.. श्री ऋभुगीता ..
प्रथमोऽध्यायः |
श्री गुरुमूर्तिः |
पुनर्ज्ञानं प्रवक्ष्यामि यथावत्पद्मसम्भव |
येनैव सर्वे मुच्यन्ते जनास्संसारबन्धनात् || १. ०१||
विधे पुरा निदाघाख्यो मुनिः पप्रच्छ सद्गुरुम् |
ऋभुसंज्ञं महाप्राज्ञं तद्वदामि तवाधुना || १. ०२||
निदाघः |
आत्मानात्मविवेकं मे कृपया ब्रूहि सद्गुरो |
येन संसारपादोधिं तरिष्यामि सुखेन वै || १. ०३||
ऋभुरेवं तदा पृष्ट उवाच सकलार्थवित् |
सर्ववेदान्तसारज्ञस्सर्वपूज्यो महत्तमः || १. ०४||
ऋभुः |
सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्ताऽवधिर्गुरुः |
सर्वकारणकार्यात्मा कार्यकारणवर्जितः || १. ०५||
सर्वसंकल्परहितस्सर्वनादमयश्शिवः |
सर्ववर्जितचिन्मात्रस्सर्वानन्दमयः परः || १. ०६||
सर्वतेजः प्रकाशात्मा नादानन्दमयात्मकः |
सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः || १. ०७||
सर्वनादकलातीत एष आत्माऽहमव्ययः |
आत्मानात्मविवेकादि भेदाभेदविवर्जितः || १. ०८||
शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरात्मकः |
महावाक्यार्थतो दूरो ब्रह्मास्मीत्यति दूरगः || १. ०९||
तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः |
क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः || १. १०||
अखण्डैकरसो वाऽहमानन्दोस्मीति वर्जितः |
सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः || १. ११||
आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः |
सच्चिदानन्दहीनो य एषैवात्मा सनातनः || १. १२||
ननिर्देष्टुं च शक्नो यो वेदवाक्यैरगम्यकः |
यस्य किन्चिद्बहिर्नास्ति किन्चिदन्तः कियन्नच || १. १३||
यस्य लिगं प्रपंचं वा ब्रह्मैवात्मा न संशयः |
नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः || १. १४||
नामरूपाऽदिकं नास्ति भोज्यं वा भोगभुक्च वा |
स्द्वाऽसद्वा स्थितिर्वाऽपि यस्य नास्ति क्षराक्षरम् || १. १५||
गुणं वा विगुणं वाऽपि सम आसीन् न संशयः |
यस्य वाच्यं वाचकं वा श्रवणं मननं च वा || १. १६||
गुरुशिष्याऽदि भेदं वा देवलोकास्सुरासुराः |
यत्र धर्ममधर्मं वा शुद्धं वाऽशुद्धमण्वपि || १. १७||
यत्र कालमकालं वा निश्चयं संशयं नहि |
यत्र मन्त्रममन्त्रं वा विद्याऽविद्ये न विद्यते || १. १८||
द्रष्टृदर्शनदृश्यं वा ईषण्मात्रं कलादिकम् |
अनात्मेति प्रसंगो वा ह्यनात्मेति मनोपि वा || १. १९||
अनात्मेति जगद्वाऽपि नास्ति नास्तीति निश्चिनु |
सर्वसंकल्पशून्यत्वात् सर्वकार्यविवर्जनात् || १. २०||
केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु |
देहत्रयविहीनत्वात् कालत्रयविवर्जनात् || १. २१||
लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात् |
चित्ताभावान्नचिन्तास्ति देहाभावाज्जरा न च || १. २२||
पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया न च |
मृत्युर्नास्ति जराऽभावात् बुद्ध्यभावात् सुखादिकम् || १. २३||
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च |
अक्षरोच्चारणम् नास्ति गुरुशिष्यादि नास्त्यपि || १. २४||
एकाभावे द्वितीयं न न द्वितीये नचैकता |
सत्यत्वमस्तिचेत् किंचिदसत्यं न च संभवेत् || १. २५||
असत्यत्वं यदि भवेत् सत्यत्वं न वदिष्यति |
शुभं यद्यशुभं विद्धि अशुभाच्चुभमिष्यते || १. २६||
भयं यद्यभयं विद्धि अभयाद्भयमापतेत् |
बन्धत्वमपिचेन्मोक्षो बन्धाभावे न मोक्षता || १. २७||
मरणम् यदि चेज्जन्म जन्माभावे मृतिर्नच |
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न || १. २८||
इदं यदि तदेवास्ति तदभावादिदं न च |
अस्तीति चेन्नास्ति तदा नास्तिचेदस्ति किन्चन || १. २९||
कार्यं चेत्कारणम् किंचित् कार्याभावे न कारणम् |
द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं न च || १. ३०||
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न |
अन्तर्यदि बहिस्सत्यमन्ताभावे बहिर्नच || १. ३१||
पूर्णत्वमस्ति चेद्किंचिदपूर्णत्वं प्रसज्यते |
तस्मादेतद्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् || १. ३२||
नास्ति दृष्टान्तकस्सत्ये नास्तिदार्ष्टान्तिकं ह्यजे |
परं ब्रह्माहमस्मीति स्मरणस्य मनो नहि || १. ३३||
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् |
चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु || १. ३४||
इदं प्रपंचं नास्त्येव नोत्पन्नं नोस्थितं क्वचित् |
चित्तं प्रपंचमित्याहुर्नास्ति नास्त्येव सर्वदा || १. ३५||
न प्रपंचं न चित्तदि नाहंकारो न जीवकः |
मायाकार्यादिकं नास्ति माया नास्ति भयं न च || १. ३६||
कर्ता नास्ति क्रिया नास्ति श्रवणं मननं न हि |
समाधि द्वितयं नास्ति मातृमानादि नास्ति हि || १. ३७||
अज्ञानं चापि नास्त्येव ह्यविवेकः कदा च न |
अनुबन्धचतुष्कं न संबन्धत्रयमेव न || १. ३८||
न गंगा न गया सेतुर्न भूतं नान्यदस्ति हि |
न भूमिर्न जलं नाग्निर्न वायुर्न च खं क्वचित् || १. ३९||
न देवो न च दिक्पाला न वेदा न गुरुः क्वचित् |
न दूरं नातिकं नान्तं न मध्यं न क्वचित् स्थितम् || १. ४०||
नाद्वैतद्वैतसत्यं वा ह्यसत्यं वा इदं च न |
बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा || १. ४१||
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् |
सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्येव नास्ति हि || १. ४२||
चिदित्येवेति नास्त्येव चिदहं भाषणं नहि |
अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोस्मि न क्वचित् || १. ४३||
वाचा यदुच्यते किंचिन् मनसा मनुते क्वचित् |
बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि || १. ४४||
योगियोगादिकं नास्ति सदा सर्वं सदा न च |
अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि || १. ४५||
भ्रान्त्यभ्रान्त्यादिकं नास्ति नास्त्यनात्मेति निश्चिनु |
वेदश्शास्त्रं पुराणं च कार्यं कारणमीश्वरः || १. ४६||
लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः |
वाचा वदति यत्किंचित्संकल्पैः कल्प्यते च यत् || १. ४७||
मनसा चिन्त्यते यद्यत् सर्वं मिथ्या न संशयः |
बुद्ध्या निश्चीयते किंचिच्चित्ते निश्चीयते क्वचित् || १. ४८||
शास्त्रैः प्रपंच्यते यद्यत् नेत्रेणैव निरीक्ष्यते |
श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च || १. ४९||
त्वमहं तदिदं सोऽहमन्यत् सद्भावमेव च |
नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् || १. ५०||
इदं मिध्यैवनिर्दिष्टमयमित्येव कल्प्यते |
यद्यत्संभाव्यते लोके सर्वं संकल्पसंभ्रमः || १. ५१||
सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् |
सर्वदोषप्रभेदं च नास्त्यनात्मेति निश्चिनु || १. ५२||
मदीयं च त्वदीयं च ममेति च तवेति च |
मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् || १. ५३||
रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् |
संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु || १. ५४||
स्नानं जपस्तपो होमस्स्वाध्यायो देवपूजनम् |
मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृभणम् || १. ५५||
अन्तःकरण सद्भावोऽविद्यायाश्च संभवः |
अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु || १. ५६||
सर्वदेशिकवाक्योक्तिर्येनकेनापि निश्चिता |
दृश्यते जगति यद्यत् यद्यज्जगति वीक्ष्यते || १. ५७||
वर्तते जगति यद्यत् सर्वं मिथ्येति निश्चिनु |
येनेकेनाक्षरेणोक्तं येनेकेन विवर्णितम् || १. ५८||
येनेकेनापि गदितं येनेकेनापि मोदितम् |
येनेकेनापि यद्दत्तं येनकेनापि यत्कृतम् || १. ५९||
यत्रयत्र शुभं कर्म यत्रयत्र च दुष्कृतम् |
यद्यत्करोति सत्येन सर्वं मिथ्येति निश्चिनु || १. ६०||
इदं प्रपंचं यत्किंचित् यद्यज्जगति विद्यते |
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् || १. ६१||
श्री गुरुमूर्तिः |
एवं श्रुत्वा निदाघस्स ब्रह्मन् संशयवेष्टितः |
ऋभुं पप्रच्छ पुनरप्यात्मविज्ञानसिद्धये || १. ६२||
निदाघः |
स्वामिन् मुमुक्षोस्संसारान् ममारूपेण वस्तुना |
प्रपंचितेन न फलं भवेदिति मे मतिः || १. ६३||
यतस्त्वद्कथितं ब्रह्म तत्त्वमस्याद्यगोचरम् |
अखण्डैकरसातीतं मोक्षातीतं च सद्गुरो || १. ६४||
ज्ञेयत्वादिविहीनं तत् कथं ज्ञास्याम्यहं नु वा |
तज्ज्ञानेन फलं किं वा मोक्षस्यैव फलत्वतः || १. ६५||
फलमास्तिक्यबुद्ध्या स्यान् न चैवंभूतवस्तुनः |
त्वदुक्त निश्चये सर्वसांकर्यं च प्रसज्यते || १. ६६||
यद्युक्त व्यतिरिक्तानां सर्वेषां स्यादनात्मता |
हेयत्वान्नैव जिज्ञास्यं किंचिदप्यत्र सिद्ध्यति || १. ६७||
शशशृंग समानत्वं यथाप्रोक्तमनात्मनाम् |
अत्यन्तारूपवत्त्वेन तथा तत्सिद्धिरात्मनः || १. ६८||
अथवा तत् तथैवास्ताम् अन्यथावापि मे गुरो |
यज्ज्ञानेन भवान्मुक्तिर्भवेत् तद् ब्रूहि वेदितुम् || १. ६९||
एवम् उक्तो निदाघेन कुशाग्रमतिना परम् |
ऋभुस्सन्तुष्टहृदयः पुनरेवाब्रवीदिदम् || १. ७०||
ऋभुः |
निदाघ सत्यमेवैतत्त्वदुक्तं युक्तिगर्भितम् |
तथापि युक्तं मद्वाक्यं त्रैविद्ध्याज्ज्ञेयवस्तुनः || १. ७१||
सगुणं निर्गुणं ताभ्याम् अन्यन्निष्प्रतियोगिकम् |
ब्रह्मैवं त्रिविधं लिन्गैर्वेदान्तेषु हि विश्रुतम् || १. ७२||
तत्राद्यं हेयगुणकं सोपाधित्वान्मुमुक्षुभिः |
तत्त्वमस्यादिवाच्यत्वाज्ज्ञेयं हेयतयाग्रतः || १. ७३||
जीवेश्वरविभागेन सगुणं द्विविधं भवेत् |
जीवश्च त्रिविधस्तद्वद् ईशश्चास्ताम् इदं तथा || १. ७४||
उपादेयं द्वितीयं स्यान्निर्गुणं मोक्षकांक्षिभिः |
तत्त्वमस्यादिलक्ष्यत्वाज्ज्ञेयं चात्मतया ततः || १. ७५||
हेयोपादेयशून्यं तत्तृतीयं प्रकृतं यतः |
मुक्तैः प्राप्यम् अतश्शब्दमपि ज्ञेयं मुमुक्षुभिः || १. ७६||
इदन्त्वेनाप्यहन्त्वेन स्वत्वेनापि नवेद्यता |
तथाप्यस्यास्ति वेद्यत्वं श्रुत्युक्तत्वान्न नास्तिता || १. ७७||
मुक्तस्य स्वगतो भेदो यदनाप्तौ न नश्यति |
तज्ज्ञाने फलमेतत्स्यात् सर्वभेदनिबर्हणम् || १. ७८||
अतोऽस्यालक्षणत्वेन सदसद्परतास्त्यपि |
शशशृंगसमानत्वं निदाघाशक्यमीरितुम् || १. ७९||
विशेषसत्ताऽभावेपि सत्तासामान्यता यतः |
निर्द्वन्द्वत्वेन संसिद्धा ततस्सत्त्वादिकं भवेत् || १. ८०||
अथवा शशशृंगादि सादृश्यं भवतु स्वतः |
सिद्धान्तता श्रुतिप्रोक्ता नैराश्यस्य हि सुव्रत || १. ८१||
न तावता विरोधोस्ति कश्चिदप्यधुना तव |
संसारमोक्षसिद्ध्यर्थम् अस्यानुक्ततया मया || १. ८२||
|| इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे तृतीयोऽध्यायः एवं
श्री ऋभुगीता प्रथमोऽध्यायः समाप्तः ||
द्वितीयोऽध्यायः |
अथातस्संप्रवक्ष्यामि निदाघ शृणु सादरम् |
संसारमोक्षसिद्ध्यर्थं सरूपं ब्रह्म निर्गुणम् || २. ०१ ||
तत्त्वमस्यादिवाक्यैर्यल्लक्ष्यं जीवादिकारणम् |
नित्यशुद्धविबुद्धं च नित्यमुक्तं च शाश्वतम् || २. ०२ ||
यत्सर्ववेदसिद्धान्तं यज्ज्ञानेनैव मुक्तता |
जीवस्य यच्च संपूर्णं तत्त्वमेवासि निर्मलम् || २. ०३ ||
त्वमेव परमात्मासि त्वमेव परमोगुरुः |
त्वमेवाकाशरूपोसि साक्षिहीनोसि सर्वदा || २. ०४ ||
त्वमेव सर्वभावोसि त्वं ब्रह्मासि नसंशयः |
कालहीनोसि कालोसि सदा ब्रह्मासि चिद्घनः || २. ०५ ||
