close


  • तर्कताण्डवविवृतिः (न्यायदीपः)


॥   तर्कताण्डवम् ॥

श्रीराघवेन्द्रतीर्थकृतन्यायदीपाख्याव्याख्यासमलङ्कृतम्


मुखोपन्यासः

 

व्यासत्रयनाम्ना प्रथितेषु चन्द्रिकान्यायामृततर्कताण्डवाख्येषु ग्रन्थेषु कृतविमर्षानां महोदयानां विचारचातुरी स्वसिद्धान्तवैखरी सुतत्वसाधुरी च सुगमतया भवतीति नाविदितमुद्धोषयामो वयम् । त्रिष्वप्येषु तर्कताण्डवाख्योयं वादग्रन्थादिराजः निगमोपकारतया शिष्टप्ररिगृहीतासु तर्कशास्त्रपरम्परास्वागन्तुकानां,"वेदाः केनचित्कृताः । न प्रमाणम् । अपि तु सहकारिमहिन्मैव प्रमाणम् । ईश्वरः परिमितगुणः । दुःखध्वंसो मोक्षः"इत्यादिमविषयान्निगममहिमापकर्षकान् प्रतिपादयतां प्रबन्धानां
दूषणीयतां, निगमविरोधाकूतानामादरणीयतां च युक्त्यैव समर्पयति । यदस्य नाम्नि; तर्के ताण्डवं, तर्कस्य तण्डवं, तर्के ताण्डवमिति च त्रिधा विग्रहीतव्यमास्ते । तेन हि सप्तम्या अधःकारस्य, षष्ट्या भावाविष्करणचेष्टाविशेषरूपताण्डवान्वयिनः सम्बन्धस्य, अनुमार्तकतर्कशब्देन युक्तेश्च सुलभो लाभः ।

कथमस्मिन्कल्पनीवनावनपथे निःशङ्कसञ्चरणमादरश्चेति शङ्का परमवशिष्यते । तत्रैतद्व्यानस्य दिशं प्रत्यङ्गुलि प्रसारयामः । व्याख्यानस्यास्य, तात्पर्यचन्द्रिकायाः प्रकशस्येव, सुधायाः परिमलस्येव च नर्तनोपकारकवस्तुनाम्ना न नामाभिहितम् । अपि तु मुलनाम्नोपि स्वनाम्नैव व्याचिख्यासया, शुष्कन्यायं दीपयति दहतीति, सन्न्यायं प्रकाशयतीति, न्यायेन युक्त्या प्रकाशत इति च सुलभत्रिविवारणं न्यायदीपनामैव । नैतवदेव सन्ति च वाक्यानि। सम्पुटेस्मिन् द्वितीयपुटे चतुर्दशतमपङ्केः"अत्र न्यायचिन्तापरे ग्रन्थे"इत्यारम्य"ब्रह्मतन्त्रोक्तप्रमेयनिर्णयोपयुक्तप्रमाणन्यायचिन्तापरत्वात्तद्विषयादिनैवास्य विषयादिमत्ता"इति; तृतीयसम्पुटे नवमाङ्कौ"ताण्डवकरणस्य
प्रसञ्जकं पूर्वरङ्गं निबध्नाति"इति च । द्वितीयसम्पुटे उपयुक्तचिन्तापदाभ्यां ब्रह्मतन्त्रा(वेदान्ताना)नुकूलाननुकूलन्यायोर्युक्तायुक्तत्वाविमर्शनस्य तृतीयपुटपङ्क्त्या नर्तनार्थविवक्षायाः, सर्वत्र युक्त्यनुधावनस्य चावगमः सुलभः॥

इदृङ्महिम्नोस्य ग्रन्थस्य प्रथमं सम्पुटमिदानीं प्रकाशयामः । तत्र प्रथमतः ग्रन्थं

ग्रन्थकर्तारं चाधिकृत्य कञ्चन मुखोवन्यासमारचयेम ॥ आस्तामनन्तरं विपुला ग्रन्थविचारणा । कर्तुरपि विचारणे सङ्कुचितैवास्मदीया प्रवृत्तिः। यतः प्रचीनः सोमनाथकविवरेण्यः व्यासविजयाख्यकाव्ये सुविशालमुपाश्लोकयत् । उपलभमाहे

च मुद्रितं काव्यमिदमिदानीम् ॥

सुविचारविचारणाविवेकशौण्डस्यास्य तर्कताणडवस्य; अपरेषां १. न्यायामृतम्,

२. तात्पर्यचन्द्रिका, ३. तत्वविवेकटीकामन्दारमञ्जरी, ४. उपाधिकण्डनटीकामन्दारमञ्जरी, ५. मायावादखण्डनटीकामन्दारमञ्जरी, ६. मिथ्यात्वानुमानखण्डनटीकामन्दारमञ्जरी, ७. भेदोज्जीवनम्, इत्येषामपि ग्रन्थामनां ग्रथयितारः पदवाक्यप्रमाणज्ञाः सम्प्रदायार्थकोविदाः व्यासराजमुनयः ।

एभ्यः पारव्राज्यप्रदातारः

"कंसध्वंसिपदाम्भोज संसक्तो हंसपुङ्गवः ।
ब्रह्मण्यगुरुराजाख्यो वर्ततां मम मानसे"॥

इति तात्पर्यचन्द्रिकादावादृता ब्रह्मण्यतीर्थमुनिवरेण्याः । विद्यागुरवस्तु सर्वशास्त्रविशारदाः ज्ञानभक्तिवैराग्यादिगुणगुम्भिताः श्रीपादराजाः इति विश्रुता लक्ष्मीनारायणमुनयः । इममप्यभिप्रयन्तिग्रन्थकारा एव

न्यायामुते

"ज्ञानवैराग्यभक्त्यादि कल्याणगुणशालिनः ।

लक्ष्मीनारायणमुनीन् वन्दे विद्यागूरून्मम"॥ इति ॥

एतेषामन्तेवासिन अनेके अवर्तन्त । तेषु चतुरधिकशतानां ग्रन्थानां निर्मातरो विजयीन्द्रसंयमीन्द्राः, गुर्वर्थदीपिकायुक्तिमाल्लिकाद्यनेकग्रन्थकतारो वादिराजस्वामिनश्च सुप्रसिद्धाः ॥

क्रिस्तशकषोडशशतमाने भारतभूमिमिमे मूर्तितोप्यलमकुर्वन्निति शासनसंपादितो निर्णयः ।"विजयनगराधीशकृष्णदेवराजेन गौरपुराभिदो ग्रामः व्यासराजस्वामिभ्यः

नवचत्वारिंशतदधिकचतुःशतोत्तरैकसहस्रतमे शकाब्दे दत्तः"इति हि शासने प

ठन्ति । ग्रन्थैरेभिरखिलानुपकुर्वतामेषां विशेषतः सर्वे मध्वमतावलम्बिन अधमर्णा एव ॥

अयमपि तु कथासंग्रहः पण्डितरत्नबिरुदाङ्कितविद्वद्वरगौडगोरि वेङ्कटपमणार्यरचितचन्द्रिकाप्रकाशप्रसराख्यग्रन्थस्य भूमिकात उद्धृतः ॥

व्यसतीर्था एते गनशास्त्रे कर्णाटककविकर्मणि च सुकृतपरिचया इति एभिःकृतगानगाथापरिशीलनेन निश्चिनुमः। अत एषां शिष्यपरंपरे द्वे । गीर्वाणभाषया द्वैतसिद्धान्तप्रचारकाणामेका । कर्णाटकभाषया द्वैतसिद्धान्तप्रचारकाणामपरा । प्रथमपरम्परां विजयीन्द्रादयाः पण्डितप्रकाण्डा प्रथमपरिगणनाः । द्वितीयायां प्रसिद्धतमपुरन्दरदासादयः । यैः कृतगीतिकामेव सर्वे गानाभ्यासिनः प्रथममवलम्बन्ते । पुरन्दरदासादयोपि नानाधीतगीर्वाणप्रबन्धाः । अभ्यस्तवेदान्तशास्त्रा एव । परंलोकोपकाराय कर्णाटकभाषया प्रबन्धानबन्धयन् ॥

ततः प्रकृतग्रन्थमिममधिकृत्य विचारयिष्यामः । तर्कताण्डवस्येत्थं नामकरेण तदनुगुणत्वे च पूर्वमेव किञ्चिदलिखाम । इदानीमत्र प्रकरणविभाग, प्रतिपादनीयं,

प्रतिपादनापारिपाटां च निरूपणायानेष्यामः ॥

विभागः   आदौ प्रत्यक्षपरिच्छेदः शब्दपरिच्छेदः अनुमानपरिच्छेदः इति त्रिधा परिच्छेदनाम्ना विभागः कृतः । ४८७ पुटे ७ पङ्क्त्यौ,  ४९०  १२ पङ्क्त्यौ ५०५  ५ पङ्क्त्यौ च व्याख्याने प्रथमद्वितीयतृतीयशब्दैः परिच्छेदशब्दोत्तराण्येव नामानि व्यक्तीभवन्ति हार्दं किञ्चिदस्ति एव सुव्यक्तमिदम् ॥

परिशीलितेस्मिन् ग्रन्थे प्राथो विष्णुतत्वनिर्णयस्य प्रमाणनिरूपणवाक्यानां नानाविवरणान्युपलभ्यन्ते । तत्र"सदागमैक"इति श्लोकेन हरिं स्तुत्वा तत्रोक्तविशेषणानां तत्कोटिप्रविष्टानां च समर्थनायोत्तरोद्योगः, परिच्छेदनाम्नैव विभागः, तेपि त्रय एव हि वर्तन्ते । अत्रापि प्रथमतः"स्वतप्रमाणैः"रिति श्लोकः, तत्र श्रीरमणविशेषणकोटिप्रविष्टानां समर्थनार्थाम्भस्च वर्तते । परिच्छेदत्रयकृतिरपि तद्वभागकरणमनुरुणद्धीति वयमुत्प्रेक्षामहे । एतत्सम्पुटान्तिमग्रन्थपर्यालोचनया"स्वतः"इत्यादिश्लोकपूर्वोर्धोक्तस्थापनायैतावान्प्रबन्ध इति सुव्यक्तं भविष्यति ।"तदेवं वर्णस्य
गुणत्वे उक्तरीत्या ग्रहणासम्भवात्नित्यविभुद्रव्यात्मकवर्णसमुदायात्मकस्य

वेदस्यापौरूषेयत्वं युक्तमिति"इति मूले ।"युक्तमिति । तथाचाम्नायैरादिवर्जितैरित्युक्तं साध्विति भावः"इति व्याख्यायां चास्ति ॥

परिच्छेदेष्वप्येष्वान्तरालिकान् षड्विभागान् तत्तद्विषयविवेचनानुगुणैर्वादशब्दोत्तरैर्नामभिरुपलभामहे । त इमे

१. प्रामाण्यवादः

२.वेदापौरुषेयत्ववादः

३. ईश्वरवादः

४.वर्णवादः

५. समवायवादः

६. निर्विकल्पवादः । इति ।

षट्स्वप्येषु द्वात्रिन्द्विभागाः सन्ति । तेषां"स्वमते ज्ञाप्तौ स्वतस्त्वनिरुक्तिः"इतिरीत्या विषयानुगुणान्येव नामानि तत्तदन्ते लिखितान्यवलोक्यन्ते । विषयानुक्रमणिकायां तानि स्पष्टानि । यथा महाविभागानां नामसु समानः परिच्छेगशब्दः. यथा च तदल्पानां मध्यविभागानां नामसु वादशब्दः, एवमेवान्तिमविभागानां नामस्वपि

समानोऽप्रतिकूलार्थदः कश्चन शब्दो भवेदेव । तेन प्रथमाद्वितीयादिसंख्याशब्दान्योजयित्वाह्वयामेत्यपरमप्यनुकूलम् ।

भगवान् बादरायणः महाभारतेपर्वान्तैः पौलोमास्तिकादिशब्दैरल्पविभागान्, तादृशैः आदिसभादिशब्दैरनल्पविभागांश्चोररीचकार, इमे

व्यालमुनयोप्यल्पोभयगणघटितानां नामस्वन्तमप्रतिकूलार्थं वादशब्दमेवानुमन्यत इत्यस्मान् प्रतिभाति नायमध्वास्मदुपज्ञः । न्यायदीवकर्त्रैव कृतपदाङ्कः । तत्र चतुर्थपुटे अष्टमाङ्कौ"अत्र स्वतः प्रमाण्यज्ञप्तिवादपर्यन्तं"इति; १०८ तमपुटे ११ पङ्क्तौ"अतीतवदोक्तदिशा निःशङ्कप्रवृत्त्यर्थं, अत्र वादे उक्तदिशा"इति; ३७८ तमपुटे ६ पङ्क्तौ"व्यक्तं चैतद्वा (१) दान्ते ग्रन्थे एव"इति च पश्यामः ।

स्वतन्त्रवादग्रन्थे न्ययामृतेप्येषैव रीतिरिति, ४५९ तमपुटे ८ मपङ्क्तौ"न्यायामृते असतो निषेदप्रतियोगित्वसमर्थनवादे"इति व्याख्यानस्यास्य वाक्यविमर्शका अभ्युपगच्छेयुः । मूलेपि केषिचित्पुस्तकेषु १८४ तमपुटे ९ मपङ्क्तौ"इत्युत्पत्ति स्वतस्त्ववादे"इत्यस्ति ॥

आस्तामयं विचारः । इत्थमस्ति महावादेषु विन्यस्तानामणुवादानामियत्तानिर्णयः॥

प्रथमे प्रामाण्यवादे ..... अष्टादश  ..... १८

द्वितीये         ........ उत्तरास्त्रयः ... ३

तृतीये          .......... अनन्तर एक एव १

चतुर्थे           ......... ततः षट्....    ६

पञ्चमे           ......... उपरि द्वौ ..... २

षष्टे            ......... अवशिष्टौ ...... २ इति ।

प्रतिपादनीयः.

आदावेव नामानिर्वचनाव्याजेन प्रतिपादनीयो विषयः सामान्यतः प्रदर्शितप्राय एव् केवलनैयायिकाभिधानानामनृसृतवेदानां च ज्ञानज्ञानसाधनविषये यत्रयत्र विसंवादस्तत्समीकरण एव ग्रन्थकर्तुर्मुख्योभिप्रायः । तेषांस्तेषां संपुटानां प्रकाशनवेलायां विशेषतस्तांस्तान्विषयान् प्रतर्शयिष्यामः ॥

प्रकृतसंपुटे अयं विषयविशेषः .

प्रत्यक्षखण्डप्रत्यक्षपरिच्छेदशब्दाभ्यामपि संकेतितेस्मिन्संपुटे प्रत्यक्षज्ञानानां, तत्साधनानां, तत्प्रामाण्यानां, ज्ञेयानां च निरूपणं न्यायतः संप्राप्तम् । ज्ञानाज्ञेयसाधनानि प्रमाणलक्षणपद्धत्यादिभिरेव सुखावबोधनीति प्रामाण्यमेवोर्वरितम् । तत्रापि प्रामाण्यस्वरूपविषये न तादृशो विवादः । अपि तु

कथमस्योत्पत्तिः ज्ञप्तिश्चेत्यत्रैव । अतः स एव विषयः सामान्यरूपेण विचारपथपान्थ इति सुष्ठु पश्यामः नहि सामान्याकारेण चर्चितं प्रत्यक्षप्रामाण्यत्वादिरूपविशेषाकारेण न सिध्यति ॥

प्रत्यक्षपरिच्छेदे प्रत्यक्षप्रमाण्यविचार एवानुरूपः । न तु शाब्दप्रमाण्यादेः । सत्यम् । तत्तत्परिच्छेदे तत्तत्प्रमाण्यमेव यदि न्यरूपयिष्यन् तदा, प्रमाण्यसामान्यस्य न स्वतस्त्वं कथं प्रमाण्यविशेषस्येति शङ्कावशिष्टाभविष्यत् । अतः प्रथम्यात्सामान्यविचारेणैवविशेषशङ्काया अपि शान्तेरत्रैव प्रमाण्यसामान्यनिरूपणं नानुपपन्न मित्युत्पश्यामः

तत्रापि

(क) पामाण्यं स्वत इति वेदान्तिनः

,,  परत इति नैयायिकाः

(ख) वेदाः अपौरुषेया नित्याश्चेति वेदान्तिनः

ईश्वरोच्चरिता अनित्या इति नैयायिकाः

(ग) ईश्वरस्य सार्वज्ञ्यादिकं वेदेनैव सिद्ध्यतीति वेदान्तिनः

धर्माग्राहकानुमानैरिति नैयायिकाः

(घ) वर्णाः नित्यविभुद्रव्याणीति वेदान्तिनः

अनित्या गुणा इति नैयायिकाः

(ङ) वर्णः संयोगेन ज्ञेय इति वेदान्तिनः

समवायेनेति नैयायिकाः

(च) निर्विकल्पज्ञानं नास्तीति वेदान्तिनः

अस्तीति नैयायिकाः

इति षोडा विप्रतिपत्तयः सन्ति । तत्र निर्णयायैव वादानामङ्गीकारः ॥

प्रमाण्यविषयोयं परिच्छेद इत्युक्त्वा वेदेश्वरादीनां विचारणे कः प्रसङ्गः इति परं शङ्कोन्मीलति । तामेवं प्रतिब्रूमः ॥

प्रक्रान्ते प्रमाण्यस्वतस्त्वे याया बाधकाशङ्काः समापतन्ति तासामसमीकरणे सिद्धान्तस्य न सुस्थापना भविष्यतीति वादपञ्चकानां समाश्रयणमिति । ततश्चैवं पूर्वपूर्ववादानामुत्तरोत्तरवादानुषङ्गिता ॥

ज्ञानज्ञानसाधनानां प्रामाण्यस्वतस्त्वे निरूपणीये वेदेपि तदनुवर्तमानं वेदनित्यत्वापौरुषेयत्वाभ्यां सुव्यवस्थापितम् । वेदस्य पौरुषेयत्वादिदमसंगतमिति शङ्कापनोदाय द्वितीयस्य वेदापौरुषेयत्ववादस्य रचना । पौरुषेयत्वे यानुपपत्तिस्तामेवं परिहरामीति प्रतिवादिनः प्रत्यवस्थाने तृतीयस्य वादस्यारम्भः।

वर्णानामनित्यत्वत्तत्समुदायरूपवेदानामप्यनित्यत्वमिति प्रश्ने; शब्दोनित्यविभुद्रव्यं, ध्वनिराकाशगुणः, इति प्रतिपादयतश्चतुर्थस्य । यदि शब्दो नाकाशगुणः तर्हि श्रोत्रेणाकाशेन न  समवायसंबन्ध इति कस्तं श्रोत्रेण जानीयादिति कोलाहलप्रशमनाय समवायनिषेधयितुः पञ्चमस्य । समवायाभावे निर्विकल्पक सविकल्पकभेदेन प्रत्यक्षप्रमाद्वैविध्यमुन्मूलितं भवतीत्युद्धोषस्य स्वेष्टतां प्रथमतः षष्ठस्य चेति ॥

प्रतिपादनपरिपाटी.

विषयाचलनरीतिमेकदेशे प्रमाण्यवादे  दिक्प्रदर्शनेन प्रदर्शयिष्यामः ॥

"स्वतःप्रमाणैः"इतिश्लोके प्रमाण्यस्य स्वतस्त्वं प्रकान्तम् । प्रमाणशब्दः यदि भावसाधनस्तदा प्रमाण्यं ज्ञनधर्मः । अथ करणसाधनस्तर्हि ज्ञानसाधनधर्मः । द्विविधेप्यस्मिन् प्रामाण्ये ज्ञ्प्तौ स्वतस्त्वं, उत्पत्तौ स्वतस्त्वं चेति द्वयीरितिरस्ति ।

अन्ततो ज्ञनगतस्य ज्ञप्तौ स्वतस्त्वमुत्पत्तौ स्वतस्त्वं करणगतस्य ज्ञप्तौ स्वतस्त्वं, उत्पत्तौ स्वतस्त्वं चेति चीतुर्विध्यमागतम् । क्रमश एषां निरूमणमारच्यते ॥

तच्च

किं तत्स्वतस्त्वं नाम ?

प्रकारान्तरे कानुपपत्तिः ?

किं प्रमाणम् ?

अनुपपत्तीनां कथं परिहारः ?

परतस्त्वं कुतो न ?

इति शङ्कोत्तराभ्यां सुरुचिरं भविष्यतीति तथैवानुधावति विचारणाप्रवाहः ॥

सर्वत्रापि स्वतस्त्वं नाम सहजत्वं, औत्सर्गिकत्वं वा, न त्वितरापेक्षणेनाहितत्वमितिसारम् । अत एव द्वादशतमे पुटे"सहजत्वात्प्रमाण्यग्रहणस्यौत्सर्गिकत्वरूपस्वतस्त्वासिद्धि"रिति, २०३ तमपुटे,"प्रमाजनकशक्तिः सहजा नतु भ्रमजननशक्तिवदाधेये"ति चास्ति ॥

१. ज्ञानप्रमाण्यस्य ज्ञप्तौ स्वतस्त्वम्

एतच्च त्रिधा निरवक् ।"याथार्थ्यरूपस्य तत्तज्ज्ञानप्रमाण्यस्य ग्राह्यप्रमाण्यविरोध्युपस्थापकसामग्र्यसमवहितग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानविषयत्वनैयत्यम्"इत्येकम् ।"तत्तज्ज्ञानप्रमाण्यस्य ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानविषयत्वयोग्यत्वम्"इत्यपरम् ।

नैयायिका यदाकारं ज्ञानमनुव्यवसायं मन्यन्ते तदेवात्र साक्षिशब्दितम् । स साक्षी यदि ज्ञानं गृह्णीयात्तर्हि तत्प्रामाण्यमपि गृह्णात्येव । यथा स्वयं गन्तुर्गजस्य कण्टकापसरणं प्रयोजकमेव न तु करणं तथा

प्रामाण्यविरोध्युपस्थापकनिवारणमपि । इति प्रथमनिरुक्त्या पर्यवसितोर्थः । द्वितीयया तु अग्नेर्दाहकशक्तिवत्साक्षिणी प्रामाण्यग्रहणशक्तिरस्ति । अग्नेः प्रतिबन्धकाददाहकत्ववतस्यापि प्रामाण्याविषयता । तथापि करतलादौ दाह्यतवत्प्रामाण्येपि साक्षिग्राह्यता । इति साक्षिविषयतायोग्यत्वं स्वतस्त्वमिति फलितम् । तृतीया निरुक्तिस्तु न स्वमतासाधरणेत्यास्ताम् ॥

२.  प्रकारान्तरे अनुपपत्तिः

"तदप्रामाण्यग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वं स्वतस्त्वम् । तदभावश्च परतस्त्वम् । इति मणौ पूर्वपक्षे मीमांसकानां स्वतस्त्वं निरुक्तम् । तस्यात्रान्ततो दूषणमिदभिहितमस्ति ।"तत्"इति शब्देन प्रकरणप्राप्तघटज्ञानं यत्र जायते तत्र तत्प्रामाण्यं

न भासते, ज्ञानं परं प्रतीयत इति बाध इति ॥

तज्ज्ञानविषयकज्ञानाजन्यजन्यज्ञानविषयत्वमिति परिष्कारोपि केनाप्यजन्येश्वरज्ञानेन स्वेष्टस्यानुव्यवसायस्यापि जन्यत्वानुपपन्नार्थकः॥

अतः तज्ज्ञानविषयक जन्यज्ञानेत्याद्युक्तौ, उभयज्ञ जन्यपदत्यागेन अजन्यत्वस्य स्वानुकूलतया निर्वचने वा बाधादिदोष एवोक्तः । सर्वं ज्ञानं गुण इति वाक्ये प्रयुक्ते तादृशमेव शब्दज्ञानं जायते । तदनुव्यवसायेन तत्प्रामाण्यमवगाह्यत इति स्थितिः । अयमनुव्यवसायः अत्र यद्विशेषणमुक्तं तादृशो न भवतीति सारम् ॥

३. स्वतस्त्वे प्रमाणम्

"ज्ञानप्रमाण्यं स्वतो ग्राह्यं परतोऽगृह्यमाणत्वे सति गृह्यमाणत्वात्यद्यदन्येनागृह्यमाणत्वे सति ग्राह्यं तत्तेन ग्राह्यं यथा चक्षुरन्येनागृह्यमाणं रूपं चक्षुर्ग्राह्यम्"इत्यादि प्रथमस्वतस्त्वनिरुक्त्यनुरोधेन;"विमतोऽनुव्यवसायः स्वग्राह्यज्ञानप्रामाण्यविषयकिरणयोग्यः  अनुव्यवसायत्वात् गृहीतप्रमाण्यसमानविषयकज्ञानान्तरानुव्यवसायवत्"इत्यादि द्वितीयानुरोधेन चोक्तम् ॥

केवसतर्कसरण्या प्रतिपादिकानां विषयाणां ललितवचनानुवादो न सुकरः सूपयुक्तेश्चेति तांस्तथैव परित्यजामः ॥

४. प्रामाण्यस्वतस्त्वे अनुपपत्तिपरिहारः

इदं रजतं जानीमेत्येकोऽनुव्यवसायः । एतदनन्तरं रजतं ज्ञाने प्रकारो वा न वेति न संदेहः । अतः रजतत्वप्रकारकत्वं न बहिरर्थः । अनुव्यवसायस्य विषयश्चैतत् । रजतत्वविशिष्टं न वा संदेह उदेति । अतो रजतत्ववैशिष्ट्यं बहिरर्थः । नानुव्यवसायविषयः । रजतत्ववैशिष्ट्यादिकं प्रमाण्ये प्रविष्टमास्ते । अतः कथं प्रमाण्यस्वतस्त्वसाधकानुमानैः प्रमाण्यमनुव्यवसायविषय इति साधनम्? एवं बाधादिति शङ्कायाम्; व्यवसाये रजतत्ववैशिष्ट्यग्राह्यहित्वं केन
प्रमाणेन सिद्ध्यति अनुव्यवसायेनेति ब्रूयात् । यद्यनुव्यवसायः तदविषयः तस्य सिद्धिरेव ? न स्यादिति दिशा परिहारः ॥

५. ज्ञाने जाते प्रथमतः प्रमाणं न वेति संशयो भवति । स नोदियात् । ज्ञानग्रहणवेलायामेव प्रमाण्यस्थापरित्यागात् । इत्यन्यानुपपत्तिः । प्रतिबन्धकाभाव एव प्रामाण्यग्रहणनियम उक्तः । न तु प्रतिबन्धकसत्वे । प्रमाण्यसंशयस्थले विरोधी वर्तत इति न प्रमाण्यं विषयो भवति, अतः संशयः इत्यादिदिशा परहारः ॥

६. प्रामाण्यस्वतस्त्वे ये हेतव उक्तास्ते सन्तु, साध्यामाभूवनित्यप्रयोजकशङ्काया इत्थं परिहारः ॥ महति कार्ये यागादौ निष्कम्पं प्रवर्तितुं वेदादौ प्रामाण्यमवश्यवेद्यम् । तथाचैकस्मिन् प्रामाण्यमितरेण, तत्रान्येन, तत्रापरेणेत्यनवस्था स्यादिति परतस्त्वं प्रमाण्यस्य परित्यज्य स्वतस्त्वमेवाभ्युपेयमिति ॥

परतस्त्वं कुतो न ?

७. प्रमाण्यपरतस्त्वे अप्रामाण्यशङ्कापरिहारणाय प्रमाण्यनिश्चयावश्यकतया उक्तरीत्यानवस्था एको दोषः ॥

८. प्रामाण्यमनुमेयं चेत्कथं प्रथमतः प्रामाण्यज्ञानं, साध्याप्रसिद्धेरित्यपरो दोषः ॥

९. "स्वाश्रयविषयकनिश्चयावधिकतृतीयक्षणवृत्तिसमानाधिकरण्यसंशयविषयी

भतं ज्ञानप्रमाण्यं, ग्राह्यज्ञानप्रकारप्रकारतया तद्वद्विशेष्यतकतया च स्वाश्रयग्राहकतयावज्ज्ञानाग्राह्यं, स्वाश्रयविषयावधिकतृतीयक्षणवृत्तिसमानाधिकरणसंशयकोटित्वात्, अप्रामाण्यवत्"

इत्यस्य अप्रामाण्यं स्वतो न गृह्यते । ज्ञनानन्तरं तृतीयक्षणे अप्रामाण्यसंशयोदयात् । तथा प्रमानन्तरं तृतीयक्षणे क्कच्त्प्रामाण्यसंशयोदयात्प्रामाण्यमपि न स्वतः इति सारम् । इत्यपरः प्रत्युद्गमः । तस्येत्थं परावर्तनम् । अत्र

साध्ये स्वाश्रयग्राहकयावज्ज्ञानपदं स्वेष्टामनुमितिमपि सङ्गृह्णातीति तदग्राह्यत्वसाधनमपसिद्धान्तदोषकबलितम् ।

बाधो व्याघातश्चेति । रीत्यानवैनयैवानुमानान्तराण्यपि दुष्टनीति ज्ञानप्रमाण्यस्य ज्ञप्तौ परतस्त्वशङ्का न सुस्थिरा ॥

उत्पत्तौ ज्ञानप्रमाण्यस्वतस्त्वम्.

अस्मिन् स्वतस्त्वनिर्वचने न तादृशः प्रयासः । पूर्वपक्षानुमानेनैव साध्यविपरीतस्य तस्य सुखावबोधो भविष्यतीत्यत्र तदनिरुच्य १५४ तमपुटे अष्टमपङ्क्तौ"ज्ञानजनकमात्राधीनजन्मत्वं स्वतस्त्व"मित्युक्तम् ॥

पूर्वस्मिन् स्वतस्त्वनिरूपणे अनुकूलान्युक्त्वा प्रतिकूलानां परिहरणमित्यनुलोम आदृतः । इदीनीं प्रतिकूलानि परिहृत्यानुकूलानां निरूपणमिति प्रतिलोम आद्रियते ॥

तथाचादौ परतस्त्वनिरासः.

१०. अनित्यप्रमा ज्ञानहेत्वतिरिक्तहेतुजन्या कार्यत्वे सति तद्विशेषत्वातप्रामाण्यवत् । इत्यादीन्यनुमानानि परतस्त्वसाधकानि वर्तन्ते । यथा अप्रमा कार्यं ज्ञानविशेषोपीति सा ज्ञानसामान्यकारणातिरिक्तदोषजन्या तद्वदनित्यप्रमापि गुणादिजन्येति तदर्थः । इति शङ्का ॥

प्रमा ज्ञानं हि । तस्यां हेतुर्ज्ञानहेतुरिति निर्विवादम् । एवमपि तदतिरिक्तहेतुजन्यत्वं यदि साध्यते तर्हि भवदनुमानेषु विरोधो बाधश्च । प्रमायाः कार्यतां निर्वहन् कश्चनगुणोपि नास्ति । एवमेवेतराण्यनुमनान्यपीतीदं दक्प्रदर्शनमात्रम् । इति परिहारः ॥

११. यद्यपि प्रमामात्रे गुणः सामान्यो मा भूत् । अनित्यप्रमामात्रे अविद्यमानासंसर्ग्रहादिकं गुणः । इति चारु दर्शयते ॥ तथापि केवलासंसर्गाग्रहस्य भ्रमेपि सुलभतया अविद्यमानविशेषणेन विषयसत्वमेवाभिप्रेति ब्रूयात् । विषयसत्वं तु ज्ञनसाधारणकारणम् । अतः न तत्स्वतस्त्वविरोधि ॥

१२. मास्त्वेकोऽनुगतो गुण अनित्यप्रमासु । अननुगतैरनेकैरेव प्रमोत्पद्यताम् ।"अनित्यप्रमात्वं स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्ति स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताप्रतियोगिककारणत्वाश्रयमात्रानुत्पाद्यकार्यमात्रवृत्तिधर्मत्वातप्रमात्ववदित्यनुमानं तत्र बलमस्ति । अप्रमात्वमनित्यज्ञानसामान्यकारणापेक्षया अधिकं कारणमपेक्षते यत्कार्यं तन्मात्रस्थितिकम् । अतस्तत्; स्वाश्रयजन्यभ्रमवृत्तयः येये धर्माः जन्यप्रत्यक्षभ्रमत्वादयः तत्तदवच्छिन्नकार्यताश्रयाः जन्यप्रत्यक्षभ्रमादयः । तन्मात्रे वर्तते । एवं च  अनित्यभ्रम इति नैकजातीयं कार्यम् । अपितु प्रत्यक्षानुमित्यादिभेदेन
नाना । तदनुरोधेन कारणान्यप्यनेकान्येवेति फलितम् । तथैवानित्यप्रमा अपि नाना कार्याणि । तत्त्कारणान्यपि नानैव । तत्तदनुरूपा गुणास्तत्रतत्र कारणानीति पर्यवसितम् ॥

इयं यज्ञपत्युक्तपञ्चमात्रपदानुमानतः शङ्का । अस्या इत्थं परिहरः ॥

सन्तु नामानित्यप्रमाकारणानि नाना । न तानि गुणाः । अपितु अस्मदनुमतास्तत्तत्प्रमाप्रागभावा एव् तथाप्युक्तानुमाने साध्यहेतुसंगतेः । अतः सिद्धसाधनं दोषः । इति ॥

१३. अनित्यप्रत्यक्षप्रमात्वं कार्यतावच्छेगकं बाधकं विना कार्यमात्रवृत्तित्वात्घटत्ववत् । घटत्वं कार्यमात्रे वर्तते । अतस्तत्कार्यतावच्छेदकम् । एवमानित्यप्रत्यक्षप्रमात्वमपि स्यात् । अनित्यानुमितिप्रमात्वे शाब्दप्रमात्वे चायमेव क्रमः । इत्यपरा शङ्का ॥

प्रत्यक्षप्रमामात्रे इन्द्रियसंनिकर्षोर्ऽथश्च न हेतू । यदा शुक्तिं दृष्ट्वा रजतमिति भ्रम्यति तदा सन्निकर्षस्य शुक्तिरूपार्थस्य च तत्र सत्वेन शुक्तिरियामिति प्रमोदयापत्तेः। दोषः शुक्तिं न भासयतीति यदि, तर्हि दोषाभाव एव प्रमायामुपयोगी भवतु । अपरं कारणं मास्तु । इत्युत्तरम् ॥

१४. अनित्यप्रमात्वं, अनित्यज्ञानत्वप्रयोजकं यावत्तदधिकप्रयोजकापेक्षमधिकप्रयोजकसत्वे उत्पत्तेः अधिकप्रयोकासत्वे अनुत्पत्तेः अप्रमात्ववत् । इत्यनुमानेन स्थूलावयवतो वस्तुनः प्रत्यक्षप्रमायां भूयोऽवयवेन्द्रिसन्निकर्षः कारणम् । संशयविपर्ययोत्तरस्मिन् तस्मिन् विशेषप्रमा कारणम् । नियमेन प्रमारूपायामनुमितौ लिङ्गपरामर्शः कारणम् । तादृशायां शाब्दप्रतीतौ वाक्यार्थज्ञानं कासणम्"इति फलति इति पूर्वपक्षे ॥

कामिलारोगिणः शङ्के शङ्कत्वशुक्लत्वज्ञानं भूयोऽवयवेन्द्रियसन्निकर्षश्च वर्तते । तथापि शङ्कं पीतं भ्राम्यति । न तु शुक्लं प्रमिनोति । अतः कारणमस्ति कार्यं नैवेत्यन्वयव्यभचारो दोषः । पुरोवर्तिनि स्थाणुर्वा पुरुषोवेति संशयः । ततः

करादिकं चरणादिकं मत्वा पुरुष एवेति निश्चयो भवति । सा प्रमैव । संशयोत्तरस्मिन्नस्मिन्प्रमाज्ञाने भवदभिमतस्य विशेषप्रमारूपस्य कारणस्य क्व प्रसक्तिः ? नास्ति । अतः कारणं नास्ति कार्यमुत्पन्नमिति व्यतिरेकव्यभचारोपि ।

इति समाधानम् ॥

१५. दोषाभाव एव कारणमास्ताम् । तथापि प्रामाण्यस्वतस्त्वहानोरिति न सुस्थायि । दण्डत्वदण्डगतदार्ढ्य प्रमुखानां कार्योपयोगित्वेपि कारणत्वाभाववदिहापि निर्वाहात् ॥

इयता प्रमाण्यस्योत्पत्तौस्वतस्त्वे अनुपपत्तयोपि परिहृता एव ॥

प्रामाण्यस्योत्पत्तौ स्वतस्त्वे किं प्रमाणम्

१६. अनित्ययथार्थज्ञानत्वमनित्यज्ञानत्वानवच्छिन्न कार्यतानवच्छेदकमनित्यज्ञानावृत्तित्वराहित्वात्ज्ञानत्ववत् । इत्याद्यनुमानं मानम् । ज्ञनत्वमनित्यज्ञानावृत्ति न । अतस्तदवृत्तित्वरहितम् । तस्मादनित्यज्ञानत्वविशिष्टे सर्वत्र वर्तते या

कार्यता तस्यामनवच्छेदकम् । ज्ञानत्वेन रूपेण ज्ञानमुत्पन्नमिति न भाष्यत इत्यर्थः । एवमेव अनित्ययथार्थज्ञानत्वमपि अनित्यज्ञाने न वर्तत इति  नहि । ततः अनित्यज्ञानसामान्ये वर्तते या कार्यता तस्यामनवच्छेदकम् । अनित्ययथार्थज्ञानत्वादिना रूपेण ज्ञानं जायत इति नाह्वाययते । इतीदमस्योपपादनम् । एवं च ज्ञानजनने यावदपेक्षितं तदधिकं कारणं प्रमा नापेक्षत इति फलितम् । तथा च १५४ तम पुटे अष्टमङ्क्तौ"ज्ञानजनकमात्राधीनजन्मत्वं"इत्युक्तस्वतस्त्वसिद्धिः ॥

१७. अप्रमात्वं ( भ्रमत्वं ) मपि स्वत एव स्यात् । दोषस्तु प्रमायां गुण एव भवतु । इति प्रतिबन्दीत्थं परिहरणीया । दोषसत्वे भ्रमः, दोषाभावे न भ्रमः; इत्यन्वयव्यतिरेकयोर्न कथं कथमपि परित्याज्यतेति दोषोऽप्रमाकारणमित्यवर्जनीयमेव ।

करणप्रामाण्यस्वतस्त्वम्.

ज्ञानप्रामाण्यस्वतस्त्वे वादप्रतिवादाभ्यामेव करणप्रामाण्यस्वतस्त्वेपि प्रतिभटपरावर्तनं सुशकमिति तदर्थमत्र पृथङ्नायासः ॥

१८. यथार्थज्ञानसाधनत्वमेव करणप्रामाण्यम् । तस्य ज्ञानजनकत्वग्राहकमात्रग्राह्यत्वं ज्ञप्तौ स्वतस्त्वम् ॥ करणेषु ज्ञानजननशक्तिर्यथा सहजा यथा यथार्थज्ञानजननशक्तेरपि सहजत्वम्, तदभिन्नत्वं वा उत्पत्तौ ॥

एतत्सर्वं"प्रामाण्यं स्वत एव अन्यथानवस्थानात्" "परतोऽप्रमाण्यम्"इति तत्वनिर्णयस्य विवरणरूपमेव ॥

आदित एतावत्प्रबन्धेन

"स्वतः प्रमाणैराम्नायै रादरेणादिवर्जितैः ।

आख्यादनन्तकल्याण गुण श्रीरमणं भजे"।

इति देवतागुरुनमनोत्तरमत्रोक्तप्रस्तावनाश्लोकेन आदिवर्जितस्वतः प्रमाणवेदोदितानन्तकल्याणगुणः श्रीरमण इति यदुपदर्शितं तन्नानुपपन्नम् । अपैरुषेयत्वेपि वेदस्य सहजप्रामाण्यानपायात् । इति पर्यवसितम् ॥

अतः प्रमाण्यवादान्ते तस्मात्प्रामाण्यस्य स्वतस्त्वादपौरुषेयोपि वेदः प्रमाणमेव"इत्युपसंहारमदर्शयत् ॥

व्याख्याविचारः.

अस्य ग्रन्थस्य द्वे व्याख्ये हस्तगते

१. युक्तिरत्नाकराख्या एका

२. न्यायदीपाख्या इयमपरा

युक्तिरत्नाकरकारा विजयीन्द्राः । मूलकारणामन्तेवासिनो न्यायदीपकारिणां विद्यागुरवः आश्रमतः परमगुरवश्च । अयं व्याख्या शब्दतेपि विशाला । न्यादीपे चतुर्थपुटे"अत्र स्वतःपामाण्यज्ञप्तिवादपर्यन्तं विस्तरस्तु गुरुपादकृतयुक्तिरत्नाकरे द्रष्टव्यः"इत्यस्ति । इयं सम्पुर्णा उत इयत्येवेति सन्दिहामहे । पूर्णोयं विस्तरस्तु

एतावत्येवेत्यनेनापि न्यायदीपोक्तिसंगीतर्भवति हि । नोपलभामहे च सम्पूर्णाम् । अतोऽपूर्णेत्यत्रैव पक्षपातो न्याय्यः ॥

अत्र

"गुरुपादकृताप्यस्ति व्याख्या सात्यन्तविस्तरा ।

व्याख्येयं मन्दबोधाय क्रियतेऽशेषगोचरा"॥

इति । न्यायदीपादिस्थितद्वितीयश्लोकोपि प्रमाणम् ॥

अस्या न्यायदीपाख्यायाः कर्तारो राघवेन्द्रस्वामिनः । अत्र न कोपि प्रतिवादः ॥

एतेषां जीवनचारित्रविषये राघवेन्द्रविजयाख्यं काव्यं, गुरुगुणस्तवाख्यं स्तोत्रं च मुद्गितमेवेदानीमस्ति । गुरुगुणस्तवकर्तारो रघवेन्द्रस्वामिनां पूर्वाश्रमे पौत्राः यत्याश्रमे प्रशिष्याः वादीन्द्राः ॥

मूलकारणां छात्रा विजयीन्द्राः, तेषां राघवेन्द्राः"इत्यनेनैषां कालोपि विवृतप्राय एव । एषां वृन्दावनं रायचूरुपुरसमीपवर्तिनि मन्त्रालयाख्यग्रामे भक्तेष्टविकरणविचक्षणो विराजते । इमे इतरसन्यासिन इव मरणानन्तरं न वृन्दावनं प्रवेशिताः । अपि तु

सर्वदृग्विषयतापीरतित्यक्षिषवो वृन्दवनं कल्पयित्वान्तरुपाविशन् । प्यधापयंश्च । इति सांप्रदीयिकानां तथ्यवादः ॥

मध्वसिद्धान्तस्यैभिः कृतमुपकारमेवं स्मरन्ति

"व्यासेन व्युप्तबीजः श्रुतिभुवि भगवत्पादलब्धाङ्कुरश्रीः

प्रत्नैरीषत्प्रभुन्नोऽजनि जयमुनिना सम्यगुद्भिन्नशाखः ।

मौनीशव्यासाराजादुदितकिसलयः पुष्पितोयं जयीन्द्रा

दद्य श्रीराघवेन्द्राद्विकसति फलितो मध्वसिद्धान्तशाखी । इति ॥

इतोप्यधिके एतदीयचरिते निर्दिष्टं काव्यं स्तोत्रं चास्तां मार्गदर्शीतिशम् ॥


विषयानुक्रमणिका.

वादसंख्या            विषयः

मङ्गलाचकणम्

विषयप्रसञ्जकः श्लोकः

१.             स्वमते ज्ञप्तौ स्वतस्त्वनरुक्तिः

प्रथमा

द्वितीया

तृतीया

निरुक्तित्रयस्यसुधारूढता दर्शनम्

२.               परोक्तस्वतस्त्वनिरूक्तिभङ्गः

प्रथमः

द्वितीयः

तृतीयः

चतुर्थः

३.              स्वतस्त्वे प्रमाणम्

प्रथमम्

द्वितीयम्

तृतीयम्

चतुर्थम्

पञ्चमम्

अस्य मूललभ्यतोपपादनम्

४.               स्वतस्त्वानुमानेषु बाधोद्धारः...
अनुव्यवसायस्य वैशिष्ट्यविषयकत्वसाधनम्

अनुव्यवसायस्य तद्वद्विशेष्यकत्वविषयकत्साधनम्

अनुव्यवसायस्य अर्थसत्वविषयत्वसाधनम्

उक्तार्थे मूलकृत्संमतिः

५.               स्वतस्त्वे संशयोपपादनम्

वादसंख्या             विषयः

उक्तार्थे मूलानुमतिः

६.                 प्रमाण्यनिश्चयस्य प्रवर्तमत्वम्

स्वतस्त्वहेतूनां सामान्यतोऽप्रयोजनत्वपरिपरिहारः

अर्थनिश्चयस्य प्रवर्तत्वखण्डनम्

प्रामाण्यनिश्चयस्याप्रामाण्यशङ्कानिवर्तकत्वेनो

पयोगखण्डनम्

अत्र मूलानुमतिः

७.                  परतस्त्वेऽनवस्थोक्तिः

धर्म्यज्ञानादिनाप्रामाण्यशङ्काभावसिद्धिखणडनम्

विशेषदर्शनेनाप्रमाण्यशङ्काभावसिद्धिखण्डनम्

अत्र मूलसंमतिः

स्वमते अनवस्थापरिहारः

अत्र मूलसंमतिः

८.                   परतस्त्वे प्रथमप्रामाण्यानुमित्यसंभवः

परतस्त्वे अप्रसिद्धविशेषणत्वम्

परतस्त्वे हेतोः प्रमित्यसिद्धिः

परतस्त्वे सप्तहेतुनिराकरणम्

स्वमते अप्रमाण्यपरतस्त्वे अनवस्थापरिहरः

मूलानुमतिः

९.                  ज्ञप्तौ परतस्त्वानुमान भङ्गः

मणिपूर्वपक्षः

समाधानम्

अनुमान्तरनिरसनम्

आदितः कथितानां नगमनम्

मूलारूढताप्रतर्शनम्

१०.                  उत्पत्तौ परतस्त्वे चिरन्तनानुमानभङ्गः

प्रथमः

द्वितीयः

वादसंख्या              विषयः

तृतीयः

चतुर्थः

पञ्चमः

मूलाभिप्रेतत्वम्

११.                   अनित्यप्रमामात्रानुगतगुणभङ्गः

मूलानुमतिः

१२.                  यज्ञप्रत्युक्तवक्रानुमानभङ्गः

पूर्वपक्षः

समाधानम्

१३.                    प्रत्यक्षादिप्रमासु प्रत्येकानुगतगुणभङ्गः पूर्वपक्षः

समाधानम्

प्रचीनमतनिरासः

मण्युक्तपक्षान्तरनिरासः

उपसंहारः

मूलानुमतिः

१४.                    स्थूलवयविप्रत्यक्षप्रमादौ भूयोवयवेन्द्रिय

सन्निकर्षर्हेतुत्वभङ्गः

पूर्वपक्षः

अन्वयव्यभिचारेण समाधानम्

व्यतिरेकव्यभचारेण समाधानम्

उपसंहरः

मूलसंमतिः

१५.                     प्रमायां दोषाभावस्य हेतुत्वभङ्गः

प्रयोजकत्वे इष्टापत्तिः

कारणत्वनिरासः

मूलसंमतिः

१६.                       उत्पत्तौ स्वतस्त्वेन अनुमानानि

अनित्यप्रमामात्रानुगतो गुण इतिपक्षे

वादसंख्या                विषयः

प्रत्यक्षादिप्रमासु प्रत्येकानुगता गुण इतिपक्षे

यज्ञपतिमते

भ्रमे पित्तादिरिव प्रमायामनुगता गुणाहेतव इति मते

मूलानुमतिः

१७.             अप्रामाण्य परतस्त्वम्

मूलाभ्युपगमः

१८.             कारणप्रामाण्यस्य स्वतस्त्वम्

ज्ञप्तौ

अपामाण्यपरतस्त्वम्

मूलानुमतिः

आदितः नगमनम्

वेदापौरुषेत्ववादः

१९.               वेदापौरुषेयत्वे अनुमानानि

पौरुषेयत्वे प्रमाणम्

(१) अपौरुषेयत्वानुमानम्

(२)......

(३)......

वेदाभावे धर्माद्यसिद्धिकथनम्

अत्र मूलानुमतिः

अपौरुषेयत्वे लाघवम्

अत्र मूलावलम्बः

पौरुषेयत्वे गौरवम्

अत्र मूलानुकूल्यम्

(४) ईश्वरज्ञानं न प्रमोतिमतेऽनुमा

प्रमेतिमते (त्रीणि)

अनुकूलतया मूलोक्तिः

(५) अनुमानान्तरम्

(६) अनुमानान्तरम्

वादसंख्या             विषयः

अनुकूलतया मूलोक्तिः

(७) अनुमानान्तरम् (त्रीणि)

अपौरुषेयत्वपर्यवसानम्

अत्र मूलावलम्बः

२०.               अपौरुषेयत्वे अनुकूलतर्कः

(१)   कर्तुप्रसिद्ध्यभावस्मृतिः

(२) कल्पनागौरवम्

(३)धर्माद्यसिद्धिः

(४) प्रामाण्यासिद्धिः

अत्रमूलानुग्रहः

(५) श्रुतिस्मृतिविरोधः

मूलसंगमनम्

२१.                वेदापौरुषेयत्वानुमानादिभङ्गः

(१) अनुमाननिरसनम्

वैदिकोत्तमपूरुषेण पौरुषेयत्वस्य खण्डनम्

वैदिकयुष्मच्छब्देन

वैदिकयत्तच्छब्दाभ्याम्

मूलानुकूल्यम्

समाख्यया पौरुषेयत्वस्य खण्डनम्

अनुमान्तरनिरसनम्

मूलावलम्बः

(२) श्रुत्यादिकं न प्रमाणम्

मूलानुकूत्वम्

अनित्यत्वनिरसनम्

ईश्वरवादः

२२.                   ईश्वरस्यानुमानिकत्वभङ्गः

कार्यत्वहेतुकपूर्वपक्षानुमानम्

क्षितेः पक्षत्वम्

वादसंख्या           विषयः

पूर्वपक्षदूषणम् (१)

मूलसंवादः

दूषणम् (२)

मूलसंवादः

दूषणम् (३)

मूलसंपादः

साध्यादिपूर्वपक्षोक्तांशानां क्रमशो दूषणम्

शरीराजन्यत्वे व्याप्यत्वासिद्धिरिति मण्युक्तस्य

निष्कृष्यानुवादः

अस्य समाधानम्

व्यर्थविशेषणस्य दूषणतारूपम्

कार्यायोजनस्येश्वरासाधकत्वम् (२)

धृतेरीश्वरासाधकत्वम् (३)

पदस्येश्वरासाकत्वम् (४)

प्रत्ययादीश्वरसिद्धनिरसनम् (५)

संख्याविशेषस्येश्वरासाधनम् (६)

उपसंहारः

वर्णवादः

२३.                वर्णानित्यत्वस्य प्रत्यक्षत्वप्रभङ्गः

पूर्वपक्षः

अभ्युपेत्य समाधानम्

स्वमतम्

अधिककरणयोग्यता अभावप्रत्यक्षतस्त्रता

अत्रानुव्याख्यानसंगतिः

२४.                   वर्णानित्यत्वेनुमानभङ्गः (१)

"                  (२)

"(३)

२५.                     वर्णानित्यत्वे प्रत्यभिज्ञाविरोधः          वादसंख्व्या          विषयः                                                                                                                                                                                                                                     प्रत्यभिज्ञाभ्रान्तित्वापादकबाधखण्डनम्

ध्वनेरेवानित्यत्वव्यञ्जकत्वे

उत्पत्त्यादिधियो बाधकत्वखण्डनम्                      वर्णानां नित्यत्वे अनुमानानि (नव)

वर्णानां प्रतिनियतव्यञ्जकव्यङ्गत्वम्

नेत्याशङ्का

समाधानम्

वर्णोत्पत्तौ कल्पनागौरवम्

मूलकारसंमतिः

वर्णानां नित्यत्वेपि क्रमोपदानम्

वर्णानामनित्यत्वेपि वेदनित्यत्वाहानिः

समवायवादः

समवाये प्रमाणभङ्गः

आशङ्का

आन्तरालिकाशङ्का

तत्समाधानम्

मूलशङ्कासमाधानम्

अस्य सूत्रारूढता

समवायसाधमानुमाने तर्कपरिहतिः

अस्य सूत्राल्लाभः

समवायानुमाने व्यभियारः

हेतोरप्रयोजकता

उक्तस्य सूत्राल्लाभः

मणिकृत्सिद्धान्तितानुमाननिरासः

अस्यसूत्राल्लाभः

अभावप्रतीत्यापानपरिहारः १

परिहारः              २

आपादनान्तरपरिहारःरप समवायसाधकमण्युक्तानुमानान्तरनिरासः

अयुतसिद्धिविशिष्टबुद्धीनां साजात्याय समवाय

इतिशङ्कानिरासः

समवाये बाधकम्

समवायस्य संबन्दत्वनिरासः

समवायस्यैकत्वनिराकरणम्

अस्य सूत्रारूढता

संमवायस्यानित्यत्वोक्तिः

समवायाभावे मानम्

निर्विकल्पवादः

प्रमाणाशङ्का

आन्तराशङ्का

अस्योत्तरम्

प्रथमाशङ्कासमाधानम्

नाना पूर्वपक्षसमाधानानि

विशेषणज्ञानस्य कारणत्वमङ्गीकृत्यापि

निर्विकल्पकासिद्धिकथनम्

केचिन्मतम्

निर्वकल्पके बाधकम्

इष्टापत्तिः

प्रमाणविरोधः

अस्य पद्धत्यारूढता

परिच्छेदार्थोपसंहारः


तर्कताण्डवप्रथमसम्पुटे ग्रन्थकृन्नामानि

मणिकारः.

भदवत्पादाः ( मध्वाचार्याः )

"

"

"

"

"

"

"

"

"

टीकाकाराः ( जयतीर्थाः )

"

"

"

यज्ञपतिः

व्यासः
"(सूत्रकृत्)

प्रभाकरः

"

न्यायसूत्रभाष्यकारः

उदयनः

पक्षिलः

भट्टः

कालीदासः


तर्कताण्डवप्रथमसम्पुटोद्धृतानि ग्रन्थनामानि.

सुधा

मणिः

टीका

वादावली

ब्रह्मतर्कः

प्रमाणलक्षणम्

भाष्यटीका

विष्णुतत्वनर्णयटीका

पद्धतिः

श्रुतिः

स्मृतिः

भारतम्

वेदः

भाष्यम् (न्यायस्य )

सूत्रम् ( व्याकरणस्य )
भाष्यम् ( पक्षिलस्य )

अनुव्याख्यानम्

प्रमाणलक्षणटीका

 

तर्कताण्डवप्रथमसम्पुटे धृता ग्रन्थानुपूर्व्यः

विषयः

साक्ष्येव ज्ञानं तत्प्रमाण्यं च इत्यादिः

ज्ञानगतयाथार्थ्यस्य

तदप्रामाण्याग्राहक

प्रमाण्यं च स्वत एव अन्यथानवस्थानात्

"

ऋषिभिर्बहुदागीतमित्यादिः

तदेतदृचाभ्युक्तम्

अन्यथा

"

आकाङ्क्षाया एव बुद्धिदोषात्मकत्वात्

अप्रामाण्यसंशयेनार्थनिश्चयमित्यादि

अन्यथा

"

न परीक्षानवस्था इत्यादि

अनुमेयमेवाप्रामाण्यम्

नपुनर्ज्ञानग्राहकमात्रग्राहकत्वं

अप्रामाण्यस्यानुमेत्वावसायात्

न चाप्रामाण्यं  इत्यादि

यत्क्वचिद्व्यभिचारि स्यात्

सुदृढो निर्णयो

अन्यथा

ज्ञानजनकमात्राधीनजन्मत्वं स्वतस्त्वम्

अन्यथा

"

"

अदृष्टमिन्द्रियन्त्वक्षमित्यादि

निर्देषार्थेन्द्रिय

दोषाभवस्य कारणत्वे च

इन्द्रियादीनामौत्सर्गिकी

दोषाभावेपि न प्रामाण्यकारणमित्यादि

तर्हि दोषाभावः करणमित्यायातम्

तस्माद्गुणेभ्यो

अन्यथा

"

परतोऽप्रामाण्यम्

"

कारणप्रामाण्यज्ञप्तिस्तु इत्यादि

कारणानां तु ज्ञप्तौ स्वतसत्वं नास्त्येव

अथवा ज्ञानजनकत्वमित्यादि

छन्दांसि जज्ञिरे

प्रतिमन्वन्तरम्

तदभावे सर्वसमयाभिमत

अपैरपषेयवीक्याङ्गीकारे

अविप्रलम्भस्त्वज्ञानम्

क्रमस्य कृतकत्वेपि

नियतैकप्रकारमपौरुषेयत्वम्

गौरवदोषेण

"

"

"

"

"

"

"

यतस्ता हरिणा दृष्टा इत्यादि

वाचा विरूपनित्यया इत्यादि

श्रुतिर्वाव नित्या अनित्या वाव स्मृतयो इत्यादि

अनादिनिधना नित्या इत्यादि

नित्यदेवाः समस्ताश्च

सर्गेसर्गेऽमुनैवैते

तदुत्पत्तिवचश्चैव

विज्ञेयं परमं ब्रह्म

यावद्ब्रह्मविष्ठितं तावती वाक्

"

शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तम

"

"

किं नो राज्येन गोविन्द

शिष्यस्तेहं शाधि मां त्वां प्रमन्नम्

त्वां प्रपन्नम्

वाच्यस्त्वया मद्वनात्स राजा

स राजा

"

मामुपास्य

गृभ्णामि ते सौभदत्वाय हस्तम्

वयं स्याम पतयो रयीणाम्

भूयिष्टां ते नम उक्तिं विधेम

योस्मान्द्वेष्टि

छन्दांसि जज्ञिरे

तदुत्पत्तिवचश्चैव भवेद्व्यक्तिमपेक्ष्य तु

अवान्तराभिमानानामित्यादि

तत्क्रमेणैव

ऋग्वेद एवाग्नेरजायत

यो ब्रह्मणं विदधाति

विपर्ययेणाप्यनुमातुं शक्यत्वात्

विपर्ययेण

नित्यवीप्सयोः

पक्षधर्मतासिद्ध्यर्थत्वात्

प्रागुच्चारणादनुपलब्धा इत्यादि

अनुपलब्धिस्त्वर्जनीयसन्निधिरेव

शास्त्रगम्यपरेशानातित्यादि

योग्यानुपलब्धेश्चलिङ्गत्वम्

क्वचितद्घटाद्यभावोपि,,

अभावोनुमानप्रत्यक्षं च,,

प्रायेणानुमानेन्तर्भावज्ञापनाय,,

नच सादृश्यात्प्रत्यभिज्ञा,,

प्रत्यभिज्ञानन्तरं,,

प्रदीपे व्यज्यते जातिर्न तु नीरजनीलिमा

अत आकाशगुणे शब्दे इत्यादि

वस्तितत्वविचारकं प्रति,,

समवायाभ्युपगमाच्च साम्यादनवस्थितेः

अनवस्थितेः

"

"

भूदरस्याग्निसंयोगः इत्यादि

समवायः

उपाधिजन्यं तद्गम्य

एतज्जन्मनि प्राथमिकम्,,

द्रव्यादिविकल्पानां    ,,

 

 


तर्कताण्डवम्

प्रथमपरिच्छेदः

 

॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवोदव्यासात्मकलक्ष्मीहयग्रीवायनमः ॥
॥ ओम् ॥

अन्तकल्याणगुणैकराशिमशेषदोषोज्झितमप्रमेयम् ।

मुमुक्षुभिः सेव्यमनन्तसौख्यप्रदं रमेशं प्रणमामि नित्यम् ॥ १ ॥

 

न्यायदीपाख्याव्याख्या.

विश्वोप्तत्तिस्थितिध्वंसकारणं रमणं श्रियः ।

प्रणम्य पूर्णबोधादीन् व्याकुर्वे तर्कताण्डवम् ॥ १ ॥

गुरुपादकृताप्यस्ति व्याख्या सात्यन्तरविस्तरा ।

व्याख्येयं मन्दबोधाय क्रियतेऽशेषगोचरा ॥ २ ॥

अथादो १ विशिष्टेष्टदेवतानतिरूपं मङ्गलमाचरति  अनन्तेति । सत्वादिषु गुणत्वप्रसिद्धेर्दुःखादीनां गुणत्वेन परैः

परिगणनाच्च तद्व्युदासायानन्दज्ञानबलद्युतिप्रभुतिशुभधर्मलाभाय कल्यणगुणेत्युक्तिः । तार्किकरीत्या गुणगुणिनोर्भेदभ्रमनिरासाय गुणैकराशिमित्युक्तः ।"अष्टावेवेश्वरे गुणा"इति धीनिरासायानन्तेति ।"दोषैकदृक्पुरोभागी"इत्यमरे"ह्लादैकमयीं"

इत्यादिकाव्यप्रकाशादौ प्रयोगदर्शनात्संख्यार्थकस्यैवैकशब्दस्य"पूर्वकालैक"इति

पूर्वनिपातो न केवलार्थस्येति तत्वनर्णयटीकाद्युक्त्या गुणैकराशिमित्यस्य साधुत्वं

ध्येयम् । उक्तरूपगुणानां मुख्यराशिमिति वा भेदशून्यराशिमिति वार्थः । गुणवद्दोषो नाशङ्क्य इत्याह  ॥शेषेति ॥ चिन्तासन्तापादिदोषहीनमित्यर्थः । ननु गुणविशिष्टस्य मायाशबलत्वात्कथं १ दोषोज्झितत्वमित्यतो नेदं मायाशबलमिति भावेनोक्तमप्रमेयं  देशतोऽपरिच्छिन्नमिति । शबलं तु परिच्छिन्नमित्यभ्युपेतत्वादिति भावः । तत्र हेतुर्नित्यमिति  अनिवर्त्यम् । शबलन्तु मिथ्यात्वान्निवर्त्यमित्यर्थः ।  एवं देश एकालगुणानन्त्यरूपब्रह्मशब्दार्थस्यात्रोक्त्या रमेश एव ब्रह्मशब्दार्थ इति सूचितम् । अत एव मुमुक्षुभिः सेव्यं; न तु मन्दोपास्यमित्यर्थः ।
किंफलं? अनन्तसौख्यप्रदमविनाशिसुखप्रदमित्यर्थः । स्वार्थे ष्यञ् ।त्र न्यायचिन्तापरे ग्रन्थे ब्रह्मतन्त्राध्यायचतुष्टयोक्तगुणवैशिष्ट्योक्तिः

"प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः ।

मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम्"॥

इत्युक्त्या ब्रह्मत्त्रोक्तप्रमेयनिर्णयोपयुक्तप्रमाणन्यायचिन्तापरत्वात्तद्विषयादिनैवास्य

विषयादिमत्तेति सूयनार्था । एवं च न्यायपञ्चाध्यायानुरोधेन कुसुमाञ्जलौ पञ्चपरिच्छेदकृतिवद्ब्रह्मत्त्रानुरोधेन परिच्छेदचतुष्टये कार्येपि प्रमाणत्रित्वद्योतनाय परिच्छेदत्रयकृतिरिति ॥ १ ॥

देवतानतिसमनन्तरं भाष्यकर्तृनर्थयते  श्रीशेति ।

१ कथमशेष. अ.

 

स्वमते ज्ञप्तौ स्वतस्त्वनिरुक्तिः        प्रामाण्यवादः                   पु३

 

श्रीमदानन्दतीर्थार्यस्वामिनः कमलापतेः ।

प्रीतये क्रियते व्यासयदिता तर्कताण्डवम् ॥ ४ ॥

स्वतःप्रमाणैराम्नायैरादरेणादिवर्जितैः ।

आख्यातानन्तकल्याणगुणं श्रीरमणं भजे ॥ ५ ॥

अत्राद्येन विशेषणेन सौरभ्यस्य द्वितीयेन शैत्यस्य अंशमिति मान्द्यस्य वायुगुणस्योक्तिर्ज्ञेया ॥ २ ॥

टीकाकर्तृन्नमति  आनन्देति ॥ ३ ॥

फलोक्तिपूर्वं चिकीर्षितं प्रतिजानीते  श्रीमदिति ॥ ४ ॥

आनुमानिकत्वादीश्वरात्मनो नाष्टगुणाधकगुणवत्वमित्यत आद्यपद्योक्तरमेशविशेषणानि मानोक्त्या स्थिरीकुर्वतस्ताण्डवकरणस्य प्रसञ्जकं पूर्वरङ्गं निबध्नाति  स्वत इति । आम्नायैः सजातीयानुपूर्वाविशिष्टवेदैः ॥  आख्यातेति  नित्यसापेक्षत्वात्समासः ।

"वेदास्ते नित्यविन्नत्वाच्छृतयश्चाखिलैः श्रुतेः ।

आम्नायोऽनन्यथापाठात्"।

इति तत्वनिर्णयोक्तेः । गुणमिति निर्देषतादेरुपलक्षणम् । गुणपदेन वा निर्देषत्वमुमुक्षुसेव्यत्वानन्तसौख्यप्रदत्वरूपधर्मग्रहः । आम्नायत्वे हेतुरादिवर्जितैरिति  स्वतन्त्रपुरुषाप्रणीतैरित्यर्थः । नन्वपौरुषेये वेदेऽदृष्टार्थके चाप्तोक्तत्वफलसंवादादिहेतो

पामाण्यनिश्चायकस्याभावात्निश्चितप्रमाण्यकस्यैव प्रमाणस्यार्थसत्वनिर्णयत्वस्याग्रे प्रामाण्यनिश्चयप्रवर्तकत्ववादे व्यक्तत्वात्कथं वेदे प्रामाण्यविश्चयः । आप्तोक्तत्वगुणाभावात्प्रामाण्यं वा कथमित्यतो"न विलक्षणत्वादस्य"इत्यधिकरणसिद्धमाह  स्वतः प्रमाणैरिति ॥ करणे ल्युटे

२ ज्ञानजननशक्तिग्राहकमात्रग्राह्यप्रमाजननशक्तिमद्भिरित्यर्थः ।

 

१ गुणश्रीरमणम्क.          २. स्वतः ज्ञनजननशक्तिग्राहकमात्रात्. मु.

 

स्वम ज्ञ स्व नि)                                      पु४.

 

याथार्थ्थरूपस्य तत्तज्ज्ञानप्रमाण्यस्य

 

तथा ज्ञानजननशक्तित एव प्रमाजनकैरित्यर्थः । ज्ञप्तावुत्पत्तौ चान्यानपेक्षणाज्ज्ञानजननशक्तिग्राहकेणैव प्रमाजननशक्तिग्रहरूपप्रामाणयग्रहस्य च दैषस्य वेदापौरुषेत्ववादे वक्ष्यमाणदिशापौरुषेयेऽभावनिश्चयादिति भावः । ननु प्रमाणेनापि तात्पर्यविषयोर्ऽथौ न सिध्यतीत्यत उक्तमादरेणाख्यातेति । आङो मुख्यत्वमर्थः । तात्पर्यपूर्वं मुख्यवृत्योक्तेत्यर्थः । लक्षणयोदितत्वे व्यक्तम् ।

अत्र स्वतःप्रामाण्यज्ञप्तिवादपर्यन्तं विस्तरस्तु गुरुपादकृतयुक्तिरत्नाकरे द्रष्टव्यः।

वेदरूपकरणप्रमाणस्य स्वतसत्व निश्चितप्रामाण्यज्ञानेन ज्ञातव्यम् । तथा २ तज्जन्यज्ञानप्रामाण्योत्पत्तिस्वतस्त्वसिद्ध्यधीनोत्पत्तिस्वतस्त्वमिति क्रमाज्ज्ञप्त्तौ च तदेवादौ समर्थयितुं"ज्ञानग्राहकमात्रग्राह्यत्वं स्वतस्त्व"मिति टीकाकृदुक्तं वाक्यं विवृण्वानो ३ ज्ञप्त्तौ स्वतस्त्वं तावन्निर्वक्ति  याथार्थ्यरूपस्येति । अर्थं  ज्ञेयम्

अनतिक्रम्य वर्तमानं यथार्थम् ।"यथासादृश्य"इत्यव्ययीभावः । य ४ थार्थभावो याथार्थ्यं; यथावस्तितज्ञेयविषयीकारित्वरूपं ज्ञेयाव्यभिचारित्वं तद्रूपस्येत्यर्थः । एतच्च परोक्षापरोक्षजन्याजन्यसर्वप्रमितिमात्रनिष्ठमित्युपेत्य ज्ञानप्रामाण्यचस्येत्युक्तम् । अनुभूतित्वानधिगतार्थगन्त्रुप्रमाणत्वसाधनाश्रययोरन्यतरत्वप्रमाव्याप्तत्वादेरव्याप्त्यसंभवादिदुष्टत्वादिति भावः । अस्यानुप्रमाणसाधारण्येपि सात्राज्ज्ञेयविषयीकारित्वसाभायापि ज्ञानप्रामाण्यस्येत्युक्तम् । एतच्च भिन्नं भिन्नमेवेति सर्वप्रमितिनिष्ठप्रामाण्यस्वतस्त्वद्योतनाय तत्तदिति ज्ञानविशेषणम् ॥

 

१.ऽकत्वऽइति न. कुं.  २. तथाच. कुं. ३.ज्ञप्तिरेव.कुं. ४. यथार्थं. मु.

 

स्वमज्ञस्वनि.)      पामाण्यवादः                             पू ५

 

तस्यतस्य ज्ञानस्य यत्तत्तदर्थाव्यभिचारित्वरूपं प्रमाण्यं तस्येत्यर्थः । प्रमापदप्रवृत्तिनिमित्तप्रमाण्यस्येति यावत् ।"याथार्थ्यमेव मानत्वं"इति द्वतीयाद्यपादीयानुभाष्योक्तेः । निर्धारितं चैतद्याथार्थ्यं तत्रैव सुधायाम् । प्रपञ्चितं गुरपपादैरत्रैव प्रमाण्यस्वतस्त्वानुमानवादे ।"घटत्ववति घटत्वप्रकारकत्वादिरूपं पराभिमतमेवास्माकं याथार्थ्यं"इति वक्ष्यमाणदिशा स्वपरसाधारणमेवेदमिति ज्ञेयम् । उपाधखण्डनटीकाव्यख्यानमन्दारमञ्जर्यां"अथ केयं प्रमा"इत्यादिना प्रमात्वमाक्षिप्य

"यथार्थज्ञानमित्येव प्रमाया लक्षणस्थितिः।

स्मृतेरपि च लक्ष्यत्वादतिव्याप्तिकथा मुधा"

इति प्रतिज्ञापूर्वकं"सादृश्यस्य यथाशब्दार्थत्वात् । सादृश्यं च ज्ञानार्थयोस्सत्ततया । न च भ्रमेऽतिव्याप्तिः । तत्र ज्ञानस्य सत्त्वादर्थस्य चासत्वात्१ ज्ञानार्थयोः सत्तया सादृश्याभावात् । एवं च यथा सादृश्यविशिष्ट एवार्थो यस्येति बहुव्रीह्याश्रवणे यथार्थशब्दस्य यथार्था प्रतीतिरित्याद्यभधेयवल्लिङ्गं लोकसिद्धं सिद्धम् ।"यथाशब्दोऽनतिक्रमे वर्तते"इत्यादिग्रन्थेन बहुव्रीह्युपादाने ३ नोक्तर्थस्य ग्रहणे तु न स्वपरसाधारण्यं प्रमाण्यस्य लभ्यते । परमते भ्रमविषयस्य सत्वेन

लक्षणस्यातिव्याप्तेः । यद्वा तन्मतेऽपि प्राचां रीतौ वैशिष्ट्यस्य भ्रमेऽसत्त्वान्नवीनमते च पुरतोऽसत्त्वत्तदपि तन्मतसाधारमेवेत्याहुः। अत्र यद्यप्याम्नायजन्यज्ञानप्रामाण्यस्वतस्त्वामात्रं प्रकृतम्।

 

१. तत्र.मु.  २.मु.  ३.न समाहितम् । उ.भु.

 

स्वम ज्ञ स्वनि       प्रमाण्यवादः                           पु ६.

 

ग्राह्यप्रामाण्यविरोध्युपस्थापकसामग्र्यसमवहितग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानविषयत्वनैयत्यं स्वतस्त्वम् ।

 

तथापि तत्स्वरूपग्राहिप्रत्यक्षज्ञानस्य तदनुग्राहकन्यायजानुमितिरूपज्ञानस्य तत्प्रामाण्यज्ञानस्य च प्रामाण्यनिश्ययोपायस्याप्यावश्यकत्वाज्ज्ञानप्रामाण्यमात्रस्यापि धर्मित्वेनोपादानम् । यद्वा प्राचीनतार्किकमत इव

क्वचित्प्रमाण्यं स्वतः क्वचित्परत इति न भ्रमितव्यम् । किं तु सर्वत्रापि । नवीनमते सर्वत्र परतस्त्वोपगमने तद्व्युदासायेति ध्येयम् ।

ग्राह्येति  ग्राह्यप्रमाण्यस्य तस्य या उपस्थापकसामग्री दोषशङ्कादिरूपा तदसमहितं ग्राह्यपामाण्याश्रयतत्तज्ज्ञानाविषयकं यत्साक्षिज्ञानं तेन गृह्यत एवेत्येवंरूपतद्विषयद्वनैयत्यमित्यर्थः । विप्रतिपत्तेरनाश्यकत्वस्य न्यायामृते व्युत्पादनान्नैयत्यमस्ति न वेत्यनुक्तैकैव कोटिरुक्ता । अत्र प्रमाण्यविरहरूपत्वतद्व्याप्यत्वादिरूपविरोधत्वस्य प्रमाण्याभावादिषु चतुर्ष्वेकस्याभावेपि यज्ज्ञाने सति प्रामाण्यनिश्चयः प्रतिबध्यते तज्ज्ञानविषत्वरूपं ग्राह्यप्रमाण्यविरोधित्वं प्रमाण्याभावादौ ध्येयम् । वक्ष्यति च प्रमाण्यनिश्चयस्य प्रवर्तकत्ववादे"अभावानां प्रामाण्यनिश्चयविरोध्यभावत्वेन"इत्यादि ।
प्रमाण्यनिश्चयप्रतिबन्धकत्वं १ तदनुकूलकिञ्चिद्धर्मविघटकत्वं वा तदनुत्पादव्याप्यत्वं वा । प्रमाण्यनिश्चयस्य साक्षिरूपतया नित्यज्ञानत्वेपि प्रमाण्यविषयकत्वादिकमुत्पत्तिमदेवेति तद्विशिष्टप्रमाण्यनिश्चयानुत्पादो न दुर्लभः । उपस्थापकेत्यत्र विरोध्युपस्थितितज्जनकसामग्रीभ्यामसमबहितेत्यर्थो ध्योयः ।

 

१. च. मु.

 

स्वज्ञस्वनि.)       प्रमाण्यवादः                             पू ७.

 

तार्किकाभिमतानुव्यवसाय एवात्मकं साक्षी ।

 

तथाच प्रामाण्यविरोध्युपस्थितिवेलायां तत्सामग्र्यभावेन तदसमवहितेनापि साक्षिणा १ गृह्य एवेति नेति शङ्कानवकाशः । असमवहितत्वं च तदसामानाधिकरण्ये सति तदसमानकालिकत्वम् ।"प्रत्यक्षं सप्तविधं साक्षिषडिन्द्रियभेदेन"इति प्रमाणलक्षणे,"स्वरूपेन्द्रियं साक्षित्युच्यते"इति पद्धत्यादौ च साक्षिणोऽनुप्रमाणत्वोक्तेरिहपराभ्युपेतानुव्यवसायरूपत्वस्फोरणाय साक्षिज्ञानेत्युक्तम् ।

"साक्षिप्रत्यक्ष २ तो ह्येव मानानां मानतेयते"

इत्यादो ज्ञानेपि प्रयोगात् । तथा युक्तिपादे"न विलक्षणत्वात्"इति नये

"सुखदुःखादिविषयं शुद्धं संसारगेष्वपि"

इत्यस्य व्याख्यावसरे सुधायां"स्वरूपभूतं चैतन्येन्द्रियं साक्षीत्युच्यते तदभिव्यक्तं ज्ञानं च"इत्युक्तत्वाच्च ॥ नन्वात्मस्वरूपज्ञानत्वादिरूपसाक्षित्वस्य परमतेऽप्रसिद्धिरित्यत आह  तार्किकेति ॥ स्वतस्त्वानुमानवादे वक्ष्यमाणदिशा व्यवसायप्रकारकतया व्यवसा ३ यप्रकारवद्विशेष्यकतया च तद्विषयक प्रत्यक्षत्वं वा ज्ञानांशे लौकिकप्रत्यक्षत्वं वानुव्यवसायत्वम् । साक्षित्वमप्येवं रूपमेवात्र स्वतस्त्वनिरुक्तौ प्रविष्टमित्यर्थः । यन्मते वैशिष्ट्यमनुव्यवसायविषय एव नेति तन्मतेनान्त्यः । तत्र तु न स्वातन्त्रेणेति विवक्षणीयम् ।

१.न.  कुं.  २.  माण.मु  ३. तत्.मु.

स्वम ज्ञस्वनि.)               प्रमाण्यवादः       पू८.

 

अत्र च नियमोक्त्या न्यायमतेपि क्वचिदनुव्यवसायेनप्रामाण्यग्रहणस्य १ वक्ष्यमाणत्वात्सिद्धसाधनमिति शङ्क्या साक्षीत्युक्त्या घटज्ञानमस्तीत्यादिशब्दजन्यमप्रतिबद्धं घटज्ञानविषयकं २ ज्ञानं प्रति

 

ज्ञानांशमिति विशेषणात्स्मृत्युपनीतेऽतीते घटज्ञाने तद्विषयकमहं घटज्ञानवानिति यज्ज्ञानमात्मांशे लौकिकप्रत्यक्षं तेन प्रमाण्याग्रहणा ३ द्बाधवारणमिति ध्येयम् । वस्तुतस्त्वत्रान्त्यपक्षप्रवेश एव साधुः । तथाच

प्रमाण्यविरोधीत्यादिविशेषणवैयर्थ्यशङ्कावकाशलेशोपि नेति ज्ञेयम् । विशेषणकृत्यानि स्वयमेव व्यनक्ति  अत्रेति ॥ नरुक्तिवाक्य इत्यर्थः । नियमोक्त्य गृह्यत एवेति नैयत्योक्त्येत्यर्थः ॥ वक्ष्यमाणत्वादिति  बाधोद्धारग्रन्थादौ धटादिज्ञानानुव्यवसायजन्यसंस्कारोत्पन्नस्मृत्युपनीते घटादिज्ञाने घटादिज्ञानजन्यसंस्कारोत्पन्नस्मृत्युपनीतं घटघटत्वतद्वैशिष्ट्यरूपप्रामाण्यं पञ्चमानुव्यवसायेन गृह्यत इति वक्ष्यमाणत्वादित्यर्थः । शङ्का निरस्तेत्यन्वयः । एतच्च तत्प्रकारप्रकारकतयेत्युक्तानुव्यवसायत्वरूपसाक्षित्वविवक्षया बोध्यम् । अन्त्यकल्पे तु गृहीतप्रमाण्यकज्ञानसजातीयज्ञानान्तरानुव्यवसायमीश्वरज्ञानं वादाय
सिद्धसाधनता ध्येया । शब्दजन्यमित्युपलक्षणम् । सामान्यप्रत्यासत्तिजन्यं ज्ञानांशेऽलौकिकं ज्ञानवानहमिति ज्ञानं च प्रतीत्यपि ध्येयम् । साक्षित्वस्य द्विरूपस्यात्राभिमतत्वा ४ त्तत्प्रकारकेत्यादिरूपेण शब्दजन्यज्ञानस्य ज्ञानांशेऽलौकिकेत्यन्त्यपक्षरूपेण च सामान्यप्रत्यासत्तिजन्यस्यनिरासात् ॥ अप्रतिबद्धमिति  विरोध्युपस्थितितत्सामग्र्यसमवहितमित्यर्थः । यस्तु घटज्ञानमिति ज्ञानेनापि प्रमाण्यं गृह्यत इति पक्षधरोद्धाटित पक्षः ; स त्वपदर्थत्वादवाक्यत्वादिति रुचिदत्तादिनैव दूषितत्वादुपेक्ष्यः ।

 

१. ग्रहणस्य मु.च.  २. विषयज्ञानं.मु.च.  ३.प्रप्तबध.अ. ४ त्तेन द्वरूपेणापि. शब्दजन्यज्ञानस्य सामान्यप्रत्यासत्तिजन्यादिज्ञानस्य च निरासात्. आ. अ.

 

स्वज्ञस्वनि.)          प्रमाण्यवादः                           पु ९

 

ज्ञानप्रमाण्यस्याविषयत्वाद्बाध इति शङ्का ग्राह्यप्रमाण्याश्रयतत्तज्ज्ञानविषयकेत्युक्त्या घटज्ञानं गृह्णता साक्षिणा पटज्ञानप्रमाण्यस्याग्रहणाद्बाध इति शङ्का अवशिष्टेन मन्मतेपि दोषशङ्कादीरूपे ग्राह्यपामाण्यविरोधिग्राहकसामग्रीसमवधानात्मके प्रतिबन्धे सति साक्षिणा प्रमाण्यय १ स्याग्रहणाद्बाध इति शङ्का च निरस्ता । अत्र यद्यपि विषयत्वं साक्षिज्ञानं प्रत्येवेति नियमो न युक्तः । मन्मतेऽपि प्रामाण्यस्यानमित्यापरिग्राह्यत्वात् । तथापि साक्षिज्ञानं प्रति विषयत्वमेवेति नियमो युक्त एव ।

 

अत्रविवक्षित तत्प्रकार प्रकारकतादिरूपज्ञानज्ञानत्वाभावाच्च ॥ तत्तज्ज्ञानेति

ग्राह्यप्रामाण्याश्रयविषयकेत्युक्तावपि घटज्ञानपटग्रहणेनोक्तदोषतादवस्थात्तत्तज्ज्ञानविषयकेत्यप्यनुवादः । अत एव धर्मिनिर्देशेऽपि तत्तदित्युक्तिः २ । ग्राह्यप्रमाण्याश्रयेत्यनुक्तावप्रामाण्याश्रयस्यापि ज्ञानस्य तत्तज्ज्ञानपदेन ग्रहणप्रसङ्गात्तद्विषयकेण साक्षिणा प्रामाण्याग्रहणाद्बाध एव । साक्षिण एकत्वेपि पटज्ञानप्रामाण्यग्रहणस्य पटज्ञानग्रहणप्रयुक्तत्वेन घटज्ञानग्रहणप्रयुक्तत्वाभावाद्बाधशङ्का युक्तैवेति भावः ॥ दोषशङ्केति

दुष्टकरणजन्यत्वशङ्का तन्निश्चयतज्जन ३ कादिरूपेत्यर्थः । नैयत्यस्य साक्षिणैव गृह्यते साक्षिणा गृह्यत एवेति च द्वेधा संभवाद्विवक्षितमाह  अत्रेति ॥

निरुक्तावित्यर्थः अनुमित्येति ॥ चैत्रज्ञानं प्रमा अर्थसंवादादित्यादिरूपेणमैत्रादेरनुमित्युदयीदित्यर्थः ।

 

१. ण्याग्रहणात्मु.  २. क्तम्.मु.  ३. सामग्र्या.मु.

 

स्वज्ञस्वनि.)               प्रमाण्यवादः                     पु १०.

 

मणिकृतापि हि तदप्रामाण्याग्राहकेति विंशिषता प्रामाण्यग्रहणे १ऽप्रामाण्योपस्थापकसामग्र्यसमवधानस्यप्रयोजकतोक्तैव ॥ १ ॥

यद्वा तत्तज्ज्ञानप्रामाण्यस्य ग्राहप्रामाण्यस्य ग्राहप्रामाण्याश्रयत्तत्तज्ज्ञानविषयकसाक्षिज्ञानविषयत्वयोग्यत्वं स्वतस्त्वम् ।

 

ननु ज्ञानग्राहकसाक्षिणो विरोधिसामग्रयभावमपेक्ष्य प्रामाण्यग्राहकत्वे नरपेक्षज्ञानग्राह्यत्वरूपस्वतस्त्वायोग इत्यत आह  मणिकुतापीति ॥ परतस्त्वादिनापीत्यर्थः । विरोध्युपस्थापकसामग्र्यसमवधानस्य प्रामाण्यग्राहणकारणत्वे हि दोषः । गमनशक्तस्य गजस्य गोक्षुरकापसा २ रणस्येव प्रयोजकत्वे तु न दोष इति भोवेनोक्तं  प्रयोजकतेति ॥ १ ॥ पूर्वं फलोपधानापेक्षया प्रयोजकविशषणोक्त्या निरुक्तिः कृता अधुना तु तादृशविशेषणत्यागेन प्रका ३ रान्तमाह यद्वेति ॥ सार्वत्रिकसार्वकालीनप्रामाण्यस्वतस्त्वलाभाय वाऽह  यद्वेति । नन्वेवं स्वतस्त्वस्याप्रतिबद्धसाक्षिवेद्यत्वरू ४ त्वे"ज्ञानग्राहकः साक्षी
प्रमाणतयैव  गृह्णातीत्युत्सर्ग एव  विसंवादलक्षणात्परतोऽपवादादप्रामाण्यं च गृह्णाति"इति तत्वनिर्णयटीकाद्युक्तौत्सर्गिकत्वविरोध इत्युक्त्या यथोक्त ५ विशेषणेनापि साक्षिज्ञानेन प्रतिबन्धदशायां प्रामाण्याग्रहाद्बाध इति शङ्का; साक्षीत्युक्त्या घटज्ञानमस्तीत्यादिशब्दजन्यं घटज्ञानविषयकज्ञानं प्रति तथा ज्ञानांशालौकिकं  सामान्यप्रत्यासत्तिजन्यं ज्ञानं च प्रति प्रामाण्यस्य

 

१.ग्रहेमु.च. २.सारक. आ.  ३. पक्षा.आ.मु.  ४.पक्षे.मु. ५.प्रतिबन्धकस्थले यथोक्तविशेषणेनापि साक्षिणाप्रामाण्या ग्रहात्मु.

 

स्वज्ञस्वनि.)             प्रमाण्यवादः                       पु ११.

योग्यत्वं च साक्षिनिष्ठां सहजां ग्रहणशक्तिं प्रति स्वविषयज्ञानद्वारावच्छेदकत्वम् ।

 

कदाप्यविषयतया योग्यत्वं २ नेति बाध इति शङ्का ; ग्राह्यप्रमाण्याश्रयतत्तज्ज्ञानविषयकेत्युक्त्या घटज्ञानं गृह्णता साक्षिणा पटज्ञानप्रमाण्यस्य कदाप्यग्रहेण योग्यत्वं ३ नेति बाध इति शङ्का च निरस्तेति पूर्ववद्युक्तमिति भावः । अत्रापि ज्ञानपदं पूर्ववत्स्वरूपेन्द्रियभ्रमनिरासाय । साक्षित्वमपि व्यवसायप्रकारप्रकारकतयातत्प्रकारवद्विशेष्यकतया तद्विषयकप्रत्यक्षत्वरूपं वा ज्ञानांशे लौकिकप्रत्यक्षत्वरूपं वानुव्यवसायत्वमेवेति भावः । अत्रापि पूर्वत्रेव ग्राह्यप्रामाण्याश्रययेत्यंशकृत्यं बोध्यम् । नन्वत्र स्वाश्रयज्ञानग्राहकग्राह्यत्वयोग्यत्वं
स्वतस्त्वमित्युक्तं स्यात्; तच्चाप्रामाण्यस्याप्यस्ति । न च तत्र ज्ञानं साक्षिवेद्यमप्रामाण्यं त्वनुमेयमिति न दोष इति युक्तम् । प्रथममप्रामाण्यानुमित्यसंभववादे विसंवादाहितशक्तिकेन साक्षिणैवाप्रामाण्यग्रहणस्य वक्ष्यमाणत्वादित्यतो वा ; साक्षिविषयत्वयोग्यत्वं यदि साक्षिजन्यव्यवहारयोगि ४ त्वादिरूपं तदैतत्फलोपधानपर्यवसन्नमिति न प्रतिबन्धकालीनप्रमाण्यस्वतस्त्वलाभ इत्यतो वाऽह  योग्यत्वं चेति सहजां

स्वाभाविकीं विषयीकरणशक्तिं प्रति स्वस्य साक्षिणस्तच्छक्तेर्वा यो विषयो ग्राह्यप्रामाण्याश्रयरूपं ज्ञानं तद्वारावच्छेदकत्वं विषयतया व्यवर्तकत्वम् । ज्ञानग्रहणशक्तिरितिवत्प्रामाण्यग्रहणशक्तिरिति व्यवहारापादकत्वमेव प्रामाण्यस्य साक्षिविषयत्वयोग्यत्वमित्यर्थः । साक्षिशक्तिर्ज्ञानद्वारैव तन्निष्ठप्रामाण्यं गृह्णाति । न साक्षात् । यथा प्रत्यक्षं व्यक्तिद्वारैव जातिं न साक्षादिति  स्वविषयज्ञानद्वारेत्युक्तम् ॥

 

१.प्रामाण्यस्य. ख.  २.च. कुं.  ३. च कुं.  ४ .ग्या.कुं.

