात्। अतस्तद्‌व्यावृत्युर्थं याथार्थ्यविशेषणं सार्थकमिति वाच्यम्ष। तदुपादानेऽपि कपिसंयोगाभाववद्‌वृक्षरूपबाधे।़व्याप्तिः। कपिसंयोवान् वृक्षः कपिसंयोगाभाववानिति नियताहार्यस्य तद्विशेषणेन अवारणात्तादृशाहार्यवारणाय वैशिष्टयघटकद्वितीयसम्बन्धश्च स्वावच्छिन्नाप्रतिबन्धकतावच्छेदकविषयतानिरूपकतावच्छेदकधर्मावच्छिन्नविषयितावत्वरूपो वक्तव्यः। एवं सति सर्वत्र नियताहार्यस्य वारणं सम्भवति। तथाच तद्विशेषणस्य वैयर्थ्यात्।

    ननु? सर्वमिदं तदा स्यात् यद्याहार्यभेदस्य प्रतिबन्धकतावच्छेदकत्वं स्यात्, तदेव न सम्भवति। तथा सति ह्रदो वह्रिमान् इति ज्ञानंप्रति ह्रदो वह्न्यभाववानितिनिश्चयस्यांशिकाहार्यस्याप्रतिबन्धकत्वा- पत्तेः। एवमेव संशयभेदोऽपि न प्रतिबन्धकतावच्छेदकः। तथाचोक्तविशेषणेनाप्रामाण्यज्ञानास्कन्दितज्ञानवारणेपि संशयाहार्ययोरवारणादसंभाववारटणाय यथार्थेति सार्थकमेवेति चेत्-

    न। आहार्यभेदस्य प्रतिबन्धकातावच्छेदकत्वाभावेऽपि आहार्यस्य प्रतिवन्धकत्ववारणार्थं विरोधि विषयतायामिच्छाप्रयोज्यत्वस्य संशयस्य प्रतिबन्धकतावारणार्थं विषयत्वानवच्छिन्नत्वस्य च वक्तव्यतया अभावपदेनेच्छाप्रयोद्यत्वाभावं विषयत्वावच्छिन्नत्वस्य च वक्तव्यतया अभावपदेनेच्छाप्रयोज्यत्वाभावं विषयत्वावच्छिन्नत्वाभावञ्चोभयसम्बन्घेन तादृशाबाववैशिष्टयस्याहार्यसंशययोस्सत्त्वेन तद्वारणसम्भावात। अत्र वैशिष्टयघटकस्वाभाववत्त्वञ्च स्वाश्रयविषयतानिरूपकत्व विशेष्यत्वान्यतरसंबंधेन। विशेष्यत्वनिवेशादप्रामाण्यज्ञानास्कन्दितज्ञानवारणं प्रथमसम्बन्धनिवेशादाहार्यसंशयवारणं बोध्यम्।

    नन्वेवमपि यथार्थेति व्यर्थमित्यसङ्गतं तद्विशेषणसत्त्वेऽसम्भवस्यैव सम्भवात्?

    तथाहि-तादृशसम्बन्धेनाभावविशिष्टन्यादोषविषयकज्ञानमात्रस्य संशयाहार्याद्यनात्मकतया यथार्थत्वेन यद्विषयताशाल्यभावविषिष्टान्ययथार्थज्ञाननिष्ठभेदप्रतियोगितात्वस्य स्वसमनियतयद्विषयताशाल्यभावविशिष्टान्यज्ञाननिष्ठभेदप्रतियोगितावच्छेदकतात्वापेक्षया गुरूतयाऽभावप्रतियोगिकतानवच्छेदकत्वेन तादृशाभावाप्रसिद्वेरिति चेत्-

    न। याथार्थ्यस्याभावप्रतियोगितावच्छेदककुक्षावनिवेशात्। यद्‌रूपावच्छिन्नविषयताशाल्यभावविशिष्टान्यज्ञाननिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावस्यैव निवेशनीयत्वात्। याथार्थ्यसामानाधिकरण्यस्यैव तादृशाभावप्रतियोगितावच्छेदकतायां निवेशात्। तन्निवेशप्रकारश्च- यद्वर्मनिष्ठावच्छेदकताभिन्नासत्यवच्छिन्नत्वत्वनिष्ठावच्छेदकताभिन्ना यावच्छेदकता तदनिरूपिका यद्वर्मनिष्ठावच्छेदकतानिरपीका अवच्छिन्नक्वक्वनिष्ठावच्छेदकतानिरूपिका यावच्छेदकतेत्येवं रीत्या न्यूनाधिकवारकपर्याप्तिवटितावच्छिन्नत्वनिष्ठावच्छेदकतानिरूपकविषयितानिष्ठावच्छेदकतानिरूपिका सती ज्ञानत्वनिष्ठावच्छेदकताननिरूपिका सती अभावविशिष्टान्यत्विष्ठावच्छेदकतानिरूपिका या याथार्थ्यसमानाधिकरणज्ञाननिष्ठावच्छेदकता तन्निरूपकवृत्तित्वनिष्ठावच्छेदकतानिरूपकभेदनिषअठावच्छेदकतानिरूपकप्रतियोगित्वनिष्ठावच्छेदकतानिरूपकावच्छेदकतात्वावच्छिन्नप्रतियोगिताकाभावत्वेनिति। तथा च नासम्भवः। परन्तु याथार्थ्यसामानाधिकरण्यघटिताभावत्वस्य तदघटिता भावत्वघटितया तदवारणीयदोषावारकतया याथार्थ्य वैयर्थ्यमिति तदेवाभिहितम्।

    नचाभावविशिष्टान्यत्वमित्यत्र वैशिष्चत्वघटकस्वाभाववयस्य विशेष्यत्वस्वाश्रयविषयतानिरूपकत्वान्यतरसम्बन्धेन विवक्षणे याथार्थ्यस्य वैयर्थ्येऽपि विशेष्यत्वमात्रेण स्वाभाववत्त्वविवक्षणे न तद्वैयर्थ्यम् तादृशोभयसम्बन्धेनाभाववैशिष्चयस्याहार्यसंशययोरभावात्। नह्यन्यत्र यत्किञ्चित्‌ विशेषणेनावारणीयदोषवारकस्य विशेषणान्तरस्य वैयर्थ्यम्। तथाचैतद्विवक्षाभिप्रायेणैव यथार्थेत्युक्तमिति वाच्यम्।

    यथार्थपददानेऽप्यनियताहार्यवारणाय तादृशविवक्षाया आवश्यकतयातेनैनव संशयनियताहार्यवारणसम्भवेन यथार्थपदप्रयोदनाभावत्। एवञ्च भावद्वयकोटिकसंशयशनङ्गीकारेऽपि नक्षीतिरिति दिक्।।
            
</1-12>
    व्यर्थमिति। यथार्थंपदादानेऽपि सद्वेतुस्थलेऽति व्याप्तिवारणसम्भवादिति-गादाधरी।।
</1-12>

(केचित्त्मतेन परिष्कारः)
<1-13>
    
    केचित्वित्यादि यद्‌रूपावच्छिन्नविषयतासामान्यमनुमिति
    प्रतिबन्धकतावतच्छेदकं तद्‌रूपविशिष्टप्रकारकप्रमाविशेष्यत्वमेव-
    विवक्षमायमिति-गादाधरी।
</1-13>

    तथा च यद्‌रूपावच्छिन्नविषयतासामान्यं प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावतच्छेदकं तद्‌रूपवत्वमिति पर्यसितम्। ज्ञायमानदोषस्य प्रतिबन्धकतया ज्ञानविषयत्वस्य तदवच्छेदकत्वाल्लक्षण सङ्गतिष अत्र च स्वरूपसम्बन्धरूपावच्छेदक्त्वमेव लक्षणे प्रविष्टम्।

    न च स्वरूपसम्बन्धरूपावतच्छेकत्वपक्षे वक्ष्यमाणदोषग्रास इति वाच्यम्।

    ज्ञानभेदेऽपि समानाकारकज्ञानीयविषयताया एक्यमङ्गीकृत्य दोषस्य वक्ष्यमाणत्वात्। अत्र तदनङ्गीकृत्य लक्षणकरणात्, तथाचानाहार्यत्वादिकमपि निवेशनीयम्।

    नचैवंसत्यसम्भवः, अव्याप्यवृत्तित्वज्ञानकालीन ह्रदो वह्न्यभाववानित्यनाहार्यप्रामाण्यज्ञानशून्यनिश्चये प्रतिबन्धकत्वाभावेन तादृशविषयतासामान्यस्यानवच्छेदकत्वादिति वाच्यम्। अव्याप्यवृत्तित्वज्ञानानासकन्दिकत्वस्यापि ज्ञानवेशेषणत्वात्।

    नचैवं कपिसंयोगित्यादौ कपिसंयोगाभाववद्‌वृक्षेऽतिव्याप्तिः अव्याप्यवृत्तित्वज्ञानाभावे तत्‌ज्ञानस्याप्यनुमितिप्रतिबन्धकत्वादिति वाच्यम्।

    अव्याप्यवृत्तित्वभ्रमानास्कन्दिकत्वस्य विशेषणत्वात् कपिसंयोगाभावो-वृक्षेऽव्याप्यवृत्तिरिति ज्ञानस्य प्रमात्वेन तद्‌ज्ञानकालीकपिसंयोगाभाववद्‌क्षज्ञानस्योक्तकलविशेषणविशिष्टतया तदीयविषयतायासमान्यान्तर्गतायास्तादृशप्रतिबन्धकतानवच्छेदकत्वेनातिव्याविरहात्।

    नचैवमसाधारण्येऽव्याप्तिः। तद्विषयतासामान्यान्तर्गकपक्षधर्मताज्ञानसमानकालीनज्ञानीयविषयताया अतथात्वादिति वाच्यम्। अस्य दुष्टलक्षणतया दोषलक्षणत्वाभावेनासाधारण्यनियतबाधस्वरूपासिद्वयाद्यन्यतमदोषमदायैव दुष्टे लक्षणसमन्वयात्।

    नचैवं सत्ययमसाधारण्येन दुष्ट इति व्यवहारानुपपत्तिः। यद्यपीत्याद्युत्तुरग्रन्थखण्डनासङ्गतिश्च। तत्र तद्दोषघटितलक्षणस्य स्वारस्याभिधानादिति वाच्यम्। तादृशज्ञानीययद्वर्मावच्छिन्नविषयतात्वव्यापकः प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतानवच्छेदकत्वसाधारण्य विषयताभिन्नत्वाभयाभाव इति विवक्षणाददोषात्। ज्ञानभेदेन विषयताभेदानङ्गीकारे तु अनाहार्यत्वविशिष्टयद्‌रूपावच्छिन्नविषयताव्यापकः प्रकृतानुमित्यप्रतिबन्धकत्वासाधारण्यविषयताशून्यत्वोबयाभाव इति विवक्षणीयम्।

    एवञ्च पाषाणमयत्विशिष्टपर्वते नातिव्याप्तिः। पाषाणमयत्ववान् वह्न्यभाववाननिति ज्ञानकालीनपाषाणमयत्वविशिष्टपर्वतविषयकनिश्चये उभयाभावासत्त्वादिति दिक्‌।।

    इति वाङ्गलपत्रापराभिधायां सामान्यनिरूक्तिविवेचन्यां
        (प्रथमलक्षणविचारः)
</1-13>
    केचित्वित्यादि यद्‌रूपावच्छिन्नविषयतासामान्यमनुमिति प्रतिबन्धकतावच्छेदकं तद्‌रूपविशिष्टप्रकारकप्रमाविशेष्यत्वमेवविक्षणीयमिति-गादाधरी।
 

 --------------------------------------------------

 

 

 

 

 

        ।।अथ द्वितीयलक्षणविचारः।।


        लिङ्गांशप्रयोजवम्
<2-1>

मूले लिङ्गांशनिवेशस्यानतिप्रयोदनकतेये-गादाधरी।
</2-1>

ननु कथमनतिप्रयोजनकत्वम्? लिङ्गत् ज्ञानं लिङ्गज्ञानमिति व्युत्पत्या ज्ञाने लिङ्गज्ञानजन्यत्वलाभेनानुमितित्वलाभात् यद्रूपावच्छिन्नविषयकानुमितित्वव्यापकं प्रकृकानुमितिप्रतिबन्धकत्वमिति लक्षणं पर्यवस्यति।

तथाच तत्राहार्यसंशयभेदानिवेशप्रयुक्तलाघवसम्पादनेन सुप्रयोजनकत्वात्।

नच घटोऽवृत्तिरित्यादौ घटावच्छिन्नरूपबाधेऽव्याप्तिः निर्धर्मितावच्छेदकानुमित्युनङ्गीकारेण तादृशदोषविषयकानुमित्युप्रसिद्वेः। तथाच लक्षणेऽनुमितित्वप्रवेशो न सम्भवतीति वाच्यम्।

घटवत्‌ भूतलमित्यनुमितिमादायैव तत्र लक्षणसमन्वयसम्भवात्। नचाव्यापकविषयताशून्यत्वविशेषणस्यावश्यकतया घटावच्छिन्नविषयत्वाव्यापकभूतलादिविषयताशालितादृशानुमितिमादाय लक्षणसमन्वयो न सम्भवतीति वाच्यम्।

घटो घटवान् इत्यनुमितिमादायैव लक्षणसमन्वयात्। तादृशानुमितिविषयतायः सर्वस्या अपि घटावच्छिननविषयताव्यापकत्वात्।

नच तत्रापि घटांशे घटत्वस्य सामानाधिकरण्येन भानात् तद्विषयतैवाव्यापिकेति वाच्यम्।

यद्‌रूपावच्छिन्नविषयिताव्यापकत्वं प्रतिबन्धकतायां वक्तव्यम्‌तद्‌रूपावच्छिन्न विषयित्वाव्यापकविषयिताशून्यत्वस्य लक्षणे न प्रवेशः। किन्तु किञ्चिद्रुपावच्छिन्नविषयत्वाव्यापकविषयिताशून्यत्वस्यैव।

तथाच तादृशविषयिताशून्ययद्रूपावच्छिन्न विषयिताशालिज्ञाननिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वा भावस्यैव प्रतिबन्धकत्वांशे निवेशात्। ह्रदो वह्निमानित्यादौ तादृशं रूपं वह्न्यभाववत् ह्रदत्वमेवेति तत्सङ्गगग्रहः।

वह्न्यभावत्वाद्यवतच्छिन्नविषयित्वाव्यापकविषयिताशूनयतदवच्छिन्नविषयिताशालिज्ञानवृत्तिभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावश्च न प्रतिबन्धकतायामिति नैकदेशेऽतिव्याप्तिः। एवं वह्न्यभाववत् ह्रदत्वावच्छिन्नविषयतित्वाव्यपकविषयतिताशुन्यवह्न्यभावत्वाद्यवच्छिन्नविषयतिताशालिज्ञाननिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावश्च न प्रतिबन्धकतायां, एतत्तत्वमग्रे स्फुटीभविष्यति।

तथाच प्रकृते घटवत्‌भूतलत्वावच्छिन्नविषयित्वाव्यापकविषयिताशन्यघटावच्छिन्नविषयताशालिभूतलं घटवदित्यनुमितिनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीतिप्रतीतिसिद्वाभावमादायैव लक्षणसम्भवादिति चेत्-

न। महानसीयवह्नीतरवह्न्यभाववत्‌पर्वतो वह्न्यभाववान् इत्युत्र वह्निमत्प्रवतरूपे बाधेऽव्याप्तिः। तत्र दोषविषयकानुमितेर्महानसीयविषयतितारूपाव्यपकविषयिताशालित्वनियमात्।

नच महानसीयवह्न्यबाववान्पर्वत इति बाधकालीनानुमितिमादाय तत्र लक्षणसमन्वयः।
तत्र केवलवह्नेरेव भानादिति वाच्यम्।

 

यादुशस्यले एकविशेषेतरबाधस्य पक्षातावच्छेदकता दोषानुमितिः प्राक्तद्विशेशस्य न बाधनिश्चयस्तत्र, यत्र दोषविषयकानुमितिरेव न तत्र च अनुमितित्वघटितलक्षणासम्भवाल्लिङ्गांशाविवक्षणादिति दिक्।।


</2-1>
मूले लिङ्गंशनिवेशस्यानतिप्रयोदनकतयेति-गादाधरी।
<2-1>

(यत्प्रकारकत्वघटितपरिष्कारः)
<2-2>
यत्प्रकारकत्वेनानुमितिप्रतिबन्धकत्वमित्युक्तौ पक्षविशेषणकभ्रममादाय वह्न्यभावादौ नातिप्रसङ्ग। पर्वतादावतिप्रसङ्गसंभवेऽपि यत्सम्बनअधावच्छिन्न-यन्निष्ठप्रकारताकत्वेनानुमितिप्रतिबन्धकत्वं तेन सम्बन्धेन तद्वत्त्वस्य दुष्ठताव्यहारनियामकतत्वोपगमे पर्वतविशेषणकवह्रयभावज्ञानस्य विशेषमताविशेषावच्छिन्नाधेयतासंसर्गावच्छिन्नपर्वतादिनिषठअप्रकारताकत्वेन प्रतिबन्धकत्वादिति-गादाधरी
</2-2>

नन्वत्र पक्षतावच्थेदकावच्छेदेन साध्यसिद्वेरूद्देश्यत्वे नायं सद्वेतुरतस्सामानाधिकरण्येनानुमितस्थल एवातिव्यप्तिर्वक्तव्या?

तथाचावच्छेकावच्छेदेन बाधनिश्चयस्य विरोधितया तस्य च पर्वतत्वव्यापकवह्न्यभावप्रतियोदिकस्वरूसंबन्धावच्छिन्नवन्न्ह्यभावत्वाच्छिन्नप्रकारताकत्वेनैव प्रतिबन्धकतया तादृशसम्बन्धाप्रसिद्व्या तेन सम्बन्धेन तद्वत्वस्याप्रसिद्व्या कथमतिव्याप्तिः?


नच संसर्गतावच्छेदकतापर्याप्तिमनिवेश्य यद्वर्मावच्छिन्नयन्निष्ठसंसर्गताकयन्निष्ठप्रकारता प्रतिबन्धकतावच्छेदिका तद्वर्मावच्छिन्नतन्निष्ठसंसर्गताकतन्निष्ठनिरूपकतानिरूपिताधिकरणतावत्त्वस्य विवक्षणात् स्वरूपत्वावच्छिन्नस्वरूपनिष्ठसंसर्गताकवह्न्यभावत्वच्छिन्नप्रकारता तदृशप्रतिबन्धकतावच्छेदिकेति तादृशसंसर्गतानिरूपकवह्न्यभावत्वावच्छिन्ननिरूपकतानिरूपिताधिकरणत्वस्य धूमादौ सत्त्वादतिव्याप्तिरिति वाच्यम्।

 

तथसाति पक्षविशेषणकभ्रममादायाप्यतिव्याप्तिस्समभवति। पर्वतत्वव्यापकवह्न्यभावप्रतियोदिकस्वरूपसम्बन्धावच्छिन्नाधेयतात्वावच्छिननसंसर्गतानिरूपकपर्वतप्रकारकतायाः प्रतिबन्धकतावच्छेदकतया संसर्गतावच्छेदककुक्षिप्रविष्टाधेयतात्वावच्छिन्नाधेयत्वनिष्ठसंसर्गतानिरूपकपर्वतनिष्ठनिरूपकतानिरूपिताधिकरणत्वस्य धूमे सत्त्वात्। सम्बन्धभेदेनाधेयतात्वभेदेऽपि संयोगेन वह्न्यभावव्याप्यः पर्वत इति ज्ञानीयपर्वतत्वव्यपकवह्रयभावव्यप्यप्रतियोगिक संयोगसम्बन्धावच्छिन्नाधेयतासम्बन्धेन पर्वतप्रकारताया अप्यवच्छेदकतया संयोगसम्बन्धावच्छिन्नाधेयतात्वावच्छिन्नसंसर्गताकनिरूपकताकत्वास्य धूमे सत्त्वात्तादृशभ्रममादायातिव्यप्तिरतो यद्वर्मावच्छिन्नानुयोदिताकपर्याप्तिकावच्छेदकतानिरूपकसंसर्गतानिरूपकप्रकारता तादृशप्रतिबन्धकतावच्छेदिका तद्वरमावच्छिन्नानुयोगिताकप्रयप्तिकावच्छेदकताकससर्गताकनिरूपकताकाधिकरणतावत्वं विवक्षणीयम्।

एवं सति पक्षविशेषकभ्रममादाय नातिव्याप्तिः। तत्र संसर्गतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोदितावच्छेदकत्वस्य पर्वतत्वव्यापकवह्न्यभावव्याप्यप्रतियोगिकसंयोगसम्बन्धावच्छिन्नोधेयतात्वरूपसमुदायवृत्तिसमुदायत्व एव सत्त्वेन तदवच्छिन्नानुयोगिकापर्याप्तिकावच्छेदकताकसंसर्गकानिरूपकत्वस्याप्रसिद्वेः।

एवं सति पक्षविशेष्यकभ्रममादायापि नातिप्रसङ्गः। तत्रापि पर्वतत्वव्यापकवह्न्यभावादि प्रतियोगिक स्वरूपत्वादिसमुदायगतसमुदायत्वरूपतादृशप्रतिबन्धकतावच्छेदकप्रकारतानिरूपितसंसर्गतावच्छेदकतात्वावच्छिन्नपर्याप्त्यवच्छेदकधर्मावच्छिन्नप्रायप्तिकावच्छेदकताकनिरूपकत्वस्यअप्रसिद्धत्वात्।


यत्तु समानविषयकत्वेन प्रतिबध्यप्रतिबन्धकभावाभिप्रायेणेदम्। तथाच शुद्वस्वरूपसम्बन्धावच्छिन्नवह्न्यभावत्तवावतच्छिन्नप्रकारतया अपि सामानाधिकाण्येन अनुमितिप्रतिबन्धकतावच्छेदकतया पर्याप्तिनिवेशेऽपि पक्षविशेष्यकभ्रममादायातिव्याप्तिसङ्गतिरिति। तन्न।

वह्न्यभावाव्याप्यः पर्वत इति पक्षविशेषणकं भ्रममादायापि तत्सङ्गतेरिति चेत्-

न। अवच्छेदकावच्छेदेन बुद्वौ विधेयससर्गो उद्देश्यतावच्छेदकव्यापकविधेयप्रतियप्रतियोगिकत्ववदुद्देश्यतावच्छेदकवटकसंसर्गो विधेयव्याप्योद्देश्यतावतच्छेदकप्रतियोयिगिकप्रत्वभनस्य जगदीशेन अनुमितौ उक्ततया यत्सम्बन्धावच्छिन्नयन्निष्ठावच्छेदकताकयात्सम्बन्धावच्छिन्नयन्निष्ठप्रकारतातादृशप्रतिबन्धकतावच्छेदिका तत्सम्बन्धावच्छिन्नतन्निष्ठावच्छेदकतात्संबन्धावच्छिन्नतन्निष्ठनिरूपकाकाधिकरणतावत्त्वविवक्षणे पक्षविशेष्यकभ्रममादायातिव्याप्तिः सङ्गटच्छते। वह्न्यभावव्याप्यपर्वतत्वुप्रतियोगिकसमवायसम्बन्धावच्छिन्न पर्वतत्वनिष्ठावच्छेदकतानिरूपकविशेष्यतानिरूपितायाः वह्न्यभावत्लनिष्ठस्वरूपसम्बन्धावच्छिन्नावच्छेदतकतानिरूपकशुद्वस्वरूपसम्बन्धावच्छिन्नप्रकारतायाः सामानाधिकरण्येनानुमितिप्रतिबन्धकतावच्छेदकतया स्वरूपसंबन्धावच्छिवह्न्यभावत्वनिष्ठावच्छेदकताकवह्न्यभावनिष्ठशुद्वस्वरूपसम्बन्धवच्छिनिरूपकाधिकरणत्वस्य धूमे सत्त्वात्।

 

 

 


नचैवं पक्षविशेषणकभ्रममादायातिव्याप्तिः। तत्र वह्न्यभावव्याप्यत्वाद्यवच्छिन्नविशेष्यतानिरूपिता या वह्न्यभावव्याप्यादिवयाप्यपर्वतत्वप्रतियीगिकसमवायावच्छिन्नपर्वतत्वनिष्ठावच्छेदकतानिरूपकसंयोगादिसम्बन्धावच्छिन्नाधेयतासम्बन्धावच्छिन्नपर्वतनिष्ठप्रकारतायाः सामा नाधिकरण्येनानुमितिप्रतिबन्धकतावच्छेदकतया तादुशसम्बन्धावच्छिन्नप्रवतत्वनिष्ठावच्छेदकताकनिरूपकत्वाप्रसिद्धेरिति दिक्।।
</2-2>
यत्प्रकारकत्वेनानुमितिप्रतिबन्धकन्धकत्वमित्युक्तौ पक्षविशेषणकभ्रममादाय वह्न्यभावादौ नातिप्रसङ्गः। पर्वतादावतिप्रसङ्गसंभवेऽपि यत्यम्बन्धावच्छिन्न-यन्निष्ठप्रकारताकत्वेनानुमितिप्रतिबन्धकत्वं तेन सम्बन्धेन तद्वत्त्वस्य दुष्टताव्यहारनियामकत्वोपगमे पर्वचविशेषणकवह्न्यभावज्ञानस्य विशेषणताविषावच्छिन्नाधेयतांससर्गावच्छिन्नपर्वतादिनिष्ठप्रकारकरताकत्वेन प्रतिबन्धकत्वादिति-गादाधरी
</2-2>

<2-3>
विशिष्टदोषविषयकत्वस्य संशयादौ सत्वात् पुनरसम्भव इति-गादाधरी।
</2-3>
नन्वत्र? अभावे संयोगेन वह्नेः साध्यतायां संयोगसम्बन्धावच्छिन्नप्रतिययोगित्वसम्बन्धेन वह्न्यभावस्य स्वरूपेण हेतुतायां वह्न्यभाववदभावे लक्षणसमन्वयः। अभावोवह्न्यभाववान् न वेति संशयेऽपि तत्स्थलीयानुमितित्वव्यापकपक्षतावच्छेदकविषिष्टे तादृशहेत्ववगाहित्वघटितधर्मावच्छिन्नप्रतिबध्यतानिरूपितायाः अभावत्वावच्छिन्ने संयोसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेन वह्न्यवागाहित्वघटितधर्मावच्छिन्नप्रतिबन्धकतायाः सत्वात्। तादृशसंशयस्याभावांशे तादृशसम्बन्धेन वह्न्यवगाहित्वा दिति भ्रमः अभावो वह्निमान् वह्न्यभाववदवृत्ति तादृशवह्न्यभाववांश्चेति ज्ञानस्य व्याप्तिघचकाभावांशे संयोदसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेन वह्न्यवागाहित्वेन आहार्यतया तादृशामित्यप्रसिद्वरिति दिक्।।

<2-3>
विशिष्टदोषविषयकत्वस्य संशयादौ सत्वात् पुनरसम्भव इति-गादाधरी।
</2-3>

 

(अनतिरिक्तवृत्तित्वपरिष्कारः)
<2-4>
अनतिरिक्तवृत्तित्वं च स्वव्यापकतत्कत्वमिति-गादाधरी।
</2-4>
नन्वत्र प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकत्वाभावेऽनाहार्याप्रमाण्यज्ञानानास्कन्दिकदोषविषयकनिश्चयवृत्तित्वाभाव एव कुतो नोक्तः? व्यापकत्वानिवेशेनात्र लाघवात्।

नचाधिकरणभेदेनाभावभेदाङ्गीकर्तुनये घटादिवृत्तिप्रतिबन्धकत्वाभावस्य तादृशोदासीननिश्चयावृत्तित्वात्तादृशोदासीनेऽतिव्याप्तिरिति वाच्यम्।


तादृशप्रतिबन्धकत्वाभावत्वे तादशनिश्चयत्तितानवच्छेदकत्वाविवक्षणे दोषभावात्। अधिकरणभेदेनाभावभेदाङ्गीकर्तृमतोऽपि तादृशभावत्वस्यानुगतत्वादिति चेत्-

न। केवलाभावत्वे निश्चयवृत्तितावच्छेदकत्वसत्त्वे विशिष्टाभावत्वे तदवस्यासत्त्वेनासम्भवतादवस्थ्यात्। यदि तादृशप्रतिबन्धकता प्रतियोगिकत्वाभावत्वगतद्वित्वे तादृशनिश्चयवृत्तितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकप्रयाप्त्यनुयोगितावच्छेदकत्वाभावो निवेश्यते तदा न लाघव प्रत्याशेति दिक्‌।
<2-4>
अनुतिरिक्तवृत्तित्वं च स्वव्यापकतत्कत्वमिति-गादाधरी।
</2-4>

<2-5>

यत्तु प्रतिबन्धकताशून्यतादृशनिश्चतावृत्तित्वमेवानतिरिक्तवृत्तित्वमित्यादिमते शुद्धह्रदत्वावच्छिन्नेऽतिप्रसङ्गच्चेति-गादाधरी।।
</2-5>

नन्वत्र? प्रतिबन्धकताशून्यतादृशनिश्चयावृत्तिमित्यनेन प्रकृतानुमिति प्रतिबन्धकताशून्यानाहार्या प्रमाण्यज्ञानानास्कन्दितनिश्चय वृत्तिविषयितानिरूपकतावच्छेदकं यद्रूपं तद्वत्त्वं विवक्षितम्। तथाच नोक्तातिव्याप्तिः। ह्रदत्वस्य तादृशप्रतिन्धकताशून्यतादृशनिश्चयवृत्तिविषयितानिरूपकतावच्छेदकत्वात्।

नच ह्रदत्वे तादृशनिश्चयनिष्ठविषयितानिरूपकतावच्छेकत्वसत्त्वे विशिष्टह्रदत्वे तादृशाभावस्य दुर्घटत्वादसम्भव इति वाच्यम्।


प्रतिबन्धकताषशून्यतादृशनिश्चयनिष्ठविषयिताविशिष्टानधर्मवशिष्टवत्वस्य विवक्षणीयत्वात्। धर्मे विषयितावैशिष्टयञ्च स्वनिरूपितावच्छेदकतात्वावच्छिन्नपर्याप्त्युनुयोगितावच्छेदकत्वसम्बन्धेन। सच धर्मः ह्रदत्वादिनिष्ठमेकत्वमेव नतु वह्न्यभाववत् ह्रदत्वगतसमुदायत्वमित्यसम्भवाभावत्।

नचासाधारण्येऽव्याप्तिः। असाधारण्यतावच्छेदकधर्मस्य वह्नव्यापकीभूताभावप्रतियोगिवत् जलत्वादेः पक्षधर्मताज्ञानासमानकालीनतादृशप्रतिबन्धकताशून्यासाधराण्यविषयकतादृशनिश्चयवृत्तिविषयितानिरूपकतावच्छेदकत्वादिति वाच्यम्।

स्वमतेऽपि तादृशाव्याप्तेः समानत्वात्। यदिच स्वमते प्रकृतपक्षे प्रकृतहेतुमत्ताज्ञानसमानकालीनत्वप्रकृतानुमित्यप्रतिबन्धकत्वोभयाभावे यद्‌रूपावच्छिन्नविषयिताव्यपकत्वं विवक्ष्यते। तदैतन्मतेऽपि तादृशप्रतिबन्धकताशून्यासाधरण्यविषयिताशून्यातादूशनिश्चयवृत्तिविषयितानिरूपकतानवच्छेदकत्वविवक्षणे न कश्चिद्दोष इति चेत्-

न। ह्रदो वह्निमानित्यादौ कपिसंयोगाभाववत्कपिसंयोदवत्यतिव्याप्तेः। तद्विषयताशालिज्ञानस्य नियताहार्यतया तादृशधर्मस्यानाहायतादृशनिश्चयनिष्ठविषयितानिरूपकतानवच्छेदकत्वादिति दिक्।
<2-5>
यत्तु प्रतिबन्धकताशून्यतादृशनिश्चयावृत्तित्वमेवानतिरिक्तवृत्तित्वमित्यादिमते शुद्धह्रदत्वावच्छिन्नेऽतिप्रसङ्गच्चेति-गादाधरी।।
</2-5>

(अव्यापकविषयताशून्यत्वम्)
<2-6>
अथैवमपि जातित्वादिना ह्रदत्वादिविषयकस्य जातिमान् वह्न्यभाववानित्यादिज्ञानस्यापि वह्न्यभाववद्‌ह्रदत्वावच्छिन्नविषयकतया तस्य ह्रदो वह्निमानित्यनुमित्यनुमित्यविरोधतयासम्भव इति- गादाधरी।
</2-6>

नन्वतरासम्भवाभिधानमसङ्गतम्? ह्रदत्वसामानीधिकरण्येन वह्नेः साध्यत्वे अवच्छेदकावच्छेदेन बाधे लक्षणसत्त्वात्।
तथाहि-ह्रदत्वावच्छेदेन वह्न्यभावावगाहिज्ञाने ह्रदत्वव्यापकवह्न्यभावप्रितोगिकस्वरूपस्य प्रकारसम्बन्धतया तत्सथलीयलक्षणे तादृशसंबन्धावच्छिन्नवह्न्यभावनिष्ठविरूपकतानवच्छेदताकविषयितामादा यैव लक्षणसमन्वयात्। तादृशविषयितायाश्च जातिमान् वह्न्यभाववान् इति ज्ञानेऽसत्त्वात्, तत्रहि जातित्वावच्छिन्नव्यापकवह्न्यभावप्रतियोगिकस्वरूपमेव प्रकारसम्बन्धः तादृशसंसर्गकोटिप्रविष्टव्यपकत्वरूपाभावस्तु विलक्षण इति चेत्

अत्र केचित्- असम्भवशब्देनाव्याप्तिरेवाभिहितेत्यहुः।

अन्ये तु- व्यपाकत्वरूपाभावगताभावत्वस्य प्रमेयत्वेन यत्र भानं ह्रदत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वीयप्रमेयविशिष्टवद्‌वह्न्यभावतियोगिकस्वरूपसम्बन्धेन वह्न्यभाववान् ह्रद इत्याकारकज्ञानस्य वारणासम्भवेनासम्भव एवेत्याहुः।

वस्तुतस्तु-अव्याप्तिशङ्कैव नावतरति अवच्छेदकावतच्छेदेनोद्देश्यविधेयभावावगाहिप्रतीतौ उद्देश्यतावच्छेदकतापर्याप्त्यधिकरणधर्मनिरूपितव्यपकत्वमेव संसर्गशरीरे भासते। नतु तदवच्छेदकावच्छिन्ननिरूपितव्यपकत्वमपि। तथासत्यवच्छेदकावच्छेदेन विरोधिधियः प्रतिबन्धकतावच्छेदकशरीरे धर्मितावच्छेदकावच्छिन्नत्वेन विशेष्यताया निवेशे प्रयोजनाभावः। तद्धर्मव्यापकत्वघटिप्रकारतावच्छेदकसमसर्गकबुद्धेस्तद्धर्मावच्छिन्नविशिष्यकत्वनियमात्।

नचेष्टापत्तिः। अवच्छेदकावच्छेदेन बाधस्य प्रतिबन्धकतावच्छेदकविषयित्वानिरूपकधर्मितावच्छेदकघटिततया वह्न्यभाववत्‌ह्रदत्वावच्छिन्नस्य दोषत्वानुपपत्तेः।

एवंच उद्देश्यतावच्छेदकत्वपर्याप्त्यधिकरणघटितस्य संसर्गत्वस्वीकारे अवच्छेदकावच्छेदेन बाधनिश्चयप्रतिबन्धकतावच्छेदकशीरीरे धर्मितावच्छेदकावच्छिन्नत्वेन धर्मिविशेष्यताया निवेश आवश्यकः अन्यथा ह्रदो वह्रिमानित्यादौ जातिमान् वह्न्यभाववानित्यादिनिश्चयान्तर्भावेन प्रतिबध्यप्रतिबन्धकभावव्यभिचारात्। तादृशनिश्चयस्यापि ह्रदत्वव्यापकवह्रयभावप्रतियोगिकस्वरूपसम्बन्धेन वह्न्यभावप्रकारकत्वात्। धर्मितावच्छेदकावच्छिन्नत्वेन विशेष्यतानिवेशे तु प्रतिबध्यज्ञानीयविशेष्यतावच्छेदकता यादृशी तादृश्या एव प्रतिबन्धकतावच्छेदकशरीरे निवेशनीयतया न व्यभिचारः।

एवं च जातिमान् वह्न्यभाववानिति ज्ञानेऽप्यवच्छेदतावच्छेदेन बाधे यां विषयतामादाय लक्षणं सङ्गमनीयं तस्यास्सत्वात्कथं सामानाधिकरण्येन साध्यकस्थले लक्ष
णसमन्वय इति दिक्‌।।
<2-6>
अथैवमपि जातित्वादिना ह्रदत्वादिविषयकस्य जातिमान् वह्न्यभाववानित्यादिज्ञानस्यपि वह्न्यभववद्‌ह्रदत्वावच्छिन्नवियकतया तस्य ह्रदो वह्निमानित्यनुमित्यविरोधतयासम्भव इति-गादाधरी।
</2-6>

</2-7>
जलवान् वह्निमानित्यादिस्थलीय दोषासङ्‌ग्रहेण अविशेषितधर्मावच्छिन्नपक्षादिस्थलीयस्यापि किञ्चित्‌विशिष्टतत्‌घटितदोषस्यासङ्‌ग्रहेण च पक्षतावच्छेदकाद्यंशे अन्याप्रकारकत्वनिवेशस्यावश्यकत्वादिति-गादाधरी
</2-7>

नन्वत्र पक्षतावच्छेदकाद्यंशे किंतावदन्याप्कराकत्वम्?

यदि पक्षतावच्छेकनिष्ठविशेष्यतानिरूपितप्रकारत्वानिरूपकत्वं तदा ह्रदो वह्न्यभाववानिति ज्ञानस्याप्यसङ्‌ग्रहः। तस्यापि सामानाधिकरण्यसम्बन्धावच्छिन्न ह्रदत्वनिष्ठविशेष्यतानिरूपितवह्न्यभावनिष्ठप्रकारतानिरूपकत्वात्। तथा चासम्भवः।

नच तादृशप्रकारतायां प्रकारत्वानवच्छिन्नत्वं विशेषणं देयम्। दोषज्ञानीयायाः ह्रदत्वांशे सामानाधिकरण्येन वह्न्यभावप्रकारतायाः ह्रदत्वावतच्छिन्नवेशेष्यतानिरूपिप्रकारकत्वावच्छिन्नतया न तदसङ्ग्रहः। जातिमान् वह्न्यभाववानिति ज्ञानस्य ह्रदत्वनिष्ठविशेष्यतानिरूपितजातित्वनिष्ठादृशप्रकारतानिरूपकत्वात्तद्धवारणं चेति वाच्यम्।

तादृशज्ञानवारणेऽपि प्रमेयत्वेन प्रकारतावच्छेदकावगाहिनो ह्रदो वह्न्यप्रमेयवत्ववानिति ज्ञानस्यावारणात्।

नचादिपदग्रह्यं प्रकारतावच्छेकांशेऽन्याप्रकारकत्वं निवेष्यतामिति वाच्यम्।

ह्रदो वह्न्यभाववानिति ज्ञानस्यापि प्रकारतावच्छेदकीभूतवह्न्यंशे वह्नित्वप्रकारकत्वेनासङ्ग्रहापत्तेरिति चेत्-


न। विशेष्यताविशेष्टविशेषमत्वानिरूपकत्वस्य तत्त्वात्। विशेष्यतावैशिष्ट्यं च स्वनिरूपितत्वस्वावच्छेद्यावदकतानिरूपकविषयतानिरूपतविशेषणत्वानवच्छिन्नत्वोभयसम्ूबन्धेन। जातिमान् वह्न्यभाववानिति ज्ञानं च जातिनिष्ठविशेष्यतया निरूपिता तादृशविशेष्यत्वावच्छेद्यावच्छेदतचानिरूपकजात्यवच्छिन्नविशेष्यतानिरूपितवह्न्यभावनिष्ठविशेषणात्वानवच्छिन्ना च या जातित्वनिष्ठविशेषणता तन्निरूपकमिति तदसङ्ग्रहः।

ह्रदो वह्नयभाववानिति ज्ञानं च न तादृशविशेषणतानिरूपकम्। ह्रद वह्न्यभाव निष्ठविषेष्यत्वावच्छेद्यावतच्छेदकत्वाप्रसिद्धेः वह्निनिष्ठविशेष्यत्वावच्छेद्यावच्छेकत्वप्रसिद्धेवपि तन्निरूपकाभावत्वावच्छिन्नप्रकारतानिरूपतिविशेषणत्वाप्रसिद्धेश्च विशेष्यताविशिष्टविशेषणतायां पक्षतावच्छेदकतावच्छेदकतवानवच्छिन्नत्वस्य स्वनिरूपितावच्छेदकत्वावच्छिन्नत्वसम्बन्धावच्छिन्नपक्षतावच्छेदकत्वाबाववत्त्वस्य वा निवेशे जलवान् वह्न्यभाववानित्यादिस्थलीयदोषासङ्‌ग्रहाभावेनाविशेषितधर्मावच्छिन्नेत्यादि। तथाच ह्रदो वह्निमान् जातिमत इत्यादिस्थसीयव्यभिचारे वह्न्यभाववत्‌वृत्तिमत्यव्याप्तिः। तादृशव्यभिचारज्ञानस्य जातिवृत्तिविशेष्यतानिरूपिता तादृशविशेष्यत्वावच्छेद्यावच्छेदकतानिरूपक जात्यवच्छिन्नविशेष्यतानिरूपितवह्न्यभाववत् वृत्तित्वनिष्ठविशेषणत्वानवनच्छिन्ना च या जातित्वनिष्ठविशेषणता तन्निरूपकत्वात्। तस्यां चोक्तसम्बन्धेन पक्षतावच्छेदकत्वाभाववत्त्वस्य च सत्वादिति दिक्।।
</2-7>
जलवान् वह्न्मानित्यादिस्थलीय दोषासङ्ग्रहेण अविशेषित धर्मावच्छिन्नपक्षादिस्थलीयस्यापि किञ्चित्‌विशेष्टतत्‌घटितदोषस्यासङ्‌ग्रहेण च पक्षतावच्छेदकाद्यंशे अन्याप्रकारकत्वनिवेशस्यावश्यकत्वादिति-गादाधरी।
</2-7>

<2-8>
यद्यद्रूपावच्छिन्नस्य यस्य यस्य तादृषविशिष्टता तत् तद्रूपावच्छिन्नतत्तन्निष्ठविषयिताभिन्नकिञ्चिदवच्छिन्नविषयतिताशून्यत्वं ज्ञाने निवेशनीयमिति-गदाधरी।
</2-8>

अत्र केचित्-यस्य यस्येत्यनुपादाने ह्रदो वह्निमानित्यादौ बाधसङ्‌ग्रहः। अबावत्वेन ह्रदत्वावगाह्यभाववान् वह्रयभाववानिति ज्ञानावारणात्। तत्राभावत्वावच्छिन्नस्य विशिष्चघटकतयाऽभावत्वावच्छिन्नविषयताभिन्ना किञ्चिदवच्छिन्नविषयता घटत्वाद्यवच्छिन्नविषयतैव तदनिरूपकत्वस्य तादृशज्ञाने सत्त्वात्। यस्य यस्येत्युपादाने च अभावत्वावच्छिन्नस्याभावस्य विशिष्टघटकत्वेऽपि तदवच्छिन्नस्य ह्रदत्वस्य विशिष्टाघटकतया तद्रूपावच्छिन्नतन्निष्ठविषयतानिरूपकत्वात् तद्‌ज्ञानवारणम्।

तथाच यद्रूपावच्छिन्नविषयिताव्यपाकरूपविशिष्टविषयताभिन्नकिंचिदवच्छिन्नविषयत्वानिरूपकत्वं तदर्थः। विषयिताव्यपकत्वं च रूपे स्वविशिष्टविषयतानिरूपकत्वसम्बन्धेन। स्ववैशिष्टयं च स्वावच्छिन्नत्व, स्वसामानाधिकरण्योबयसम्बन्धेन, अभावत्वावच्छिन्न ह्रदत्वविषयता च न तादृशरूपविशिष्टा अभावत्वसामानाधिकरण्याभावात्। अतो न तत्सङ्ग्रह इति वदन्ति।

तन्न सम्यक्-ह्रदो वह्रयभाववानिति ज्ञानो या वह्रयभाववत्ह्रदवैशिष्टयावगाहिबुद्विनियामिका विलक्षणविषयिता तस्या अभाववान् वह्रयभाववानिति ज्ञानेऽसत्त्वात्। अन्यथा तादृशज्ञानानान्तरं वह्रयभाववत्‌ह्रदं जानामीत्यनुव्यवसायापत्तेः।


नच जातिमान् वह्रयभाववानिति ज्ञानानन्तरमपि तादृशनुव्यसायाभावात्तत्रापि तादृशविषयिताया अभावप्रसङ्गः। तथाच तादृशज्ञानमादाय दोषकथनासङ्गतिरिति वाच्यम्।

जातिमान् वह्रयभाववानिति ज्ञाने जातित्वादिघटितसमुदायवृत्तिसमुदायत्ववृत्तिननिरूपकताकविषयिताया एव अधिकन्यूनवारकपर्याप्तिघटितायस्तत्क सत्त्वात्। जातित्वाघटितह्रदत्वादिघटितसमुदायवृच्चिसमुदायत्ववृत्तिनिरूपकताकविषयिताया वह्रयभाववत् ह्रदं जानामिति विषिष्टबुद्विनियामिकायास्तत्रीसत्त्वान्न जातिमान् वह्रयभाववानिति ज्ञानानन्तरं तादृशानुव्यवसायप्रसङ्गः। अधिकन्यूनवारकपर्याप्तिघटितनिरूपकतावकीविषयिताया एव विशिष्टबुद्विनियामकत्वस्वीकारात्। अधिकवारकपर्याप्त्यघटितसमुदायवृत्तिसमुदायत्वावच्छिन्नानुयोगिताकपर्याप्तिकातवच्छेदकविषयियाता अपि जातिमान् वह्रयभाववानिति ज्ञानेऽपि सत्त्वात्तदादाय दोषाभिधानसङ्गतिः। अत्र अभाववान् वह्रयभाववानिति ज्ञानोऽभावत्वस्य ह्रदत्वनिरूपकतावच्छेदकताव्यधिकरणतया तादृशज्ञानवृत्तिविषयितानिरूपकतावच्छेदकसमूदायेऽप्रवेशेनाबावत्वाद्यघटितह्रदत्वादि घटिसमुदाय एव निरूपकतावच्छेदकतापर्याप्तेः तादृशज्ञानावगाहितादृशानुव्यवसायापत्तिरतस्तादृशविलक्षणविषयिता तादृशज्ञाने नास्त्येवेति।

वस्तुतः-ह्रदः प्रमेयवह्रित्ववत्वानित्यादिस्थलीयबाधेऽव्याप्तिः।
तत्र प्रमेयत्वेन ह्रदत्वावदाहिज्ञानावारणात्। अतो यस्य यस्येत्युपादनम्। तथा च तादृशविशिष्टावच्छिन्नभेदप्रतियोगितावच्छेदकताविशिष्टविषयताबिन्नकिञ्चिदवच्छिन्नविषयत्वानिरूपकत्वं तदर्थः। विषयतायां अवच्छेदकतावैशिष्टयं च स्वावच्छेदकावच्छिन्नत्व, स्वासामानाधिकरण्योभयसम्बन्धेन। असङ्ग्राह्यज्ञानीयप्रमेयत्वावच्छिन्नह्रदत्वनिष्ठविषयताच न तादृशप्रतियोगितावच्छेदकताविशिष्टेति तदसङ्ग्हः। अवच्छेदकतावैशिष्टयघटकावच्छेदकता च साक्षात्। अतो ह्रदत्वनिष्ठावच्छेदकतायां प्रमेयत्वस्य परम्परयावच्छेदकत्वेऽपि न क्षतिरिति दिक्।।
<2-8>
यद्यद्रूपावच्छिन्नस्य यस्य यस्य तादृशविशिष्टता तत् तद्रूपावच्छिन्नचच्चन्निष्ठविषयिताभिन्नकिञ्चिदवच्छिन्नविषयिताशून्यत्वं ज्ञाने निवेशनीयमिति-गादाधरी।
</2-8>

<2-9>
यद्रूपावच्छिन्नविषयतात्वं तादृशविशिष्टविषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्न विषयताशून्यत्वस्य ज्ञानविशेषणतयेति-गादाधरी।
</2-9>

यद्रपावच्छिन्नविषयतावत्‌वृत्तिर्यः किञ्चिद्रपावच्छिन्नविषयिता नास्तीति प्रतीतिसिद्वः किञ्चिद्रूपनिष्ठावच्छेदकताभिन्नावच्छिन्नत्वत्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपकतादृशावच्छेदकतानिरूपकावच्छिन्नत्वनिष्ठावच्छेदकताभावस्तत्प्रतियोगिविषयित नास्तीति प्रतीतिसिद्वाभावं तद्‌व्यक्तित्वेनोपादाय तन्निष्ठावच्छेदकताभिन्ना सती यद्रूपावच्छिन्नविषयितानिष्ठावच्छेदकताभिन्ना तादृशनिश्चयत्वनिष्ठावच्छेदकताभिन्ना यावच्छेदकता तदनिरूपकेत्यादिरीत्या निश्चयनिष्ठावच्छेदकतानिरूपकवृत्तित्वनिष्टावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकतानिरूपकप्रतियोगित्वनिष्ठावच्छेदकतानिरूपकावच्छेदकतात्वावच्छिन्नप्रतियोगिताकाभावः प्रतिबन्धकतायां निवेशनीय इति दिक्।।
<2-9>

 


यद्रूपावच्छिन्नविषयतात्वं तादृशविशिष्टविषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्न विषयताशून्यत्वस्य ज्ञानविशेषणतयेति-गादाधरी।
</2-9>

<2-10>
नच सामान्यपदस्य व्यपकत्वार्थकतया प्रतिबन्धकतावच्छेदकतायां विशिष्टविषयितात्ववल्यापकत्वं प्रवेश्यं, तदपेक्षया प्रतिबन्धकतायां विशिष्टविषायताव्यपकत्वनिवेशनमेवोचितमति वातच्यमिति-गादाधरी।
</2-10>

 

 

नन्वत्र? प्रतिबन्धकतावच्छेदकतायां विशिष्टविषयितात्वव्यापकत्वापेक्षया प्रतिबन्धकतायां विशिष्टविषयिताव्यापकत्वनिवेशनमेवीचितमित्यनेन लाघवमभिप्रेतं, तन्न संभवति । लाघवस्य विपरीतत्वात् प्रतिबन्धकतायां व्यापकत्वनिवेशे विशिष्टविषयितावन्नश्ययनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावस्य निवेशनीयता तत्प्रतियोगितावच्छेदककुक्षौ निश्चयस्यापि निवेशात् तादृशाभावश्च गुरूशरीरः एतन्मते विशिष्टविषयितानिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतीसिद्वाभावस्य निवेशात्तत्र निश्चयस्यावच्छेदककुक्षावनिशेन तादृशाभावोलघुशरी इति ताद्विवक्षाया एव लघुत्वात्।

नचाहार्यादिविषयतायाः प्रतिबन्धकतावच्छेदकत्वाबावादसम्भववारणायानाहार्यानिश्चयीययद्रूपावच्छिन्नविषिचानिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावस्यैव निवेशनीयतया तदंशे तौल्यं, प्रतिबन्धकतावच्छेदकतायां व्यापकत्वस्य निवेशनीयतया लक्षणशरीरं गुर्विति वाच्यम्।

तन्मतेऽपि प्रतिबन्धकतायामेव अवच्छेदकतासम्बन्धेन व्यापकत्वस्य वक्तव्यत्वात्।


नचैवं सति स्वमते तादृशनिश्चयनिष्ठात्यन्ताभावाप्रतियोगित्वरूपव्यापकत्वनिवेशनं सम्भवति। तन्मते वृत्यनियामकसम्बन्धस्यात्यन्ताबावप्रतियोगितानवच्छेदकत्वेनावच्छेदकतासम्बन्धावच्छिन्नप्रतियोगिताकात्यन्ताभावप्रसिद्वेः। तादृशविषयितानिष्ठतत्सम्बन्धावच्छिन्नभेदप्रतियोगितावाप्रयोगितावच्छेदकत्वाभावस्यैव निवेशनीयतया तादृशखव्यापकत्वरूपाभावप्रतियोगितावच्छेदकत्वं प्रतियोगितायामपीति गौरवमिति वाच्यम्।

तथापि तादृशात्यन्ताभावाप्रतियोगित्वस्य कुत्राप्यसत्त्वात्। तादृशात्यान्ताभावप्रतियोगितानिरूपितावच्छेदकत्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितानवच्छेदकैत्ववदुभयावृत्तिधर्मवत्त्वं विवक्षणीयम्। धर्मे उभयावृत्तित्वानुपादाने तादृशैकत्वावत्प्रमेयत्वमादायोदासीनेऽतिव्याप्तिः। तथाच स्वमत एव गौरवात्।

 

 
नच तथापि तन्मतेऽपि तादृशविशषयितावृत्तितादृशप्रतिबन्धकत्ववत् घटोभयभेदं तादृशप्रतिबन्धकतावद्‌वह्रित्वावच्छिन्नविषयित्वादिभेदञ्च आदाय असम्भववारणायोक्तिविवक्षावश्यकीति वाच्यम्।

तथापि तादृशविषयितावृत्तिभेदप्रतियोगितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपपर्यप्त्यनुयोगितानवच्छेदकैकत्ववत्त्वस्यैव विवक्षणीयत्वात् तद्‌व्यक्तेस्स्वरूपतो भानाङ्गीकारेण तद्‌व्यक्तिमान्नेत्याकारकभेदस्य तादृशविषयितायां सत्त्वेन तादृशैकत्वे उभयावृत्तिधर्मवत्वस्याविवक्षणीयतया लाघवस्यानपायादिति चिते-

न। तद्‌व्यक्तेः स्वरूपतो भानाङ्गीकारे तादृशविवक्षायां विषयतावृत्तियत्किञ्चित्प्रतिवन्धकताव्यक्तिमद्भेदमादायामसम्भववारणाय तादृशविषयितावृत्तिभेदप्रतियोगितावच्छदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकैकत्ववगद्वर्मवत्त्वस्य विवक्षणीयतया तादृशधर्मे उभयावृत्तित्वानुपादाने तादृशप्रमेयत्ववत्वमादायोदासीनेऽचिव्याप्तिः। तथाच गौरवं दुष्परिहरमेवेति।

अथवा स्वमते तादृशनिश्चयवृत्त्युभयावृत्तिधर्मेतरधर्मानवच्छिन्नप्रतियोगिताकात्यन्ताभावाप्रतियोगित्वं विवक्षणीयम्, तन्मते विषयितावृत्ति उभयावृत्तिधर्मेतरधर्मानवच्छिन्नावच्छेदकताभिन्नवच्छेदकत्वानिरूपकप्रतियोगिताकभेदप्रतियोगितावच्छेदकत्वाभावो वक्तव्य इति गौरवमिति दिक्।।
</2-10>
नच सामान्यपदस्य व्यापकत्वार्थकतया प्रतिबन्धकतावच्छेदकतायां विशिष्टविषयितावत्वव्यपकत्वं प्रवेश्यं, तदपेक्षया प्रतिबन्धकतायां विशिष्टविषयिताव्यापकत्वनिवेशनमेवोचितमिति वाच्यमिति-गादाधरी।
</2-10>

 

<2-11>
तादृशाहार्यज्ञानसमानाकारकानाहार्यज्ञानाप्रसिद्धेरिति-गादाधरी।
</2-11>

अत्र तत्समानाकारकत्वन्नाम तद्‌वृत्तिमुख्यविशेष्यतावृत्तित्वम्। मुख्यविशेष्यतावृत्तित्वञ्च स्ववृत्तिमुख्यविशेष्यतावत्त्वसम्बन्धेन। मुख्यविशेष्यतावत्वञ्च स्वसमनियतत्व स्वनिरूपित विषयतात्वावच्छिन्नपर्यप्त्यनुयोगितावच्छेदकधर्मवृत्तित्वोभयम्बन्धेन। धर्मवृत्तित्वञ्च स्वनिरूपितविषयतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन। अत्र प्रथमसम्बन्धनिवेशात् घटत्वेन घटपटावगाहिज्ञानयोः समानाकारकत्वव्यावृत्तिः।

सामानाधिकरण्यमात्रनिवेशनेन तद्वयावर्तनेऽपि घटत्वेनैवघटावगाहिज्ञानस्य तादृशनानाघटावगाहिज्ञानस्य च घटत्वेन घटपटावगाहिज्ञानसमानाकारकत्वापत्तिरतस्तदुपेक्षणम्।

समनियतत्वघटदकलद्वयमपि घटत्वेनैकानेकघटविषयकज्ञानयोः वारणार्थमेव। तद्ज्ञानवृत्तिमुख्यविशेष्यचावृत्तित्वमित्यत्र मुख्यत्वानुपादाने घटवात्। भूतलमित्याकरकज्ञानस्य घटवत्‌भूतलवान् देश इत्याकारकज्ञानसमानाकारत्वापत्तिः। तदीयघटत्वावच्छिन्नप्रकारतानिरूपितभूतलत्वावच्छिन्नविशेष्यतायां स्वीयमुख्यविशेष्यतावत्त्वसम्बन्धेन्धेनोक्तज्ञानस्य सत्वात्। ज्ञानवृत्तित्वघटकविशेष्यतायां मुख्यत्वानुपादाने उक्तोत्तरज्ञानस्य पूर्वज्ञानसमानाकारत्वापत्तिः। द्वितोयसम्बन्धानिवेशे घटत्वेन घटज्ञानस्य पटत्वेन घटज्ञानस्य घटो रूपवान्। घटो रसवान् इत्याकारकज्ञानयोश्च समानाकारत्वापत्तिरिति दिक्।।
<2-10>
तादृशाहार्यज्ञानसमानाकारकानाहार्यज्ञानाप्रसिद्धेरिति-गादाधरी।
</2-10>