सर्वतस्सर्वरूपोसि चैतन्यघनवानसि |
सर्वभूतान्तरस्थोसि कर्माध्यक्षोसि निर्गुणः || २. ०६ ||
सत्योसि सिद्धोसि सनातनोसि मुक्तोसि मोक्षोसि मुदाऽमृतोसि |
देवोसि शान्तोसि निरामयोसि ब्रह्मासि पूर्णोसि परात्परोसि || २. ०७ ||
समोसि सच्चसि चिरन्तनोसि सत्यादिवक्यैः प्रतिबोधितोसि |
सर्वाङ्गहीनोसि सदास्थितोसि ब्रह्मेन्द्ररुद्रादिविभावितोसि || २. ०८ ||
सर्वप्रपंचभ्रमवर्जितोसि सर्वेषु भूतेषु च भावितोसि |
सर्वत्र सङ्कल्पविवर्जितोसि सर्वागमान्तार्थविभावितोसि || २. ०९ ||
सर्वत्र सन्तोषसुखासनोसि सर्वत्र गत्यादिविवर्जितोसि |
सर्वत्र लक्ष्यादि विवर्जितोसि ध्यातोसि विष्ण्वादिसुरैरजस्रम् || २. १० ||
चिदाकार स्वरूपोसि चिन्मात्रोसि निरङ्कुशः |
आत्मन्येव स्थितोसि त्वं सर्वशून्योसि निश्चलः || २. ११ ||
आनन्दोसि परोसि त्वमेकमेवाद्वितीयकः |
चिद्घनानन्दरूपोसि परिपूर्णस्वरूपकः || २. १२ ||
सदसि त्वमभिज्ञोसि सोसि जानासि वीक्ष्यसि |
सच्चिदानन्दरूपोसि वासुदेवोसि वै प्रभुः || २. १३ ||
अमृतोसि विभुश्चसि चञ्चलोस्यचलोह्यसि |
सर्वोसि सर्वहीनोसि शान्ताशान्तविवर्जितः || २. १४ ||
सत्तामात्रप्रकाशोसि सत्तासामान्यकोह्यसि |
नित्यसिद्धस्वरूपोसि सर्वसिद्धिविवर्जितः || २. १५ ||
ईषण्मात्रविशून्योसि ह्यणुमात्रविवर्जितः |
अस्तित्ववर्जितोसि त्वं नास्तित्वादिविवर्जितः || २. १६ ||
लक्ष्यलक्षणहीनोसि निर्विकारो निरामयः |
सर्वनादान्तरोसि त्वं कलाकाष्ठादिवर्जितः || २. १७ ||
ब्रह्मविष्ण्वीशहीनोसि स्वस्वरूपं प्रपश्यसि |
स्वस्वरूपावशेषोसि स्वानन्दाब्धौ निमज्जसि || २. १८ ||
स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः |
शिष्टपूर्णस्वरूपोसि स्वस्मात्किञ्चिन्नपश्यसि || २. १९ ||
स्वस्वरूपान्नचलसि स्वस्वरूपेण जृंभसि |
स्वस्वरूपादनन्योसि ह्यहमेवासि निश्चिनु || २. २० ||
इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते |
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् || २. २१ ||
लक्ष्यलक्षणहीनत्वाद्युक्त्यानिष्प्रतियोगिकम् |
न मन्तव्यं यथायोग्यं लौकिकैस्त्वं विनिश्चिनु || २. २२ ||
निर्गुणं निर्मलं शान्तं ब्रह्मसप्रतियोगिकम् |
शुद्धान्तःकरणज्ञेयं वेदोक्तं प्रकृतं खलु || २. २३ ||
आत्मस्त्वं सच्चिदानन्दलक्ष्णैर्लक्ष्यमद्वयम् |
ब्रह्मैवास्मि न देहोऽयमिति चित्तेऽवधारय || २. २४ ||
देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् |
देहोऽहमिति सङ्कल्पो महान् संसार उच्यते || २. २५ ||
देहोऽहमिति सङ्कल्पस्तद्बन्ध इति चोच्यते |
देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोचय्ते || २. २६ ||
देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् |
देहोऽहमिति सङ्कल्पो जगत्सर्वं समीर्यते || २. २७ ||
देहोऽहमिति सङ्कल्पो हृदयग्रन्धिरीरितः |
देहोऽहमिति यज्ज्ञानं तदसज्ज्ञानमेवच || २. २८ ||
देहोऽहमिति यद्बुद्धिः साचविद्येति भण्यते |
देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते || २. २९ ||
देहोऽहमिति सङ्कल्पस्सत्यजीवस्स एव च |
देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् || २. ३० ||
देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् |
देहोऽहमिति या बुद्धिस्तृष्णादोषाऽऽमयः किल || २. ३१ ||
यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् |
तच्च सर्वं मनुष्याणां मानसं हि निगद्यते || २. ३२ ||
कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् |
यत्किञ्चेदं सर्वसङ्कल्पजातं तत्किञ्चेदं मानसं सोम्य विद्धि || २. ३३ ||
मन एव जगत्सर्वं मन एव महारिपुः |
मन एव हि संसारो मन एव जगत्त्रयम् || २. ३४ ||
मन एव महद्दुःखं मन एव जरादिकम् |
मन एव हि कालश्च मन एव मलं तथा || २. ३५ ||
मन एव हि सङ्कल्पो मन एव च जीवकः |
मन एव हि चित्तं च मनोऽहङ्कार एव च || २. ३६ ||
मन एव महान् बन्धो मनोऽन्तःकरणं च तत् |
मन एव हि भूमिश्च मन एव हि तज्जलम् || २. ३७ ||
मन एव हि तेजश्च मन एव मरुन्महान् |
मन एव हि चकाशो मन एव हि शब्दकः || २. ३८ ||
स्पर्शरूपरसा गन्धः कोशाः पञ्च मनोभवाः |
जाग्रत्स्वप्नसुषुप्त्यादि मनोमयमितीरितम् || २. ३९ ||
दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः |
दृश्यं बन्धं द्वन्द्वजातमज्ञानं मानसं स्मृतम् || २. ४० ||
सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु |
नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं निहि || २. ४१ ||
व्यवहारदशायां हि गुरुशिष्यादिकं भवेत् |
परमार्थदशायां तत् कथं मुक्तौ प्रसिद्ध्यति || २. ४२ ||
मुक्त्यतीत दशायां च प्रोच्यते परमार्थता |
तथाप्यसत्यहंतृत्वान्मुक्तेरेवास्ति मुख्ययाः || २. ४३ ||
मनसा कल्पितं सर्वं मनसा परिपालितम् |
मनसा संस्मृतं तस्मान्मन एवास्ति कारणम् || २. ४४ ||
मनसा संस्मृतं सर्वं मनसैव च विस्मृतम् |
मनसा भावितं सर्वं मनसैव ह्यभावितं || २. ४५ ||
मनसा दूषितं सर्वं मनसैव च भूषितम् |
मनसा सुखवृत्तिस्स्यान्मनसा दुःखसञ्चयः || २. ४६ ||
तस्मात्सर्वनिदानं तन्मनस्सूक्ष्मं परात्मनि |
त्वयि सच्चित्सुखांबोधौ कल्पितं विद्धि मायया || २. ४७ ||
त्वदन्यस्य च सर्वस्य कल्पितत्वादबोधतः |
त्वमेव सर्वसाक्षी सन् स्वयं भासि निरन्तरम् || २. ४८ ||
तव बोधस्वरूपत्वात् त्वय्यबोधस्य का गतिः |
मन्दबुद्ध्या गतौ सत्यामपि नाशस्स्वयं भवेत् || २. ४९ ||
नित्यबोधस्वरूपस्त्वं ह्यबोधप्रतियोगिकः |
त्वयि तत्सन्निवर्तेत तमस्सूर्योदये यथा || २. ५० ||