 

स्वमज्ञस्वनि.)             प्रामाण्यवादः                   पु १२.

 

एवं च प्रतिबन्ध १ दशायामपि करतलादौ दाहयोग्यतावत्प्रामाण्ये ग्रहणयोग्यतास्त्येव । तथा च प्रामाण्यग्रहणशक्तेः सहजत्वात्प्रामाण्यग्रहणस्यौत्सर्गिकत्वरूपतस्त्वसिद्धिः । उक्तं च टीकाकारैः"साक्ष्येव ज्ञानं तत्प्रामाण्यं च विषयीकर्तुं क्षमः ।

 

ज्ञानग्राहकैकशक्तिविषयत्वं प्रामाण्यस्य साक्षिविषयत्वयोग्यत्वम् । नैतदप्रामाण्येऽस्ति । भिन्नविषयत्वादित्यग्रे व्यक्तम् । गुरुपादस्तु स्वपदेन प्रमाण्यम् । बहुव्रीहिसमासः । स्वविषयकं यज्ज्ञानं साक्ष्येव । साक्षिनिष्ठशक्तिं प्रति प्रामाण्यस्य न साक्षाद्विषयत्वमित्यतः स्वविषयकज्ञानद्वारेत्युक्तमित्याहुः । परमते शक्तेरप्रसिद्धावपीदं  स्वमतासाधारणमिति वा परेणापि शक्तिमङ्गीकारयिष्यामीति वा ज्ञानग्रह २ णसामग्रीमात्रं प्रति स्वविषयज्ञानद्वारावच्छेदकत्वमिति वा ज्ञानग्राहकतावच्छेदकधर्मावच्छन्नग्राहकताकत्वं वा
तदर्थमिति भावः । नन्वेतावतापि कथं प्रतिबन्धदशापन्न ३ ज्ञानप्रामाण्यस्य स्वतस्त्वलाभः येन सर्वप्रमाणानां स्वतस्त्वं स्यादित्यत आह एवं चेति ॥ योग्यतारूपे स्वतस्त्वे सतीत्यर्थः । योग्यत्वस्योक्तरूपत्वे सतीति वार्थः  दाहेति ॥ दाहविषयत्वयोग्यतावदित्यर्थः । द्वितीयनिरुक्त्यान्यदप्यनुकू ४ लितमित्याह तथाचेति । उक्तरूपयोग्यत्वगर्भनिरुक्तौ सत्यामित्यर्थः  औत्सर्गिकत्वेति ॥"ज्ञानग्रहकः साक्षी प्रमाणतयैव गृह्णातीत्युपसर्ग एव"इति तत्वनिर्णयटीकाद्युक्तौत्सर्गिकत्वेत्यर्थः उक्तं चेति ॥ प्रामाण्यस्य सहजशक्तिविषयत्वं प्रतिबन्धस्थले योग्यतास्तीत्येतच्चौक्तं
तत्वनिर्णयटीकायामित्यर्थः ।

 

१. बन्धक.मु.च.छ.  २. ग्राहक.मु. ३.पुस्तकेनास्ति.मु.  ४. लं.मु.

 

स्वमज्ञस्वनि.)               प्रामाण्यवादः                  पु१३.

 

किं तु प्रतिबद्धो ज्ञानमात्रं गृहीत्वा १ तत्प्रामाण्यग्रहणस्य नेष्टे"इति ॥ २ ॥

यद्वा  उभयसिद्धप्रामाण्याविषयकज्ञानभिन्नज्ञानविषयत्वनैयत्यं स्वतस्त्वम् ।

 

कारणान्तरोपनिपातेन मानसापराधेन प्रतिबद्धैत्येवंरूपेण तत्र पाठेऽप्ययमेकदेशानुवाद इत्यदोषः ॥ २ ॥ प्रौड्या स्वतस्त्ववादिमात्रसाधारणं पक्षान्तरमाह  यद्वेति ॥ तत्तज्ज्ञानप्रामाण्यस्येत्यनुषङ्गः । साध्ये ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयकेति ग्राह्यम् । स्वातस्त्ववादिनो २ ह्यनेके ।

ग्रन्थकर्तैकः । भट्टो ज्ञानातीन्द्रियत्ववादी । गुरुर्ज्ञानमात्रस्वप्रकाशत्ववादी । मिश्रस्तु न्यायमत इवास्वप्रकाशानुव्यवसायवादी । तत्रोभयत्यस्य सिद्धान्तितार्किकोभयेति भट्टतार्किकोभयेति गुरुतार्किकरूपोभयेति मिश्रतार्किकोभयेति मायिता ४ र्किकोभयेत्येवंरूपेणेत्यर्थः । एकदानेकैः सह विवादायोगात् । उभयसिद्धम यत्प्रामाण्याविषयकं ज्ञानं प्रामाण्याविषयकत्वेनोभयसंमतं यज्ज्ञानमयं घट इत्यादिरूपं ज्ञानं तद्भिन्नं ग्राह्येत्यादीरूपं च यज्ज्ञानं सिद्धान्ते प्रागुक्तरूपसाक्षिज्ञानं भट्टमते ज्ञानानुमितिरूपं गुरुमते स्वप्रकाशघटादिज्ञानं
मिश्रमते तदनुव्यवसायः । तेन गृह्यत एवेत्येवंरूपं तद्विषयत्वनैयत्यं तत्तन्मते  स्ततस्त्वमित्यर्थः । न च गुरुमते सर्वज्ञानयाथार्थ्यस्वप्रकाशत्वयोरुपगमेन प्रामाण्याविषयकं ज्ञानं नास्त्येवेति शङ्क्यम् । इदं ज्ञानप्रमाणमित्याद्यप्रामाण्यारोपस्थले ज्ञानस्य प्रामाण्याविषयकत्वस्य गुरूतार्किकसंमतेः ।

 

१.प्रामाण्य.मु. छ."तत्"इति नास्ति. घ.  २. हि चत्वारः.  कुं.

३. नास्ति  कुं.  ४. नास्ति. कुं.

 

"प्रामाण्यवादः                        पु १४.

 

तत्र प्रामाण्याविषयकज्ञानाभिन्नेत्युक्त्या घटऽयमित्यादिघटादिविषयकप्रत्यक्षज्ञानं प्रति ज्ञानं गुण इत्यादिशब्देन घटज्ञानमित्यादिशब्देन च जन्यं ज्ञानविषयक ज्ञानं प्रति  प्रतिबद्धानुव्यवसायं प्रति च स्वतस्त्वपक्षेपि

 

आरोपस्तु गुरुमते इच्छास्थस्य व्यधिकरणप्रकारकत्वरूपाप्रामाण्यस्यासंसर्गाग्रहो न्यायमते विशिष्टज्ञानमित्यन्यदेतत् । अत्र

ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयकेत्युक्त्या तदंश एवोक्तरूपज्ञानभिन्नत्वस्याभिमतत्वाज्ज्ञानविषयकं ज्ञानं प्रमेति ज्ञानस्याद्यनुज्ञाने प्रामाण्याविषयकभिन्नसत्वान्न दोषः । प्रामाण्यवादं ग्राह्यतत्तत्प्रामाण्यपरं वा । तथाच यथान्यासेनैवोक्तस्थले न दोषः । अत्र नञ्द्वयाप्रवेशेनोभयसिद्धप्रामाण्यविषयकज्ञानविषयत्वनैयत्यमित्युक्ते तादृशानुमित्यादिना सिद्धसाधनम् । अतोऽविषयकभिन्नेत्युक्तिः । अत्राद्यज्ञानपदं यथोक्तरूपघटादिभिन्नेन घटज्ञानादिना प्रामाण्याग्रहाद्बाध इति शङ्कानिरासाय । अन्त्यं तु तादृशज्ञानभिन्नघटादीविषयत्वाभावेन बाध इति शङ्कानिरासायेति
व्यक्तमिति शिष्टपदकृत्यान्याह  तत्रेति ॥ प्रामाण्यविषयकज्ञानभिन्नेत्यनुक्त्वोभयसिद्धज्ञानविषयत्वनैयत्यमित्येतावत्युक्ते सति प्रष्टव्यमुभयसिद्धज्ञानपदेन किं प्रत्यक्षज्ञानमभिमतमुत शाब्दमथानुव्यवसायरूपम् ? द्वितीयेऽपि किं ज्ञानविषयकं विषयालिङ्गितज्ञानविषयकं वेति विकल्पान्वा ; विषयग्राहिज्ञानमिति वा ज्ञानग्राहिज्ञानमिति वा उभयग्राहि ज्ञानमिति वा उभयग्राह्यनुव्यवसायरूपप्रत्यक्षं वेति विकल्पान्वा हृदि निधाय क्रमेण निराह  घटोयमित्यादिना ॥ प्रत्यक्षज्ञानं प्रतीत्यादेः प्रामाण्यस्याविषयत्वादित्यन्वयः ।
गुरुमते घटोयमिति ज्ञानेनापि प्रामाण्यग्रहादिदं ज्ञानमप्रमाणमित्यादिज्ञानं प्रतीति ग्राह्यम् ।

 

१. जन्य.  मु. च.

 

स्वम ज्ञनि.)                 प्रामाण्यवादः                   पु १५.

 

उक्तस्य त्रिविधस्यापि ज्ञानस्य प्रामाण्याविषयकत्वेन तद्भिन्नत्वाभावात् । उभयसिद्धेत्युक्त्या न्यायमतेऽ २ प्रतिबद्धस्याप्यनुव्यवसायस्य प्रामाण्याविषय ३ कत्वेन तद्भिन्नत्वाभावात्सिद्धान्त्यभिप्रेतस्याप्रतिबद्धानुव्यवसायं प्रति विषयत्वास्यासिद्ध्यार्ऽथान्तरमिति शङ्का परास्ता  ।

 

शङ्कानिरासं व्यनक्ति  उक्तस्य त्रिविधस्यापीति ॥ यत्तु घटज्ञानमिति शब्दजन्यज्ञानेन घटत्ववति घटत्वप्रकारकत्वरूपं प्रामाण्यं गृह्यत इति ; तत्त्वपदर्थत्वादवाक्यार्थत्वादयुक्तम् । प्रतिबद्धानुव्यवसायं प्रतीत्यत्र गुरुमते इदं ज्ञानमप्रामाणमित्यादिप्रतिबद्धज्ञानं प्रतीति भट्टमते प्रतिबद्धज्ञानानुमितिं प्रतीत्यपि ध्येयम् ॥ उभयसिद्धेत्युक्तेति  प्रामाण्यविषयकेत्यादावुक्ते सत्यन्यतरसिद्धं प्रामाण्यविषयकं यदप्रतिबद्धानुव्यवसायरूपं ज्ञानं तद्विषयत्वमादाय प्रामाण्यस्य स्वतस्त्वं सिद्धान्त न सिद्ध्येत् । तस्य प्रामाण्याविषयकभिन्नत्वाभावात् । उभयसिद्धत्युक्तौ अप्रतिबद्धानुव्यवसायस्य
प्रामाण्याविषयकत्वेनोभयसिद्धत्वाभावादुभयसिद्धतादृशज्ञानभिन्नत्वमस्त्येवेति नार्थान्तरत्वदोष इत्यर्थः । अनुव्यवसायस्येत्युपलक्षणम् । अप्रतिबद्धज्ञानानुमितेरप्रतिबद्धस्वप्रकाशज्ञानस्येत्यपि ध्येयम् । एवमग्रेपि । अप्रतिबद्धत्वं च प्रामाण्यविरोध्युपस्थितितत्सामग्र्यसमवहितत्वम् । शङ्कानिरासप्रकारं व्यनक्ति  अप्रतिबद्धेति ॥ उभयसिद्धादित्यादेः   प्रामाण्याविषयकत्वेनोभयसिद्धाद्भिन्नत्वसंभवादित्यर्थः ॥

 

१. यत्वेन. मु. च. छ.   २. मतेप्य. क.     ३. यत्वेन. छ.

 

स्वमज्ञस्वनि.)             प्रामाण्यवादः                   पु १६.

 

१ अप्रतिबद्धानुव्यवसायस्य न्यायमते प्रामाण्यविषयत्वेपि मन्मते तदभेनोभयसिद्धात्प्रामाण्यविषयकाद्भिन्नत्वसंभवात् । नैयत्यमित्युक्त्या न्यायमते प्रामाण्यस्यैवंविधां प्रामाण्यानुमितिं

प्रति क्वचिदनुव्यवसायं प्रित च विषयत्वात्सिद्धसाधनमिति शङ्का व्युदस्ता । अत्राद्यं पक्षद्वयं स्वमतासाधारणम् । तृतीयं तु मीमांसकादिमतसाधारणमिति ज्ञेयम् । एतदेव पक्षत्रमभिप्रेत्योक्तं सुधायां"ज्ञानगतयाथार्थ्यस्य ज्ञानग्राहकमात्रग्राह्यत्वं स्वतस्त्वं"इति । अत्राद्ये २ पक्षे सुधा ३ स्थेन ज्ञानग्रहकशब्देन ग्राह्यप्रामाण्याश्रयत

 

एवंविधामिति ॥ उभयसिद्धप्रामाण्याविषयकज्ञानभिन्नज्ञानरूपामिदं ज्ञानं प्रमाणं समर्थप्रवृत्तिहेतुत्वादित्यनुमितिं प्रति

वक्ष्यमाणदिशा स्मृत्युपनीते व्यवसाये स्मृत्युपनीतप्रामाण्यावगाह्यनुव्यवसायं गृहीतप्रामाण्यकज्ञानसजातीयज्ञानगोचरानुव्यवसायं च प्रति ॥ अत्रेति  उक्तस्वतस्त्वनिरुक्तित्रयमध्य इत्यर्थः ॥ स्वमतेति  तार्किकमतसाधारण्येपि मीमांसकत्रितयसाधारणं नेत्यर्थः । मीमांसकादीत्यादिपदेन मिरारिमिश्रः सिद्धान्ती मायावादिप्रभृतिर्वा ग्राह्यः । उक्तपक्षत्रयं सुधावाक्यरूढं करोति  एतदिति ॥ उक्तेमिति ॥

"प्रत्यक्षवच्च प्रामाण्यं स्वतः एवागमस्य हि"

इति जिज्ञासानयानुव्याख्यानव्याख्यावसर उक्तमित्यर्थः । तद्व्यनक्ति अत्रेत्यादिना ॥

 

१. आपास्ता.  च.छ.   निरस्ता.ग.    २. अत्राद्य. मु.च.    ३.सूधायाम्.क

 

"प्रामाण्यवादः                       पु १७.

 

त्तज्ञानविषयकसाक्षिज्ञानं ग्राह्यशब्देन तद्विषयत्वं मात्रपदेन १ कार्स्न्यपरेण तन्नियमः अवधारणपरेण प्रतिबद्धव्यवच्छेदश्च विवक्षितः । द्वितीय २ पक्षे ग्राह्यशब्देनोक्तसाक्षिज्ञानविषयत्वयोग्यता अवधारणपरेण मात्रपदेन ३ ज्ञानत्वग्रहणशक्तिवत्प्रमात्वग्रहणशक्तेरपि सहजत्वं विवक्षितम् । तृतीय ४ पक्षे ज्ञानग्राहकशब्देन साक्षितदितरसाधारणं ज्ञानं मात्रशब्देनावधारण ५ परेणोभयसिद्धप्रामाण्याविषयकज्ञान ६ व्यवच्छेदः, कार्स्न्यार्थेनाप्रतिबद्धसर्वानुव्यवसायसंग्रहश्च विवक्षित इति ज्ञेयम् ॥ ३ ॥

 

मात्रपदस्य द्व्यर्थत्वमुपेत्याह  कार्स्न्येत्यादि ॥ यावन्तिज्ञानग्राहकाणि तावद्भिर्ग्राह्यत्वोक्तौ ज्ञानग्राहकेण गृह्यत एवेति नियमलाभादिति भावः ॥ प्रतिबद्धेति ॥ ज्ञानग्राहकेणैव गृह्यत इत्युक्ते न तु विरोधिसामग्रीसमवहितेनेत्यर्थलाभादिति भावः । अर्हार्थण्यत्प्रत्ययान्तत्वमुपेत्याह  ग्राह्यशब्देनेति ॥ प्रमात्वेत्यादि ॥ ज्ञानग्राहकमात्रेणेत्यस्य  ज्ञानग्राहकेणैव न त्वधिकेनेत्युक्तौ प्रमात्वग्रहणशक्तेरपि सहजत्वलाभादिति भावः । यद्यापे शक्तेरेकत्वमेव लभ्यते । तथापि प्रतिबन्ध ७ स्थले साक्षिणः प्रामाण्यग्रहणशक्तेः प्रतिबन्धेऽपि न  ज्ञानत्वग्रहणशक्तेरिति शक्तिद्वित्वमुपेत्य सहजत्वं विवक्षितमित्युक्तम्  तदितरेति ॥ साक्षीतरस्वप्रकाशा ८ नुमित्यनुव्यवसायरूपपमित्यर्थः । नैयत्यलाभ ९
प्रकारमाह  कर्त्स्न्यर्थेनेति ॥

अप्रतिबद्धेति ॥ विरोधिसामग्र्यसमवहितज्ञानगोयरासर्वज्ञानग्रहश्च विवक्षित इत्यर्थः  ॥ ३ ॥

 

१.शब्देन छ.क.  २.ये.कुं.  ३. शब्देन.कुं.छ. क.  ४.ये कुं  ५.णार्थेनोकुं.

छ.क.  ६. ज्ञानपदं न.छ. क. ७.कुं. ८.अनुमितिपदं न. कुं. इ.      ९ हाया कुमि.

 

परोक्तस्वतस्त्वनिरुक्तिभङ्गः       प्रामाण्यवादः                 पु १८.

 

स्वमते ज्ञप्तौ स्वतस्त्व निरुक्तिः  ॥ १ ॥

 

यत्तु मणावुक्तम् ।"तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्री । ग्राह्यत्वं स्वतस्त्वं तदभावश्च १ परतस्त्वम्"इति तन्न ।

 

स्वमते २ ज्ञप्तौ स्वतस्त्वनिरुक्तिः ॥ १ ॥

 

मीमांसकत्रितयसाधारणीं परोक्तस्वतस्त्वनिरुक्तिमनूद्य निराह  यत्त्विति ॥ मणिग्रन्थे"ज्ञानप्रामाण्याश्रयेऽयं घट इत्यादिज्ञाने अप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री गुरुमते घटमहं जानामीत्येवमाकारस्वप्रका ३ शव्यवसायजनिका चक्षुर्घटसंयोगादिरूपा मिश्रमते तदनुव्यवसायजनकमनःसंयोगादिरूपा भट्टमते घटो ज्ञानविषयः ज्ञातताधारत्वादित्याद्यनुमितिजनकव्याप्तिज्ञानादिरूपा । तावत्या ग्राह्यत्वं स्वतस्त्वमित्यर्थः । अत्र निरुक्तौ तत्रेत्युक्त्या यत्र

शुक्तिरजतादिज्ञाने विसंवादादीलिङ्गेनाप्रामाण्यानुमित्यनन्तरमिदमप्रमात्वेन जानामीत्यनुव्यवसायः तत्राप्रामाण्यवत्यप्रामाण्यप्रकारकत्वरूपाप्रामाण्यघटितानुमितिनिष्ठप्रामाण्यस्य प्रथमज्ञाननिष्ठाप्रामाण्यग्राहिणैवानुव्यवसायेन ग्रहणाद्बाध इति शङ्का अप्रामाण्याग्राहकेत्युक्त्या इदं  ज्ञानमप्रमेत्यादावप्रामाण्यग्राहकसामग्र्या तज्ज्ञाननिष्ठस्यप्रामाण्यस्याग्रहणा ४ द्बाध इति शङ्का यावदित्युक्त्या न्यायमते ज्ञानग्राहकानुमितिसामग्र्या क्वचिदनुव्यवसायेन च प्रामाण्यग्रहात्सिद्धसाधनमिति शङ्का निरस्ता । विधिकोटौ बाधवारकाणां तदभावकोटौ सिद्धसाधनतावारकत्वं तद्वारकस्य च बाधवारकत्वं ज्ञेयम् ।

१.ऽचऽइति नास्ति छ.  २ऽज्ञप्तौऽ इति नास्ति आ. इ.   ३. शानु कुं.

४ . ग्रहात् कुं . इ.

 

"प्रामाण्यवादः                            पु १९.

 

गुरुमते सर्वज्ञाननां प्रमात्वेपि तदभाववति तत्प्रकारकत्वरूपाप्रामाण्यस्येच्छायां प्रसिद्धस्येदं ज्ञानमप्रमेत्यादौ स्मरणसंभवेनागृहीतासंसर्गरूपाप्रामाण्यग्रहसंभवात्तन्मतेप्यप्रामाण्याग्राहकपदवैयर्थ्यं नेति ॥ अत्र यदुक्तं प्रामाण्यग्राहणाद्बाधवारणाय तत्र ग्राह्यप्रामाण्याश्रयज्ञाने इत्यर्थकं तत्पदमिति तन्न । इमौ वह्नी इति वह्निद्वयगोयरैकज्ञानविषयकानुव्यवसायादिरूपज्ञानेन दोषशादन्यतरांशाप्रामाम्यग्राहिणा १ प्यन्यतरांशे प्रामाण्यग्रहणेन बाधात् । यत्तु तदिस्यस्य तत्र तदंशे ग्राह्यप्रामाण्याश्रयज्ञानांशे अप्रामाण्यग्राहकेत्यर्थत्वान्न दोष इति तन्न । तथापि तदंशे
भावरूपाप्रामाण्यग्राहिणापि नेदं ज्ञानं २ प्रमाणमिति तदंशे प्रामाण्याभावावगाहिना प्रामाण्याग्रहणेन बाधादिति मूलोक्तदोषग्रासात् । यदपि तत्पदं ग्राह्यपरं ३ सत्प्रामाण्यपदेनान्वीयमानं ग्राह्यप्रामाण्यविरोधीत्यर्थसाभार्थमतो न दोष इति तदपि न । तथात्वेऽतत्प्रामाण्येति निर्देशापातेन यथोक्तनिर्देशे तत्पदस्य प्रामाण्यपदेनासामर्थ्यात् । गुरुमते इदं ज्ञानमप्रमेत्यादावप्रमेति स्मृतेरप्रामाण्यग्राहकत्वेपि इदं ज्ञानमितिग्रहणात्मकस्याप्रामाण्यस्मृतिप्रतिबन्धेन प्रामाण्या ४ ग्रहणेन बाधापत्त्योक्तस्वतस्त्वनिरुक्तेर्गुरुमतसाधारण्यायोगाच्च । न चोप्तत्तिप्रामाण्यग्रन्थे मणिकृतैव"प्राभाकरास्त्वि"त्यादिना गुरुमते संशयानुपपत्त्युपपादनप्रस्तावे इदं ज्ञानं
प्रमा न वेत्त्यादावपि प्रामाण्यचग्रहोस्तीत्युपेत्य संशयस्यान्यवीषयत्वोपपादनात्तादृशस्थलेपि प्रामाण्यग्रहसद्भावान्न बाध इति शङ्क्यम् । तथात्वे तन्मते तदप्रामाण्याग्राहकपदवैयर्थ्यापत्तेः ।

 

१.ऽप्यऽ इति नास्ति  कुं .  २. ज्ञानपदं न अ.  ३ सदप्रमाण्य  मु . अ.

४ ग्रहेण  अ.

 

प्रामाण्यवादः                          पु २० .

 

तदभाववति तत्प्रकारकत्वरूपाप्रामाण्याग्राहकस्यापि तद्वति तत्प्रकारकत्वरूपप्रामाण्यात्यन्ताभावविषयकस्य ज्ञानज्ञानस्य प्रामाण्याग्राहकत्वेन  बाधात् । अप्रामाण्यपदेन प्रामाण्यविरोधिविवक्षायामपि

 

तादृशस्थले प्रामाण्यग्रहमुपेत्याग्राहकपदेन ग्राहकसामग्र्यसमवधान विवक्षायां च मिश्रादिमतेऽप्रामाण्यग्रहस्थले तत्सामग्र्यभावेन तदसमवाहितेनापि ज्ञानग्राहकेण तत्र प्रामाण्याग्रहाद्बाध १ एवेत्यादिदूषणं स्फुटत्वादुपेक्ष्योक्तनिरुक्तौ

यावज्ज्ञानविषयकज्ञानविषयत्वमित्येव सामञ्जस्ये ग्राहकसामग्रीत्युक्तिवैयर्थ्या २ द्गौरवाच्चेत्युपेत्य ग्राहकसामग्रीपदत्यागेन ज्ञानपदेन ३ वानुवदन्यथाश्रुताप्रामाण्यपदार्थे तावद्दोषमाह  तदभाववतीति ॥ अप्रामाण्यग्राहकस्यापीति ॥ उक्तविधभावरूपाप्रामाण्यात्यन्ताभावव्याप्याप्यविषयकस्येत्यपि ज्ञेयम् ४ । तेन नञोऽभानार्थविवक्षापि प्रयुक्ता ध्येया ।

ननु नञो विरोधार्थत्वे प्रामाण्याभावतद्व्ययाप्याप्रामाण्यतद्व्याप्यानां चकुर्णामप्यप्रामाण्यपदेन प्रामाण्यविरोधिवाचिना ग्रहणसंभवान्नोक्तदोषः । विरोधित्वस्य प्रामाण्यनिश्चयप्रतिबन्धकज्ञानविषयत्वरूपत्वादित्याशयेन

पक्षधराद्युक्तविवक्षामनूद्यनिराह  अप्रामाण्येति ॥ अपिपदेनैतत्सूचयति । यद्यपि ग्राह्यप्रामाण्यविरोधिलाभो नैतावता भवति । तत्पदमिलितेनाप्यसामर्थ्यादलाभ एव । विरोधिमात्रत्वप्रयोजकम् । तथाप्यभ्युपगमोयमिति  इत्यादिवाक्येति ॥

 

१.बाध इत्यादिकुं.  २.गौरवपदं नास्तिअ. ३.नैवाकुं. ४. ध्येयं कुं.

 

प्रामाण्यवादः                                              पु२१.

 

ज्ञानं गुण इत्यादिवाक्यजन्यस्य ज्ञानं प्रमेयमिति सामान्यप्रत्यासत्तिजन्यस्य च ज्ञानज्ञानस्य प्रामाण्याविषयक १ त्वाद्बाधतादवस्थ्यात्२ । ज्ञानग्राहकपदेन स्वविषयघटितत्वेन ज्ञानग्राहकत्वविवक्षायामपि घटज्ञानमित्यादिशब्दजन्यस्य ३

ज्ञानज्ञानस्य प्रामाण्याविषयकत्वेन बाध एव ।

ज्ञानं समवेतं ज्ञानसमूर्तमित्यादीवाक्यजन्मस्य गुणत्वादीप्रकारकज्ञानविशेष्यकस्येत्यर्थः । ज्ञानज्ञानस्येत्यन्वयः । साक्षाज्ज्ञानत्वव्यापकधर्माप्रकारकेत्यपि ग्राहकविशेषणमस्त्वित्यत उक्तम्  ज्ञानं प्रमेयमितीति ॥ ज्ञाने प्रमेयत्वं ज्ञातं सत्प्रत्यास ४ त्तीभूय स्वविशेषणतासंबन्धेन स्वाश्रयभूतानि सर्वज्ञानरूपवस्तून्युपस्थापयतीति प्रमेयत्वप्रकारकज्ञानविशेष्यकज्ञान ५ ज्ञानस्य प्रमेयत्वाश्रयज्ञाने प्रमाण्यविषयकत्वादित्यर्थः । उक्तदोषपरिहाराय ६ शङ्कते  ज्ञानग्राहकपदेनेति ॥ प्रामाण्याविषयकत्वेनेति ॥ अपदार्थत्वादवाक्यार्थत्वाच्च
घटत्ववद्विशेष्यकत्वादेस्तेन सर्वथा भानाभावादिति भावः । यत्तु शब्दानुपस्थितमपि प्रामाण्यमन्वयितावच्छेदकतया घटज्ञानमिति ज्ञाने भातीति पक्षधरोत्प्रेक्षितं मतं ७ तत्तेनैव दूषितमित्युपेत्योक्तं बाध एवेति ॥ विवृतं ८ चैतद्गुरुपादैः । ननु शब्दान्यत्वे सति स्वविषयघटितत्वेन ज्ञानग्राहकत्वविवक्षास्तिति चेन्न । तथाप्ययं घटज्ञानवान् तद्व्यवहरवत्वातित्याद्यनुमानजन्यज्ञानज्ञानस्यापि प्रामाण्याविषयकत्वेन बाधात् । ज्ञानं प्रमेति शब्दजन्यज्ञानस्य प्रामाण्याविषयकत्वापाताच्चेति भावः ॥

 

१.त्वेनक. २.स्थ्यम्कुं. छ. क.  ३.जन्यज्ञानकुं.  ४.त्तिरूपं.  ५.ऽज्ञानऽइति नास्ति कुं.  ६. याकुं.  ७.त्तुकुं .  ८. च गुरुकुं .

 

परोस्वनिभं.)            प्रामाण्यवादः                    पु २२.

 

ननु ज्ञानग्राहकपदेन ग्राह्यप्रामाण्याश्रयज्ञानप्रकारप्रकारकतया तत्प्रकारवद्विशेष्य१ तया च तद्विषयत्वं विवक्षितम् । अत्र च विशेषणद्वयेन तवघटविशेष्यकं ज्ञानमिति, तव घटत्वप्रकारकं ज्ञानमिति  च शब्दाभ्यां जन्ययोः घट २

ज्ञानविषयकज्ञानयोः प्रामाण्याविषयत्वाद्बाध इति शङ्कद्वयं क्रमेण निरस्तमिति चेदुच्यते । त्वदुक्तं यद्ग्राह्यप्रामाण्याश्रयज्ञानप्रकारप्रकारतया तत्प्रकारवद्विशेष्यतया च तद्विषयत्वं तत्प्रामाण्यविषकत्वमेव । स्वप्रकारकवद्विशेष्यत्वस्यैव प्रामाण्यरूपत्वात् ।

 

नन्वस्तु तर्हि स्वाश्रयप्रकारकतया स्वाश्रयविशेष्यविशेष्यकतया स्वाश्रयग्राह्यत्वमिति यज्ञपतिनोक्तं मतम् । तत्र यद्यापि यथाश्रुते घटत्वप्रकारकं किञ्चिद्विशेष्यकमिति ३ ज्ञानेनापि प्रामाण्याग्राहत्स्वाश्रयप्रकारप्रकारकतया स्वाश्रयप्ररारवद्विशेष्यतयेति वाच्यम् । तत्रापि प्रकारवदित्यत्र प्रकारस्योपलक्षणत्वे प्रगुक्तदोषापत्या तत्प्रकारविशिष्ट ४ विशेष्यकतयेच्युच्यते । अतो न

कोपि दोष इति भावेन शङ्कते  नन्विति । तत्प्रकावदिति । तत्प्रकारविशिष्टविशेष्यकतयेत्यर्थः तद्विषयत्वम् । व्यावसायविषत्वम् । ५ अस्मिन्पक्ष इत्यादि वक्ष्यमाणदोषदार्ड्याय दलद्वयकृत्यं व्यनक्ति  अत्रचेति । विवक्षायामित्यर्थः । किमेतद्वादिमते तद्वत्वरूपं वेशिष्ट्यमनुव्यसायविषय एव नेति मतिरुत स्वातन्त्र्येण ? आद्ये दोषमाह त्वदित्यादिना । स्वप्रकारवदिति । स्वप्रकारविशिष्टेत्यर्थः ।

 

१. क.छ.कुं  २.ऽघटऽ इति नास्ति कुं.छ.क.  ३. घटत्वप्रकारककिञ्चिद्विशेष्यकंकुं.  ४.ऽविशेष्यऽ इति नास्ति कुं.ऽधर्मिऽ इत्यधिकंं.  ५. अ. पुस्तके नास्ति.

 

परोस्वनिभं)           प्रामाण्यवादः                     पु २३.

 

तथा च यावती प्रामाण्यविषयिका सामग्री तद्गाह्यत्वं स्वतस्त्वमित्युक्तं स्यात् । तथा चैतादृशस्वस्त्वस्य परतस्त्वपक्षेपि सत्वात्सिद्धसाधनम् । एतदभावरूपपरतस्त्वसाधनेऽपसिद्धान्तश्च । न हि परस्त्वपक्षे अनुव्यवसायाविषयोपि प्रामाण्यं प्रामाण्यं प्रामाण्यानुमितेरप्यविषयः ।

 

सिद्धसाधनापसिद्धान्तौ व्यनक्ति  नहीति ॥ प्रामाण्यमिति ॥ तद्वत्त्वादिरूपमित्यर्थः । वैशिष्ट्यमनुव्यवसायविषय एव नेति पक्षे तादृशानुव्यवसायविषयत्वमादाय सिद्धसाधनादिदोषाभावेपि इदं ज्ञानं प्रमाणं समर्थप्रवृत्तिजनकत्वातित्यनुमितिसामग्रीरूपा यावती त्वदुक्तलक्षणा ज्ञानग्राहिका सामग्री तावत्त्यापि प्रामाण्यग्रहात्सिद्धसाधनपापसिद्धान्तावित्यर्थः। अनुमितिविषयत्वोक्तौ तत्सामाग्रीविषयत्वं सिद्धमेवेत्युपेत्य अनुमितेः इत्येवोक्तम् । न त्वनुमितिसामग्र्या अपीति । यद्वातेन सामग्रीत्युक्तावपि ग्राहकज्ञानेत्येव युक्तम् । न तु सामग्रीत्युपेत्यैवमुक्तम् । द्वितीये स्वातन्त्र्येण तद्वद्विशेष्यकत्वग्राहकत्वमिति मतम्, उत
ग्राहकत्वमा १ त्रमिति ? स्वातन्त्र्येण तद्वद्विशेष्यकत्वादिविषयिकेत्यर्थः  अनुव्यवसायाविषयोपि ॥ स्वातन्त्र्येण तद्वद्विशिष्टधर्मविशेष्यकत्वादिविषयकानुमितेरपीत्यर्थः । द्विदीयेपि ग्राह्यमित्यत्र ग्राह्यत्वमात्रमभिमतमुत स्वातन्त्र्येण ? आद्ये तादृशानुव्यवसायविषयत्वमादायापि सिद्धसाधनतापसिद्धान्तौ स्पष्टौ ।

 

१ . मात्रं कुं .

 

परोस्वनिभं )             प्रामाण्यवदः                 पु २४.

 

अस्मिन्पक्षेऽप्रामाण्यग्राहकत्वविशेषणवैयर्थ्यं च ॥

 

द्वितीयेतूक्तरूपानुव्यवसायं प्रति प्रामाण्यस्य न्यायमते स्वातन्त्र्येणाविषयतया यावतीति ज्ञानग्राहकसामग्रीविशेषणेनैव सिद्धसाधनापत्तेर्देषान्तरमाह अस्मिन्पक्ष इति ॥ ग्राह्यत्वमित्यत्रैव स्वातन्त्र्येण

ग्रह्यत्वमिति पक्ष इत्यर्थः । तथा अस्मिन्पक्ष इत्यस्यं स्वातन्त्र्येण तद्वद्विशेष्यकत्वादिग्राहिकेति पक्ष इत्यप्यर्थमुपेत्य प्राचीनपक्षेप्ययं दोषोबोध्यः । तद्वद्विशेष्यकत्वग्रहे तदभाववद्विशेष्यकत्वरूपाप्रामाण्यग्रहासंभवेनोक्तविवक्षया तद्वारणादिति भावः ॥

ननु तदभाववति तत्प्रकारकत्वरूपाप्रामाण्यग्राहिकापि तद्वद्विशेष्यकत्वग्राहिकैव । तत्प्रकारकत्ववित्तवेद्यत्वात्तद्वद्विशेष्यकत्वस्य । तद्वद्विशेष्यकत्वाभाने तत्प्रकारकत्वाग्रहणायोगादिचेत्तर्हि अप्रामाण्याग्राहकत्वरूपविशेषणदानेऽपि तव घटत्वप्रकारं ज्ञानमिति शब्दजन्यज्ञनेनाप्रामाण्याग्राहकेण क्वदुक्तदिशा प्रकारवित्तिवेद्यतया तद्वद्विशेष्यकत्वग्राहिणापि प्रमाण्याग्रहणाद्बाधापत्तेः । यदि चात्र तद्वत्तेन विशेष्यस्याभानान्न बाधः। तर्हि अप्रामाण्यग्राहकसामग्र्यामपि तत्तुल्यम् । अत एव पूर्वं दलद्वयकृत्यं व्यक्तीकृतम् ॥

यदत्रोक्तं नरहरिणा"अप्रामाण्याग्रा १ हकेत्यत्र नञ्व्यत्यासेनाप्रामाण्याभावग्रा २ हकेत्यर्थे प्रामाण्यग्राहकेति पर्यवसानात्

प्रामाण्यग्राहतयावज्ज्ञानग्राहकग्राह्यत्वं विधिकोट्यर्थ"इति तदपि"यावती प्रामाण्यविषयिका सामग्री तद्ब्रह्मत्वं स्तवतस्त्वमित्युक्तं स्यात्"इति ग्रन्थकृदुक्त्येव सिद्धसाधनादितोषेण निरस्तं भवति । न च ग्राह्यपदेन स्वातन्त्र्येण ग्राह्यमित्यभिमतत्वाद्यावदित्युक्तैव सिद्धसाधनत्वदोषाभावः, तथात्वे नानुव्यवसायविषयत्वस्य न्यायमतेऽभावदिति वाच्यम् । नञो प्रामाण्याभावार्थकत्वे पूर्वपदेन समासायोगात्, नञ्द्वयवैयर्थ्यात्, तत्पदवैयर्थ्याच्चेतिध्ययेम्।तदेतदाह  अप्रामाण्याग्राहकत्वविशेषणवैयर्थ्यमिति ॥

 

परोस्वनिभं)                प्रामाण्यवादः                 पु  २५.

 

ननु यथा १ ज्ञानग्राहकसामग्र्या ज्ञानग्रहार्थं यावदपेक्षितं तावदेव विषयग्रहार्थमप्यपेक्ष्यते सैव सविषय २ ज्ञानग्रहकसामग्री विवक्षिता ।

अनुव्यवसायसामग्री चैवं विधा । ३ तया व्यवसायग्रहेऽपेक्षितस्य व्यवसाय ४ संप्रयोगस्यैवं तद्विषयघटग्रहेऽप्यपेक्षितत्वात् । घटज्ञानमिति शब्दस्तु ज्ञानग्रहे ज्ञानपदगतानां शक्तिमपेक्षते । घटग्रहे तु घटपदगतां शक्तिमिति चे ५ न्न ।

 

पक्षधरोक्तशङ्क्य निराह  नन्विति ॥ तावदेवेति ॥ ज्ञानग्राहकत्वप्रयुक्तमेव यस्यां विषयग्राहकत्वं सैवेत्यर्थः । अस्मिन्मते च भ्रम इति पदजन्यज्ञानेन प्रामाण्याग्रहाद्बाधवारणायाप्रामाण्याग्राहकत्वविशंषणमर्थवत् । विषयोपरक्तज्ञानग्राहकेण प्रमेति पदजन्यज्ञानेनोक्तरूपेण प्रमाण्यग्रहणात्सिद्धसाधनवारणाय  यावदिति   विशेषणम् । बाधः सिद्धसाधनता च नेति क्रमेण व्यनक्ति अनुव्यवसायसमग्रीति ॥ षष्ठीतत्पुरुषः।

आत्ममनःसंयोगादिरित्यर्थः । स्वप्रकाशव्यवसायादिसामग्र्यपि ग्राह्य व्यवसायसंयोगस्य ॥ व्यवसायस्य मनसा सह संयुक्तसमवायरूपसंबन्धस्यैवेत्यर्थः । बाह्यर्थरूपविषयग्रहे व्यवसायरूपप्रत्यासत्तेरपेक्षाया इवानुव्यवसायजननेपि विषयता व्यवसायापेक्षायास्तुल्यत्त्वादिति भावः । तत्पदेनेत्युपलक्षणं तत्पदादिनेत्यर्थः ।

 

१.यया सामग्र्याकुं.छ.क.   २.क कुं. छ.क.   ३.तथाहिछ.  ४.संबन्धस्यैव छ.   ५. त्क.

 

परोस्वनिभं )           प्रामाण्यवादः                    पु २६.

 

तथाप्येकयैव शक्त्या प्रकरणप्राप्तघटज्ञानपरामर्शकेन तत्पदेन जनितज्ञानस्य प्रामाण्याविषयकत्वेन बाधतदवस्थ्यात् ।

नापि तज्ज्ञानविषयकज्ञानाजन्यज्ञानविषयत्वं स्वतस्त्वम् । अस्मिंश्च पक्षे संभवमात्रं साध्यं न तु नियमः ।

यदत्र मणिसारादावुक्तम्"असर्वनामत्वेनग्राहकविशेषणान्न दोष"इति तन्न । तथापि लक्षणया घटज्ञानोपस्थापकेन लाक्षणिकज्ञानपदेन प्रामाण्याग्रहाग्बाधात् ।

अलक्षणिकत्वेनापि विशेषणे १ तु घटज्ञाने ज्ञानपदं शक्तामिति भ्रमे सति तादृशेन ज्ञानपदेनापि प्रामाण्याग्रहाद्बाध एव । भ्रमाघटितत्वेनापि विशेषणे तु अप्रामाण्याग्राहकपदवैयर्थ्यम् । प्रमायामप्रामाण्यानुमानस्य व्याप्तिपक्षधर्मतान्यतरभ्रममूलत्वादेव तत्र बाधवाहणात् ।

यत्तु इदं ज्ञानमप्रमाणमिति मनसाप्रामाण्यारोपस्थलेऽन्यत्र गृहीताप्रामाण्यस्मृतिसंभवेन तया भ्रमाघटितयापि सामग्र्या प्रामाण्याग्रहाद्बाधवारणायाप्रामाण्याग्राहकेति विशेषणं २ सार्थकमिति तन्न । तत्र ज्ञानग्राहकत्वप्रयुक्तविषयग्राहत्वरूपसवनषयज्ञानग्राहकत्वस्याभावादेव बाधवापणात् । विस्तरस्तु गुरुटीकायाम् ।

साधारणं निरुक्त्यन्तरमप्यनूद्य निराह  नापीति ॥ तज्ज्ञानं  ग्राह्यप्रामाण्याश्रयज्ञानम् । तद्विषयकं ज्ञानं गुरुमते तदेव । भट्टमते ज्ञाततालिङ्गक ३ तदवुमितिः । मिश्रमते त ४ दनुव्यवसायः । तदजन्यं यज्ज्ञानं तदेव । तद्विषत्वमित्यर्थः ।

 

१.ऽतुऽ इति न कुं.   २. सार्थकपदं न आ.  ३. कानुकुं.   ४.त्त आ.

 

परोस्वनिभं )              प्रामाण्यवादः                     पु  २७.

 

स्वतस्त्वपक्षेऽपि प्रामाण्यस्य तज्ज्ञानविषय १ ज्ञानजन्यानुमित्यापिग्राह्यत्वेन तदजन्यज्ञानस्यैव विषय इति नियमस्य तज्ज्ञानविषयकज्ञानाजन्येन घटज्ञानेनाप्यग्राह्यत्वेन गृह्यत एवेति नियमस्य २

 

अत्र ज्ञानजन्येत्युक्त्यानुमितिविषयत्वेन सिद्धसाधनतेति शङ्का, ज्ञानविषयकेत्युक्त्या गुरुमतेऽनुमित्यादीप्रामाण्यांशे भट्टमते मिश्रमते च सर्वत्र प्रामाण्यानुमित्यनुव्यावसाययोर्व्याप्तिज्ञानव्यवसायाभ्यां जन्यत्वेन बाध इति शङ्का, तदित्युक्त्या पुनरपि गुरुमते लिङ्गज्ञानस्य स्वप्रकाशत्वेन ज्ञानविषयकज्ञानत्वात्तज्जन्यानुमितिप्रामाण्यांशे बाध इति ३ भट्टमते ज्ञाततालिङ्गकानुमितेर्ज्ञानविषयव्याप्तिज्ञानजन्यत्वाद्बाध इति ३ मिश्रमतेप्यनुव्यवसायस्य व्यवसायविषयकस्य तज्जन्यतया तन्निष्ठप्रामाण्यांशे बाध इति शङ्का निरस्ता ४ । भट्टमते सामान्यप्रत्यासत्तेरभावेन व्याप्तिज्ञानस्य ग्राह्यप्रामाण्याश्रयज्ञानाविषयत्वम् । मतान्तरे तु व्यक्तम् । अत्राद्यज्ञानपदं तत्पदस्य तद्ग्रन्थे
पूर्वनिर्दिष्टप्रामाण्यपरामर्शितया सिद्धसाधनत्ववारणाय । द्वितीयं तु व्यापारनुबन्धितया तज्ज्ञानविषयकैरात्मादिभिः प्रामाण्यज्ञानजननद्वार

५ सिद्धिवारणाय प्रतिपत्त्यनुबन्धितया तद्विषयकत्वलाभार्थम् । तृतीयमपि व्यापारानुबन्धितयात्मादिभिरेव सिद्धसाधनतावारणाय प्रतिपत्त्यनुबन्धितया विषयत्लाभायेत्याहुः।

ग्रन्थकर्तुः कुतो नियमो नाभिमत इत्यत आह  स्वतस्त्वेति ॥ तज्ज्ञानविषयकज्ञानजन्येति ॥ पक्षज्ञानजन्यत्वादनुमितेरिति भावः । ग्राह्यत्वेन  विषयोकार्यत्वेनेत्यर्थः । अग्राह्यत्वेन  अविषयीकार्यत्वेन ।

 

१.ककुं क.  २.वाछ. ३.इयं पङ्क्तिर्नदृश्यते मु.  ४.व्युदस्ताकुमा. ५.प्रकुं.आ.

 

परोस्वनिभं)              प्रामाण्यवादः                 पु २८.

 

चासंभव १ इति वाच्यम् । स्वतस्त्वपक्षे व्यवसायप्रामाण्यग्रहकस्यानुव्यवसायस्य

व्यवसायविषयकेश्वरज्ञानजन्यतया तदजन्यज्ञानं २ त्वाभावेन बाधात् । परतस्त्वपक्षे तदजन्येश्वरज्ञानविषयत्वेन सिद्धसाधनाच्च । नापि तज्ज्ञानविषयकजन्यज्ञानाजन्यजन्यज्ञानविषयत्वं वा तज्ज्ञानविषयकसमानाधिकरणज्ञानाजन्यसमानाधिकरणज्ञानविषयत्वं वा स्वतस्त्वम् ।

 

गृह्यत एव  विषयीक्रियत एवेत्यर्थः । किमिदं स्वतस्त्ववादिमात्रसाधारणमुत निरीश्वरमीमांसकमात्रसाधारणं निर्वचनम् ? आद्य आह  स्वतस्त्वपक्ष इति ॥ सिद्धान्ते साक्षिशब्दितानुव्यवसायज्ञानस्य नित्यत्वेपि प्रामाण्यविषयकत्वरूपविशिष्टवेषेण जन्यत्वादिति भावः । अन्त्य आह  परतस्त्वपक्ष इति ॥ एवं रूपे स्वतस्त्वे त्वां प्रत्युच्यमाने ग्राह्यप्रामाण्याश्रयविषयं ३ यदीश्वरज्ञानं तदजन्यं तदेव । तद्विषयत्वेन त्वया सिद्धसाधनताया वक्तुं शक्यत्वादिति भावः। अयं च ४ दोषः प्राचीनपक्षेपि  समः ।
यत्त्वीश्वरनिरासाभिप्रायेणौवं साध्यस्य मीमांसकेनोच्यमानत्वान्न सिद्धसाधनता दोष इति । तन्न । अर्थान्तरानिवारणादिति रुचिदत्तेनैवदीषितत्वात् । यज्ञपतिनोक्तविवक्षामनूद्य निराह  नापीति ॥ सर्वस्यापी जन्यज्ञानस्य तज्ज्ञानविषयकेश्वरज्ञानजन्यत्वेनाप्रसिद्धिवारणायाद्यं जन्यपदम् । द्वितीयन्त्वीश्वरज्ञानमादाय सिद्धसाधनतानरासार्थम् । एवमग्रे समानाधिकरणपदद्वयकृत्यं ध्येयम् । युगपदेव विवक्षाद्वयेपि दोषमाह  परतस्त्वेति ।

 

१.वात्कं.   २.ऽज्ञानऽ इति न  कुंछक.   ३.कंकुं.    ४.दोषपदं नास्ति आ.

 

परोस्वनिभं. )           प्रामाण्यवादः                     पु  २९.

 

परतस्त्वपक्षेऽपि प्रामाण्यस्यैवं विधं सामान्यप्रत्त्यासत्तिजन्यं प्रमेयमिति यज्ज्ञानं दद्विषयत्वेन सिद्धसाधनात् ।

विषयपदेनप्रकारत्वविवक्षायामपि स्वतस्त्वपक्षेपि प्रामाण्यस्य सर्वं ज्ञानं गुण इति शब्दजन्यव्यवसायविषयकानुव्यावसायस्य सर्वज्ञानान्तर्भूतस्वविषयकव्यवसायजन्यत्वेन तदजन्यत्वाभावेनांशे बाधात् ।

 

एवंविधम् ॥ तज्ज्ञानविषयकजन्यज्ञानाजन्य १ जन्यरूपम् । तज्ज्ञानविषयकसमानाधिकरणज्ञानाजन्यसमानाधिकरणरूपम्

चेत्यर्थ्यः  प्रमेयम् ॥ प्रमेयत्वप्रकारकं प्रमेयविशेष्यकं यज्ज्ञानं तद्ग्राह्यप्रामाण्याश्रयविषयकं घटादिज्ञानरूपजन्यसमानाधिकणज्ञानाजन्यं जन्यं २ समानाधिकरणं प्रमेयत्वप्रकारेण प्रामाण्यविषयकं चेति तद्विषयत्वेन सिद्धसाधनमित्यर्थ्यः । एतच्चोपलक्षणम् । निरीश्वरमते व्यर्थविशेषणत्वं च बोध्यम् । एतेन समानाधिकरणेति विशेणणीयमिति शिरोमणिपक्षोपिप्रयुक्तः । ननु प्रमेयमितिज्ञाने विशेष्यतया प्रामाण्य ३ स्य विषयत्वेपि न प्रकारतया । तथात्वेन विषयत्वं च निरुक्तो विवक्षीतम् । इत्यत आह
विषयेति । प्रामाण्यस्येत्यस्यानुव्यवसायेनेत्यत्रान्वयः । प्रामाण्यगोचरस्येत्यर्थः । गुणत्वप्रकारकसर्वज्ञानविशेष्यकशाब्दज्ञाननिष्ठप्रामाण्यग्राहकोनुऽव्यवसायो व्ववसायजन्यः । स च व्यवसायः सर्वज्ञानविषयको ज्ञानत्वेन स्वात्मानमपि विषयीकरोतीति तत्प्रामाण्यस्य तज्ज्ञानविषयकज्ञानजन्यज्ञानप्रकारत्वमेवास्ति । तदजन्यज्ञानप्रकारत्वं नेति सर्वं ज्ञानं गुण इति ज्ञाननिष्ठ प्रामाण्यांशे बाध इत्यर्थः ; सर्वज्ञानान्तर्भूतं च तत्वस्वं चेति विग्रहः ।

 

१. एकं जन्यपदं न  आ.  २. न्यासा  आ.  ३. ण्यवि  आ.

 

परोस्वनिभं )              प्रामाण्यवादः                     पु  ३०.

एतदभावरूपपरतस्त्वसाधनेंऽशे सिद्धसाधनाच्च । न चैवंविधव्यावसायप्रामाण्यस्यापक्षत्वान्न बाध इति वाच्यम् । सामान्ये १ विप्रतिपत्तौ विशेषे २ साध्यसाधनेर्ऽथान्तरात् ।

एतेन तज्ज्ञानविषयकज्ञानाजन्यज्ञानविषयत्वमेव स्वतस्त्वम् । न तु जन्यपदद्वयं वा समानाधिकरणपदद्वयं वा प्रक्षेप्यम् । न चैवं पूर्वोक्तेश्वरज्ञानमादाय बाधसिद्धसाधनते स्यातामिति वाच्यम् ।

तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वरूपजन्यस्याभावरूपमजन्यत्वं हि द्वेधा ।

 

स्वपदेन व्यवसायः । केनचिदुक्त ३ समाधिमाशङ्क्य निराह  नचैवं विधेति ॥ अर्थान्तरादिति । सामान्यधर्मावच्छिन्नस्वतस्त्वपरतस्त्वसंशयनिवर्तनानुपयोगादर्थान्तरादि ४ ति भावः ।

पक्षधरोक्तमप्यनूद्य निराह  एतेनेति ॥ तद्व्यतिरेकेति ॥ अत्रोभयत्र व्यतिरेकशब्दः प्रगभावपरः । अन्यथा आद्यस्य संसर्गाभावमात्रपरत्वे तज्ज्ञानविषयकव्याप्तिज्ञानात्यन्ताभावरूपव्यतिरेकाप्रयुक्तप्रागभावप्रतियोगिनीमिदं ज्ञानं प्रमेत्यनुमितिमादायैव ५ सिद्धसाधनतापत्तेः । अन्त्यस्यापि तत्परत्वे पूर्वोक्तानुमितिमादायैव सिद्धसाधनतापत्तेः । ध्वंसरूपतद्व्यतिरेकस्य तज्ज्ञानविषयकज्ञानव्यतिरेकेण केनाप्यजन्यत्वादिति ध्येयम् । यद्यपि नैतद्रूपं जन्यत्वम् । आकाशादिजन्य शब्दादावभावात् । तथापि । व्यतिरेकिपदार्थेषु भवतीदं जन्यत्वमिति भावः  द्वेधेति ॥ उत्तरदलेन नञोऽन्वयेन पूर्वभागेन नञोऽन्वयेन वा
द्वेधेत्यर्थ्यः

 

१. न्यवि  कुं.  २. षसाध्य  कुं.  ३. त्यर्थः  आ.  ५. य सि  कुं. य.आ.

 

परोस्वनिभं )                प्रामाण्यवादः                  पु  ३१.

 

तद्वतिरेकप्रयुक्तव्यतिरेकाप्रतियोगित्वेन वा तद्व्यतिरेकाप्रयुक्तव्यतिरेकप्रतियोगित्वेन वेति । तत्राद्यस्याजन्यत्वस्येश्वरज्ञाने सत्वेपि मया विवक्षितस्य द्वितीयस्याभावात् । न हीश्वरज्ञानं प्रागभावरूपव्यतिरेकप्रतियोगीति निरस्तम् । तथापि पूर्वोक्तस्य प्रमेयमिति ज्ञानविषयत्वेन सिद्धासाधस्य सर्वं ज्ञानं गुण इत्यादिनोक्तस्य बाधस्य

 

प्रयुक्तेति ॥ तदन्वयाद्यनुविधाय्युत्तरकालसंबन्धित्वं प्रयुक्तम् । तद्भिन्नत्वमप्रयु  क्तत्वामित्यर्थः सत्वेपीति ॥ तस्य व्यतिरेकमात्राप्रतियोगित्वादिति भावः मयेति ॥ स्वतस्त्वनिर्वचनकर्त्रेत्यर्थः । अभावादित्येतद्वनक्ति  नहीति ॥ तथा च न प्रागुक्तदोषाविति भावः । एतेनेत्युक्तं व्यनक्ति तथापीति ॥ एवं विवक्षायामपीत्यर्थः । विषयपदेन प्रकारत्वविवक्षामुपेत्याह  सर्वं ज्ञानमिति ॥ बाधस्ये १ ति । एतदभावरूपपरतस्त्वसाधने सिद्धसाधनाच्च । तस्या २

पक्षत्वे चार्थान्तरता । इदं ज्ञानं प्रमेति सामान्यप्रत्यासत्तिजन्यज्ञाने प्रामाण्यस्य प्रकारत्वेन सिद्धसाधनापरिहाराच्च । न च सामान्यस्या ३ ज्ञानस्य प्रत्यासत्तित्वेऽतिप्रसङ्गेन ज्ञातस्यैव प्रत्यासत्तित्वात्प्रमात्वज्ञानस्य चानुमित्यादिरूपस्य प्रमात्वाश्रयरूपपक्षादिज्ञानजन्यतया तज्ज्ञानविषयकज्ञानजन्यत्वमेवेत्युक्तस्थले तज्ज्ञानविषयकज्ञानाजन्यज्ञानप्रकारत्वं नेति न दोष इति वाच्यम् । इच्छायां गृहीतं तद्वति तत्प्रकारकत्वं स्मृतं सज्ज्ञानत्वेन गृह्यमाणे रूप्यभ्रमे यत्रारोप्यते यत्र वा रूप्यत्ववति रूप्यत्वप्रकारकत्वेन गृह्यमाणायामिच्छायां

 

१. स्य चे  कुं. आ.   २. पि  आ.   ३. अज्ञातपदं न  आ.

 

परोस्वनिभ)             प्रामाण्यवादः                   पु  ३२.

 

ज्ञानत्वमारोप्यते तत्रोभयत्र प्रमात्वाश्रयज्ञानविषयकज्ञानं विनापि रूप्यत्ववति रूप्यत्वप्रकारकज्ञानत्वरूपं प्रमा १ त्वं गृहीतुं शक्यमिति ज्ञातया २ तद्रूपसामान्यप्रत्यासत्या जनितं ज्ञानमादाय सिद्धसाधन ३ त्वस्य दुर्वारत्वात् । किं च त्वन्मते गङ्गास्नानादिसत्कर्मजन्यं योगिज्ञानं तज्ज्ञानविषयकज्ञानजन्यमेवेति तादृशज्ञान ४ प्रकारत्वमादाय सिद्धसाधन ५ मेव । न हि तदपि निदिध्यासनजन्यम् । मानाभावात् । येन योगिज्ञानं तज्ज्ञानविषयकज्ञान जन्यं स्यात् । तत्तत्कार्मणां त ६ त्त्वज्ञानविशेष एव जनकत्वमित्यनुमानखण्डे त्वयैवोक्तेः । प्रमात्वस्य प्रकारत्वार्थं

पूर्वोपस्थितेरावश्यकत्वेऽपि उक्तदिशा प्रमात्वाश्रयज्ञानं विनापि प्रमात्वज्ञानसंभवात् । यत्तु अनागताविषयकेति द्वितीयतृतीयज्ञानयोर्विशेषणमतो न कोऽपि दोष इति तन्न । ७ वर्तमानघटप्रामात्वप्रत्यासत्त्या दोषतादवस्थ्यात् । अनागतवृष्ट्यादिज्ञानप्रामाण्यांशे बाधात् । तदन्यस्य पक्षत्वे चार्थान्तरत्वात् । यद्यपि तज्ज्ञानविषयकज्ञानव्यतिरे ८ का प्रयुक्तव्यतिरे ९ कप्रतिगितदकेज्ञानमात्रविषयकज्ञानग्राह्य १० मिति  तदर्थ इति । तदपि न ।    एवं हि पूर्वदलेन प्रामाण्यानुमिति ११ मादाय तदेकज्ञानमात्रविशेषण सामान्यप्रत्यासत्तिजन्यज्ञानयोगिज्ञाने १२ श्वरज्ञानान्यादाय १३ सिद्धसाधनत्वाभावेऽपि ज्ञानं गुण इत्यादि १४ ज्ञानज्ञानप्रामाण्यानुव्यवसायस्य
ग्राह्यप्रामाण्याश्रयज्ञानविषयकतया तदेक १५ विषयकत्वाभावेन तदंशे बाधात् ।

 

१.णकुं.  २.तयाआ.  ३.ऽत्वऽ इति न आ.  ४. विषयत्वमा.   ५.त्वआ.

६.त्तज्ज्ञा कुं.  ७. वर्तमानपदं न आ.   ८.ककुं   ९.काकुं.   १०. त्वआ.

११. मीश्वरज्ञानंवा आ.   १२. चादाय आ.   १३. चकुं.   १४. ज्ञानप्राकुं.

१५. ज्ञानआ.

 

स्वतस्त्वे अनुमानानि          प्रामाण्यवादः                    पु  ३३

 

चापरिहारादिति दिक् ॥

परोक्तस्वतस्त्वनिरुक्तिभङ्गः ॥ २ ॥

 

स्वतस्त्वे प्रमाणं तु ,

 

तदन्यस्य पक्षत्वे चार्थान्तरता । किञ्च प्रमावानयं समर्थप्रवृत्तिमत्त्वातित्याद्यनुमितिग्राह्यत्वेननार्थान्तरता । मीमांसकमते

सामान्यप्रत्यासत्त्यभावेन ग्रह्यप्रमाव्यक्तेरनुमितिजनकज्ञानोगोचरत्वात् । तदन्यप्रामाण्यस्य पक्षत्वं तु सामान्यविप्रतिपत्त्यननुगुणमित्याद्यभिप्रेत्याह  इति दिगिति ॥ यद्वा एवं विप्रतिपत्त्यन्तराण्यपि तत्तद्बुध्युत्प्रेक्षितानि निरस्यानीति भावेनाह  इतिदिगिति ॥ तन्निरासश्च गुरुटीकायां व्यक्तः ॥

परोक्तस्वतस्त्व १ निरुक्तिभङ्गः ॥ २ ॥

 

तत्र किं प्रमाणमित्यत आह  स्वतस्त्वे प्रमाणं त्विति ।  अनुमानमिति वक्ष्यमाणेनान्वयः । यद्यपि

"पृष्टेनागम एवादौ वक्तव्यः साध्यसिद्धये"

इति कथालक्षणोक्तेः ग्रन्थस्य च वादकथा रूपेण प्रवृत्तेः

"ऋग्यजुःसामाथर्वाख्या मूलरामायणं तथा

भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः ।

पुराणानि च २ यानीह वैष्णवानि विदो विदुः

स्वतः प्रामाण्यमेतेषां नात्र किञ्चिद्विचार्यते"॥

 

१. परतस्त्व  छक.        २. तु  अ .

 

स्वतअनु)                   प्रामाण्यवादः                    पु  ३४.

 

ज्ञानप्रामाण्यं स्वतो ग्राह्यं , परतोऽगृह्यमाणत्वे सति गृह्यमाणत्वात्यद्यदन्येनागृह्यमाणत्वे सति ग्राह्यं तत्तेन ग्राह्यम् । यथा चक्षुरन्ये १ नागृह्यमाणं रूपं चक्षुर्ग्राह्यम् ॥ १ ॥

 

इत्यादिरागम एव वाच्यः । तथापि हैतुकस्य तार्किकस्यागमेऽत्यादराभावात्तं प्रत्यागमानुकूला न्याया एवात्रोच्यन्त इत्यदोषः ।

"ज्ञानगतं २ याथार्थ्यं तद्गाहकेणैव ग्राह्यं, ग्राहकान्तरानुपपत्तौ सत्यां गृह्यमाणत्वात्यद्यतोऽन्येनानुपपद्यमानग्रहणं गृह्यते तत्तेनैव ३ गृह्यते, यथा चक्षुषोन्येनानुपपद्यमानसाक्षात्कारं साक्षात्क्रियमाणं रूपादि चक्षुषा साक्षात्क्रियते"

इति तत्वनिर्णयटीकोक्तमनुमानं तात्पर्यतोऽनुवदतिज्ञानप्रामाण्यमिति ॥ याथार्थ्यरूपमित्यर्थ्यः । तत्स्वरूपमुक्तंप्रागस्माभिः । चक्षुरादिरूपानुप्रमाणव्यावृत्तस्य साक्षाज्ज्ञेयविषयीकारित्वस्य लाभाय ज्ञानेति विशेषणं तत्तज्ज्ञानपदम् । घटत्ववति घटत्वप्रकारक ४ ज्ञानत्वादिरूपं प्रामाण्यमित्यर्थ्यः । यदा तु प्रामाण्यपदेन केवलप्रामाण्यग्रहः तदा ज्ञानपदं स्पष्टार्थम् । अत एव सुधायां"प्रामाण्य"मित्येव  पक्षोक्तिः  स्वत इति ॥ ग्राह्यप्रामाण्यविरोध्युपस्थापकसामग्र्यसमविहितत्तज्ज्ञानविषयकसाक्षिविषय एवेत्यर्थः ।
विशेषणकृत्यं प्राग्वत् । साक्षी च लौकिकप्रत्य ५ क्षादिरूपानुव्यवसाय एव परत इति ॥ प्रामाण्यं परतो ग्राह्यं सांशयिकत्वातित्यादौ यत्पराभिमतं साध्यमुक्तविशेषेणकसाक्षिज्ञानादन्येनैव ग्राह्यत्वादिरूपं तदभावे सति ग्राह्यत्वादीत्यर्थ्यः ।

 

१. घ्राणादि  कुं. छ. क.   २. त  कुं.     ३.ऽ एवऽ पदं नास्ति  अ.

४. ज्ञानेति न  आ.  ५. क्षानु  कुं. आ.

 

स्त अनु .)                प्रामाण्यवादः                      पु  ३५.

 

सुखमनुभवामीति प्रत्ययः ( प १ ). दोषशङ्काद्यकलिङ्कितज्ञानस्यानुव्यवसायो

वा ( प २ ).

 

तेनानुमित्यादिग्राह्यत्वेपि नासिद्धिः"परस्यस्वतस्त्वात्स्वस्य च परतत्वादि"त्यादि मण्युक्तखण्डनस्याप्यनवकाशः । केचित्तु परतोग्राह्यत्वं नाम उक्तविशेषणकोक्तरूप १ प्रत्यक्षाग्राह्यत्वं साक्षिज्ञानादन्योत्पाद्यप्राथमिकप्रतीतिकत्वं

२ परतोग्राह्यम् । तच्छून्यत्वे सतीत्यर्थः । तेन स्ततस्त्ववादे प्रामाण्यस्यानुमित्यादिग्राह्यत्वेपि न विशेषणासिद्धिरित्याहुः । अत्र सत्यन्तमात्रस्याप्रयोजकत्वाद्ग्राह्यत्वादित्युक्तिः । घटादिगतगन्धादो सत्यपि ग्राह्यत्वे स्वाश्रयग्राहककोक्तरूपप्रत्यक्षाग्राह्यत्वं

नेति व्यभिचारनिरासाय सत्यन्तम्।

प्रामाण्यस्य स्वतो ग्राह्यत्वे क्कचित्संशयाद्युपपादनक्लेशनिरासाय विशिष्याप्याह  सुखमिति ॥ ३ स्ववृत्तिवर्तमानसुखसाक्षात्कारगोचरः साक्षिरूपः प्रत्ययः इत्यर्थः । ज्ञानांशे लौकिकप्रत्यक्षादिरूपानुव्यवसायः प्रामाण्यविषयको न वेति विप्रतिपत्त्यनानुगुण्यादर्थान्तरत्वमिति न शङ्क्यम् । बाह्याभ्यन्तरसाधारणपक्षान्तराण्याह  दोषेति ॥ दुष्टकरणजन्यत्वङ्का तन्निश्चयाप्रामाण्यादिशङ्कातन्निश्चयाद्यनास्कन्दिघटादिज्ञानस्येत्यर्थः । न चैवमन्त्यपक्षाभेद इति शङ्क्यम् । तत्रानुव्यवसायविशेषणत्वेन इह व्यवसायविशेषणत्वेन तत्र प्रामाण्यविरोध्युपस्थापकसामग्रीत्वेन अत्र तु
तत्कार्यदोषशङ्कादित्वेन च प्रवेशेनात्यन्तभेदात् उपस्थापकसामग्रीति ॥ उपस्थितितत्सामग्रीत्यर्थ्यः ।

 

१.ऽप्रत्यक्षाग्राह्यत्वंऽ इति नास्ति कुं. आ.अ.   २. इदं नास्ति  कुं.  ३. इयं पङ्क्तिः  अ पुस्तके नास्ति.

 

स्वत अनु.)                 प्रामाण्यवादः                   पु  ३६.

१ निष्कम्पप्रवृत्तिहेतुभूतज्ञानस्यानुव्यवसायो वा ( प ३ ) प्रामाण्यविरोध्युपस्थापकसामग्र्यसमवहितोऽ २ नुव्यवसायो वा ( प. ८ ) स्वाग्राह्यज्ञान प्रामाण्य

 

अत्र सर्वत्रापि ज्ञानस्येत्यनेन दोषाजन्यप्रमारूपज्ञानस्याभिमतत्वादिदं रूप्यमित्यादिभ्रमगोचरानुव्यवसायस्यापेक्षतया तस्य तत्र प्रामाण्यग्राहकत्वेपि न बाध इति बोध्यम् । तत्रप्रामाण्यग्रहणस्य मानसत्वेन सिद्धान्तेपि भ्रमगोचरानुव्यवसायेन प्रामाण्याग्रहात् । यद्वा वक्ष्यमाणदिशात्रानुव्यवसायत्वस्य भ्रमानुव्यावसायेऽभावेन तस्यापत्रेत्वान्न बाधः । अत एव ज्ञानांशे लौकिकप्रत्यक्षादिरूपस्येहानुव्यवसायस्याभिमततया स्मृत्युपनीतप्रामाण्यविषयकानुव्यवसायमादाय न न्यायमते सिद्धसाधनं शङ्क्यम् ॥            स्वग्राह्येति ॥ स्वेन अनुव्यवसायेन ग्राह्यं यज्ज्ञानमाद्ये सिद्धान्ते सुखविषयकं स्वप्रकाशरूपं साक्षिज्ञानमेव । परमते
मानसं सुखव्यवसायरूपम् । तदन्यपक्षत्रये ३ च घटादिगौचरं मनोवृत्तिरूपं व्यवसायाख्यं साक्षिज्ञानादन्यत् । तन्नष्ठं यत्प्रामाण्यं सुखत्ववति सुखत्वप्रकारकत्वादिरूपं घटत्ववति घटत्वप्रकारकत्वादिरूपं वा तद्विषयक इत्यर्थः । घटज्ञानानुव्यवसायस्य पटज्ञानप्रामाण्याविषयकत्वाद्बाधविरासाय स्वग्रह्यज्ञानेत्युक्तम् । यद्वा प्रामाण्यविषयक इत्येवोक्तौ स्वनिष्ठप्रामाण्यविषयकत्वमादाय सिद्धान्ते अर्थान्तरत्वनिरासाय  स्वग्राह्यज्ञानेति ॥ एवं च नार्थान्तरता ।

 

१. निष्कलङ्क क.   २. ता  कुं .   ३. कुं . पुस्तके नास्ति .

 

स्वतअनु.)                  प्रामाण्यवादः                  पु  ३७.

 

विषयकः ( सा. १ ) तत्प्रकारको वा ( सा. २ )

 

न चैवं साक्ष्यंशे स्वग्राह्यव्यवसायप्रामाण्यविषयकत्वाभावाद्व्यभिचारः शङ्क्यः ।

स्वग्राह्यं यावत्स्वयमन्यच्च तावति प्रामाण्यग्रहकत्वलाभेन साक्ष्यंशे हेतूनामव्यभिचारात् । यद्वा सुखत्ववद्विशेष्यकज्ञानत्वादिरूप्रामाण्यलाभाय स्वग्राह्यज्ञानप्रामाण्येत्युक्तिः । प्रामाण्यविषयत्वं च साध्यं यन्मते वैशिष्ट्यमनुव्यवसाय वैद्यमेव न तन्म १ तेन बोध्यम् । तद्वेद्यमपि स्वातन्त्रेण न तद्वेद्यमिति मते तु सत्वेन प्रामाण्यविषयकत्वमभिमतम् । तेन तत्पक्षे सिद्धसाधनतेति शङ्कानवकाशः । अत एव वक्ष्यति"सत्तया तदुल्लेखस्य

साध्यत्वात्"इति । न च वादिनः सत्वेनेति  विशेषमं व्यर्थं व्यावर्त्याप्रसिद्धेरिति शङ्क्यम् । शुक्तिरूप्यज्ञाने प्रामाण्यविषयकस्यापि मानसदर्शनस्य स्वविषयसत्वानिर्णयकस्यापि सिद्धान्ते सत्वात् । परप्रसि २ द्धत्वमात्रेण व्यावर्त्यत्वोपपत्तेश्च । परार्थानुमाने परं प्रति सिद्धसाधनोद्धारस्यापि वादिप्रयोजनत्वाच्च । जन्यकृत्यज ३ न्यानीत्यत्र मीमांसकं प्रति जन्यत्वस्येवेहापि वादिनं प्रति प्रमेयत्वादिवदुपरञ्जरकत्वेन विशेषणत्वोपपत्तेश्च्

उक्तं च उत्पत्तिप्रामाण्यवादे मणावपि"उभयसिद्धव्यावर्तकत्वं तन्त्रम् । न तु व्यावर्त्यस्योभयसिद्धिः । गौरवात्"इति

भावः ।

प्रामाण्यमनुव्यवसायविषयोपि प्रागनुपस्थित्वान्न प्रकारतयेति वदन्तं प्रत्याह  तत्प्रकारको वेति ॥ स्वग्राह्यज्ञानप्रामाण्यप्रकारकोवेत्यर्थः । विशेषणज्ञानहेतुताया निर्विकल्पभङ्गे निरसिष्यमाणत्वादिति भावः  तद्विरुद्धेति । ग्राह्यप्रामाण्यविरुद्धं यत्प्रामाण्याभावतद्व्याप्याप्रामाण्यादि तदविषयकत्वे सतीत्यर्थः ।

 

१. ते. बोध्यम्  अ.  २ . द्धिमात्रेण  कुं    ३. न्येत्यत्र कुं.

 

स्वतअनु.)                पामाण्यवादः                     पु  ३८.

 

तद्विरुद्धाविषयकत्वे सति तद्व्याप्यत्वाविषयकत्वे १ सति तत्संशयविरोधिप्रत्ययत्वात्( हे. १ ) तद्व्याप्यत्वाविषयकत्वे सति तदभावनश्चयविरोधिनिश्चयत्वात्( हे. २ ) तद्विषयकव्यवहारहेतुप्रत्ययत्वात्( हे. ३

) तज्ज्ञानप्रकारप्रकारकतया तत्प्रकारवद्विशेष्यकतया च तद्विषयकत्वाच्च ( हे. ४ ) प्रामाण्यानुमितिवतित्याद्यनुमानम् ॥

 

विरुद्धत्वं च तज्ज्ञानप्रतिबन्धकज्ञानविषयत्वम्  तद्व्याप्येति ॥ सुखानुभवादिनिष्ठसुखत्ववद्विशेष्यकत्वादिरूपप्रामाण्यव्याप्यत्वेत्यर्थः  तत्संशयविरोधीति ॥ प्रामाण्यसंशयविरोधित्वं नाम तदनुत्पत्तिव्याप्यत्वादिरूपं ज्ञेयम् । विशेषणकृत्यान्यग्रे व्यक्तानि तद्विषयकेति ॥ प्रामाण्यविषयकेत्यर्थः तज्ज्ञानेति ॥ ग्राह्यप्रामाण्याश्रयज्ञानेत्यर्थः । साध्यवैशिष्ट्यनिरासोऽग्रेस्पुटः तद्विषयकत्वात् ॥ व्यवसायविषयकत्वादित्यर्थः प्रामाण्यानुमितिवदिति ॥ इदं ज्ञानं प्रमाणं समर्थप्रवृत्तिहेतुत्वात् इतिप्रामाण्यानुमितावुक्तस्य
हेतुचतुष्टयस्य साध्यद्वयस्य च सत्वादिति भावः । २ आदिपदेन"प्रामाण्यं ज्ञानग्राहकमात्रग्राह्यमप्रामाण्येतरज्ञानसमवेतधर्मत्वात्ज्ञानत्ववत्"इत्यादि सुधोक्तानुमानग्रहः २ ।

आद्यविशेषणस्य यथाश्रुतव्याप्याकृत्यसंभवेपि द्वितीयविशेषण तदसंभवात्यद्यद्विरुद्धाविषयकत्वे सति यद्व्याप्यविषयकत्वे सति यत्संशयविरोधिज्ञानं तत्तद्विषयकमित्यादिसामान्यव्याप्तिमुपेत्य कृत्यमाह ।

 

१. कुं  क.       २. अयं ग्रन्थः मु  पुस्तके कुण्डलितः.

 

स्वतअनु )                प्रामाण्यवादः                    पु  ३९.

 

अत्राद्ये हेतौ तद्विरुद्धाविषयकेत्युक्तत्वात्प्रामाण्य विरुद्धापामाण्यनिश्चये, तद्व्याप्यत्वाविषयकेत्युक्तत्वाद्विह्निमत्वाविषयके, तत्संशयविरोधिनि तद्व्याप्यतया धूमनिश्चये , तत्संशयविरोधीत्युक्तत्वाद्घाटादिज्ञाने, प्रत्ययेत्युक्तत्वाद्धर्म्यज्ञाने कोट्यस्मरणे च न व्यभिचारः । न चोल्बणविषयान्तरज्ञाने व्यभिचारः । विषयान्तरे मनःसंचारादिरुपतज्ज्ञानसामग्र्या एव तद्विरोधित्वात् ।

 

वह्नमत्वाविषयक इति ॥ अयं वह्निमान् धूमवत्वादित्यत्र वह्निव्याप्यधूमवानयमितिनिश्चये सति अयं वह्निमान्नवेति संशयानुदयेनोक्तरूपहेतुभावेपि वह्निम १ त्वाविषयकत्वाभावेन तत्र साध्याभावाद्व्यभिचार इति शङ्का तद्व्याप्यस्याविषयकत्वविशेषणान्निरस्तेत्यर्थः।

विशिष्यव्याप्तौ तु घटत्ववद्विशेष्यकत्वरूपप्रामाण्याविषयकेपि तत्संशयविरोधिनि

तद्व्याप्यतयाकंबुग्री २ वादिमद्विशेष्यकत्वनिश्चये व्यभिचारो नेति ज्ञेयम्  धर्म्यज्ञाने ॥ व्यवसायरूपधर्मिणो ज्ञानाभाव इत्यर्थः । धर्मिज्ञानस्य संशयहेतुतया तदभावस्य कार्यानुत्पादव्यप्यत्वे न तत्र हेतुसत्वादिति भावः । धर्मिज्ञानं न संशयहेतुरिति मतेनाह  कोटीति ॥ कोटिस्मरणाभाव इत्यर्थः । एतच्चोपलक्षणम् । कुङ्कुमगन्धादिसंशयविरोधिनि तदभिव्यञ्जकगोघृतसंयोगादौ  च न व्यभिचारः इत्यपि ध्येयम् । विशिष्टस्यापि हेतोर्व्यभिचारमाशङ्क्य निराह  न चेति ॥ सामग्र्या एवेति ॥ तथा च तत्र प्रत्ययत्वाभावेन हेतोरेवाभावादिति

भावः ।

 

१. द्वि  अ.        २. वत्वा  कुं  अ.

 

स्वतअनु )                      प्रामाण्यवादः                पु  ४०.

 

ननु तथापि व्यञ्जकस्य करचरणादेः स्वरूपेणैव ज्ञानं व्यङ्यपुरुषत्वादिजातिसंशयविरोधि । न तु व्याप्यतया । करादिज्ञानस्यालोकवत्स्वरूपेणैव व्यङ्ग्यधीहेतुत्वात् । तच्च न व्यङ्ग्यविषयकमिति तत्र व्यभिचार इति चेन्मैवम् । व्यङ्ग्यसंशयो हि द्वैधा । व्यञ्जकभूतं यज्ज्ञान १ कारणं तदभावेन सामग्र्यभावाद्वा यथान्धकारस्थितघटसंशयः

 

न च सामग्र्या विरोधित्वे तज्जन्यज्ञानस्यापि सामग्रीविरोधित्वप्रयुक्तं संशयविरोधित्वं स्यादेव । विरोधिनिश्चय ३ प्रतिबन्धकत्वस्य विरोधिनिश्चयसामग्रीप्रतिबन्धकत्वप्रयुक्तत्वदर्शनात् ।"यद्वीसामग्री यत्र प्रतिबन्धिका तद्वीरपितत्रप्रतिबन्धिका"इति पक्षधरोक्तेरिति वाच्यम् । विरोधिनिश्चयस्य ग्राह्याभावावगाहित्वेनैव प्रतिबन्धत्वेनान्यप्रयुक्तत्वाभावात् । भिन्ने विषये अनुमितिसामग्र्याः प्रत्यक्षप्रतिबन्धकत्वेपि अनुमितेस्तददर्शनादिति भावः । स्थलान्तरेपि व्यभिचारमाशङ्कते  नन्विति ॥ स्वरूपेणैव ॥ करचरणादिनैवेत्यर्थः व्याप्यतया ॥ पुरूषत्वादिप्याप्यतयेत्यर्थः । हेतुसत्वमुक्ता साध्यं नेत्याहतच्चेति ॥ एतदपि व्यभिचारचोदनं सामान्यव्याप्तिमुपेत्यैवेति ४ ध्येयम् ।
विवेकेन समाधिं वक्तमाहव्यङ्ग्येति ॥ निश्चयसामग्र्यभावप्रयुक्तो वा सत्यां तस्यां तत्प्रतिबन्धकदोषप्रयुक्तो वेति भावेन ५ तद्वैविध्यं व्यनक्ति व्यञ्जकेति ॥ ज्ञानेति ॥ निश्चयेत्यर्थः ।  सामग्रीति ॥ निश्चयसामग्र्यभावादित्यर्थः यथेति ॥

 

१. करणंक.  २.स्थघटकुं छ क.   ३."सामग्रीप्रतिबध्यस्य विरोधिनिश्चयप्रतिबध्यत्व"इत्याधिकंकुं.   ४.बोध्यम्कुं  अ.   ५.ऽतत्ऽइति न कुं.

 

स्वअनु)                  प्रामाण्यवादः                 पु  ४१.

 

दूरादिदोषाद्वा । यथा स्थाणौ पुरुष १ संशयः । तत्राद्ये व्यङ्ग्यनिश्चयसामग्र्येव संशयविरोधिनी । तस्यां च प्रत्ययत्वं नेति न व्यभिचारः । द्वितीये तद्व्याप्यत्वेन करादि २ ज्ञानमेव दोषजन्यसंशयविरोधीति ३ तद्व्याप्यत्वाविषयकत्वं नेति न व्यभिचारः । न च तद्व्याप्यत्वाविषयकत्वमसिद्धम् । सुखसाक्षात्कारत्वादेः प्रामाण्यव्याप्यत्वाग्रहणे ४ऽसंशयदर्शनात् ।

 

तत्रालोकरूपव्यञ्जकाभावादिति भावः दूरादीति ॥ सत्यां निश्चयसामग्र्यामिति भावः तद्व्याप्यत्व ५ ज्ञानमेवेति ॥ अन्वयव्यतिरेकाभ्यां तथावगमादिति भावः । अत एवोक्तं ज्ञप्तिप्रामाण्यवादान्ते रुचिदत्तेन"अनुव्यवसायत्वास्य प्रामाण्यनियतस्यापि तन्नियतत्वेनाग्रहत्कथं संशयनिवृत्तिः । न हि ६ व्याप्तिज्ञानमात्रात्संशयनिवृत्तिः । अन्यथा तैलं पृथिवी नवेति संशयो न स्यात्"इति । ननु घटत्वादिप्रकारकानुभवत्वस्य वल्मीकादौ घटत्वाद्विशेष्यकत्वादिरूपप्रामाण्यव्यभिचारेपि अत्र विवक्षितसुखानुभवत्वादिरूपव्यवसायधर्मस्य सुखत्ववद्विशेष्यत्वादिरूपप्रामाण्यव्यभिचारेण तद्व्याप्यत्वविषयकत्वं

तदनुव्यवसायस्यास्त्येवेति भावेन परिहरतिसुखेति ॥ दर्शनादिति ॥ व्याप्त्यनुसन्धानहीनबालमुग्धादाविति भावः । व्याप्यत्वाविषयकत्वांशे असिद्धिं निरस्य तद्विरुद्धाविषयकत्वांशे विवादाभावात्संशयविरोधित्वांशे तां निराह न च धर्मीति ॥

 

१.त्वछ.  २.करादि पदंनकुं.छ  क.    ३.ऽतत्ऽ इति नकुं  छ.  ४. हेमु.

५. त्वेनकुम.  ६. व्याप्यकुं.

 

स्वतअनु )                   प्रामाण्यवादः                 पु  ४२.

 

न च धर्मिज्ञानाद्यभावादेवासंशयात्संशयविरोधित्वसिद्धमिति वाच्यम् । सुखादिज्ञानरूपधर्मिज्ञाने ज्ञानत्वरूपसाधारणधर्मदर्शने दैवात्कोटिस्मरणे विषयान्तरासंचारे च सत्यप्यसंशयदर्शनात् ।

नचाद्यो हेतुरप्रयोजकः; ज्ञानस्य तत्संशयविरोधित्वं हि तन्निश्चयत्वेन वा तदभावनिश्चयत्वेन वा तदभावव्याप्यनिश्चयत्वेन वा तद्व्याप्यनिश्चयत्वेन वेति चतुर्धा ।

 

कोट्यस्मरणविषयान्तरसंचारादिरादिपदार्थ धर्मिज्ञान इति ॥ धर्मिणो ज्ञाने सतीत्यनेनान्वयः । धर्म्याख्यज्ञान इति व्याख्याने तु न सतिपदेनान्वयः । अपि तु साधारणधर्मदर्शनपदेन । न चास्मिन्पक्षे धर्मिभूतज्ञानानुक्तिः । धर्मिज्ञानस्यसाधारणधर्मदर्शनत्वेनैव हेतुत्वात्तेनैव तदुक्तेरिति १  असंशयेति ॥ तस्य प्रामाण्यनिश्चनिबन्धनत्वाभावे कदाचित्कस्यचित्तत्र धर्मिज्ञानाद्युदयसंभवेन रूप्यज्ञानं प्रमा न वेतिवत्सुखज्ञानं प्रमा न वेत्ति संशयः स्यात् । कदापि तददर्शनात्प्रामाण्यनिश्चयनिमित्त एव तदभाव इति तद्विरोधित्वं तस्य नासिद्धमिति भावः ।

एवं व्यभिचारासिद्धी निरस्य विपक्षे बाधकाभावदोषं च निराह नचाद्य इति ॥ विपक्षे हेतूच्छित्तिं संभावितपक्षानुक्तेतरव्यवच्छेदपूर्वकमाहज्ञानस्येति ॥ स्वतो विरोधाभावात्२ स्वविषयकृतस्यैव विरोधस्य वाच्यत्वादिति हि शब्दः।

 

१. एके  अ.    २. स्वपदं नास्ति  मु. अ आ.

 

स्वतअनु )                     प्रामाण्यवादः               पु  ४३.

