न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः ।
उत्पन्ना जातु विद्यन्ते भावाः क्व चन के चन ॥ १,०१
चत्वारः प्रत्यया हेतुरारम्बणमनन्तरम् ।
तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥ १,०२
न हि स्वभावो भावानां प्रत्ययादिषु विद्यते ।
अविद्यमाने स्वभावे परभावो न विद्यते ॥ १,०३
क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया ।
प्रत्यया नाक्रियावन्तः क्रियावन्तश्च सन्त्युत ॥ १,०४
उत्पद्यते प्रतीत्येमानितीमे प्रत्ययाः किल ।
यावन्नोत्पद्यत इमे तावन्नाप्रत्ययाः कथम् ॥ १,०५
नैवासतो नैव सतः प्रत्ययोऽर्थस्य युज्यते ।
असतः प्रत्ययः कस्य सतश्च प्रत्ययेन किम् ॥ १,०६
न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा ।
कथं निर्वर्तको हेतुरेवं सति हि युज्यते ॥ १,०७
अनारम्बण एवायं सन् धर्म उपदिश्यते ।
अथानारम्बणे धर्मे कुत आरम्बणं पुनः ॥ १,०८
अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते ।
नानन्तरमतो युक्तं निरुद्धे प्रत्ययश्च कः ॥ १,०९
भावानां निःस्वभावानां न सत्ता विद्यते यतः ।
सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते ॥ १,१०
न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत्फलम् ।
प्रत्ययेभ्यः कथं तच्च भवेन्न प्रत्ययेषु यत् ॥ १,११
अथासदपि तत्तेभ्यः प्रत्ययेभ्यः प्रवर्तते ।
अप्रत्ययेभ्योऽपि कस्मान्नाभिप्रवर्तते फलम् ॥ १,१२
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः ।
फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम् ॥ १,१३
तस्मान्न प्रत्ययमयं नाप्रत्ययमयं फलम् ।
संविद्यते फलाभावात्प्रत्ययाप्रत्ययाः कुतः ॥ १,१४
***********************************************************
गतं न गम्यते तावदगतं नैव गम्यते ।
गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥ २,०१
चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः ।
न गते नागते चेष्टा गम्यमाने गतिस्ततः ॥ २,०२
गम्यमानस्य गमनं कथं नामोपपत्स्यते ।
गम्यमानं विगमनं यदा नैवोपपद्यते ॥ २,०३
गम्यमानस्य गमनं यस्य तस्य प्रसज्यते ।
ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते ॥ २,०४
गम्यमानस्य गमने प्रसक्तं गमनद्वयम् ।
येन तद्गम्यमानं च यच्चात्र गमनं पुनः ॥ २,०५
द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये ।
गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते ॥ २,०६
गन्तारं चेत्तिरस्कृत्य गमनं नोपपद्यते ।
गमनेऽसति गन्ताथ कुत एव भविष्यति ॥ २,०७
गन्ता न गच्छति तावदगन्ता नैव गच्छति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयोऽथ गच्छति ॥ २,०८
गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते ॥ २,०९
पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते ।
गमनेन विना गन्ता गन्तुर्गमनमिच्छतः ॥ २,१०
गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति ।
गन्तेति चाज्यते येन गन्ता सन् यच्च गच्छति ॥ २,११
गते नारभ्यते गन्तुं गन्तुं नारभ्यतेऽगते ।
नारभ्यते गम्यमाने गन्तुमारभ्यते कुह ॥ २,१२
न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम् ।
यत्रारभ्येत गमनमगते गमनं कुतः ॥ २,१३
गतं किं गम्यमानं किमगतं किं विकल्प्यते ।
अदृश्यमान आरम्भे गमनस्यैव सर्वथा ॥ २,१४
गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयोऽथ तिष्ठति ॥ २,१५
गन्ता तावत्तिष्ठतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते ॥ २,१६
न तिष्ठति गम्यमानान्न गतान्नागतादपि ।
गमनं संप्रवृत्तिश्च निवृत्तिश्च गतेः समा ॥ २,१७
यदेव गमनं गन्ता स एवेति न युज्यते ।
अन्य एव पुनर्गन्ता गतेरिति न युज्यते ॥ २,१८
यदेव गमनं गन्ता स एव हि भवेद्यदि ।
एकीभावः प्रसज्येत कर्तुः कर्मण एव च ॥ २,१९
अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते ।
गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते ॥ २,२०
एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः ।
न विद्यते तयोः सिद्धिः कथं नु खलु विद्यते ॥ २,२१
गत्या ययाज्यते गन्ता गतिं तां स न गच्छति ।
यस्मान्न गतिपूर्वोऽस्ति कश्चिद्किंचिद्धि गच्छति ॥ २,२२
गत्या ययाज्यते गन्ता ततोऽन्यां स न गच्छति ।
गती द्वे नोपपद्येते यस्मादेके तु गन्तरि ॥ २,२३
सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति ।
नासद्भूतोऽपि गमनं त्रिप्रकारं स गच्छति ॥ २,२४
गमनं सदसद्भूतः त्रिप्रकारं न गच्छति ।
तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते ॥ २,२५
***********************************************************
दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः ॥ ३,०१
स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति ।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान् ॥ ३,०२
न पर्याप्तोऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये ।
सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः ॥ ३,०३
नापश्यमानं भवति यदा किं चन दर्शनम् ।
दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते ॥ ३,०४
पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् ।
व्याख्यातो दर्शनेनैव द्रष्टा चाप्यवगम्यताम् ॥ ३,०५
द्रष्टा नास्त्यतिरस्कृत्य तिरस्कृत्य च दर्शनम् ।
द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुतः ॥ ३,०६
द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयम् ।
नास्तीत्युपादानादीनि भविष्यन्ति पुनः कथम् ॥ ३,०७
व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च ॥ ३,०८
***********************************************************
रूपकारणनिर्मुक्तं न रूपमुपलभ्यते ।
रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम् ॥ ४,०१
रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते ।
आहेतुकं न चास्त्यर्थः कश्चिदाहेतुकः क्व चित् ॥ ४,०२
रूपेण तु विनिर्मुक्तं यदि स्याद्रूपकारणम् ।
अकार्यकं कारणं स्याद्नास्त्यकार्यं च कारणम् ॥ ४,०३
रूपे सत्येव रूपस्य कारणं नोपपद्यते ।
रूपेऽसत्येव रूपस्य कारणं नोपपद्यते ॥ ४,०४
निष्कारणं पुना रूपं नैव नैवोपपद्यते ।
तस्माद्रूपगतान् कांश्चिन्न विकल्पान् विकल्पयेत् ॥ ४,०५
न कारणस्य सदृशं कार्यमित्युपपद्यते ।
न कारणस्यासदृशं कार्यमित्युपपद्यते ॥ ४,०६
वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः ।
सर्वेषामेव भावानां रूपेणैव समः क्रमः ॥ ४,०७
विग्रहे यः परीहारं कृते शून्यतया वदेत् ।
सर्वं तस्यापरिहृतं समं साध्येन जायते ॥ ४,०८
व्याख्याने य उपालम्भं कृते शून्यतया वदेत् ।
सर्वं तस्यानुपालब्धं समं साध्येन जायते ॥ ४,०९
***********************************************************
नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात् ।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥ ५,०१
अलक्षणो न कश्चिच्च भावः संविद्यते क्व चित् ।
असत्यलक्षणे भावे क्रमतां कुह लक्षणम् ॥ ५,०२
नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे ।
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते ॥ ५,०३
लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते ।
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः ॥ ५,०४
तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते ।
लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते ॥ ५,०५
अविद्यमाने भावे च कस्याभावो भविष्यति ।
भावाभावविधर्मा च भावाभावाववैति कः ॥ ५,०६
तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् ।
आकाशमाकाशसमा धातवः पञ्च येऽपरे ॥ ५,०७
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः ।
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् ॥ ५,०८
***********************************************************
रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृतः ।
तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति ॥ ६,०१
रक्तेऽसति पुना रागः कुत एव भविष्यति ।
सति वासति वा रागे रक्तेऽप्येष समः क्रमः ॥ ६,०२
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः ।
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥ ६,०३
नैकत्वे सहभावोऽस्ति न तेनैव हि तत्सह ।
पृथक्त्वे सहभावोऽथ कुत एव भविष्यति ॥ ६,०४
एकत्वे सहभावश्चेत्स्यात्सहायं विनापि सः ।
पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि सः ॥ ६,०५
पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः ।
सिद्धः पृथक्पृथग्भावः सहभावो यतस्तयोः ॥ ६,०६
सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः ।
सहभावं किमर्थं तु परिकल्पयसे तयोः ॥ ६,०७
पृथग्न सिध्यतीत्येवं सहभावं विकाङ्क्षसि ।
सहभावप्रसिद्ध्यर्थं पृथक्त्वं भूय इच्छसि ॥ ६,०८
पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति ।
कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि ॥ ६,०९
एवं रक्तेन रागस्य सिद्धिर्न सह नासह ।
रागवत्सर्वधर्माणां सिद्धिर्न सह नासह ॥ ६,१०
***********************************************************
यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी ।
अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम् ॥ ७,०१
उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि ।
संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा ॥ ७,०२
उत्पादस्थितिभङ्गानामन्यत्संस्कृतलक्षणम् ।
अस्ति चेदनवस्थैवं नास्ति चेत्ते न संस्कृताः ॥ ७,०३
उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् ।
उत्पादोत्पादमुत्पादो मौलो जनयते पुनः ॥ ७,०४
उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि ।
मौलेनाजनितस्तं ते स कथं जनयिष्यति ॥ ७,०५
स ते मौलेन जनितो मौलं जनयते यदि ।
मौलः स तेनाजनितस्तमुत्पादयते कथम् ॥ ७,०६
अयमुत्पाद्यमानस्ते काममुत्पादयेदिमम् ।
यदीममुत्पादयितुमजातः शक्नुयादयम् ॥ ७,०७
प्रदीपः स्वपरात्मानौ संप्रकाशयते यथा ।
उत्पादः स्वपरात्मानावुभावुत्पादयेत्तथा ॥ ७,०८
प्रदीपे नान्धकारोऽस्ति यत्र चासौ प्रतिष्ठितः ।
किं प्रकाशयते दीपः प्रकाशो हि तमोवधः ॥ ७,०९
कथमुत्पद्यमानेन प्रदीपेन तमो हतम् ।
नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा ॥ ७,१०
अप्राप्यैव प्रदीपेन यदि वा निहतं तमः ।
इहस्थः सर्वलोकस्थं स तमो निहनिष्यति ॥ ७,११
प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि ।
तमोऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम् ॥ ७,१२
अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम् ।
अथोत्पन्नो जनयते जाते किं जन्यते पुनः ॥ ७,१३
नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथं चन ।
उत्पद्यते तदाख्यातं गम्यमानगतागतैः ॥ ७,१४
उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा ।
कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते ॥ ७,१५
प्रतीत्य यद्यद्भवति तत्तच्छान्तं स्वभावतः ।
तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च ॥ ७,१६
यदि कश्चिदनुत्पन्नो भावः संविद्यते क्व चित् ।
उत्पद्येत स किं तस्मिन् भाव उत्पद्यतेऽसति ॥ ७,१७
उत्पद्यमानमुत्पादो यदि चोत्पादयत्ययम् ।
उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः ॥ ७,१८
अन्य उत्पादयत्येनं यद्युत्पादोऽनवस्थितिः ।
अथानुत्पाद उत्पन्नः सर्वमुत्पद्यतां तथा ॥ ७,१९
सतश्च तावदुत्पत्तिरसतश्च न युज्यते ।
न सतश्चासतश्चेति पूर्वमेवोपपादितम् ॥ ७,२०
निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ ७,२१
नास्थितस्तिष्ठते भावः स्थितो भावो न तिष्ठति ।
न तिष्ठते तिष्ठमानः कोऽनुत्पन्नश्च तिष्ठति ॥ ७,२२
स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ ७,२३
जरामरणधर्मेषु सर्वभावेषु सर्वदा ।
तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥ ७,२४
स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते ।
उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥ ७,२५
निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते ।
तथा निरुध्यमानं च किमजातं निरुध्यते ॥ ७,२६
स्थितस्य तावद्भावस्य निरोधो नोपपद्यते ।