ज्ञातृज्ञानेप्रकल्प्येते यत्र ज्ञेयेऽद्वये त्वयि |
तस्याखण्डस्वरूपत्वात् सर्वाधिष्ठानतोचिता || २. ५१ ||
मुमुक्षुभिश्च विज्ञेयास्स्वधर्मास्सच्चिदादयः |
सन्मयश्चिन्मयश्चत्मा तथानन्दमयो यतः || २. ५२ ||
चिद्रूपस्य तवात्मत्वादनात्मानस्त्वचिन्मयाः |
अनात्मनां विकारित्वान्निर्विकारस्त्वमिष्यसे || २. ५३ ||
विकारस्य समस्तस्याप्यविद्याकल्पितत्वतः |
विलये निर्विकारस्त्वं विद्यावानवशिष्यसे || २. ५४ ||
बृहद् ब्रह्मावशेषो हि नाशः कल्पितवस्तुनः |
यच्छेषास्स्युरिमे सर्वे स शेषी नित्यतां व्रजेत् || २. ५५ ||
शेषस्य शेष्यनन्यत्वं वास्तवं सर्वसम्मतम् |
शेषिणस्तु तवान्यत्वान्न शेषस्यास्ति नित्यता || २. ५६ ||
शेषिणश्शेषसापेक्ष्यान्न स्वातन्त्र्येण शेषिता |
इति वक्तुं न शक्यं हि स्वमहिम्नि स्थितत्वतः || २. ५७ ||
स्वस्यैष महिमा सर्वव्यापकत्वादिलक्षणः |
सर्वशृत्यादि संसिद्धः काभीर्हीयेत युक्तिभिः || २. ५८ ||
व्याप्यसापेक्षता तस्य व्यापकस्येतिचेच्छृणु |
व्याप्यानपेक्षं सिद्धिर्हि व्यापकस्य निजाश्रयात् || २. ५९ ||
व्याप्यस्यैव हि जीवस्य विकारापेक्षया तथा |
व्यापकापेक्षया च स्यात् स्थितिर्न व्यापकस्यतु || २. ६० ||
विकारालंबनाभावात्स्वालंबनतयापि च |
सर्वालंबनता सिद्धा न स्वहानेश्च सङ्गतिः || २. ६१ ||
सर्वाधारस्य नाधारोऽपेक्ष्यतेपि क्वचिद्विभोः |
स चेदाधारसापेक्षो न सर्वाधारतां व्रजेत् || २. ६२ ||
सर्वाधारस्य च व्योम्नो यथात्माधार इष्यते |
तथात्मनोपि कश्चित्स्यादिति चेद्बाढमुच्यते || २. ६३ ||
आत्मैवात्मन आधार आत्मन्येवात्मनस्स्थितेः |
अनात्मनो यथाऽनात्मा कश्चिदेवास्ति चश्रयः || २. ६४ ||
आत्मनोऽपि तु नानात्वे स्यादनात्माविशेषता |
इति चेन्नैष भेदो हि विकारावाश्रयो भवेत् || २. ६५ ||
यथा भवति देहस्य प्राण एवाश्रयः पुनः |
प्राणस्य चश्रयो देहस्तथात्माऽनात्मनोरपि || २. ६६ ||
अन्योन्याश्रयता प्राप्ता तथा नाशो द्वयोरपि |
इति चेदुक्तमेवैतदात्मा हि स्वाश्रयो मतः || २. ६७ ||
आश्रयाश्रयि वार्ता च व्यवहारे निगद्यते |
परमार्थदशायां तु स्वस्मादन्यन्नविद्यते || २. ६८ ||
आत्मनस्स्वगतो भेदो योस्मिन्नभ्युपगम्यते |
स किं नित्योस्त्यनित्योवेत्येवं प्रश्ने तु कथ्यते || २. ६९ ||
लब्धात्मसम्यग्बोधस्य तव यावदिहस्थितिः |
तावत्तस्याविनाशित्वान्नित्य एवेति निर्णयः || २. ७० ||
पश्चदनित्यतायाश्च तव प्रष्टुरभावतः |
स्वभेदानित्यवार्ताया नावकाशोऽत्र विद्यते || २. ७१ ||
आत्मा स किं भवेद्द्रष्टा दृश्यो वा किन्नु दर्शनम् |
द्रष्टृत्वे सति जीवत्वात्संसारित्वं प्रसज्यते || २. ७२ ||
दृश्यत्वे तु घटादीनामिवस्याद्विषयात्मता |
दर्शनत्वे तु वृत्तित्वाज्जाड्यमेव प्रसज्यते || २. ७३ ||
असंसारी परात्माऽसौ स्वयं निर्विषयस्तथा |
चैतन्यरूप इत्येतद्व्यर्थमेवेति चेच्छृणु || २. ७४ ||
द्रष्टृत्वं तस्य विद्ध्येवं जीवेशादीक्षितृत्वतः |
दृश्यत्वं च तथा विद्धि मुक्तैर्द्रष्टृत्वतस्स्वतः || २. ७५ ||
दर्शनत्वं च साक्षित्वाद्दृग्रूपत्वाच्च तस्य वै |
संसारित्वादयो दोषाः प्रसज्यन्ते न तत्र वै || २. ७६ ||
असंसारिणमात्मानं संसार्यात्मा यदि स्वयं |
पश्येत्तदाक्षिरोगी संप्रपश्येच्च निरङ्कुशम् || २. ७७ ||
असम्भवानि सर्वाणि संभवेयुश्च वैदिकाः |
सिद्धान्तानियमापेतास्स्वेच्छाव्याहार संभवात् || २. ७८ ||
इति चेन्नैव दोषोऽस्ति संसारस्यापवादतः |
विशुद्धसत्वसंपन्नस्संसारी निर्मलो हि सः || २. ७९ ||
यदि जीवस्य संसारस्स्वतस्सिद्धस्तथाऽखिलाः |
उक्त दोषाः प्रसज्येरन्नज्ञानाद्ध्यागतो न ते || २. ८० ||
जीवस्य यदि संसारो ब्रह्मणस्तदभावतः |
ब्रह्मात्मत्वोपदेशोऽयमयुक्त इति चेच्छृणु || २. ८१ ||
उक्तजीवैकदेशस्य ह्यसंसारित्वमन्वहम् |
ततस्तत्त्वोपदेशेस्मिन् निदाघास्त्यनवद्यता || २. ८२ ||
तस्मात्सर्वगतं सत्यसुखबोधैकलक्षणम् |
ब्रह्मास्मीति विजानीहि केवलं त्वमसंशयम् || २. ८३ ||
मुक्त्यै ज्ञेयं च तद् ब्रह्म सच्चिदानन्दलक्षणम् |
नत्वलक्षणमन्यत्स्यादिति चोक्तं न विस्मर || २. ८४ ||
|| इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे चतुर्थोऽध्यायः एवं
श्री ऋभुगीता द्वितीयोऽध्यायः समाप्तः ||
तृतीयोऽध्यायः |
पुनर्ज्ञानं प्रवक्ष्यामि निदाघ शृणु सादरम् |
ब्रह्मणोऽति दुरूहत्वादसकृच्छ्राव्यमेव तत् || ३. ०१ ||
सर्वं चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् |
सच्चिदानन्दमद्वैतं सच्चिदानन्दमव्ययम् || ३. ०२ ||
सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् |
सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् || ३. ०३ ||
सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् |
मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी || ३. ०४ ||
न त्वं नाहं नचन्यद्वा सर्वं ब्रह्मैव केवलम् |
न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् || ३. ०५ ||
न मध्यं नादि नान्तं वा न सत्यं न निबन्धनम् |
न दुःखं न सुखं भावं न माया प्रकृतिस्तथा || ३. ०६ ||
न देहं न मुखं घ्राणं न जिह्वा न च तालुनी |
न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च || ३. ०७ ||
न स्वेदमस्थिमासं च न रक्तं न च मूत्रकम् |
न दूरं नान्तिकं नाहं नोदरं न किरीटकम् || ३. ०८ ||
न हस्तपादचलनं न शास्त्रं न च शासनम् |
न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः || ३. ०९ ||
तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् |
नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् || ३. १० ||