तत्र द्वितीयतृतीययोस्तद्विरुद्धाविषयकत्वविशेषणेन चतुर्थस्य तद्व्याप्याविषयकत्वविशेषणेन निरस्ततया हेतोराद्यं प्रामाण्यनिश्चयत्वरू १ पं साध्यं विनानुपपत्तेः ।

एतेन तद्वितीयहेतावप्यप्रयोजकतोद्धृता । पक्षीकृतज्ञाने प्रामाण्यविषयकत्वं प्रामाण्युव्याप्यविषयकत्वं प्रामाण्याभावविषयकत्वं प्रामाण्याभावव्याप्यविषययकत्वमुभयोदासीनविषयकत्वं चेति संभाविते प्रकारपञ्चके द्वितीयस्य तद्व्याप्यत्वाविषयकत्वविशेषणेन तृतीयादीनां च त्रयाणां तदभावनिश्चयविरोधिनिश्चयत्वेन निरासाद्धेतोराद्यं प्रामाण्यविषयकत्वरू २ पसाध्यं विनानुपपत्तेः । तत्राद्यं निश्चयपदं तदभावसंशयविरोधिनि तदभावनिश्चये द्वितीयं तु तदभावनिश्चयविरोधिनि तदभावसंशये व्यभिचारवारकम्

 

एतेनेत्युक्तं व्यनक्ति  पक्षीकृतज्ञानैत्यादिना ॥ उभयेति ॥ प्रामाण्यतद्व्याप्यप्रामाण्याभावतद्व्याप्यरूपोभयोदासीनेत्यर्थः । सङ्गतया प्रसक्तमप्रयोजकत्वं पूर्वं निरस्य विशेषणकृत्यमाह तत्राद्यमिति ॥ तत्र द्वितीयहेतावित्यर्थः । तदभावज्ञानविरोधिज्ञानत्वादित्युक्ते व्यभिचारादुभयत्र निश्चयपदेन तद्वारणमित्यर्थः

तद्विषयव्यवहारहेतु प्रत्ययत्वादिति तृतीयहेतौ ॥ कुङ्कुमगन्धव्यङ्ग्यव्यवहारहेतौ घृतादिसंयोगरूपव्यञ्जकेव्यङ्ग्याविषयके व्यभिचारवारकं प्रत्ययपदं प्रामाण्याविषयकं घटादिज्ञाने व्यभिचारवारकं तद्विषयकव्यवहारहेत्वितिपदमिति स्पष्टमिति विशेषणकृत्यमनुक्त्वा सिध्यप्रयोजकत्वे क्रमेण निराह  सुखेति ॥

 

१. पसाध्यं  छ.      २. पं  छ.

 

स्वत अनु )                 प्रामाण्यवादः                पु  ४४.

 

सुखसाक्षात्कारस्य तत्प्रामाण्याभिलापस्य च मध्ये प्रामाण्यानुमित्यङ्गीकारे १ चानुभवविरुद्धं व्याप्तिस्मरणादि बहु कल्प्यं

स्यात् । सुखसाक्षात्कारस्य तत्साक्षात्का २ राभिलापस्य च मध्येपि तत्कल्य्यं स्यात्प्रामाण्यानुमिति प्रामाण्याभिलापर्योर्मध्येऽपि ज्ञानान्तरं कल्प्यं स्यादिति न तृतीयहेतुरसिद्धः । नाप्यप्रयोजकः व्यवहर्तव्यज्ञानस्य व्यवहारहेतुत्वात् ।

 

सुखमनुभवामीति प्रत्ययस्य न सुखानुभवप्रामाण्यव्यवहारहेतुत्वमस्ति किन्तु सुखसाक्षात्कारानन्तरमयं सुखानुभावः प्रमा सुखसाक्षात्कारत्वात्पुर्वसुखसाक्षात्कारवदित्यादिलिङ्गजन्यप्रामाण्यानुमितेरेवेत्यभ्यासदशापन्नस्थले झडिति प्रामाण्यानुमितिसामग्रीसमवधानं स्वकारणाधीनमिति ज्ञप्तिप्रामाण्यान्ते मणिकृदुक्तदिशा प्रमाण्यानुमित्यङ्गीकार इत्यर्थः व्याप्तिस्मरणादीति ॥ परामर्शानुमिती आदिपदार्थः । अतिप्रसङ्गं चाह  सुखेति ॥ तत्काल्यप्यमिति ॥ जातिव्यक्तयोरेकवित्तिवेद्यत्वनियममनुपेत्य ३ साक्षात्कारस्वरूपज्ञानान्तरं सुखज्ञानमिदं साक्षात्कारः स्ववृत्तिवर्तमानविषयकत्वादिति
सुखसाक्षात्कारत्त्वानुमितिमुपेत्य तद्धेतुव्याप्तिस्मरणादिकं कल्प्यं स्यादित्यर्थः । ज्ञानान्तरं शाब्दादिरूपमित्यर्थः । अत्रापि हेतूच्छित्तिरेव विपक्षे बाधिकेत्याह  व्यवहर्तव्येति ॥

 

१. वा ग.   २. रत्वा  मु.     ३. सुख  मु. अ. आ.

 

स्वतअनु )                 प्रामाण्यवादः                 पु  ४५.

 

न च घटविशेष्यकत्वे सति घटत्वप्रकारकत्वलस्यैव प्रामाण्यरूपत्वाच्चतुर्थहेतौ साध्यवैशिष्ट्यम् । त्वयाप्यङ्गीकृतस्य प्रामाण्योल्लेखमात्रस्य हेतुत्वात् । त्वदनङ्गीकृतस्य सत्तया तदुल्लेखस्य च साध्यत्वात् । मन्मते केवलानुप्रमाणसाधारणस्य १ याथार्थ्यरूपप्रामाण्यविषयकत्वस्य साध्यत्वात्केवलप्रमाणासाधारणस्योल्लेखस्य हेतुत्वाच्च ॥

 

तज्ज्ञानप्रकारेत्यादिचतुर्थहेतौ दलद्वयकृत्यं परोक्तनिरुक्तिभङ्गे व्यनक्तमिति व्यभिचारशङ्कानवशात्सन्दिग्धासिद्धिस्वरूपासिद्धी क्रमेण निराह  नचेत्यादिना ॥ सुखं मे भूयादितीच्छायामुक्तरूपप्रकारकत्वे सत्यपि न प्रामाण्यमिति तदेव तदित्यसिद्धिमिति कश्चित् । तन्न । सुखत्ववद्विशेष्यकत्वादिरूपप्रामाण्यस्चेच्छायामपि सत्वात् । सुखत्ववद्विशेष्यकत्वादिकं तदित्यशक्यशङ्कम् । मन्मत इत्यादिवक्ष्यमाणविरोधातुल्लेखमात्रस्य ॥ विषयत्वमात्रस्येत्यर्थः । मात्रपदेन सत्वव्यावृत्तिः । एतेन यन्मते तद्वत्वमनुव्यवसायस्य सर्वथैवाविषयो न तन्मते नायंहेतुर्वक्ष्यमाणदिशा प्रसाध्याङ्गकोवेति सूचितम् । ननु सिद्धान्ते २ सत्वासत्वौदासीन्येन
तद्विषयकत्वाभावात्साध्यावैशिष्ट्यं स्यादित्यत आह  मन्मत इति ॥ वादजल्पकथयोः प्रयोगदशायामित्यर्थः । वह्निमात्रसाधने पर्वतीयवह्निना पर्यवसानमिव ज्ञानमात्रनिष्टप्रामाण्येन पक्षधर्मताबलात्पर्यवसानमिति भावः ॥

 

१. णया  च. मु.     २. सत्वा इति. न  मु.

 

स्वत अनु)               प्रामाण्यवादः                 पु  ४६.

 

१ केचि २ त्तु तथाङ्गीकर्तव्यत्वं साध्यमिति न साध्यावैशिष्ट्यमित्याहुः ॥

नाप्यसिद्धिः सुखमेव सुखत्वेनानुभवामि स्तम्भमेव स्तम्भत्वेन ३ जानामीत्यनुभवात् । एतेनोक्तवक्ष्यमाणानुमानेषु बाधो निरस्तः । सुखमेव सुखत्वेनानुभवामीत्यादिज्ञाने प्रामाण्यशब्दानुल्लेखेपि तदर्थस्य सुखत्ववति सुखत्वप्रकारकत्व ४ रूपस्य प्रामाण्यस्योल्लेखात् । यद्वा विमतः प्रामाण्यविरोध्युपस्थापकसामग्र्यसमवहितोऽनुव्यवसायः

 

एतेनेति ॥ तद्वद्विशेष्यत्वोल्लेखा ५ देरनुभवसिद्धत्वेनेत्यर्थः । तदेव व्यनक्ति  सुखमेवेति ॥ अनुल्लेखेपीति ॥ इदं ज्ञानं प्रमाणमित्यनाकरेपीत्यर्थःुल्लेखात् ॥ विषयीकरणादित्यर्थः।

पूर्वोक्तहेतुविशेषणेषु प्रतिवादिविप्रतिपत्तेः प्रसाध्याङ्गकत्वं मन्वानः प्रागुक्तपक्षतावच्छेदकेष्वेकं पक्षतावच्छेदकं कृत्वान्य हेतुकृत्याह यद्वेति ॥ यद्वा पूर्वं प्रामाण्यं क्वापि नानुव्यवसायवेद्यमिति मतमुपेत्य प्रामाण्यानुमितिदृष्टन्तेन प्रयोगा उक्ताः इदानीं तु क्वचित्तद्वेद्यमिति मतमुपेत्य तदृष्टान्तेनाह  यद्वेति ॥ विमत इति ॥ प्रामाण्यविषयकत्वाविषयकत्वाभ्यां विप्रतिपत्तिविषयैत्यर्थः विमतेरपि नियतविषयत्वायावच्छेदकमावश्यकमेव तत्किमित्यत आह  प्रामाण्येति ॥ उपस्थापकेति ॥ उपस्थितितत्सामग्रीत्यर्थः।
नन्वेवमुक्तरूपानुव्यवसायत्वस्यैव पक्षतावच्छेदकत्वसंभवे किं विमत्येतिचेन्न"यद्यपि विमतिरपि नियतविषयत्वायाच्छेदकसापेक्षा ।

 

१. इयं पङ्तिः नास्ति  छ.क.ग.  २. त्तच. मु.   ३. अनुभवामि  च. मु.

४. त्वादि  छ क. मु.   ५. कत्वादे  कुं.

 

स्वतअनु )                  प्रामाण्यवादः                    पु  ४७.

 

स्वविषयव्यवसायप्रामाण्यविषयकः निष्कम्पप्रवृत्तिहेतुव्यवसायविषयकानुव्यवसायत्वात्;

 

तथापि सावयवत्वसाधितेन कार्यत्वेन पृथिव्याः सकर्तुकत्वसाधनमिव  स्वनियामकनयतया लध्ब्या विमत्या पक्षतावच्छेदो न विरुद्धः"इति न्यायामृतोक्तदिशोपपत्तेरिति तात्पर्यम् । अत्र प्रामाण्येति विशेषणोक्त्या प्रतिबद्धानुव्यवसाये बाधशङ्का अनुव्यवसाय इत्युक्त्या घटज्ञानमितिशाब्दज्ञाने बाधशङ्का निरस्तेति ध्येयम् । अतीताद्यविषयकप्रत्यक्षत्वादिरूपत्वादनुव्यवसायत्वस्य प्रथमज्ञानगोचरानुव्यावसायोत्र पक्षत्वेन पर्यवसितो ज्ञेयः । उत्तरज्ञानगोचरस्य दृष्टान्तत्वेनोपादानात् । स्वविषयेति साध्यांशः पूर्ववद्व्याख्येयः । प्रामाण्यप्रकारको वेत्यपि ध्येयम् । प्रगुपस्थितेरप्रयाजेकतया निर्विकल्पकभङ्गे व्यक्तत्वात् । निष्कम्पप्रवृत्तिहेत्विति
व्यवसायविशेष १ णेन संशयादिगोचरानुव्यवसायो अनुव्यवसायेत्युक्त्या तादृशज्ञानगौचरशाब्दज्ञाने च न व्यभिचारः । अनुव्यवसायत्वं चातीतानागताविषयकप्रत्यक्षत्वं न तु तत्प्रकारप्रकारकतया तत्प्रकारवद्विशेष्यकतया तज्ज्ञानत्वरूपमिति युक्तम् । निष्कम्पेत्यादिविशेषणवैयर्थ्यात् । पूर्वोक्तहेतुसाङ्कर्याच्च । नापि ज्ञानांशे लौकिकप्रत्यक्षत्वमुत्तर २ हेतुसाङ्कर्यात् । अत एव सामान्येत्यादिना वक्ष्यमाणज्ञानद्वयेपि न व्यभिचारः तस्यातीतादिविषयकत्वातत्र निष्कम्पप्रवृत्तीत्यस्य संवादिप्रवृत्तीत्यर्थः । तेन शुक्तिरूप्यज्ञानगोचरानुव्यवसायो साक्षिरूपे तत्र प्रामाण्यग्रहस्य मानत्वेन
तन्निष्ठप्रामाण्याविषयके न व्यभिचारः  उक्तरूपेति ॥

 

१.णन्तेन  मु.     २. हेतुपदं नास्ति  मु . अ.

 

स्वतअनु )                   प्रामाण्यवादः                 पु  ४८.

 

उक्तरूपव्यवसायांशे लौकिकप्रत्यक्षत्वाद्वा, गृहीतप्रामाण्येन ज्ञानेन समानविषयकस्योत्तरस्य ज्ञानान्तरस्यानुव्यवसायवत् ॥

अत्र द्वितीयहेतौ लौकिकपदं सामान्यप्रत्यासत्त्या १ दिजन्ये व्यवसायविषयके ज्ञाने व्यभिचारवारणाय । २ ज्ञानांश इति

विशेषणं तु स्मुत्युपनीतेऽतीत ३ घटज्ञाने तद्विषयकमहं घटज्ञानवाना ४ समिति यज्ज्ञानमात्मांशे लौकिकप्रत्यक्षं तत्रव्यभिचारवारणार्थम् । न च तव घटज्ञानमस्तीति शाब्दजन्यं यद्घटज्ञानविषयकं ज्ञानं तदनुव्यवसाये व्यभिचारः शङ्क्यः ।

 

निष्कम्पप्रवृत्तिहेतुव्यवसायांश इत्यर्थः । लौकिकत्वं चालौकिकप्रत्यासत्यजन्यत्वम् । संशयादिगोचरानुव्यावसाये व्यभिचारनिरासायोक्तरूपव्यवसायांश इत्युक्तिः । गृहीतप्रामाण्येनेति बहुव्रीहिः । ५ घटादिज्ञाने प्रवृत्तिसामर्थ्यादिना प्रामाण्यानुमित्यन्तरं तत्रैवायं घट इत्याद्युक्पन्नसमानाधिकरणज्ञाने प्रामाण्यं तदनुव्यवसायवेद्यमिति

प्राचीनन्यायमतेऽभ्युपगमादिति भावः । उपपादयिष्यते चाग्रे ग्रन्थ एव ।

सामान्यप्रत्यासत्त्यादीति ॥ ज्ञानत्वसामान्येत्यर्थः । आदिपदेन योगजप्रत्यासत्तज्ञानप्रत्यासत्योर्ग्रहः  ज्ञानांश इति ॥ उक्तरूपव्यवसायांश इत्युक्तैकदैशानुवादः । विशिष्टस्य हेतोर्व्यभिचारमाशङ्क्य ६ विवेकेन समाधिमाह नचेत्यादिना ॥

 

१. त्तिजन्ये  छ.   २.व्यवसायांशे  छ. क.   ३. ते च छ क ग.

४. निकुं.   ५.यत्र  मु. अ.   ६. व्यतिरेकेण  आ.

 

स्वतअनु )                 प्रामाण्यवादः                   पु  ४९.

 

घटज्ञानांशेघटत्ववति घटत्वप्रकारकत्वरूपस्य तदीयस्य प्रामाण्यस्याग्रहणेन साध्या१ भावेपि लौकिकप्रत्यक्षत्वाभावेन हेत्वभावात् । घटज्ञानविषयकज्ञानांशे तु हेतोः सत्वेऽपि घटज्ञानत्ववति घटज्ञानत्वप्रकारकत्वरूप्रामाण्य २ ग्रहणेन साध्यसद्भावात् ॥

न च दृष्टान्तः साध्यविकलः । उत्तरस्य ज्ञानान्तरस्य पूर्वेण प्रामाण्यग्रहणेनाव्यवहितत्वे तस्यैव व्यवहितत्वे तु प्रामाण्यस्मरणस्यैव

 

"स्वर्गसाधनं याग इति ज्ञानस्य प्रामाण्ये निश्चिते तत्समानविषयकज्ञानान्तरे अप्रामाण्यशङ्का भवतीति ज्ञानान्तरमगृहीतप्रमाण्यमपि"इत्यादिमणिकृदुक्तेरुत्तरज्ञानानुव्यवसाये प्रामाण्यविषयकत्वं विप्रतिपन्नमिति वदन्तं प्रति साध्यसत्वं दृष्टान्ते व्यनक्ति न च दृष्टान्त इत्यादिना ॥ उत्तरस्येति ॥

अनुमित्यादिना गृहिनप्रामाण्यकात्पूर्वज्ञानादुत्तरस्येत्यर्थः  तस्यावेति ॥ विशेषणज्ञानतयेत्यन्वयः । प्रामाण्यानुमितिरेव प्रामाण्यघटकघटत्वादिविशेषणज्ञानत्वेन प्रामाण्यानुमित्यनन्तरमेव घटघटत्वनिर्विकल्पकं विनैव घटत्वादिविशिष्टव्यवसायोत्पत्तौ तदुत्तरकाले विनश्यत्प्रामाण्यज्ञानसत्वादिति भावः ।

न च वक्ष्यमाणदिशा पूर्वोत्तरज्ञानयोः प्रामाण्यस्यैकत्वेप्युत्तरज्ञानगतत्वेन पूर्वमभानान्न तत्रोपनय इति शङ्क्यम् ।

 

१. ध्यस्या  छ.    २. स्य  कुं.

 

स्वत अनु )                 प्रामाण्यवादः                पु  ५०.

 

विशेषणज्ञानतया त्वदभप्रेताया विशेषणोपस्थितिविशेष्येन्द्रियसन्निकर्षतदसंसर्गा

ग्रहरूपविशिष्टज्ञानसामग्र्याः सत्वेन ज्ञानान्तारानुव्यवसायस्य प्रामाण्यविशिष्टव्यावसायविषयकत्वात् ॥

ननु तज्ज्ञानविषयकेत्यादिस्वतस्त्वनिरुक्तौ तच्छेब्देन व्यक्तिविशेषो न विवक्ष्यते । किन्तु ग्राह्यप्रामाण्याश्रयीभूतज्ञानमात्रम् ।

 

यदवच्छेन यत्र यद्ग्रृहीतं तत्र तद्ग्रहत्वस्यैवौपनसामग्रीत्वात् । चन्दनखण्ड इत्यादिप्रत्यक्षे तथा दर्शनात् । तथाच तद्विषयकत्वावच्छेदेन पूर्वज्ञाने प्रामाण्यग्रहात्तद्विषयकत्वेन ज्ञाते द्वितीयज्ञाने तदुपनयो भवत्येवेति भावः  सन्निकर्षेति ॥

संयुक्तसमवायरूपेत्यर्थः  तदिति ॥ विशेषणविशेष्ययोः प्रामाण्यतदाश्रयज्ञानयोरसंसर्गेत्यर्थः ।

यत्तु मणावुक्तं"तज्ज्ञानविषयकजन्यज्ञानाजन्यजन्यज्ञानविषयत्वं १ स्वतस्तवम् । तदन्य २ ग्राह्यत्वं हि परतस्त्वम् । मनसा चौवं प्रामाण्यग्रहस्य तज्ज्ञानविषयकजन्यज्ञानजन्यत्वान्न परतस्त्वहानि "रिति तद्धृदि कृत्वा प्रकारान्तरेण साध्यवैकल्यमाशङ्कते  नन्विति ॥ ग्राह्यप्रामाण्याश्रयज्ञानविषयकज्ञानाजन्यत्वे सति स्वग्राह्यज्ञानुप्रामाण्यविषयकत्त्वं साध्यार्थं मन्वानस्येयं साध्यवैकलयशङ्केति ध्येयम् । तज्ज्ञानविषयकज्ञानसापेक्षत्वोपपादनायाह  तच्छब्देनेति ॥ मात्रमिति ॥ ग्राह्यप्रामाण्याश्रययत्किञ्चिज्ज्ञानामित्यर्थः । पूर्वज्ञानस्य ग्राह्यप्रामाण्याश्रयत्वलाभाय सापेक्षत्त्वोपपादनाय चाह  समानेति । प्रामाण्यस्य
भिन्नत्वे तज्ज्ञानसापेक्षत्वायोगात् । ततश्च किमित्यत आह  एवञ्चेति ॥

 

१. वा  मु.   २. था मु.

 

स्वत अनु )                प्रामाण्यवादः                  पु  ५१.

 

समानविशेष्यकत्वे सति  समानप्रकारकयोश्च ज्ञानयो र्विशेष्यप्रकारघटितं प्रामाण्यमेक १ मेव । एवं चोक्तानुव्यवसायस्य ग्राह्यप्रामाण्याश्रय द्वितीयज्ञानविषयकज्ञानानपेक्षत्वेपि प्रथमज्ञानविषयकज्ञानसापेक्षत्वा न्न स्ततस्त्वमिति साध्यवैकल्यमितिचेन्न । व्यवसायप्रामाण्यम ४ नुव्यवसायस्य ३ विषयो न वेति विप्रतिपत्ताव ४ नुव्यवसायविषयत्वमात्रसाधनत् । तस्य च दृष्टान्ते सत्वात् । तज्ज्ञानविषयकेत्यादिनोक्तस्वतस्त्वस्यापि पक्षधर्मताबलात्सिद्धेश्च ॥

 

तत्पदेनोक्तरूपज्ञानमात्रेऽभिमते सति प्रामाण्यस्यैकत्त्वे च सतीत्यर्थः  सापेक्षत्वादिति ॥ प्रामाण्यरूप विशेषणोपनायकत्त्वेनेति भावः साध्यवैकल्यमिति ॥ ज्ञानप्रामाण्यं तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यं न वेति विप्रतिपत्तौ तदृशज्ञानग्राहत्त्वस्यैव स्वतस्त्ववादिना साध्यत्वात् । तस्य च द्वितीयज्ञानप्रामाण्येऽभावेन तदनुव्यवसाये तज्ज्ञानविषयकज्ञानाजन्यत्त्वे सति स्वग्राह्यज्ञानप्रामाण्यविषयकत्वरूपसाध्यस्याभावादिति भावः । परोक्तस्वतस्त्वेपि न दोष इत्याह  तज्ज्ञानेति ॥ दृष्टान्ते साध्यानुगमार्थं ५ स्वग्राह्यज्ञानप्रामाण्यविषयक इत्येव साध्यकरणेपि त्त्वदभिमतविशिष्टसाध्यसिद्धिः हेतोः
पक्षधर्मतो स्यादेव । निष्कम्पप्रवृत्तिहेतुव्यवसायविषयकानुव्यावसायत्वादिरूपहेतुना प्रथमज्ञानगोचरानुव्यवसायरूपपक्षनिष्ठेन

 

१. प्रकार क.  २. प्य  क.  ३. यवि  छ  क.  ४.प्य  क           ५.स्वपदं न आ.

 

स्वत  अनु)              प्रामाण्यवादः                   पु  ५२.

 

यद्वा अनुमित्यनुव्यावसायो दृष्टान्तः । न च नवीनन्यायमते तत्रापि स्वतः प्रामाण्याभावात्साध्यवैकल्यम् । तथात्वे तत्प्रामाण्ये कदाचित्संशयविपर्ययव्यतिरेकप्रमान्यतरापातात् ॥

 

प्रामाण्यविषयकत्वं सिद्ध्यत्१ अनुव्यवसायस्य तज्ज्ञानविषयकज्ञानानपेक्षत्त्वादुक्तरुपमेव सिद्ध्यतीति भावः ॥

अनुमित्यादिप्रामाण्यं स्वत इति प्राचीनमतानुरोधेनाह यद्वेति ॥ एतेन भिन्नभिन्नदृष्टान्यकथनेन मन्मते सर्वत्र स्वतस्त्वमिव त्वन्मते न सर्वत्र प्रामाण्यस्य परतस्त्वम् । क्वचित्स्वतस्त्वस्या २ भ्युपगमात् । तथाच किमर्धजरतीयेन सर्वत्रापि स्वतस्त्वमेवोपेयमिति सूचितम् ॥

ननु मणौ"यत्त्वनुमानस्य निरस्तसमस्त ३ भ्रमाशङ्कस्य स्वत एव प्रामाण्यग्रह इत्युक्तमाचार्यैः तद्धूमति वह्निज्ञानत्वमनुमितेः प्रामाण्यनियतमनुव्यवसायेचो ४ पनीतं ततो विशेषदर्शनान्न तत्राप्रामाण्यशङ्केति । प्रामाण्यनिश्चचयादिवाप्रामाण्यशङ्काविरहादर्थं निश्चित्य निष्कम्पव्यवहार इत्यभिप्रायम् ५"इति

प्राचीनमतस्यान्यथातात्पर्यस्योक्तत्वात्कथं तन्मतेऽयन्दृष्टान्त इति भावेनाशङ्क्य तेनाप्यङ्गीकरयति  यचेत्यादिना ॥

संशयेति ॥ अनुमितिः प्रमा न वेति संशयः अप्रमैवेति विपर्ययः प्रमा न भवतीति प्रामाण्यव्यतिरेकविषयप्रमा ना स्यात् । तद्विरोधिनः प्रामाण्यनिश्चयस्यानुदयादित्यर्थः । न चेष्टापत्तिः । निरस्तसमस्तविभ्रमेत्युक्तिविरोधात् ।

 

१. ति। प्रचीनमतस्यान्यथातात्पर्यस्यासिद्धत्वात् अ.    २. प्य  आ मु.

३. वि  अ.   ४. नो  कुं.   ५. य"इत्युक्तत्वा  अ.

 

स्वत  अनु )                 प्रामाण्यवादः                  पु  ५३.

 

ननु वह्निज्ञानप्रमाण्यनियतस्य धूमवद्विशेष्यकत्वे सति वह्निप्रकारकत्वस्यानुमित्यनुव्यावसायेन ग्रहणा १ त्तत्रासंशय इति चेन्न । अनुमतेर्वह्निमत्वमात्रविषयकत्वेन बहिरर्थस्य धूमत्वस्योपनायकाभावेनानुव्यवसायाविषयत्वात् ॥

 

२ व्यतिरेकप्रमापत्तेरनिष्चत्वाच्चेति भावः । अत एव न धर्म्यज्ञानादिनोपपत्तिः । कदापि विभ्रमाभावोपगमात् । अत्र संशयविपर्यययोरेकराशीकरणादन्यतरेति साधु ।

मण्युक्तमेव संशयादिनिवृत्युपायमाश्कते  नन्विति ॥ नियतस्येति ॥ यत्र धूमवद्विशेष्यकत्वे सति वह्निप्रकारकत्वं तत्र वह्निमद्विशेष्यकत्वे सति वह्निप्रकारकत्वमिति व्याप्तेरिति भावः । किं धूमवद्विशेष्यकत्वमनुमित्युपनीतमेव तदनुव्यवसायेन गृह्यत इत्युच्यते अथ परामर्शोपनीतमिति हृदि विकल्प्याद्यं निराह  अनुमितेरिति ॥ उपनायकेति ॥ अनुव्यवसाये भावकाभावेनेत्यर्थः । उपलक्षणं चैतत् । प्रामाण्यनयतस्यापि  तत्वेनाभाने संशया ३ निरासात् । धूमवद्विशेष्यकत्वादे र्वह्निमद्विशेष्यकत्वव्याप्यत्वस्य बहिरर्थस्यानुमितौ सर्वथाभानाभावेन तदनुव्यवसाये तस्योपनायकाभावेनानुव्यवसायाविषयकत्वादित्यापि ध्येयम् । यत्तु
प्रामाण्यव्याप्यस्य स्वरूपेणैव ज्ञानं संशयादिविरोधीत्येतदिहैवानन्यगत्या कल्प्यत इति तन्न । स्वतस्त्वेनाप्युपपत्यानन्यगतेरभावात् ।

 

१. न्न तत्र संशय  छ.   २. व्यभिचार  आ.   ३. देर  मु  अ आ.

 

स्वतअनु)                   प्रामाण्यवादः                   पु  ५४.

 

न च लिङ्गपरामर्शस्तदुपनायकः । यत्रानुमितिद्वयेच्छा तत्र परामर्शानन्तरं प्रथमानुमितिरूपसाध्यसिद्धेः सत्वेप्यनुमितित्साधीनपक्षतायाः सत्वेनानुमतित्यनन्ततरं तदनुव्यवसायकाले उपनायकपरामर्शनाशात् । ज्ञानान्तरोपनीतस्य ज्ञानान्तरानुव्यवसायेन ग्रहणेऽपिप्रसङ्गाच्च । वह्नमनुमिनोमीत्यनुव्यवसायेन धूमत्वस्यानुल्लेखनात्१।

 

द्वितीयं निराह  न चेति ॥ अनुमितिद्वयेच्छेति ॥ ननु पूर्वं ममानुमितिद्वयं स्यादितीच्छा पश्चाल्लिङ्गपरामर्शः पश्चादनुमितिः । अनन्तरं द्वितीयानुमित्युत्पत्तिवेलायां धूमवत्त्वोपनायकस्य परामर्शस्यानाशेपि द्वितीयोत्पत्तिसमये पूर्वोत्पन्नेच्छाया अभावादनुमित्साया अभावेन द्वितीयानुमित्युत्पाद एवायुक्त इति चन्न । अनुमित्सापदेनानुमित्साविषयसिध्यननुगुणानन्तरितत्वस्य विवक्षितत्त्वात् । तथैव पक्षतालक्षणेऽभिधावादिति भावः । पक्षताया इत्युपलक्षणम् । विनश्यदवस्थपरामर्शभावादित्यपि ध्ययम् ।

अनुमित्यनन्तरमिति ॥ द्वितीयानुमि २ त्युत्पत्यनन्तरमित्यर्थः । अनुमित्यन्तरमिति पाठे जायत इति शेषः । ननु तदापरामर्शनाशेपि तज्जन्यसंस्कारसहितानुव्यवसायस्यास्तु तद्ग्रहणमित्यत आह  ज्ञानान्तरेति ॥

घटज्ञानानुव्यवासाये पटज्ञानोपनीतस्य भानापत्तेरित्यर्थः । ननु तदुपनीतस्य तज्जन्यज्ञानान्तरूनुव्यवसायेन ग्रहणमित्युक्तौ न दोषैत्यत आह  वह्निमिति ॥ एतेन परामर्शनिष्ठप्रामाण्यानुमित्युपनीतं धूमवद्विशेष्यकत्वमिति प्रत्त्यक्तम् ।

 

१. लेखात् च, लेखाच्च  कुं.   २. उत्पत्तिपदं न  मु.

 

स्वतअनु )                 प्रामाण्यवादः                  पु  ५५.

 

एतेनैव धूमवत्वे परामर्शोपनीतेऽनन्तरं वह्निमत्वविषयत्वेन जायमानानुमितिः सुरभिचन्दनमिति ज्ञानवद्विशिष्टवैशिष्ट्य १ ज्ञानसामग्रीमहिम्ना लिङ्गोपहितलैङ्गिकविषयेति सैवोपनायकेति निरस्तम् । अनुमितेर्वह्निमत्वमात्रविषयत्वानुभवबलेन प्रत्यक्षज्ञान एव सामग्रीमहिम्नः संकेचात् । असंकोचे वा धूमवति धूमप्रकारकत्वरूपस्य २ प्रामाण्यस्यानुमित्यनुव्यावसायेन ग्रहणे ३ धूमवत्त्वांशे ४ऽनुमितिः स्वतः प्रामाण्यादृष्टान्तसिद्धिः । किञ्चैवं वह्निमत्वांशस्य

साक्षादनुमित्युपनीतत्वाद्वह्निमद्नशेष्यकत्वे सति वह्निप्रकारकत्वरूपं प्रामाण्यमेवानुमित्यनुव्यवसायस्य ५ विषयोस्त्विति न साध्यवैकल्यम् ।

 

सैवेति ॥ अनुमितिरेवेत्यर्थः । एतेनैवेत्युक्तं व्यानक्ति अनुमितेरित्यादिना ॥ स्वत इति ॥ ज्ञानानुव्यवसायवेद्यप्रामाण्यकत्वरूपस्वतःप्रामाण्यादित्यर्थःदृष्टान्तेति ॥ धूमत्वांशे अनुमित्यनुव्यवासायवदिति दृष्टान्तेत्यर्थः । नन्वेवं तत्रेव क्वापि विप्रतिपन्नप्रामाण्यमनुव्यवसायवेद्यं न स्यात् । संशयाद्यभावस्य ज्ञानानुव्यवसाये प्रामाणय्यव्याप्यविषयकत्वादेवोपपत्तेः । तत एव निष्कम्पप्रवृत्त्युपपत्तेश्चेत्यत आह  किञ्चैवमिति । धूमवत्वांशे स्वतः प्रामण्ये सतीत्यर्थः साक्षादिति। धूमवत्वांश इव ज्ञानान्तरनैरपेक्ष्येणेत्यर्थः ।

 

१. बोध छ.   २.ऽस्यऽ इति न च.छ.क.मु.  ३. णात् छ. कुं.

४. एव कुं.   ५.ऽस्यऽ इति न मु,

 

स्वतअनु)                  प्रामाण्यवादः                पु  ५६.

 

यद्वा अहं सुखीति ज्ञानप्रामाण्यं तदनुव्यवसायविषयः तस्मिन्सत्यप्रकाशमानत्वरहितत्वात्व्यवसायवत् । न चासिद्धिः । तथात्वे १ तत्प्रामाण्ये कदाचित्संशयाद्यापातात् ।

 

प्रामाण्यमेवेत्येवकारेण प्रामाण्यांश एव संशयाद्यभावस्योपगमेन तत्रैव तन्निश्चयस्वीकारो युक्तो न तु व्याप्यांशे तन्निश्चयस्वीकारः प्रामाण्यव्याप्यत्वेनापि तन्निश्चयावश्यंभा २ वश्चेत्याचष्टे ।

एवं प्राचीनमतेऽविप्रतिपन्नं नवीनमते प्रसाध्याङ्गकं दृष्टान्तमुक्त्वा प्रयोग उक्तः । अधुना नवीनमतेप्यविप्रतिपन्नदृष्टान्तकं प्रयोगमाह यद्वेति ॥ यद्वा पूर्वमनुव्यवसायपक्षकान्प्रयोगानुक्त्वेदानीं तद्विषयपक्षकप्रयोगावाह  यद्वेति ॥ वस्तुतस्त्विति च ॥

यद्वा तद्वत्त्वादेर्बाह्यार्थास्य नानुव्यवसायविषयतेत्यतस्तर्हि सुखत्ववत्त्वादेरबाह्यत्वात्तत्रास्तु स्वतो वेद्यतेति भावेनाह  यद्वेति ॥ विषय इति ॥ सत्तयेत्यपि ध्येयम् । तस्मिन्नित्यनेन तदनुव्यवसायपरामर्शः । साध्याविशेषनिरासाय नञ्द्वयम्  तथात्व इति ॥ ज्ञानानुव्यवासे सति तत्प्रामाण्याप्रकाश इत्यर्थः । ३ धर्म्यज्ञानाभावात्कोटिस्मृतेरपि कदाचित्संभवादिति भावः । ननु"आन्तरप्रामाण्यमपि न स्वतः । तस्य स्वतस्त्वे वा न सर्वस्य तथात्वम् । विशेष्यनिष्ठात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नत्वादिकं प्रामाण्यं स्वतो गृहीतुमशक्यमिति परत एव गृह्यत"इति मणिकृदुक्तेः कथमनुव्यवसायवेद्यतासाधनमित्यत स्तत्स्वरूपं निर्धारयन्नेन विशिष्याप्याह  वस्तुतस्त्विति

 

१. कदाचित्प्रामाण्ये सं  च छ.   २.वाच्चे मु.  ३. धर्मिज्ञानभावात् मु.

धर्मिज्ञानस्य भावात् अ.

 

स्वत अनु )                प्रामाण्यवादः                 पु  ५७.

 

वस्तुतस्तु तद्वति तत्प्रकारकत्व १ रूपं याथार्थमेव प्रामाण्यं तज्ज्ञानस्यैव प्रवर्तकत्वात् । तत्रानुव्यवसायस्य व्यवसायगतं यत्किञ्चिद्विशेषयकत्वं रजतत्वप्रकारकत्वं २ ज्ञानत्वं च विषय इत्यत्र न विवादः । किन्तु विशेष्यस्य यद्रजतत्ववैशिष्ट्यं तद्विषयकत्व एवेति तदेव साध्यते ।

निष्कम्पप्रवृत्तिहेतुव्यवसायविषयभूतं धर्मिधर्मिवैशिष्ट्यं सत्तयानुव्यवासय ३ विषयः निष्कम्पप्रवृत्तिहुतुव्यवसायविषयत्वात्विशेष्यवत् । नचाप्रयोजकता । वैशिष्ट्यप्रतीतिसामग्र्या वक्ष्यमाणत्वात्;

 

तद्वतीति ॥ विशेष्यत्वं सप्तम्यर्थः । तद्वद्विशेष्यकत्वे सति तत्प्रकारकज्ञानत्वरूपेत्यर्थः । तद्वद्विशेष्यकत्वमात्रस्य भ्रमेऽपि सत्वात् ।

निष्कम्पेति । सशङ्कप्रवृत्तिहेतुव्यवसायविषये बाधनिरासाय हेत्वन्तं व्यावसायविशेषणम् । हेतौ च व्यभिचारनिरासाय । वैशिष्ट्यं च परमते समवायादिभिः सिद्धान्ते स्वरूपसम्बन्धादिभिः । यन्मते वैशिष्ट्यमनुव्यवसायविषयोपि न स्वातन्त्र्येण तद्विषय इत्यभ्युपगमस्तन्मते सिद्धसाधनिरासाय सत्तयेति विशेषम् । वादिनं प्रति तत्सार्थक्यमाद्यसाध्य विवृतावस्माभिरुक्तं ध्येयम्  वैशिष्ट्येति ॥ सत्तयेत्यपि योज्यम्  वक्ष्यमाणत्वादिति ॥ उत्तर ४ भङ्गबाधोद्धारे नन्वेव मित्यादिग्रन्थेनेत्यर्थः । तथाच तादृशव्यवसायविषयत्वस्यैवोक्तसाध्ये सामग्रीत्वेन सामग्रीमुपेत्य कार्यानभ्युपगमे
व्याघाताप्रसङ्गान्नाप्रयोजकत्वमि ५ त्यर्थः ।

 

१. ज्ञानत्व  छ. क.   २. ज्ञानत्वं, इतिनास्ति  कुं.  ३. स्य मु.  ४.

४. रत्रबाधो  मु  अ  आ.   ५. ति भावः  आ.

 

स्वत अनु )                 प्रामाण्यवादः                पु  ५८.

 

यद्वा विमतोऽनुव्यवसायः स्वग्राह्यज्ञानप्रामाण्यविषयीकरणयोग्यः । अनुव्यवसायत्वात् । गृहीतप्रामाण्यज्ञानविषयकज्ञानान्तरानुव्यवसायव्वसायवत् ।

अनुमित्यनुव्यवसायवद्वा । व्यवसायविषयभूतं धर्मधर्मिवैशिष्ट्यं वा स्वविषयव्यवसायविषयकानुव्यवसायं प्रति सत्तया विषयत्वयोग्यं

 

द्वितीयनिरुक्त्यनुरोधेन प्रयोगत्रयमाह  यद्वेति ॥ इति सामान्यतः स्वतस्त्वं साध्यमित्यन्वयः । तत्राद्यमनुव्यवसायपक्षकम् । उत्तरं तु द्वयं तद्विषयपक्षकम् । तत्राप्याद्यं व्यवसायविषयपक्षकम् । अन्त्यं १ तन्निष्ठप्रामाण्यपक्षकमिति व्यक्तम् । विमत इति ॥ प्रामाण्यविषयीकरणयोग्यत्वतदयोग्यत्वाभ्यां विमतिविषयः । विमतेरपि नियतविषयत्वायावच्छेगकस्यापेक्षितत्वात्तदाह  अनुव्यवसाय इति ॥ वक्ष्यमाणदिशा तत्प्रकारप्रकारकत्वादिरूपानुव्यवसायत्वेन नियता लध्वी विमतिरेव पक्षतावच्छेदकेत्यर्थः । अत एव प्रमानुव्यवसाये न
बाधादिः । वक्ष्यमाणरूपानुव्यवसायत्वस्य तत्राभावात् । बाधनिरासाय स्वग्राह्यज्ञानेति साध्यविशेषणम् । योग्यत्वं च स्वविषयज्ञानद्वारा प्रामाण्यावच्छिन्नसहजशक्तिकत्वं ध्येयम् । वक्ष्यमाणरूपानुव्यवसायत्वादिति हेत्वर्थो ध्येयः । तेनाप्रमागोचरानुव्यवसाये न व्यभिचारः । गृहीतेति ॥ अयं च दृष्टान्तो"न च दृष्टान्तः साध्यविकलः"

इत्यादिना प्रागेव साधित इति भावः । प्राचीनमतरीत्याह  अनुमितीति ॥ अयमपि दृष्टान्तो नवीनमतेपि प्राक्साधितः  व्यवसायेति ॥ प्रमारूपो व्यवसायोऽत्राभामतः  विशेष्यवदिति ॥

 

१. तु  मु. अ.  आ.

 

स्वतअनु )                 प्रामाण्यवादः                पु  ५९.

 

व्यवसायविषत्वात्विशेष्यवत्; तत्तज्ज्ञानप्रामाण्यं वा स्वाश्रयज्ञानविषयकानुव्यवसायविषयत्वयोग्यं तद्विषयत्वयोग्योपाध्यघचितज्ञानधर्मत्वात्तत्तज्ज्ञानत्ववदिति सामान्यतः स्वतस्त्तवं साध्यम् ।

न चान्त्यहेतोरसिद्धिः । प्रामाण्योपाधोर्विषयसत्वस्य व्यवसायवियत्वेनानुव्यवसायविषयत्वयोग्यत्वात् । योग्यायोग्योपाधिघटिते प्रमाप्रमान्यतरत्वदौ व्यभिचारनिरासाय नञ्द्वयम् ।

तद्विशेष्यवदित्यर्थः ।"प्रामाण्यं ज्ञानग्राहकमात्रग्राह्यमप्रामाण्येतरज्ञानवृत्तिधर्मत्वात्ज्ञानत्ववत्"इति

"प्रत्यक्षवच्च प्रामाण्यं स्वत एव"

इत्येतद्व्याख्यानसुधायामुक्तमनुमानं परिष्कृत्याह  तत्तज्ज्ञानेति । योग्यमिति ॥ऽयोग्यत्वं च साक्षिनिष्टां सहजां ग्रहणशक्तिं प्रति स्वविषयज्ञानद्वारावच्छेदकत्व"मिति पूर्वोक्तं ध्येयम् । तद्विषयत्वायोग्योपाध्यघटितेत्युक्त्या सुधास्थाप्रामाण्येतरपदार्थो विवृतः । तेन विशेष्यावृत्यप्रकारक १ त्वरूपप्रामाण्ये व्यभिचारो निरस्तः । सामान्यतः ॥ प्रतिबद्धाप्रतिबद्धसाधारण्येनेति वा प्रामाण्यमात्रसाधारण्येनेति वा नत्वहं सुखीति ज्ञानप्रामाण्यमितिवद्विशिष्येत्यर्थः । वैशिष्ट्यसत्वाविषयकत्व एव विवादादाह  विषयसत्वस्येति ॥ अन्यतरत्वादाविति ॥
तद्विषयत्वयोग्योपाधिघटित ज्ञानधर्मत्वादित्युक्तावुक्तस्थले हुतुसत्वेपि साध्याभावाद्व्यभिचारः प्रप्नोतीति तन्निरासाय तद्विषयत्वयोग्योपाध्यघटितेत्युक्तरित्यर्थः ।

 

१. त्वादि  मु  अ.

 

स्वत अनु )                 प्रामाण्यवादः                पु  ६०.

 

अनुव्यवसायत्वं च व्यवसायप्रकारप्रकारकतया तत्प्रकारवद्विशेष्यकतया च तद्विषयप्रत्यक्षत्वं वा ज्ञानांशे लौकिकप्रत्यक्षत्वं वेति न कश्चिद्दोषः ।

 

विशेष्यनिष्ठात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नत्वतद्वतितत्प्रकारकत्वा २ दिरादिपदार्थः । ज्ञानधर्मत्वादित्येवोक्तावप्रमात्वादौ व्यभिचार इति भावः ।

नन्वत्र सर्वानुमानेष्वभिमतमनुव्यवसायत्वं यदिज्ञानगौचरज्ञानत्वं तदा ज्ञानमिति शब्दजज्ञाने बाधादिर्देषः । सविषयकज्ञानगोचरज्ञानत्वे तु घटज्ञानमिति शाब्दज्ञाने दोषः । ज्ञानगौचरप्रत्यक्षत्वेत्वप्रमागोचरानुव्यवसाये सामान्यप्रत्यासत्तिजन्यज्ञानगोचरप्रत्यक्षे च बाधादिरेव । ज्ञानदौचरनित्यज्ञानत्वे ३ ईश्वरज्ञानमादाय सिद्धसाधनतेत्यत आह  अनुव्यवसायत्वं चेति ॥ एतेन"तार्किकाभिमतानुव्यवसाय एवास्माकं साक्षीति"प्रगुक्तं विवृतं ध्येयम् । अत्र दलकृत्यं प्रगेव व्यक्तम् ।

ननु यदि व्यवसायप्रकारप्रकारकतयेत्यादिरूपमनुव्यवसायत्वं तर्हीदमेव प्रामाण्यविषयकत्वमिति सिद्धसाधनता ४ दोष इति चेन्न । सत्तया प्रमाण्योल्लेखस्यास्मिन्पक्षे साध्यस्याभिमतत्वात् । यदा तु प्रामाण्यविषयकत्वमात्रमेव साध्य ५ मिति मतं तत्पक्षे प्रकारान्तरेणाह  ज्ञानांश इति ॥

 

१. इयं पङ्तिः छ पुस्तके नास्ति.   २. न्यतरत्वामु.   ३. त्वीमु.   ४. दिर्दे मु अ.   ५.मभिमुअ.

 

स्वतअनु)                   प्रामाण्यवादः               पु  ६१.

 

अप्रामाण्यं तु विसंवादाद्यनुसंधाने सत्येव गृह्यत इति न स्वतस्त्वद्ग्रहः । प्रामाण्यधीस्तु संवादाद्यनुसंधानं विनापि दृष्टेति विशेषः ।

ननु गृहीताप्रामाण्यज्ञानसमानविषयकज्ञानान्तराप्रामाण्ये संशयादर्शनेन तत्रानुव्यवसायवेद्यत्वे सिद्धेऽन्यत्रापि

तथेत्यप्रामाण्यधीरपि स्वतः स्यादिति चेन्न ॥ अप्रामाण्योपाधेर्व्यवसायविषयाभावस्य तदनुपनीतत्वेनानुव्यवसायायौग्यत्वात् ।

 

लौकिकत्वं तु सामान्यप्रत्यासत्याद्यजन्यत्वम् । ज्ञानांशे इति विशेषणं तु स्मृत्युपनीत अतीत २ घटज्ञाने तद्विषयकमहं घटज्ञानवानिति यज्ज्ञानमात्मांशे लौकिकप्रत्यक्षं तत्र बाधादिनिरासायेति भावः । नन्वेवं ज्ञानधर्मत्वबाह्यार्यत्वयोरविशेषाद्विसंवादापेक्षत्वस्योभयत्र साम्यादप्यप्रामाण्यमपि स्वतो गृह्यतेति ततः कः प्रामाण्यस्य विशेष इत्यत आह  अप्रामाण्यं त्विति ॥

विवरिष्यते चैतत्प्रामाण्यानुमित्यसंभववादे  दृष्टेति ॥ अभ्यासदशापन्नस्थल इति भावः ।

ननु अनुव्यवसायः स्वग्राह्यज्ञानाप्रामाण्यविषयीकरणायोग्यः । अनुव्यवसायत्वात्

गृहीताप्रामाण्यकज्ञानसमानवियकज्ञानान्तकरानुव्यवसायवदित्याभाससाम्यमाङ्क्य निराहनन्वित्यादिना ॥ व्यवसायेति ॥ व्यवसाये इदं रूप्यमित्यादिभ्रमे अविषयो योऽभावो रजतत्वाभावस्तस्येत्यर्थः । तदभाववति तत्प्रकारकत्वपरूपत्वादप्रामाण्यस्य तद्घटकेपाधिरूपस्याभावस्येदं रूप्यमिति ज्ञानेऽनुल्लेखेन नेदं रूप्यमिति ज्ञान एवोल्लेखेन कथं तस्यानुव्यवसाययोग्यत्वम् ।

१.यसत्त्वाभा  छ.      २. ते  मु. आ. आ .

 

स्वतअनु)                   प्रामाण्यवादः                 पु  ६२.

 

तदुक्तं भगवत्पादैः"प्रामाण्यं च स्वत एव अन्यथानवस्थानात्"इति । ज्ञायत इति शेषः । उक्तानुमानसाध्यान विनोक्तहेतूनां पक्षेऽवस्थित्ययोगादित्यर्थः ।

स्वतस्त्वेऽनुमानानि  ॥ ३ ॥

 

ननूक्तरूपं याथार्थ्यं न साक्षिणो

 

तथा च तत्र बाध एव दोष इति भावः तदुक्तमिति ॥ स्वतस्त्वे एतान्यनुमानान्यनवद्यानीत्येतद्विष्णुतत्वनिर्णय उक्तमित्यर्थः । तत्पठित्वा प्रकृतानुगुणमर्थमाह  प्रामाण्यं चेति ॥

स्वतस्त्वेऽनुमानानि ॥ ३ ॥

 

ननु अप्रामाण्यघटकोपाधेरभावस्य व्यवसायाविषयतया तदनुव्यवसायवेद्यत्वमप्रामाण्यस्य बाधितमिति यथोच्यते तथैव प्रामाण्यघटकोपाधेर्धर्मिवैशिष्ट्यस्य व्यवसायविषयत्वेपि न तदनुव्यवसायविषयता । तस्य बहिर्थात्वातन्यथा धर्मधर्म्यंश इव वैशिष्ट्ये अस्ति न वेति कदापि संदेहो न स्यादीति भावेन"अस्तु तावदिदं प्रामाण्यं तथाप्यनुव्यवसायायानन्तरं व्यवसायस्य प्रामाण्ये अर्थस्य तद्वत्वे च संशयस्यानुभवसिद्धत्वान्नार्थतद्वत्त्वं तस्य विषयः"इति मणिकृदुक्तं हृदि कृत्वा शङ्कते  नन्विति ॥ तद्वति तत्प्रकारकज्ञानत्वरूपमित्यर्थः ।

वक्ष्यमाणोपादानसौकर्यायैतदुक्तिः । स्वरूपज्ञानं साक्षीति सिद्धान्ता २ वष्ठम्भेनाह साक्षिण इति ॥ मानसज्ञानानुभवो अनुव्यवसाय इति मतावष्टम्भेनाहअनुव्यवसायस्य वेति ॥

 

स्वतस्वानुमानेषु बोधोद्धारः             प्रामाण्यवादः           पु  ६३.

 

अनुव्यवसायस्य १ वा विषयः । रजतत्वप्रकारकत्वे सन्देहादर्शनेन तस्य तद्विषयकत्वेपि रजतत्ववद्विशेष्यकत्वे संदेहदर्शनेन रजतत्ववत्वरूपेबहिरर्थे तस्यासामर्थ्यात् । तथाच स्वतस्त्वानुमानानि बाधितविषयाणीति चेन्न । सुखत्ववत्वादेर्बहिरर्थत्वाभावेन साक्षिवेद्यसुखवेद्यसुखादिज्ञाने स्वतः प्रामाण्याप्रतिहतेः ।

किञ्च किं रजतत्वादिवैशिष्ट्यमनुव्यावसायाविषय एव किं वा व्यवासायविषयतया तद्विषयोपि स्वातन्त्र्येण तदविषयः । नाद्यः । अनुव्यवसायस्य ससंबन्धितावच्छेदकरजतत्वादिवैशिष्ट्यविशयकत्वनियमात् ।

 

तद्वद्दिशेष्यकत्वसन्देहस्य तद्वत्वसन्देहपर्यवसानाद्रजतत्ववत्वरूपेत्युक्तं तस्येति ॥ अनुव्यवसायस्येत्यर्थः ।

सर्वप्रामाण्यस्य स्वतस्त्वानापत्तेराहकिञ्चेति ॥"नार्थतद्वत्वं तस्य विषयः"इति मण्युक्तेरुभयथा संभवात्स्वातन्त्र्येणेति कैश्चिद्व्याख्यानाच्च द्वेधा विकल्पः संबन्धितेति ॥ व्यवसायसंबन्धिनि रजते या संबन्धिता तदवच्छेदकेत्यर्थः नियमादिति ॥ संयोगप्रत्यक्षादौ तथा दर्शनादिति भावः । न च संयोगनिर्विकल्पे व्यभिचारः । तदभावस्य वक्ष्यमाणत्वात् । तस्यापि संयोग्यंशे सविकल्पकत्वाच्च ।

 

१. ससबन्धिकव्यवसायस्य  ग.     २. मता  अ.मु.

 

स्वअवाद्वारः)                    प्रामाण्यवादः             पु  ६४.

 

धर्मधर्म्यंशयोरिव तद्वैशिष्ट्यांशेपि व्यवसायप्रत्यासत्तेः सत्वेन तदप्रतीतौ हेत्वभावाच्च । सजतं जानामीत्यनुव्यवसायेपि रजतरजतत्वयोः

 

साक्षात्कारपदेनासाधारणधर्मप्रकारेण ससंबन्धिकसाक्षात्कारस्याभिप्रेतत्वाच्च । अत एव गुणत्वप्रमेयत्वादिसामान्यप्रत्यासत्तिजन्ये ससंबन्धीकसंयोगादिसाक्षात्कारे

न व्यभिचारः । न चैवमपि संयोगत्वसामान्यप्रत्यसत्तिजन्ये संयोगसाक्षात्कारे व्यभिचारः । एवं हि लौकिकेत्यपि साक्षात्कारो विशेषणीयः धर्मेति । बाह्यार्थत्वेपि रजतस्थं रजतत्वं तदाधारभूतं विशेष्यं च यथानुव्यवसायस्य विषयः तथा रजते रजतत्ववैशिष्ट्यमपि विषयोस्तु, न हि व्यवसायः स्वविषयमध्ये धर्मधर्मिणोरेवोपनायको न वैशिष्ट्यस्येत्यत्र नियमकस्य सत्वेनेति वार्थः ।

ननु धर्मधर्म्यंशयोः संशयो न कदाचित्तद्वत्वांशे तु सोस्तीति संशय एव तदपातीतौ हेतु १ कल्पक इति चेन्न । तस्यान्यथोपपत्तेर्वक्ष्यमाणत्वादिति भावः।

ननु वैशिष्ट्यस्यापि भाने भासमानवैशिष्ट्यप्रतियोगि २ त्वरूपस्य रजतत्वादिगतस्य प्रकारत्वस्यापि भानप्रसङ्गेनेदं ३ रजतत्वेन जानामीत्येवानुव्यवायो भवेन्नत्विदं रजतं जानामीत्यत आह  रजतमिति ॥

अपीत्यु ४ पगमवादः । रजतत्वेवेत्येवाकारो नत्वेवं तथापत्यिर्थः । यद्वा वैशिष्ट्यस्यानुव्यवसायाविषयत्वे दोषान्तरमाहरजतमिति ॥ न कोवलं समूहालम्बन इत्यपेरर्थः ।

 

१. तुः  मु.   २. त्वादि  मु.     ३. च मु.   ४. त्यभ्यु  अ. आ, मु.

 

स्वअबाद्धारः )                प्रामाण्यवादः             पु  ६५.

 

स्वरूपेणैव भाने तस्य पुरोवर्ति १ रजतत्वे जानामीति समूहालम्बनरूपानुव्यवसायाद्विषयभेदाभावापाताच्च । व्यवसायगतस्य रजतत्ववैशिष्ट्यविषयकत्वस्यासिद्ध्यापाताच्च । नह्यनुव्यवसायादन्येन तत्सिद्धिः। न च वैशिष्ट्यमगृह्णन्नननुव्यवसायस्तद्विषयकत्वग्र २ हणे शक्तः ।

ननु वैशिष्ट्यविषयकव्यवहारादिलिङ्गकानुमित्या व्यवसायप्रामाण्यानुमित्या वा तत्सिद्धिः । न त्वनुव्यवसायेन । इदं रजत्वेन जानामीतिहि तदाकारो नत्विदं रजतमिति । तृतीयार्थश्च न वैशिष्ट्यम् । व्यवसायेपि तदर्थोल्लेखापत्तेः । किं तु व्यवसायगतं रजतत्वप्रकारकत्वम् । तस्माद्वैशिष्ट्यं नानुव्यवसायविषय इति चेन्मैवम् । वैशिष्ट्यविषयकत्वस्यानुमेयत्वेऽनुमि ३ तितः प्राक्तत्र कदाचित्संशयाद्यापातात् ।

 

४ इदं रजतमिति व्यावसायमानाक्रारतयोत्पाद्यनेपीति वार्थःस्वरूपेणैव ॥ असंबद्धवेत्यर्थः। असिद्धीतिरजतरजतत्वयोः स्वरूपेणैव  भान इत्यनुकर्षः । तद्विषयकत्वेति ॥ वैशिष्ट्यविषयकत्वेत्यर्थः ।

व्यवहारादीति ॥ प्रवृत्तिरादिपदार्थः । व्यवसायो वैशिष्ट्यविषयकः तद्विषयव्यवहारप्रवृत्तिहेतुत्वात्संमतवदित्यनुमित्या इदं ज्ञानं प्रमाणं समर्थप्रवृत्तिहेतुत्वादित्यादिप्रामाण्यानुमित्या वेत्यर्थः ।

 

१. रजतत्वे च. मु.    २. हे च. छ. क.ग.मु.    ३.तेः  च.

४. इयं पङ्क्तिः  अ. पुस्तके नास्ति.

 

स्वअबाद्धारः)                 प्रामाण्यवादः               पु  ६६.

 

भासमानवैशिष्ट्यप्रतियोगित्वादन्यस्य प्रकारत्वस्याभावेनेदं रजतत्वेन जानामीत्याकारेणैवानुव्यवसाये १ धर्मधर्म्यंशविषयकत्वस्येव वैशिष्ट्यविषयकत्वस्यापि भानेऽनुभवसिद्धे तत्यागनान्यतस्तत्सिद्धिकल्पने धर्मधर्म्यंशविषयकत्वस्याप्यन्यतः सिद्धिकल्पनापाताच्च । न च व्यवसायस्य वैशिष्ट्यविषयकत्वमगृह्णन् धर्म्यंशादिविषयकत्वमात्रं गृह्णन्नन्योऽनुव्यवसायोऽनुभूयते ।

न च व्यावर्तकत्वं वा तज्ज्ञानजनकज्ञानविषयत्वं वा

 

तद्वद्विशेष्यकत्वस्य प्रामाण्यरूपत्वादिति भावः  तत्सिद्धिः ॥ व्यवसायवैशिष्ट्यविषयकत्वसिद्धिरित्यर्थः ।"इदं रजतं जानामीति नानुव्यवसायाकारः । बहिर्विशेष्यके मनसोऽसामर्थ्यात् । किं त्विदं रजतत्वेन जानामीती"त्यादिमण्युक्तमाह  इदं रजतत्वेनेति ॥ वैशिष्ट्यविषयकत्वस्येति ॥ व्यवसायगतस्येत्यनुषङ्गः  धर्म्यंशेति ॥ इदन्त्वविशिष्टेदमंशविषयकत्वस्येवेत्यर्थः । विशेष्यांशेति वार्थःन्यत इति ॥ अनु २ व्यवसायादन्यतो व्यवहारादिलिङ्गतो व्यवसाय ३ प्रामाण्यानुमितितो वेत्यर्थः ।
संशयाभावतद्भावौ त्वन्यथोपन्नाविति भावः । ननु तदंशेऽनुव्यवसायान्तरतः सिद्धिरनुभवसिद्धेत्यतो निराह  न चेति ॥

अन्यस्य प्रकारत्वस्याभावेनेत्येतस्यासिद्धिमाशङ्क्य निराह न च व्यावर्तकत्वमित्यादिना ॥ विशेष्यनिष्ठवृत्तिबुद्धिजनकत्वं व्यावर्तकत्वंतज्ज्ञानेति ॥ वैशिष्ट्यज्ञानेत्यर्थः । विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वादितिभावः वैशिष्ट्यवदिति ॥

 

स्वअबाद्धारः)              प्रामाण्यवादः                 पु  ६७.

 

विशेष्यानिष्ठो रजतत्वादिनिष्ठो ज्ञानेन सह स्वरूपसंबन्धविशेषो वा प्रकारत्वमिति वाच्यम् । बहिरर्थानां तेषां वैशिष्ट्यवद्व्यवसायविषयत्वाभावेनानुव्यवसाये भानायोगात् । कॢप्तस्य भासमानवैशिष्ट्यप्रतियोगित्वस्य त्यागेन

स्वरूपसम्बन्ध १ विशेषकल्पनायोगाच्च । इदं रजतत्व २ विशिष्टतया जानामीत्यनुव्यवसायाच्च ।

 

वैशिष्ट्यस्य यथा व्यवसायविषयत्वं तथाभावेनेत्यर्थः । वैशिष्ट्यस्य बाह्यार्थत्वेपि व्यवसायविषयत्वात्तत्प्रतियोगित्वरूपप्रकारत्वस्यानुव्यवसाये भानं युक्तमिति भावः । ज्ञानेन सह स्वरूपसम्बन्धविशेषो न बहिरर्थ इत्यत आह कॢप्तस्येति ॥ अतीतादिस्थले व्यावृत्तिबुद्धिजनकत्वरूपव्यावर्तकत्वायोगात् । विशेषणज्ञानहेतुत्वपक्षे च द्वितीयस्यायोगेन तत्र भासमानेत्यादिरूपस्यैव प्रकारत्वस्य कॢप्तत्वादिति भावः ।"वैशिष्ट्यविषयकत्वस्यापि भानेऽनुभवसिद्धे"इति प्रागुक्तसिद्धमित्यत आह  इदं रजतत्वे ३ ति ॥

ननु इदं विशेष्यकरजतत्ववैशिष्ट्यप्रकारकज्ञानवानहमित्यनुव्यवसायादिति ह्यास्यार्थः । न च वैशिष्ट्यं व्यवसाये प्रकारः । प्रागनुपस्थितत्वेन संसर्गमर्यादयैव भानादिति चेन्न । विशेषणज्ञानहेतुताया निर्विकल्पकभङ्गे निरसिष्यमाणत्वेन

प्रागनुपस्थितस्यापि वैशिष्ट्यस्य व्यवसाये रजतत्वस्येव प्रकारतया भाने बाधकाभावादिति भावः ।

 

१. विशेषपदं नास्ति छ.  २. त्वेन  मु.   ३. त्वेनेति  मु.

 

स्वअबाद्धारः)                प्रामाण्यवादः              पु  ६८.

व्यवसायस्य त्वदुक्तरजतत्वप्रकारकत्वेनैवेदं रजतमित्याकारस्येदं रजतमित्यभिलपनं रजतार्थि १ प्रवृत्तिं च प्रति हेतुत्वस्य च सम्भवे तस्य वैशिष्ट्यविषयकत्वाभावापाताच्च ।

अनुव्यवसाय एव तृतीयार्थोल्लेखस्तु तत्र वैशिष्ट्यभानेऽप्यधिकस्य रजतत्वे व्यवसायं प्रति प्रकारत्वस्यापि भानात् । अव एवानुव्यवसायस्येदं रजतमित्याकारत्वाभावोपि । वैशिष्ट्यस्य स्वातन्त्र्येणाभानात् ।

 

एवंरूपानुव्यवसाये विप्रतिपत्तिरिति चे २ त्तर्हीदं रजतत्वेन जानामीत्याकारोपि वैशिष्ट्याभाने ३ प्युपद्यता ४ मित्यतिप्रसङ्ग इत्याह  व्ववसायस्येति ॥ इत्याकारस्य हेतुत्वस्य च संभव इत्यन्वयः ।

वैशिष्ट्यस्य तृतीयार्थत्वे व्यवसायेपि तृतीयार्थोल्लिखापत्तेरिति प्रागुक्तदोषं निराह  अनुव्यवसाय एवेति ॥ प्रकारत्वस्येति ॥ भासमानवैशिष्ट्यप्रतियोगित्वरूपस्येत्यर्थः । व्यवसाये त्वात्माश्रयापत्तेर्नोक्तरूपप्रकारत्वस्य भानामिति भावः । वैशिष्ट्यस्यापि भाने व्यवसायसमानाकारता स्यादित्यत आह  अत एवेति ॥ अत एवेत्युक्तं व्यनक्ति  वैशिष्ट्यस्येति ॥ स्वातन्त्र्येणेति ॥ व्यवसाय इव ज्ञानाविशेषणतयेत्यर्थः ।

"बहिर्विशेष्यके मनसोसामर्थ्या"दिति मणौ विशेष्यपदप्रयोगसूचितं"न च तन्मात्रं प्रामाण्यम् । भ्रमसाधारणत्वात् ।

 

१. नः  छ.   २. न्न । तर्ही कुं.   ३. वेकुं.     ४. तेचेत्तर्ह्यति  कुं.

 

स्वअबाद्धारः)                प्रामाण्यवादः                पु  ६९.

 

नन्वनुव्यवसाये वैशिष्ट्यस्य व्यवसायगतस्य रजतत्ववद्विशिषयकत्वस्य च भानेपि प्रामाण्यान्तर्गतं व्यवसायनिष्ठं रजतत्ववद्विशेष्यकत्वं न भासते । न च रजतत्ववद्विषयकत्वे सति रजतत्वप्रकारकत्वमेव प्रामाण्यं मन्मते भ्रमसाधारण्यादिति चेन्न । रजतत्वे तृतीयार्थोल्लेखबलेन प्रकारकत्वस्येव रजतेऽपि द्वितीयार्थोल्लेखबलेन विशेष्यकत्वस्या १ नुव्यवसायेन गृहीततया समानसंवित्संवेद्यतया च व्यवसायेत २ द्विशेष्यकत्वस्यापि ग्रहणात् ।

अस्ति हि दोषशङ्काद्यवतारदशायामिदं

 

किं नाम रजतत्ववद्विशेष्यकं रजतत्वप्रकारकमिदं ज्ञानं"इत्यादिपक्षधरोक्तं हृदि कुत्वाशङ्कते  नन्विति ॥ न भासत इति ॥ मनसो बहिरसामर्थ्यादिति भावः । त ३ द्विषयकत्वमेवास्तु प्रामाण्यम् । किं रजतत्ववद्विशेष्यकत्वेनेत्यत आह  नचेति ॥ मन्मते ॥ तार्किकमत इत्यर्थः । तन्मते शुक्तौ रजतत्वाद्यारोरे सति तदाश्रयस्य एव शक्ता । न तु विशेष्यत्व इति वादिनं प्रत्याहसमानेति ॥ प्रकारत्वविशेष्यत्वयोरिति वा प्रकारत्वतद्विशेष्यकत्वयोरिति वार्थः । नन्वेवं भ्रमेपि प्रामाण्यापत्तिरिति चेत्कस्य दोषः । मन्मत इवासत एवारोपः स्वीक्रीयताम् ।
तदनधिकरणाविशेष्यत्वादिकमधिकं वा निवेश्यतामिति भावः । रजते द्वितीयार्थोल्लेखोऽसिद्ध इत्यत उपपादयति  अस्तीति ॥

 

स्वअबाद्धारः)                 प्रामाण्यवादः               पु  ७०.

 

रजत्वेन जानामीत्यनुव्यवसायेऽपि तदनवतारदशायां रजतंरजतत्वेन जानामीत्यनुव्यवसायः । तस्मान्नाद्यः । द्वितीये १ सिद्धं प्रामाण्यस्य स्वतस्त्वम् ।  वाशिष्ट्यरूपस्य तद्वत्वस्याप्यनुव्यवसायेन ग्रहणात् ।

नन्वेवमप्यनुव्यवसायस्य श्रुतसाश्रिवाक्यवदन्यविषयतया वैशिष्ट्यग्राहकत्वेपि तत्संशयविरोधित्वरूपं २ सत्तानिश्चयरूपत्वं

नास्तीति न तद्घटितप्रामाण्ये निश्चयरूपता । न ह्यन्यविषयतयाप्यर्थग्रहणार्थसत्वसिद्धिः ।

 

न च बाह्यार्थेषु व्यवसायस्यासामर्थ्यम् । उपनामके सति सामर्थ्यसम्भवात् । न चोपनीतं विशेषणत्वेन भातीति नियमः । परमाणुमहं जानामीत्यादौ व्यभिचारादिति भावः सिद्धमिति ॥ स्वातन्त्र्येण ज्ञानग्राह्यत्वस्य स्वतस्त्वनिरुक्तावप्रवेशात् । सत्वेन तथात्वस्य ३ सत्वाच्चेति भावः ।

नन्वर्थसत्वघटितस्यैव प्रामाण्यरूपत्वात्तस्यानुव्यवसायवेद्यता न प्रप्तेति भावेन शङ्कते नन्विति ॥ श्रुतेति ॥ साक्षिणा श्रुतं तेनोच्चरितं वाक्यं साक्षिवाक्यं तस्येवेत्यर्थः । गृहे घटोस्तीति श्रुणोमीत्यादिसाक्षिवाक्यस्येति यावत् । अन्यविषयतया तद्ग्राहकत्वात्श्रुतसाक्षिवाक्यवदित्युक्तं भवति । हेतोरप्रयोजकत्वं निराह नहिति ॥

 

१.ऽपि  च मु.   २. पस च .   ३. सम्भवा  मु.

 

स्वअबाद्धारः)              पामाण्यवादः                पु  ७१.

 

गेहे घटमिच्छामि गेहे घटसंशयः गेहे घटज्ञानमित्यादिवाक्यजन्यज्ञानेनापि घटसत्वसिध्यापातादिति चेन्न । यत्र ज्ञानस्या १ न्यद्वारेणार्थविषयतया तत्र द्वारिणा द्वारं सत्वेनार्थविषयकमिति ग्रहणे द्वारिणोपि सत्वेनार्थविषयतेति दृष्टानुसारेण कल्पनेऽनतिप्रसङ्गात् । न हि द्वारमिच्छादिकं सत्वेनार्थविषयतया द्वारिणा ज्ञानेन गृहीतम् । दोषशङ्कादिनानास्कन्दितो व्यवसायस्त्वनुव्यवसायेन तथा गृहीतः । गेहे घटज्ञानं साक्षिणा श्रुत २ वाक्यं च यदिसत्वेनार्थविषयतया द्वारिणा ३ ज्ञानेन गृहीतं तदा तेनापि घटसत्वं सिध्यत्येव ।

 

अन्यविषयतया वैशिष्ट्यग्रहणे ४ पि तत्सत्वाधारणरूपत्वमनुव्यवसायस्याविरुद्धमिति ५ वक्तुं सामान्यन्यायं च ६ वदन्नतिप्रसङ्गं निराह  यत्रेति ॥ पक्षे तद्दर्शयति  दोषेति ॥ दुष्टकरणजन्यत्वशङ्का भ्रमत्वादिशङ्कादिनेत्यर्थःतथेति ॥ सत्वेनार्थविषयकतयेत्यर्थः । तर्हि पूर्वोक्तस्थलेप्येवं स्यादित्यत आह  गेह इति ॥ इच्छासंशयग्रहणोऽसत्वेनार्थविषयकतया द्वारग्रहणबाधाद्गेहे घटज्ञानमित्येवेक्तम् । एतेनानुव्यवसायः सत्तयार्थविषयकः सत्वेनार्थविषयतया व्यवसायविषकत्वात्तादृशं यद्गेहे घटज्ञानमिति ज्ञानं श्रुतं
साक्षिवाक्यं च तद्वत् । गेहे घटसंशय इत्यादिज्ञाने ७ तु हेतोरेवाभावान्न व्यभिचार इत्युक्तं भवति । पूर्वपक्ष्युक्तो हेतुरप्रयोजक इत्याह  यदि चेति ॥

 

१. प्य च छ क मु.  २. द्व च मु.   ३. द्व मु  आ.  ४. नुव्यवसायस्यासामर्थ्यं  मु .

 

स्व अ बा  द्धारः )              प्रामाण्यवादः               पु  ७२.

 

यदि च सव्यवधानत्वमात्रेण सत्वानिश्चायकत्वं तर्हि गेहे मम घटप्रमेत्याप्त १ वाक्यजन्यज्ञानेनापि घटसत्वं न सिध्येत् ।

ननु तत्रार्थतथात्वघटितं प्रामात्वं गृह्णज्ज्ञानं घटसत्वं स्वातन्त्र्येणापि गृह्णातीति चेन्न । मम २ मतेऽनुव्यवसायस्यापि प्रामाण्यग्रानहकत्वेनात्रापि स्वातन्त्र्येस्य सुवचत्वात् ।

 

वैशम्यामाशङ्क्य प्रकृतेपि सममित्याहनन्वित्यादिना ॥ स्वातन्त्र्येणापीति ॥ व्यावसायवदिति भावः सुवत्वादिति ॥ व्यवसायनष्ठस्य तद्वित्वघटितप्रामाण्यस्य ज्ञानत्ववत्सक्षादेवानुव्यवसायविषयता । न तु व्यवसायद्वारा । परन्तु तद्वत्वस्य तदययोग्यतया चाक्षुषज्ञाने सौरभस्येवोपनीतस्य भानम् । इयांस्तु विशेषः । यदक्षोपनायकस्यापि सामग्रीसद्भावाज्ज्ञानविषयता । तत्र तु सामग्र्यभावत्तदविषयतेति भावः ।

एतेन यत्कैश्चिदुक्तं घटज्ञानवानहमयं घट इत्यत्र वैलक्षण्यस्य सर्वसंमतया तन्नियामकस्योपनायकभानसामग्रीसमवधान तदसमवधानादेपवश्यकल्पनात् । यत्रोपनायकमपि भासते तत्रोपने ३ यांशे ४ स्वातन्त्र्यम् । अत एव सुरभिचन्दनमित्यत्र

स्वातन्त्र्यम् । स्वातन्त्र्यं च ज्ञाननिष्ठं संशयादिविरोधितावच्छेदकमेव किञ्चित्फलकल्प्यम् । स्वरूपसम्बन्धविशेषविशयत्वादिति । तन्निरस्तम् । स्वातन्त्र्येणोपनायकत्वेऽज्ञानयमानत्वस्य प्रयोजकत्वे गौरवात् ।

 

१. दि कु.  २. मन्ममु.   ३.नयां  मु.   ४.अस्वामु.

 

स्वअबाद्धारः)              प्रामाण्यवादः                पु  ७३.

 

अर्थसत्वनिश्चयत्वमात्रेण तद्घटितप्रामाण्यनिश्चयत्वोपपत्तौ स्वातन्त्र्यस्यनपेक्षितत्वाच्च । स्वातन्त्रादप्यनाशङ्कितदोषान्यद्वारा ग्राहकस्य ।

"ऋषिभिर्बहुधागीतं छन्दोभिर्विविधैः पृथक् । तदेतदृचाभ्युक्तम्"।

इत्यादिवत्संवादेनाधिक्याच्च । एवंसत्यनुव्यवसायस्य धर्म्यंशेपि प्रामाण्यनिश्चरूपत्वाभावापातेन तत्रापि कदाचित्संदेहापाताच्च ।

 

गेहे घटप्रमेत्यादिशब्दस्थले प्रमात्वेन ज्ञानमानस्यापि स्वातन्त्र्येणोपनायकत्त्वाङ्गीकारेण व्यभिचाराच्च । गृहीतप्रामाण्यकज्ञीनसमानविषयकज्ञानानुव्यवसायस्थले १ प्रमात्वेन ज्ञायमास्यापि ज्ञानस्य स्वातन्त्र्येणोपनायकत्वाच्च ।

ननु विषयसत्तानियतसत्ताकज्ञानवृत्तिधर्माविशेषणत्वे सति ज्ञानविशेषणतया भानमेवास्वातन्त्र्यम् । तदभाव एव स्वातन्त्र्यमिति घटप्रमावानहमित्यादौ तथा भानेपि घटज्ञानवानहमित्यादौ न स्वातन्त्र्येण भानम् । तत्र  शद्धज्ञानविशेषणतयैव भानात् । अनुव्यवसायमात्रस्य प्रामाण्यविषयक २ त्त्वविवादादित्यत आह । अर्थसत्वेति ॥ ननु स्वातन्त्र्येणा ३ भाने कथमनुव्यवसायस्य प्रामाण्यसंशयादिविरोधिता । कथं वा निष्कम्पप्रवृत्तिहेतुतेत्यत आह ॥ स्वातन्त्रादपीति ॥ अनाशङ्कितदोषेति बहुव्रीहिः । तद्रूपान्यद्वारेणेत्यर्थः । त्रयोतशे गीतायां क्षेत्रक्षेत्रज्ञस्वरूपमृषिभिर्बहुधा गीतमित्यनाशङ्कितदोष
ऋषिगानछन्दोरूपद्वारेणार्थग्राहकस्य कृष्णवाक्यस्याधक्यं तथा निर्देष ऋषग्द्वारेणार्थग्रहकस्य छन्दोग्याद्युपनिषद्वाक्यस्य यथाधिक्यं तथेत्यर्थःठ । स्वातन्त्र्यस्यानपेक्षितत्वादित्यत्र

विपक्षे बाधकं चाह  एवंसतीति॥ अर्थसत्वनिश्चयमात्रेणैव संशयादिविरोधितारूपप्रामाण्यनिश्चयत्वोपपत्तावपि स्वातन्त्र्याभावेन तदभाव इत्यर्थः ।

 

१. प्रमात्वेनेति नास्ति  मु.   २. त्वे मु.   ३. णभाने  मु .

 

स्वअबाद्धारः)             प्रामाण्यवादः                  पु  ७४.

 

ननु धर्मिणस्सदेकरूपत्वात्तत्रासं १ शय इति चेत् । कोर्थः किं साधारणधर्मज्ञानं नास्तीति किं वा विशेषदर्शनमस्तीति ? नाद्यः  । प्रतीतिविषयत्वस्य सदसत्साधारण्यात् । अन्त्ये धर्मित्वस्य सदेकनिष्ठत्वेन विशेषत्वेपि तस्य सत्वानिश्चये कथं संशयविरोधिता ।

 

यद्वा स्वातन्त्र्याभावेर्ऽथसत्व निश्चयरूपतैव न युक्तेत्यत आह एवंसतीति ॥ सव्यवधानत्वमात्रेण २ सत्वानिश्चायकत्व इत्यर्थः । धर्म्यंशे रजतादिरूपेदमंश इत्यर्थः ।

धर्मंशेपि संशयानुत्पादो नार्थसत्वघटितप्रामाण्यविश्चयरूपत्वेन"इदन्त्वरजतत्ववैशिष्ट्यं पुरोवर्तिनो नानुव्यवसायवेद्य"मिति मण्युक्तेः ।"स्वातन्त्र्येण इति शेष"इति पक्षधरोक्तेः । किन्त्वन्यथैवेति शङ्कते  नन्विति ॥ सदेकेति ॥ पुरतः सन्नेव धर्मी नत्वसन्निति धर्मिणः सत्वाव्यभिचारान्न तत्र संदेहो न तु तदंशे प्रामाण्यनिश्चयत्वसत्वेनेत्यर्थः सदसदिति ॥ पुरतो सदित्यर्थः । मन्मते त्वसन्मात्रेत्यर्थः विशेषत्वेपीति ॥ तथाच तद्धर्शनमात्रं न विशेषदर्शनं किं तु तद्वैशिष्ट्यसत्वदर्शनमेवेति तस्य च तत्राभावे कथं तत्र न
संशयः स्यादिति भावः  तस्येति ॥ धर्मित्ववैशिष्ट्यस्येत्यर्थः ।

तथा च धर्मित्वरूपेदन्त्ववैशिष्ट्यांशेऽनुव्यवसायस्य तत्सत्तानिश्चयत्वरूपप्रामाण्यनिश्चयत्वाभावे धर्म्यंशेति संशयः स्यादेवेति भावः।

 

१. संदेह  च क ग.   २. णार्थ  अ. मु.

 

स्वअबाद्धारः )              प्रामाण्यवादः               पु  ७५.

 

न हि संदिग्धसत्ताकः करादिः पुरुषत्वसंशयविरोधी ।

अपिचैवं त्वदीये अयं वह्न्यनुभवः प्रमानाप्रमा वा दाह १ समर्थविशेष्यकत्वे सति

 

सत्वानिश्चयेपि संशयनिवृत्तिरस्त्वित्यत आह  न हीति ॥ संदिग्धसत्ताकः ॥ अनिश्चितसत्ताक इत्यर्थः । यद्वा तत्सत्वानिर्णये तत्सत्वेपि संदेहः स्यात् । ततश्च धर्मिसंदेह इति भावेनायं ग्रन्थो योज्यः ।

एवमिदन्त्त्ववैशिष्ट्यवैशिष्ट्यांशे तत्सत्तानिश्चयत्वरूपं प्रामाण्यनिश्चयत्वमनुव्यवसायस्य धर्म्यंशे स्वतः प्रामाण्यमुपपाद्य"ननु व्यवसायस्येदन्त्वरजतत्वविशिष्टेदंविषयकत्वेऽनुव्यवसाय एव मान"मित्यादिना"न स्वतः प्रामाण्यग्रहः"इत्यन्तेन मण्युक्तखण्डनं निस्येदानीं"ननु वह्निज्ञानस्य दाहसमर्थविषयत्वं न दाहसमर्थोयमिति व्यवसायग्राह्य"मित्यादिना शङ्कितस्य"उच्यत" इत्यादिना यत्समाधानमुक्तं तत्समानन्यायेनान्यत्राप्यनुव्यवसायस्य स्वतः प्रामाण्यं व्यनक्ति। अपि चैवमिति ॥ सव्यवधानत्वमात्रेणार्थसत्वनिश्चरूपत्वाभाव इत्यर्थः ॥ त्वदीय इति ॥ प्रामाण्यानुमान
इत्यन्वयः । मणिकृदुक्त इत्यर्थः । प्रचीनरूत्याहप्रमेति ॥"प्रथममप्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणा साध्यम्"इति मणिकुदुक्तेराहनाप्रमा वेति ॥

 

१. सामर्थ्यवद्वि  च. मु.

 

स्वअबाद्धारः )                प्रामाण्यवादः                 पु  ७६.

 

वह्नित्वप्रकारक १ निश्चयत्वात्व्यतिरेकेणाप्रमावदिति प्रामाण्यानुमाने दाहसामर्थ्यवद्विशेष्यकत्वे सतीति विशेषणस्य केन सिद्धिः । तद्धि न तावद्दाहसमर्थोयमिति व्यवसायेन सिद्धम् । व्यवसायविषयतया २ विशेष्यस्य विशेष्य ३ त्वस्य तदविषयत्वात् । नाप्यनुव्यवसायेन । बहिर्थे दाहसामर्थ्ये मनसोऽसामर्थ्यात् ।

ननु स्मुत्युपनीते व्यवसाये स्मुत्युपनीतं यद्दाहसामर्थ्यं तद्वद्विशेष्यकत्वं मनसा परिच्छिद्यते ।

 

व्यवसायेति ॥ विशेष्यस्य ४ व्यवसायविषयत्वाद्धेतोः विशेष्य ५ त्वस्य व्यवसायविषयत्वादित्यर्थः । क्वचिद्व्यवसायविषयताविशेषस्य विशेष्यत्वस्येति पाठः । तदा तु न क्लेशः । धर्मधर्मिवैशिष्ट्यानां व्यवासायविषयत्वेन धर्मे वैशिष्ट्ये चाविद्यमानो धर्मिमात्रनिष्ठो विषयत्व विशेष इत्यर्थः ।"व्यवसायतद्विषयतयोस्तदिषयत्वात्"इति मणिवाक्यनिष्कृष्टार्थस्यायमनुवादःबहिर्थ इति ॥ दाहसामर्थ्यवैशिष्ट्यग्रहण एव वा वैशिष्ट्यग्रहणशक्तावपि स्वातन्त्र्येण तद्ग्रहणे वासामर्थ्यादिति भावः ।

स्मृतीति ॥ अयं वन्हिरिति व्यवसायविषयकानुव्यवसायजन्यस्मृत्युपनीतं यद्दाहसामर्थ्यवत्वं तद्वद्विशेष्यकत्वं वन्हिरित्यनुभावो दाहसामर्थ्यवद्विशेष्यको मम वृत्त इति मानसा परिच्छिद्यत इत्यर्थः ।

 

१. निश्चयपदं नास्ति  क ग.   २. ताविशेषस्य  कुं छ क.  ३. क  मु.

४. व्यवसायविषयतया  मु.  ५. क  मु.

 

स्वअबाद्धारः)              प्रामाण्यवादः               पु  ७७.

 

नचैवं स्मृत्युपनीते व्यवसाये स्मृत्युपनीतं यद्रजतत्वं तद्वद्विशेष्यकत्वमपि मनसा परिच्छिद्यताम् , तथा च प्रामाण्यस्य स्वतस्त्वं स्यादिति वाच्यम् । मन १ सैवं प्रामाण्यग्रहेपि प्रथमानुव्यवसायेनागृहीततया यावज्ज्ञानग्राहकसामग्रीग्राह्यत्वस्य तज्ज्ञानविषयकज्ञानानपेक्षिज्ञान २ ग्राह्यत्वस्य चाभावेन परतस्त्वाहानेरिति चेथन्तैवं पाश्चात्यस्मृत्युपनीते दाहसामर्थ्ये मानसज्ञानमिव प्राथमिकव्यवसायोपनीते रजतत्ववैशिष्ट्येऽनुव्यवसाय एव सत्तानिश्चयरूपोस्तु ।

 

तुल्यन्यायत्त्वात्प्रामाण्यांशेप्याशङ्क्येष्टापत्या निराह  न चैवमिति ॥ दाहसामर्थ्यवद्विशेष्यकत्वग्रह इत्यर्थः । इदं रजतमिति व्यवसायविषयकानुव्यवासायस्य च तादृशज्ञानसापेक्षत्वादिति भावः । हन्तेति हर्षे । पाश्चात्या वा स्मृतिः तदुपनीत

इत्यर्थःपाश्चात्येति  प्राथमिकेति ४ हेतुगर्भं दाहसामर्थ्ये ॥ दाहसामर्थ्यवत्व इत्यर्थःमानसज्ञानमिवेति ॥ अनुव्यवसाय इवेत्यर्थः । पारतन्त्र्येण तद्विषयतोपगमादिष्टापत्तिनिरासायाह सत्तानिश्चयेति ॥

१. साचैवं  छक.   २. विषयत्व  छजन्यत्वस्य क.  ३.॥ प्रथमेति ॥ रजतमहं जानामीत्याद्यनुव्यवसायेनेत्यर्थःमु.  ४. चमु.

 

स्वअबाद्धारः)              प्रामाण्यवादः               पु  ७८.