नास्थितस्यापि भावस्य निरोध उपपद्यते ॥ ७,२७
तयैवावस्थयावस्था न हि सैव निरुध्यते ।
अन्ययावस्थयावस्था न चान्यैव निरुध्यते ॥ ७,२८
यदैव सर्वधर्माणामुत्पादो नोपपद्यते ।
तदैवं सर्वधर्माणां निरोधो नोपपद्यते ॥ ७,२९
सतश्च तावद्भावस्य निरोधो नोपपद्यते ।
एकत्वे न हि भावश्च नाभावश्चोपपद्यते ॥ ७,३०
असतोऽपि न भावस्य निरोध उपपद्यते ।
न द्वितीयस्य शिरसश्छेदनं विद्यते यथा ॥ ७,३१
न स्वात्मना निरोधोऽस्ति निरोधो न परात्मना ।
उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥ ७,३२
उत्पादस्थितिभङ्गानामसिद्धेर्नास्ति संस्कृतम् ।
संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् ॥ ७,३३
यथा माया यथा स्वप्नो गन्धर्वनगरं यथा ।
तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम् ॥ ७,३४
***********************************************************
सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् ।
कारको नाप्यसद्भूतः कर्मासद्भूतमीहते ॥ ८,०१
सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः ॥ ८,०२
करोति यद्यसद्भूतोऽसद्भूतं कर्म कारकः ।
अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत् ॥ ८,०३
हेतावसति कार्यं च कारणं च न विद्यते ।
तदभावे क्रिया कर्ता कारणं च न विद्यते ॥ ८,०४
धर्माधर्मौ न विद्येते क्रियादीनामसंभवे ।
धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते ॥ ८,०५
फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते ।
मार्गः सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते ॥ ८,०६
कारकः सदसद्भूतः सदसत्कुरुते न तत् ।
परस्परविरुद्धं हि सच्चासच्चैकतः कुतः ॥ ८,०७
सता च क्रियते नासन्नासता क्रियते च सत् ।
कर्त्रा सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि ॥ ८,०८
नासद्भूतं न सद्भूतः सदसद्भूतमेव वा ।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥ ८,०९
नासद्भूतोऽपि सद्भूतं सदसद्भूतमेव वा ।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥ ८,१०
करोति सदसद्भूतो न सन्नासच्च कारकः ।
कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः ॥ ८,११
प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् ।
कर्म प्रवर्तते नान्यत्पश्यामः सिद्धिकारणम् ॥ ८,१२
एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः ।
कर्तुश्च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत् ॥ ८,१३
***********************************************************
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति यस्य प्रागेभ्यः सोऽस्तीत्येके वदन्त्युत ॥ ९,०१
कथं ह्यविद्यमानस्य दर्शनादि भविष्यति ।
भावस्य तस्मात्प्रागेभ्यः सोऽस्ति भावो व्यवस्थितः ॥ ९,०२
दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च ।
यः प्राग्व्यवस्थितो भावः केन प्रज्ञप्यतेऽथ सः ॥ ९,०३
विनापि दर्शनादीनि यदि चासौ व्यवस्थितः ।
अमून्यपि भविष्यन्ति विना तेन न संशयः ॥ ९,०४
अज्यते केनचित्कश्चित्किंचित्केन चिदज्यते ।
कुतः किंचिद्विना कश्चित्किंचित्किंचिद्विना कुतः ॥ ९,०५
सर्वेभ्यो दर्शनादिभ्यः कश्चित्पूर्वो न विद्यते ।
अज्यते दर्शनादिनामन्येन पुनरन्यदा ॥ ९,०६
सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते ।
एकैकस्मात्कथं पूर्वो दर्शनादेः स विद्यते ॥ ९,०७
द्रष्टा स एव स श्रोता स एव यदि वेदकः ।
एकैकस्माद्भवेत्पूर्वमेवं चैतन्न युज्यते ॥ ९,०८
द्रष्टान्य एव श्रोतान्यो वेदकोऽन्यः पुनर्यदि ।
सति स्याद्द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत् ॥ ९,०९
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते ॥ ९,१०
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि ॥ ९,११
प्राक्च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वमेव च ।
न विद्यतेऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः ॥ ९,१२
***********************************************************
यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः ।
अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् ॥ १०,०१
नित्यप्रदीप्त एव स्यादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥ १०,०२
परत्र निरपेक्षत्वादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते ॥ १०,०३
तत्रैतत्स्यादिध्यमानमिन्धनं भवतीति चेत् ।
केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा ॥ १०,०४
अन्यो न प्राप्स्यतेऽप्रप्तो न धक्ष्यत्यदहन् पुनः ।
न निर्वास्यत्यनिर्वाणः स्थास्यते वा स्वलिङ्गवान् ॥ १०,०५
अन्य एवन्धनादग्निरिन्धनं प्राप्नुयाद्यदि ।
स्त्री संप्राप्नोति पुरुषं पुरुषश्च स्त्रियं यथा ॥ १०,०६
अन्य एवेन्धनादग्निरिन्धनं काममाप्नुयात् ।
अग्नीन्धने यदि स्यातामन्योन्येन तिरस्कृते ॥ १०,०७
यदीन्धनमपेक्ष्याग्निरपेक्ष्याग्निं यदीन्धनम् ।
कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम् ॥ १०,०८
यदीन्धनमपेक्ष्याग्निरग्नेः सिद्धस्य साधनम् ।
एवं सतीन्धनं चापि भविष्यति निरग्निकम् ॥ १०,०९
योऽपेक्ष्य सिध्यते भावस्तमेवापेक्ष्य सिध्यति ।
यदि योऽपेक्षितव्यः स सिध्यतां कमपेक्ष्य कः ॥ १०,१०
योऽपेक्ष्य सिध्यते भावः सोऽसिद्धोऽपेक्षते कथम् ।
अथाप्यपेक्षते सिद्धस्त्वपेक्षास्य न युज्यते ॥ १०,११
अपेक्ष्येन्धनमग्निर्न नानपेक्ष्याग्निरिन्धनम् ।
अपेक्ष्येन्धनमग्निं न नानपेक्ष्याग्निमिन्धनम् ॥ १०,१२
आगच्छत्यन्यतो नाग्निरिन्धनेऽग्निर्न विद्यते ।
अत्रेन्धने शेषमुक्तं गम्यमानगतागतैः ॥ १०,१३
इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् ।
नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः ॥ १०,१४
अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः ।
सर्वो निरवशेषेण सार्धं घटपटादिभिः ॥ १०,१५
आत्मनश्च सतत्त्वं ये भावानां च पृथक्पृथक् ।
निर्दिशन्ति न तान्मन्ये शासनस्यार्थकोविदान् ॥ १०,१६
***********************************************************
पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः ।
संसारोऽनवराग्रो हि नास्यादिर्नापि पश्चिमम् ॥ ११,०१
नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् ।
तस्मान्नात्रोपपद्यन्ते पूर्वापरसहक्रमाः ॥ ११,०२
पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम् ।
निर्जरा मरणा जातिर्भवेज्जायेत चामृतः ॥ ११,०३
पश्चाज्जातिर्यदि भवेज्जरामरणमादितः ।
अहेतुकमजातस्य स्याज्जरामरणं कथम् ॥ ११,०४
न जरामरणं चैव जातिश्च सह युज्यते ।
म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः ॥ ११,०५
यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः ।
प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम् ॥ ११,०६
कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च ।
वेदना वेदकश्चैव सन्त्यर्था ये च के चन ॥ ११,०७
पूर्वा न विद्यते कोटिः संसारस्य न केवलम् ।
सर्वेषामपि भावानां पूर्वा कोटी न विद्यते ॥ ११,०८
***********************************************************
स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् ।
दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते ॥ १२,०१
स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत् ।
स्कन्धानिमानमी स्कन्धाः संभवन्ति प्रतीत्य हि ॥ १२,०२
यद्यमीभ्य इमेऽन्ये स्युरेभ्यो वामी परे यदि ।
भवेत्परकृतं दुःखं परैरेभिरमी कृताः ॥ १२,०३
स्वपुद्गलकृतं दुःखं यदि दुःखं पुनर्विना ।
स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम् ॥ १२,०४
परपुद्गलजं दुःखं यदि यस्मै प्रदीयते ।
परेण कृत्वा तद्दुःखं स दुःखेन विना कुतः ॥ १२,०५
परपुद्गलजं दुःखं यदि कः परपुद्गलः ।
विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत् ॥ १२,०६
स्वयं कृतस्याप्रसिद्धेर्दुःखं परकृतं कुतः ।
परो हि दुःखं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम् ॥ १२,०७
न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम् ।
परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम् ॥ १२,०८
स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि ।
पराकारास्वयंकारं दुःखमहेतुकं कुतः ॥ १२,०९
न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते ।
बाह्यानामपि भावानां चातुर्विध्यं न विद्यते ॥ १२,१०
***********************************************************
तन्मृषा मोषधर्म यद्भगवानित्यभाषत ।
सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा ॥ १३,०१
तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते ।
एतत्तूक्तं भगवता शून्यतापरिदीपकम् ॥ १३,०२
भावानां निःस्वभावत्वमन्यथाभावदर्शनात् ।
नास्वभावश्च भावोऽस्ति भावानां शून्यता यतः ॥ १३,०३
कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते ।
कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते ॥ १३,०४
तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते ।
युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते ॥ १३,०५
तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि ।
क्षीरादन्यस्य कस्यचिद्दधिभावो भविष्यति ॥ १३,०६
यद्यशून्यं भवेत्किंचित्स्याच्छून्यमिति किं चन ।
न किंचिदस्त्यशून्यं च कुतः शून्यं भविष्यति ॥ १३,०७
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः ।
येषां तु शून्यतादृष्टिस्तानसाध्यान् बभाषिरे ॥ १३,०८
***************************************************************************************
द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः ।
सर्वशश्च न संसर्गमन्योन्येन व्रजन्त्युत ॥ १४,०१
एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम् ।
त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च ॥ १४,०२
अन्येनान्यस्य संसर्गस्तच्चान्यत्वं न विद्यते ।
द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः ॥ १४,०३
न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते ।
कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते ॥ १४,०४
अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृतेऽन्यतः ।
यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते ॥ १४,०५
यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत् ।
तदन्यदन्यदन्यस्मादृते नास्ति च नास्त्यतः ॥ १४,०६
नान्यस्मिन् विद्यतेऽन्यत्वमनन्यस्मिन्न विद्यते ।
अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा ॥ १४,०७
न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते ।
संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते ॥ १४,०८
***********************************************************
न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः ।
हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् ॥ १५,०१
स्वभावः कृतको नाम भविष्यति पुनः कथम् ।
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ॥ १५,०२
कुतः स्वभावस्याभावे परभावो भविष्यति ।
स्वभावः परभावस्य परभावो हि कथ्यते ॥ १५,०३
स्वभावपरभावाभ्यामृते भावः कुतः पुनः ।
स्वभावे परभावे च सति भावो हि सिध्यति ॥ १५,०४
भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति ।
भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः ॥ १५,०५
स्वभावं परभावं च भावं चाभावमेव च ।
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने ॥ १५,०६
कात्यायनाववादे चास्तीति नास्तीति चोभयम् ।
प्रतिषिद्धं भगवता भावाभावविभाविना ॥ १५,०७
यद्यस्तित्वं प्रकृत्या स्यान्न भवेदस्य नास्तिता ।
प्रकृतेरन्यथाभावो न हि जातूपपद्यते ॥ १५,०८
प्रकृतौ कस्य वासत्यामन्यथात्वं भविष्यति ।
प्रकृतौ कस्य वा सत्यामन्यथात्वं भविष्यति ॥ १५,०९
अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम् ।
तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः ॥ १५,१०
अस्ति यद्धि स्वभावेन न तन्नास्तीति शाश्वतम् ।
नास्तीदानीमभूत्पूर्वमित्युच्छेदः प्रसज्यते ॥ १५,११
***********************************************************
संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते ।