न विश्वस्तैजसः प्राज्ञः विराट्सूत्रात्मकेश्वराः |
न गमागमचेष्टा च न नष्ष्टं न प्रयोजनम् || ३. ११ ||
त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यं मेध्यकं तथा |
न पीनं न कृशं क्लेदं न कालं देशभाषणम् || ३. १२ ||
न सर्वं न भयं चैतन्न वृक्षतृणपर्वताः |
न ध्यानं योगसंसिद्धिर्नब्रह्मक्षत्रवैश्यकम् || ३. १३ ||
न पक्षी न मृगो नागी न लोभो मोह एव च |
न मदो न च मात्सर्यं कामक्रोधादयस्तथा || ३. १४ ||
न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् |
न प्रौढहीननास्तिक्यं न वार्तावसरोस्ति हि || ३. १५ ||
न लौकिको न लोकोवा न व्यापारो न मूढता |
न भोक्ता भोजनं भोज्यं मातृमानं न मेयकम् || ३. १६||
न शत्रुमित्रपुत्रादि न माता न पिता स्वसा|
न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः || ३. १७ ||
न शून्यं नापि चशून्यं नान्तःकरणसंस्मृतिः |
न रात्रिर्नदिवा नक्तं न ब्रह्मा न हरिश्शिवः || ३. १८ ||
न वारपक्षमासादि वत्सरं न च चञ्चलम् |
न ब्रह्मलोको वैकुण्ठो न कैलासो न चन्यकः || ३. १९ ||
न स्वर्गो न च देवेन्द्रो नाग्निलोको न चग्निकः |
न यमो न यमलोको वा न लोका लोकपालकाः || ३. २० ||
न भूर्भुवस्स्वस्त्रैलोक्यं न पाताळं न भूतलं |
नाविद्या न च विद्या च न माया प्रकृतिर्न च || ३. २१ ||
न स्थिरं क्षणिकं नाशो न गतिर्न च धावनम् |
न ध्यातव्यं न मे स्नानं न मन्त्रो न जपः क्वचित् || ३. २२ ||
न पदार्थं न पूजार्हं नाभिषेकं न चर्चनं |
न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् || ३. २३ ||
न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि |
न प्रार्थना पृथग्भावो न हविर्नास्ति वन्दनम् || ३. २४ ||
न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् |
न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः || ३. २५ ||
न दुराशा न दुष्टात्मा न चण्डालो न पौल्कसः |
न दुस्सहं दुरालापं न किरातो न कैतवम् || ३. २६ ||
न पक्षपातं पक्षं वा न विभूषणतस्करौ |
न च डंभो डांभिको वा न हीनो नाधिको नरः || ३. २७ ||
नैकं द्वयं त्रयं तुर्यं न महत्वं न चल्पता |
न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः || ३. २८ ||
न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता |
न स्त्रीर्न योषिन्नो वृद्धा न कन्या न वितन्तुका || ३. २९ ||
न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः |
न महावाक्यमैक्यं वा नाणिमादिविभूतयः || ३. ३० ||
एवं सलक्षणं ब्रह्म व्यतिरेकमुखेन वै |
निदाघ त्वं विजानीहि ब्रह्मेतरनिषेधतः || ३. ३१ ||
ब्रह्मणः प्रकृतस्यात्र द्विविधं प्रतिपादनं |
असन्निषेधरूपं सद्विधिरूपं च तत्र तु || ३. ३२ ||
आत्मा निषेधरूपेण तुभ्यं संप्रतिपादितः |
अथाद्य विधिरूपेण शृणु संप्रतिपाद्यते || ३. ३३ ||
सर्वं चैतन्यमात्रत्वात्सर्वदोषस्सदानहि |
सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दरूपकम् || ३. ३४ ||
ब्रह्मैव सर्वं नान्योऽस्मि तदहं तदहं तथा |
तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् || ३. ३५ ||
ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः |
ब्रह्मैवाहं न मे सिद्धिर्ब्रह्मैवाहं न चेन्द्रियम् || ३. ३६ ||
ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः |
ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेद भूः || ३. ३७ ||
ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः |
ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परम् || ३. ३८ ||
इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः |
कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् || ३. ३९ ||
एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् |
दोषो ब्रह्म गुणो ब्रह्म दिशश्शान्तर्विभुः प्रभुः || ३. ४० ||
लोका ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः |
पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् || ३. ४१ ||
जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् |
सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् || ३. ४२ ||
स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन |
सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमव्ययम् || ३. ४३ ||
नित्यनिर्मलरूपात्मा ह्यात्मनोन्यन्न किञ्चन |
अणुमात्रलसद्रूपमणुमात्रमिदं जगत् || ३. ४४ ||
अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् |
अणुमात्रं मनश्चित्तमणुमत्राप्यहङ्कृतिः || ३. ४५ ||
अणुमात्रा च बुद्धिश्च ह्यणुमात्रोऽपि जीवकम् |
अणुमात्रमिदं चित्तं सर्वमप्यणुमात्रकम् || ३. ४६ ||
ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् |
आनन्दं परमानन्दमन्यत्किञ्चिन्नकिञ्चन || ३. ४७ ||
चैतन्यमात्रमोङ्कारं ब्रह्मैव भवति स्वयम् |
अहमेव जगत्सर्वमहमेव परंपदम् || ३. ४८ ||
अहमेव गुणातीतोस्म्यहमेव परात्परः |
अहमेव परंब्रह्म ह्यहमेव गुरोर्गुरुः || ३. ४९ ||
अहमेवाखिलाधारोस्म्यहमेव सुखात्सुखम् |
आत्मनोन्यज्जगन्नास्ति ह्यात्मनोन्यत्सुखं न च || ३. ५० ||
आत्मनोन्या गतिर्नास्ति सर्वमात्ममयं जगत् |
आत्मनोन्यन्नहि क्वापि आतमनोन्यत्तृणं न हि || ३. ५१ ||
आत्मनोन्यत्तुषं नास्ति सर्वमात्ममयं जगत् |
ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि || ३. ५२ ||
ब्रह्ममात्रमिदं सर्वं स्वयं ब्रह्मैव केवलम् |
ब्रह्ममात्रं व्रतं सर्वं ब्रह्ममात्रं रसं सुखम् || ३. ५३ ||
ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमद्वयंम् |
ब्रह्मणोन्यतरं नास्ति ब्रह्मणोन्यन्न किञ्चन || ३. ५४ ||
ब्रह्मणोन्यदहं नास्ति ब्रह्मणोन्यत्फलं नहि |
ब्रह्मणोन्यत्पदं नास्ति ब्रह्मणोन्यत्पदं नहि || ३. ५५ ||
ब्रह्मणोन्यद्गुरुर्नास्ति ब्रह्मणोन्यदसद्वपुः |
ब्रह्मणोन्यन्नचहन्ता त्वत्तेदं तेन हि क्वचित् || ३. ५६ ||
स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्नकिञ्चन |
यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः || ३. ५७ ||
यत्किञ्चित्क्रियते नित्यं यत्किञ्चिद्गम्यते जनैः |
यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि || ३. ५८ ||
कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् |
लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् || ३. ५९ ||
कालभेदं देशभेदं वस्तुभेदं जयाजयम् |
यद्यद्भेदं च तत्सर्वमसदेवहि केवलम् || ३. ६० ||
असदन्तःकरणमसदेवेन्द्रियादिकम् |
असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् || ३. ६१ ||
असत्यं पञ्चकोशाख्यमसत्याः पञ्चदेवताः |
असत्यं षड्विकारादि ह्यसत्यमरिवर्गकम् ||३. ६२ ||
असत्यष्षदृतुश्चैव ह्यसत्यष्षड्रसस्सदा |
सप्तर्षयोप्यसत्यास्तेप्यसत्यास्सप्तसागराः || ३. ६३ ||
सच्चिदानन्दमात्रोहमनुत्पन्नमिदं जगत् |
आत्मैवाहं परंसत्यो नान्यास्संसारदृष्टयः || ३. ६४ ||
सत्यमानन्दरूपोहं चिद्घनानन्दविग्रहः |
अहमेव परानन्दोऽस्म्यहमेव परात्परः || ३. ६५ ||
ज्ञानाकारमिदं सर्वं ज्ञानानन्दोहमद्वयः |
ज्ञानप्रकाशरूपोहं ज्ञानानन्दैकविग्रहः || ३. ६६ ||
येन ज्ञातमिदं ज्ञानमज्ञानध्वान्तनाशकः |
ज्ञानेनाज्ञाननाशेन स हि ज्ञानी समीर्यते ||३. ६७ ||
ज्ञानं यथा द्विधा प्रोक्तं स्वरूपं वृत्तिरित्यपि |
अज्ञानं च तथा विद्धि मूलं च प्रतिबन्ध्कम् || ३. ६८ ||
यथा ज्ञानं विना लोके किञ्चिदेव न सिद्ध्यति |
तथा ज्ञानं विना लोके क्वचिन्मुक्तिर्न सिद्ध्यति || ३. ६९ ||
ज्ञानद्वयं तथाऽज्ञानद्वयमप्यत्रवर्ष्मणि |
सर्वदा भान्ति जीवानं ज्ञानाज्ञानोक्तिदर्शनात् || ३. ७० ||
ज्ञानस्य क्व तिरोभावो ज्ञानस्याविर्भवस्तथा |
दृष्टस्सर्वत्र लोकेस्मिन् दुर्लभोहि विपर्ययः || ३. ७१ ||
ज्ञानं सर्वान्तरं भाति कूटस्थात्मस्वरूपकम् |
प्रज्ञामात्रमिदं सूक्ष्मं कोऽपि जानाति पुण्यकृत् || ३. ७२ ||
प्रज्ञायां कल्पितां प्रज्ञां प्रज्ञयैव विहाय यः |
प्रज्ञामात्रेण सन्तिष्टेत् स प्रज्ञावानितीर्यते || ३. ७३ ||
बहिः प्रज्ञां सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः |
कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते || ३. ७४ ||
प्रज्ञैव यस्य नेत्रं स्यत् प्रज्ञैव श्रोत्रमिन्द्रियम् |
अन्यच्च सर्वं प्रज्ञैव स प्राज्ञः पुरुषोत्तमः || ३. ७५ ||
प्रज्ञया जायते सर्वं प्रज्ञया पाल्यतेऽखिलम् |
प्रज्ञया क्षीयते सर्वं तस्मात्प्रज्ञां समाश्रय || ३. ७६ ||
प्रज्ञाहीनमसत्सर्वं प्रज्ञाहीनं जडं खलु |
प्रज्ञाहीनं सदा दुःखं तस्मात्प्रज्ञां समाश्रय || ३. ७७ ||
न विना प्रज्ञया पुण्यं न लोकः प्रज्ञया विना |
विना न प्रज्ञयाऽभीष्टं तस्मात्प्रज्ञां समाश्रय || ३. ७८ ||
सुसूक्ष्मया धिया प्रज्ञामिमां तां ज्ञप्तिसञ्ज्ञिकाम् |
ज्ञात्वा भवभवान्मुक्तो निर्गुणब्रह्मरूपिणीम् || ३. ७९ ||
जाग्रदाद्यास्ववस्थासु या ज्ञप्तिस्त्रिसृषु स्वयम् |
आभासतोप्यनुस्यूता ज्ञप्तिस्सा निर्मला स्वतः || ३. ८० ||
ज्ञप्तिस्सा साक्षिणी नित्या तुर्या सर्वश्रुतीरिता |
विषयज्ञप्तिसन्त्यागात् ज्ञायते विबुधैस्स्वतः || ३. ८१ ||
ज्ञप्तिरेव परंब्रह्म ज्ञप्तिरेव परं पदम् |
ज्ञप्तिरेव परो मोक्षो ज्ञप्तिरेव परं सुखम् || ३. ८२ ||
ज्ञप्तिरेव पराचार्यो ज्ञप्तिरेव परामृतम् |
ज्ञप्तिरेव परातृप्तिर्ज्ञप्तिरेव परागतिः || ३. ८३ ||
तस्मात्ज्ञप्तिं समाश्रित्य विज्ञप्तिधिषणां त्यज |
अज्ञप्तेर्दुःखहेतुत्वात्सुखार्थीज्ञप्तिमाश्रय || ३. ८४ ||
अज्ञप्ति वोषयो जीवः कूटस्थो ज्ञप्ति गोचरः |
हेयोपादेयता सिद्धा धर्मधर्मित्वतस्तयोः || ३. ८५ ||
अहंप्रत्ययशब्दाभ्यां विज्ञेयो जीवसञ्ज्ञकः |
अस्मत्प्रत्ययशब्दाभ्यां ज्ञेयो कूटस्थसञ्ज्ञकः || ३. ८६ ||
यदहं प्रत्ययी जीवस्तद्युष्मत्प्रत्ययी च सः |
त्वमहं शब्दयोरैक्यात्तत्साक्षी प्रत्यगाह्वयः || ३. ८७ ||
अस्मत्प्रत्ययिनं साक्षिचैतन्यात्मकमद्वयम् |
कूटस्थं प्रत्यगात्मानं साक्षाद्विषयिणं परम् || ३. ८८ ||
जहि ज्ञात्वा तदन्यं त्वमहंप्रत्ययिनं बहिः |
साक्ष्यं जीवं चिदाभासं पराञ्चं विषयं स्वतः || ३. ८९ ||
दृग्दृश्यभूतयोरत्र जीवात्मप्रत्यगात्मनोः |
विवेकेन परं सौख्यं निदाघ व्रज सन्ततम् || ३. ९० ||
|| इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे पञ्चमोऽध्यायः एवं
श्री ऋभुगीता तृतीयोऽध्यायः समाप्तः ||
चतुर्थोऽध्यायः |
पुनर्ज्ञानं प्रवक्ष्यामि जाग्रदादि विलक्षणम् |
तुरीयब्रह्मरूपं तद्यद्ज्ञात्वा मोक्ष्यसेऽशुभात् || ४. ०१ ||
ऊर्णनाभिर्यथातन्तून् सृजते संहरत्यपि |
जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः || ४. ०२ ||
नेत्रे जागरितं विद्यात्कण्ठे स्वप्नं समाविशेत् |
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् || ४. ०३ ||
यतो वचो निवर्तन्ते अप्राप्य मनसा सह |
आनन्दमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुधः || ४. ०४ ||
सर्वव्यापिनमात्मानं क्षीरेसर्पिरिवार्पितम् |
आत्मविद्या तपोमूलं तद् ब्रह्मोपनिषत्पदं || ४. ०५ ||
श्री गुरुमूर्तिः |
ऋभुणोक्तमिदं श्रुत्वा निदाघस्संशयाकुलः |