 

अविशेषात् । त्वत्पक्षे व्यवसायस्य यथार्थत्वेन स्मृतितोऽविशेषाच्च । अनुमितौ प्रामाण्यनियतस्य धूमवति वह्निमत्वज्ञानस्यानुव्यवसायेन गृहीतत्वान्न तत्रापामाण्यशङ्केति वदता त्वया

लिङ्गोपहितलैङ्गिकविषयतयानुमितिरूपव्यवसायोपनीते धूमवत्वेऽनुव्यवसायस्य सत्तानिश्चयरूपत्वाङ्गीकाराच्च ।

 

नन्विन्द्रियस्यायं स्वभावो यदुवनीतमुपनीतान्तरवृत्तित्वेनैव गृह्णातिति चेन्न । सुरभिचन्दनमिति चाक्षुषज्ञानानुपपत्तेः । मनसस्तथा स्वभाव इत्यस्यापि मानाभावेनायुक्तत्वात् । संशयानुपपत्तेरेव मनसस्तादृशस्वभावकल्पकेति चेन्न । तस्या १ अन्यथोपपादयिष्यमाणत्वात् । निमीलितनेत्रस्यापि"अहं गौरः"इत्यादिप्रत्ययानापत्तेश्चेति भावेनाह  अविशेषादिति ॥ वैपरीत्यमेवोचितमित्याह  त्वत्पक्ष इति ॥ व्यवसायस्येति ॥ अनाशङ्कितदोषत्वात्ग्रह्यप्रामाण्याश्रयव्यवसायस्येति भावः ।

ननूपनीतं तद्वत्वमुपनीतवृत्तित्वेन गृह्यत इति कल्प्यत इत्यतोऽयमपि नियमो नेत्याहअनुमिताविति ॥ अनुमितौ कदापि प्रामाण्यसंदेहाभावेन तत्र प्रामाण्यं स्वत इति प्राचीनमतं दृषयता सर्वत्र परतस्त्ववादिना मणिकृदानुमितौ प्रामाण्यशङ्काभावो न प्रामाण्यनिश्चयनिबन्धनोऽपितु तत्प्रामाण्यव्याप्यस्य धूमवद्विशेष्यकत्वे सति वह्निप्रकारकज्ञानत्वस्य यज्ज्ञानं तन्निमित्तक एवेति वदता त्वयेत्यर्थः । तदभियुक्तव्याख्यानानुरोधेनाह ॥ लिङ्गोपहितेत्यादि ॥ परामर्शोपनीतव्याप्युक्तव्यापकविषयकविषयकधूमवत्पर्वतोऽग्निमानित्येवंरूपेत्यर्थः ।

 

१. प्य  मु.

 

स्वअबाद्धारः)              प्रामाण्यवादः                 पु  ७९.

 

न च दाहसामर्थ्ये संस्कार एव प्रत्यासत्तिः । स च निर्विषयक इति न तद्विषयतया भनम् । इह तु प्रत्यासत्ती १ भूतो व्यवसायः सविषयक इति वैषम्यमिति वाच्यम् । संस्करे सत्यप्यस्मृतिदशामुक्तमानसज्ञानाभावात् ।

ननु मानसज्ञानस्य दहसमर्थ एव मम वह्नत्वप्रकारकं ज्ञानं वृत्तिमित्याकारत्वेन तत्र दाहसामर्थ्यं वह्ननिष्ठमेव भाति ।

 

ननु पञ्चमानुव्यवसाये प्रत्यासत्तीभूतान्याविषयतयार्थस्य भानेन तस्यार्थसत्तानिश्चयरूपत्वेपि प्रथमानुव्यवसाये तदृशान्यविषयतया तद्वत्वरूपार्थस्य भानान्न तत्सत्तानिश्चयरूपत्वमतोऽविशेषादित्युक्तहेतुरसिद्ध इत्याशङ्क्य निराह  न चेति ॥ दाहसामर्थ्ये ॥ दाहसामर्थ्यवत्त्व इत्यर्थः संस्कार एवेति ॥ दाहसमर्थोयमिति प्राचीनव्यवसायजन्यसंस्कार एव न तु तज्जन्यस्मृतिरित्यर्थः ।

यद्यपि स्मृतेः प्रत्यासत्तित्वेपि तस्याः सुरभिचन्दनमित्यादौ सौरभादिज्ञानस्येव ताटस्थ्येनैव तथात्वन्नैतच्चोद्यावकाशः । तथापि सविषयकत्वात्संभावितत्वाभिप्रायेणेतच्चोद्यमपि शङ्को २ त्थानदार्ढ्यार्थं कृतमिति ध्येयम् ।

भानमिति ॥ पञ्चमानुव्यवसाये दाहसामर्थ्यवत्वस्य संस्कारविषयतया न भानमित्यर्थः इहत्विति ॥ प्रथमानुव्यवसाय इत्यर्थः । अस्मृतिदशायामिति ॥ अत एव त्वयप"प्रग्भवीयसंस्कारात्स्मृतं प्रामाण्यं वन्हिज्ञानादौ साध्यमान"मित्याद्युक्तम् ।

 

१. त्तिरूपो  छ.  २. अग्निमग्रन्थो  मु,  मन्दाशङ्को  आ.

 

स्व अ बा द्धारः)            प्रामाण्यवादः                 पु  ८०.

 

न तु स्मृतिविषयतया । स्मृतिस्तु प्रत्यासत्तिमात्रम् । अनुव्यवसायस्य तु पुरोवृत्तिविशेष्यकं रजतत्ववैशिष्ट्यावगाहिज्ञानं वृत्तमित्याकारत्वेन ज्ञानविषयत्वेनैव वैशिष्ट्यं विषयः । न तु पुरोवृत्तिनिष्ठत्वेनेति वैषम्यमिति चेन्न । तत्रापि दाहसमर्थ एवेति विषयसप्तम्यातीतव्यवसायविषयत्वेनैव दाहसामर्थ्यस्य भानात् ।

अत्रापि सुख २ ज्ञानस्य दोषशङ्कादिरहितस्तम्भादिज्ञानस्य च प्राथमिक एवानुव्यवसाये मम सुख एव सुखत्वेन ज्ञानं वृत्तं स्तम्भ एव स्तम्भत्वेन ज्ञानं वृत्तमित्याकारदर्शनाच्च ।

ननु तथापि ३ तत्र यस्य व्यवसायस्य विषयतया दाहसामर्थ्यं भाति स न प्रत्यासत्तिः । यातु स्मृतिः प्रत्यासत्तिर्न तद्विषयतया तद्भाति इह तु

 

एतच्चोपलक्षणं यदसाधारणं कारणमासाद्य मनोबहिर्गौचरां प्रमां जनयति तन्मानान्तरमिति व्याप्तेः संस्कारस्य मानान्तरत्वापत्तेश्चेत्यपि ध्येयम् ।

स्मृतेः प्रत्यासत्तित्वेप्यविशेषादिति हेतुरसिद्ध इति भावेन शङ्कते  नन्विति ॥ तत्रापीति ॥ पञ्चमानुव्यवसायेपीत्यर्थःदाहसामर्थ्यस्य ॥ दाहसामर्थ्यवत्वस्येत्यर्थः । तत्रापीत्यस्यैव विवरणं प्राथमिक एवानुव्यवसाय इति ॥ प्रकारान्तरेण वैषम्यमाशङ्क्य निराकरोति ४ ॥ ननु तथापीत्यादिना ॥ तत्रेति ॥ पञ्चमानुव्यवसाय इत्यर्थः । इहत्विति ॥

 

१. मम च, मु.  २. खादिच,छ, मु.   ३. यत्र छ.  ४. निराह आ, मु.

 

स्वतस्त्वे संशयोपपादानम्         प्रामाण्यवादः                पु  ८१.

 

वैशिष्ट्यं प्रत्यासत्तीभूतव्यवसायविषयतया भातीति चेन्न । अन्यविषयतया ग्रहणे श्रुतसाक्षिवाक्यसाम्येऽविशिष्टेऽस्य वैधर्म्यमात्रत्त्वात् । तस्मात्प्रामाण्यग्रहणे साक्षी समर्थ इति एतदप्युक्तं"अन्यथे"त्यादिना । साक्षी धर्म्यंश इव वैशिष्ट्यांशेपि सत्तानिश्चयरूपो न चेदस्य व्यवसायस्येदं वैशिष्ट्य  विषय इत्यादिलोकसिद्धव्यवस्थित्ययोगादित्यर्थः ॥

स्वतस्त्वानुमानेषु बाधोद्धारः ॥ ४ ॥

 

इहत्विति ॥ प्राथमिकानुव्यवसाय इत्यर्थः । अविशिष्ट इति विभागः ।

स्वतस्त्वानुमानेषु बाधोद्धारः ॥ ४ ॥

 

ननु तथापि स्वतस्त्वेऽनभ्यासदशायां संशयो न स्यात् । ज्ञानग्रहे प्रामाण्यात् ।

उक्तानुमानेषु प्रतिकूलतर्कपराहतिं मण्याद्युक्तामाशङ्कते  नन्विति ॥ तथापीति ॥ प्रबलबाधरूपदोषाभावेपीत्यर्थः  प्रामाण्यग्रहादिति ॥ अन्यथा स्वतस्त्वभङ्ङापत्तेरिति भावःग्रहे चेति ॥ ज्ञानस्येत्यनुषङ्गः । यथा हि त्वन्मते जातिव्यक्त्योरेकवित्तिवाद्यत्वनियमेपि दोषवशादिदं रूप्यमितिभ्रम १ स्थले शुक्तित्वहयग्रहः तथा मन्मतेपि ज्ञानप्रामाण्ययोरेकवित्तिवेद्यत्वनियमेपि संशयस्थले ज्ञानग्रहे सत्यपि तेन तत्पामाण्याग्रहेपि न स्वतस्त्वभङ्गः ।

१. भ्रमपदं न कुं.

 

स्वसंदनं)                     प्रामाण्यवादः          पु ८२.

 

अग्रहेच धर्मिज्ञानाभावादिति चेन्न १ । असति प्रतिबन्धेसाक्षिवेद्यत्वनियमो वा साक्षिवेद्यत्वयोग्यता वा स्वतस्त्वमित्यु २ क्तम् । अप्रामाण्यसंशयस्थले च प्रामाण्यग्रहणशक्तिप्रतिबन्धकाप्रामाण्य ३ ग्रहणसामग्रीसमवहितैव । अन्यथाप्रामाण्यासंशयोगात् । एवं च ज्ञानं गृह्णता साक्षिणा शक्तिप्रतिबन्धात्प्रामाण्याग्रहणेप्यस्मदुक्तस्वतस्त्वाहान्या स्वतस्त्वपक्षेपि धर्मिज्ञानस्य प्रामाण्यनिश्चयस्य च संभवेन संशयो युक्त एव ।

 

अस्माभरुक्तस्वतस्त्वस्य तत्रापि सत्वादिति भावेन"धर्म्युपलब्धावपि व्याघातादिदर्शनेन साक्षिणि प्रतिबद्धे प्रामाण्यविषये मनसि संशयोपपत्तेः"इति तत्वनिर्णयटीकां विवृण्वानः समाधत्तेअसति प्रतिबन्ध इति ॥ प्रामाण्यविरोध्युपस्थापकसामग्र्यसमवधाने सतीत्यर्थः । अत्र सर्वत्र साक्षी पागुक्तरूप ४ एव ज्ञेयःग्रहणेति ॥ निश्चयेत्यर्थःन्यथेति ॥ उक्तरूपसामग्र्यभाव इत्यर्थः । अस्तु सामग्री ततः किमित्यत आहएवं चेति ॥

प्रामाण्यविरोध्युपस्थापकसामग्रीसमवधानेसतीत्यर्थः  धर्मिज्ञानस्येति ॥ व्यवसायरूपस्य संशये धर्मिणो यज्ज्ञानं तस्येत्यर्थः  संशयो युक्त एवेति ॥ मानसोऽयं बोध्यः । न तु साक्षिरूपः तस्य सुदृढनिर्णयरूपत्वात् ।

 

१. त् कुं  २. तिह्यु  छक.   ३. ग्राहक छ.   ४. रूपपदं नास्ति  आ.

 

स्वसंदनं)                 प्रामाण्यवादः                     पु  ८३.

 

न हि ज्ञानत्वप्रमात्वगग्रहण १ शक्त्योरेकप्रतिबन्धकप्रतिबध्यत्वमपि स्वतस्त्वान्तर्गतम् ॥

तद्ग्रहणशक्त्योर्भिन्नत्वेपि ज्ञानत्वग्रहणशक्तिवत्प्रामाण्यग्रहणशक्तिः सहजा । न त्व प्रामाण्यग्रहणशक्त २ रिवाहितेत्येतावतैव प्रामाण्यस्य स्वतस्त्वात् । दृश्यते  च वह्नौ दहप्रकाशनशक्त्योः सजत्वेपि प्रतिबन्धकभेदः ॥

अस्तु वा ३ तयोरेकैव ग्रहणशक्तिस्तथापि तस्या

 

अस्मादुक्त स्वतस्त्वाहान्येत्युक्तं व्यनक्ति  न हीति ॥ असति प्रतिबन्धके ज्ञानगोचरसाक्षिवेद्यत्वनैयत्यमित्यस्य प्रतिबन्धे सति साक्षिणा ज्ञानं प्रामाण्यं चोभयं न गृह्यत इति यद्यर्थस्तदा परं स्वतस्त्वहानिः । नह्येवं विवक्ष्यत इति भावः ।

ननु ज्ञानत्वप्रमात्वग्रहणशक्त्योरैक्योपगमेऽन्यत ४ राग्रहणे द्वयोरप्य ५ ग्रहणमवर्जनीयम् । भेदे तु स्वतस्त्वहानिरेव । ज्ञानग्रहणशक्त्यतिरिक्तशक्तिग्राह्यत्वात् । अन्यथाप्रामाण्यस्यापि स्वतस्त्वापत्तिरित्यतो"मानस्यादोषशङ्कया प्रामाण्यग्रहणशक्तिः प्रतिबद्धा"इति प्रकृतिनयसुधावाक्येन भेदपक्षस्य"करणानां ६ ५ अनजननशक्त्यैव तद्याथार्थ्यजनकत्वं स्वतस्त्व"मित्यादिजिज्ञासानयसुधावा ७ क्येनाभेदस्य चप्रतीतेर्भेदाभेदरूपपक्षद्वयेपि समाधिमाह  तद्ग्रहणेति ॥ न त्वप्रामाण्यग्रहणशक्तिरिति ॥ सहजेत्यनुकर्षः । किं तु दोषाहितेत्यर्थः ॥

 

१. योरेक  ख.  २. रित्ये कुं छ कग.  ३.यद्वा कुं   ४. र कुं. ५. र कुं.

६. च मु.   ७. वाक्यादिना  आ अ.

 

स्व सं दनं )                    प्रामाण्यवादः                पु  ७४.

 

एनं मा दहेत्यादौ दाहशक्तेरिव विषयभेदेन प्रतिबन्धाप्रतिबन्धौ युक्तौ ।

नचैवं प्रतिबन्धकाभावरूपस्याधिकस्य हेतोरनुप्रवेशात्सिद्धसाधनम् । न्यायमतेऽप्रतिबद्धेनाप्यनुव्यवसायेन प्रामाण्या १ ग्रहणात् ।

नाप्यपसिद्धान्तः ।"अप्रामाण्यग्रहणकारणाभावस्यापि प्रामाण्यग्रहणोपयोगाङ्गीकारेपि न कदाचिदास्माकं हानिः"इति

टीकोक्तेः ।"प्रतिबन्धकाभावो न हेतुः"इत्युत्पत्तिस्वतस्त्व २ वादे वक्ष्यमाणत्वाच्च ।

 

मादहेपीति ।."अमानोना प्रतिषेध"इति निषेधार्थकमाशब्दोऽयम् । न माङ् ।

तेन"माङि लु"ङित्युक्तलुङभावः साधु  टीकोक्तेरिति ॥ तत्वनिर्णयटीकोक्तेरर्थतोऽनुवादोयम् ।

ननु तत्र"न प्रकृते काचिदस्माकं हानिः"इति हि पाठः । तथा च प्रकृते वेदोपौरुषेयत्वे काचिद्धानिर्नेत्यभ्युपगमवादेनाप्युपपन्नासा टीकोक्तिः । एवं च ज्ञानग्रहहेत्वतिरिक्तहेतुसापेक्षग्राह्यत्वे कथं न प्रामाण्यस्य स्वतस्त्वहानिरित्यतस्तत्वनिर्णयटीकास्थं"न हि दाहाभाव एव वेत्रबीजं वेत्राङ्कुरं जनयतीत्येतावता दाहाभावो वेत्राङ्कुरस्य कारणं भवति । किं तु ततो विपरीतकार्यानुत्पादे सति वेत्रबीजं स्वमाहिम्नैवाङ्कुरं करोति । अन्यथोत्सर्गापवादौ क्वापि न स्यातां"इति पूर्ववाक्यं हृदि कुत्वाह  प्रतिबन्धकेति ।

 

स्व संदनं)                      प्रामाण्यवादः                पु  ८५.

 

यत्र पूर्वं दोषशङ्कादेरभावेपि कारणान्तरोपनिपातात्पश्चात्तत्संशयस्तत्र पूर्वं प्रामाण्यं निश्चीयत एव । तदा प्रतिबन्धकाभावात् ।

 

एवं प्रतिबन्धकेन प्रामाण्यनिश्चमुपेत्य संशयमुपपाद्य क्वचित्प्रामाण्यनिश्चयमुपेत्यापि संशयमुपपादयति यत्रेति ॥ यद्वा अस्त्वेवं प्रामाण्यविरोध्युपस्थापकसामग्रीसमवधानस्थले प्रामाण्यनिश्चयेपि विविक्षितस्वतस्त्वाहान्या संशचोपपत्तिः । तत्सामग्रीसमवधानात्प्राक्काले तु कथम् । तत्र प्रामाण्यानिश्चये स्वतस्त्वाहानेः । यज्ज्ञानं यत्र प्रतबन्धकं तत्सामग्र्यपि तत्र प्रतिबन्धकेत्यस्याभावात् । प्रामाण्यनिश्चये १ वोदीरितसन्देहो न स्यादित्यत आह यत्रेति ॥ निश्चीयत एवेति ॥ मनसेति भावः । न तु साक्षिणा दृढनिर्णयत्वात् ।

सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनमिति ।

मानसे दर्शने दोषा नैव स्युः साक्षिदर्शने ॥

यत्क्वचिद्व्यभिचारिस्याद्दर्शनं मानसं हि तत् ।

इति च ज्ञानपादीयानुव्याख्यानोक्तेरिति ज्ञेयम् ।

एतेन यदुक्तं मणौ"निश्चितेपि प्रामाण्ये दोषान्तरात्तत्र संशयः इति चेन्न ॥

प्रवृत्तिप्रसङ्गात्"इति तन्निरस्तम् । प्रामण्यनिश्चयकालेऽप्रतिबन्धादिष्टापत्तेः । पश्चात्तु तस्य नाशात्प्रतिबन्धाच्चाप्रवृत्युपपत्तेः ।

एतेन प्रामाण्यनिश्चये जाग्रति कथं सन्देह इति निरस्तम् । उत्तरकाले तस्य नाशात् । प्रामाण्यनिश्चये प्रामाण्यसन्देहात्संशयोपपत्तेश्च ।

यत्तु"न च प्रामाण्यसंशयाद्विषयसंशयवत्प्रामाण्यज्ञाने प्रामाण्यसंशयात्प्रामाण्य संशय इति वाच्यम् । प्रामाण्यज्ञानेपि

स्वतः  प्रामाण्यग्रहे संशयानुपपत्तेः"इति मणिवचनं तदप्यतेनैव निरस्तं बोध्यम् । दोषोपनिपातस्थले मानसप्रामाण्यनिश्चये दोषवशेन प्रामाण्यानिश्चये तत्संशयोपपत्तेरिति ॥

 

१. चोदीचीन  मु. आ. अ.

 

स्वसंदनं)                 प्रामाण्यवादः                      पु  ८६.

 

केचित्तु धर्मिज्ञानस्य संशयाहेतुत्वात्संशयरूप एवानुव्यवसाय उत्पद्यते । धर्मिज्ञानस्याहेतुत्वेपि संशये धर्मिनियमो धर्मिज्ञानजनकनियमादेव युक्तः ।

 

एवं वास्तवं मूलग्रन्थाद्युक्तं संशयोपपादानं प्रदर्श्याधुना यदुक्तं मणौ"धर्मिज्ञानं च संशयहेतुः । अन्यथा धर्मिनियमः

कोट्युक्तटत्वं च न स्यात्"इति ग्रन्थेन धर्मिज्ञानाभावेन संशयाभावोपपादनदूषणं तदपि नेति भावेन प्रौढ्या समाधिद्वयमन्यापदेशेनाह  केचित्वित्यादिना अहेतुत्वादिति ॥

विशेष्येन्द्रियसन्निकर्षकोटिस्मृतिरूपविशषणज्ञानतदुभयासंसर्गाग्रहादिविशिष्टज्ञान सामान्यसामग्रीत एव तदुत्पत्तौ तदतिरिक्ता संशये धर्मिज्ञानारूपा विशेषसामग्री न कल्प्या । तथाच संशयस्थले धर्मिणो व्यवसायस्यैवाज्ञानेन प्रामाण्यनिश्चोपपत्या स्वतस्त्वाहीनिः प्रामाण्यादिसंशयश्च युक्त इति भावः ।

ननु तुरगादौवेगेन गच्छतः पुंसोऽनेकवृक्षेन्द्रियसन्निकर्षेपि क्वचिदेव पनसत्वादिसंदेहो न सर्वत्रेत्येवंविधो धर्मिनियम एव संशये धर्मिज्ञानहेतुतां  व्यवस्थापयतीत्यत आह  धर्मिज्ञानस्याहेतुत्वेपीति ॥ धर्मिज्ञानजरकेति ॥ त्वयापि हि सर्वत्र सन्निकर्षेऽविशिष्टेपि क्वचिदेव धर्मिज्ञानं नान्यत्रेत्यत्र विषयमाहात्म्यादिकं नियामकं वाच्यम् । तदेव संशये नियामकमस्तु । तद्धेतोरेवास्तु हेतुत्वं मध्ये किं तेनेति न्यायात् । तेषामननुगतत्वेपि धर्मिज्ञानहेतुत्वेनानुगमसंभवादिति भावः ।

 

स्वसंदनं)                   प्रामाण्यवादः                  पु  ८७.

 

कोट्युक्तटत्वे तु कोटेर्धर्म्यसंस्पृष्टत्वेनाज्ञातोर्ध्वत्वादिसाधारणधर्मेण भूयस्साहचर्यदर्शनमेव हेतुः । न तु संशयधर्मिनिष्ठत्वेन ज्ञातसाधारणधर्मेण भूयस्साहचर्यदर्शनम् । गौरवात् । ऊर्ध्वतादिसाधारणधर्मज्ञानं त्वनियतादृष्टादिहेतुजन्यस्मतिरूपमित्याहुः ।

 

यत्तु"धर्मिज्ञानसामग्रीत्वेन हेतुत्वे लाघवाद्धर्मिज्ञानत्वेनैव हेतुत्वमस्तु"इति शरोमणिवचनम् । तन्न । कॢप्तसामग्र्यैवोपपत्तावपूर्वधर्मिज्ञानहेतुताकल्पनस्य गुरुत्वात् ।

ननु धर्मिज्ञानस्याहेतुत्वे संशये कोट्युक्तटत्वं न स्यात् । तस्याव्याप्यवृत्तितया जातित्वायोगेन संशयधर्मिणि संशयकोटिसहचरितानेकधर्मोपलम्भरूपस्य वा संशयधर्मिवृत्तितया गृह्यमाणधर्मेण सह कोटिर्भूयस्सहचारोपलम्भरूपस्य वा कोट्यक्तत्वस्य वाच्यतया तादृशस्य धर्मिज्ञानाहेतुत्वेऽनुपपत्तेरित्यत आह  कोट्युक्तटत्वे त्विति ॥ दर्शमेव हेतुरित्यन्वयः  धर्म्यसंशयस्पृष्टत्वेन ॥ धर्म्यसंबद्धत्वेनेत्यर्थः । ननु साधारणधर्मदर्शनस्य संशयहेतुत्वाद्धर्मज्ञानार्थं धर्मिज्ञानमावश्यकमित्यत आह  ऊर्ध्वतादिसाधारणेति ॥

केचिदित्युक्तास्वारस्यबीजं तु व्यवसायरूपसंशयधर्मिणः सुखादिवत्ज्ञातैकसत्वेन कोटिस्मृतेः पूर्वं तस्य साक्षिणा ग्रहणे प्रतिबन्धाभावाद्धर्मिज्ञानमावश्यकमित्यस्मदुक्तदिशैव संशयोपपादनं साधु । न तु धर्मिज्ञानानभ्युपगमेनेति ज्ञेयम् । अत एव"ज्ञानमवश्यवेद्य"मिति वक्ष्यति । अन्यत्तु गुरुटीकायाम् ।

 

स्वसंदनं)                     प्रामाण्यवादः                पु  ८८.

 

इतरे तु अन्यत्र विपर्यये धर्मिज्ञानस्य हेतुत्वेपि वर्तमानव्यवसायधर्मिकेऽव्यवसायरूपेऽप्रमायां प्रमात्वविपर्यये

तस्याहेतुत्ववदन्यत्र संशये धर्मज्ञानस्य हुत्वेपि प्रामाण्यसंशये तस्याहेतुत्वं युक्तम् । न च प्रगारोप्यस्य प्रामाण्यस्यानुपस्थितेर्न तदरोप इति वाच्यम् । स्वतस्त्वपक्षे प्रमायां प्रामाण्यप्रतिमितेरिव भ्रमे प्रामाण्यापोपस्यापि तदनपेक्षत्वादित्याहुः ॥

 

अन्यत्रेति ॥ शुक्तिरूप्यादिविषयक इत्यर्थः । शुक्त्यादावेव रजतत्वाद्यारोपो नान्यत्रेत्येतन्नियामकतया रूप्यादिनिष्ठचाकचक्यादिमत्तया शुक्त्यादिज्ञानस्य तदारोपहेतुत्वमावश्यकमिति भावः  वर्तमानेत्यादि ॥ यथा हि घटादिप्रमायां तदनुव्यवसायेन व्यवसायोपनीततद्वत्वादिघटिकप्रामाण्यग्रहः, तथा शुक्तिरूप्याद्यप्रमायामपि तदनुव्यवसयेन तदुपनीततद्वत्वादिघटितप्रामाण्यं धर्मिज्ञानं विनैव तदुत्तरक्षण एव परिच्छिद्यत इत्युपेतं तद्वदित्यर्थः । प्रामाण्यानुपस्थितेः कथं तदारोप इत्याशङ्क्य निराह  न चेत्यादिना ॥ अत एव पूर्वपक्षे मणिकृताप्युक्तम्"अप्रमापि प्रमेत्येव गृह्यते"इत्यादीति भावः ।

अत्रारुचिबीजं तु ज्ञानग्रहस्य साक्षित्वात्प्रामाण्यसन्देहस्य मानसत्वात्ज्ञानग्रहेण च प्रामाण्यचग्रहेण

स्वतस्त्वभङ्गापत्तिनिरासाय प्रगुक्तरीतेरेवानुसर्तव्यत्वादिति ज्ञेयम् ।

धर्मिज्ञानहेतुत्वं तेन प्रामाण्यनिश्चयं चोपेत्य संशयोपपादनं प्रकारान्तरेण दर्शयति  अन्योत्विति ॥

 

स्वसंदनं)                प्रामाण्यवादः                    पु  ८९.

 

अन्ये तु संशयस्थलेप्युक्तरीत्या सामग्रीसत्वेनादावेवानुव्यवसायेन प्रामाण्यनिश्चयेप्यनुव्यवसायनाशान्तरं स्मृत्युपनीते व्यवसाये तत्संशयोयुक्त एव । नह्यनुव्यवसायकाल एव संशयो न तु तदव्यवहितोत्तरकाल इति योगादिसंपत्ति विना ज्ञातुं शक्यम् । परमतेपि न प्रामाण्यसंशयकाले व्यवसायोस्ति ।  धर्मिज्ञानानन्तरभाविकोटिस्मरणकाल एव व्यवसायनाशादित्याहुः ।

 

उक्तेति ॥ बाधोद्धारग्रन्थोक्तरीत्येत्यर्थः । तदा व्यवसायस्यापि धर्मिणो नाशान्न संशय इत्यत आह  स्मुतीति ॥ अनुव्यवसायाहित संस्कारजन्यस्मृत्युपनीत इत्यर्थः।ननूपनीतस्य कथं संशये विशेष्यतया भावमित्यत आह  परमतेपीति॥

अत्रापि कल्पे संशया १ दिस्थले ज्ञानग्रहस्य साक्षित्वात्प्रामाण्यग्रहस्य च मानसत्वान्मानसप्रामाण्यनिश्चयस्य नाशेपि ज्ञान २ ग्रहसाक्षणा ३ औत्तरीकानुस्मृतिसिद्धसौषुप्तिकात्मस्वरूपानुभवरूपस्य सदा सत्वेन तेन प्रामाण्याग्रहेण ज्ञानग्रहेण प्रामाण्यग्रहणमुपेत्य तन्नाशेन संशयोपपादनस्याशक्यतया तदुपपादनस्य प्रागुक्तदिशैव कार्यत्वात्किमनेन प्रकारेण । न च ज्ञानज्ञानं मानसम् । तथात्वे कदाचित्तज्ज्ञानत्वे संशयाद्यापातात् । उक्तं हि ज्ञानपादे ।

"इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः ।

साक्षिसिद्धा न कश्चिद्धि तत्र संशवान्क्वचित्"॥

इत्यरुचिबीजं ध्येयम् ।

सिद्धान्ताननुगुणस्याप्येतत्पक्षत्रयस्य तार्किकं प्रति दूषणतया

 

१. यस्थले  आ.   २. ग्राहक  आ.  ३. औत्पत्तिका  आ.

 

एतदप्युक्तं"अन्यथे"त्यादिना । प्रतिबन्धदशायां कार्याजननमात्रेण शक्तेः सहजत्वाभावे वह्न्भावे दाहादिशक्तेः सहजत्वमिति व्यवस्थित्यनुपपत्तेरित्यर्थः ॥

स्वतस्त्वे संशयोपपादनम् ॥ ५ ॥

 

वक्तुं शक्तमिति भावेनात्रोपन्यास इति भावः  एतदपीति ॥ उक्तरीत्या संशयस्थले स्वतस्त्वेपपादनमपीत्यर्थः ।

स्वतस्त्वे संशयोपपादनम् ॥ ५ ॥

 

न चाप्रयोजकाः स्वतस्त्वहेतवः । परतस्त्वे प्रामाण्यज्ञानस्यापि प्रामाण्यं संवादादिलिङ्गजन्यानुमितिरूपेणान्येन १ ज्ञानेन ग्राह्यम्, एवं तत्प्रामाण्यमप्यन्येनेति फलमुख्येकानवस्था ।

 

न चाप्रयोजका इति ॥ हेतवः सन्तु स्वतोग्राह्यत्वरूपसाध्यं मास्त्वित्यत्र विपक्षे बाधकस्य साध्यसाधनेऽनुकूलतर्कस्याभावादिति न चेत्यर्थः । पूर्वं २ क्वचिद्धेतावप्रयोजकत्वोद्धारस्य प्रातिस्विकरूपेण कृतत्वेपि सामान्यतोयमुद्धार इत्यदोषः । अत एव हेतव इत्युक्तिः ।"तत्प्रामाण्यस्याप्यन्येन

ग्रहणाङ्गीकरेऽनवस्थानात्"इति टीकां विवृण्वानो मण्याद्युक्तिदिशैवान्वस्थाद्वयमाह परतस्त्व इति ॥ ज्ञान ३ ग्राहकसाक्षिव्यतिरिक्तेन येन केनापि ग्राह्यत्व इत्यर्थः फलमुखीति ॥ फलं प्रामाण्यज्ञानं मुखमुपस्थितिहेतुर्यस्याः सा फलमुखीत्यर्थः ।

 

१. ज्ञानेनेति न  ख.   २. क्वचित्क्कचित् मु.    ३. ग्रहण  आ.

 

प्रामाण्यनिश्चयस्य प्रवर्तकत्वम्          प्रामाण्यवादः           पु  ९१.

 

एवं प्रामाण्यस्यानुमेयत्वे लिङ्गव्याप्त्यादिज्ञानप्रामाण्यानिश्चयेऽसिद्ध्यादिप्रसङ्गेन तन्निश्चयार्थं लिङ्गा १ द्यन्तरं, तज्ज्ञानप्रामाण्यनिश्चयश्च स्वीकार्यः, एवं तत्र तत्रापीति कारणमुख्यन्यपीत्यनवस्थाद्वयापपत्तेः ॥

न च यत्र दोषशङ्कादिरूपाकाङ्क्षा तत्रैव संवादापेक्षेति नानवस्थेति वाच्यम् ।

तथात्वे प्रतिबन्धनिरासार्थमेव संवादापेक्षा न तु प्रामाण्यग्रहार्थमिति मन्मतप्रवेशापत्तेः ।

 

कारणान्तरानव २ स्थोपलक्षणतयैकत्रानस्थानिर्धारणाय वा पराभ्युपगमानुरोधेन वानुमेयत्व इत्यापादकनिर्थारणोक्तिः । पूर्वं तु सामान्यमुपेत्य परतस्त्व इत्याद्येवोक्तम् । न तु विशिष्यते ध्येयम्  कारणमुखीति ॥ पूर्ववद्याख्येयम् । ज्ञानानां प्रामाण्यमनुमितिग्राह्यमनुमितिप्रामाण्यं तु स्वत इति प्रचीनमते फलमुखानवस्थाभावात्कारणामुख्या अप्युक्तिरित्येके ।

अन्येतु तन्मते क्वापि स्वप्रकाशत्वाभावात्तत्राप्यनवस्थास्त्येव । अत एव परतस्त्व इति सामान्योक्तिः । न त्वनुमेयत्व इति विशिष्येत्याहुः।

यत्र तु प्रामाण्यज्ञानेऽप्रामाण्यशङ्कया प्रामाण्यसंशयस्तत्र प्रामाण्यज्ञानप्रामाण्यनिश्चयादेव प्रामाण्यनिश्चय इत्यादिमण्युक्तमाशङ्कते न च यत्रेति ॥ दोषेति ॥ दुष्टकरणजन्यत्वादिशङ्कारूपेत्यर्थः ।"न चाकाङ्क्षायामेव प्रमाणान्तरापेक्षत्वादनवस्थाभाव"इति तत्वनिर्णयानुकरणादाकाङ्क्षेत्युक्तिः  उक्तंहीति ॥

 

१. ङ्गन्त  छ.   २. स्थाद्यु  आ.

 

प्रनिप्रकत्वं )                 प्रामाण्यवादः               पु  ९२.

 

उक्तं हि भगवत्पादैः"आकाङ्क्षाया एव बुद्धिदोषात्मकत्वा"दिति ॥

न चावश्यवेद्यत्वाभावान्नानवस्था । ज्ञानमवश्यवेद्यमिति वक्ष्यमाणत्वात् । कृष्यादौ सन्देहात्प्रवृत्तावपि बहुवित्तव्यवसायसाध्ये पारत्रिकफलगे १ यागादौ निष्कम्पप्रवृत्यर्थं प्रामाण्यस्याप्यवश्यवेद्यत्वात् ॥

ननु तत्राप्यर्थनिश्चय एव हेतुः । समानविषयत्वात् । आवश्यकत्वाच्च । न तु प्रामाण्यनिश्चय इति चेन्न ।

 

तत्वनिर्णये । आकाङ्क्षेति बुद्धिदोषैत्यप्रामाण्यशङ्केति चानर्थान्तरम् ॥

तत्वनिर्णयटीकोक्तरीत्या प्रकारान्तरेणानवस्थाभावमाशङ्क्य निराह  न चेति॥ ज्ञानस्येति शेषः  अवश्यवेद्यमिति ॥ एतेन चरमप्रामाण्यज्ञानस्य ज्ञानाभावेन कोचिस्मरणाभावेन विषयान्तरसञ्चारेण वा प्रामाण्यसंशयानिवश्यंभावान्नानवस्थेति

मण्याद्युक्तं निरस्तं ध्येयम् । नन्वस्तु ज्ञानस्यावश्यवेद्यतया ज्ञातत्वेन तत्प्रामाण्यानिश्चये तत्संशयोऽवर्जनीयः । तथापि कृष्यादाविव प्रवृत्तिरस्त्वित्यत आह  कृष्यादाविति ॥

"यत्राप्रामाण्यसङ्का नास्ति करकलादिज्ञाने तत्र व्यवसाय एवार्थनिश्चयः तत एव निष्कम्पप्रवृत्तिः"इत्यादिमण्याद्युक्तमाशङ्कते  ननु तत्रापीति ॥ पारलौकिकयागादावपीत्यर्थः  आवश्यकत्वाच्चेति ॥ प्रामाण्यनिश्चयप्रवर्तकत्वादिनाप्यर्थनिश्चयस्याभ्युपेयत्वादिति भावः ॥

 

१. के  ख.

 

प्रनिप्रकत्वं)               प्रामाण्यवादः             पु  ९३.

 

पीतः शङ्खः इत्यादा १ वाकारान्तरार्थो १ ल्लेखाभावेन शङ्खः पीतत्वेनैव भातीत्यनुभवेन चैकाकारनियते संशयान्यज्ञानरूपे

निश्चये सत्यपि पीतार्थिनोऽप्रवृत्तिदर्शनात् ।

न चाप्रामाण्यज्ञान २ रूपसहकारिविरहादप्रवृत्तिरिति वाच्यम् । एवं तर्ह्यप्रामाण्यस्याप्यनुमेयत्वेन तदननुमितिदशायां पीतार्थिनः पृवृत्तिः स्यात् ।

किञ्चाप्रामाण्यज्ञानात्प्रवृत्तौ प्रामाण्यज्ञानान्निवृत्तिः स्यात् ।

 

किमिर्थनिश्चय एव प्रवर्तकः उत प्रामाण्यविरोधिज्ञानविरहसहकारिसहितः, अथ प्रामाण्यविरोधिज्ञानविरहो न सहकारी किं तु प्रवर्तकतावच्छेदकः, यद्वार्१ऽतनिश्चय एव प्रवर्तकः ३ अप्रामाण्यादिज्ञानं प्रतिबन्धकं प्रतिबन्धकान्तरसम्पादकं वा, इति विकल्पान् हृदि कृत्वाद्योव्यभिचारित्याह  पीत इति ॥ ४ शुक्लोवेत्याकारान्तरेत्यर्थः व्द्व्याकारार्थेति । ५ अकारान्तरेति क्वचित्पाठः ॥

द्वीतीयं शङ्कते  न चाप्रामाण्यविरोधिनो निश्चयसंशयसाधारणज्ञानाभावरूपसहकारीत्यर्थः । इष्टापत्तिमाशङ्क्याह   किञ्चेति ॥ नन्वाप्रामाण्यज्ञानस्य प्रतिबन्धकत्वं सर्वसिद्धमित्यस्तु तद्विरहत्तत्र प्रवृत्तिः । प्रामाण्यज्ञानप्रवर्तकत्वमद्यापि न सिद्धमिति कथं तदभावान्नवृत्तिरापाद्यत इत्यस्तत्साधयति  किंञ्चेति॥

 

१. दौ व्द्याकारार्थो  कुं  अनेकाकारार्थो ख.   २. रूपपदं न  ख.   ३. एतावन्नास्ति  कुं.   ४. वाकरोति । शुक्लेवेति वाशब्दरूपवाकारान्तरेत्यर्थः कुं. आ.  ५. व्द्याकारार्थेति क्वचित्पाठः  आ.

 

प्रनिप्रकत्वं)                     प्रामाण्यवादः               पु  ९५.

 

किञ्च तदभववति तत्प्रकारकत्वरूपाप्रामाण्यशङ्काद्यभावोऽनेकाभावघटितत्वाद्गुरुः । प्रामाण्यनिश्चयस्तु न तथेति लधुः । एवमप्रामाण्यशङ्काद्यभाववत्तद्वतित्प्रकारकज्ञानत्वरूपप्रामाण्यात्यन्ताभावशङ्काद्यभावः एवं तद्व्याप्यदोषजन्यत्वादिशङ्काद्यभावोपि हेतुरित्यभावा अनेके । प्रामाण्यनिश्चयत्वेकः । अभावानां प्रामाण्यविश्चयविरोध्यभावत्वेनैकत्वे त्वावश्यकत्वाल्लाघवाच्च प्रामाण्यनिश्चय एव सहकारी ।

न चाप्रामाण्याज्ञानमप्यावश्यकम् । प्रामाण्यनिश्चयस्याप्यप्रमात्वेन १ ज्ञानस्याप्रवर्तकत्वादिति वाच्यम् । मन्मते तस्यापि निश्चितप्रामाण्यकस्यैव प्रवर्तकत्वात् ।

न चाप्रामाण्यशङ्काभावः कॢप्तः प्रामाण्यनिश्चयस्तु कल्प्य इति वाच्यम् । गृहीतप्रामाण्यज्ञानसमानविषयकज्ञानान्तरे निष्कम्पप्रवृत्त जनक २ ज्ञानत्वमात्रेण सामग्रीसत्वेन तत्कॢप्तेरुक्तत्वात् ।

 

शङ्कादीत्यादिपदेन निश्चयग्रहः  विरोध्यभावत्वेनेति ॥ विरोधिनिश्चय ३ विषयाभावत्वेनेत्यर्थः ॥

तौल्यमाशङ्क्य निराह  निचाप्रामाण्याज्ञानमपीति ॥ मन्मत इति ॥ अनवस्था तु निरसिष्यत इति भावः  कॢप्त इति ॥ सर्वत्र सत्वादिति भावः ज्ञानान्तर इति ॥ कॢप्तेरुक्तत्वादित्यन्वयः ।

 

१. ज्ञाने तस्या  मु.   २. ज्ञानमात्रे च  मु.    ३. याभावत्वेनेत्यर्थः  आ.

 

प्रनिप्रकत्वं)                प्रामाण्यवादः                 पु  ९५.

 

फलमुखगौरवस्य चादोषत्वात् । अन्याथानुमितौ व्याप्तिज्ञानं न हेतुः । किं तु सहचारदर्शनवतो व्यभियाराज्ञानम् । एवं पक्षे लिङ्गज्ञानं न हेतुः । किं तु पक्षज्ञानवतः पक्षे लिङ्गसंसर्ग्राग्रहः । एवं प्रवृत्तौ विशिष्टज्ञानं न हेतुः । किं तु भेदाग्रहः । एवमर्थेन्द्रियादिसबन्धेर्ऽथाभावाज्ञानं प्रवर्तकं न त्वर्थनिश्चयः । इत्याद्यतिप्रसङ्गः ।

१. एतेन उक्तरूपोर्थनिश्चय एव प्रवृत्तिहेतुः । अप्रमात्वेनाज्ञातत्वादीकं दण्डगतदार्ढ्यवत्कारणतावच्छेदकम् । तदभावात्पीतः शङ्ख २ इति ज्ञानान्न प्रवृत्तिरिति निरस्तम् । लाघवेन प्रसात्वेन ज्ञानतत्वस्यैव तदवच्छेदकत्वौचित्यात् ।

बाधोद्धारग्रन्थ इत्यर्थः सामग्रीसत्वेनेति ॥ प्रामाण्यनिश्चयसामग्रीसत्वेनेत्यर्थः। कल्प्यत्वमुपेत्याह  फलमुखेति ॥ कारणताकल्पनावसरेऽवच्छेदकगौरवेरिव प्रामाण्यनिश्चयकल्पनस्यानुपस्थितत्वात्पश्चात्तदुपस्थितावुपजीव्यविरोधेन गृहीतकारणत्वाबाधकत्वादिति भावः । विपक्षे बाधकं चाह  अन्यथेति ॥ एवं कॢप्तत्वे गौरवस्यादौषत्वे च प्रामाण्यनिश्चयस्याप्रवर्तकत्वमुपेत्याप्रामाण्याज्ञानसहितार्थनिश्चयस्यैव प्रवर्तकत्व इत्यर्थः ॥

तृतीयकल्पं निराह  एतेनेति ॥ उक्तेति ॥ अप्रामाण्यज्ञानशून्यार्थनिश्चय एवेत्यर्थः । एतेन ३ त्युक्तं व्यनक्ति  लाघवेनेत्यादिना ॥

 

१.एतेवैवे  अ.   २. शङ्खपदं नास्ति  कुं.   ३. नैवे  अ.

 

प्रानिप्रकत्वं )               प्रामाण्यवादः                पु  ९६.

 

अन्यथा अनुमित्यादौ सहचारादिज्ञानमेव हेतुः व्यभिचारितत्वादिनाज्ञातत्वं कारणतावच्छेदकमिति स्यात् ।

एतेवैवार्थनिश्चय एव प्रवर्तकः । पीतः शङ्ख इत्यादौ त्वप्रामाण्यज्ञानं प्रवृत्त प्रतिबन्धकमिति निरस्तम् । निर्विशेषेणैव प्रतिबन्धकस्य मण्यादेस्त्वन्मते स्वाभावरूपकारणविघटनरूपतया प्रतिबन्धकत्वेपि मन्मते शक्तिविघटकत्वेन प्रतिबन्धकत्वेपि यथा जातिविशेषरहितस्य व्यभिचारादिज्ञानस्य मदद्वयेप्यनुमित्यादिजनकीभूतव्याप्त्यादिज्ञानविघटकत्वेनैव तत्प्रवबन्धकता तथैवाप्रामाण्यज्ञानस्यापि प्रवृत्तिहेतुभूतज्ञानविघटकत्वेनैव प्रतिबन्धकतेति वक्तव्ये अर्थनिश्चयस्य पीतः शङ्ख इत्यादौ सत्वेन तद्विघटनासंभवात्तेन वि १ घटनीयस्य प्रामाण्य २ ज्ञानस्य हेतुत्वसिद्धेः ।

 

चतुर्थकल्पं निराह  एतेनैवेति ॥ अप्रामाण्यज्ञानं प्रामाण्यविरोधिज्ञानमित्यर्थः । एतेने ३ तुक्तं दुर्गमत्वाद्युद्व्यनक्त  निर्विषयस्येत्यादिना ॥ ५ जातिविशेषहीनस्य साक्षादविरोधिनो ज्ञानस्य प्रतिबन्धकत्वं तज्जनकज्ञानविघटकत्वेनैवेति व्याप्तेर्यथेत्यादिना विवक्षित ६ त्वान्मण्यादौ निर्विषये व्यभिचा  ७ रो नेति भावेन निर्विषयस्येत्याद्युक्तिः ॥

 

१. त्तद्धि मु.  २. ण्यादि  छ ख.  ३. एतेनैवेत्युक्तं मु.   ४. निर्विशेषस्येत्यादिना मु.     ५. वक्ष्यमाणव्याप्तौ  आ अ.  ७. रनिरासाय  आ अ.

 

प्रनिप्रकत्वं)                    प्रामाण्यवादः               पु  ९७.

 

ज्ञानं हि ज्ञानान्तरस्य विषयद्वारैव विरोधीति स्वविषयविरुद्धविषयकमेव ज्ञानं विघटयति । अन्यथा व्यभिचारादिज्ञानमपि

स्वाभावरूपहेतुविघटनतया अनुमित्यादिप्रतिबन्धकं वा सहचीरादिज्ञानगतशक्तिविघटकत्वेन प्रतबन्धकं वा स्यात् । न तु व्याप्त्यादिज्ञानविघटकत्वम् । बाधादिस्तु ग्राह्याभावविषयकत्वेन साक्षाद्विरोधित्वात्स्वत एवानुमितिप्रतिबन्धकः । ज्ञाननिष्ठप्रामाण्यविषयकज्ञानं तु घठविषकप्रवृत्तेर्न साक्षाद्विरोधि ।

किञ्चोक्तप्रकारेणाप्रामाण्यज्ञानवत्प्रामाण्यात्यन्ताभावादिज्ञानानामपि प्रतिबन्धकत्वादभावकूटस्य कारणता कल्प्येत्यतिगौरवम् ।

ननु ज्ञानमपि मण्यादिवद्बाधप्रतिपक्षवच्च कारणीभूतस्वाभावविघटनरूपतयैवास्तु प्रतिबन्धकं किं कारणीभूतज्ञानविघटकतयेत्य आह  ज्ञानं हीति ॥ स्वमतावष्टम्भेनाह  शक्तविघटकत्वेनेति ॥ बाध १ वैषम्यमाह  बाधादिस्त्विति ॥ अस्तु ज्ञानं हीत्यादिनोक्तमप्रामाण्यज्ञानं तु बाधादिवत्स्यादीत्यत आह  ज्ञाननिष्ठेति ॥ अप्रामाण्येति ॥ प्रामाण्यविरोधीत्यर्थः । किं तु प्रामाण्यनिश्चयस्यैवेति २ तद्घटकतयैव प्रतिबन्धकमिति प्रामाण्यज्ञानस्य हेतुत्वसिद्धिः । तद्वत्वाभावस्य प्रवृत्तिविषयाभवत्वेपि न तन्मात्रप्रामाण्यमिति भावः ॥

जनकज्ञानविघटकत्वमनुपेत्य बाधवत्प्रवृत्तो स्वकारणीभूताभावविघटनरूपत्वेनैव प्रतिबन्धकत्वे दोषान्तरमाह ॥ किञ्चेति ॥

 

१. धादि  आ.    २. शेषः तथा च  अ.

 

प्रानिप्रकत्वं )             प्रामाण्यवादः                पु  ९९.

 

ततो वरमेकः प्रामाण्यनिश्चयो हेतुप्रामाण्यादिज्ञानं तु तद्विघटकमिति । मण्यादौ तु त्वन्मते तद्विघटनीयस्यैकस्याभावादभावकूटस्य हेतुतास्तु।ेतेनैव उपाधिज्ञानस्याधेयव्यभीचारज्ञानरूपानुमितिप्रतिबन्धकान्तरसम्पादनेनानुमितिप्रतिबन्धकत्वमिवापामाण्यसन्देहस्यापि मानसार्थसंदेहरूपप्रवृत्तिप्रतिबन्धकान्तरसम्पानेन

प्रवृत्तिप्रतिबन्धकत्वम् । उक्तं हि "अप्रामाण्यसंशयेनार्थनिश्चयं परिभूयार्थसंशय"इतीति निरस्तम् ।

 

उक्तेति "एवमप्रामाण्यशङ्काद्याभाववदि"त्यादिनोक्तप्रकारेणेत्यर्थः । अतिगौरवमिति  अप्रामाण्यज्ञानाभावः कारणमित्येतदेव प्रामाण्यज्ञानाद्गुरु । तत्राप्यभावकूटः कारणमित्युक्तावतिगौरवमित्यर्थः । शक्तेरनङ्गीकारादन्यचस्य प्रतिबध्यस्यभावप्रामाण्यज्ञानाभावादिषु चानुगतैकहेतुतावच्छेदकस्यासंभावादभावकूटस्यैव हेतुतायास्त्वया वाच्यत्वादिति भावः ॥

नन्वेवं मण्याद्यभावस्थले मणिमन्त्राद्यभावकूटस्य कारणता कॢप्तप्तेघनीयं प्रामाण्यज्ञानमिति किमर्थमतिगौरवाश्रयणमिति भावः ॥

पक्षे पक्षं प्रत्याचष्टे  एतेवैवेति ॥ उपाधेर्व्यभिचारोन्नायकत्वपक्षमुपेत्येत्योक्तम्   आधेयव्यभिचारज्ञानेति ॥ सन्देहनिश्चयसाधारणज्ञानमात्रस्य प्रतिबन्धकत्वाज्ज्ञानपदप्रयोगः उक्तं हीति ॥ मणावित्यर्थः ।

 

प्रानिप्रकत्वं)                 प्रामाण्यवादः                 पु  ९९.

 

मानसार्थसन्देहस्यापि पीतः शङ्ख इत्यादावुक्तरीत्यार्थनिश्चय १ सद्भावेन तद्विघटकत्वायोगेन सदर्थत्वरूपप्रामाण्यनिश्चयविघटनेनैव प्रतिबन्धकत्वस्यैवोचितत्वात् । तस्मागसंसर्गग्रहव्यभिचारज्ञानादेः प्रवृत्यनुमित्यादिप्रतिबन्धकत्वान्यथानुपपत्त्यैव तद्विघटनीयस्य २ संसर्गाहव्याप्तिज्ञानादेः प्रवृत्यनुमित्यादिहेतुत्ववदप्रामाण्यज्ञानस्य प्रवृत्तिप्रतिबन्धककत्वा ३ न्यथानुपपत्यैव तद्विघटनीयस्य प्रामाण्यज्ञानस्य

तद्धेतुत्वसिद्धिः ॥

यद्यपि परप्रक्रियया न निश्चितप्रामाण्य ४ ज्ञानं प्रवर्तकम् । प्रामाण्यलिङ्गज्ञानादिनार्थज्ञानस्य नाशात् ।

 

एतेनैवेत्यक्तं व्यनक्ति  मानसार्थसन्देहस्यापीति ॥ तद्विघटकत्वायोगेनेत्यादिनान्वयः । ज्ञानं हीत्यादिनोक्तरीत्या प्रमाण्यनिश्चयविघटनेवैव प्रतिबन्धकत्वस्योचितत्वादित्यर्थः । अर्थसन्देहस्य प्रामाण्यनिश्चयविरोधित्वघटनाय सदर्थत्वरूपेत्युक्तं तस्मादिति ॥ अन्यस्य विघटनीयस्याभावज्ज्ञानस्य ज्ञानान्तरविघटकत्वाच्चेत्यर्थः । अनुमित्यादित्यादिपदेन लिङ्गपरामर्शादिग्रहः । अप्रामाण्यज्ञानस्येत्युपलक्षणम् । अर्थसन्देहस्य चेत्यपि ध्येयम्  तद्धेतुत्वेति ॥ प्रवृत्तिहेतुत्वेत्यर्थः ॥

आशुविनाशिनो ज्ञानस्य प्रवृत्तिकालेऽभावात्कथं प्रमात्वेन ज्ञातस्य प्रवर्तकत्वम् । उक्तं च मणौ"ज्ञानं गृहीतप्रामाण्यं न प्रवर्तकम् । प्रामाण्यानुमितेः पूर्वमेव तस्य नाशात् । किं तु तज्ज्ञानसमानविषयकमप्रामाण्यशङ्कशून्यज्ञानान्तरमेवेत्यादी"त्येतच्चोद्यमनूद्य समाधिमाह  यद्यपीति ॥

 

१. स्य  ख.  २. स्यैव  छ.   ३. नुपपत्यैव  ग.  ४. क  कुं. । मणपुस्तकेषु त्यादीतिनास्ति.

 

प्रानिप्रकत्वं)                    प्रामाण्यवादः               पु  १००.

 

किं तु तत्समानविषयकमप्रामाण्यशङ्कारहितमित्तरं ज्ञानान्तरमेव । तथापि मन्मते साक्षिरूपस्य सुखादिज्ञानस्य स्वप्रकाशत्वेन स्वस्यैव स्वप्रामाण्यनिश्चयरूपत्वात् । घटादिज्ञानस्य तु परग्रह्यत्वेपि तद्गाहकेण नित्येन साक्षिणा प्रमाणत्वेवैव ग्रहणात्तस्य च  स्वप्रकाशत्वेनानवस्थाभावान्निश्चितप्रामाण्यमेव ज्ञानं प्रवर्तकम् । किञ्चाद्ये ज्ञाने प्रामाण्यनिश्चयेन कथं द्वितीये तच्छङ्काभावः ॥

 

स्वप्रकाशत्वेनेति ॥

"यदि साक्षी स्वयं भातो न मानं केन गम्यते ।

अक्षजैदेश्च मानत्वमनवस्थान्यथा भवेत्"॥

इति वैशिषिकनयानुव्याख्याने तथा

"नयमेन सुखद्येषु प्रामाण्यं साक्षगोचरम् ।

स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात्"॥

इति ज्ञानपादीयानुव्याख्याने चोक्तेरिति भावः  घटादिज्ञानस्य त्विति ॥

मनोवृत्तिरूपज्ञानस्येत्यर्थः ॥

"इच्छा ज्ञानं सुखं दुःखं भया १ भयकृपादयः ।

साक्षिसिद्धा"

इत्युक्तेरिति भावः नित्येनेति ॥ औत्तरिकानुस्मृतिसिद्धात्मस्वरूपभूतसौषुप्तिकानुभवरूपस्य तस्य नित्यत्वादिति भावः  अनवस्थेति ॥ पूर्वोक्तद्विविधानवस्थाभावादित्यर्थः । तथा च २ मणावुक्तो दोषः परेषामेव । नास्माकम् ।"अन्यथा भट्टमते प्रामाण्यस्यानुमितिग्रह्यत्वे अनवस्था स्यात् । गुरुमते प्रामाण्यस्य स्वग्राह्यत्वं न स्वग्राह्यम्। स्वरूपप्रामाण्यबहिर्भूतत्वात । किन्तु परग्रह्यत्वेऽनवस्थाना"दित्यपि मणिकृदुक्तो दोषो नास्मत्पक्षे । स्वग्राह्यत्वस्यापि साक्षिवेद्यत्वादिति भावः ॥

 

१. तथा  कुं.         २. मणिकृदुक्तदोषाः  अ.

 

प्रानप्रकत्वं)                  प्रामाण्यवादः           पु  १०१.

 

ननु यदीदं रजतं न स्या १ त्तदा रजतत्वप्रकारकप्रमाविषयो नस्यादिति तर्कप्रभावाद्वितीये शङ्काभावः । तर्केणार्थ २

सत्वशङ्कानिवर्तनेन तद्घटिताप्रामाण्यशङ्कानिवर्तनादिति चेन्न । कॢप्तसामग्रीकस्य लधोश्चानुव्यवसायरूपप्रामाण्यनिश्चयस्य त्यागेनान्यस्य विपरीतस्योक्तरूपतर्कानुसन्धाननियमस्य कल्पनेऽनुभवविरोधात् ॥

 

ननु समानविषयकज्ञानान्तर इवाप्रामाण्यशङ्कानिवृत्तावेव प्रामाण्यज्ञप्तेरुपक्षयान्न

प्रवृत्तिहेतुता कल्प्या ।"अप्रामाण्यशङ्काप्रतिबन्धद्वारा निष्कम्पप्रवृत्तावुपयुज्यते प्रामाण्यज्ञानं"इति मण्युक्तेरित्यतो द्वितीयज्ञानेपि प्रामाण्यनिश्चय एव प्रवर्तक इति भावेनाह  किञ्चेति द्वितीय इति ॥ गृहीतप्रामाण्यज्ञानसमानविषयके ज्ञानान्तर इत्यर्थः  कॢप्तेति ॥"न च दृष्टान्तः साध्यविकलः उत्तरस्य ज्ञानस्य"इत्यादिना स्वतस्त्वानुमानावसरोक्तरीत्या कॢप्तसामग्रीकस्येत्यर्थः । अन्यत्र कॢप्तत्वाच्च द्वितीयज्ञानादावपि प्रामाण्यनिश्चय एव प्रवर्तक इति भावेनाह ॥

 

१. तर्हि  मुर्.   २. था  मु.

 

प्रानिप्रकत्वं)                प्रामाण्यवादः               पु  १०२.

 

किञ्चाप्रामाण्यशङ्कानन्तरं  प्रवृत्तौ प्रामाण्यनिश्चयो हेतुरिति तावदविवादम् । तत्र १ निश्शङ्कप्रवृत्तित्वमेव कार्यतावच्छेदकं लाघवात् । न तु शङ्कानन्तरनिश्शङ्काप्रवृत्तित्वं गौरवात् ।तत्र प्रामाण्यनिश्चयोऽप्रामाण्यशङ्कानिरासोपक्षीण इति गौरवादिना निरस्तम् । अन्यथा व्याप्त्यादिनिश्चयोपि  व्यभिचारादिशङ्कानिरासोपक्षीणः स्यात् ।

किञ्च प्रामाण्यनिश्चयस्याप्रामाण्यशङ्कानिवर्तकत्वेनोपक्षये त्वत्पक्षे प्रामाण्यस्यानुमेयनावश्यकेन प्रामाण्यव्याप्यतया लिङ्गज्ञानेनैवाप्रामाण्यशङ्कानिवृत्तिसम्भवात्प्रामाण्यज्ञानस्य प्रवृत्तावनुपयोगात्तद्ग्रहणचिन्ता व्यर्था ।

 

किञ्चाप्रामाण्येति ॥ अविवादमिति ॥"परतः २ पक्षे प्रामाण्यग्रहो न क्वचित्प्रवर्तकः"इति मण्युक्तेरस्ति विवादः । तथापि"यत्रचानभ्यासदशायामप्रामाण्यशङ्कार्थनिश्चयं परिभूययार्थसंशयस्तत्र प्रामाण्यनिश्चयाधीनज्ञानानर्थं निश्चित्य निष्कम्पं प्रवर्तते"इत्युक्त्या तत्र स्थले प्रामाण्यनिश्चयस्य नियतपूर्ववृत्तित्वाल्लघुत्वाद्धेतुत्वमवश्यं वाच्यमिति भावेनैवमुक्तिः । अन्यत्रोपक्षयात्कथं हेतुतेत्यत आह तत्र प्रामाण्येति ॥ गौरवादिनेति ॥ गौरवातिगौरवा ३ दिना पूर्वमेव निरस्तमित्यर्थः । अतिप्रसङ्गं किञ्चद्व्यनक्ति  अन्यथेति ॥

यदपि मणौ"नन्वेवं बहुवित्तव्ययायाससाध्ये"इत्यादिना प्रामाण्यज्ञानस्यानुपयोगमाशङ्क्याप्रामाण्यशङ्कानिवर्तकत्वेनोपयोगकथनं तदप्ययुक्तमित्याह  किञ्च प्रामाण्येति ।

 

१. त  मु.  २. स्त्व  मु.   ३. तिप्रसङ्ग  कुं. आ अ मु.

 

प्रानिप्रकत्वं)              प्रामाण्यवादः               पु  १०३.

 

यद्यपि व्यवसायः शङ्कानिवर्तकवरीक्षाकाले नास्ति । तथापि स्मृत्युपनीतस्य व्यवसायस्य प्रामाण्यनिश्चय एव प्रवर्तकः ।

यद्वा त्वन्मते गृहीतप्रामाण्येन ज्ञानेन समानशीलत्वादप्रामाण्यशङ्कारहितं ज्ञानान्तरमिवि मन्मते निरस्तप्रतिबन्धेन साक्षणा गृहीतप्रामाण्यं ज्ञानान्तरमेव प्रवर्तकम् । एतदप्युक्तम्"अन्यथे"त्यादिना । प्रामाण्यनिश्चयस्याप्रवर्तकत्वे व्याप्त्यादिनिश्चयोऽनुमित्यादिहेतुरितिव्यवस्थायोगादित्यर्थः ॥

प्रामाण्यनिश्चयस्य प्रवर्तकत्वम् ॥ ६ ॥

अप्रामाण्यशङ्कानिवृत्तिस्थले व्यवसायस्य नाशेन प्रवृत्तिकालेऽभावात्कथं प्रमात्वेन ज्ञानं प्रवृत्तिहेतुरित्याशङ्क्य द्वेधा समाधिमाह  यद्यपीत्यादिना ॥ स्मृतीति ॥ पररीत्येदम् । यद्वा सिद्धान्ते साक्षिरूपनित्यज्ञानविषयस्यापि

स्मृत्युपनीतत्वप्रकारो जिज्ञासानयभाष्यटीकाभावदीपेऽस्माभरुक्तो ध्येयः  एतपीति ॥ प्रामाण्यनिश्चयस्याप्रवर्तकत्वेऽतिप्रसङ्ग इत्येतदपीत्यर्थः ॥

प्रामाण्यनिश्चयस्य प्रवर्तकत्वम् ॥ ६ ॥

 

एवं १ प्रामाण्यनिश्चयस्य प्रवर्तकत्वसाधनेन तन्निश्चयस्य परते २ ज्ञायमानत्वेऽनवस्थाद्वयमुक्त्वा अप्रामाण्यशङ्काशून्यस्यार्थनिश्चस्य प्रवर्तकत्वेपि तदर्थमेव प्रामाण्यनिश्चयस्यावश्यकत्वादनवस्थाद्वयं दुर्वारमेव परतस्त्वपक्ष इत्याह ॥ किञ्चेति ॥

 

१. एवमिति न  अ.    २. जा  मु. आ.

 

परतस्त्वे अनवस्थोक्तिः               प्रामाण्यवादः           पु  १०४.

 

किञ्चाप्रामाण्यशङ्काभावस्य प्रवर्तकत्वेपि तदर्थमेव प्रामाण्यनिश्यो वाच्यः । ननु धर्म्यज्ञानादिनापि शङ्काभावो युक्तः । न हि ज्ञानं ज्ञातं सदेव प्रवर्तकम् । सत्यप्यर्थज्ञाने तदज्ञानेनाप्रवृत्यदर्शनादिति चेन्न । न तावद्धर्म्यज्ञानं युक्तम् ।

 

१. यद्वा प्रामाण्यनिश्चयस्य प्रवर्तकत्वपक्षे तस्यावश्यवेद्यत्वेप्यप्रामाण्यशङ्काशून्यार्थनिश्चयस्य प्रवर्तकत्वपक्षे तदननश्यकत्वान्नानवस्थेत्यत आह १ । किञ्चेति ॥ प्रवर्तकत्वेपीति  प्रवर्तकार्थनिश्चयसहकारित्वेपीत्यर्थः । यद्यपि सिद्धान्ते परीक्षायाप्रामाण्यशङ्कानिवृत्तावेव साक्षिणा प्रामाण्यनिश्चयेन प्रामाण्यनिश्चस्याप्रामाण्यशङ्काभावार्थत्वं नास्ति ।"सा च बुद्धिदोषमात्रं निरस्यति । तस्मिन्निरस्ते साक्षी स्वमहिम्नैव प्रामाण्यं गोचरयति"इति तत्वनिर्णयटीकाद्युक्तेः । तथापि"यत्र तु प्रामाण्यज्ञानेऽप्रामाण्यशङ्कया प्रामाण्यसंशयः तत्र प्रामाण्यज्ञाने प्रामाण्यनिश्चयादेव प्रामाण्यनिश्चयः"इतिमण्युक्तेस्तं
प्रत्येतदापादनमित्यदोषः ।

ननु तच्छङ्काभावः प्रामाण्यनिश्चयरूपप्रतिबन्धादिव स्वहेत्वभावादपि संभवतीति भावेन"प्रामाण्यनिश्चयानवश्यंभावात्"इति मण्याद्युक्तशङ्कते ॥ नन्विति ॥ तथात्वे प्रवृत्तिर्न स्यादित्यत आह ॥ नहीति "ज्ञानं ह्यबुभुत्सितग्राह्यतया तीव्रसंवेदनं"इत्यादिप्रथमपादीयसुधावाक्यं विवृण्वन्नाह ॥  न तावदिति  कोट्यस्मरणं चायुक्तमिति कल्पापेक्षया तावच्छब्दः ॥ अज्ञानं हि तदर्थयोग्यत्वाभावेन वा सन्निकर्षादिसामग्र्यभावेन वा सहकारिविहप्रयुक्तसामग्र्यभावे

 

१. अयङ्ग्रन्थः कुं.   पुस्तके कुण्डलितः.     २. समस्तंपदम्  अ. कुं.

 

पअनक्तिः)                  प्रामाण्यवादः               पु  १०५.

 

योग्यस्य धर्मिणो ज्ञानस्य मनस्संयुक्तात्मसमवायरूपसम्प्रयोगवत्वेनैवोत्पत्या ज्ञानत्वेन १ ज्ञानज्ञानसामग्र्याः सत्वात् ।

न च ज्ञानज्ञाने बुभुत्सा हेतुः सा च सार्त्रिकीति वाच्यम् । ज्ञानस्य सुखादिवद्योग्यात्मविशेषगुणत्वेनाबुभुत्सितग्राह्यत्वात् । बुभुत्साया ज्ञानरूपधर्मिज्ञानसाध्यत्वेनानवस्थानाच्च ।

 

न वा प्रतिबन्धेन २ वेति चतुर्धा २ । आद्यद्वयं न प्रकृत इत्याह । योग्यस्येत्यादिना  मनस्संयुक्तेत्याद्युक्तिः पररीत्या । सिद्धान्ते त्वात्मसंयुक्तमस्समवायेत्यर्थः । समवायस्तादात्म्यं ज्ञेयम् । सु ४ स्वाद्यनुभवरूपसाक्ष्याशेयेन वायं ग्रन्थः सिद्धान्ते योज्यः । सत्यपि धर्मिज्ञाने साधारणधर्मादर्शनादसन्देह इति शङ्कापनोदायोक्तं ज्ञानत्वेन ज्ञानज्ञाननेति ॥

न च ज्ञानत्वनिर्विकल्पकविलम्बात्तदभावः । निर्विकल्पस्यप्यनुत्पत्तौ बीजाभावान्निरसिष्यमाणत्वाद्वेति भावः । एतेन"सुखादिवत्सत्यां सामग्र्यां वेद्यत्वापरिहारात्"इति तत्वनिर्णयटीका विवृता ॥

सहकार्यन्तरविरहान्न ज्ञानज्ञानमिति तृतीयमाशङ्क्य निराह ॥ न चेति ॥ अनवस्थानाच्चेति ॥ बुभुत्साहीच्छाविशेषः ।

तस्याः स्वविषयज्ञानसाध्यत्वाद्बुभुत्साहेतुज्ञानस्य धर्मिज्ञानविषयकस्य तद्विषयबुभुत्सासाध्यत्वात्सा च तद्विषयज्ञानसाध्येति पूर्वपज्ञानव्यक्तिबुभुत्साव्यक्तिपरम्परयानवस्थानाच्चेत्यर्थः ।

 

१. एकं ज्ञानपदंन  मु.   २. पुस्तके नास्ति  मु. । अज्ञानं हि द्वेधा । योग्यत्वाभावेन वा सन्निकर्षादिसामग्र्यभावेन वा । न द्वयं प्रकृत इत्याह  अ.

४. सुखानु  आ.

 

पअन क्तिः)               प्रामाण्यवादः                पु  १०६.

 

वर्तमानस्वीयज्ञाने बुभुत्साया अदर्शरनाच्च ॥

न च धर्म्यज्ञानरूपफलबलात्सुखादुसामग्री तज्ज्ञानसामग्री वा १ ज्ञानप्रतिबन्धिका कल्प्यत इति वाच्यम् । धर्म्यज्ञानस्याद्यप्यसिद्ध्यान्योन्याश्रययात् । ज्ञानस्याज्ञानं तत्र कदाचित्संशयाद्यापाताच्च । कोट्यस्मरणं चायुक्तम् । ज्ञानत्वरूपसाधारणधर्मदर्शनस्य यागादौ निष्कम्पप्रवृत्त्यर्थं प्रामाण्यादिरूपविशेषबुभुत्सायाश्य सत्वेन तत्स्मरणसामग्र्याः सत्वात् ।

 

भविष्यदादिज्ञानज्ञाने कथञ्चिद्बुभुत्सासम्भवेपि न वर्तमाने । तथाच तत्र व्यभिचारान्नक्वापि सा ज्ञानज्ञानहेतुरित्याह  वर्तमानेति ॥ स्वीयेति ॥ यद्यपि स्वस्येदमित्यर्थेऽणिकृते स्वशब्दस्य द्वारादिषु पाठेन"द्वारादीनाञ्चे"तिसूत्रेण वकारात्पूर्वमैजागमेनौकारे सति सौवेति भाव्यम् । तथापि स्वस्मै हितमित्यर्थे"प्राक्क्रीताच्छ"इति छप्रत्यये स्वीयेति साध्विति ज्ञेयम् ।

चुतुर्थं निराही । न च धर्म्यज्ञानेति  व्यवसायरूपधर्मिणोऽज्ञानेत्यर्थः । ज्ञानस्याज्ञान इति ॥ अननुव्यवसाय इत्यर्थः । एतेन"न च जिज्ञानसायामेवानुभवोऽनुभूयते"इत्यादिभाष्यटीका विवृता ध्येया । कोट्यस्मरेणनेत्येतन्निराह । कोट्यस्मरणं चेति "ज्ञाने हि ज्ञाते तत्प्रामाण्यानुपलब्धौ कथं संशयो न स्यात्"इति तत्वनिर्णयटीकां विवृण्वा २ न आह  ज्ञानत्वेति ॥

 

१. ज्ञानज्ञान  कुंछखगक.    २. न्नाह  मु.

 

पअनक्तिः)                प्रामाण्यवादः                पु  १०७.

 

न च विषयान्तरसञ्चरादसंदेह इति युक्तम् । यागादौ निष्कम्पप्रवृत्तिहेत्वसंदेहप्रयोजकविशेषावधारणाय विषयान्तरसञ्चारस्यैव निरोद्धव्यत्वात् । न हि प्रेक्षावन्तो बहुवित्तव्ययाससाध्ये साधनत्वानिश्चयेपि १ विषयान्तरसञ्चारसम्पादितासन्देहमात्रेण चैत्यवन्दनादौ प्रवर्तन्ते ।

किञ्चोक्तरीत्या सम्पन्नसामग्रीकेण कॢप्तेन प्रामाण्यनिश्चयेनैवासन्देहसम्भवे कथं विषयान्तरसञ्चारादिकल्पनम् ।

अपि च विषयान्तरसञ्चारेपि सुखादिज्ञानप्रामाण्ये नियमेनासन्देहो दृश्यत इति नासावसन्देहहेतुः । अन्यथा सुखादिकमपि कुखत्वादिना नावश्यवेद्यम् । तत्रासन्देहस्तु धर्म्यज्ञानादिनेति स्यात् । तत्र सामग्रीसत्वादवश्यवेद्यतेति चेत्समंप्रामाण्येपि ॥

 

मण्युक्तमन्यदपि निराह । न चेति  परकीयप्रवृत्तिहेतुभूतः शङ्काभावः प्रामाण्यनिश्चयहेतुक एव । न तु विषयान्तरसञ्चारहेतुक इति तु दुर्ज्ञानमित्यत आह  किञ्चोक्तरीत्येति ॥ बाधोद्धारग्रन्थोक्तरीत्या सम्पन्नसामग्रीकेण प्रामाण्यनिश्चयप्रवर्तकत्वावादोक्तरीत्या कॢप्तेनेत्यर्थः । व्यभिचाराच्चासन्देहहेतुरेवायं न भवतीत्याह । अपि चेति ॥ अन्यथेति  कॢप्तासन्देहहेतुत्यागेनाकॢप्तहेतुकल्पन इत्यर्थः । सममिति  अत्रापि सामग्र्याः बाधोद्धारग्रन्थ उपपादितत्वादिति भावः ।

 

१. संदेहसंभवे  क.

 

पअनक्तिः)                   प्रामाण्यवादः               पु  १०८.

 

एतेन शङ्काविश्रान्तिभूमौ सुखादिज्ञाने प्रामाण्यव्याप्यस्य सुखज्ञानत्वादेर्विशेषस्य दर्शनादेवासंशय इति निरस्तम् । प्रामाण्यव्याप्यतया सुखज्ञानत्वदुःखज्ञानत्वादिज्ञानादपि पामाण्यज्ञानस्य लघुत्वात् । सुखज्ञानत्वादेः प्रामाण्यव्याप्यत्वाग्रहेप्यसंशयदर्शनाच्च । जन्मान्तरीयव्याप्तिग्रहकल्पनस्य १ चातिप्रसङ्गित्वात् । तस्मात्प्रामाण्यस्यावश्यवेद्यत्वादनवस्थाद्वयं दुष्परिहरम् ।

 

यदपि"विशेषदर्शानान्न तत्राप्रामाण्यशङ्का"इति मणिवचनं तद्विवरणपूर्वं तदपि नेत्याह । एतेनेति ॥ व्याप्यतयेति  स्वरूपज्ञानमात्रस्याप्रयोजकत्वादिति भावः । प्रामाणिकं गौरवं न दोषावहमित्याह । सुखाज्ञानत्वादेरिति  यद्वा व्यभिचारान्नायसंशयहेतुरित्याह ॥ सुखेति  व्यभिचारासिद्धिमाशङ्क्य निराह ॥ जन्मेति अतिप्रसङ्गित्वादिति  ज्ञानहेतुकत्वव्यभिचारस्थले सर्वत्रैवं परिहारसम्भवादिति भावः । यद्वा २ नारिकेल द्वीपवासिनो वह्न्यनुमानापत्तेरिति भावः २ । एवमियता ग्रन्थेन"अवश्यवेद्यत्वाभावान्ननवस्थेत्यभिप्राय इति चेन्न । निश्शङ्कं प्रवृत्ताववश्शेवेद्यत्वात्"इति तत्वनिर्णयटीकावाक्योक्तं निश्शयङ्कप्रवृत्यर्थं
तद्धेत्वप्रामाण्यशङ्काभावार्थं चावश्यवेद्यमित्यतीतवादत्रये चोपपाद्योपसंहरति ।

तस्मादिति  अतीतवादोक्तदीशा निश्शङ्कप्रवृत्यर्थमत्र वादे उक्तदिशा  धर्म्यज्ञानादिना शङ्कभावायोगेनाप्रामाण्यशङ्काभावार्थं च प्रामाण्यनिश्चचस्यापेक्षितत्वादित्यर्थः ।

 

१. स्याति  ख.   २. इयं पङ्तिः नास्ति  अ.

 

पअनक्तिः)                  प्रामाण्यवादः             पु  १०९.

 

एतदप्युक्तं"अन्यथा"इत्यादिना । परतस्त्वे उक्तानवस्थाद्वयापत्तेरिर्यर्थः ।

ननु त्वन्म १ ते यद्यपि प्रामाण्यग्रहणार्थं संवादविसंवादभावारूपपरीक्षा नारेक्षिता । तथापि दोषशङ्कादिरूपप्रतिबन्धनिरासार्थं सापेक्षितैव । तथा चतत्रापिदोषशङ्कायां तन्निरासाय परीक्षान्तरमित्यनवस्था तुल्यैवेति चेन्न । साक्षिवेद्यसुखादुःखादिज्ञाने दोषशङ्काया अभावेन परीक्षानवस्थाभावात् । उक्तं हि भगवत्पादैः ।

"न परीक्षानवस्था स्यात्साक्षिसिद्धे त्वसंशयात्"  इति ॥

परतस्त्वे अनवस्थोक्तिः ॥ ७ ॥

 

एतदपीति  परतस्त्वे प्रामाण्यज्ञानस्यापीत्यादिनोक्तमित्यर्थः ।

"अवश्यं तत्स्वतः प्रामाण्यग्रहणवादिनाप्यङ्गीकर्तव्यं"इत्यादि टीकार्यं निष्कृष्य वक्तुं स्वमतेऽनवस्थादोषं शङ्कापूर्वमुद्धरति  नन्वित्यादिना ॥ उक्तं हीति ॥

ज्ञानपादीयानुव्याख्यान इत्यर्थः ॥

परतस्त्वे अनवस्थोक्तिः ॥ ७ ॥

 

एवं परस्त्वे अनवस्थाद्वयोक्त्या स्वतस्त्वहेतूनामप्रयोजकत्वं निरस्य विपक्षेऽनुमित्यसंभवबाधकान्तरादपि नाप्रयोजकाः स्वतस्त्वहेतव इति भावेनाह

किञ्चेति ॥

 

१.तेऽपि  ख.

 

परतस्त्वे प्रथमप्रामाण्यानुमित्यसंभवः          प्रामाण्यवादः     पु  ११०.

 

किञ्च प्रामाण्यमनुमेयं चेत्कथं प्राथमिकं तज्ज्ञानम् । अप्रसिद्धविशेषणत्वेनानानुमानाप्रवृत्तेः । प्रवृत्तिगतसंवादरूपवौचित्र्येण तद्धेतुज्ञाने वैचित्र्यानुमानेपि वह्न्यर्थिप्रवृत्तिहेतोर्वह्नित्ववति वह्नित्वप्रकारकत्वादिरूपप्रामाण्यस्य विशिष्यासिद्धेः ॥

न च प्रामाण्यमात्रनिषेधे व्याघातदण्डभयेन विशेष्यवृत्तिप्रकारकत्वरूपं प्रामाण्यं सामान्यत १ एव प्रसिद्धं वह्निज्ञाने साध्यज्ञानं पक्षधर्मताबलाद्वह्नित्ववति वह्नित्वप्रकारकत्वादौ पर्यवस्यति ।

 

ननुक्तमत्र मणौ"प्रथमं च प्रामाण्यज्ञानं व्यतिरेकिणा"इति तत्राह  अप्रसिद्धेति २ ॥ साध्याप्रसिद्धौ तन्निरूपितव्याप्त्यज्ञानादिति भावः । ननु संवादप्रवृत्तिहेतुविलक्षणहेतुसाध्या तद्विलक्षणकार्यत्वादित्यनुमानेन सिद्ध्याद्वैसक्षण्यं प्रामाण्यरूपमेव सेत्स्यतीत्यत आह  प्रवृत्तीति ॥ दाहसमर्थविशेष्यप्रवृत्तिप्रकारत्वादिरादिपदार्थः ॥

प्रकारान्तरेणप्रसिद्धिमाशङ्क्य निराह ॥ न चेति  विशेष्यवृत्तिप्रकारकज्ञानं नास्ति, प्रमानास्तीत्यादिनिषेधस्य क्वचित्प्रमाप्रसिद्धि विनानुपपत्तेस्तदर्थं तत्प्रसिद्ध्य ४ भ्युपगमे व्याघातरूपदण्डप्रसङ्गात्तद्भयेन क्वचित्प्रसिद्धेरवश्यवाच्चत्वात् सामान्यतः सिद्धमित्युक्तम् ॥ साध्यमानमिति  वह्निज्ञानं विशेष्यवृत्तिप्रकारकं समर्थप्रवृत्तिहेतुत्वादिति व्यतिरेकिणा साध्यमनमित्यर्थः ॥

 

१. तः सिद्धं  कुं  ग ख.    २. अप्रसिद्ध इति  मु.    ३. ष्यकत्वादि  कुं वह्न्यवृत्तिप्रकारावच्छिन्नत्वादिरादिपदार्थः  अ.   ४. द्व्यन  कुं.

 

पस्त्वेप्रप्राण्यात्यभवः)             प्रामाण्यवादः              पु  १११.

 

एवं च नाप्रसिद्धविशेषणत्वं नाप्यसाधारण्यमिति वाच्यम् । प्रथमे चस्वार्थानुमाने

व्याघातानुपस्थितेः । स्वयं निषेधस्य च तद्धीपूर्वकत्वात् ।

न च तत्र १ प्राग्भवीयसंस्कारजन्या स्मृतिरूपा तत्प्रसिद्धिः । प्रथमप्रामाण्यज्ञानस्य प्रामाण्यस्वतस्त्वेनैवोपपत्तौ तत्कल्पकाभावात् ।

अथ प्रथममयं वह्नित्वेनानुभवो वह्नित्वप्रकारकत्वे सति

 

नाप्यसाधारण्यमिति  व्यक्तविशेषे साध्यस्यानिश्चयेन सपक्षानिर्णयादिति भावः। ननु स्वार्थानुमाने परकीयव्याघाचानवतारेपि स्वकीयप्रामाण्यनिषेधानुपपत्त्यैव तत्सिद्धिः स्यादित्यत आह ॥ स्वयमिति  तथा  च सा धीरेव कथं स्यादिति मृग्यत इति भावः ।

"प्राग्भवीयसंस्काराद्विशेष्यावृत्यप्रकारकत्वं तद्वति तत्प्रकारकज्ञानत्वं वा तत्प्रामाण्यं तन्मात्रं स्मृतं वह्निज्ञानादौ साध्यमानं"इत्यादिना मणिगृदुक्तं तत्सम्प्रदायविदां मतमनूद्य निराह ॥ न च तत्रेति  प्रथमप्रामाण्यानुमितिस्थल इत्यर्थः । उपपत्ताविति  तदुपपत्तिप्रकारश्च बाधोद्धारग्रन्थे संशयोपपादनग्रन्थादौचोक्त इति भावः ।

"वयं तु ब्रूमः प्रथमप्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणासाध्यं"इत्यादिनोक्तं मणिकृदभिमतं पक्षमाशङ्कते  अथेति ॥ भ्रमव्यावृत्यर्थमयामित्युक्तिः । द्रव्यत्वादिना वह्न्यनुभवेऽबाधाय २ वह्नित्वेनेत्युक्तिः ।

 

१. ख क. पुस्तके"तत्र"इति नास्ति.   २. बाधवारणाय  अ.

 

परतस्त्वेप्रप्राण्यात्यभवः)             प्रामाण्यवादः           पु  ११२.

 

वह्नित्वाभाववद्विशेष्यको न समर्थप्रवृत्तिजनकत्वात्व्यतरेकेणाप्रमावदित्यनुमानेनाप्रामाण्याभाव एवानुमेयः । तत एव निष्कम्पप्रवृत्तेः । न च तत्रापि साध्याप्रसिद्धाप्रसिद्धिर्देषः । अभावसाध्यके १ व्यतिरेकिणि साध्यप्रसिद्धिं विनैव साध्याभावरूपस्य २ भावस्य हेत्वभाव्याप्यत्वग्रहात् ।

 

"वह्नित्वाभाववति वह्नित्वप्रकारकोन"इति मण्युक्तसाध्यस्य यज्ञपतिटीकानुरोधेनार्थोक्तिर्वह्नित्वप्रकारकत्वेसतीत्यादिसत्यन्तं न ३ नञर्थभूताभावविशेषणम् । ४ एवं च अत्र वह्नित्वमिति ज्ञाने वह्नित्वाभाववद्वह्नित्वविशेष्यकत्वसत्वेपि विशेषणाभावप्रयुक्तविशिष्टाभावरूपसाध्यसत्वान्न व्यभिचारः । अत एव ४ मणौ

"दाहसमर्थविषयकप्रयत्नजनकत्वे सति वह्नित्वप्रकारकत्वादिसमर्थप्रवृत्तिजनकत्वाभावयोः"इत्यग्रे तदीयग्रन्थानुरोधात्समर्थेत्यादिहेतूक्तिः । ५ अन्यथा साध्ये विशेष्यवैयर्थ्यात्५ । वह्निविषयकेति समर्थप्रवृत्तिर्विशेषणीया । तेन न घटादिज्ञाने व्यभिचारः । एवमप्यत्र वह्नित्वमिति ज्ञाने व्यभिचार इति चेत् । एवं तर्हि वह्नित्वप्रकारकत्वेसतीति विशेषणम् । ननु प्रामाण्यनिश्चयाभावे कथं प्रवृत्तिरित्यत आह  तत एवेति ॥ अप्रामाणण्याभावज्ञायत इत्यर्थः । प्रामाण्यविश्यस्यापि तन्मते तत्रैवोपयोगादिति भावः  अभावसाध्यक इति । व्याप्तिज्ञानार्था हि साध्यसिद्धिः । व्याप्तिश्च साध्याभावहेत्वभावयोरेव ।

 

१. केवल  ग.   २. पभा कुं.  ३."न"इति नास्ति मु.आ.   ४. अयं ग्रन्थः

मु. आ. पुस्तके नास्ति.   ५. मु. आ. पुस्तके नास्ति.

 

पस्त्वेप्रप्राण्यत्यभवः)               प्रामाण्यवादः             पु  ११३.

 

यद्वा वह्नित्वाभाववद्विशेष्यको नेत्येव साध्यम् । पक्षधर्मताबलादप्रामाण्याभावसिद्धिः । न च घटादिरूपात्सपक्षाद्व्यावृत्यासाधारणम् । तस्यानित्यदोषत्वादिति चेन्मैवम् । प्रथमस्य प्रामाण्यग्रहणस्योपाये पृष्ठेऽप्रामाण्याभावग्रहणोपायकथनस्य व्यधिकरणत्वात् ॥

 

तथाच तयोरेव ज्ञानमावश्यकम् । तत्र च साध्याभावोऽप्रामाण्यमेव । तच्चभावरपंसाध्यभूतस्वाभावरूपप्रतियोगिज्ञानं नापेक्षते इति तदप्रसिद्धावपि यत्राप्रामाण्यं तत्र समर्थप्रवृत्तिजनकत्वाभाव इति हेत्वाभावेन व्याप्यत्वग्रहसम्भवा१ दिति भावः ।

वह्नित्वप्रकारकत्वे सतीति विशेषणवैयर्थ्यं मन्वानः पक्षधराद्युक्तसाध्यनिष्कर्षमाह  यद्वेति ॥ कथं तर्हि तदभाववति तत्प्रकारकत्वरीपाप्रामाण्यस्याभावः सिद्ध्येत्यत आह  पक्षेति ॥ उक्तहेतोर्वह्नित्वप्रकारकत्वरूपाप्रामाण्यनिषेधो विशेषणाभावो बाधाद्विशेष्याभावमादायैव विशिष्टनिषेधे पर्यवसतीति तन्मात्राभावसाधने विशिष्टाभावः सिद्ध्यतीर्थः । ३. अत्रापि पूर्ववद्धेतुविशेषणं ध्येयम् । तेन न प्रगुक्तव्यभिचारः घटादिरूपात्सपक्षादिति ॥ तस्य निर्विषयकत्वेन तत्र साध्यसत्वनिश्चयादिति भावः  अनित्येति ॥
अनुकूलतर्काभाववेलायामेव दोषत्वादिह च हेतूच्छित्तिरूपविपक्षबाधकस्यानुकूलतर्कस्य सत्वेनादोषत्वादित्यर्थः व्यधिकरणत्वादिति ॥ अर्थान्तरत्वरूपनिग्रहस्थानापत्तेरिति भावः । इदं प्रमेयमित्यादौ प्रमेयत्वाभावाप्रसिद्ध्य तद्घटिताप्रामाण्याभवानुमानासंभवाच्चेत्यपि ध्येयम् ।

 

१. दित्यर्थः  आ. कुं.     २. वह्नित्वा आ. मु.    ३. अत्र च वह्नित्वप्रकारकनिश्चयत्वादित्यपि हेतुविशेषणं ध्येयम.