संसरन्ति च नानित्याः सत्त्वेऽप्येष समः क्रमः ॥ १६,०१
पुद्गलः संसरति चेत्स्कन्धायतनधातुषु ।
पञ्चधा मृग्यमाणोऽसौ नास्ति कः संसरिष्यति ॥ १६,०२
उपादानादुपादानं संसरन् विभवो भवेत् ।
विभवश्चानुपादानः कः स किं संसरिष्यति ॥ १६,०३
संस्काराणां न निर्वाणं कथं चिदुपपद्यते ।
सत्त्वस्यापि न निर्वाणं कथं चिदुपपद्यते ॥ १६,०४
न बध्यन्ते न मुच्यन्त उदयव्ययधर्मिणः ।
संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते ॥ १६,०५
बन्धनं चेदुपादानं सोपादानो न बध्यते ।
बध्यते नानुपादानः किमवस्थोऽथ बध्यते ॥ १६,०६
बध्नीयाद्बन्धनं कामं बन्ध्यात्पूर्वं भवेद्यदि ।
न चास्ति तच्छेषमुक्तं गम्यमानगतागतैः ॥ १६,०७
बद्धो न मुच्यते तावदबद्धो नैव मुच्यते ।
स्यातां बद्धे मुच्यमाने युगपद्बन्धमोक्षणे ॥ १६,०८
निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति ।
इति येषां ग्रहस्तेषामुपादानमहाग्रहः ॥ १६,०९
न निर्वाणसमारोपो न संसारापकर्षणम् ।
यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते ॥ १६,१०
*****************************************************************
आत्मसंयमकं चेतः परानुग्राहकं च यत् ।
मैत्रं स धरमस्तद्बीजं फलस्य प्रेत्य चेह च ॥ १७,०१
चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा ।
तस्यानेकविधो भेदः कर्मणः परिकीर्तितः ॥ १७,०२
तत्र यच्चेतनेत्युक्तं कर्म तन्मानसं स्मृतम् ।
चेतयित्वा च यत्तूक्तं तत्तु कायिकवाचिकम् ॥ १७,०३
वाग्विष्पन्दोऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः ।
अविज्ञप्तय एवान्याः स्मृता विरतयस्तथा ॥ १७,०४
परिभोगान्वयं पुण्यमपुण्यं च तथाविधम् ।
चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः ॥ १७,०५
तिष्ठत्या पाककालाच्चेत्कर्म तन्नित्यतामियात् ।
निरुद्धं चेन्निरुद्धं सत्किं फलं जनयिष्यति ॥ १७,०६
योऽङ्कुरप्रभृतिर्बीजात्संतानोऽभिप्रवर्तते ।
ततः फलमृते बीजात्स च नाभिप्रवर्तते ॥ १७,०७
बीजाच्च यस्मात्संतानः संतानाच्च फलोद्भवः ।
बीजपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ १७,०८
यस्तस्माच्चित्तसंतानश्चेतसोऽभिप्रवर्तते ।
ततः फलमृते चित्तात्स च नाभिप्रवर्तते ॥ १७,०९
चित्ताच्च यस्मात्संतानः संतानाच्च फलोद्भवः ।
कर्मपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ १७,१०
धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश ।
फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च ॥ १७,११
बहवश्च महान्तश्च दोषाः स्युर्यदि कल्पना ।
स्यादेषा तेन नैवैषा कल्पनात्रोपपद्यते ॥ १७,१२
इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते ।
बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम् ॥ १७,१३
पत्त्रं यथाऽविप्रणाशस्तथर्णमिव कर्म च ।
चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः ॥ १७,१४
प्रहाणतो न प्रहेयो भावनाहेय एव वा ।
तस्मादविप्रणाशेन जायते कर्मणां फलम् ॥ १७,१५
प्रहाणतः प्रहेयः स्यात्कर्मणः संक्रमेण वा ।
यदि दोषाः प्रसज्येरंस्तत्र कर्मवधादयः ॥ १७,१६
सर्वेषां विसभागानां सभागानां च कर्मणाम् ।
प्रतिसंधौ सधातूनामेक उत्पद्यते तु सः ॥ १७,१७
कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः ।
द्विप्रकारस्य सर्वस्य विपक्वेऽपि च तिष्ठति ॥ १७,१८
फलव्यतिक्रमाद्वा स मरणाद्वा निरुध्यते ।
अनास्रवं सास्रवं च विभागं तत्र लक्षयेत् ॥ १७,१९
शून्यता च न चोच्छेदः संसारश्च न शाश्वतम् ।
कर्मणोऽविप्रणाशश्च धर्मो बुद्धेन देशितः ॥ १७,२०
कर्म नोत्पद्यते कस्मान्निःस्वभावं यतस्ततः ।
यस्माच्च तदनुत्पन्नं न तस्माद्विप्रणश्यति ॥ १७,२१
कर्म स्वभावतश्चेत्स्याच्छाश्वतं स्यादसंशयम् ।
अकृतं च भवेत्कर्म क्रियते न हि शाश्वतम् ॥ १७,२२
अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि ।
अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते ॥ १७,२३
व्यवहारा विरुध्यन्ते सर्व एव न संशयः ।
पुण्यपापकृतोर्नैव प्रविभागश्च युज्यते ॥ १७,२४
तद्विपक्वविपाकं च पुनरेव विपक्ष्यति ।
कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि ॥ १७,२५
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः ।
न चेत्ते तत्त्वतः क्लेशाः कर्म स्यात्तत्त्वतः कथम् ॥ १७,२६
कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः ।
कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा ॥ १७,२७
अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः ।
स भोक्ता स च न कर्तुरन्यो न च स एव सः ॥ १७,२८
न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् ।
अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यतः ॥ १७,२९
कर्म चेन्नास्ति कर्ता च कुतः स्यात्कर्मजं फलम् ।
असत्यथ फले भोक्ता कुत एव भविष्यति ॥ १७,३०
यथा निर्मितकं शास्ता निर्मिमीत र्द्धिसंपदा ।
निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः ॥ १७,३१
तथा निर्मितकाकारः कर्ता यत्कर्म तत्कृतम् ।
तद्यथा निर्मितेनान्यो निर्मितो निर्मितस्तथा ॥ १७,३२
क्लेशाः कर्माणि देहाश्च कर्तारश्च फलानि च ।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः ॥ १७,३३
***********************************************************
आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् ।
स्कन्धेभ्योऽन्यो यदि भवेद्भवेदस्कन्धलक्षणः ॥ १८,०१
आत्मन्यसति चात्मीयं कुत एव भविष्यति ।
निर्ममो निरहंकारः शमादात्मात्मनीनयोः ॥ १८,०२
निर्ममो निरहंकारो यश्च सोऽपि न विद्यते ।
निर्ममं निरहंकारं यः पश्यति न पश्यति ॥ १८,०३
ममेत्यहमिति क्षीणे बहिर्धाध्यात्ममेव च ।
निरुध्यत उपादानं तत्क्षयाज्जन्मनः क्षयः ॥ १८,०४
कर्मक्लेशक्षयान्मोक्षः कर्मक्लेशा विकल्पतः ।
ते प्रपञ्चात्प्रपञ्चस्तु शून्यतायां निरुध्यते ॥ १८,०५
आत्मेत्यपि प्रज्ञपितमनात्मेत्यपि देशितम् ।
बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम् ॥ १८,०६
निवृत्तमभिधातव्यं निवृत्तश्चित्तगोचरः ।
अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता ॥ १८,०७
सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यमेव च ।
नैवातथ्यं नैव तथ्यमेतद्बुद्धानुशासनम् ॥ १८,०८
अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् ।
निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥ १८,०९
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् ।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ १८,१०
अनेकार्थमनानार्थमनुच्छेदमशाश्वतम् ।
एतत्तल्लोकनाथानां बुद्धानां शासनामृतम् ॥ १८,११
संबुद्धानामनुत्पादे श्रावकाणां पुनः क्षये ।
ज्ञानं प्रत्येकबुद्धानामसंसर्गात्प्रवर्तते ॥ १८,१२
***********************************************************
प्रत्युत्पन्नोऽनागतश्च यद्यतीतमपेक्ष्य हि ।
प्रत्युत्पन्नोऽनागतश्च कालेऽतीते भविष्यतः ॥ १९,०१
प्रत्युत्पन्नोऽनागतश्च न स्तस्तत्र पुनर्यदि ।
प्रत्युत्पन्नोऽनागतश्च स्यातां कथमपेक्ष्य तम् ॥ १९,०२
अनपेक्ष्य पुनः सिद्धिर्नातीतं विद्यते तयोः ।
प्रत्युत्पन्नोऽनागतश्च तस्मात्कालो न विद्यते ॥ १९,०३
एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ ।
उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत् ॥ १९,०४
नास्थितो गृह्यते कालः स्थितः कालो न विद्यते ।
यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम् ॥ १९,०५
भावं प्रतीत्य कालश्चेत्कालो भावादृते कुतः ।
न च कश्चन भावोऽस्ति कुतः कालो भविष्यति ॥ १९,०६
***********************************************************
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि ।
फलमस्ति च सामग्र्यां सामग्र्या जायते कथम् ॥ २०,०१
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि ।
फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम् ॥ २०,०२
हेतोश्च प्रत्ययानां च सामग्र्यामस्ति चेत्फलम् ।
गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते ॥ २०,०३
हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति चेत्फलम् ।
हेतवः प्रत्ययाश्च स्युरहेतुप्रत्ययैः समाः ॥ २०,०४
हेतुं फलस्य दत्त्वा च यदि हेतुर्निरुध्यते ।
यद्दत्तं यन्निरुधं च हेतोरात्मद्वयं भवेत् ॥ २०,०५
हेतुं फलस्यादत्त्वा च यदि हेतुर्निरुध्यते ।
हेतौ निरुद्धे जातं तत्फलमाहेतुकं भवेत् ॥ २०,०६
फलं सहैव सामग्र्या यदि प्रादुर्भवेत्पुनः ।
एककालौ प्रसज्येते जनको यश्च जन्यते ॥ २०,०७
पूर्वमेव च सामग्र्याः फलं प्रादुर्भवेद्यदि ।
हेतुप्रत्ययनिर्मुक्तं फलमाहेतुकं भवेत् ॥ २०,०८
निरुद्धे चेत्फलं हेतौ हेतोः संक्रमणं भवेत् ।
पूर्वजातस्य हेतोश्च पुनर्जन्म प्रसज्यते ॥ २०,०९
जनयेत्फलमुत्पन्नं निरुद्धोऽस्तंगतः कथम् ।
हेतुस्तिष्ठन्नपि कथं फलेन जनयेद्वृतः ॥ २०,१०
अथावृतः फलेनासौ कतमज्जनयेत्फलम् ।
न ह्यदृष्ट्वा न दृष्ट्वापि हेतुर्जनयते फलम् ॥ २०,११
नातीतस्य ह्यतीतेन फलस्य सह हेतुना ।
नाजातेन न जातेन संगतिर्जातु विद्यते ॥ २०,१२
न जातस्य ह्यजातेन फलस्य सह हेतुना ।
नातीतेन न जातेन संगतिर्जातु विद्यते ॥ २०,१३
नाजातस्य हि जातेन फलस्य सह हेतुना ।
नाजातेन न नष्टेन संगतिर्जातु विद्यते ॥ २०,१४
असत्यां संगतौ हेतुः कथं जनयते फलम् ।
सत्यां वा संगतौ हेतुः कथं जनयते फलम् ॥ २०,१५
हेतुः फलेन शून्यश्चेत्कथं जनयते फलम् ।
हेतुः फलेनाशून्यश्चेत्कथं जनयते फलम् ॥ २०,१६
फलं नोत्पत्स्यतेऽशून्यमशून्यं न निरोत्स्यते ।
अनिरुद्धमनुत्पन्नमशून्यं तद्भविष्यति ॥ २०,१७
कथमुत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते ।
शून्यमप्यनिरुद्धं तदनुत्पन्नं प्रसज्यते ॥ २०,१८
हेतोः फलस्य चैकत्वं न हि जातूपपद्यते ।
हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते ॥ २०,१९
एकत्वे फलहेत्वोः स्यादैक्यं जनकजन्ययोः ।
पृथक्त्वे फलहेत्वोः स्यात्तुल्यो हेतुरहेतुना ॥ २०,२०
फलं स्वभावसद्भूतं किं हेतुर्जनयिष्यति ।
फलं स्वभावासद्भूतं किं हेतुर्जनयिष्यति ॥ २०,२१
न चाजनयमानस्य हेतुत्वमुपपद्यते ।
हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति ॥ २०,२२
न च प्रत्ययहेतूनामियमात्मानमात्मना ।
या सामग्री जनयते सा कथं जनयेत्फलम् ॥ २०,२३
न सामग्रीकृतं फलं नासामग्रीकृतं फलम् ।
अस्ति प्रत्ययसामग्री कुत एव फलं विना ॥ २०,२४
***********************************************************
विना वा सह वा नास्ति विभवः संभवेन वै ।
विना वा सह वा नास्ति संभवो विभवेन वै ॥ २१,०१
भविष्यति कथं नाम विभवः संभवं विना ।
विनैव जन्म मरणं विभवो नोद्भवं विना ॥ २१,०२
संभवेनैव विभवः कथं सह भविष्यति ।
न जन्म मरणं चैवं तुल्यकालं हि विद्यते ॥ २१,०३
भविष्यति कथं नाम संभवो विभवं विना ।
अनित्यता हि भावेषु न कदाचिन्न विद्यते ॥ २१,०४
संभवो विभवेनैव कथं सह भविष्यति ।
न जन्म मरणं चैव तुल्यकालं हि विद्यते ॥ २१,०५
सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः ।
न विद्यते तयोः सिद्धिः कथं नु खलु विद्यते ॥ २१,०६
क्षयस्य संभवो नास्ति नाक्षयस्यास्ति संभवः ।
क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च ॥ २१,०७
संभवो विभवश्चैव विना भावं न विद्यते ।
संभवं विभवं चैव विना भावो न विद्यते ॥ २१,०८
संभवो विभवश्चैव न शून्यस्योपपद्यते ।
संभवो विभवश्चैव नाशून्यस्योपपद्यते ॥ २१,०९
संभवो विभवश्चैव नैक इत्युपपद्यते ।
संभवो विभवश्चैव न नानेत्युपपद्यते ॥ २१,१०
दृश्यते संभवश्चैव विभवश्चैव ते भवेत् ।
दृश्यते संभवश्चैव मोहाद्विभव एव च ॥ २१,११
न भावाज्जायते भावो भावोऽभावान्न जायते ।
नाभावाज्जायतेऽभावोऽभावो भावान्न जायते ॥ २१,१२
न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चैव जायते जायते कुतः ॥ २१,१३
भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् ।
प्रसज्यते स भावो हि नित्योऽनित्योऽथ वा भवेत् ॥ २१,१४
भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् ।
उदयव्ययसंतानः फलहेत्वोर्भवः स हि ॥ २१,१५
उदयव्ययसंतानः फलहेत्वोर्भवः स चेत् ।
व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते ॥ २१,१६
सद्भावस्य स्वभावेन नासद्भावश्च युज्यते ।
निर्वाणकाले चोच्छेदः प्रशमाद्भवसंततेः ॥ २१,१७
चरमे न निरुद्धे च प्रथमो युज्यते भवः ।
चरमे नानिरुद्धे च प्रथमो युज्यते भवः ॥ २१,१८