<2-11>
एवं सत्यनाहार्यज्ञानीयविशिष्टविषयितात्वव्यपकताया एव विवक्षणीयत्वादिति-गादाधरी।
</2-11>

नन्वत्र? अनाहार्यत्वानिवेशेऽपि नासम्भवः अनियताहार्यविषयितायां स्वरूपसम्बन्धरूपावच्छेदकत्वसत्त्वात्। नियताहार्यविषयितामादायापि नासम्भवः। आहार्यभेदनिवेशेऽप्यतत्कल्पेऽव्यापकविषयताशून्यत्वनिवेशनमावश्यकम्।

अन्यथा ह्रदे वह्नेस्सामानाधिकरण्येन साध्यतास्थले जात्यवच्छेदेन वह्न्यभावावगाहिजातिमान् वह्न्यभाववानिति ज्ञानस्य ह्रदो जातिमानिति ज्ञानविशिष्टस्य प्रतिबन्धकतया तादृशज्ञानीयवह्न्यभाववद्ह्रदत्वात्मकजात्यवच्छिन्नविषयितायां प्रकृतानुमितिप्रतिबन्धकतानिरूपित स्वरूपसम्बनधरूपावच्छेदकत्वसत्त्वेप्यवच्छेदकावच्छेन साध्यतास्थलीयसामानाधिकरण्येन दोषेऽव्याप्तिः। सामानाधिकरण्येन वह्न्यभावावगाहिनो जातिमान् वह्न्यभाववानिति ज्ञानस्य जातिमान् ह्रद इति ज्ञानविशिष्टस्याप्रतिबन्धकत्वात्।

एवं च नियताहार्यज्ञाने दोषविषयित्वाव्यपकविषयिताशुन्यत्वाभावादेव तदीयविषयिताव्यावृत्तेः।

नच वह्निमान् द्रदो वह्न्यभाववानित्याहार्येऽपि दोषविषयतित्वाव्यपकविषयिता न कापि विषयितेति वाच्यम्।

यद्रूपावच्छिन्नविषयित्वावच्छिन्नयद्रूपावच्छिन्नविषयित्वं विशिष्टविषयित्वाव्यपकं तद्रूपावच्छिन्नविषयित्वावच्छिन्नतद्रूपावच्छिन्नविषयित्वशून्यत्वस्याव्यपाकविषयिताशून्यत्वपदार्थत्वात्। उक्ताहार्ये च संयोगाद्यवच्छिन्नविषयित्वावच्छिन्नविषयिताया अव्यापकीभूतायास्स्त्वेन तदसङ्‌ग्रहात्। वेशेषणान्तरप्रक्षेपापेक्षया उक्तपरिष्कारस्यौचित्यादिति चेत्-

न। ह्रदे स्वरूपतो भेदत्वसाधने भेदभेदवद्‌ह्रदरूपे बाधेऽव्याप्तेः। तत्र भेदभेदवत्‌ह्रदो भेद इति नियताहार्यज्ञाने यद्रपावच्छिन्नविषयित्वावच्छिन्नयद्रूपावच्छिन्नविषयिताभेजवद्‌ह्रदत्वावच्छिन्नविषयित्वाव्यापिकातादृशविषयितायाः कस्या अप्यभावत्। यद्रूपावच्छिन्नविषयित्वाव्यापिकेत्यस्योक्तावपि भेदत्ववद्भेदवत्‌ह्रदत्वावच्छिन्नविषयित्वाप्रिसिद्धयैवतद्‌ज्ञानावारणात्। तत्र दोषविषयितायास्सत्वात्। भेदभेदवद्‌ह्रदत्वावच्छिन्नविषयित्वावच्छिन्नविषयितापि व्यापिकैव, भेदत्वावच्छिन्नावच्छेदकतानिरूपितवियित्वावच्छिन्नविषयितापि व्यापिकैव, भेदत्वावच्छिन्नावच्छेदकतानिरूपितविषयितायस्तादृशत्वात्।

नचैवमपि यद्रूपावच्छिन्नविषयतानिरूपितयद्रूपावच्छिन्नविषयितातादृशविशिष्टविषयित्वाव्यापिका तद्रूपावच्छिन्नविषयिताविशिष्टतद्रूपावच्छिन्न विषयिता शून्यत्व विवक्षणे न तत्राव्याप्तिः तादृशाहार्ये भेदत्वस्वरूपत्वावच्छिन्नविषयितानिरूपितभेदवद्‌ह्रदत्वावच्छिन्नविशेष्यताख्यविषयितायाः भेदभेदवान् ह्रद इति ज्ञानेऽसत्त्वेन तदसङ्ग्रहादिति वाच्यम्।

भेदभेदेऽवृत्तित्वसाधने भेदबेदवति बाधेऽव्यप्तेः। तत्र तादृषदोषविषयितावति भेदत्वेन घटावगाहिभेद भेदभेदवानिति नियताहार्ये भेदभेदावच्छिन्नविषयित्वाव्यापिका यद्रूपावच्छिन्नविषयितानिरूपितयद्रूपावच्छिन्नविषयिता, तस्या यद्रूपावतच्छिन्नविषयतानिरूपितयद्रपावच्छिन्नविषयता तस्यश्चासत्त्वात्। भेदो भोदभेदवानित्याहार्यज्ञानीयाया भेदयभेत्वावच्छिन्नविषयितानिरूपिताया भेदत्वावतच्छिन्नविषयतितायाः स्वरूपत्वावच्छिन्नविषयिताया भेदत्वावच्छिन्नविषयितायाः स्वरूपत्वावच्छिन्नविषयितायाश्च व्यपककत्वात्। भोदभेदावच्छिन्नविषयिता तु तादृशाहार्ये नास्त्येव। भेदभेदवद्‌भेदत्वावच्छिन्नविषयितावत्वप्रसिद्धैव। व्यधिकरणस्य निरूपकतानवच्छेदकत्वात्। भेदभेदस्य निरूपकताव्धिकरणत्वात्। तथाच अनाहार्यत्वविशेषममावश्यकमेवेति दिक्।।

 

यद्रूपावच्छिन्नविषयितासामान्यमित्यत्र सामान्यपदं व्यर्थम्। उक्तयुक्त्याऽव्यापकविषयताशून्यत्वस्य निवेशनीयतया एकदेशेऽतिव्यप्तिविरहात्। एकदेषविषयिताया दोषविषयकज्ञानीयाया एव तादृशप्रतिबन्धकतावच्छेदकतया तस्य ज्ञानस्यैकदेशविषयित्वाव्यापकविशिष्टविषयितावत्त्वात्।

नच गोत्वाभावो गोत्वाभाववानित्यत्र गोत्वाभवेऽतिव्याप्तिः।
गोत्वाभावो गोत्वावानिति ज्ञानीयगोत्वाभावविषयितायाः प्रतिबन्धकतावच्छेदकत्वात्। ततत्रच गोत्वाभावविषयित्वाव्यापकविषयितायां असत्त्वात्। सामान्यपदोपादाने गोत्वाभाव इति ज्ञानीयतद्विषयतितायाः प्रतिबन्धकतानवच्छेदकतया न तद्दोष इति वाच्यम्।

यद्रूपनिष्ठावच्छेदकताकविषयतात्वं तादृशविशिष्टविषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्रूपनिष्ठावच्छेदकताकविषयताशून्यत्वस्य विवक्षणीयतया गोत्वाभावो गोत्ववानिति ज्ञाने गोत्वाभावत्वावच्छिन्नविषयत्वाव्यपकदोत्वाभावतच्वनिष्ठावच्छेदकताकविशेष्यतायाः सत्त्वेन तद्‌ज्ञानवारणात्।

नचैवमपि वह्निर्वह्निमानित्यादौ वह्न्यभावाद्यवच्छिन्नेऽतिव्याप्तिः।
वह्न्यभावाद्यवच्छिन्नविषयत्वाव्यपिका या वह्न्यभावनिष्ठावच्छदकताकविषयता तच्छून्यत्वस्य, या च तादृशवह्न्यभभाववद्‌वह्नित्वनिष्ठावच्छेदकताकविषयता वह्न्यभाववद्‌वह्न्ः प्रमेय इति ज्ञानवृत्तिस्तच्छून्यत्वस्य च दोषज्ञाने सत्त्वात् तदीयवह्न्यभावादद्यवच्छिन्नविषयतायाः प्रतिबन्धकतावच्छेदतत्वाच्च।

एवं ह्रदो जात्यबाबवानित्यत्क बाधेऽव्याप्तिश्च उक्ताव्यापकविषयिताशून्यत्वविशिषणेन जातिमान् जातिमान् इति ज्ञानवारणादिति वाच्यम्।

यद्रूपावच्छिन्नविषयतानिरूपित यद्रूपावच्छिन्नविषयताविशिष्टविषयित्वाव्यापिका तद्रूपावच्छिन्नविषयतानिरूपिततद्रूपावच्छिन्नविषयताशून्यत्वविवक्षमेनोक्तदोषवारणात्। गोत्वाभावत्वावच्छिन्नविषयित्वाव्यापिकायाः गोत्वाबावत्वावच्छिन्नविषयतानिरूपितसमवायावच्छिन्नविषयतायाः गोत्वाभावो गोत्ववानिति ज्ञाने सत्त्वात्। एवं वह्नः वह्न्यभाववानिति ज्ञाने वह्न्यभावावच्छिन्नविषयित्वाव्यापिकाया वह्नित्वावच्छिन्नविषयतानिरूपितस्वरूपत्वावतच्छिन्नवषयतायाः सत्त्वात्।

एवं जातिमान् जातिमान् इति ज्ञाने च जातित्वावच्छिन्नविषयितानिरूपितजात्यवच्छिन्नविषयितायाः जातिमद्‌ह्रदत्वावच्छिन्नविषयित्वाव्यापिकायास्सत्वादिति चेत्-

न। यत्र स्वरूपे स्वरूपवद्भेदत्वं साध्यते तत्र स्वरूपवद्भेदत्व वद्भेदवतस्वरूपं बादः। तत्र स्वरूपवद्भेदत्ववद्भेदवत्यतिवायप्तिः। तादृशभेदावच्छिन्नविषयित्वाव्यापिकायाः तादृशज्ञानीय तादृशभेदावच्छिन्नविषयितायाः प्रतिबन्धकताच्छेदकत्वात्। यद्रूपावच्छिन्नविषयिता तादृशविशिष्टविषयित्वाव्यापिका तद्रूपावच्छिन्नविषयिताशून्यत्वमपि निवेश्य, तादृशभेदावच्छिन्नविषयित्वाव्यापकविशिष्टदोषविषयिताशून्यत्वस्य तादृशदोषज्ञानेऽभावेन तद्दोषवारणमितिचेत् गौरवमिति दिक्।।
<2-12>
एवं सत्यनाहर्यज्ञानीयविशिष्टविषयितात्वतव्यपकताया एव विवक्षणीयत्वादिति-गादाधरी।
</2-12>

(विशिष्टद्वयाघटितत्वविचारः)
<2-13>
    यादृशविशिष्टविषयकनिश्चयविशिष्ट यादृशविशिष्टविशयकनिश्चयत्वमनुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तादृशविशिष्टद्वयाघटितत्वे सतीति-गादाधरी।
<2-13>

 

 

    अत्र तादृशविशिष्टद्वयाघटितत्वं तादृशविशिशष्टद्वयविषयिताशून्यज्ञानविषयत्वां। तच्च यदि तादृशविशिष्टविषयिताशून्यत्वे सति तादृशविशिष्टविषयिताशून्य ज्ञानघटिनतं तदा वह्न्यभाववद्ह्रदादिरूपदीषासङ्ग्रहः। ह्रदो वह्निमान् वह्निव्याप्यधूमवान्. चेत्याकारकानुमितिं प्रति वह्न्यभाववान् धूमाभाववान् वह्न्यभाववांश्च ह्रद इत्याकारकनिश्चयस्य प्रतिबन्धकतया तादृशप्रतिबन्धकतानतिरिक्तवृत्युक्तनिश्चयविशिष्टवह्नभाववद्ह्रदविषयकनिश्चयत्वमपीति वह्न्यभाववद्‌ह्रदविषयिताशून्यत्वस्य ह्रदो वह्न्यभाववानिति ज्ञानेऽसत्त्वात्। नापि तादृशविशिष्टयित्वातादृशविशिष्टविषयित्वोभयाभावज्ञानघटितं तथा सति ह्दो वह्न्यभाववानिति ज्ञाने धूमाभाववद् वह्न्यभावत्वावच्छिन्नविषयित्वाबावेनोभयाभावसत्वात्तादृशोषसङ्ग्रहेऽपि ह्रदो वह्निमानित्यत्र वह्न्यभावव्यपायह्रदवृत्तिपङ्कजे धर्मितावच्छेदकविशेषणभावानापन्नवह्न्यभावव्याप्तिह्रदवृत्तित्वघटितविशिष्टेऽतिव्याप्तिः। वह्न्यभावव्याप्यं पङ्कजं पङ्कजवान् ह्रद इति ज्ञानयोरिव वह्न्यभावव्याप्यं पङ्कजं ह्रदवृत्तिपङ्कजमिति ज्ञानयोरपि ज्ञानविशिष्टज्ञानत्वेन ह्रदे वह्रयनुमितिं प्रति प्रतिबन्धकतया वह्न्यभाव्याप्तिह्रदवृत्तित्वोभयमेकत्रद्वयमिति रीत्यावगाह्यमाने वह्रयभावव्यपिह्रदत्तित्ववत् पङ्कजमिति ज्ञाने विशेष्यताया एक्येन विषयताद्वयशून्यत्वस्य सत्वात्।

    तत्र च वह्न्यभावव्याप्तिप्रकारतानिरूपितपङ्कजत्वावच्छिन्नविशेष्यताशालिनिश्चयविशिष्टह्रवृत्तित्वप्रकारतानिरूपित पङ्कजत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वावच्छिन्नप्रतिबन्धकतायाः प्रकृतानुमितिनिरूपितायाः सत्त्वात्।

    किन्तु तादृशविशिष्टविषयिताविशिष्टतादृषविशिष्टविषयिताशून्यज्ञानविषयत्वम्।

    अत्र प्रथमनिश्चयत्वानिवेशे जलवान् वह्न्यभाववान्नवेति ज्ञानविशिष्टजलवान् ह्रद इति निश्चये प्रतिबन्धकताविरहेण द्वितीये तदनिवेशे जलवान् वह्न्यबाववानिति निश्चटयविशिष्ट ह्रदो जलवान्निवेति ज्ञानेच प्रतिबन्धकताविरहेण तादृशविशिष्टद्वयस्य यादृशविशिष्टपदेन धर्तुमशक्यतया वह्न्यभाववद्‌ जलवत्कलीन घटजलवद्‌ ह्रदकालीन घटादिकमेव तादृशविशिष्टद्वयम्।

    तत्रोभयत्र निश्चयत्वानिवेशेऽपि विशिष्टवैशिष्टयबुद्धौ विशेषणांशे संशयास्वीकारेण तादृशविशिष्टद्वयविषयकज्ञाने कालीनत्वांशे संशयात्मकेऽपि जलवत्त्वादिविशिष्टांशे वह्न्यभावादि संशयात्मकत्वांशे वह्न्यभावादि संशयात्मकत्वाभावेन प्रकृतानुमितिप्रतिबन्धकतासत्वात्। तादृशविशिष्टद्वयविषयिताशून्यतवस्योक्तविशिष्टविषयकज्ञाने सत्त्वेन तत्रातिव्याप्त्यापत्तिरत उभयत्र निश्चयत्वनिवेशनम्।

    नन्वत्र? निश्चयत्वनिवेशेऽपि जातिमत्वान् वह्न्यभाववान् जलवान् ह्रद इति निश्चययोर्जलावान् ह्रद इति निश्चययोश्च प्रकृतानुमित्याप्रतिबन्धकतया तादृशविशिशष्टद्वया प्रसिद्विनिबन्धनासाम्भववारणायोभयत्र निश्चयेऽव्यापकविषयिताशून्यत्व निवेशनीयम्।

    तथाच निश्चयत्वनिवेशेऽपि जलवान् वह्न्यभाववान्नवा ह्रदो जलवान्नवेति संशययोर्वह्न्यभाववत् जलत्वावच्छिन्नविषयित्वाव्यापकवह्न्यभावाभावत्वावच्छिन्नविषयतित्वजलवद्‌ ह्रदत्वावच्छिन्नविषयित्वाव्यापकाभावत्वावच्छिन्नविषयित्वाश्रययोर्वारमसम्भवेन तादृशविशिष्टद्वयस्य यादृशशविशिष्टपदेन धर्तुं शक्यतया तत्रातिव्याप्तिविरहेणोभयत्क निश्चयत्वनिवेशवैयर्थ्यमिति चेत्-

    न। अव्यपकविषयिताशून्यत्वनिशेऽपि प्रथमनिश्चयत्वानिवेशे वह्न्यभाववज्जसवत्वावतच्छिन्नविषयित्वाव्यपकविषयिताशून्यस्य जलवान् वह्निमानन्नवेति संशयस्यावारणात्। तादृशसंशयविशिष्टजलवान् ह्रद इति निश्चयस्याप्रतिवन्धकतया यादृशविशिष्टपदेन तादृशविशिष्टद्वयस्यधर्तुंमशक्यतया तत्रातिव्याप्त्यापत्तेः। द्वितीये निश्चयत्वानिवेशे वह्न्यभाववत् तजोभाववद्‌वृत्तितेजोभाववद्‌ह्रदेऽतिव्याप्तिः। वह्न्यभाववान् तेजोभाववानितिनिश्चयविशिष्टस्य ह्रदस्तेजस्वी नवेति संशयस्य तेजोभाववद् ह्रदत्वावच्छिन्न विषयित्वाव्यपक विषयिताशून्यस्यानुमित्यप्रतिबन्धकतया यादृशविशिष्टपदेन तादृशविशिष्टद्वयस्य धर्तुमशत्यत्वात्।

 

 

 

    नच यादृशविशिष्टविषयित्वाव्यापिका यद्रूपावच्छिन्नविषयितानिरूपितद्रूपावच्छिन्नविषयता तद्रूपावच्छिन्नविषयतानिरूपिततद्रूपावच्छिन्नविषयताशून्यत्वमुभयत्र अव्यपकविषयताशून्यत्वमित्यनेन विवक्षणीयम्।

    यथाच जलवान् वह्निमान्नवेत्याकारकसंशये वह्न्यभाववज्जलत्ववच्छिन्नविषयत्वाव्यापिकायाः संयोगत्वावच्छिन्नविषयतचानिरूपितवह्नित्वावच्छिन्नविषयतायास्सत्त्वेन ह्रदस्तेजस्वी नवेति संशयेच तेजोभाववद् ह्रदत्ववाच्छिन्नविषयित्वाव्यपिकायाः संयोगत्वावच्छिन्नविषयतचानिरूपिततेजस्त्वच्छिन्नविषयतायास्स्त्त्वेन चोक्तसंशययोर्वारणात् यादृशपदेन तादृशविशिष्टद्वयस्य धर्तुं शक्यतया तयोरतिव्याप्तिविरहेणोभयत्र निश्चयत्वांशो व्यर्थ इति वाच्यम्।


    ह्रदो भेद इत्यत्र भेदभेदवभावभेदवदवृत्यभावभेवद्‌ह्रदोऽतिव्याप्तेः। उक्ताव्यपकविषयताशून्यत्वविशेषणेनाभावभेदवान् भेदो नवेत्याकारकस्य स्वरूपतो भेदत्वभेदभेदकोटिकसंशयस्यावारणात्तत्र भेदभेदवदभावभेदवत्वाच्छिन्नविषयत्वाव्यापकीभूतायाः कस्या अपि तादृशविषयताया अभावात्।

    एवं ह्रदोऽभावो नवेत्याकारकस्य स्वरूपतोऽभावत्व अभावभेदकोटिकसंशयस्य वारणं न सम्भवति। तत्राभवभेदवद्‌ह्रदत्वावच्छिन्नविषयत्वाव्यापिकायास्तादृशविषयताया असत्त्वात्।

 

 

    तथाचैतादृशैकतरसंशयापरनिश्चययोर्ह्रदो भेद इत्यनुमित्यप्रतिबन्धकत्वेन यादृशविशिष्टपदेन तादृशविशिष्टद्वयस्य धर्तुमशक्यत्वादत उभयत्र निश्चयत्वनिवेश आवश्यकः।

    तथाच यादृशविशिष्टविशषयकत्वाव्यापकविषयताशून्ययादृशविशिष्टविषयकनिश्चयविशिशष्टयादृशविशिश्टविशयकत्वाव्यापकविषयताशून्ययादशविशिष्टविषयकनिश्चयत्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तादृशविशिष्टविषयताविशिष्ट तादृशविशिष्टविषयताशून्य किञ्चिद्रूपावच्छिन्नविषयितवाव्यपाकविषयिताशून्य यद्रूपावच्छिन्नविषयक निश्चयत्वव्यापिका प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबंधकता तद्रूपवत्वं लक्षणम्।

    अत्र स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशे ह्रदो वह्निमान् जलादिच्यादौ वह्निव्यापकीभूताभावतियोगिजलरूपसाधारण्येऽव्यप्तिः। तत्र वह्निव्यापकीभूताभावप्रतियोगिजलमित्याकारकतादृशजलत्वविशिष्टविषयकनिश्चयविशिष्टजलवान् ह्रद इत्याकारकजलत्वविशिष्टविषयकनिश्चयत्वे प्रकृतानुमितिप्रतिबंधकतानिरूपितस्वरूपसंबन्धरूपावच्छेदकत्वास्य सत्‌वात्। वह्निव्यापकीभूताभावप्रतियोगिजलत्वविशिष्टविषयताविशिष्टजलत्वविशेष्टविषयताशून्यज्ञानीयत्वस्य तादृशासाधारण्येऽसत्त्वादतोऽनतिरिक्तवृत्तित्वनिवेशः।


    तथासति वह्निव्यापकीभूताभावप्रतियोगि जलमित्याकारकनिश्चयविशिष्टजसमिति निश्चये प्रतिबन्धकतवासत्त्वेन यादृशविशिष्टपदेन तादृशविशिष्टद्वयं न धर्तुं शक्यत इति नाव्याप्तिः।

    नन्वत्र? अनतिरिक्तवृत्तित्वनिवेशपक्षेऽपि तादृशविशिष्टद्वयेऽव्यपकविषयताशून्यत्वं निवेशनीयम्। अन्यथा तादृशविशिष्टद्वयाप्रसिद्ध्याअसम्भवापत्तेः। एवञ्चसति वह्निव्यकीभूतभावप्रतियोगिजलमित्याकरकनिश्चयविशिष्टस्य जलवान् ह्रद इत्याकारकनिश्चयस्य प्रितबन्धकत्वेऽपि तत्र जलत्वावच्छिन्नविषयत्वाव्यापकविषयताशून्यत्वाभावेन तादृशाव्यापकविषयताशून्यस्य शुद्वजलमित्याकारकनिश्चयस्यसाधारण्यविषयकनिश्चयविशिष्टस्यानुमित्यप्रतिबन्धकतया न तादृशविष्टद्वयमादायाव्याप्तिः।

    नच जलं वह्निमज्जलादित्यत्रासाधारण्येऽव्याप्तिः। तत्र तादृशसाधारण्यविषयकनिश्चयविशिष्टजलं जलवदित्याकारकनिश्चयत्वे प्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकत्वसत्त्वात्। तत्र जलत्वावच्छिन्नविषयत्वाव्यापकविषयताशून्यत्वस्यापि सत्त्वात्। अनतिरिक्त वृत्तित्वनिवेशे च असाधारण्यविषयकनिश्चयविशिष्टजलमिति निश्चये प्रतिबन्धकताविरहान्नदोष इति वाच्यम्।

 

    यद्रूपावच्छिन्नविषयतानिरूपितयद्रूपावच्छिन्नविषयता यादृशविशिष्टविषयित्वाव्यापिका तद्रूपावच्छिन्नविषयतानिरूपिततद्रूपावच्छिन्नवियताशून्ययादृशविशिष्टविषयकनिश्चयविशिष्टयद्रूपावच्छिन्नविषयतानिरूपितयद्रूपावच्छिन्नविषयता यादृशविशिष्टविषयकत्वाव्यापिका तद्रूपावच्छिन्नविषयतानिरूपिततद्रूपावच्छिन्नविषयताशून्ययादृशविशिष्टविषयकनिश्चयत्वमनुमितिप्रतिबन्धकतावच्छेदकं तादृशविशिष्टद्वयाघटितत्व निवेशे नोक्तदोषः। तत्रासाधारण्यनिश्चयविशिष्ट जलं जलवदित्याकारकनिश्चये जलत्वावच्छिन्नविषयत्वाव्यापकूभूतजलतवावच्छिन्नविषयतानिरूपितजलत्वाच्छ्न्नविषयतायास्सत्त्वात्। तच्छून्यजलमित्याकारकनिश्चयस्यानुमित्यप्रतिबन्धकत्वात्।

    नच जलवज्जलं स्वरूपवज्जलवज्जलकालीनवह्रिमत्स्वरूपवज्जलादित्यत्रासाधारण्येऽवव्याप्तिस्तादृशविवक्षायामपि दुर्निवारा।

    अत्र पक्षे जलं स्वरूपसम्बन्धेन प्रिविष्टं स्वरूपवज्जलवज्जलकालीनवह्रिव्यापकीभूताभावप्रतियोगिस्वरूपवज्जलमित्याकारासाधारण्यविषयकनिश्चयविशिष्टस्वरूपवज्जलवज्जलत्वविशिष्टविषयताशालिस्वरूपवज्जलवज्जलमिति निश्चयत्वस्यानुमितिप्रितबनअधकतावच्छेदकतया तादृशसाधारण्यात्मकविशिष्टपवज्जलवज्जलत्वविशिष्टयोर्यादृशविशिष्टपदेन धर्त्तुं शक्यातया तादृशविशिष्टद्वयाघटितत्वस्यासाधरण्येऽभावात्। अनतिरिक्तवृत्तित्वनिवेशेतु तादृशासधारण्यविषयकनिश्चयविशिष्यस्वरूपवज्ज्लवज्जलमित्याकारकनिश्चये तादृशप्रतिबन्धकत्वाभावेनैतादृशविशिष्टद्वयस्य यादृशविशिष्टपदेन धर्तुमशक्यया नाव्याप्तिरिति वाच्यम्।


    स्वरूपसम्बन्धरूपावच्छेदकत्वपक्षेऽपि यादृशविशिष्टविषयित्वाव्यापिका यद्रूपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकविषयतानिरूपितयद्रपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकविषयता तद्रूपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकविषयतानिरूपितद्रूपावच्छिन्नानुयोगिकपर्याप्तिकावच्छेदकताकविषयताशून्यत्वस्य विवक्षणीयतया उक्ताव्याप्तेरभावात्। तत्र तादृशासधारण्यविषयकनिश्चयविशिष्टस्वरूपवज्जलवज्जलवज्जलवमिति निश्चयेऽनुमितिप्रतिबन्धके स्वरूपवज्जलवज्जलत्वावच्छिन्नविषयित्वाव्यापिका या जलवज्जलत्वनिष्ठधीविशिषविषयत्वरूपसमुदायत्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकजलवज्जलत्वावच्छिन्नविशेष्यतानिरूपितस्वरूपवज्जलत्वनिष्ठधीविशेषविषयत्वरूपसमुदायत्वावच्छिन्नानुयोगिकपर्याप्तिकावच्छेदकताकप्रकारतायास्सत्वेन तच्छून्यस्वरूपवज्जलमितत्याकारकनिश्चये प्रतिबन्धकताविरहेम तादृशविशिष्टस्य यादृशविशिष्टपदेन धर्तुमशक्यक्यत्वात्।

 

    यत्तु केनचिदुक्तम्-स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशे नीलोत्पलवान् ह्रदो रक्तदण्डवानित्यत्र वाधेऽव्य्पतिः। समानविषयकप्रत्यसामग्रया अनुमितिप्रतिबन्धकतया नीलोत्पलवान् ह्रदो रक्तदण्डवानिति प्रत्यक्षसामग्रयास्तादृशानुमितिप्रतिबन्धकत्वेन तादृशप्रत्यक्षस्य च ह्रदांशे नीलत्वविशिष्टोत्पलस्य रक्तत्व विशिष्टदण्डस्य च वैशिष्टयावगाहितया तत्सामग्रीकुक्षौ नीलमुत्पलं रक्तदण्ड इत्याकारकनिश्चययोर्विशेषणतावच्छेदकप्रकारकनिश्चयमुद्रया प्रवेशात्सामग्रया अप्येकविशिष्टापरत्वेनैव प्रतिबन्धकत्वस्य वक्तव्यतया नीलोत्पलत्वविशिष्टयकनिश्चयविशिष्टरक्तदण्डत्वविशिष्टविषयकनिश्चयत्वस्य तादृशशानुमितिप्रतिबन्धकतावच्छेदकतया तादृशविशिष्टद्वयाघटितत्वस्योक्तबाधेऽसत्त्वात। अनतिरिक्तवृत्तित्वनिवेशे चक्षुस्संयोगाकालीनतादृशनिश्चययोः प्रतिबन्धकत्वाभावेन तादृशविशिष्टयोः यादृशविशिष्टपदेन धतुर्मशक्यत्वान्न दोष इति।

    तदसत्। सामग्रीनिष्ठतादृशानुमितिप्रतिबन्धकतावच्छेदककुक्षौ तादृशनिश्चयद्वयस्यानिवेशेन तादृशनिश्चयत्वे प्रतिबन्धकतावच्छेदकत्वाभावात्।


    नच सामग्रीमतिबनधकतायां तादृशनिश्चयानिवेशे तादृशनिश्चयाभावदशायामपरप्रत्यत्यक्षकारणसत्त्वेऽनुमितिर्नस्यादिति वाच्यम्।

 

    तादृशानुमितिं प्रत्यपि विशेषणतावतच्छेदकप्रकारकनिर्णयविधयातादृशनिश्चययोरपि कारणत्वेन तदभावे तदनुत्पादस्येष्टत्वात्।

    यत्तु केनचिदुक्तम्-चिकीर्षासामग्रया अनुमितिप्रतिबन्धकतामते ह्रदः कृकतिसाध्यतावदिष्टसाधनतावत्पाककालीनवह्रिमान् धूमानदित्यत्र बाधेऽव्याप्तेःष तत्र तादृशसाध्यतावत्पाकेष्टसाधनतावत्पाकविषयकनिश्चययोः प्रवेशेन तादृशविशिष्टद्वयाघटितत्वस्य तत्रत्यबाधेऽभावात्। अनतिरिक्तवृत्तित्वनिवेशे फलेच्छाऽकालीनतादृशनिश्चययोः प्रतिबन्धकताविरहेण न दोष इति।

    तदपि न। प्रागुक्तरीत्यैव तादृशानुमितिप्रतिबन्धकतावच्छेदककुक्षौ तादृशनिश्चययोरप्रवेशादिति चेत्-

    न। ह्रदो वह्रिमानिष्टसाधनतात्कुतिसाध्यतावत्पाककालीनजलादित्यत्रासाधारण्येऽव्यापत्तेः। तादृशस्थलीयानुमितिनिरूपितचिकीर्षासामग्रीनिष्ठप्रतिबन्धकतावच्छेदककुक्षौ तादृशनिश्चययोरप्यवश्यं निवेशनीयत्वात्।

    अन्यथा तादृशनिश्चयाभावकाले फलेच्छादिसत्त्वे लिङ्गान्तपरामर्शादपि तादृशानुमित्यानापत्तेः। तथाच कृतिसाध्यतावत्पाकस्य इष्टसाधनतावत्पाकस्य च यादृशविशिंष्टपदेन धर्तुं शक्यतया तदघटितत्वस्योक्तहेतुतावच्छेदकावतच्छिन्नहेतुघटितासाघधारण्येऽसत्वात्। अनतिरिक्तवृत्तित्वनिवेशे तु फलेच्छाऽकालीनतादृशविशिष्टविषयकनिश्चययोः प्रतिबन्धकत्वाभावेन यादृशविशिष्टपदेन तद्वारणसम्भावान्नाव्याप्तिरिति।


    यादृशविशिष्टविषयित्वाव्यापकविषयताशून्ययादृशविशिष्टविषयताशालिनिश्चयविशिष्टतादृशविशिष्टयकनिश्चयत्वमनुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तादृशविशिष्टद्वयविषयताशून्याव्यापकविषयताशून्ययद्रूपावच्छिन्नविषयताशालिनिश्चयत्वाव्यापिका प्रकुकानुमितिप्रतिबन्धकता तद्रूपावच्छिन्नत्वं लक्षणम्।

    अत्र यत्किञ्चित्‌प्रतिबन्धकतानतिरिक्तवृत्तित्वनिवेशे ह्रदो गगनाभाववद्‌वह्रयधिकरणनिरूपितत्ववत्कालीनवह्रिमान् जलादित्यत्र गगनाभावद्वह्रयधिकरणिनिरूपतत्ववत्कालीनवह्रिव्यापकीभूताभावप्रितियोगिजलरूपासधारण्येऽव्याप्तिः। तत्र व्यपकताशरीरे वृत्तित्वांशे वह्रयधिकरणनिरूपितत्वस्य प्रविष्टतया तादृशासाधारण्यस्य गगनाभाववद्‌वह्रयधिकरणनिरूपितत्ववद्‌वह्रयधिकरणनिरूपितत्ववद्‌वृत्तितात्वविशिष्टात्मकविशिष्टद्वयघटिततया वह्रयधिकरणनिरूपितत्ववान् गगनाभाववानितिनिश्चयविशिष्टवह्रयधिकरणनिरूपितत्ववद्‌वृत्तित्वमिति निश्चयतवस्यवृत्तित्वं गगनवदित्यनुमितित्वव्यापकप्रतिबन्ध्यतानिरूपितप्रतिबन्धकतानतिरिक्तवृत्तितया तदघटितत्वस्य तत्राभावात्। अतः प्रकृतानुमितित्वव्यापकप्रतिबन्ध्यतानिरूपितप्रतिबन्धकतानतिरिक्तवृत्तित्वमेव तद्‌घटकं वाच्यम्।

    नन्वेवमपि, गगनवानभावो गगनाभाववद्‌वह्रयधिकरणनिरूपितवृत्तित्ववत्कालीनवह्रिमान् जलादित्यत्रासधारण्येऽव्याप्तिः। वह्रयधिकरणनिरूपितवृत्तित्ववान् गगनाभाववान्वह्रयधिकरणनिरूपितवृत्तित्ववानभाव इति निश्चयविशिष्टनिश्चयत्वस्य प्रकृतानुमितित्वव्यपकाभावत्वावच्छिन्नविशेष्यकगगनत्वावच्छिन्नप्रकारशालिबुद्वित्वावच्छिन्नप्रतिबन्धयतानिरूपितप्रतिबन्धकतानतिरिक्तवृत्तितया तादृशविशिष्टद्वयाघटितत्वस्य तादृशासाधारण्येऽभावात्। ्साधारण्यघटकव्यकताघटकाभावे व्ह्रयधिकरणनिरूपितवृत्तित्वस्य प्रविष्टत्वादिति चेत्-

    न। विशेष्यदळे यादृशप्रतिबन्धकता प्रविष्टा, तादशप्रतिबन्धकताया एव प्रवेशनीयत्वात्।

    तथाच किञ्चिद्रूपावच्छिन्नविषयकत्वाव्यपकविषयताशून्ययद्रूपावच्छिन्न विषयताशालि निश्चयत्वव्यापिका प्रकृतानुमितित्वव्यपकप्रतिबध्यतानिरूपितयत्प्रतिबन्धकता तत्प्रतिबन्धकतानतिरिक्तवृत्ति यादृशविशिष्टविषयकनिश्चयविशिष्टयादृशविशिष्टविषयकनिश्चयत्वं तादृशविशिष्टद्वयविषयताशून्यज्ञानविषयताद्रूपावच्छिन्नत्वं लक्षणम्। पक्षधर्मिकहेतुमत्ताज्ञानकालोनासाधारण्यविषयकनिश्चयतवव्यापिका प्रकृतानुमितित्वव्यपकपक्षविशिष्यकविशिष्टसाध्यप्रकारकबुद्वित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकता, प्रकृतासाधारण्यघटकविशिष्टद्वयविषयक निश्चयतवव्यापिका तु पक्षे पक्षतावच्छेदकावगाहिबुद्वित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतेति तत्राव्याप्तिविरहात्।

    नचैवं सति बाधदावव्याप्तिः बाधनिश्चयत्वावतच्छिन्नप्रतिबन्धकताया ज्ञानवैशिष्टयानवच्छिन्नतया अवच्छेदकधर्मदर्शनप्रतिबन्धकतातो भिन्नतया यादृशविशिष्टविषयकनिश्चयविशिष्ट यादृशविशिष्टविषयकनिश्चयत्वं बाधनिश्चयप्रतिबन्धकतानरतिरिक्तवृत्ति तादृशविशिष्टद्वया प्रसिद्वेरिति वाच्यम्।


    वक्ष्यमाणानुगमेन सर्वदीषसङ्‌ग्रहात्। तत्प्रकारश्च प्रकुतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टरूपवत्वम्।

 

    प्रतिबन्धकतावैशिष्टयं च आधेयत्वस्वविशिष्टप्रतीतिविषयतावच्छेदकतवोभयसम्बन्धेन। आधेतया च स्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन। सवाधिकरणत्वं स्वविशिष्टनिश्चयतवसम्बन्धेन निश्चये स्वविशिष्टयं स्वावच्छिन्नविषयतानिरूपकत्वा स्वविशिष्टधर्मावच्छिन्नविषयतानिरूपकत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिकाकभेदवत्त्वोभयसम्बन्धेन। धर्मे स्ववैशिष्टयं स्वावच्छिन्नविषयतासमानाधिकरणात्यन्ताभावीय प्रतियोगितावृत्तित्वसम्बन्धेन। वृत्तित्वं च सवावतच्छिन्नतवसम्बन्धावच्छिन्नम्। प्रतीतौ स्ववैशिष्टयं स्वनिष्ठप्रतियोगिताकात्यान्ताभाववत्वसम्बन्धेन। प्रतियोगिता च स्वविशिष्टावच्छेदकताविशिष्चनिश्चयत्वासम्बन्धावच्छिना। निश्चये स्ववैशिष्टयं स्वावच्छेदकविषयतानिरूपकतावच्छेदकधर्मवैशिष्टयं स्वावच्छिन्नविषयतानिरूपकत्व सवविशिष्टधर्मावच्छिन्नविषयतानिरूपकत्व सम्बन्धावज्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्तवोभयम्बन्धेन। धर्मेस्ववैशिष्टयं स्वावच्छिन्नविषयतासमानाधिकरणाभावप्रतियोगितावृत्तित्वसम्बन्धेन। वृत्तित्वं स्वावच्छिन्नत्वसम्बन्धावच्छिन्नम्। द्वितीयसम्बन्धघटकनिश्चये स्ववैशिष्टयं सवविशिष्टधर्मविशिष्टत्वसम्बन्धेन धर्मेस्ववैशिष्टयम्। स्वावच्छेदकतावच्छेदकविषयतितानिरूपकतावच्छेदकत्वसम्बन्धेन। धर्मवैशिष्टयं स्वावच्छिन्नविषयतानिरूपकत्वस्वविशिष्टधर्मावच्छिन्नविषयतानिरूपकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतितयोगिकाकभेदवत्त्वोभयसम्बन्धेन। धर्मे स्ववैशिष्टयं स्वावच्छिन्नविषयतासमानाधिकरणाभावप्रतियोगितावृत्तित्वसम्बन्धेन। वृत्तित्वं च स्वावच्छिन्नत्वसम्बन्धावच्छिन्नम्। अवच्छेदकतावैशिष्टयं च प्रतीतौ स्वविशिष्टविषयतानिरूपकत्वसम्बन्धेन। विषयतायां स्ववैशिष्टयं स्वावच्छेदकतावच्छेदकविषयितानिरूपकतावच्छेदकधर्मावच्छिन्नत्वविशिष्टस्वावच्छेदकविषयितानिरूपकतावच्छेदकधर्मावच्छिन्नत्वसम्बन्धेनेति। स्वविशिष्टावच्छेदकताविशिष्टत्वरूपाभावीयप्रतियोगितावच्छेदकसम्बन्धघटकावच्छेदकतानिश्चयविशिष्टनिश्चयवान्नेति भेदप्रतियोगित्वीया ग्रह्य।
    तथा च स्वविशिष्टावच्छेदकताविशिष्टत्वं ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकताया एव सामानाधिकरणसम्बन्धः। नत्वतादृशबाधादिप्रतिबन्धकताया इति न महाविशिष्टेऽतिव्याप्तिः। नवा बाधादावसम्भवः। एतादृशशपरम्परायाः सम्बन्धत्वानङ्गीकारे प्रकारमुद्रयाऽनुमोऽपि सुलभः।

    तत्प्रकारश्च-प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टरूपवत्त्वम्। रूपे प्रतिबन्धकतावैशिष्टयं च स्वनिष्ठकिञ्चिद्रूपावच्छिन्नविषयत्वाव्यापकविषयताशून्यकिञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावनिरूपितावच्छेदकतवनिष्ठप्रतियोगितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकतानिूपितविषयतानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेकत्व, स्वाभाववत्‌प्रतीतिविषयतावच्छेदकत्वोबयसम्बन्धेन। अभावप्रतियोगितावच्छेजकसम्बन्धश्च स्वनिष्ठोयः किञ्चिद्रूपावच्छिन्नविषयत्वाव्यपकविषयताशून्यकिञ्चिद्रूपावच्छिन्नाविषयताशालिनिश्चविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वोऽभावः तन्नरूपितावच्छेदकत्वनिष्ठप्रतियोगितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपित निश्चयनिष्ठावच्छेदकताविशिष्चविषयतानिरूपकत्वरूपः। विषयतायामवच्छेदकतावैशिष्टयं च स्वविशिष्टरूपावच्छिन्नत्व, स्वविशिष्चरूपावच्छिन्नविषयतासामानाधिकरण्योभयसम्बन्धेन।

    प्रथमसम्बन्धघटकरूपे स्ववैशिष्टयं च स्वनिरूपितविषयतानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसंबन्धावच्छिन्वाच्छेदकतावत्त्व, स्वनिरूपितशून्यत्व निष्ठावच्छेदकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितप्रतियोगित्वनिष्ठावच्छेकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपित अधिकरणनिष्ठावच्छेदकतानिरूपितविषयितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावत्त्वोभयसम्बन्धेन।


    द्वितीयरूपे स्ववैशिष्टयं च स्वनिरूपितसामानाधिकरण्यसम्बन्धावच्छिन्ननिश्चयनिष्ठावच्छेदकतावत्त्वसम्बन्धेन। तादृशावच्छेदकतावत्त्वं च पूर्वोक्तोभयसम्बन्धेन।

    तथाच प्रतिबन्धकतानिष्ठातादृशाभावीयप्रतियोगितानिरूपितावच्छेदकतानिरूपितावच्छेदकतानिरूपितावच्छेदकताविशिष्टविषयिता च ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकताया एव सम्बन्धस्तादृशप्रतिबन्धकतायामेवोक्ताभावस्य सत्त्वात्। तादृशसम्बन्धेन वह्रयभाववद्दलवद्‌ह्रदविषयकनिश्चये तादृशनिश्चयनिष्ठज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतायास्स्त्त्वन तदभाववती प्रतीतिस्तादृशविशिष्टाविषयिकैव तन्निष्ठविषयितानिरूपकतावच्छेदकत्वस्योक्करूपेऽभावेन नातिव्याप्तिः। बाधप्रतिबन्धकतायास्तादृशसम्बन्धस्य व्यधिकरणसम्बन्धतया तेन संबन्धेन तदभाववान् बाधविषयकनिश्चय इति तन्निष्ठविषयितानिरूपकतावच्छेदकत्वस्य बाधतावच्छेकरूपे सत्त्वेन प्रागुक्तप्रथमसम्बन्धस्य च सत्त्वेन लक्षणसमन्वयः।
    अथैवमपि बाधाद्यसङ्‌ग्रहः। बाधबुद्वित्वावच्छिन्नप्रतिबन्धकतायामपि वह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयित्वाव्यापकीभूतविषयताशून्यवह्रयभाववद्‌ह्रदतवावच्छिन्नविषयताशालिनिश्चयविशिष्टवह्रयभाववद्ह्रदत्वावच्छिन्नविषयत्वाव्यापकीभूतविषयताशून्यवह्रयभाववद्‌ह्रदतवावच्छिन्नविषयताशालिनिश्चयनिष्ठभेद्रप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावस्य सत्त्वेन तन्निरूपितप्रतियोगितया परम्परया निरूपितनिश्चयनिश्ठावच्छेदकताविशिष्टविषयिताया बाधविषयज्ञानेऽपि सत्त्वेन तादृशसम्बन्धेनतदबाववती प्रतीतिर्बाधावियकैवेति वह्रयभाववद्ह्रदत्वे तन्निष्ठविषयितानिरूपकतावच्छेदकत्वाभावादिति चेत्-

    न। द्वितीयसम्बन्धघटकस्वाभावस स्वविशिष्टावच्छेदकताविशिष्टविषयतिसाम्बन्धावच्छिन्नप्रियोगदिताकस्य विवक्षणात्। अवच्छेदकतायां स्ववैशिष्टयं च स्वनिशष्ठकिञ्चिद्रूपावच्छिन्नविषयत्वाव्यापकविषयताशून्यकिञ्चिद्रूपाविच्छिन्नविच्छिन्नविषयतिताशालिनिश्चयविशिष्टकिञ्चद्रूपावच्छिन्नविषयत्वाव्यापकविषयताशून्यकिञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चियनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीत प्रतीतासिद्वाभावनिरूपितावच्छेदकत्वनिष्ठप्रतियोगितानिरूपितप्रचतियोदित्वानिष्ठावच्छेदकतानिरूपितवच्छेदकतानिरूपितप्रतियोगित्वानिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदतानिरूपित्व, स्वातरिपक्तवृत्तिविषयितानिरूपकनिरूपकत्वसम्बन्धावच्छेदकतासमानाधिकरणावच्छिन्नत्वसंबंधावच्छिन्नावच्छेदकतानिरूपकनिरूपकत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपकत्व,स्वातिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकतासमानधिकरणावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपकनिरूपकता सम्बन्धावच्छिन्नविषयितानिष्ठावच्छेदकतानिरूपकसामानाझिकरण्यसम्बन्धावच्छिन्ननिश्चय नष्ठावच्छेदकतानिरूपकत्वैतत्-त्रितयसम्बन्धेन। शेषंपूर्ववदेव। तथाचबाधप्रतिबन्धकतायां वह्रयभाववद्‌ह्रदत्वाच्छिन्नविषयिताशालिनिश्चयेविशिष्टवह्रयभाववद्‌ह्रदत्वावच्छिन्विषयिताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वंनास्तीति प्रतीतिसिद्वाभावस्य सत्त्वेऽपि तादृशाभावीयप्रतियोगितानिरूपितनिश्चयनिश्चयानिष्ठावच्छेदकता च न तादृशसम्बन्धत्रयेण प्रतिबन्धकता विशिष्टा। तत्र प्रथमसम्बन्धसत्त्वेऽप्यन्यसम्बन्धयोरभावात् तादृशावच्छेदकतानिरूपितविषयितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्चिन्नावच्छेदकत्वस्य वह्रयभाववद्‌ह्रदत्बनिष्ठस्य तादृशप्रतिबंधकतातिरिक्तवृत्तिविषयतितानिरूपकतावच्छेदकतासमानाधिकरणत्वभावात्। एवमेव सम्बनअधान्तरेऽपि ज्ञेयम्

    तथाच अवच्छेदकधर्मदर्शननिष्ठप्रतिबन्धकतावृत्तिर्यो निरूक्ताभावः तन्निरूपितप्रतियोगितानिरूपितनिश्चयनिष्ठावच्छेदकतायामेव तादृशप्रतिबन्धकतावैशिष्टयमस्ति। तत्रतादृशपरतिबन्धकताशून्यजलवान् ह्रद इति निश्चयनिष्ठविषयितानिरूपकतावच्छेदकतासमानाधिकरणजलवद्‌ह्रदत्वनिष्ठावच्छित्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपकतानिरूपकविषयितानिष्ठावच्छेदकतानिरूपककत्वस्य तादृशावच्छेदकतासमानाधिकरणावह्रभाववज्जलवज्जलवत्त्वनिष्ठावच्छेदकतानिरूपकविषयितानिष्ठावच्छेदकतानिरूपपकतॉनिश्चयनिष्ठावच्छेदकतानिरूपकत्वस्य प्रथमसम्बन्धस्य च सत्त्वात् तादृशावच्छेदकताविशिष्टविषयिता च बाधप्रतिबन्धकताया व्यधिकरणसम्बन्ध एवेति नोक्तदोषः।

    वस्तुतस्तु-रूपे प्रतिबन्धकतातिरिक्तवृत्तिविषयितानिरूपकतावच्छेदत्वमुपेक्ष्य परस्पराघटित्वघटनया परिष्कारस्य किञ्चिद्रूपावच्छिन्नविषयित्वाव्यापकविषयिताशून्यकिञ्चिद्रूपावच्छिन्नविषयिताशून्यकिञ्चिद्रूपावच्छिन्नविषयिताशालिनिश्चयविशिष्टतादृशकिञ्चिद्रूपावच्छिन्नविषयिताशालिनिश्चयत्वे प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतानतिरिक्तवृत्तित्वघटितस्यादरणीयतया संसर्गविधया प्रागुक्तानुगमशरीरे स्विविशिष्टनिश्चयविशिष्टत्वसम्बन्धघटकनिश्चये स्ववैशिष्टयं स्वविशिष्टधर्मविशिष्टत्वोभयसम्बन्धेन। धर्मवैशिष्टयं स्वविशिष्टप्रतीतिविषयितावच्छेदकत्व आधेयत्वोभ.सम्बन्धेन। आधेयता च स्वविशिष्टप्रतीतिविषयितावच्छेदकत्वसम्बन्धावच्छिन्ना। उभयत्र प्रतीतौ स्ववैशिष्टयं स्वावच्छिन्नविषयतानिरूपकत्वसम्बन्बावच्छिन्नस्वनिष्ठाच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन विवक्षणीयम्।

    शेषं पूर्ववदेव नातो यद्रूपपदाभ्यां वह्रयभाववद्‌ह्रदत्वमुपादायप्रागुक्तप्रणाल्या वह्रयभाववद्‌ह्रदादेरसङ्‌ग्रहः। परम्परायास्सम्बन्धत्वानङ्गीकारे प्रकारमुद्रयानुगमसरणिरनुसरणोया।

    तत्प्रकारश्च-प्रागुक्तप्रकारविधयानुगमे द्वितीयसम्बनधघट
कसवाभावप्रतियोगितावच्छेगकसम्बन्धः स्वनिष्ठो यः किञ्चिद्रूपावच्छिन्नविषयित्वाव्यपकविषयताशून्यकिञ्चिद्रूपावच्छिन्नविषयताशून्याकिञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयविशिष्टकिञ्चिद्रूपावच्छिन्नविषयतात्वाव्यपकविषयताशून्यकिञ्चिद्रूपावच्छिन्नविषयिताशून्यकिञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयनिष्टभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतितीसिद्वाभावः। तन्निरूपितावच्छेदकत्वनिष्ठप्रतियोगितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितनिश्चय निष्ठावच्छेदकताविशिष्टविषयितैव विषयितायामवच्छेदकतावैशिष्टयं च स्वविशिष्टरूपावच्छिन्नत्वस्वविशिष्टरूपावच्छिन्नत्वस्वविशिष्टरूपावच्छिन्नविषयतितासामानाधिकरण्योभयसम्बन्धेन।

    प्रथमरूपे स्ववैशिष्टयं ट स्वनिरूपितविषयितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावत्त्वस्वनिरूपितशून्यत्वनिष्टावच्छेदकतानिरूपितविषयित्वानिष्टावच्छेकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितप्रतियोगित्वनिष्ठवाच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितावच्छेन्नत्वसम्बन्धावच्छिन्नवावच्छेदकताकत्व, स्वनिरूपितसामानाधिकरण्यसम्बन्धावच्छिन्ननिश्चयनिष्ठावच्छेदकतानिरूपीतशून्यत्वनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठवाच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावत्त्वैतत्‌त्रितयसम्बन्धेन।

    द्वीतीयरूपे स्ववैशिष्टयं च स्वनिरूपितशून्यत्वनिष्ठावतच्छेदकतानिरूपितविषयत्वनिष्ठावच्छदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावत्त्व, स्वनिरूपितसामानाधिकरण्यसम्बन्धावच्छिन्ननिश्चयनिष्ठावच्छेदकतावत्त्वोभयसम्बन्धेन। तादृशावच्छेदकतावत्त्वं च स्वनिरूपितविषयत्वनिष्ठावच्छेदकतानिरूपितावच्छिन्नात्वसम्बन्धावच्छिन्नावच्छेदकतावत्त्व, स्वनिरूपितशून्यत्वनिष्ठावच्छेदकतानिरूपितविषयत्वनिष्ठावच्छेदकतानिरूपतावच्छेदकत्वनिष्टावच्छेदकतानिरूपितप्रतियोगित्वनिष्टावच्छेददकतानिरूपितभेददनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपिताझिकरणनिष्ठवाच्छेदकतानिरूपितवषयित्वनिष्ठावच्छेदकतानिरूपितावच्छेन्नवत्वसम्बन्धावच्छिन्नावच्छेदकतावच्च्वोभयसमबन्धेन।

    एवं च बाधप्रतिबन्धकतायां वह्रयभाववद्ह्रदत्वावच्छिन्नविषयत्वाव्यपकविषयताशबन्यवह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयताशून्यवह्रयङाववद्ह्रदत्वावच्छिन्नविषयताशालिनिश्चयविशिष्टतादृशनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावो नास्त्येव।

    तादृशनिश्चयस्यैवासिद्वात्वात्। वह्रयभाववद्‌जलवद्‌वृत्तिजलवद्‌ह्रदादिविषयतकनिश्चयनिष्ठज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतायां वह्रयभाववद्‌दजलत्वावच्छिन्नविषयत्वाव्यापकविषयताशून्यजलवद्‌ह्रदत्वावच्छिन्नविषयताशून्यवग्रयभाववज्ज्लत्वावच्न्निविषयताशालिनिश्चयविशिष्टजलवद्‌ह्रदत्वावच्छिन्नविषयत्वाव्यपकविषयिताशून्यवह्रयभाववज्जलत्वाच्छिन्नविषयिताशून्यजलवद्ह्रदत्वावच्छिन्नविषयिताशालिनिश्चयनिष्ठभेदप्रतियोगितया परम्परया निरूपितनिश्चयनिष्ठावच्छेदकताविशिष्टरूपं उक्तसम्बन्धत्रयेण जलवद्‌ह्रदत्वं वह्रयभाववज्ज्लवत्त्वं चेति। तादृशैकरूपावच्छिन्नविषयतासमानाझिकरणापररूपावच्छिन्नविषयतायास्तादृशविशिष्टविषयकनिश्चऽयेसत्त्वेन नाव्याप्त्यतिव्याप्ती।


    एवं स्वरूपसम्बनअधरूपावच्छेदकत्वपक्षेऽप्यनुगमः शक्यः। प्रकृतानुमितित्वव्यपकप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टरूपवत्त्वं लक्षणम्।


    प्रतिबन्धकतावैशिष्टयं च प्रागुक्तोभयसम्बन्धेन। द्वितीयसम्बन्धघटकाभावप्रतियोगितावच्छेदकसम्बन्धश्च स्ववृत्तिकिञ्चिद्रूपावच्छिन्नविषयिताविशिष्टकञ्चिद्रूबपावच्छिन्नविषयितात्वावच्छिन्ननिरूपकतानिरूपिताधिकरणतावत्वरूपः। तादृशनिकूपकतायाः स्ववृत्तित्वं च सवविशिष्टनिश्चयीयविषयतानिष्ठस्वरूपसम्बन्धरूपावच्छेदकतानिरूपकत्वसम्बन्धेन। निश्चये निरूपकतावैशिष्टयं च स्वनिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेगकतावद्वर्मवतत्वस्वनिरूपितसामानाधिकरण्यसम्बन्धावच्छिन्नवि।यितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावद्‌धर्मावच्छिन्नविषयिताशून्यत्वस्वविशिष्टनिश्चयसामानाझिकरण्यैतत्‌-त्रितयसम्बन्धेन।

 

 

    एतत्‌ सम्बन्धघचकनिश्चये स्ववैशिष्टयं च स्वनिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावद्वर्मावच्छिन्नविषयिताशून्यत्वस्वनिरूपितसामानाधिकरण्यसंबन्धावच्छिन्नविषयतानिष्ठावच्छेदकतानिरूपितावच्छेन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावद्वर्मवत्त्वोभयसम्बन्धेन। निश्चयद्वयेधर्मवत्त्वं च सवावच्छिन्नविषयितावत्त्वस्वावच्छिन्नविषयित्वाझिकरणवृत्तिकिञ्चिद्रूपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकविषयतानिरूपितकिञ्चिद्रूपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेनदकताकविषयता नास्तीति प्रतीतिसिद्वाभावप्रतियोदगिविषयताशून्यत्वोभयसम्बन्धेनेति।

 

 