पप्रच्छ सद्गुरुं शान्तं सावधानेन चेतसा || ४. ०६ ||
निदाघः |
भगवन् भवता पूर्वं यतोवाच इति श्रुतेः |
आनन्दो ब्रह्मणः प्रोक्तो जीवस्यत्वधुनोच्यते || ४. ०७ ||
आनन्दमयसंज्ञस्य जीवस्योक्तश्च यद्यपि |
श्रुतौ तथापि हेयत्वान्नतदीयो भवेद्धि सः || ४. ०८ ||
नावाङ्मनसगम्यत्वं जीवस्य खलु युज्यते |
नानन्दस्य च वेद्यत्ववचनाद् ब्रह्मणोहि तत् || ४. ०९ ||
एवं पृष्टो मुनिश्रेष्टो निदाघेन महात्मना |
ऋभुः प्रोवाच सर्वज्ञो ब्रह्मन् सस्मितमादरात् || ४. १० ||
ब्रह्मोक्तं जीवशब्देन ह्यवाङ्मनसगोचरम् |
मोक्षातीतदशायां यज्जीवस्तद् ब्रह्मतां व्रजेत् || ४. ११ ||
पूर्वोत्तरविरोधो वा मद्वाक्येषु न तद्भवेत् |
श्रुत्यर्थस्योपरोधो वा सम्यगालोच्य निश्चिनु || ४. १२ ||
उपसंक्रमितव्यो यदानन्दमय उच्यते |
वेद्यत्वं तस्यचसिद्धं पुच्छस्याविषयत्वतः || ४. १३ ||
तस्मात्स्वयं सदापूर्णः पञ्चमस्य विकारिणः |
आत्मस्थानीय आनन्द इह वेद्य इति स्थितिः || ४. १४ ||
भृगवे वरुणेनैवं तैत्तिरीयाभिदश्रुतौ |
पञ्चमस्य विकारित्वं न प्रोक्तमितिचेच्छृणु || ४. १५ ||
मयट्प्रयोगाभावेन हेतुना निर्विकारता |
न शङ्क्या पूर्वपर्यायेष्वन्नादिष्वप्यदर्शनात् || ४. १६ ||
अतष्षष्टं परंब्रह्म पञ्चमेनोपलक्षितम् |
निर्गुणं भृगवे पित्रा प्रोक्तमित्यवधारय || ४. १७ ||
प्राचुर्यार्थकतायां तु मयटो निर्विकारिणः |
सच्चिदानन्दरूपस्य ब्रह्मणो वेद्यता भवेत् || ४. १८ ||
शारीरत्वाभिदानेन पूर्वानन्दमयस्य तु |
विकारित्वं पुनस्स्पष्टमुपसंक्रमणेन च || ४. १९ ||
नानुकर्षश्च पुच्छस्य पूर्वपूर्वस्य दृश्यते |
उत्तरोत्तरकोशे प्राक्तत्तदात्मानुकर्षणात् || ४. २० ||
उपसंक्रमणं चोक्तं मयडन्तस्य केवलम् |
आनन्दस्य ततोन्यस्य न परात्मतया खलु || ४. २१ ||
ब्रह्मवित्परमाप्नोतीत्यादौ द्वैविध्यमीरितम् |
यत्तत्सरूपारूपाभ्यां ब्रह्मणोन्ते च निश्चिनु || ४. २२ ||
आत्मस्थानीयचिद्रूपानन्दब्रह्मविदोमुने |
प्रारब्धान्ते पुच्छभूताऽरूपब्रह्माप्तिरिष्यते || ४. २३ ||
प्रतिष्ठाशब्दगम्यत्वात्सर्वशेषित्वतोपि च |
शास्त्रस्यारूपवद् ब्रह्मप्राधान्यं यद्यपि स्थितम् || ४. २४ ||
तथापिवेद्यताऽभावादरूपस्य मुमुक्षुभिः |
आनन्दरूपवद् ब्रह्मप्राधान्यं मुख्यमिष्यते || ४. २५ ||
मोदप्रमोदयोश्चैवं सति वेद्यत्वमापतेत् |
इतिचेन्नैष दोषोस्ति तयोर्ब्रह्मांशता यतः || ४. २६ ||
ब्रह्मणस्स्वगते भेदे नित्यसिद्धे मुमुक्षुवः |
उपेक्षितुं समर्थास्स्युर्निदाघ कथमत्र ते || ४. २७ ||
स्थूलार्थदर्शिनो ये वै शुष्काद्वैतसमाश्रयाः |
तेषां सावयवत्वादि दोषस्स्फुरतु चेतसि || ४. २८ ||
न तावता त्रिपाच्छ्रुत्याद्यनुरोधेन निश्चितम् |
स्वभेदं विदुषां किञ्चिच्छिद्यते मुक्तजन्मनाम् || ४. २९ ||
सूक्ष्मबुद्ध्या विचरे हि स्वात्मभेदः प्रकाशते |
अत्यन्ताभेदवार्तायां पुच्छगायां फलं किमु || ४. ३० ||
एते कोशा हि पञ्चैव तिस्रोऽवस्थास्समीरिताः |
जाग्रदाद्याः क्रमेणैतद्भेदं च शृणु सादरम् || ४. ३१ ||
आद्या जागरिताऽवस्था द्वितीया स्वप्नसंज्ञिका |
तृतीया सुप्तिरूपान्या तुरीया चित्सुखात्मिका || ४. ३२ ||
आद्याभिमानी विश्वाख्यो द्वितीयस्तैजसस्स्मृतः |
तृतीयः प्राज्ञ एतेभ्यो कूटस्थ इतरः प्रभुः || ४. ३३ ||
बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः |
घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिथा स्थितः || ४. ३४ ||
दक्षिणाक्षिमुखे विश्वो मनस्यतन्तस्तु तैजसः |
आकाशे च हृदि प्राज्ञस्त्रिथा देहे व्यवस्थितः || ४. ३५ ||
विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् |
आनन्दभुक्तथा प्राज्ञस्त्रिथा भोगं निबोध च || ४. ३६ ||
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् |
आनन्दश्च तथा प्राज्ञं त्रिथा तृप्तिं निबोध च || ४. ३७ ||
त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः |
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते || ४. ३८ ||
प्रभवस्सर्वभावानां सतामिति विनिश्चयः |
सर्वं जनयति प्राणश्चेतोंशून्पुरुषः पृथक् || ४. ३९ ||
विभूतिं प्रसवन्त्वन्ये मन्यन्ते सृष्टिचिन्तकाः |
स्वप्नमायास्वरूपेति सृष्टिरन्यैर्विकल्पिता || ४. ४० ||
इच्छामात्रं प्रभोस्सृष्टिरिति सृष्टौ विनिश्चिताः |
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः || ४. ४१ ||
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमितिचपरे |
देवस्यैष स्वभावोयमाप्तकामस्य का स्पृहा || ४. ४२ ||
आप्तकामस्य देवस्य तुर्यस्योक्तस्य सुव्रत |
स्वरूपं प्रोच्यते सम्यङ्निदाघ शृणु तत्त्वतः || ४. ४३ ||
नान्तःप्रज्ञं बहिःप्रज्ञं न प्रज्ञं नोभयात्मकं |
न प्रज्ञानघनं प्रज्ञं नाप्रज्ञं न च केवलम् || ४. ४४ ||
इदंत्वे नतद्ग्राह्यमदृश्यं चप्यलक्षणम् |
अचिन्त्याव्यवहार्यं चव्यपदेशं पृथक्तया || ४. ४५ ||
एकात्मप्रत्ययं सारं प्रपञ्चोपशमं शिवं |
शान्तं चतुर्थमद्वैतं मन्यन्ते ब्रह्मवादिनः || ४. ४६ ||
स आत्मा स हि विज्ञेयः सर्वैरपि मुमुक्षुभिः |
तुर्यात्मज्ञानहीनानां न मुक्तिस्याद्कदाचन || ४. ४७ ||
निवृत्तेस्सर्वदुःखानामीशानः प्रभुरव्ययः |
अद्वैतस्सर्वभावानां देवस्तुर्यो विभुस्स्मृतः || ४. ४८ ||
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ |
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिद्ध्यतः || ४. ४९ ||
नात्मानं न परं चैव न सत्यं नापिचनृतं |
प्राज्ञः किंच न संवेत्ति तुर्यं तत्सर्वदृक्सदा || ४. ५० ||
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः |
बीजनिद्रायुतः प्राज्ञस्सा च तुर्ये न विद्यते || ४. ५१ ||
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया |
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः || ४. ५२ ||
अन्यथागृह्णतस्स्वप्नो निद्रा तत्त्वमजानतः |
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते || ४. ५३ ||
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते |
अजमद्वैतमस्वप्नमनिद्रं बुध्यते तदा || ४. ५४ ||
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः |
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः || ४. ५५ ||
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् |
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते || ४. ५६ ||
निदाघः |
भगवन् कथमद्वैतं ब्रह्मद्वैविध्यवादिनः |
भवतोभिमतं तत्र संशयो मे भवत्यलम् || ४. ५७ ||
ऋभुः |
द्वैतप्रपञ्चशून्येस्मिन् निर्गुणे पूर्णचिद्घने |
ब्रह्मण्यद्वैतसंसिद्धिर्यतो नान्यत्र सर्वधा || ४. ५८ ||
अतस्सरूपारूपाभ्यां ब्रह्मद्वैविध्यवादिनः |
ममैवाद्वैतवादित्वन्नारूपाद्वैतवादिनः || ४. ५९ ||
द्वैताद्वैतोभयातीते व्य्वहाराद्यगोचरे |
नीरूपे ब्रह्मणि प्राज्ञाऽद्वैतवादः कथं भवेत् || ४. ६० ||
द्वैताचिद्रूपकार्यस्याद्वैतचिद्रूपकारणात् |
निवृत्तिस्याद्यथादीपात्तमसो नत्वरूपतः || ४. ६१ ||
अतो नाद्वैतसिद्धिस्यात्कथञ्चिदपि सत्तम |
अरूपागोचरब्रह्मवादिनां तादृशे मते || ४. ६२ ||
चिद्रूपब्रह्मतादात्म्यं जीवस्य हि विवक्षितम् |
नारूपवाक्यदूरत्वात्तन्नाद्वैतमरूपिणाम् || ४. ६३ ||
यद्यप्यरूपब्रह्मत्वं जीवस्यान्ते प्रसिद्ध्यति |
तथाप्यद्वैतितां वक्तुं न शक्यं द्वन्द्वहानितः || ४. ६४ ||
वाच्यवाचकहीने च लक्ष्यलक्षणवर्जिते |
कथमद्वैतशब्दोयं सावकाशो भवेन्मुने || ४. ६५ ||
निदाघः |
देवतापुरुषाद्यैर्हि वेदशब्दैस्समीर्यते |
तस्यौपनिषदत्वस्याव्यभिचरोस्त्यरूपिणः || ४. ६६ ||
ततोस्य शब्दगम्यत्वात् प्रष्टव्यत्वं मया भवेत् |
वाच्यत्वं च त्वयेत्यद्य मन्ये श्रीगुरुनायक || ४. ६७ ||
ऋभुः |
अरूपब्रह्मविषयाश्श्ब्दास्सन्त्येव यद्यपि |
तेनौपनिषदत्वं च कथञ्चित्तस्य सिद्ध्यति || ४. ६८ ||
तथापि प्रश्नयोग्यत्वं वाच्यत्वं वा न सिद्ध्यति |
रूढ्यर्थमात्रवत्त्वेनालक्षकत्वादयोगतः || ४. ६९ ||
योगार्थवद्भिश्शब्दैर्हि लक्षकैर्वाचकैश्च वा |
शिष्येभ्यः प्रोच्यते सत्यंवस्तु श्रीगुरुमूर्तिभिः || ४. ७० ||
अरूपवस्तुनः प्रश्नः प्रतिषिद्धश्श्रुतौ यतः |
याज्ञवल्क्येन गार्ग्यै तन्नत्वं प्रष्टुमिहार्हसि || ४. ७१ ||
तस्मात् तुरीयं सद् ब्रह्म योगवृत्त्यैव लक्षणैः |
सच्चिदानन्दपूर्वैस्त्वं मदुक्तं विद्धि मुक्तये || ४. ७२ ||
जाग्रत्यन्नमयं कोशं स्थूलदेहं च विद्धि वै |
स्वप्ने प्रणमनोज्ञानमयास्सूक्ष्मवपुस्ततः || ४. ७३ ||
सुषुप्तौ कारणं देहमानन्दमयकोशकम् |
तुरीये त्वशरीरं तच्चिद्रूपं कोशवर्जितम् || ४. ७४ ||
स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् |
स्त्र्यन्नपानादि विचित्रभोगैस्स एव जाग्रत्परितृप्तिमेति || ४. ७५ ||
स्वप्नेऽपि जीवस्सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके |
सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति || ४. ७६ ||
पुनश्च जन्मान्तरकर्मयोगात्स एव जीवस्स्वपितिप्रबुद्धः |
पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रम् || ४. ७७ ||
आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च |
यत्सर्ववेदान्तरहस्यतत्त्वं यत्पूर्णचैतन्यनिजस्वरूपं || ४. ७८ ||
एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च |
खं वायुर्ज्योतिरापः पृथ्वी सर्वस्य धारिणी || ४. ७९ ||
यत्परंब्रह्म सर्वात्मा विश्वस्यायतनं महत् |
सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् || ४. ८० ||
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते |
तद् ब्रह्माहमितिज्ञात्वा सर्वबन्धैः प्रमुच्यते || ४. ८१ ||
त्रिषु धामसु यद्भोज्यं भोक्ता भोगश्च यद्भवेत् |
तेभ्यो विलक्षणस्साक्षि चिन्मात्रोहं सदाशिवः || ४. ८२ ||
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् |
मयि सर्वं लयं याति तद् ब्रह्माद्वयमस्म्यहम् || ४. ८३ ||
अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम् |
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि || ४. ८४ ||
अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुस्सश्रुणोम्यकर्णः |
अहं विजानामि विविक्तरूपो न चस्ति वेत्ता मम चित्सदाऽहं || ४. ८५ ||
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेवचहम् |
न पुण्यपापे मम नास्ति नाशो न जन्मदेहेन्द्रियबुद्धिरस्ति || ४. ८६ ||
न भूमिरापो मम वह्निरस्ति न चनिलोमेऽस्ति न चम्बरं च |
एवं विदित्वा परमार्थरूपं गुहाशयं निष्कळमद्वितीयम् || ४. ८७ ||
अखण्डमाद्यन्तविहीनमेकं तेजोमयानन्दघनस्वरूपम् |
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमार्थतत्त्वम् || ४. ८८ ||
श्री गुरुमूर्तिः |
एवं श्रुत्वा निदाघस्स ऋभुवक्त्राद्यदार्थतः |
ब्रह्मैवाहमिति ज्ञात्वा कृतकृत्योऽभवद्विधे || ४. ८९ ||
यतस्त्वं च परात्मानं श्रुतवानसि मन्मुखात् |
त्वं च धन्यः पुनः पृच्छ श्रोतव्यान्तरमस्तिचेत् || ४. ९० ||
|| इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे षष्ठोऽध्यायः एवं
श्री ऋभुगीताख्योऽयं ग्रन्थस्समाप्तः ||
|| ॐ तत्सत् ||
---------------------------------------------------------------------------------------------