 

न चोक्तव्यतिरेक्येव पक्षधर्मताबलाद्वह्नित्ववद्विशेष्यकत्वरूपं प्रामाण्यं गृह्णातीति वाच्यम् । व्याप्त्या व्यापकतावच्छेदकावच्छिन्नत्वेनोपस्थापितस्यापूर्वस्य व्यनक्तिविशेषस्यैव पक्षधर्मतया पक्षसम्बन्धसिध्या तथानुप २ स्थापितस्योक्तरूपप्रामाण्यस्य पक्षसम्बन्धबोधने तस्या असामर्थ्यात् ।

एतेन अप्रामाण्याभावानुमित्यनन्तरमयं वह्नित्वेनानुभवो वह्नित्वलवद्विशेष्यकः अवन्ह्यविशेष्यकत्वे सति

 

ननु विरुद्धप्रकारद्वये तदभाववद्विशेष्यकत्वाभावे तद्वद्विशेष्यकत्वमादायैव पर्यवसानम् । अन्यथा हेतोः पक्षसंबन्धो न घटत इत्याशयेन"तदभाववति तत्प्रकारकत्वव्यतिरेकत्वव्यतिरेकः सिद्ध्यंस्तद्वति तत्प्रकारकत्वमादाय सिद्ध्यति । तृतीयप्रकाराभावात्"इति मण्युक्तमाशङ्क्य निषेधति  नचेति ॥ व्याप्त्येति ॥ यद्धर्मावच्छिन्ननिरूपितव्याप्तिर्यद्धर्मावच्छिन्नस्य  गृहीता तद्धर्मावच्छिन्नस्य पक्षधर्मतया तद्धर्मावच्छिन्नस्यैव सिद्धिः स्यात् । न तु प्रामाण्यस्येत्यर्थः ।

न चायं नियमोऽन्वयिनि हेतौ न व्यतिरेकिणीति शङ्क्यम् । व्यतिरेकसहचारेणान्वयव्याप्तिर्गृहीत इति मताभिप्रामायेण शङ्क्यम् । व्यतिरेकसहचारेणान्वयव्याप्तिर्गृहीत इति मताभीप्रामायेण वा व्यतिरेकिण्यपि हेत्वभावव्यप्याभावविषयत्वनैयत्वनैयत्याभिप्रायेणवैवमुक्तिः तस्या इति ॥"इदं

वह्नित्वप्रकारकं ज्ञानं वह्नित्ववद्विषयकं"इत्यादिना मण्युक्तं पक्षान्तरं निराह  एतेनेति ॥ विषयपदं विशेष्यपरमिति तदीय व्याख्यानोक्तर्विशेष्यक इत्युक्तम् ॥

१. स्थित  ग.   २. स्थि कुंच.ग.   ३. यद्वेदं  अ.

 

पस्त्वेप्रप्राण्यात्यभवः)               प्रामाण्यवादः           पु  ११५.

 

सिविशेष्यकत्वादिति व्यतिरेक्यन्तरेण तत्सिद्धरिति निरस्तम् । वैशिष्ट्यमनुव्यवसायवेद्यमिति परतः १ पक्षे साध्याप्रसिद्धेः ॥

किञ्चाप्रामाण्यमपि यद्यनुमेयं तर्हि कथं तत्प्रसिद्धिः । येनाप्रामाण्याभावसाधकहेतौ साध्याभावरूपाप्रामाण्यव्यापकाभावप्रतियोगित्वज्ञानम् । यदि तु बाधानन्तरं स्मृत्युपनीते भ्रमे वह्नित्वाभाववति वह्नित्वेन ज्ञानं मम वृत्तमित्यप्रामाण्यं मनसा परिच्छिद्यते तर्हि प्रवृत्तिसामार्थ्यानन्तरं

 

साध्याप्रसिद्धेरिति । न च प्राग्भवीयसंस्कारानुसरणाददोष इति शङ्क्यम् । निरस्तत्वात् । आदावेवैवमनुमानसम्भवे प्रथममप्रामाण्याभावानुमानस्य व्यर्थत्वाच्चेत्यपि ३ ध्येयम् । अप्रामाण्यचाभावानुमानेपि व्यतिरे ४ कव्याप्याप्रसिद्ध्या व्याप्त्यसिद्धिरित भावेनाह  किञ्चेति ॥  द्वितीयानुव्यवसाये ५ नाप्रामाण्यं प्रसिद्धमित्याश्ङ्क्ये  यदित्विति ॥ नायं वह्निरितिबाधान्तरमित्यर्थः स्मृतीति ॥ वह्निभ्रमानुव्यवसायजन्यस्मृतीत्यर्थः  अप्रामाण्यमिति ॥ बाधरूपानुभवजन्यस्मृत्युपनीतमित्यर्थः । प्रामाण्यस्यापि पञ्चमानुव्यवसायवेद्यत्वमस्त्वित्याह तर्हिति ॥ तथा च पञ्चमानुव्यसायमादाय साध्यप्रसिद्ध्या प्रामाण्यानुमानस्यैव प्राथमिकत्वसंभवे किं प्रामाण्याभावानुमानेनेति भावः । अभ्युपेत्य
चेदमुक्तम् । वस्तुतस्तु प्रामाण्वानुमानमेवायुक्तम् ।

 

१. परपक्षे मु.  २. बोध्यं मु.अ.   ३. केमु.    ४.नुमाने  कुं.

 

स्मृत्युपनीते व्यवसाये स्मृत्युपनीतं वह्नित्ववैशिष्ट्यविषयकत्वमेव मनसा परिच्छिद्यताम् ।ादावेव वा व्यवसायगतं तदुपनीतवह्नित्ववैशिष्ट्यविषयकत्वमनुव्यवसायैनैव परिच्छिद्यतां किमनया कृसृष्ट्या ॥

एतेन वह्नित्ववद्विशेष्यकत्वमिच्छादौ मनसा प्रविद्धमिति निरस्तम् । तथात्वे उक्तरीत्या प्रामाण्यस्यैव मनसा परिच्छेदसम्भवात् ॥

किञ्च प्रमासमर्थप्रवृत्योः कार्यकारणभावो नियमगर्भः । नियमश्चानन्त्यव्यभिचाराभ्यां न व्यक्त्योरेव ।

 

पञ्चमानुव्यवसायवेद्यत्वोपगमे च प्रथमानुव्यवसायवेद्यत्वस्य सुतरामुपेयत्वस्योपपादिततत्वादिति भावेनाह  आदावेव वेति ॥ कुसृष्ट्येति ॥ पूर्वमप्रामाण्याभावानुमानं पश्चात्प्रामाण्यानिमानमप्रामाण्यप्रसिद्ध्यर्थं पञ्चमानु व्यवसायानुसरणामित्यादिरीपाकुसृष्ट्येत्यर्थः ।

ननु वह्नित्ववति वह्नित्वेनेच्छावानहामित्यनुव्यवचसायेनेच्छोपनीतं त २ द्वत्वमिच्छायां गृह्यते । एवं द्वेषादाविति तत्र प्रसिद्धं वह्निज्ञाने साध्यताम् । एवं च नाप्रसिद्धिरित्य आह  एतेनेति ॥ उक्तरीत्येति ॥ बाधोद्धारग्रन्थोक्तरीत्या व्यवसायोपनीतस्येत्यर्थः ।

एवमनुमयत्वपक्षे प्रामाण्यस्याप्रामाण्यस्य चाप्रसिद्ध्युक्त्या तन्निरूपितव्यप्त्यासिद्धिमुक्ता हेतोः प्रमित्यसिद्धिमाह  किञ्चेति ॥ नियमेति ॥ या प्रमा सा समर्थप्रवृत्तिपूर्वभाविनीत्येवंरूपनियमेत्यर्थः व्यभिचा ३ राभ्यामिति ॥ एतत्प्रमाव्यक्त्यभावेपि व्यक्त्यन्तरेण प्रवृत्तिदर्शनादित्यर्थः ।

 

पस्त्वेप्रप्रा ण्यत्यभवः)         प्रामाण्यवादः             पु  ११७.

 

किन्तु प्रमात्वावच्छेदेनेति प्रमात्वे ज्ञाते प्रवृत्तिकारणत्वज्ञानं तेनैव च प्रमात्वज्ञानमित्यन्योन्याश्रयः ॥

न च गुणजन्यत्वाद्यवच्छेदेन नियमः ।

 

"नियमश्च न व्यक्त्योरेव व्यभिचारादतिप्रसङ्गाच्च"। इत्युत्पत्तिप्रामाण्ये त्वयैवोक्तिरिति भावः  अन्योन्याश्रय इति ॥ यदि क्वचिन्मनसा प्रामाण्यग्रहोपगमेव तत्र प्रवृत्तिकारणत्वग्रहान्नन्योन्याश्रायस्तर्हि प्रथमेव प्रामाण्यं मनसा गृह्यताम् ।

कमनुमानेनेति भावः । एतच्च प्रामाण्य १ ज्ञानं प्रवृत्तिकिरणमित्युपेत्योक्तम् । अप्रामाण्याभावज्ञानमेव प्रवृत्तिकारणमिति पक्षे प्रमात्वपदमप्रमात्वाभावपरं ज्ञेयम् ।

यद्वा"तदभाववति तत्प्रकारकत्वव्यतिरेकः सिध्यंस्तद्धति तत्प्रकारकतामादाय सिध्यति । तृतीयप्रकाराभावेन तेन विना साध्यस्योपसंहर्तुमशक्यत्वात्"इति ग्रन्थेनाप्रामाण्याभावानुमानमेव प्रामाण्यानुमानमित्युक्तत्वात्प्रमात्वपदप्रयोगः ।

एतेन दाहसमर्थविषयकप्रयत्नजनकत्वे सति वह्नित्वप्रकारकनिश्चयत्वादित्यपि हेतुः परास्तः । प्रथमं जनकत्वस्य दुर्ज्ञानत्वात् । दाहसमर्थविशेष्यकवह्नित्वप्रकारकनिश्चयत्वादित्यादिरपि दाहसमर्थविशेष्यकत्वस्यादौ दुर्ज्ञानत्व २ स्य प्रागेवोक्तत्वान्निरस्तप्रायः । दाहसमर्थेत्येवमादिरूपहेतूनां प्रमात्वसामान्या ३ ननुमापकत्वाच्च ।

प्रमात्वसमनियतधर्मावच्छेदेनास्तु तद्ग्रह इत्याशङ्क्य निराह न चेति ॥ आदिपदेन दोषाभावजन्यत्वादुष्टत्वादुष्टकरणजन्यत्वादिग्रहः प्रमात्वस्येति ॥

अनित्यज्ञाननिष्ठस्येत्यर्थः ।

 

१. प्रमात्व  मु अ.    २. नस्य  कुं.    ३. न्यानु  मु.

 

पस्त्वे प्रप्राण्यात्यभवः)              प्रामाण्यवादः           पु  ११८.

 

जन्यतावच्छेदकस्या १ प्रमात्वस्या १ ज्ञाने गुणजन्यत्वस्यैव दुर्ज्ञानत्वात् ॥

किञ्च न प्रवृत्तिसामर्थ्येन प्रामाण्यानुमानम् । चन्द्रतारादिज्ञाने तदभावात् । प्रवृत्तेः प्रामाण्यज्ञानधीनत्वेनान्योन्याश्रयाच्च । मणिप्रभायां मणिभ्रमे व्यभिचाराच्च । मणिप्रभायां मणिभ्रमे व्यभिचाराच्च । नापि संवादेन । ज्ञानान्तरसंवैदस्य व्यभिचारात् । प्रमासंवादस्याद्यप्यसिद्धेः । विसंवादाभावस्य चानुपसञ्जातबा २ धभ्रमेपि सत्वात् । विसंवादयोग्यत्वाभावस्य च प्रमात्वाज्ञाने दुर्ज्ञानत्वात् । गुणजन्यत्वस्य दोषाभावजन्यत्वस्य ३ दोषाजन्यत्वस्य ३ च प्रमारूपकार्यकल्प्यत्वेन जन्यतापच्छेदकप्रमात्वाज्ञाने गुणजन्यत्वादेर्दुज्ञानत्वेन चान्योन्याश्रयात् ॥

 

युक्तिपादीयसुधोक्तदिशा वादावल्युक्तदिशा च प्रामाण्यानुमापकसप्तहेतूनप्रकारोति  किञ्चेति ॥ सामर्थ्येन ॥ विषयलाभरूपेणेत्यर्थः । तदन्यस्यास्तु पक्षतेति वादिनं प्रत्याह  प्रवृत्तेरिति ॥ प्रामाण्यज्ञानाधीनत्वेनेति ॥ साधित्वत्परमतेप्यप्रामाण्य ४ ज्ञानाभावार्थमप्यपेक्षितत्वादिति भावः । मन्मते प्रवृत्तिमात्रं न प्रामाण्यज्ञानाधीनमिति वदन्तं प्रत्याह  मणीति ॥ व्यभिचारादिति ॥ भ्रमान्तरसंवादिभ्रम इति भावः ।

ननु भवन्मतेप्यप्रामाण्यस्य परतस्त्वात्साध्याप्रसिद्धिस्तदनुमाने स्यात् ।

 

१. छ.कखपुस्तके समस्तं पदं वर्तते.    २. धेकुंछगखक.

३.एतन्नास्तिमु.   ४. अभावज्ञानार्थं मु.

 

मन्मते तु उत्सर्गतः प्रामाण्यं गृह्णन्नपि साक्षी बाधानन्तरमुक्तरीत्या विसंवादलक्षणादपवादादप्रामण्यमपि गृह्णाति । १ उक्तं हि सुधायाम् । साक्षी अपवादकसद्भावेऽप्रामाण्यमपि गृह्णाति इति ॥

या तु विष्णुतत्वनिर्णयटीकायां"अनुमेयमेवाप्रामाण्यं"इत्युक्तिः सा साक्षिणो २ऽप्रामाण्यग्रहणे विसंवादापेक्षा नियतेत्यभिप्रेत्य । अत एव तत्रैव"न पुनर्ज्ञानग्राहकमात्रग्राह्यत्वं"इत्युक्तम् । वादाल्यां च"

अप्रामाण्यस्यानुमेत्वावसायात्"इत्युक्त्वा

 

तत्र जन्मान्तरीय संस्कारानुसरणस्य वा प्रथमं प्रामाण्याभावानुमानद्वारानुसरणस्य वा पञ्चमानुव्यवसायप्रसिद्धत्वानुसरणादेर्वा कार्यत्वे ममापि साम्यदित्यत आह  मन्मते त्विति ॥ उत्सर्गतः ॥ स्वस्वाभावसामर्थ्यत इत्यर्थः । स्वत एवास्तु किं विसंवादेनेत्यत आह  उक्तरीत्येति ॥"अप्रामाण्यं तु

विसंवादाद्यनुसन्धाने सत्येव गृह्यते"इत्यादिना"स्वतोऽप्रामाण्यग्रहे असामर्थ्यातित्यादेः स्वतस्त्वानुमानवादे उक्तत्वात्तत्रोक्तरीत्येत्यर्थः  उक्तं हीति ॥

आद्यपादे

प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ।

अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः ॥

इत्येतद्व्याख्यावसर इत्यर्थः । सुधावाक्यस्यार्थतो नुवादः साक्षीत्यादि ॥ उक्तिरिति ॥"दुष्टबुद्धीनामेवाप्राणाण्यशङ्का"इत्येतद्व्याख्यावसर इत्यर्थः । नन्वेवमिदमप्रमाणं न वेति सन्देहादिरपि

 

१. उक्तमपिछ.    २. णाकख.

 

ज्ञप्तौ परतस्त्वानुमानभङ्गः           प्रामाण्यवादः          पु  १२०.

 

"न चाप्रामाण्यं क्वचिदपि निरपेक्षेण साक्षिणा निश्चितचरं"इत्युक्तम् । अप्रामाण्यशङ्कादिकं तु मानसमेव । उक्तं हि भगवत्पादैः ।

"यत्क्वचिद्य्यभिचारिस्याद्दर्शनं मानसं हि तत्"इति ।

"सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम्"॥

इति च । तस्मात्प्रामाण्यस्य परतस्त्वे प्राथमिकं तज्ज्ञानमेव न सम्भवतीति । एतदप्युक्तं"अन्यथा"इत्यादिना । परतस्त्वे प्राथमिक १ प्रामाण्यानुमितेरेवासम्भवेनेयं प्रमा इयं त्वप्रमेति व्यवस्थित्यसम्भवादित्यर्थः ॥

परतस्त्वे प्रथमप्रामाण्यानुमित्यसम्भवः ॥ ८॥

 

यच्चोक्तं स्वाश्रयविषयकनिश्चावधिकतृतीय

 

साक्षी किं नेत्याह  अप्रामाण्येति ॥ उक्तं हीति ॥ ज्ञानपदे ॥

परतस्त्वे प्रथमप्रामाण्यानुमित्यसंभवः ॥ ८ ॥

 

एवं स्वतस्त्वानुमानानां बाधं विपक्षेऽनवस्थाद्वयस्यानुमित्यसम्भवस्य चोक्त्याप्रयोजकत्वं चोद्धृत्य परोक्तानुमानविरोधनिरासाय तानि दूषयितुमनुवदति  यच्चेति ॥ परोक्तस्वतस्त्वानिरूक्तिभङ्गेन संशयस्यान्यथोपपादनेन च परोक्तहेतूनामप्रयोजकत्वाद्युक्तावपि प्रबलदोषोक्त्यर्थं पुनरारम्भः ।

 

१. प्रथम  कुं  छ.

 

ज्ञप्तौ परतस्त्वानुमानभङ्गः        प्रामाण्यवादः               पु  १२१.

 

क्षणं १ वृत्तिसमानाधकरणसंशयविषयी २ भूतं ज्ञानप्रामाण्यं ग्राह्यज्ञानप्रकारप्रकारकतया तद्विशेष्यविशेष्यकतया च स्वाश्रयग्राहकयाव ३ ज्ज्ञानाग्राह्यम् ।

 

"विवादंपदं न यावत्स्वाश्रयग्राह्यं स्वाश्रयनिश्चये सत्यपि तदुत्तरतृतीयक्षणे अप्रामाण्यसंशयं विना ४ सन्दिह्यमानत्वादप्रामाण्यवत्"इति मण्युक्तावपि"विप्रतिपत्तौ यथा साध्यमुक्तं तदभाव इह साध्यं ज्ञेयं"इति पक्षधरादितदीयटीकोक्तरीत्या परिष्कारपूर्वकं तदीयप्रयोगानुवादं करोति  स्वाश्रयेति ॥ किमवच्छेदेन विवादविषयैत्यज्ञानात्तदभिमतं विवादनियामकं पक्षतावच्छेदकं टीकाद्यनुक्तमपि स्वयं व्यक्तीकृतवानिति ज्ञेयम् । स्वस्य

प्रामाण्यस्याश्रयो व्यवसायः । तद्विषयनिश्चयसमानाधिकरणो यः संशयः तद्विषयी ५ भूतं ज्ञानप्रामाण्यमित्यर्थः । संशयाविषये प्रामाण्ये तथा निश्चते व्यधिकरणसंशयविषये तथा चतुर्थक्षणवर्तिसंशयविषये ६ यत्किञ्चिदवधिकतृतीयक्षणवर्तिसंशयविषये चीसिद्धित्यतो विशेषणानि । ज्ञानप्रामाण्यांशस्याधिकस्यात्रप्रवेशान्न ७ पक्षतावच्छेदकैक्यनिमित्तं सिद्धसाधनं शङ्क्यम्  अप्रामाण्येव सिद्धसाधनतानिरासाय ज्ञानप्रामाण्यमित्युक्तिः । तादृशानुमित्यादेग्राह्यत्वेन बाधनिरासाय साध्ये यावदित्युक्तिः ।
ज्ञानं घटज्ञानमित्यादिशब्दजन्यज्ञानाग्रह्यत्वस्य स्वतस्त्वेपि सत्वाद्ग्राह्यज्ञानप्रकार ८ इत्युक्तिः । दलद्वयकृत्यमप प्रागेव व्यक्तम् ॥

 

१. वर्तिकगच.    २. कुंछगक.    ३. ज्ञानग्राहकाग्रा  कछ.   ४. वाकुंआ. ५.यकुं.   ६.तथाअ.   ७.हेतुपअआ.  ८.रेत्याद्युकुंआ.

 

ज्ञप्तौपरस्त्वनभङ्गः)         प्रामाण्यवादः               पु  १२२.

 

तज्ज्ञानविषयकसमानाधिकरणज्ञानाजन्यसमानाधिकरणज्ञानाप्रकारो वा । स्वाश्रयविषयकनिश्चयावधकतृकतृतीयक्षणवृत्तिसमानाधिकरणसंशयकोदित्वात् ।

स्वाश्रयविषयकनिश्चयसमानकालीयसामग्रीजन्यसंशयविषयधर्मिकप्रामाण्यसंशय

जन्यसंशयाविषयत्वाच्च ।

 

अत्र मण्युक्तमेकं साध्यं विप्रतिपत्तावुक्तसाध्यान्तरस्याप्युपलक्षणं मत्वा दूषणसौकर्याय स्वयमाह  तज्ज्ञानेति ॥ १ तदर्थो विशेषण कृत्यं च परोक्तस्वतस्त्वनिरुक्तिभङ्गे व्यक्तम् । मतद्वयेपीश्वरज्ञानसत्वात्क्रमेणाप्रसिद्धिबाधवारणाय समानाधिकरणपदद्वयम्  निश्चावधिकेति ॥ निश्चोत्पत्तिक्षणवधिकत्येर्थः । तेन स्वाश्रयविषयकनिश्चयस्थितिक्षणावधिकतृतीयक्षणवृत्यर्थसंशयकोटावर्थेव्यभिचारो न शङ्क्यः ॥

"स्वाश्रयनिश्चये सत्यपि तदुत्तरतृतीयक्षणे सन्दिह्यमानत्वात्"इति मण्युक्तहेतोस्सतिसप्तमीबलेन

सामानाधिकरण्यलाभायरूपं तट्टीकोक्तमेकमर्थमुपेत्यैको हेतुरुक्तः । समानकीलीनता २ रूपमर्थान्तरं चोपेत्य हेत्वन्तराहस्वाश्रयविषयकेत्यादि ॥ ३ संशयविषयकत्वादित्यस्य पूर्ववत्संशयकोटित्वादित्यर्थः । तेनात्र पूर्वत्र च न व्यवसाये व्यभिचारः ३ ॥

स्वाश्रयनिश्चयेऽप्रामाण्यसंशयं विना ४ सन्दिह्यमानत्वातिति मण्युक्त्यभमतं हेतुं व्यनक्ति  स्वाश्रयविषयककिञ्चिदित्यादि ॥ स्वाश्रयविषयकनिश्चयशब्देन यावन्निश्चयो मणिकृतो नाभिमतः ।

 

१. एतदकुंआ.   २. लाभकुंआ.   ३. अयं ग्रन्थः. पुस्तके नास्ति.

४. वाकुंआ.   ५.संशयविषयत्वादित्यस्य पूर्ववत्संशयकोटित्वादित्यर्थः.

 

ज्ञप्तौपरस्त्वानभङ्गः)           प्रामाण्यवादः               पु  १२३.

 

अप्रामाण्यवत् ॥

यद्वा उक्तहेतुतत्रयमध्ये एकं पक्षतावच्छेदकं कृत्वान्यौ हेतूकर्तव्यौ ॥

यद्वा एतज्ज्ञानप्रामाण्यमेतज्ज्ञानप्रामाण्यसंशयपूर्वकालीनैतन्निश्चयाविषयः । एतज्ज्ञानविषयकनिश्चयावधिकेत्याद्युक्तहेतुक्तहेतुत्रयात् ॥ अप्रामाण्यवत् ॥

 

प्रामाण्यानुमितेरपि प्रमाण्याश्रयविषयकनिश्चयत्वेन तद्धर्मिकप्रामाण्यसंशयजन्यसंशयविषयत्वेनासिद्ध्यापत्तेः । किन्तु यत्किञ्चिदनुव्यवसायरूपनिश्चय एवाभिमत इति भावेन किञ्चिन्निश्यधर्मिकेत्युक्तम्   अप्रामाण्यवदिति ॥ पक्षीभूतप्रामाण्यसंशयकोटीभूताप्रामाण्यवदित्यर्थः । मतद्वयेपि तस्य परतस्त्वे साध्यहेती संमताविति भावः ॥

हेतुपक्षतावच्छेदकैक्यनिबन्धनसिद्धसाधनता १ शङ्कापि यथा न भवति तथा पक्षातावच्छेदकीकृत्य द्वितीयतृतीयौ वाद्यतृतीयौ वा हेतूकर्तव्यावित्यर्थः ॥

२ "अनभ्यासदशापन्नैतज्ज्ञानप्रामाण्यं"इत्यादिना मण्युक्तं पक्षान्तरं चाह   यद्वैतज्ज्ञानप्रामाण्यमिति ॥ वस्तुतो यदनुव्यवसायानन्तरं तृतीयक्षणे संशयविषयीभूतं प्रामाण्यं तद्व्यक्तेरेवैतत्पदेन ग्रहणम् । अतो नासिद्धिर्हेतूनामिति भावः । बाधवारणाय कालीनेत्यन्तम्  पूर्वेति ॥ अव्यवहितपूर्वकालीनेत्यर्थः । एतज्ज्ञाननिश्चयानन्तरं सन्दिह्यमानत्वादित्युक्तहेतुमुपलक्षणं मत्वाह हेतुत्रयादिति ॥

 

। एतावत्नास्ति  छ.  १. नशं कुं.   २. यद्वा अन अ.

 

ज्ञप्तौपरस्त्वनभङ्गः)               प्रामाण्यवादः          पु  १२४.

 

विमतं व्यवसायप्रामाण्यं १ न तदनुव्यवसायवेद्यम् । तदवधिकतृतीयेत्याद्युक्तहेतुत्रयात् । अप्रामाण्यवदिति विशिष्य प्रयोक्तव्यम् । तस्मादनुमानविरुद्धानि स्वतस्त्वानुमानानि ॥

अत्र साध्यविशेषणप्रयोजनं स्वतस्त्वनिरुक्तावुक्तप्रायम् । आद्य २ हेतौ रजतत्वादिरूपेर्ऽथेपि किञ्चिदवधकतृतीयक्षण ३ वुत्तिसंशयविषयत्वस्य. तथा स्वाश्रयनिश्चयावधिकचतुर्थलक्षणवृत्तिसंशयविषयत्वस्य, तथा चैत्रीयस्वाश्रयनिश्चयावधिकतृतीयक्षणवृत्तिमैत्रीयसंशयविषयत्वस्य च सत्वात्तत्र व्वभिचारः ।

 

एवं स्वतस्त्ववादिमात्रसाधारणं वा गुरुभिन्नस्वतस्त्ववादिमात्रसाधारणं वा द्वेधा प्रयोगं मण्यभमतं प्रदर्श्य अनभ्यासदशापन्नज्ञानप्रामाण्यं न स्वाश्रयग्राह्यमिति गुरुमतासाधारण्येन प्रयोगोक्तमुपलक्षण ४ मभिप्रेत्य सिद्धान्तितविरोधिप्रयोगान्तरमाह विमतमिति ॥ यद्वेत्यनुषङ्गः । उक्तसंशयविषयीभूप्रामाण्यस्यैव व्यवसायप्रामाण्यपदेन ग्रहणमिति द्योतनाय विमतमित्युक्तिः तस्मादिति ॥ उक्तरीत्या प्रयोगसम्भवादित्यर्थः । न तु

संशयानवतारस्तलीयपक्षकानुमानानि । मण्याद्युक्तानां संशयस्थरीयपक्षकाणां भिन्नविषयतया विरोधाभावात । यद्वा संशयस्थले तथात्वसिद्धावन्यत्रापि तथात्वमेव कल्प्यम् । न वैरूप्यमित्याशयेन सर्वानुमानानीत्यर्थः ।

दूषणसुज्ञानतायै पदकृत्यं विवेचयति  अत्र साध्येत्यादिना ॥ स्वतस्त्वनिरुक्ताविति ॥ परोक्तस्वतस्त्वनिरुक्तिभङ्गप्रस्ताव इत्यर्थः ।

 

१. नैत  क.  २. द्येकुंग.   ३. जन्यग.   ४. मुपे कुं.

 

ज्ञप्तौपरस्त्वानभङ्गः)             प्रामाण्यवादः               पु  १२५.

 

१ तद्वारणाय क्रमेण स्वाश्रयनिश्चयावधिकत्वेन तृतीयक्षण २ वृत्तित्वेन समानाधिकरणत्वेन च संशयो विशेषितः ॥

प्रथमं व्यवसायः, अनन्तरं ज्ञानत्वनिर्विकल्पकं विना ज्ञानांशं निर्विकल्पस्य घटांशे सविकल्पकस्य नरसिंहाकारस्य धर्मिज्ञानरूरस्यानुव्यवसायस्योत्पत्तिः, अनन्तरे द्वितीये ३ तदनुव्यवसायस्य स्थितिक्षणे कोटिस्मिरणं, अनन्तरं तृतीयक्षणे प्रामाण्यसंदेहः, चतुर्थक्षणेर्ऽथसंदेह इति स्थितिः ॥

 

आद्ये पूर्वदलद्वयेन तव घटत्वप्रकारकं ज्ञानं तव घटत्ववद्विशेष्यकं ज्ञानमितिशब्दज्ञानयोः सिद्धसाधननिरीसः । यावदित्युक्त्या न्यायमते पञ्चमानुव्यसायादौ बाधनिरासः फसम् । द्वितीये आद्योन ज्ञानपदेन तत्पदस्य प्रामाण्यपरामर्शितापत्या बाधनिरासः, द्वितीयेन तु व्यापारानुबन्धितया तादृशात्मादिनाप्रसिद्धिनिरासः, फलम् । तृतीयेनापि  व्यापारानुबन्धितयात्मादिग्राह्यतया बादनिरासः फलम् । समानाधिकरणपदद्वयेन ४ तादृशेश्वरज्ञानग्राह्यत्वाभावाद्बाधनिरासः फलमुक्तप्रायमित्यर्थः ।

 

उक्तार्थपरिज्ञानाय पक्षधराद्युक्ततदीयप्रक्रियामाह  प्रथममिति ॥ निर्विकल्पकस्येति ॥ ज्ञानत्ववैशिष्ट्यविषयकत्वस्येत्यर्थः । सविकल्पकस्येति ॥

घटत्वप्रकारकत्वपुरोवृत्तिविशेष्यकत्वविषयकस्येत्यर्थः । संशयहेतुत्वोपपादनायैवमुक्तिः । घटांशोपि निर्विकल्पकस्य तदयोगात्कोटीति ॥ कोटिद्वयस्मरणं समूहालम्भनरूपमित्यर्थः । साधारणधर्मदर्शनरूपधर्मिज्ञानस्योभयकोटिसाधारण्यादिति भावः  अर्थेति ॥

 

१.रात्तकुं.   २. वर्तित्वेन  कुं.   ३. येऽनुकखगचछ.  ४.नातादृमुअ,

येता  आ.

 

ज्ञप्तौपरस्त्वानभङ्गः)            प्रामाण्यवादः             पु  १२६.

 

द्वितीयहेतावपि तृतीये प्रमाण्यसंदेहक्षणेऽनुव्यवसायनाशात्प्रामाण्यसंशयघटिता यार्ऽथसंदेहसामग्री तस्या १ अनुव्यवसायसमकालीनत्वं नास्तीति नार्थे व्यभिचारः । न तु स्वाश्रयविषयकनिश्चसमानकालीयसंशयविषयत्वं हेतुः । प्रामाण्यसंशयोत्पत्तिक्षणेऽ २ नुव्यावसायस्य नाशेनासिद्धेः ।

तृतीयहेतावपि घटविषयकनिश्चयधर्मिकप्रामाण्यसंशयजन्यसंशयाविषयत्वं पटेप्यस्तीत्यर्थे व्यभिचारः । तद्वारणाय ३ ग्राह्यमाण्याश्रयविषयकत्वेन निश्चयो विशेषितः ।

 

इदं रजतं न वेत्येवं रूपेणार्थसन्देह इत्यर्थः । अर्थघटिकपूर्वभाविप्रामाण्यसन्देहस्यैव कोटिस्मृतिरूपत्वाच्चतुर्थक्षणेर्ऽथसन्देह इति भावः ॥

प्रामाण्यसंशयघटितेति ॥ कोटिस्मृतिरूपत्वात्तस्य तद्घटिता ४ मनस्संयोगादिरूपा या सामग्रीत्यर्थः । सामग्रीजन्येति

विशेषणं व्यर्थमेवं च नार्थे नैकान्त्यमित्याशङ्क्य तत्सार्थक्यं वक्तुमाह नत्विति ॥ द्वीतीयहेतुर्मणिकृदभिमत एवोत्प्रोक्षितो न साक्षादुक्त इति एवमेव तस्याभिमतिः ५ किं सामग्रीपदप्रक्षेपेणेत्यतोऽसिद्धिरूपबाधकोपदर्शनेतत्कृतम् । असिद्धिवारकत्वेपि यथोक्तविशेषणविशेष्यभावेन वैयर्थ्यमिति भावः पटेपीति ॥ पटज्ञानस्यापि ग्राह्यप्रामाण्याश्रयतया तद्ग्राह्यकानुव्यवसायग्राह्यत्वेन साध्याभावादिति भावः विशेषत इति ॥

 

१. मकुं  २.तदनु. कुं   ३.ग्राह्यपदं न क.   ४.तात्ममुअआ. ५.कुतोन ।

इत्यादिकं  अआ.

 

ज्ञप्तौपरस्त्वानभङ्गः)             प्रामाण्यवादः           पु  १२७.

 

तथापि व्यावसायप्रामाण्यस्य स्वाश्रयविषयिका या १ प्रामाण्यानुमितितस्तद्धर्मिकप्रामाण्यसंशयजन्यसंशयविषयत्वादसिद्धिः । तद्वारणाय किञ्चिदिति विशेषणम् । एवं च नासिद्धिः । २ अनुमितिप्रामाण्यसंशयेन व्यवसायप्रामाण्यसंशयेप्यनुव्यवसाय २ प्रामाण्यसंशयेन तत्संशयाभावात् । न तु प्रामाण्यसंशयाजन्यसंशयविषयत्वं हेतुः । अर्थस्यापि तदजन्यसंशयं प्रत्यपि विषयत्वेन व्यभिचारात् । अत्र सर्वत्र विपक्षे हेतूच्छित्तिरेव बाधिका । स्वतस्त्वपक्षेऽनुव्यवसायस्यैव प्रामाण्यनिश्चयरूपत्वात्द्वितीये तत्स्थितिक्षणे तदभावघटिता या
संशयसामग्री तदभावेन तृतीयक्षणे प्रामाण्यसंशयानुपपत्तेः ॥

 

तथा च तस्याप्यनुव्यवसायग्राह्यतया तद्धर्मिकप्रामाण्यसंशयजन्यसंशययोग्यत्वेन हेत्वभान्न व्यभिचार इति भावः  नासिद्धिरिति ॥ अखण्डाभावान्नासिद्धिवारकत्वं दोष ३ इति भावः अनुव्यवसायेति ॥ तस्य प्रामाण्यनियमेन कदापि तत्र ४ सन्देहाभावादिति भावः । हेतूच्छित्तिं व्यनक्ति  स्वतस्त्वेत्यादिना ॥ प्रामाण्यनिश्चयेति ॥ तथा चविशेषदर्शने कथं

सन्देह इति भावः  तदभावेति ॥ प्रामाण्यनिश्चयरूपविशेषणदर्शनाभावेत्यर्थः ॥

 

१. प्रामाण्यपदं न कुंकखगछ.     २. अनुमितिप्रामाण्यसंशयेनेवानुव्यवसाय

ग.   ३. दूषणमा.   ४. प्रामाण्यसं मु,अआ.

 

ज्ञप्तौपरस्त्वानभङ्गः)         प्रामाण्यवादः             पु  १२८.

 

अत एव द्वितीये प्रामाण्यनिश्चयस्थितिक्षणे तदभावघटिसंशयसामग्र्यभावेन प्रामाण्यस्य स्वाश्रयनिश्चयसमानकालीनसामग्रीजन्यसंशयविषयत्वायोगात् । अनुव्यवसायस्य प्रामाण्यग्रहकत्वे ग्राहकप्रामाण्यसन्देहे  ग्राह्यसन्देहनियमेन व्यवसायप्रामाण्यानुमितेः १ प्रामाण्यसन्देहनेवानुव्यवसाय २ प्रामाण्यसन्देहेनापि कादचिद्व्यवसायप्रामाण्यसन्देहापातात् । न चेष्चापत्तिः । अनुव्यवसायस्य प्रामाण्यनियमादिति ॥

उच्यते ।

आद्ये साध्येऽपसिद्धान्तो बाधो व्याघातश्च ।

 

अत एव ॥ प्रामाण्यविश्चयस्य तन्निश्चयत्वादेवेत्यर्थः । द्वितीय इत्यस्य विवरणं स्थितिक्षण इति । तृतीय हेतूच्छित्तिं व्यनक्ति  अनुव्यवसायस्येति ॥

प्रतिज्ञादोषांस्तावदाहआद्यो साध्य इत्यादिना ॥ उक्तरूपेण स्वाश्रयग्राहकत्वस्य प्रामाण्यग्राहकत्वरूपतया तादृशेनानुमित्यादिना ग्राह्यत्वस्य परमतेपि सिद्धत्वात्तदभावसाधनेऽपसिद्धान्तः । प्रामाण्यग्राहकेण प्रामाण्यं न ग्रह्यमित्युक्ते बाधो व्याघातश्च स्फुट एव । स्वातन्त्र्येणेत्युक्तावपि बाधोद्धारग्रन्थोक्तरीत्या बाध एव । उक्तरूपसाध्यस्यार्थेपि सत्वेन व्यभिचारप्रसक्त्य तद्वारकहेतुविशेषणवैयर्थ्याच्चेति भावः ॥ अंश इति ॥ सर्वं ज्ञानं गुण इति शब्द जन्यज्ञानप्रामाण्यांश

इत्यर्थः । तत्पक्षीकरणस्यापि प्रागुक्तत्वादिति भावः ।

 

१. तिप्रा  कुं.     २. स्य  क  ख  छ.

 

ज्ञप्तौपस्त्वानभङ्गः)              प्रामाण्यवादः             पु  १२९.

 

द्वितीयेंऽशे सिद्धसाधनम् । उपपादतं चैतत्परोक्तस्वतस्त्व १ निरुक्तिभङ्गे ॥

किञ्च साध्ये स्वशब्दः किं पक्षीकृतप्रामाण्यमात्र २ परः ? किं वा समभिव्याहृतपरः । नाद्यः । अप्रामाण्यस्याप्रामाण्यवत्यप्रामाण्यप्रकारकत्वरूपप्रामाण्याश्रयग्राहकेण ज्ञानेन ग्राह्यतया तदग्राह्यरूपसाध्यस्याप्रामाण्यरूपे दृष्टान्तेऽभावात् । नान्त्यः । घटरूपेर्ऽथे व्यभिचाराप्रसक्त्या हेतौ ३ तृतीयपदस्य व्यर्थत्वात् ।

अस्मिन्पक्षे हि समभिव्याहृतो घट एव स्वशब्दार्थः ।

 

अत एवाह उपपादितं चैतदिति ॥ बाधव्याघातयोः कण्ठतोऽनुक्तावपि उपपादितप्रायत्वादुपपादितमित्युक्तम् ॥

दृष्टान्तहेतुदोषौ पक्षभेदेनाहः किञ्चेति ॥ अप्रामाण्यस्येति ॥ शुक्तौ रूप्यत्वभ्रमानन्तरं बाधावतारदिदं ज्ञानमप्रमेत्यनुव्यवसाये यदप्रामाण्यवत्यप्रामाण्यप्रकारकत्वरूपं प्रामाण्यं तस्यापि पक्षत्वेन तत्प्रामाण्याश्रयग्राहकेण तद्धटकीतभूताप्रामाण्यस्य ग्राह्यतया तत्र साध्यवैकल्यमित्यर्थः । अप्रामाण्यवदित्यत्र ४ पक्षीभूतप्रामाण्यसंशयकोटिभूताप्रामाण्यवदित्यर्थस्य तट्टीकोक्तावपि तादृशप्रामाण्यघटकस्यापि तथात्वमपि भावः । व्यभिचाराप्रसक्तिं व्यनक्ति । अस्मिन्पक्ष इति ॥

 

१.परतस्त्व इत्यादिकं  कुं कगछ.   २. मात्रपदं न कुंग.   ३. हेताविति न कुं कखगछ.   ४. स्यमुअआ.

 

ज्ञप्तौपस्त्वानभङ्गः)          प्रामाण्यवादः              पु  १३०.

 

घटे च घटाश्रयी १ भूतकपालग्राहकयावज्यज्ञानाग्राह्यत्वरूपं साध्यमस्त्येवेति कथं तत्र व्यभिचारप्रसक्तिः ।

किञ्चेतैरनुमानैः प्रमाण्यस्य किं साक्षग्रहणयोग्यत्वाभवः साध्यते २ निश्चयरूपफलाभावो वा । नाद्यः धर्म्यंश इव वैशिष्ट्यांशेपि त्वन्मते व्यवसायोपनीयत्वरूपा मन्मते व्यवसायोपनीते तस्मिन्साक्षणः सहजशक्तिरूपायोग्यतास्तीत्युक्तत्वेन बाधात् । संशयस्य निश्चयरूपफलाभावेनैवोपपत्त्या योग्यत्वाभावसाधनेऽप्रयोजकत्वाच्च । अन्त्येऽपि फलाभावसाधनं किं दोषशङ्कादिरूपेण प्रामाण्यविरोध्युपस्थापक

 

ननु ग्राह्यज्ञानप्रकारेत्यत्र ग्रह्यज्ञानशब्दस्यापि स्वाश्रयपरतया घटाश्रयकपालस्य निष्प्रकारप्रकारतया तद्विशेष्यविशेष्यकतया घटाश्रयग्राहकयावज्ज्ञानमप्रसिद्धमिति  चेन्न । तादृशज्ञानाप्रसिद्धिरेव तद्ग्राह्यत्वं तदभावरूपसाध्यसत्वात् । अत एव"साध्यमस्त्येव"इत्यक्तम् ।

यद्वा ३ कापालविषयतादृशज्ञानाप्रसिद्धिरेव तद्विषयत्वरूपफलाभावो घटे न सिद्धः । येन तत्र व्यभिचारप्रसक्तिर्न स्यादित्य ४ रुचेत्याह  किञ्चेति ॥ धर्म्यंश इत्युपलक्षणम् । धर्मधर्म्यंशयोरिवेत्यर्थः  अस्मिन्निति ॥ वैशिष्ट्यांशविषय इत्यर्थः उक्तत्वेनेति ॥ बाधोद्धारग्रन्थे अप्रतिबन्धेति ॥

 

१. यभूकुंकगख.    २. उतख.   ३. ननु आ.   ४.त्यत आह  अ.

 

ज्ञप्तौपस्त्वानभङ्गः)            प्रामाण्यवादः               पु  १३१.

 

सामग्रीसमवधानेनाप्रतिबन्धदशायामुत प्रतिबन्धदशायाम् । नाद्यः । तदा प्रामाण्ये १ संशयाभावेनाश्रयासिद्धेः । स्वरूपासिद्धेश्च । नान्त्यः । इष्टापत्तेः ।

न च फलाभवेनैव योग्यत्वाभावस्मिध्यति । बाधस्योक्तत्वात् । वह्नौ दाहदशक्तेरिव साक्षणि प्रामाण्यग्रहणस्येव दोषशङ्कादिप्रतिबन्धेन प्रामाण्याग्रहण २ शक्तेः सहजत्वेपि मण्यादिप्रतिबन्धेनादाहस्येव दोषशङ्कादिप्रतिब्धेन प्रामाण्यग्रहणस्योपपत्तेश्च । उक्तं हि टीकाकारैः ।"न हि गोक्षुरकापसर्पणसापेक्षत्वेन गजस्य गमनशक्तिः परतन्त्रा"इति ।

 

साध्ये संशयवेलायामग्राह्यमित्यनुक्तेर्विकल्पद्वयावकाश इति भावः इष्टापत्तिरिति ॥ अप्रतिबद्धसाक्षवेद्यत्वस्य साक्षयोग्यत्वस्य वा स्वतस्त्वस्यास्मदभिमकतस्यानपायादिति भावः ॥

ननु फलाभावेन योग्यत्वाभावानुमानात्स्वतस्त्वहानिरेवेत्यत आह  न चेति ॥ बाधस्योक्तत्वादिति ॥ त्वन्मत इत्यादिनेत्यर्थः । शक्तिरूपयौग्यत्वसत्वे तदग्रहोऽयुक्त इत्यत आह वह्नाविति ॥ प्रतिबन्धाभावसापेक्षत्वे कथं न स्वतस्त्वहानिरित्यत आह  उक्तं हिति ॥ वादावल्यामित्यर्थः ।

ननु मण्युक्तहेतूनां स्वोक्तहेतुप्रतिपक्षत्वेनात्रोपन्यासादुपाधेः प्रतिपक्षोन्नाकत्वपक्षे प्रतिपक्षे प्रतिपक्षान्तरवदुपाध्युद्भावनं व्यर्थमित्यतो मणिकृन्मतावष्टम्भेनाह  उपाधेर्व्यभिचारेत्यादि ॥

 

१. ण्यग. २.णस्योपपत्तेश्च इत्येतावदेववर्तते  क.

 

ज्ञप्तौपस्त्वानभङ्गः)                प्रामाण्यवादः           पु  १३२.

 

किञ्चोक्तेनानवस्थारूपेण प्रथमस्य प्रामाण्यग्रहणस्यानिपपत्तिरूपेण च तर्केण पराहतिः । अपि चोपाधेर्व्यभिचारोन्नाकत्वपक्षेऽनुव्यवसायविषयत्वयोग्यतारहितोपाधिघटितत्वमुपाधिः । तदग्राह्योपाधिघटितत्वं च तदग्राह्यत्वं

विनानुपपन्नम् । प्रत्यक्षाग्राह्यगुरुत्वघटितगुरुत्ववत्त्वादौ तथा दर्शनात् । १. त्वदियो हेतुस्तु तद्ग्रह्यत्वेपि ग्रहणरूपफलाभावेनैवोपपन्न इत्युपाधिस्साध्यव्यापकः ।

 

धर्मधर्मिवद्वैशिष्ट्यांशेपि योग्यताया उपपादिततत्वेनानुव्यवसाययोग्यतारहितोपाधिघटितत्वं पक्षीभूतप्रामाण्ये साधनवति नेति साधनाव्यापकत्वं स्पष्टम् । साध्यव्यापकत्वं कथमित्यतः साध्यं प्रति प्रयोजकत्वमस्य व्यनक्ति  तद्ग्राह्येति ॥ पूर्वोक्तोपाधेर्निष्कुप्यानुवादोयम् ।

हेतोरप्रयोजकत्वमाह त्वदिय २ इति ॥ तद्ग्राह्यत्वेपि  तद्ग्रहणयोग्यत्वेपीत्यर्थः । एवं चोपाधिहेतत्वोरनुकूलतर्कभावाभावोक्त्या

अनुकूलेन तर्केण सनाथे सति साधने ।

साध्यव्यापकताभङ्गत्पक्षे नोपाधिसम्भवः ॥

इत्यस्यानवकाश इति भावेनाह  साध्यव्यापक इति ॥

साक्षणो ज्ञानगोचरस्य ज्ञानत्वांशेपि सविकल्पकत्वात्तत्सिद्ध्यर्थं परोक्तं निराह  ॥ किञ्चेति ॥

 

द्वितीयो  कुं ख.  २.द्वितीय कुं.

 

ज्ञप्तौपस्त्वा नभङ्गः)          प्रामाण्यवादः               पु  १३३.

 

किञ्चानुव्यवसायस्य नरसिंहाकारत्वे घटनिषयकं प्रमाणं न वेत्येव संशयः स्यात् । न तु घटविषयकं ज्ञानं प्रमाणं न वेति। ज्ञानत्वस्य धर्मितावच्छेदकत्वेनाज्ञानात् । किञ्चेद्ये संशयस्य तृतीयक्षणवृत्तित्वमसिद्धम् । असर्वज्ञेनातीन्द्रियातिसूक्ष्मक्षणेयत्ताया निश्चेतुमशक्यत्वेन स्वाश्रयनिश्चयावधिकतृतीयक्षण एव संशयो न तु चतुर्थादाविति

निर्णेतुमशक्यत्वात् ।

यदि त्वनुव्यवसायस्य प्रामाण्यविश्चयरूपत्वाभावाद्द्वितीयक्षणे तन्निश्चायाभावविशिष्टकोटीस्मरणरूपसंशयसामग्र्याः सत्वेन संशयस्य तृतीयक्षणवर्तित्वकल्पनं तर्हि संशयस्य तृतीयक्षणवृत्तित्वेनानुव्यवसायस्य प्रामाण्यनिश्चयरूप १ त्वाभावरूपं परतस्त्वं त्वाया साध्यत इत्यन्योन्याश्रयः ।

 

अज्ञानादिति ॥ एवं च तदर्थं ज्ञानत्ववैशिष्ट्यज्ञानान्तराङ्गीकारे च स्वाश्रयनिश्चयावधिकतृतीयक्षणवृत्तित्वमसिद्धमिति भावः ।

ननु निश्चयपदेन सविकल्पक एव विवक्ष्यत इत्यत आह  किञ्चेति ॥ २ हेतुत्रयसाधारणदोषानुक्त्वा प्रातिस्विकरूपेणापि दोषमाह  किञ्चाद्य इति ॥ असिद्धमिति ॥ सन्दग्धसिद्धमित्यर्थः । अन्योन्याश्रय इति ॥

 

१. रूपपदं  न  कुं  ग  ख  छ.    २. यद्वा एवं  मु  अ  आ.

 

ज्ञप्तौपस्त्वानभङ्गः)            प्रामाण्यवादः                पु  १३४.

 

न च चतुर्थादिक्षणवृत्तिनापि संशयेन परतस्त्वसिद्धिः । द्वितीयक्षणोत्पन्नेन कोटिस्मरणेन प्रामाण्यनिश्चयरूपप्रतिबन्धकवशात्तृतीयक्षणे संशयानुत्पादेपि तृतीयक्षणोत्पन्नेन प्रतिबन्धकध्वंसेन विशिष्टं तत्क्षणे १ तिष्ठद्यत्संशयसामग्रीरूपं कोटस्मरणं तेन चतुर्थक्षणे संशयोत्पादनसम्भवात् ।

 

सिद्धे चानुव्यवसायस्य प्रामाण्यविश्चयत्वाभावे संशयस्य तृतीयक्षणवृत्तित्वासिद्धिः । तत्सिद्धौ च तत्सिद्धिरित्यर्थः ।

ननु मास्तु हेतुनिश्चयः चतुर्थादिक्षणवृत्तिसंशयविषयत्वेनाप्युक्तसाध्यसिद्धिरस्त्वित्यतः प्रथमक्षणे धर्मिज्ञानरूपानुव्यवसायेन

प्रामाण्ये निश्चितेपि चतुर्थक्षणादौ तत्र संशयो नानुपपन्न इत्यप्रयोजको हेतुरित्याह  न चेत्यादिना ॥ द्वितीयेति ॥ अनुव्यवसायास्थितिक्षणोत्पन्नेनेत्यर्थः प्रामाण्यनिश्चयरूपेति ॥ पूर्वतनधर्मिज्ञानाख्यप्रामाण्यनिश्चयरूपेत्यर्थः  तत्क्षण इति ॥ २ तृतीयक्षण इत्यर्थः । सामग्रीरूपमिति ॥ तदा तन्मते धर्मिज्ञानस्य नाशेपि तस्य कोटिस्मरण एवोपयोगेन तदभावस्यादोषत्वात् । तस्य नाशेपि स्मृत्युपनीते तस्मिन् ज्ञानं प्रमाणं न वेति संशयोपपत्तेश्च ।

न च तस्य प्रामाण्यत्वेनैव स्मृत्योपनयः तथैव प्रागनुभवादिति वाच्यम् । दोषेण प्रामाण्यांशप्रतिबन्धसम्भवात् ।

 

१. णवृत्ति  ख.   २. चतुर्थ  अ.

 

ज्ञप्तौपस्त्वानभङ्गः)             प्रामाण्यवादः              पु  १३५.

 

द्वितीयहेतावप्यनव्यवसायस्य प्रामाण्यविषयकत्वे सिद्धे द्वितीयेऽनुव्यवसायस्य १ स्थितिक्षणे प्रामाण्यनिश्चयाभाव २ विशिष्टकोटिस्मरणरूपसंशयसामग्र्याः सत्वेन तस्या ३ अनुव्यवसायरूपनिश्चयसमानकालीनत्वसिद्धिः । सिद्धे च तस्मिन्नुक्तरूपसामग्रीजन्यसंशयविषयत्वेन प्रामाण्यस्यानुव्यवसायविषत्वासिद्धिरित्यन्योन्याश्रयः ।

एवं तृतीयहेतावप्यनुव्यवसायस्य प्रामाण्यनियमे सिद्धे किं प्रमैव प्रमात्वेन गृहीता अप्रमैव वेति संशयस्य प्रामाण्यानुमितिधर्मिकत्वमेव

 

वस्तुतस्तु मन्मते दोषस्थले व्यवसायस्य साक्षवेद्यत्वात्त ४ त्प्रामाण्यस्य च मानसत्वात्तन्मात्रोपनयो न विरुद्ध इति भावः ।

द्वितीयहेतावपीति ॥ स्वाश्रयनिश्चयसमानकालीनत्वं संशयसागग्र्यामसिद्धमिति योज्यम् ।

ननु धर्मिनिश्चयरूपानुव्यवसायस्य प्रामाण्यचविषयकत्वादेव विशेषादर्शनविशिष्टा

कोटिस्मरणादिसामग्री तत्कालीनेति ज्ञायत इत्यतो दुर्ज्ञानमेतदित्याह  अनुव्यवसायस्येत्यादिना ॥ द्वितीय

इत्यस्यार्थोऽनुव्यवसायस्य स्थितिक्षण इति ।

तृतीयहेतावपीति ॥ अनुव्यवसायधर्मिकप्रामाण्यसंशयजन्यसंशविषयत्वं दुर्ज्ञानमिति योज्यम् । अनुव्यवसायस्य प्रामाण्यनियमदेव तत्सुज्ञानमित्यत आह  अनुव्यवसायस्येति ॥

 

१. यस्थि  कखछ.  २.रूपप्रतिबन्धकाभावकुंग.    ३. तस्यानिश्चय  क खछ.    ४. दप्राकुं.

न्यायदीपयुततर्कताण्डवम्         ( प्रथम परिच्छेदः            पु  १३६.

 

न त्वनुव्यवसायध्मिकत्वमित्यस्यार्थस्य सिद्ध्या व्यवसायप्रामाण्या १ नुव्यवसायधर्मिकप्रामाण्यसंशयजन्यसंशयाविषयत्वसिद्धे २ तस्मिन्ननुव्यवसायस्य प्रामाण्यनियमसिद्धित्यन्योन्याश्रय एव ।

एतेन प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वातप्रामाण्यवत् । परतस्त्वं च यत्प्रतिवादिना निषिध्यते तदेव ३ साध्यते । अत्र च भागासिद्धिर्न दोषः ।

 

सिद्धे च तस्मिन्निति ॥ व्यवसायप्रामाण्यस्येत्यादिपरामर्शः । सिद्धान्तेप संशयादिस्थलीयप्रामाण्यानुव्यवसायस्य ४ प्रमात्वानियमादिति भावः ।

एवं मण्युक्तानुमानानि निरस्य द्वितीयस्तबके कुसुमाजलावुदयनोक्तं सुधायामाशङ्कितमनुमानं च निराह  एतेनेति ॥ निरस्तमित्यन्वयः । ननु परत्वस्यान्यत्वरूपस्य कोवलान्वयित्वेन स्वतस्त्वेप्युपपत्यार्ऽथान्तरामित्यतस्तत्परिष्करोति  परतस्त्वं चेति ॥ तत्प्रकारप्रकारेत्यादिना प्रागुक्तरूपज्ञाना ५ ग्राह्यत्वं निषिध्यत इति तदेवेत्यर्थः ।

तथा च"स्वग्राह्यत्वेपि कदाचित्परग्राह्यत्वात्स्वस्याप्यन्यापेक्षया परत्वात्"इत्यादिमण्युक्तखण्डनानवकाश इति भावः  अत्र चेति ॥

ननु"अनभ्यासदशायामिति भागासिद्धिवारणार्थं"इति वर्धमानोक्तेः कथं भागसिद्धिशङ्केति चेन्न । प्रामाण्यमात्रस्य पक्षत्वेन सांशयिकत्वादित्युक्तौ क्वचिदसिद्धेरनभ्यासदशायामित्युक्ता ६ वभ्यासदशोत्पन्न ७ ज्ञानप्रामाण्येपक्षैकदेशेऽनभ्यासोत्पन्नेपि सर्वत्र सन्देहाभावेन भागासिद्धिशङ्कायां प्रचीनमताभिप्रेतदोषत्वोक्तिरिति ज्ञेयम् ।

 

१. ण्यस्यानुखछच.   २. तुमुचग.   ३.ऽसाध्यतेऽ इति नकुंगछ.   ४.  स्याप्रमात्वादि निअ.   ५. ज्ञानग्रामु.           ६.क्त्याअ.     ७. न्नेअ.

 

ज्ञप्तौपस्त्वानभङ्गः)        प्रामाण्यवादः                 पु  १३७.

 

उद्देश्यस्य पक्षतावच्छेदकधर्मसमानाधिकरणसाध्यप्रतीतिरूपस्य फलस्य तत्समानाधिकरणसाधनप्रतीतिरूपस्य १ करणस्य चाविघातात् । यत्र २ सर्वत्र पक्षे साध्यप्रतीतिरुद्देश्या तत्रैव सा दौषः । अत्र च न काचन कृसृष्टिः ।

नापि सामान्यविप्रतिपत्त्यनानुगुण्यमिति निरस्तम् । बाधाप्रयोजकत्वाद्युक्तदोषात् ।

 

उद्देश्यस्येति ॥ यथा भौगायतनत्वादिरूपा ३ व्यग्रशरीरादिलक्षणेनापि केवलप्यतिरेकिणेतरभेदादिसाधनमन्यथा तन्न स्यात् ।  तथेहापि यावति हेतुरस्ति तावति पक्षे पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिसम्भवात् । तावत एवोद्देश्यत्वात् । उद्देश्यसिद्धिफलकत्वादनुमानस्येत्यर्थः । तर्हि ४ दोष एव न स्यादित्यत आह  यत्र त्विति ॥ तथा च मणौ यदनभ्यासेति विशेषणमुदयनोक्तहेतुविशेषणं भङ्त्वा पक्षविशेषणं कृतं तदसिद्धिवारकं व्यर्थमित्युपेत्येति ज्ञेयम् ।

मण्युक्तपक्षापेक्षयात्र गुणविशेषणमाह  अत्र चेति ॥ प्रचीनोक्तानुमानपक्षे पक्षतावच्छेदकनिर्वचनक्लेशो वा हेतुपक्षतावच्छेदकैक्यनिबन्धनः सिद्धनाधनता क्लोशो वा हेतुपक्षतावच्छेदकैक्यनिबन्धनः सिद्धसाधनता क्लेशो वा नरसींहाकारज्ञानविशेषणदुर्ज्ञानत्व

 

१. काकुंग.    २. तु कुंगछ.   ३. व्याप्तमुअआ.  ४. सामु.

 

न्यायदीपयुततर्कताण्डवम्       ( प्र. परिच्छेदः                पु  १३८.

 

एतेनैव प्रामाण्यं परतो ज्ञायते । प्रामाण्याप्रामाण्यान्यतरमात्रकोटिकसंशय १ विषयत्वादप्रामाण्यवदित्याद्यपि निरस्तम् ।

तस्माज्ज्ञप्तावुप्तत्तौ च प्रामाण्यं स्वत एवेति ।

 

२ क्लेशो वा नेत्यर्थः । अप्रयोजकत्वादित्यादिपदेन प्रतिकूलतर्कपराहतिसोपाधिकत्वादिग्रहः । सुधाक्तदिशा स्वतः प्रमाणत्वेनाङ्गीकृतधर्मिज्ञानानुमितिप्रामाण्ये व्यभिचारस्य च ग्रहः  एतेनैवेति ॥ बाधादिनैवेत्यर्थः । दृष्टान्तघटनाय हेतावप्रामाण्यपदम् । अन्यतपरशब्द उभयपरः । प्रामाण्याप्रामाण्योभयमात्रकोटिकेत्यर्थः । संशयविषये घ ३ टाद्यर्थेव्यभिचारनिरासाय प्रामाण्याप्रामाण्यान्तरकोटिकेत्युक्तिः । इदं ज्ञानं ४ गुणो न वा

प्रमाणमप्रमाणं वेति तदङ्तीकृतचतुष्कोटिकसंशयविषयज्ञान ५ गणत्वे व्यभिचारनिरासाय मात्रेत्युक्तिः । ६ यदि च विषयकत्वादित्यस्य कोटित्वादित्यर्थस्तदा गुणत्वे व्यभिचारवारणाय मात्रपदमिति ज्ञेनम् ६ । आदिपदेन प्रामाण्यं परतो ज्ञायते स्वतोऽग्राह्यत्वे सति ग्राह्यत्वादित्यादेर्ग्रहः ।

उपपादतज्ञाप्तिस्वतस्त्वेनैवोत्पत्तावपि तत्सिद्धप्रायमिति भावेनोत्तरवादोपत्रेपणायोक्तमुपसंहरति  तस्मादिति ॥ स्वतस्त्वे साधक ७ भावाद्बाधकाभावात्परतस्त्वपक्षे तदुभयावादित्यर्थः । उत्पत्तौ स्वतस्त्वं च सुधोक्तदिशा ज्ञानजनकमात्राधीनजन्मत्वमिति स्पष्टमिति भावः ।

 

१.कोटित्वात्कुंगचछ.   २. क्लेशादिःमुअ.  त्वादिक्लेआमु. ३. टत्वामुअआ.   ४. गुणुपदं नास्तिअआ.

५.गुण इति न मुअ.   ६.अयंग्रन्थः नास्तिकुं.  ७. कामुअआ.

 

उत्पत्तौ परतस्त्वे चिरन्तनानुमानभङ्गः)     प्रामाण्यवादः         पु  १३९.

 

एतदप्युक्तं"अन्यथा"इत्यादिना । फलाभावमात्रेण स्वरूपयोग्यत्वाभावसाधने लोकसिद्धसर्वव्यवस्थायोगादित्यर्थः ॥

॥ ज्ञप्तौ परतस्त्वानुमानभङ्गः ॥ ९ ॥

 

एतदपीति ॥ निश्चयरूपफलाभावे योग्यत्वाभावो नेत्येतदपीत्यर्थः  लोकेति ॥ प्रतिबन्धकस्थलीयदाहाद्यभावेपि वह्न्योदस्तच्छक्ततास्तीति लोकसिद्धव्यवस्थेत्यर्थः ।

॥ ज्ञप्तौ परतस्त्वानुमानभङ्गः ॥ ९ ॥

 

ननु कथमेततनित्यप्रमा ज्ञानहेत्वतिरिक्तहेतुजन्या कार्यत्वे सति तद्विशेषत्वात् । अप्रमावत् ।

 

एतदिति ॥ उत्पत्तौ च प्रामाण्यं स्वत एवेत्येतदित्यर्थः । कुत इत्यतः कुसुमाञ्जल्युक्तेन तत्वनिर्णयटीकाद्याशङ्कितेनानुमानेन विरोधं मानाभावं च हेतुद्वयमाह अनित्यप्रमेति ॥ प्रमेत्येवोदयनोक्तावपीश्वरज्ञानांशे बाधवारणाय तदभिप्रेतं स्वयमुक्तमनित्येति ॥ अत एव अनित्यप्रमात्वं कार्यतावच्छेदकमिति रुचिदत्तोक्तिः । हेत्वधीनत्वे १ ज्ञानहेत्वधीनत्वे न साध्ये सिद्धसाधनमतो ज्ञानहेत्वतिरिक्तहेतुजन्येति ॥ तद्विशेषत्वात् ॥ ज्ञानविशेषत्वादित्यर्थः । ईश्वरज्ञाने व्यभिचारनिरासाय  कार्यत्वे सतीति ॥ ज्ञाने तद्दोषनिरासाय विशेष्यम् ॥

 

१. "ज्ञानहेत्वधीनत्वे"इति नास्ति  आ कुं.

 

न्यायदीपयुततर्कताण्डवम्             प्रामाण्यवादः          पु  १४०.

 

अन्यथाप्रमापि प्रमा स्यात् । यदि दोषप्रतिबन्धान्न प्रमा १ तर्हि ज्ञानमपि २ सा

न स्यादित्यनुकूलतर्कसनाथानुमानविरोधात् । स्वतस्त्वे च मानाभावादिति चेन्न । प्रमाया ज्ञानत्वेन तद्धेतोर्ज्ञानहेतुततया तदतिरिक्तजन्यत्वसाधने बाधात् । विरोधाच्च ।

नापि ज्ञानत्वप्रयोजकहत्वतिरिक्तहेतुजन्येति साध्यम् । प्रत्यक्षत्वादिप्रयोजकानामिन्द्रियादीनां

 

एतेन मणौ जन्यत्वादीति हेत्वनुवादोऽनुचित इति सूचितम् । कुसुमाञ्जलौ मणौ चोक्तमनुकूलतर्कमाह अन्यथेति ॥ प्रमात्वस्य ज्ञानसामग्रीमात्रप्रयोज्यत्वेऽप्रामायामपि प्रमात्वं स्यात् । तत्रापि ज्ञानसामान्यहेतोः सत्वादिति भावः  ज्ञानमपीति ॥ ज्ञानत्वप्रमात्वयोरेकसामग्रीप्रयोज्यत्वादेकांशे

प्रतिबन्धेऽपरांशेति तथात्वादिति भावः । मानाभावाच्चेति चान्वयः । व्याघातं चाह  विरोधाच्चेति ॥ ३ ज्ञानाजनकजन्यत्वार्थत्वेप्युक्तदोषावेवेति भावः ॥

मणिकुतोत्प्रेक्ष्य दूषितानपि पक्षान् शिष्याणां सुबोधायानूद्य निरा ४ करोति  नापीति ॥ प्रत्यक्षत्वादीत्यादिपदेनानुमितित्वोपमितित्वाशाब्दत्वानां तथा चाक्षुषत्वादीत्यत्र रासनत्वादीनां द्वितीयचतुर्थादिपदानां च परामर्शोपमानशब्दज्ञानानां रसनादीनां च ग्रहः ।

 

१. तदाक.  २."सा"इति न मुच.  ३.ज्ञानजनकाजन्यार्थत्वे कुं ४.राहमुआअ.

 

उपचिनुनभङ्गः)            प्रामाण्यवादः              पु  १४१.

 

चाक्षुष्वादिप्रयोजकानां चक्षुरादीनां च ज्ञानत्वप्रयोजकातिरिक्तत्वेन यथायथं तैस्मिद्धसाधनात् ।

नापि ज्ञानसामान्यसामग्र्यतिरिक्तसामग्रीजन्येति साध्यम् । सामग्रीशब्देन कृत्स्नकारणचक्रविवक्षायां सामग्रीभे १ दे कार्यभेदनियमेन प्रमाया ज्ञानभिन्नत्वापत्तेः । कतिपयकारणच २ क्रविवक्षायां चोक्तरीत्येन्द्रियादिभिः सिद्धसाधनात् ॥

। एतेनानित्यज्ञानत्वावच्छिन्नकार्यता ३ भिन्नकार्यत्व

 

सिद्धसाधनादित्युपलक्षणम् । ज्ञानत्वस्येश्वरज्ञानवृत्तित्वेन ४ करणाप्रयोज्यतया तत्प्रयोजकसामग्र्यप्रसिद्ध्य साध्यप्रसिद्धिरित्यपि बोध्यम् ॥

ननु ज्ञानत्वप्रयोजकहेत्वित्यस्य ज्ञानत्वाश्रयजनकसामग्रीत्यर्थो विवक्षितः । तेन नेन्द्रियादीभिः सिद्धसाधनम् । तेषामपि तदाश्रयजनकसामग्रीत्वेन तदन्यत्वाभावादित्यत आह  नापि ज्ञानसामान्येति ॥ ज्ञानत्वाश्रयसामग्रीत्यर्थः  सामग्रीभेद इति ॥ सामान्यविशेषकार्यस्थलेपि सामान्यकार्यसामग्रीतो विशेष ५ कार्यसामग्री न भिन्ना किन्तु मिलितैवेति भावः  सिद्धसाधनादिति ॥ इन्द्रियादीनामपि ज्ञानत्वाश्रयकतिपयकारणान्यत्वादिति भावः ॥

ज्ञानत्वस्य नित्यवृत्तितयानवच्छेदकत्वादाह अनित्यज्ञानत्वेति ॥ अनित्यज्ञानत्वेना ६ नवच्छिन्ना नियता ७ व्यावर्तिता वा ८ या कार्यता

 

१. दयनियमेनग.  २. चक्रपदं  नमुच.  । अयं ग्रन्थःकच. पुस्तके नास्ति.  ३. अन्यमुछग.   ४.करणकुं.   ५.कार्यपदं नमु.   ६. नावकुं .अआ.  ७.नित्यव्यावर्तिता कुं.  ८. वा इति  न आकुं.

 

प्रतियोगिककारणजन्येति साध्यत इति निरस्तम् । इन्द्रियादिभिः सिद्धसाधनात् ॥

एतेन अनित्यप्रमा प्रमा १ प्रमोभयहेतुभिन्नहेतुजन्या जन्यत्वात्, प्रमाप्रमान्यतरप्रतिबन्धकजन्या वा प्रमाप्रमान्यतरत्वात्,

स्वविरोध्यनुभवप्रतिबन्धकजन्या वा

 

अनित्यज्ञानमात्रवृत्तिरात्ममनोयोगादिप्रयोज्या कार्यता तदन्यकार्यत्वं प्रमानिशष्ठप्रणानिष्ठं च तत्प्रतियोगिकं तन्निरूपितं यत्कारणंप्रमारूपकार्यकारणं २ अप्रमारूपकार्यकारणं गुणदोषलक्षणं तज्जन्येत्यर्थः । ३ दोषजन्यत्वे बाधाद्गुणजन्यत्वेन साध्यपर्यवसानं दृष्टान्ते प्रमायां दोषजन्यत्वेन साध्यानुगमो ज्ञेयः  सिद्धसाधनादिति ॥ कार्यत्वपदेन प्रमादिवृत्तिकार्यत्व ४ मिव प्रत्यक्षमात्रवृत्तिकार्यत्वमनुमित्यादिमात्रवृत्तिकार्यत्वं चाक्षुषादिज्ञानमात्रवृत्तिकार्यत्व ४ मपि भवतीति तत्तत्प्रतियोगिककारणानीन्द्रियादीन्यपि
भवन्तीति तैस्मिद्धसाधनमित्यर्थः  प्रमाप्रमेति ॥ तदुभयहेतुर्ज्ञासामान्यसामग्र्यात्ममनोयोगादिः । तद्भिन्नहेतुर्गुणो दोषश्च । तज्जन्यत्वं च पक्षदृष्टान्तयोः प्रमाप्रमयोः पूर्ववज्ज्ञेयम् । प्रमेत्युक्त्या सिद्धसाधनत्वस्याप्रमेत्युक्त्या बाधस्य न निरासः । न च प्रागभावव्यक्तिविशेषणार्थान्तरम् । भावत्वेन विशषणात् ।

यन्मते गुणादेर्विरोधिप्रतिबन्धकत्वं स्वकार्यत्वं च तन्मतेनाह  प्रमाप्रमान्यतरेति ॥ ५ अनित्यप्रमेत्येवं प्रागुक्तपक्षानुकर्षो ६ऽत्रोत्तरत्र च ज्ञेयः ५ । अन्यतरप्रतिबन्धकश्च गुणो दोषश्च । तज्जन्यत्वं पूर्ववत् । हेतौ जन्यप्रमेति योज्यम् ।

 

१.भ्रमछ.  २. एतन्नास्ति कुं.   ३. अनित्यप्रमेति प्रागुक्तपक्षानुकर्षः सर्वत्रज्ञेयः । दोष,अ.   ४. एतावता. पुस्तके नास्ति.  ५. इयं पङ्क्तिर्नास्तिआअ.

र्६. षः सर्वत्र  मु.

 

उपचिनुनभङ्गः)             प्रामाण्यवादः             पु  १४३.

 

अनित्यानुभत्वातप्रमावत्ष चाक्षुषप्रमा चाक्षुषभ्रमाजनकजन्या अनित्यप्रमात्वात्रासनप्रमावदिति निरस्तम् ।

प्रमाजनकव्यक्तिविशेषस्योभयहेतुभिन्नत्वेनाप्रमाप्रतिबन्धकत्वेन १ चाक्षुषभ्रमाजनकत्वेन च सिद्धसाधनात् ।

नापि अनित्यप्रमा अप्रमाव्यावृत्तधर्मावच्छिन्नकार्यताप्रतियोगिकारणजन्या अप्रमाविजातीयकार्यत्वात् । घटवदितियुक्तम् ।

 

प्रमाप्रमाबहिर्भूतमीश्वरज्ञानमिति मते तु यथाश्रुतमेव । अनुमित्यादिप्रतिबन्धकप्रत्यक्षसामग्रीजन्यत्वेन सिद्धसाधनवारणाय स्वविरोधीत्यनुभवविशेषणम् । अप्रमारूपोऽनुभव इत्यर्थः । स्वशब्दस्य पक्षीभूतानित्यप्रमामात्रपरत्वेनानुमित्यादेः स्वविरोधित्वाभावान्नोक्तदोषः । स्वविरोधिस्मृतिप्रतिबन्धकानुभवसामग्रीजन्यतया सिद्धसाधनतावारणायानुभवदम्  अप्रमावदिति ॥ तत्र दोषजन्यत्वेन साध्यानुगमो ध्येयः  चाक्षुषभ्रमाजनकेति ॥ पक्षे गुणजन्यत्वेन दृष्टान्ते रसनेन्द्रियसंप्रयोगजन्यत्वेन साध्यं बोध्यम् ।

आद्यसूत्रं स्मृत्यनुभवसाधारणं २ साध्यम् ३ द्वितीयमनुभवसाधारणं  ४ तृतीयं चक्षुरादिप्रत्यक्षसाधारणमिति साध्य ५ त्रयं विवेक्तव्यं व्यक्तिविशेषस्येति ॥

निर्देषार्थकरणसम्प्रयोगादिरूपस्येत्यर्थः  अप्रमाप्रतिबन्धकत्वेनेति ॥ तदनुत्पादव्याप्यत्वरूपप्रतिबन्धकत्वेनेत्यर्थः ॥ अप्रमायाः

 

१. स्वविरोध्यनुभवप्रतिबन्धकत्वेन  छ.  २. ध्येयम्  आ.   ३. तृतीयमा.  ४. चतुर्थंा.  ५. चतुष्टयम्मु."साध्यत्रयमिति"नास्तिआ. । इयं पङ्क्तिर्न.

 

न्यायदीपयुततर्कताण्डवम्          ( प्र. परिच्छेदः              पु  १४४.

 

अप्रमाव्यावृत्तधर्मावच्छिन्नकार्यत्वमिन्द्रिय १ अम्प्रयोगस्य तत्प्रतियोगिककारणमिन्द्रियादीति तज्जन्यत्वेन सिद्धसाधनात् ।

नापि अनित्यप्रमा अप्रमा २ कारणविजातीयकारणजन्या अप्रमाविजातीयकार्यत्वात्घटवत् । अन्यथा

कार्यवैजात्यमाकस्मिकं स्यादिति युक्तम् । हेतौ विजातीयत्वं यदि विरुद्धजात्यधिकरणत्वं तद प्रमात्वस्याजातित्वेनासिद्धेः । यादि ३ तु

 

स्वविरोध्यनुभवत्वादप्रमाप्रतिबन्धकत्वेनेत्यनेनैव स्वविरोध्यनुभवप्रतिबन्धकत्वेनेत्यस्याप्युक्तत्वान्न तस्य पृथगुक्तिः ।  इन्द्रियसंप्रयोगस्येति ४ ॥ ५ इन्द्रियसम्प्रयोगत्वस्याप्रमाव्यावृत्तत्त्वेन तदवच्छिन्नकार्यत्वं तस्येत्यर्थः । ६ इन्द्रियादिसम्प्रयोगस्ये ७ ति ध्येयम् । अग्र इन्द्रियादीति श्रवणात् तज्जन्यत्वेनेति ॥ संयोगत्वावच्छिन्नं प्रति द्रव्यत्वेन जनकत्वादिन्द्रियस्यापि द्रव्यत्वादिति भावः ॥

मणुकृता सिद्धान्तितानुमानान्यप्यनूद्य निराह ॥ नाप्यनित्यप्रमेत्यादिना ॥ ८ अप्रमाविजातीयेति ॥ अप्रमाकारण विजातीयेत्यर्थः ८ । तदुक्तमेवानुकूलतर्कमाहअन्यथेति ॥ विजातीयकारणाजन्यत्व इत्यर्थः  अजातीयत्वेनेति ॥ इदं रजतमित्यादौ धर्म्यंशे सत्वेपि धर्मांशेऽफभवेन प्रमात्वस्याव्याप्यवृत्तित्वात् । ज्ञानत्वसमनियतत्वाच्चेति भावः ॥

 

१.संयोगस्यछ.   २. कारणपदं न मुच.  ३."तु"इति नमुच. ४. त्वस्येतिआ.   ५. इन्द्रियसंप्रयोगस्येत्यत्र. इमु.   ६ इन्द्रियसंप्रयोगत्वस्येत्यत्र इ  आ. ७. त्यपि  आ.   ८. एतन्नास्ति  कुआ.

 

उपचिनुनभङ्गः)              प्रामाण्यवादः          पु  १४५.

 

विरुद्धधर्ममात्राधिकरत्वं तदा पटज्ञानविजातीयकार्ये घटज्ञाने व्यभिचारः । अनुमित्यादीसाधारणघटज्ञानमात्रानुगतकारणाभावात् । पाकजरूपरसादौ कारणवैजात्येपि १ कार्यवैजात्यदर्शनाच्च ।

स्यादेतत् ।नित्यप्रमात्वमनित्यज्ञानत्वावच्छिन्नकार्यत्वप्रतियोगिककारणताभिन्नकारणताप्रतियोगि २ कार्यतावच्छेदकम् । अनित्यज्ञानत्वव्याप्यकार्यतावच्छेदकधर्मत्वातप्रमात्ववत् ।

 

घटज्ञानजातीयमपि कार्यं तद्विजातीयकार्यकारणविजातीयघटेन्द्रियसन्निकर्षादिजन्यमिति न व्यभिचार इति मण्युक्तिनिरासाय व्यभिचारं व्यनक्ति अनुमित्यादीति ॥ अप्रयोजकत्वं चाह पाकजेति ॥ न च तत्रापि तत्प्रागभावरूपहेतुवैजात्यमस्तीति वाच्यम् । भावरूपविजातीयेति साध्यार्थत्वात् । अन्यथा प्रागभावेनैव सिद्धसाधनतापत्तेरिति भावः ॥

मण्युक्तानुमानान्तरमाशङ्कते स्याद्तदिति ॥ प्रमात्वस्य नित्यवृत्तितया कार्यतावच्छेदकत्वादनित्यप्रमात्वमित्युक्तिः । एवं साध्येपि ज्ञेयम् । अनित्यज्ञानत्वावच्छिन्नं यत्कार्यत्वं तत्प्रतियोगिका तन्निरूपिता कारणता आत्ममनोयोगादिनिष्ठा तद्भिन्ना या कारणता गुणदोषनिष्ठ तत्प्रतियोगिककार्यतावच्छेदकमित्युक्तौ पक्षे गुणजन्यवावच्छेदकत्वेन ३ दृष्टान्ते दोषजन्यतावच्छेदकत्वेन ३ साध्यसिद्धिः । अन्यथा बाधादिति भावः । हेतावनित्यज्ञानत्वे व्यभिचारनिरासाय व्याप्यान्तं धर्मविशेषणम् । अभेदेपि व्याप्यत्वमिति पक्षे तु न्यूनवृत्तित्वं व्याप्यत्वं बोध्यम् । घट ४ नित्यज्ञानत्वादौ तद्वारणाय विशेष्यम्
बाधकं विनेति ॥

 

१. कार्यपदं न गकख.  २. कमुचग.   ३. इदं नास्ति कुं.  ४.टादिअ.

 

न्यायदीपयुततर्कताण्डवम्       (प्र.परिच्छेदः              पु  १४६.

 

न च विशेष्यासिद्धिः । अनित्यप्रमात्वं कार्यतावच्छेदकं बाधकं विना कार्यमात्रवृत्तिधर्मात्वातप्रमात्ववदित्यनेन तत्सिद्धेः । नीलघटत्वादौ प्रत्येकानुगकप्रयोजकद्वयादेव निलरूपघटत्वयोः सिद्ध्या समाजस्यार्थिकत्वं बाधकम् । जन्यघटज्ञानत्वादौ १ तु स्वावच्छिन्नकार्यत्वप्रतियोगिककारणासम्भवो बाधक इति न तत्र व्यभिचार इति चेन्मैवम् । घटज्ञान इव वक्ष्यमाणरीतच्यानित्यप्रमामात्रे २ प्यनुगत ३ गुणाभावेनानुमान ४ द्वयेपि बाधात् । द्वितीये विशेषणासिद्धेश्च ।

 

अवच्छेदकान्तरोपपन्नकार्यताश्रयवृत्तित्वं वा स्वावच्छिन्नकार्यताप्रतियोगिककारणासम्भवो वा एकव्यक्तिकत्वं वा गौरवं वेत्यादि यत्कार्यतावच्छेदकत्वे बाधकं तद्ध्विनेत्यर्थः  अप्रमात्ववदिति ॥ तत्र बाधकचतुष्टयस्याप्यभावाद्धेतुसाध्ये व्यक्ते इति भावः ॥

हेतौ विशेषणकृत्यं मण्युक्तमेव दूषण ५ ज्ञानसौकर्यायाहः निलेति ॥ प्रयोजकद्वयादिति ॥ घटत्वप्रयोजकान्नीलत्वप्रयोजकाच्चेत्यर्थः समाजस्य ॥ घटत्वनीलत्वरूपावच्छेदकान्तरोपपन्नकार्यत श्रवणवृत्तित्वमित्यर्थः  स्वेति ॥ स्वावच्छिन्नं यत्कार्यत्वं तन्निरूपितानुगतैककारणासम्भव इत्यर्थः  घटज्ञान इवेत ॥ जन्यघटज्ञान इवेत्यर्थः  विशेषणेति ॥ स्वावच्छिन्नकार्यत्वप्रतियोगिकैककारणासम्भवरूबाधकस्यैव सत्वेन बाधकं विनेत्यरस्यासिद्धेरित्यर्थः  व्यर्थेति ॥ ज्ञानत्वादौ नित्यवृत्तित्वबाधकाभवेनैव व्यभिचारनिरासादिति भावः ॥

 

१.तु इति न कुं  ग.   २. अपिपदं न  कुम.  ३. कारणाभा  कुं.क.

४. द्वयाभावेपि  ग.  ५. ज्ञानपदं न मु.

 

उपचिनुनभङ्गः)             प्रामाण्यवादः              पु  १४७.

 

बाधकराहित्यस्यैव हेतुत्वसम्भवे व्यर्थविशेष्यत्वाच्च । साधकाभावेन सत्प्रतिपक्षत्वाच्च । अप्रमामात्रानुगतदोषाभावेन दृष्टान्तस्य साध्यसाधनवैकल्याच्च ॥

ननु प्रमाविशेष्यहेतूनां भूयोऽवयवेन्द्रियसन्निकर्षादीनां प्रमामात्रे सन्निकर्षत्वादिनाननुगमेपि गुणत्वेनानुगतिरस्तीति कथं बाध इति चेन्न । गुणत्वस्याजातित्वेन प्रमामात्रजनकत्वरूपतयान्योन्याश्रय १ यात् ॥

 

न च बाधकं विनेत्यत्र प्रागुक्तबाधकचतुष्टयमेव बाधकपदेन विवक्षितम् । अतो ज्ञानत्वादौ व्यभिचारनिरासाय विशेष्यमिति

वाच्यम् । सामान्यशब्दस्य विशेषणपरत्वमुपेत्य विशेष्य २ कृत्योक्तेरयुक्तत्वादिति भावः ॥

साधकेति ॥ अनुगतकारणतावच्छेदकेन हि कार्यतावच्छेदकमुपेयम् । प्रकृते चानुगतकारणं नेति वक्ष्यमाणत्वादिति भावः  दृष्टान्तस्येति ॥ अनुमानद्वयेपीत्यनुकर्षः । अनुगतदोषाभावेनाद्यहेतौ कार्यतावच्छेदकत्वस्य द्वितीये स्वावच्छिन्नकार्यतेत्यादिबाधकाभावस्य चाभावेन साधनकैवल्यम् । अनुगतकारणाभवेन साध्यवैकल्यं चेत्यर्थः  अजातित्वेनेति ॥ संयोगत्वज्ञानत्वादिना साङ्कर्यादिति भवः । एतेन दृष्टान्ते भ्रमहेतूनां दोषत्वेनानुगमोप प्रयुक्तः  अन्योन्याश्रयादिति ॥

 

१. त्वा  च .     २. विशेषणकृ  कु  अ.

 

न्यायदीपयुततर्कताण्डवम्       ( प्र. परिच्छेदः             पु  १४८.

 

एतदप्युक्तं"प्रामाण्यं च स्वत एव अन्यथानवस्थानात्"इति । उत्पद्यत इति शेषः । ज्ञानात्मिकाया भ्रमेपि धर्म्यंशेऽनुवृत्तायाश्च प्रमायाः १ ज्ञानहेत्वन्यहेतुजन्यत्वदिति साधने धटादिवदज्ञानत्वाद्यपत्या प्रमा ज्ञानं घटस्तु नेत्यादिव्यवस्थायोगादित्यर्थः ॥

उत्पत्तो परतस्त्वे चिरन्तनानुमानभङ्गः ॥ १० ॥

 

अनत्यप्रमात्वस्य कार्यतावच्छेदकत्वसिद्धावुक्तरूपगुणत्वसिद्धिः। तत्सिद्धौ च तत्सिद्धित्यन्योन्याश्रययादिर्यर्थः  चिरन्तनानुमानभङ्गः । उदयनोक्तानुमानस्यैव मणिकृता परिष्कृतत्वेन नूतनानुमानाकारणात्तद्भङ्गेन मण्युक्तानुमानभङ्गोपीति चिरन्तनेत्येवोक्तम् ॥

॥ २  उत्पत्तौ परतस्त्वे चिरन्तनानुमानभङ्गः ॥ १० ॥

अथ मतं ग्राह्यप्रमा वा विशेष्यनिष्ठविशेषणज्ञानं वा अविद्यमानासंसर्ग्राग्रहो वा गुणः ॥

 

यदुक्तमनुगतगुणाभावेनानुमानद्वये बाधादित्यादि तन्नेति भावेनानुगुणमाशङ्क्य निराह  अथेति ॥ यद्यपि"प्रमामात्रे नानुगतो गुण"इत्येवोक्तं मणौ तथापि पक्षधरप्रगल्भख्यातृभिरनुगतगुणस्योक्तत्वात्तन्मताशङ्केयं ग्राह्येति ॥ येन यद्ग्राह्यं तत्र तत्प्रमाहेतुस्त्यिर्थः  विशेष्यनिष्ठेति ॥ विशेष्यसम्बद्धेत्यर्थः ।

 

१. ज्ञानहेत्वजन्यहेतुजन्यत्वादिसाधने  ख.  २. परतस्त्वेऽनुमानभङ्गः आ.