    यदि वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदत्वानङ्गीकारेण तादृशसम्बन्धावच्छेन्नप्रतियोगिताकप्रतिबन्धकत्वाभावाप्रसिद्वया उक्तानुगमद्वयमपि न सम्भवतीति विभाव्यते, तदा स्वनिष्ठनिरूपक्ताभावप्रतियोगितया परम्परया निरूपितनिश्चयनिष्
ावच्छेकताविशिष्टविषयतानिष्ठप्रकारतानिरूपितविशेष्यत्वस्य प्रमीयविशेष्यत्वीयस्वरूपसबन्धेन योऽभावः तद्वत्प्रतीतिविषयितानिरूपकतावच्छेदकत्वं अनतिरिक्तवृत्तित्वकल्पे द्वितीयसंबन्धः। द्वितीयकल्पे स्वृवत्तिकिञ्चिद्रूपावच्छिन्नविषयिताविशिष्टकिञ्चिद्रपावच्छिन्नविषयिताविशिष्टकिञ्चिद्रूपावच्छिन्नविषयतात्वावच्छन्नविरूपकतानिकूपिताझितकणतानिष्ठप्रकारतानिरूपितविशेष्यतायः यः प्रमीयविशेष्यत्वीयस्वरूपसंबन्धेनाभावस्तद्वत्प्रतीतिविषयतानिरूपकतावच्छेदकत्वं द्वितीयसंबन्ध इति बोध्यम्।

    तथाच ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतावृत्तिनिरूपक्ताभावीयप्रतियोगितया परम्परया निरूपित निश्चयनिष्ठावच्छेदकताविशिष्टविषयता प्रकारकतादृशविशिष्टविषयकनिश्चयविशेष्यकबुद्वेः प्रमात्वेन तादृशप्रकारतानिरूपितविशेष्यतायाः प्रमीयविशेष्यत्वीयस्वरूपसंबन्धेन तादृशविशिष्टनिश्चये सत्वेन तदभाववती प्रतीतिस्तादृशविशिष्टाविषयकैवेति ि तत्रातिव्याप्तिः। बाधप्रतिबन्धकतानिष्ठातादृशभावाप्रसिद्वावपि तादृशप्रतिबन्धकतावृत्तित्वेन तादृशाभावावगाहितन्नितादृशाभावप्रतियोगितया परम्परया निरूपितनिश्चयनिष्ठावच्छेदकताविशिष्टविषयितावद्‌वह्रयभाववद्‌ह्रदविषयकज्ञानमिति भ्रमसम्भवात्त्ादृशभ्रमीयतादृशविषयताप्रकारतानिरूपितविशेष्यतायः प्रमीयविशेष्यताप्रतियोगिक स्वरूपात्मकव्यधिकरणसम्बन्धेन दोषज्ञानेऽसत्त्वन लक्षणसमन्वयः।

    यदि विशेषरूपेण स्वरूपादीनां सम्बन्धत्वं न स्वीकियते, तदोक्तपरकारेणानुगामासम्भवेऽपि प्रकॉतानुमितित्वव्यपकप्रतिबध्यताविशिष्टरूपवत्त्वं लक्षणम्। प्रतिबध्यतावैशिष्टयं च स्वनिरूपितप्रतिबन्धकतावृत्तिकिञ्चिद्रूपावच्छिन्नविषयित्वाव्यापकविषयिताशन्यकिञ्चिद्रूपावच्छिन्नविषयित्वाव्यपकविषयिताशून्यकिञ्चिद्रूपावच्छिन्नविष्ठभेदप्रतियोगितावच्छेकत्वं नास्तीति प्रतीतिसिद्वाभावप्रतियोगितनिरूपितप्रतिबन्धकतावृ्तिकिञ्चिद्रूपावच्छिन्नविषयित्वावय्पकविषयताशून्यकिञ्चिद्रूपावच्छिन्नविषयताशून्यकि्चिद्रूपावच्छिन्नविषयताशालिनिश्चयविशिष्टतादृशनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावप्रतियोदितया परम्परया निरूपितनिश्चयनिष्ठावच्छेकताविशिष्टविषयता नास्तीति प्रतीतिसिद्वाभाववत्प्रतीतिविषयितानिरूपकतावच्छेदकत्वोभयसम्बन्ेन।

 


    इदानीं बाधनिश्चयत्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकधर्मावच्छिन्नप्रतिबध्यतानिरूपितज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतामादाय द्वितीयसम्बन्धोऽपि दोषचावच्चेदकरूपेऽस्तीति व्यधिकरणसम्बन्धावच्छिन्नाभावो न वक्तव्यः। असङ्‌ग्राह्यविशिष्टविषयकनिश्चये ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतावृत्तितादृशाभावप्रितियोदितानिरूपितपरम्परावच्छेदकताविशिष्टयतासामान्याभावस्याभावेन नातिव्याप्तिः।

    एवं स्वरूपसम्बन्धरूपावच्छेदकत्वपक्षेऽपि तादृशाप्रतिबध्यताविशिष्चरूपवत्त्वमेव लक्षणम्। वैशिष्टयघटतप्रथमसम्बन्धः प्रागुक्त एव।

    द्वितीयसम्बन्धश्च स्वावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबनधकतावृत्तिकिञ्चिद्रूपावच्छिन्नविषयताविशिष्टकिञ्चिद्रूपावच्छिन्नविषयतात्वावच्छिन्नप्रतियोदिताकाभाववत्प्रतीतिविषयितानिरूपकतावच्छेदकत्वरूपः। अभावस्य प्रतिबन्धकतावृत्तित्वं च स्वप्रतियोगिताविशिष्टनिश्चयीयविषयत्वावच्छेन्नत्वसम्बन्धेन। प्रतियोगितावैशिष्टयं च प्रागुक्तस्वरूपसम्बनअधरूपावच्छेदकत्वपक्षानुगमे निरूपकतावैशिष्टयनियामकसम्बन्धेनेति न काचिदनुपपत्तिः।

    अत्र चिकीर्षासामग्रया अनुमितिप्रतिबन्धकतामते ह्रदो वह्रिमान् कृतिसाझ्यतावदिष्टसाधनतावत्पाककालीनजलादित्यत्रासाधारण्येऽव्याप्तिः। तत्रासाधारण्यज्ञानचिकीर्षासामाग्रयोरे कधर्मावच्चिनं प्रत्येव प्रतिबन्धकत्वात्।

    अतस्तद्वारणायानतिरिक्तवृत्तिरूपावच्छेदकताया विशेषमदले प्रवेश इति।

    नन्वेवं सति? प्रतियोगित्वं वह्रिमत्‌वह्रयभाववद्‌वह्रयधिकरणनिष्ठाभावनिरूपितत्ववत्कालीनजलादित्यत्र वह्रिव्यापकीभूताभावप्रतियोगिवह्रयभाववद्‌यझिकरणनिष्ठाभावनिरूपित्ववत्कालीनजलरूपासाधरण्येऽव्याप्तिः। प्रतियोगितात्वविशिष्टे वह्रिवैशिष्टयावगाहिबुद्वित्वावच्छिन्नं प्रति पक्षे हेतुमत्ताज्ञानकालीनासाधारणनिष्ठाभावनिरूपितत्तववद्‌वह्रयभाववद्‌वह्रयधिकरणनिष्ठाभावनिरूपितत्ववत्प्रतियोगित्वमिति निश्चयविशिष्टनिश्चयस्य प्रतिबन्धकतया तादृश साधारण्यनिश्चयत्वच्छिन्नप्रतिबन्धकतायाः प्रथमसंबन्धस्यासाधारण्यतावच्छेदकरूपे सत्त्वेऽपि द्वितीय सम्बन्धो नास्त्येव। तादृशप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्चेदकपक्षे साध्यवैशिष्टयावगाबित्वघटितधर्मावच्छिन्नप्रतिबध्यतानिरूपिता या उक्तावच्छेदकधर्मदर्शन प्रतिबन्धकतातद्‌वृत्तिनिरूक्ताभावीयप्रतियोगितानिरूपितनिश्चयनिष्ठावच्छेदकताविशिष्टोक्तैकविष्टविषयताविशिष्टापरविशिष्टविषयतायास्तादृशासाधारण्यविषयकनिश्चये सत्त्वादिति चेत्-

    न। असाधारण्यविषयकनिश्चयस्य सामानाधिकरण्येनानुमितिं प्रत्यवच्छेदकावच्छेदेनानुमितिं प्रत्यपि प्रतिबन्धकत्वपक्षे हेतुमत्ताज्ञानं यादृशतादृशानुमितिं प्रत्येव तस्य प्रतिबन्धकत्वात्। प्रकृतासाधारण्यघटकावच्छेदकधर्मदर्शानस्य तु अवच्छेदकतावच्छेदेनानुमितिं प्रति प्रतिबन्धकत्वं तादृशासाधारण्यशरीये व्यापकताघटकतया प्रतियोगित्वांशे वह्रयभावावच्छेदकत्वेन गृहीतस्य वह्रयधिकरणनिष्ठाभावनिरूपितत्वस्य सामानाधिकरण्येनैव प्रविष्टत्वत्। अवच्छेकधर्मदर्शनप्रतिबन्धकत्वस्य बाधबिद्वितुल्ययोगक्षेण्वात्। तादृशासाधारण्यशरीरे प्रतियोगितात्वावच्छेदेन तादृशावच्छेदकधर्मप्रवेशेऽवच्छेदकतावच्छेदेन तादृशधर्मविशिटप्रतियोगित्वाप्रसिद्वाया विशिष्टदोषाप्रसिद्वया क्वाव्याप्तिः?


    एवञ्चासाधारण्यनिश्चयनिष्ठसामानाझिकरण्येनानुमितिप्रतिबन्धकतामादाय लक्षणसमन्वयः। तादृशप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकतापार्याप्त्यधिकरणशुद्वसंयोगसम्बन्धेन वह्रिमात्‌प्रतियोगिताबपद्वित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतायां तादृशासाधारण्यघटकविशिष्टद्वयविषयताशालिनिश्चयत्वाव्यपकत्वाभावेन अन्यविशिष्टद्वयस्यैव तादृशत्वात्तद्विषयताशून्यत्वस्योक्तासाधारण्यनिश्चये सत्त्वात्।

    एतेनाभावो गगनत्ववानाधेयत्वा दित्यत्र गगनत्वव्यपकाभावप्रतियोग्याधेयत्वरूपासाधारण्येऽव्याप्तिः प्रतिबन्धकतैक्यविवक्षायामपि दुर्वारेति परास्तम्।

    तादृशासाधारण्यस्य हेतुमत्पक्षविशिष्टासधारण्यरूपविशिष्टद्वयघटितत्वेऽपि विशिष्चासधारण्यनिश्चये हेतुमत्पक्षविषयताशून्यात्वाभावेन परस्पराघटितत्वाबावात्तादृशविशिष्ट्द्वस्य यादृशविशिष्यपदेन धर्तुमशक्यत्वात्। परस्परविषयताशून्यादृशविशिष्टद्वयविषयकनिश्चयत्वं तादृशप्रतिबन्धकतानतिरिक्तवृत्ति तादृशविशिष्टद्वयविषयताशून्यत्वस्य तादृशसाधारण्यनिश्चयेऽक्षतत्वात्।

    एवं घटो गगनाभाववदभाववत्कालीनगगवानित्यत्र बाधेऽपि नाव्याप्तिः। तत्र तादृशबाधनिश्चयनिरूपिता या विशिष्टगगनवत्ताबुद्वित्वावच्छिन्ना प्रतिबध्यता तस्या उक्तोभयसम्बन्धेन तादृशबाधतावच्छेदके सत्त्वात्। तत्र गगनाभावदाभाववत्रकालीनगगनाभावत्वावच्छिन्नप्रकारतानिरूपितघटक्वावच्छिन्नविशेष्यताशालिनिश्चयत्वावच्छिन्नप्रतिबन्धकतानिरूपितविशिष्टगगनवत्ताबुद्वित्वावच्छिन्नप्रतिबधयतायास्तादृशानुमितित्वव्यपकतया तादृशप्रतिबध्यतानिरूपितप्रतिबधयतायस्तादृशानुमितित्वव्यापकतया तादृशप्रतिबध्यतानिरूपितप्रतिबन्धकताघटितप्रथमसम्बन्धस्य सत्त्वात्। एवं तदवच्छेदकविशिष्टगगनवत्ताबुद्वित्वावच्छिन्नप्रतिबध्यतानिरूपिता या तद्वयक्तित्ववान् तादृशगगनाभाववान् तद्वयक्तित्ववान् घट इति निश्चयविशिष्टनिश्चयत्वावच्छिन्नप्रतिबन्धकता तन्निष्ठातादृशनिश्चयनिश्चयनिष्ठाभेदप्रतियोगितावच्चेदक्तवां नास्तीति प्रतीतिसिद्वाभावीयप्रतियोगितानिरूपितनिश्चयनिष्ठावच्छेदकताविशिष्टविषयिताया उक्तबाधनिश्चयेऽसत्त्वेन द्वितीयसम्बन्धस्य च सत्त्वात्।
    
    नचाभाववान्गगनाभावानभाववान् घट इति निश्चयविशिष्टनिश्चयस्यापि तादृशविशिष्टगगनवत्ताबुद्विप्रतिबन्धकतया तादृशप्रतिबध्यतावच्छेदकधर्मावच्छिन्नप्रतिबध्यतानिरूपितोक्तनिश्चयनिष्ठाप्रतिबन्धकतावृत्तितादृशाभावप्रतियोगितावच्छेदकताविशिष्टविषयिताया उक्तबाधज्ञाने सत्त्वेन कथं तत्सङ्‌ग्रह इति वाच्यम्।
?
    स्वनिरूपितावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तिकावच्छेदकताकप्रतिबध्यताया एव तादृशसम्बन्धशरीरे निवेशनीयतया गगनाभाववदभाववद्घटविषयकनिश्चयनिष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकशरीरे घटो गगनवान् तादृशविशिष्टगगनवान् पटकालीनगगनवानित्यादिज्ञानानमेकरूपेण प्रतिबध्यतानिर्वाहाय घटविशेष्यकगगनप्रकारकबुद्वित्वस्यैव प्रवेशेन तादृशविशिष्टबाधनिश्चयनिरूपितप्रतिबध्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकस्य तादृशविशिष्टगगनत्वादिनिष्ठसमुदायत्वस्योक्तावच्छेदकधर्मदर्शनप्रतिबध्यतावच्छेदकतापर्याप्त्यवच्छेदकत्वाभावेन तादृशनिश्चयनिष्ठप्रितिबन्धकताय व्यावर्तनात्।

    नचाभाववान् गगनाभाववान् अभाववान् घट इति निश्चयकाले घटे तादृशविशिष्टगगनवत्ताबुद्वयनुत्पादेन ज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धकताया आवश्यकतया तत एव विशिष्टगगनाभाववद्‌घटवत्तानिश्चयकालेऽप्यनुनुमित्युत्पादनिर्वाहे ज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धकतायां मानाभाव इति वाच्यम्।

    स्वनिरूपितावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तिकावच्छेदकताकप्रतिबभाववद्‌घटविषयकनिश्चयनिष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेददशरीरे घटो गगनवान् तादृशविशिष्टगगनवान् पटकालीनहहनवानित्यादिज्ञानानामेरूपेणप्रतिबध्यतदानिर्वाहाय घटविशेष्यकगगनप्रकारबुद्धिक्वस्यैव प्रेवेशेन तादृशविशिष्टबाधनिश्चयनिरूपितप्रतिबध्यतावच्छेदकतापर्यागितावच्छेदकस्य तादृशविशिष्टगगनत्वादिनिष्ठसमुदाकतार्याप्त्यनुयोगितावच्छेदकस्य तादृशविशिष्टगगनत्वादिनिष्ठसमुदायत्वस्योक्तावच्छेदकधर्मदर्शनप्रतिबध्यतावच्छेदकतापर्याप्त्यवत्छेदकत्वाभावेन तादृशनिश्चयनिष्ठप्रतिबन्धकताया व्यावर्तनात्।

    नचाभाववान् गगनाभाववान् अभाववान् घट इति निश्चयकाले घटे तादृशविशिष्टगगनवत्ताबद्ध्यनुत्पादेन ज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धकताया आवश्यकतया तत एव विशिष्टगगनाभाववद्‌घटवत्तानिश्चयकालेऽप्यनुमित्यनुत्पादनिर्वाहे ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतायां मानाभाव इति वाच्यम्।

 

    तथासत्यभाववति गगनाभावोऽव्याप्यवृत्तिरिति निश्चयकाले तादृशबाधनिश्चयानन्तरं तादृशविशिष्टानुमित्यपत्तेः। अवच्छेदकधर्मदर्शनस्यापि व्यापाकांशेऽव्याप्यवृत्तित्वज्ञानाभावविशिष्टनिश्चयविशिष्टस्यैव प्रतिबन्धकत्वात्।

 


    एवं गगनाभाववदभाववत्कालीनघटे गगनवानित्यत्र गगनाभाववत्तादृशघटरूपबाधेऽपि नाव्याप्तिः। तत्र तादृशघटो गगनवानिति बुद्धिम् प्रति अभाववान् गगनाभाववानभाववान् गगनाभाववदभाववत्कालीनघट इति निश्चयोः प्रतिबन्धकत्वेऽपि तादृशविशिष्टयोः परस्परार्घाटतत्वाभावेन तत्‌घटितत्वस्याकिञ्चित्करत्वात्। अभाववान् गगनाभाववान् अभाववान् घट इति निश्चययोः प्रतिबन्धकत्वमेव नास्ति। अभाववान् घट इति निश्चयस्य घटत्वसामानाधिकरण्येन अभावावगाहित्वे अनुमितेरपि घटत्वसमाधिकरण्येन गगनावगाहितयाऽप्रतिबन्धकत्वात्। अवच्छेदकावच्छेदेन तदवगाहित्वे तादृशघटस्य बाधघटकत्वमेव नास्तीति नाव्याप्तिरतस्तादृशबाधनिश्चयस्य ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकत्व मन्तरेण स्वतन्त्रविशिष्टनिश्चटनिश्चयत्वावच्छिन्नप्रतिबन्धकताविरहेऽपि न क्षतिः। यद्यपि तादृशविशिष्टपक्षकगगनसाध्यकस्थले अभाववात्तादृशघटे अतिव्याप्तिः तत्‌घटकीभूतविशिष्टद्वयस्य परस्परघटितत्वाभावेन यादृशविशिष्टपदेन धर्तुमशक्यतया तादृशविशिष्टद्वयाघटितत्वस्याक्षतत्वात्।

    एवं रूपं नीलरूपवदित्यत्र नीलरूपाभाववन्निलेऽतिव्याप्तिः। एवमभावो वह्निमानित्यत्र वह्न्यभाववद्ववह्रिमत्यतिव्याप्तिः। तत्रोभयत्र तद्‌घटकीभूतविशिष्टद्वयस्य परस्पराघटितत्वाभावात्।

    तथापि वक्ष्यमाणविशिष्टान्तराघटितत्वस्यैतेन परिष्कारेणैव वारणीयतया न दोषः। यद्यत्रापि तादृशदोषोद्वार आवश्यकस्तदाविशेष्यदळघटकविषयतितायां तत्तद्विषयिताभिन्नत्वं विशेषण देयम्।
    
    नन्वत्र? विशिष्टद्वयाघटितत्वनिवेशो व्यर्थः एकविशिष्टाघटितत्वनिवेशादेवोक्तातिव्याप्तिवारणात्।

    तथाहि-यादृशविशिष्टयकत्वं पकृतानुमितितत्वव्यपकप्रतिबध्यतानिरूपितप्रतिबन्धकतानतिरिक्तवृत्तितादृशविशिष्टविशयिताशून्यज्ञानीययद्रूपावच्छिन्नविषयिताव्यापिका प्रकुतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकता तद्रूपवत्वं लक्षणम्।


    तथाच नोक्तविशिष्टेऽतिव्याप्तिः। वह्न्यभाववज्जलादिमद्‌वृत्तिजलवद्ह्रदत्वावच्छिन्नविषयित्वाव्यपकविषयिताशुन्यतादृशजलवद्‌ह्रदत्वावच्छिन्नविषयितायः ह्रदो वह्निमानित्यनुमितिप्रतिबन्धकतानतिरिक्त वृत्तितया तद्रूपावच्छेन्नविषयिताशून्यत्वस्य तादृशविशिष्टविषयकज्ञाने असत्वात्।

    नच वह्न्यभाववद्‌ह्रदादिरूपबाधाद्यसङग्रहः। तेषां स्वात्मकविशिष्टघटितत्वादिति वाच्यम्।
                                                                                                               
    यद्रपावच्छिन्नविषयिता प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतानतिरिक्तवृत्तिस्तद्रूपावच्छिन्नविषयिताशून्यत्वस्य विवक्षणीयत्वात्।

    तथाच बाधादिविषयितायाः ज्ञानवैशिष्टयावच्चिन्नवप्रतिबन्धकतानतिरिक्तवृत्तित्वाबावात्। यादृशविशिषयिता तादृशी तच्छून्यत्वस्य बाधादिज्ञानो सत्त्वान्नाव्याप्तिः।

    नचैवमपि घटो गगनाभाववदभाववत्कालीनगगनवानित्यादौ बाधाव्याप्तिः। तादृशबाधज्ञाने ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकताया अपि सत्त्वेन तद्विषयितायासतादृशप्रतिबन्धकतानतिरिक्तवृत्तित्वादिति वाच्यम्।

    यादृशविशिष्टविषयिता ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतानतिरिक्तवृत्तिज्ञानवैशिष्टनवच्छिन्नप्रतिबन्धकतानवच्छेदिका तादृशविशिष्टविषयिताशून्यत्वस्य विवक्षणीयत्वात्। उक्तबाधविषयिताया ज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धकतायामपि अवच्छेदकतया तादृशी विषयिता गगनाभाववदभाववत्कालीनगगनाभाववत् तद्‌व्यक्तित्ववद्‌त्तितद्वयक्तित्ववत् घटविषयितैवेति तच्छून्यतवस्योक्तबाधज्ञाने सत्वादव्याप्तिविरहात्।

    नच गगनवत्‌प्रतियोगित्वं गगनाभाववद् वह्न्यधिकरणवृत्त्यभावनिरूपितत्वत्कालीनवह्रिमज्ज्लादित्यत्र अवच्छेदकधर्मघटितासाधारण्ये अव्याप्तिः तादृशासाधारण्यविषयितायस्तादृशानुमितित्वव्यापकविशिष्टपक्षग्रहत्वावच्छिन्नप्रतिबध्यतानिरूपितज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतानतिरिक्तवृत्तितया ज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धकतानवच्छेदकतया च तादृशासाधारण्यस्य यादृशविशिष्टपदेन धर्त्तुं शक्यत्वेन तदघटित्वस्य तत्रासत्वादिति वाच्यम्।

    स्वमत इवात्रापि प्रतिबन्धकतैक्यस्य विवक्षणीयत्वात्। तथाच विशेष्यदळघटकीभूताया असाधारण्यविषयकनिश्चत्वव्यापिकायाः पक्षतावच्छेदकतावच्छिन्ने विशिष्टसाध्यवैशिष्टयावगाहित्वावच्छिन्नप्रतिबध्यतानिरूपितायाः प्रकृतासाधारण्यघटकावच्छेदकधर्मदर्शननिष्ठप्रतिबन्धकतायाः विशिष्टपक्षग्रहत्वावच्छिन्ननिरूपिताया गगनाभाववद्‌वह्निमन्निष्ठाभावनिरूपितत्ववत्वविशिष्टविषयकनिश्चयविशिष्टवह्रिमन्निष्ठाभावनिरूतत्ववत्प्रतियोगितात्वविशिष्टविषयित्वावच्छिन्नायाश्चैक्याभावेन न तत्राव्याप्तिः।

    तथाच प्रकुतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टरूपवत्तवं लक्षणम्। प्रतिबन्धकतावैशिष्टयं च स्ववृत्तिकिञ्चिद्‌रूपावच्छिन्नविषयित्वाव्यपकविषयिताशून्यकिञ्चिद्रूपावच्छिन्नविषयिताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावीयावच्छेदकत्वनिष्ठप्रतियोगितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवॉत्तित्वनिष्ठावच्छेदकतानिरूपितावच्छेन्नत्वसम्बन्धावच्छिन्नवावच्छेदकतावत्त्वस्य तादत्म्यापन्नज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकत्वनिष्ठकिञ्चिद्रूपावच्छिन्नविषयित्वावयापकविषयिताशून्यकिञ्चिद्रूपावच्छिन्नविषयिताशालिनिश्चयनिष्ठभेदप्रतियोदितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावप्रतियोगित्वनिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपित भेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपिताव्यापकविषयिताशून्यनिश्चयनिष्ठावच्छेदकतानिरूपितविषयित्वानिष्ठावच्छिन्नविषयितासम्बन्धावच्छिन्नस्वाभाववत्प्रतीतिविषयितानिरूपकतावच्छेदकत्वोभयसंबन्धेन।

    एवं च तन्मतेऽनुगमघटकसम्बन्ध एवात्राप्यनुगमघटकः। तादृशद्वितीयसम्बन्धघटकाभावो लघुशरीर इति लाघवमेव तन्मते। एवं च गगनवत्प्रतियोगित्वं गगनाभाववद् वह्न्यधिकरणनिष्ठाभानिरूपितत्ववत्कालीन वह्निमज्जलादित्यत्रासाधारण्ये नाव्याप्तिः। प्रकृतानुमितित्वतव्यापकप्रतिबध्यानिरूपितासाधारण्य विषयकत्वावच्छेन्नप्रतिबनअधकताविशिष्टरूपं तादृशासाधारण्यतावच्छेदकं तादृशप्रतिबन्धकतावृत्तिर्यः पक्षोहेतुमत्ताज्ञानकालीनासाधारण्यविषयकनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतितिसिद्वोऽबावस्तन्निरूपितप्रतियोगितया परम्परया निरूपतावच्छेन्नत्वसम्बन्धावच्छिन्नाच्छेदकतायाः प्रथमसम्बन्धस्य तत्र सत्वात्।

    एवं स्वतादात्म्यापन्नज्ञानवैशिष्चयावच्छिन्नप्रतिबनधकत्वं स्वयमेव। तत्र च यादृशविशिष्टविषयकत्वाव्यापकविषयताशून्ययादृशविशिष्टविषयकनिश्चयनिष्ठभेदप्रतियोगितावच्छेगकत्वं नास्तीति प्रतीतिसिद्धाभवस्तादृशविशिष्चाप्रसिद्ध्या स्वभिन्नविशिष्टपक्षग्रहत्वावच्छिन्नप्रतिबध्यतानिरूपितगगनाभाववद्वह्रयधिकरणनिष्ठाभावनिरूपितत्वविषिष्टविषयकनिश्चयविशिष्टवह्न्यधिकरणनिष्ठाभावनिरूपितत्ववत्प्रतियोगितात्वविशिष्टविषयकनिश्चयत्वावच्छिन्नप्रतिबन्धकत्वादौ गगनाभाववद्वह्न्यधिकरणवृत्त्यभावनिरूपितत्ववद्‌त्तितादृशनिरूपितत्ववत् प्रतियोगितात्वविशिष्टविषयकत्वाव्यापकविषयताशून्यादृशविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाबावस्य सत्त्वात्।
    
    स्वातादात्म्यापन्नज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतावृत्तितादृशाभावघटिसम्बन्धस्य तस्य व्यधिकरणत्वेन द्वितीयसम्बन्धस्य च सत्त्वात्।

    एवं घटो गगनाभाववदभाववत्कालीनगगनवानित्यत्र बाधे ज्ञानवैशिष्चयानवच्छिन्प्रतिबन्धकतामादाय लक्षणसङ्गतिः। तादृशप्रतिबन्धकताय द्वितीयसम्बनधघटकविषयित्वस्य व्यधिकरणसम्बन्धत्वात्। तथाचैतन्मते गगनाभाववदभाववत्कालीनघटो गगनवानित्यत्राभाववत्तादृशघटे रूपं नूलरूपवदित्यत्र नीलरूपाभाववन्नीलो अभावो वह्निमानित्यत्र वह्न्यभाववद्‌वह्रिमति च नातिवायाप्तिः। तत्र ज्ञानवैशिष्टयावच्छिन्नप्रतिबत्धकतामादायैव लक्षणसत्त्वस्योपपादनीयतया अभाववत्तादृशघटत्वादौ तादृशप्रतिबन्धकतायः परथमसम्बन्धस्य सत्त्वेऽपि द्वितीयसम्बन्धस्याभावात्।

    तत्राबाववत्तादृशघटत्वावच्छिन्नविषयताशाल्यव्यापकविषयताशून्यनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्धाभावसत्त्वेन तन्निरूपितप्रतियोगिताघटितोक्तविषयत्वाभावस्य तादृशविशिष्टविषयकप्रतीतावभावात्।

    एवं घटो गगनाभाववदभाववत्कालीनगगवानित्यत्र बाधे ज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धतकतामादाय लक्षणसङ्गतिः। तादृशप्रतिबन्धतकताया द्वितीयसम्बन्धघटकविषयित्वस्य व्यधिकरणसम्बन्धत्वात्। तथाचैवतन्मते गगनाभाववदभाववत्कालीनघटो गगनवानित्यत्राभाववत्तादृशघटे रूपं नीलरूपवदित्यत्र नीलरूपाभाववन्नीले अभावो वह्रिमानित्यत्र वह्रयबाववद्वह्रिमति च नातिव्याप्तिः। तत्र ज्ञानवैशिष्टयावच्छिन्नप्रतिबत्धकतामादायैव लक्षणसत्‌वस्योपपादनीयतया अभाववत्तादृशघटत्वादौ तादृशप्रतिबन्धकतायाः प्रथमसम्बन्धस्य सत्त्वेऽपि द्वितीयसम्बन्धस्याभावात्।

    तत्राबाववत्तादृशघटत्वावच्छिन्नविषयताशाल्यव्यापकविषयताशून्यनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावसत्वेन तन्निरूपितप्रतियोगिताघटिचोक्तविषयत्वाभावस्य तादृशविशिष्टविषयकप्रतीतावभावात्।

    नचैवं तादृशविशिष्टघटपक्षगगनसाध्यकस्थले गगनाभाववद्‌विशिष्टघटात्मकबाधेऽव्याप्तिःष तत्र ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकताया एव सत्त्वेन तादृशप्रतिबन्धकताया उक्तोभयसम्बन्धस्य तादृशघटत्वेऽसत्त्वात्।


    स्वमते तादृशबाधघटकगगनाभाववद्‌बाववत्वविशिष्टबाधरूपविशिष्ट्योः परस्पराघटितत्वाभावेन तदुभयघटितत्वं नाव्याप्तिसम्पादकम्। एवमभावो गगनत्ववानाधेयत्वादित्यत्र गगनत्वव्यापकाभावप्रतियोग्याधेयत्वरूपासाधारण्येऽव्याप्तिः। तत्रापि ज्ञानवैशिष्टयावच्छिन्नप्रतिबनअधकताय एव सत्वात्।

    एवं वह्न्यभाववद्‌वह्न्यबावव्याप्यवत्कालीनह्रदो वह्निमान् इत्यत्र वह्न्यबावव्याप्यवह्न्यभाववद्‌यभावव्याप्यवत्कालीनह्रदरूपसत्प्रतिपक्षेऽव्याप्तिः। एवं धूमाभाववत् धूमाभावव्याप्यवत्कालीनह्रदो वह्निमान् धूमादित्यत्र धूमाभावव्याप्यवत्तादृशह्रदरूपस्वरूपासिद्धावव्याप्तिः।

    एवं धूमवान् धूमाभाववद्‌वृत्तित्वावद्‌माभाववद्‌वृत्तित्वव्याप्यवत्कलीनवह्नेरित्यत्र धूमाभाववद्‌वृत्तित्वव्याप्यवत्तादृशवह्निरूपव्यभिचारेऽव्याप्तिः। एवं विरोधेऽप्यव्याप्तिः। सर्वत्र तादृशदोषज्ञानानां ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वात्।

    स्वमते तादृशोषघटकविशिष्टद्वयस्य परस्पराघटितत्वाभावेन यादृशविशिष्टपदेन तादृशविविशिष्टद्वयस्य धर्तुमशक्यतया विशिष्टद्वयान्तराघटितत्वस्य सत्त्वान्नाव्याप्तिरिति वाच्यम्।

    स्वमतेऽतिव्याप्तिवारणाय विशेष्यदळघटकविषयितायां विषयिताविशेषभेदो निवेश्यः। एतन्मते उक्ताव्याप्तिवारणाय विशेषदळघटकविषयितायां विषयिताविशेषभेदो निवेश्य इति तुल्यम्। स्वमते लक्षणशरीरगौरवं परमतिरिच्यत इति चेत्-

    न। नानाविधावच्छेदकधर्मदर्शनानामेकरूपेण प्रतिबन्धकत्वमितिमते एतन्मते सर्वत्र प्रागुक्तदोषेऽव्याप्तिः। ज्ञानवैशिष्टयावच्छिन्नप्रतिबनअधकताया उक्तोभयसम्बन्धेन दोषतावच्छेदकेऽसत्त्वात्। तत्र प्रथमसम्बन्धस्य सत्त्वेऽपि तादृशप्रतिबन्धकत्तिदोपविषयकनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावप्रतियोगितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकतानिरूपितविषयत्वानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसंबन्धावच्छिन्नावच्छेदकतावद्वर्मावच्छिन्नविषयित्वाभाववत्प्रतीतिविषयितानिरूपकतावच्छेदकत्वाभावत्।

    एकरूपेण प्रतिबध्यप्रतिबन्धकभावश्च ह्रदत्वावच्छिन्नविशिष्यकवह्नित्वाबच्छिन्नविशेष्यकवह्नित्वावच्छिन्नप्रकारताशालिबुद्धत्वावच्छिन्नं प्रति वह्न्यभावत्वावच्छिन्नप्रकारताविशिष्टह्रदत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेन। विशेष्यतायां प्रकारतावैशिष्‌टयं च स्वविशिष्टप्रकारतानिरूपितत्वस्वनिरूपकनिश्चयसमानाधिकरणज्ञानीयत्वोभयसम्बन्धेन। प्रकारतायां स्ववैशिष्ट्यं च स्वनिरूपितविशेष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नत्वस्विशिष्टरूपावच्छिन्नत्वोभयसम्बन्धेन। रूपे स्ववैशिष्टयं च स्वनिरूपितविशिष्यतावच्छेदकतावच्छेदकत्वस्वनिरूपितसंसर्गतानिरूपितप्रतियोगित्वानिष्ठावच्छेदकतानिरूपितस्वाश्रयनिष्ठावच्छेदकतानिरूपितकिञ्चित्समानाधिकरणभेदप्रतियोगितावच्छेदकत्वं नास्तीतिप्रतीतिसिद्वाभावनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितप्रतियोगितानिष्ठावच्छेदकतानिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदकतानिष्ठावच्छेदकतानिरूपिधर्मनिष्ठावच्छेदकतानिष्ठावच्छेदकतानिरूपितावच्छेदकतानिरूपिताधेयतासम्बन्धावच्छिन्नावच्छेदकतावत्त्वोभयम्बन्धेनेति।

    अवच्छेदकधर्मदर्शनानामेकरूपेण प्रतिबन्धकत्वानङ्गीकर्तुमते नीलरूपाभावन्नीलमित्यादिनिश्चयानां विशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वं, तादृशज्ञनस्य नियमतो रूपत्वविशिष्टे नीलत्वावगाहितया ज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धकत्वे प्रमाणाभावात्।


    तथाच तन्मते तत्रातिव्याप्तिः। एतन्मते तत्प्रतिबन्धकतायः ज्ञानैशिष्टयावच्छिन्नप्रतिबन्धकतावृत्तिबन्धकतावृत्तितादृशभावघटितविषयतात्मकसम्बन्धस्य व्यधिकरणत्वात्।

    तथाच मतद्वयामुसारेण लक्षणकरणे उक्तस्थळेष्वतिव्याप्त्यव्याप्तिवारणाय विशेदळे विषयतायामुक्तविषयिताभेदः विशेषणदळे विषयतायां प्रागुक्तसर्वविषयिताभेदो निवेशनीय इति गौरवम्।

    स्वमते मतद्वयेऽप्यतिव्याप्तिवारणाय विशेष्यदळे विषयितयामेव विषयिताविशेषभेद एव निवेश्य लाघवम्।

    यत्तु कैश्चिदुक्तम्-ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतालाभायैव तदभिधानमिति।

    तदसत्-उक्तरीत्या निवेशस्यावश्यकत्वात्।

    यत्तु-एकविशिष्टाधटितत्वनिवेशे वह्न्यभाववज्जलवद्‌त्तिदलवद्‌ह्रदविषयितावच्छेदविषयितावच्छेदकवह्न्यभावज्जलवत्कालीजलवद्‌ह्रदविषयितावद्‌भेदादीनां निवेशनीयतया गौरम्। विशिष्टद्वयाघटितत्वपक्षे न तादृशगौरवं वह्न्यभाववज्जलवत्वविशिष्टयिताविशिष्टजलवद्‌ह्रदत्वविशिष्टविषयित्वाभावस्य निवेशादेवैकावच्छेदकधर्मघटितनानाविशिष्टवरणम्भवात् इति।

    तदपि न-उक्तप्रकारेणामुगमे तादृशगैरवाप्रसक्तेरिति।

    नन्वत्र?यादृविशिष्टविषयकनिश्चयविशिष्टयादृशविशिष्टविष्यकनिश्चयत्वमित्यतत्र प्रथमनिश्चयत्वस्थाने ज्ञानत्वं निवेशनीयम्। द्वितीयं निश्चयत्वघटितम्।

    तथाच यादृशविशिष्टविषयकज्ञानविशिष्टयादृशविशिष्टविषयकनिश्चयत्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तादृशविशिष्टद्वयाघटितत्वं विशेषणम्। इदानीं ज्ञानवैशिष्टयं तादात्म्यसम्बन्धेन। द्वितीयनिश्चयत्वं संशयानयत्वम्। तथाचैकांशे संशयात्मकापरनिश्चयस्य व्यावृत्त्या न तादृशविशिष्टाप्रसिद्धिः।

    नचैवमपि जलवान् वह्न्यभाववान् जातिमत्त्वान् ह्रदः जातिमत्त्वान् वह्न्यभाववान् जलवान ह्रद इति समूहालम्बनज्ञानयोः प्रतिबन्धकताविरहेण तादृशविशिष्टद्वयाप्रसिद्‌वया असम्भावपत्त्या अव्यापकविषयताशून्यत्वस्यावश्यं निवेशनीयतया सर्वत्र समूहालम्बनज्ञानमादायैव तादृशविशिष्टद्वयविषयकनिश्चयत्वेऽनुमितिप्रतिबनअधकतानतिरिक्तवृत्तित्वस्य उपपादनीयतया समूहालम्बनज्ञाने च प्रत्येकविषयित्वाव्यापकविषयिताशून्यत्वस्याबावेन तादृशविशिष्टद्वयाप्रसिद्धिः दुर्वारा।

    नच किञ्चिद्रूपावच्छिन्नविषयित्वाव्यापकविषयताशून्यत्वमेव तादृशज्ञाने निवेशनीयम्।

    एवं सत्यनुगमशरीरप्रविष्टद्वितीय सम्बन्धघचकाभावो लघुशरीरः।तथाच वह्न्यभाववद्द्लवदद्‌ह्रत्वावच्छिन्नविषयित्वाव्यापकविषयताशून्यवह्न्यभाववज्जलवत्त्वविशिष्टविषयकज्ञानात्मकजलवद्‌ह्रदत्वाविशिष्टविषयकनिश्चयत्वे तादृशप्रतिबन्धकतानतिरिक्तवृत्तित्वसत्त्वान्न विशिष्टद्वयाप्रसिद्विरिति वाच्यम्।

    तथासति वह्न्यभाववद्ह्रदत्वावच्छिन्नविषयित्वाव्यापर्कावषयताशून्यवह्न्यभाववद्‌हरदतवविशिष्टविषयताशालिज्ञानात्मकतादृशविशिष्टविषयकनिश्चयत्वस्य तादृशप्रतिबन्धकतानतिरिक्तवृत्तितया तादृशविशिष्टविषयताविशिष्टतादृशून्यज्ञानविषयत्वरूपतादृशविशिष्टद्वयाघटितत्वस्याभावेन बाधदावव्याप्तेरिति वाच्यम्।

    ज्ञानवैशिष्चयावच्छिन्नप्रतिबन्धकतानवच्छेदकतादृशविशिष्टद्वयविषयताशून्यत्वस्य विवक्षणीयतया अव्याप्तिविरहात् इति चेत्-

    न। गगनाभाववदभाववदभाववत्कालीन घटो गगनवानित्यत्रबाधेऽव्याप्तेः। तत्र गगनाबाववत् गगनाबाववदभाववत् कालीनघटत्वावच्छिननन्नविषयित्वाव्यापकविषयिताशून्यागगनाभाववदभाववदबाववत्वविशिष्टविषयकज्ञानात्मकातादृशविशिष्टवाधरूपविशिष्टविषयकनिश्चयत्वस्य प्रतिबन्धकतानतिरिक्तवृत्तितया तादृशविशिष्टविषयतायां ज्ञानवैशिष्टयानवच्छिन्नप्रतिबनधकतानवच्छेदकत्वस्य सत्वात्। तादृशबाधज्ञानस्य ज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धकतया विशिष्टज्ञानत्वेन प्रतिबन्धकत्वे मानाभावात्।

    ताथच तादृशविशिष्टविषयिताशून्यत्वस्य तादृशबाधज्ञानेऽसत्वात्। एवमभावो गगनत्वानाधेयत्वादित्यत्रासाधारण्ये अव्याप्तेश्च। तस्यच आधेयत्ववदभावत्वविशिष्टतादृशासाधारण्यरूपविशिष्टद्वयघटितत्वात्।

    नच स्वाभाववत्‌ज्ञाननिष्ठविषयितानिरूपकतावच्छेदकयद्रूपविशिष्टविषयकज्ञानविशिष्टतादृशयद्रूपविशिष्टविषयकनिश्चयत्वं प्रतिबन्धकतानतिरिक्तवृत्ति तादृशविशिष्टद्वयाघटितत्वस्य निवेशनीयतय नोक्तबाधसाधारण्योरव्याप्तिः। तत्र यदूपपदग्राह्यबाधासाधारण्यतावच्छेदकरूपोस्तादृशप्रतिबन्धकताशून्यज्ञाननिष्ठविषयितानिरूपकतावच्छेदकरूपयोस्तादृशप्रतिबन्धकताशून्यज्ञानविष्ठविषयितानिरूपकतावच्छेदत्वाभावेन तादृशविशिष्टद्वयस्य यादृशविशिष्टपदेन धर्तुमशक्यतया तद्‌व्यक्तित्ववान् गगनाभाववान् तद्‌व्यक्तिव्यवांस्तादृशघट इत्यादिज्ञानविषयविशिष्टयोरेव धर्तव्यतया तदघटितत्वस्य तादृशबाधादौ सत्त्वादिति वाच्यम्।

    तादृशविशिष्टविषयित्वाव्यापकविषयिताशून्यत्वविवक्षणे ह्रदो जलवज्जातिमत्कालीनवह्निमानित्यत्र जवज्जातिमत्कालीनवह्न्यभाववज्जलवद्‌वत्तिजलवद्‌ह्रदेऽव्याप्तेः। तत्र जलवान् जवज्जातिमत्कालीनवह्न्यभाववान्‌जलवान्‌जातिमानिति समूहालबनेऽपिजलवज्जातिमत्कालीनवह्न्यभाववज्जलवद्‌वृत्तिजलवद्‌ह्रदत्वाच्छिन्नविषयित्वाव्यापकविषयिताशून्यत्वसत्त्वेन तादृशज्ञाने प्रतिबन्धकताविरहेण तादृशविशिष्टद्वयस्य यादृशविशिष्टद्वयपदेन धर्तुमशतक्यतया पङ्कजवान् जलवज्जातिमत्कालीनवह्न्यभाववान् पङ्कजवान् ह्रद इति ज्ञानविषयीभूतविशिष्टद्वयस्यैव यादृशविशिश्टपदेन धर्तुव्यत्वात् तदघटितत्वस्य तत्र सत्वात्।

    नच यद्रूपावच्छिन्नविषयित्वाव्यापकविषयताशून्यज्ञानीयत्वोपलक्षितयद्रूपावच्छिन्नविषयताशालिज्ञानविशिष्टयद्रूपावच्छिन्नविषयित्वाव्यापकविषयिताशून्यज्ञानीयतवोपलक्षित यद्रूपावच्छिन्नविषयिताशालिनिश्चयत्वं प्रतिबन्धकतानतिरिक्तवृत्ति तादृशविशिश्टद्वयाघटितत्वस्य विवक्षणात् नोक्तातिव्याप्तिः। असमूहालम्बनात्कप्रत्येकज्ञानीयविषयितायास्समूहालम्बनात्मकज्ञानीयविषयितायाश्चैक्यात्। जलवान् जलवज्जातिमत्कासीनवह्न्यभाववान् जातिमान् जलवानित्याकारकसमूहालम्बने जलवद्‌ह्रदत्वावच्छिन्नविषयित्वाव्यपकविषयिताशून्यजलवान् ह्रद इति ज्ञानीयत्वोपलक्षितजलवद्‌ह्रदत्वावच्छिन्नविषयिताया अभावेन तत्र प्रतिबन्धकताया विरहेऽपि जलवान् तादृशवह्न्यभाववान्, जलवान् ह्रद इति ज्ञाने तादृशविषयितावति प्रतिबन्धकतायास्सत्त्वेन यादृशविशिष्टपदेन तादृशविशिष्चद्वयस्यापि धर्तुं शक्यतया तदघटितत्वस्य तत्राभावादिति वाच्यम्।

    पूर्वोक्तबाधादिसङ्‌ग्रहार्थं यद्रूपे स्वाभाववत्प्रतीतिविषयितानिरूपकतावच्छेदकत्वरूपविशिषणस्यावश्यकतया तद्‌घटकप्रतीतावनाहार्यत्वाप्रामाण्यज्ञानानास्कन्दितत्व निश्चयत्वादीनां निवेशनीयतय गौरवात्।

    नच यद्रूपावच्छिन्नविषयित्वाव्यकविषयिताशून्ययद्रूपावच्छिन्नविषयिताशून्यज्ञानीयत्वमेवोलक्षणविधया विषयितायां निवेशनीयम्। तथाच नोक्तगौरवमित्यनुगमशरीरे लाघवमे।


    तथाहि-प्रकृतानुमितित्वाव्यपकप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टरूपवत्ववं लक्षणम्। वैशिष्ट्यं च पूर्वोक्तोभयसम्बन्धेन। द्वितीयसम्बन्धघटकाभावप्रतियोगितावच्छेदकसम्बन्धश्च स्वनिष्ठो यः किञ्चिद्रूपाववच्छिन्नविषयित्वाव्यपकविषयिताशून्यकिञ्चिद्रूपावच्छिन्नविषयिताशून्यज्ञानीयत्वोपलक्षिकरिञ्चिद्रूपावच्छिन्नविषयिताशालिज्ञानविशिष्टकिञ्चिद्‌रूपावच्चिन्नविषयित्वाव्यपकविषयिताशून्यकिञ्चिद्रूपावच्छिन्नविषयिताशून्यज्ञानीयत्वोपलक्षितकिञ्चिद्रूपावच्छिन्नविषयिताशालिनिश्चयनिष्ठमेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वोऽभावस्तन्निरूपितावच्छेदकत्वनिष्ठाप्रतियोगितानिरूपित प्रतियोगित्व निष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावत्थेगकतानिरूपितनिश्चयनिष्ठावच्छेदकताविशिष्टविषयितारूपः। विषयितायामवच्छेदकताविशिष्ट्यं च स्वविशिष्टरूपावच्छिन्नवत्वस्वविशिष्टरूपावच्छिन्नविषयितासामानाधिकरण्योभयसम्बन्धेन।

    प्रथमरूपे स्ववैशिष्ट्यं च स्वनिरूपितविषयितानिष्ठावच्छेदकत्ववत्वस्वनिरूपिततादात्म्यसम्बन्धावच्छिन्नज्ञाननिष्ठावच्छेदकतानिरूपितविषयितानिष्ठावच्छेदकतानिरूपतिवृत्तित्वनिष्टावच्छेदकतानिरूपितज्ञाननिष्ठावच्छेगकतानिरूपितशून्यत्वनिष्ठावच्छेदकतानिरूपितविषयितानिष्ठावच्छेदकतानिरूपतिवाच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावच्च्ोभयसंबन्धेन। रूपे विषयितानिष्ठाच्छेदकत्वं च स्वनिरूपितावच्छिन्नतवसम्बन्धावच्छिन्नावच्छेदकतावत्त्व, स्वनिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितज्ञाननिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतामिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपिताधिकरणानिष्ठावच्छेदकतानिरूपितवषयितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावत्त्वोभयसम्बन्धेन। द्वितीयरूपे स्ववैशिष्टयं च स्वनिरूपिततादात्म्यसम्बन्धावच्छिन्नावच्छेदकतानिरूपितविषयित्वनिष्ठावच्छेदकतावत्त्वस्वनिरूपितविषयितानिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितज्ञाननिष्ठावच्छेदकतानिरूपितशून्यत्वनिष्ठावच्छेदकतानिरूपितविषयितानिष्ठावच्छेदकतानिरूपितावच्छेन्नवत्वसम्मन्धावच्छिन्नावच्छेदकतावत्त्वोभयसम्बन्धेन। एतत्सम्बन्धघटकतावच्छेदकतावत्वं च रूपे प्रागुक्तोभयसम्बन्धेनेति।

    यद्यभावप्रतियोगितावच्छेदकशरीरे उपलक्षणविधया प्रवेशे नाङ्गीकियते। तदा द्वितीयसम्बन्धघटकप्रतिबन्धकत्वाभावप्रतियोगितावच्छेदकसम्बन्धश्च स्ववृत्तिर्यस्तद्‌व्यक्तिविषिष्टज्ञानविशिष्टतद्‌व्यक्तिविशिष्टनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वोऽभावस्तन्निरूपितावच्छेदकत्वनिष्ठप्रतियोगितानिरूपितयोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिश्ठावच्छेदकताविशिष्टावच्छेदकताविशिष्टविषयितारूपः। अवच्छेदकतायां अवच्छेदकतावैशिष्टयं च स्वतादात्म्यस्वविशिष्टविषयितानिष्ठोभयावृत्तिधर्मावच्छन्नना(तद्‌व्यक्तिनिष्ठ) वच्छेदकतानिरूपकत्व-स्वविशिष्टविषयितानिष्ठोभयावृत्तिधर्मावच्छिन्नावच्छेदकतानिकूपकतादात्म्यसम्बन्धावच्छिन्न ज्ञाननिष्ठावच्छेदकतानिरूपकत्वैतत्त्त्रितयसम्बन्धेन।    प्रथमविषयितायं स्ववैशिष्टयं च स्वनिरूपितावच्छेदकतावद्विषयितानिरूपकतावच्छेदकधर्मावच्छिन्नविषयित्वाव्यापकविषयिताशून्यज्ञानीयत्वस्वनिरूपिततादात्म्यसम्बनधावच्छेदकझक्मावच्छिन्नविषयित्वाव्यापकविषयिताशून्यज्ञानीयत्वस्वनिरूपिततादात्म्यसम्बन्धावच्छेदकतानिरूपितावच्छेदकतावद्विषयितानिरूपकतावच्छेदकधर्मावच्छिन्नविषयिताशून्यज्ञानीयत्वोभयसम्बन्धेन।

    द्वितीयविषयितायां स्ववैशिष्टयं च स्वनिरूपिततादात्म्यसम्बन्धावच्छिन्नज्ञाननिष्ठावच्छेदकतानिरूपितावच्छेदकतावद्विषयितानिरूपकतावच्छदकधर्मावच्छिन्नविषयित्वाव्यापकविषयिताशून्यज्ञानीयत्व-स्वनिरूपितावच्छेदकतावद्विषयितानिरूपकतावच्छेदकधर्मावच्छिन्नविषयिताशून्यज्ञानीयत्वोभयसम्बन्धेन। विषयितायामवच्छेदकतावैशिष्टयं च स्वरूपितावच्छेदकतावद्विषयितानिरूपकतावच्छेदकधर्मावच्छिन्नत्वस्वनिरूपिततादात्म्यसम्बन्धावच्छिन्नविषयितासामानाधिकरण्योभयसम्बन्धेनेति वाच्यम्

    यादृशस्थलेऽसङ्‌ग्राह्यविशिष्टविषयकसमूहालम्बनप्रसिद्वं, तादृशविशिष्चातिव्याप्तेर्वारणाय सामानायिकरण्यरूपवैशिष्टयमेव निवेशनीयम्।

    तथाचोभयत्र निश्चयत्वनिवेशे आवश्यकः। यादृशस्थलेऽसङ्ग्राह्यविशिष्टघटकप्रत्येकविषयकसमूहालम्बनज्ञानमप्रसिद्वं तत्रातिव्यप्तिरूभयमतेऽपि तुल्येति।

    नन्वत्र? प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतानवच्छेदकविषयिताशून्यत्वं निश्चये विशिषणं देयम्। तथाच सतिअव्यापकविषयिताशून्यत्वं विशिष्टान्तराघटितत्वं विशिष्टद्वयाघटितत्वं च नोपादेयम्। जातिमान् वह्रयभाववानिति ज्ञाने प्रतिबन्धकतानवच्छेदकजातित्वविषयिताशून्यत्वाभावेन तद्‌व्युदासात्। मेयत्वविशिष्टव्यभिचारनिश्चये तादृशमेयत्वाभावेन तद्‌व्युदासात्। मेयत्वविशिष्टव्यभिचारनिश्चये तादृशमेयत्वविषयितायाः सत्त्वात्। वह्रयभाववज्जलवद्‌वृत्तिजलवद्‌ ह्रदविषयकज्ञाने तादृशवृत्तित्वविषयितायाश्च सत्त्वात्तयोर्व्युदासाच्च।

    नचैवमसम्भवः, ह्रदो वह्रिमानित्यत्र वह्रयभाववद्‌ह्रदरूपदोषविषयकनिश्चये ह्रदत्वप्रकारतानिरूपितनिरवच्छिन्नविशेष्यतायास्तादृशप्रतिबन्धकतानवच्छेदिकायाः सत्त्वेन तच्छून्यतवाभावदिति वाच्यम्।

    प्रतिबनधकतानवच्छेदकेत्यनेन प्रतिबन्धकतावच्छेदकविषयिताविशिष्टान्यत्वस्य विवक्षितत्वात्। वैशिष्टयं च तादात्म्यावच्चिन्नत्वान्यतरसम्बन्धेन। तथाच हरदादिनिष्ठनिरवच्छिन्नविषयताय अपि प्रतिबन्धकतावच्छेदकह्रदत्वावच्छिन्नविशेष्यत्वावच्छिन्नत्वान्नासम्भवः। नचैवमपि ह्रदो वह्रयभाववानिति ज्ञानस्यावच्चिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नवह्रितवनिष्टाप्रकारताकनिष्चयत्वेन लाघवात् प्रतिबनधकतामते वह्रिनिष्ठविषयितयः कस्याश्चिदपि प्रतिबन्धकतावच्छेदकत्वाभावेन तद्विषयताशून्यतवाभावेन बाधबिशेषेष्वव्याप्तिरिति वाच्यम्।


    तादात्म्यावच्छेद्यत्वाच्छेद्यनिरूपितत्वैतदन्यतमबसंन्धेन वैशिष्ट्यस्यविवक्षितत्वात्। तादृशबाधज्ञानीयवह्न्यादिविषयिताया अपि प्रतिबन्धकतावच्छेदकाभावत्त्वावच्छिन्नप्रकारत्वावच्छेदिविषयिताया अपि प्रतिबन्धकतावच्छेदकाबावत्वावच्छिन्नप्रकारत्वावच्छेद्यतादृशविशेष्यतानिरूपितत्वेन तादृशविषयिताविशिष्चानयत्वाभावेन नातिव्याप्तिः। असङ्ग्रह्यविशिष्टविषयकज्ञानीयवृत्तित्वविषयितायाः प्रतिबन्धकतावच्छेदकजलनिष्ठप्रकारत्वावच्छेद्य जलनिष्ठविशेष्यचानिरूपितत्वेन तादृशविषयिताविशिष्टान्यत्वाभावेऽपि वृत्तितात्वनिष्ठाविषयतायास्तादृशत्वेन तच्छून्यतवाभावान्नातिव्याप्तिः। प्रमेयतात्वविषयितामादाय प्रमेयत्वविशिष्यव्यभिचारवारणमिति चेत्-

    न। ह्रदो वह्न्यभाववानिति ज्ञानस्य संयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन वह्निप्रकारकतया तादृशप्रतियोगितायास्तादृशवच्छिन्नत्वविशिष्टप्रतियोगितात्वेन सम्बन्धत्वे केवलप्रतियोगितात्वेन सम्बन्धत्वे वा संयोगावच्चिन्नत्वप्रतियोगितात्वविषयितायाः प्रतिबन्धकतावच्छेदकविषयतातादात्म्यावच्छित्वावच्छेद्यनिरूपितत्वानां मध्ये कस्याप्यभावेन तत्र तच्छून्यतवाभावेनाव्याप्तितादवस्थ्यात्।

    यदि, प्रागुक्तसम्बन्धत्रयावच्छेद्यनिरूपितनिरूपितत्वान्यतम्सम्बन्धेनवैशिष्ट्यं विवक्षणीयम्। तथाच प्रतियोगितात्वादिविषयिताया अपि प्रतिबन्धकतावच्छेदकाभावत्वावच्छिन्नप्रकारत्वावच्छेद्यातादृशविशेष्यतानिरूपितप्रतियोगितानिष्ठासांसर्गिकविषयतितानिरूपितत्वान्नाव्याप्तिरिति विभाव्यते, तदा वह्न्यबाववज्जलवद्‌वृत्तिदलवद्‌ह्रदविषयकज्ञानीयवृत्तितात्वविषयताया अपि प्रतिबन्धकतावच्छेदकजलत्वावच्छिन्नप्रकारत्वावच्छेद्यतादृशविशेष्यतानिरूपितवृत्तित्वनिष्ठविषयितानिरूपिततया तादृशविषयिताविशिष्यात्वाभावेनातिव्याप्तितादवस्थ्यात्। अतो विशिष्टद्वयाघटितत्वं निवेशनीयम्।