निरुध्यमाने चरमे प्रथमो यदि जायते ।
निरुध्यमान एकः स्याज्जायमानोऽपरो भवेत् ॥ २१,१९
न चेन्निरुध्यमानश्च जायमानश्च युज्यते ।
सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते ॥ २१,२०
एवं त्रिष्वपि कालेषु न युक्ता भवसंततिः ।
त्रिषु कालेषु या नास्ति सा कथं भवसंततिः ॥ २१,२१
***********************************************************
स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः ।
तथागतः स्कन्धवान्न कतमोऽत्र तथागतः ॥ २२,०१
बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः ।
स्वभावतश्च यो नास्ति कुतः स परभावतः ॥ २२,०२
प्रतीत्य परभावं यः सोऽनात्मेत्युपपद्यते ।
यश्चानात्मा स च कथं भविष्यति तथागतः ॥ २२,०३
यदि नास्ति स्वभावश्च परभावः कथं भवेत् ।
स्वभावपरभावाभ्यामृते कः स तथागतः ॥ २२,०४
स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः ।
स इदानीमुपादद्यादुपादाय ततो भवेत् ॥ २२,०५
स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः ।
यश्च नास्त्यनुपादाय स उपादास्यते कथम् ॥ २२,०६
न भवत्यनुपादत्तमुपादानं च किं चन ।
न चास्ति निरुपादानः कथं चन तथागतः ॥ २२,०७
तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा ।
उपादानेन स कथं प्रज्ञप्यते तथागतः ॥ २२,०८
यदपीदमुपादानं तत्स्वभावान्न विद्यते ।
स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः ॥ २२,०९
एवं शून्यमुपादानमुपादाता च सर्वशः ।
प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः ॥ २२,१०
शून्यमिति न वक्तव्यमशून्यमिति वा भवेत् ।
उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते ॥ २२,११
शाश्वताशाश्वताद्यत्र कुतः शान्ते चतुष्टयम् ।
अन्तानन्तादि चाप्यत्र कुतः शान्ते चतुष्टयम् ॥ २२,१२
घनग्राहो गृहीतस्तु येनास्तीति तथागतः ।
नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत् ॥ २२,१३
स्वभावतश्च शून्येऽस्मिंश्चिन्ता नैवोपपद्यते ।
परं निरोधाद्भवति बुद्धो न भवतीति वा ॥ २२,१४
प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम् ।
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम् ॥ २२,१५
तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत् ।
तथागतो निःस्वभावो निःस्वभावमिदं जगत् ॥ २२,१६
***********************************************************
संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते ।
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि ॥ २३,०१
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये ।
ते स्वभावान्न विद्यन्ते तस्मात्क्लेशा न तत्त्वतः ॥ २३,०२
आत्मनोऽस्तित्वनास्तित्वे न कथं चिच्च सिध्यतः ।
तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम् ॥ २३,०३
कस्य चिद्धि भवन्तीमे क्लेशाः स च न सिध्यति ।
कश्चिदाहो विना कंचित्सन्ति क्लेशा न कस्यचित् ॥ २३,०४
स्वकायदृष्टिवत्क्लेशाः क्लिष्टे सन्ति न पञ्चधा ।
स्वकायदृष्टिवत्क्लिष्टं क्लेशेष्वपि न पञ्चधा ॥ २३,०५
स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः ।
प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान् ॥ २३,०६
रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम् ।
वस्तु रागस्य दोषस्य मोहस्य च विकल्प्यते ॥ २३,०७
रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः ।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः ॥ २३,०८
अशुभं वा शुभं वापि कुतस्तेषु भविष्यति ।
मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च ॥ २३,०९
अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि ।
यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते ॥ २३,१०
अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि ।
यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते ॥ २३,११
अविद्यमाने च शुभे कुतो रागो भविष्यति ।
अशुभेऽविद्यमाने च कुतो द्वेषो भविष्यति ॥ २३,१२
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः ॥ २३,१३
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः ॥ २३,१४
येन गृह्णाति यो ग्राहो ग्रहीता यच्च गृह्यते ।
उपशान्तानि सर्वाणि तस्माद्ग्राहो न विद्यते ॥ २३,१५
अविद्यमाने ग्राहे च मिथ्या वा सम्यगेव वा ।
भवेद्विपर्ययः कस्य भवेत्कस्याविपर्ययः ॥ २३,१६
न चापि विपरीतस्य संभवन्ति विपर्ययाः ।
न चाप्यविपरीतस्य संभवन्ति विपर्ययाः ॥ २३,१७
न विपर्यस्यमानस्य संभवन्ति विपर्ययाः ।
विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः ॥ २३,१८
अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः ।
विपर्ययेष्वजातेषु विपर्ययगतः कुतः ॥ २३,१९
न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चेति विपर्ययगतः कुतः ॥ २३,२०
आत्मा च शुचि नित्यं च सुखं च यदि विद्यते ।
आत्मा च शुचि नित्यं च सुखं च न विपर्ययः ॥ २३,२१
नात्मा च शुचि नित्यं च सुखं च यदि विद्यते ।
अनात्माऽशुच्यनित्यं च नैव दुःखं च विद्यते ॥ २३,२२
एवं निरुध्यतेऽविद्या विपर्ययनिरोधनात् ।
अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते ॥ २३,२३
यदि भूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् ।
कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति ॥ २३,२४
यद्यभूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् ।
कथं नाम प्रहीयेरन् कोऽसद्भावं प्रहास्यति ॥ २३,२५
***********************************************************
यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते ॥ २५,०१
यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते ॥ २५,०२
अप्रहीणमसंप्राप्तमनुच्छिन्नमशाश्वतम् ।
अनिरुद्धमनुत्पन्नमेतन्निर्वाणमुच्यते ॥ २५,०३
भावस्तावन्न निर्वाणं जरामरणलक्षणम् ।
प्रसज्येतास्ति भावो हि न जरामरणं विना ॥ २५,०४
भावश्च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् ।
नासंस्कृतो हि विद्यते भावः क्व चन कश्चन ॥ २५,०५
भावश्च यदि निर्वाणमनुपादाय तत्कथम् ।
निर्वाणं नानुपादाय कश्चिद्भावो हि विद्यते ॥ २५,०६
भावो यदि न निर्वाणमभावः किं भविष्यति ।
निर्वाणं यत्र भावो न नाभावस्तत्र विद्यते ॥ २५,०७
यद्यभावश्च निर्वाणमनुपादाय तत्कथम् ।
निर्वाणं न ह्यभावोऽस्ति योऽनुपादाय विद्यते ॥ २५,०८
य आजवंजवीभाव उपादाय प्रतीत्य वा ।
सोऽप्रतीत्यानुपादाय निर्वाणमुपदिश्यते ॥ २५,०९
प्रहाणं चाब्रवीच्छास्ता भवस्य विभवस्य च ।
तस्मान्न भावो नाभावो निर्वाणमिति युज्यते ॥ २५,१०
भवेदभावो भावश्च निर्वाणमुभयं यदि ।
भवेदभावो भावश्च मोक्षस्तच्च न युज्यते ॥ २५,११
भवेदभावो भावश्च निर्वाणमुभयं यदि ।
नानुपादाय निर्वाणमुपादायोभयं हि तत् ॥ २५,१२
भवेदभावो भावश्च निर्वाणमुभयं कथम् ।
असंस्कृतं हि निर्वाणं भावाभावौ च संस्कृतौ ॥ २५,१३
भवेदभावो भावश्च निर्वाण उभयं कथम् ।
तयोरभावो ह्येकत्र प्रकाशतमसोरिव ॥ २५,१४
नैवाभावो नैव भावो निर्वाणमिति याऽञ्जना ।
अभावे चैव भावे च सा सिद्धे सति सिध्यति ॥ २५,१५
नैवाभावो नैव भावो निर्वाणं यदि विद्यते ।
नैवाभावो नैव भाव इति केन तदज्यते ॥ २५,१६
परं निरोधाद्भगवान् भवतीत्येव नाज्यते ।
न भवत्युभयं चेति नोभयं चेति नाज्यते ॥ २५,१७
तिष्ठमानोऽपि भगवान् भवतीत्येव नाज्यते ।
न भवत्युभयं चेति नोभयं चेति नाज्यते ॥ २५,१८
न संसारस्य निर्वाणात्किंचिदस्ति विशेषणम् ।
न निर्वाणस्य संसारात्किंचिदस्ति विशेषणम् ॥ २५,१९
निर्वाणस्य च या कोटिः कोटिः संसरणस्य च ।
न तयोरन्तरं किंचित्सुसूक्ष्ममपि विद्यते ॥ २५,२०
परं निरोधादन्ताद्याः शाश्वताद्याश्च दृष्टयः ।
निर्वाणमपरान्तं च पूर्वान्तं च समाश्रिताः ॥ २५,२१
शून्येषु सर्वधर्मेषु किमनन्तं किमन्तवत् ।
किमनन्तमन्तवच्च नानन्तं नान्तवच्च किम् ॥ २५,२२
किं तदेव किमन्यत्किं शाश्वतं किमशाश्वतम् ।
अशाश्वतं शाश्वतं च किं वा नोभयमप्यथ ॥ २५,२३
सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः ।
न क्व चित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः ॥ २५,२४
***********************************************************
पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा ।
अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः ॥ २६,०१
विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ ।
संनिविष्टेऽथ विज्ञाने नामरूपं निषिच्यते ॥ २६,०२
निषिक्ते नामरूपे तु षडायतनसंभवः ।
षडायतनमागम्य संस्पर्शः संप्रवर्तते ॥ २६,०३
चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च ।
नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते ॥ २६,०४
संनिपातस्त्रयाणां यो रूपविज्ञानचक्षुषाम् ।
स्पर्शः स तस्मात्स्पर्शाच्च वेदना संप्रवर्तते ॥ २६,०५
वेदनाप्रत्यया तृष्णा वेदनार्थं हि तृष्यते ।
तृष्यमाण उपादानमुपादत्ते चतुर्विधम् ॥ २६,०६
उपादाने सति भव उपादातुः प्रवर्तते ।
स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः ॥ २६,०७
पञ्च स्कन्धाः स च भवो भवाज्जातिः प्रवर्तते ।
जरामरणदुःखादि शोकाः सपरिदेवनाः ॥ २६,०८
दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते ।
केवलस्यैवमेतस्य दुःखस्कन्धस्य संभवः ॥ २६,०९
संसारमूलं संस्कारानविद्वान् संस्करोत्यतः ।
अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात् ॥ २६,१०
अविद्यायां निरुद्धायां संस्काराणामसंभवः ।
अविद्याया निरोधस्तु ज्ञानस्यास्यैव भावनात् ॥ २६,११
तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते ।
दुःखस्कन्धः केवलोऽयमेवं सम्यग्निरुध्यते ॥ २६,१२
***********************************************************
अभूमतीतमध्वानं नाभूवमिति दृष्टयः ।
यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः ॥ २७,०१
दृष्टयो न भविष्यामि किमन्योऽनागतेऽध्वनि ।
भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः ॥ २७,०२
अभूमतीतमध्वानमित्येतन्नोपपद्यते ।
यो हि जन्मसु पूर्वेषु स एव न भवत्ययम् ॥ २७,०३
स एवात्मेति तु भवेदुपादानं विशिष्यते ।
उपादानविनिर्मुक्त आत्मा ते कतमः पुनः ॥ २७,०४
उपादानविनिर्मुक्तो नास्त्यात्मेति कृते सति ।
स्यादुपादानमेवात्मा नास्ति चात्मेति वः पुनः ॥ २७,०५
न चोपादानमेवात्मा व्येति तत्समुदेति च ।
कथं हि नामोपादानमुपादाता भविष्यति ॥ २७,०६
अन्यः पुनरुपादानादात्मा नैवोपपद्यते ।
गृह्येत ह्यनुपादानो यद्यन्यो न च गृह्यते ॥ २७,०७
एवं नान्य उपादानान्न चोपादानमेव सः ।
आत्मा नास्त्यनुपादानो नापि नास्त्येष निश्चयः ॥ २७,०८
नाभूमतीतमध्वानमित्येतन्नोपपद्यते ।
यो हि जन्मसु पूर्वेषु ततोऽन्यो न भवत्ययम् ॥ २७,०९
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् ।
तथैव च स संतिष्ठेत्तत्र जायेत चामृतः ॥ २७,१०
उच्छेदः कर्मणां नाशः कृतमन्येन कर्म च ।
प्रतिसंवेदयेदन्य एवमादि प्रसज्यते ॥ २७,११
नाप्यभूत्वा समुद्भूतो दोषो ह्यत्र प्रसज्यते ।
कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः ॥ २७,१२
एवं दृष्तिरतीते या नाभूमहमभूमहम् ।
उभयं नोभयं चेति नैषा समुपपद्यते ॥ २७,१३
अध्वन्यनागते किं नु भविष्यामीति दर्शनम् ।
न भविष्यामि चेत्येतदतीतेनाध्वना समम् ॥ २७,१४
स देवः स मनुष्यश्चेदेवं भवति शाश्वतम् ।
अनुत्पन्नश्च देवः स्याज्जायते न हि शाश्वतम् ॥ २७,१५
देवादन्यो मनुष्यश्चेदशाश्वतमतो भवेत् ।
देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते ॥ २७,१६
दिव्यो यद्येकदेशः स्यादेक्देशश्च मानुषः ।
अशाश्वतं शाश्वतं च भवेत्तच्च न युज्यते ॥ २७,१७
अशाश्वतं शाश्वतं च प्रसिद्धमुभयं यदि ।
सिद्धे न शाश्वतं कामं नैवाशाश्वतमित्यपि ॥ २७,१८
कुतश्चिदागतः कश्चित्किंचिद्गच्छेत्पुनः क्व चित् ।
यदि तस्मादनादिस्तु संसारः स्यान्न चास्ति सः ॥ २७,१९
नास्ति चेच्छाश्वतः कश्चित्को भविष्यत्यशाश्वतः ।
शाश्वतोऽशाश्वतश्चापि द्वाभ्यामाभ्यां तिरस्कृतः ॥ २७,२०
अन्तवान् यदि लोकः स्यात्परलोकः कथं भवेत् ।
अथाप्यनन्तवाल्लोकः परलोकः कथं भवेत् ॥ २७,२१
स्कन्धानामेष संतानो यस्माद्दीपार्चिषामिव ।
तस्मान्नानन्तवत्त्वं च नान्तवत्त्वं च युज्यते ॥ २७,२२
पूर्वे यदि च भज्येरन्नुत्पद्येरन्न चाप्यमी ।
स्कन्धाः स्कन्धान् प्रतीत्येमानथ लोकोऽन्तवान् भवेत् ॥ २७,२३
पूर्वे यदि न भज्येरन्नुत्पद्येरन्न चाप्यमी ।