 

अनित्यप्रमामात्रानुगतगुणभङ्गः          प्रामाण्यवादः            पु  १४९.

 

१ प्रमामात्रेऽनुगते हेतुः । नाचात्र २ प्रमाणाभावः । आद्ये ३ पक्षे विशिष्टज्ञानत्वेन विशेषणज्ञानजन्यां ४ धारावाहिकोत्तरप्रमां प्रति विशेष्यमपि विषयीकुर्वन्त्याः पूर्वस्या ग्राह्यमायाः कारणत्वे कॢप्ते प्रमान्तरंप्रत्यपीश्वरनिष्ठाया ग्राह्यप्रमाया गुणत्वकल्पनात् । द्वितीयेपि विशिष्टज्ञानरूपं सामान्यं प्रति विशेषणज्ञानस्य विशेषणज्ञानत्वेनरूपेण सामान्येन कारणत्वे"यत्सामान्ययोः कार्यकारणभावो बाधकाभावे सति तद्विशेषयोरपि सः

"इति न्यायेन विशिष्टप्रमां प्रति विशेष्यनिष्ठविशेषणज्ञानत्वेन कारणत्वकल्पनात् । तृतीयेपि संसर्गग्रहसामान्यं प्रत्यसंसर्गाग्रह ५ मात्रस्य कारणत्वेन तद्विशेषस्याविद्यमानासंसर्ग्राग्रहस्य संसर्गप्रमां प्रति कारणत्वकल्पनातिति॥मैवं

आद्यपक्षे धारवाहकपूर्वप्रमायां ग्राह्यप्रमात्वे सत्यपि तस्या विशेषणज्ञानत्वेनैव कारणतया ग्राह्यप्रमात्वेन तदभावात् ॥

 

तेनाशब्दैत्यादौ न दोषः । अविद्यमानो यो संसर्गः धर्मिधर्मसंम्बन्धाभावः तदग्रह इति तृतियपक्षार्थः । मतत्रयेपि क्रमेण युक्तीराह  आद्येत्यादिना ॥ प्रमान्तरं प्रतीति । ६ अनुभवं  प्रतीत्यर्थः  विशिष्टेति ॥  जन्यविशिष्टज्ञानेत्यर्थः

तदभावादिति ॥ ७   कारणत्वाभावादित्यर्थः ।

 

१. प्रामाण्यमात्रे ख.  २. मानाभावःछकखमु.  ३. द्यपकुंगच.   ४. न्यधाचगखकुं.  ५. मात्रपदं न  मु.  ६. अनुत्तरप्रमां प्र आ.   ७. एतन्नास्ति  कुं  अ.

 

न्यायदीपयुततर्कताण्डवम्        ( प्र. प्ररिच्छेदः             पु  १५०.

 

तत्र तस्याः समानाधिकरणाया एव कारणत्वकॢप्त्या प्रमान्तरेपि समानाधिकरणाया एव १ कारणत्वकॢप्त्या प्रमात्वेपि समानाधिकरणाय एव १ तत्कल्पनाप्रसङ्गाच्च ॥

ईश्वरज्ञानस्य भ्रमं प्रतीवोपादानसाक्षात्कारतयैव कारणत्वस्य कॢप्तत्वेन ग्राह्यप्रमात्वेन काणत्वकल्पनस्य प्रामाण्यपरतस्त्वनिश्चयाधीनत्वेनान्योन्याश्रयाच्च्

 

ग्राह्यप्रमात्वेनैव कारणत्वमित्यत्र कल्पकाभावादिति भावः ॥

न च शाब्दप्रमायां ग्राह्यविशेषस्य वाक्यार्थस्य प्रमाहेतुरिति प्रमासामान्ये ग्राह्यप्रमासामान्यं हेतुरिति वाच्यम् । तथाप ग्राह्यप्रमामात्रस्यातिप्रसक्ततया तद्ग्राह्यप्रमायां तद्ग्राह्यप्रमाहेतुरित्यननुगम एवेत्यनुगतगुणालाभावत् । अप्रमात्वे दृष्टान्ते साध्यवैकल्यस्यैवमप्यपरीहाराच्चेति भावः ॥

नन्वस्तु विशेषणज्ञानत्वेनैव हेतुतेत्यत आह  २ तत्रेति ॥ ३ यद्वा ग्राह्यप्रमात्वेन तत्र कारणत्वेपि न सर्वत्रानुगतगुणालाभ इत्याह  ४ तत्रेति ॥ उक्तविशिष्टप्रमायां तस्याः विशेषणप्रमात्वेन हेतुभूतपूर्वप्रमाया इत्यर्थः  कॢप्त्येति ॥ अन्यथातिप्रसङ्गान्निर्विकल्पकादरानापत्तेश्चेति भावः ॥

नन्वीश्वरज्ञानस्या ५ कारान्तरेण हेतुत्वात्कॢप्तेर्६ वा प्रमात्वस्य गुणप्रयोज्यत्वान्यथानुपपत्यावैतत्कल्प्यत इत्यत आह

ईश्वरेति ॥

 

१. एतावन्नास्तिछखमु.  २. यत्रेतिआ.  ३. यद्वेत्यादि नास्तिअ.  ४. यत्रेतिआ.  ५. स्यप्रआ.अ.   ६. कॢप्तवप्रआ.

 

अप्रत्रगुङ्ग)              प्रामाण्यवादः                   पु  १५१.

 

लिङ्गाभासविप्रलम्भकवाक्यजन्ययोर्यादृच्छिकसंवावेन प्रमायोस्त्वदुक्तव्यधिकरणजन्यत्ववत्समानाधिकरणदोषजन्यत्वस्यापि सत्वेनाप्रमाण्यास्याप्यपाताच्च ॥

धारावाहिके  भ्रमे पूर्वस्य भ्रमस्योत्तरभ्रमं प्रतित्वदुक्तरीत्या ग्राह्यभ्रमत्वेन कारणत्वे कॢप्ते भ्रमान्तरेपि ग्राह्यभ्रमाः कारणत्वेन कल्प्यः । स एव  च भ्रममात्रेऽनुगते दोषः । एवं च संवादादिशुकादिवाक्यमूलत्वेन नित्यप्रमावद्विसंवादीशुकादीवाक्यमूलत्वेन नित्यभ्रमोपि सिद्ध्येदित्यतिप्रसङ्गाच्च ॥   आद्यद्वितीययोर्विशेष्टज्ञानं

प्रति विशेषणज्ञानकारणत्वस्यैव मां प्रत्यसिद्धेश्च । वक्ष्यते चैतन्निर्विकल्पकभङ्गे ॥

 

यादृच्छिकेति ॥ यादृच्छिकसंवादेन हेतुनावगतप्रमात्वयोरित्यर्थः  अप्रामाण्यस्येति ॥

नचायं दोषः सिद्धान्तेपीति वाच्यम् ॥ विषयसत्वाभावविशिष्टस्यैव दोषस्याप्रमाहेतुत्वात् । नचैवं परमते युक्तम् । उक्तरूपदोषाभावदेव प्रमात्वोपपत्तौ गुणस्य हेतुतानापत्तेरिति भावः ॥

नत्यभ्रमोपीति ॥ अन्यथा प्रागुक्ताप्रमात्वदृष्टान्ते साध्यसाधनवैकल्यापत्तेः । इतोन्यस्यानुगतदोषस्याभावेन कार्यतावच्छेदकत्वासिद्धेरिति भावः  विशेषणज्ञानकारणत्वस्यैवेति ॥ दूरे यत्सामान्ययोरिति  न्यायावतार इत्येवकारार्थः । १ प्रामाणिकत्वेनसिद्धमित्यत आह  वक्ष्यत इति ॥

 

१. अयं ग्रन्थः नास्ति कुंप्रामाणिकत्वमसिद्धमित्यत आग  आ,

 

न्यायदीपयुततर्कताण्डवम्               (प्र.परिच्छेदः        पु  १५२.

 

द्वतीयतृतीययोनिर्विकल्पक १ रूपप्रमाननुगमाच्च ॥

ननु निर्विकल्पकेप्यविद्यमानस्यासंसर्गस्याग्रहोस्त्येवेति चेन्न । असंसर्गाग्रहरूपो यः संसर्गग्रहप्रतिबन्धकस्तदभावतया संसर्गग्रह एव  हेतुत्वात् ॥

न च निर्विकल्पकं प्रमाप्रमाबहिर्भूतम् । तथापि निर्विकल्पकस्य गुणाजन्यत्वेप्यप्रमाया अपि तदुपदत्तेः । तृतीयेऽविद्यमानासंसर्ग २ शब्देनोक्तस्य विद्यमानसंसर्गस्य योयम ३ ग्रहस्तस्य धारावाहिकद्वितीयादिप्रमाननुगमाच्च ।

 

रुचिदत्तादिस्तु विशेष्यनिष्ठविशेषणज्ञानं गण इत्ययुक्तम् । लोहितःस्फटिक इत्यादौ लौहित्यसाक्षात्सम्बन्धविषयभ्रमे अन्वयव्यभिचारात् । लौहित्यरूपविशेषणस्य परम्परासम्बन्धेन विशेष्यनिष्ठत्वात् । न च तत्सम्बन्धविषयकप्रमायां तत्सम्बन्धेन विशेष्यवृत्ति यद्विशेषणं तज्ज्ञानत्वेन न हेतुतेति वाच्यम् । एवं हि तत्संम्बन्धविषयकतद्विशेषणविशेष्यकप्रमात्वं कार्यतावच्छेदकम् । तत्संम्बन्धेन ४ तद्विशेषणज्ञानत्वं कारणतावच्छेदकमित्यननुगम एव । किञ्च । भावत्वविशिष्टप्रत्यक्षे
व्यभिचारश्चेत्यदूषयत् ॥

। अननुगमाच्चेति ॥नन्वीश्वरज्ञानमादाय द्वितीयमपिनिर्विकल्पके अनुगमयितुं शक्यमिति चेन्न । तस्य साधारणहेतुत्वेन विशेषाकारेण हेतुत्वकल्पकाभावादितिभावः । तृतीयमनुगतमिति शङ्कते  नन्विति ॥ अननुगमो न दोषायेति शङ्कते  नचेति ॥ बहिर्भूतमिति ॥

 

१. रूपपदं नास्तिमुर्.   २. गाग्रहशकुंचग.   ३. य ग्रृकुंचग.  ४.तद्धिशेष्यवृत्तिअ. । अयं ग्रन्थः नास्तिकुं  अ.

 

अप्रत्रागुङ्गः)              प्रामाण्यवादः              पु  १५३.

 

धारावाहिकद्वितीयादप्रमाननुगमाच्च । अविद्यमानासंसर्गस्य संसर्गरूपतया तदग्रहस्यासंसर्गाग्रहविशेषत्वाभावाच्च ॥

किञ्चानित्यप्रमामात्रानुगतगुणाङ्गीकारे प्रमारूपानुमित्यादौ प्रमात्वस्यानित्यप्रमामात्रानुगतगुणेन अनुमितित्वशाब्दत्वादेश्च लिङ्गपरामर्शशब्दकारणकत्वादीनैवोपपत्या यथायथं लिङ्गपरामर्शादिप्रतिनियतगुणोक्तिर्व्यर्था ॥

 

गुणदौषान्यतराजन्यत्वादितिभावः ।  संसर्गरूपतयेति ॥ नञ्द्वयेन विध्यमानसंसर्ग १ लाभम विना पर्यवसानाभावादिति भावः  असंसर्गाग्रहविशेषत्वाभावाच्चेति ॥ तथाच यत्सामान्ययोरिति न्यायावतारेण कथं तस्य गुणत्वलाभाय इति भावः ॥

एवमनुगतगुणपक्षत्रयं प्रत्येकं दूषयित्वा संहत्यपि दूषयितुं"भूयोऽवयवेन्द्रियसन्निकर्षयथार्थलिङ्गसादृश्यवाक्यार्थज्ञानानां यथायथं प्रत्येकमेव गुणत्वं"इति मण्युक्तं २ विरुद्धं चेति भावेनाह  किञ्चेति ॥ यद्वा उक्तप्रकारपक्ष एव युक्त इत्याह  किञ्चेति ॥

न च प्रमात्वानुमितित्वादिरूपकार्यतावच्छेदकबलात्तदनुगुणोनुगतगुणः कश्चित्स्वीकार्य इति शङ्क्यम् । नीलघटत्वादाविव प्रमात्वानुमितित्वादेः स्वसामग्रीमहामहिम्नैवैकेत्र समाजेनावच्छेदकान्तरोपपन्नकार्यताश्रयवृत्तिकत्वरूपबाधकेन तस्य कार्यतावच्छेदकत्वात् । अत एव प्रमात्वस्यानुमितित्वादेश्चप्रयोजकसामग्रीसमाजस्य प्रमामात्रानुगत गुणेनेति लिङ्गपरामर्शशब्दकारणकत्वादिनेत्युक्तिः ॥

 

र्१. गपर्य  मुर् गाभावं वि  आ.     २. क्तिविरु मु. अ आ.

 

न्यायदीपयुततर्कताण्डवम्               ( प्र. परिच्छेदः         पु  १५४.

 

किञ्च परतस्त्वनादिना १ हि विषयसत्वनैरपेक्ष्येण स्वत एवाप्रमाव्यावृत्तं ज्ञानसाधारणकारणादिकं किञ्चित्कारणं प्रमायां साधनीयम् । नतु २ ज्ञानसाधारणस्यैव विषयसत्वविशेषणेनाप्रमाव्यावृत्तिः साधनीया । स्वतस्त्ववादीनापि प्रमायां ज्ञानसाधारणकारणस्य विषयसत्वस्य ३ स्वीकृतत्वेन सिद्धिसाधनात् ॥

अत एव सुधायां"ज्ञानजनकमात्राधीनजन्मत्वं स्वतस्त्वं"इति मात्रशब्देन जनकान्तरमेव निषिद्धम् । न तु विषयसत्वम् । तस्यातीतादिविषयकानुमित्यादीसाधारणत्वेन प्रामाण्यशरीरान्तर्गतत्वेन च तदजनकत्वात् ॥

 

पूर्वोक्तमतत्रयेपि विषयसत्वमेव गुण इति फलितमिति ४"तच्चानेन साधितमित्यादिना"वक्ष्यन् विषयसत्वं च न गुण इत्याह ॥ किञ्चेति ॥ अप्रमेति ॥ अप्रमाकारणव्यावृत्तमित्यर्थः । ५ ज्ञानसाधारणकारणस्येति पररीत्योक्तिः । स्वमते ग्राह्यज्ञानविशेषणज्ञानयोरहेतुत्वादिति ज्ञेयम् ५  अप्रमेति ॥ अप्रमाकारणव्यावृत्तिः अत एवेति ॥ विषयसत्वस्यानुमतत्वादेवेत्यर्थः सुधायां जिज्ञासाधिकरणसूधायामित्यर्थ ॥

ननु विषयसत्वस्यापि प्रमाजनकतया जनकान्तरविषेधे विषयसत्वमपि सुधायां निषद्धमेव । अतस्तदनुप्रवेशे सति न सिद्धसाधनमित्यत आह  तस्येति ॥ विषयसत्वस्येत्यर्थः । अतीतेति ॥ अनुमित्यादिप्रमाण्याय पूर्वं तत्र विषयसत्वस्य वाच्यतया तस्येदानीन्तनानुमित्यजनकत्वादिति भावः ॥

 

१.पीहिमु. २. ननुकुंचग.   ३. चमु.  ४. तिवक्ष्यन्  कुम अ. ५ .इयं पङ्क्तिर्नास्ति  मु आ.

 

अप्रत्रगुभङ्गः)               प्रामाण्यवादः                पु  १५५.

 

एतेन यादृच्छिकसंवादेन प्रमायां लिङ्गाभासेन शब्दाभासेन च जन्यायामनुमितौ शाब्दप्रतीतौ च पक्षस्य वस्तुतः साध्यवत्वं योग्यता च गुण इति निरस्तम् ॥ स्पष्टयिष्यते चैतत् ॥

तच्चानेन साधितम् । विशेषणज्ञानस्यासंसर्गाग्रस्य च भ्रमसाधारण्यात् । विशेष्यनिष्ठशब्देनाविद्यमानशब्देन च विषयसत्वस्यैवोक्तेः ।

तदजनकत्वादिति ॥ यत्तु प्रमाणपद्धतौ साधनपदेन प्रमातृप्रमेययोर्व्यवच्छेद इति कारणत्वमात्रमुपेत्य साधकतमत्वाभाववचनं तदभ्युपेत्यवादेनेति भावःेतेनेति ॥ विषयत्वस्य गुणत्वाभाववचनेनेत्यर्थः । वास्तवसाध्यवत्वयोग्यतयोर्विषयसत्वरूपत्वादिति भावः ॥

कथमिदं साध्यत्वादिकं विषयसत्वगर्भमित्यत आह  स्पष्टयिष्यत इति ॥ उक्तरभङ्ग इत्यर्थः॥

नन्वस्तु विषयसत्वं न गुणः । तथापि ग्राह्यप्रमेत्याद्युक्तपक्षत्रयेपि किमागतमित्यत आह तच्चेति ॥ ज्ञानसाधारणकारणस्य विषयसत्वेन विशेषितत्वमनेन पक्षत्रयेण साधितं त्वयेत्यर्थः । कथमित्यतो व्यनक्ति  विशेषणेत्यादिना ॥ विशेष्यनिष्ठेति ॥ ग्राह्यप्रमेति प्रमाशब्देनेत्यपि ध्येयम् ॥

 

न्यायदीपयुततर्कताण्डवम्               ( प्र. परिच्छेदः         पु  १५६.

 

अन्यथा भ्रमेपि विशेष्यानिष्ठविशेषणज्ञानं विद्यमानासंसर्गाग्रहश्च प्रमाव्यावृत्तत्वाद्दोष इति तज्जन्यत्वेनैव परतस्त्वं स्यात् ॥

तस्माद्भ्रमे स्वत एव प्रमाव्यावृत्तं पित्तीदिकमिव प्रमायामपि स्तत एव भ्रमव्यावृत्तं भूयोवयवेन्द्रियसन्निकर्षादिकमधिकं वाच्यमिति किमनेन ॥

एतेन अनित्यप्रमात्वं  अप्रमाकारणताव १ च्छेदकरूपानवच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकम् । भ्रमावृत्तिकार्यतावच्छेदकत्वात् । घटत्ववदित्याद्यपि निरस्तम् । २ कार्यतावच्छेदकत्वस्यैव निरासादिति ॥

 

परतस्त्ववादिनाहीत्यादिनोक्तप्रमेयानङ्गीकारे बादकमाह  अन्यथेति ॥ स्वत एवाप्रमाव्यावृत्तस्य ज्ञानसाधाराणस्याधिकस्यानिङ्गीकारे विषयसत्वेनैव परतस्त्वस्वीकार इत्यर्थः । ग्राह्यभ्रमोप्यत्रोपलक्ष्यः । यद्वा आद्यपक्षस्यातिफल्गुत्वाद्द्वितीयतृतीययोरेवात्र पूर्वत्र च दोषोत्कीर्तनमिति बोध्यम्  स्वत एवेति ॥ विषयसत्वनैरपक्ष्येणेत्यर्थः ॥

 

एवं प्रमात्वमात्रेऽनुगतकारणदूषणेन मण्युक्तमनुमानान्तरमपि निरस्तमित्याह  एतेनेति ॥ अप्रमेति ॥ अप्रमाकारणतादोषादिनिष्ठा तदनवच्छेदकं रूपं विशेष्यनिष्ठविशेषणज्ञात्वादिकम् । तदनवच्छिन्नकारणतानिरूपितकार्यतावच्छेदकमित्यर्थः ।

 

१.नवच्छेदकरूपावच्छन्न  कुं  च  क.  २.ऽ भ्रमावृत्तिऽ इत्यधिकं छकख.

 

यज्ञपत्यक्तवक्रानुमानभङ्गः)        प्रामाण्यवादः              पु  १५७.

 

एतदुक्तं"अन्यथा"इत्यादिना । अनुगतगुणाभावेप्यनित्यप्रमात्वस्य कार्यतावच्छेदकत्वे घटत्वादिकं कार्यतावच्छेदकं न तु नीलघटत्वादिकमिति व्यवस्थायोगादित्यर्थः ।

अनित्यप्रमामात्रानुगतगुणभङ्गः ॥ ११ ॥

 

दृष्टान्ते दण्डत्वादिकमेवाप्रमाकारणतानवच्छेदकरूपं बोध्यम् । हेतावप्रमात्वे व्यभिचारवारणाय भ्रमाद्यवृत्तीति ॥

भ्रमनिष्ठात्यन्ताभावप्रतियोगीत्यर्थः । नत्या १ नित्यवृत्तिप्रमात्वादौ तन्निरासाय विशेष्यम् ॥

आदिपदेन अनित्यरजतप्रमात्वं रजताप्रमाकारणतानवच्छेदकरूपावच्छिन्नकारमताप्रतियोगिककार्यतावच्छेदकं रजतभ्रमावृत्तिकार्यतावच्छेदकधर्मत्वाद्घटत्ववदित्यादिग्रहः  कार्यतेति ॥ अनुगतगुणनिरासेन स्वावच्छिन्न कार्यत्वप्रतियोगिककरणासम्भवरूपबाधकस्यैव भावेन बाधकं विना कार्यमात्रवृत्तिधर्मत्वात्कार्यतावच्छेदकमित्यस्यासंभवात् । तथाच बाधासिद्धी इति भावः ।

रजतानुमित्यादिसाधारणगुणाभावेन रजतप्रमात्वेपि न कार्यतावच्छेदकत्वमिति ज्ञेयम् ॥

अनित्यप्रमामात्रानुगतगुणभङ्गः ॥ ११ ॥

 

१. त्यावृत्ति  कुं.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र. परिच्छेदः           पु  १५८.

 

अथापि स्यात् । प्रमामात्रानुगतगुणाभावेपि परतस्त्वं सेत्स्यति । न ह्यनित्यप्रमात्वस्योक्तकार्यतावच्छेदकत्वं परतस्त्वम् । किन्ति तस्य स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्ति १ त्वम् । तच्चानित्यप्रमामात्रानुगतगुणाभावेप्यननुगतगुणैरपि सेत्स्त्यति ।

तत्र च प्रमाणमनित्यप्रमात्वं स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्ति स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताप्रतियोगिककारणत्वाश्रयमात्रानुत्पाद्यकार्यमात्रवृत्तिधर्मत्वात् । अप्रमात्ववदित्यनुमानम् ।

 

यज्ञपतिमाशङ्कते  अथापीति ॥ अथापीत्याद्युक्तमेव व्यनक्ति॥

प्रमेति ॥ उक्तेति ॥ अप्रमाकारणतेत्यादिनोक्तेत्यर्थः  तस्येति ॥ अनित्यप्रमात्वस्येत्यर्थः  स्वेति ॥ स्वस्यानित्यप्रमात्वं य स्वाश्रयस्तन्मात्रवृत्तयस्तदितरावृत्तित्वे सति तद्वृत्तयो ये धर्माः जन्यप्रत्यक्षप्रमात्वादयस्तदवच्छिन्नकार्यताश्रय एव वर्तमानत्वमुक्तकार्यताश्रय २ एव वर्तमानत्वमुक्तकार्यताश्रय २

त्वव्याप्यत्वमिति यावत् ॥

तदुक्तमेव ३ पञ्चमात्रानुमानमाह  अनित्यप्रमात्वमिति ॥ बाधनिरासाया नित्येति ॥ साध्यमुक्तार्थम् । साध्यहेत्वोः स्वपदं समभिव्याहृतपरम् । एवं चानित्यप्रमात्वाश्रय एव यो न वर्तते धर्मः अनित्यज्ञानत्वादिः तदवच्छिन्नकार्यतानिरूपितकारणाश्रयो मनस्संयोगादिः तन्मात्रानुत्पाद्य कार्यमनित्यप्रमा तन्मात्रवृत्तिधर्मत्वादिति हेत्वर्थः । अनित्यज्ञानकारणमात्रानुत्पाद्यकार्यमात्रवृत्तिधर्मत्वादिति फलितोर्थः ॥

 

१.धर्मत्वं  छ.  २. एतावन्नास्ति  मुआअ.   ३. पञ्चमात्रेति नास्ति  कुं.

 

यपक्तवनुनङ्गः)                 प्रामाण्यवादः            पु  १५९.

 

अनेन सामान्यकारणमात्रानुत्पाद्यकार्यमात्रवृत्ति १ धर्मत्वरूपेण हेतुना साध्यमानं विशेषकारणजन्यत्वं सर्वप्रमानुगतगुणस्य बाधित्वेनाननुगतगुणजन्यत्वमादाय पर्यवस्यति ॥

अत्र च साध्ये आद्यं मात्रपदं स्वतस्त्वपक्षेप्यनित्यप्रमात्वस्य स्वाधिकदेशवृत्तिनानित्यज्ञानत्वे २ नावच्छिन्नकार्यताश्रय एव वर्तमानत्वात्सिद्धसाधनमिति शङ्कानिरासाय । द्वितीयं तु सर्वासां प्रमाणां गुणजन्यत्वसिद्ध्यर्थम् ॥

 

हेतेरप्रयोजकतां निरस्यन् साध्यपर्यवसानप्रकारमाह  अनेनेति ३ अननुगतेति ॥ प्रत्यक्षप्रमाह्येकैकानुगतेत्यपि योज्यम् । अन्यथा जन्यप्रत्यक्षप्रमात्वादेरवच्छेदकत्वायोगेन बाधापत्तेरिति भावः ३ ॥

साध्ये मात्रपदद्वयं व्यवच्छेदार्थकं न तु कात्स्नार्थकमित्युपेत्य दुषणज्ञानसौकर्याय व्यावर्त्यं व्यनक्ति  अत्र चेति ॥

द्वितीयमिति ॥ ४ अनित्यप्रमात्वं तादृशकार्यताश्रय एव वर्ति न त्वन्यत्रेत्यस्य व्यवच्छेदार्थकमात्रपदेन लाभात्तस्य ५ जन्यप्रत्यक्षप्रमात्वानुमितित्वेपमितित्वशाब्दत्वाश्रयेषु सर्वत्र वर्तनं ६ तेषां सर्वेषां गुणजन्यत्व एवोपपद्यते । अन्यथा बाधात् । कात्स्न्र्यार्थत्वे तु यत्किञ्चित्तादृशधर्मावच्छिन्नकार्यताश्रये सर्वत्र

वर्तित्वोपपत्योष्टासिद्धेर्व्यवच्छेदार्थमेव द्वितीयोपीति भावः ॥

हेतावपि मात्रपदानि व्यवच्छेदार्थानीत्युपेत्यानुत्पाद्यान्तविशेषणकुत्यं वक्तुमाह  हेताविति ॥

 

१.धर्मपदं नास्ति कछख.   २. त्वावख.   ३.अयं ग्रन्थः नास्ति  कुं.

४. अनित्यप्रमात्वमिति न अ.  ५. दकुं.  ६.लभ्यते । अन्यथा अ.

 

न्यायदीपयुततर्कताण्डवम्           (प्र.परिच्छेदः          पु  १६०.

 

हेतौ १ प्रथममात्रपादाभावे एतद्घटपटान्यतरत्वे व्यभिचारः । घटत्वपटत्वयोः कार्यतावच्छेदकयोरेतद्घटपटान्यतरत्वाधिकरणमात्रवृत्तित्वाभावेन साध्याभावात् ।

२ अन्यतरत्वस्य च स्वानुगतकारणाभावेन कार्यतावच्छेदकत्वात् ॥

( अतः ३ स्वाश्रयमात्रावृत्तिधर्मावच्छन्नकार्यत्वप्रतियोगिककारणताश्रयमात्रानुत्पाद्येति कार्यं विशेषितम् ।

 

घटापटान्यतरत्वे साध्यसत्वादेतदित्युक्तम् । एतद्घटपटान्यतरत्वे साध्याभावं व्यनक्ति  कार्यतेति ॥ ययोर्४ घटत्वपटत्वयोः कार्यतावच्छेदकत्वं न तयोः स्वाश्रयमात्रवृत्तित्वं ततोऽधिकदेशवृत्तित्वात् । अन्यतरत्वस्याप्यनुगतकारणा भावेन कार्यतानुवच्छेदकत्वात् । एवं च । ५ स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयवृत्तित्वरूपसाध्याभावादित्यर्थः । एतेन प्रथममात्रपदस्यापि कृत्यमुक्तं ध्येयम् ॥ ७ प्रथममात्रपदं हित्वा स्वाश्रयावृत्तिधर्मावच्छिन्नेत्यादेरेवोक्तावेतद्घटपटान्यतरत्वस्य स्वाश्रयवृत्तिकुड्यत्वादिधर्मावच्छिन्नकार्यताप्रतियोगिककारणताश्रयः कुड्याद्यसाधारणं तन्मात्रानुत्पाद्यं यदेतद्घटपटरूपं कार्यं ८ तद्वृत्तित्वेन
एतद्घटपटान्यतरत्वे उक्तहेतोः सत्वेपि मूलोक्तदिशा साध्याभावेन व्यभिचारः ।

दत्ते तु मात्रपदे न दोषः । कुड्यत्वस्य एतद्घटप ९ टान्यतरत्वान्यतराश्रये अवृत्तिधर्मत्वेपितद्वृत्तित्वे सति ततोधकदेशवृत्तिधर्मत्वाभावेन तत्र हेतोरेवाभावात् ॥

 

१. कार्यमात्रवृत्तित्वादित्येतावत्युक्ते कुं. त्वाद्यमात्रपदाभावेकखचछ.  २. अयं ग्रन्थःग.  पुस्तके नास्ति.   ३. कुण्च्लितो ग्रन्थःनास्तिखचछमु.  ४. योः कार्यकुं.   ५. अयं ग्रन्थः नास्तिकुं    ६. एतेनेत्याहभ्यऽअसिद्धिरप्रसिद्धिऽ रितिपर्यन्तं. पुस्तके नास्ति.   ७. स्वाश्रयमात्रकुं.  ८. तन्मात्रवृमुआ.

टत्वा  कुम.

 

यपक्तवनुनङ्गः)              प्रामाण्यवादः                पु  १६१.

 

तेनैतद्घटपटान्यान्यत्वाश्रयकार्यस्य तदुभयान्यान्यत्वाधिकरणमात्रावृत्तिघटत्वपटत्वावच्छिन्नकार्यत्वप्रतोयोगिककारणत्वाश्रयमात्रोत्पाद्यत्वेन हेत्वभावान्न व्यभिचारः ॥

। प्रथममात्रपदाभावे ) हेतु १ स्तत्र वर्तते । अन्यतरत्वाश्रयावृत्तिकुड्यत्वादिरूपधर्मावच्छिन्ना या कार्यता तत्प्रतियोगिककारणत्वाश्रययीभूतं यत्कुड्यकारणं तन्मात्रानुत्पाद्ये एतद्घटपटरूपे कार्येऽन्यतरत्वस्य वृत्तेः । मात्रपदे दत्ते तु न व्यभिचारः ।

 

यद्यप्यत्र विवक्षितं तन्मात्रानुत्पाद्यत्वं तदुत्पाद्यते सति ततोऽधिकोत्पाद्यत्वम् । तच्चोक्तस्थले नास्ति ।

एतद्घटपटान्यतरत्वस्य कुड्यकारणोतत्पाद्यत्वे सति ततोधिकोत्पाद्यत्वरूपतन्मात्रानुत्पाद्यत्वस्य बाधात् । तथाच

हेत्वाभावादेन न तत्र व्यभिचारः । तथापि तन्मात्रानुत्पाद्यत्वं तदितरानुत्पाद्यत्वे सति तदुत्पाद्यत्वरूपतन्मात्रोत्पाद्यत्स्याभाव २ वत्वरूप यत्तदनुत्पाद्यत्वं तदस्त्येवैतद्घटपटान्यतरत्वाश्रये एतद्घटपटरूपेर्ऽथ इति तावन्मात्रेण तत्र हेतुसत्वमुपेत्य व्यभिचारे चोदिते मात्रपदेन तन्निरासः ॥

मूले तु प्रकृताभिमततन्मात्रानुत्पाद्यत्वस्य तत्राभावात । कुड्याद्यसाधारणकारणेतरेतरेश्वरज्ञानोत्पाद्यत्वेन तदितरानुत्पाद्यत्वस्याप्रसिद्ध्या तदभावस्य दुर्ग्रहत्वाच्च व्यभिचारचोदना न युक्तेत्यरुच्च्यैव प्रथममात्रपदस्येदं कृत्यमित्याद्यनुक्त्वा स्वाश्रयमात्रावृत्तिधर्मावच्छिन्नकार्यत्वप्रतियोगिककारणताश्रयमात्रानुत्पाद्येति कार्यं विशेषितमित्येवोक्तम् ॥

 

१. अयं ग्रन्थः ग पुस्तके नास्ति.   १. स्तुत  मु क ख.  २. वरूपं  मु.

 

न्यायदीपयुततर्कताण्डवम्        ( प्र. परिच्छेदः               पु  १६२.

 

स्वाश्रमात्रावृत्तिपदेना १ न्यतरत्वाधिकदेशवर्तिनोर्घटपटत्वयोरपि सङ्गृहीतत्वेन तदवच्छिन्नकार्यताप्रतियोगिककारणत्वाश्रयीभूतं यद्घटादिकारणं तन्मात्रोत्पाद्ये घटादाव २ प्यन्यतरत्वस्य वृत्या तदनुत्पाद्यकार्यमात्रवृत्तित्वरूपहेत्वभावात् ॥

द्वितीयमात्रपदाभावेऽसिद्धिः । अनित्यप्रमात्वस्य स्वाश्रयाधिकदेशवृत्तिनानित्यज्ञानत्वेनावच्छिन्ना या कार्यता तत्प्रतोयोगिककारणत्वाश्रयो यो मनःसंयोगादिः तदुत्पाद्यप्रमारूपकार्यवृत्तित्वेन तदनुत्पाद्यकार्यवृत्तित्वाभावात् । मात्रपदे दत्ते तु नासिद्धिः ।

 

३ केचित्तु प्रथममात्रपदाभावे इत्यादिः प्रथममात्रपदकृत्यपरतयापि पाठ उपलभ्यत इति पक्षे तु ४ तन्मात्रानुत्पाद्येत्यस्य तदितरानुत्पाद्यत्वविशिष्टतदुत्पाद्यत्वाभावत्वरूपत ५ न्मात्रानुत्पाद्यार्थकत्वेपीहाप्रसिद्धिनिरासाय तदितरानुत्पाद्यत्वमात्रं विवक्षिणीयम् । तच्च गगनादौ प्रसिद्धमिति तदभाव एतद्घटपटान्यतरत्वाश्रयकार्ये ग्रहीतुं शक्य इति व्यभिचारः चोदनोपपाद्या असिद्धिरप्रसिद्धिः । तथाच नासिद्धिवरकत्वे दोष इत्याहुः ॥

 

१.न्यान्यत्वादपि  कुंग.  २. अपिपदं न कछ.  ३. क्वमु.आ.  ४. तदनु  कुं.   ५. तदनु  कुं .

 

यपक्तवनुनङ्गः)          प्रमाण्यवादः                       पु  १६३.

 

प्रमाया ज्ञानसामान्यकारणोत्पाद्यत्वेपि तन्मात्रा १ नुत्पाद्यत्वात् । तथात्वे ह्यप्रमापि प्रमास्यात् ॥

तृतीयं मात्रपदं तु कार्याकार्यवृत्तिधर्मेषु व्यभिचारवरणायेति चेन्मैवम् ॥

स्वतस्त्वेप्यनित्यप्रमामात्रवृत्तिना तत्तत्प्रमात्वरूपेण धर्मेणावच्छिन्ना या तत्तत्प्रगभावनिरूपिता कार्यता तदाश्रयमात्रवृत्तिस्यानित्यप्रमात्वे सत्वेन सिद्धनाधनम् ॥

न च प्रागभावस्यापि तत्तत्प्रागभावत्वेन तत्तद्व्यक्तिं प्रति न हेतुता किन्तु प्रागभावत्वेन कार्यमात्रं २ प्रति हेतुतेति वाच्यम् । उत्पन्नस्य ३ घटस्य स्वप्रागभावेप्यन्यप्रागभाव ४ सत्वेन पुनरुत्पत्तिदोषतादस्थ्यात् ॥

 

तथात्व इति ॥ तन्मात्रोत्पाद्यत इत्यर्थः । कार्यकार्येति ॥ ५ प्रमात्वादावित्यर्थः । अनित्यज्ञानत्वस्य ततोऽधिकदेशवृत्तित्वेन तत्र साध्याभावात् । प्रागभावनिरूपीता प्रागभावनिष्ठकारणतानिरूपिता ६ तत्तत्प्रमात्वावच्छिन्नकार्यतेत्यर्थः ॥

उत्पन्नस्येति ॥ घटोत्पत्तिसमवहितोत्तरक्षणे तद्घटसामग्रीसत्वेन तया तस्यैव घटस्य पुनरुत्पत्तिप्रसङ्गदोषनिरासाय हि प्रागभावे हेतुतोक्ता । प्रागभावत्वेनैव हेतुत्वे हेतुतावच्छेदकावच्छिन्नयत्किञ्चिद्धेतिसत्वेपि कार्योत्पत्तिनियमेन

तादृशप्रागभावान्तरसत्वात्पुनस्तदुत्पत्तिदोषो न परिहृत एव स्यादिति न प्रागभावत्वेन हेतुता किन्तु तत्प्रागभावत्वेनेति प्रागुक्तदोष एवेति भावः ॥

 

१. त्रोत्पाद्यत्वाभावात् छ.  २. त्रहे  खच.  ३. पटस्य खचग.   ४. वस्यस  चछ.   ५. प्रमेयत्वा  कुं.   ६. एतत्प्र  आ.

 

न्यायदीपयुततर्कताण्डवम्           ( प्र. परिच्छेदः           पु  १६४.

 

यदी तु सिद्धसाधनवारणाय साध्ये कार्यताशब्देन भावकारणनिरूपिता कार्यताभिप्रेता । तर्हि सामान्यकारणमात्रानुत्पाद्यकार्यमात्रवृत्तित्वहेतोरभावरूपविशेषकारणेनाप्युपपत्त्याप्रयोजकता । तत्तद्घटत्वादौ व्यभिचारश्च ।

 

भावेति ॥ भावनिष्ठकारणानिरूपितेत्यर्थः । अप्रयोजकतेति ॥ सामान्यसामग्रीमात्रानुत्पाद्य १ कार्यमात्रावृत्तित्वस्य विशेषकारणजन्यत्वं विनानुपपत्त्या तदाक्षेपकत्वेपि विशेषकाण २ त्वस्य भावत्वं विनाप्रयोजकैवेति भावः । तत्तद्घटत्वेति ॥ घटत्वेन मृत्पिण्डत्वेनैव कार्यकारणभावो न तद्घटत्वेन ३ मृत्पिण्डत्वेन हेतुहेतुमद्भावः । एकव्याक्तिकत्वेन बाधकेन तद्घटत्वस्य कार्यतावच्छेदकत्वात् । बाधकं विना कार्यमात्रवृत्तिधर्मत्वादिति हेतुनैव कार्यतावच्छेदकत्व ४ साधनात् । तथाच स्वाश्रयमात्रवृत्तेः स्वस्य वान्यस्य वा धर्मस्य कार्यतावच्छेदकस्याभावेन तदवच्छिन्नकार्यताश्रयमात्रवृत्तित्वरूपसाध्याभावे ५ पि न स्वाश्रयमात्रावृत्तिघटत्वरूपधर्मावच्छिन्नकार्यताप्रतियोगिक ६
कारणमात्रानुत्पाद्यकार्यं तद्घट एव । स्वप्रागभावभूताधिककारणजन्यत्वात् । तथाच तन्मात्रवृत्तित्वरूपहेतुसत्वाद्व्यभिचार इत्यर्थः ॥

 

१. द्येन स्वकार्य  आ. २. णस्य  मुआ.  ३ऽनऽ इत्यधिकमस्तिमु.

४. त्वासाकुं.  ५. अपिपदं न कुं.   ६. केमु.

 

यपक्तवनुतङ्गः)                 प्रामाण्यवादः            पु  १६५.

 

तद्वारणाय हेतावपि कार्यमात्रेत्यत्र कार्यशब्देन भावकारणोत्पाद्यकार्यविवक्षायां स्वतस्त्ववादिनं प्रत्यसिद्धिः । प्रत्यक्षप्रमादाविन्द्रियार्थसन्निकर्षादेर्गुणस्य सत्वासिद्धिः

 

यत्सामान्यन्यायेन विशेषयोः कार्यकारणभावो न तत्वेन रूपेण किन्ति सामान्येनैव । न चैवं तन्मृत्पिण्डत्वेन हेतुहेतुमद्भावाभावे मृत्पिण्डान्तरादेतद्घटोत्पत्तिः स्यादिति वाच्यम् । मृत्पिण्डान्तरे एतद्घटप्रागभावाभावादेव तत उत्पत्यप्रसक्तेः । १ तत्प्रागभावत्वेन हेतुत्व २ कल्पनं पूर्वोक्तदिशोत्पन्नस्य पुनरुत्पत्तिबाधकादेवेति भावः  भावकारणेति ॥ स्वाधिकरणमात्रावृत्तिधर्मावच्छिन्नकार्यताप्रतियोगिककारणमात्रानुत्पाद्यभावकारणकार्येत्युक्तो तादृशकारणा ३ दधिकभावकारणजन्यकार्यमात्रवृत्तित्वादित्यर्थलाभात् ।

४ तद्घटत्वादौ च स्वप्रागभावरूपाधिककारणजन्यकार्यमात्रवृत्तित्वेनोक्तहेत्वभावान्न व्यभिचार इति भावः  असिद्धिरिति ॥ अनित्यत्वप्रमात्वव्याप्यीनित्यप्रत्यक्षप्रमात्वाद्याश्रयनिष्ठकार्यतानिरूपिता ५ नुगतगुणाभावादनित्यज्ञानसामान्यसामग्रीतोऽभावादिति भावः । अत एवोक्तं रुचिदत्तेनापि"सन्दिग्धासिद्धे"रिति ॥

यत्तूक्तस्थले व्यभिचारवारणाय यावत्कार्यमात्रवृत्तिधर्मत्वादिति विशेषणम् । तत्तद्घटत्वादेश्च तादृशैककार्य ६ मात्रवृत्ति ७ त्वादिति तन्न । तथापि नीलघटत्वादौ व्यभिचारानिरासात् ।

 

१. तत्तकुं.   २. त्वाककुंा.  ३. णाधिकुं.   ४. तत्तकुं.   ५. दनुआ.

६. मात्रपदं न मु.  ७. धर्म इत्याधिकमा.  ८. मात्रपदं न अआ.

 

न्यायदीपयुततर्कताण्डवम्               ( प्र. परिच्छेदः         पु  १६६.

 

इत्यादित्वनुपदमेव निरसिष्यते ॥

यज्ञपत्युक्त १ वक्रानुमाभङ्गः ॥ १२ ॥

 

एतेन साध्ये स्वाश्रयमात्रवृत्यनेक ८ मात्रवृत्तिधर्मेति विशेषणमिति निरस्तम् । अप्रयोजकत्वव्यभिचारयोपरिहारात् । यज्ञयत्युक्तेरर्वाचीनत्वान्न तन्निरीसो मूलारूढतया प्रदर्शिततः ॥

यज्ञपत्युक्त ३ वक्रानुमानभङ्गः ॥ १२ ॥

 

अथ मतमनित्यप्रत्यक्षप्रमात्वमनुमितिप्रमात्वं शाब्दप्रमात्वं च कार्यतावच्छेदकं बाधकं विना कार्यमात्रवृत्ति २ त्वात्घटत्ववदिति प्रत्येकमेव प्रयोक्तव्यम् ।

 

अनित्यप्रमात्वं कार्यतावच्छेदकं बाधकं विना कार्यमात्रवृत्तिधर्मत्वातिति मण्युक्तानुमाने प्रागल्भादिनोक्तानुगतगुणपक्षं निरस्य यज्ञपत्युक्तप्रमामात्रानुगतगुण ४ माक्षिप्यानुमानं च निरस्य यत्पक्षधरेणैव पक्षान्तरमुक्तं"यद्यपि यथाश्रुतं साध्यं बाधितमनित्यत्वप्रमानुगतहेत्वसिद्धेः अत एव स्वरूपासिद्धिरपि तथाप्यनित्यप्रमात्वमित्यनेन अनित्य ५ प्रत्यक्षप्रमात्वादिकमेव विवक्षितं कार्यतावच्छेदकव्यापकत्वमेव साध्यं तादृशकार्यमात्रवृत्तिधर्मव्यापकत्वादितिहेतुरिति वा स्मर्तव्यमिति"तदनुरोधेन प्रमामात्राननुगतगुणपक्षमाशङ्कते  अथेति ॥ ६ मतमिति ॥ इति
प्रयोक्तव्यिमित्यन्वयः  बाधकं विनेति ॥ अवच्छेदकान्तरोपपन्नकार्य ७ ताश्रयवृत्तित्व ८ स्वावच्छिन्नकार्यताप्रतियोगिककारणासम्भव इत्यादिबाधकं विनेत्यर्थः ॥

 

१. वक्रपदं न चमु.  २. धर्मछ.  ३. वक्रपदं न मु.   ४. पक्षियमनुमान मुअआ.  ५. साक्षात्कारिअआ.   ६.

प्रथमिति प्रमुअआ.   ७. कारणत्वानाश्रयवृत्तिस्वाआ.   ८. त्वंस्वाकुमा.

 

प्रत्यक्षादिप्रमासु प्रत्येकानुगतगुणभङ्गः)       प्रामाण्यवादः       पु  १६७.

 

बाधकं च समाजस्यार्थिकत्वमनुगतहेत्वभावश्च । तेन नीलघटत्वादौ घटज्ञानत्वादौ च न व्यभिचारः । एतादृशप्रत्यक्षप्रमात्वादिकं प्रत्यनित्यप्रमात्वस्य व्यापकत्वमेव  १ प्रमात्वस्य परतस्त्वम् । एवं च तत्तत्प्रागभावनिरूपितकार्यतया २ नार्थान्तरम् ।

न चात्राप्यनुगतहेत्वभावो बाधकः ।

 

नित्यवृत्तित्वादि ३ कार्यतावच्छेदकत्वबाधकस्य ज्ञानत्वादाविव निलघटत्वादावभावात् । विशिष्टहेतोरपि तत्र व्यभिचार इत्यतो विवक्षितपक्षधराद्युक्तबाधकशब्दार्थोक्त्योक्तदोषं निराह  बाधकं चेति ॥ समाजस्य मेलनस्य आर्थिकत्वमवच्छेदकान्तरोपपन्नकार्यताश्रयवृत्तित्वमित्यर्थः  अनुगतेति ॥ स्वावच्छिन्नकार्यताप्रतियोगिका ४ नुगतहेत्वभाव इत्यर्थः  तेनेति ॥ बाधकं विनेत्यत्र विवक्षितबाधकाभावरूपविशेषणनेत्यर्थः॥

एवं जन्यप्रत्यक्षप्रमात्वादेः परतस्त्वप्रप्तवप्यनित्यप्रमात्वस्य तन्न प्रप्तमित्यत आह  एतादृशेति॥ प्रमात्वस्य अनित्येति योज्यम् । यद्वा ईश्वरज्ञानप्रमाण्यस्यापि परतस्त्वं प्राप्तमिति भावेन प्रमात्वस्येत्येवोक्तिः  एवं चेति ॥ अनित्यप्र ५ त्यक्षत्वादेः कार्यतावच्छेदकत्वेनानित्यप्रमात्वस्य तद्व्यापकत्वे साध्यमाने सतीत्यर्थः  बाधक इति ॥

 

१.ऽप्रमात्वस्यऽइति नास्ति मुच.  २. तामादयछ.  ३. रूप इत्याधिकं  कुं.

४. नुमानेह  अ.  ५. प्रमात्वादे  आ.

 

न्यायदीपयुततर्कताण्डवम्         ( प्र. परिच्छेदः              पु  १६८.

 

प्रत्यक्षप्रमायामिन्द्रियार्थसन्निकर्षस्यार्थस्य च अनुमितिप्रमायां यथार्थलिङ्गपरामर्शस्य शाब्दप्रमायां यथार्थवाक्यार्थज्ञानस्य च गुण १ स्यानुगमात् । भ्रमेत्वर्थोऽसन्निति न हेतुर्न वा २ तस्य सन्निकर्ष इति चेदुच्यते ।

प्रत्यक्षप्रमामात्रे न सन्निकर्षोर्थो हेतू । शुक्तौ रूप्यभ्रमकालेपि ३ तयोः सत्वेन शुक्तित्वेन शुक्तिप्रमाप्रसङ्गात् ।

 

स्वावच्छिन्नकार्यतानिरूपितैककारणाभावरूपबाधतसत्वाद्बाधकं विनेत्युक्तविशेषणासि ४ द्धिरिति भावः ॥

मण्याद्युक्तमेवाह  प्रत्यक्षेति ॥ अनित्येति योज्यम्  गुणस्येति ॥ अन्वयव्यतिरेकादिति मण्युक्तेरिति भावः । सादृश्यज्ञानमुपमितौ गुण इति मण्युक्तमप्यत्र नानूदितम् । उपमानस्यानुमानानतिरेकस्यान्यत्र व्यक्तत्वात् सन्निकर्षार्थाविति ॥ अल्पनिरासत्वात्सन्निकर्षस्य पूर्वं निर्देशः ।

यद्वा"नासिकास्तनयोर्ध्मार्घटो"रित्यादिनिर्देशेन"अल्पाच्तरं पूर्वं"इत्यस्य प्राथिकत्वादर्५ थस्य यौ सन्निकर्षाविति भ्रमनिरासायैवं निर्देशाददोषः ।

अन्वयव्यभिचारमाह  शुक्ताविति ॥ तयोः शुक्तिरूपार्थतत्सन्निकर्षयोरित्यर्थः । इदन्त्वेन प्रमात्व ६ स्य सत्वाच्छुक्तित्वेनेत्युक्तिः ॥ तथायानुगतहेत्वभावरूपबाधकस्यैव भावाद्बाधकं विनेत्यसिद्धमिति भावः ॥

 

१. स्य चा छ.   २. तत्रमुच.  ३. अपिपदं नास्ति  छ.  ४. द्धेरि कुं .

५. ददोषः अ.  ६. स्येष्टत्वाच्छुमु.  स्येष्टत्वादाह शुक्तत्वेनेति  आ.

७. इयं पङ्क्तिर्नास्ति अ.

 

प्रतिप्रसुप्रत्येतगुङ्गः)           प्रामाण्यवादः              पु  १६९.

 

दोषः प्रतिबन्धक इति चेत्तर्ह्यावश्यकत्वाद्दोषाभावादेव प्रमास्तु ।

किञ्च षड्विधसन्निकर्षान्यतरद्योगिप्रत्यक्षादौ प्रत्यभिज्ञायां च तत्तादौ नास्ति । तत्र च योगजधर्मसंस्कारादिः प्रत्यासत्तिश्चे १ त्तर्हि भ्रमेपि दोषस्तथा स्यात् ।

 

मण्यादिना दाहाभावेपि वह्नेर्दाहहेतुत्वाभाववदिहाप्यहेतुत्वं न सन्निकर्षादेः प्राप्यत इति भावेनाशङ्क्य निराह  दोष इति ॥ दोषाभावादेवेति ॥ तस्य चानित्यप्रमामात्रेऽनुगतहेतुत्वात्किमुक्तसृष्ट्येति भावः ।

नन्वेवं दाहस्थलेपि मण्याद्यभाव एव हेतुः स्यान्न वह्निः । अन्वयव्यतिरेकबलाद्वह्नेर्दाहहेतुत्वे सन्निकर्षादेरप्यस्तु हेतुत्वम् । सन्निकर्षोत्कर्षेण प्रमोत्कर्षदर्शनाच्चेति चेत् । किमत्र सन्निकर्षपदेन लौकिक एवाभिमतोथालौकिकप्रत्यासत्तिसाधारणं सन्निकर्षमात्रमितित २ कल्पौ हृदि कृत्वाऽद्ये व्यतिरेकव्यभिचारमाह  किञ्च षड्विधेति ॥ संयोगसंयुक्तसमावायसंयुक्तसमावेतसमावायसमवाय ३ समवेतसमवाय विशेषणविशेष्यभावरूपेत्यर्थः । अन्यतरदित्यस्य प्राग्वत्साधुत्वं ध्येयम् । योगिप्रत्यक्षादिवित्यादिपदेन सामान्यज  प्रत्यक्षग्रहः ।
प्रत्यभिज्ञायामित्युपलक्षणम् । सुरभिचन्दनमित्यादिप्रत्यक्षं च ग्राह्यम् । तेन

तत्तादावित्यादिपदेनोपनीतगन्धादीग्रहः । द्वितीयमाशङ्क्यान्वयव्यभिचारेणनिराह  तत्र चेति ॥ संस्कारादिरित्यादिपदेन ज्ञानसामान्ययोर्ग्रहः  तथेति ॥ प्रत्यासत्तिरित्यर्थः । तथाच तादृशप्रत्यासत्तौ सत्यामपि तत्र प्रमानुदयाद्व्यभिचार इति भावः ।

 

१. द्भमे छगकखकुं.  २. विकल्पौअआ.   ३. स्वस  मु. ४. जन्यप्रआ.

 

न्यायदीपयुततर्कताण्डवम्          ( प्र.परिच्छेदः             पु  १७०.

 

किञ्च चक्षुरादिवत्कारणत्वेन धर्मिग्राहकमानासिद्धोर्थः सन्नकर्षेणान्वयथासिद्धत्वादतीतादिविषयकयोगिप्रत्यक्षादिवसत्वाच्च न प्रत्यक्षप्रमाहेतुः । अन्यथा वर्तमानविषयकानुमितावप्यर्थो हेतुः स्यात् ॥

१ अपि च त्वन्मते भ्रमेपि यस्मिन्नंशे भ्रमत्वं तद्रजतत्वादिकं विशेषणं सदेव । वैशिष्ट्यं त्वमदप्यसत्ख्यातिभीतस्य तव मते न भाति १ ॥

 

एवमर्थस्याप्यनन्थासिद्धान्वयव्यतिरेकौ न स्तः । अन्यथाख्यातिविचारे सुधोक्तरीत्या क्वचिद्विशेषणाभावात्क्वचितद्विशेष्याभावादिति भावेनाह  किञ्चेति ॥ ननु सन्नकर्षेणैवार्थोन्यथासिद्धश्चेच्चक्षुरादिरपि तथा स्यादित्यत उक्तं चक्षुरादिवदित्यादि ॥ रूपाद्युपलब्धयः करणसाध्याः क्रियात्वात्छिदिक्रियावदित्यनुमानेन सिध्यच्चक्षुरादिकं करणत्वेनैव सिद्धम् । नत्वर्थ इत वैषम्यमिति भावः अतीतेति ॥ अतीतानागतविषयके योगिप्रत्यक्षे सामान्यजप्रत्यक्षे चेत्यर्थः  अन्यथेति ॥ उक्तदिशान्यथासिद्ध्यकल्पन इत्यर्थ् ।

अन्वयव्यभिचाराच्चार्थो न हेतुरिति  भावेनाह  अपिचेति ॥ सदेवेति ॥ तथा च तत्रान्वयव्यभिचारान्नार्थः प्रमायां हेतुरिति भावः । ननु वैशिष्ट्यांश एव भ्रमत्वम् । तच्चासदेव । अतो न व्यभिचार इत्यत आह  वैशिष्ट्यं त्विति ॥ तवेति ॥ मणिकृत इत्यर्थः ॥

 

प्रदिप्रसुप्रत्येतगुङ्गः)         प्रामाण्यवादः                पु  १७१.

 

किञ्च त्वन्मते प्रत्यक्षप्रमायामपि विशेषणज्ञानमेव हेतुर्न तु विशेषणम् । विशेष्यं तु भ्रमे १ सदेव ॥

ननु तथापि लौकिकप्रत्यक्षप्रमायां वैशिष्ट्यरूपोर्थोऽगुणः ॥

 

एतेन"भ्रमे त्वर्थोऽसन्निति न हेतुः"इति प्रागुक्तं प्रत्युक्तम् ॥

२ ननु विशेषणमन्यत्र सदपि पुरतोऽसदेवेति चेत्तर्हि विशेषणमर्थश्चेदसम्भवि । विशेष्यं चेद्यव्यभिचारीत्याह  किञ्चत्वन्मत इत्यादिना ॥ सदेवेति ॥ तथाच शुक्तिप्रमास्यात् । नास्ति च सा अतो न विशेष्यरूपोर्थः प्रमायां गुणतया हेतुरिति भावः ॥

३ ।ननु मणिकृन्मते वैशिष्ट्यरू ४ पार्थ एव प्रमारूपजन्यप्रत्यक्षमात्रे गुणोस्तु । भ्रमे च वैशिष्ट्यरूपोर्थः पुरतोऽसन्निति तस्य भ्रमा ५ हेतुतया भ्रान्तेः प्रमात्वानापत्तिः । अन्यत्र सत्वेन भ्रान्तौ भानोपप ६ त्तेश्चेति चेन्न । यत्र ७ क च न सत्वमात्रेण तद्गोचरजन्यप्रत्यक्षं प्रत्यनन्यथासिद्धनियतपूर्वक्षण ८ वृत्तित्वाभावेन हेतु ९ त्वानिर्धारणात्पुरतोऽसत्वेनाहेतुत्वस्य सन्निकर्षाभावेनोपपत्या पुरतस्सत्वस्य सन्निकर्१० ष एवोपयोगेन ११ सर्वथापि १२ तदहेतुत्वस्यैव १३ न्याय्यत्वाच्चेति ध्येयम्॥

र१४ प्राचां  मतमाशङ्कते नन्विति ॥ उक्तत्वादिति ॥ चक्षुरादिवदित्यादिना ग्रन्थनेत्यर्थः । १५ वैशिष्ट्यरूपोर्थोर्थपदेन न विवक्षितुं शक्यः । किन्तु विशेषणं विशेष्यं वा १५ । १६ तच्चान्वयव्यभिचारान्न प्रमायां

हेतुरिति भावेनाह  किञ्चेति ॥

 

१.पिगकचछ.  २.अर्थो हेतुरित्यर्त्राथपदेन किं विशेषणमभिहितमथ विशेष्यं तदुभयवैशिष्ट्यं वा आद्यद्वितीयौ प्रत्याह  अ.  ३. । अयं ग्रन्थः नास्ति  अ.  ४. पोर्थकुंआ.  ५. महेमु.  ६.त्तिश्चकुमा.  ७.चित्समु, कुत्रचित्सआ.  ८.वर्तिकुं.  ९.ता निवारणात् । पु,मुआ.   १०. र्षोपमुआ.  ११. सर्वत्रापिआ.  १२. प्यर्थाहे मुआ.  १३.

स्यन्यामुस्यैव सत्वाच्चेआ.  १४. तृतीयं शङ्कते  अ.  १५. इयं पङ्क्तिर्नास्ति अ.  १६. तभ्रमे अन्वयव्यभिचाराच्च नार्थःप्रमाणं हेतुरिति भावेनाह  अ.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र. परिच्छेदः           पु  १७२.

 

भ्रमे तु चिरन्तनमतेऽसदपि वैशिष्ट्यं सदुपरक्तत्वेन भातीति चेन्न । अर्थो न हेतुरित्युक्तत्वात् ॥

किञ्च यद्वैशिष्ट्यमसत्न तदंशे त्वन्मते बाधस्तत्प्रयुक्तभ्रमत्वं वा सम्भवति। त्वन्मतेऽसतोऽभावविरहात्मत्वरूपप्रतियोगित्वाभावेन स्वप्रतियोगिकाभावप्रमारूपबाधायोगात् । यत्र तु रजतत्वांशे १ ते सम्भवतः न तदसदिति नार्थो भ्रमव्यावृत्तो हेतुः। एवं बाष्पे धूमभ्रमेणोत्पन्नायां यादृशच्छिकसंवादेन प्रमायामनुमितौ न यथार्थलिङ्गपरामर्शोस्ति ।

 

यदिति २ भिन्नं पदं  त्वन्मते ॥ प्राचीनतार्किकमते  स्वप्रयोगिकेति ॥ प्रा माणिकस्य घटादेरेवात्यन्ताभावोपगमेनाप्रामाणिकात्यन्ताभावानङ्गीकारात् । तदनङ्गीकारे हेतुरभावविरहेत्यादि । बाधायोगादित्युक्त्या तत्प्रयुक्तभ्रमत्वस्यप्ययोग उक्तप्राय इति भावः । त इति ॥ ३ बाधभ्रमत्वे इत्यर्थः । उक्तरूरूपबाधयोगादेव तत्प्रयुक्तभ्रमत्वं च सम्भवतीति भावः । प्रत्यक्षप्रमायामवगतगुणासम्भवमुक्त्वा"दृश्यते च यादृच्छिकसंवादिना गुणाभावोपि ४ प्रमाजनकत्वं"इति तत्वनिर्णयटीकां विवृण्वन्ननुमितावपि प्रागुक्तानुगतगुणं निराह  एवमित्यादिना ॥

 

१.तत्संछ.  २. न्नपआकुं.  ३. बाधभ्रमत्व इत्यर्थऽ इति नास्तिआ. भ्रमाजअ.

 

प्रदिप्रसुप्रत्येतगुङ्गः)          प्रामाण्यवादः              पु  १७३.

 

नचेश्वरे सोस्तीति वाच्यम् । उक्तरीत्या दोषजन्यत्वस्यापि सत्वेन भ्रमत्वस्याप्यापत्तेः । ईश्वरज्ञानस्य सत्य १ परामर्शत्वेन कारण्त्व २ कल्पनस्य परतस्त्वसिद्ध्यधीनान्योन्याश्रयाच्च । भ्रमघटादिसाधारणेनोपादनाद्यपरोक्षज्ञानत्वेन कारणत्वे ३ च तस्य न गुणता । अन्यथास्मदादिनिष्ठानां संशयप्रत्यक्षानुमिति निर्विकल्पकानां यथाक्रममीश्वरनिष्ठैर्विशेषदर्शनलिङ्गपरामर्शवाक्यार्थज्ञान

 

ननु समानाधिकरणस्य तस्य तत्राभावेपि कार्यमात्रं प्रतिकारणस्येश्वरीयज्ञानस्य सल्लिङ्गविषयकस्य तत्रापि सत्वमस्ति सामानाधिकरण्यस्याप्रयोजकत्वात् । अतो न व्यतिरेकव्यभिचार इति भावेनाशङ्क्य निराह  नचेति । दोषेति ॥ अस्मदी ५ यासल्लिङ्गपरामर्शरूपेत्यर्थः ।

ईश्वरज्ञानमपि किं सल्लिङ्गपरामर्शत्वेन हेतुरुतोपादानादिज्ञानत्वेन । आद्ये दोषमाह  ईश्वरेति ॥ अन्त्ये तु न तस्य गुणत्वेन हेतुत्वम् । तथात्वे भ्रमस्यापि गुणजन्यतापत्तिरिति भावेनाह  भ्रमेति ॥ भ्रमसाधारणेन घटादिसाधारणेनेत्यर्थः । उपादानादिप्रत्यक्षत्वेन हेतुतेत्युपपादनाय घटादीत्युक्तिः  । विपक्षेऽनष्टप्रसङ्गद्योतनाय भ्रमेत्युक्तिः । अतिप्रसङ्गान्तराण्याह  अन्यथेति ॥ तेनापि रूपेण हेतोस्सल्लिङ्गविषयकत्वमात्रेण गुणत्व इत्यर्थः ।

 

१. लिङ्गपरा  मुच.  २. त्वस्य  कुंकगछख.   ३. न तस्य गुणता  मुगकच.  ४. शाब्दज्ञाननिर्वि ग.  ५. यसल्लिं  मुआ.ऽअस्मदीयेति नास्ति"अ.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र. परिच्छेदः            पु  १७४.

 

विशेषज्ञानर्जन्यत्वाद्यथाक्रमं निश्चयत्वानुमितित्वशाब्दज्ञानत्वसविकल्पकत्वानि स्युः ।

अपिचैवं व्यधिकरणस्य १ परामर्शस्य गुणत्वे दोषत्वमपि तस्यैव २ स्यात् । सामानाधिकरण्यस्याप्रयोजकत्वात् । तथाचाभासानुमितिमूलत्वेन नित्यभ्रमः सिद्ध्येत् । किञ्चैवं सति स्थाणौ करादिविपर्ययजन्यस्य पुरूषत्वभ्रमस्येश्वरनष्ठया वक्रकोटरत्वादिप्रमया जन्यत्वात्स्थाणुप्रमात्वं स्यात् ।

 

येन केनापि रूपेण हेतोरपीश्वरज्ञानस्य गुणत्वकल्पनेतिप्रसङ्गान्तरं चाह  अपिचेति । एवमित्यस्य व्यक्तीकरणं व्यधिकरणस्येत्यादि ।

नित्यभ्रम इति ॥ ननु सति सम्भवे त्यागायोगात्तत्र सममानाधिकरण ३ एवासल्लङ्गपरामर्शरूपदोष सम्भवान्न व्यधिकरणदोषकल्पनेति चेन्न । गन्ध ५ प्रगभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वादित्यादा ६ एवाभासानुमितौ समानाधिकरणदोषासम्भवे व्यधिकरणस्यैव ७ कल्प्यत्वेऽनुगतिलाभालाय सर्वत्र दोषत्वकल्पनौचित्यादिति भावः ।

ननु गुणे समानाधिकरण्यमप्रयोज्यकम् । दोषे तु तन्नियमः प्रयोजकः । गन्धप्रागभावावच्छिन्न इत्यादौ ८ बाधितत्वप्रमादिरेव कश्चित्कल्प्यत इत्यत आह  किञ्चेवे सतीति ॥ व्यधिकरणस्यापि गुणस्य हेतुत्वे सतीत्यर्थः ।

स्थाणुप्रमात्वमिति ॥ न च समानाधिकरणो दोषः प्रबल इति शङ्क्यम् ।

 

१. परामर्शस्येति नास्ति  कुं.  २. तवेत्याधिकंक.  ३. णस्येवासल्लिं कं.

४. षस्य संकुं.   ५. नायं प्रागअ.  ६. वभावानु आ.  ७ दोषत्वकल्पनौ अ.  ८. बाधितत्व इति नास्ति आ.

 

प्रदिप्रसुप्रत्येतगुङ्गः)            प्रामाण्यवादः            पु  १७५.

 

ननु तर्ह्यनुमितिसमानाधिकरणं वस्तुतःसाध्यव्याप्यवतः पक्षस्य व्याप्यवत्वेन ज्ञानं गुणोस्त्विति चोन्मैवम् । लाघवेन वस्तुतः साध्यवत्पक्षस्य ज्ञानेनैव प्रमात्वसम्भवात् । स च विषयसत्वोपहितत्वान्न गुण इत्युक्तम् ।

किञ्च १ प्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्यादिनुमाने वस्तुतोऽनेकतर्तृके लाघव

 

यादृच्छिकसंवादिनि प्रमानुदयापातात् । न चारोपे सति निमित्तानुसणमिति न्यायेन तत्र २ प्रमात्वादृष्ट्या न विशेषप्रमात्वेनेश्वरज्ञानं हेतुरिति युक्तम् । प्रामाण्यसिय स्वतस्त्वे नाप्युपपत्त्या ईश्वरज्ञानस्याप्यनुमितिप्रमायां न गुणत्वेन हेतुत्वमिति सुवचत्वादिति भावः ।

एवं यादृच्छिकसंवादिनि पूर्वोक्तगुणव्यभिचारमुक्त्वा ३ तत्स्थैर्याय व्यधिकरणस्य गुणत्वमनेकदोषोक्त्या निरस्येदानीं प्रकारान्तरेण तत्र गुणव्यभिचाराभावमाशङ्क्य दोषान्तरमाह ॥ नन्वित्यादिना ॥ यादृच्छिकसंवादिनि धूमाभावेपि वह्निव्याप्यस्यालोकादेः सत्वेन तादृशे ४ पक्षे बाष्पे धूमज्ञानं व्याप्यवत्वज्ञानं भवतीति न तत्र व्यभिचार इति भावः  वस्तुत इति ॥ वस्तुतः साध्यवान  ५ यः तादृशपक्षज्ञाननैवेत्यर्थः  स चेति ॥ उक्तरूपपक्षस्य ज्ञानमित्यर्थः । तच्चेति वक्तव्ये विधेयगुणा ६ पेक्षया पुल्लिङ्गप्रयोगः ।

उक्तरूपगुणस्यान्वयव्यभिचारं चाह  किञ्चेति ॥ अनेकेति ॥

 

१. गन्धप्रागखचछक.    २. तत्प्रमुअ.   ३. त्सौकर्यामु.  ४. दोषान्तरपअ.  ५. यः इति नास्तिकुं.   ६.णपदापेअ.

 

न्यायदीपयुततर्कताण्च्वम्             ( प्र. परिच्छेदः          पु  १७६.

 

तर्कानुग्रहादेककर्तृकत्वनषयानुमानेचोक्तगुणसद्भावात्प्रमा ज्ञायेत ।

न च बाधा १ भावसहकृतसत्यपरामर्शादिर्गुण इति वाच्यम् । आवश्यकत्वाद्बाधा २ भावेनैव प्रमात्वसम्भवेन गुणस्य हेतुत्वासिद्धेः ।

 

प्रसादः सकर्तुकः कार्यत्वात्घटवदित्य ३ नुमान इत्यर्थः  उक्तेति ॥ वस्तुतः साध्यव्याप्यवत इत्यादिनोक्तेत्यर्थः ।

एतेन पक्षतावच्छेदकावच्छेदेन ज्ञाप्यवति पक्षे लिङ्गज्ञानं गुण इति रुचिदत्तोक्तं निरस्तम् । वस्तुतोनेककर्तृकैत्यादिनोक्तदोषानतिलङ्घनात् । लाघवेन वस्तुतो ज्ञाप्यवत्पक्षस्य ज्ञानेनैव प्रमात्वसम्भवात् । तस्य च विषयसत्वोपहितत्वेनागुणत्वात् ।

एतेनैव पक्षतावच्छेदकाविरोधिसाध्यकानुमितिप्रमायां यथार्थलिङ्गपरामर्शो गुण इति पक्षधरोक्तमपि प्रत्युक्तम् । गन्धप्रागभावेत्युक्तस्थले त्वदुक्तगुणे सत्यपि पक्षतावच्छेदकाविरोधिसाध्यप्रमाया अनुसत्वोपाहितत्वात् । घनगर्जितस्थलेन व्यभिचाराच्च ।"दृश्यते च यादृच्छिकसंवादिनोऽनाप्तवाक्यस्य गुणाभावेपि यथार्थज्ञानजनकत्वं"इति तत्वनिर्णयटीकावाक्यं विवृण्वानः प्रागुक्तं शाब्दप्रमायामप्यनुगतगुणं निराह  एवमिति ॥ घटोस्तीति वक्तव्ये प्रमादादिना पटस्तीत्युक्तवाक्यमादिपदार्थः ॥

 

१. धकाकछथ.  २. धकाक.च.  ३. त्याद्यनुआ.  ४. एवपआ.

 

प्रदिप्रसुप्रत्येतगुङ्गः)            प्रामाण्यवादः              पु  १७७.

 

एवं विप्रलम्भकादिवाक्यजन्यायां शुकादिवाक्यजन्यायां च यादृशच्छिकसंवादेन प्रमायां न यथार्थवाक्यार्थज्ञानमस्ति । १ न च तत्रापीश्वरे तदस्तीति शङ्क्यम् । व्यधिकरणजन्यत्वेन प्रमात्ववत्समानाधिकरणदोषजन्यत्वेनाप्रमात्वं च स्यादित्याद्यतिप्रसङ्गात्१ । किञ्च तद्धि न साक्षाच्छाब्दप्रमाजनकम् । वक्तृनिष्ठे तस्मिंश्चिरध्वस्तेपि श्रोतरि प्रमोत्पत्तेः । वक्तृनिष्ठे वाक्यरचनाद्वारा । रचनायां च न तत्करणम् । शुक २ बालादीनामिव तादृशपदावलीज्ञानमात्रेण तदुपपत्तेः ।

 

ननु तद्वाक्ये तादृशगुणाभावेपि ३ तज्जातीये वाक्यान्तरेऽस्तीत्यतस्तत्रापि तस्य न हेतुत्वमित्याह किञ्चेति ॥ चिरध्वस्तेपि तस्मिन्निति पूर्वेणान्वयः ॥

ननु कार्यमात्रं प्रति कारणीभूतमीश्वरज्ञानमेव यथार्थवाक्यार्थ ४ ज्ञानरूपं सद्रचनाद्वारा प्रमां प्रति दुणत्वेन कारणत्वमस्तु । अतो न यादृच्छिकप्रमायां व्यभिचारः । नापि तेन विना वाक्ययरचनोपपत्तिः । तस्य कार्यमात्रं प्रति हेतुत्वेन रचनायां तज्जन्यप्रमायां  च हेतुत्वात् । शुकादिवाक्यजन्यप्रमायामपीश्वरीयप्रमामादायैव न व्यभिचार इति तदीयव्याख्या ५ त्रुक्तेः ।"

भ्रान्तप्रतारकवाक्ये ६ शुकादिवाक्ये चेश्वरस्यैव यथार्थवाक्यार्थज्ञानं जनकं"इति मण्युक्तेरिति भावेन शङ्कते ।

 

१. अयं ग्रन्थः नास्तिकुंगखकछ.  २. वाक्यादी कुं.   ३."यथार्थज्ञानजनकत्वमिति तत्वनिर्णयटीकां विवृण्वानः"इत्याधकमस्तिआ.   ४. ज्ञानपदं न आ.  ५. भिन्नं पदंमु.  ६. शुकादिवाक्येचेति नास्ति  आ.

 

न्यायदीपयुततर्कताण्डवम्           ( प्र.परिच्छेदः            पु  १७८.

 

न च तत्रापीश्वरनिष्ठं यथार्थवाक्यार्थज्ञानं रचनाद्वारा हेतुरिति वाच्यम् । तस्य ज्ञानसामान्यं भ्रमं च प्रतीवोपादानापरोक्षत्वेनैव हेतुतया प्रमां प्रत्यसाधारण्याभावात् । अन्यथोक्तातिप्रसङ्गात् ।

विसंवादिशुकादिवाक्यरचनाहेतुत्वेन भ्रमोपि कल्प्यत इति नित्यप्रमावन्नित्यभ्रमप्रसङ्गाच्च ॥

ननु शाब्दप्रमायां योग्यता तत्प्रमा वा गुणः । न च सर्वत्र प्रमाणवाक्येऽस्तीति चेन्न्मदिष्टवेदापौरुषेयत्वाविरोधिनस्त्वदिष्टेश्वरसिद्धिविरोधिनश्चैवंविधगुणजन्यत्वस्य साधनेर्ऽथान्तरात् ॥

 

न च तत्रापीति ॥ यादृच्छिकसंवादिन्यामपीत्यर्थः उक्तेति ॥ अन्यथास्मादादीत्यादिनोक्तेत्यर्थः ॥

"वयन्तु ब्रूमः"इत्युपक्रमस्य"१ शाब्दप्रमायां वक्तुर्यथार्यवाक्यार्थज्ञानं न गुणः । किन्तु योग्यत्वादिकं यथार्थतज्ज्ञानं वेति

मण्यु २ क्तं पक्षान्तरमाशङ्कते ॥ नन्विति ॥ योग्यता स्वरूपसती न हेतुरतो न गुणः इत्यस्तत्प्रमा ३ वेत्युक्तम्  त्वदिष्टेति ॥

"प्रमायाः परतन्त्रात्सर्गप्रलयसम्भवात् ।

तदन्यस्मिन्ननाश्वासान्नविधान्तरसम्भवः ॥"

इति कुसुमाञ्जल्युक्त्या प्रामाण्यपरतस्त्वस्येश्वरसिध्यर्थत्वोपगमा ४ द्यथार्थवाक्यार्थज्ञानस्य गुणत्वस्य एव पक्षे वेदे तादृशयथार्थवाक्यार्थज्ञान ५ नवत्वेने ६ श्वरसिद्धेरित भावः ॥

 

१. शब्द मुअ.  २. क्तपकुआ.   ३. चेत्युअआ.  ४. दिति भावः। ननुअ.

५. नत्वेनेमु.  ६. शज्ञानत्वेनेआ.

 

प्रदिप्रसुप्रत्येतगुङ्गः)            प्रामाण्यवादः              पु  १७९.

 

किञ्च योग्यता १ किं शब्दप्रतिपाद्यस्य संसर्गस्य सत्वं किं वा संसर्गसत्वाविनाभूतं  धर्मान्तरम् ॥

नाद्यः । शाब्दप्रमायां शाब्दप्रमाया वा तद्विषयस्य वाजनकत्वात् । विषयत्वस्य प्रमात्वान्तर्गतत्वेन तद्धेतुत्वायोगाच्च । २ प्रत्यक्षादिप्रमास्वपि ३ नियतविषयसत्वस्य सद्भावेन त्वदुक्तस्य शाब्दा ४ साधारण्यस्यायोगाच्च । अप्रमायामपि विषयसत्वस्यैव दोषत्वापाताच्च २ ।

 

ननु"न वैदिकप्रमाया गुणजन्यत्वेनेश्वरसिद्धिः"इति मणिकुदुक्तेरेतन्मते हेत्वन्तरेणा ५ स्त्वीश्वरसिद्धिरित्यत आह किञ्चेति ॥"वाक्यार्थाबाधो योग्यता"इतीहैव प्रामाण्यवादे मण्युक्तेराद्यः कल्पः । योग्यता ६ बाधोक्त्यनुरोधेनान्त्यः  धर्मान्तरमिति ॥ अन्त्येऽतीतादिसाधारण्या ७ दिति भावः । ८ तद्धेतुत्वायोगाच्चेति ॥ आत्माश्रयादिति भावः ८  विषयसत्वस्यैवेति ॥ गुणविरोधिन एव दोषत्वादनुगतिसम्भवाच्च । तथाच भ्रमे ९ऽसतोपि भानं त्वयापि स्वीकार्यम् । अन्यथा भ्रमत्वमेव न स्यादिति भावः ॥

ननु शुकबालादिवाक्यजन्यप्रमायामन्यस्य प्रमात्वप्रयोजकस्याभावादनन्यगत्या विषयसत्वरूपापि १० योग्यतैव गुणः इत्येव वाच्यमित्यत आह  आवश्यकेनेति॥

 

१. किं शब्दो न छ.  २. अयं ग्रन्थो नास्तिख.  ३. नियतपदं नास्ति चछ.

४. ब्दप्रमासामुच.  ५. णेश्वर आ.   ६. वादोकुं.  ७. अभावेत्याधिकमस्तिकुं.  ८. इयं पङ्क्तिर्नास्तिअ.  ९. प्यसमुअ.  १०.अपिपदं न आ.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र. परिच्छेदः           पु  १८०.

 

आवश्यकेन निर्देषत्वेनैव प्रमात्वोपपत्तेश्च ॥

नान्त्यः । त्वया ह्येकपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्व १ प्रमाविशेष्यत्वाभावो वा एकपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगिताव

वच्छेदकधर्मशून्यत्वं वा योग्यतेत्युक्तम् ॥

 

वक्तुर्२ भ्रमविप्रवम्भादिदोष ३ भावे योग्यताया अप्यभावेन तदर्थं तस्यापेक्षणियत्वेनावश्यकत्वमिति भावः । योग्यतावादोक्तमाह एकेति ॥

जलेन सिञ्चतीत्यादौ सेकरूप ४ एकोयः पदार्थः तत्संसर्गेऽपरपदार्थभूतजलनिष्ठात्यन्ताभावप्रतियोगित्वप्रकारिका ६ या प्रमा । तद्विशे ७ ष्यत्वाभावोस्तीति तद्योग्यवाक्यम् । वह्निना सिञ्चतीत्यादौ ८ तु

सेकनिरूपितसंसर्गे वह्निनिष्ठात्यन्ताभावप्रतियोगी सेकसंसर्ग इति प्रमित्युदयेन तत्रापरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रकारकप्रमाविशेष्यत्वमेवास्तीति तदयोग्यवाक्यम् । अतो नाव्याप्त्यतिव्याप्ती । अत्र आकाशे शब्द इति योग्यवाक्ये शब्दनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वमवृत्तिपदार्थे आकाशेऽस्तीत्यव्याप्तिनिरासाय एक ९ पदार्थ इत्यनुक्त्वा एतपदार्थसंसर्ग इत्युक्तम् । आकाशसंसर्गस्तु न तथेति न दोषः । अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वाभाव इत्येव पूर्तौ तादृशप्रतियोगित्वप्रमाविशेष्यत्वं प्रतिबन्धकमिति मतावष्टम्भेन तत्प्रमाविशेष्यत्वाभाव इत्यन्तमुक्तमित्याहुः ॥

 

१. प्राकरकप्रमा  मु. च.  २. क्तृभ्र. मुअ.  ३. षाभाआ.  ४. पोयःकुं.

५. सेकपदं नास्ति अआ.  ६. याः प्रमात्वात् तद्धिआ.  ७. ष्याभाः कुं.

८.तु, इति न मु.   ९. कः पअआ.

 

प्रतिप्रसुप्रत्येतगुङ्गः)            प्रामाण्यवादः             पु  १८१.

 

तत्र चाद्य १ पक्षेऽन्वयप्रमाविरोहो योग्यताद्वितीये जलेन सिञ्चतीत्यत्र सेकानन्वयप्रतियोगितावच्छेदका येऽग्नित्वादयो धर्मास्तुच्छून्यत्वं जले विद्यमानं योग्यतेति पर्यवस्यति । तत्र यद्यपि इदं द्वयं संसर्गसत्वाविनाभूतं न तु संसर्गरूपमिति न पूर्वोक्त २ दोषः ।

 

नरहरिस्तु उक्तात्यन्ताभावप्रतियोगित्वाभाव इत्येवोक्तौ वाक्यार्थ एव योग्यता स्यादिति तत्प्रामाविशेष्यत्वाभाव इत्युक्तमित्यब्रवीत् । तथाच योग्यतावादे स्पष्टयिष्यामः । घटसंसर्गत्वं गेहनिष्ठात्यन्ताभावप्रतियोगीतिप्रमाविषयत्वस्य घटसंसर्गेपि सत्वनेन गेहे घटोस्तीति वाक्येऽव्याप्तिनिरासाय प्रमाविशेष्यत्वाभाव इत्युक्तम् ॥

अत्र स्वपरसाधारणप्रमाविशेष्यत्वाभावनिश्चयस्याशक्यत्वात्प्रमाप्रवेशे गौरवाच्चेत्यादिदोषाद्वितीयं लक्षणम् । वन्हिसंसर्गत्वं हि सेकपदार्थनिष्ठात्यन्ताभावप्रतोयोगितावच्छेदकधर्मः तच्छून्यत्वं जलसं ३

योगेऽस्तीति जलेन सिञ्चतीत्यादिवाक्यं योग्यम् । अग्निनेति वाक्यं त्वयोग्यमिति नाव्यप्त्यादिदोषः । अत्रो ४ क्तरूपप्रतियोगि ५ त्वाभावस्य वाक्यार्थसंसर्गसत्वपर्यवसन्नतया तज्ज्ञानस्य शाब्दप्रमायामहेतुत्वादेतत्प्रतियोगितावच्छेदकधर्मशून्यत्वमित्युक्तम् ॥

अनन्वयेति ॥ एकपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यान्ताभावप्रतियोगित्वस्यानन्वय

रूपत्वादिति भावः  अग्नित्वादय इति ॥ अग्नित्वमृत्वापाषाणादयः ।

 

१. व्यस्तं पदं  खगकचछ.  २. क्ता दोषाःछ.  ३. सर्गेऽस्ती  आ.

४. अत उक्तं मु.  ५. ताकाभा आ.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र. परिच्छेदः            पु  १८२.

 

तथाप्यत्र पक्षद्वयेऽनन्वयप्रमाविरहो वा अनन्वयप्रमाविरहप्रमा वा अनन्वय प्रतियोगितावच्छेदकधर्मशून्यत्वं वा तच्छून्यत्वप्रमा वा गुण इति फलितार्१ थः ।

स चायुक्तः । आवश्यकेन निर्देषत्वेनैव प्रमात्वोपपत्तौ संसर्गव्यप्यत्वस्य संसर्गाभावप्रमाविरहस्य वा तत्प्रमाया वा संसर्गाभावप्रतियोगिताच्छेदकधर्मशून्यत्व स्य वा तत्प्रमाया वा गुणत्वकल्पनेऽतिगौरवात् । न हि निर्देषत्वे सति तयोर्वा तत्प्रमयोर्वा व्यतिरेकेण शाब्दप्रमाव्यतिरेको दृष्टः ।

 

अग्नि १ संसर्गत्वादेः सेकनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकत्वस्याग्नित्वादिधर्मनिबन्धनत्वादग्नित्वादय इत्युक्तम् ।

प्रतियोगितावच्छेदका इत्यस्याधिकरणतावच्छेदका इत्यर्थ इत्य  प्याहुः ।"योग्यता तत्प्रमा वा"इति प्रागुक्तकल्पद्व ४ योक्त्यनुरोधादाह । अनन्वयप्रमाविरहो वेत्यादि ॥ आवश्यकेनेति ॥ उक्तप्रमाविरहादेर्वाक्यगतनिर्देषत्वेनैव सम्भवादिति भावः । संसर्गव्याप्यस्येत्येतत्प्रमाविरहस्य विशेषणम् । ननु निर्देषत्वस्येव तयोरप्यन्वयव्यितरेकसिद्धकारणत्वस्य त्यागायोगा ५ दित्यत आह ॥ न हीति ॥ तयोरिति ॥ उक्तरूपप्रमाविरहधर्मशून्यत्वयोरित्यर्थः । विसंवादिशुकादिवाक्येऽपि निर्देषत्वं न सिद्धम् । भ्रान्त्यादिदोषाभावेप्यन्यस्य

कस्य चित्कल्प्यत्वादिति भावः । गुणजन्यत्वान्यथानुपपत्यै ६ व तत्कल्प्यत इत्यत आह  न च शाब्देति ॥ अद्यापीति ॥ अनुगतगुणकल्पनवेलायामपीत्यर्थः ॥

 

१. तोर्ऽथः  कखचछ.  २. निष्ठसंा.  ३. त्याहुःकुं.  ४. यानु  आ.

५. ग इत्याकुंा.  ६. एवकारो नास्तिमुअ. त्यैतत्क  आ.

 

प्रदिप्रसुप्रत्येतगुङ्गः)            प्रामाण्यवादः          पु  १८३.

 

न च शाब्दप्रमाया गुणजन्यत्वमद्यापि सिद्धम् । येन तन्निर्वाहाय तयोर्वा तत्प्रमयोर्वा गुणत्वं १ कल्प्यते २ ॥

किञ्च प्रत्यक्षादावपि विषयसत्वाविनाभूतस्य विषयासत्व ३ प्रमाविरहादेः सत्वात्स एव गुणः स्यात् । अतीन्द्रियार्थसन्निकर्षादेर्गुणत्वेक्तिरयुक्ता स्यात् । तत्र सतोपि तस्य गुणत्वेन जनकत्वे मानं नेति चेत्समं प्रकृतेपि ॥

एपिचैवमप्रमायामपि विषयासत्वाविनाभूतविषयाभावप्रमा वा विषयासत्वावच्छेदकधर्मवत्वं वा तयोः प्रमा दोषः स्यान्न तु काचादिः ॥

 

स्वतन्त्रान्वयव्यतिरेकाभावेऽपि हेतुत्वकल्पनेऽतिप्रसङ्गमाह  किञ्चेति ॥ प्रमाविरहादेरित्यादिपदेन तत्प्रमावच्छेदकधर्मशून्यत्वतत्प्रमयोश्च ग्रहः  सन्निकर्षादेरिति । सल्लिङ्गपरामर्श आदिपदार्थः ।

अपिचैवमिति ॥ विषयसत्वाविनाभूतस्य गुणत्व इत्यर्थः  विषयासत्वाविनाभूतेति   विषयाभावप्रमाविशेषणम् । प्रमाविशेष्यत्वमित्यर्थः  तयोरिति ॥ विषयाभावप्रमाविषयासत्वावच्छेदकधर्मवत्वयोरित्यर्थः  नत्विति ॥ तथाच भ्रमे काचादिर्देष इति मण्याद्युक्तिरयुक्ता स्यात् । तदन्वयव्यतिरेकिविरोधश्च स्यादितिभावः ॥

 

१. गुणजन्यत्वं  ख.  २. कल्प्येतखःकचछ.  ३. प्रमापदं नास्ति  ग .