    एवं विशिष्टान्तराघटिकत्वविशेषणमावश्यकम्। अन्यथा ह्रदो वह्निमानित्यत्रं वह्न्यङाववद्‌ह्रदावच्छिन्नेऽतिव्याप्तिः। तत्रापि ह्रिदत्वावच्छिन्नप्रकारताया वह्न्यभावप्रकारतानिरूपितह्रदत्वावच्छिन्नविशेष्यतारूपप्रतिबन्धकतावच्छेदकविषयित्वावच्छेद्यत्वात्। धर्मिविषयितायाश्च तादृशप्रकारतानिरूपितवात्। तादृशविशिष्टविषयिताविशिष्टान्यविषयितायस्तादृशज्ञानेऽसत्त्वात्। एवं ह्रदो वह्न्यभाववानिति ज्ञानस्य वह्िनिनिष्टप्रतियोगितासम्बन्धावच्छिन्नप्रकारताशालिज्ञानत्वेन प्रतिबन्धकत्वेऽपि तद्विशेषणद्वयमावश्यक्।


    अथ तत्कल्पे प्रागुक्तविषयिताशून्यत्वमेव निश्चये विशेषणं, नतूकतविशेषणद्वयं, तादृशविषयितावैशिष्ट्यं च तादत्म्यावच्छिन्नत्वान्यतरसम्बन्धेन। तथाच ह्रदो वह्न्यभाववानिति ज्ञानीय वह्निप्रकारतायास्तवच्छेदकप्रतियोगिताविषयितायास्तन्निष्ठप्रतियोगितात्वादिविषयतायाश्च प्रतिबन्धकतावच्छेदकतवात्। ह्रदादिनिष्ठनिरवच्छिन्नविशेष्यतायस्तदवच्छिन्नत्वाच्च तत्‌ज्ञानीयविषयिता कापि न तादृशविषयताविशिष्टान्येति नाव्याप्तिः। असङ्‌ग्राह्यविशिष्टविषयकज्ञानीयवृत्तित्वादिविषयिता तादृशविषयिताविशिष्टान्येति तद्वारणान्नातिव्याप्तिरपि।

    नच गगनाभाववदभाववत्कालीनघटोगगनवानित्यत्र बाधेऽव्याप्तिस्तादृशबाधज्ञानस्यगगनाभाववदभाववत्त्वविशिष्टविषयकज्ञानविशिष्टाभाववद्‌गगगनाभाववदभाववत्कालीनघटत्वविशिष्टविषयकज्ञानत्वेनैव प्रतिबन्धकतया बाधज्ञानीयपक्षविशेषणतापन्नाभावविशेषणतापन्नगगनगगनत्वविषयतादीनां प्रतीबन्धकतानवच्छेदकतया तच्छून्यत्वस्य तादृशबाधज्ञाने अभावादिति वातच्यम्।

    प्रकृतानुमितित्वाव्यपकप्रतिबन्धकतानिरूपितप्रतिबध्यतानवच्छेदकत्वस्यापि तादृशविषयिताविशेषणत्वात्। तादृशबाधज्ञानीय गगनादिविषयितायां प्रतिबन्धकतानवच्छेदकत्वेऽपि तादृशानुमितेर्गगनाभाववदभाववत्कालीनघटोगगनाभाववानिति बुद्विं प्रति गगनत्वावच्छिन्नप्रकारतानिरूपिततादृशघटत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेन प्रतिबन्धकतयातादृशप्रतिबन्धकतानिरूपितप्रतिबध्यतायां गगनत्वादिविषयतानामवच्छेदकतया तदनवच्छेदकविषयिताशून्यत्वस्य तत्र सत्त्वेनाव्याप्तिविराहात्।

    नचैवमपि वह्रयभाववज्जलवद्‌वृत्तिजलाभाववद्‌वह्रिमत्कालीनह्रदो वह्निमानित्यत्र वह्न्यभाववज्जलवद्‌वृत्ति जलवत्तादृश ह्रदेऽतिव्याप्तिः।

    तादृशविशिष्टविषपकज्ञानीयतादृशविशिष्टह्रदांशे प्रकारतावच्छेदककुक्षिप्रविष्टवृत्तित्वादिविषयितानां तादृशानुमितित्वव्यापकविशिष्टपक्षे साध्यवैशिष्ट्यावदगाहित्वावच्छिन्नप्रितबध्यतानिरूपितज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतानवच्छेदकत्वेऽपि तादृशानुमितेः वह्निमान् वह्न्यभाववज्जलवद्‌वृत्तिजलाबाववानिति ज्ञानविशिष्टवह्निमांस्तादृश ह्रद इति ज्ञानत्वेन तादृशह्रदो वह्न्यभाववज्जलवद्‌वृत्तिजलवानिति बुद्धिवित्वावच्छिन्नं प्रति प्रतिबन्धकतया तादृशानुमितित्वव्यापकतादृशप्रतिबन्धकतानिरूपिततादृशप्रतिबध्यतानवच्छेदकत्वस्य तादृशवृत्तित्वादिविषयतासुअभावेन तथाविधोदासीनविषयिताशून्यत्वस्य तादृशविशिष्टज्ञानेऽक्षतत्वादिति वाच्यम्।

    प्रकृतानुमितितवव्यापकप्रतिबन्धकतायां ज्ञानवैशिष्टयानवच्छिन्नत्वस्य निवेश्नीयत्वात्। प्रकृते तादृशानुमितित्वव्यापकोक्तप्रतिबन्धकतायाः ज्ञानवैशिष्ट्यावच्छिन्नतया तदन्यबाधबुद्ध्यादिनिपितप्रतिबन्धकतानिरूपितप्रतिबध्यतायां तादृशवृत्तित्वादिविषयतानामनवच्छेदकतया चतच्छून्यत्वस्य तादृशविशिष्टविषयकज्ञाने सत्त्वेनातिव्याप्तिविराहात्।

    नचैवं कपिसंयोगाभावाभाववत् कपिसंयोगवत्कालीनकपिसंयोगाभाववदभाववत्कालीनगुणः कपिसंयोगवत्कालीनकपिसंयोगाबाधनिश्चयस्य पक्षे साध्यवैशिष्टयावगाहिबुद्धित्वावच्छिन्नं प्रत्यभाववान् कपिसंयोगाभाववान् अभाववांस्तादृशगुण इति ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकतया तत्प्रतिबन्धकतावच्छेदककुक्षौ पक्षविशेषणकापन्नाभावविशेषणतापन्नबाधज्ञानीय कपिसंयोगतत्संयोगतवादिविषयतानामप्रवेशेन तादृशप्रतिबन्धकतानवच्छेदकत्वात्।कपिसंयोगगत्वादिविषियतानामप्रवेशेन तादृशप्रतिबन्धकतानवच्छेदकत्वात्। कपिसंयोगवांस्तादृशागुण इत्यनुमितेरपि तादृशबुद्धिं प्रति कपिसंयोगवान् कपिसंयोगाभाववान् कपिसंयोगवांस्तादृशगुण इति ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकतया तादृशानुमितित्वव्यापकज्ञावैशिष्ट्यानवच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतानवच्छेदकतवाच्च तच्छून्यवस्य तादृशप्रतिबन्धकतानिरूपतप्रतिबध्यतानवच्छेदकत्वाच्च तच्छून्यतवस्य तादृशप्रतिबाधज्ञाने असत्वादिति वाच्यम्।

    प्रकृतानुमितित्वव्यापकप्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिन्नत्वमनिवेश्य विशेष्यदळघटकप्रतिबध्यताविशिष्टनिश्चयत्वव्यापकत्वस्य निवेशनीयत्वात्। निश्चये प्रतिबध्यतावैशिष्ट्यं च स्वाश्रयत्व-स्वनिरूपितमुख्यविशेष्यतानिष्ठावच्छेदकतानिरूपितावच्छेदकतावत्प्रकाराताविशिष्टविशेष्यताकाव्याप्यवृत्तिवत्वज्ञानाभाववत्त्वोभयसम्बन्धेन। विशेष्यतायां प्रकारतावैशिष्ट्यं च स्वावच्छेदकावच्छिन्नत्व, स्वावच्छेदकावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नत्वान्यतरसम्बन्धेन।

    तथाचोक्तस्थले वह्न्यभाववज्ज्लवद्‌त्तिजलवत्तादृशह्रदे नातिव्याप्तिः। तादृशह्रदो वह्न्यभावज्जलवद्‌वृत्तिजलवानिति ज्ञानं प्रति तादृशानुमितेर्या प्रतिबन्धकता तस्यास्तादृशाप्रतिबध्यताविशिष्टनिश्चयत्वयव्यापकत्वविरहात्। वह्निमति वह्न्यभाववज्जलवद्‌वत्तिजलाभावोऽव्याप्यवृत्तिरिति ज्ञावकालीनवह्निमांस्तादृशह्रद इति निश्चये निरूक्तोभयसम्बन्धेन प्रतिबध्यतावति तादृशप्रतिबन्धकताया अभावात्। तद्व्यापकीभूतान्यैव प्रतिबन्धकता तन्निरूपितप्रतिबध्यतानवच्छेदकत्वस्य तादृशवृत्तित्वादिविषयतायां सत्‌वात्ताच्छून्यत्वस्य तादृशविशिष्टज्ञानेऽसत्त्वेनोक्तातिव्याप्तेर्नावकाशः। कपिसंयोगाभाववत् कपिंसंयोगाभावाभाववत् कपिसंयोगवत्कालीन कपिसंयोगाभाववद्बाववत्कालीनगुणात्मकबाधे नाव्याप्तिः। कपिसंयोगवति कपिसंयोगाभावभावोऽव्याप्यवृत्तिरिति ज्ञानकालीने तादृशसाध्यवत्पक्षविषयकनिश्चये निरूक्तोभयसम्बन्धेन विशेष्यदळघटकप्रतिबध्यता नास्त्येव। तन्निरूपिततादृशगुणत्वावच्छिन्नमुख्यविशेष्यतानिष्ठावच्छेदकतानिरूपितावच्छेदकतावती या कपिसंयोगत्वावच्छिन्नप्रकारता तदवच्छेदककपिसंयोगत्वावच्छिन्नाभावाभावत्वाच्छिन्नविशेष्यताकाव्याप्यवृत्तित्वज्ञानवत्त्वस्य तत्र सत्वात्।

    अतस्तादृशप्रतिबध्यतावन्निश्चस्तादृशाव्याप्यवृत्तित्वज्ञानाभावकालीन एवेति तत्र च तादृशबाधबुद्विनीरूपितप्रतिबन्धकतायास्सत्त्वात्। तादृशबाधज्ञानीयकपिसंयोगीयविषयतायास्तादृशप्रतिबध्यतानवच्छेदकतया तदनवच्छेदकविषयताशून्यतवस्य तत्राक्षतत्वात्।

    नचैवमपि ह्रदो वह्रिमान् वह्रयबाववज्जलवत्कालीनत्वाभाववज्जलकालीनजलाभावादित्यत्र वह्रयभाववद्दलवत्कालीनजलवद्‌ह्रदे अतिव्याप्तिः। तादृशविशिष्टविषयकज्ञानीयविषयतानां सर्वासामपि प्रकृतानुमितितवव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वात् तदज्ञानीयकालीनतवविषयताय अपि हेत्वप्रसिद्विज्ञानीयप्रतिबन्धकतावच्छेकत्वादिति वाच्यम्।

    उक्तान्यतरसम्बन्धेन स्वावच्छेदकविषयताविशिष्टान्या या स्वनिरूपितप्रतिबध्यताविशष्टनिश्चयतवव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यतानवच्छेदकीभूता विषयता तच्छून्ययद्रूपावच्छिन्नविषयताशालिनिश्चयत्वव्यापिका प्रकृतानुमितिप्रतिबन्धकतेति लक्षणकरणादुक्तातिव्याप्तेरभावात्।

    तत्रहि साध्यवत्पक्षविषयकबुद्विनिपितज्ञावैशिष्टयानवच्चिन्नप्रतिबन्धकतामादाय लक्षणसत्त्वमुपपादनीयम्। तादृशप्रतिबन्धकतानवच्छेदकत्वस्य तादृशप्रतिबनअधकतानिरूितप्रतिबध्यताविशिष्टवह्रावव्याप्यवृत्तितवज्ञानकालीन ह्रदो वह्रिमानिति निश्चयत्वाव्यापिका या ह्रदो वह्रयबाववानितिबुद्वयादिनिरूपितप्रतिबन्धकता तन्निकूपितप्रतिबध्यतानवच्छेदकत्वस्य च कालीनत्वविषयितायां सत्त्वात्तादृशविषयिताशून्यत्वस्योक्तविशिष्टज्ञानेऽभावात्। तदनुगमश्च प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टनिश्चयनिष्टावच्छन्नावच्छेदकतावद्वर्मवत्वं लक्षणम्। अवच्छेदकतायां प्रतिबन्धकतावैशिष्टयं च स्ववृत्तिर्यः किञ्चिन्निरूपितावच्छेदकतावद्विषयताविशिष्टान्यकिञ्चिन्निरूपितप्रतिध्यताविशिष्टनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वाभाववत्‌प्रतिबनधकतानिरूपपित प्रतिबध्यतावच्छेदकान्यविषयिताशून्यकिञ्चिद्रूपावच्छिन्नविषयिताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतितिसिद्वोऽभावस्तन्निरूपितावच्छेदकत्वनिष्ठपरतियोगितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपतवृत्तित्वनिष्ठावच्छेदकतानिरूपितत्व, स्वविशिष्टविषयतवनिष्ठावच्छेदकतानिरूपकशून्यत्वनिष्ठावच्छेदकतानिरूपकत्वोभयसम्बन्धेन। विषयत्वनिष्ठावच्छेदकतायं स्ववैशिष्टयं च स्वनिष्ठावच्छेदकतानिरूपकनिरूपितत्वनिष्ठावच्छेदकतानिरूपकावच्छेदतत्वनिष्ठावच्छेदकतानिरूपक तादात्म्यावच्चिन्नत्वान्यतरसम्बन्धावच्छिन्नविषयितानिष्ठावच्छेदकतानिरूपकाधिकरणानिष्ठावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकतानिरूपकतवस्वनिष्ठावच्छेदकतानिष्ठावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकतानिरूपकप्रतियोगित्वनिष्टावच्छेदकतानिरूपकावच्छेदकत्वनिष्ठावच्छेदकतानिरूपकाभावनिष्ठावच्छेदकतानिरूपकप्रतिबन्धकत्वनिष्ठावच्छेदकतानिरूपकनिरूपितत्वनिष्ठावच्छेदकतानिरूपकप्रतिबध्यत्वनिष्ठावच्छेदकतानिरूपकावच्छेदकत्वनिष्ठावच्छेदकतानिरूपकाधिकरणनिष्ठावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकतानिरूपकत्वोभयसम्बन्धेनेति चेत्-

    न। सर्वं गगनवदित्यत्र गगनाभाववत्‌घटादावव्याप्तेः। तादृशबाधविषयकज्ञाने प्रकृतानुमितित्ववयापकप्रतिबध्यतानिरूपितप्रतिबन्धकतानवच्छेदकीभूतायाः, निरूक्तप्रतिबध्यतानवच्छेदकीभूतायाश्च समवायसमवायत्वादिविषयतायास्सत्त्वात्। अवच्छिन्नत्वतादात्मय्वच्छेद्यनिरूपित्तवावच्छेद्यनिरूपितनिरूपितत्वान्यतमसम्बन्धेन। प्रतिबन्धकतावच्छेदकविषयिताविशिष्टन्यतवविवक्षणेन तत्सङ्‌ग्रहे मेयतवविशिष्टव्यभिचारवारणाय विशिष्टान्तराघटितत्वं वह्रयबाववज्जलादिमद्‌वृत्तिजलवद्‌ह्रदारणाय विशिष्टद्वयाघटितत्वं चावश्यकमिति ध्येयम्।

    ननु प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतवाव्यापकप्रकिबन्धकताशून्यनिश्चयीययद्रपावच्छिन्नविषयिताव्यापिका प्रकृतानुमितप्रतिबन्धकता तद्रूपावत्त्वं लक्षममास्तं, कृतं विशिष्टद्वयाघटितत्वविशिष्टान्तराघटितत्वविशेषणाभ्याम्। ह्रदो जात्यभाववानित्यत्र जातिमान् जातिमानिति निश्चये तादृशप्रतिबन्धकत्वाव्यापकप्रतिबन्धकताशून्ये प्रकृतानुमितिप्रतिबन्धकताविरहेण बाधाव्याप्तिवारणाय अव्यपकविषयिताशून्यत्वं निवेशनीयम्।

    नचैवमसम्भवः। प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितावच्छेदकधर्मदर्शनादिप्रकिबन्धकत्वान्तराव्यापकतत्तद्दोषविषयकत्वावच्छिन्नप्रतिबन्धकताशून्यत्वस्य तत्तद्दोषविषयकनिश्चयेऽभावादिति वाच्यम्।

    यादृशप्रतिबन्धकतामादाय लक्षणं सङ्गमनीयम्। तादृशप्रतिबन्धकत्वाव्यापकप्रतिबन्धकताशून्यत्वस्य विवक्षणात्।

    एवं च मेयत्वविशिष्चव्यबिचारनिश्चये व्यभिचारविषयकत्वावच्छिन्नप्रतिबन्धकत्वाव्यापकव्यभिचारविशेष्यकमेयत्वाभावप्रकारकबुद्विनिरूपितप्रतिबन्धकतायास्सत्वान्न तत्रातिव्याप्तिः।

    एवं ह्रदो वह्रिमानित्यनुमितिनिरूपितायाः जलवान् वह्रयभाववानिति ज्ञानविशिष्ट जलवान् ह्रद इति ज्ञानो वर्तमानायाः ज्ञानवैशिटयावच्छिन्नप्रतिबन्धकताया अव्यापकीभूता या वह्रयभाववज्जलवदृवृत्तिजलाभाववान् ह्रद इति ज्ञआननिरूपिता प्रतिबन्धकता तच्छून्यत्वस्य तादृशविशिष्टविषयकनिश्चयेऽसत्त्वेन न तादृशविशिष्टेऽतिव्याप्तिः।

    नचैवं सर्वं गगनवदित्यत्र गगनाभाववद्घटरूपबाधेऽव्याप्तिः। सर्वं गगनवदिति ज्ञानं प्रति गगनाभाववद्‌घटादिविषयकनिश्चयानामेकरूपेणैव प्रतिबन्धकतया तादृशप्रतिबन्धकताया गगनाभाववान् घट इत्यादिनिश्चयेषु सत्त्वेन तदधिकरणे गगनाभाववान्पट इति निश्चयेऽवर्तमानाया घटो गगनावानिति ज्ञानिरूपितायाः प्रतिबन्धकताया घटो गगनाभावानिति दोषविषयकनिश्चये सत्त्वादिति वाच्यम्।

    यद्रूपावच्छिन्नविषयित्वाव्यापकविषयताशून्ययद्रूपावच्छिन्नविषयिताशालिनिश्चयत्वव्यापकत्वस्य प्रकृतानुमितिप्रतिबन्धकतायां विवक्षणीयत्वात्।

    तथाच गगनाभाववद्घटत्वावच्छिन्नविषयित्वाव्यापकविषयिताशून्यतादृशप्रतिबन्धकत्वाधिकरणे घटो गगनाभाववानिति निश्चयेऽविद्यमाना प्रतिबन्धकता न घटे गगनवानिति ज्ञाननिरूपिता अपि तु पटे गगनवानिति ज्ञाननिरूपितेति तच्छून्यत्वस्य तादृशबाधादिनिश्चये सत्वात्।

    अत्रायमनुगमः-प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्चावच्छेदकताविशिष्टरूपवत्त्वं लक्षणम्। अवच्छेदकतायां प्रतिबन्धकतावैशिष्टयं च सवनिष्ठकिञ्चिद्वर्मावच्छिन्नविषयित्वाव्यपकविषताशून्यस्वाझिकरणवृत्तिभेदप्रतियोगितावच्छेदकप्रतिबन्धकताशून्यकिञ्चिद्रूपावच्छिन्नवषयित्वाव्यापकविषयताशून्यकिञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावनिरूपितावच्छेदकत्वनिष्ठाप्रतियोगितानिरूपितप्रतियोगितानिष्ठावच्छेदकतानिरूपितभेदनिष्टावतच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपतित्वस्वनिष्ठवच्छेदकतानिरूपक भेदनिष्ठावच्छेदकतानिरूपक प्रतियोगितानिष्ठावच्छेदकतानिरूपकावच्छेदकत्वनिष्ठावच्छेदकता प्रतिबन्धकतवनिष्ठवच्छेदकतानिरूपकशून्यत्वनिष्ठावच्छेदकतानिरूपकत्वोभयम्बन्धेन। रूपे अवच्छेदकतावैशिष्टयं च स्वनिरूपितविषयितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छदकतावत्तव, स्विनिरूपितशून्यत्वनिष्टावच्छेदकतानिरूपितप्रतिबन्धकत्वनिष्टावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपिताप्रतियोगितानिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवॉत्तित्वनिष्ठावच्छेदकनिरूपितनिश्चयनिष्ठावच्छेदकतानिरूपितशून्यत्वनिष्ठावच्छेदतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपितावच्छेदकताननिकूपितवृत्तित्वनिष्ठवच्छेदकनिरूपितनिश्चयनिष्ठावच्छेदकतानिरूपितशून्यत्वनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपिताप्रतियोगितानिष्ठावच्छेदकतानिरूपितभेदनिष्ठाच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपिताधिकरण निष्ठावच्छेदकतानिरूपितानिरूपितविषयितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावत्वोभयसम्बन्धेनेति चेत्-

    न। गगनाभाववदभाववत्कालीन घटो गगनावानित्यत्र बाधेऽव्यपाप्त्यापत्तेः। तत्र बाधनिष्चये तादृशानुमितिनिरूपितज्ञावैशिष्टयावच्छिन्नप्रतिबन्धकता द्वयी। एका-अभाववान् गगनाभाववानिति निश्चयविशिष्टगगनाभाववांस्तादृशघट इति निश्चयत्वावच्छिन्ना। अपरा-गगनाभाववांस्तादृशघट इति निश्चयतविशिष्ट अभाववान् गगनाभाववानिति निश्चयत्वावच्छिन्ना। तत्र प्रथमप्रतिबन्धकतामादाय लक्षणं सङ्गमनीयम्।

    तादृशप्रतिबन्धकतावति अभाववान् गगनाभाववदभाववत्कालीन घट इति निश्चये तादृशाघटत्वावच्छिन्नविषयित्वाव्यापकविषयताशून्येऽवर्तमानाय गगनाबावस्तादृशघटावृत्तिरित्याकारकबुद्विरूपितप्रतिबन्धकतायास्तादृशबाधज्ञाने सत्त्वात्।

    अथाव्यपकप्रतिबन्धकतायां प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपत्पतिबन्धकताविशिषयित्वानवच्छिन्नत्वं विशेषणं देयम्। विषयतायां प्रतिबन्धकतावैशिष्टयं च स्वावच्छेदकत्व स्वनिरूपितप्रतिबध्यताविशिष्टनिश्चयत्वाव्यापकप्रकतिबन्धकतानिरूपितप्रतिबध्यतावत्त्वोभयसम्बन्धेन। प्रतिबध्यतावत्त्वं च स्वानवच्छेदकविषयिताशून्यज्ञानीयत्वसम्बन्धेन।

    तथाच नोक्तबाधेऽव्याप्तिः। तत्र बाधज्ञाने विद्यमानाया गगनाभावस्तादृशघटावृ्त्तिरिति ज्ञाननिरूपितबन्धकतायास्तादृशानुमितित्वव्यापकप्रतिबध्यतानिरूपितज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यताविशिष्टतादृशघटविशेष्यकगगनप्रकारकनिश्चयत्व्यापकसाध्याभाववत्पक्षविषयकबुद्विनिरूपितप्रतिबन्धकतानिरूपिततादृशपरतिबध्यतानवच्छेदकविषयताशून्यागगनाभाववत्तादृशघटज्ञानीयतादृशघटत्वावच्छेन्नविषयित्वावच्छिन्नतया तदन्यप्रतिबन्धकताया एव तादृशत्वात्। तच्छून्य त्वस्य च तत्राक्षतत्वात्।

    नच गगनाभाववत्तादृशघटत्वाच्छिन्नविषयताया निरूक्तप्रतिबन्धकतावच्छेदकत्वाभावेन, तदवच्छिन्नत्वं नोक्तप्रतिबन्धकताव्यायर्तकमिति वाच्यम्।

    तादृशविषयताया अपि अभाववद्‌घटविषयतात्वेन तादृशप्रतिबन्धकतावच्छेदकत्वात्।
वह्रयभाववज्जलवद्‌वृत्तिजलवद्‌ह्रदविषयताया ह्रदो वह्रिमानित्यनुमितित्वव्यापकप्रतिबध्यतानिरूपितज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतावच्छेदिकायास्तदृशप्रतिबन्धकतावच्छेदकत्वेऽपि तादृशप्रतिबन्धकतानिरूपितप्रतिबनध्यताविशिष्टनिश्चयतवव्यापकपक्षधर्मिकसाध्यभाववगाहिबुद्विनिरूपितप्रतिबन्धकतानिरूपिताप्रतिबध्यतानवच्छेदकविषयताशून्यज्ञानयतवाभावेन तादृशप्रतिबन्धकतासङ्‌ग्रहः। एवंम प्रकृतानुमितित्वव्यापकव्याप्तिह्रहत्वावच्छप्रतिबध्यतानिरूपितप्रतिबन्धकत्वाव्यापकीबूतमेतयत्वाभाववान् व्यभिचार इति ज्ञाननिरूपितप्रतिबन्धकत्वाव्यापकीभूतमेयत्वाभाववान् व्यभिचार इति ज्ञआननिरूपितप्रतिबन्धकतायास्तादृशप्रतिबनअधकतानिरूपितव्याप्तिग्रहत्वावच्छिन्नप्रतिबध्यताविशिष्टनिश्चयत्वव्यापकप्रतिबन्धकतानिरूपितसाध्याभाववद्‌वृतित्वप्रकारकहेतुविशेष्यकबुद्वित्वावच्छिन्नप्रतिबध्यतानुवच्छिदकविषयताशून्यशुद्वव्यभिचारविषयकज्ञानीयविषयत्वानवच्छिन्नतया तत्सङ्‌ह इति चेत-

    न। तथाप्यभावो गगनत्ववानाधेयत्वादित्यात्रासाध्राण्येऽ
व्याप्तेस्तत्र गगनत्वव्यापकाभावप्रतियोग्याधेयत्वमित्यसाधारण्यविषयकनिश्चयोत्तरमाधेयत्ववानभाव इति ज्ञाने तादृशासाधारण्यविषयित्वाव्यापकविषयताशून्ये प्रकृनुमितित्वव्यापकप्रतिब्यतानिरूपितप्रतिबन्धकतावत्यवर्तमानाया गगनत्वव्यापकाभावप्रतियोगित्वाभाववदाधेयत्वमिति ज्ञाननिरूपितायः प्रतिबन्धकतायास्तादृशासाधाण्यज्ञाने सत्त्वात्।

    नचाव्यापकप्रतिबन्धकतायामसाधारण्यविषयकत्वानवच्छिन्नत्वमपिविशेषणं विवक्षितम्। वस्तुतास्तत्रापि पक्षधर्मिकहेतुमत्ताज्ञानविशिष्टासाधारण्यविषयकनिश्चयतवावच्छि्नप्रतिबन्धकतामादाय लज्ञणसमन्वयसम्भवः। तादृशप्रतिबन्धकतावानाधेयत्ववानभाव इति ज्ञानं किन्तु असाधारण्यज्ञानं, तत्र च न पूर्वोक्तप्रतिबन्धकत्वाभावो वर्तत इति नाव्याप्तिरिति वाच्यम्।

    तथापि वह्रयभाववद्‌वह्रयभावव्याप्यवत्कालीन ह्रदो वह्रिमानित्यत्र सत्प्रतिपक्षेऽव्याप्तेः। तत्र विशिष्टसत्प्रतिपक्षज्ञानोत्तरजाते तादृशसत्प्रतिपक्षविषयितवाव्यापकविषयिताशून्ये वह्रयभाववान् वह्रयभावव्याप्यवानिति ज्ञाने प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबनधकतावत्यविद्यमानाया वह्रयबावव्याप्याभाववांस्तादृश ह्रद इति ज्ञान निरूपितायाः प्रतिबन्धकताया विशिष्टसत्प्रतिपक्षनिश्चये सत्त्वात्।

    नच तत्रापि तादृशप्रतिबन्धकतामादाय लक्षणासम्भवेऽपि प्रतिबन्धकतान्तरमादाय लक्षणं सङ्गमनीयम्।

    तत्रहि कालिकसम्बन्धेन वह्रयभावाभाववद्‌वृत्तिधर्मवान् समवायादिना वह्रयभावाभाववद्‌दवृत्तिधर्मवानित्यादिज्ञानानामेकरूपेण प्रतिबन्धकत्वं कल्पनीयम्। सम्बन्धभेदेन प्रतिबध्यप्रतिबनअधकभावकल्पने गौरवात्।


    तत्रहि कालिकसम्बन्धेन वह्रयभावाभाववदवृत्तिधर्मवान समवायादिना वह्रयभावाभाववदृत्तिधर्मवानित्यादिज्ञानानामेकरूपेण प्रतिबन्धकत्वं कल्पनीयम्। सम्बन्धभेदेन प्रतिबध्यप्रतिबन्धकभावकल्पने गौरवात्।

    प्रतिबध्यप्रतिबन्धकभावश्च ह्रदत्वावच्छिन्नविशेष्यतानिरूपितवह्रित्वावच्छिन्नप्रकारताशालिबुद्वित्वावच्छिन्नं प्रति वह्रयबावाभाववद्‌वत्तितात्वावच्छिन्नप्रकारताविशिष्टप्रकारतानिरूपित ह्रदत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेन प्रतिबन्धकत्वमिति। प्रकारतायां प्रकारतावैशिष्टयं च स्वनिरूपितावच्छिन्नत्वनिष्टावच्छेदकतानिरूपितावच्छेदकतावत्सम्बन्धवच्छिन्नत्व-स्वनिरूपीताभावत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रकारतानिरूपितविशिष्यत्वावच्छिन्नत्वोभयसम्बन्धेन। एतादृशप्रतिबन्धकता च प्रकृतानुमितिनिरूपितासाप्रकिपक्षविषयकनिश्च एव न तदुत्तरप्रागुक्तज्ञान इति तद्‌वयापकप्रकिबन्धकताशून्यत्वं तत्राक्षतमेव।

    नच नानासम्बन्धावगाहिव्याप्यदर्शनानामेकरूपेण प्रतिबन्धरत्वेसंयोगेन धूमाभाववदवृत्तिमानित्यादिनिश्चयत्वावच्छिन्नप्रतिबन्धकताया ऐक्यात्तादृशप्रतिबन्धकतावति संयोगेन तादृशधर्मावगाहिनिश्चये समावायेन तादृशधर्माभावावगाहिज्ञानप्रतिबन्धकताया असत्त्वेन तादृशप्रतिबन्धकताशून्यत्वस्य समवायेन तदवहाहिसत्प्रतिपक्षनिश्चयेऽसत्त्वेन, एवं चालिनीन्यायेन सर्वेषु सत्प्रतिपक्षनिश्चयेषु अव्यापकप्रतिबन्धकताशून्यत्वाभावात् कथं लक्षणसमन्वय इति वाच्यम्।

    यत्र यादृशसम्बन्धघटितसत्प्रतिप7स्तादृशसत्प्रतिपक्षविषयत्वाव्यापकविषयताशून्यतत्प्रतिबन्धकतावांस्तादृश सम्बन्धघटितसत्प्रतिक्षनिश्चय एवेति तत्राविद्यमानप्रतिबन्धकता सम्बन्धान्तरेण तादृशधर्माभावावगाहिज्ञाननिरूपितप्रतिबन्धकतैव तच्छून्यत्वं तत्राक्षतमेवेति लक्षणसमन्वयादिति वाच्यम्।

    तथापि ह्रदो वह्रिमानित्यत्र वह्रयभाववद्‌वह्रयभाववद्‌ह्रदोऽतिव्याप्तेः। तत्र वह्रयभाववान् वह्रयभाववान् ह्रद इति निश्चये विद्यमानाया अभाववान् ह्रदो वह्रिमानिति ज्ञाननिरूपिताया वह्रयभाववद्‌वह्रयभाववद्ह्रदत्वावच्छिन्नविषयकत्वावच्छिन्नायाः प्रतिबन्धकताया वह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यतादृशप्रतिबन्धकतावद्‌ह्रदो वह्रयभाववानिति निश्चयनिष्ठभेदप्रतियोगितावच्छेदक त्वेऽपि प्रकृतानुमितित्वव्यापकप्रतिबध्यातनिरूपितबाधविषयकत्वावच्छिन्नप्रतिबन्धकतावच्छेदकीभूतायास्तादृशप्रतिबन्धकतानिरूपितप्रतिबध्यताविशिष्टह्रदो वह्रिमानिति निश्चयत्वव्यपकप्रतिबन्धकतानिकूरितवह्रयभाववद्ह्रदविषयकबुद्वित्वावच्छिन्नप्रतिबध्यतानवच्छेदकविषयताशून्यवह्रयभाववान् वह्रयभाववान् ह्रद इति निश्चयीयविषयत्वानवच्छिन्नत्वाभावेन तत्सत्त्वस्याकिञ्चिकरत्वात्। वह्रयभाववदभाववद्‌ह्रदत्वावच्छिन्नविषयता च बाधप्रतिबन्धकतायां वह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयितात्वेनावच्छेदिकैव, अतो विशिष्टान्तराघटितत्वमावश्यकम्।

    नच तथापि विशिष्टद्वयाघटितत्वानिवेशेन लाघवमपरिहार्यमितिवाच्यम्।

    एतादृश गुरूविशणापे7या तस्तैव लघुत्वादिति ध्येयम्।

    ननु? अवच्छेदकतासम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्व-स्वरूपोभयसम्बन्धेन यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापिका प्रकृतानुमितिप्रतिबनअधकता तद्रूपावच्छिन्नत्वं लक्षणम्।

    इदानीं विशिष्टद्वयाघटितत्वं न विवक्षणीयम्। वह्रयबाववद्ह्रदादिविषयकनिश्टचयस्य ज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धकत्वाभावेन तत्र तादृशप्रतिबनअधकतत्वस्यावच्छेदकतासम्बन्धेनाभावात्। स्वरूपसम्बन्धेन सत्त्वाच्च लक्षणसमन्वयः। वह्रयभाववज्जलवद्‌वृतच्तिजलवद्‌ह्रदविषयकनिश्चयस्य ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकतया तत्र ज्ञाने तादृशप्रतिबन्धकतावच्छेदकत्वसत्त्वान्नातिव्याप्तिः।

    प्रथमसम्बन्धमात्रेण व्यापकत्वविवक्षणे ह्रदो वह्रिमानित्यत्र घटादिष्वतिव्याप्तिः। घटादिनिश्चयेऽपि तादृशप्रतिबन्धकतावच्छेदकताविरहात्। स्वरूपसम्बन्धमात्रेण व्यपकत्वविवक्षणे वह्रयभाववज्जलवद्‌वृत्तिजलवद्ह्रदेऽतिव्याप्तिरत उभयसम्बन्धेन व्यापकत्वं निवेशितम्।
    
    अथ? बाधादिज्ञानस्यात्मनि दैशिकाव्याप्यवृत्तितया तदभावस्यानुमिति कारणत्वे बाधनिश्चयकालेऽपि किञ्चिदवच्छेदेनात्मनि तदभावस्य सत्त्वेनानुमितिवाणाय बाधदिज्ञानवदात्मत्वादेरेवानुमितिप्रतिबन्धकत्वं वायप्त्युनुगममधुरानाधीये उक्तम्।

    तन्मते बाधादिदोषिश्चये सर्वत्र प्रतिबन्धकतावच्छेदकत्वस्य सत्त्वेन सम्भवः
    
    एवं साक्षादवच्छेदकत्वस्य व्यासज्यवृत्तित्वानङ्गीकर्तुमते ज्ञानविशिष्टज्ञानीयविषयतावत्त्वेनैव प्रतिबन्धकतया तादृशज्ञानविशिष्टज्ञाने प्रतिबन्धकतावच्छेदकत्वविरहेणातिव्याप्तिश्च।

    नच स्वनिरूपितावच्छेदकतानिरूपितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदताक प्रतियोगिताकभेदवत्त्वरूपोभयसम्बन्धेन व्यापकत्वं विवक्षणीयम्।

    तथाच नासम्भावातिव्याप्ती। बाधादिज्ञानविशिष्चात्मत्वादेः प्रतिबन्धकत्वे प्रतिबन्धकतावच्छेदकतावच्छेदकत्वस्य बाधादिनिश्चयेष्वभावात्।

    मतान्तरेऽपि वारणीयविशिष्टविषयकनिश्चये प्रतिबन्धकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपितावच्छेदकत्वस्य सत्त्वादिति वाच्यम्।

    निश्ययविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वमतेऽतिव्याप्तेः। तादृशनिश्चये ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतावच्छेदकताया अभावादिति चेत्-

    न। स्वनिरूपितावच्छेदकताविशिष्टवच्छेदकतासम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकतातकप्रतियोगिताकभेदवत्त्व स्वरूपोभयसम्बन्धेन व्यापककत्वास्य विवक्षितत्वात्। अवच्छेदकतायां अवच्छेदकतावैशिष्टयं च स्वभिन्नत्वस्वविशिष्टनिरूपितत्वोभयसम्बन्धेन। स्ववैशिष्टयं च स्वनिरूपकत्व-स्वनिरूपितत्व-स्वनिरूपकनिरूपितत्वैदन्यमसम्बन्धेन।

    प्रथमसम्बन्धद्वयघटकप्रथमसम्बन्धानुपादाने प्रथममतेऽसम्भवः। बाधादिनिश्चयनिष्ठावच्छेदकतायां द्वितीयवैशिष्टयघटकान्यतमघटकस्वनिरूपकत्वसम्बन्धेन स्वविशिष्टप्रतिबन्धकतानिरूपितत्वस्य सत्त्वात्।

    द्वितीयसम्बन्धानिवेशे प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबनअधकत्वान्तरावच्छेदकताभिन्नत्वस्य सत्त्वात्तान्मते स एव दोषः।

    एवं द्वितीयवैशिष्टयघटकप्रथमसम्बन्धानिवेशे तृतीयमतेऽतिव्याप्तिः। निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकतया तन्निरूपितनिश्चयत्वादिनिष्ठावच्छेदकताभिन्नत्वस्य निश्चयनिष्ठावच्छेदकताया सत्त्वेऽपि तन्निरूपितनिरूपित्त्व तन्निरूपकनिरूपितत्वयोकभावात्। तन्निवेशे तन्निरूपकप्रतिबन्धकतानिरूपितत्वस्य सत्त्वात्तत्सङ्‌ग्रहान्नातिव्याप्तिः। द्वितीयसम्बन्धानिवेशे द्वितीयमतेऽतिव्याप्तिः। प्राथमिकनिश्चयनिष्ठावच्छेदकतायां विषयतानिष्ठावच्छेदकताभिन्नत्वस्य सत्त्वेऽपि तन्निरूपकनिरूपितत्वस्य तन्निरूपकनिरूपितनिरूपितत्वस्यचाभावात्। तन्निवेशे तन्निरूपितद्वितीयनिश्चयनिष्ठावच्छेदकतानिरूपितत्वसत्त्वान्नातिव्याप्तिः।

    नच द्वितीयनिश्चयनिष्ठावच्छेदकतामादायैव तत्रातिव्याप्तिवारण शक्यमिति वाच्यम्।

    तन्मत एव बाधनिश्चयादौ तादृशप्रतिबन्धकतानिरूपितविषयतानिष्ठावच्छेदकताभिन्नतन्निरूपकप्पतिबन्धकतानिरूपितस्वनिरूपितनिरूपितत्वसम्बन्धावच्छिन्नावच्छेदकतासत्त्वादसम्भाववारणाय द्वितीयावच्छेदकतायां निरूपितत्वसम्बन्धावच्छिन्नत्वस्य वक्तव्यातया द्वितीयनिष्ठावच्छेदकताया अतादृशत्वात्। तृतीयम्बन्धानिवेशे प्रथममतेऽतिव्याप्तिः प्रथमनिश्चयनिष्ठावच्छेदकतायां द्वितीयनिश्चयनिष्ठावच्छेदकतानिरूपकनिरूपितत्वस्य तन्िरूपितनिरूपित्त्वस्यचाभावात्। तन्निवेशे तन्निरूपकप्रतिबन्धकतानिरूपितस्वनिरूपितत्वात्तत्सङ्ग्रह इति नातिव्याप्तिः।

    एवं च न कुत्रापि मते दोष इति गुरूभूतविशिष्टद्वयाघटितत्वं न निवेशनीयम्।

    नच गगनाबाववदभाववत्कालीन घटो गगनवानित्यत्र बाधे अव्याप्तिः। तादृशबाधज्ञानस्य ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकतया तत्र प्रकृतप्रतिबन्धकतानिरूपितद्वीतीयनिश्चयादिनिष्ठावच्छेदकताविशिष्टावच्छेदकतायास्सत्वादिति वाच्यम्।

    प्रकृतानुमितित्वव्यापकप्रतिबध्यातनिरूपितप्रतिबन्धकताविशिष्टविषयताशून्यज्ञानवृत्तित्वेन द्वितीयावच्छेदकताया विशेषणीयत्वात्। प्रतिबन्धकतावैशिष्टयं च विषयतायां स्वावच्छेदकत्वस्वनिरूपितप्रतिबध्यताविशिष्टविश्चयत्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबन्धकतानिरूपितप्रतिबध्यतानवच्छेदकविषयिताशून्यज्ञानीयत्वोभयसम्बन्धेन। प्रतिबध्यतावच्छेदकत्वं च प्रतिबध्यतावच्छेदकविषयताविशिष्चान्यत्वम्। तादृशप्रतिबन्धकतानिरूपितप्रतिबध्यताविशिष्टनिश्चयत्वव्यापकसाध्यप्रकारतानिरूपीतपक्षविशेष्यताशालिनिष्चयत्वावच्छिन्नप्रतिबन्धकतानिरूपितसाध्याभाववत्पक्षविषयकत्वावच्छिन्नप्रतिबध्यतावच्छेदकविषयताविशिष्टान्यविषयताशून्यतादृशबाधज्ञानीयविषयता तच्छून्यत्वस्याभावेन तत्राव्याप्तिविरहात्।

    नचैवमप्यभावो गगनत्वावानाधेयत्वादित्यत्रासाधारण्येऽव्याप्तिः, तादृशज्ञानस्य ज्ञानविशिष्चज्ञानत्वेन प्रतिबन्धकतया तत्र तादृशप्रतिबन्धकतया तत्र तादृशप्रतिबन्धकतनिरूपितावच्छेदकतायास्सत्त्वात्। तादृशप्रतिबन्धकताविशिष्टविषयताशून्यत्वस्य च सत्त्वादिति वाच्यम्।

    असाधारण्यविषयताशालिज्ञानावृत्तित्वेनापि विशेषणीयतवात्।
    
    नचैवमपि निरवच्छिन्नसाध्याभाववत्पक्षस्य बाधत्वमते गगनाभाववदभावत्कालीनघटो गगनवानित्यत्र बाधेऽव्याप्तिः। तादृशज्ञानीयनिरवच्छिन्नत्वविषयतायाः प्रतिबन्धकतानवच्चेदकतया तच्छून्यज्ञानीयविषयताशून्यत्वस्य तादृशबाधज्ञाने सत्त्वात्।विषयतायांप्रतिबन्धकतावैशिष्टयनियामकसम्बन्धघटकप्रतिबध्यतानवच्छेदकविषयतायां निरवच्छिन्नत्वघटकविषयताभेदस्य विशेषणत्वमङ्गीकृत्य तद्दोषवारणेऽपि गगनमवच्छिन्नत्ववत् अभाववच्छब्दवृत्तिशब्दाभावादित्यत्र निरवच्छिन्नशब्दवृत्तिशब्दवत्‌गगनेऽतिव्याप्तिः। तत्र साध्यवत्पक्षविषयकबुद्वित्वावच्छिन्ननिरूपितज्ञावैशिष्टयावच्छिन्नप्रतिबन्धकतायां निरूपक्तोबयसम्बन्धेन तादृशनिश्चयत्वव्यापकत्वस्य सत्त्वात्। तादृशनिश्चये तादृशप्रतिबन्धकतानिरूपितावच्छेदकताविशिष्टावच्छेदकत्वस्य सत्त्वेऽपिनही तादृशाज्ञानं प्रकृतानुमितितवव्यापकप्रतिबध्यतानिरूपित्प्रतिबनअधकताविशिष्टविषयिताशून्यं तादृशज्ञानीयविषयतायां सर्वत्र प्रकृतानुमितित्वव्यापकप्रतिबधयतानिरूपितहेत्वभाववत्पक्षविषयकनिश्चयत्वावच्छिन्नप्रतिबन्धकतावच्छेदकतत्वस्य तादृशप्रतिबन्धकतानिरूपितप्रतिबध्यताविशिष्टनिश्चयत्वव्यापकहेतिमत्पक्षविषयकनिश्चयत्वावच्छिन्नप्रिबनधकतानिरूपितप्रतिबध्यतावच्छेदकविषयताविशिष्टान्यनिरवच्छिन्नत्वघटकविषयताभिन्नविषयताशून्यज्ञानीयत्वस्य च सत्तवात्तच्छून्यत्वस्य तादृशविशिष्टज्ञानेऽभावादिति वाच्यम।

    स्वविशिष्टविषयताशून्यज्ञानवृत्तिस्वनिरूपितावच्छेदकताविशिष्टावच्छेदकतासम्बन्धावच्छिन्नस्वनिष्ठावप्रतियोगितावच्छेदकताकभेदवत्त्व-स्वरूपोभयसम्बन्धेन व्यापकत्वस्य विवक्षणीयत्वात्। विषयतायां स्ववैशिष्टयं च स्वनिरूपितप्रतिबध्यताविशिष्टनिश्चयत्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यतानवच्छेदकविषयिताशून्यज्ञानीयत्वसम्बन्धेन, तथा च नोक्तविशिष्टेऽतिव्याष्तिः। तादृशज्ञाने स्वपदग्राह्यसाध्यवत्पक्षविषयकबुद्वित्वावच्छिन्नप्रतिबध्यतानिरूपितज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतानिरूपिततादृशप्रतिबध्यताविशिष्टनिश्चयत्वव्यापकसाध्यवत्पक्षविषयकनिश्चयत्वावच्छिन्नप्रतिबन्धकतानिूपितसाध्यभाववत्पक्षविषयकबुद्वित्वावच्छिन्नप्रतिबन्धयतानवच्छेदकवृत्तित्वादिविषयताशून्यबाधज्ञानीयविषयताशूनयत्वस्य सत्त्वात्तादृशवच्छेदकताम्बन्धेन निरूक्तप्रतिबन्धकतायास्तत्र सत्त्वादिति चेत्-

    न। विशिष्टद्वयाघटितत्वनिवेशापेक्षयोक्तनिवेशस्यातिगुरूत्वात्। एवं निरवच्छिन्नसाध्याबाववत्पक्षस्य बाधतामते उक्तबाधसङ्‌ग्रहाय तादृशप्रतिबन्धकतावैशिष्टयघटकप्रतिबध्यतानवच्छेदकविषयतायां निरवच्छिन्नत्वघटकविषयताभेदस्य निवेशनीया तत्र घटकत्वनिर्वचनस्य च गुरूत्वादिति ध्येतम्।।
        

<2-13>
    यादृशविशिष्टविषयकनिश्चयविशिष्ट यादृशविशिष्टविषयकनिश्चयत्वमनुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तादृशविशिष्टद्वयाघटितत्वे सतीति-गादाधरी।
</2-13>

<सत्प्रतिपक्षघटकदळद्वयघटितपरिष्कारः)
<2-14>
    सत्प्रतिपक्षघटकदळद्वयविषयताभिन्ननिरूक्तविशिष्टद्वयविषयताशून्यत्वस्य विशिष्टद्वयाघटितत्वपदार्थतवादिति गादाधरी।
</2-14>
    ताथच यादृशविशिष्टविषयकनिश्चयविशिष्टयादृशविशिष्टविषयकनिश्चयत्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिसत्प्रपक्षघटकदळद्वयविषयताभिन्न तादृशविशिष्टद्वयविषयताशून्यत्वं निश्चयविशेषणम्।

    नन्वेममपि, प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुमत्पक्षरूपसत्प्रतिपक्षे कथं लक्षणसमन्वयः? तत्र विशिष्टान्तराघटित्वस्याभावात्।

    ताथहि-तादृशसत्प्रतिपक्षज्ञानस्य ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकतय जलव्यापकवह्रयभावसमानाधिकरण जलवान् ह्रद इति ज्ञानस्येव जलव्यापकवह्रयभावाधिकरणनिरूपितवज्जलवान् ह्रद इति ज्ञानस्यापि प्रतिबन्धकतया जलव्यापकवह्रभावाधिकरणनिरूपितवज्जलवद्‌ह्रदत्वविशिष्टाघटितत्वाभावात्।

    नच सत्प्रतिपक्षविषयताभिन्नत्वं विशिष्टान्तरविषयतायां विशेषण देयम्। तथाच स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तविषयतानिरूपकतावच्थेदकं सत्प्रतिपक्षविषयताभिन्नतद्रूपावच्छिन्नविषयताशून्यत्वं निश्चयविशेषणं तथाच नोक्ताव्याप्तिरिति वाच्यम्।

    मेयत्वविशिष्टतादृशसत्प्रतिपक्षेऽतिव्यप्त्यापत्तेः। शुद्वसत्प्रतिपक्षस्य विशिष्टान्तरत्वेऽपि तद्विषयतायास्तद्विषयताभिन्नत्वाभावादिति चेत्-

    न। सत्प्रतिपक्षविषयतत्वाव्यापकविषयताशून्यज्ञानीयसत्प्रतिपक्षविषयताभेदस्य विशिष्टान्तरविषयतायां विवक्षितत्वात्। मेयत्वविशिष्चसत्प्रतिपक्षविषयज्ञानीयसत्प्रतिपक्षविषयतायां सत्प्रतिपक्षविषयत्वाव्यापकविषयताशून्यशुद्वतत्ज्ञानीयतद्विषयताभेदस्य सत्वान्नातिव्याप्तिरिति दिक्‌।।
            
</2-14>
    सप्रकिपक्षघटकदळद्वयविषयताभिन्ननिरूक्तविशिष्टद्वयविषयताशून्यत्वस्य विशिष्टद्वयाघटितत्वपदार्थत्वादिति गादाधरी।
</2-14>

(विशिष्टान्तराघटितत्वपरिष्कारः)
<2-15>
    अनुमितिप्रतिबन्धकतायां यादृशरूपावच्छिन्नविषयकत्वमवच्छेदकं तादृशं यत्स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं तदवच्छिन्नविषयकप्रतीतिविषयतावच्छेदकं यत्तदवच्छिन्नत्वं समुदितार्थ इति-गादाधरी।
</2-15>
    अत्र स्वानवच्छिन्नप्रकरतावच्छेदकं यत्तादृसं रूपं तदनवच्छिन्नप्रकारतावच्छेदकरूपवत्त्वं विशिष्टान्तराघचितत्वमिति जगदीशोक्तादरेऽपि मेयत्वविशिष्टव्यभिचारादौ नातिव्याप्तिः। मेयत्वविशिष्टव्यभिचारत्वानवच्छिन्नशुद्वव्यभिचारवानिति ज्ञानीयप्रकारतावच्छेदकव्यभिचारत्वानवच्छिन्नप्रकारतावच्चेदकत्वस्य तादृशव्यभिचारत्वेऽभावात्।

    तथापि व्यभिचारकालीनघटादावतिव्याप्तिः। तादृशघटतवावच्छिन्न प्रकारत्वस्य व्यभिचारतवानवच्छिन्नत्वात्। स्वानवच्चिन्नप्रकारतावच्चेदकं यत्तादृशं तदवच्छिन्नावच्छिन्नत्वात्। स्वानवच्छिन्नप्रकारतावच्छेदकं यत्तादृशं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वविवक्षणेन तद्वारणे बाधासङ्‌ग्रहः। ह्रदो वह्रयभाववानिति ज्ञाने तुल्यवित्तिवेद्यतया ह्रदवृत्ति वह्रयभावत्वावच्छिन्नस्य विषयतया वह्रयभाववद्‌ह्रदतवानवच्छिन्नप्रकारतावच्छेदकह्रदवृत्तिवह्रयभावत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य वह्रयभाववद्ह्रदत्वेऽभावादतः स्वावच्छिन्नविषयकप्रतीतिविषयतावच्छेदकत्वं तादृशरूपे विवक्षणीयम्।

    नच साक्षात्परम्परासाधारण्यावच्छेदकतवमङ्गीकृत्यैवैतल्लक्षणं कर्तव्यम्। अन्यथा ह्रदो वह्रिमानित्यत्र बाधादाववव्याप्तिः। तादृशबाधज्ञानीय वह्रयभाववद्‌ह्रदविषयितानिरूपितसाक्षादवच्छेदकताया वह्रयभाववत्‌ह्रदत्वमात्रपर्याप्ततया तद्‌गतसमुदायत्वावच्छिन्नानुयोगिताकपर्याप्तिकनिरूकतावच्छेदकताकविषयताया ह्रदोऽभाववानिति ज्ञानेऽपि सत्त्वेन तत्र प्रतिबन्धकताविरहात्। साक्षात्परम्परासाधारणावच्छेदकतास्वीकारे तु तादृशबाधविषयतानिरूपकतावच्छेदकताया वह्रिवह्रितवाद्यन्तर्भावेणैव प्रयाप्ततया तादशसमुदायत्वावच्छिन्नानानुयोदिताकपर्याप्तिकनिरूपकतावच्छेदकताकविषयताया ह्रदोऽभाववानिति ज्ञानेसत्त्वेन तत्सङ्‌ग्रहः।

    एवं चोक्तविवक्षायामपि न व्यभिचारकालीनघटेऽतिव्याप्तिः। तादृशघचतवावच्छिन्नप्रकारताया व्यभिचारत्वावच्छिन्नत्वादिति वाच्यम्।

    विषयताप्रतियोगितादिनिष्ठावच्छेद्यताया विभिन्नतया मेयत्वविशिष्टव्यभिचारतवानवच्छिन्तप्रकारतानवच्छेदकशुद्वव्यभिचारतन्निरूपित प्रतियोगिताकनिष्ठावच्छेद्यत्वाभाववत्प्रकारतावच्छेदकत्वस्य मेयत्वविशिष्टव्यबाचारत्वे सत्त्वेनातिव्याप्त्यापत्तिरतो विषयतानिष्ठावच्छेद्यत्वाभाव एव निवेशनीयः।


    एवं चासम्भवः। वह्रयभाववद्‌ह्रदत्वादिनिरूपितप्रतियोगितादिनिष्ठावच्छेद्यत्वाभाववत्प्कारतानिरूपिता(वच्छेद्यत्वाभाववत्प्रकारतानिरूपिता) वच्छेदकतावत्तद्वर्मावच्छिन्नप्रकारतावच्छेदकत्वस्य तत्राभावादिति प्रथममपि विषयतानिष्ठावच्छेद्यत्वाभाव एव निवेशनीय इति सूचानायोक्तविवक्षा जगदीशस्याप्ययमेवाभिप्राय इति ध्येयम्।


<2-15>
    अनुमितिप्रतिबन्धकतायां यादृशरूपावच्चिन्नविषयकत्वमवच्चेदकं तादृशं यत्स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्तदवच्छिन्नत्वं समुदितार्थ इति-गादाधरी।
</2-15>

(विशिष्टान्तराघटितत्वविचारः)
<2-16>
    मेयत्वविशिष्टव्यभिचारत्वाश्रयाविषयकत्वस्य व्यभिचारत्वाद्यवच्छिन्नविषयक प्रतीतौ दुर्घचत्वादिति-गादाधरी।
</2-16>
    ननु कथमत्र दुर्घटत्वम्? व्यबिचारत्वेन घटावगाहिन्यां व्यभिचारत्वावच्छिन्नविषयकप्रतीतौ मेयत्वविशिष्टव्यभिचारत्वाश्रयाविषयकत्वस्य सुघटतवादिति चेत्-


    न। तथासत्यसम्भवः। बाधत्वाश्रयाविषयकस्य बाधत्वेन घटाद्यवगाहिज्ञानस्य सम्भवेन तदघटितत्वस्य बाधादावसत्त्वादतः स्वाश्रयाविषयकप्रतीतिविषयवृत्तिस्वाश्रयाविषयकप्रतीतिविषयतावच्छेदकं यत्तादृशं रूपं तदवच्छिन्नाविषयकप्रतिविषयतावच्छेदकत्वमेव वक्तव्यम्।

    तथाच बाधत्वस्य बाधत्वेन घटविषयकप्रतीतिविषयतावच्छेदकत्वे अपि न तादृशप्रतीतिविषयवृत्तित्वमिति नासम्भवः। प्रकृते मेयत्वविशिष्टव्यभिचारत्वाश्रयाविषयकप्रतीतिविषयतावच्छेदकं तादृशप्रतीतिविषयवृत्तिव्यभिचारत्वं सम्भावतीति दुर्घटत्वम्।

    वस्तुतस्तु-व्यभिचारत्वं साध्याववद्‌वृत्तित्वविशिष्टं हेतुतावच्छेदकम् तत्र वैशिष्टयं सामानाधिकरण्यमेवेति सामानाधिकरण्यघटकतया व्यभिचारपदार्थस्यापि व्यभिचारत्वघटकतया दुर्घटत्वाभिधानमिति ध्येयम्।।
</2-16>
    मेयत्वविशिष्टव्यभिचारत्वाश्रयाविषयकत्वस्य व्यभिचारत्वाद्यवच्छिन्नविषयक प्रतीतौ दुर्घटत्वादिति-गादाधरी।
</2-16>

<2-17>
    अतः स्वाश्रयाविषयकत्वमुपेक्ष्य स्वावच्छिन्नविषयकत्वनिवेश इति-गादाधरी।
</2-17>
    नन्वत्र? चरमोपात्तस्य तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकतमित्यस्य प्रयोजनं प्रथममभिधाय तदनन्तरं प्रथमोपात्तस्य स्वावच्छिन्नेत्यस्य प्रयोदनाभिधाने किं बीजमिति चेत्-

    न। सवावच्छिन्नाविषयकेत्यस्योपादानेऽनुपादाने च स्वमेव यदितदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वेन न निवेश्यते तदा व्यभिचारकालीनघटादावचिव्याप्तिः। तादृशघटत्वाच्छिन्नाविषयकज्ञानीयायां तदाश्रयाविषयकज्ञानीयायां वा विषयतायामवच्छेदकं यद्‌ व्यभिचारत्वं तदवच्छिन्नाविषयकप्रतीतिविषयत्वात्तादृघटत्वाश्रयस्य, सवपदार्थे तादृशप्रतीतिविषयतावच्छेदकतवनिवेशे तु तादृशघटत्वस्य स्वपादार्थस्य व्यभिचारत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वाभावेन नातिव्याप्तिः। स्वपदार्थे तादृशप्रतीतिविषयतावच्छेदकत्वानुपादाने स्वावच्छिन्नेत्यस्य व्यावृत्तिर्न सम्भवति। तदनुपादाने मेयत्वविशिष्चव्यभिचारत्वाश्रयाविषयकप्रतीतिविषयतावच्छेदकं यत्‌ बाधत्वादिकं तदवच्छिन्विषयकप्रतीतिविषयता मेयत्वविशिष्टव्यभिचारे यथा वर्तते तथा तादृशव्यभिचारत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकशुद्वयव्यभिचारत्वाच्छिन्नाविषयके मेयत्वादिना स्वविषयकज्ञाने मेयत्वविशिष्टव्यभिचारस्य विषयत्वात्। तन्निवेशे तु स्वावच्छिन्नेत्यस्यानिवेशे एवायं दोषो नतु तन्निवेश इति सूचनाय वैपरीत्येन प्रयोजनाभिधानादिति।
</2-17>
    अतः स्वाश्रयाविषयकत्वमुपेक्ष्य स्वावच्छिन्नविषयकत्वनिवेश इति-गादाधरी।
</2-17>

<2-18>
    स्वावच्छिन्नविषयकप्रतीतिविषयवृत्तित्वस्य तादृशधर्मविशेषणत्वे व्यभिचारत्वादेरपि प्रमेयत्वादिना व्यभिचारत्वाद्यवच्छिन्नप्रतीतिविषये व्वभिचारादौ वर्तमानतया असम्भव इति-गादाधरी।
</2-18>
    ननु? स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्चेदकत्वापेक्षया तादृशप्रतीतिविषयताश्रयवृत्तित्वस्य गुरूतया कथमियमाशङ्कापीति चेत्-
    
    न। वह्रयभाववद्ह्रदत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं ह्रदत्वमपि प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तविषयतानिरूपकतावच्छेदकं विशिष्टस्य शुद्वानतिरिक्तत्वात्।

    तथाच तदघटितत्वस्य बाधादावसत्त्वादसम्भवः। अतः स्वावच्छिन्नाविषयकप्रतीतिविषयतानिरूपकतावच्छेदकतात्वावच्छिन्नपतियोगिताकपर्याप्त्यनुयोगितावच्छेदकं यत्प्रकृतानुमितिप्रतिबन्धकतावच्छेदकविषयितानिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकं तदवच्चिन्नानुयोगिताकप्रयाप्तिकावच्छेदकताकनिरूपकताकविषयिताशून्यत्वस्य निवेशनीयतया तादृशप्रतीतिविषयवृत्तित्वस्य निवेशे तादृशप्रतीतिविषयवृत्तित्वस्य निवेशम्भवेन लाघवस्यानपायात्।९
<2-18>
    स्वावच्छिन्नाविषयकप्रतीतिविषयवृत्तित्वस्य तादृशधर्मविशेषणत्वे व्यभिचारत्वादेरपि प्रमेयत्वादिना व्यभिचारत्वाद्यवच्छिन्नप्रतीतिविषये व्यभिचारादौ वर्तमानतया असम्भव इति-गादाधरी।
</2-18>

<2-19>
    मेयं गगनवद्वात्यत्वादित्यादौ वयभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यद्‌ गगनाभाववत्प्रमेयत्वादि तादश्रयाविषयकप्रतीत्यप्रसिद्वया व्यभिचारादौ तादृशप्रतीतिविषयत्वस्य दुरूपपादतयाऽव्याप्तिरिति-गादाधरी।
</2-19>
    ननु? ह्रदो वह्रिमानित्यादौ वह्रयभाववद्‌ह्रदत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यद्‌ह्रदवृत्ति वह्रयभावत्वं तदाश्रयाविषयकप्रतीतिविषयतावच्छेदकत्वस्य बाधतावच्छेदकेऽभावेनासम्भव एव कुतो नाभिहितः।
    
    नच तदाश्रयमुख्यविशेष्यता शून्यत्वविवक्षणान्नासम्भव इति वाच्यम्।

    तथापि बाधत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकसत्प्रतिपक्षतावच्छेदकधर्माश्रयपक्षाविषयकप्रतीतिविषयतावच्छेदकत्वस्य बाधत्वादावभावेनासम्भवस्य दुर्वारत्वादिति चेत्-

    न। घटो गगनवानित्यादौ सत्प्रतिपक्षाप्रसिद्विस्थले लक्षमसमन्वयसम्भवादिति।
</2-19>
    मेयं गगनवद्वाच्यतवादित्यादौ व्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यद्‌ गगनाभाववत्प्रमेयत्वादि तदाश्रयाविषयकप्रतीत्यप्रसिद्वाया व्यभिचारादौ तादृशप्रतीतिविषयत्वस्यदुरूपपादतयाऽव्यप्तिरिति-गादाधरी।
</2-19>

<2-20>
    अत्र च तादृशविशिष्टान्तराविषयकप्रतीतिविषयतावच्छेदकत्वस्य दोषतावच्छेदकधर्मविशेषणात्वापेक्षया ज्ञानस्येत्यत्र ज्ञानपदार्थे तादृशविशिष्टान्तरविषयकत्वनिवेश एवोचित इति गादाधरी।
</2-20>
    नन्वत्र? ज्ञानपदार्थे तादृशविशिष्टान्तराविषयकत्वनिवेशे लाघवं न सम्भावति,अनुगमे गौरवात्। तथासति तत्रैवमनुगमः कार्यः प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टरूपववत्त्वं लक्षणम्।

    प्रतिबन्धकतावैशिष्टयं च स्ववृत्तिर्यः किञ्चिद्रूपावच्छिन्नविषयतात्वावच्छिन्नप्रतियोगिताकात्यन्ताभाववत्प्रतीतिविषयतावच्छेदकप्रकृतानुमितिप्रतिबन्धकतावृत्ति किञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावनिरूपितवच्छेदककत्वनिष्ठप्रतियोगितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपीतावच्छिन्नत्वसबन्धावच्छिन्नावच्छेदकतावद्वार्मावच्छिन्नविषयतात्वावच्छिन्नप्रतियोदिताकाभाववत्‌किञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावस्तन्निरूपितावच्छेदकत्वनिष्ठप्रतियोगितानिरूपितप्रतियोगित्वनिष्टावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकतावत्त्व सम्बन्धेन। तादृशावच्छेदकतावत्त्वञ्च स्वनिरूपितविषयतानिष्ठावच्छेदकतानिरूपितवच्छिन्नत्वसम्बन्धावच्छिन्नावच्छिदकतावत्त्वस्वनिरूपिताभावनिष्ठावच्छेदकतानिरूपितविषयतात्वावच्छिन्नप्रतियोगितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वनिष्टावच्छेदकतानिरूपित धर्मनिष्ठावच्छेदकतानिरूपितावच्छेदककत्वनिष्ठावच्छेदकतानिरूपिताभावनिष्ठावच्छेदकतानिरूपितविषयितात्वावच्छिन्नप्रतियोगितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वनिष्ठावच्छेदकतानिरूपितावच्छेदकतावत्त्वोभयसम्बन्धेन।

    अत्र प्रतिबन्धकतावृत्त्यभावो गुरूशरीरकः।

    तन्मतेऽनुगमस्तु-प्रकृतानुमितित्व्यापकप्रतिबधयतानिरूपितप्रतिबन्धकतावृत्तिर्यः किञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतितिसिद्वाभावस्तन्निरूपितावच्छेदकत्वनिष्ठप्रतियोगितानिरूपितप्रतियोगित्वनिष्टावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्टावच्छेदकतानिरूपितनिश्चयनिष्टावच्छेदकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावतच्छेदकतावद्रपविशिष्टरूपवत्त्वं लक्षणम्।

    रूपे रूपवैशिष्टयं च स्वतादात्म्यप्रकृतानुमितिप्रतिबन्धकतानिष्ठकिञ्चिदूपावच्छिन्नविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतितिसिद्वाभावीयावच्छेदकत्वनिष्ठप्रतियोगितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकताविशिष्टस्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्ववद्वर्मावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वोभयसम्बन्धेनेति प्रतिबन्धकतावृत्त्यभावो लघु शरीरक इति चेत्-

    न। एतन्मतेऽपि प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावृत्तिर्यः किञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावस्तन्निरूपितावच्छेदकत्ववनिष्ठप्रतियोगिकितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्टावत्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकताविशिष्टधर्मवत्त्वं लक्षणम्। अवच्छेदकतावैशिष्टयं च सवनिरूपितविषयतानिष्ठावच्छेदकतानिरूपितवच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावत्त्व-स्वसमानाधिकरणो यः किञ्तिद्रूपावच्छिन्नविषयतित्वाभाववत्‌प्रतीतिविषयतावच्छेदकतप्रकृकतानुमितिपिरतिबनअधकतावृत्तिकिञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावूयावच्छेदकत्वनिष्ठाप्रतियोगितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकतानिरूपितवि,यतानिष्ठावच्छेदकततचानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावद्वार्मावच्छिन्नविषयता नास्तीति प्रतीतिसिद्वाभावस्तन्निरूपितविषयतात्वातवच्छिन्नप्रतियोगितानिरूपितावच्छिन्नत्वनिष्ठावच्छेदकतकानिरूपितधर्मनिष्ठावच्छेदकतानिरूपितावच्छेदकतानिरूपिताभावनिष्ठावच्छेदकतानिरूपितविषयितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावत्वोभयसम्बन्धेनेति लाघवमस्त्येव।

    अथ विशिष्टान्तरतावच्छेदकधर्मे स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वं किमिति निवेशनीयम्?

    किन्तु प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतायां स्वावच्छिन्नाविषयकयद्रपूपावच्छिन्नविषयताशालिनिश्चयनिष्ठभेदपप्रतियोगितावच्छेदकत्वं नास्तीति प्रतितिसिद्वोऽभावस्तद्रूपावच्छिन्नविषयताशून्यत्वं दोषज्ञाने निवेश्यताम्।

    तथासत्यनुगमशरीरं लघु। तथाहि-प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकताविशिष्टरूपवत्त्वं लक्षणम्। रूपे प्रतिबन्धकतावैशिष्टयं च स्ववृत्तिकिञ्चिद्रूपावच्छिन्नविशयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतितिसिद्वाभावीयावच्छेदकत्वनिष्ठप्रयोगितानिरूपितप्रतियोगित्वनिष्ठाच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकतावत्त्वसम्बन्धेन, तादृशावच्छेदकतावत्त्वं च स्विनिरूपितविषयतानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नानवच्थेदकतावत्त्व-स्वसमानाधिकरणो यः प्रकृतानुमितिप्रतिबन्धकतानिष्ठकिञ्चिद्रपावच्छिन्नविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावप्रतियोगितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितकिञ्चिद्रूपावच्छिन्नविषयत्वाभावसमानाझिकरणानिश्चयनिष्ठावच्छेदकतानिरूपितविषयतितानिष्ठावच्छेदकतानिरूपितवच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावद्वर्मावच्छिन्नविषयता नास्तीति प्रतीतिसिद्वाभावस्तन्निरूपितविषयत्वनिष्ठप्रतियोगितानिरूपितावच्छेन्नत्वसम्बन्धावच्छिन्नधर्मनिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतानिष्ठावच्छेदकतानिरूपितविषयत्वनिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकत्वनिष्ठावच्छेदकातनिरूपितसामानाधिकरण्यनिष्ठावच्छेदकतानिरूपिताभावनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठप्रतियोगितासम्बन्धावच्छिन्नावच्छेदकतानिरूपितावच्छेन्नत्व सम्बन्धावच्छिन्नावच्छेदकतावत्त्वोभयसम्बन्धेनेति।

    मैवम्। यादृशस्थलेऽप्रामाण्यज्ञानानास्कन्दितव्यभिचारज्ञानं नियमतो मेयत्वविषयकं मेयत्वाविषयकव्यभिचारज्ञानमप्रामाण्यज्ञानास्तन्दितं तत्र मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः। मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाविषयकज्ञानीयव्यभिचारत्वावच्छिन्नविषयताव्यापकत्वस्यानुमिति प्रतिबन्धकतायामसत्त्वात्तादृशव्यभिचारज्ञानस्य नियमेनाप्रामाण्यज्ञानवत्त्वेन प्रतिबन्धकताशून्यत्वात्।

    स्वमते तु नायं दोषः। व्यभिचारत्वेऽप्रामाण्यज्ञानास्कन्दितज्ञानान्तर्भावेण मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य सत्त्वात्। मेयत्वविशिष्टव्यभिचारज्ञानान्तर्भावेण प्रतिबन्धकताया व्यभिचारविषयताव्यपकत्वात्त्द्विषयताशून्यत्वस्य भेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयकज्ञानेऽसत्त्वादिति दिक्‌।
<2-20>
    अत्र च तादृशविशिष्टान्तरविषयकप्रतीतिविषयतावच्छेदकत्वस्य दोषतावच्छेदकधर्मविशेषणात्वपेक्षया ज्ञानस्येत्यत्र ज्ञानपदार्थे तादृशविशिष्टान्तरविषयकत्वनिवेश एवोचित इति गादाधरी।
</2-20>

<2-21>
    स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत यत्प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयतानिरूपकतावच्छेदकं तदवच्छिन्नविषयकत्वं दोषज्ञाने निवेशितं भट्टाचार्येण।
</2-21>
    अथात्र विश्ष्टान्तरविषयितायां स्वरूपसम्बन्धरूपावच्छेदकत्वमेव निवेश्यतां,किमनतिरिक्तवृत्तित्वशेषणेन?
    

    नचैवसम्भवः। वह्रयभाववद्ह्रदतवावच्चिन्नाविषयकप्रतीतिविषयतावच्छेदकतह्रदत्वावच्छिन्नविषयताया बाधज्ञानीयायाः अनुमितिप्रतिबन्धकतावच्छेदकतया तादृशविषयिताशून्यत्वस्य बाधज्ञानोऽसत्त्वादिति वाच्यम्।

    अनतिरिक्तवृत्तित्वकल्पेऽपि जातित्वादिना वह्रतवाद्यवगाहिव्यभिचारज्ञाने प्रतिबन्धकताविरहेणाव्यापकविषयिताशून्यज्ञानीयत्वस्य विशिष्टान्तरविषयितायां निवेशनीयतया यद्रपावच्छेन्नविषयकत्वाव्यापकविषयिताशून्यज्ञानीय यद्रपावच्छिन्नविषयता तादृशप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपपावच्छेदकतावती स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकतद्रूपावच्चिन्नविषयताशून्यतवस्य विवक्षणेनसम्भावाभावादिति चेत्-

    न। संयोगवज्जलं जलाभाववदित्यात्र जलवत्संयोगवज्जलरूपबाधेऽव्याप्तेः। तत्र जलत्वेन घटावगाहिजलवत्संयोगवज्जलमिति ज्ञानीयसंयोगवज्जलत्वावच्चिन्नविषयतायाः प्रतिबन्धकतावच्छेदकतया तादृशज्ञाने च संयोगवज्जलत्वाच्छिन्नविषयित्वाव्यपकविषयकायाः कस्या अप्यभावात्तादृशबाधज्ञाने च संयोगवज्जलत्वावच्चिन्नविषयताशन्यत्वाभावत्।

    एवं संयोगः संयोगाभाववान् संयोगाभाववत्पर्वककालीनधूमादित्यत्र संयोगवत्पर्वतरूपसाधनाप्रसिद्वाव्याप्तिः। संयोगत्वावच्चिन्नविषयकत्वाव्यापकविषयताशून्यसंयोगः संयोगकवानिति ज्ञानीय संयोगत्वावच्छिन्नविषयतायाः प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वात्। स्वावच्छिन्नाविषयकप्रतीतिवषयतावच्छेदकसंयोगत्वावच्छिन्नविषयताशून्यत्वस्य तादृशसाधनाप्रसिद्विज्ञानेऽसत्त्वात्।

    नच यद्रपावच्छिन्नविषयतानिरूपितानिरूपितयद्रूपावच्छिन्नविषयता स्वावच्छिन्नविषयकत्वाव्यापिका तद्रूपावच्छिन्नविषयतानिरूपिततद्रूपाविषयता तादृशानुमितिप्रतिबन्धकतावच्छेदिका स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकतद्रूपावच्छेदकतद्रूपावच्छिन्नाविषयताशून्यत्वस्य विवक्षणान्नोक्तदोषः। संयोगत्वावच्छिन्नविषयत्वाव्यापकीभूतायास्संयोगत्वावच्छिन्नविषयतानिरूपितसंयोदत्वावच्छिन्नविषयताया अभावस्य संयोगः संयोगवानिति ज्ञानेऽसत्त्वात्।

    एवं संयोगवज्जलत्वावच्छिन्नविषयित्वाव्यपकीभूतायाः संयोगवच्छिन्नविषयतानिरूपितसंयोगवज्जलत्वावच्छिन्नविषयताय अभावस्य जलत्वेन घटावगाहिजलवत्संयोगवज्जलमिति ज्ञानेऽसत्त्वाच्चेति वाच्यम्।

    तथापि गुणो गुणभिन्न इत्यत्र इत्यरूपतो गुणत्ववत् गुणरूपबाधे अव्याप्तिः। तस्य गुमघटितत्वात् गुणत्वावच्छिन्नविषयित्वाव्यापिकायास्तादृशविषयिता गुणो गुणो इति ज्ञानेऽसत्त्वात्तादृशज्ञानीयगुणत्वावच्छिन्नविषयतायाः प्रतिबन्धकतावच्छेदकत्वात्। एवं जलत्वावच्छेदेन जलववद्दलाभावसाधने जलवज्जलवज्जलरूपबाधेऽव्याप्तिः। तस्य जलवज्जलघटित्वात् जलवज्जलत्वावच्छिन्नविषयित्वाव्यापकीभूता यद्रूपावच्छिन्नविषयतानिरूपितयद्रूपावच्छिन्नविषयता तच्छून्यबाधज्ञानीयजलवज्जलत्वावच्छिन्नविषतायास्तादृशामुमितिप्रतिबनअधकतावच्छेदकत्वात्।

    नच यद्रपावच्चिन्नविषयता स्वावच्छिन्नविषयत्वाव्यापिका तद्रपावच्छिन्नविषयताशून्यत्वस्य विवक्षणान्नोक्तदोषः गुणत्वावच्चिन्नविषयत्वाव्यापिकाया गुणत्वावच्छिन्नविषयताया गुणो गुण इति प्रतिबनअधकज्ञाने सत्त्वात्। एवं जलवज्जलत्वावच्छिन्नविषयताय जलवद्दलवज्जलमिति प्रतिबनअधकज्ञाने सत्त्वाच्चेति वाच्यम्।

    जलं संयोगवज्जलाभाववदित्यत्र संयोगवज्जलवज्जलरूपबाधे अव्याप्तेः। तस्य संयोगवज्जलवदात्मकविशिष्टान्तरघटितत्वात्। उक्तबाधज्ञानीयसंयोगवज्जलवत्त्वावच्चिन्नविषयतायाः प्रतिबन्धकतावच्छेदकत्वात्तादृशप्रतिबन्धकज्ञाने च तादृशविशिष्टविषयत्वाव्यापिका यद्रूपावच्छिन्नविषयता तस्या अभावात्।

    नच यद्रूपावच्छिन्नविषयतानिरूपितयद्रूपावच्छिन्नविषयता स्वावच्छिन्नविषयकत्वाव्यापिका तद्रपूपावच्छिन्नविषयतानिरूपिततद्रूपावच्छिन्नविषयताशूनयत्वं विवक्षणीयम्। संयोगवज्जलवत्त्वाच्छिन्नविषयत्वाव्यापकीभूतायाजलत्वावच्छिन्नविषयतानिरूपितसंयोगवज्जलवत्वावच्छिन्नविषयताया उक्त प्रतिबन्धकज्ञाने सत्त्वेन तच्छून्य-

    (ननु उक्तरीत्या रूपद्वयघटिताव्यापक विषयिताशून्यत्वं न विवक्षणीयम्। येनोक्तदोषस्स्यात्। अपितु यद्रूपनिष्ठावच्छेदकताकविषयता स्वावच्चिन्विषयकत्वाव्यापिका तद्रूपानिष्ठावच्छेदकताकविषयताशून्यत्वं विशेष्यप्रकारतावच्छेदकतासाधारणावच्छेदकतात्वेनावच्छेदकताघटितं विवक्षणीयम्। तथासति गुणो गुणभिन्न इत्यत्र बाधेनाऽव्याप्तिः। बाधज्ञाने विशेष्यतायास्सत्त्वात्तच्छून्य गुण इति ज्ञानीयविषयतायाः प्रतिबन्धकतानवच्छेदकत्वात्। एवमेव जलवजद्जलवद्दलरूपबाधेऽपि नाव्याप्तिरित्याशयेन शङ्कते-

    नचेति। एतेन गुणत्वावच्छिन्नविषयकत्वाव्यापकत्वस्य गुणत्वावच्चिन्नविषयितायाः कथञ्चिदप्युपपादयितुशक्यतया परिष्कार एवायं शङ्कापथं नाधिरोहतीति प्रत्युक्तम्। उक्तरीत्या शङ्काग्रन्थसमर्थनात्।) संयोगवज्जलवदितिज्ञानीयतद्विषयतायाः प्रतिबन्धकतावच्छेदकतया नाव्याप्तिरिति वाच्यम्।

    तथापि स्वरूपं स्वरूपवद्भेदत्ववदित्यत्र स्वरूपवद्भेदत्ववद्भेदत्व स्वरूपात्मकबाधेऽव्याप्तिः स्वरूपवद्भेदत्ववद्भेदवत्त्वावच्छिन्नविषयित्वाव्यापकीभूता यद्रूपावच्छिन्नविषयितानिरूपित यद्रूपावच्छिन्नविषयतातच्छून्यतादृशबाधज्ञानीयस्वरूपवद्भेदत्ववद्भेदवत्त्वावच्चिन्नविषयतायाः प्रतिबनअधकतावच्छेदकत्वात्। तादृशबाधस्य च तद्‌घटितत्वात्।

    नच सवावच्छिन्नाविषयकप्रतीतिविषयतावच्चेदकयद्रूपावच्छिन्नविषयतासामान्यं अनुनितिप्रतिबनधकतावच्चेदकं यद्‌रूपावच्चिन्नाघचितत्वं विवक्षणीयम्। तथाप्यनतिरिक्त वृत्तितवपक्षे निवेशनीयाप्रमाण्यज्ञाननास्कन्दितत्वसंशयान्यतवानविशेन लाघवात्।

    तथा च प्रागुणक्तदोषावकाश इति वाच्यम्।

    अभाववान् वह्रयभाववान् अभाववान् ह्रद इति ज्ञानस्य ह्रदोवह्रिमानित्यनुमितिप्रतिबन्धकतया अभाववद्‌ह्रदत्वावच्छिन्नविषयतासामान्यस्य तादृशानुमितिप्रतिबन्धकतावच्चेदकतया वह्रयभावद्‌ह्रदादि रूपबाधस्य तदघटितत्वाभावेनाव्याप्तेः।

    नच यद्‌रूपावच्छिन्नविषयतासामान्यं ज्ञानवैशिष्टयावच्छिन्नप्रतिबनअधकतावच्छेदकं तद्‌रूपावच्चिन्नाघटितत्वस्य विवक्षणान्नायं दोष इति वाच्यम्।

    तथासति मेयतवविशिष्टासाधारण्येऽतिव्याप्त्यापत्तेः। मेयत्वविशिष्टचासाधारण्यघटकतावच्छेदकशुद्वासाधारण्यत्वावच्छिन्नविषयतासामान्यस्य ज्ञावैशिष्टयावच्छिन्नप्रतिबनअधकतायामेवावच्छेदकत्वात्।

    नच यद्रूपावच्छिन्नविषयतासामान्यं ज्ञानवैशिष्टयावच्छिन्नत्वोभयाभाववत्प्रतिबन्धकतावच्छेदकं तदवच्चिन्नवाघटितत्वं विवक्षणीयम्। तथाचासाधारण्यप्रतिबनअधकतायामसाधारण्यविषयकत्वानवच्छिन्नत्वाभावेनोभयाभावसत्वेनासाधारण्यस्य विशिष्टान्तरतासम्भवेन न मेयत्वविशिष्टासाधारण्येऽतिव्याप्तिः। उक्तरीत्याऽभाववद्‌ह्रदविषयकनिश्चयप्रतिबन्धकतायां ज्ञानवैशिष्टयावच्छिन्नत्वासाधारण्यविषयकत्वानवच्छिन्नत्वोभयस्यैव सत्त्वेन तस्य विशिष्टान्तरतवाभावादिति वाच्यम्।

    तथापि गगनाभाववदभाववत्कालीनघटो गगनवानित्यत्र मेयत्वविशिष्चबाधेऽतिव्याप्त्यापत्तेः। गगनाभाववद्‌गगनाभाववद्भाववत्कालीन घटात्मकबाधविषयतासामान्यस्य प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपित ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतायामेवाच्छेदकतया तत्प्रतिबन्धकतायामुक्तोभयसत्त्वेन उभयाभाववत्प्रतिबन्धकतावच्चेदकत्वस्य दोषान्तरविषयतायामेव सत्त्वेन तदघटितत्वस्योक्तमेयत्वविशिष्टबाधेऽक्षतत्वात्।

    नच यद्रूपावच्छिन्नविषयतासामान्यं ज्ञानवैशिष्टयावच्छिन्नत्व असाधारण्यविषयकत्वानवच्छिन्नत्व-प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टविषयित्वानवच्छिन्नत्वैतत्-त्रितयाभाववत्प्रति बन्धकतावच्छेदकं तद्रूपावच्चिन्नाघटित्वं विवक्षणीयम्। विषयतायां प्रतिबन्धकतावैशिष्टयं च स्वावच्छेदकत्व-स्वनिरूपित प्रतिबध्यतावच्छेदकविषयताघटित धर्मावच्चिन्न प्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकत्वोभयसम्बन्धेन।

    तथाच तादृशबाधनिश्चयप्रतिबन्धकतायां प्रागुक्तोभयाभावप्रतियोग्युभयसत्त्वेऽपि प्रकृतानुमितित्वव्यापकप्रतिबध्यतातिरूपितप्रतिबन्धकतावच्छेदकीभूता सती तन्निरूपितप्रतिबध्यतावच्छेदकगगनाभाववदभाववत्कालीनघटत्वावच्छिन्नविशेष्यतानिरूपितगगनत्वावच्च्छिन्नप्रकारताघचितधर्मावच्चिन्नप्रतिबन्धकतानिरूपितगगनाभावनवत्तादृशघटविषयकबुद्वित्वावच्छिन्नप्रतिबध्यतावच्छेदकीभूता या गगनाभवत्तादृशघटविषयता तदनवच्छिन्नत्वाभावेनोक्तत्रितयाभावसत्त्वेन तादृशप्रतिबन्धकतायां बाधविषयतासामान्यस्यावच्छेदकतया शुद्वबाधस्य विशिष्टान्तरतोपपत्त्या तद्‌घटिते नातिव्याप्तिरिति वाच्यम्।

    वह्रयभाववद्‌वह्रयभावव्याप्यवत्कालीनह्रदो वह्रिमानित्यत्र वह्रयभावव्याप्यवत्तादृशह्रदात्मकसत्प्रतिपक्षज्ञानस्य ज्ञानविशिष्टज्ञानत्वेनव प्रतिबन्धकतया तत्प्रतिबन्धकतायां ज्ञानवैशिष्टयावच्छिन्नचत्वासाधाण्यविषयकत्वानवच्छिन्नत्वतादृशप्रतिबन्धकताविशिष्टविषयित्वानवच्छिन्नत्वानां त्रयाणमपि सत्त्वेन तत्‌त्रितयाभाववत्प्रतिबन्धकतावच्छेदकविषयतासामान्यकदोषान्तराघटिते मेयत्वविशिष्टतादृशसत्प्रतिपक्षेऽतिव्याप्तेः।

    यदि च प्रकृतानुमितित्वव्यापकप्रतिबध्यातनिरूपितप्रतिबन्धकतावच्चेदकपक्षविशेष्यतानिरूपितप्रकारतावच्चेदकधर्मावच्छिन्नविधेयताशाल्यनुमितित्वावच्चिन्नजन्यातनिरूपितजनकातवच्छेदकविषयित्वानवच्चिन्नत्वप्रागुक्तत्रितयैतच्चतुष्टयाभाववत्प्रकृतानुमितिप्रतिबन्धकतावच्चेदकं यद्रपावच्चिन्नविषयतासामान्यं स्वावच्चिन्नाविषयकप्रतीतिविषयतावच्चेदकतद्रूपावच्चिन्नघटितत्वस्य निवेशे तादृशातिव्याप्तिर्वार्यते। तदाऽनतिरिक्तवृत्तित्वनिवेशापेक्षया किमपि लाघवं न पश्याम इत्यनतिरिक्तवृत्तित्वरूपावच्छेदकतवनिवेश एवोचित इति।

        
</2-21>
    स्ववच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयतानिरूपकतावच्चेदकं तदवच्छिन्नाविषयकत्वं दोषज्ञाने निवेशितं भट्टायार्येंण।
</2-21>

(प्रथम नच ग्रन्यपरिष्कारविचारः)

<2-22>
    न च यद्रूपावच्छिन्नविषयकत्वं स्वावच्चिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकं तादृशरूपान्तराघटितत्वस्य विवक्षितत्वान्न दोष इति-गादाधरी।
</2-22>
    ह्रदो वह्रयभावान् ह्रदे वह्रयभाव इति ज्ञानयोरेकरूपेण प्रतिबन्धकत्वमङ्गीकृत्येदं प्रतिबध्यप्रतिबन्धकभावश्च वह्रित्वावच्छिन्नप्रकारतानिरूपितह्रदत्वावच्छिननिप्रकारतानिरूपितह्रदत्वावच्चिन्नविशेष्यताशालि बुद्वित्वाच्छिन्नं प्रति वह्रयभावत्वावच्छिन्नप्रकारतानिरूपितत्वविशिष्टस्वरूपत्वावच्छिन्नत्वाभाह्रदत्वावच्छिन्नप्रकारतानिरूपितत्वविशिष्टाधेयतात्वावच्छिन्नत्वाभावोभया भयाभाववद्‌ वह्रयभावत्वावच्छिन्नविषयतानिरूपितसांसर्गिकविषयतानिरूपितह्रदत्वावच्छिन्नविषयताशालिनिश्चयत्वेनेति।


    यद्वा स्वरूपतवावच्छिन्नवावच्छेदकतत्वेतरसंसर्गनिष्ठावच्छेदकत्वानिरूपकवह्रयभावत्वावच्छिन्नविषयतानिरूपितसांसर्गिकविषयतानिरूपित धेयतात्वावच्छिन्नावच्छेदकत्वेतरसंसर्गनिष्ठावच्छेदकत्वानिररूपकह्रदत्वावच्छिन्नविषयताशालिनिश्चयत्वेनेति। एवं च वह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्चेदकं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं ह्रदवृत्तिवह्रयभावत्वं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्चेदकं वह्रयभाववद्ह्रदत्वामिति लक्षणसङ्गतिः।

    मेयत्वविशिष्टव्यभिचारतच्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकतविषयितानिरूपकतावच्छेदकं तादृशरूपं शुद्वय्भिचारत्व तदवच्छिन्नाघटिकतवाभावान्मेयत्वविशिष्चव्यभिचारे नातिव्याप्तिः। व्यभिचारघटितबन्धत्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकं न शुद्वव्यभिचारत्वं तादृशप्रतिबन्धकतासामान्यान्तर्गतबाधप्रतिबन्धकताशून्यव्यभिचारमात्रनिश्यचे यदवच्छिन्नविषयतायास्सत्वात्।

    किन्तु विपरीततादृशबाधत्वमिति न तत्राव्याप्तिरिति कथमसम्भवाभिधानमिति कश्चित्।

    तथासति बाधविशिष्टव्यभिचारेऽतिव्याप्तिः। बाधविशिष्टव्यभिचारत्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकं शुद्वव्यभिचारविषयकत्वं बाधविषयकत्वं वा न भावति। किन्तु व्यभिचारविशिष्टबबाधविषयतकत्वामिति तदघटित्वस्य तत्र सत्त्वात्। अतः स्वावच्छिन्नविषयकत्वाव्यपकविषयताशून्यस्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वरूपमेव तादृशरूपे विशिष्टान्तरत्वं वक्तव्यम्।

    तथाच विपरीतबाधतवादिकं न विशिष्टान्तरातावच्छेदकमित्यसम्भवाभिधानस्य युक्तत्वात्। एतैनैकरूपेण प्रतिबन्धकत्वानङ्गीकारेऽपि सर्वं गगनवदित्यत्र गगनाभाववद्घटादिरूपबाधे लक्षणसमन्वयः। तादृशबाधविषयकत्वावच्छिन्नप्रितिबन्धकतासामान्यावच्छेदकगगनाभाववत्पटत्व वच्छिन्नविषयितानिरूपकतावच्छेदकं तादृशपटत्वादिकं स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं च तदवच्छिन्नाघटित्वस्य तत्र सत्त्वादित्यसम्भावभिधानमसङ्गतमिति पारस्तम्।

    बाधविशिष्टव्यभिचारवारणोक्तविवक्षाया आवश्यकतया गगनाभाववत्पटतवादेर्विशिष्टान्तरतावच्छेदकत्वासम्भावत्।

    यत्तु-यद्रूपावच्छिन्नानुयोगिताक पर्याप्तिकावच्छेदकतानिरूपकताकविषयताव्यापकप्रकृतानुमितिप्रतिबन्धकतासामान्यावच्छेदकतविषयितानिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपपर्याप्त्यनुयोगितावच्छेदकं यत्‌ तद्‌रूपवृत्तिनिरूपकताकविषयताशून्यज्ञानवृत्तिविषयितानिरूपकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकं अधिकवारपर्याप्तिमनिवेश्य तद्रूपावच्छिन्नानुयोगिताकपर्याप्तिकनिरूपकतावच्छेदकताकविषयिताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकं यद्रूपं तद्रूपाविशिष्टवत्त्वं लक्षणम्।

    सर्वत्र दोषतावच्छेदकघटकसमुदायगत समुदायत्वमादाय लक्षणं सङ्गमनीयम्। तत्र विशिष्टान्तरं मेयत्वविशिष्टव्यभिचारत्वादिकं तदवच्छेघटकसमुददायगतसमुदायत्वस्य व्यभिचारत्वघटत्वघटकसमुदायागतसमुदायत्ववृत्तिनिरूपकताशुद्वव्यभिचारविषयताशून्यमेयत्वविशिष्चोप्त्यनुयोगितावच्छेदकत्वात्।

    यद्‌रूपपदेन मेयत्वविशिष्टव्यभिचारघटकसमुदायगतसमुदायत्वोपादाने विशिष्टान्तररूपं शुद्वव्यभिचारत्वघटकसमुदायत्वमपीति तदवच्छिन्नपर्याप्तिकनिरूपकतावच्छेदकताकविषयिताशून्यत्वस्य मेयत्वविशिष्टव्यभिचारविषयप्रतीतावभावान्नातिव्याप्तिः। तत्राधिकवारकपर्याप्त्यनिवेशादिति कथमसम्भव इति।

    तदपि न। तथापि बाधविशिष्टव्यभिचारादिवारणाय विशिष्टान्तरताघटकप्रतीतौ यद्रूपावृत्तिनिरूपकताकविषयकत्वाव्यपकविषयताशून्यत्वस्य निवेशनीयतया तादृशविशिष्टान्तराप्रसिद्वयाऽसम्भवस्य दुष्परिहरत्वात्ष यदपि स्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकं यद्‌रूपावच्छिन्नविषयकत्वमित्यस्य स्वावच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतात्वव्यापकं यद्‌रूपावच्छिन्नविषयताव्यापकत्वमित्यर्थः।

    तथाच बाधविपरीबाधयोरेकरूपेण प्रतिबन्धकत्वाभावेऽपि लक्षणसमन्वयस्सम्भवति।

    तथाहि-स्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतायां विशिष्टान्तरत्वेनाभिमतविशिष्टविषयताव्यापकत्वं न स्वरूपसम्बन्धेन, किन्तु स्वनिरूपितप्रतिबध्यतावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावत्त्वसम्बन्धेन।

    एवं च ह्रदो वह्रयभाववानिति निश्चयस्य ह्रदे वह्रयभाव इति निश्चयस्यचैकरूपेण प्रतिबन्धकत्वाभावेऽप्येकधर्मावच्छिन्नं प्रत्येव प्रतिबन्धकतया ह्रदवृत्तिवह्रयभावत्वाच्छिन्नविषयकनिश्चये सर्वत्र वह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतायास्सत्त्वेन तादृशप्रतिबन्धकततात्वव्यपकत्वस्य ह्रदवृत्तिवह्रयबावत्वावच्छिन्नविषयताव्यापकत्वे सत्त्वेन तस्य विशिष्टान्तरतासम्भवात्। तदघटितत्वस्य बाधे सत्त्वात्।

    एवं सर्वं गगनवदित्यत्रापि गगनाभाववद्घटत्वावच्छिन्नप्रतिबन्धकतात्वव्यापकत्वस्य गगनाभाववत्पटत्वावच्छिन्नविषयिताव्यपकत्वे सत्त्वेन तत्रापि लक्षणसङ्गतिः। एवं व्यभिचारघटितबाधे च नाव्याप्तिः तादृशबाधत्वावच्छिन्नप्रतिबन्धकताया उक्तसम्बन्धेन शुद्वव्यभिचारविषयकनिश्चयेऽभावेन तद्विषयताव्यापकत्वे तादृशप्रतिबन्धकतात्वव्यापकतवाभावेन शुद्वव्यभिचारस्य विशिष्टान्तरत्वाभवात्। विवरीतव्यभिचारघटितबाध एव तादृशविशिष्टान्तरमिति तदघटितत्वस्य तत्र सत्त्वात्। तदपि न। उक्तदोषानतिलङ्घनात्।

    तथाचासम्भव एव। अत्र प्रथमं स्वरूपसम्बन्धरूपावच्छेदकत्व निवेशे असम्भवः, वह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयकत्वावच्छिनन्नप्रतिबन्धकतासमान्यान्तर्गता पक्षे साध्यवैशिष्टयावगाहि बुद्वितवावच्छि्नप्रतिबध्यतानिरूपितबाधनिश्चयप्रतिबन्धकता पक्षे हेतुवैशिष्टयावगाहिबुद्विनिरूपितावच्छेदकधर्मदर्शनप्रतिबन्धकता च तदुभयानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकत्वरूपैकरूपवदप्रसिद्वेः। उत्तरत्र तन्निवेशे व्यभिचारघटितबाधस्थले तादृशबाधविषयताव्यापिका विशिष्टबाधप्रतिबन्धकता शुद्वव्यभिचारप्रतिबन्धकता च तदुभयावच्छेदकत्वं स्वरूपसम्भन्धरूपं न बाधविषयतायाः शुद्वय्भिचारनिश्चयप्रतिबन्धकतायामनवच्छेदकत्वात्। व्यभिचारविषयतायास्तदुबयावच्छेदकत्वेऽपि स्वरूपसम्बन्धरूपतन्निवेशे बाधादिज्ञानीयैकदेशविषयतामादायासंभववारणाय यद्विषयतासामान्यस्यैव तादृशावच्छेदकताया वक्तव्यतया जातित्वादिना वह्रित्वाद्यवगाहिव्यभिचारज्ञानीयविषयतायास्तत्सामान्यान्तर्गतायास्तदवच्छेदकत्वाभावेनाप्रसिद्विभिया यद्रूपावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीययद्रूपावच्छिन्नविषयतासामान्यस्यविवक्षणीयतया व्यभिचरात्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयव्यभिचारविषयताय बाधप्रतिबन्धकतायामनवच्छेजकत्वात् न तदप्रसिद्विरिति।

    उभयत्र तन्निवेशे तु बाधादिविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकतदविषयकप्रतीतिविषयतावच्छेदकरबपाऽप्रसिद्विरतोऽनतिरिक्तवृत्तित्वमेवोभयत्र निविष्टम्। तथाच विपरीतबाधतवादिकमेव तादृशं प्रसिद्वयति।।
<2-22>
    न च यद्रूपावच्छिन्नविषयकत्वं स्वावच्छिन्नविषयकत्वावच्चिन्नप्रतिबन्धकतासामान्यावच्छेदकं तादृशरूपान्तराघटितत्वस्य विवक्षितत्वान्न दोष इति-गादाधरी।
</2-22>

<2-23>
    व्यभितारत्वरूपस्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकस्य तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकस्याप्रसिद्वयासम्भावदिति गादाधरी।
</2-23>
    नन्वत्र? स्वावच्छिन्नविषयकत्वावच्छिन्ना यावत्यः प्रकृतानुमिति प्रतिबन्धकताः तत्प्रत्येकं यद्रूपावच्छिन्नघटकनिरूपितविषयितात्व्यपकं तद्‌रूपावच्छिन्नाघटितत्वं समुदितार्थः। प्रतिबन्धकतायाः विषयतात्वव्यापकत्वमवच्छेदकतासम्बन्धेन। घटकत्वं च तदविषयकप्रतीतिविषयतावच्छेदकधक्मवत्त्वम्।

    तथाच वह्रयभाववद्‌ह्रदत्वाच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतायात्यः कैवलबाधप्रतिबन्धकतैव। तदनतिरिक्तवृत्तिमेयत्वविशिष्टबाधादिविषयित्वमिति नाप्रसिद्विः। तथाच तादृशबाधादिप्रतिबन्धकतायां मेयत्वविशिष्टबाधत्वादिरूपयद्‌रूपावच्छिन्घटकशुद्वबाधादिविषयितात्वव्यापकत्वसत्त्वात्। बाधे तदघटितत्वसत्त्वाल्लक्षणसमन्वयः। मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयिताव्यापकव्याप्तिज्ञाननिरूपितप्रतिबन्धकतायां मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नघटकशुद्वव्यभिचारविषयतात्वव्यपकत्वस्य सत्त्वाद्यद्‌रूपपदेन मेयत्वविशिष्टव्यभिनारत्वस्य धर्तुं शक्यतया स्वस्य स्वाघटित्वाभावान्नातिव्याप्तिः।
    
    एवं व्यभिचारघटितबाधेऽपि नाव्याप्तिः। तादृशबाधत्वावच्छिन्नविषयकत्वावच्छिन्नयावत्प्रतिबन्धकतान्तर्गता बाधप्रतिबन्धकता व्यभिचारप्रतिबन्धकता च तत्प्रत्येकं तादृशबाधघटकव्यभिचारविषयताव्यापकं न तस्य तादृशबाधटकत्वं निरूपक्तम्ष किन्तु मेयत्वविशिष्टतादृशशबाधघटकतद्विषयतात्वव्यापकत्वमेवेति तस्य तदघटितत्वात्। एवं बाधविशिष्टव्यभिचारादौ नातिव्याप्तिः तादृशव्यभिचारविषयतिताव्यापकयावत्‌प्रतिबन्धकतान्तर्गताबाघप्रतिबन्धकता व्यभिचारप्रतिबन्धकता च तत् प्रत्येकं बाधविशिष्टव्यभिचारघटकशुद्वबाधशुद्वव्यभिचारविषयतात्वव्यरकत्वसत्त्वात्।

    एवंच सति विशिष्टद्वयाघचितत्वमपि न निवेशनीयम्। न निवेशनीयम्। वह्रयभाववज्जलघटकतावद्‌वह्रयभाववज्जलवत्कालीन जलवद्‌ह्रदविषयतात्वव्यापकत्वस्य सत्त्वेन स्वस्य स्वाघटितत्वाभावेन तादृशविशिष्टेऽतिव्याप्तिविरहात्।

    एवं स्वरूपसम्बन्धरूपावच्छेदकतासम्बन्धेन प्रतिबन्धकताया व्यापविवक्षणात् रूपं नीलरूपवदित्यादौ नीलरूपाभाववन्नीलादौ च नातिव्याप्तिः। तत्र नीलरूपाभाववन्नीलत्वविशिष्टविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकता नीलरूपाभाववन्नीलत्वविशिष्टविषयकनिश्चयवैशिष्टया वच्छिन्ना नीलत्ववद्‌रूपत्वावच्छिन्नविषयकनिश्चयप्रतिबन्धकतैव तत्र नीलरूपाभाववन्नीलत्वविशिष्टघटकनीलत्ववद्‌रूपात्वविशिष्टविषयतात्वव्यापकत्वस्य सत्त्वात्। स्वस्य स्वाघटितच्वाभावात्।

    अत्रायमनुगमः- पदार्थविशिष्टपदार्थवत्त्वं हेत्वाभाससामान्यलक्षणम्। पदार्थवैशिष्टयं च स्वतादात्म्य-स्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितित्वव्यापकप्रतिबध्यतात्वव्यापकरूपावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वोभयसम्बन्धेन। रूपे प्रतिबन्धकतात्वव्यापकत्वं च स्वविशिष्टरूपवत्त्वसम्बन्धेन। रूपे स्ववैशिष्टयं च स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्व-स्वावच्छिन्नविषयकत्वाव्याकविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकत्वोभयसम्बन्धेन। तादृशरूपवत्त्वं च स्वावच्छिन्नविषयतात्वव्यापकत्वसम्बन्धेनेति।

    नचैवं गगनाभाववदभाववत्कालीनघटो गगनावानित्यत्र बाधे अव्याप्तिः। गगनाभाववत्तादृशघटत्वात्मकबाधतावच्छेदकतरूपे स्वतादात्म्यसत्त्वेऽपि द्वितीयसम्बन्धस्याभावात्। तथाहि-तादृशबाधविषयताव्यापकप्रकृतामुमितिप्रतिबन्धकता ज्ञावैशिष्टयावच्छिन्नप्रतिबनअधकतैव तत्र च तादृशघटत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकतदवच्चिन्नविषयित्वाव्यपकविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकाभाववत् तादृशघटत्वावच्छिन्नविषयतात्व्यापकत्वस्य सत्तवात्।स्वस्य च स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वाभावात्।

    एवं प्रतिहेतुव्यापकतसाध्या भावसमानाधिकरणप्रतिहेतुमत्पक्षरूपसत्प्रतिपक्षस्य लक्ष्यत्वे तत्राव्याप्तिः। तत्र तादृशसत्प्रतिपक्षनिश्चयप्रतिबन्धकतायां तादृशसत्प्रतिपक्षघटकप्रतिहेतुव्यापकसाध्याभावविषयतात्वव्यापकत्वस्य सत्त्वादिति वाच्यम्।

    स्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतात्वव्यायकरूपावच्छिन्ना विषयकप्रतीतिविषयकानवच्छेदकत्व-स्वावच्छिन्नविषयकत्वावच्छिन्नतादृशप्रतिबन्धकताविशिष्टविषयितानिरूपकतानवच्छेदकत्व-स्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतानिरूपितानिरूपतानवच्छेदकत्व-स्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकतावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकविषयतावचत्छिदकधर्मावच्छिन्नविधेयताशाल्यनुमितित्वावच्छिन्कार्यतानिरूपिकारणाताविशिष्टविषयितानिरूपतानवच्छेदकत्वैतत्त्त्रितयाभाव-स्वतादात्म्योभसम्बन्धेन। विषयतायां प्रतिबन्धकतावैशिष्टयं च स्वविशिष्टविषयतावदन्यत्वस्वनिरूपितप्रतिबध्यताविशिष्टनिश्चयत्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकतत्वोभयसम्बन्धेन। अत्र प्रथमसम्बन्धघटकविषयतायां स्ववैशिष्टयं च स्वनिरूपित्परतिबध्यताविशिष्टनिश्चयत्वाव्यापकप्रतिबनअधकतानिरूपितप्रतिबध्यतावच्छेदकत्वसम्वन्धेन। तत्सम्बन्धघटकविषयतावत्वं च स्वव्याप्यत्व-स्वाव्यापकत्वोभयसम्बन्धेन। विषयतायां कारणतावैशिष्टयं च स्वावच्छेदकत्व स्वविशिष्टविषयतावदन्यत्वोभयसम्बन्धेन। विषयतायां स्ववैशिष्टयं च अवच्छेदकत्वसम्बन्धेन। विषतावत्त्वं च स्वव्यप्यत्वस्वाव्यापकत्वोभयसम्बन्धेन। अत्र विषयतायां प्रतिबन्धेन। विषतावत्त्वं च स्वव्याप्यत्वस्वाव्यापकत्वोभयसम्बन्धेन। अत्र विषयतायां प्रतिबनअधकतावैशिष्टयघटकतया स्वविशिष्टविषयितावदन्यत्वनिवेशात् ह्रदो वह्रिमानित्यादौ वहरयभाववद्‌वह्रयभाववद्‌ह्रदे नातिव्याप्तिः। अन्यथा तादृशह्रदत्वे स्वतादात्म्य-स्वस्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यताविशिष्टनिश्चयत्वव्यापकह्रदोवह्रिमानितिनिश्चयत्वावच्छिन्नप्रतिबनधकतानिरूपितप्रतबध्यतावच्छेदकविषयितानिरूपकतावच्छेदकत्वप्रयुक्तत्रितयाभावस्य सत्तवेनातिव्याप्तेः। तन्निवेशे च तादृशप्रतिबन्धकताविशिष्टवह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयताव्याप्यत्वस्य तदव्यापकत्वस्य च सत्त्वेन तादृशविषयताविशिष्टान्यतवाबावात् नातिव्याप्तिः। एवं विषयतायां कारणतावैशिष्टघटकतया तादृशसम्बन्धनिवेशात् तत्रैव वह्रयभावव्याप्यवग्‌वह्रयभावव्याप्यबद्‌ह्रदे नातिव्याप्तिः।
    नचैवमसाधारण्येऽव्याप्तिः। असाधारण्यविषयताव्यापकत्वस्य प्रकृतानुमितिप्रतिघन्धकतायामसत्वात्। असाधाकण्यतावच्छेदकस्य स्वपदेन धर्तुमशक्यतया तादत्म्यघटितोभयसम्बन्धेन कस्यापि पदार्थस्य तादृशदोषतावच्छेदकेऽभावादिति वाच्यम्।

    द्वितीयसम्बन्धघटकप्रतिबन्धकतायां पक्षधर्मिकहेतुमत्ताज्ञानाकालीन त्वासाधारण्यविषयताशालित्वोभयाभाववत् स्वावच्छिन्नविषताशालिनिश्चय त्वव्यापकत्वस्य विवक्षणात्। तथाच तादृशनिश्चयत्वव्यापकप्कतिबन्धकतात्वव्यापकरूपं वह्रिव्यापकीभूताभावप्रतियोगिजलवद्‌ह्रत्वं तद्‌घटकासाधारण्यत्वावच्छिन्नविषयतामात्रे तादृशप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकत्वस्य सत्त्वात्। तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य सत्त्वाल्लक्षसमन्वयः।

    नचैवमप्यभावो गगनत्ववानाधेयत्वादित्यादौ पक्षघटितासाधारण्ये अव्याप्तिः। तत्र तादृशासाधारण्यविषयत्वावच्छिन्नप्रतिबन्धकतात्ववयापकत्वस्य तादृशासाधारण्यतावच्छेदके सत्त्वात्तादृशधर्मघटकतदवच्चिन्नविषयित्वाव्यापकविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकाधेयत्ववदभावत्वावच्छिन्नविषयतासामान्ये तादृशप्रतिबन्धकतावच्छेदकत्वस्यसत्त्वात् स्वावच्छिन्नस्य स्वावच्चिन्नाघटितत्वाभावादिति वाच्यम्।

    रूपनिष्ठप्रतिबन्धकतात्वव्यापकतावच्छेदकीभूतविशिष्टरूपवत्त्वसम्बन्धघचकरूपवत्‌वघचकस्वावच्छिन्नविषयतात्वव्यापकत्वरूपसम्बन्धघटकवि,यतायामसाधाण्यविषयताभिन्नत्वासाधारण्यविषयकत्वावच्छिन्नप्रतिबन्धकतावच्छेदकत्वोभयाभावस्य विशेषणत्वाङ्गकारात्।

    तथाच तादृशप्रतिबन्धकतात्वव्यापकं नासाधारण्यतावच्छेदकं तद्‌घटकतावच्छेदकाधेयत्ववदभावत्वावच्छिन्नविषयतायामुभयाभावाभावात्। असाधारण्यततावच्छेदकं तु घटकतावच्चेदकं न भवत्यतो मेयत्वविशिष्टतादृशासाधारण्यतावच्छेदकमेव तादृशमिति तदवच्छिन्नाघटिचच्वस्य सत्त्वान्नातिव्याप्तिरिति चेत्-

    न। निरवच्छिन्नवह्रयभाववद्‌ह्रदस्य दोषत्वमतेऽसम्भवः। तादृशबाधनिश्चयप्रतिबन्धकतायां तादृशबाधघटकवह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयतात्वव्यापकत्वसत्त्वात् स्वस्य स्वाघटितत्वाभावात्। यदि च तद्दोषवारणाय तादृशप्रतिबन्धकतायां स्वघटकविषयताव्यापकत्वं विवक्षणीयम्। तन्मते तादृशबाधादिज्ञानस्य निरवच्छिन्नविषयताशालित्वेन न प्रतिबनअधकत्वं किन्त्वव्याप्यवृत्तित्वज्ञानमन्तर्भाव्य विरोधिविषयकत्वेनैव तथाच नासम्भवः। इदानीमसाधारण्यविशेषसङ्‌ग्रहर्थं विषयितायामसाधारण्यविषयताभिन्नत्वघटितोभयाभावो न निवेशनीयः।

    किन्तु मेयत्वविशिष्टासाधारण्यवारणाय पक्षधर्मिकहेतुमत्ताज्ञानकालीनत्वासाधारण्यविषयताशालित्वोभयाभाववत्। स्वावच्छिन्नविषयताशालिनिश्चयत्वसम्बन्धेन तादृशरूपविशिष्टरूपविशिष्टकूरपवत्त्वं प्रतिबन्धकतायां निवेशनीयम्। तछाच न कश्चिद्दोष इत्युच्यते। तदा विशिष्टद्वयाघटितत्वं निवेशनीयम्। एवं रूपं नीलरूपवदित्यत्र नीलरूपाभाववन्नीले अतिव्याप्तिवारणाय तद्विषयताभेदोऽपि विवक्षणीय इति भट्टाटार्योक्तैतेनेत्यादि कल्पापेक्षया गौरवमिति दिक्।।

        
<2-23>
    व्यभिचारत्वरूपस्वावच्चिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकस्य तदवच्छिन्नाविषयकप्रतीविषयतावच्छेदकस्याप्रसिद्वयासम्भावदिति-गादाधरी।
</2-23>

(द्वितीय न च ग्रन्थपरिष्तारविचारः)
<2-24>
    नच स्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्चेदकविषयितानिकूरतचावच्छेदकः कश्चित् स्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदको यस्य एवं भूतं यत्‌ स्वं प्रमेयत्वविशिष्टव्यभिचारत्वादि तदवच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकत्वस्य विवक्षणीयतया न दोष इति वाच्यमिति-गादाधरी।
</2-24>
    अत्र प्रतियोगिनि स्वत्वं निविष्टम्। तथाच स्वं मेयत्वविशिष्टव्यभिचारत्वादिकं स्वावच्छिन्नविषयकत्वाच्छिन्नप्रतिबनअधकतासामान्यातावच्छेदकः कश्चित् शुद्वव्याभिचारत्वादिः तदवच्छिन्नाघटितत्वस्य व्यभिचारादौ सत्त्वाल्लक्षणसमन्वयः। मेयत्वविशिष्टव्यभिचारादावसत्त्वान्नातिव्याप्तिः। एवं च स्वपदोनोक्तव्यभिचारवटिबाधत्वं न धर्तुं शक्यते। तदवच्छिन्नविषयकत्वाच्छिन्नप्रतिबन्धकतासामान्यान्तर्गतातादृशबाधप्रतिबन्धकत्वशुद्वयभिचारप्रतिबनअधकत्वयोरवच्छेदकीभूता यद्वर्मावच्छिन्नविषयतचा स्वावच्छिन्ना विषयकप्रतीतिविषयतावतच्छेदकस्य तस्यासिद्वेः।

    किन्तु मेयत्वविशिष्टतादृशबाधत्वमेव धर्तव्यमिति नाव्याप्तिः। अत्र प्रथमं स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशे वह्रयभाववद्‌ह्रदादिरूपबाधाद्यसङ्‌ग्रहः मेयत्वविष्टतादृशबाधविषयताया बाधविषयतात्वेन साध्यवत्ताबुद्विनिरूपितज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धकतायां पक्षे हेतुवैशिष्टावदाहिबुद्विनिरूपितज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतायां च अवच्छेदकत्वात्। तादृशप्रतिबन्धकताद्वयानतिरिक्तवृत्तिबन्धकतायां च अवच्छेदकत्त्वात् तादृशप्रतिबन्धकताद्वयानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकस्य तादृशस्याप्रसिद्वेः।

    उत्तरत्रैव तन्निवेशे व्यभिचारघटितबाधासङ्‌ग्रहः. स्वपदेन व्यभिचारघटितबाधत्वस्य धर्तु शक्यत्वात्तादृशबाधत्वावच्छिन्नविषयताव्यापकप्रतिबनअधकताद्वयेऽपि तादृशज्ञानीयव्यभिचारविषयताया अवच्छेदकत्वात्। व्यभिचारत्वस्य तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वात्।

    यद्रूपावच्छिन्नविषयतासामान्यं स्वावच्छिन्नविषयकत्वाच्छिन्नप्रतिवन्धकतासामान्यावच्चेदकमिति विवक्षणे न व्यभिचारविषयतासामान्यान्तर्गतशुद्वव्यभिचारज्ञानीयतद्विषयतायास्तादृशबाधप्रतिमेधकतैनच्छेदकत्वभावेन तद्दोषवारणे बाधाद्यसङ्‌ग्रहः। मेयत्वविशिष्टवाधत्वविशिष्टवाधत्वावच्छिन्नप्रतिबन्धकतायां जातिमान् वह्रयभाववानिति ज्ञनीयतद्विषयतायाः सामान्यान्तर्गताया अवच्छेदकत्वाभावत्। अतस्स्वाच्छिन्नविषकत्वाव्यापकविषयताशून्यज्ञानीययद्रूपावच्छिन्नविषयतासामानयमवच्छेदकमिति विवक्षणीयम्। एवं च मेयन्वविशिष्टव्यभिचारघटितबाधत्वावच्छिन्नविषयताव्यपकप्रतिबनअधकतासामान्यावच्छेदकस्वावच्छिन्नविषयित्वाव्यापकविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेकदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकरूपाप्रसिद्विः।

    उभयतेर तन्नवेशे धूमव्यभिचारिवह्रिर्धूंमवान् वह्रेरित्यत्र मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः। तत्र मेयत्वविशिष्टव्यभिचारविषयतासामान्यावच्छिन्ना प्रतिबन्धकताद्वयी एका व्याप्तिग्रहप्रतिबन्धकता अन्या साध्यवत्ताग्रहनिरूपितमेत्ववान धूमाभाववान् मेयत्ववान् धूमन्यभिचारी वह्रिरिति ज्ञानत्वावच्छन्ना तयोः व्यभिचारविषयतासामान्यावच्छेदकतवाभावात्। स्वपदेन मेयत्वविशिष्टव्यभिचारस्य धर्तुमशक्यतया अन्यस्यैव तादृशतया तदवच्छिन्नाघटितत्वस्य तत्र सत्त्वात्‌। तथाच पूरावत्रानतिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशावश्यकत्वे उत्तरत्रापि तदावश्यकतेति।

    अत्र स्वावच्छिन्नविषयकत्वव्यापकप्रतिबन्धकतासामान्यानतिरिक्तवृत्तिविषयताया सवपदग्रह्यधर्मावच्छिन्नविषयित्वाव्यापकविषयताशून्यज्ञानीयत्वमपि विवक्षणीयम्।

    अन्यथा सर्वं गगनवदित्यत्र गगनाभाववद्‌घटत्वावच्छिन्नविषयिताव्यापकप्रतिबन्धकतासामान्यानतिरिक्तवृत्तिगगनाभाववत्‌पतच्वावच्छिन्नविषयित्वाव्यापकविषयताशून्यज्ञानीयविषयितानिरूपकाघच्छेदक तादृशपटत्वच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकगगनाभाववत् पटत्वप्रसिद्वा तत्राव्याप्तेः। यद्रूपावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयत्वमपि निवेशनीयम्।

    अन्यथा ह्रदो वह्रिमानित्यत्र जातिमद्‌वह्रयभाववद्‌ह्रदेऽतिव्याप्तेः।

    नन्वत्र यद्विशिष्टान्तरं तद्भिन्नत्वमेव निवेश्यताम्? किं तदघटितत्वनिवेशेन?