स्कन्धाः स्कन्धान् प्रतीत्येमाल्लोकोऽनन्तो भवेदथ ॥ २७,२४
अन्तवानेकदेशश्चेदेकदेशस्त्वनन्तवान् ।
स्यादन्तवाननन्तश्च लोकस्तच्च न युज्यते ॥ २७,२५
कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेश एवं चैतन्न युज्यते ॥ २७,२६
उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते ॥ २७,२७
अन्तवच्चाप्यनन्तं च प्रसिद्धमुभयं यदि ।
सिद्धे नैवान्तवत्कामं नैवानन्तवदित्यपि ॥ २७,२८
अथ वा सर्वभावानां शून्यत्वाच्छाश्वतादयः ।
क्व कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः ॥ २७,२९
सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत् ।
अनुकम्पामुपादाय तं नमस्यामि गौतमम् ॥ २७,३०
***********************************************************
\Z
क्षेमेन्द्र: नर्ममाला
प्रथमः परिहासः
येनेदं स्वेच्छया सर्वं मायया मोहितं जगत् ।
स जयत्यजितः श्रीमान् कायस्थः परमेश्वरः ॥ १.१ ॥
अस्ति स्वस्तिमतामग्र्यं मण्डितं बुधमण्डलैः ।
खण्डिताखण्डलावासदर्पं कश्मीरमण्डलम् ॥ १.२ ॥
यस्मिन् प्राज्यभुजस्तम्भस्तम्भिताहितविक्रमः ।
त्रिविक्रम इव श्रीमाननन्तो बलिजिन्नृपः ॥ १.३ ॥
तेन प्रजोपसर्गेषु वारितेषु विवेकिना ।
दुर्नियोगिषु .. .. .. नीतेषु स्मृतिशेषताम् ॥ १.४ ॥
विदग्धचूडामणिना केनचित्केलिशालिना ।
विद्वद्गोष्ठीगरिष्ठेन कश्चित्सहृदयो जनः ॥ १.५ ॥
हासायातीतकायस्थचरितं कर्तुमीरितः ।
करोति तत्प्रसङ्गेन दुराचारविडम्बनाम् ॥ १.६ ॥
कृतविश्वप्रपञ्चाय नमो मायाविधायिने ।
उत्पत्तिस्थितिसंहारकारिणे पुरहारिणे ॥ १.७ ॥
व्यापिने जन्महीनाय निर्गुणाय कलाभृते ।
सर्वाधिकारिणे सर्वकालकूटाशनाय ते ॥ १.८ ॥
पुरा हतेषु दैत्येषु विष्णुना प्रभविष्णुना ।
दुःखितो दीर्घवैराग्यस्तद्गेहगणनापतिः ॥ १.९ ॥
गत्वा वैतरणीतीरं तपो वार्षसहस्रकम् ।
स्वमूत्रचुलकाहारः सुरवैराच्चकार सः ॥ १.१० ॥
तुष्टस्तमेत्य वरदः कलिः साक्षादभाषत ।
सर्वदेवविनाशाय गच्छ वत्स महीतलम् ॥ १.११ ॥
अनेन कलमास्त्रेण मद्दत्तेन प्रहारिणा ।
विच्छिन्नदीपकुसुमान्धूपहीनान्निरम्बरान् ॥ १.१२ ॥
भ्रष्टालयान्धूलिलिप्तान्हाहाभूतान्श्वभिर्वृतान् ।
करिष्यसि सुरान्सर्वान्भक्तपानीयकाङ्क्षिणः ॥ १.१३ ॥
जगति ब्राह्मणानां च वृत्तिच्छेदे त्वया कृते ।
यज्ञच्छेदाद्विनङ्क्ष्यन्ति दिवि देवा न संशयः ॥ १.१४ ॥
दैत्यक्षये कृते यस्माद्भवता दिवि रोदितम् ।
तस्मात्त्वं दिविरो नाम भुवि ख्यातो भविष्यसि ॥ १.१५ ॥
मषी सकलमा यस्य काली कवलिताखिला ।
सदा सकलमायस्य तस्य सर्वार्थसिद्धिदा ॥ १.१६ ॥
त्वद्वंशेऽत्र भविष्यन्ति दैत्या दिविररूपिणः ।
यैरियं लब्धविभवैः पृथिवी न भविष्यति ॥ १.१७ ॥
इत्युक्त्वान्तर्हिते तस्मिन्कलौ कल्मषमानसः ।
याति काले सुविपुले महीमवततार सः ॥ १.१८ ॥
सौनिकेन प्रजातोऽथ भूतले मर्मघातिना ।
स *कुद्दालिकभार्यायां जगदुन्मूलनव्रतः ॥ १.१९ ॥
तीक्ष्णैस्तदन्वये जातैः सर्ववृत्तिविलोपिभिः ।
रूक्षैर्न कस्यचिन्मित्रैः पापैः सर्वापहारिभिः ॥ १.२० ॥
कल्पान्तैरिव सर्वत्र ग्रस्तस्थावरजङ्गमैः ।
मषीविलिप्तसर्वाङ्गैः कालेनालिङ्गितैरिव ॥ १.२१ ॥
अधोगतैर्मृदुतरैः स्तब्धैरभ्युद्गतैः क्षणात् ।
पुरीषैरिव कायस्थैः कायस्थैर्दोषकारिभिः ॥ १.२२ ॥
सेवाकाले बहुमुखैर्लुब्धकैर्बहुबाहुभिः ।
वञ्चने बहुमायैश्च बहुरूपैः सुरारिभिः ॥ १.२३ ॥
व्याप्तासु नगरग्रामपुरपत्तनभूमिषु ।
तस्मिन्काले मषीलिप्तकलमेन खमुल्लिखन् ॥ १.२४ ॥
ननर्त कर्तरीहस्तो भूर्जप्रावरणः कलिः ।
भस्त्राकक्ष्याभिधानोऽयं सर्वभक्षो महासुरः ।
जातो जगत्क्षयायेति पिशाचनिचया जगुः ॥ १.२५ ॥
देवापहारिणा तेन गोघासलवणच्छिदा ।
भुज्यते पीयते भूरि दिविरेण दिवानिशम् ॥ १.२६ ॥
भक्त्या भगवतो विष्णोस्त्रैलोक्याक्रमणे पुरा ।
धर्मः प्रयातो द्रवतां मषीरूपेण तिष्ठति ॥ १.२७ ॥
देवनागमनुष्याणां नित्यनैमित्तिकच्छिदः ।
तस्य कायस्थनाथस्य त्रैलोक्याक्रमणे पुनः ॥ १.२८ ॥
कलिः प्रयातो द्रवतां मषीरूपेण तिष्ठति ।
यथा स्वर्गप्रदा गङ्गा तथैषा नरकप्रदा ॥ १.२९ ॥
व्यथितः प्रथितैर्ग्रामैर्निगडैर्लगुडैस्तथा ।
भयाद्वैराग्यमापन्नः स बभूव महाव्रती ॥ १.३० ॥
भग्नव्यथोऽथ सन्त्यज्य व्रतं प्रायाद्दिगन्तरम् ।
कालेन विस्मृतोऽभ्येत्य भूर्जज्ञोऽलीकनिःस्पृहः ॥ १.३१ ॥
क्रमाद्ग्रामनियोगेन नगरे गणनापतेः ।
दम्भसम्भावितः प्राप गृहकृत्यं विधेर्वशात् ॥ १.३२ ॥
तस्यानुजीविभिः क्रूरैरनुवर्तनजीविभिः ।
वसुहीना वसुमती कृता प्रकटतस्करैः ॥ १.३३ ॥
दम्भध्वजो निष्प्रपञ्चो लुब्धकः कलमाकरः ।
सूचीमुखो भूर्जगुप्तो महीमण्डश्च दुःसहाः ॥ १.३४ ॥
दैत्यावताराः सप्तैते तन्माहात्म्यान्नियोगिनः ।
लुण्ठ्या वध्याश्च पूज्या ये सर्व इत्यवदन्मदात् ॥ १.३५ ॥
उपतापो वज्रपातः परिघो द्वारभञ्जकः ।
धूमकेतुः कपिमुखः कुक्षिभेदो गृहोल्मुकः ॥ १.३६ ॥
अष्टौ पिशाचास्तस्यैते भटमुख्याः पुरःसराः ।
मर्त्यलोकविनाशाय बभ्रमुर्यष्टिपाणयः ॥ १.३७ ॥
स वृतः सेवकशतैः सदा दम्भहरार्चने ।
स्तोत्रं पठति हाहेति कुर्वन्सास्रुविलोचनः ॥ १.३८ ॥
सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया ।
ह्यः कियन्तो मया दत्ताः प्रायस्था विजयेश्वरे ॥ १.३९ ॥
जयत्युल्लासितानन्तमहिमा परमेश्वरः ।
आदौ स्थितानामुपरि प्रयान्त्वेते त्रिसप्ततिः ॥ १.४० ॥
यः स्फीतः श्रीदयाबोधपरमानन्दसम्पदा ।
प्रायस्थाने मृता भट्टाः कृष्यन्तां गुल्फदामभिः ॥ १.४१ ॥
विद्योद्द्योतितमाहात्म्यः स जयत्यपराजितः ।
{निर्धामधूमकर्तारो} ग्रामान्यान्तु नियोगिनः ॥ १.४२ ॥
सर्वानन्दस्वरूपाय सर्वमङ्गल्यहेतवे ।
सर्वस्वहरणं कृत्वा वध्या दण्डनिषेधिनः ॥ १.४३ ॥
सर्वक्लेशापहर्त्रे च चिद्रूपब्रह्मणे नमः ।
पीडिताः प्रस्रवन्त्येव प्रजा गुग्गुलुबीजवत् ॥ १.४४ ॥
इत्यादिस्तोत्रमुखरो घण्टाबधिरिताखिलः ।
समादिश्याविशच्चाशु नियोगिनिबिडां सभाम् ॥ १.४५ ॥
मरीचः प्रथितस्थानमास्थितो जनदुष्कृतैः ।
ददर्श दूरादायान्तं कार्यदूतं नियोगिनम् ॥ १.४६ ॥
पदाल[ग्ना]शिवं देवगृहोच्चाटनचाक्रिकम् ।
सुसूक्ष्मदलविन्यासविभागोन्नतटुप्पिकम् ॥ १.४७ ॥
अतसीकुसुमच्छायं मृदुस्पर्शाङ्गरक्षिकम् ।
जात्यकस्तूरिकामोदस्थूलतूलपटीवृतम् ॥ १.४८ ॥
हस्ताङ्गुलीन्यस्तहैमत्रिगुणावर्तवालिकम् ।
दूराध्वक्लमसोच्छ्वासात्कुर्वाणं विकृतीर्मुखे ॥ १.४९ ॥
दृष्ट्वा पिशुनमायान्तं तं भागवतमन्तिके ।
उत्थाय हर्षादालम्ब्य पाणौ पार्श्वे न्यवेशयत् ॥ १.५० ॥
इति गृहकृत्याधिपतिः ।
पिशुनेभ्यो नमस्तेभ्यो यत्प्रसादान्नियोगिनः ।
दूरस्था अपि जायन्ते सहस्रश्रोत्रचक्षुषः ॥ १.५१ ॥
सोऽब्रवीत्त्वामहं श्रुत्वा स्थितं शक्तिमतां धुरि ।
प्राप्तो देवगृहादेष राशिमार्गप्रदर्शकः ॥ १.५२ ॥
वस्त्रालङ्काररत्नादि यत्किंचिद्देववेश्मसु ।
विद्यमानमशेषं तत्करिष्ये प्रकटं तव ॥ १.५३ ॥
विजयेश्वरवाराहमार्तण्डादिषु विद्यते ।
त्वद्भाग्योपचयाद्राशिरपोष्यपरिपूरकः ॥ १.५४ ॥
अभीरुरपवादेषु निःशङ्कः पातकेषु च ।
तत्र तीक्ष्णो भृशं शश्वत्क्रियतां परिपालकः ॥ १.५५ ॥
स चास्ति भुवि विख्यातः कायस्थो भवता समः ।
विना धनं विनायासं सर्वस्वहरणं विना ॥ १.५६ ॥
ब्रह्महत्या न गण्यन्ते गोवधेषु कथैव का ।
प्रभुभक्तिकृता येन मूलादुन्मूल्यते जनः ॥ १.५७ ॥
अन्येऽपि सन्ति सर्वत्र तद्विधस्तु न लभ्यते ।
नीतः स्वजनको येन निधनं बन्धने धनी ॥ १.५८ ॥
यदि नाम भवत्पुण्यैः स समेष्यति मद्गिरा ।
तत्स्वगेहं निधानानां विद्धि स्वच्छन्दमन्दिरम् ॥ १.५९ ॥
इति ब्रुवाणमसकृत्कर्णे विहितसंविदम् ।
महत्तमस्तमवदत्तूर्णमानीयतामिति ॥ १.६० ॥
ततः स सत्वरं द्वित्रैरादराय गतागतैः ।
तमानिनाय निश्चित्य पापिनं परिपालकम् ॥ १.६१ ॥
इति चाक्रिकः पुंश्चलको वा ।
काष्ठस्तब्धोन्नतग्रीवः सनिःस्पन्दोर्ध्वलोचनः ।
कामलाहरितच्छायशिरःशाटककञ्चुकः ॥ १.६२ ॥
लम्बमानेन महतामेध्यक्रोडानुकारिणा ।
*उदरेण दरेणेव व्याप्तः पिशितवेश्मना ॥ १.६३ ॥
तीव्रदर्पो महाकोपः प्राणहृन्निष्प्रतिक्रियः ।
सोपद्रवः सोपतापः सन्निपात इव ज्वरः ॥ १.६४ ॥
स महान्तं समासाद्य दुःसहं दंशनं विटम् ।
लीलयैव वशीकृत्य लेभे देवगृहान्बहून् ॥ १.६५ ॥
ततो मूर्तैरिवायासैः सहसैव पुरःसरैः ।
अर्घ वेलां ययौ कर्तुमसङ्ख्यैः परिवारितः ॥ १.६६ ॥
काचरोऽयं हिरण्याक्षः पूर्ववैरमनुस्मरन् ।
देवानवाप्तः संहर्तुमिति तं बुबुधे जनः ॥ १.६७ ॥
भयात्पलाय्य यातेषु धनिकेषु सुरालयात् ।
तमयुः पुनरक्षीणा देवागारनिवासिनः ॥ १.६८ ॥
भटैरर्गलितद्वारकवाटस्फोटनाकुलैः ।
प्रारब्धे गृहभाण्डादिविलुण्ठनमहोत्सवे ॥ १.६९ ॥
सहसा हृतवस्त्राणां गृहिणीनां समाययौ ।
सन्त्रस्तबालकानां च करुणो रोदनध्वनिः ॥ १.७० ॥
इति परिपालकः ।
अथाययौ चिरावाप्तबहुहर्षस्खलद्गतिः ।
कृशः शनैश्चराकारो धूसरः क्षुत्क्षतोदरः ॥ १.७१ ॥
बहुच्छिद्रशिरःशाटलडत्पर्यन्ततूस्तकः ।
शतचक्रलिकास्यूतमललिप्ताङ्गरक्षकः ॥ १.७२ ॥
शीर्णजीर्णपटीगुप्तकक्ष्यानियमिताञ्चलः ।
याचितानीतसंशुष्कपाद[त्र]व्यथितः खलः ॥ १.७३ ॥
लेखाधिकारी निःस्वोऽपि लेखसंस्कारगर्वितः ।
परिपालकनिर्दिष्टो वायुभक्ष इवोरगः ॥ १.७४ ॥
तद्गेहिनी शीर्णवस्त्रख[ण्डा]वृतकटीतटा ।
कज्जलालिप्तनासाग्रा लडन्मृत्कर्णभूषणा ॥ १.७५ ॥
क्षुधितापत्यकुपिता शूर्पार्धावृतमस्तका ।
समुत्थाय सशूत्कारं कषन्ती बहुशः स्फिजौ ॥ १.७६ ॥
पत्यौ चिरात्प्राप्तपदे हृष्टादाय यतस्ततः ।
..क्षेपापूपधूपाद्यैर्गणाधिपमपूजयत् ॥ १.७७ ॥
सोऽप्यनेकार्थसन्देशानाकर्ण्यावहितः प्रभोः ।
दाप्यप्रसारितकरो लेखानस्खलितोऽलिखत् ॥ १.७८ ॥
धावत्कलमचीत्कारतारः कपिरिवाहतः ।
दीनारान्गणयन्नाशु ददौ लेखशतद्वयम् ॥ १.७९ ॥
परिपालकपादानां यत्किंचिदुपयुज्यते ।
दर्वी बृसी पटलिका कुण्डभाण्डकरण्डिका ॥ १.८० ॥
इत्यादिलेखदानेन प्रसिद्धिं परमां गतः ।
सोऽचिरेणाभवत्पुष्टः पूर्णपाणिर्मदोद्धतः ॥ १.८१ ॥
लेखपत्त्राणि विगलल्लोचनः परिवाचयन् ।
चकार विकृतीस्तास्ता नानाभ्रूनेत्रकुञ्चनैः ॥ १.८२ ॥
इति लेखकोपाध्यायः ।
ततो गृहीतमध्यस्थच्छत्त्रभङ्गव्यवस्थया (?) ।
आययौ गञ्जदिविरो भट्टभागवतार्थितः ॥ १.८३ ॥
स प्रायस्थखलीकारान्मानी सन्त्यक्तकर्पटः ।
शिरःशाटकविन्यासश्वित्रितार्धललाटभूः ॥ १.८४ ॥
सर्वदेवगृहग्रामराशिसंहारतत्परः ।
रज्जुशेषीकृताशेषनिर्जर..रिपालकः ॥ १.८५ ॥
स प्राप्य प्रददौ दीर्घां शरत्षण्मासकल्पनाम् ।
यस्या मध्येऽस्ति लिखितं सार्धं लक्षचतुष्टयम् ॥ १.८६ ॥
स्वार्थोपायं ततः पृष्टस्तेन स्वीकारसंविदा ।
उवाच भागसन्तोषात्किंचित्सद्भावमास्थितः ॥ १.८७ ॥
अस्मिन्देवगृहे ते ते प्रसिद्धाः परिपालकाः ।
विक्रीतनिजसर्वस्वाः प्रयाता मद्विरोधिनः ॥ १.८८ ॥
भवतोऽद्य तु कर्तव्या स्नेहादुपकृतिर्मया ।
कुलाचार्यः स भगवानेको हि गुरुरावयोः ॥ १.८९ ॥
स्वीकृतैरिह दानेन पञ्चषैश्चाक्रिकाशिवैः ।
भुज्यते निखिलं देवद्रव्यं भुक्तिश्च पार्षदी ॥ १.९० ॥
विक्रीतशेषं यत्किञ्चिद्विद्यते सुरमण्डले ।
तन्मतेनैव तत्सर्वं भुज्यते निजवत्त्वया ॥ १.९१ ॥
तथा हि ताम्रजः पूर्वं महान्नीतो घटो मया ।
भक्तितस्तच्छतांशेन कृता घण्टा सुरालये ॥ १.९२ ॥
कालेन घण्टां विक्रीय तदंशेन कृता घटी ।
क्रमेण भक्षिता सापि कृता शेषेण घण्टिका ॥ १.९३ ॥
चिरं सञ्चूर्णिता सापि कृता सूक्ष्मझिलीमली ।
इति कृत्वा ततः स्तोकघण्टांशः परिपालितः ॥ १.९४ ॥
एवं चतुर्भुजा लुण्ठिः क्रियते शिवपूजया ।
सन्ति धान्यसहस्राणि क्रियतां भवतात्र तु ।
क्रयविक्रयिका नाम ततो विज्ञप्यसे मया ॥ १.९५ ॥
इत्युपायशतैस्तैस्तैस्तदुक्तैः परिपालकः ।
*जरठाखुरिवाक्षोटं शून्यं चक्रे सुरालयम् ॥ १.९६ ॥
इति गञ्जदिविरः ।
अथान्यराशिप्रवणः प्रवीणः साधुलुण्ठने ।
आपत्प्रशमनं प्राप ग्रामं तस्मान्नियोगवित् ॥ १.९७ ॥
तस्यावस्करसंछन्नमहारौरवसोदरे ।
खण्डस्फुटितनासाग्रवारिधानीमहाधने ॥ १.९८ ॥
दामप्रोतजरद्द्वारस्खलत्खडखडारवे ।
यस्य स्थितिरभूद्गेहे कुकुट्टीकोटरोदरे ॥ १.९९ ॥
दग्धकम्बलिकाखण्डकृतमुण्डावगुण्ठनः ।
श्वजग्धजीर्णशीर्णाग्रोपानत्खञ्जः शनैर्व्रजन् ॥ १.१०० ॥
कर्पटीतिलमृद्दर्भपवित्रार्घसमुद्गकैः ।
दारुपात्त्रीं वहन्पूर्णां भग्नामाखुविखण्डिताम् ॥ १.१०१ ॥
स्नायी जपोच्चलत्कूर्चः सदाचारपदे स्थितः ।
दिनार्धमपठत्स्तोत्रं गत्वा यः सुरमन्दिरम् ॥ १.१०२ ॥
गोप्रदक्षिणकृद्विप्रप्रणतो द्वादशीव्रतः ।
ददौ दीनजने मार्गे यत्नेनैककपर्दिकाम् ॥ १.१०३ ॥
तस्यैव दैवादायातकार्यस्याशु नियोगिनः ।
उपस्करणभाण्डादिपरिपूर्णमभूद्गृहम् ॥ १.१०४ ॥
शिशिरे यस्य नाङ्गारं प्रददुः प्रातिवेश्मिनः ।
अयाचितं ददुस्तस्य वस्त्रालङ्करणेप्सितम् ॥ १.१०५ ॥