 

न्यायदीपयुततर्कताण्डवम्           ( प्र. परिच्छेदः          पु   १८४.

 

किञ्च शाब्दि १ संसर्गप्रमा नियमेन संसर्गव्याप्यधीजन्या चेदनुमितिः स्यात् ॥

किञ्च असंसर्गप्रमाविरहो वासंसर्गप्रमाविरहप्रमा वा गुण मते अग्निना सिञ्चेदित्यादौ श्रोतुर २ न्वयप्रमाविरहदशायां संसर्गप्रमा स्यात् ॥

 

ननु विषयासत्वाविनाभूतधर्म ३ प्रमादे ३ प्रमादेर्विषयसत्वभ्रमविरोधित्वत्कथं दोषतेत्यतः संसर्गव्याप्यप्रमा गुण इति पक्षे दोषान्तरमाह  किञ्च शाब्दी संसर्गप्रमेति ॥ पर्वतवन्हिसंसर्गादिप्रमावदिति भावः ॥

ननु संशयोत्तरप्रत्यक्षमिव व्याप्यधीजन्यमपि नानुमिति ४ रूपमिति चेन्न ॥ ५ तत्र बलवत्प्रत्यत्रकरणकत्वेन व्याप्यधीकरणकत्वाभावात् । इह च नियमेन व्याप्यधीजन्यत्वे तत्कारणकत्वापातात् । न हि परामर्शादपि शब्दः प्रत्यक्षसामग्रीव ६ द्बलवान् ॥

न च व्यप्यत्वप्रकारकज्ञानजन्यत्वेन तदजन्यत्वान्ननुमितित्वम् । नियमेन तज्जन्यत्वे तथात्वेन । तज्जन्यत्वावश्यं भावात् । अन्यथा प्रमेयत्वादिनापि ज्ञाने तत्प्रमाया गुणत्वापत्तेः । असंसर्गप्रमाविरहप्रमात्वादिना हेतुत्वापेक्षया ७

संसर्गव्यप्यत्वप्रमात्वस्य लधुत्वात् । अन्यत्र तेन रूपेण हेतुतायाः कॢप्तत्वात् । असंसर्गप्रमाविरहप्रमात्वादिना हेतुत्वस्य प्रमाया गुणजन्यत्वसिद्ध्यधीनत्वेनान्योन्याश्रयाच्चेति भावः ।

संसर्गव्याप्यप्रमा गुण इति पक्षं निरस्यासंसर्गप्रमाविरहो गुण इति पक्षोपि दोषमाह  किञ्चासंसर्गेति ॥ क्वचित्तु असंसर्गप्रमाविरहप्रमा वेत्यपि पाठः ।

 

१. ब्दीयसंख.  २. नन्वयप्रमाविरहदशायां कखचछ.   ३. भ्रमाअ.  ४.रूपपदं न मु.  ५.अयं ग्रन्थः लुप्तः  अ.  ६.बलमु.  ७. या असं  अ.

 

प्रदिप्रसुप्रत्येतगुङ्गः)              प्रामाण्यवादः           पु  १८५.

 

न च श्रोतुस्तद्विरहदशायामपीश्वरस्यासंसर्गप्रमास्ति सा च श्रोतुः संसर्गप्रमा १ बन्धिकेति वाच्यम् । तथात्वे ईश्वरस्य वाक्यार्थप्रमा गुण इति चिरन्तनमतत्यागायोगात् ॥

किञ्चेश्वरस्यानन्वयप्रमा न तावद्विषयासत्वावेदनेन प्रतिबन्धिका । श्रोतुस्तदावेदनस्य व्यधिकरणया स्वरूपसत्येश्वरनिष्ठप्रमाया कर्तुमशक्यत्वात् । नापि लिङ्गभूतया ज्ञातया तया तत्कर्तुं शक्यम् ।

 

तदा तूभयत्र दोषान्तरमाहेत्यवतार्य विरहदशायामित्यनन्तरं तत्प्रमादशायामित्यपिव्याख्येयम्  संसर्गप्रमास्यदिति ॥ तथाचान्वव्यभिचारान्नायं गुणत्वेन हेतुरिति भावः ॥

ननु तत्र सत्यप्युक्तरूपगुणे कार्याभावः प्रतिबन्धनिमित्तो नाहेतुत्वनिमित्त इति भावेनाशङ्क्य निराह  नचेति ॥ चिरन्तनमतेति ॥"न वैदिकप्रमाया गुणजन्यत्वेनेश्वरसिद्धिः"। इत्यादिमण्युक्त्या प्रतीतश्चिरन्तनमतत्यागोऽयुक्तः स्यादित्यर्थः ॥

ननु व्यधिकरणस्य गुणत्वायोगेन त्यागेऽपिविरोधिविषयकत्वात्प्रतिबन्धकत्वं स्यादेवेत्यतो न युक्तं तदपीत्याह  किञ्चेति॥ प्रतिबन्धकत्वं किं विरोधिविषयज्ञानरूपेणोत साक्षात् । आद्योपि किं स्वरूपसती वा ज्ञाता सती लिङ्गतया वेति विकल्प्याद्यद्वयं क्रमेण निराह  न तावादित्यादिना ॥ तदावेदनस्य विषयासत्वज्ञापनस्येत्यर्थः । समानाधिकरणज्ञानेनै २ तदावेदनस्य दृष्टचरत्वादिति भावः  लिङ्गभूतयेति ॥ अग्निना सिञ्चेदिति वाक्येऽन्वयोऽसन् तथेश्वरप्रमाविषयत्वात्संमतवदित्येवं लिङ्गतयेत्यर्थः । अन्त्यपक्षं निराह  नापि सेति ॥

 

१. प्रतिबन्धि  खच.  २. वतकुं.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र. परिच्छेदः            पु  १९६.

 

तथात्वे ह्यनन्वयप्रमाज्ञानस्यैव प्रतिबन्धकत्वेन तत्प्रमाया अज्ञानदशायां संसर्गप्रमा स्यात् । नापि सा विषयासत्वमनावेद्य स्वरूपेणैव विषयसत्वविरोधित्वेन विषयसत्वगर्भितप्रमाप्रतिबन्धिका । तथात्वेऽनन्वयस्यैव साक्षाद्विषयसत्वविरोधित्वेन प्रमाप्रतिबन्धकत्वौचित्येन प्रमाग्रहणवैयर्थ्यात् ॥

किञ्च वस्तुगत्यान्वयविषयाया अपि सर्वकार्यहेतुभूताया ईश्वरप्रमायाः शब्दप्रमां

प्रत्यपि हेतुत्वेन कथं तत्प्रतिबन्धकत्वम् । न च प्रमाया गुणजन्यत्वमद्यापि सिद्धम् । येनेश्वरज्ञानस्योपादानापरोक्षज्ञानत्वेन हेतुत्वमनन्वयप्रमात्वेन तु प्रतिबन्धकत्वमिति कल्पेत ॥

किञ्चानन्वयप्रतियोगितावच्छेदकधर्मशून्यत्वं प्रणागुण इति मते अतीन्द्रियविषये वाक्ये संसर्गप्रमातः प्रगुक्तस्या

 

विरोधिविषयत्वेप्ययुक्तं प्रतिबन्धकत्वमित्याह  किञ्च वस्तुगत्येति ॥ ननु प्रमाया गुणजन्यत्वान्यथानुपपत्यैव द्वैरूप्यमाकारभेदेनेश्वरप्रमायाः १ कल्प्यत इत्यत आह  न चेति ॥

प्रागुक्तमतान्तरमपि प्रातिस्विकदोषेण नराह  किञ्चेति ॥ अतीन्द्रियेति ॥"ज्योतिष्टोमेन स्वर्गकामो यजेत"इत्यादिवाक्ये

 

१.  यां  आ.

 

प्रदिप्रसुप्रत्येतगुङ्गः)             प्रामाण्यवादः          पु  १८७.

 

असम्भवान्न १ शाब्दप्रमाहेतुता ॥

एतेनायोग्यताज्ञानेन शाब्दज्ञानप्रतिबन्धात्तद्विघटनीयस्य योग्यताज्ञानस्य शाब्दधिहेतुत्वे सिद्धे तद्विशेषौ योग्यताप्रमाभ्रमौ शाब्दप्रमाभ्रमौ प्रति जनकाविति निरस्तम् । अयोग्यताया उक्तरीत्या विषयाभावरूपत्वे बाधवद्विषयाभावव्याप्यरूपत्वे सत्प्रतिपक्षवत्साक्षात्प्रतिबन्धकसम्भवे  योग्यताज्ञानवनविघटकत्वकल्पकाभावात् ।

 

हेतुहेतुमद्भावादिरूपस्वर्गाद्यनन्वयप्रतियोगितावच्छेदकधर्मो ज्योतिष्टो २ मत्वादिर्न किन्तु कृषित्वादिरेवेति ज्ञानस्य तदन्वयप्रमित्यनन्तरभावत्वेन तद्धेतुत्वमयुक्तमित्यर्थः । योग्यताज्ञानस्य हेतुत्वोपपादनयोक्तमयोग्यतेत्यादि । साक्षादप्रतिब्धकस्य कार्यानुकूलकिञ्चिद्विघटकत्वरूपत्वात्प्रतिबन्धकत्वस्येति भावः । तद्विशेषाविति ।"इति न्याया ३ दिति भावः ॥

एतेनेत्येतद्व्यनक्ति  अयोग्य ४ तेति ॥ उक्तरीत्येति ॥"योग्यता किं

शब्दप्रतिपाद्यस्य ५ संसर्गस्य सत्वं"इत्यादिनोक्तरीत्येत्यर्थः विषयाभावव्याप्येति ॥"एकपदार्थसंसर्गः"इत्यादिनोक्तरीत्येत्यनुषङ्गः । योग्यताज्ञानेत्यादि । तथाच योग्यताज्ञानस्यैव शब्दज्ञाना ६ हेतुत्वे"यत्समान्य"इति न्यायानवतारान्न योग्यताप्रमाभ्रमौ गुणदोषौ सिद्ध्यत इति भावः ॥

 

१. तस्य शा मुच.  २. मादिकुं.  ३. दपीति  मु.  ४. ताया इति कुं.

५. संसर्गपदं न अ.  ६. नहे  अ.

 

न्यायदीपयुततर्कताण्डवम्           ( प्र. परिच्छेदः             पु  १८८.

 

व्यभिचारज्ञानासंसर्गग्रहाप्रामाण्यज्ञानानि तु न साक्षदनुमितिप्रवृत्तिप्रतिबन्धकानि भिन्नविषयकत्वादित्यनुमितिप्रवृत्तिहेतुभूतव्याप्तिज्ञानसंसर्गग्रहप्रामाण्यज्ञानविघटकानि । तस्माच्छाब्दज्ञाने आकाङ्क्षाऽसत्तौ अयोग्यतानिश्चयविरहस्य हेतवः । ते च भ्रमसाधारणाः । प्रमाणाबाधरूपा स्वरूप सती योग्यता तु प्रामाण्यान्तर्गतविषयसत्वमग्र्यं विशेषस्तु निर्देषत्वमेवे २ ति वक्ष्यते ।

 

नन्वेवं व्याप्तिज्ञानमप्यनुमितिहेतुर्न स्यात् । तथा वैशिष्ट्यज्ञानं प्रमाण्यज्ञानं च प्रवृत्तिहेतुर्न स्यात् । तद्विघटकस्य व्यभिचारज्ञानादेः साक्षादेवानुमितिप्रतिबन्धकत्वसंभवादित्यत आह  व्यभिचारेति ॥ एवं योग्यतादेर्गुणत्वं निरस्य मणौ योग्यत्वादिकं गुण इत्यादिपदेन आकाङ्क्षासत्योरप्यु ३ पादानं यत्तदप्ययुक्तमिति हेतुं वदन्नेवोपसंहरति  तस्मादिति ॥ अयोग्यतानिश्चयविरह इति ॥ न तु योग्यताज्ञानमित्यर्थः । विवरिष्यते चैतद्द्योग्यतावाद इति भावः । भ्रमसाधारण ४ इति हेतुगर्भम् । न गुण इत्यन्वयः । नन्वेवं गुणनिरासे कार्ये वैजात्यस्य कारणवैजात्यनिमित्त ५ त्वाज्ज्ञान ६
सामान्यसामग्र्या अप्रमायामपि सत्वेन प्रमासामग्र्या ७ मप्रमासामग्रीतो वैलक्षण्याभावे तत्कार्यवैलक्षण्यं न स्यदित्यत आह  अप्रमेति ॥ निर्देषत्वमेवेति ॥

 

१.ज्ञानसाख.  २. त्युक्तम्कंग.  ३. प्युपपादनं.  ४. णाकुं.  ५.

कत्वामु.  ६. सामान्यपदं नकुं.  ७. ग्र्या अकुमा.

 

स्थूलावयविप्रत्यक्षप्रमादौ भूयोवयवेन्द्रियसन्निकर्षादेर्हेतुत्वभङ्गः      पु  १८९.

 

तस्मादनित्यप्रमात्वपक्षकानुमानेष्विवानित्यप्रत्यक्षप्रमात्वादिपक्षकानुमानेष्वपि तदनुगतगुणाभावाद्बाधासिद्ध्यादीति ॥

१ तदप्युक्तं"अन्यथा"इत्यदिना । अनुगतगुणाभावेपि जन्यप्रत्यक्षप्रमात्वादेः कार्यतावच्छेदकत्वे पूर्वोक्ता २ व्यवस्थापातादित्यर्थः । ३ एवमुत्तरत्रापि ४ द्रष्टव्यम् ३ ॥

प्रत्यक्षादिप्रमासु प्रत्येकानुगतगुणभङ्गः ॥ १३ ॥

 

यद्यपि दोषाभावोपि न प्रामाण्यहेतुरिति वक्ष्यते । तथापि भिक्षुपादप्रसारन्यायेन गुणहेतुत्वनिरासाय दोषाभावस्य प्रमानिमित्तत्वोक्तिरिति ध्येयम् । पूर्वोक्त्येति ५ ॥ अनत्यप्रमामात्रे अनुगतगुणभङ्गान्तो ६ क्त्येत्यर्थः ॥

प्रत्यक्षादिप्रमासु प्रत्येकानुगतगुणभङ्गः ॥ १३ ॥

 

यत्तूक्तं मणौ ७"तत्तत्प्रमायां ८ भूयोवयवेन्द्रियसन्नकर्षयथार्थलिङ्गसादृश्यवाक्यार्थज्ञानानां यथायथं प्रत्येकमेव गुणत्वम् । अन्वयव्यतिरेकात् । ९ तत्तदप्रमायां पित्तादिलिङ्गभ्रमादीनां दोषत्ववत्प्रत्यक्षेविशेषदर्शनमपि गुणः ।तदनुविधानात्"इत्यादितत्तात्पर्य १० माशङ्कते अथापि स्यादित्यादिना ॥

 

१. एतदकखगचछ.  २. नवस्थाछ.  ३. एतन्नास्तिमुकच.  ४. योज्यंकखछ.   ५.क्तेतिकुंा. ६. क्तेतिकुंआ.  ६. तत्प्रआअ.  ८.याःकुं.  ९. तदअर्.  १०. यार्थअआ.

 

न्यायदीपयुततर्कताण्डवम्        ( प्र. पिरिच्छेदः                पु  १९०.

 

अथा १ पि स्यात्भ्रमसामान्ये प्रत्यक्षादिभ्रमे २ वानुगत ३ दोषस्याभावेपि

तत्तद्भ्रमविशेषे पित्तादि ४ रिव स्थूलावयविप्रत्यक्षप्रमायां भूयवयवेन्द्रियसन्निकर्षः,

संशयविपर्ययोत्तर ५ प्रत्यक्षप्रमायां विशेषप्रमा, नियमेन प्रमयोरनुमितिशाब्दप्रतीत्योः सत्यलिङ्गपरामर्शवाक्यार्थज्ञाने

चान्वयव्यतिरेकाभ्यां हेतू । एवं च प्रमाया अप्रमाव्यावृत्ताननुगताधिहेतिजन्यत्वात्परतस्त्वम् । त एवाननुगता हेतवः प्रमां प्रत्यसाधारणहेतुत्वे ६ नोपाधिना गुणा ७ इत्युच्यन्ते । तस्मादनित्यप्रमात्वमनित्यज्ञानत्वप्रयोजकाधिकप्रयोज्यं तदन्वयव्यतिरेकानुविधायित्वात् ।

 

संशयेति ॥ संशयोत्तरविपर्ययोत्तरेत्यर्थः  विशेषेति ॥ व्याप्येत्यर्थः । प्रमायोरीति प्रतीत्योर्विशेषणम् । तावता कथं प्रमात्वस्य ८ परतस्त्वमित्यत आह  एवं चेति ॥ उक्तसन्निकर्षादेर्हेतुत्वे सतीत्यर्थः । गुणजन्यत्वात्कथमेतदित्यत आह  त एवेति ॥ असाधारणेति । भ्रमव्यावृत्तेत्यर्थः ॥

मणिकृदभिमतमनुमानमाह  तस्मादिति ॥ उक्तसन्निकर्षादेर्गुणत्वेन तज्जन्यत्वेन प्रमायाः परतस्त्वसम्भवात्प्रायोग उच्यत इत्यर्थः  तदन्वयेति ॥ उक्तरूपसन्निकर्षादिलक्षणाधिककारणपरामर्शः ।

 

१ अपिस्यातिति नास्ति  ग.  २. चककुं.  ३. तस्यदोमुचछग.  ४. कमिवमुच.  ५. प्रत्यक्षपदं नास्ति छ.  ६. त्वेमुचग.  ७.ऽइतिऽ इति नास्तिछ.  ८. परतस्त्वमिआ.

 

स्थूप्रमादौभूर्वेसदेर्हेङ्गुः)           प्रामाण्यवादः           पु  १९१.

 

अप्रमात्ववत् । अन्यथाप्रमापि प्रमा स्यात् । न चाप्रमाया १ मधिको दोषो हेतुरस्तीति वाच्यम् । तथात्वे भ्रमस्य प्रमात्वप्रयोज २ कजन्यत्वेसत्यधिकजन्यत्वेन प्रमाविशेषत्वापातादिति मम सिद्धान्तरहस्यमिति चेन्मैवम् ।

भूयोवयवेन्द्रियसन्निकर्षे शङ्खत्वादिविशेषतदर्शने च सत्यपि पीतःशङ्ख इत्यादिभ्रमस्य वेशो ३ रगभ्रमस्य बाष्पावयवे धूमवयविभ्रमेऽवयव्यंशे

 

हेतोरप्रयोजकत्वनिरासाय विपक्षे बाधमाह  अन्यथेति ॥ अनित्यज्ञानत्वप्रयोजकादधिकप्रयोज्यत्वे तन्मात्रप्रयोज्यत्व इत्यर्थः । आपादकासिद्धिमाशङ्क्याह  न चेति ॥ प्रमात्वप्रयोजकेति । अनित्येति योज्यम् । अनित्यज्ञानत्वप्रयोजकस्यैवानित्यप्रमात्वप्रयोजकत्वेन त्वदभिमतेरिति भावः  इत्यादिभ्रमस्येति ॥ तिक्तो गुड इत्यादिरादिपदार्थः  ४ वंशेति ॥ ५ अनुरगत्वस्य स्पर्शने दर्शने भूयोवयवेन्द्रियसन्निकर्षे सत्यपि ६ मण्डूकवसाक्तनेत्रस्य मण्डूकवसादोषेण जायमानस्य वंशे उरगभ्रमस्येत्यर्थः ।

तदिन्द्रयजप्रत्यक्षप्रमायां तदिन्द्रियविशेषदर्शनं हेतुरिति विशेषदर्शनस्य हेतुत्वे भवेदेवं विशेषविवक्षा । तदेवायुक्तमिति"एवं भ्रमोत्तरप्रमायामपि"इत्यादिना वक्ष्याम इति भावेन स्थलान्तरेप्युक्तसन्निकर्षस्य व्यभिचारमाह  बाष्पेति ॥ ७

। धूमेति ॥ धूमरूपावयवीत्यर्थः ।

 

१. या अधिगकुं.  २. काधिकप्रयोज्यत्वे सत्यप्यधिकमुच.  ३. शेउरमु.

४. विपरीतप्रत्यक्षं गुण इत्यत आहवंशेतिअआ.  ५. अनुगत्वस्य इति नास्ति कुं.  ६."मण्डूकवसाक्तनेत्रस्य"इत नास्तिकुं. । ७. अयं ग्रन्थः नास्ति मुआ. तदिन्द्रियजप्रत्यक्षप्रमायां तदिन्द्रियजविशेषधीतद्दर्शनं हेतुरित्यत आह  बाष्पेतिअ.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र. परिच्छेदः            पु  १९२.

 

एव भ्रमस्य १ दर्शनेनान्वयव्यभिचारात् ।

यदि च तत्र पित्तमण्डूकवसाञ्जनादिदोषप्रतिबन्धात्प्रमानुत्पत्तिस्तर्ह्यावश्यकत्वाद्दोषाभाव एव २ हेतुः ।मम तु दोषाभावेनाप्रमारूपविपरीतकार्यानुत्पत्तौ ज्ञानसामग्र्यैव प्रमोत्पत्तिः।

 

यत्र स्थूलावयविप्रत्यक्षे भूयोवयवेन्द्रियसन्निकर्षो गुण इत्युक्तं तस्मिन्नेवेति विरोधस्फोरणायावव्यंश एवेत्युक्तम् । ३ अञ्जनादीत्यादिपदेन सारूप्यादिग्रहः  दोषाभाव एवेति ॥ यादृच्छिकसंवादिनि दोषाभावः प्रमाव्यभिचारीतितूत्तरभङ्गे निरसिष्यते इति भावः ॥

यत्तु सन्निकर्षाद्युत्कर्षेण प्रमोत्कर्षात्सन्निकर्षादिरेव हेतुरिति । तन्न । उक्तस्थलेषु तदुत्कर्षे सत्यपि प्रमानुदयेन व्यभिचारात् ॥

ननु सिद्धान्ते दोषाभावस्य प्रामाण्यहेतुत्वादुक्तस्थले प्रामाण्यप्रयोजकज्ञानसामग्रीसत्वात्प्रमोत्पत्तिः स्यादित्यत आह  मम त्विति ॥

( ४ विशेषदर्शनपदेन विशेषदर्शनसामान्यविविक्षायां प्रागुक्तान्वयव्यभिचारलगनेप्युक्तरूपविशेषदर्शनाविवक्षायां नोक्तगदोषलगनमित्यतो ) ५ । अनौपाधिकभ्रमोत्तरप्रत्यक्षप्रमायामेव विशेषदर्शनं गुणोऽतो नोक्त दोषः इत्यतो । विशेषदर्शनाभावे भ्रमोत्तरप्रमाभाव इति व्यतिरेकोन्यथासिद्धो न विशेषदर्शनहेतुताकल्पक इति भावेन दोषान्तरमाह  एवं भ्रमेति ॥ संशयविपर्ययरूपभ्रमेत्यर्थः ॥

 

१. चदचगख.  २.ऽतवऽ इत्यधिकंछख.  ३. सन्निकर्षमात्रव्यभिचारोदाहरणमेतत.  ४. कुण्डलितो ग्रन्थः नास्ति  मु. ५. अयं ग्रन्थः कुण्डलितः  कुं.

 

स्थूप्रप्रदौभूवैर्ंहेङ्गः)         प्रामाण्यवादः               पु  १९३.

 

एवं भ्रमोत्तरप्रमायामपि तदनुत्तरप्रमायां या कॢप्ता सामग्रि भ्रमकाले सा न वर्तते चे १ त्तदभावादेव कार्याभावो न हेतुः । वर्तते चेद्विशेषदर्शनाभावेपि तदनुत्तरप्रमेव २ तदुत्तरप्रमाप्युत्पद्येतैव । न हि कार्ये ३ वैचित्र्याभावेपि कालभेदमात्रेण विचित्रहेत्वपेक्षा ।

यादि तदा संसयादिदोषः प्रतिबन्धकस्तर्ह्यावश्यकत्वाद्दोषाभावादे ४ व प्रमास्तु ।

 

एवं भ्रमेति॥ संशयविपर्ययरूपभ्रमेत्यर्थः । प्रमायामपि न विशेष ५ प्रमाहेतुरित्यन्वयः । ननु भ्रमानुत्तरप्रत्यक्षसामग्र्या कथं तदुत्तरप्रत्यक्षप्रमा जायेतेत्यत आह  न हीति ॥ विचित्रेति ॥ विशेषदर्शनरूपेत्यर्थः  संशयादिति ॥ विपर्यय आदिपदार्थः ॥

ननु संशयस्य ग्राह्यसंशयपर्यवन्नतया ६ प्रमाणापरिपन्थित्वात्कथं प्रतिबन्धकत्वशङ्का । अन्यथा तस्मिन्सति विशेषदर्शनादपि प्रत्यक्षानापत्तेरिति

चेन्न । विशेषदर्शनविरहविशिष्टसंशयादेः प्रतिबन्धकत्वेन तदभिप्रायेण संशयादिदोषः प्रतिबन्धक इत्युक्तेः  ॥

दोषाभावादेवेति ॥ ननु विशेषदर्शनविरहविशिष्टसंशयादिदोषाभावो हि संशयादिस्थले विशेषा ७ दर्शनरूप विशेषणाभावेनैव वाच्य इति विशेषदर्शनमेव पर्यवन्नमिति चेन्न । तावता तस्य प्रतिबन्धकरूपदोषाभावत्वेनैव हेतुत्वप्राप्त्या तेन हेतुत्वाप्राप्तेः । विशिष्टाभावसम्पादनेनान्यथोपक्षीणत्वाच्च ॥

 

१. चेत्सामग्र्य गकुं.  २. मावत्तदुमुचर्.  ३. यवैकुं.  ४. वसास्तुगकुं.

५. प्रमापदं न आ.  ६. प्रामाण्याकुं.  ७. षदकुं.अ.

 

न्यायदीपयुततर्कताण्डवम्           ( प्र. पिरिच्छेदः            पु  १९४.

 

किञ्च करादौ चरणादिभ्रमजन्ये संशयानन्तरभाविनि

 

रुचिदत्तादयस्तु भ्रमस्थले विशेषादर्शनसहकुतसंशयादेः प्रतिबन्धकत्वे संशयो १ त्पत्तिकाले प्रत्यक्षापत्तिः । न च"यज्ज्ञानं यत्र प्रतिबन्धकं तत्सामग्र्यपि तत्र प्रतिबन्धिका"इति न्यायात्त २ दा संशयसामग्रीप्रतिबन्धान्न प्रत्यक्षमिति वाच्यम् । ३

एवमपि धर्मिज्ञानकाले दैवात्पुरुषत्वादिज्ञानवतः पुरुषत्वादिनिश्चयापत्तेः । संशयस्य तत्सामग्र्या वा तदानीमभावात् । न च दोषस्य प्रतिन्धकत्वान्न तदा दोषात्प्रत्यक्षमिति वाच्यम् । तर्ह्यावश्यकत्वात्संशयकालेपि तत एव दोषात्प्रत्यक्षानुत्पत्तिरस्तु । किं संशयस्य प्रतिबन्धकत्वाभ्युपगमेन । तथाच विशेषदर्शने सति विशेषादर्शनरूपदोषाभावादेव प्रत्यक्ष प्रमोत्पत्तिर्न तु निरुक्तिविशिष्टाभावस्य प्रत्यक्षप्रमाहेतुत्वम् । मानाभावात् । न च विशेषादर्शनस्य दोषत्वे संशयानुत्तरप्रमानुदयापत्तिरिति शङ्क्यम् । फलबले नैतस्य क्वचिदेव
दोषत्वकल्पनादित्याहुः ।

दोषाभावादेव सास्त्वित्यनन्तरं ममत्वित्यादिवाक्यमत्राप्यनु ४ वर्त्ययोज्यम् । भ्रमोत्तरप्रमाव्यतिरेकस्य विशेषदर्शनत्वेन विशेषदर्शन ५ व्यितरेकनिमित्तता नास्ति किन्तु दोषनिमित्ततेत्यन्यथासिद्धमुक्त्वा सत्यपि विशेषप्रमाव्यतिरेकादौ प्रमोत्पत्तेर्व्यभिचारान्न विशेषप्रमा ६ यथार्थलिङ्गपरामर्शादेः प्रमा प्रति हेतुत्वं दूरे

गुणत्वेनेति भावेनाह  किञ्चेति ॥

 

१.यानुमु.  २.त्तत्संमु.  ३.ऽएवमपि इत्यारभ्यऽतर्हिऽ इति पर्यन्तंा. पुस्तके नास्ति.  ४. वृत्याआ.  ५. व्यतिरेकपदं न आ. विशेषदर्शन इति नास्ति अ.

६. याः  कुं.

 

स्थूप्रप्रदौभूर्वेसदेर्हेङ्गः)          प्रामाण्यवादः             पु  १९५.

 

नियमेन प्रमारूपे पुरुषसाक्षात्कारे विशेषप्रमारूपस्य वह्न्यालोके धूमभ्रमजन्यायां नियमेन प्रमा १ यामनुमितौ यथार्थलिङ्गपरामर्शरुपस्य भ्रान्तविप्रवम्भकवाक्यजन्यायां नियमेन प्रमा २ यां शाब्दप्रतीतौ यथार्थवाक्यर्थज्ञानरूपस्य गुणस्याभावेपि प्रमात्वदर्शनेन व्यतिरेकव्यभिचारोपि ॥

किञ्च दुष्टायां ज्ञानसामग्र्यां सत्यमपि गुणव्यतिरेकेण प्रमाव्यतिरेको न दृष्ट इति गुण न हेतुः । ३ दृष्टो विसंवादिशुका ४ दिवाक्ये, तत्र भ्रान्तिविप्रलम्भादिदोषाभावादिति चेन्न ।

 

ननूक्तस्थले सर्वत्रेश्वरप्रमामादाय विशेषप्रमा ५ सत्यपरामर्शयथार्थवाक्यार्थज्ञानानां न व्यतिरेकव्यभिचार इति चेन्न । अस्मिन्पक्षे"नचेश्वरे ६ सोस्तीति वाच्यं"इत्यदिना दोषाणां पूर्वमेवोक्तत्वादिति भावः ॥

ननु गुणव्यतिरेकेण प्रमाव्यतिरेकस्यापि दर्शनादुक्तस्थलेष्वपि कश्चन गुणः कल्प्यत इत्यतो व्यतिरेकासिद्धदोषमाह  किञ्चेति ।. शङ्कते दृष्ट इति ॥

सत्यपि दोषाभावे गुणव्यतिरेकेण प्रमाव्यतिरेक इत्यनुषङ्गः । तत्र दोषाभावस्तवमुपपादयति  तत्रेति ॥ आदिपदेन प्रमादकरणापाटवयोर्ग्रहः । अप्रामाण्यस्य दोषजन्यत्ववादिना त्वयापि  ७ तत्र कश्चिद्दोषः कल्प्यः । अन्यथा तस्य परत ८ स्त्वाहानेरित्याह  गुणव्यतिरेकेणेति ॥

 

१. रूपेत्यधिकंगकुं.  २. रूपेत्यधिकंगकुं.  ३. ननु इत्यधिकंमुचछ.  ४. कवाछख.   ५.यथार्थपआ.  ६. सास्तीकुं.  ७. तत्रेति नास्ति  कुं  आ. ८. स्त्वहाने  अ.

 

स्थूप्रप्रदौभूर्वेसदेर्हेङ्गः)           प्रामाण्यवादः           पु  १९६.

 

तत्राप्यनित्यवाक्यदोषस्य विवक्षितार्थतत्वज्ञानाभावस्य वा शुकवाक्य १ मूलभूतवाक्यप्रयोक्तृपुंनिष्ठस्य भ्रान्त्यादेर्मूलदोषस्य वा सत्वात् । गुणव्यतिरेकेण प्रमात्वव्यतिरेके सिद्धेपि भ्रमत्वार्थं त्वयापि भ्रमत्वप्रयोजकत्वेन कॢप्तस्य दोषस्य तत्र वक्तव्यत्वाच्च । अभावोपि हि करणापाटवविशेषादर्शनादिरिव लोकव्यवहारात्प्रमाव्यावृत्तकारणत्वात्तत्वज्ञानविरोधित्वाच्च दोष एव । अङ्गीकृतं च त्वयापि नीलं तम इति भ्रमे दोषान्तरा २ भावेनाधिष्ठानभूत ३ स्याभावरूपस्य तमस एव दोषत्वम् । क्वचिद्गुणसन्निधानन्तु रासभवद्यादृच्छिकं वा गन्धं प्रति
कॢप्तिकारणगन्धप्रागभावसहभूतपाकजरसप्रागभाववत्प्रमां प्रति

कॢप्तप्रयोजकदोषाभावसहभूतत्वेनान्यथासिद्धं वा ॥

 

ननु विवक्षितार्थतत्वज्ञानाभावस्याभावरूपत्वात्कथं दोषत्वमित्यत आह  अभावोपिहीति ॥ अन्वयाभावादिरादिपदार्थः  अधिष्ठानेति ॥ नैल्यारोपाधिष्ठानभूतस्यालोकाभावरूपस्येत्यर्थः । कुत्र चिद्वा गुणानुविधानस्य का गतिरित्यत आह  क्वचिदिति ॥ प्रमायां गुणानुविधानमभ्युपेत्यापि मण्युक्तान्यथासिद्धिमाह  गन्धमिति ॥

ननु रसप्रागभावोन्यत्र कार्ये कॢप्तान्वयव्यतिरेकत्वादस्त्वन्यथासिद्धः । गुणसन्निदिस्तु नान्यत्र कार्ये कॢप्तान्वयादिः । प्रकृतकार्येण विना कार्यान्तरोपक्षीणो ह्यन्यथासिद्धिः ।

 

१. स्य मू  कखछ.  २. सम्भवेना  मुच.  ३. स्य भावाभावरू  छ.

 

किञ्च त्वयाप्यन १ न्यथासिद्धशब्दस्य यौगकत्व आत्माश्रयाल्लोकव्यवहारानुसारेण पारिभाषिक एवार्थ उक्तः । एवं च २ भ्रमरूपविपरीतकार्योत्पादक ३ दोषनिरासकस्य गुणस्य विपरीतकार्योत्पादक ३ । दोषनिरासकस्य गुणस्य विपरीतकार्योत्पादक ३ । निरासक्तवरूपान्यैवान्यथासिद्धिः पारिभाष्यताम् । लोके घटं प्रति दण्डत्व इव

कदलीकाण्डरूप

 

न हि गुणः कार्यान्तरेण सिद्धः । येनान्यथासिद्धः स्यादित्यत आह  किञ्चेति ॥ आत्माश्रयादिति ॥ कारणलक्षणशरीरप्रविष्टस्यान्यथासिद्धशब्दस्य कार्यान्तरजनकत्वमिति ४ वा अनेन विना कारणान्तरे ५ ण कार्यं सिद्धमुत्पन्नमिति वार्थोक्तावात्माश्रयादित्यर्थः  पारिभाषिक एवेति ॥"अन्यथासिद्धत्वं च त्रिधा । येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तत्तथा।

घटं प्रति दण्डरूपस्य । अन्यं प्रति पूर्ववर्तित्वे ज्ञात एव यं प्रति यस्य पूर्ववर्तित्वमनगम्यते । शब्दं प्रति पूर्ववृत्तित्वं ज्ञान एव ज्ञानं प्रत्याकाशस्य  । अन्यत्र कॢप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतत्वम् । यथा गन्धवति गन्धानुत्पादाद्गन्धं प्रति गन्धप्रागभाव्सय नियतपूर्ववर्तित्वकल्पनात्पाकजस्थले गन्धं प्रति रूपादिप्रागभावानामन्यथासिद्धत्वं"इत्यादिग्रन्थेनानुमानखण्डे कारणतावाद उक्त इत्यर्थः । अन्यैवान्यथासिद्धिरित्यनन्तरं लोकव्यवहारानुसारेणेत्यनुकर्षः । स चासिद्ध इत्याह  लोक इति ॥

 

१.प्यन्यकुं. २. चाप्रमाछ.  ३. । एतावन्नास्ति  ख.  ४.तितेनवि  कुं.   ५.रोत्पत्तिका अ.  ६.ऽवाऽ इति नास्ति  कुं.

 

न्यायदीपयुततर्कताण्डवम्           ( प्र. परिच्छेदः           पु  १९८.

 

विपरीतकार्योत्पादकस्य वेत्रबीजसम्बन्धिदावाग्निदाहस्य विरोधित्वे पदार्थे वेत्राङ्कुरं प्रति कारणत्वाव्यवहारात् । १ दाहविरोधिनो २ हेतुत्वे क्वाप्युत्सर्गापवादाभावप्रसङ्गाच्च । यस्य हि स्वसामग्री ३ वशेन प्रसक्तिस्तदौत्सर्गिकम् । सत्यामपि सामग्र्यां यद्वशात्तद्विपरीतं कार्यं भवति तत्तस्यपवादकम् ४।न च दाहविरोधिने हेतुत्वे दाहस्थले वेत्राङ्कुरसामग्र्यस्ति ।

दण्डत्वे यथा कारणता ५ऽव्यवहारस्तथा कारणत्वाव्यवहारात् । किन्त्वन्यथासिद्धित्वेनैव व्यवहारादित्यर्थः ॥

एतेन"किञ्चेदं गुणान्वयव्यतिरेकित्वमन्यत्रानुपक्षीण ६ त्वं सामान्यं वा ।

नाद्यः । दोषनिरीसोपक्षीणत्वादि"त्यादिदेवताधिकरणटीका विवृता ॥

७ लौकिकव्यवहाराभावेप्यस्तु हेतुत्वमित्यतः"औत्सर्गिकत्वात्प्रामाण्यस्य"इति तत्वनिर्णयटीकोक्तं विपक्षबाधकत्वेन संयोज्य तद्व्यनक्ति  दाहेत्यादिना ॥ अस्त्वेवमुत्सर्गापवादशब्दार्थः । विरोधिनोपि हेतुत्वे तदभावप्रसङ्गः कुत इत्यत आह  न चेति ॥ दाहस्थल इत्यादि ॥ तथाच"सत्यामपि तत्सामग्र्यां"इत्यादेरभावादुत्सर्गापवादाभावप्रसङ्ग इत्यर्थः ॥

एतेन तत्वनिर्णयटीकायां ज्ञप्तिस्थलेऽभिहितमिदं बाधकमुत्पत्तिस्थलेप्यनुसन्धेयमितिसूचितम् ॥

 

१. शास्त्रेदाह ग.  २. अभावस्येत्यधिकंकखछ.   ३. बलप्रसङ्गेन च.  ४.भवति  छ.  ५. त्वाअ.  ६.णंसामु.  ७. लोकव्य  मु.

 

स्थूप्रप्रदौभूर्वेसदेर्हेङ्गः)          प्रामाण्यवादः             पु  १९९.

 

अन्यथा दण्डाभावाद्घटानुत्पत्तरपि तदुत्पत्तेरपवादः स्यात् ।

अत एव यत्र संशयादिरूपा दोषाः १ प्रतिबन्धकाः तत्रैव तन्निरासार्थं २ भूयोवयवेन्द्रियसन्निकर्षविशेषदर्शनादिगुणापेक्षा । अन्यथा संशयोत्तरप्रम ३ येव तदनुत्तरप्र ४ मयापि विशेषदर्शनमपेक्ष्येत ॥

किञ्च दोषनिरासेऽवश्यं कारण्स्य गुणस्य प्रमायामपि कारणत्वे गौरवम् । नच प्रमारूपं कार्यमनन्यथासिद्धम् । येनोभयं कल्प्येत ॥

एतेन अप्रमापि प्रमा ५ विशेषः स्यादिति निरस्तम् । प्रमात्वप्रयोजिकाया अदुष्टसामग्र्या भ्रमेऽभावात् ।

 

अन्यथेति ॥ सामाग्र्यभावेपि कार्यानुत्पत्तेरपवादत्व इत्यर्थः  तदुत्पत्तेरिति ॥ घटोत्पत्तेरित्यर्थः  अत एवेति ॥ दोषनिरासोपक्षिणत्वादेवेत्यर्थः  अन्यथेति ॥ सर्वत्र प्रमामात्रे तद्धेतुतायामित्यर्थः ॥

नन्वस्तु दोषनिरासकत्वं गुणस्य प्रामाण्यहेतुत्वं चास्तु । अप्रामाण्ये गुणनिरासे च दोषाणां हेतुत्वमिवेत्यतः"न चोभयकारणत्वकल्पकमस्ति"इति भाष्यटीकां विवृण्वन्नाह  किञ्चेति ॥ प्रमायाः परतस्त्वान्यथानुपपत्तिप्रमाणसिद्धगौरवं न

दोषायेत्यत आह  न चेति ॥ अनन्यथेति ॥ ज्ञानसामान्यसामग्रीतो न सिद्धमति न चेत्यर्थः ॥

प्रागुक्तानुकूलतर्कं निराह  एतेनेति ॥ प्रमायाः दोषाभावसहितज्ञानसामाग्रजन्यत्वकथनेनेत्यर्थः ।

 

१. दर्शनदिप्र  कर्.  २. थे  क.  ३. मायामिव कुं.  ४. मायामपि  कुं. ५.विशेषपदं नास्ति  ग.

 

न्यायदीपयुततर्कताण्डनम्           ( प्र. परिच्छेदः           पु  २००.

 

अन्यथा दावाग्निदग्धवेत्रजन्यकदल्यङ्कुरोपि वेत्राङ्कुरविशेषः स्यात् ॥

ननु तत्र दाहेन दोषेण सहजाया वेत्राङ्कुकरजननशक्तेर्१ नाशाद्विपरीत २ शुक्तेश्चोत्पादाद्वेत्राङ्कुरसामग्र्येव नास्तीति चेत्समं प्रकृतेपि । ममापि ३ लोकसिद्धौत्सर्गिकापवादकसाम्यमेव प्रामाण्याप्रामाण्ययोरपेक्षितम् ॥

अन्ये तु यथा नीलरूपसामग्रीजन्यस्यापि चित्ररूपस्य न नीलरूपविशेषत्वात् ॥ ४ यथा न विरुद्धनिश्चद्वयसामग्रजन्यस्य संशयस्य न निश्चयविशेषत्वम् । यथा च पाकजरूपसामग्रीजन्यस्य

 

परमुखेनैव समाधिं वाचयति  नन्विति ॥ अस्त्वेवं लोके प्रामाण्यादौ तु कथमित्यत आह  ममापीति ॥ अनन्यथासिद्धशब्दार्थे तव यथा तथेत्यपरेत्यर्थः ॥      प्रमायामभिमतसामग्र्यभावेनैव भ्रमस्य न प्रमाविशेषत्वमिति स्वयमेकं समाधिमुक्त्वान्यापदेशेन समाध्यन्तरमाह  अन्येत्विति ॥ न नीलेत्यादि ॥ किन्तु विजातीयरूपान्तरत्वमित्यर्थः । तथैवोदयनाद्युक्तेरिति भावः  विरुद्धेति ॥"विरुद्धोभयारोसामग्रीद्वयसमाजादुभयारोप एक एव भवति । स एव संशय"ज्ञप्तिप्रामाण्ये मण्युक्तेरिति भावः  यथा च पाकजेति ॥ तेजस्संयोगदेशकालादृष्टादिसामग्र्यस्तुल्यत्वादिति भावः ॥

 

१. र्विना ग.  २.कार्योत्पादेत्यधिकं कुं.  ३.ऽहिऽ इत्यधिकं  चछकख.

 

स्थूप्रप्रदौभूर्वेसदेर्हेङ्गः)           प्रामाण्यवादः           पु  २०१.

 

रसस्पर्शादेर्न रूपविशेषत्वं १ । तथा भ्रमस्यापि न प्रमाविशेषत्वमित्याहुः ॥

तस्मादन्वयव्यभिचाराद्व्यतिरेकव्यभिचारादन्यथासिद्धेश्च गुणो न प्रमाहेतुः । भ्रमप्रतिबन्दीतूद्धरिष्यते । एतदप्युक्तं"अन्यथा"इत्यादिना । अन्वयव्यभिचारे व्यतिरेकव्यभिचारे औत्सर्गिककार्यापवादकनिरासकत्वेनान्यथासिद्धौ च सत्यामपि गुणस्य हेतुत्वे रासभादेरपि हेतुत्वप्रससङ्गेन

 

अस्मिन्पक्षे दृष्टान्तानामसत्प्रतिपत्तिर्वक्ष्यमाणदिशा प्रमासामग्र्यां दोषाभावस्यावश्यकत्वात्सामग्र्भावादेश्च तद्विशेष २ त्वाभावोपपत्तावुक्तसमाधिरयुक्ता इत्यरुचिबीजं ध्येयम् ॥

तस्मादित्युक्तं व्यनक्ति  अन्वयेति । पीतःशङ्ख इत्यादिभ्रम इत्यर्थः  व्यतिरेकेति ॥"करादौ चरणादिभ्रमजन्य"इत्यादिनोक्तप्रमाविशेष इत्यर्थः  अन्यथेति ॥ विरोधिनिरासोपक्षीणत्वोच्चेत्यर्थः । उभयकारणत्वे गौरवात्कल्पकाभावादप्रमायाः प्रमाविशेषत्वापत्तिरूपबाधकाभावाच्चेत्यपि ध्येयम् ।

नन्वेवं दोषस्यापि भ्रमहेतुत्वखण्डनसम्भवेन भ्रमेपि स्वत एव स्यात् । तत्र या गतिः प्रमायामपीत्यत आह  भ्रमेति ॥

स्वतस्त्वानुमानोक्त्यनन्तरमुद्धरिष्यत इत्यर्थः। एतदपीत्युक्तमेवान्यथादिशब्दार्थविविरणेन व्यनक्ति अन्वयेत्यादिना ॥

 

१. ।यं ग्रन्थः नास्ति  ग.  २. णत्वा  मु.

 

न्यायदीपयुततर्कताण्डवम्             ( प्र. परिच्छेदः         पु  २०२.

 

हेत्वहेतुव्यवस्थि १ त्ययोगादित्यर्थः ॥

२ थूलावयवि ३ प्रत्यक्ष ४ प्रमादौ भूयोवयवेन्द्रियसन्निकर्षादेर्हेतुत्वभङ्गः॥ १४॥

 

भूयोवयवेन्द्रियसन्निकर्षादेर्हेतित्वभङ्गः ॥ १४ ॥

 

अस्तु तर्हि दोषाभावादेव प्रं तस्यानन्यथासिद्धान्वव्यतिरेकित्वादिति चेन्न ।

कारणतावच्छेदकप्रतिबन्धकाभावादिसाधारणस्य प्रयोजकत्वमात्रस्यापादन इष्टत्वात् ॥

"अदृष्टमिन्दियं त्वक्षं तर्कोऽदुष्टस्तथानुमा"

आगमोऽदुष्टवाक्यं च"इति ब्रह्मतर्के,

 

अस्त्विति । तथाच ज्ञानहेतुतोऽधिकजन्यत्वात्स्वतस्त्वहानिरिति भावः । प्रयोजकत्वमापाद्यते कारणत्वं वा । आद्य आह  कारणेति ॥ प्रतिबन्धकाभावहेतुताया वक्ष्यमाणत्वाशयेनाह  प्रतिबन्धकाभावादीति ॥ कारमागिरादिपदार्थः । प्रयोजकत्वेति ॥ तद्व्यतिरेक ६ प्रयुक्तव्यतिरेकप्रतियोगित्वमात्रस्य न त्वनन्यथासिद्धस्येत्यर्थः ॥

दृष्टत्वमेव क्रमात्सूत्रभाष्यटीकाकृतां संमत्या द्रढयति  अदुष्टमिति ॥ अक्षमनुमा आगमः इति लक्ष्यनिर्देशः । तत्वनिर्णयोदाहृतब्रह्मतर्क इत्यर्थः ।

 

१.स्थायो  मुख.  २.ऽइतिऽ इत्यधिकं छ.  ३. वक. स्थूलावयवेति नास्ति  ख.  ४. क्षादोमुच.  ५. स्थूलावयविप्रत्यक्षप्रमादौ"इत्यधिकंकुं.  ६. प्रयोजकव्यति  मु  प्रयोजकप्रति  अ.

 

प्रमायां दोषभावस्य हेतुत्वभङ्गः          प्रामाण्यवादः         पु  २०३.

 

"निर्देषार्थेन्द्रियसन्निकर्षः प्रत्यक्षं निर्देषोपपत्तिरनुमा निर्देषः शब्द आगमः"इति प्रमाणलक्षणे;"दोषाभावस्य कारणत्वे १ च नास्माकमनिष्टं तावता २ वेदापौरुषेयत्वाव्यघातात्"इति भाष्यटीकायां चोक्तेः । दोषाभावस्यापेक्षितत्वेपि

प्रमाजनकशक्तिस्सहजा, न तु भ्रमजननशक्तिवदा ३ धेयेत्येतावततैव प्रमाण्यस्वतस्त्वसिद्धेश्च ॥

 

मानत्रयेपि दोषाभावापेक्षाद्योतनाय त्रितयोदाहरणम् । टीकायां चेति ॥ देवताधिकरणभाष्यस्य टीकायामित्यर्थः । तत्र कारणत्वे चेत्यु ४ क्तिः प्रयोजकत्वे चेत्यर्थ इत्यग्रे व्यक्तम् ॥

नन्वेवमपि कथं न स्वतस्त्वहानिः । ज्ञानहेत्वतिरिक्तानपेक्षत्वाभावादित्यत आह

दोषाभावस्येति ॥ एतावतैवेति ॥ दोषाभावस्य कारणत्वपक्षे शक्त्याधायकत्वेपि प्रयोजकत्पपक्षे तदभावादिति भावः । उक्तं हीति ॥ दोषेत्यादिनोक्तं प्रमेयं जिज्ञासाधिकरणसुधायामुक्तमित्यर्थः । औत्सर्गिकी उत्सर्गः सामान्यं ज्ञानमात्रजनिकैवेत्यर्थः । दोषापवादादित्यस्य दोषाहितशक्तिरूपापवादादित्यर्थ इति भावः ॥

नन्वेवं गुणस्यापि प्रयोजकत्वोपपत्तौ किं तन्निरासायासेनेति चेन्न । गुणवा ५ दिनोपि दोषाभावस्याव ६ श्यकत्वोपपादनात् । गुणस्य दोषनिरासोपक्षीणतोपपादनाच्चेति भावः ॥

 

१. पिमुचचकारो नास्ति  ख.  २. वेदपदं नास्ति  ग.  ३. धास्ये च.  ४. क्तेः कुं.  ५. चिअ.  ६. श्योपअ.

 

न्यायदीपयुततर्कताण्डवम्          ( प्र. परिच्छेदः            पु  २०४.

 

उक्तं हि सुधायां"इन्द्रियादीनामौत्सर्गिकी शक्तिः प्रमाण्यजनने दोषापवादादप्रामाण्यमपि जनयति १"इति । कारणत्वस्यापादानन्त्वयुक्तम् ॥

कॢप्तकारणं २ चक्षुरादिकमादायैव दोषाभावस्य प्रमां प्रति नियतपूर्वभावित्व ३ ग्रहणेन दण्डत्ववत्दण्डगतदार्ढ्य ४ वत्शक्तिः कारणतावच्छेदके ५ ति पक्षे शक्तिवतुपस्थितेष्टभेदाग्रहः प्रवर्तक इत्यत्रोपस्थितिवत्विषयत्वेन विषयजन्यं ज्ञानं प्रत्यक्षमित्यत्र विषयत्वव ६ च चक्षुरादिनिष्ठकारणतावच्छेदकत्वमात्रेणान्वयव्यतिरेकयोरुपपत्तौ दोषाभावे

 

द्वितीयं निराह  कारणत्वस्येति ॥ कुत इत्यतः"येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तत्तेनान्यथासिद्धं"इति मण्युक्तान्यथासिद्धमत्वादित्याह  कॢप्तेति ॥ ग्रहणेनेति ॥ त्वदुक्तपारिभाषिकान्यथासिद्धत्वेन हेतुनेत्यर्थः । अस्य चक्षुरादिनिष्ठकारणतेत्यादिनान्वयः ॥

 

गुरुमतेनाह  उपस्थितेति ॥ उपस्थितं बुद्धौ विपरिवर्तमानं यदिष्टं रजतादि तेन पुरोवर्तिनो भादाग्रह इत्यर्थः । उस्थितेरपि पुरोवृत्तिगोचरप्रवृत्तिकारणत्वे

वैशिष्ट्यज्ञानस्यापि हेतुतापत्या भादाग्रहः प्रवृत्तिहेतुरिति मतहान्यापत्तेर्हेतुतावच्छेदकत्वं यथा तथेत्यर्थः ॥

न्यायमतेनाह  विषयत्वेनेति ॥ प्रत्यक्षमित्यत्रेति ॥ इति प्रत्यक्षलक्षण इत्यर्थः।

 

१. यन्तीति  मुचछक.  २. समस्तं पदं  मुख.  ३. हेणमुचकख.  ४.दार्ढ्यादिव खकुं.   ५. त्यत्र शछ.  ६.  चकारो नास्ति मुचख.

 

प्रयांदोभास्यहेङ्गः)            प्रामाण्यवादः                पु  २०५.

 

कारणतायाः दोषाभावत्वे १ कारणतावच्छेदकतायाश्च कल्पने गौरवात् । उक्तरीत्या सत्यपि दोषे प्रमात्वदर्शनेन प्रमासामान्यं प्रति व्यतिरेकव्यभिचाराच्च ॥     उक्तं हि विष्णुतत्वनिर्णयटीकायां"दोषाभावोपि न प्रामाण्यकारणम् । यादृच्छिकसंवादिषु सत्यपि दोषे प्रमाण २ ज्ञानोदयात्"इति ॥

किञ्च प्रतिबन्धकाभावे लोके कारणत्वाव्यवहारादौत्सर्गिककार्यापवादक ३ विरोधिकत्वरूपान्यैवान्यथासिद्धिः परिभाष्यता ४ मित्युक्तम् ॥

 

अन्यथासिद्धिमुक्त्वा व्यभिचारं चाह  उक्तेति ॥"किञ्च करादौ चरणादिभ्रमजन्य"इत्यादिनोक्तरीत्यर्थः ॥

ननु दोषस्य प्रतिबन्धकतया तदभावस्य स्वतन्त्रावेव कार्यान्वयव्यतिरेकावतो न प्रागुक्तान्यथासिद्धिर्युक्तेत्यत आह  किञ्चेति ॥ अन्यथासिद्धशब्दस्य त्वया यौगिकार्यं त्यक्त्वा लोकव्यवहारानुरोधेन त्रिधा पारिभाषिकार्थेक्तिरिहापि व्यवहारानुरोधेन त्वदुक्तान्यथासिद्धित्रयादन्येवान्यथासिद्धिः परिभाष्यतामित्युक्तमतीतभङ्गः इत्यर्थ  उक्तं हीति ॥ दोषाभावस्यान्यथासिद्धतया कारणत्वं नेत्येतज्जिज्ञासाधिकरणे

"प्रत्यक्षवच्च   प्रामाण्यं"

इत्यादिश्लोकव्याख्यानसुधायामुक्तमित्यर्थः ॥

 

१. तदवच्छेकखछ.   २. माज्ञाकुं.  ३. विरहतारूकखृछ.  ४."इत्युक्तं"इति नास्तिछख.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र.परिच्छेदः            पु  २०६.

 

उक्तं हि सुधायां"तर्हि दोषाभावः कारणमित्यायातमिति चेन्न । तथा सत्युत्सर्गापवादयोः क्वाप्यभावप्रसङ्गातिति ॥

न चैवं भाष्यचटीकायाः विष्णुतत्वनिर्णयटीक १ या सुध २ या च विरोध इति शङ्क्यम् । भाष्यटीकायां कारणशब्दस्यस्मदुक्तं यद्घटं प्रति कुलालपित्रादिसाधारणं तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वरुपं तन्मात्रपरत्वात् ।

उपलक्षणमेतत्"दोषाभावव्यतिरेकनियमात्प्रामाण्यस्य परतस्त्वं किं न स्यादिति चेन्न । यादृच्छिक संवादिषु प्रामाण्येपि दोषाभावाभावेन कारणत्वभङ्गात्"इत्यादिना वादावल्यामुक्तमित्यर्थः । उत्सर्गेत्यादेर्थस्तु"दाहविरोधिनो हेतुत्व"इत्यादिना पूर्वतनग्रन्थेनैव विवृतो ध्येयः  भाष्यटीकाया इति ॥ प्रागुक्ताया इत्यर्थः  सुधया चेति । वादावल्या चेत्यपि ध्येयम्  तद्व्यतिरेकेति ॥ दोषाभावव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वं प्रामाण्यस्य यत्तद्रूपं प्रयोजकत्पमित्यर्थः । स्विविरप्रयुक्तविरहप्रतियोगिकार्यकत्वरूपं यत्प्रयोजकत्वमिति फलि ३ तोर्थः । उक्तं ४ हीति ॥ वार्तिके
दोषाभावस्योक्तरूपं प्रयोजकत्वमुक्तमित्यर्थः । तदभावतः गुणाधीनदोषाभावतः । अबोधकत्वरूपं विपरीतबोधकत्वरूपं वा ५ विपरीतबोधकत्वरूपमननुष्ठानरूपं व यदप्रामाण्यद्वयं तदभावः । तेन दोषाभावस्याप्रामाण्यनिरासोपक्षयेण ज्ञानसामग्रीत एव प्रमा जायत इत्युत्सर्गो न भग्न इत्यर्थः ॥

 

१. कायाः  क.  २. धायाश्चक.  ३. तार्थः  मु.  ४. क्तमिति  मु. ५. विपरीतबोधकत्वमिति नास्ति  मु.

 

प्रयांदोभास्यहेङ्गः)              प्रामाण्यवादः                पु  २०७.

 

"तस्माद्गुणभ्यो दोषाणामभावस्तदभावतः अप्रामाण्यचद्वयाभावस्तेनोत्सर्गो १ नपोदितः"

इति

ननु कथं तर्हि दोषस्य प्रतिबन्धकत्वमपि । तत्रैव तस्मिन्सत्यपि प्रमाया दर्शनादिति चेन्न । त्रत यादृच्छिकस्य विषयसत्वस्योत्तेजकत्वेनोत्तेजकाभावविशि

ष्टस्य प्रतिबन्धकस्याभावात् ॥

न च तर्ह्यावश्यकत्वाद्विषयसत्वमेव प्रमाप्रयोजकं न तु दोषाभावापेक्षेति वाच्यम् । शुक्तौ रूप्यभ्रमकाले शुक्तित्वादेर्विषयस्य सत्वेपि दोष २ रूपप्रतिबन्धेन शुक्तित्वादिप्रमाव्यतिरेकात् ॥

यद्वा इमं मा दहेत्यादौ मन्त्रादेरुद्देश्यव्यक्तिविशेष इव लिङ्गाभासस्य यत्र विषयसत्वाभावस्तत्रैव प्रतिबन्धकत्वाद्यादृच्छिकविषयसत्वस्थले केवलस्य प्रतिबन्धकस्याभाव एवास्ति । दोषाभावस्य स्वरूपेण हेतुत्वे तु व्यतिरेकव्यभिचारो दुष्परिहर इति दोषाभावोप न हेतुः ।

 

प्रागुक्तप्रतिबन्धकविरोधित्वरूपान्यथासिद्धिरयुक्तेति भावेन शङ्क्यते  नन्विति ॥ तत्रेति ॥ यादृच्छिकसंवादिनीत्यर्थः ॥ तस्मिन् दोष इत्यर्थः  मा दहेतीति ॥ अस्य साधुत्वं संशयोपपादवनग्रन्थोक्तं ज्ञेयम्  व्यतिरेकव्यभिचार इति ॥ यादृच्छिकसंवादिनीत्यर्थः  तस्मादिति ॥

 

१. ह्यपो  छ.  २. रूपपदं न  कुं.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र.परिच्छेदः            पु  २०८.

 

तस्मात्परतस्त्वे न किञ्चिन्मानम् ॥

एतदप्युक्तं"अन्यथा"इत्यादिना । औत्सर्गककार्यापवादकनिरासारूपस्यापि दोषाभावस्य हेतुत्वे

इदमौत्सर्गिकमिदमापवादकमिति व्यव १ स्थित्ययोगादित्यर्थः ॥            प्रमायां दोषाभावस्य हेतुत्वभङ्गः ॥ १५ ॥

 

अनुगतगुणस्यभावाद्दोषाभावस्य चाहेतुत्वादित्यर्थः ॥

प्रमायां दोषाभावस्य हेतुत्वभङ्गः ॥ १५ ॥

 

स्वतस्त्वे तु अनित्यप्रमामात्रानुगतो गुण इति पक्षे अनित्ययथार्थज्ञानत्वमनित्यज्ञानत्वानवच्छिन्नकार्यतावच्छेदकं

 

स्वतस्त्वे त्विति ॥ मानमित्यनुकर्षः । उच्यते इत्यर्थः । अननुगतगुणपक्षे सिद्धसाधनतावारणाय  इति पक्ष इति विवेकायोक्तम् । अनित्यप्रमात्वमनित्यज्ञानत्वावच्छिन्नकार्यत्वप्रतियोगिककारणताभिन्नकारणताप्रतियोगककार्यतावच्छेदकमनित्यज्ञानत्वव्याप्यकार्यतावच्छेदकधर्मत्वादप्रमात्ववदिति मण्युक्तानुमानस्य प्रत्यनुमानमाह  अनित्येति ॥ विशेष्यमात्रस्य नित्यवृत्तितया कार्यतावच्छेदकत्वेन सिद्धसाधनवारणायानित्येति पक्षविशेषणम् । यथार्थेत्युक्तिरपि तद्वारणार्थैव ।

 

१. स्थायो  मु  च.

 

उत्पत्तौ स्वतस्त्वे अनुमानानि)           प्रामाण्यवादः           पु  २०८.

 

अनित्यज्ञानावृत्तित्वरहितत्वात्ज्ञानत्ववत् । तत्समनियतधर्मघटितत्वात्यदेवं तदेवं यथा पृथुबुध्नोदराकार १ घटितं २ घटत्वं घटत्वानवच्छिन्नकार्यतानवच्छेदकम् ।

 

साध्ये ३ नित्यज्ञाननिष्ठकार्यतानवच्छेदकत्वेन सिद्धसाधन ४ वारणायानित्येतिपक्षविशेषणम् । यथार्थेत्युक्तिरपि तद्वारणार्थैव । साध्येऽनित्यज्ञाननिष्ठकार्यतानवच्छेदकत्वेन सिद्धसाधन ४ निरासायानित्येत्यादिकार्यताविशेषणम् । प्रमानिष्ठेत्यपि योज्यम् । तेन घटादिनिष्ठकार्यतानवच्छेदकत्वेन न सिद्धसाधनम् । हेताविन्द्रियत्वादिनोन्द्रिनिष्ठकारणताप्रतियोगिककार्यतावच्छेदके प्रत्यक्षत्वादौ व्यभिचारवारणाय नञ्द्वयम् ।तत्रानित्यज्ञानवृत्तित्वस्यापि सत्वेन तद्राहित्याभावात् । उक्तदोषनिरासायैवानित्यज्ञानेत्यप्युक्तिः । असिद्धिनिरासायानित्येति  ज्ञानत्ववदिति । तस्य नित्यवृत्तितया कार्यतानवच्छेदकत्वादनित्यज्ञानवृत्तित्वाच्चेति भावः  तत्समेति ॥

अनित्यप्रमात्वसमनियतो यो धर्मो अनित्यज्ञानत्वं तद्घटितत्वादित्यर्थः ॥

भ्रमेपि धर्म्यंशे प्रमात्वेनानित्यप्रमात्वानित्यज्ञानत्वयोरन्योन्यं व्याप्याव्यापकभावादिति भावः । अत एव तत्समनियतधर्मघटितत्वद्योतनायैव अनित्यप्रमात्वमिति पक्षनिर्देशमकृत्वानित्ययथार्थज्ञानत्वमित्युक्तम्  यदेवमिति ॥ यद्यत्समनियतधर्मघटितं तत्तदनवच्छिन्नकार्यतावच्छेदकमित्यर्थः  पृथुबुध्नेति ॥ पृथुबुध्नोदराकार ५ घटत्वं नामधर्मः ।

स्वमानियतघटत्वधर्मघटितत्वात्तदनवच्छिन्नकार्यता पटादिनिष्ठा तदनवच्छेदक इत्यर्थः ॥

 

१. धर्मपदमधिकं  कुं.  २. समस्तपदंकुंक.  ३. अनित्यकुं.  ४. एतावन्नास्तिमु.  ५. घटपदं न कुं.

 

न्यायदीपयुततर्कताण्डवम्          ( प्र,परिच्छेदः            पु  २१०.

 

भ्रमावृत्तिकार्यतानवच्छेदकं वा भ्रमवृत्तित्वात्भ्रमात्ववत् ॥

न चै १ तेषां हेतूनामसिद्धिः । भ्रमेपि धर्म्यंशे प्रमात्वस्य सत्वात् । प्रमात्वस्य ज्ञानत्वघटितत्वाच्च । नाप्यप्रयोजकता । समानियतयोरेकस्यैव कार्यतावच्छेदकत्वे आवश्यके २ लाघवर्थे प्रमाण ४ स्वरसाल्लघुनोऽनित्यज्ञानत्वस्यैव तदौचित्यात्५ ॥ भ्रमे ज्ञानत्वप्रमात्वयोर्व्याप्यवृत्तित्वा ६ व्याप्यवृत्तित्वेत्वेकसामग्रीप्रयोज्यत्वेपि त्वन्मते वेगविभागयोरिव युक्ते ।

 

प्रचीनपक्षनिर्देश एव साध्यान्तरमाह  भ्रमावृत्तीति ॥ भ्रमावृत्तिकार्यता प्रमानिष्ठा कार्यता तदनवच्छेदकमित्यर्थः । अनित्ययथार्थज्ञानत्वं तादृशज्ञाननिष्ठकार्यतानवच्छेदकमित्येव साध्यकारणेऽनित्यज्ञानत्वे व्यभिचारः । तस्यात्ममनःसंयोगादिहेतुनिरूपितकार्यतावच्छेदकत्वात् । भ्रमवृत्तित्वाच्च । अतो भ्रमावृत्तीत्येवमुक्तिः । अनित्यज्ञानत्वस्य च तादृशघटादिनिष्ठकार्यतानवच्छेदकत्वान्न दोषः  नचैषामिति ॥ त्रयाणामित्यर्थः । भ्रमेपीत्यनेनाद्यन्तयोरसिद्ध्युद्धारः  प्रमात्वस्येति ॥

अनित्यप्रमात्वस्यानित्यज्ञानत्वघटितत्वादित्यर्थः ॥

यद्वा प्रमात्वस्य ज्ञानत्वघटितत्वेऽनित्यप्रमात्वस्यानित्यज्ञानत्वघटितत्वमर्थसिद्धमिति प्रमात्वस्येत्येवोक्तम्  लघुन इति ॥ प्रमात्वस्य विषयसत्वघटितत्वेन गुरुत्वमिति भावः ॥

 

१. चैषांगकुं.   २. लघाग. तल्लाक.  ३.वप्रमामुध्वर्येच.  ४.प्रसरात्कछ.  ५.ऽभ्रमत्ववत्ऽ इत्यधिकंछ. । अयङ्ग्रन्थःकुं.  पुस्तके कुण्डलितःच. पुस्तके स्खलितः हंसपादेन पूरितःक.   पुस्तकेऽविभागयोरिवऽ एतावत्पर्यन्तमेव वर्तते .  ६. अव्याप्यवृत्तित्वे इति नास्ति  छ.

 

उत्तौस्वतस्त्वेनुनि)             प्रामाण्यवादः                 पु  २११.

 

त्वन्मते वेगविभागयोरिव युक्ते । मन्मते तु प्रकारांशे प्रमात्वापवादक १ स्य दोषस्य सत्वात्तद्भवो युक्तः ॥

ननु विभागस्याव्याप्यवृत्तित्वं २ स्वात्यन्ताभावसामानाधिकरण्यम् । अत्यन्ताभावस्या ३ धिकरणविशेषसम्बन्धः स्वरूपानतिरिक्त इति न हेतुसापेक्ष इति चेत्तुल्यं प्रमात्वेपि ॥ अनित्यप्रमात्वं दोषविरोधिवृत्तिधर्मावच्छिन्नकारण ४ त्वप्रतियोगिककार्यतवच्छेदकं दोषजन्यवृत्तित्वात् । भ्रमत्ववत् । दोषविरोधी गुणो दोषाभावश्चेति स्वतस्त्वसिद्धिः ।

 

अनित्यप्रमात्वमप्रमाकारणतावच्छेदकरूपावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकं भ्रमावृत्तिकार्यतावच्छेदकत्वात्घटत्ववदिति मण्युक्तस्य प्रत्यनुमानमाह  अनित्यप्रमात्वमिति । दोषः पित्तादिः । तद्विरोधिवृत्तिधर्मो गुणत्वादिरूपः । तदवच्छिन्नेत्यर्थः । दोषजन्यवृत्तित्वादिति हेतोरसिद्ध्युद्धारः प्राग्वत् ॥

ननूक्तानुमानेन दोषविरोधिनो गुणस्या ५ हेतुत्व ६ लाभेपि दोषाभावस्य हेतुत्वानिवारणात्ज्ञानहेत्वधिकजन्यत्वात्प्रमात्वस्य ज्ञानहेतुमात्रजन्यत्वक्षतिरित्यत आह  दोषविरोधीति ॥ विरोधित्वं च

सहनवस्थानित्यत्वं ७ त्वा तन्निश्चयप्रतिबन्धकनिश्चयविषयत्वं वोभयानुगतम् । प्रतिबन्धकत्वं च तदनुत्पादव्याप्यत्वमिति भावः ॥

 

१.दस्यकुंगक.   २. स्वपदं न कखछ.   ३. स्यचाधिकखचछ.  ४. ताप्रकचख.   ५. स्यहेकुं.  ६.

त्वालाकुं.  ७.ऽवाऽ इति नास्ति अ.

 

न्यायदीपयुततर्कताण्डवम्         ( प्र,परिच्छेदः            पु  २१२.

 

अनित्यप्रमात्वं न कार्यतावच्छेदकम् । तथात्वे बाधकवत्वात् । घटज्ञानत्ववत् । न चासिद्धिः । अनुगतकारणाभावरूपस्य बाधकस्योक्तत्वात् ॥

प्रत्यत्रादिप्रमासु प्रत्येकानुगता गुणा इति पक्षे अनित्यप्रत्यक्षप्रमात्वं न विषयजन्यतावच्छेदकं, न षड्विधसन्निकर्षान्यतरजन्यतावच्छेदकं वा । तदजन्यवृत्तित्वात् । घटत्ववत् । न चासद्धिः । योगिप्रत्यक्षादेर्विषयेण षड्विधसन्नकर्षान्यतरेण याजन्यत्वात् ।

 

अनित्यप्रमात्वं कार्यतावच्छेदकं बाधकं विना कार्यमात्रवृत्तिधर्मत्वातप्रमात्ववदिति मण्युक्तस्य प्रत्यनुमानमाह

अनित्यप्रमात्वमिति ॥ अत्र पूर्वत्र च सिद्धसाधनताव्युदासायानित्येति प्रमात्वविशेषणम्  तथात्वे ॥ कार्यतावच्छेदकत्व इत्यर्थः  बाधकेति । स्वावच्छिन्नकार्यताप्रतियोगकानगतैककारणासम्भवरूपबाधकवत्वादित्यर्थः  घटेति ॥ घटज्ञानमात्रेनुगतकारणाभावाद्घटज्ञानत्वं नावच्छेदकमित्युपपादितमधस्तदिति भावः उक्तत्वादिति ॥ प्रमामात्रानुगतगुणभङ्ग इत्यर्थः  इति पक्षे इति ॥ विरोध्यनुमानमुच्यत इति योज्यम् ॥

विषयत्वं गुण इति पक्षमुपेत्याह  न विषयेति । इन्द्रियसन्निकर्षो गुण इति पक्ष आह  न षड्विधेति ॥ अन्यतरेति ॥ अन्यतमेत्यर्थः । साधुत्वं पूर्वमुक्तं ध्येयम् । प्रागुपपादितमेव स्मारयति  योगिप्रत्यक्षादेरिति ॥ सामान्यप्रत्यक्षासत्तिजप्रत्यक्ष १ मादिपदार्थः ।

 

१. प्रमा आदि  कुं.

 

उत्तौस्वस्त्वेनुनि)               प्रामाण्यवादः            पु  २१३.

 

अनुमितिप्रमात्वं सत्यलिङ्गपरामर्शत्वावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकं १ असत्यलिङ्गपरामर्शजन्यवृत्तित्वात्भ्रमत्वात् । शाब्दप्रमात्वं विवक्षितार्थतत्वज्ञानत्वावच्छिकारणताप्रतियोगिककार्यतानवच्छेदकं विवक्षितार्थतत्वज्ञानाजन्यवृत्तित्वात्भ्रमत्वात् ॥

न २ च तर्ह्यावश्यकत्वाद्विषयसत्वमेव प्रमाप्रयोजकं न तु दोषाभावापेक्षेति वाच्यम् । शुक्तौ रूप्यभ्रमकाले शुक्तित्वादेर्विषयस्य सत्वेपि दोषरूपप्रतिबन्धेन शुक्तित्वादिप्रमाव्यतिरेकात्२ ॥

अनित्यप्रत्यक्षप्रमात्वानुमितिप्रमात्वशाब्दप्रमात्वानि दोषविरोधवृत्तिधर्मावच्छिन्नकारणताप्रतियोगिककार्यतानवच्छेदकानि दोषजन्यवृत्तित्वात्भ्रमत्ववत्३ ॥

 

अन्यतरेणेति ॥ अन्यतमेनेत्यर्थः । अनुमितिशाब्दप्रमयोरपि गुणाजन्यत्वे क्रमेणानुमाने ४ आह  अनुमितीत्यादिना ॥ विवक्षितार्थतत्वज्ञानं गुण इति मत आह  विवक्षितेति ॥

प्रत्येकमुक्त्वा मिलित्वापि दोषाभावस्याप्यहेतुत्वलाभायाह  प्रत्यक्षेति ॥ दोषविरोधीति ॥ स च गुणो दोषाभावश्चेति स्वतस्त्वसिद्धिरिति भावः  असिद्धिरिति ॥ उक्तहेतूनामित्यर्थः ।

 

१. सत्यलिङ्गपरामर्शजन्यवृत्तित्वादित्यपि कुण्डलितं वर्तते  कुं.  २. अयं ग्रन्थः नास्ति कुंछगख.  २३.अतन्मध्यस्थः नास्तिक.  ४.नान्याहकुं.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र. परिच्छेदः           पु  २१४.

 

नचासिद्धिः । करादौ चरणादिभ्रमजन्ये पुरुषज्ञाने प्रमात्वस्य सत्वात् । यथार्थयोग्यताज्ञानं न शाब्दप्रमाजनकम् ।

तद्व्यतिरेकापादनप्रयोजकापदनविषयव्यतिरेकाप्रतियोगित्वात् । पाकजगन्धे रसप्रागभाववत् ॥

 

अन्त्यहेतोर्घम्यंश इत्यादिपूर्वग्रन्थेनासिद्ध्युद्धारप्रकारस्य द्वितीयहेतोरपि संवादिशुकादिवाक्यजन्यज्ञाने भ्रान्तप्रकारकवाक्यजन्यज्ञाने १ च पूर्वोक्तदिशा सत्वेन सिद्धत्वादाद्यस्य तं व्यनक्ति  करोति ॥

न च शुकादिवाक्यजज्ञानेपि तादृशेश्वरज्ञानजन्यत्वसत्वादसिद्धिरेवेति शङ्क्यम् । तस्य भ्रमसाधारणोपादानादिगोचरज्ञानत्वेनैव जनकतयात्राभिमतस्य विवक्षितार्थतत्वज्ञानत्वादिना रूपेणाजनकत्वादित्युक्तत्वात् ॥

योग्यताज्ञानं गुण इति मत आह  यथार्थेति ॥ योग्यता च वाक्यार्थरूपसंसर्गसत्वं वा प्रागुक्तदिशा तद्व्याप्यमन्यद्वेति भावः  तदिति ॥ शाब्दप्रमाव्यतिरेकापादाने प्रयोजकं निमित्तं यदापादनं तद्विषयेत्यर्थः । आपादानप्रकारश्चाग्रे व्यक्तः  पाकजेति ॥ तत्र यदि रसप्रागभावो न स्यात्तदा गन्धो न स्यादिति नास्ति । रसप्रागभावस्य कारणातावादे मण्युक्तदिशा

कॢप्तकारणगन्धप्रागभावसाहित्यरूपान्यथा ३ सिद्धत्वेन गन्धव्यतिरेकापादनप्रयोजक ४ व्यतिरेकाप्रतोयोगित्वमत एव तदजनकत्वं चेति भावः  उक्तरीत्येति ॥ प्रत्यक्षादावनुगतगुणभङ्ग उक्तरीत्येत्यर्थः ॥

 

१.च इति नास्तिकुं.   २. ण जनकत्वस्याभावादित्युक्तत्वात्मुअ. ३.द्धिमत्वेन ४.आपादनविषयेत्यधिकं.

 

उत्तौस्वतस्त्वेनुनि)              प्रामाण्यवादः               पु  २१५.

 

न चा १ त्रासिद्धिः । उक्तरीत्या योग्यतायां स्वरूपतः सत्यामनन्वयनिश्चयविरहेणैव शाब्दप्रमोपपत्या यदि यथार्थयोग्यताज्ञानं न स्यात्तर्हि २ शाब्दी ३ प्रमा न स्यादित्यापादनासम्भवात् ॥

 

यज्ञपतीति ॥ तन्मते हि स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्तित्वमेव प्रमात्वस्य परतस्त्वमि ४ त्युपेत्याननुगतगुणजन्यत्वेनाप्येतत्सिध्यतीत्युक्त्वा

अनित्यप्रमात्वं स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्तीत्याद्यनुमानमुक्तम् । तत्प्रत्यनुमानमाह  अनित्येति ॥ सिद्धसाधनतानिरासायानित्येत्युक्तिः ॥

स्वेति ॥ स्वस्यानित्यप्रमात्वस्य आश्रयमात्र ५ वर्ती धर्मः प्रत्यक्षत्वादिः तदवच्छिन्ना नानावृत्तिरनेकाश्रयवृत्तिश्च या ६ कार्यता तदाश्रयमात्रवृत्ति न भवतीत्यर्थः । अत्राद्यं मात्रपदमनित्यप्रमात्वस्य स्वाधिकदेश ७ वृत्तिनानित्यज्ञानत्वेनावच्छिन्ननानावृत्तिकार्यताश्रय एव वर्तमानाद्बाधनिरासाय । द्वितीयमपि तन्निरासायैव । अन्यथा अनित्यप्रमात्वस्य तादृशप्रत्यक्षत्वानुमितित्वचाक्षुषत्वादिधर्मावच्छिन्नकार्यताश्रयवृत्तितया बाधापत्तेः । अत्रानित्यप्रमात्वकस्य स्वाश्रयमात्रवृत्तिप्रत्यक्षत्वादिधर्मसमानाधिकरणकार्यताश्रय एव ८ सत्वेन तद्वृत्तित्वाभावेन साध्यपर्यवसाने बाधात् ।

 

१.अत्रेति नास्तिमुचख.  २. शछ.  ३.यप्रककुं.  ४. त्यभिप्रेअ.  ५. त्रे वृत्तिधर्ममु.  ६.या इति नास्ति  कुं.  ७.वर्तिनामु.  ८.एव इतिनास्तिकुं.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र. परिच्छेदः        पु  २१६.

 

यज्ञपतिमते अनित्यप्रमात्वं न स्वाश्रयमात्रवृत्तिधर्मावच्छिन्ननानावृत्तिकार्यताश्रयमात्रवृत्ति । विषयमात्रोपाधिकधर्मत्वात् । घटज्ञानत्ववत् ॥

 

जन्यप्रत्यक्षप्रमात्वादेः पराभिमतावच्छेदक १ त्वस्याभावेनैव साध्यपर्यवसानमिति भावः । स्वपदं २ समभिव्याहृतपरम् । ३

तेन अप्रमात्वे व्यभिचारवारणाय विषयमात्रोपाधिकेति हेतौ विशेषणम् । अप्रमात्वस्याननुगतपित्तादिदोषजन्यतावच्छेदकधर्मावच्छिन्ननानावृत्तिकार्यताश्रयमात्रवृत्तित्वेन विपक्षत्वेपि भ्रमविषयतदभावघटितत्वेन हेत्वभावात् । विषयोपाधिकेत्युक्तावप्युक्तदोषातादवस्थ्यान्मात्रेत्युक्तिः । विषयोपाधिकत्वे सति तदितरानुपाधिकत्वं हि तदर्थः । तत्र ज्ञानान्यतदितरानुपाधिकेत्यर्थो ध्येयः । तेन च प्रमात्वस्य विषयेतरज्ञानोपाधिकत्वादिसिद्धिः दृष्टान्ते साधनवैकल्यामिति शङ्कानवकाशः । विषयपदं च स्वविषयपरम् । तेन घटपटान्यतरत्वे

ज्ञानविषयघटपटमात्रोपाधिकहेतुरिति स्वाश्रयमात्रवृत्तिघटत्वपटत्वावच्छिन्ननानावृत्तिकार्यताश्रय एव वर्तमाने साध्याभावाद्व्यभिचार इति शङ्कानवकाशः । यद्वा विषयतयोपाधित्वविविक्षाया अग्रे ४ स्पष्टत्वात्स्वेति न देयम् । तावतोक्तस्थले व्यभिचारनिरासात् ॥

घटज्ञानत्ववदिति ॥  तत्र तद्व्याप्यस्य कार्यतावच्छेदकस्य कस्यचिदभावात्स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्तित्वाभावरूपसाध्यमस्ति । न च तत्रापि घटप्रत्यक्षं धटानुमितित्वमित्यादिरेव

तद्व्याप्योस्तीति शङ्क्यम् । घटप्रत्यक्षत्वाद्यवच्छिन्नकार्यताप्रतियोगिकानुगतैककारणाभावान्न घटप्रत्यक्षत्वादिकमवच्छेदकम् ।

 

१. त्वाभाकुं.  २. चमु.अ.  ३.तेनेति नास्तिकुं.  ४. स्फुदत्वात्मु.

 

उत्तौस्वतस्त्वेनुनि)               प्रामाण्यवादः           पु  २१७.

 

तत्तत्प्रागभावनिरूपितकार्यताश्रय १ त्वेन बाध इति शङ्कानिरासाय नानावृत्तीत्युक्तम् । २ नात्रासिद्धिः । प्रमात्वस्य विषयमात्रोपाधिकत्वात् ॥

न च विषयजनितं ज्ञानं प्रत्यक्षमिति मते प्रत्यक्षज्ञानत्वे व्यभिचार इति वाच्यम् । विषयस्य विषयतयोपाधित्वस्य विवक्षितत्वात् । प्रत्यक्षज्ञानत्वे च तस्य जनकतयोपाधित्वात् । यथावस्थितार्थविषकत्वरूपे ३ प्रमात्वे तु तस्य विषयतयोपाधितत्वात् ।

 

अस्तु वावच्छेदक ४ म् । अथापीश्वरज्ञानसाधारणं घटज्ञानं न तन्मात्रवृत्तीति भावः ॥

ननु साध्ये परानुक्तं नानावृत्तीति कार्यताविशेषणमधिकं किमर्थमुपात्तमित्यत आह  तत्तदिति ॥ तत्तत्प्रमाव्यक्तिप्रागभावविरूपितकार्यतावच्छेदकं तत्तत्प्रमाव्यक्तित्वम् । तदवच्छिन्नकार्यता च तत्तद्व्यक्तिमात्रनिष्ठा न तु व्यक्तिद्वयनिष्ठा । तथाच तादृशकार्यताश्रयमात्रवृत्तित्वेन तदभावसाधने बाधः स्यात् । नानावृत्तीत्युक्त्या तदन्यकार्यतैव लभ्यत इति तदाश्रयमात्रवृत्तित्वाभावसाधने तु न बाध इति भावः ॥

इति मत इति ॥ विषयजन्यत्वं प्रत्यक्षलक्षणमिति मत इत्यर्थः  प्रत्यक्षेति ५ ॥ तत्र स्वव्याप्यचाक्षुषत्वरासनत्वादिधर्मावच्छिन्ननानाधिकरणनिष्ठकार्यताश्रय

वृत्तित्वस्यैव भावेन ६ विपक्षे विषयमात्रोपाधिकधर्मकत्व ७ सत्वादिति भावः । अप्रमत्वस्य साध्याभववत्वेपि हेतोरेवाभावान्न व्यभिचार इत्याह  अप्रमात्वेति ॥

 

१.वृत्तिक.  २.नचाछ.  ३.पत्वेतुक.  ४.त्वंकुं.  ५.क्षज्ञानेतिमु क्षज्ञानत्वेति  अ.  ६. वत्वेन  अ.  ७.स्यासिद्धत्वात् अ.

 

न्यायदीपयुततर्कताण्डवम्          ( प्र.परिच्छेदः           पु  २१८.

 

अप्रमात्वोपाधिभूतं विषयान्यथात्वं तु नाप्रमाया विषय इति १ नाप्रमात्वे व्यभिचारः॥

भ्रमे पित्ता २ दिरिव प्रमायाम ३ नुगता एव गुणा हेतव इति मते । संशयोत्तरप्रमात्वं

सत्यविशेषदर्शनत्वानच्छिन्नकारणताप्रतियोगिककार्यतानवच्छेदकं

असत्यविशेषदर्शन ४ जन्यवृत्तित्वात्ज्ञानत्ववत् । संशयोत्तरप्रमा विशेषप्रमाजन्या न । तां विनाप्युपपन्नत्वात्भ्रमवत् । अत्रासिद्धिः प्रागेवोद्धृता ।

 

इति मत इति ॥ विरोध्यनुमानं स्वतस्त्वसाधकमुच्यत इति योज्यम् । संशयाद्युत्तरप्रमायां विशेषप्रमा गुण इति वादिनं प्रत्याह  संशयेति ॥ एतच्च सिद्धसाधनतावारणाय विशेषणम् । संशयोत्तरप्रमाविशेषदर्शनजन्या नेत्येवोक्तौ ज्ञानवदिति दृष्टान्तोक्तौ  च तत्र साध्यहीनतया स्यादतस्तत्र प्रमात्वमित्युक्तिः  सत्येति ॥ यथार्थेत्यर्थः । असत्यमयथार्थं यद्विशेषदर्शनं करादौ चरणादिभ्रमरूपं तज्जन्यसंशयोत्तरप्रमावृत्तित्वादित्यर्थः ॥

ननु संशयोत्तरप्रमायां न सर्वत्र विशेषप्रमाहेतुः । करादौ चरणादिभ्रमजन्यसंशयोत्तरप्रमादिभिन्नस्थल एवेत्यतस्तदनुरोधेनाप्याह  संशोत्तरप्रमेति ॥ तां विनापीति ॥ दोषाभावे ५ प्युपपन्नत्वादित्यर्थःत्रेति ॥ हेतुद्वय इत्यर्थः  प्रागिति ॥"करादौ

चरणादिभ्रमजन्य"इत्यदिना"एवं भ्रमोत्तरप्रमायामपि"इत्यादिना च ग्रन्थे नाननुगतगुणभङ्गः एवेत्यर्थः ॥

 

१.नप्रछ.  २.दयग.  ३.ननुचछगक.  ४.जन्यपदं न ख.  ५.वेनाप्युअ.

 

उत्तौस्वतस्त्वेनुनि)                प्रामाण्यवादः             पु  २१९.