    नच व्यभिचारादौ मेयत्वविशिष्टव्यभिचारदिभेदाभावादसम्भव इति वाच्यम्।

    स्वाच्छिन्नानुयोगितकपर्याप्तिकावच्छेदकताकनिरूपतकताकविषयिताव्यापकप्रतिबन्धकतासामान्यानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकतात्ववच्छिन्नपर्याप्त्यनुयोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकतादृशविषयित्वाव्यापकविषयताशून्यज्ञानीयविषयितानिरूपकतानवच्छेदकतापर्याप्त्यनुयोगितावच्छेदकं यत्‌ स्वं तद्भिन्नप्रकृतानुमितिबनधकताविच्छेदकविषयितानिरूपकातावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकधर्मविशिष्टवत्त्वस्य विवक्षमयताऽदोषात्।

    एवं च मेयत्वविशिष्टव्यभिटचारत्वघटकसमुदायगतसमुदायत्वं स्वपदग्राह्यम्। तद्भिन्नं च शुद्वव्यभिचारत्वगत समुदायत्वमिति लक्षणसमन्वयः। मेयत्वविशिष्टव्यभिचारादौ च नातिव्याप्तिः। एवं च व्यभिचारघटितबाधे च नाव्याप्तिः। धूमव्यभिचारवह्रिमत्वगतसमुदायत्वस्य शुद्वव्यभिचारत्वगतसमुदायत्वात्मतादशरूपान्तरकत्वेऽपि तद्‌भेदस्य व्यभिचारघटितबाधत्वगतसमुदायत्वे सत्वेन भट्टाटार्योक्तरीत्या दोषाभावादिति चेत्-

    न। व्यभिचारविशिष्टबाधेऽतिव्याप्त्यापत्तेः। तत्रहि व्यभिचारविशिष्टबन्धत्वगतसमुदायत्वं न स्वपदेन धर्तुं शक्यते। तादृशबाधत्वावच्छिन्नविषयताव्यापकप्रतिबन्कतासामान्यावच्चेदकतद्विषयत्वाव्यापकविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेदक तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकरूपाप्रसिद्वेः। व्यभचारवैशिष्टयगतसमुदायत्वावच्छिन्नुयोगिताकपर्यप्तिकनिरूपकतावच्छेदकताकविषयिताव्यापकप्रतिबन्धकतासामान्यावच्छेपकताशुबिषयित्वाव्यापकविषयताशून्यज्ञानीय विषयितानिरूपकतावच्छेदकतापर्याप्त्यनुयोगितावच्चेदकतादृशविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकव्यभिचारत्वगतसमुदायत्वप्रसिद्वावपि तद्भेदस्य व्यभिचारविशिष्टबाधत्वगतसमुदायत्वे सत्त्वात्। तदघटितत्वनिवेशेनायं दीषः। अधिकवारकपर्याप्त्यनिवेशे तादृशव्यभिचारवैशिष्टयगतसमुदायत्वावच्छिन्नानुयोगिताकपर्याप्तिकनिरूपकतावच्छेदकताकविषयिताशून्यत्वस्यव्यभिचारविशिष्टबाधज्ञानेऽसत्त्वात्।

    एतेन स्वावच्छिन्विषयकत्वाव्यापकप्रतिबन्धकतासामान्यावच्छेदक स्वावच्चिन्नविषकत्वाव्यापकविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकस्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकयत्किञ्चिद्रूपकं यत्स्वं तदवच्छिन्नविषयतावत्त्वतदवच्चिन्नविषयकविषयिताशून्यत्वोभयाभाववद्यद्रूपावच्छिन्नविषयताशालिनिश्चयत्वव्यापिका प्रकृतानुमितिप्रतिवन्धकता तद्रूपावत्त्वं विवक्ष्यताम्।

    व्यभिचारादिदोषनिश्चये स्वपदग्राह्यमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयत्वाभावादुभयावोऽस्तीति दोषे लक्षणसमन्वयः। मेयत्वविशिष्टव्यभिचारनिश्चये चोभयसत्त्वान्नातिव्याप्तिः। व्यभिचारघटितबाधे च नाव्यप्तिः। तत्र धूमव्यभिचारिवह्रिमत्त्वस्य स्वपदेन धर्तुं शक्यत्वेऽपि तादृशबाधनिश्चये तदवच्छिन्नविषयकत्वाव्यापकधूमाभाववद्‌ धूमव्यभिचारिवह्रिमत्त्वावच्छिन्नविषयतायास्सत्त्वेनोभयाभावसत्त्वात्।

    नचैवं मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः। मेयत्वविशिष्चव्यभिचारघटोबयविषयकसमूहालम्बने तदवच्छिन्नविषयकत्वाव्यापकघटत्वावच्छिन्नविषयतासत्त्वेनोभयाभावसत्त्वादिति वाच्यम्।

    तदुभयाभाववत्‌स्वावच्छिन्नविषयकत्वाव्याकविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकत्वस्य लक्ष्यतावच्छेदके निवेशनीयत्वात्। स्वावच्छिन्नविषयित्वाव्यापकविषयताशून्यत्बं वा निश्चयविशेषणमित्यपि परस्तम्। व्यभिचारविशिष्टबाधेऽतिव्याप्तेः। तत्र विशिष्टबाधत्वस्य स्वपदेन धर्तुमशक्यत्वात्। व्यभिचारवैशिष्टयस्य स्वपदेन धर्तुं शक्यत्वेऽपि तदवच्छिन्नविषयित्वाव्यापकबाधविषयतायास्तत्र सत्त्वेनोभयाभावसत्त्वात्।

    यत्तु-यद्रूपावच्छिन्नानुयीगिताकपर्याप्तिकनिरूपकतावच्छेदकताकविषयताव्यापकप्रतिबन्धकतासामान्यानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकं यत्तादृशसमुदायत्वे तद्‌वृत्तिविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकत्वं लक्ष्यतावच्छेदके निवेशनीयमिति। तदपि न उक्तदोषात्।
<2-24>
    नच स्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकः कश्चित् स्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदको यस्य एवं भूतं यत्‌ स्वं प्रमयत्वविशिष्टव्यभिचारत्वादि तदवच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकत्वस्य विवक्षणीयतया न दोष इति वाच्यमिति-गादाधरी।
</2-24>

<2-25>
    तथासति धूमव्यभिचारिवह्रिमान् धूमवान् वह्रेरित्यादौ बाधत्वावच्छिन्नघटकतावच्धेदकधूमव्यभिचारिवह्रिमत्वादेः स्वावच्छिन्नाविषयकप्रतिविषयतावच्छेदकीभूतस्वावच्छिन्नविषयकत्वावच्चिन्नप्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपतावच्छेदकव्यभिचारत्वकत्वादव्याप्तेः दुर्वारत्वादिति गादाधरी।
</2-25>
    नन्वत्र? पक्षे हेतुमत्ताज्ञानाकालीनत्व-असाधारण्यविषयतावत्त्वोभयाभाववत्‌ स्वावच्छिन्नविषयताशालिनिश्चयत्वव्यापिका यावत्यः प्रतिबन्धकताः तत्प्रत्येकप्रतिबन्धकतायां स्वघटकीभूतयत्किञ्चद्रूपावच्छिन्नासाधारण्यविषयताभिन्नत्व असाधारण्यविषयकत्वावच्छिन्नप्रतिबन्धकतावच्छेदकत्वोभयाभाववद्विषयतात्वव्यापकस्वरूपसम्बन्धरूपावच्छेदकताकत्वमस्ति। एवं भूतं यद्यत्‌ स्वं तदवच्छिन्नविषयतावत्त्व-तदावच्चिन्नविषयत्वाव्यपकविषयताशून्यत्वोभयाभाववती या प्रतीतिः स्वावच्छिन्नविषयित्वाव्यपकविषयताशून्यदीयविषयतानिरूपकतावच्छेदकत्वं लक्ष्यतावच्छेदके निवेशनीयम्।

    तथाच मेयत्वविशिष्टव्यभिचारादौ नातिव्याप्तिः। स्वपदग्राह्यं मेयत्वविशिष्टव्यभिचारत्वं, तद्‌घटकीभूतशुद्वव्यभिचारत्वाच्छिन्ना या निरूपक्तोभयाभावती विषयता तत्त्वव्यापकतावच्छेदकताकत्त्वस्य व्याप्तिज्ञानप्रतिबन्धकतायां सत्त्वात् तदवच्छिन्नविषयतावत्त्वघटितोभयाभावस्य च मेयत्वविशिष्टव्यभिचारविषयकप्रतीतौ तद्विषयित्वाव्यापकविषयताशून्यायामभावात्। तदवच्छिन्नविषयत्वाभावादेवोभयाभाववती शुद्वव्यभिचारविषयकप्रतीतिरिति लक्षणणलमन्वयः।

    एवं व्यभिचारविशिष्टबाधे च नातिव्याप्तिःष तादृशबाधत्वावच्चिन्नविषयकत्वावच्छिन्नप्रतिबन्धकता व्यभिचारज्ञानप्रतिबन्धकता बाधनिश्चयप्रतिबन्धकता च तत्प्रतिबन्धकताव्यक्तौ तादृशबाधत्वघटकीभूतव्यभिचारत्वबाधत्वरूपयत्किञ्चिद्रूपावच्छिन्नविषयितात्वव्यापकावच्छेदकतावत्त्वस्य सत्त्वात्। स्वपदेन व्यभिचारविशिष्टबाधत्वस्य धर्तुं शक्यत्वात् एवं व्यभिचारघटितबाधे च नाव्यप्तिः। तत्र धूमव्यभिचारिवह्रिमत्त्वस्य स्वपदेन धर्तुं शक्यत्वेऽपि तदवच्छिन्नविषयित्वापकधूमाभाववद्‌धूमव्यभिचारिवह्रिमत्त्वाच्छिन्नविषयतायाः सत्त्वेनाव्यापकविषयताशून्यत्वाभावप्रयुक्तोभयाभावस्य तादृशबाधनिश्चये सत्त्वात्।

    स्वावच्छिन्नविषयनिश्चये पक्षधर्मिकहेतुमत्ताज्ञानकालीनत्वघटितोभयाभावनिवेशादसाधारण्यसङ्‌ग्रहः। स्वघटकीभूतयत्किञ्चिद्रूपावच्छिन्नविषयतायां असाधारण्यविषयताभिन्नत्वघटितोभयाभावस्य निवेशादसाधारण्यविशेषसङ्‌ग्रहः। स्वावच्छिन्नविषयतावत्त्वघटितोभयाभाववत्‌ प्रतीतौ स्वावच्छिन्नविषयकत्वाव्यकविषयताशून्यत्वनिवेशात् मेयत्वविशिष्टव्यभिचारोदासीनविषयकसमूहालम्बनमादाय न तत्रातिव्याप्तिः। अत्रापि सर्वं गगनवदित्यत्र गगनाभाववद्‌घटपटादिसङ्‌ग्रहाय स्वघटीकीभूचकिञ्चिद्रूपावच्छिन्नविषयतायां स्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयत्वं ह्रदो वह्रिमानित्यादौ जातिमद्‌वह्रयभाववद्‌ह्रदेऽतिव्याप्तिवारणाय यद्रूपावच्छिन्नविषयकत्वाव्यकविषयताशून्यज्ञानीयत्वं च निवेशनीयम्।

    एवं चेदानीं विशिष्टद्वयाघटितत्वं न निवेशनीयम्। वह्रयभाववद्‌जलवद्‌वृत्तिजलवद्ह्रदत्वघटकीभूतवह्रयभाववज्जलत्वावच्छिन्नविषयतायां तादशविषयताव्यापकज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतावच्छेदकतासत्त्वात्।

    एवं रूपं नीलरूपवदित्यत्र नीलरूपाभाववन्नीले च नातिव्याप्तिः।

    अत्रायमनुगमः- पदार्थविशिष्टपदार्थवदन्यप्रतीतिविशिष्टरूपवत्त्वं लक्षणम्ष पदार्थे पदार्थवैशिष्टयं च स्वातादात्म्य स्वावच्छिन्नविषयताशालि पक्षधर्मिकहेतुमत्ताज्ञानाकालीनत्व असाधारण्यविषयतावत्त्वोभयाभाववन्निश्चयत्वव्यापकप्रतिबन्धकतात्वव्यापकत्वोभयसम्बन्धेन। व्यापकत्वं च स्वविशिष्टरूपवत्त्वसम्बन्धेन। रूपे स्वैशिष्टयं च स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्व-स्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकत्वोभयसम्बन्धेन।रूपवत्त्वं च असाधारण्यविषयताभिन्नत्व असाधारण्यविषयकत्वावच्छिन्नप्रतिबन्धकतावच्छेदकत्वोभयाभाववत्‌स्वविशिष्टविषयतात्वव्यापकावच्छेदकतात्वसम्बन्धेन। विषयतायां स्ववैशिष्टयं च स्वावच्छिन्नत्व-स्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयत्वोभयसम्बन्धेन। निरवच्छिन्नसाध्याभाववत्पक्षस्यलक्ष्यत्वमते पक्षधर्मिकहेतुमत्ताज्ञानकालीनकालीनत्वघटितोभयाभाववत्‌-स्वावच्थिन्नविषयताशालिनिश्चयत्वाव्यपकत्वसम्बन्धेन। प्रतीतिविशेषणतापन्नभेदपरतियोगिनि धर्मनतत्त्वं च स्वाच्छिन्नविषयतावत्त्वस्वावच्छिन्नविषणतापन्नभेदप्रतियोगिनि धर्मवत्त्वं च स्वावच्छिन्नविषयतावत्त्वस्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यत्वोभयसम्बन्धेन। रूपे प्रतीतिवैशिष्टयं च स्ववृत्तिविषयितानिरूपकतावच्छेदकत्व-स्ववृत्तिकिञ्चिद्रूपावच्छिन्नविषयित्वाव्यापकविषयता नास्तीति प्रतीतिसिद्वाभावनिरूपितविषयतानिष्ठप्रतियोगितानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितावच्छेदकतानिरूपितविषयतितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावत्त्वोभयसम्बन्धेन। गगनाभाववदभाववत्कालीनघटोग गनावानित्यत्र गगनाभाववत्तादृशघटस्य लक्ष्यत्वे तादृशप्रतीतिमदन्यत्व-प्रकृतानुमितिप्रतिबन्धकताविशिष्टविषयतानवच्छेदकत्वविकोध्यनुमितिजनकताविशिष्टविषयतानवच्छेदकत्वैतत्त्रितयाभाववत्त्वं लक्ष्यतावच्छेदके विवक्षणीयम्। विषयतायां प्रतिबन्धकतावैशिष्टयं च स्वावच्छेदकत्व-स्वविशिष्टविषयतावदन्यत्वोभयसम्बन्धेन। विषयतायां स्वैशिष्टयं च स्वानतिरिक्तवृत्तित्व-स्वनिरूपितप्रतिबध्यताविशिष्टनिश्चयत्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकत्वोभयसंबन्धेन। विषयतायां जनकावैशिष्टयं च प्रागुक्तरीत्या ज्ञेयमिति दिक्‌।।
(तृतीय नच ग्रन्थापिष्कारविचारः)
<2-25>
    तथासति धूमव्यभिचारिवह्रिमान् धूमवान् वह्रेरित्यादौ बाधत्वावच्चिन्नघटकतावच्छेदकधूमव्यभिचारवह्रिमत्वादेः स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकीभूतस्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकव्यभिचारत्वकात्वादव्याप्तेः दुर्वारत्वादिति-गादाधरी।
</2-25>

<2-26>
    नच स्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकीभूतयत्किञ्चिद्विषयित्वं यादृशयादृशधर्मावच्चिन्नानिरूपितं तादृशतादृशधर्मावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्स्वं तद्रूपावच्छिन्नत्वमेव समुदितलक्षणार्थ इति-गादाधरी।
</2-26>
    स्वावच्छिन्नविषयताव्यपकप्रतिबन्धकतासामान्यानतिरिक्तवृत्तिविषयितात्वसामानाधिकरण्येन यद्यद्रूपावच्छिन्नानिरूपितत्वं तत्तद्रूपावच्छिन्नाघटितत्वंसमुदायार्थः। अत्रेभयत्र स्वरूप सम्बन्धरूपावच्छेदकत्वनिवेशे पर्वतो वह्रिमानित्यत्र पाषाणमयत्वविशिष्चपर्वतेऽतिव्याप्तिः। पाषाणमयत्वविशिष्टपर्वतावच्छिन्नविषयकत्वावच्छिन्नज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकरतावच्छेदकविषयतायां घटत्वाद्यवच्छिन्नानिरूपितत्वसत्त्वात्तदवच्छिन्नाघटितत्वस्य तत्र सत्त्वात्। प्रथमत एव तन्निवेशे ह्रदो वह्रिमानित्यादौ वह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयकत्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यान्तर्गता या बाधनिश्चयप्रतिबन्धकता या च पक्षे हेतुमत्ताज्ञाननिरूपिता ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकता तदुभयानतिरिक्तवृत्तिविषयित्वाप्रसिद्विः। उत्तरत्रैव तन्निवेशे व्यभिचारघटितबाधासङ्‌ग्रहः। तादृशबाधत्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यान्तर्गता बाधनिश्चयप्रतिबन्धकता व्यभिचारनिश्चयप्रतिबन्धकता च तदुभयावच्छेदकविषयत्वाप्रसिद्वेः।

    यद्यपि व्यभिचारघटितबाधज्ञानीयव्यभिचारविषयतायस्तदुभयावच्छेदकत्वमस्ति। बाधप्रततिबन्धकतायामपि धर्मितावच्छेदकतया तद्विषयताया अवच्छेदकत्वात्।


    तथापि सर्वं गगनवदित्यत्र गगनाभाववद्‌घटपटादिरूपाबाधादिसङ्ग्रहार्थं तादृशविषयतायां स्वावच्छिन्नविषयतित्वाव्यापकविषयताशून्यज्ञानीयत्वस्य ह्रदो वह्रिमानित्यत्र जातिमद्‌वह्रयभाववद्‌ह्रदवारणायद्रूपावच्छिन्नविषयकत्वाव्यपकविषयताशून्यज्ञानीयत्वस्य च विवक्षणीयतया व्यभिचारत्वावच्छिन्नविषयित्वाव्यापकविषयताशून्यशुद्वव्यभिचारविषयतायास्तदुभयावच्छेदकत्वं न सम्भवतीत्यप्रसिद्विः।

    तथाच स्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतानिष्ठाभावप्रतियोगितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितानवच्छेदकैकत्व वदुभयावृत्तिधर्मावान् यो यत्किञ्चिद्रूपावच्छिन्नविषयकत्वाव्यापकविषयताशून्यकिञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वोऽभावस्तन्निरूपितावच्छेदकत्वनिष्ठप्रतियोगितानिरूपित प्रतियोगित्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकतानिरूपितविषयितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावद्वर्मावच्छिन्नस्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयविषयतानीयवषयतानिष्ठोयः किञ्चिद्रूपावच्छिन्ननिरूपकताकनिरूपितत्वं नास्तीति प्रतीतिसिद्वोः अभावस्तन्निरूपितत्वनिष्ठप्रतियोगितानिरूपितनिरूपकतानिष्ठावच्छेदकतानिरूपितावच्छिन्नक्वसम्बन्धावच्छिन्नावच्छेदकतावद्वर्मावच्छिन्नविषयकप्रतीतिविषयतावच्छेदकतधर्मवत्त्वं लक्षणार्थः।

    अत्रायमुगमः-पदार्थविशिष्टपदार्थवत्त्वं लक्षणम्। पदार्थे पदार्थवैशिष्टयं च स्वातादात्म्य-स्वविशिष्टविषयतानिष्ठकिञ्चिद्रूपावच्छिन्ननिरूपकताकनिरूपितत्वं नास्तीति प्रतीतिसिद्वाभावनिरूपितनिरूपित्वनिष्ठाप्रतियोगितानिरूपितनिरूपकतानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावद्वर्मावच्छिन्नविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकत्वोभयसम्बन्धेन। विषयतायां स्ववैशिष्टयं च स्वावच्छिन्नविषयकत्वाव्यापकविषयताकत्वोभयाभाववत्‌स्वावच्छिन्नविषयताशालिनिश्चयत्वव्यापकप्रतिवन्धकतावृत्त्यभावप्रतियोगितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकै कत्ववदुभयावृत्तिधर्मवद्यत्किञ्चिद्रूपावच्छिन्नविषयकत्वाव्यापक विषयताशून्य यत्किञ्चिद्रूपावच्छिन्नविषयताशालि निश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावीयावच्छेदत्वनिष्ठाप्रतियोदितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितविषयितानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धआवच्छिननावच्छेदकतावद्वर्मावच्छिन्नत्वोभयसम्बन्धेन। तद्‌व्यक्तित्ववानभावश्च असाधारण्यविषयताशालित्वपक्षधर्मिकहेतुमत्ताज्ञानाकालीनत्वोभयाभाववत्‌किञ्चिद्रापावच्छिन्नविषयताशालिनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वो ग्राह्यः।तेन मेयत्वविशिष्टासाधारण्ये नातिव्याप्तिरिति।
    
    नन्वत्रापि स्वावच्छिन्नविषयकत्वव्यापिका यावत्यः प्रकृतानुमितिबन्धकता स्तत्‌प्रत्येकताया यादृशघटकयत्किञ्चिद्वर्मावच्छिन्नविषयतात्वव्यापकत्वमस्ति तादृशविषयतायां यद्यद्रूपावच्छिन्नानिरूपितत्वमस्तितत्तद्रूपावच्छिन्नाघटितं यत्‌ स्वावच्छिन्नं तद्रूपावच्छिन्नत्वं समुदितार्थः।

    ह्रदो वह्रिमानित्यादौ वह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयकत्वव्यापिका बाधप्रतिबन्धकता तदवच्छिदकतायां मेयत्वविशिष्टबाधघटतबाधत्वात्मकयत्किञ्चिद्रूपावच्छिन्नविषयतात्वव्यापकत्वमस्ति। तद्रूपावपावच्छिन्नविषयतायां मेयत्यविशिष्टबाधघटकबाधतक्वात्मकयत्किञ्चिद्रूपावच्छिन्नविषयतात्वव्यापकत्वमस्ति।तद्रपावावच्छिन्नविषयतायां मेयत्यविशिष्टबाधत्वाद्यवच्छिन्नानिरूपितत्वमस्ति तत्तद्रूपावच्छिन्नाघटितत्वं बाधेऽस्तीति लक्षमसमन्वयः। एवं मेयत्वविशिष्टव्यभिचारादौ नातिव्याप्तिः। तादृशव्यभिचारत्वावच्छिन्नविषयताव्यापकव्याप्तिज्ञानप्रतिबन्धकतावच्छेदतायां मेयत्वविशिष्टव्यभिचारघटकशुद्वव्यभिचारत्वावच्छिन्नविषयतात्व्यापकत्वस्य सत्त्वेन तस्यां विषयतायां मेयत्वविशिष्टव्याभिचारत्वावच्चिन्नानिरूपितत्वस्य सत्वात्तदवच्छिन्नाघटितत्वस्य च स्वावच्छिन्नेऽभावात्।

    एवं बाधविशिष्टव्यभिचारेऽपि नातिव्याप्तिः। तादृशव्यभिचारत्वावच्छिन्नविषयताव्यापकप्रतिबन्धकतयोः प्रत्येकमवच्छेदकतायां बाधविशिष्टव्यभिचारघटकबाधत्वावच्छिन्नविषयतात्वव्यापकत्वस्य व्यभिचारत्वावच्छिन्नविषयतात्वव्यापकत्वस्य च सत्त्वात्। स्वस्व च स्वाघटितत्वाभावात्।

    अत्र स्वरूपसम्बन्धेरूपप्रतिबन्धकतावच्छेदकतायां तादृशविशिष्टघटकविषयतात्वव्यापकत्वस्य विवक्षणात् वह्रयभाववद्‌जलवद्‌वृत्तिजलवद्‌ह्रदत्वावच्छिन्नविषयताव्यापकज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतावच्छदकतायां तादृशविशिष्टघटकजसवद्‌ह्रदादिविषयतात्वव्यापकत्वस्य सत्त्वात्। तस्य च तदवच्छिन्नाघटितत्वाभावात्तादृशविशिष्टे नातिव्याप्तितरतो विशिष्टद्वयाघटितत्वं न निवेशनीयम्।

    एवं नीलरूपाभाववन्नीलादौ नातिव्याप्तिरतः तत्तद्विषयताभेदोऽपि न निवेशनीयः।

    अत्रायमनुगमः- पदार्थविशिष्टपदार्थवत्त्वं हेत्वाभाससामान्यलक्षणम्। पदार्थवैशिटयं च स्वतादात्म्य-स्वावच्छिन्नविषयताव्यापकप्रतिबन्धकतात्वव्यापकधर्मावच्छिन्नाविषयकप्रतीतिविषयितानिरूपकतावच्छेदकत्वोभयसम्बन्धेन। धर्मे प्रतिबन्धकतात्वव्यापकत्वं च स्वविशिष्टरूपवत्त्वसम्बन्धेन। रूपे स्ववैशिष्टयं च स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्व-स्वावच्छिन्नविषयतकत्वाव्यापकविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकताकत्वोभयसम्बन्धेन। विषयतायां स्ववैशिष्टयं च स्वावच्छिन्नत्व-स्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयत्वोभयसम्बन्धेन। धर्मे धर्मवैशिष्टयं च स्वविशिष्टरूपावच्छिन्नविषयनिष्ठविषयतानिपकिञ्चिद्रूपावच्छिन्ननिरूपकताकनिरूपितत्वं नास्तीति प्रतीतिसिद्वाभावनिरूपितनिरूपितत्वनिष्ठप्रतियोगितानिरूपितनिरूपकत्वनिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतत्वसंबन्धेन। रूपे स्ववैशिष्टयं च प्रगुक्तोभयसम्बन्धेन। अन्यत् सर्वं प्रगुक्तरीत्याबोध्यम्।

    यद्वा तादृशप्रतिबनअधकतावच्छेदकतायां यादृशयादृशधर्मावच्छिन्नविषयतात्वव्यापकावच्छेदकताकत्वमस्ति, तादृशतादृशयत्किञ्चिद्वर्मावच्छिन्नविषयतायाँ यद्यद्रूपावच्छिन्नानिरूपितत्वमस्ति तत्र तत्तद्रूपावच्छिन्नाघटितत्वं समुदितार्थः।

    तथाच पदार्थविशिष्टपदार्थवत्त्वं लक्षणम्। पदार्थवैशिष्टयं च स्वातादात्म्यस्वावच्छिन्नविषयताव्यापकप्रतिबनअधकतात्वव्यापकरूपावच्छिन्नाघटितत्वोभयसम्बन्धेन। धर्मे प्रतिबन्धकतात्व्यापकत्वं स्वविशिष्टरूपवत्त्वसम्बन्धेन। रूपे स्ववैशिष्टयं च स्वाच्छिन्नानिरूपितविषयतावच्छेदकत्वस्वाच्छिन्नविषयित्वाव्यकविषयताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकत्वोभयसम्भन्धेन। रूपवत्त्वं च स्वावच्छिन्नविषयतात्वव्यापकावच्छेदकताकत्वसम्बन्धेनेति चेत्-

    न। प्रगुक्तरीत्या वक्ष्यमाणैतेनेत्यादिकल्पापेक्षया गौरवस्य दुष्परिहरत्वात्।

(जगदीशपरिष्कारविचारः)
</2-26>
    नच स्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकीभूतयत्किञ्चिद्विषयित्वं यादृशयादृशधर्मावच्छिन्नानिरूपितं तादृशतादृशधर्मावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्स्वं तद्रूपावच्छिननत्वमेव समुदितलक्षणार्थ इति-गादाधरी।
</2-26>

(जगदीशपरिष्कारविचारः)-3
<2-27>
    एतेन स्वावच्चिन्ननिरूपितविषयत्वावच्छिन्नयत्किञ्चित्‌ प्रतिबन्धकतावच्छेदकविषयताकविशिष्टनिरूपितविषयतात्वव्यापकस्वावच्छिन्ननिरूप्यताकधर्मवत्त्वं समुदितलक्षणार्थ इति गादाधरी।
</2-27>
    अत्रोभयत्र स्वरूपसम्भन्धरूपावच्छेदकत्वनिवेशे कपिसंयोग्येतत्वादित्यादौ कपिसंयोगाभाववद्‌वृक्षऽतिव्याप्तिः। कपिसंयोगाभाववद्‌वृक्षत्वावच्छिन्नविषयतानिष्ठास्वरूपसम्बन्धरूपावच्छेदकतानिरूपकसाध्यवत्ताबुद्विप्रतिबन्धकत्वात्मकयत्किञ्चित्‌प्रतिबन्धकतानिरूपिततादृशावच्छेदकतावत्तदवच्छिन्नविषयितात्वव्यापकत्वस्य तदवच्छिन्ननिरूप्यतायं सत्त्वात्। उत्तरत्रानतिरिक्तवृत्तित्वनिवेशे तादृशप्रतिबन्धकताशून्याप्यवृत्तित्वज्ञानकालीनानाहार्यत्वादिविशिष्टकपिसंयोगाभाववद्‌वृक्षविषयकनिश्चये तदवच्छिन्नविषयतासत्त्वेनातिव्याप्तिवारणेऽपि वह्रयभावज्जलादिमद्‌वृत्तिजलवद्‌ह्रदत्वावच्छिन्तविषयित्वावच्छिन्नयत्किञ्चित्‌प्रतिबस्धकतानतिरिक्तवृत्तिविषयता तादृशजलवद्‌ग्रदविषयतैवेति तत्त्वव्यापकत्वस्य तादृशजलवद्‌ह्रदत्वावच्छिन्ननिरूप्यतयां सत्त्वेन तत्रातिव्याप्तिवारणार्थं विशिष्टद्वयाघचितत्वं निवेशनीयम्।

    प्रथमत एवानतिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशेतु कपिसंयोगाभाववद्‌वृक्षे नातिव्याप्तिः। अव्याप्यवृत्तित्वभ्रमानास्कन्दितानाहार्यत्वादिविशिष्टनिश्चयीयतद्विषयताव्यापकत्वस्य प्रतिबन्धकतायामसत्त्वात्। एवं विशिष्टद्वयाघटितत्वमपि न निवेशनीयम्।

    वह्रयभाववज्जलादिवद्‌वृत्तिजलवद्‌ह्रदत्वावच्छिन्नविषयताव्यापिका या ज्ञानवैशिष्टयावच्छिन्ना यत्किञ्चित्‌प्रतिबन्धकता तन्निरूपितस्वरूपसम्बन्धरूपावच्छेदकतावद्विषयतात्वस्य वह्रयभाववज्जलवावच्छिन्नविषयतायामपि सत्त्वेन तत्र तादृशजलवद्‌ह्रदत्वावच्छिन्ननिरूप्यताविरहेणातिव्याप्तिविरहात्।

    एवं च पूर्वमनतिरिक्तवृत्तित्वरूपमवच्छेदकत्वं उत्तरत्र स्वरूपसम्बन्धपमिति विवेकः अत्र प्रथमं स्वावच्छिन्नविषयितायां स्वावच्छिन्नविषयित्वाव्यापकविषयताशून्यनाहार्याप्रामाण्यज्ञानाव्याप्यवृत्तित्वभ्रमानास्कन्दितनिश्चयीयत्वं निवेशनीयम्। अन्यथा पूर्वोक्तदोषात्।

    एवं यत्किञ्चित्‌प्रतिबन्धतावच्छेदकविषयतायामपि स्वावच्लिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयत्वं निवेशनीयम्।

    अन्यथा सर्व गगनवदित्यत्र गगनाभाववत्‌घटत्वावच्छिन्नविषयताव्यापकयत्किञ्चित्प्रतिबन्धकतावच्छेदकगगनाभाववत्‌ पटत्वावच्छिन्नविषयतायां तादृशघटत्वावच्छिन्ननिरूप्यताविरहेणाव्याप्त्यापत्तेः।

    नचैवमपि वक्ष्यमाणरीत्योत्तरत्राप्यवतिरिक्तवृत्तित्वनिवेशे स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशेऽपि सामान्यपदस्यावश्यकतया ह्रदो वह्रिमानित्यत्र जातिमद्‌वह्रियभाववद्‌ह्रदत्वावच्छिन्नविषयताव्यापकयत्किञ्चित्‌प्रतिबन्धकता साध्यवत्ताबुद्विप्रतिबन्धकतैव, तदवच्छेदकत्वं च तदवच्छिन्नविषयतित्वाव्यापकविषयता शून्यज्ञानीयवह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयतासामान्ये नास्ति तत्‌सामान्यन्तर्गतजातिमान् वह्रयभाववानिति ज्ञानीयविषयतायां तदभावात्।

    किन्तु तादृशविशिष्टविषयतायामेव तत्वव्यापकत्वस्य तादृशविशिष्टनिरूप्यतायां सत्त्वादिति वाच्यम्।

    द्वितीयविशिष्टविषयतायां यद्रूपावच्छिन्नविषयित्वाव्यपकविषयताशून्यज्ञानीयत्वस्यापि विवक्षणात्। एवं च तादृशयत्किञ्चित्‌ प्रतिबन्धतावच्छेदकत्वस्य जातिमद्‌वह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयित्वाव्यापकविषयताशून्यज्ञानीयवह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयित्वाव्यापकवषयताशून्यज्ञानीयवह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयतासामान्ये सत्त्वेन तत्र जातिमद्‌वह्रयभाववद्‌ह्रदत्वावच्छिन्ननिरूप्यत्वाभावेन नातिव्याप्तिः।

    तथाच स्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यानाहार्याप्रामाण्यज्ञानानास्कन्दिताव्याप्यवृत्तित्वभ्रमानास्कन्दितनिश्चयीयस्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुनमितिव्यापकप्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितयत्किञ्चित्प्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतावत्‌स्वावच्छिन्नविषयित्वाव्यापकविषयताशून्यज्ञानीययद्रूपावच्छिन्नविषयकत्वाव्यपकविषयताशून्यज्ञानीयविषयतात्वव्यपकस्वावच्छिन्ननिरूप्यताकधर्मवत्त्वमिति लक्षणं पर्यवसितम्।

    नचात्रासाधारण्येऽव्याप्तिः। असाधारण्यविषयकत्वव्यापकप्रतिबन्धकत्वाप्रसिद्वेरेति वाच्यम्।

    अनाहार्यत्वादिविशिष्टपक्षधर्मिकहेतुमत्ताज्ञानकालीनत्वासाधारण्यविषयकत्वोभयाबाववत्‌स्वावच्छिन्नविषयकनिश्चयत्वव्यापकत्वस्य प्रतिबन्धकतायां विवक्षणीत्वात्।

    नचैवमप्यभावो गगनत्ववानाधेयत्वादित्यत्रासाधारण्येऽतिव्याप्तिः। अनाहार्यत्वादिविशिष्टनिरूक्तोभयाभाववत्तादृशासाधारण्यविषयकनिश्चयत्वव्यपकयत्किञ्चित्प्रतिबन्धकताव्यापकविषयताशून्यस्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयाधेयत्ववदभावत्वावच्छिन्नरूपहेतुमत्पक्षविषयत्वे तादृशासाधारण्यत्वाच्छिन्ननिरूप्यत्वाभावात्।

    नच तादृशयत्किञ्चित्प्रतिबन्धकतासाक्षान्निरूपितावच्छेदकतावद्विषयायामेव तन्निरूप्यत्वं विवक्षितं, हेतुमत्पक्षविषयता च न तादृशीति वाच्यम्।

    ह्रदो जलवद्‌ह्रदकालीनवह्रिमान् पङ्कजादित्यात्र जलवद्‌ह्रदकालीन वह्रिव्यापकीभूतावप्रतियोगिजलेऽतिव्याप्तेः। जलवद्‌ह्रदकालीनवह्रिव्यापकीभूताभावप्रतियोगिजलत्वावच्छिन्नविषयताव्यापकयत्किञ्चित्‌प्रतिबन्धकता जलवद्‌ह्रदविषयकनिश्चयविशिष्टतादृशजलत्वावच्छिन्नविषयकनिश्चयप्रतिबन्धकतैव तत्साक्षादवच्छेदिका च तादृशजलत्वावच्छिन्नविषयतैव। तत्र च तादृशजलत्वावच्छिन्ननिरूप्यत्वस्य सत्त्वादिति वाच्यम्।

    तादृशयत्किञ्चित्प्रतिबन्धकतावच्छेदकविषयतायामसाधारण्यविषयताभिन्नत्व-असाधारण्यविषयित्वावच्छिन्नप्रतिबन्धकतावच्छेजकत्वोभयाभावस्य विवक्षणीयत्वात्। आसाधारण्‌घटकहेतुमत्पक्षविषयता च नोभयाभाववती, किन्तु विशिष्टासाधारण्यविषयतैव। तत्र च तादृशासाधारण्यत्वावच्छिन्ननिरूप्यत्वसत्त्वान्नाव्याप्तिः ह्रदो जलवद्‌ह्रदकालीनवह्रिमान् पङ्कजादित्यत्र निरूक्तजले नातिव्याप्तिः।

    असाधारण्यविषयकत्वावच्छिन्नप्रतिबन्धकतावच्छेदकत्वाभावप्रयुक्तनिरूपक्तोभयाभाववत्यां तादृशजलत्वावच्छिन्नविषयताव्यापकयत्किञ्चित्प्रति बन्धकतावच्छेदिकायां जलबद्‌ह्रदविषयतायां तादृशजलत्वावच्छिन्ननिरूप्यत्वाभावात्। एकरूपेण प्रतिबन्धकत्वे तु असाधारण्यपपङ्कजविषयतैव तादृशी।

    प्रथममवच्छिन्नान्तानुपादाने प्रकृतानुमित्वव्यापकप्रतिबध्यतानिरूपितयत्किञ्चित्प्रतिबन्धकतानिरूपितावच्छेजकतावद्‌वह्रयभावत्वावच्छिन्नविषयतायां बाधनिरूप्यत्वाभावादसम्भवः। यद्रूपावच्छिन्नविषयतासामान्यं तादृशप्रतिबन्धकतावच्छेदकं तद्रूपावच्छिन्नविषयतायां निरूप्यत्वोक्तौ पर्वतो वह्रिमानित्यत्र पाषाणमयत्वविशिष्टपर्वतेऽ.िव्याप्तिः। पाषाणमयत्वविशिष्टपर्वतविषयतासामान्यस्य तादृशानुमितित्वव्यापकप्रतिबध्यतानिरूपितज्ञानवैशिष्टयावच्छिन्नयत्किञ्चित्प्रतिबन्धकतायामवच्छेदकत्वात्। प्रतिबन्धकतायां ज्ञानवैशिष्टयावच्छिन्नत्वासाधारण्यविषयकत्वावत्। प्रतिबन्धकतायां ज्ञानवैष्टयावच्छिन्नत्वासाधारण्यविषयकत्वावनच्छिन्नत्वोभयाभावविवक्षया तद्दोषवारणेऽपि कपिसंयोग्यतद्‌वृक्षत्वादित्यादौ कपिसंयोगाभाववद्‌वृक्षेऽतिव्याप्तिः। तादृशानुमित्वव्यापकसाध्यवत्ताबुद्वित्घावच्छिन्नप्रतिबध्यतानिरूपितज्ञानवेशिष्टयानवच्छिन्नप्रतिबन्धकतायां कपिसंयोगाभाववद्‌वृक्षविषयतासामान्यस्यावच्छेदकत्वात्।

    अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षणे च वह्रयभाववज्जलादिमद्‌वृत्तिजलवद्‌ह्रदेऽतिव्याप्तिः। प्रकृतानुमितिनिरूपितयत्किञ्चित्प्रतिबन्धकता ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकता तदनतिरिक्तवृत्तिविषयता च तादृशविशिष्टविषयत्वाव्यापकविषयताशून्यज्ञानीय तादृशविशिष्टविषयतैव तद्वारणायविशिष्टद्वयाघटितत्वनिवेशे गौरवम्। प्रतिबन्धकतायामुक्तोभयाभावेशेऽपि अनतिरिक्तृवृत्तित्वरूपावच्छेदकत्वनिवेशे असाधारण्यसङ्‌ग्रहयासश्च। अतो यथाश्रुतमेव साधु।


    अत्रायमनुगमः-पदार्थविशिष्टपदार्थवत्त्वं हेत्वाभासामान्यलक्षणम्। पदार्थवैशिष्टयं च स्वदातात्म्यस्वावच्छिन्निरूप्यतावृत्तिर्यः किञ्चिद्रूपावच्छिन्नविषयकत्वाव्यकविषयताशून्यनाहार्या प्रामाण्यज्ञानानास्कन्दिताव्याप्यवृत्तित्वभ्रमानास्कन्दितपक्षधर्मिकहेतुमत्ताज्ञानाकालीनत्वासाधारण्य विषयित्वोभयाभाववत्किञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयत्वव्याव्यापकयत्किञ्चित्प्रतिबन्धकतावच्छेदकत्ववृत्तिकिञ्चिद्ूपावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयकिञ्चिद्रूपावच्छिन्नविषयतानिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वाभावनिरूपितावच्छेदकत्वनिष्ठप्रतियोगितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तिकत्वनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपितावच्छेदकतावद्रूपावच्छिन्नयत्किञ्चिद्रूपावच्छिन्नयत्किञ्चिद्रूपावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानवृत्त्यसाधारण्यविषयताभिन्नत्वासाधारण्यविषयकत्वावच्छिन्नप्रतिबनअधकतावच्छेदकत्वोभयाभाववत् विषयतानिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वोऽभावस्तन्निरूपितावच्छेदकत्वनिष्ठपरतियोगितानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिष्ठावच्छेदकतानिरूपितज्ञानिष्ठावच्छेदकतानिरूपितशून्यत्वनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपितशून्यत्वनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपितव्यापकत्वनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपितवच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकत्व-स्वानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकत्वनिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितप्रतियोगित्वानिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वानिष्ठप्रतियोगित्वनिष्ठावच्छेदकतानिरूपिषततादृशाभावनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितप्रतिबन्धकतावत्त्युभयावृत्तिधर्मावच्छिन्नावच्छेदकतानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपतावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितयोगित्वनिष्ठावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकत्वोभयसम्बन्धेनेति गगनाभाववदभाववत्कालीनघटोगगनवानित्यत्र गगनाभाववत्तादृशघटरूपाबाधस्य व्यापकसामानाधिकरण्यरूपव्याप्तिविशिष्टप्रतिहेतुमत्पक्षरूपसत्प्रतिपक्षस्य च लक्ष्यत्वे तत्सङ्‌ग्रहाय यत्किञ्चित्‌प्रतिबन्धकतावच्छेदकतविषयतानिष्ठभेदप्रतियोगितावच्छेदकत्वप्रककृतानुमितिप्रतिबन्धकताविशिष्टविषयत्वावृत्तित्वविरोध्यनुमिति जनकताविशिष्टविषयत्वावृत्तित्वैतत्‌ त्रित्वावच्छिन्नाभावो निरूप्यतायां वक्तव्यः। अनुगमे च द्वितीयसम्बन्धघटकस्वावच्छिन्ननिरूप्यतावृत्तिरभाव एव त्रित्वावच्छिन्नोविवक्षणीय इति दिक्‌।।
            
<2-27>
    एतेन स्वावच्छिन्ननिरूपितविषयत्वावच्छिन्नयत्किञ्चित्‌ प्रतिबन्धकतावच्छेदकविषयताकविशिष्टनिरूपितविषयतात्वव्यापकस्वावच्छिन्ननिकूप्यताकधर्मवत्वं समुदितलक्षणार्थ इति गादाधरी।
</2-27>

मयुरानाथपरिष्कारविचारः
<2-28>
     स्वावच्छिन्ननिरूपितविशिष्टविषयित्वानवच्छिन्नप्रतिबन्धकतावच्छेदकस्वावच्छिविषयताको यो धर्मस्तद्वत्त्वं वा समुदित लक्षणार्थ इति-गादाधरी।
</2-28>
    स्वावच्छिन्नानिरूपितयत्किञ्चित्विशिष्टविषयतित्वावच्छेद्यतावदन्यप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदक यत्स्वं तद्वत्वं लक्षणम्।

    मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नानिरूपितशुद्वव्यभिचारविषयत्वानबच्छेद्यप्रतिबन्धकता च नमेयत्वविशिष्टव्यभिचारप्रतिबन्धकताकिन्त्वन्यैवेति नातिव्याप्तिः। व्यभिचारघटिबन्धच्वावच्छिन्नानिरूपितव्यभिचारविषयतासामान्यावच्छेद्यतावदन्या तादृशवाधप्रतिबन्धकताभवतीति लक्षणसमन्वयः। व्यभिचारविशिष्टबाधत्वावच्छिन्नानिरूपितशुद्वबाधविषयताशूद्वव्यभिचारविषयतानवच्छेद्य प्रतिबन्धकता तदुभयप्रतिबन्धकताभिन्नैवेति न तदनतिरिक्तवृत्तिव्यभिचारविशिष्टबाधत्वावच्छिन्नविषयतेति नातिव्याप्तिः। सर्वं गगनवदित्यत्र गगनाभाववद्घटत्वावच्छिन्नानिरूपितगगनाभाववत्‌पटादिविषतानवच्छेद्यप्रतिबन्धकताया गगनाभावद्‌घटत्वावच्छिन्न विषयताया अनवच्छेदकत्वात् तत्राव्यप्तिस्स्वाच्छिन्नानिरूपितविषयतया स्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयत्वं विवक्षणीयम्।

    तथाच बाधत्वाद्यवच्छिन्नानिरूपितबाधत्वाद्यवच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयविषयता बाधैकदेशपदार्थविषयता तत्सामान्यानवच्छेद्याव बाधप्रतिबन्धकतेति लक्षणसमन्वयः।

    एवं तत्रैव यद्रूपावच्छिन्नविषयत्वाव्यापकविषयताषून्यज्ञानीयत्वमपि विशेषणं बोध्यम्।

    अन्यथा ह्रदोवह्रिमानित्यत्र जातिमद्‌वह्रयभाववद्‌ह्रदत्वाच्छिन्नविषयकतत्वाव्यापकविषयताशून्यज्ञानीयतदवच्छिन्नानिरूपितवह्रयभाववदह्रदत्वावच्छिन्नविषयितासामान्यावच्छेद्या न तादृशबाझनिश्चयप्रतिबन्धकता जातिमान् वह्रयभाववनितिज्ञानीयतादृशविषयतायां तादृशप्रतिबन्धकतावच्छेदकत्वाभावात्।

    किन्तु अन्यदेवकिञ्चित्‌ विषयत्वादिकम्। तदन्या च तादृशबाधप्रतिबन्धकता तदवच्छेदिका च तादृशजातिमद्‌बह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयतेति तत्रातिव्याप्तिः। तन्निवेशे तु वह्रयभाववद्‌ह्रदत्वावच्छिन्नविषयित्वापकविषयताशून्यज्ञानीयजातिमान्‌वह्रयभाववानिति वच्छिन्नविषयित्वापकविषयताशून्यज्ञानीयजातिमान्‌वह्रयभाववानिति ज्ञानव्यावृत्तनिरूक्तविषयतासामान्यावच्छेद्या बाधप्रतिबन्धकतेति तदन्यप्रतिबन्धकतायामुक्तविशिष्टविषयताया अनवच्छेदकत्वान्नाति व्याप्तिः।

    अत्र प्रथमं स्वरूपसम्बन्धरूपावच्छेदकताया निवेशाद्‌वह्रयभाववज्जलादिमद्‌वृत्तिजलवद्‌ह्रदे नातिव्याप्तिः। तादशह्रदत्वावच्छिन्नानिरूपितवह्रयभाववज्जलवत्त्वावच्चिन्नविषयतानिष्ठास्वरूपसम्बन्धरूपावच्छेदकतानिरूपकान्या या प्रतिबन्धकता तदवच्छेदकत्वस्य तादृशविशिष्टविषयतायामभावादतो विशिष्टद्वयघटितत्वं न निवेशनीयम्।

    एवं नीलरूपाभाववन्नीले नातिव्याप्तिः।
    
    नचैवमपि हेतुमत्पक्षघटितासाधारण्येऽतिव्याप्तिः। तादृशसाधारण्यत्वावच्छिन्नानिरूपिततद्विषयतकत्वाव्यपकविषयताशून्यज्ञानीयहेतुमत्‌पक्षविषयकत्वाव्यापकविषयताशून्यज्ञानीयहेतुमत्पक्षविषयतासामान्यानवच्छेद्यप्रतिबन्धकतायां तादृशासाधारण्यविषयताया अनवच्छेदकत्वादिति वाच्यम्।

    स्वावच्छिन्नानिरूपितविशिष्टविषयतायामसाधारण्यविषयताभिन्नत्व-असाधारण्यविषकत्वावच्छिन्नप्रतिबन्थकतावच्छेदकत्वोभयाभावत्त्वस्य विवणीयत्वात्।

    तथाच हेतुमत्पक्षविषयिता न तादृशोभयाभावववती किन्त्वसाधारण्यघटकपदार्थान्तरविषयतैव तत्सामान्यानवच्छेद्या च तादृशासाधारण्यावच्छिन्नप्रतिबन्धकतेति नाव्याप्तिः। एवं प्रतिबन्धकतावच्छेदकविषयताशालिनिश्चये पक्षधर्मिकहेतुमत्ताज्ञानकालीनत्वासाधारण्यविषयकत्वोभयाभावो विवक्षणीयः। तेन ह्रदो वह्रिमान् जलादित्यादावसाधारण्यस्य नासङ्‌ग्रहः। तथाछ स्वावच्छिन्नानिरूपितस्वावच्छिन्नविषयकत्वाव्यापकविषयताशन्यज्ञानीयतादृशविशिष्टविषयकत्वाव्यापकविषयताशून्यज्ञानीयासाधारण्यविषयताभिन्नत्वासाधारण्यविषयित्वावच्छिन्नप्रतिबन्धकतावच्छेदकत्वोभयाभाववद्‌विशिष्टविषयितासामान्यावच्छेद्यतावदन्यप्रतिबन्धकतापक्षधर्मिकहेतुमत्ताज्ञानाकालीनत्वासाधारण्यविषयकत्वोभयाभाववदनाहार्यत्वादिविशिष्टयद्रूपावच्छिन्नविषयताशालिनिश्चयत्वव्यापिका तद्रूपावच्छिन्नत्वं पर्यवसित लक्षणम्।

    अत्रायमनुगमः-पदार्थविशिष्टरपदार्थवत्त्वं हेत्वाभासात्वम्। पदार्थवैशिष्टयं च स्वातादात्म्य-स्वविशिष्टविषयतावदन्यप्रतिबन्धकतावृत्तित्वोभयम्बन्धेन। विषयतायां स्ववैशिष्टयं च स्वावच्छिन्ना-निरूपितत्वस्वावच्छिन्नविषयित्वाव्यपकविषयताशून्यज्ञानीयत्वोभयसम्बन्धेन। विषयतावत्ता च स्वनिरूपकतावच्छेदधर्मविशिष्टासाधारण्यविषयताभिन्नत्वघटितोभयाभाववद्विषयितात्वव्यापकावच्छेदकताकत्वोभयसम्बन्धेन। विषयतायां धर्म वैशिष्टयं च स्वावच्छिन्ननिरूपकताकत्व-स्ववच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयत्वोभयसम्बन्धेन। धर्मे प्रतिबन्धकतावृत्तित्वञ्च पक्षधर्मिकहेतुमत्ताज्ञानाकालीनत्वासाधारण्यविषयकत्वोभयाभाववदनाहार्यत्वादिविशिष्टस्वविशिष्टनिश्चयनिष्ठभेदप्रतिदितावच्छदकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धन। निश्चये स्ववैशिष्टयं च स्वावच्छिन्नविषयतावत्त्व-स्वावच्छिन्नविषयकत्वाव्यकविषयताशून्यत्वोभयसम्बन्धेनेति दिक्।।
        
</2-28>
    स्वावच्छिन्ननिरूपितविशिष्टविषयित्वानवच्छिन्नप्रतिबन्धकतावच्छेदकस्वावच्छिन्नविषयताको यो धर्मस्तद्वत्त्वं वा समुदित लक्षणार्थ इति-गादाधरी।
</2-28>

स्वसजातीयविष्टान्तराघटितत्वविचारः
<2-29>
    अत्र केचित्‌-स्वजातीयविशिष्टान्तरघटितत्वमेव यत्पादथे विशेषणं देयम्‌ साजत्यं च हेत्वाभास विभादकरूपेण तच्चरूपं बाधत्वव्यभिचारत्वादीति-गादाधरी।
</2-29>
    अत्र स्ववृत्तियद्वेत्वाभासविभाजकतावच्छेदकं तद्वत्स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदक यत्तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्स्वं तद्वत्त्वं विशिष्टान्तराघटितत्वमिति फलितम्।

    नन्वत्र? स्वं बाधत्वादि वह्रयभाववद्‌ह्रदत्वादि तद्‌वृत्तिहेत्वाभासविभाजकतावच्छेदकतरूपवत्तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकाप्रसिद्विः। बाधत्वविपरीतबाधत्वादौ तादृशस्यैकस्याभावात्। अथात्रबपाधत्वात्वव्यभिचारत्वादिकमेव तादृशम्। तत्र बाधत्वात्वं नाम पक्षतावच्छेजकविशिष्टपक्षग्रहत्वाव्यापकसाध्यतावच्छेदकविशिष्टसाध्यग्रहत्वाव्यापकपक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकतविशिष्टसाध्यवैशिष्टयावगाहिग्रहत्वाव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताशून्यानाहार्याप्रामाण्यज्ञानानास्कन्दिताव्याप्यवृत्तित्वभ्रमानास्कन्दितनिश्चयवृत्तित्वाभाववत्वम्।

    अत्र वृत्तित्वं च स्वावच्छिन्ननिरूपकताकविषयितासम्बन्धावच्छिन्नग्राह्यम्। साध्याप्रसिद्वित्वयोर्बाधत्ववृत्तितादृशरूपवारणायाव्यापकान्तद्वयम्। तदवारणे अवृत्तिजलं ह्रदावृत्तीत्यत्र ह्रदवृत्तिजलातमकबाधस्य पक्षाप्रसिद्विना वृत्तिजलेनघटितस्याङ्ग्रहापत्तेः। एवं जलं अवृत्तिजलकालीनह्रदवृत्तित्वाभाववदित्यत्र जलकालीनह्रदवृत्तित्ववज्जलात्मकबाधस्य वृत्तित्ववज्जलात्मकसाध्याप्रसिद्विघटितस्याङ्‌ग्रहापत्तेः। अत्र साध्यीभूताभावप्रतियोगिवृत्तित्वं साध्यतावच्छेदककुक्षौ च जलाशे वृत्तित्वसंयोगेन। तेन तादृशभितेर्नाहार्यतापत्तिः। नवाबाधस्य साध्याप्रसिज्वायघटितत्वम्। एवं सत्प्रतिपक्षितत्वं च विशिष्टपक्षग्रहत्वाव्यापकविशिष्टसाध्यग्रहत्वाव्यापकविशिष्टपक्षविशिष्टसाध्यवैशिष्टयावदाहिग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबनअधकताशून्याज्ञानाहार्यत्वादिविशिष्टनिश्चयवृत्तित्वाभाववत्त्वे सति तादृशप्रतिबन्धकतावच्छदकविषयिताघटितधर्मावच्छिन्नजन्यातानिरूपितजनकताशून्यतादृशनिश्चयवृत्तित्वाभाववत्त्वम्।

    अत्राप्यव्यापकान्तद्वयं तादृशरूपस्य पक्षापसिद्विसाध्याप्रसिद्वि अवृत्तित्ववारणाय। अन्यथा अवृत्तिरूपं द्रव्यवृत्तित्वाभाववदित्यत्र द्रव्यवृत्तित्वव्याप्यगुणत्ववद्रूपात्मकस्य सत्प्रतिपक्षस्य वृत्तित्वव्याप्यगुणत्ववद्‌रूपात्मकपक्षाप्रसि्विघटितस्यासङ्ग्रहापत्तेः।

    एवं रूफ्म्‌ अवृत्तिरूपकालीनाद्रव्यवृत्तित्वाभाववदित्यत्र रूपकालीनद्रव्यवृत्तित्वव्याप्यगुणत्ववद्रूपात्मकसत्प्रतिपक्षस्य वृत्तित्वव्याप्यगुणत्ववद्‌रूपत्मकसाध्याप्रसिद्विघटितस्यासङ्‌हापत्तिः। अत्र द्वितीयदळघटकप्रतिबध्यतायामन्यापकान्तद्वयं नोपादेयम्।

    प्रथमदळे तद्विशेषणादेव पक्षाप्रसिद्वित्वसाध्यप्रसिद्वित्वसाधारण्याभावात्। प्रथमदळमात्रस्य बाधत्वसाधारण्यात् द्वितीयोपादानम्।

    तथासति आधेयत्वं निरूपित्वाभाववदित्यत्र बाधघटितसत्प्रतिपक्षस्यासङ्‌ग्रहापत्तेः।

    वस्तुतः-द्वीतीयदन्नमात्रमेव सत्प्रतिपक्षतात्वं, तावतैव बाधत्वादिसाधारण्याभावात्। तदानीं तत्रैवाव्यापकान्तद्वयं विशेषणम्। स्वरूपासिद्वयादिकं द्विविधम्। तत्र स्वरूपासिद्वित्वत्वं विशिष्टपक्षग्रत्वाव्यापकविशिष्टहेतुग्रहत्वाव्यापकविशिष्टपक्षेहेतुवैशिष्टयावगाहिग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबंधकताशून्यानाहार्यत्वादिविशिष्टनिश्चयवृत्तित्वाभावः। अत्राव्यपकान्तद्वयानुपादाने अवृत्तिजलं वह्रिमत् ह्रदावृत्तित्वादित्यत्र ह्रदवृत्तिजात्मकस्वरूपासिद्वेर्वृत्तिजलात्मकपक्षाप्रसिद्विघटिताया जलं वह्रिमत्‌ अवृत्तिजलकालीनह्रदावृत्तित्वादित्यत्र जलकालीनह्रदवृत्तिजलात्मकस्वरूपासिद्वेर्वृत्तिजलात्मकसाधानाप्रसिद्विघटिताया जलं वह्रिमत्‌ अवृत्तिजलकालीनह्रदावत्तित्वादित्यत्र जलकालीनह्रदवृत्तिजलात्मकस्वरूपासिद्वेर्वृत्तिजलातमकसाधानाप्रसिद्विघटितायाश्चासङ्‌ग्रहापत्तिः।

    द्वितीयं स्वरूपासिद्वितात्वं विशिष्टपक्षहेतुपक्षग्रहत्वाव्यापकविशिष्टपक्षे हेतुवैशिष्टयावगाहिग्रहत्वाव्यापकप्रतिबध्यतानिरूपितप्रतिबध्यतावच्छेदकविषयताघटितधर्मावच्छिन्नजन्यतानिरूपितजनकताशून्यानाहार्यत्वादिविशिष्टनिश्चयवृत्तित्वाभावः। ्त्राव्यापकान्तानुपादाने उक्तस्थलयोः ह्रदवृत्तित्वव्याप्यवज्जलात्मकस्वरूपासिद्वेर्वृत्तित्वाव्याप्यवज्जलात्मकपक्षाप्रसिद्विघटितायाः जलकालीनह्रदवृत्तित्वव्याप्यवज्जलात्मकस्वरूपासिद्वेर्वृत्तित्वप्याप्यजलात्मकसाधनाप्रसिद्विघटितायाश्चासङ्‌ग्रहहापत्तिः। अत्र व्यभिचारत्वं विशिष्टसाध्यसाध्यनग्रहत्वाव्यपकविशिष्ट(साध्य) साधनधर्मिकविशिष्टसाध्यव्याप्तिवैशिष्टयावगाहि ग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताशून्यतादृशनिश्चयवृत्तित्वाभावः। अत्राव्यपकान्तामुपादाने अभाववदवृत्तिवह्रिकालीनधूमावन् वह्रेरित्यत्र वह्रिकालीनधूमाभाववद्‌वत्तिवह्रयात्मकव्यभिचारस्याभाववद्‌वत्तिवह्रयभाववदवृत्‌तिद्रव्यात्वामकव्यभिचाराभाववद्‌वृत्तिद्रव्यात्वात्मकसाधनाप्रसिद्विघटितस्यासंग्रहापत्तिः। द्वितीव्ययभिचारतात्वमुक्तप्रतिबन्धकतावच्छेदकधर्मावच्छिन्नविधेयतावच्छेदकधर्माव्च्छिन्नजन्यातानिरूपितजनकताशून्यतादृशनिश्चयवृत्तित्वाभावः।

    अत्रापि प्रतिबन्धकतायाम् अव्यापकान्तानुपादाने उक्तस्थालयोः वह्रिकालीनधूमाभाववद्‌वृत्तित्वाव्याप्यवद्‌वह्रिरूपव्यभिचारस्याभाववद्‌वृत्तित्वव्याप्यवद्‌वह्रिरूपसाध्याप्रसिद्विघटितस्य वह्रयभाववद्‌वत्तित्वव्याप्यवद्‌द्रव्यत्वरूपव्यभिचारस्याभाववद्वृत्तित्वव्याप्यवद्‌द्रव्यत्वरूपसाधनाप्रसिद्विघटितस्य चासङ्‌हापत्तिः। विशिष्टसाध्यसाधनाग्रहत्वाव्यापकसाध्यसामानाधिकरण्यप्रकारकग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताशून्यतादृशनिश्चयवृत्तित्वाभावः। प्रथमं विरोधतात्वम्।


    अत्राव्यापकान्तानुपादाने गोत्वाधिकरणनिरूपितवृत्तित्वाभाववदभावकालीनगोत्ववानश्वत्वादित्यत्राभावकालीनगोत्वाधिकरणनिरूपितवृत्तित्वाभाववद्श्वत्वरूपविरोधस्य गोत्वनाधिकरणनिरूपितवृत्तित्वाभावरूपसाध्याप्रसिद्विघटितस्य गोत्वाधिकरणनिरूपितवृत्तित्वाभाववदभावकालीनाश्वत्वादित्यत्र गोत्वाधिकरणनिरूपितवृत्तित्वाभावदश्वात्मकविरोधस्य गोत्वाधिकरणनिरूपितवृत्तित्वाभावरूपसाधनाप्रसिद्विघटितस्यचासङ्‌ग्रहापत्तिः। अत्र साध्यसाधनातावच्छेदककुक्षौ अभावत्वावच्छेदेन गोत्वाधिकरणनिरूपितवृत्तित्वाभावः। प्रविष्टः। सचाभावः। प्रतियोगितासम्बन्धावच्छिन्नो ग्राह्यः।


    अन्यथा गोत्वाधिकरणनिरूपितवृत्तित्वाभावस्य साध्यसाधनाप्रसिद्वित्वासम्भवात्। निरूक्तप्रितबध्यतानिरूपितप्रतिबन्धकतावच्छेदकविषयताघटितधर्मावच्छिन्नजन्यतानिरूपिजनकताशून्यतादृशनिश्चयवृत्तित्वाभावो अपरं विरोधतात्वम्।

    अत्र प्रतिबन्धकतायामव्यापकान्तानुपादाने वृत्तिगगनवत्कालीनवह्रिमात् गगनागदित्यत्र वह्रयधिकरणनिरूपितवृत्तित्वाभावव्याप्यवद्‌गगनरूपविरोधस्य वृत्तित्वाभावव्याप्यवद्‌गगनरूपसाध्याप्रसिद्विघटितस्य वह्रिमान् वृत्तिगगनादित्यत्र तादृशसाधनाप्रसिद्विघटितस्य तादृशविरोधस्यचासङ्ग्रहापत्तिः। विशिष्टपक्षग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताशून्यतादृशनिश्चयवृत्तित्वाभाव एकमाश्रयासिद्वितात्वम्। तादृशप्‌रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकतप्रकारतावच्छेदकावच्छिन्नविधेयताघटितधर्मावच्चन्ननजन्यतानिरूपितजनकाशून्यतादृशनिश्चयवृत्तित्वाभावोऽपरम्।

    एवमेवसाध्याप्रसिद्वितात्वद्वयं साधनाप्रसिद्वितात्वद्वयं बोध्यम्। विशिष्टसाध्यग्रहत्वाव्यापकसाध्यधर्मिकात्यन्ताभावप्रतियोगित्वप्रकारकग्रहत्वव्यापकप्रतिबन्धयतानिरूपितप्रतिबन्धकताशून्यतादृशनिश्चयवृत्तित्वाभावोऽनुपसंहारितात्वम्। अत्राव्यपकान्तानुपादाने निरूपितत्वाभाववत्‌प्रतियोगित्वकालीन प्रमेयत्ववानित्यत्र प्रमेयत्ववृत्त्यभावनिरूपितप्रतियोगि(त्वात्यन्ताभानिरूपितप्रतियोगि)त्वरूपानुपसंहारित्वस्य निरूपितत्ववत्‌प्रतियोगित्वरूपसाध्याप्रसिद्विघटितस्या-संग्रहापत्तिः। विशिष्टसाधनाग्रहत्वाव्यापकविशिष्टवसाधनधर्मिकात्यंताभावप्रतियोगित्वप्रकारकग्रहत्वव्यापकप्रतिबन्धयतानिरूपितप्रतिबन्धकताशून्यनिश्चयवृत्तित्वाभावो अप्यनुपसंहारितात्वम्। अत्राव्यपकान्तानुपादाने निरूपित्वाभाववत्‌प्रतियोगित्वकालीनप्रमेयत्वहेतुकस्थलीयोक्तानुपसंहारित्वासंह्रहापत्तिः।एवमपरविधानुपसंहारितात्वमप्यूह्यम्।

    तथाच बाधत्वादिवृत्तिश्चैतादृशाभावो विपरीतबाधत्वादिसाधारणः। स्ववृत्त्येतदभावान्यतमवत् स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्स्वं तद्वत्त्वं स्वसजीतयविशिष्टान्तराघटितत्त्वम्।

    तथाच न मेयत्वविशिष्टव्यभिचारगदावतिव्याप्तिः। मैवम् तथापि व्यभिचारघटिताधसङ्‌ग्रहात्। तत्र बाधत्वे व्याप्तिज्ञानप्रतिबन्धकताशून्यनिश्चयवृत्तित्वाभावस्य व्यभिचारतात्वस्य पक्षे साध्यवत्ताज्ञाप्रतिबन्धकताशून्यनिश्चयवृत्तित्वाभावरूपस्यबाधतात्वस्य च सत्त्वात्। स्ववृत्तिव्यभिचारतात्वरूपतदभावान्यतमवत्-स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकशुद्वव्यभिचारत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य ताशबाधत्वेऽभावात्।

    नच स्ववृत्तितादृशान्यतमयत्किञ्चिदभाववद्‌विशिष्टान्तराघटितत्वस्य विवक्षणात् बाधतात्वरूपयत्किञ्चित्‌ अभाववद्‌विपरीबाधत्वद्यघटितत्वस्य तादृशबाधत्वे सत्त्वेन लक्षणसमन्वय इति वाच्यम्।


    तथापि वह्रयभाववज्जलादिमत्कालीनजलवद्‌ह्रदेऽतिव्याप्तेः। तत्र पक्षे साध्यवैशिष्टयावगाबिग्रहत्वव्यापकप्रतिबध्यातनिरूपितप्रतिबन्धकताशून्यतादृशनिश्चयवृत्तित्वाभावो यस्यादृशह्रदत्ववृत्तिः। तद्वत् स्वावच्छिन्नाविषयकप्रतिविषयतावच्छेदकं यद्‌वह्रयभावज्जलादिमद्‌वत्तिजलवद्‌ह्रदत्वं तदवच्चिन्नाघटितत्वस्य तत्र सत्त्वात्।

    नच तादृशप्रतिबन्धकताशून्यनिश्चयवृत्तित्वाभावमपहाय तादृशप्रतिबन्धकतावच्छेदकताशून्यनाहार्यज्ञानीयविशयतावृत्विाभावो विवक्षणीयः। वृत्तित्वंचावच्छिन्ननिरूपकताकत्वसम्बन्धेन।

    एवं च वह्रयभाववज्जलवद्‌वृत्तिजलवह्‌ह्रदत्वावृत्तितादृशाभाववद्‌वह्रयभाववद्जलत्वमपीति तदवच्न्निाघटित्वाभावात्तादृशविशिष्टे नातिव्याप्तिः। तादृशपाषाणमयत्वविशिष्टपर्यतवारणाय विशेष्यदळसार्थवाक्यमपि भवतीति वाच्यम्।

    तथापि गगनाभाववदभाववत्कालीनघटोददनावानित्यत्र बाधाव्याप्तेः। तादृशबाधत्ववृत्तिज्ञानवैशिष्टयावच्छिन्नतादृशप्रतिबन्धकतावच्छेदकताशून्यतादृशविषयतावृत्तित्वाभावस्य तादृशबाधत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकाभाववत्तादृशघटत्वसाधारणयता तदघटितत्वस्य तत्राभावात्। एवमाहार्यस्थलासङ्‌ग्रहश्च। तत्र प्रतिबन्धकत्वादिनिर्वाचानसम्भावदिति चेत्-


    न। बाधतात्वघटकप्रतिबन्धकतावच्छेदकत्वाभावश्च न स्वरूरसम्बन्धावच्छिन्नप्रतियोगिताकः। अपि तु स्वरूपस्वनिरूपकप्रतिबन्धकतानिरूपितप्रतिबध्कताविशिष्टनिष्टयत्वव्यापकप्रतिबनअधकतानिरूपितप्रतिबध्यतावच्छेदकविषयतावत्तोभयसम्बन्धावच्छिन्नप्रतियोगिताकोग्राह्यः। प्रतिबध्यतावैशिष्टयं च स्वाश्रयत्वस्वनिरूपितमुख्यविशेष्यतावृत्त्यवच्छेदकतानिरूपितावच्छेदकतावत्प्रकारताविशिष्टविशेष्यतानिरूपकाव्याप्यवृत्तित्वज्ञानाभावविशिष्टत्वोभयसम्बन्धेन।

    ताथच तादृशबाधत्ववृत्तिरेतादृशवृत्तित्वाभावश्च नाबाववत्तादृशघटत्वसाधारणः तदवच्छिन्नविषयतायां तादृशोभयसम्बन्धावच्छिन्ननिरूक्तप्रतिबन्धकतावच्छेदकत्वाभावसत्त्वेन तत्राभाववत्तादृशघटत्वरूपधर्मस्यावच्छिन्ननिरूपकताकत्व सम्बन्धेन सत्त्वात्।

    एवं गगनाभाववदभाववत्कालीनघटो वह्रिमान् गगनादित्यत्र गगनाभाववत्तादृशघटरूपस्वरूपासिद्वयव्याप्तिवारणाय विशिष्टपक्षहेतुग्रहत्वाव्यापकविशिष्टपक्षधर्मिकविशिष्टहेतुमत्ताग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वनिष्ठनिरूक्तसम्बन्धद्वयावच्छिन्नप्रतियोगिताकाभाववद्विषयतावृत्तित्वाभाववस्स्वरूपासिद्वितावृत्तिर्विवक्षणीयः।

    एवं गगनवद्‌गगनाभाववदभाववत्कालीनघटस्य यत्र साध्यता हेतुता, पक्षता च तत्र साध्याप्रसिद्विरेत्वप्रसिद्विपक्षाप्रसिद्विसङ्‌ग्रहाय साध्याप्रसिद्वितात्वादिकम्प्येवमेव निर्वाच्यम्।


    सत्प्रतिपक्षतात्वन्तु विशिष्टपक्षसाध्यग्रहत्वाव्यापकविशिष्टपक्षसाध्यवैशिष्टयावयावगाहिग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टविषयताघटिकधर्मावच्चिन्नकार्याताप्रतियोगिककारणतावच्छेदकताशून्यानाहार्यज्ञानीयविषयतावृत्तित्वाभावः। अत्रावच्छेदकत्वाभावश्च स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताक एव प्राह्य। विषयतायां प्रतिबन्धकतावैशिष्टयं च स्वावच्छेदकत्वं स्वनिरूपितप्रतिबध्यताविशिष्टनिश्चयत्वव्यापकप्रतिन्धकतानिरूपितप्रतिबध्यातवच्छेकत्वोभयसंबन्धेन।


    अन्यविधं स्वरूपासिद्वितात्वादिकमपि सत्प्रतिपक्षतात्ववदेव निर्वाच्यम्। तेन गगनाभावव्याप्यवद्‌गगनाभाववत्कालीनघटस्य सत्‌प्रतिपक्षस्वरूपासिद्वायादिरूपस्याभावव्याप्यवत्तादृशघटितत्वेऽपि नासंग्रहः।

    नन्वत्र? किं तावदसाधारण्यतात्वम्? नतावद्विशिष्टपक्षसाध्यग्रहतवाव्यापकपकपक्षसाध्यवैशिष्टयावगाहिग्रहत्वाव्यापकप्रतिबध्यतानिरूपितप्रति बन्धकतावच्छेदकताशून्यानाहार्यज्ञानविषयतावृत्तित्वाभावः। अत्राव्यापकान्तविशेषणान्निरूपितत्वाभाववत्‌प्रतियोगित्वं गगनत्वदाधेत्वादित्यादौ गगनत्वव्यापकोभूताभावनिरूपितप्रतियोगित्ववदाधेयत्वरूपासाधारण्यस्य पक्षाप्रसिद्विघटितस्य घटोनिरूपितत्वाभाववत्प्रतियोगित्वकालीनगगनत्वावानाधेयत्वादित्यत्र साध्याप्रसिद्विघटितस्य च नासङ्‌ग्रह इति वक्तुं शक्यम्। तस्याभावस्यावच्छेदकधर्मसाधारणतया वह्रयभाववज्जलवत्‌कालीनवह्रिमान् जलादित्यत्र तादृशवह्रिव्यापकीभूताभावप्रतियोगिजलात्मकसाधारण्येऽव्याप्त्यापत्तेः। तादृशासाधारण्यनिश्चयस्य जलवान् ह्रद इति निश्चयकालीनस्येव जलवान् वह्रयभाववानिति निश्चयस्यापि तादृशनिश्चयकालीनस्य तादशवह्रिविशेषावदगाह्यनुमितिं प्रतिबन्धकतया तादृशप्रतिबन्धकतावच्छेदकताशून्यविषयतावृत्तित्वाभावस्य तादृशासाधारण्यत्ववह्रयभाववज्जलवत्त्व साधारणतयाऽसाधारण्यस्य वह्रयभाववज्जलत्वावच्छिन्न घटितत्वत्।

    यद्वा जलं वह्रिमज्जलादित्यतासाधरण्येऽव्याप्तिः। प्रतियोगित्ववद्‌वह्रयभाववत्‌प्रतियोगित्ववज्जलमिति निश्चययोज्ञानविशिष्टज्ञआनत्वेन प्रतिबन्धकतया तदृशप्रतिबन्धकतावच्छेदकताशून्यतादृशविषयतावृत्तित्वाभावस्य प्रतियोगित्ववज्ज्लत्वेऽपि सत्तवेनासाधारण्यस्य तद्‌घटितत्वादिति चेत्-

    न। निरूक्तप्रितबध्यतानिरूपितनिश्चयविशिष्टनिश्चयत्वानवच्छिन्न प्रतिबन्धकतावच्छेदकत्वाभावात्तादृशविषयतावृत्तित्वाभावस्य विवक्षणीयत्वात्। निश्चयवैशिष्टयं च स्वासामानाधिकरण्यस्वीयप्रकारताविशिष्टप्रकारतानिरूपितविशेष्यतावत्त्वोभयसम्बन्धेन। अवच्छेदकधर्मदर्शनप्रतिन्धकता च तादुशनिश्चयत्वावच्छिन्नैव। असाधारण्यनिश्चयप्रतिबन्धकता तु निश्चयविशिष्टनिश्चयचत्वावच्छिन्न। असाधारण्यनिश्चये पक्षधर्मिकहेतुमत्तानिश्चयस्य स्वीयप्रकारताविशिष्टप्रकारतानिरूपितविशेष्यत्वसम्बन्धेनाभावात्।


    उक्तस्थलेऽसाधारण्यतात्वस्य प्रतियोगित्वज्जलत्ववृत्तितयाऽप्याप्त्यनवकाशात् तादृशासाधारण्यतात्वस्य बाधत्वसाधरणस्य वारणाय तादृशावच्छेदकत्वाभावः। सवरूपस्वनिरूपितबन्धकतानिरूपितप्रतिबध्यताविशिष्टनिश्चयत्वव्यापकप्रतिन्धकतानिरूपितप्रतिबध्यतानवच्छेदकविषयतात्वोभयसम्बन्धावच्छिन्नप्रतियोगिताको विवक्षणीयः।

    नचेदानीं विशेष्यदळवैयर्थ्यम्। पाषाममयत्ववत्पर्वतात्वादौ निरूक्तबाधतात्वस्याभावात्। तदवच्छिन्नविषयतायां स्वरूपसम्बन्धेन पक्षसाध्यवैशिष्टयावगाहिबुद्विप्रतिबन्धकतावच्छेदकत्वस्य सत्त्वेऽपि द्वितीय सम्बन्धेनाभावेन तादृशावच्छेदकत्वाभाववद्‌विषयतावृत्तित्वबावस्य निरूक्तधर्मेऽभावादिति वाच्यम्।


    तथापि कपिसयोग्येतद्‌वृक्षत्वादित्यादौ कपिसंयोगाभाववद्‌वृक्षेऽतिव्याप्तिवारणाय तदावश्यकत्वात्।

    नन्वेवं विरोधिविषयताप्रयुक्तत्वदळवैयर्थ्यमिति वाच्यम्। कपिसंयोगी धूमान्यधूमादित्यादौ कपिंसयोगाभाववद्‌वृक्षस्यविशिष्टान्तराघटितत्वस्य सत्त्वेन तदुत्तरानुमितिसामान्ये उभयाभावस्यसत्त्वेन वारणेन तत्‌सार्थक्यमितिचेदत्रकेचित्-


    वैयर्थ्यमित्यस्य नोक्तप्रयोदनकत्वमित्यर्थः। आहार्यस्थले न घटादिवारणरूपं प्रयोजनं सिध्यतीतिभावः। अत एव तादृशप्रयोजनसिद्वयर्थं प्रतियोगिनि स्वत्वमन्तर्भाव्यशङ्कते-

    नचेत्यादिनेति वदन्ति। एवं प्रतिबन्धकताघटितबाधतात्वादिकम् आहार्यस्थलीयदोषसाधारणमपि वक्तुं शक्यम्। प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेन्नप्रकारताव्यापकं यद्‌रूपावच्थछिन्नविशेष्यकतानिरूपितयद्रूपावच्छिन्नप्रकारत्वं तद्रूपावच्छिन्नविशेष्यतानिरूपिततद्रूपावच्छिन्नप्रकारताशालिग्रहत्वव्यापकं प्रतिबध्यतायां निवेश्य बातात्वस्य एवमेव दोषान्तरतावच्छेदकधर्मवृत्तिरूपस्यापि वक्तव्यात्वात्।

    अत्रायमनुगमः-पक्षे साध्यवैशिष्टयावगाहित्व-साध्यव्याप्यहेतुवैशिष्टयावगाबित्वोभयाभाव निष्ठो यः किञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयोत्तरानुमितिनिष्ठाभावनिरूपितविरोधिविषयताप्रयुक्तत्वविशिष्टस्वनिष्ठनिरूपिकतानिरूपिताधकरणतासम्बन्धावच्चिन्नप्रतियोगित्वं नास्तीति प्रतीतिसिद्वोऽभावः तन्निरूपितप्रतियोगित्वनिष्ठाप्रतियोगितानिरूपिताभावनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितानुमितिनिष्ठावच्छेदकतानिरूपितोत्तरत्वनिष्ठावच्छेदकतानिरूफ्तिनिश्चयनिष्ठावच्छेदकतानिरूपितविषयतानिष्ठावच्छेदकतानिरूपितावच्छिन्नक्वसम्बन्धावच्छिन्नावच्छेदकतावद्रूपविशिष्टरूपावत्त्वं लक्षणम्। रूपे रूपवैशिष्टयं च स्वातादात्म्यस्वविशिष्टावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपकविषयतात्वावच्छिन्नप्रतियोगिताकाभाववत्‌प्रतीतिविषयतावच्छेदकत्वोभयसम्बन्धेन। तादृशतावच्छेदकतायां स्ववैशिष्टयञ्च स्वनिष्ठावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपकविषयतानिष्ठाप्रतियोगितासम्बन्धावच्छिन्नावच्छेदकतानिरूपकाभावनिष्ठावच्छेदकतानिरूपकप्रतीतिनिष्ठावच्छेदकतानिरूपकनिरूपितत्वनिष्ठावच्छेदकतानिरूपकावच्छेदकत्वनिष्ठावच्छेदकतानिरूपकत्व-स्वनिष्ठाधेयतासम्बन्धावच्न्निावच्छेदकतानिरूपकतादृशाभावान्यतमत्वसमानाधिकरणोभयावृत्तिधर्मनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपकाभावनिष्ठावच्छेदकतानिरूपकत्वोभयासम्बन्धेनेति।


    नच तथाप्यवृत्तिजलकालीनजलाभाववान् ह्रदो वह्रिमानित्यत्राश्रयासिद्वावव्याप्तिः। तत्र ह्रदवृत्तिजलकालीनजलरूपाश्रयासिद्वेर्वत्तिजलातम्कस्वसजातीयविशिष्टान्तरघटितत्वादिति वाच्यम्।

    आहार्यस्थलीयदोषसाधारण्यायोक्तविवक्षायां प्रकृतपक्षतावच्छेदकतविशिष्टपक्षग्रबनिष्ठकिञ्चिद्रूपावच्छिन्नविशेष्यतानिरूपितकिञ्चिद्रूपावच्छिन्न प्रकारतानास्तीति प्रतितिसिद्वाभावाप्रतियोगियत्किञ्चित्प्रकारताविशिष्टग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकताशून्यविषयतावृत्तित्वाभावरूपमाश्रयासिद्वितात्वं वक्तव्यम् ग्रहे तादृशप्रकारतात्वं च स्वविशिष्टविशेष्यतात्वसम्बन्धेन। विशेष्यतायां स्ववैशिष्टयं च स्वनिरूपितविशेष्यतावच्छेदकतावच्छिन्नत्व-स्वावच्छेदकावच्छिन्नस्वावच्छेदकसम्बन्धावच्छिन्नप्रकारतानिरूपितत्वोभयसम्बन्धेन।


    अत्र प्रकारतायां यत्किञ्चित्वमभावप्रतियोगितावच्छेदकोटावप्यन्यतमत्वघटकतप्रथमभेदप्रतियोगितावच्छेदककुक्षौ सामान्ययरूपेणैव प्रकारतानिवेश इति ध्येयम्।

    तथाच तादृशस्थले पक्षतावच्छेदकतविशिष्टपक्षग्रहनिष्ठयत्किञ्चित्‌ प्रकारता हरदत्वावच्छिन्नविशेष्यतानिरूपितजलकालीनजलाभावत्वावच्छिन्ना, आश्रयासिध्यन्तरनिश्चयप्रतिबध्यतावच्छेदकयत्किञ्चित्प्रकारता च जलत्वावच्छिन्नविशेष्यतानिरूपिताऽवृत्तित्वावच्छिन्नप्रकारता।


    अत्र प्रथमप्रकारताविशिष्टग्रहत्वव्यापकप्रतिवध्यताघटिताश्रयासिद्वितत्वं न वृत्तिजलत्ववृत्तिजलमित्याकारकनिश्चयस्य जलकानीजलाभाववान् ह्रद इति ज्ञानं प्रत्यप्रतिबन्धकत्वात्ष द्वितीयप्रकारताघटिताश्रयासिद्वितात्वस्य जलकालीनजलवद्‌ह्रदरूपाश्रयासिद्वित्वे सत्त्वेऽपि न सातद्‌घटिकेति तत्र नाव्याप्तिः।


    नन्वेवं सति ह्रदोवह्रिमानित्यादौ दोषाव्याप्तिः। तत्र विशिष्टपक्षग्रहनिष्ठोक्ताभावाप्रतियोगिनी या प्रकारता उक्तोभयसम्बन्धेन तद्विशिष्टविशेष्यतावद्‌ग्रहाप्रसिद्वेरितिचैन्मैवम्।

    
    सर्वत्राश्रयासिद्वितात्वस्य पक्षतावच्छेदकाभाववद्‌विषयतावृत्तित्वाभावरूपस्य वक्तव्यत्वात्। तदभावनिरूपितपक्षतावच्छेदनिष्ठप्रतियोगिताघटकसम्बन्धः स्वविशिष्टग्रहवृत्तियत्किञ्चिद्रूपावच्छिन्न विशेष्यतानिरूपितयत्किञ्चिद्रूपावच्छिन्नपरकारता नास्तीति प्रतीतिसिद्वाभावनिरूपितप्रतियोगित्वाभाववझत्किञ्चित्‌प्रकारताविशिष्टग्रहत्वाव्यपकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्चेदकतावत्त्वरूपः। प्रकारतावैशिष्टयं प्रागुक्तसम्बन्धेन। अवच्छेदकतावत्त्वं च प्राक्‌प्रतियोगितावच्छेदकतयोक्तस्वरूपस्वनिरूपकप्रतिबन्धकतानिरूपितप्रतिबध्यताविशिष्टनिश्चयत्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यतायच्छेदकत्वोभयसम्बन्धेन।


    एवंचायं सम्बन्धोनिरवच्छिन्नपक्षतावच्छेदकस्थले व्यधिकरणसम्बन्ध एव। तदभावः केवलान्वयीति तद्‌वृत्तित्वाभावस्याप्रसिद्वायाश्रयासिद्विरप्रसिद्वैव। अश्रयासिद्विघटिताश्रयासिद्वौ च नाव्याप्तिरितिध्येयम्।

    वस्तुतस्तु-अन्यतमत्वं न तद्भिन्नभिन्नत्वत्। किन्तु प्रत्येकं तावदवृत्तिधर्मशून्यत्वम्। तथाचात्रैवं निवेशः पक्षतावच्छेदकतविशिष्टपक्षग्रहत्वव्यापकप्रकारतानिष्ठोभयावृत्तिधर्मावच्छिन्नावच्छेदकतानिरूपकावच्छेदकतया परंपरया निरूपकावच्छिन्ननिरूपकत्वसंबन्धावच्छिन्नवृत्तित्वनिष्ठप्रतियोगितकाभावनिरूपितवृत्तितावानित्यकारिका या प्रतीतिस्तन्निरूपितपक्षतावच्छेदकविशिष्टपक्षग्रहत्वव्यापकप्रकारतानिष्ठोभयावृत्तिधर्मनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपकप्रकापरतानिष्ठस्वविशिष्टविशेष्यतासम्बन्धावच्छिन्नावच्छेदकतानिरूपकप्रहनिष्ठावच्छेदकतानिरूपकवृत्तित्वनिष्ठाच्छेदकतानिरूपक भेदनिष्ठावच्छेदकतानिरूपकप्रतियोगित्वनिष्ठावच्छेदकतानिरूपकावच्छेदकत्वनिष्ठप्रातयोगितासम्बन्धावच्छिन्नावच्छेदकतानिरूपकाभावनिष्ठावच्छेदकतानिरूपकप्रतिबध्यतानिष्ठावच्छेदकतानिरूपपकप्रतिबन्धकतानिष्ठावच्छेदनिरूपकावच्छेदकत्वनिष्ठस्वरूपघटितप्रगुक्तोभयसम्बन्धावच्छिन्नप्रतियोदितासम्बन्धावच्चेन्नावच्छेदकतानिरूपकाभावनिष्ठावच्छेदकतानिरूपाधिकरणनिष्ठावच्छेदकतानिरूपकावच्छिन्ननिरूपकताकत्वसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धावच्छिन्नवृत्तित्वनिष्ठावच्छेदकततानिरूपकाभांवनिष्ठावच्छेदकतानिरूपकवृत्तित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वस्य प्रमीयविशेष्यताप्रतियोगिकस्वरूपसम्बन्धेन योऽभावस्तद्वत्त्वेसति विशिष्टसाध्यग्रहत्वव्यापकयत्किञ्चित्प्रकारताघटिततादृशाभाववत्त्वे सतीत्येवं रीत्यायावद्दोषविभाजकतावच्छेदकतावच्छेदकीभूताभानिरूपितवृत्तित्वप्कारतानिरूपितविशेष्यतायाः प्रमीयविशेष्यताप्रतियोगिकत्वरूपसम्बन्धावच्छिन्नाभाववान् यः तच्छून्यत्वमन्यतमत्वमिति।

    तथाच यत्र यो दोषः प्रसिद्वः तत्र तादृशदोषतावच्छिकनिष्ठाभाववृत्तिधर्मे तादृशज्ञानीयातादृशप्रकारतानिरूपितविशेष्यत्वस्य प्रमीयविशेष्यता प्रतियोगिकस्वरूपसम्बन्धावच्छिन्नाभावो नास्तीति तद्ववानन्य एव। तच्छून्यत्वं च तादृशदोषतावच्छेदकवृत्त्यभावे वर्तत इति सर्वत्र प्रसिद्विर्बोध्या।।
<2-29>
    अत्र केचित्‌-स्वसजातीयविशिष्टान्तरघटितत्वमेव यत्पादथे विशेषणं साजत्यं  च हेत्वाभास विभाजकरूपेण तच्चरूपं बाधत्वव्यभिचारत्वादीति-गादाधरी।
</2-29>

<2-30>
    स्वसजातीयविशिष्टान्तरघटितं यत्स्वं तदविषयप्रतीतिविषयत्वस्य विवक्षचयानुयोगिनि स्वत्वानन्तर्भावेन पदार्थान्तरेष्वतिप्रसङ्गवारकया तद्दळसार्थक्यादिति-गादाधरी।
</2-30>
    स्ववृत्तितादृशाभावान्यतमयत्किञ्चिदभाववत् स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यद्रूपं तद्रूपावच्छिन्नघटिततावच्छेदकं यत्स्वं तदवच्छिन्नाघटितत्वं विशिष्टान्तराघटितत्वम्। अत्र स्वपदेन व्यभिचारत्वादिकं धर्तुं न शक्यते। तस्य तादृशविशिष्चान्तराघटितत्वाभावात्।

    किन्तु मेयत्वविशिष्टव्यभिचारत्वादिकम्। तच्च व्यभिचारणे घटितमिति तदघटितत्वाभावान्नातिव्याप्तिः। व्यभिचारादेस्तदघटितत्वाद्दोषे लक्षमसमन्वयः। व्यभिचारघटिबाधे च नाव्याप्तिः। तादृशबाधतात्वरूपाभावात्तादृशभाववत्तादृशबाधत्वावच्छिन्नविषयकप्रतीतिविषययतावच्छेदकं शुद्वव्यभिचारत्वं न भवतीति विपरीतबाधत्वं तादृशमपि न तद्‌घटितं स्वम्।

    अतः प्रमेयत्वविशिष्टतादृशबाधत्वमेव स्वपदग्राह्यम्। तदवच्छिन्नाघटितत्वस्य तत्र बाधविशिष्टव्यभिचारादो च नातिव्याप्तिः। तादृशव्यभिचारत्वनिष्ठो यस्तादृशाभावान्यतमो यत्किञ्चित्‌ अभावो व्यभिचारतात्वरूप तद्वत्तदवच्छिन्नाविषयकप्रती तिविषयतावच्छेदकं शुद्वव्यभिचारत्वं तदवच्छिन्नघटितं स्वावच्छिन्नं भवतीति तदघटित्वस्य स्वस्मिन् अभावात्।

    अत्र स्वसडजातीयविशिष्टान्तरकं यत्स्वं तदघटितत्वोक्तावसम्भवः। बाधतत्वादेरपि-स्ववृत्तितादृशाभावान्यतमवत्-स्वावच्छिन्नाविषयतप्रतीतिविषयतावच्छेदकविपरीतबाधत्वादिकतया स्वपदेन बाधत्वादेरपि धर्तुं शक्यत्वात्।


    स्वादच्न्नि तदवच्छिन्नघटितत्वोक्तौ बाधस्य विपरीतबाधाद्यघटिततया स्वपदेन न दोषतावच्छेदकधारणसम्भव इात तदुपात्तम्। तादृशविशिष्ठान्तरघटितं यत्स्वं तदघटितत्वमनुकत्‌वा तद्भिन्नत्वोक्तौ मेयत्वविशिष्टव्यभिचारविशिष्टघटेऽतिव्याप्तिः। प्यभिचारतात्वाभावेन स्वपदेन तादृशघटत्वस्य धर्तुमशक्यतया स्वपदग्राह्यमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नभेदस्य सत्त्वात्।

    यद्यपि मेयत्वविशिष्टव्यभिचारविशिष्टघटस्य व्यभिचारविशिष्टतुल्यतया तत्र चातिव्याप्तेस्स्वयम् अनुपदं वक्तव्यतया तत्रातिव्याप्तिवारणप्रयोदनकत्वं न सम्भवति।

    तथाप्यणुरपि विशेषोऽध्यवसायकर इति न्यायात्तदुपात्तम्।

    नन्वेवं परिष्कारे विशेषगुणाभाववान् घटो गुरसामान्याभाववानित्यत्र विशेषगुणवद्‌घटरूपाश्रयासिद्वावव्याप्तिसम्भवे व्यभिचारविशिष्टमेयत्वादित्वायाप्त्यभिधानं सन्दर्भविरूद्वम्।

    तथाहि-विशेषगुमवद्‌घटत्वावच्छिन्न विषयतायामपि गुणसामान्याभाविशिष्टविशेषगुणाभाववद्‌घटत्वावच्छिन्नविषयकबुद्वित्वव्यापकघटत्वावच्छिन्नविशेष्यतानिरूपितगुणसामान्याभावत्वावच्छिन्नप्रकारतारूपयत्किञ्चित्प्रकारताविशिष्टग्रहत्वव्यापकविशिष्टपक्षग्रहत्वाव्यापकप्रतिबध्यतानिरूपित्परतिबनअधकतावच्छेदकताया निरूक्तोबयसम्बन्धेन सत्त्वेन तदभाववद्‌वृत्तित्वाभावरूपस्य विशेषगुणवद्‌घटत्वरूपासिद्वित्वेन सत्त्वेन तदभाववद्‌वृत्तित्वाबावरूपस्य विशेषगुवद्‌घटत्वरूपासिद्वित्वेन सत्त्वेन स्ववृत्तिबाधतत्त्ववत्‌स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकगुवद्‌घटत्वावच्छिन्नघटितत्वस्य आश्रया सिद्वौ सत्त्वेन तदघटितत्वस्य स्वस्मिन्नभावादिति चेत्-

    न। विशिष्टान्तराघटित बाधत्वादीनामेवात्र विवक्षणीयत्वात्। तत्वञ्च निरूपक्तावच्छेदकत्वाभाववद्‌वृत्तित्वाभाव एव।

    परन्तु प्रतियोगितावच्छेदकस्बन्धश्च स्वविशिष्टविषयतत्वानुयोगिकस्वरूप प्रागुक्तद्वितीयसम्बन्धेबयरूपः। विषयतायां स्ववैशिष्टयं स्वनिरूपकप्रतिबन्धकतावत्त्वसम्बन्धेन। प्रतिबनअधकतावत्त्वञ्च स्वविशिष्टविषयताभिन्नमुख्यविशेष्यविशेष्यताशून्यज्ञानीयत्वसम्बन्धेन। विषयतायां स्ववैशिष्टयं च स्वावच्छेदकत्वस्वव्याप्यप्रतिबन्धकतानवच्छेदकत्वोभयसम्बन्धेन। तथाच विशेषगुरवदघटत्वावच्छिन्नविषयतायां न गुणसामान्याभावत्वावच्छिन्नप्रकारतात्मकातदृणयत्किञ्चित्‌ प्रकारताविशिष्टग्रहत्वव्यापकप्रतिबनअधकतावच्छेदकतास्ति। स्वनिरूपकबाधप्रतिबन्धकताया अभावात्। तादृशविषयतायास्तत्‌-प्रतिबन्धकतायामवच्छेदकत्वे अपि तद्‌व्याप्याश्रयासिद्विप्रतिबन्धकतायामवच्चेदकत्वात्। तादजृशोभयसम्बन्धेन तादृशप्रतिबन्धेकताविशिष्टा गुणवद्‌घटविषयतैव, तदन्यमुख्यविशेष्यता विशेषगुमवान् घट इति  ज्ञानीयविशेष्यता तच्छून्यज्ञानीयविषयता गुणवद्‌घटविषयततैव तदनुयोगितकस्वरूपसम्बन्धघटितोभयसम्बन्धेन तादृशावच्छेदकत्वाभाववती विषयता तादृशश्रयासिद्विविषयताताद्‌वृत्तित्वाभावश्च नाश्रयासिद्वित्व इति विशिष्टान्तरार्घाटतबाधतात्वं नाश्रयासिद्वित्वासाधारमिति नोक्ताव्याप्तिप्रसिक्तिः। अत्र मुख्यविशेष्यत्वानुपादाने मेयत्वविशिष्टबाधादावतिव्याप्तिः। एतादृशबाधतात्वस्य तत्राभावात्।

    तथाहि-पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यातवच्छेदकावच्छिन्नप्रकारतारूपयत्किञ्चित्‌प्रकारताविशिष्टव्ग्रहत्वयापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकतामेयत्वविशिष्टबाधविषयतायां नास्ति, स्वनिरूपकबाधप्रतिबन्धकतायास्तत्राभावात्। तदभावश्च वह्रयभाववद्‌ह्रदः प्रमेय इति ज्ञाने स्वावच्छेदकत्वस्वाव्याप्यप्रतिबन्धकतावच्छदकत्वोभयसम्बन्धेन। तादृशप्रतिबन्धकताविशिष्टा या बाधविषयता तदन्यप्रमेयत्वविषयतायास्सत्त्वात्।


    तथाच तादृशबाधत्वस्य धर्तुसशक्यतया यत्स्वपदग्राह्यतदवच्छिन्नाघटितत्वस्य तत्र सत्त्वात्। मुख्यविशेष्यतानिवेशेतु प्रमेयत्वविषयता न तादृशीतादृशप्रतिबन्धकताविशिष्टान्यमुख्यविशेष्यता न बाधः प्रमेय इति ज्ञानीयेति तादृशबाधत्वावच्छिन्नविषयतायां निरूपक्तोभयसम्बन्धेन बाधप्रतिबन्धकतावच्छेदकतायास्सत्त्वेन तच्छून्यविषयतावृत्तित्वाभावस्य सत्वेन तादृशबाधत्वस्य स्वपदग्रह्यतया नातिव्याप्तिः। एवमेवासिद्वितात्वादिकमपि निर्वाच्यम्।

    अत्रायमनुगमः। धर्मविशिष्टधर्मावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकप्रकृतपक्षे साध्यवैशिष्टयावगाहिसाध्यव्याप्यहेतुवैशिष्टयावगाहित्वोभयाभावनिष्ठकिञ्चिद्रूपावच्चिन्नवषयताशालिनिश्चयोत्तरानुमितिनिष्ठाभवनिरूपितप्रतियोगितानिरूपितावच्छेदकतानिरूपितावच्छेदकतानिरूपितावच्छेदकतानिरूपतावच्छेदकतानिरूपतावच्छेदकतानिरूपितावच्छेदकतानिरूपितावच्छिन्नात्ससम्बन्धावच्छिन्नावच्छेदकतावद्वमेवत्त्वं लक्षणम्। धर्म वैशिष्टयं च स्वविशिष्टरूपघटितत्व स्वतादात्म्योभयसम्बन्धेन। रूपे स्ववैशिष्टयं च स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्ववृत्तितादृशाभावान्यतमत्वोभयसम्बन्धेनेति।
<2-30>
    स्वसजातीयविशिष्टान्तरघटितं यत्स्वं तदविषयप्रतीतिविषयत्वस्य विवक्षयानुयोदिनि स्वत्वानन्तर्भावेन पदार्थान्तरेष्वतिप्रसङ्गवाकतया तद्दळसार्थक्यादिति-गादाधरी।
</2-30>

<2-31>
    विशिष्टान्तराघटितत्वोघटितस्यसाध्यसाधनाग्रहाविरोधिज्ञाननिष्ठविषयतासम्बन्धेन व्याप्तिज्ञानप्रतिबन्धकतानतिरिक्तवृत्तित्वादिरूपस्य व्यभिचारदिविभाजकस्यात्र विवेशात्‌तादृशरूपस्य च व्यभिचारविशिष्टमेयत्वादि साधारणत्वादित्याहुरिति गादाधरी।
</2-31>
    अत्र बाधतात्वं विशिष्टपक्षसाध्यग्रहत्वव्यापकपक्षसाध्यवैशिष्टयावगाहिग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकत्वाभाववन्निरूपिवृत्तित्वाभावः। प्रतिबन्धकत्वनिष्ठप्रतियोगितावच्छेदतसम्बन्धश्च स्वरूपस्वनिरूपितप्रतिबध्यातविशिष्टनिश्चयत्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकविषयतावत्त्वोभयरूपः। वृत्तितावच्छेदकसम्बन्धश्च स्वावच्छिन्ननिरूपकताकविषयितावत्त्वरूपः। एवमे व्यभिचारतात्वं विशिष्टसाध्यसाधनेग्रहत्वाव्यापकविशिष्टहेतुधर्मिकविशिष्टसाध्यनिरूपितव्याप्तिप्रकारकग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकत्वाभाववद्‌वृत्तित्वाभावः। एवं रीत्यैव स्वरूपासिद्वितात्वादिकमपि निर्वाच्यम्।

    तथाचेतादृशव्यभिचारतात्वस्य व्यभिचारविशिष्टमेयत्वसाधारणयतया न तत्रातिव्याप्तिः। एवं ह्रदो वह्रिमानित्यादौ वह्रयभाववद्‌जलादिमद्‌वृत्तिजलवद्‌ह्रदादौ नातिव्याप्तिः। ह्रदो वह्रिमानित्यादिग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताया उक्तविशिष्टविषयकनिश्चये स्वरूपसम्बन्धेन सत्त्वोऽप्यपरसम्बन्धेनाभावेन तादृशसम्बन्धद्वयेन तादृशविशिष्टप्रतिबन्धकत्वाभावस्य तादृशनिश्चये सत्वेन तद्‌वृत्तित्वाभावस्य बाधतात्वस्य तादृशविशिष्टह्रदत्वेऽसत्त्वात्।

    अत्रायमनुगमः-प्रागुक्तधर्मविशिष्टधर्मेत्यादिरूपवच्च्वं लक्षणम्। धर्मवैषिष्टयं ट स्वतादात्म्यस्ववृत्तितादृशाभावान्यतमत्वव्यापकत्वोभयसम्बन्धेन व्यापकत्वं च स्वविशिष्टकरूपवृतच्तित्वसम्बन्धेन रूपे स्ववैशिष्टयं च स्वावच्छिन्नाविषयतप्रतीतिविषयतावच्छेदकत्वसम्बन्धेनेति।
<2-31>
    विशिष्टान्तराघटितत्वोघटितस्यासाध्यसाधनाग्रहाविरोधिज्ञाननिष्ठविषयतासम्बन्धेन व्यप्तिज्ञानप्रतिबन्धकतानतिरिक्तवृत्तित्वादिरूपस्य व्यभिचारदिविभाजकस्यात्र विवेशात्‌तादृशरूपस्य च व्यभिचारविशिष्टमेयत्वादि साधारणत्वादित्याहुरिति-गादाधरी।
</2-31>

<2-32>
    एवं सति बाधविशिष्टव्यभिचारादौ स्ववृत्तिबाधत्वव्यभिचारत्वादि यावद्वर्मेण सजातीयस्य विशिष्टान्तरस्यव्यभिचारविशिष्टबाधस्य प्रसिद्वावपि तद्‌घटितत्वासत्त्वेनातिव्याप्तेरिति-गादाधरी।
</2-32>
    नन्वत्र?बाधविशिष्टव्यभिचारेऽतिव्याप्तिकथनमसङ्गतम्। स्वपदेन बाधविशिष्टव्यभिचरात्वस्य धर्तुमशक्यत्वेऽपि बाधवैशिष्टयमुपादाय तद्‌वृत्तिबाधतात्ववदविषयतपर्रतीतिविषयतावच्छेदकं शुद्वबाधत्वं तत्‌तदवच्छिन्नघटितं यत्स्वं तदघटितत्वस्य तत्राभावात्।

    नचैवं व्यभिचारघटितबाधेऽव्याप्तिः।तत्रापि धूमव्यभिचारिवह्रिमत्त्वमुदाय तद्‌वृत्तिव्यभिचारातात्ववत्तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकशुद्वव्यभिचारत्वावच्छिन्नघटित्वस्य सूपपादत्वात्तदघटितत्वाभावात्। अतोऽत्राघटितत्यं न तदवच्छिन्नाविषयतप्रतीविषयत्वम्।

    किन्तु तदवच्छिन्नविषयतावत्त्वतदवच्छिन्नविषयित्वाव्यापकविषयिताशून्यत्वोभयाभाववत्प्रतीतिविषयतावच्छेदकधर्मवत्त्वं वाच्यम।

    तथाच बाधविशिष्टव्यभिचारे बाधवैशिष्टयमादाय नातिव्याप्तिवारणं शक्यते कर्तुम्। अत्र तादृशोभयाबाववत्प्रतीतौ यद्रूपावच्छिन्नविषयित्वाव्यापकविषयिताशून्यत्वमपि विशेषणं बोध्यम्। तेन मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयित्वाव्यापकघटादिविषयाताशालिमेयत्वविशिष्टव्यभिचारघटविषयकप्रतीतौ तादृशोभयाभावस्य सत्त्वेऽपि न प्रमेयत्वविशिष्टबाधेऽतिव्याप्तिरिति वाच्यम्।

    तथापि स्ववृत्तयो यावन्तरस्तादृशान्यतमत्वविशिष्टाभावः प्रत्येक तद्वास्यस्स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदको धर्मस्तदवच्चिन्नघटिततावच्छेदकत्वे सति एतदभाववत्‌-स्वावाच्छिन्नाविषयकप्रतीतिविषयतावच्छेदको यस्तदवच्छिन्नघटिततावच्छेदकं यत्स्वं तदवच्छिन्नाघटितत्वविवक्षणेऽतिव्याप्तिपरिहारात्। बाधविशिष्टव्यभिचारत्ववृत्तिरभावोबाधतात्वं व्यभिचारत्वं च। प्रत्येकं तद्वत्‌स्वावच्छिन्नघटिततावच्छेदकबाधविशिष्टव्यभिचारत्वं स्वपदग्रह्यं भवतीति तदवच्छिन्नाघटितत्वस्य तत्राभावात्। व्यभिचारघटितबाधे च नाव्याप्तिः। तादृशबाधत्वृत्तयस्तादृशानयतमत्वववन्ताभावाः। व्यभिचारतात्वं बाधतात्वं च । तत्र बाधतात्ववत्‌ स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं न बाधत्वं विपरीतबाधत्वस्य तादृशत्वेऽपि तदवच्छिन्नघटित्वं न तादृशबाधस्येति स्वपदेन तादृशबाधत्वस्य धर्तुमशक्यत्वात्। मेयत्वविशिष्टतादृशबाधत्वमेव स्वपदग्राह्यम् तदवच्चिन्नाघटितत्वस्य तत्र सत्त्वात्।

    एवं च मेयत्वविशिष्टव्भिचारादौ नातिव्याप्तिः।

    नचैवमपि ह्रदेऽवच्छेदकावच्छेदेन वह्रेस्साधनेऽवच्छेदकावच्छेदेन वह्रयभाववद्‌ह्रदरूपाबाधेऽव्याप्तिः। तादृशबाधत्ववृत्तिर्यः ह्रदत्वावच्छिन्नविशेष्यतानिरूपितवह्रत्वावच्छिन्नप्रकारतारूपयत्किञ्चित्प्रकारताविशिष्टग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतातिरिक्तवृत्तित्वाभावः तद्वत्तादृशबाधत्वावच्छिन्नविषयिताशून्यशुद्वस्वरूपसम्बन्धेन वह्रयभावावगाहिज्ञानीयविषयितानिरूपकावच्छेदकं सामानाधिकरण्येन बाधत्वम्। तदवच्छिन्नघटितं स्वावच्छिन्नं भवतीति स्वस्य स्वाघटितत्वाभावादिति वाच्यम्।

    स्ववृत्तियावद्वेत्वाभासविभाजकरूपेण साजात्यस्यात्र कल्पे विवक्षिततया तदानीं स्ववृत्तयो यावन्तस्तादृशान्यतमत्वाक्रान्ताः अभावाः प्रत्येकं तत्तदभाववत्स्वावच्छिन्नाविषयकप्रतीतिविषयावच्छेजकावच्छिन्नघटिततावच्छेदकत्वस्य स्वस्मिन् विवक्षिततयाऽवच्छेदकावच्छेदेन बाधत्ववृत्तितादृशान्यतमत्वाकान्तोऽभावः ह्रदत्वावच्छिन्नविशेष्यचानिरूपितह्रदत्वाव्यापकवह्रिप्रतियोगिकसंयोगसम्बन्धावच्छिन्नवह्रित्वावच्छिन्नप्रकारताविशिष्टग्रहत्वव्यापकप्रतिबध्यतानिकूपितप्रतिबन्धकतातिरिक्तवृत्तित्वाभावः ह्रदत्वावच्छिन्नविशेष्यतानिरूपितशुद्वसंयोगसंबन्धावच्छिन्नवह्रित्वावच्छिन्नप्रकारताघटितधर्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतातिरिक्तवृत्तित्वा भावश्च।

    तत्र प्रथमाभावस्य सामानाधिकरण्येन बाधत्वे सत्त्वेऽपि द्वितीयाभावस्य अवच्छेदकावच्छेदेन बाधत्व एव सत्त्वेन तस्य स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वाभावात् विपरीतयास्यावच्छेदकतावच्छेदेन बाधत्वस्य तादृशत्वेऽपि स्वावच्छिन्नस्य तदवच्छिन्नघटिततया स्वपदेन तादृशबाधत्वस्य धर्तुमशक्यताऽव्याप्तिविरहादिति चेत्-

    न। यादृशाङ्‌कुरविशेषसाध्यकस्थले मेयत्वविशिष्टव्यभिचारविषयकज्ञानं नियमते बाधविषयकसमूहालम्बनमेव तत्र मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तेः।

    तथाहि-तत्र मेयत्वविशिष्टव्यभिचारत्वं न स्वपदेन धर्तुं शक्यते। स्ववृत्तिस्तादृशान्यतमत्वाकान्तोऽभावो व्यभिचारत्वरूपो बाधतात्वरूपश्च। तत्र स्ववृत्तिव्यभिाचरत्वावच्छिन्नघटितत्वेऽपि स्वावच्छिन्नस्य स्ववृत्तिबाधतात्ववत्‌ स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं न बाधत्वम्, किन्तु विपरीतबाधत्वम्।

    
    अस्तु वा बाधत्वमपि। तदवच्छिन्नघटितावच्छेदकं न स्वमित्यतोऽन्यदेव स्वपदग्रह्यम्। तदवच्छिन्नाघटितत्वस्य मेयत्वविशिष्टव्यभिचारे सत्त्वान् पूर्वोत्तरकल्पयोनियं दोषः।


    एतेनेतिकल्पे मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयिताव्यपकत्वस्य व्याप्तिज्ञानप्रतिबन्धकतायां साध्यवत्ताज्ञानप्रतिबन्धकतायां च सत्त्वेऽपि यत्किञ्चित्‌प्रतिबनधकतात्वेन व्याप्तिज्ञानप्रतिबन्धकतामुपादाय तादृशप्रतिवन्धकतावच्छेदकव्यभिचारविषयितायां मेयत्वविशिष्टव्यभिचारत्वाच्छिन्ननिकूप्यत्वाभावेनातिव्याप्तिविरहात्।

    अत्र वदन्तिकल्पीयोभयाभावाधिकरणता प्रयोजकसाध्यवैशिष्टयावगाहित्वाधिकरणतायां स्वावच्छिन्नविषयताप्रतयोज्यत्वाभावात्। हेतौ व्याप्त्यवगाहित्वाभावाधिकरणतायां विशिष्टान्तरविषयित्वाप्रयोद्यत्वाभावाच्च विशिष्टान्तरघटितत्वाभावे नातिव्याप्तिविरहात् इति दिक्।।
        
<2-32>
    एवं सति बाधविशिष्टव्यभिचारादौ स्ववृत्तिबाधत्वव्यभिचारत्वादि यावद्वर्मेण सजातीयस्य विशिष्टान्तरस्यव्यभिचारविशिष्टबाधस्य प्रसिद्वावपि तद्घटितत्वासत्त्वेनातिव्याप्तेरिति-गादाधरी।
</2-32>

अत्र वदन्तीत्यादिकल्पविचारः
<2-33>
    कालाध्वनोरत्यन्तसंयोगे इत्यनेन द्वितीयाधिकरणे उत्तरपदस्योत्तरकालपरत्वादि तु न युक्तम्। व्यापकत्वात्मकत्यात्यन्त लंयोगस्य प्रकृतेऽविवक्षितत्वादिति-गादाधरी।
</2-33>
    नन्वत्र? व्यापकत्वनिवेशेऽव्याप्तिरेव कुतो नाभिहिता? वह्रयभाववद्‌ह्रदविषयकनिश्चयोत्तरकालत्वव्यापकत्वस्यानुमितावभावादिति चेत्-

    न। दोषविषयकयत्किञ्चिन्निश्चयोत्तरकालतवव्यापकत्वव्यापकत्वस्यानुमितौ निवेशनीयत्वात्।

    तथाच यद्विषयकयत्किञ्चित्‌ निश्चयोत्तरकालनिष्ठभेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वो यद्रूपावच्छिन्नविषयतकनिश्चयनिष्ठातद्‌व्यक्तित्वनिष्ठानिरवच्छिन्नावच्छेदकताविश्चयनिष्ठावच्छेदकतानिरूपकोत्तराकालनिष्ठावच्छेदकतानिरूपकवृत्तित्वनिष्ठावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकतानिरूपकप्रतियोगित्वनिष्ठावच्छेदकतानिरूपकावच्छेदकतात्वावच्छिन्नप्रतियोदिताकाभाव एवानुमितौ निवेशनीयः।

    द्वितीयाभावस्तु यद्रूपावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपकविषयितानिष्ठावच्छेदकतानिरूपकनिश्चयनिष्ठावच्चेदकतानिरूपकवृत्तित्वनिष्ठावच्छेदकतानिरूपकोभया वृत्तिधर्मनिष्ठाधेयतासम्बन्धावच्छिन्नावच्चेदकततानिरूपिका सती निरवच्छिन्नत्वनिष्ठावच्छेदकतानिरूपिकायावच्छेदकत्वनिष्ठावच्छेदकता तन्निरूपकनिश्चयनिष्ठावच्छेदकतानिष्ठावच्छेदकतानिरूपकोत्तरकालनिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपकवृत्तित्वनिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपकप्रतियोगित्वनिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपकावच्छेदकत्वनिष्ठप्रतियोगित्वनिष्ठावच्छेदकतानिरूपकाभावनिष्ठावच्छेदकतानिरूपकानुमितिनिष्ठावच्छेदकतानिरूपिकवृत्तित्वनिष्ठावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकतानिरूपकप्रतियोगित्वनिष्ठावच्छेदकतानिरूपिकावच्छेदकत्वावच्छिन्नप्रतियोगिताकाभाव एव सामान्याभाव उभया भावे निवेशनीयः। एतादृशसामान्याभावनिवेशान्नातिप्रसङ्गः। एवं रीत्या निवेशेऽव्याप्तिविरहात् अविवक्षितत्वाभिधानमिति दिक्‌।।
<2-33>
    कालाध्ववोरत्यन्तसंयोगे इत्यनेन द्वितीयाधिकरणे उत्तरपदस्योत्तरकालपरत्वादि तु न युक्तम्। व्यापकत्वात्मकत्यात्यन्त संयोगस्य प्रकृतोऽविवक्षितत्वादिति-गादाधरी।
</2-33>

<2-34>
    स्वनिष्ठप्रतिबन्धतावच्छेदकधर्मस्य स्वानन्तरोत्पन्नज्ञाननिष्ठप्रतिबध्यातवच्छेदकधर्माभावप्रयोजकत्वादिति-गादाधरी।
</2-34>
    प्रतिबन्धकतावच्छेदकविषयितायाः स्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकं यद्रूपंपावच्छिन्नानुयोगिताकपर्याप्तिकप्रतियोगितासम्बन्धावच्छिन्नावच्छेदकताकाबावत्वघटितधर्मावच्छिन्ननिरूपकताकाधिकरणताप्रयोदकत्वमिति नियमः। इदं च प्रतिबन्धकज्ञानोत्तरज्ञाननिष्ठाधिकरमतायाम्। तदमुत्तरज्ञाननिष्ठाधिकरणयान्तु प्रतिबध्यज्ञानसामाग्रयभाबस्य प्रयोजकत्वमिष्कर्षो बोध्यः।
<2-34>
    स्वनिष्ठप्रतिबन्धतावच्छेदकधर्मस्य स्वान्तरोत्पन्नज्ञाननिष्ठप्रतिबध्यतावच्चेदकधर्मावप्रयोजकत्वादिति गागदाधरी।
</2-34>

<2-35>
    यद्विषयताप्रयुक्तस्तादृशोभयाभावस्तत्वमित्येतावन्मात्रेकृते ह्रदो वह्रयभाववानित्यादिज्ञानीयवह्रयभावादिविशिष्ट ह्रदविषयिताया इव तदन्तःपातिवह्रयभावत्वादिविशिष्टविषयिताया अपि प्रतिबन्धकतावच्छेदककोटिप्रविष्टतया प्रतिबध्यतावच्छेदकस्य ह्रदत्वादिविशिष्टे वह्रयादिवैशिष्टयावगाहित्वस्य विरहप्रयोजकतया बाधकाद्येदेशे वह्रयभावादिरूपविशिष्टेऽतिव्याप्तिरिति-गादाधरी।
<2-35>
    नन्वत्र? विशेष्दळसत्त्वेऽपि ह्रदो वह्रिमानित्यत्र बाधासङ्‌ग्रहः। जातिमान् वह्रयभाववानित्याकारकवह्रभाववद्‌ह्रदत्वादिविशिष्टविषयकनिश्चयोत्तरं ह्रदे वह्रयवगाहिसमूहालम्बनानुमितेरूत्पादात्। तत्रचोभयाभावाभावादतोऽव्यापकविषयताशून्यत्वं निवेशनीयम्। तथाच बाधनिश्चयश्च न बाधैकदेशविषयित्वाव्यपकविषयिताशून्यः। तादृशैकदेशमात्रविषयकनिश्चयीयतद्विषयताप्रयुक्तो नोभयाभाव इति नैकदेशातिव्याप्तिरिति चेत्-

    न। गोत्वाभावो गोत्वाभाववानित्यादौ गोत्वाभावदावतिव्याप्तेः। उक्तरीत्या अव्यापकविषयिताशून्यत्वनिवेशे च प्रागुक्तरीत्यैव दोषो।़नुसन्धेयः।
<2-35>
    यद्विषयताप्रयुक्तस्तादृशोभयाभावस्तत्वमितावन्मात्रेकृते ह्रदो वह्रयभाववानित्यादिज्ञानीयवह्रयभावादिविशिष्टह्रदविषयिताया इव तदन्तःपातिवह्रयभावत्वादिविशिष्टविषयिताय अपि प्रतिबन्धकतावच्छेदककोटिप्रविष्टतयाप्रतिबध्यतावच्छेदकस्य ह्रदत्वादिविशिष्टे वह्रयादिवैशिष्टयावगाहित्वस्य विरहप्रयोजकतय बाधाकद्येदेशे वह्रयभावादिरूपविशिष्टेऽतिव्याप्तिरिति-गादाधरी।
</2-35>

<2-36>
    न च यादृशविशिष्टविषयितासामान्यप्रयुक्तस्तादृशोऽभावस्तत्वमित्येव सम्यक्‌। ह्रदतवादिविशिष्टविषयितासामान्यान्तर्गतायां ह्रद इत्यादि ज्ञानीयविषयितायां तादृशोभयाभावप्रयोजकत्वादिसत्वादतिव्याप्तेरनवकाशादिति वाच्यम्। पाषाणमयो न वह्रिमानिति ज्ञानविशिष्टस्य पर्वतपाषाणमय इति ज्ञानस्य पर्वतो वह्रिमानिति ज्ञानप्रतिबन्धकतया ज्ञानभेदेन विषयिताभेदाभावात् पाषाणमयत्वविशिप्टपर्वतविषयितासामान्यस्यैवोभयाभाबप्रयोजकत्वात्। पाषाणमयत्वविशिष्टपर्वतादावतिव्याप्तेर्दुंवारत्वादिति-गादाधरी।
</2-36>
    अत्र सायान्यपदोपादानेऽपि विशेष्यदळाभावेऽतिव्याप्तिरूक्ता।

    नन्वत्र? धूमव्यभिचारी वह्रिर्धूमवान् वह्रेरित्यत्र मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः। तादृशव्यभिचारविषयकनिश्चयोत्तरानुमितिसामान्ये व्यभिचारविषयितारूपविरोधिविषयिताप्रयुक्तोभयाभावस्य सत्त्वात् विशिष्टान्तराघटितत्वेन विशेषणेन तद्वारणं शक्यम्। तादृशवह्रिर्धूमवानिति ज्ञानं प्रति मेयत्ववान धूमाभाववान् मेयत्ववान् तादृशवह्रिरिति ज्ञानविशिष्टज्ञानस्य प्रतिबन्धकतया तादृशोभयाभावाधिकरणताप्रयोजिकायां पक्षे साध्यवैशिष्टयाभावाधिकरणतायं तादुशव्यभिचारविषयितायाः प्रयोजकत्वात्। तत्र शुद्वव्याभिचारविषयितायाश्चाप्रयोदरकत्वात्।

        
    तथाच विशिष्टान्तरविषयित्वाप्रयोज्यस्वविषयिताप्रोज्योभयाभावाधिकरणताप्रयोजकाभावाधिकरणताकत्वरूपविशिष्टानतराघटितत्वस्य सत्त्वात् अतस्तद्वारणाय स्वविषयितानिष्ठप्रयोजकतायां ज्ञानवैशिष्टयनिष्ठप्रयोजकतानिरूपकप्रयोज्यतावदधिकरणतानिष्ठाप्रयोज्योतानिरूपितत्व असाधाण्यविषयित्वावृत्तित्वोभयाभावो निवेशनीयः।

    एवञ्चोक्तस्थले धूमव्यभिचारिवह्रौ धूमवैशिष्टयावगाहित्वाभावाधिकरणतानिष्ठप्रयोज्यतायां ज्ञानवैशिष्टयनिष्ठप्रयोजकतानिरूपकत्वस्य सत्त्वेन मेयत्वविशिष्टव्यभिचारविषयितानिष्ठप्रयोजकतायां उभयाभावाभावान्नातिव्याप्तिः।

    तथाच पाषणमयत्वविशिष्टपर्वते नातिव्याप्तिः। तद्विषयितानिष्ठप्रयोदकतयां उक्तोभयाभावासत्त्वादितिचेत्-

    न। कपिसंयोग्येतत्वादित्यत्र कपिसंयोगाभाववद्‌वृक्षेऽतिव्याप्तिवारणाय विशेष्यदळस्यावश्यकत्वात। तादृशविशिष्टविषयकनिश्चयोत्तरज्ञाननिष्ठे पक्षे साध्यवैशिष्चयावगाहित्वाभावधिकरणत्वे कपिसंयोगाभाववद्‌वृक्षविषयितायाः प्रयोजकत्वात्। विशिष्टान्तरविषयिताया अप्रयोजकत्वाच्च विशिष्टान्तराघटितत्वस्य सत्त्वात् विशेष्यदळसत्त्वे च अव्याप्यवृत्तित्वप्रमाकालीनतादृशविशिष्टविषयकनिश्चयोत्तरानुमितौ उभयाभावासत्त्वेनातिव्याप्तिवारणात्।।
<2-36>
    न च यादृशविशिष्टविषयितासामान्यप्रयुक्तस्तादृशोऽभावस्तत्वमित्येव सम्यक्‌। ह्रदत्वादिविशिष्टविषयितासामान्यान्तर्गतयां ह्रद इत्यादि ज्ञानीयविषयितायां तादृशोभयाभावप्रयोजकत्वादिसत्वादतिव्याप्तेरनवकाशादिति वाच्यम्। पाषाणमयो न वह्रिमानिति ज्ञानविशिष्टस्य पर्वतपाषाणमय इति ज्ञानस्य पर्वतो वह्रिमानिति ज्ञानप्रतिबन्धकतया ज्ञानभेदेन विषयिताभेदाभावात् पाषाणमयत्वविशिप्टपर्वतविषयितासामान्यस्यैवोभयाभाबप्रयोजकत्वात् पाषाणमयत्वविशिष्टपर्वतादावतिव्याप्तेर्दुंवारत्वादिति-गादाधरी।
</2-36>

<2-37>
    एवं दोषविषयकलौकिकनिश्चयाव्यवहितपूर्वम् अनुमित्युत्पत्त्या तद्दोषः अतः उत्तरेति-गादाधरी।
</2-37>
    नन्वत्र? साध्यानुमित्यनन्तरं लौकिकान्यदोषज्ञानस्य साध्यानुमितिप्रतिबधयतयैवोत्पत्त्यसम्भावात्तादृशज्ञानमादायोत्तरपदप्रयोजनं नायातीति लौकिकज्ञानपर्यन्तानुसरणमसङ्गतम्। दोषविषयकलौकिकान्यज्ञानाव्यवहितप्रक्कालीनानुमितौ निरूक्तोभयाभावसत्त्वेपि तस्य विरोधिविषयिताप्रयुक्तत्वाभावादेन दोषविषयकनिश्चयाव्यवहितानुमितिसामान्येबिरोधिविषयिताप्रयुक्तोभयाभावासत्त्वादव्याप्तिरिति उत्तरपदप्रयोजनं नायातीति किमर्थं लौकिकप्रत्यक्षानुसरणमितकि चेत्-

    न। विरोधिविषयताप्रयुक्तत्वदळसत्त्वेऽसत्त्वे वा व्याप्तिरिति सूचानार्थं तदनुसारणादिति।

</2-37>
    एवं दोषविषयकलौकिकनिश्चयाव्यवहितपूर्वम्‌ अनुमित्युत्पत्त्या तद्दो अतः उत्तरेति-गादाधरी।
</2-37>

<2-38>
    तादृशोभयाभावप्रयोजकविरोधिविषयितावत्वं यद्रूपावविशिष्टविषयित्वव्यापकं तद्रपावच्छिन्नत्वं दोषत्वमित्यस्य सम्यकत्वेपि पथासन्निवेशे न वैयर्थ्यमिति-गादधरी।
</2-38>
    तादृशोभयावप्रयोजकविरोधिविषयितायां यद्रूपाविशिष्टविषयकत्वव्यापकत्वमनुक्त्वा तत्सामानाधिकरण्यमात्रोपादाने बाधाद्यंकदेशेऽतिव्याप्तिः। बाधज्ञानीयह्रदत्वादिविशिष्टविषयकत्वसामानाधिकरण्यस्य विरोधि विषयतायां सत्त्वात्। तदुपादाने च ह्रद इत्याकारकज्ञाने तदभावान्नातिव्याप्तिः।

    ननु? ह्रदो वह्रिमानित्यादौ वह्रयभाववद्‌ह्रविषयके जातिमान् वह्रयभाववानिति ज्ञाने वक्ष्यमाणविरोधिविषयताया अभावेन बाधाद्यसंग्रहभिया यद्रूपावच्छिन्नविषयित्वाव्यापकविषयिताशून्ययाद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकत्वस्य तादृशविरोधिविषयितायां विवक्षणीयतया सामानाझिकरण्यमात्रनिवेशेऽपि नैकदेशेऽतिव्याप्तिः। तादृशौकदेशमात्रविषयकनिश्चये कुत्रापि तादृशविरोधिविषयिताया अभावात्।

    नच तथापि गोत्वाभावो गोत्वाभाववानित्यत्र गोत्वाभावेऽतिव्याप्तिः। गोत्वाभावत्वविशिष्टविषयित्वाव्यापकविषयिताशून्यगोत्वाभावविषयकगोत्वाभावो गोत्ववानिति निश्चयत्वसामानाधिकरण्यस्य तादृशविरोधिविषयतायां सत्त्वादिति वाच्यम्।

    यद्रपावच्छिन्नविषयितानिरूपितयद्रूपावच्छिन्नविषयिताविशिष्टविषयित्वाव्यापिका तद्रपावच्छिन्नविषयितानिरूपिततद्रूपावच्छिन्नविषयिताशून्यत्वस्य विवक्षणीयत्वादिति चेत्-

    न। कपिसंयोग्येतत्वादित्यादौ कपिसंयोगाभाववद्‌वृक्षेऽतिव्याप्तेः। अव्याप्यवृत्तित्वज्ञानानास्कन्दिततद्विषयकनिश्चयान्तर्भावेण विरोधिविषयितायां कपिसंयोगाभाववद्‌वृक्षविषयकत्वासामानाधिकरण्यस्य सत्त्वात्। व्यापकत्वनिवेशे नायं दोषः। लक्षणेऽव्याप्यवृत्तित्वभ्रमानास्कन्दितत्वस्यैव निश्चये निवेशनीयता वृक्षे कपिसंयोगाभावेऽव्याप्यवृत्तित्वज्ञानस्य प्रमात्वेन तद्‌भ्रमानास्कन्दिताव्याप्यवृत्तित्वप्रमारकालीनतादृशविशिष्टविषयकनिश्चये विरोधिविषयित्वाभावात्।

    नच ज्ञानभेदेन विषयिताभेदाभावे नाव्याप्यवृत्तित्वज्ञानकालीनकपि संयोगाभाववद्‌वृक्षविषयकनिश्चयेऽपि विरोधिविषयितायास्सत्त्वात्‌ व्यापकत्वनिवेशिऽपि नातिव्याप्तिवारणसम्भव इति वाच्यम्।

    विरोधिविषयितावत्त्वमित्येन तदधिकरणत्वस्य विवक्षितत्वात्। तत्रैवचोभयाभावप्रयोजप्रकत्वस्य विशेषणत्वात्।

    तथाच ज्ञानभेदेन विषयिताभेदाभावेऽपि तदधकरणत्वस्य भिन्नतया अव्याप्यवृत्त्ित्वज्ञानास्कन्दिकतपिसंयोगाभाववद्‌वृक्षविषयकनिश्चये विरोधिविषयितासत्त्वेऽपि तादृशोभयाभावप्रयोजकत्वविशिष्टविरोधिविषयिताधिकरणत्वस्याभावेनातिव्याप्तिविराहात्।

    अथैवमप्यसाधारण्येऽव्याप्तिः। असाधारण्यविषयकत्वव्यापकत्वस्य विरोधिविषयितायामभावादिति चेत्-


    न। साध्यव्यापकीभूताभावप्रतियोगिहेतुमत्ताज्ञानभिन्नत्व असाधारण्यविषयकत्वोभयभाववद्‌यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकत्वस्यविरोधिविषयितायां वक्तव्यत्वात्। तथाच तादृशहेतुमत्ताज्ञानमेवासाधारण्यविषयकमुभयाभाववत् भवति। तत्र च तादृशहेतुविषयितैव पक्षेसाध्याभावव्याप्यविषयितात्वेन तादृशविरोधिविषयितेति तत्सङ्‌ग्रहात्। अत्र चोभयाभावप्रयोजकाधिकरणतायं विषयित्वीयत्वानुपादाने ह्रदो जलवद्‌ह्रदकालीनवह्रिमानित्यत्र वह्रयभाववत्‌जलवत्यतिव्याप्तिः। वह्रयभाववज्जलत्वावच्छिन्नविषयकोक्तपक्षसाध्यवैशिष्टयावगाहिनिश्चयस्याहार्यत्वनियमेन तद्विषयकानाहार्यनिश्चयत्वास्य तादृशोभयाभावप्रयोजकप्रकृतपक्षसाध्यवैशिष्टयावगाहित्वाभावाधिकरणतानियतत्वात।

    नच धूमव्यभिचारिवह्रिर्धूमवान् वह्रेरित्यत्र मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः यथाश्रुतविशिष्टान्तराघटितत्वेन न वारयितुं शक्यते। मेयत्ववान् धूमाभाववान् मेयत्ववांश्च धूमव्यभिचारी वह्रिरिति ज्ञानयोर्ज्ञानविशिष्टज्ञानत्वेन पक्षं साध्यवैशिष्टयावगाहिज्ञानं प्रति प्रतिबन्धकतया तादृशपक्षे साध्यवैशिष्टयावगाहित्वाभावाधिकरणतयां उभयाभावप्रयोजिकायां मेयत्वविशिष्टव्यभिचारविषयिताप्रयोज्यायां शुद्वव्यभिाचारविषयित्वाप्रयोज्यत्वस्य सत्त्वात्। अतो विशिष्टान्तरघचित्वघटकस्वविषयितानिष्ठप्रयोदकतायां ज्ञानवैशिष्टयनिष्ठप्रयोदकतानिरूपकप्रयोज्यतावदधिकरणतानिष्ठप्रयोज्यतानिरूपितत्वासाधारण्यविषयित्वावृत्तित्वो भयाभावो निवेशनीयः। तथातोक्तस्थले मेयत्वविशिष्टव्यभिचारविषयितानिष्ठप्रयोजकतायामुभयाभावाभावान्नातिव्याप्तिः। एवं चोक्तस्थले वह्रयभाववज्जलवति नातिव्याप्तिः। पक्षे साध्यवैशिष्टयावगाहित्वाभावाधिकरणतानिष्ठप्रयोज्यताय ज्ञानवैशिष्टयनिष्ठप्रयोजकतानिरूपकतया वह्रयभाववज्जलत्वावच्छिन्नविषयितानिष्ठप्रयोजकताया उभयाभावाभावेन विशिष्टान्तराघटितत्वाभावादिति वाच्यम्।

    कपिसंयोगाभावावान् वृक्षःकपिसंयोगीत्यत्र कपिसंयोगाभाववद्‌वृक्षे अतिव्याप्तेः। तद्विषयकानाहार्यनिश्चयत्वव्याप्यत्वस्याहार्यमात्रवृत्तिपक्ष साध्यवैशिष्टयावगाहित्वस्य योऽभावस्तदधिकरणतायां सत्त्वात्। अधिकरणतायां विषयत्वीयत्वोपादाने च नातिव्याप्तिरिति दिक्‌।।
        
<2-38>
    तादृशोभयाभावप्रयोदकविरोधविषयितावत्वं यद्रूपावविशिष्टविषयित्वव्यापकं तद्रूपावच्छिन्नत्वं दोषत्वमित्यस्य सम्यक्त्वेपि यथासन्निवेशे न वैयर्थ्यमिति-गादाधरी।</2-38>

विरोधिविषयितापरिष्कारः
<2-39>
    विरोधिविषयतापदेन तादृशोभयाभावप्रतियोगितावच्छेदककोटौ यद्रूपावच्छिन्नांशे यद्रूपावच्छिन्नवैशिष्टयावगाहित्वं निविष्टं तद्रूपावच्छिन्नविषयतानिरूपिततद्रूपावच्छिन्नाभावतद्‌व्याप्यानयतरविषयताया विवक्षितत्वादिति गादाधरी।
</2-39>
    ननु विरोधिविषयतायाः एतादृशरूपत्वे पर्वतो वह्रयभाववानित्यादौ वह्रिमत्‌ पर्वतरूपबाधेऽव्याप्तिः। पर्वतत्वावच्छिन्नविषयतानिरूपितवह्रित्वावच्छिन्नविषयतायास्तादृशत्वाभावात्।

    नच यद्रूपावच्छिन्नांशे यद्रूपावच्छिन्नवेशिष्टयावगाहित्वं निविष्टं तद्रूपावच्छिन्नविषयतानिरूपिततद्रूपावच्छिन्नात्मकाभावप्रितोयोगितावच्छेदकावच्छिन्नतद्‌व्याप्यान्यतरवषयतायाः विवक्षणान्नोक्तव्याप्तिः। पर्वते व्ह्रिविषयताया अपि तादृशत्वादिति वाच्यम्।

    तथापि ह्रदो वह्रयभाववान् द्रव्यादित्यत्र सिद्विविषयेऽतिव्याप्तेः। तत्र वह्रयभावाभावस्य वह्रिरूपद्रव्यात्मकतया वह्रयभावत्वस्य द्रव्यत्वावच्छिनन्नात्मकतया वह्रयभावत्वस्य द्रव्यावावच्छिन्नात्मकाभावप्रतियोगितावच्छेदकतया तादृशोभयाभावप्रतियोगितावच्छेजककुक्षौ ह्रदत्वावच्छिन्नांशे द्रव्यात्वावच्छिन्नवैशिष्टयावगाहित्वस्य निविषटतया ह्रदत्वावच्छिन्नविषयतानिरूपितवह्रयभावत्वावच्छिन्नविषयताया निरूक्तविरोधिविषयतारूपत्वात्।

    नच यद्वर्मावच्छिन्ने यद्वर्मावच्छिन्नवैशिष्टयावगाहित्वं तद्वर्मावच्छिन्नविषयतानिरूपिततद्वर्मासमनियतानुयोदितानिरूपितप्रतियोगितावच्छेदकावच्छिन्तद्‌व्याप्यान्यतरविषयिता विवक्षणीया।

    तथाच वह्रयभावत्वं न द्रव्यत्वसमनियतानुयोगितानिरूपितप्रतियोगितावच्छेदकमिति नोक्तव्याप्तिरिति वाच्यम्।

    तथापि ह्रदो वह्रयभाववान् धूमजनकतेजसः इत्यादौ सिद्विविषये अतिव्याप्तिः। तत्रोभयाबावप्रतियोगितावच्छेदककोटौ ह्रदत्वावच्छिन्ने धूमजनकतेजस्त्वावच्छिन्नवैशिष्टयावगाहित्वं निविष्टम् धूमजनकतेजस्त्वसमनियतानुयोगितानिरूपितप्रतियोगिताबच्छेदकं वह्रयभावत्वं भवतीति ह्रदत्वावच्छिन्नविषयितानिरूपितवह्रयभावत्वावच्छिन्नप्रकारिताया विरोधिविषयितारूपत्वात्।

    नच तद्वर्मसमनियानुयोगितानिरूपितप्रतियोगितावच्छेदकत्वे सति तद्वर्मावच्छिन्नप्रकारताघटितधर्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकविषयितावच्छेदको यो धर्मस्तदवच्छिन्नविषयिता विवक्षणीया।

    तथाच वह्रयभावत्वं न धूमजनकेजस्त्वावच्छिन्नप्रकारताघटितधर्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकविषयितावच्छेदकमिति तादृशविषयितायां विरोयदिविषयितात्वाभावान्नोक्ताव्याप्तिरिति वाच्यम्।

    पर्वते संयोगेन वह्रेस्साधने कालिकसम्बन्धावच्छिन्नवह्रयभावस्य हेतुत्वे सिद्विवषयेऽतिव्याप्तेः। पर्वतत्वावच्छिन्ने वह्रयभावत्वावच्छिन्नवैशिष्टयावगाहित्वस्योभयाभावप्रतियोगितावच्छेदककोटौ प्रविष्टतया वह्रित्वस्य वह्रयभावत्वसमनियतानुयोगितानिरूपितप्रतियोगितावच्छेदकतया तादृशवप्रतिबन्धकतावच्छेदकविषयितावच्छेदकतया च पर्वतत्वावच्छिन्नविषयतानिरूपितवह्रित्वावच्छिन्नविषयताया विरोधिविषयतारूपत्वादिति चेत्-
    न। (तादृशोभयाभावीयप्रतियोगितानिरूपितावच्छेदकताश्रयविषयताविशिषट्वि,यता तादृशविषयताविशिष्टविषयताघटितधर्मावच्छिन्नजन्यतानिरूपितजनकतावच्छेजकविषयतान्यतरविषयतायास्तथाविधत्वात्। विषयतायां विषयतावैशिष्टयं च स्वाधिकरणत्वस्वाधिकरणत्वान्यतरसम्बन्धेन। तत्र प्रथमस्वाधिकरणत्वं स्वविशिष्टविशेष्यतावच्छेदकावच्छिन्नत्व स्वविशिष्टप्रकारतानिरूपतत्वोभयसम्बन्धेन। विशेष्यतायां स्ववैशिष्टयं च स्वनिरूपितत्व-स्ववृत्तिभेदप्रतियोगित्वाच्छेदकत्वोभयसम्बन्धेन। भेदप्रतियोगितावच्छेदकतावच्छेदकतसम्बन्धश्च स्वनिरूपितकिञ्चिद्वर्मव्यापकप्रतियोगिकत्वावच्छिन्नसंसर्गिकविषयितानिरूपितत्वरूपः। प्रकारतायां स्ववैशिष्टयं च स्वाश्रयत्वस्ववत्त्वान्यतरसम्बन्धेन। स्वाश्रयत्वं च स्वविशिष्टप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यत्वावच्छेद्यत्वस्वाबच्छेदकधर्मावच्छिन्नस्वावच्छेदकसम्बन्धावच्छिन्नप्रतियोदगिताकाभाववृत्तिस्वाश्रयसामान्यनिरूपितप्रतियोगितावच्छेदकसम्बन्धनिष्ठयत्किञ्चित्‌धर्मव्यापकप्रतियोगिकत्वावच्छिन्नविषयतानिरूपितत्वोभयसम्बन्धेन। प्रकारतायां स्ववैशिष्टयं च स्वावच्छेदकरूपावच्छिन्नत्व-स्वाच्छेदकसम्बन्धावच्छिन्नप्रतियोगतासम्बन्धावच्छिन्नत्वोभयसम्बन्धेन। स्ववत्त्वं च स्वावच्छेद्यविशेष्यतानिरूपितप्रतियोगितात्वावच्छिन्नसांसर्गिकविषयतावत्त्वसम्बन्धेन। तादृशविषयतावत्ता च स्वनिरूपितप्रकारतावच्छेदकधर्मावच्छिन्नत्व-स्वनिरूपितावच्छिन्नत्वनिष्ठावच्चेदकतानिरूपितावच्छेदकतावत्सम्बन्धनिष्ठकिञ्चिद्वर्माव्यापकप्रतियोगिकत्वावच्छिन्नसांसर्गिकविषयतानिरूपितत्वोभयसम्बन्धेन।

    द्वितीयस्वाधिकरणत्वं च स्वनिरूपितकिञ्चिद्वर्मव्यापकप्रतियोगिकत्वावच्छिन्नसांसर्गकविषयतानिरूपितविशेष्यतावच्छेदकावच्छिन्नत्व-स्वविशिष्टप्रकारतानिरूपित्त्वोभयसम्बन्धेन। स्ववैशिष्टयं च स्वावच्छेद्यविशेष्यतानिरूपितप्रतियोगितात्वावच्छिन्सासर्गिकविषयतावत्त्व-स्वाश्रयात्वान्यतरसम्बन्धेन। सांसर्गिकविषयतावत्त्वं च स्वनिरूपितप्रकारतावच्छेदकरूपावच्छिन्नत्वस्वनिररूपितावच्छिन्नत्वनिष्ठावच्छेदकतानिरूपितावच्छिदकतावत्त्वसम्बन्धावच्छिन्नत्वोभयसम्बन्धन। स्वाश्रयत्वं च स्वविशिष्टप्रकारतानिरूपताभावत्वावच्छिन्नविशेष्यत्वावच्छेद्यत्वस्वनिरूपतसंसर्गतावच्छेकेतरधर्मावच्छिन्नसंसर्गनिष्ठावच्छेदकताक स्वावच्छेदकरूपावच्छिन्नप्रतियोगिताकाभाववृत्तिस्वाश्रयसामान्यनिरूपितप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन। प्रकारतायं स्ववैशिष्टयं च स्वावच्छेदकरूपावच्छिन्नत्वस्वनिरूपितसंसर्गतावच्छेदकेतरधर्मानवच्छिन्नसंसर्गनिष्ठावच्छेदकताकप्रतियोगित्वसम्बन्धावच्छिन्नत्वोभयसम्बन्धेनेति। साध्यवदवृत्तिमत्पक्षस्य बाधत्वे तु स्वाधिकरमत्वत्रयान्यतमसम्बन्धेन विषयतावैशिष्टयं विवक्षणीयम्। तत्र तृतीयस्वाधिकरणत्वं स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नत्वस्वावच्छेदकतावच्छिन्नस्वावच्छेदकसम्बन्धावच्छिन्ननिरूपकताधिकरणतावद्‌वृत्तित्वाभावा वच्छिन्नप्रकारतानिरूपितत्वोभयसम्बन्धेन बोध्यम्।

    ननु विरोधिविषयताया एतादृशत्वे असाधारण्येऽतिव्याप्तिः। असाधारण्यविषयकनिश्चयोत्तरानुमितिनिष्ठोभयाभावाधिकरणतायां विरोधिविषयताप्रयुक्तत्वाभावात्। ्साधारण्यविषयतायां उक्तविरोधिविषयतात्वाभावादिति चेत्-

    न। लक्षणघटकनिश्चये पक्षधर्मिकहेतुमत्ताज्ञानाकालीनत्वघटितोबयाभावमिवेश्य पक्षधर्मिकसाध्यव्यापकीभूताबावप्रतियोगिहेतुमत्ताज्ञानभिन्नत्वासाधारण्यविषयकत्वोभयावस्य निवेशनीयता असाधारण्यविषयकनिश्चयस्य पक्षे तादृशहेत्वगाहिन एवोभयाभावत्तया तादृशनिश्चयमादायैवासाधारण्ये लक्षणसमन्वयस्य कर्तव्यतया तत्र च विषयताविशिष्टविषयताविरेहेऽपि विषयताविशिष्टविषयताघटितधर्मावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकविषयतारूपविरोधिविषयतायाः सत्त्वात् तत्प्रयुक्तत्वाच्च तादृशोभयावाधिकरणताया नाव्याप्तिरिति दिक्।।)
<2-39>
    विरोधिविषयतापदेन तादृशोभयाभावप्रतियोगितावच्चेदककोटौ यद्रूपावच्छिन्नांशे यद्रूपावच्छिन्नवैशिष्टयावगाहित्वं निविष्टं तद्रूपावच्छिन्नविषयतानिरूपिततद्रूपावच्छिन्नाभावद्‌व्याप्यान्यतरविषयताया विवक्षित्वादिति गादाधरी।
</2-39>

<2-40>
    साध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयताबहिर्भूतविषयताय वा विवक्षितत्वादिति-गादाधरी।
</2-40>
    पूर्वकल्पे विपरीतबाधादीनामसङ्‌गरहात्-कल्पान्तरानुसरणम्।

    नन्वत्र पर्वतो वह्रिमान् वह्रयबावादित्यत्र स्वरूपासिद्वावव्याप्तिः। तद्विषयतायाः साध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयताबहिर्भूतत्वाभावादिति चेत्-

    न। विषयतायां विषयताबहिर्भूतत्वमनिवेश्य विषयतानिष्ठप्रयोजकतायां पक्षे साध्यवैशिष्टयावगाहित्वाभावाधिकरणतानिष्ठाप्रयोज्यतानिरूपितसाध्यवत्पक्षविषयतानिष्ठप्रयोदकताभिन्नत्वस्य निवेशनेनोक्ताव्याप्तिविरहात्‌ इति दिक्‌।।
<2-40>

    साध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयताबहिर्भूतविषयताया वा विवक्षितत्वादिति गादाधरी।
</2-40>

<2-41>
    नच विशिष्टसाध्यवत्ताग्रहप्रतिबन्धकतावच्छेदिकायाः तादृशबाधादिविषयतान्तः पातिव्यभिचारादिविषयताया अपि बाधादिविषयताप्रयोज्यायां विशिष्टपक्षे विविष्टासाध्यवैशिष्टयावगाहित्वाभावाधिकरणतायां प्रयोजकतया तादृशबाधादेनसङ्‌ग्रह इति वाच्यमिति-गादाधरी।
</2-41>
    ननु ह्रदो वह्रिमानित्यादौ सर्वत्र दोषैकदेशविषयताया अपिविशिष्टदोषविषयताप्रयोद्यायामुभयाभाप्रयोजकाभावाधिकरणतायां प्रयोजकतया विशिष्टान्तरविषयित्वाप्रयोज्यस्वविषयताप्रयोज्यातदृशाधिकरणताकत्वाभावादसम्भव एव कुतो नभिहित इति चेत्-

    न। विशिष्टान्तरविषयतायां लक्षणाश्रयत्वविवक्षाभिप्रायेण अव्याप्त्यभिधानात्। लक्षणाश्रयत्वं च यद्रूपावच्छिन्नविषयताशालिनिश्चयोत्तरानुमितित्वव्यापको विषयताप्रयुक्तोभयाभावः तद्रपावच्छिन्नत्वम्।

    तथाच तादृशविशिष्टान्तरविषयित्वाप्रयोज्यत्वस्यैव विशिष्टान्तराघटितत्वघटकतया ह्रदादिविषतायाश्चातादृशत्वान्नासम्भवः। व्यभिचारघटितबाधस्थले व्यभिचारविषयिता च तादृश्येवेत्यव्याप्त्यभिधानसङ्गतिरिति दिक्‌।।
<2-41>
    नच विशिष्टसाध्यवत्ताग्रहप्रतिबन्धकतावच्छेदिकायाः तादृशबाधादिविषयतान्तःपातिव्यभिचारादिविषयताया अपिबाधादिविषयताप्रयोज्यायां विशिष्टपक्षे विशिष्टसाध्यवैशिष्टयावगाहित्वाभावाधिकरणतायां प्रयोजकतया तादृशबाधादेरसङ्‌ग्रह इति वाच्यमिति-गाधारी।
</2-41>

<2-42>
    यत्किञ्चित्‌विशिष्टान्तरविषयितात्वव्याषकरूपावच्छिन्नाप्रयोज्यत्वनिवेशेन तत्सङ्‌ग्रहसम्भावदिति-गादाधरी।
</2-42>

    अत्र यत्किञ्चित्त्वानुपादाने विशिष्टान्तरविषयितात्वव्यापकं रूपमेयत्वविशयितात्वादिकमेव तदवच्छिन्नाप्रयोजयत्वाप्रसिद्विः। तथाच स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेजकत्वसमानाधिकरणरूपनिष्ठावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपकविषयत्वनिष्ठावच्छेदकतानिरूपकवृत्तित्वनिष्ठावच्छेदकतानीरूपकभेदनिष्ठावच्छेदकतानिरूपकप्रतियोगित्वनिष्ठावच्छेदकतानिरूपकावच्छेदकतात्वावच्छिन्नाभावः। प्रथमं व्यापकत्वं विशेषाभावः स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकव्यभिचारत्वावच्छिन्नविषयतानिष्ठ
भेदप्रतियोगितावच्छेदकत्वं नास्तीति प्रतीतिसिद्वो ग्राह्यः। प्रयोद्यत्वाभावस्तु सामान्याभावः, स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वसमानाधिकरणावच्छिन्नत्वसम्बन्धवच्छिन्नावच्छेदकतानिरूपकविषयत्वनिष्ठावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकतानिरूपकवृत्तित्वनिष्ठावच्छेदकतानिरूपकप्रतियोगित्वनिष्ठावच्छेदकतानिरूपकावच्छेदकतात्वावच्छिन्नप्रतियोगिताकाभाववद्रूपावच्छिन्नप्रयोजकतानिरूपितप्रयोज्यत्वं नास्तीति प्रतीतिसिद्वः स्वनिष्ठावच्छेदकतानिरूपकविषयत्वनिष्ठप्रतियोगितासम्बन्धावच्छिन्नावच्छेदकतानिरूपकशून्यत्वनिष्ठावच्छेदकतानिरूपकवइषयतानिष्ठावच्छेदकतानिरूपकावच्चेदकत्वनिष्ठावच्छेदकतानिरूपकसामानाधिकरण्यनिष्ठावच्छेदकतानिरूपकरूपनिष्ठावच्छिन्नात्वसम्बन्धावच्छिन्नावच्छेदकत्वनिष्ठावच्छेदकतानिरूपकविषयितनिष्ठावच्छेदकत्वनिष्ठावच्चेदकतानिरूपकवॉत्तित्वनिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपकभेदनिष्ठावच्छेदकत्वनिष्ठावच्छेजकतानिरूपकप्रतियोगितानिष्ठावच्छेदकत्वनिष्ठावच्छेदकतानिरूपकावच्छेदकतात्वावच्छिन्नप्रतियोगितानिष्ठावच्चेदकतानिरूपकाभावनिष्ठावच्छेदकतानिरूपकप्रयोजकतानिष्ठावच्छेजकतानिूपकनिरूपितत्वनिष्ठावच्छेदकतानिरूपकप्रयोज्यतात्वावच्छिन्नप्रतियोगिताकाभावो ग्रह्यः। अत्र सामन्याभावानिवेशे मेयत्वविशिष्टव्यभिचारादावतिव्याप्तिवारणमेव न सम्भवति। मेयत्वाविशिष्टव्यभिचारत्वावच्छिन्नविषयित्वाप्रयोज्यायां तादृशोभयाभावप्रयोजकहेतुधर्मिकव्याप्त्यवगाहित्वाबावाधिकरणतयां तादृशव्यभिचारत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकबाधत्वाच्छिन्नविषयतात्वव्यपकरूपावच्छिन्नाप्रयोज्यत्वस्य सत्त्वात्। तथाच स्वावच्चिन्नाविषयकप्रतीतिविषयतावच्छेदकयत्किञ्चित्‌ रूपावच्छिन्नविषयतानिष्ठभेजप्रतियोदितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्यनुयोगितानवच्छेदकरूपवृत्तिप्रयोज्यताशून्यत्वं निवेष्टम्।
        
<2-42>
    यत्किञ्चित्‌विशिष्टान्तरविषयितात्वव्याषकरूपावच्छिन्नाप्रयोज्यत्वनिवेशेन तत्सङ्‌ग्रहलम्भवादिति गादाधरी।
</2-42>

(अधिकरणतापर्यन्तनिवेशप्रयोजनम्)
<2-43>
    व्यभिचारादिघटितबाधादिविषयताप्रयोज्याया दीधितिकारोक्तभयाभावाधिकरणताया व्याप्त्याद्यवगाहिताविरहप्रयोज्यत्वेन यत्किञ्चित्‌-विशिष्टान्तरविषयतात्वव्यपकरूपावच्चिन्नतादृशबाधादिविषयतान्तःपातिव्यभिचारादिविषयताप्रयोज्यत्वनियमात्। तत्र तत्सङ्‌ग्रहाय तादृशोभयाभावप्रयोजकाभावाधिकरणतापर्यन्तनिवेश इति-गादाधरी।
</2-43>
    नन्वत्रोभयावप्रयोजकाभावाधिकरमतापर्यन्तानिवेशे व्यभिचारघटितबाधेऽव्याप्तिरभिहिता सा च न सङ्गच्छेते। तदनुपादानेऽपि यत्र धूमव्यभिचरिवह्रिमान् धूमाभाववानितिदोषज्ञानं धूमव्याप्तिविशिष्टवह्रिज्ञानं जायतामितीच्छा च तदनन्तरं जातानुमितौ हेतौ व्याप्त्यवगाहित्वाभावो हि सामग्रयभावप्रयुक्तः।

    न तु पूर्वज्ञाननिष्ठव्यभिचारविषयताप्रयुक्तः। प्रतिबन्धकज्ञाननिष्ठरोधिविषयताया एव प्रयोदकत्वस्वीकारात्। इच्छाविरहविशिष्टविरोधज्ञानस्यैव प्रतिबन्धकतया तादृशदोषज्ञानस्य व्याप्त्यवगाहित्वावच्छिन्नं प्रत्यप्रतिबन्धकत्वात्। तथाच तादृशानुमितिनिष्ठीभयाभावाधिकरणता न व्यभिचारविषयताप्रयुक्तहेतुधर्मिकव्याप्त्यवगाहित्वाभावप्रयुक्तेति तन्निष्ठातादृशबाधविषयिताप्रयोज्यत्वमादाय लक्षमगमनसम्भवात्।

    नच प्रतिबध्यतावच्छेदकशीरीरे अनाहार्यत्विनिवेशेनेच्छाकालीनविरोधिज्ञानस्यापि प्रतिबन्धकतया तदीयव्यभिचारविषयिताय व्याप्त्यवगाहित्वाभावप्रयोजकतया तदुत्तरानुमितिनिष्ठोभयाभावाधिकरणतायां व्यभिचारविषयिताप्रयोज्यत्वमस्तीति तत्राव्याप्तिरेवेति वाच्यम्।


    सत्प्रकिपक्षग्रन्थे इच्छाव्यक्तीनामुत्तेजकत्वे अनन्तव्यक्तीनां तत्‌तद्‌व्यक्तित्वेनोत्तेजकत्वेऽपि तदभावानामेकत्र द्वयमिति रीत्या विशेषणवे अगौरवात्। अनाहार्यत्वस्य प्रतिबध्यतावच्छेदककुक्षौ निवेशे आहार्यज्ञानं प्रति इच्छायाः पृथक्‌कारणत्वे गौरवाच्च। इच्छाया उत्तेजकतामतस्यैव भट्टाचार्येरादृतत्वात्। इच्छाकालीनतादृशज्ञानस्याप्रतिबन्धकतया तन्निष्ठाव्यभिचारविषयताया अप्रयोजकत्वादिति मैवम्।

    तथापि ह्रदेऽवच्छेदकावच्छेदेन वह्रेः साध्यतायामवच्छेदकावच्छेदेन बाधेऽव्याप्त्यापत्तिः। अवच्छेदकावच्छेदेन बाधविषयिताप्रयोज्यायां तादृशोभयाभावाधिकरणतायांतादृसबाधविषयकप्रतीतिविषयतसामानाधिकरण्येन बाधविषयताया अपि प्रयोजकत्वात्। उक्तविवक्षायान्तु नाव्याप्तिः। तादृशोभयावप्रयोजकीभूतायां पक्षे सामानाधिकरण्येन बाधविषयिताप्रयोज्यायाः सामानाधिकरण्येन बाधविषयताप्रयोज्यत्वाभावदिति तादृशोभयाङावप्रयोजकसामानाधिकरण्येन वह्रयवगाहित्वाभावमादाय लक्षणसमन्वयसम्भावदिति स्वविषयताप्रयोज्यत्वानुपादाने यत्र किमपि प्रतिबन्धकज्ञानं नासीत्‌ स्वसामग्रयभावादेव समूहालम्बनानुमित्यादिकं न जातं घटाद्यनुमितिरेव जाता तन्निष्ठोभयाभावप्रयोजकाभावधिकरणता न किञ्चित्‌ विशिष्टान्तरविषयताप्रयोज्येति तत्र मेयत्वविशिष्टव्यभिचारेऽपि विशिष्टान्तरविषयित्वाप्रयोज्योभयाभावप्रयोजकाभावाधिकरणताकत्वस्य सत्वात्तत्रातिव्याप्तिः।

    नच तद्वारणाय विषयताप्रयोज्यत्वमेवोपादीयताम् इति वाच्यम्।

    यत्र धूमव्याप्यवह्रिमानिति परामर्शः पर्वतो ध्‌माभाववानिति बाधभ्रमः तदनन्तरज्ञाने उभयाभावप्रयोदिकायां पक्षे साध्यवैशिष्टयावगाहिच्वाभावाधिकरतायां बाधभ्रमीयविषयताप्रयोज्यत्वस्य विशिष्टानतरविषयत्वाप्रयोभ्यत्वस्य च सत्त्वात्तदधिकरणमादाय मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः, अतः विषयताप्रयोज्यत्वाभिधानम्। तावन्मात्रे कृते तत्रैवाति व्याप्तिरतो विशेष्यदळम्। अत्रोभयाभावप्रयोजकाधिकरणतायाम् अभावीयत्वानुपादाने धूमव्यभिचारिवह्रिधूमवान् वह्रेरित्यत्र मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः। स्मृत्यनुभवसाधारणविरोधिविषयकनिश्चयत्वेनैवप्रतिबन्धकतया मेयत्ववान् धूमाभाववानिति निश्चयविशिष्टस्य मेयत्ववान् धूमव्यभिचारी वह्रिरिति स्मरणात्मकनिश्चयस्य तादृशवह्रौ धूमवत्ताज्ञानप्रतिबन्धकतया तादृशस्गरणोत्तरज्ञानवृत्तिपक्षे साध्यवैशिष्टयावगाहित्वघटितोभयाभावं प्रति तादृशस्मरणात्मकप्रतिबनअधकज्ञआनवृत्तिमेयत्वविशिष्टव्यभिचारविषयतायाः प्रयोजकतया तदधिकरणत्वस्यापि प्रयोजकत्वात् कार्यतावच्छेदकविषयतां प्रति कारणतावच्छेदकविषयतायाः प्रयोजकत्वात्। स्मृतिनिष्ठमेयत्वविशिष्टव्यभिचारविषयत्वाधिकरणत्वस्य अनुभवीयतादृशविषयताप्रयोज्यत्वात्। विशिष्टान्तरविषयत्वाप्रयोज्यत्वाच्च विशेष्यदळस्य सत्त्वात्। अभावीयत्वोपादाने च न सा अभावाधिकरणतेति नातिव्याप्तिः। अधिकरणतात्वेनाधिकरणतामनुपादाय विशिष्टान्तरविषयत्वाप्रयोज्यस्वविषयताप्रयोज्यतादृशोबयाभावप्रयोज्यातादृशोभयाभावप्रयोजकाभावनिरूपकत्वं विशिष्टान्तरघटित्वमित्युक्तौ भावभेजोऽवृत्तिरित्यत्र पक्षेसाध्यप्रकारत्वाभावेऽतिव्याप्तिः। तत्रहि भावभेदवान् बाधः भावभेदो ह्यभावत्वम्। तथाच अभावत्ववानिति ज्ञानीयाभावत्वावच्छिन्नविषयतेवपक्षे साध्यप्रकारत्वाभाव इति स्मरणात्मकज्ञानीयतादृशाभावत्वावच्छिन्नविषयतापि बाधतुल्ययोगक्षेमतया प्रतिबन्धकत्वात्। स्मृतीयतादृशविषयताप्रयोजिका तद्विषयकानुभवादिविषयतेति विशिष्टानतरविषयत्वाप्रयोज्यस्वविषयताप्रयोज्यतादृशोभयाबावाप्रयोजकस्मृतीयविषयतात्मकतादृशाभावनिरूपकत्वस्य तादृशप्रकारत्वाभावे सत्त्वात्। तद्विषयकनिश्चयोत्तरानुमितिसामान्ये तादृशोभयाभावस्य च सत्त्वात्।
    नच भावभेदोऽवृत्तिरिति ज्ञानस्य नियताहार्यतया निर्वह्रिर्वह्रिमानिति ज्ञानतुल्यं नियमेनाभावत्वप्रकारकत्वात्। तदीयसाध्यवत्पक्षविषयताव्यापकप्रतिबध्यतावच्छेदकविषयत्वाप्रसिद्विः। तथाचैतल्लक्षणे तादृशस्थले दोषो ग्रन्थकारेण स्वयं वक्तव्य इति वाच्यम्।

    तथापि भावभेदे वृत्तिभेदसाधने तत्रातिव्याप्तिः। तस्य नियताहार्यत्वाभावात्। एवमभफावप्रतियोदितासम्बन्धावच्छिन्नप्रतियोगिताकप्रकारत्वाभाववानित्यत्र पक्षे साध्यप्रकारत्वाभावेऽतिव्याप्तिश्चेति अधिकरणतात्वेन तन्निवेशः।

    नन्वत्रकासाधारण्येऽव्याप्तिः। विशेष्यदळघटकनिश्चये पक्षधर्मिकहेतुमत्ताज्ञानाकालीनत्वघटितोभयाभावं निवेश्य विशेष्यदळोपपादनेऽपि विशिष्टान्तराघटितत्वस्याभावात्। असाधरण्यविषयताप्रयोज्यायाः तादृशोभयाभावप्रयोजिकायाः पक्षे साध्यवैशिष्टयावगाहित्वाभावाधिकरणतायः विशिष्टान्तरहेतुमत्पक्षविषयताप्रयोज्यत्वात्।

    अथ सर्व गगनवगित्यत्र गगनाभाववद्‌घटादौ बाधेऽव्याप्तिः सर्वं गगनवदिति ज्ञानं प्रति गगनाबाववद्‌घटपटादिविषयकनिश्चयानां गगनाभावत्वाच्छिन्नप्रकारतानिरूपितावच्चिन्नविशेष्यताशालिनिश्चयत्वेनानुगतरूपेणैव प्रतिबन्धकतया गगनाभाववद्‌घटत्वावच्छिन्नविषयताप्रयोज्यायां तादृशोभयाभावप्रयोदिकायां पक्षे साध्यवैशिष्टयाभावाधिकरणतायां गगनाभाववत्‌पटादिरूपविशिष्टान्तरविषयतात्वव्यापकगगनाभावत्वावच्छिन्नप्रकारतानिरूपितावच्छिन्नविशेष्टान्तरे स्वावच्छिन्नविषयत्वाव्यापकविषयताशून्यज्ञानीयविषयितानिरूपकत्वस्य तद्विषयतायां वा तादृशज्ञानीयत्वस्यावश्यं वक्तव्यतया हेतुमत्पक्षस्य विशिष्टान्तरत्वाभावात्तत्तद्विषयकताप्रयोज्यत्वमादायसाधारण्येऽव्याप्तिः।

    नचैवं ह्रदो वह्रिमानित्मादौ बाधाद्यसङ्‌ग्रहः। तत्र बाधैकदेशवह्रयभावादेरेव तादृशविशिष्टान्तरतया तद्विषयतात्वव्यापकरूपावच्छिन्न प्रयोजकतायाश्च प्रसिद्वेरिति वाच्यम्।

    अभावो न वह्रिमानिति ज्ञानं प्रति वह्रयभाव इति ज्ञानस्य प्रतिबन्धकतया वह्रयभावविषयतात्वव्यापकरूपावच्छिन्नप्रयोजकतानिरूपितप्रयोज्यताया अभावे वन्हीयत्वावगाहित्वाभावधिकरणतायां प्रसिद्वत्वात्।

    नचैवमपि पर्वतो वह्रयभाववानित्यत्र वह्रिमात्पर्वतरूपबाधे अव्याप्तिः। तदेकदेशवह्रयादिविषयतात्वव्यापकरूपावच्छिन्नप्रयोजकत्वा प्रसिद्वेरिति वाच्यम्।

    तत्रापि वह्रिरवृत्तिरिति ज्ञानं प्रति तादृशबाधकदेशवह्रिमद्विषयकनिश्चयस्य प्रतिबन्धकतया प्रसिद्विसम्भवादिति वाच्यम्।

    मैवम्। घटोऽवृत्तिरित्यत्र घटवति बाधे तादृशविशिष्टान्तरापरसिद्वया अव्याप्तेः

    नच तत्रापि घटत्वावच्छिन्नविषयताशालिज्ञानस्य घटवान् पट इति ज्ञानं प्रति घट इति स्मृतिं प्रत्यपि कारणतया कार्यतावच्छेतावच्छेदकविषयतायामेव घटत्वावच्छिन्नविषयताप्रयोज्यत्वं प्रसिद्वमिति वाच्यम्।

    घटवान् पट इति ज्ञानं प्रति घट इति ज्ञानस्य घटत्वप्रकारताशालिज्ञानत्वेनैव करणतया घट इति स्मृतिं प्रत्यपि तत्तद्विषयताशालि ज्ञानत्वेनैव कारणतया घटत्वप्रकरातात्वस्य तत्तद्‌घटविषयतात्वस्य च घटत्वावच्छिन्नविषयतात्वव्यापकत्वाभावेन तादृशविषयतात्वव्यापक -रूपावच्छिन्नप्रयोजकतानिरूपितप्रयोज्यत्वस्याप्रसिद्वेरिति चेत्-

    न। विशिष्टान्तरविषयत्वाप्रयोज्येत्यनेन स्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयस्वावच्छिन्नाविषकप्रतीतिविषयतावच्छेदकधर्माभाववत्त्वस्य विवक्षितत्वात्। अभावप्रतियोदितावच्छेदकसम्बन्धश्च स्वावच्छिन्नवषयकत्वाव्यापकविषयताशून्यज्ञानीयस्वावच्छिन्नविषयतात्वव्यापकरूपावच्छिन्न-प्रयोजकतानिरूपितप्रयोज्यत्वसम्भवः।

    एवं च घटोऽवृत्तिरित्यत्र घटवदात्मक बाधविषयत्वाव्यापकविषयताशून्यज्ञानीयतदविषयतकप्रतीतिविषयतावच्छेदकघटत्वस्यायं व्यधिकरणसम्बन्ध इति तेन सम्बन्धेन तदभाववतो बाधविषयताप्रयोज्यपक्षेसाध्यवैशिष्टयावगाहित्वाभावधिकरणता भवतीति नाव्याप्तिः। मेयत्वविशिष्टव्यभिचारदौ च नातिव्याप्तिः। उक्तसम्बन्धेन शुद्वव्यभिचारत्वस्य हेतौ व्याप्तिवैशिष्टयावगाहित्वाभावाधिकरणतयां तादृशव्यभिचारविषयताप्रयोज्यायां सत्त्वात्।