ततः सुधाधवलितं तस्य सम्मार्जिताङ्गनम् ।
बहुदासमभूद्गेहं सिन्दूरोदरमन्दिरम् ॥ १.१०६ ॥
मिष्टभोजनसञ्जातनवलावण्यसच्छविः ।
तस्याभूत्तरुणी भार्या दि[नै]रप्सरसः समा ॥ १.१०७ ॥
ततोऽपि व्रजतो ग्रामं करण्डशयनादिकम् ।
निर्ययौ पुरतश्छत्त्रं कलशं ताम्रकुण्डकम् ॥ १.१०८ ॥
शक्तिः पतद्ग्रहो घण्टा ताम्रपात्रमुपानहौ ।
करिका भगवत्पादा भूर्जभस्त्राथ स्रुक्स्रुवौ ॥ १.१०९ ॥
अक्षसूत्रं मषीभाण्डं दर्पणः स्नानशाटिका ।
सम्पुटीटुप्पिकाखड्गाः पादुके मन्त्रपुस्तिका ॥ १.११० ॥
नक्षत्रपत्त्रिका खड्गपत्रं लोहितकम्बलः ।
पवित्रसूत्रकं तन्त्री सूची कलमकर्तरी ॥ १.१११ ॥
वचा जतुमयी रक्षा क्षुरिका योगपट्टकः ।
स्तोत्रमन्त्राणि गङ्गामृद्बिल्वमुच्छिष्टफालकम् ॥ १.११२ ॥
इत्येकीकृत्य तस्याग्रे भाण्डोपस्करणं ययौ ।
इतस्ततः समानीतमपुनर्दानचेतसा ॥ १.११३ ॥
उच्चैःकृतलतापाणिर्भाटकानीतघोटकः ।
झाङ्कारपार्ष्णिप्रहतिर्वदनेनाञ्चता मुहुः ॥ १.११४ ॥
सन्तर्जयन्निव जनं ज्यो..र्तमिव कुर्वता ।
शिथिलस्थूलवसनः स ययौ पुरमुत्फलन् ॥ १.११५ ॥
प्रविवेश ततो ग्रामं सुधौतसितकर्पटः ।
क्षयाय ग्राम्यमत्स्यानां वृद्धो बक इवागतः ॥ १.११६ ॥
अथ भोजनचर्यादिव्यपदेशैः सहस्रशः ।
तस्य यक्षेश्वरस्येव निधानान्याययुः पुरः ॥ १.११७ ॥
योगी हरणचिन्तासु प्रयोगी भूर्जयोजने ।
वियोगी निजदाराणां भोगी नरकसम्पदाम् ॥ १.११८ ॥
नोपयोगी फलोत्पत्तौ दोषोद्योगी तु केवलम् ।
अशो[कः] सततं रोगी नियोगी जयति प्रभुः ॥ १.११९ ॥
वृक्षारोहसहस्रेषु प्रायःक्लान्तशतेषु च ।
ग्रामे तस्य विपन्नेषु नरकप्रतिमाभवत् ॥ १.१२० ॥
गवां दण्डाय यश्चक्रे निधनावधिबन्धनम् ।
का नाम गणना तस्य नृषु सर्वापराधिषु ॥ १.१२१ ॥
सर्वस्वहरणं बन्धो निग्रहो गृहभञ्जनम् ।
इति तस्य मुखाद्घोरं न चचाल वचः सदा ॥ १.१२२ ॥
पञ्चषाः सततं तस्य करभा इव भारिकाः ।
घृतमाक्षिकदीनारमरिचार्द्रकसैन्धवम् ॥ १.१२३ ॥
मुद्गकम्बलमायूरोपानन्मेषविहङ्गमम् ।
बिसद्राक्षामधुघटाक्षोटपर्यङ्कपीठिकम् ॥ १.१२४ ॥
कांस्यताम्रायसानेकगृहोपस्करणादिकम् ।
निन्युस्तत्तदविश्रान्ता गृहं यच्चावदद्वचः ॥ १.१२५ ॥
दण्डत्याजनलेखांश्च स प्राप्तान्स्वामिनोऽन्तिकात् ।
साधिक्षेपं सथूत्कारं चकार तिलशो नखैः ॥ १.१२६ ॥
नित्यं मांसघृताहारः स राजपुरुषे स्थिते ।
भुङ्क्ते विलवणं दम्भादेको मुद्गपलद्वयम् ॥ १.१२७ ॥
इति मार्गपतिर्व्यापारिको वा ।
निरस्य मूलदिविरं चौर्याणामचिकित्सकम् ।
चकार वारिकं सोऽथ चिकित्साचतुरं परम् ॥ १.१२८ ॥
स मुक्तो बन्धनात्तेन क्षिप्रं द्वादशवार्षिकात् ।
लिलेख कूटकपटं प्रकटाक्षरकोविदः ॥ १.१२९ ॥
कृत्ताङ्गुष्ठः स वामेन पाणिना दिविरो रहः ।
खल..स्य गृहं गत्वा विदधे भूर्जयोजनम् ॥ १.१३० ॥
गृहीत्वा मद्यकलशं स जानुयुगलान्तरे ।
मुहुर्मुहुः परिमितं पिबन्बहुतरं शनैः ॥ १.१३१ ॥
लिलेख चीरीचीत्कारतारं कलमरेखया ।
अन्त्याङ्गुल्या सनिर्घोषं लालयोत्पुंसिताक्षरः ॥ १.१३२ ॥
विलुम्पन्विप्रगोदेवनित्यनैमित्तिकव्ययम् ।
श्रीचर्मकारगुरुणा रुग्णनाथेन भाषितम् ॥ १.१३३ ॥
शिवभक्तिभराक्रन्दं मुहुर्गायन्खरस्वरः ।
यूकाः पिषन्नखाग्रेण मुहुरुच्चित्य कम्बलात् ॥ १.१३४ ॥
मुहुर्निःश्वस्य निःश्वस्य निन्दन्संसारचेष्टितम् ।
व्ययेन स समीकुर्वन्प्रवेशं हर्षनिर्भरः ॥ १.१३५ ॥
आविष्ट इव वेतालश्चकम्पे मद्यघूर्णितः ।
उत्सरत्पटलीमिश्रकङ्कावलयमालितः ॥ १.१३६ ॥
स्थूलभूर्जफडत्कारस्फारवाद्यरसाकुलः ।
कर्परीच्छिद्रनिर्यातव्यावल्गिवृषणद्वयः ॥ १.१३७ ॥
लुठत्पूर्णमषीभाण्डच्छटाच्छुरितविग्रहः ।
ननर्त दिविरः क्षीबो नग्नो भग्नबृसीघटः ॥ १.१३८ ॥
धूसरो मलदिग्धाङ्गः स पिशाच इवोत्थितः ।
जनजीवापहारेण ननन्द मदनिर्भरः ॥ १.१३९ ॥
कक्षाकुट्टनसङ्घट्टटांकारा..जकारिणः ।
स्कन्धवाद्यरसः कोऽपि तस्याभून्निर्जने चिरम् ॥ १.१४० ॥
इति ग्रामदिविरः ।
व्यापृतोऽप्यनिशं तेन दिविरेणापहारिणा ।
वातेनेवानलः सार्धं जज्वाल जनकाननम् ॥ १.१४१ ॥
अचिरादथ संवृत्ते गृहे तस्य महाधने ।
अलङ्कृता माल्यवती ताम्बूलदलनव्रता ॥ १.१४२ ॥
गृहिणी दर्पणपरा राजमार्गावलोकिनी ।
बभार तद्विरहिता भूपालललनामदम् ॥ १.१४३ ॥
हारो भारायते हेमताटङ्कं मे न वल्लभम् ।
धिग्वणिग्वनितायोग्यां गुर्वीं कनकसूत्रिकाम् ॥ १.१४४ ॥
एकैवैकावली कान्ता ललितेयं प्रिया मम ।
इति दर्पगिरा तस्या नाभवत्कस्य विस्मयः ॥ १.१४५ ॥
अहो भगवती कार्यसर्वसिद्धिप्रदा मषी ।
अहो प्रबलवान्कोऽपि कलमः कमलाश्रयः ॥ १.१४६ ॥
या पपौ याचितं चामं भग्नस्यूताश्मभाजने ।
तयैव पीयते रौप्यपात्रे कस्तूरिकामधु ॥ १.१४७ ॥
इत्यधस्तां समालोक्य हर्म्ये कायस्थसुन्दरीम् ।
तत्प्रातिवेश्मिकसुताः कुलीना जगुरङ्गनाः ॥ १.१४८ ॥
[इति] नर्ममालायां प्रथमः परिहासः ॥
--------------------------------------------------------
तृतीयः परिहासः
अथ यागोत्सवे तस्मिन्सर्वे दिविरबान्धवाः ।
अलङ्कृताश्च ललना नियोगिगृहमाययुः ॥ ३.१ ॥
खटिका करणी हैमी पारतो रत्नमूटिका ।
सिन्दूराद्या रजोभेदाः पञ्चरङ्गकसूत्रकम् ॥ ३.२ ॥
शालिचूर्णं सितच्छत्रं श्वेतवस्त्रं वितानकम् ।
नाराचाः क्षुरिका सूत्रं दर्पणं वीरकर्तरी ॥ ३.३ ॥
पताका व्यजनं कूर्चः पुष्पलक्षाणि षोडश ।
वार्धनीकलशौ ताम्रौ तिलास्तैलं मृगाजिनम् ॥ ३.४ ॥
स्रुक्स्रुवौ समिधो दर्भा लाजाः सिद्धार्तका घृतम् ।
बिल्वपूगफलाक्षोटजातीफलयवाक्षतम् ॥ ३.५ ॥
धूपकुङ्कुमकर्पूरकौतुकौषधिचन्दनम् ।
पादुकापीठपर्यङ्कघण्टिकाघटकुण्डकम् ॥ ३.६ ॥
मद्यमांससुरापूपपलाण्डुशफरौदनम् ।
पिष्टभृष्टरसस्वच्छभक्ष्यरोचकमोदकम् ॥ ३.७ ॥
चटकापूर्णपात्राणि क्षीरिणी कृसरा दधि ।
दश कृष्णा दश श्वेताश्छागा मेषाश्चतुर्दश ॥ ३.८ ॥
भस्त्रा चेत्यादिसम्भारश्चीरिकालिखितं क्षणात् ।
सज्जीकृतं श्रीसचिवैर्भोगमित्रैर्नियोगिनः (?) ॥ ३.९ ॥
ततो नित्यावधानेन भगलिङ्गविभूषितम् ।
चकार मण्डलं शिष्यः सिन्दूरान्तरितान्तरम् ॥ ३.१० ॥
अथात्मारामतादम्भमीलिताघूर्णितेक्षणः ।
गुरुर्गृहीतः शिष्याभ्यां सव्यदक्षिणहस्तयोः ॥ ३.११ ॥
शतमात्रेणानुयातः शिष्याणामाययौ शनैः ।
लुण्ठिं कर्तुमिवात्युग्रो नगराधिपतिः स्वयम् ॥ ३.१२ ॥
चर्मकृत्सौनिकश्चक्री धीवरो हट्टतापसः ।
वृद्धवेश्या कल्यपालो मद्यभट्टो जरद्विटः ॥ ३.१३ ॥
पञ्च नारङ्गका रुग्णास्त्रिटाङ्कारोऽथ पाचकः ।
गोभक्षो भैरवाचार्यः कुलाचार्योऽथ वायकः ॥ ३.१४ ॥
चूलिकाकृतरुद्राक्षो घटिलश्छिन्ननासिकः ।
महाव्रती भगमुखः शैवाचार्यस्त्रिघण्टिकः ॥ ३.१५ ॥
नग्नो वेलाव्रती मौनी स्तोत्रकृज्जानुघण्टिकः ।
द्वित्राश्चोन्मत्तवनिताः श्वभिः परिवृतास्तथा ॥ ३.१६ ॥
गूथलिप्तस्तथोन्मत्तो मन्त्रवादी रसायनी ।
इन्द्रजाली लतावेशी विज्ञानी कामतात्त्विकः ॥ ३.१७ ॥
भट्टाश्चान्ये गुरोर्धूर्ताः पानभोजनसेवकाः ।
विविशुः स्विन्ननैवेद्यामोदवक्त्रोदकाकुलाः ॥ ३.१८ ॥
अथामपक्वसंहारकारिणः सर्वहारिणः ।
मत्ता गुरुभट्टाश्चक्रुस्तिलधूपघृतक्षयम् ॥ ३.१९ ॥
एको द्वौ बहवः पश्चान्निन्युस्ते भस्त्रया तथा ।
शालिचूर्णयवाक्षोटबिल्वार्घघृतचन्दनम् ॥ ३.२० ॥
इति गुरुभट्टाः
ततः स्वभगिनी रण्डा बालैव व्रतशालिनी ।
धृता नियोगिना यागपरिचर्याविधौ गुरोः ॥ ३.२१ ॥
जयत्यखण्डशीतांशुमण्डलद्युतितस्करी ।
पुण्डरीकमुखी रण्डा नवयौवनमण्डिता ॥ ३.२२ ॥
मदशौण्डं समुद्दण्डचण्डं सुखकरण्डकम् ।
विना चण्डरतोद्घृष्टं रण्डा खण्डितमानसा ॥ ३.२३ ॥
विस्तीर्णश्रोणिपुलिना पीवरोरुकुचस्थली ।
हरिणीहारिनयना रण्डा नेत्ररसायनम् ॥ ३.२४ ॥
रण्डा स्कन्धद्वयासक्तमुक्तकेशी विराजते ।
नेत्रोत्पलमुखाम्भोजभृङ्गव्याप्तेव पद्मिनी ॥ ३.२५ ॥
निःसूत्ररुचिरः कण्ठः सुवर्णसुभगो भगः ।
रण्डायाः कर्णपाशौ च निराभरणसुन्दरौ ॥ ३.२६ ॥
पुष्पताम्बूलरहिता रण्डा सन्त्यक्तभूषणा ।
लावण्येनातिमात्रेण संविभक्तेव वेधसा ॥ ३.२७ ॥
हारेण किं सुमध्यायाः सुकेश्याः कुसुमेन किम् ।
किमञ्जनेनायताक्ष्या रण्डाया मण्डनेन किम् ॥ ३.२८ ॥
किं धर्मो यत्र नो रण्डा धिक्सुखं रण्डया विना ।
रण्डाहीनोऽस्तु मा मोक्षः प्रौढैरित्युदितं विटैः ॥ ३.२९ ॥
रण्डा विलोक्य तरुणं करोति भ्रुकुटिं मृषा ।
कण्ठग्रहं चिन्तयन्ती मनसा तु प्रहृष्यति ॥ ३.३० ॥
संस्मरन्ती रतिसुखं पीवरोरुकुचस्थली ।
रण्डा भगस्थलीं रात्रौ मृद्नात्युच्छ्वासिनी सदा ॥ ३.३१ ॥
वीक्षते तरुणं तिर्यक्कान्तं सुभगमानता ।
स्रवन्ती निर्भरं रेतो रण्डा धेनुः पयो यथा ॥ ३.३२ ॥
गौरः सुपीवरो धत्ते रण्डाया मुण्डितो भगः ।
मेरोरर्कहयोल्लीढशष्पहेमतटभ्रमम् ॥ ३.३३ ॥
तुरगाद्याचितानीतस्तब्धदीर्घध्वजो नरः ।
यदि नाम रते शक्तो रण्डां तोषयितुं न वा ॥ ३.३४ ॥
श्राद्धेषु मुग्धविप्राणां जटिनां च तपस्विनाम् ।
वशे पतति धन्यानां रण्डा रसतरङ्गिणी ॥ ३.३५ ॥
चूलिकान्यस्तकुसुमः कर्णे कृतपवित्रकः ।
युवा रण्डाप्रियो विप्रः कन्दर्पेणोपमीयते ॥ ३.३६ ॥
उदञ्चद्गुरुदण्डस्य चण्डस्य ब्रह्मचारिणः ।
रण्डा ददाति सततं श्रद्धया मृतभोजनम् ॥ ३.३७ ॥
तमेव तीर्थयात्रासु पश्चान्नयति सर्वदा ।
वहन्ती खड्गपात्रेण बलिधूपसमुद्गिकाम् ॥ ३.३८ ॥
परस्परप्रार्थनया सुमुण्डितभगध्वजौ ।
भूकम्पकारिणौ रात्रौ तौ रण्डाब्रह्मचारिणौ ॥ ३.३९ ॥
दिवा दम्भनिधानाय नमस्तीर्थोपसेविने ।
रात्रौ रण्डाभगापानक्षीबाय ब्रह्मचारिणे ॥ ३.४० ॥
रण्डा जटाभृतां भीत्या गौडलाटतपस्विनाम् ।
ददाति .. र्जितां प्रीत्या तल्लिप्तोरु .. वासकृत् ॥ ३.४१ ॥
गत्वा गुरुगृहं रण्डा पत्युः पर्वदिने सती ।
कषन्ती कटिमा .. भी रण्डा निर्दयमोहनैः ॥ ३.४२ ॥
रण्डा तत्तन्मृतोद्धारदीक्षादिव्रतकारिणी ।
ददाति निशि निःशङ्का कामसत्त्रं तपस्विनाम् ॥ ३.४३ ॥
लिङ्गार्चनापदेशेन दत्त्वा वेश्मनि तालकम् ।
करोति चर्मलिङ्गेन रण्डा कण्डूविखण्डनम् ॥ ३.४४ ॥
तयोपचर्यमाणोऽथ मृगाक्ष्या गुरुराकुलः ।
शिष्याश्च तां पपुर्नेत्रैः क्षुधार्ताः क्षीरिणीमिव ॥ ३.४५ ॥
[इति] रण्डा ।
ततः प्रविविशुस्ते ते दीक्षासमयिनो नराः ।
बद्धनेत्रपटा मिथ्यामोहेनेवान्धकारिताः ॥ ३.४६ ॥
अथ व्यजिज्ञपद्भूमिन्यस्तजानुः कृताञ्जलिः ।
गुरुं नियोगिनः {श्रद्धाशुद्धान्तं} हट्टतापसः ॥ ३.४७ ॥
इहैव सुचिरं नाथ यागव्यग्रे त्वयि स्थिते ।
प्रतीक्षन्ते परे शिष्या यागोत्सवसमुत्सुकाः ॥ ३.४८ ॥
य एष प्रथितो लोके गृहकृत्ये महत्तमः ।
कृतयागसमारम्भः स भवन्तमुदीक्षते ॥ ३.४९ ॥
ब्रह्महत्यादि पापं यन्निःसंख्यं तस्य विद्यते ।
एकघण्टाटनत्कारमात्रेण भवता हृतम् ॥ ३.५० ॥
मन्यते स तृणं सर्वं सर्वसंहारपातकम् ।
यतो मूर्ध्नि त्वया हस्तस्तस्य पञ्चफणो धृतः ॥ ३.५१ ॥
त्वत्प्रसादात्समुत्तीर्णां स कामपि दशां श्रितः ।
शङ्करायतनेभ्योऽपि शैवः सर्वं जहार यत् ॥ ३.५२ ॥
सर्वस्वहरणं धर्मसत्कार्यं ब्राह्मणक्षयः ।
यत्तस्य निर्विकल्पस्य तत्तवैव विजृम्भितम् ॥ ३.५३ ॥
[इति] *गृहकृत्यमहत्तमः स्वकषणकामिकारो वा ।
त्वामियं नाथ गणिका निमन्त्रयितुमागता ।
घटीप्रतिष्ठा गेहेऽस्याः क्रियतां शिष्यवत्सल ॥ ३.५४ ॥
वितीर्णैर्भवता नित्यं वशीकरणचूर्णकैः ।
अस्थिशेषाः कृतास्ते ते यया धनिककामुकाः ॥ ३.५५ ॥
श्मशानकोशशपथैः क्षीणजिह्वाकराधरा ।
त्वद्रक्षारक्षितैवैषा कामुकच्छद्मचारिणी ॥ ३.५६ ॥
तैलोन्मृष्टे मनाक्स्नेहो वदने न तु चक्षुषि ।
वेश्यायाः क्षीणवित्तेषु संकोचो नान्त्यजातिषु ॥ ३.५७ ॥
यदि सद्भाविनी *वैश्या यदि कालः कृपापरः ।
अचौरो यदि कायस्थस्तद्वेश्याप्यनुरागिणी ॥ ३.५८ ॥
वेश्या ।
चक्षुर्वैद्योऽयमायातस्तपस्वी सर्वसंश्रयः ।
किंशारुवर्तिभिर्येन सर्वमन्धीकृतं जगत् ॥ ३.५९ ॥
ग्रीष्मेऽक्षिकोपबाहुल्यादस्य लग्ने शरत्फले ।
सम्पूर्णः क्रियतां यागः पाण्डुवल्लीनिरन्तरः ॥ ३.६० ॥
इति चक्षुर्वैद्यः ।
नापितः शल्यहर्तायं नृणां येनोपजीविना ।
नीतान्यण्डानि दुर्लेपैः स्थूलस्थालीप्रमाणताम् ॥ ३.६१ ॥
प्राक्प्रतिष्ठापिता येन चामुण्डामुण्डकार्थिना ।
*योऽसौ तस्यास्त्वया वर्षदिने यागं समीहते ॥ ३.६२ ॥
मूल्येन महता धीमान्नासासंश्लेषणाय यः ।
मांसपेषीमपि छित्त्वा ददाति स्ववधूभगात् ॥ ३.६३ ॥
शल्यहर्ता ।
अयञ्च तरुणीभार्यो वणिग्वृद्धो महाधनः ।
मैथुने शक्तिदारिद्र्याद्वाजीकरणमिच्छति ॥ ३.६४ ॥
लालिना स्रुतनेत्रेण वृद्धेन श्वासकासिना ।
श्लथप्रलम्बशिश्नेन तरुणी रमते कथम् ॥ ३.६५ ॥
आरूढोऽपि रते यत्नादुत्थानोपहतध्वजः ।
वृद्धः प्राप्नोति नो निद्रामृणं ध्यायन्निवाधनः ॥ ३.६६ ॥
निष्पीडितान्त्रसंकाशशिश्नोऽपि सुरतोत्सुकः ।
हस्तं दत्त्वा भगे वृद्धो निधानमिव रक्षति ॥ ३.६७ ॥
मांसक्षीरघृताहारं कृत्वा वृद्धो रताशया ।
रात्रौ वमति तत्सर्वं भजते वा विषूचिकाम् ॥ ३.६८ ॥
शुष्कचर्मोपमं वृद्धं मधुपर्के क्षणं पतिम् ।
सजने तरुणी दृष्ट्वा ह्रीता याति रसातलम् ॥ ३.६९ ॥
एतेन वृद्धवणिजा द्रव्यैर्वृद्धविटोदितैः ।
लिप्तलिङ्गेन सततं दग्धेवायासिता वधूः ॥ ३.७० ॥
स एष बहुनिक्षेपसंभक्षणकृतक्षणः ।
द्रविणावस्करक्षेत्रं वणिग्वासरतस्करः ॥ ३.७१ ॥
नृत्यति व्याधिकालेषु कुटिलः कलिपन्नगः ।
अज्ञाततृणकाष्ठादिविक्रयी द्रव्यनामभिः ॥ ३.७२ ॥
तरुणाकाङ्क्षिणीं वृद्धः प्रियामविचलेक्षणः ।
सोऽयं निरीक्षते दूरान्मृष्टं भोज्यमिवातुरः ॥ ३.७३ ॥
तस्मात्पौष्पिकमासाद्य क्रियतां मन्त्रसंपदा ।
गृहिणी रागिणी येन लब्धशक्तेः प्रजायते ॥ ३.७४ ॥
वृद्धवणिक् ।
इत्यादिशिष्यैराह्वानं श्रुत्वा तेन निवेदितम् ।
सर्वं करोमीत्यवदद्भ्रूविकाराकुलो गुरुः ॥ ३.७५ ॥
ततो दिनान्ते विपुलां कृत्वाग्रे शिवकुण्डिकाम् ।
गुरुणा सह ते शिष्याः पपुर्भुक्तोत्तरं चिरम् ॥ ३.७६ ॥
नियोगिललनाः सर्वास्ते च तन्मित्रबान्धवाः ।
कपालेषु तदुच्छिष्टं *वमित्वा बहुशः पपुः ॥ ३.७७ ॥
कश्चिद्गातुं प्रवृत्तोऽथ कश्चिद्रोदिति सस्वनम् ।
कश्चिद्व्याघूर्णते कश्चित्प्लवते कृतशूत्कृतिः ॥ ३.७८ ॥
कश्चिदत्यन्तवैकल्यं नाटयन्भक्तिसम्भवम् ।
निश्चेष्टस्तिष्ठति चिरं संप्राप्तः शवतामिव ॥ ३.७९ ॥
कश्चिद्विलोलस्रग्दामभूषितो मदनिर्भरः ।
कृतकण्ठग्रहः पुंसां चुचुम्ब ललना अपि ॥ ३.८० ॥
ततः क्षीबो गुरुः किं चित्स्वकाव्यं देशभाषया ।
वीणावंशरवोदग्रं कोच्छिकावाद्यकृज्जगौ ॥ ३.८१ ॥
अथैकभुजमानन्दादुद्यम्यैकेन पाणिना ।
गुरुर्ननर्त द्वाभ्यां च शनैरुत्थाय चासनात् ॥ ३.८२ ॥
ततः शिष्याः समुत्तस्थुरट्टहासनिनादिनः ।
कृताङ्गनापरिष्वङ्गा विस्रस्तकटिकर्पटाः ॥ ३.८३ ॥
शनैः प्रयाते रात्र्यर्धे विनष्टे दीपमण्डले ।
निर्विभागोऽभवत्तेषां रतिचक्रमहोत्सवः ॥ ३.८४ ॥
प्रभाते गुरुरुत्थाय त्वरया कलशप्रदः ।
कृतवद्विदधे सर्वं शिष्यैरन्यैर्निमन्त्रितः ॥ ३.८५ ॥
ज्वरादिकाले वैद्यानां शरत्काले नियोगिनाम् ।
पुष्पकाले गुरूणां च हेमपूर्णा वसुन्धरा ॥ ३.८६ ॥
अथाविशत्पृथुश्वासः कम्पमानः स्फुटन्निव ।
पार्श्वावलोकी पुरुषः परमाप्तो नियोगिनः ॥ ३.८७ ॥
सोऽब्रवीदद्य रात्र्यर्धे गृहकृत्यमहत्तमः ।
राजराशिधनं भूरि हृत्वा यातः सहानुगः ॥ ३.८८ ॥
अनुक्त्वापसृते तस्मिंस्तत्सम्बन्धिनियोगिनाम् ।
पलायनव्यतिकरः कोऽपि जातो गृहे गृहे ॥ ३.८९ ॥
चपेटोत्स्फोटितमुखस्त्वत्स्वामी बन्धनं भटैः ।
नीतः पतत्पुरीषोऽग्रे स तावत्परिपालकः ॥ ३.९० ॥
यावन्नो*ल्लुञ्चितश्मश्रुर्बद्ध्वा त्वमपि नीयसे ।
तावद्राजभये घोरे नीतिरस्मिन् विधीयताम् ॥ ३.९१ ॥
इति ब्रुवाणे तन्मित्रे तैः शिष्यैः सहिते गुरौ ।
तूर्णं प्रयाते निःश्वस्य नियोगी दुःखितोऽवदत् ॥ ३.९२ ॥
अहो नु कालदौरात्म्याद्घोरता कियती कलेः ।
साधवः सर्वथा नष्टाः कष्टं धर्मोऽस्तमागतः ॥ ३.९३ ॥
इत्युक्त्वा सानुगो यावत्पलायनकृतोद्यमः ।
स सुस्राव भयान्मूत्रं तावदेत्य भटैर्वृतः ॥ ३.९४ ॥
स राज्ञा हृतसर्वस्वः प्रक्लिन्नो बन्धने चिरम् ।
धनेन वेश्यया स्वस्रा मोचितो निरगात्ततः ॥ ३.९५ ॥
ततो विभवहीनोऽसौ जापी स्वप्ननिरीक्षकः ।
बभूव सर्वप्रणतश्चाटुकारः प्रियंवदः ॥ ३.९६ ॥
योऽभूदभ्युत्थितस्तब्धो नियोगी लिङ्गसन्निभः ।
अधिकारपरिभ्रंशात्स वृद्धवृषणायते ॥ ३.९७ ॥
अधिकारमदान्धानां दृष्टिकोपवतां सदा ।
नेत्रनैर्मल्यजननं बन्धनं परमाञ्जनम् ॥ ३.९८ ॥
यः पादपतितानार्तान्पूज्यानप्यवमन्यते ।
भ्रष्टाधिकारश्चरणौ शकृल्लिप्तौ स वन्दते ॥ ३.९९ ॥
अहो बत मुहूर्तेन भवन्ति न भवन्ति च ।
पलालदहनज्वालाचपला दिविरश्रियः ॥ ३.१०० ॥
स्वयमुत्थाय यातायां जायायां निर्धनोऽथ सः ।
बभ्राम लौल्यनिलयः पिण्डार्थी बन्धुवेश्मसु ॥ ३.१०१ ॥
रूक्षः कृशोऽतिमलिनः स्यूतदग्धपटच्चरः ।
पिशाच इव दुष्प्रेक्ष्यो दिनैरेव बभूव सः ॥ ३.१०२ ॥
तुषाग्निकुण्डिकातापदग्धस्फिग्वृषणोदरः ।
वातशूलापनोदाय जानुग्रथितदामकः ॥ ३.१०३ ॥
देवद्विजधन*ग्रासजातकोष्ठगलग्रहः ।
क्षुत्क्षामकुक्षिः शुष्कास्यः पतितोऽवस्करे भ्रमन् ॥ ३.१०४ ॥
श्वजग्धजानुचरणः प्रस्रवद्भूरिशोणितः ।
कृपार्द्रोच्छिष्टभुग्दत्तभक्तगोलकनिर्वृतः ॥ ३.१०५ ॥
दग्धार्धकर्पटीनिर्यत्सकेशवृषणद्वयः ।
भस्मप्रलिप्त*शीर्षांसवक्षःपार्श्वो गतत्रपः ॥ ३.१०६ ॥
प्रलपन्काञ्चिकाकाङ्क्षी केनचिद्दत्तमण्डकः ।
प्रपापालिकया डोम्बभ्रान्त्या पाने तिरस्कृतः ॥ ३.१०७ ॥
रजस्वलापलालेन छन्नाङ्गस्तुहिनागमे ।
शरावकर्परादानकलहे याचकार्भकैः ।
वह्निपात्रप्रहारेण दग्धभ्रूश्मश्रुलोचनः ॥ ३.१०८ ॥
चण्डालैः प्रेतकार्येषु लगुडैराहतोऽसकृत् ।
पङ्कशायी स चुक्रोश सत्त्रतीर्थाग्रवर्त्मसु ॥ ३.१०९ ॥
नृपुरीषप्रणालेऽथ पतितोऽसावधोमुखः ।
उच्चैःकृतकटिः प्राणानुत्ससर्ज नराधमः ॥ ३.११० ॥
इति दौर्गत्यतपसा प्रयातः सोऽस्थिशेषतां ।
सशरीरः स्वयं प्राप्तो नरकं नरकण्टकः ॥ ३.१११ ॥
एवं क्रमेण शान्तेषु नियोगिदिविराग्निषु ।
मोदते गतसन्तापः सन्तोषसुभगो जनः ॥ ३.११२ ॥
इति दिविरनियोगिव्रातदुश्चेष्टितानां
कुसृतिचरितचर्चा नर्ममाला कृतेयम् ।
अपि सुजनविनोदायोम्भिता हास्यसिद्ध्यै
कथयति फलभूतं सर्वलोकोपदेशम् ॥ ३.११३ ॥
इति नर्ममालायां तृतीयः परिहासः ॥
समाप्तेयं नर्ममाला ।
कृतिर्व्यासदासापरनाम्नः क्षेमेन्द्रस्येति शिवम् ॥
-------------------------------------------------
\Z
॥ ३ ॥ अपोहसिद्धिः ॥
॥ नमस्तारायै ॥
अपोहः शब्दार्थो निरुच्यते । ननु कोऽयमपोहो नाम । किमिदमन्यस्मादपोह्यते । अस्माद्वान्यदपोह्यते । अस्मिन् वान्यदपोह्यत इति व्युत्पत्त्या विजातिव्यावृत्तं बाह्यमेव विवक्षितम् । बुद्ध्याकारो वा । यदि वा अपोहनमपोह इत्यन्यव्यावृत्तिमात्रमिति त्रयः पक्षाः ।
न तावदादिमौ पक्षौ । अपोहनाम्ना विधेरेव विवक्षितत्वात् । अन्तिमोऽप्यसंगतः, प्रतीतिबाधितत्वात् । तथा हि पर्वतोद्देशे वह्निरस्तीति शाब्दी प्रतीतिर्विधिरूपमेवोल्लिखन्ती लक्ष्यते । नानग्निर्न भवतीति नित्रृत्तिमात्रमामुखयन्ती । यच्च प्रत्यक्षबाधितं न तत्र साधनान्तरावकाशः इत्यतिप्रसिद्धम् ॥
अथ यद्यपि निवृत्तिमहं प्रत्येमीति न विकल्पः तथापि निवृत्तपदार्थोल्लेख एव निवृत्त्युल्लेखः । न ह्यनन्तर्भावितविशेषणप्रतीतिर्विशिष्टप्रतीतिः । ततो यथा सामान्यमहं प्रत्येमीति विकल्पाभावेऽपि साधारणाकारपरिस्फुरणाद्विकल्पबुद्धिः सामान्यबुद्धिः परेषाम्, तथा निवृत्तप्रत्ययाक्षिप्ता निवृतिबुद्धिरपोहप्रतीतिव्यवहारमातनोतीति चेत् ।
ननु साधारणाकारपरिस्फुरणे विधिरूपतया यदि सामान्यबोधव्यवस्था, तत्किमायातमस्फुरदभावाकारे चेतसि निवृत्तिप्रतीतिव्यवस्थायाः । ततो निवृत्तिमहं प्रत्येमीत्येवमाकाराभावेऽपि निवृत्त्याकारस्फुरणं यदि स्यात्को नाम निवृत्तिप्रतीतिस्थितिमपलपेत् । अन्यथा असति प्रतिभासे तत्प्रतीतिव्यवहृतिरिति गवाकारेऽपि चेतसि तुरगबोध इत्यस्तु ।
अथ विशेषणतया अन्तर्भूता निवृत्तिप्रतीतिरित्युक्तम् । तथापि यद्यगवापोढ इतीदृशाकारो विकल्पस्तदा विशेषणतया तदनुप्रवेशो भवतु किं तु गौरिति प्रतीतिः । तदा च सतोऽपि निवृत्तिलक्षणस्य विशेषणस्य तत्रानुत्कलनात्कथं तत्प्रतीतिव्यवस्था ।
अथैवं मतिः - यद्विधिरूपं स्फुरति तस्य परापोहोऽप्यस्तीति तत्प्रतीतिरुच्यते । तदापि सम्बन्धमात्रमपोहस्य । विधिरेव साक्षान्निर्भासी । अपि (निबन्ध्५९) चैवमध्यक्षस्याप्यपोहविषयत्वमनिवार्यं विशेषतो विकल्पादेकव्यावृत्तोल्लेखिनोऽखिलान्यव्यावृत्तमीक्षमाणस्य । तस्माद्विध्याकारावग्रहादध्यक्षवद्विकल्पस्यापि विधिविषयत्वमेव नान्यापोहविषयत्वमिति कथमपोहः शब्दार्थो घुष्यते ।
अत्राभिधीयते । नास्माभिरपोहशब्देन विधिरेव केवलोऽभिप्रेतः । नाप्यन्यव्यावृत्तिमात्रम् । किन्त्वन्यापोहविशिष्टो विधिः शब्दानामर्थः । ततश्च न प्रत्येकपक्षोपनिपातिदोषावकाशः ॥
यत्तु गोः प्रतीतौ न तदात्मापरात्मेति सामर्थ्यादपोहः पश्चान्निश्चीयत इति विधिवादिनां मतम्, अन्यापोहप्रतीतौ वा सामर्थ्यादन्यापोढोऽवधार्यते इति प्रतिषेधवादिनां मतम् । तदसुन्दरम् । प्राथमिकस्यापि प्रतिपत्ति क्रमादर्शनात् । न हि विधिं प्रतिपद्य कश्चिदर्थापत्तितः पश्चादपोहमवगच्छति । अपोहं वा प्रतिपद्यान्यापोढम् । तस्माद्गोः प्रतिपत्तिरित्यन्यापोढप्रतिपत्तिरुच्यते । यद्यपि चान्यापोढशब्दानुल्लेख उक्तस्तथापि नाप्रतिपत्तिरेव विशेषणभूतस्यान्यापोहस्य । अगवापोढ एव गोशब्दस्य निवेशितत्वात् । यथा नीलोत्पले निवेशितादिन्दीवरशब्दान्नीलोत्पलप्रतीतौ तत्काल एव नीलिमस्फुरणमनिवार्यं तथा गोशब्दादप्यगवापोढे निवेशिताद्गोप्रतीतौ तुल्यकालमेव विशेषणत्वादगोऽपोहस्फुरणमनिवार्यम् । यथा प्रत्यक्षस्य प्रसज्यरूपाभावाग्रहणमभावविकल्पोत्पादनशक्तिरेव तथा विधिविकल्पानामपि तदनुरूपानुष्ठानदानशक्तिरेवाभावग्रहणमभिधीयते । पर्युदासरूपाभावग्रहणं तु नियतस्वरूपसंवेदनमुभयोरविशिष्टम् । अन्यथा यदि शब्दादर्थप्रतिपत्तिकाले कलितो न परापोहः कथमन्यपरिहारेण प्रवृत्तिः । ततो गां बधानेति चोदितोऽश्वादीनपि बध्नीयात् ॥
यदप्यवोचद्वाचस्पतिः जातिमत्यो व्यक्तयो विकल्पानां शब्दानां च गोचरः । तासां च तद्वतीनां रूपमतज्जातीयपरावृत्तमित्यतस्तदवगतेर्न गां बधानेति चोदितोऽश्वादीन् बध्नाति । तदप्यनेनैव निरस्तम् । यतो जातेरधिकायाः प्रक्षेपेऽपि व्यक्तीनां रूपमतज्जातीयपरावृत्तमेव चेत्, तदा तेनैव रूपेण शब्दविकल्पयोर्विषयीभवन्तीनां कथमतद्वयावृत्तिपरिहारः ॥
अथ न विजातीयव्यावॄत्तं व्यक्तिरूपं तथाप्रतीतं वा तदा जातिप्रसाद एष इति कथमर्थतोऽपि तदवगतिरित्युक्तप्रायम् ।
अथ जातिबलादेवान्यतोव्यावृतम् । भवतु जातिबलात्स्वहेतुपरम्पराबलाद्वान्यव्यावृतम् । उभयथापि व्यावृत्तप्रतिपतौ व्यावृत्तिप्रतिपत्तिरस्त्येव ।
(निबन्ध्६०)
न चागवापोढे गोशब्दसङ्केतविधावन्यीन्याश्रयदोषः । सामान्ये तद्वति वा संकेतेऽपि तद्दोषावकाशात् । न हि सामान्यं नाम सामान्यमात्रमभिप्रेतम्, तुरगेऽपि गोशब्दसंकेतप्रसङ्गात् । किं तु गोत्वम् । तावता च स एव दोषः । गवादिपरिज्ञाने गोत्वसामान्यापरिज्ञानात् । गोत्वसामान्यापरिज्ञाने गोशब्दवाच्या परिज्ञानात् ।
तस्मादेकपिण्डदर्शनपूर्वको यः सर्वव्यक्तिसाधारण इव बहिरघ्यस्तो विकल्पबुद्ध्याकारः तत्रायं गौरिति संकेतकरणे नेतरेतराश्रयदोषः ।
अभिमते च गोशब्दप्रवृत्तावगोशब्देन शेषस्याप्यभिधानमुचितम् । न चान्यापोढान्यापोहयोर्विरोधो विशेष्यविशेषणभावक्षतिर्वा, परस्परव्यवच्छेदाभावात् । सामानाधिकरण्यसद्भावात् । भूतलघटाभाववत् । स्वाभावेन हि विरोधो न पराभावेनेत्याबालप्रसिद्धम् । एष पन्थाः श्रुघ्नमुपतिष्ठत इत्यत्राप्यपोहो गम्यत एव । अप्रकृतपथान्तरापेक्षया एष एव श्रुध्नप्रत्यनीकानिष्टस्थानापेक्षया श्रुघ्नमेव । अरण्यमार्गवद्विच्छेदाभावादुपतिष्ठत एव । सार्थदूतादिव्यवच्छेदेन पन्था एवेति प्रतिपदं व्यवच्छेदस्य सुलभत्वात् । तस्मादपोहधर्मणो विधिरूपस्य शब्दादवगतिः पुण्डरीकशब्दादिव श्वेतिमविशिष्टस्य पद्मस्य ॥
यद्येवं विधिरेव शब्दार्थो वक्तुमुचितः, कथमपोहो गीयत इति चेत् । उक्तमत्रापोहशब्देनान्यापोहविशिष्टो विधिरुच्यते । तत्र विधौ प्रतीयमाने विशेषणतया तुल्यकालमन्यापोहप्रतीतिरिति ।
न चैव प्रत्यक्षस्याप्यपोहविषयत्वव्यवस्था कर्तमुचिता । तस्य शाब्दप्रत्ययस्येव वस्तुविषयत्वे विवादाभावात् । विधिशब्देन च यथाध्यवसायमतद्रूपपरावृत्तो बाह्योऽर्थोभिमतः, यथाप्रतिभासं बुद्ध्याकारश्च । तत्र बाह्योऽर्थोऽध्यवसायादेव शब्दवाच्यो व्यवस्थाप्यते । न स्वलक्षणपरिस्फूर्त्या । प्रत्यक्षवद्देशकालावस्थानियतप्रव्यक्तस्वलक्षणास्फुरणात् । यच्छास्त्रम्
शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात् ।
अर्थस्य दृष्टाविव
इति । इन्द्रियशब्दस्वभावोपायभेदादेकस्यैवार्थस्य प्रतिभासभेद इति चेत् ।
अत्राप्युक्तम् -
जातो नामाश्रयोन्यान्यः चेतसां तस्य वस्तुतः ।
एकस्यैव कुतो रूपं भिन्नाकारावभासि तत् ॥
न हि स्पष्टास्पष्टे द्वे रूपे परस्परविरुद्धे एकस्य वस्तुनः स्तः । यत एकेनेन्द्रियबुद्धौ प्रतिभासेतान्येन विकल्पे । तथा सति वस्तुन एव भेदप्राप्तेः । (निबन्ध्६१) न हि स्वरूपभेदादपरो वस्तुभेदः । न च प्रतिभासभेदादपरः स्वरूपभेदः । अन्यथा त्रैलोक्यमेकमेव वस्तु स्यात् ॥
दूरासन्नदेशवर्तिनोः पुरुषयोरेकत्र शाखिनि स्पष्टास्पष्टप्रतिभासभेदेऽपि न शाखिभेद इति चेत् । न ब्रूमः प्रतिभासभेदो भिन्नवस्तुनियतः, किं त्वेकविषयत्वाभावनियत इति । ततो यत्रार्थक्रियाभेदादिसचिवः प्रतिभासभेदस्तत्र वस्तुभेदः, घटवत् । अन्यत्र पुनर्नियमेनैकविषयतां परिहरतीत्येकप्रतिभासो भ्रान्तः ॥
एतेन यदाह वाचस्पतिः - न च शाब्दप्रत्यक्षयोर्वस्तुगोचरत्वे प्रत्ययाभेदः कारणभेदेन पारोक्ष्यापारोक्ष्यभेदोपपत्तेरिति, तन्नोपयोगि । परोक्षप्रत्ययस्य वस्तुगोचरत्वासमर्थतात् । परोक्षताश्रयस्तु कारणभेद इन्द्रियगोचरग्रहणविरहेणैव कृतार्थः । तन्न । शाब्दे प्रत्यये स्वलक्षणं परिस्फुरति । किं च स्वलक्षणात्मनि वस्तुनि वाच्ये सर्वात्मना प्रतिपत्तेः विधिनिषेधयोरयोगः । तस्य हि सद्भावेऽस्तीति व्यर्थम्, नास्तीत्यसमर्थम् । असद्भावे तु नास्तीति व्यर्थम्, अस्तीत्यसमर्थम् । अस्ति चास्त्यादिपदप्रयोगः । तस्मात्शाब्दप्रतिभासस्य बाह्यार्थभावाभावसाधारण्यं न तद्विषयतां क्षमते ॥
यच्च वाचस्पतिना जातिमद्व्यक्तिवाच्यतां स्ववाचैव प्रस्तुत्यान्तरमेव न च शब्दार्थस्य जातेर्भावाभावसाधारण्यं नोपपद्यते । सा हि स्वरूपतो नित्यापि देशकालविप्रकीर्णानेकव्यक्त्याश्रयतया भावाभावसाधारणीभवन्त्यस्तिनास्तिसंबन्धयोग्या । वर्तमानव्यक्तिसंबन्धिता हि जातेरस्तिता । अतीतानागतव्यक्तिसंबन्धिता च नास्तितेति सन्दिग्धव्यतिरेकित्वादनैकान्तिकं भावाभावसाधारण्यम्, अन्यथासिद्धं वेति विकल्पितम् । तदप्रस्तुतम् । तावता तावन्न प्रकृतक्षतिः । जातौ भरं न्यस्यता स्वलक्षणवाच्यत्वस्य स्वयं स्वीकारात् । किं च सर्वत्र पदार्थस्यस्वलक्षणस्वरूपेणैवास्तित्वादिकं चिन्त्यते । जातेस्तु वर्तमानादिव्यक्तिसंवधीऽस्तित्वादिकमिति तु बालप्रतारणम् । एवं जातिमद्व्यक्तिवचनेऽपि दोषः । व्यक्तेश्चेत्प्रतीतिसिद्धिः जातिरधिका प्रतीयतां मा वा, न तु व्यक्तिप्रतीतिदोषान्मुक्तिः ।
एतेन यदुच्यते कौमारिलैः सभागत्वादेव वस्तुनो न साधारण्यदोषः । वृक्षत्वं ह्यनिर्धारितभावाभावं शब्दादवगम्यते । तयोरन्यतरेण शब्दान्तरावगतेन संबध्यत इति । तदप्यसङ्गतम् । सामान्यस्य नित्यस्य प्रतिपत्ताबनिर्धारितभावाभावत्वायोगात् ।
(निबन्ध्६२)
यच्चेदम् - न च प्रत्यक्षस्येव शब्दानामर्थप्रत्यायनप्रकारो येन तद्दृष्ट इवास्त्यादिशब्दापेक्षा न स्यात्, विचित्रशक्तित्वात्प्रमाणानामिति । तदप्यैन्द्रियकशाब्दप्रतिभासयोरेकस्वरूपग्राहित्वे भिन्नावभासदूषणेन दूषितम् । विचित्रशक्तित्वं च प्रमाणानां साक्षात्काराध्यवसायाभ्यामपि चरितार्थम् । ततो यदि प्रत्यक्षार्थप्रतिपादनं शाब्देन तद्वदेवावभासः स्यात् । अभवंश्व न तद्विषयख्यापनं क्षमते ॥
ननु वृक्षशब्देन वृक्षत्वांशे चोदिते सत्त्वाद्यंशनिश्चयनार्थमस्त्यादिपदप्रयोग इति चेत् ।
निरंशत्वेन प्रत्यक्षसमधिगतस्य स्वलक्षणस्य कोऽवकाशः पदान्तरेण । धर्मान्तरविधिनिषेधयोः प्रमाणान्तरेण वा । प्रत्यक्षेऽपि प्रमाणान्तरापेक्षा दृष्टेति चेत् । भवतु तस्यानिश्चयात्मकत्वादनभ्यस्तस्वरूपविषये । विकल्पस्तु स्वयं निश्चयात्मको यत्र ग्राही तत्र किमपरेण । अस्ति च शब्दलिङ्गान्तरापेक्षा । ततो न वस्तुस्वरूपग्रहः ॥
ननु भिन्ना जात्यादयो धर्माः परस्परं धर्मिणश्चेति जातिलक्षणैकधर्मद्वारेण प्रतीतेऽपि शाखिनि धर्मान्तरवत्तया न प्रतीतिरिति किं न भिन्नाभिधानाधीनो धर्मान्तरस्य नीलचलोच्चैस्तरत्वादेरवबोधः । तदेतदसङ्गतम् । अखण्डात्मनः स्वलक्षणस्य प्रत्यक्षेऽपि प्रतिभासात् । दृश्यस्य धर्मधर्मिभेदस्य प्रत्यक्षप्रतिक्षिप्तत्वात् । अन्यथा सर्वं सर्वत्र स्यादित्यतिप्रसङ्गः । काल्पनिकभेदाश्रयस्तु धर्मधर्मिव्यवहार इति प्रसाधितं शास्त्रे ।
भवतु वा पारमार्थिकोऽपि धर्मधर्मिभेदः । तथाप्यनयोः समवायादेर्दूषितत्वादुपकारलक्षणैव प्रत्यासत्तिरेषितव्या । एवं च यथेन्द्रियप्रत्यासत्त्या प्रत्यक्षेण धर्मिप्रतिपत्तौ सकलतद्धर्मप्रतिपत्तिस्तथा शब्दलिङ्गाभ्यामपि वाच्यवाचकादिसंबन्धप्रतिबद्धाभ्यां धर्मिप्रतिपत्तौ निरवशेषतद्धर्मप्रतिपत्तिर्भवेत् । प्रत्यासतिमात्रस्याविशेषात् ॥
यच्च वाचस्पति, न चैकोपाधिना सत्त्वेन विशिष्टे तस्मिन् गृहीते उपाध्यन्तरविशिष्टस्तद्ग्रहः । स्वभावो हि द्रव्यस्योपाधिभिर्विशिष्यते । न तूपाधयो वा विशेष्यत्वं वा तस्य स्वभाव इति । तदपि प्लवत एव । न ह्यभेदादुपाध्यन्तरग्रहणमासञ्जितम् । भेदं पुरस्कृत्यैवोपकारकग्रहणे उपकार्यग्रहणप्रसञ्जनात् । न चाग्निधूमयोः कार्यकारणभाव इव स्वभावत एव धर्मधर्मिणोः प्रतिपत्तिनियमकल्पनमुचितम् । (निबन्ध्६३) तयोरपि प्रमाणासिद्धत्वात् । प्रमाणसिद्धे च स्वभावोपवर्णनमिति न्यायः ॥
यच्चात्र न्यायभूषणेन सूर्यादिग्रहणे तदुपकार्याशेषवस्तुराशिग्रहणप्रसञ्जनमुक्तम्, तदभिप्रायानवगाहनफलम् । तथा हि त्वन्मते धर्मधर्मिणोर्भेदः, उपकारलक्षणैव च प्रत्यासत्तिस्तदोपकारकग्रहणे समानदेशस्यैव धर्मरूपस्यैव चोपकार्यस्य ग्रहणमासञ्जितम् । तत्कथं सूर्योपकार्यस्य भिन्नदेशस्य द्रव्यान्तरस्य वा दृष्टव्यभिचारस्य ग्रहणप्रसङ्गः सङ्गतः । तस्मादेकधर्मद्वारेणापि वस्तुस्वरूपप्रतिपत्तौ सर्वात्मप्रतीतेः क्व शब्दान्तरेण विधिनिषेधावकाशः । अस्ति च । तस्मान्न स्वलक्षणस्य शब्दविकल्पलिङ्गप्रतिभासित्वमिति स्थितम् ॥
नापि सामान्यं शाब्दप्रत्ययप्रतिभासि । सरितः पारे गावश्चरन्तीति गवादिशब्दात्सास्नाशृङ्गलाङ्गूलादयोऽक्षराकारपरिकरिताः सजातीयभेदापरामर्शनात्सम्पिण्डितप्रायाः प्रतिभासन्ते । न च तदेव सामान्यम् ।
वर्णाकृत्यक्षराकारशून्यं गोत्वं हि कथ्यते ।
तदेव च सास्नाशृङ्गादिमात्रमखिलव्यक्तावत्यन्तविलक्षणमपि स्वलक्षणेनैकीक्रियमाणं सामान्यमित्युच्यते तादृशस्य बाह्यस्याप्राप्तेर्भ्रान्तिरेवासौ केशप्रतिभासवत् । तस्माद्वासनावशाद्बुद्धेरेव तदात्मना विवर्तोऽयमस्तु । असदेव वा तद्रूपं ख्यातु । व्यक्तय एव वा स्वजातीयभेदतिरस्कारेणान्यथा भासन्तामनुभवव्यवधानात्स्मृतिप्रमोषो वाभिधीयताम् । सर्वथा निर्विषयः खल्वयं सामान्यप्रत्ययः । क्व सामान्यवार्ता ।
यत्पुनः सामान्याभावे सामान्यप्रत्ययस्याकस्मिकत्वमुक्तं तदयुक्तम् । यतः पूर्वपिण्डदर्शनस्मरणसहकारिणातिरिच्यमानविशेषप्रत्ययजनिका सामग्री निर्विषयं सामान्यविकल्पमुत्पादयति । तदेवं न शाब्दे प्रत्यये जातिः प्रतिभाति । नापि प्रत्यक्षे । न चानुमानतोऽपि सिद्धिः । अदृश्यत्वे प्रतिबद्धलिङ्गादर्शनात् । नापोन्द्रियवदस्याः सिद्धिः ज्ञानकार्यतः कादाचित्कस्यैव निमित्तान्तरस्य सिद्धेः । यदा पिण्डान्तरे अन्तराले वा गोबुद्धेरभावं दर्शयेत्तदा शावलेयादिसकलगोपिण्डानामेवाभावादभावो गोबुद्धेरुपपद्यमानः कथमर्थान्तरमाक्षिपेत् । अथ गोत्वादेव गोपिण्डः । अन्यथा तुरगोऽपि गोपिण्डः स्यात् । यद्येवं गोपिण्डादेव गोत्वमन्यथा तुरगत्वमपि गोत्वं स्यात् । तस्मात्कारणपरम्परात एव (निबन्ध्६४) गोपिण्डो गोत्वं तु भवतु मा वा । ननु सामान्यप्रत्ययजननसामर्थ्यं यद्येकस्मात्पिण्डादभिन्नं तदा विजातीयव्यावॄत्तं पिण्डान्तरमसमर्थम् । अथ भिन्नम्, तदा तदेव सामान्यम्, नाम्नि परं विवाद इति चेत् । अभिन्नैव सा शक्तिः प्रतिवस्तु । यथा त्वेकः शक्तस्वभावो भावस्तथान्योऽपि भवन् कीदृशं दोषमावहति । यथा भवतां जातिरेकापि समानध्वनिप्रसवहेतुः, अन्यापि स्वरूपेणैव जात्यन्तरनिरपेक्षा, तथास्माकं व्यक्तिरपि जातिनिरपेक्षा स्वरूपेणैव भिन्ना हेतुः ॥
यत्तु त्रिलोचनः - अश्वत्वगोत्वादीनां सामान्यविशेषाणां स्वाश्रये समवायः सामान्यं सामान्यमित्यभिधानप्रत्यययोर्निमित्तमिति । यद्येवं व्यक्तिष्वप्ययमेव तथाभिधानप्रत्ययहेतुरस्तु, किं सामान्यस्वीकारप्रमादेन । न च समवायः संभवी ।
इहेति बुद्धेः समवायसिद्धिरिहेति धीश्च द्वयदर्शनेन ।
न च क्वचित्तद्विषये त्वपेक्षा स्वकल्पनामात्रमतोऽभ्युपायः ॥
एतेन सेयं प्रत्ययानुवृत्तिरनुवृत्तवस्त्वनुयायिनी कथमत्यन्तभेदिनीषु व्यक्तिषु व्यावृत्तविषयप्रत्ययभावानुपातिनीषु भवितुमर्हतीत्यूहाप्रवर्तनमस्य प्रत्याख्यातम् । जातिष्वेव परस्परव्यावृत्ततया व्यक्तीयमानास्वनुवृत्तप्रत्ययेन व्यभिचारात् ।
यत्पुनरनेन विपर्यये बाधकमुक्तम्, अभिधानप्रत्ययानुवृत्तिः कुतश्चिन्निवृत्त्य क्वचिदेव भवन्ती निमित्तवती, न चान्यन्निमित्तमित्यादि । तन्न सम्यक् । अनुवृत्तमन्तरेणाप्यभिधानप्रत्ययानुवृत्तेरतद्रूपपरावृत्तस्वरूपविशेषादवश्यं स्वीकारस्य साधितत्वात् । तस्मात्-
तुल्ये भेदे यया जातिः प्रत्यासत्त्या प्रसर्पति ।
क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम् ॥
यत्पुनरत्र न्यायभूषणोक्तं न ह्येवं भवति, यया प्रत्यासत्त्या दण्डसूत्रादिकं प्रसर्पति क्वचिन्नान्यत्र सैव प्रत्यासत्तिः पुरुषस्फटिकादिषु दण्डिसूत्रित्वादिव्यवहारनिबन्धनमस्तु, किं दण्डसूत्रादिनेति । तदसङ्गतम् । दण्डसूत्रयोर्हि पुरुषस्फटिकप्रत्यासन्नयोः दृष्टयो दण्डिसूत्रित्व प्रत्ययहेतुत्वं नापलप्यते । सामान्यं तु स्वप्नेऽपि न दृष्टम् । तद्यदीदं परिकल्पनीयं तदा वरं प्रत्यासत्तिरेव सामान्यप्रत्ययहेतुः परिकल्प्यताम्, किं गुर्व्या परिकल्पनयेत्यभिप्रायापरिज्ञानात् ।
(निबन्ध्६५)
अथेदं जातिप्रसाधकमनुमानमभिधीयते । यद्विशिष्टज्ञानं तद्विशेषणग्रहणनान्तरीयकम् । यथा दण्डिज्ञानम् । विशिष्टज्ञानं चेदं गौरयमित्यर्थतः कार्यहेतुः । विशेषणानुभवकार्यं हि दृष्टान्ते विशिष्टबुद्धिः सिद्धेति । अत्रानुयोगः । विशिष्टबुद्धेर्भिन्नविशेषणग्रहणनान्तरीयकत्वं वा साध्यं विशेषणमात्रानुभवनान्तरीयकत्वं वा ।
प्रथमपक्षे पक्षस्य प्रत्यक्षबाधा साधनावधानमनवकाशयति, वस्तुग्राहिणः प्रत्यक्षस्योभयप्रतिभासाभावात् । विशिष्टबुद्धित्वं च सामान्यहेतुरनैकान्तिकः, भिन्नविशेषणग्रहणमन्तरेणापि दर्शनात् । यथा स्वरूपवान् घटः, गोत्वं सामान्यमिति वा ।
द्वितीयपक्षे तु सिद्धसाधनम् । स्वरूपवान् घट इत्यादिवत्गोत्वजातिमान् पिण्ड इति परिकल्पितं भेदमुपादाय विशेषणविशेष्यभावस्येष्टत्वादगोव्यावृत्तानुभवभावित्वाद्गौरयमिति व्यवहारस्य । तदेवं न सामान्यसिद्धिः । बाधकं च सामान्यगुणकर्माद्युपाधिचक्रस्य केवलव्यक्तिग्राहकं पटुप्रत्यक्षं दृश्यानुपलम्भो वा प्रसिद्धः ।
तदेवं विधिरेव शब्दार्थः । स च बाह्योऽर्थो बुद्ध्याकारश्च विवक्षितः । तत्र न बुद्ध्याकारस्य तत्त्वतः संवृत्या वा विधिनिषेधौ, स्वसंवेदनप्रत्यक्षगम्यत्वात् । अनध्यवसायाच्च । नापि तत्त्वतो बाह्यस्यापि विधिनिषेधौ, तस्य शाब्दे प्रत्ययेप्रतिभासनात् । अत एव सर्वधर्माणां तत्त्वतोऽनभिलाप्यत्वं प्रतिभासाध्यवसायाभावात् । तस्माद्बाह्यस्यैव सांवृतौ विधिनिषेधौ । अन्यथा संव्यवहारहानिप्रसङ्गात् । तदेवं
नाकारस्य न बाह्यस्य तत्त्वतो विधिसाधनम् ।
बहिरेव हि संवृत्या संवृत्यापि तु नाकृतेः ॥
एतेन यद्धर्मोत्तरः आरोपितस्य बाह्यत्वस्य विधिनिषेधावित्यलौकिकमनागममतार्किकीयं कथयति, तदप्यपहस्तितम् ।
नन्वव्यवसाये यद्यध्यवसेयं वस्तु न स्फुरति तदा तदध्यवसितमिति कोऽर्थः । अप्रतिभासेऽपि प्रवृत्तिविषयीकृतमिति योऽर्थः । अप्रतिभासाविशेषे विषयान्तरपरिहारेण कथं नियतविषया प्रवृत्तिरिति चेत् । उच्यते । यद्यपि विश्वमगृहीतं तथापि विकल्पस्य नियतसामग्रीप्रसूतत्वेन नियताकारतया, नियतशक्तित्वात्नियतैव जलादौ प्रवृत्तिः । धूमस्य परोक्षाग्निज्ञानजननवत् ।
(निबन्ध्६६)
नियतविषया हि भावाः प्रमाणपरिनिष्ठितस्वभावा न शक्तिसांकर्यपर्यनुयोगभाजः । तस्मात्तदध्यवसायित्व माकारविशेषयोगात्तत्प्रवृत्तिजनकत्वम् । न च सादृश्यादारोपेण प्रवृत्तिं ब्रूमः, येनाकारे बाह्यस्य बाह्ये वा आकारस्यारोपद्वारेण दूषणाबकाशः । किं तर्हि स्ववासनाविपाकवशादुपजायमानैव बुद्धिरपश्यन्त्यपि बाह्यं बाह्ये प्रवृत्तिमातनोतीति विप्लुतैव । तदेवमन्याभावविशिष्टो विजातिव्यावृत्तोऽर्थो विधिः । स एव चापोहशब्दवाच्यः शब्दानामर्थः प्रवृत्तिनिवृत्तिविषयश्चेति स्थितम् ।
अत्र प्रयोगः । यद्वाचकं तत्सर्वमध्यवसितातद्रूपपरावृतवस्तुमात्रगोचरम् । यथेह कूपे जलमिति वचनम् । वाचकं चेदं गवादिशब्दरूपमिति स्वभावहेतुः । नायमसिद्धः । पूर्वोक्तेन न्यायेन पारमार्थिकवाच्यवाचकभावस्याभावेऽप्यध्यवसायकृतस्यैव सर्वव्यवहारिभिरवश्यं स्वीकर्त्तव्यत्वात् । अन्यथा सर्वव्यवहारोच्छेदप्रसङ्गात् । नापि विरुद्धः । सपक्षे भावात् । न चानैकान्तिकः । तथा हि शब्दानामध्यवसितविजातिव्यावृत्तवस्तुमात्रविषयत्वमनिच्छद्भिः परैः परमार्थतो
वाच्यं स्वलक्षणमुपाधिरुपाधियोगः सोपाधिरस्तु यदि वा कृतिरस्तु बुद्धः ।
गत्यन्तराभावात् । अविषयत्वे च वाचकत्वायोगात् ।
तत्र आद्यन्तयोर्न समयः फलशक्तिहानेर्मध्येऽप्युपाधिविरहात्त्रितयेन युक्तः ॥
तदेवं वाच्यान्तरस्याभावात्विषयवत्त्वलक्षणस्य व्यापकस्य निवृत्तौ विपक्षतो निवर्त्तमानं वाचकत्वमध्यवसितबाह्यविषयत्वेन व्याप्यत इति व्याप्तिसिद्धिः ।
महापण्डितरत्नकीर्तिपादविरचितमपोहप्रकरणं समाप्तम् ॥
(निबन्ध्६७)
-------------------------------------------------------------