 

भूयोऽवयवेन्द्रिसन्निकर्षो न प्रमाया १ मसाधार २ णकारणम् । भ्रमजनकत्वात् । मनःसंयोगवत् । प्रमा ३ भ्रमसाधारणकारणातिरिक्तकारणा ४ जन्या । भ्रमधर्मिकान्याभावाप्रतियोगित्वात् । अनन्यथासिद्धतदन्वयव्यतिरेकानुविधानरहित्वाच्च । भ्रमवत् ॥

 

भूयोऽवयेन्द्रियसन्नकर्षो गुण इति पक्षनिरासकमनुमानमाह  भूय इति ॥ अत्राप्यसिद्धिः पीतःशङ्ख इत्यादिभ्रमजनकत्वाद्युक्त्या प्रागेवोद्धृतेति भावः ॥

प्रमा ज्ञानहेत्वतिरिक्तहेतुजन्येति प्रचीनानुमानस्य प्रत्यनुमानमाह  प्रमेति ॥ अतिरिक्तकारणपेदन गुणो दोषाभावश्चाभिमतः । भ्रमधर्मिकेत्यादिहेतोरप्यसिद्धिः ।"भ्रमेपि धर्म्यंशप्रमायां"इत्यादिना प्रागेवोद्धृतेति भावः ॥

तार्किकमतेप्य ५ त्यन्ताभावस्याव्याप्यवृत्तित्वेन भ्रमे प्रमात्वत्तदत्यन्ताभावयोरंशभेदेन सत्वेप्यन्योन्याभावस्याव्याप्यवृत्तित्वाभावेन ६ प्रमान्योन्याभावस्याव्याप्यवृत्तित्वाभावेन ६ प्रमान्योन्याभावस्य भ्रमे सर्वथैवाभावादिति भावः  अनन्यथेति । अत्रापि गुणानां विरोधिदोषनिरासोपयोगस्योक्तत्वान्नासिद्धिरिति भावः ॥

 

१.असाकुं.  २.णंकचखछ.  ३.नभ्रमुचछकख.  ४.णजमुचछकख.  ३.अपिपदं न मुअ.  ६.एतन्नास्तिमुअ.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र. परिच्छेदः          पु  २२०.

 

अत्र सर्वत्रापि हेतूच्छित्तिरेव बाधिकेति ना प्रयोजकतेति दिक् ।

एतदप्युक्तम्"अन्यथेत्यादिना"॥ उक्तसाध्यानि विनोक्तहेतूनां पक्षेऽवस्थित्ययोगादित्यर्थः ॥

१ उत्पत्तौ स्वतस्त्वे २ऽनुमानानि ॥ १६ ॥

 

दिगिति ॥ प्रमा गुणजन्या न भवति प्रमात्वादीशप्रमावत् । ३ प्रमा दोषविरोधिजन्या न भवति प्रमात्वा ३ दीशप्रमावदित्यादिरूहनीय इति भावः ॥

उत्पत्तौ स्वतस्त्वेऽनुमानानि ॥ १६ ॥

 

अप्रमायां त्वदन्यथासिद्धान्वयव्यतिरेकित्वाद्दोषः कारणम् । क्वचित्सादृश्यादिके दोषे सत्यपि

 

ननु प्रमायां गुणस्येव भ्रमेप्यन्वयव्यतिरेकव्यभिचाराद्भ्रमविरोधिगुणनिरासादावुपक्षयेनान्यथासिद्धेश्च दोषो न हेतुरिति सोपि स्वतः स्यादित्यतः"परतोप्रामाण्यम्"इति तत्वनिर्णयाद्युक्तप्रमामाण्यस्य परतस्त्वं साधयितुमुक्तदोषं निरस्यन्भ्रमे दोषस्य हेतुत्वमाह अप्रमायान्त्विति ।. हेतोर्विशेष्यासिद्धिम्  निराह  क्वचिदिति॥

 

१.इति २.स्यानुमु.चख.  ३. एतन्नास्तिअ.

 

अप्रामाण्यस्य परतस्त्वम्)              प्रामाण्यवादः            पु  २२१.

 

भ्रमानुत्पत्तिरसंसर्गाग्रहादिहेत्वन्तरवैकल्यादिति नान्वयव्यभिचारः । विसंवादिशुकादिवाक्येपि दोषस्योक्तत्वान्न व्यतिरेकव्यभिचारोपि ॥

न च प्रमायां गुणः प्रतिबन्धकस्य दोषस्येवाप्रमायामपि दोषः प्रतिबन्धकस्य गुणस्य दोषाभावस्य वा निरासक इत्यन्यथासिद्ध इत्यप्रामाण्यमपि स्वतः स्यादिति वाच्यम् ।

 

"कारणे सत्यपि कार्यानुत्पादस्य सामग्र्यभावेनोपपत्तेः"इति तत्वनिर्णयटीकां हृदि कृत्वाह  असंसर्गाग्रहादीति ॥ विशेषादर्शनादिरादिपदार्थः ॥

एतेन यादृच्छिकसंवादिन्यपि दोषस्य व्यभिचारो निरस्तः । तत्र विषयासत्वादिसहकारिविरहात् ॥

उक्तत्वादिति ॥ भूयोऽवयवेन्द्रियसन्निकर्षादिहेतुत्वभङ्गे"

तत्राप्यनित्यवाक्यदोषस्य विवक्षितार्थतत्वज्ञानाभावस्य"१ चेत्यादिनोक्तत्वादित्यर्थः । अनन्यथासिद्धेत्यादिहेतोर्विशेषणासिद्धिमाशङ्क्य निराह  नचेति । प्रतोबन्धकस्येति ॥ प्रतिबन्धकस्येति ॥ प्रमाप्रतिबन्धकस्य दोषस्य यथा निरासकस्तथाप्रमाप्रतिबन्धकस्य गुणस्येत्यर्थः ॥

दोषस्यान्यथासिद्धिं वदता हि गुणस्य प्रतिबन्धकत्वमुपेत्य तदभावस्य भ्रमे कारणत्वं वा प्रमायां दोषाभावस्येव प्रयोजकत्वं २ वा वाच्यम् । आद्ये भ्रमस्य न स्वतस्त्वापत्तिः । द्वितीये किं गुणाभाव एव प्रयोजकोर्ऽथोत्तेजकाभाविशिष्टगुणः प्रतिबन्धकः तदभावश्च प्रयोजक इति वा नाद्यः ।

 

१.स्यवाइकुंस्येवेअ.  २.ऽवाऽ इति नास्ति  मु.

 

न्यायदीपयुततर्कताण्डवम्            ( प्र.परिच्छेदः          पु  २२२.

 

पीतःशङ्खः इत्यादिप्रत्यक्षे भूयोऽवयवेन्द्रियसन्निकर्षे १ शङ्खत्वादिविशेषदर्शनादिरूपे गन्धप्रागभावावच्छिन्नो घट २ इत्यानुमाने सत्यपरमार्शरूपे घटोस्तीति वक्तव्ये पटोस्तीति वाक्य ३ जन्यज्ञाने विवक्षितार्थतत्वज्ञानरूपे च गुणे सत्यपि पित्तबाधप्रमादरूपेण दोषेण भ्रमेत्पादनेन दोषस्य गुणनिरासोपक्षीणत्वायोगात् । स्वा ४ भावनिरासोपक्षीणत्वेनान्यथासिद्धौ च सहकारिमात्रापलापप्रसङ्गात् ॥

 

व्यभिचारादिति भावेनाह  पीतःशङ्ख इत्यादिना ॥ विशेषदर्शनादिरूप इति ॥ पीतत्वाद्यसंसर्गग्रह आदिपदार्थः । सप्तम्यन्तरूपपदानां गुणपदेनान्वयः ॥

ननु क्वचित्किश्चद्गुण इत्यननुगणपक्षे पीतःशङ्खः इत्यादौ विपरीत ५ प्रत्यक्षादिरेव तश्चदन्यो गुणः । स तत्र वदन्तं प्रत्याह

गन्धेति ॥

६ यद्वा विशेषप्रमा गुण इति मते व्यभिचारोक्तिरियमित्युपेत्य प्रत्यक्षादिभ्रमत्रयेपि गुणाभावव्यभिचारोक्तिरियमिति बोध्यम् ॥

पित्तेति ॥ प्रत्यक्षे पित्तमनुमाने बाधः शाब्दे प्रमादो दोषः इति विवेकः। दोषाभावस्य वा निरासक इत्येतन्निराह  स्व ७ भावेति ॥ सहकारीति ॥ दण्डचक्रादेरपि स्वा ८ भावनिरासोपक्षयेण मृत्पिण्ड एक एव हेतुर्न कश्चिदपीति

स्यादित्यतिप्रसङ्ग इत्यर्थः।

 

र्१.षछगकु.  २.टोगन्धवान् पृथिवीत्वादित्या मुच.  ३. जज्ञानेचहक.  ४.स्वभाछ.  ५.ताप्रकुं.  ६.यद्वा दोषप्रअ.  ७.स्वाभाकुं  ८.स्वभामु.

 

अप्रास्यपस्त्वं)                 प्रामाण्यवादः                 पु  २२३.

 

ननु तथाप्यौत्सर्गिकस्याप्रमाण्यस्य क्वचिद्गुणः प्रतिबन्धकः । पीतःशङ्ख इत्यदौ तु विषयासत्वमृतेजकम् । त्वन्मते यादृच्छिकसंवादिलिलिङ्गाभावसादौ प्रमाप्रतिबन्धकस्य दोषस्य विषसत्वमिवेति चेन्न । अयथार्थधूमज्ञानेन ज्ञापनीयस्य वह्नेर्दैवात्सत्ववद्गुणेन ज्ञाननीयस्य श्वैत्यादेः शङ्खे सत्वेन १ विषयासत्वस्याभावात् । आरोप्यपीतत्वासत्वस्य च दोषापगमदशायामपिसत्वेन तदापि भ्रमापातात् ॥

 

द्वितीयकल्पेप्युत्तेजकं किं विषयासत्वमथ पित्तादिदोषः । आद्यमाशङ्कते  नन्विति ॥ औत्सर्गिकस्येति ॥ कारणगतसहजशक्तिजन्यस्येत्यर्थः  क्विचिदिति ॥ प्रमोत्पत्तिस्थल इत्यर्थः  उत्तेजकमिति ॥ तथाच तदभाविशिष्टगुणाभावोप्रामाण्ये प्रयोजक इत्युक्तस्थलेषु तदभवादेव प्रमाया अभावे कारणगतसहजशक्त्यै २ वाप्रमोत्पादो न दोषरूपहेतुबलेन । दोषस्तु तत्रावर्जनीय सन्निधिरेवेति भावः  त्वन्मत इति ॥"यादृच्छिकस्य ३ विषयसत्वस्योत्तेजकत्वेने ४"त्यादिना दोषाभावहेतुत्वभङ्गे तथोक्तेरिति भावः॥

विषयासत्वमित्यत्र विषयपदेन गुणेन ज्ञाप्यो विषयो अभिमतः उत भ्रमविषय इति विकल्प्याद्यं निराह  अयथार्थेति ॥ द्वितीयं निराह  अरोप्येति ॥ तदापीति ॥ प्रतिबन्धकस्य गुणस्योत्तेजकयुक्तत्वेनोत्तेजकाभावविशिष्टगुणाभावस्य सत्वादिति भावः ॥

 

१. अयं ग्रन्थः नास्ति  कुंख.  २.वप्रमु.  ३. कविकुं.  ४.त्वातिकुं.

 

न्यायदीपयुततर्कताण्डवम्           ( प्र.परिच्छेदः            पु  २२४.

 

अस्तु तर्हि पित्तादि १ दोष उत्तेजक इति चेत्तर्हि दोषाभावविशिष्टस्य गुणस्याभावो भ्रमे२ प्रयोजक इत्युक्तं ३ स्यात् ॥ ततो वरं दोष एव ४ प्रयोजक इति लाघवात् । दोहे तु नोत्तेजक एव हेतुः । तस्मिन्नसत्यपि दाहदर्शनात् । भ्रमस्य नासति दोषे दृष्टः ॥

किञ्च यादृच्छिकसंवादिलिङ्गशब्दाभासादिज्ञाने

 

द्वितीयं शङ्कते  अस्त्विति ॥ पित्तादिरि ५ ति ॥ काचकामलादिरादिपदार्थः  उत्तेजक इति ॥ औत्सर्गिका ६ प्रामाण्यप्रतिबन्धकगुणस्येति योज्यम् ॥

दोष एव प्रयोजक इतीति ॥ ननु प्रमायां दोषाभाव इव दोषो भ्रमप्रयोजकश्चेदपि नाप्रामाण्यचस्य स्वतस्त्वभञ्जक इति चेन्न । तद्व्यतिरेकप्रयोजकव्यतिरेकप्रतियोगित्वरूपकुलालपितृसाधारणप्रयोजकत्वे लाघवतर्केणावश्यं प्राप्ते सति प्रतिबन्धखगुणनिरासोपक्षयाभावे चोक्तदिशा सिद्धे सति प्रागुक्तानन्यथासिद्धान्वयव्यतिरेकहेतुबलेन कारणत्वमेव दोषस्य सिद्ध्यतीति तात्पर्यम् । अत एवोत्तरवाक्ये हेतुपदप्रयोगः ॥

दाहदर्शनादिति ॥ मण्याद्यभावस्थल इति भावः । अस्तु भ्रमेप्येवमित्यत आह  भ्रमस्त्विति ॥

दोषस्यान्वयव्यभिचारादुत्तेजकतया भ्रमहेतुत्वमयुक्तमिति भावेनाह  किञ्चेति । ईश्वरज्ञानस्य सल्लिङ्गपरामर्शरूपत्वेन यथार्थवाक्यार्थज्ञानत्वेन गुणत्वाङ्गीकारात्वन्नयेनेत्युक्तम् ।

 

१.दिर्देछक.  २.मकुं.  ३.क्तःछ.  ४.तत्रोत्तेजकछ.  ५.दीतिकुं. ६.कप्रामु.

 

अप्रास्यपरतस्त्वं)               प्रामाण्यवादः              पु  २२५.

 

गुणे त्व १ न्नयेन विद्यमाने २ मन्नयेनाविद्यमाने चोत्तेजकस्य दोषस्य सत्वेनौत्सर्गिकमप्रमायां स्यात् ॥

ननूत्तेजकस्य दोषस्य विषयसत्वं प्रतिबन्धकमिति चेत्तर्हि विषयसत्वाभावविशिष्टो यो दोषस्तदभावविशिष्टस्य गुणस्याभावो

भ्रमप्रयोजक

इत्युक्तं स्यात् । स च दोषापेक्षयातिगुरुः । तस्माद्भ्रमे ३ अर्थस्यासत्वेन सन्निकर्षा ४ सम्भवेन तत्स्थानीयस्य दोषस्यावश्यकत्वात् । पित्तादिदोषोत्कर्षेण भ्रमोत्कर्षदर्शनात् । अनन्यथासिद्धान्वयव्यतिरेकित्वाच्चाप्रमायां दोषो हेतुरित्यप्रामाण्यं परत एव ॥

उक्तं हि भगवत्पादैः ।"परतोऽप्रामाण्यं"इति ।

 

भ्रमसाधारण्येन हेतुतया गु ५ णत्वेनाहेतुत्वान्मन्नयेनाविद्यमान इत्युक्तम्  औत्सर्गिकं ज्ञानजननशक्तिप्रयुक्तमित्यर्थः । सिद्धान्ते तु सत्यपि दोषे भ्रमरूपकार्यानुत्पादौ हेत्वन्तरवैकल्यादित्युक्तत्वान्नान्वयव्यभिचार इति भावः ॥

नन्वेवं सत्यप्युत्तेजके कार्यानुत्पादे हेत्वन्तरवैकल्यनिमित्तकः विषयासत्वरूपहेत्वन्तरसापेक्षजन्यत्वात्तस्येति भावेन शङ्कते  नन्विति ॥ तस्मादिति ॥ दोषस्य गुणनिरासोपक्षयाभावादित्यर्थः । तावता कथं भ्रमहेतुत्वमित्यतो हेतुत्रयमाह  भ्रम इत्यादिना ॥ उक्तं हीति ॥

 

१.त्वन्वछ.  २.ऽमन्नयेनाविद्यमानेऽ इतिनास्तिछ.  ३.विषयस्यासछक.  ४. भिन्नं पदं कुंकख.  ५. णेनाहेतुत्वन्वयेनावि  अ.

 

न्यायदीपयुततर्कताण्डवम्             ( प्र.पिरिच्छेदः           पु  २२६.

 

परतः अववादात्न तु प्रामाण्यमिव स्वतः उत्सर्गत इत्यर्थः ॥

१ अप्रामाण्य २ पततस्त्वम्  ॥ १७ ॥

 

विष्णुतत्वनिर्णय इत्यर्थः ॥

अप्रामाण्यस्य परतस्त्वम् ॥ १७ ॥

 

करणगस्य यथार्थज्ञानसाधनत्वरूपप्रामाण्यस्य तु ज्ञानजनकत्वग्राहकमात्रग्राह्यत्वरूपं ज्ञप्तौ स्वतस्त्वम् । अयथार्थज्ञान ३ साधनत्वरूपाप्रामाण्यस्य ४ तु ज्ञानजनकत्वग्राहकमात्राग्राह्यत्व ५ रुपं परतस्त्वम् ।

नन्वस्त्वेवमुक्तदिशा ज्ञानप्रामाण्यस्योत्पत्तिज्ञप्त्योः स्वतस्त्वमथापि स्वतः प्रमाणैराम्नायैरित्युक्तिरयुक्ता । तत्प्रमाण्यस्योत्पत्तौ ६ स्वतस्त्वेपि ज्ञप्तौ पद्धत्युक्तदिशा तदभावादित्यत आह  करणेति ॥ स्वतस्त्वस्य स्पष्टत्वाय यथार्थज्ञानसाधनत्वरूपेति प्रामाण्यं विशेषितम्  ज्ञानेति ॥ ज्ञानजनकत्वग्राहकं च रूपादिज्ञानं करणसाध्यं कार्यत्वाच्छिदादिकार्यवदित्याद्यनुमानं वा चक्षुरादि ज्ञानजनकमित्यादिवाक्यं वा तन्मात्रग्राह्य ७ त्वरूपमित्यर्थः । ज्ञानजननशक्तेरेव प्रमाजननशक्तित्वादिति भावः ॥

"अप्रमाण्यं तथान्यत"इत्यनुव्याख्याने"परतोप्रामाण्यम्"इति तत्वनिर्णये चोक्तेराह  अयथार्थेति ॥ मात्रेत्युक्त्या सूचितमधिकं ग्राहकं व्यनक्ति  दोषादिति ॥

 

१.इत्यप्रछ.  २.स्यपगख.क.  ३.जनकत्वछ.  ४.तुइतिन ख.  ५.त्वंपरछगखक.  ६.स्वतस्त्वेपि ज्ञप्तौऽ इतिनास्तिकुं.  ७.ह्य रू  कुं.

 

करणप्रामाण्यस्य स्वतस्त्वम् )         प्रामाण्यवादः            पु  २२७.

 

दोषादिज्ञानं विना भ्रमजनकत्वस्याज्ञानात् ॥

या तु पद्धतौ"करणप्रामाण्यज्ञप्तिस्तु परत एव । इन्द्रियलिङ्गशब्दानां यथायथमनुमानत्वस्य २ त्वनुमानवेद्यत्वात्"

इत्युक्तिः सा करणग्राहक ३ मात्रग्राह्यत्वरूपं स्वतस्त्वं नेत्यभिप्रेत्य ॥

अत एव सुधायां"करणानां ४ तु ज्ञप्तौ स्वतस्त्वं ५ आस्त्येव"इत्यादिना पद्धत्युक्तम ६ पक्षमुक्त्वा"अथवा ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वम्"इति पक्षान्तरमुक्तम् ॥

 

करणगकतकाचाकामलासिद्ध्यव्याप्तिभ्रमप्रमादादिदोषाणामज्ञाने विसंवादाज्ञाने च भ्रमजनकत्वाज्ञानात् । पूर्वोक्तदिशा ज्ञानजनकशक्तेः सहजत्वेपि भ्रमजननशक्तेः काचादिकरणगतदोषाहित्वेन ज्ञानजननशक्त्य ७ प्रमाजननशक्त्योर्भेदेन ज्ञानजननशक्तिग्राहकमात्रेण भ्रमजननशक्तेर्ग्रहणायोगात् । दोषादिज्ञानानुविधानाच्च भ्रमजननशक्तिग्रहस्येति भावः ॥

स्वतस्त्वोक्तेः प्रमाणपद्धतिविरोधमाशङ्क्य तदभिप्रायमाह  यात्विति ॥ सुधायामिति ॥ जिज्ञासाधिकरणे प्रत्यक्षवच्च प्रामाण्यमित्यत्रेत्यर्थः ॥

 

१.क्षवेमु.  २.तत्तदनुमाकुं.  ३.मात्रपदं न मुच.  ४.ऽतुऽ इति नास्तिकुं.  ५.नेत्यादिना मुच.  ६.क्तपच.  ७.क्तिभ्रमकुं.

 

न्यायदीपयुततर्कताण्डवम्           ( प्र.परिच्छेदः             पु  २२८.

 

उत्पत्तौ स्वतस्त्वं तु करणगतायाः यथार्थज्ञान १ जननशक्तेः करणगता या करहेत्वासासादिता सहजा ज्ञानजननशक्तिस्तद्धत्सहजत्वं व तदभिन्नत्वं वा । अप्रमाजननशक्तिस्तु न सहजा किन्तु दोषाहितेत्यप्रामाण्यं परत इति दिक् ॥

 

"कारणानां च ज्ञानजननशक्त्यैव तद्याथार्थ्यजनकत्वं स्वतस्त्वम्"इति सुधोक्तिं द्वेधा विवृण्वन्नाह  उत्पत्ताविति ॥ करणगतस्य प्रामाण्यस्येत्यनुकर्षः । शक्तेरित्यस्य सहजत्वमित्यादिनान्वयः  करहेत्विति ॥ एतच्च जन्यकरणाभैप्रायं न त्वपौरुषेयवेदाभिप्रायम् । शक्तिर्भेदमुपेत्य तद्वत्सहजत्वमित्युक्तिः दोषेण प्रमाशक्तिप्रतिबन्धेपि ज्ञानशक्तेरप्रतिबन्धनिर्वाहार्था । शक्तेरेकत्वेपि विषयभेदेन प्रतिबन्धाप्रतिबन्धयोरुपपत्तेः ॥

सुधोक्तिस्वारस्यानुरोधेनाह  तदभिन्नत्वं चेति ॥"वाक्यगते हि दोषास्तस्य यथार्थज्ञाननशक्तिं प्रतिबध्य विपरीतज्ञानजननशक्तिमाविर्भावयन्ति"इति तत्वनिर्णयटीकायां वाक्यपदमिन्द्रियादीनामौत्सर्गिकी शक्तिः प्रामाण्यजनने दोषापवादादित्यादिसुधानुरोधादुपलक्षणमुपेत्याह  अप्रमेति ॥ करणगतेत्यनुकर्षः  दोषाहितेति ॥

ननु यदि प्रमाजननशक्तिः ज्ञानजनकत्वग्राहकमात्रग्राह्या तर्हि भ्रमजननशक्तिरपि तथास्तम् ३ दोषादिज्ञानानुविधानात्३ । सा परग्राह्या चेत्प्रमाजननशक्तिरपि गुणदोषाभावज्ञानानुविधानात्तथैव स्यात् । अप्रमाजनकत्वशङ्का ४ दिरूपविरोधिनिरासोपक्षीणं तच्चेत्दोषादिज्ञानानुविधानमपि तथा स्यात् ।

 

१.जनकत्वख.  २.ज्ञानपदमधिकंकुं.  ३.एतावन्नास्तिकुं.  ४.आदिरूपेति

नास्ति  मु.

 

कप्रास्यस्वस्त्वं)               प्रामाण्यवादः                   पु  २२९.

 

तथा यदि भ्रमजननशक्तिर्देषाहिता १ तर्हि प्रमाजननशक्तिरपि गुणाहिता स्यात् । तस्याः सहजत्वे भ्रमजननशक्तिरपि तथा स्यात् । यदि दोषान्वयव्यतिरेकबलात्भ्रमाजननशक्तिर्देषाधीना तर्हि गुणानुविधानात्प्रमाजननशक्तिरपि गुणाधीना स्यात् । गुणानां विरोधिदोषनिरासोपक्षयेणान्यथासिद्धौ दोषाणामपि विरोधिगुणनिरासेनान्यथासि   २ द्धेः साम्यात् । गुणाभावसहकुतस्य करणस्य भ्रमजनकत्वे ३ न करणाप्रामाण्यस्य परतस्त्वे दोषाभावसहकुतस्य प्रमाजनकत्वात्प्रमाजनकत्वं परत एवेति स्यात् । दोषाभावस्य प्रयोजकत्वमेव न प्रमाजननशक्त्याधायकत्वं तर्हि गुणाभावस्याप्येवमिति सममिति चेन्न ।

ज्ञानप्रामाण्याप्रमाण्यस्वतस्त्वपरतस्त्वयोरुक्तसाधककलापस्याशेषस्यापि करणप्रमाण्याप्रामाण्यस्वतस्त्वपररतस्त्वयोरनुसन्धेयत्वात् । अभ्यासदशास्थले गुणाद्यनुसन्धानाभावेपि प्रमाजनकत्वज्ञानानुभवेन व्यभिचारात् । पीतः शङ्खैत्यादिभ्रमे विशेषदर्शनादिरूपे गुणे सत्यपि पित्तादिकरणदोषेण भ्रमोत्पादनेन गुणनिरासोपक्षीणत्वायोगादित्यादेरुक्तत्वादिति भावेनाह  दिगिति॥

तथाह्यनुमानानि । प्रमाजननशक्तिः ज्ञानजनकशक्तिग्राहकमात्रग्राह्या तदन्याग्राह्यत्वे सति ग्राह्यत्वात्संमतवत् । यथार्थज्ञानजनकत्वं ज्ञानजनकत्वहेत्वधीनं न । ज्ञानजनकत्वाधिकरणमात्रवृत्तित्वात्ज्ञानजनकत्ववदित्यादिरूपेण ध्येयानि । भ्रमजनकेपि धर्म्यंशे प्रमाजनकत्वाभावान्नासिद्धिः । भ्रमजनकत्वे च यावज्ज्ञानजनकत्वाधिकरणे वृत्यभावान्न व्यभिचारः  अप्रमाण्यमितीति ॥ करणगताप्रामाण्यमित्यर्थः ॥

 

१.तर्हीति नास्तिमु.  २.द्धिः मु.  ३.सप्तम्यन्तं मु.

 

न्यायदीपयुततर्कताण्डवम्              ( प्र.परिच्छेदः          पु  २३०.

 

एतदप्युक्तम् ।"परतोऽप्रामाण्य"मिति ॥ तस्मात्प्रामाण्यस्य स्वतस्त्वादपौरुषेयोपि वेदः प्रमाणमेव ॥

करणप्रामाण्य १ स्य स्वतस्त्वम् ॥ १८ ॥

 

प्रामाण्यवादः समाप्तः.

 

ननु कथं २ वेदास्यापौरुषेयत्वम् । तत्र प्रमाणाभावात् । वाक्यत्वाद्यनुमानेन

"छन्दांसि जज्ञिरे"इत्यादिश्रुत्या"प्रतिमन्वन्तरं चैषां श्रुतिरन्या विधीयते"।

 

एवं न विलक्षणत्वा ४ दस्येति नयसिद्धं स्वतः प्रमाणैरितिश्लोकोक्तं प्रामाण्यस्वतस्त्वं समर्थ्य अधुना विलक्षणा ४५ दिति हेतोरपौरुषेयत्वरूपवैलक्षण्यवत्वादित्यर्थान्तरोपगमेन ब्रह्मसूत्राभिमतमादिवर्जितैरिति श्लोकोक्तमपौरुषेयत्वं साधयितुं मणिकदाद्युक्तमाशङ्कते  नन्विति ॥ वाक्यत्वादीत्यापदार्थव्यक्तिरग्रे परोक्तानुमानखण्डनप्रस्तावे ज्ञेया । मण्याद्युदाहृतश्रुतिस्मृती चाह  छन्दांसीति ॥

१.ण्यस्यछ. २.मस्याछ.  ३.त्वगुकुं.  ४.अयं ग्रन्थः नास्तिअ.  ५.णत्वादिमु.

 

वेदापौरुषेयत्वे अनुमानानि)              वेदापौरुषेयत्ववादः      पु  २३१.

 

इत्यादिस्मृत्या च पौरुषेयत्वसिद्धेश्चे १ तिचेदुच्यते । ज्योतिष्टोमस्य स्वर्गसाधनत्वं वेदतात्पर्यविषयो वा पौरुषेयशब्देतरप्रमा २ णकः

 

"न चापौरुषेयं वाक्यमेव नास्तीति वाच्यम् । तदभावे सर्वसमयाभिमतधर्माद्यसिद्धेः"इति विष्णुतत्वनिर्णयवाक्यसूचितानां"धर्माधर्मस्वर्गनरकादिकं प्रमाणोपेतं वस्तुत्वा"दित्यादिना जिज्ञासाधिकरणसुधोक्तसामान्यपरिशेषनिष्कर्षभूतानामुक्त्या प्रमाणाभावादिति हेतुं तावन्निराह  ज्योतिष्टोमस्येति ॥

विशिष्यैवं पक्षनिर्देशे तद्बोधकैवाक्यस्यापौरुषेयत्वासिद्धिर्न तु सर्वस्यापि वेदस्येत्यतः सामान्यपक्षनिर्देशमाह  वेदेति ॥ यद्वा"यः शब्दो वक्त्रा यदिच्छया प्रयुक्तः स तत्पर इति तदिच्छया वक्तृप्रयुक्तशब्दगोचरत्वमेव शब्दतात्पर्यविषयत्वमितिवेदततात्पर्यपर्यालोचनया तस्य पौरुषेयत्वम्"इति मणिकृदुक्तिखण्डनाय वेदतात्पर्यविषय इति सामान्य ३ पक्षनिर्देशः । यद्वा अस्मिन्पक्षे सप्रमाणकत्वादिति हेतुर्वस्तुत्वादिहेतुना प्रसाध्याङ्गक इति भावेनाह  वेदेति ॥

आपातप्रतिपाद्ये बाधवारणाय  तात्पर्येति ॥ लौकिकशब्दतात्पर्यविषये बाधवारणाय वेदेति ॥

ननु कोयं वेदो नाम (१) यदि वेदपदार्थो वेदस्तर्हि इतिहासपुराणतात्पर्यविषये बाधः ।"इतिहाहपुराणः पञ्चमो वेदानां वेदः"इति तयोरपि वेदपदार्थत्वात् । (२) नापि वेदशब्दमुख्यार्थो वेदः । मुख्यत्वप्रयोजकप्रवृत्तिनिमित्तस्येतिहासादिव्यावृत्तिस्यानिरूपणात् । ( ३) नापि शाखासमुदायो वेदः ।

 

१.रितिकुंग.  २.पकःख.  ३.न्येनमु.

 

न्यादीपयुततर्कताण्डवम्              ( प्र.परिच्छेदः           पु  २३२.

 

पौरुषेयशब्दाप्रमाणकत्वे सति सप्रमाणकत्वात् । यद्यदप्रमाणकत्वे सति सप्रमाणकं तत्तदितरप्रमाणकम् ।

 

शाखायाः १ वेदैकदेशत्वेनान्योन्यश्रयात् । (४) नापि सन्दिग्धकर्तृकं वाक्यं वेदः । वादिप्रतिवादिनोर्निश्चयात् । मध्यस्थसन्देहेन पक्षातावच्छेदककरणे अन्योन्याश्रयात् । वादिप्रतिवाद्यनुमानान्तरभावित्वान्मध्यस्थसन्देहस्य । (५) नापि प्रमाणशब्दो वेद इति युक्तम् । भारतादौ गतत्वात् । (६) नापि यथार्थवाक्यर्थज्ञानाजन्यप्रमाणशब्दो वेद इति । परमतेऽप्रसिद्धेः । प्रमाणशब्दमात्रस्य तादृशेश्वरज्ञानजन्यत्वात् । (७) न च जन्ययथार्थवाक्यार्थज्ञानजन्यप्रमाणशब्दो वेद इति युक्तम् । संवादिशुकबालादिवाक्येपि गतत्वेन बाधापत्तेः । सिद्धान्तिमते

नित्यज्ञानव्यासप्रणीतभारतादावपि गतत्वाच्चेति चेत् ॥

उच्यते ।"(८) शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यथार्थवाक्यार्थज्ञानजन्यप्रमाणशब्दत्वं वेदत्व"मिति मण्युक्तरीत्या वा (१०)"क्रमा २ विशिष्टावर्णा वेदः"इति सुधोक्तदिशा वा (११) वक्ष्यमाणदिशा साक्षाद्धर्मादिबोधकशब्दो वेद इति वा (१२) प्रमाकरणामूलकत्वे सति प्रमाणशब्दो वेद इति वा ( १३) पूर्वतन्त्रे विधिमन्त्राधिकरणे मन्त्रपदार्थोक्तरीत्या वेद इत्यभियुक्तप्रयोगविषयो वा वेद इति ३ तन्निरुक्त्युपपत्तेः ।

आद्ये सत्यन्तमात्रस्य वेदसमानार्थस्मृतौ ग ४ तत्वाद्विशेष्यम् । वोदार्थस्य शब्दतदुपजीव्यनुमानविषयत्वादसम्भववारणाय शब्दतदुपजीविप्रमाणातिरिक्तेत्युक्तिरिति ॥

 

१.यांकुं.  २.विशेषविशिमु.  ३.ऽइतिऽ इत्यन्तरंऽवाऽ इति वर्ततेअ.   ४.मकुं.

 

वेदापौत्वेननि)                  वेदापौरुषेयत्ववादः          पु  २३३.

 

वक्ष्यमाणरीत्या पक्षधर्मताबलादपौरुषेयशब्दसिद्धिः ॥

अपौरुषेयशब्दप्रमाणकत्वं वा साध्यम् । तत्र चेन्द्रियलिङ्गपौरुषेयशब्दाप्रमाणकत्वे सति सप्रमाणकत्वं हेतुः ।

 

तात्पर्यं च तत्प्रमितिशेषत्वमित्यग्रे व्यक्तम् । तद्विष १ यो ज्योतिष्टोमादिरित्यर्थः । साध्ये बाधवारणाय पौरुषेयेत्युक्तिः । स्वतन्त्रपुरुषपूर्वरकशब्देत्यर्थः । पौरुषेयेतरेत्येवोक्तौ यत्किञ्चित्प्रत्यक्षादिरूपपौरुषेयेतरप्रमाणकत्वेनाप्युपपत्तेः । पौरुषेयशब्द २ सिध्यार्थान्तरवारणाय शब्दपदम् । पौरुषेयशब्दार्थे व्यभिचारनिरासाय ३ हेतौ सत्यन्तम् । अप्रयोजकतानिरासाय विशेष्यम्  यथासंमतमिति ॥ श्रोत्राद्यप्रमाणकत्वे सति सप्रमाणकं रूपं श्रोत्रादीतरचक्षुःप्रमाणकमित्यर्थः ॥

ननु प्रत्यक्षादिप्रमाणकत्वेनापि साध्योपपत्यार्थान्तरमित्यत आह  वक्ष्यमाणेति ॥ न चात्र हेतुत्रयेपि विशेषणासिद्धिरित्यादौ वक्ष्यमाणदिशा प्रत्यक्षानुमानावेद्ये पक्षे उक्तरूपसप्रमाणकक्त्वाख्यहेतोः पक्षनिष्ठताया अपौरुषेयप्रमाणकत्वेन विना

पर्यवसानाभावादिति भावः ॥

ननु पक्षधर्मताबलादपि साध्यं सिध्यत्४ व्यापकतावच्छेदकधर्मप्रकारेणैव सिध्यति नत्वन्यथा । अतिप्रसङ्गादसामर्थ्याच्च

। अन्यथा प्रामाण्याभावसाध्यकमण्युक्तव्यतिरेकिखण्डनायोगादिति वदन्तं प्रत्याह  अपौरुषेयेति ॥

नन्वेवं प्रागुक्तहेतोरिन्द्रियलिङ्गविषये व्यभिचार इत्यत आह  तत्र चेति ॥ उक्तरूपसाध्य इत्यर्थः । पूर्वत्रात्र च विशेषणासिद्धिनिरासाय पौरुषेयेत्युक्तिः ।

 

१.यात्वज्जयोकुं.  २.ब्दासिमु.  ३.हेताविति नास्तिमु.  ४.पक्षतावमु.

 

न्यायदीपयुततर्कताण्डवम्           ( प्र.परिच्छेदः            पु  २३४.

 

पूर्ववत्सामान्यव्याप्तिः । अप्रसिद्धविशेषणता तु व्याप्तौ सत्यां न दोषः । त्वन्मते अभावसाध्यके १ व्यभिचारेकिणि हेत्वभावेन साध्याभाव २ रूपस्य भाव ३ स्य व्याप्तिग्रहरूपानुमितिकरणस्येवेहापि साध्यप्रसिद्धिं विनैव ४ सामान्यव्याप्तिग्रहरूस्यानुमितिकरणस्य निष्पन्नत्वात् ॥

न च तन्निष्पत्तावपि विशेषणज्ञानरूपसहकारिविरहादनुमितिरूपविशिष्टज्ञानानुत्पत्तिरिति वाच्यम् । मन्मते तस्य विशिष्टज्ञानाहेतुत्वात् ।

 

"आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम्"इत्यादिप्रमाणलक्षणं हृदि कृत्वाह  नदोष इति ॥

सा किं साध्यज्ञाने तन्निरूपितव्याप्तिग्रहायोगाद्व्याप्तिज्ञानरूपकरणविघटकत्वेन दोष उत विशिष्टज्ञाने विशेषणज्ञानस्य कारणत्वेनानुमितिरूपविशिष्टज्ञानात्पादकत्वेन सति वह्नित्वाभाववद्विशेष्यको न समर्थप्रवृत्तिजनकत्वादिति व्यतिरेकेणीत्यर्थः । उक्तमतत्पूर्वं परतचस्त्वे प्रामाण्यानुमित्यसम्भववादे ॥

द्वितीयमाशङ्क्य निराह   न चेति ॥ तस्येति ॥ विशेषणज्ञानस्येत्यर्थः । उपपादयिष्यते चैतन्निर्विकल्पकभङ्ग इति भावः ।

परमतेप्यनुमित्युत्पादप्रकारमाह  त्वन्मतेपीति ॥ विशेषणज्ञानहेतुकत्वमतेपीत्यर्थः अभावसाध्यकेति ॥ प्रागुक्तव्यतिरेकिणीत्यर्थः॥

 

१.केवलव्यमुच.  २.वस्यमुच.  ३.रूपमुच.  ४.सामान्यपदं न ग.

 

वेदापौत्वेनुनि)                      वेदापौरुषेत्ववादः        पु  २३५.

 

त्वन्मतेप्यबावसाध्यक १ व्यतिरेकिणीवात्राप्यादौ साध्यविशे २ ष्यिकाया एवानुमितेः सम्भवात् ॥

यद्वा वेदत्वमपौरुषेयवृत्ति । तदितरावृत्तित्वे सति वृत्तिमत्वात् । यदेवं तदेवम् । यथा संमतम् ॥

 

मणिकृता ज्ञप्तिप्रामाण्यवादे"विशेषणज्ञानं विना कथं प्रामाण्यविशिष्टानुमितिरिति चेत् । प्रथमं न कथं चिज्ज्ञाने प्रामाण्यमित्यनुमित्यनन्तरं तेनैव तत्रेव ३ प्रमाण्यविशिष्टानुमितिः । अभावविशेष्यकप्रतीत्यनन्तरमभाववद्भूतलमिति ज्ञानवत्"इत्युक्तेरिति भावः । अभावसिद्धिदोषहीनं प्रयोगान्तरमाह  यद्वा वेदत्वमिति ॥ पक्षनिरुक्तिः पूर्ववत्साक्षाद्धर्मबौधकशब्दत्वादिरूपेण ध्येया । साध्यस्य गगनादिवृत्तित्वे बाधादपौरुषेशब्दवृत्तत्वेनैव पर्यवसानामिति भावः । हेतौ तदत्यपौरुषेयपरामर्शः । सत्यन्तमात्रस्यावृत्तिमद्गगनादौ व्यभिचारनिरासाय
विशेष्यम् । घटत्वादौ तन्निरासाय सत्यन्तम् ॥ न च सिद्धान्ते

"एकत्राप्यनवस्थस्य सर्वत्रावस्थितिः कथम्"

इत्यदिना वैशेषिकनयानुव्याख्याने गगनादेर्वृत्तिमत्वोक्तेर्विशेष्यं व्यर्थमिति शङ्क्यम् । असति शशश्रङ्गादौ स्वमते व्यभिचारवारकत्वात् ॥

वृत्तिमत्वं च समवायादिवृत्त्येपि ज्ञेयम् । तेन जगदाधारताप्रयोजकसम्बन्धेनेदानीं वेदत्वमिदानीं  घटत्वमित्यादिप्रतीत्या

कालेपि वेदत्वादेर्वृत्तिमत्वेनार्थान्तरत्वं हेतौ विशेष्यवैयर्थ्यमिति च शङ्कानवकाशः ॥

यदेवमिति ॥ यद्यदितरावृत्तित्वे सति वृत्तिमत्तत्तद्वृत्ति ।

 

१.केकेवलकुंच.  २.ष्यमु.  ३. एवेति नास्तिकुं.

 

न्यायदीपयुततर्कताण्च्वम्               ( प्र.परिच्छेदः        पु  २३६.

 

न यात्र हेतुत्रयेपि विशेषणासिद्धिः । वेदार्थे १ धर्मा २ धर्मादावस्मदादिप्रत्यक्षस्यावृत्तेः । ईश्वरयोगिप्रत्यक्षयोश्च धर्मादिवद्धेदं विना असिद्धेः । धर्मादिकं कस्यचित्प्र्रत्यक्षं वस्तुत्वाद्घटवदित्यादावद्यपि धर्माद्यसिद्ध्यऽन्येन्याश्रयात् ।

 

यथा घटेतरावृत्तित्वे सति वृत्तिमद्घटत्वं घटवृत्तीत्यर्थः । आद्ये हेतौ विशेषणासिद्धिं न चेत्यादिना ३ ग्रन्थेनोद्धारिष्यन् द्वितीयहेतावुपात्तस्येन्द्रियलिङ्गाप्रमाणकत्वरूपाधिकविशे ४ षण्स्यासिद्धिं सुधोक्तविशेषणेन तावदुद्धारन्निन्द्रियपेदनाभिमतं प्रत्यक्षं किमस्मदादिप्रत्यक्षमुतेश्वरयोगिप्रत्यक्षे ५ आद्ये आह  वेदार्थ इति   तस्यैव विवरणं  धर्मेत्यादि ॥ ज्योतिष्टोमादिर्धर्मः । अन्त्य आह  ईश्वरेति ॥ असिद्धेरिति ॥ ईश्वरप्रत्यक्षेण योगिप्रत्यक्षेण वा धर्मादिकं सिद्धमित्यस्यास्मदाद्यप्रत्यक्षत्वेन वेदेनैव तस्यावगन्तव्यत्वात् । तथा च ७
वेदेनेश्वरादिप्रत्यक्षं विज्ञाय तेन धर्मादिस्वरूपावगत्यपेक्षया"चोदनालक्षणोर्थो धर्मः"इति जैमिन्युक्तदिशा वेदेनैव तन्निर्णयोस्तु किं बकबन्धप्रयासेनेति प्रत्यक्षाविषयत्वं तस्येति भावः ॥

अस्तु तर्ह्यनुमानेन धर्मादिगोचरेश्वरादिप्रत्यक्षसिद्धिरित्यत आह  धर्मादिकमिति ॥ प्रमेयत्वादि ८ हेतुरादि पदार्थः  अद्यपीति ॥ वेदेन विना धर्मादिसिद्धिर्नेति वदन्तं प्रति धर्मादिसाधकतयोपन्यस्तेश्वरादिप्रत्यक्षसाधकानुमानोपन्यासवेलायामपि । न केवलं पूर्वमित्यर्थः  अन्योन्येति ॥

 

र्१.थधछग.  २.अधर्मपदं न छक.  ३.ग्रे उद्धअ.  ४.ष्यस्यामु.  ५.इति विकल्पो मनसि निधायऽ इत्यधिकंकुं.  ६.आदपदं नास्तिमु.  ७.वेदेनेति नास्ति मु.  ८.हेतुपदं नास्तिमु.

 

वेदापौत्वेनुनि)             वेदापौरुषेयत्ववादः              पु  २३७.

 

ताभ्यामस्मदादीन्प्रति धर्माद्यसिद्धेश्च । इष्टापूर्तयोः प्रेक्षावत्प्रवृत्यन्यथानुपपत्या फलवत्मात्रानुमानेप्यस्य यागहोमादेरिदं फलमित्यस्यातिसूक्ष्मस्य विशेषस्यानुमानायोग्यत्वात् ॥

फलविशेषोद्देशेन ज्योतिष्टोमादिकर्मविशेषे बहूनां प्रेक्षावतां प्रवृत्तिस्तु चैत्यवन्दनादाविवोपपन्ना  तदुक्तं भगवत्पादैः ॥

 

धर्मादिसिद्धौ तत्पक्षीकारेणेश्वरादिप्रत्यक्षसाधकानुमानसिद्धिः अनुमानसिद्धौ च तत्सिद्धप्रत्यक्षेण धर्मादिसिद्धिरित्यन्योन्याश्रयादित्यर्थः ॥

अस्तु वा वेदानुमानाभ्यां धर्मादिगोचरेश्वरप्रत्यक्षाभ्यां तथाप्यस्मदादेरनुष्ठानोपयोगिधर्मादिनिश्चयो नेश्वरयोगिप्रत्यक्षाभ्यां सिध्यतीति दोषान्तरं चाह  ताभ्यामिति ॥ तथाचास्मदादिज्ञानोपायो वेद एवैष्टव्य इति किमीश्वरादिप्रत्यक्षोपन्यासेनेति भावः ॥

एवमिन्द्रियाप्रमाणकत्वरूपविशेषणं समर्थ्य लिङ्गाप्रमाणकत्वरूपविशेषणासिद्धिमुद्धरति  इष्टेति ॥ दृष्टं यागः पूर्तं तटाकादि"अन्येभ्योपीदृश्यते"इति दिर्घविधानादिष्टापूर्तयोरिति साधु  इत्य १ स्यापीति ॥ तज्ज्ञानस्यैवानुष्ठानोपयोगित्वादिति भावः ॥

प्रवृत्तिविशेषणविशेषसिद्धिरस्त्वित्यत आह  फलविशेषेति ॥ स्वर्गादिरूपेत्यर्थः  चैत्येति ॥ २ यथा वेदबाह्यानामनेकेषामधर्मे च फलाहेतौ धर्मत्वादिभ्रान्त्या प्रवृत्तिस्तथा ३ न्धपरंपरयोपपन्ना । न तु धर्मादिस्वरूपं

निर्णाययतीत्यर्थः  तदुक्तमिति ॥ अपौरुषेयवाक्यत्वादन्येन प्रत्यक्षेणानुमानेन वा धर्मादिसिद्धिर्नेत्येतत्तत्वनिर्णये उक्तमित्यर्थः ॥ तदभावे अपौरुषेयत्ववाक्याभाव इत्यर्थः ॥

 

१. स्येति कुं.  २.तथाचमु.  ३.तत्परं मु.

 

न्यायदीपयुततर्कताण्डवम्             (प्र.परिच्छेदः             पु  २३८.

 

"तदभावे सर्वसमयाभिमतधर्माद्यसिद्धेः"। इति ॥

न च पौरुषेयवाक्येन तत्सिद्धिः । पुरुष्वज्ञान १ मिथ्याज्ञान विप्रलम्भप्रमादकरणापाटवा २ दीनां सम्भावितत्वेनानाश्वासात् ॥

तन्निवृत्यर्थमीश्वरस्य नित्यसार्वज्ञ्याद्यङ्गीकारे च तदर्थं धर्मबोधके शब्द एवापौरुषेयत्वमात्रं कल्प्यताम् ।

 

एवमिन्द्रियलिङ्गप्रमाणकत्वरूपविशेषणसमर्थनपरग्रन्थेनैवाद्यसाध्ये अपौरुषेयशब्दसिद्धिर्हेतोः पक्षधर्मताबलादित्येतदप्युपपादितं ज्ञेयम् ॥

यदप्याद्याद्वितीयहेत्वोः पौरुषेयशब्दाप्रमाणकत्वे सतीति विशेषणं यच्च तृतीयहेतावपौरुषेयेतरावृत्तित्वे सतीति विशेषणं तदसिद्धं"न च पौरुषेयवाक्येन तत्सिद्धिः । अज्ञानविप्रलम्भयोः प्राप्ते"रित्यादितत्वनिर्णयवाक्यार्थव्यक्तीकरणेनोद्धरति  नचेत्यादिना ॥ पौरुषेयेति । ईश्वरकृतेत्यर्थः ॥ ज्ञात्वापि परप्रतारणं विप्रलम्भः । घटोस्तीतिवाच्ये पटोस्तीत्युक्तिः प्रमादः  तन्निवृत्यर्थमिति ॥ पुरुषेषु सम्भाविताज्ञानादिदोषनिमित्तकानाश्वासाभावसिद्ध्यर्थमित्यर्थः  नित्येति ॥ दोष ३ जन्यत्वेन भ्रमत्वनिवृत्तित्यर्थं नित्येति सार्वज्ञ्यविशेषणम् । शब्द
एवेत्यत्र सप्तम्यन्तं शब्दपदम् । को विशेष इत्यत उक्तं  मात्रमिति ॥ तत्र तु सार्वज्ञादिकं बह्वित्यग्रे व्यक्तम् ॥

 

१.मिथ्याज्ञानेति कुण्डवलितं कुं.  २.आदिपदं न मुच.  ३.षाजमु.

 

वेदापौरुषेत्वेनुनि)               वेदापौरुषेयत्ववादः           पु  २३९.

 

अर्थापत्तेरुत्सर्गतः साक्षादुपपादकविषयत्वात् । न तु परम्परयोपपादकं वक्तरि सार्वज्ञ्यादिकम् । अन्यथा वेदस्यासर्वज्ञ्यप्रणीतत्वमङ्गीकृत्याश्वासार्थं तस्य सर्वज्ञप्रणीतशब्दान्तरमूलत्वं कल्प्यं स्यात् ॥

तदुक्तं भगवत्पादैः"अपौरुषेयवाक्याङ्गीकारे न किञ्चित्कल्प्यम्"इति ।

 

विशेषान्तरं चाह  अर्थापत्तेरिति ॥ धर्मादिनिश्चयरूपस्योपपादकप्रमाणेन विनानुपपद्यमानस्यार्थापत्तिशब्दितस्य

साक्षादुपपादकं हि धर्मादिप्रमापकशब्दे

अपौरुषेत्वम् । नित्यसार्वज्ञ्यादिकन्तु तत्र धर्मादिनिश्चयकत्वोपपादकोपपादकम् ।  अज्ञानादिदोषहीनपुरुषकृतत्वं तदुपपादकम् । तदुपपादकं च सार्वज्ञ्यमिति परम्परयोपपादकं बहु च तत्कल्प्यम् । तथाचाल्पत्वात्साक्षादुपपादकत्वात्तदेव कल्प्यमिति भावः ।

ननु लोके क्वापि शब्देऽपौरुषेत्वादृष्टेः परम्परा युक्तेवेत्यत आह  अन्यथेति ॥ एवं साक्षादुपपादके सम्भवति शब्दत्वपोरुषेयत्वयोः सहदर्शनमात्रेण परम्पराश्रयण इत्यर्थः  अङ्गीकृत्येति ॥ शब्दमात्रेऽसर्वज्ञप्रणीतत्वस्य लोके दर्शनादिति भावः  तदुक्तमिति ॥ अपौरुषेयत्वमात्रकल्पनं लघ्वित्येतत्तत्वनिर्णये उक्तमित्यर्थः ॥

यद्वाभ्युपेत्योक्तमपौरुषेयत्वमात्रं कल्प्यतामिति तदपि न कल्प्यमेवेत्येतत्संमत्युक्तिव्याजेनाह  तदुक्तमिति ॥ न किञ्चिदिति । अपौरुषेयत्वमपि वेदकर्तुरप्रसिद्धेरेव सिद्धमिति भावः ॥

वेदकर्तुपुरुषगतदोषहीनत्वोपपादकवक्तृसार्वज्ञ्यप्रतिपादकतया परम्परया धर्मादिबोधकापौरुषेयवाक्याङ्गीकार इति

भ्रान्तिनिरासाय प्रकृतोपयोगितयार्थमाह  साक्षादिति ॥ साक्षाद्धर्मादिबोधक इत्यर्थः ॥

 

न्यायदीपयुततर्कताण्डवम्             ( प्र.परिच्छेदः          पु  २४०.

 

साक्षाद्बोधके वाक्येऽपौरुषेयत्वमात्राङ्गीकार इत्यर्थः ॥

किञ्चाप्रामाणिकानां सार्वज्ञ्यविप्रलम्भकत्वाप्रमादकरणपटवोपदेष्टृत्वादीनां वेदे तत्कृतत्वस्य च कल्पनीयत्वे कल्पनागौरवं स्यात् ॥

न च सार्वज्ञ्ये १ नैवाविप्रलम्भादिसिद्धिः ।  सर्वज्ञेश्वरावतारेष्वपि विप्रलम्भादिदर्शनात् ।

 

एवं स्वपक्षे लाघवोपपादनेन पोरुषेयशब्दाप्रमाणकत्वादिरूपमपौरुषेयेतरावृत्तित्वरूपं विशेषणं च समर्थ्य परपक्षे वक्ष्यमाणानुव्याख्यानोक्तगौरवोपपादनेन च समर्थयते  किञ्चेति ॥ यद्वा न किञ्चित्कल्प्यमित्ययुक्तमपौरुषेयत्वस्य कल्प्यत्वादित्यतोस्तु तावदेतावत्तथापि न तवेन बह्विति भावेनाह  किञ्चेति ॥

ननु सार्वज्ञ्यादिकं नाप्रामाणिकं कर्यत्वाद्यनुमानेन सिद्धेः । सार्वज्ञ्येनैव च

सर्वदोषहीनता सिध्यति । तथाहि । धर्मादिसाक्षात्कारवतो न रागादिदोषाः सम्भवन्ति ।"अविद्याक्षेत्रत्वमुत्तरेषाम्"इति पतञ्जल्युक्त्या तेषामज्ञानमूलत्वात् । सर्वज्ञेऽज्ञानायोगात् । रागादिरहितस्य च तत्कार्यविप्रलम्भायोगात् । एवंभातमहानुभावस्य करणापाटवादेरनाशङ्क्यत्वात् । ज्ञानी सन्नज्ञलोकाय कुतो नोपदिशेत् । प्रसिद्धवेदे तदुपदेशकल्पनस्य लघुत्वाच्चेत्याशङ्क्य प्रत्याह  न चेत्यादिना निरसिष्यत इत्यन्तेन ॥ आदिपदेन अप्रमादादिकमुपदेष्टृत्वं वेदे तत्कृतत्वं च गृह्यते  शरीरेपीति ॥

 

१.ज्ञ्यादिच.  २ऽआदिकऽ इति नास्ति अ.

 

वेदापौरुषेत्वेनुनि)                   वेदापौरुषेयत्ववादः        पु  २४१.

 

सर्वज्ञस्य शरीरेपि शरीरत्वकृतकरणापाटवादेरवर्जनीयत्वात् । ज्ञानिनामप्युपदेशवैमुख्यदर्शनात् । वेदे तत्कृतत्वप्रसिद्ध्यभावेन तस्यापि कल्प्यत्वात् ॥

कार्यत्वाद्यनुमानेनेश्वर १ स्य सार्वज्ञ्यसिद्धिस्तु निरसिष्यते ॥

न च वेदादेव तस्य सार्वज्ञ्यादिसिद्धिः । वेदप्रामाण्यस्येश्वरसार्वज्ञ्यादिसिद्ध्यधीनत्वेनान्योन्याश्रयात् । अन्यथा बुद्धाद्यागमात्तस्यापि सार्वज्ञ्यादिकं सिद्ध्येत् । तदुक्तं भगवत्पादैः ॥

"अविप्रलम्भस्त्वज्ज्ञानं तत्कृतत्वादयोपि च । कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥ इति ॥

तस्मान्न विशेषणा २ सिद्धिः ॥

 

वेदे तत्कृतत्वं च गृह्यते  शरीरेपीति ॥ त्वन्मते सर्वज्ञस्येश्वरस्य नास्ति शरीरमुपदेशौपयिकतया शरीरेऽङ्गीकृतेपीत्यर्थः ।ज्ञानिनामपीति ॥ सिद्धानामित्यर्थः । ३ व्यक्तमेतत्सर्वं तत्वनिर्णयटीकायाम्  अन्योन्येति ॥ सिद्धे सार्वज्ञ्ये तत्प्रणीतत्वेन वेदप्रामाण्यसिद्धिः तत्सिद्धो च तेन सार्वज्ञ्यसिद्धरित्यर्थः॥

तदुक्तमिति ॥ जिज्ञासाधिकरणानुव्याख्यान इत्यर्थः ३ । तज्ज्ञानं धर्मादिप्रमितिः । तत्कृतत्वं तेन पुरुषेण कृतत्वम् । आदिपदात्करणपाटवादिग्रहः । ज्ञापकं

निश्चायकं धर्मादेरित्यर्थः । चो यत इत्यर्थे । ४ तत्तस्मादित्यर्थः ।

 

१.रसामुच.   २.णसिकुं.  ३.अयं ग्रन्थः नास्ति अ.  ४.इदं नास्तिअ.

 

न्यायदीपयुततर्कताण्डवम्          (प्र.परिच्छेदः               पु  २४२.

 

यद्वा ईश्वरज्ञानं न प्रमेति मते वेदः कालभेदेनानियतानुपूर्वीको न दोषामूलकत्वे सति प्रमामूलकत्वरहितत्वात्गगनवत् । प्रमेति मते दोषामूलकत्वे सति प्रमाकरणामूलकत्वं हेतुः ॥

 

नियतैकप्रकारत्वमपौरुषेयत्वमिति सुधोक्तिमनुरुध्याह  यद्वेति ॥ हेतोरसिद्धिनिरासायोक्तम्  न प्रमेति ॥ मत इति ॥ गुणजन्यस्यैव प्रमात्वेनेश्वरज्ञानस्य तदजन्यत्वान्न प्रमेति मत इत्यर्थः । सिद्धसाधनतानिरासाय साध्ये कालभेदेनेत्युक्तिः । पूर्वोत्तरकल्पभेदेनेत्यर्थः । नियतानुपूर्वीक इत्युक्तावेकप्रकारानुपूर्वीकत्वस्य साध्यत्वप्राप्तौ दृष्टान्ते साध्यवैकल्येन परस्याप्रसिद्धेः परोक्तसाध्यनिरासलाभाय च नञ्द्वयम् ॥

"प्रत्यक्षादिप्रमाणं वा विप्रलम्भादिकं वास्य मूलं नोपलभ्यत इति प्रसिद्धिविषयत्वं वेदत्वम्"इति तत्वनिर्णयटीकायां प्रमाणपदं प्रमित्यर्थकमुपेत्य तदर्थमेव निष्कृष्य हेतुमाह  दोषेति ॥ विप्रलम्भादिदोषेत्यर्थः । भ्रान्तिमूलकवाक्ये प्रमितिमूलकपुंवाक्ये च व्यभिचारवारणाय क्रमेण विशेषणविशेष्ययोरुक्तिः  प्रमेतीति ॥ गुणाजन्यत्वेपि दोषाजन्यज्ञानत्वात्तद्वति तत्प्रकारकत्वाच्च । ज्ञानत्वस्य प्रमात्वभ्रमत्वान्यतरव्याप्यतया भ्रमत्वहीनस्य प्रमात्वाभावे ज्ञानत्वभावप्रसङ्गाच्च प्रमेति मत इत्यर्थः ॥

इदानीं प्रमाणपदं प्रमितिकरणार्थमुपेत्याह प्रमाकरणेति ॥ परमते वेदस्येश्वरज्ञानमूलकत्वेपि तस्याजन्यतया करणाभावत्स्वयमकरणत्वाच्च नासिद्धिरिति भावः ॥

 

वेदापौत्वेनुनि)                   वेदापौरुषेयत्ववादः         पु  २४३.

 

यद्यप्यानुपूर्व्यगर्भितस्वरूपे गगने शश्वदेकप्रकारानुपूर्विकत्व १ मपौरुषेयत्वं नास्ति । तथाप्यनियतानुपूर्वीराहित्य २ रूपं तदस्त्येव ॥

यद्यपीदमनित्याद्घटादेर्न व्यावृत्तम् । तथापि पौरुषेवाक्यावव्द्यावृत्तत्वात्यद्बुद्धिपूर्वकाबु ३ द्धिपूर्वकवाक्यसाधारणं पौरुषेयत्वं तदभावरूपत्वाच्च न तव्द्यितिरेकसाधनेर्ऽथान्तरम् ॥

 

यद्यप्येतन्मतेपि पूर्वोक्तदिशा भ्रमसाधारणोपादानादिगोचरज्ञानत्वेनैवेश्वरज्ञानस्य सर्वत्र हेतुतया ४ प्रमात्वेनाहेतुत्वात्प्राचीनहेतूक्तावपि नासिद्धिः । तथाप्यभ्युपेत्यवादेन वा प्रमात्वेन प्रमामूलकत्वविविक्षायाः प्रागनुक्तेर्वा हेत्वन्तरोक्तिः ॥

पर्यवसितसाध्ये साध्यवैकल्यामाशङ्क्य निराह  यद्यपीति ॥ ननूक्तरूपहेतुद्वयस्य घटादावपि सतस्तत्रानित्यत्वेने ५ व पक्षेप्यनित्यत्वेनैव ६ पर्यवसानसम्भवान्न शश्वदेकप्रमकारानुपूर्वीकत्वरूपसाध्यसिद्धिः स्यात् । विशेष्याभावमात्रेण विशिष्टाभावोपपत्तेरिति भावेनाशङ्क्य निराह  यद्यपीति ॥ पौरुषेयेति ॥ तथाच

पुंवाक्यव्यावृत्तत्वस्यानुपूर्वीगतानैयत्याभावनिमित्तत्वस्यैव वाच्यत्वात् । प्रकृतेपि पक्षे हेतुसत्वस्यानुपूर्वीयुक्ते तदभावेन पर्यवसाने बाधात् । तद्गतानैयत्याभावेनैव पर्यवसानमिति भावः  परोक्तमिति ॥ सजातीयोच्चारणानपेक्षोच्चरितजातीयत्वं पौरुषेयत्वमिति मण्युक्तमितित्यर्थः  बुद्धीति ॥ चैत्रादिवाक्यं बुद्धुपूर्वकं शुकबालादिवाक्यं चाबुद्धिपूर्वकम् । तदुभयसाधरणं यन्नियतानुपूर्वीकत्वाभावरूपं तत्परोक्तमित्यर्थः ॥

 

१.रूपचछकख.  २.लक्षणं मुच.  ३.अबुद्धिपूर्वकेति नास्तिमुच.  ४.तत्प्रमु.   ५.नैकुं.  ६.पक्षेप्यनित्यत्वेनैनऽ इति नास्ति  कुं.

 

न्यायदीपयुततर्कताण्डवम्           ( प्र.परिच्छेदः            पु  २४४.

 

यद्वा स्वप्रतिपाद्यगोचरज्ञानत्वावच्छिन्नकारणताप्रतियोगिककार्यतानाश्रय इति साध्यम् । तत्र भ्रममूलकत्वे सति प्रमाकारणामूलक्तवं हेतुः । अपौरुषेयत्वपक्षेपि वेदस्य पदवली १

गोचरज्ञानत्वावच्छिन्नकारणताप्रतियोगिककार्यताश्रयत्वात्तदभावसाधने बाधः । तन्निवृत्तित्यर्थं स्वप्रतिपाद्येत्युक्तम् । स्वप्रतिपाद्यज्ञानजन्य इत्येवोक्तं पदावलीदोचरमेवेश्वरनिष्ठं ज्ञानं वेदप्रतिपाद्यगोचरमपि भवतीति पुनरपि बाधः । तन्निवृत्यर्थं ज्ञानत्वावच्छिन्नेत्याद्युक्तम् ॥

 

वाक्यार्थगोचरज्ञानजन्यत्वं पौरुषेयत्वमिति मते तदभावसाधकमनुमानमाह  यद्वा स्वेति ॥ ईश्वरज्ञानं प्रमेति मत इति ज्ञेयम् । वेद इत्यनुकर्षः । स्वेन वेदेन प्रतिपाद्यो योर्थो धर्मादिः तद्गोचरं यज्ज्ञानं तत्वावच्छिन्नकारणतानिरूपिता या कार्यता तदनाश्रय इत्यर्थः । गगनमेव दृष्टान्त इति भावः ॥

साध्यगतविशेषणयोः कृत्यं व्यनक्ति  अपोरुषेयत्वेति ॥ वेदस्येति ॥ क्रमविशेषविशिष्टवर्णानां वेदत्वात्क्रमस्य च कृतकत्वात्कार्यताश्रयत्वस्तीति भावः  इत्युक्तमिति ॥ प्रतिपाद्येत्युक्तावपि पदवलीत्यादिशब्दप्रतिपाद्यत्वं पदवल्य अप्यस्तीत्युक्तदोषनिरीसायैव स्वेत्यप्युक्तिरिति भावः ॥

नन्वत्राप्युक्तसाध्यवतो गगनघटादितोऽव्यावृत्तोयं हेतुस्त २ त्रैवोक्तरूपज्ञानाजन्यत्वेनैवोपपन्नः सन् शश्वदेकप्रकारानुपूर्वीकत्वरूपविवक्षितापौरुषेयत्वं

 

१.गोचरेति नास्ति छ.  २.त्रयो  अ.

 

वेदापौत्वेनुनि)                 वेदापौरुषेयत्ववादः           पु  २४५.

 

इदमपि साध्यं परोक्तस्य प्रमाप्रमा १ मूलकवाक्यसाधारणस्य पौरुषेयत्वस्याभावरूपम् ॥

न च शुकबालादिवाक्ये पररीत्या व्यभिचारः । तस्यापि पक्षतुल्यत्वात् ॥

यद्वा स्वप्रतिपाद्यगोचरयथार्थज्ञानत्वावच्छिन्नकारणताप्रतियोगिककार्यतानाश्रय इति साध्यम् । तत्र च प्रमाकरणामूलकत्व २ मात्रं हेतुः ॥

 

३ साधयतीत्यर्थान्तरमित्यत आह  इदमपीति ॥ परोक्तस्येति ॥ चिरन्तनोक्तस्येत्यर्थः   पौरुषेयत्वस्येति ॥ तथाच

पौरुषेयवाक्यादुक्तरूपसाध्यहीनाव्द्यावृत्तोयं हेतुस्तादृशज्ञानाजन्यत्वरूपसाध्यमादाय पर्यवस्यन्नपि पराभिमतपौरुषेयत्वाभावरूपत्वात्तस्य नार्थान्तरम् । शश्वदेकप्रकारानुपूर्वीकत्वमिवेदमपि पारिभाषिकं किञ्चितपौरुषेत्वमिति भावः । एवमग्रेपि ॥

पररीत्येति ॥ तन्मते वाक्यमात्रस्येश्वरज्ञानजन्यतयोक्तरूपसाध्याभावेपि तत्र हेतुसत्वादिति भावः  पक्षेति ॥ तस्येशज्ञानजन्यत्वेपि घटादिसाधारणोपादानादिगोचरज्ञानत्वेनैव तज्जन्यतया

स्वप्रतिपाद्यगोचरज्ञानत्वावच्छिन्नेत्यादिरूपसाध्यस्यापि सत्वेन तदभावसंमतेरिति  भावः ॥

"वेदाः शब्द ४ जन्यवाक्यार्थगोचरायथार्थज्ञानजन्याः प्रमाणशब्दत्वात्"इति मण्युक्तसाध्यस्याभावसाधकमाह  यद्वास्वेति ॥ वेद इत्यनुकर्षोत्रापि ध्येयः । प्रागुक्तमेव साध्यपदकृत्यं ध्येयम् ॥

भ्रान्तवाक्ये उक्तरूपसाध्यस्यापि सत्वेन विशेष्यमात्रस्याव्यभिचाराद्दोषमूलकत्वविशेषणस्य व्यर्थत्वमुपेत्याह  तत्र ५ चेति ॥ ६ निरुक्तसाध्य इत्यर्थः ।

 

१.भ्रमछ.  २.मात्रपदं नास्ति मुच.  ३.नसामु. ४.शब्दाजन्य मु.  ५.त्रेकुं. उक्त  कुं.

 

न्यादीपयुततर्कताण्डवम्             (प्र.परिच्छेदः           पु  २४६.

 

इदमपि साध्यं परोक्तस्य प्रमाणवाक्यमात्रासाधारण १ पौरुषेयत्वस्याभावरूपम् । विपक्षे सर्वसमयाभिमतधर्माद्यसिद्धेरुक्तत्वादनुकूलतर्काणां च वक्ष्यमाणत्वा न्नप्रयोजकता ॥

एतेन वेदस्यानादित्वरूपमपौरुषेयत्वं बाधितं सिद्धान्तविरूद्धञ्च । क्रमविशेषविशिष्टानां ३ वर्णानां वेदत्वान्नित्यानां सर्वगतानां च तेषां स्वतः क्रमस्यायोगेनाभिव्यक्तिगतस्येव तस्य वक्तव्यत्वादभिव्यक्तेश्च जन्यत्वेन तद्गतस्य ४ क्रमस्यापि जन्यत्वात्टीकायां"क्रमस्य कृकत्वेपि"इत्युक्तेश्चेति निरस्तम् ।

क्रमस्य कृतकत्वेप्याधुनिकाध्यापकेन स्वबुद्धिस्थपूर्वपूर्वादिवसीयक्रमानुसारेणैवोत्तरदिवसेष्विवेश्वरेणापि स्वबुद्धिस्थप्रवाहानादिपूर्वपूर्वकल्पीये क्रमानुसारेणैवोत्तरोत्तरक्लपेष्वपि वेदस्योच्चरितत्वे ५ न स्वातन्त्र्याभावेना ६ नियतानुपूर्वी ७ रहितत्वादिरूपोक्तत्रिविधापौरुषेयत्वे वाधाद्यभावात् ॥

 

पूर्ववदर्थान्तरताव्युदासायाह  इदमपीति ॥ उक्तहेतूनामपौरुषेयत्वेन विनाप्युपपत्तिमाशङ्क्याह  विपक्ष इति ॥ एतेनेति ॥ यद्वेश्वरज्ञानमित्यादिनोक्तपक्षत्रयेणेत्यर्थः ॥

प्रतिज्ञातं द्वयमपि क्रमेण व्यनक्ति  क्रमेत्यादिना ॥ टीकायामति ॥ तत्वनिर्णयटीकायामित्यर्थः ॥ एतेनेत्युक्तम व्यनक्ति  क्रमस्येति ॥

 

१.णस्यचछगख.  २.इदं हेतुवाक्यं नास्तिकुंगक.  प्रथमहेतुर्नास्तिछख.  ३.वर्णानामिति नास्तिकुंक.  ४.क्रमस्येति नास्तिकग.  ५.सप्तम्यन्तःकुंगख.  ६.न कगछ.  ७.कत्वादिखछ.

 

वेदापौत्वनुनि)             वेदापौरुषेयत्ववादः              पु  २४७.

 

उक्तञ्च सुधायाम्"नियतैकप्रकारत्वमपौरुषेयत्वम्"इति । एतदप्युक्तं"गौरवदोषेण"इति । क्रमाकृतकत्वस्याप्यपौरुषेयत्वप्रवेशे गौरवदोषेणेत्यर्थः ॥

यद्वा वेद आप्ताप्रणीतः प्रमाकरणामूलकत्वात् । गगनवत्शुकादिवाक्यवद्वा ।

 

उक्तञ्चेति ॥ जिज्ञासानये"नमानमपि वेदानाम्"इत्यत्र । प्रकृतोपयोगितया अर्थमाह  क्रमाकृतकत्वस्येति ॥

"वेदः आप्तप्रणीतः वेदत्वाव्द्यातिरेकेणे लौकिकवाक्यवत्"इति परोक्तस्य प्रत्यनुमानमाह  यद्वावेद इति ॥ वाक्यार्थप्रमावत्वे सति विप्रलम्भादिदोषहीनो ह्याप्तः । तदप्रणीत इत्यर्थः । भ्रान्ताप्रणीततत्वेनार्थान्तरतानिरासायाप्तेत्युक्तिः  प्रमाकरणेति ॥ परमते वेदस्येश्वरप्रमामूलकत्वेपि तत्करणामूलकत्वस्य नासिद्धिरिति भावः ॥

अन्तरङ्गदृष्टान्तमाह शुकादीति ॥ शुकबालादिवाक्यवदित्यर्थः । प्रणीतत्वस्योच्चारणधटितत्वेन वा वाक्यर्थप्रमात्वेन रूपेण १ आप्तप्रमामूलकत्वेन वा विवक्षितत्वाच्छुकादिवाक्येपीश्वरप्रणीतत्वं नेति न साध्यवैकल्यम् । परमते तत्रेश्वरज्ञानस्य भ्रमसाधारण्येनैव हेतुत्वस्य प्रागुपपादनादिति भावः ॥

पक्षतावच्छेदकहेत्वेरैक्यमाशङ्क्य निराह  अत्र चेति ॥ अकर्तृकत्वप्रसिद्धमत्वं वेदत्वम् ।

 

१. तत्प्र  कुं.

 

न्यायदीपयुततर्कताण्डवम्         ( प्र.परिच्छेदः               पु  २४८.

 

अत्र च पक्षतावच्छेदकं वेदत्वं प्रमाकारणामूलकत्वे सति प्रमाणशब्दत्वं न तु हेतुमात्रम् । प्रत्यक्षाभासादिमूलकशब्दाभासेऽति व्याप्तेः । येन पक्षतावच्छेदकस्यैव हेतुत्वे तत्समानाधिकरणसाध्यप्रतीतिरूपस्यानुमानफलस्य व्याप्तिग्रहकाल एव सिद्धत्वादनुमानवैयर्थ्यमिति शङ्क्येत ॥

 

अकर्तृकप्रसिद्धिमत्वं नाम प्रत्यक्षादिप्रमाणं वा विप्रलम्भादिकं वास्य मूलं नोपलभ्यत इति प्रसिद्धिविषयत्वम्"इति तत्वनिर्णयटीकोक्तस्य निष्कृष्टार्थमाह  प्रमेति ॥

ननु न हेतुमात्रमित्ययुक्तं तथात्वेपि दोषाभावात्किमधिकप्रवेशेनेत्यत आह  प्रत्यक्षेति ॥ तथाच वेदपदेन शब्दाभासस्यापि पक्षतापत्तावंशे सिद्धसाधनता स्यादिति भावःठ । दोषान्तरञ्चाह  येनेति ॥ तन्मात्रस्य पक्षतावच्छेदकीकरणेनेत्यर्थः  तदिति ॥ पक्षतावच्छेदकसमानाधिकरणं यत्साध्यं तत्प्रतीतिरूपस्येत्यर्थः । यत्र प्रमाकारणामूलकत्वं तत्राप्ताप्रणीतत्वमिति गगनादौ व्याप्तिग्रहदशयामेव हेतुसामानाधिकरण्येन तत्साध्यज्ञानस्य जातत्वात् । हेतोरेव पक्षतावच्छेदकत्वेनानुमानफलस्य सिद्धत्वादित्यर्थः ॥

यद्यपि साध्यविशेष्यकप्रतीतेर्व्याप्तिग्रहणदशायां जतत्वेपि साध्यविशेषणकप्रतीतेरिद्देश्यायास्तदानीमभावेन नानुमानवैयर्थ्यम् । तथाप्यतिशयाभावेन तादृशप्रतीतेरुद्देश्यत्वस्यैवायोगात्यत्प्रमाकारणामूलकत्ववत्

तदाप्ताप्रणीतत्ववदित्यपि व्याप्तिग्रहसम्भवाच्चैवमुक्तमिति ज्ञेयम् ॥

सामान्यपरिशेषाभ्यामप्यपौरुषेयत्वं साधयति  यद्वावेदेति ॥

 

वेदापौत्वेनुनि)               वेतापोरुषेयत्ववादः           पु  २४९.

 

यद्वा वेदानुपूर्वीनिष्ठादिकारणता केनचिदवच्छिन्नाकारणतात्मकत्वात्दण्ड १ गतकरणता २ वत् ॥

न च कॢप्तमानुपूर्वीग ३ तनियततत्तद्वर्णपदादिनिरुप्यत्वं विनान्यदवच्छेदकमस्ति । न चेश्वरविरचितत्वमेव तदवच्छेदकम् । तस्य वेदानुपूर्वीमात्रसाधारण्येन सूक्तविशेषजपादिना फलविशेषानुपपत्तेरिति नियतानिपूर्वीकत्वरूपापौरुषेयत्वसिद्धिः ॥

 

आनुपूर्वीनाम वर्णानां क्रमविशेषः स च नित्यसर्वगतानां वर्णानामुच्चारणघटितो वा बुद्धघटतो वा वाच्यः । न तु स्वतः । तथाच तादृशानुपूर्वी दृष्टरूपार्थज्ञानार्थापि नियमादृष्टार्था । जपेन चादृष्टार्था सर्ववादिसंमतेत्यदृषष्ट ४ जनिका भवतीति तत्र विद्यमानादृष्टकारणतापक्ष इत्यर्थः । आदिपदेनार्थज्ञानकारणताग्रहः ॥

एवं सामान्यतः कारणतावच्छेदकसिद्धौ प्रसक्तमीश्वररचितत्वं निरसिष्यन् स्वभिमतमवच्छेदकमाह  न च कॢप्तमिति । पक्षान्तरं निराह  न चेश्वरेति ॥ सूक्तविशेषेति ॥ पवमानसूक्तपूरुषसूक्तादिजपेन पठनादिना च श्रुतफलविशेषो न स्यादित्यर्थः । श्रूयते च फलविशेषः ॥

"यन्मे गर्भे वसतः पापमुग्रं चज्जायमानस्य च किञ्चिदन्यत्"।

जातस्य च यच्चापि च वर्धतो मे तत्पावमानीभिरहं पुनामि"॥

इत्यादिना

आनुपूर्वीगतेत्यादिनोक्तमेवावच्छेदकम् । न त्वीश्वररचितत्वमित्येतदेवानेकविपक्षबाधकोक्त्या द्रढयति  अन्यथेति ॥ एतदप्युक्तमिति ॥ अन्यथेत्यादिनोक्तमित्यर्थः ॥

 

१. ण्डादिग.  २.तादिग.  ३.तं मुचक.  ४.ष्टार्थमु.

 

न्यायदीपयुततर्कताण्डवम्             (प्र.परिच्छेदः            पु  २५०.

 

अन्यथैतत्कल्पेऽनर्थहेतुभूताया अन्यादृश्या आनुपूर्व्याः कल्पान्तरे श्रेयःसाधनत्वमेत्कल्पेऽनर्थहेतोर्ज्योतिष्ठोमाद्यङ्गव्युत्क्रमस्य ब्रह्महत्यादेश्चकल्पान्तरे श्रेयःसाधनत्वमेतक्तल्पे दाहकत्वादिस्वभावस्य वह्न्यादेः कल्पान्तरेष्वदाहकत्वादिकं च कल्प्यं स्यात् ॥

एतदप्युक्तम्"गौववदोषेणे"ति ॥

यद्वा प्रत्यक्षन्यायामूला मत्वादिस्मृतिः प्रमाणमूला प्रमाणभूतस्मृतित्वात् । न्यायमूलस्मृतिवत् ।

 

रीत्यन्तरमाश्रित्य सामान्यपरिशेषाभ्यामपौरुषेयवाक्यसिद्धिं वदन्"धर्मादिकं प्रमाणोपेतं वस्तुत्वात्"इति सुधोक्तसामान्यानुमानमुपलक्षणं मत्वा त्रेधा सामान्यानुमानमाह  यद्वा प्रत्यक्षेति ॥ प्रत्यक्षादिमूलान्तेरेणार्थान्तरवारणाय प्रत्यक्षन्यायामूलेत्युक्तिः । प्रत्यक्षमूला न्यायामूलाचेत्यर्थः । प्रत्यक्षतोर्ऽथमुपलभ्य रचितस्मृतिः प्रत्यक्षमूला । यथा आद्यभारतपुराणादिरूपा । तस्याः सर्वज्ञव्यासप्रत्यक्षमूलत्वात् । युक्तिबलादर्थं विज्ञाय रचिता स्मृतिर्न्यायमूला । यथा अथातो धर्मजिज्ञासेत्यादि १ मीमांसासूत्रादिरूरा स्मृतिः । अतादृशी य
स्मृतिरित्यर्थः ॥

न च न्यायमतेवाक्यमात्रस्येश्वरनिष्ठप्रत्यक्षप्रमाजन्यत्वात्प्रत्यक्षामूलस्मृतिरप्रसिद्धेति वाच्यम् । वाक्यार्थप्रमात्वेन तज्जन्यत्वस्यैव तन्मूलत्वेनेहाभिप्रेतत्वात् ॥

 

१.ऽमीमांसासूत्रादिऽ इति नास्ति  मु.

 

वेदापौत्वेनुनि)                  वेदापौरुषेयत्ववादः             पु  २५१.

 

जन्या १ धर्मादिप्रमा करणजन्या जन्यज्ञानत्वात्संमतवत्धर्मादिकं प्रमाणोपेतं वस्तुत्वात्घटवदित्यादिनापौरुषेयवाक्यसिद्धिः ॥

धर्मादिवुक्तरीत्या प्रत्यक्षानुमानप्रामाण्यस्यबाधितत्वादनन्तकल्पेषु

भिन्नानन्तपौरुषेयवाक्याङ्गीकारे च गौरवात्कार्यत्वहेतोर्नित्यज्ञान इव कर्त्रैक्य इव चास्यापि सामान्यतो दृष्टस्यापौरुषेयवाक्ये तत्राप्यन्येषां सकर्तृकत्वप्रसिद्धेर्वेद च तदभावाद्वेदापौरुषेयत्वे पर्यवसानात् ॥

२ एतदप्युक्तं"गौरवदोषेण"इति ॥

३ वेदापौरुषेयत्वेऽनुमानानि ॥ २१ ॥

 

प्रत्यक्षप्रमाकरणं वा प्रत्यक्षपदार्थो ध्येयः । नैयायिकानां न्याय एवातिविश्वासान्न्यामूलस्मृतिवदित्युक्तम् । ईश्वरप्रमांशे बाधवारणाय जन्येति प्रमाविशेषणम्  संमतवदिति ॥ चाक्षुषादिज्ञानवदित्यर्थः ॥

नन्वेतावता प्रमाणसामान्यसिद्धावपि  धर्मादावुक्तरीत्येत्यादिना पर्यवसानादित्यरन्तेन ॥ नचात्र हेतुत्रयेपि विशेषणासिद्धिरित्यादिग्रन्थेनोक्तरीत्येत्यर्थः  एतदपीति । अनन्तकल्पेष्वित्यादिनोक्तमपीत्यर्थः ॥

एवं प्रसक्तं प्रत्यक्षानुमानपुंवाक्यरूपपक्षत्रयं प्रतिक्षिप्य विवक्षितसाध्यपर्यवसानमाह  कार्यत्वेति ॥ नित्यज्ञानादिसिद्धिप्रकारोग्रे कार्यत्वादिहेतुभङ्गः ॥

 

१.जन्यापदं न कखछ.  २.इयं पङ्किर्नास्ति  छकार्यत्वहेतोरित्यतः प्रागस्ति क.  ३.इति  इत्यधिकं  छ.

 

अपौरुषेयत्वे अनुकूलकतर्कः)          वेदापौरुषेयत्ववादः      पु  २५२.

 

नचोक्तहेतूनामप्रयोजकता । यदि वेदः पौरुषेयः स्यात्तर्हि

"यतस्ता हरिणा दृष्टा श्रुता एवा १ खिलैर्जनैः । श्रुतयो दृष्टयश्चेयि तेनोच्यन्ते पुरातनैः ।

इत्यादि २ स्मृतिष्वीश्वरेणापि दृष्टत्व ३ स्यैवौक्तिर्न स्यात् । वेदाध्येतृणां तत्र कर्तृविशेषस्मृतिश्च स्यात् । मुक्तकश्लोकादौ तन्नियमाभावेप्यनेककर्तृकाविच्छिन्नाध्ययनधारणादिम ४ त्युरुतरप्रबन्धात्मके भारतादौ

 

पौरुषेयत्वरूपविपक्षे बाधकानि विवक्षुस्तत्वनिर्णयोदाहृतब्रह्माण्डस्मृतौ दृष्टत्वोक्तिविरोधं तावदाह  यदीत्यादिना ॥ पौरुषेय इति ॥ ५ स्वतन्त्रपुरुषेणेश्वरेण प्रणीतो यदित्यर्थः । श्रुता एव न तु कृता इत्यर्थः । दृष्टा एवेत्यप्येवकारान्वयमुपेत्याह  दृष्टत्वस्यैवेति ॥"वेदकर्तृरप्रसिद्धेः"इति तत्वनिर्णयवाक्यसूचितं बाधकमाह  वेदेति ॥ यदीत्याद्यापादकानुवृत्तिः सर्वत्र ज्ञेया ॥

मुक्तश्लोका नाम तत्र तत्र नानाग्रन्थस्थाः ततस्तत उद्धृता इति वा, प्रबन्धेष्वनिबद्धा एव तेनतेन पुरुषेण कृताः सुभाषितश्लोका इत्याहुः ॥

अनेकेति ॥ अनेककर्तृकं यदविच्छिन्नमध्ययनं यच्च तादृशं धारणमविस्मरणेनानुसन्धानमादिपदोक्तप्रवचनादिकं तद्वतीत्यर्थः ।

 

१.परैकुंकख.  २.ष्वपीश्वमु.  ३.स्योक्तिः मुच.  ४.ति गुरुछख.  ५.वृत्तिरित्यधिकं वर्ततेकुं.

 

अपौत्वेऽनुर्कः)                 वेदापौरुषेयत्ववादः           पु  २५३.

 

१ तन्नियमात् ॥

एतेन कर्तृस्मरणस्या २ विध्यर्थत्वादिति निरस्तम् ॥

वेदे प्रतिकल्प ३ मनियतान्यनेका ४ नुपूर्व्याणि ५ तेषां यथावदध्ययनानि चाभ्युदयकारणानि, अन्यथाध्ययनानि च वाग्वज्रतयानर्थकारणानि,

 

तथाचाल्पप्रबन्धे तदभावेपि भारतादाविवोक्तविशेषणवत्युरुतरप्रबन्धे वेदे स्यादेव कर्तृस्मृतिरध्यापकानाम् । न च सास्तीति भावः ॥

एतेन गूढकर्तृकवाक्ये सत्यापि पौरुषेयत्वे कर्तृस्मृतिर्नेति व्यभिचार इति प्रत्युक्तम्। उक्तविशेषणवत्युरुतरप्रबन्धे तस्यावश्यकत्वादिति ॥

एतेन"कपिलकणादगौतमैस्तच्छिष्यैश्चाद्यपर्यन्तं वेदे सकर्तृकत्वस्मृतिरस्ति"इति मणिकुसुमाञ्जल्यादावुक्तं निरस्तम् । अध्यापकानां स्मृतेरसिद्धेः ॥

यत्तु सुधायां"किञ्चेश्वरः सर्गादौ यं वेदं निर्मायैकस्मै शिष्यायोपदिशन्ति तमेवान्यस्मा उपदिशति वेदान्तरं वा"इत्यादिनोक्तं तदपि बाधकं स्पष्टं

विवृण्वन्नाह  वेद इत्यादिना ॥ आनुपूर्व्याणीत्यस्य कारणान्यनर्थकारणानित्यनयोश्च इति कल्प्यत्वादित्यनेन प्रत्येकमन्वयः  यथावदिति ॥ तस्मिंस्तस्मिन्कल्प इत्यर्थः  वाग्वज्रतयेति ॥ वाग्रूपवज्रतयेत्यर्थः ॥

"मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप