श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मक लक्ष्मीहयग्रीवाय नमः॥
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः गीतातात्पर्यनिर्णयः ।।
श्रीगुरुभ्यो नमः हरिः ॐ ।।
गीतातात्पर्यम्
समस्तगुणसम्पूर्णं सर्वदोषविवजितम् ।
नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ।।1।।
शास्त्रेषु भारतं सारं तत्र नामसहस्रकम् । वैष्णवं कृष्णगीता च तज्ज्ञानान्मुच्यतेञ्जसा ।।
न भारतसमं शास्त्रं कुत एवानयोः समम् । भारतं सर्ववेदाश्च तुामारोपिताः पुरा ।।
देवैबर्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः । व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् ।।
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।।
स्वयं नारायणो देवैबर्रह्मरुद्रेन्द्रपूर्वकैः । अर्थितो व्यासतां प्राप्य केवं तत्त्वनिर्णयम् ।।
चकार पञ्चमं वेदं महाभारतसञ्ज्ञितम् ।। इति ब्रह्माण्डे ।
तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतममर्जुनं क्षत्रियाणां विशेषतोपि परमधर्मं नारायणद्विट्तदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायं स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मस्तद्विरुद्धः सर्वोप्यधर्मो भगवदधीनत्वात् सर्वस्येति बोधयति भगवन्नारायणः । सर्वं चैतदत्रैवावगम्यते ।
अथ चेत्त्वं धर्म्यमिमं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ।।
इत्यादिना युद्धस्य स्वधर्मत्वम् ।
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।।
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।।
सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे ।।
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।।
इत्यादिना स्वधर्मेणैव भगवदाराधनस्यैव कर्तव्यत्वं तदन्यस्य त्याज्यत्वं च ।
नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ।।
भक्त्या त्वनन्यया शक्य अहमेवंविधोर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ।।
इत्यादिना विष्णुभक्तेरेव सर्वसाधनोत्तमत्वं परोक्षापरोक्षज्ञानयोर्ज्ञानिनोपि मोक्षस्य तदधीनत्वं च ।
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ।।
इत्यादिना भक्तस्यापि तत्कर्म विकर्मत्यागश्च ।
कुरु कर्मैव तस्मात् त्वं पूर्वै पूर्वतरं कृतम् । इत्यादिना ज्ञानिनोपि भगवत्कर्म ।
सुदुर्दशमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ।।
इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । मा शुचः सम्पदं दैवीमभिजातोसि पाण्डव ।।
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ।
इत्यादिनार्जुनस्योत्तमाधिकारित्वमपर्रोज्ञानित्वं च ।
न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ।।
यो मामजनादिं च वेत्ति ोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ।।
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।।
"महर्षय सप्त पूर्वे' "एतां विभूतिं योगं च'
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ।।
तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयामि ।
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ।।
ज्ञानं तेहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोन्यज्ज्ञातव्यमवशिष्यते ।।
अहं कृत्स्नस्य जगतः प्रभवः प्रयस्तथा । मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।।
इदं तु ते गुह्यतमं प्रवक्ष्यम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेशुभात् । राजविद्या राजगुह्यम् ।।
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । भूतभृन्न च भूतस्थः ।
न त्वत्समोस्त्यभ्यधिकः कुतोन्यः ।
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ।
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ।।
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते ।।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।।
यस्माद् क्षरमतीतोहमक्षरादपि चोत्तमः । अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।।
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ।।
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ।।
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यम् ।।
इत्यादिना सर्वस्माद्भगवतो भेदः, सर्वस्य तदधीनत्वं, सर्वगुणपूर्णत्वं, सर्वशास्त्राणां तत्परत्वं तथा तज्ज्ञानादेव मोक्ष इत्यादि ।
अधा ते विष्णो विदुषां चिदर्घ्य स्तोमो यज्ञश्च राध्यो हविष्मन्ता ।
पश्यन्नपीममात्मानं कुर्यात् कर्माविचारयन् । यदात्मनः सुनियतमानन्दोत्कर्षमाप्नुयात् ।।
भक्त्या प्रसन्नः परमो दद्यात् ज्ञानमनाकुम् । भक्तिं च भूयसीं ताभ्यां प्रसन्नो दर्शनं व्रजेत् ।।
ततोपि भूयसीं भक्तिं दद्यात् ताभ्यां विमोचयेत् । मुक्तोपि तद्वशे नित्यं भूयोभक्तिसमन्वितः ।।
साध्यानन्दस्वरूपैव भक्तिर्नैवात्र साधनम् । ब्रह्मरुद्ररमादिभ्योप्युत्तमत्वं स्वतन्त्रताम् ।।
सर्वस्य तदधीनत्वं सर्वसद्गुणपूर्णताम् । निर्दोषत्वं च विज्ञाय विष्णोस्तत्राखिलाधिकः ।।
स्नेहो भक्तिरिति प्रोक्तः सर्वोपायोत्तमोत्तमः । तेनैव मोक्षो नान्येन दृष्ट्यादिस्तस्य साधनम् ।।
अधमाधिकारिणो मर्त्या मुक्तावृष्यादिकाः समाः । अधिकार्यत्तमा देवाः प्राणस्तत्रोत्तमोत्तमः।।
नैव दैवपदं प्राप्ताः ब्रह्मदर्शनवर्जिताः । तिरोहितं तथाप्येते शृण्वन्ति क्रीडयाथवा ।।
बहुवारतदभ्यासात् तिरोभावोपि नो भवेत् । यथा व्यासानुशिष्टानां देवानां क्षत्रजन्मनाम् ।।
पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतम् ।।
अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हर्विभिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ।।
एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।
स मुनिर्भूत्वा समचिन्तयत् तत एते व्यजायन्त ।।
विश्वो हिरण्यगभोग्निर्यमो वरुणरुद्रेन्द्रा इति ।।
एको नारायण आसीन्न ब्रह्मा नेशानः ।
वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः ।
यं ये कामयते विष्णुस्तं ब्रह्माणं च शङ्करम् ।
शक्रं सूर्यं यमं स्कन्दं कुर्यात् कर्तास्य न क्वचित् ।।
सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम् ।
अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोतः ।। इति पैङ्गिश्रुतिः ।
परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।
अनन्तगुणमाहात्म्यो निर्दोषो भगवान् हरिः । न समो वाधिको वापि विद्यते तस्य कश्चन ।।
नासीन्न च भविष्यो वा परतः स्वत एव च ।। इत्यादिश्रुतेश्च ।
यस्त्वात्मरतिरेव स्यात् इत्यादि तु मुक्तविषयम् ।
यस्त्वेवात्मरतो मुक्तः कार्यं तस्यैव नास्ति हि ।
तस्मात् कुर्वीत कर्माणीत्याह कृष्णोर्जुनं स्मयन् ।। इति स्कान्दे ।
ज्ञानयोगेन साङ्ख्यानामित्यादि तु बाह्यकर्मसङ्कोचापेक्षया ।
न हि कश्चित् क्षणमपि जातु तिष्ठत्कर्मकृत् ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ।
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ।।
ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत ।
न सर्वकर्मणां त्यागः कस्यचिद्भवति क्वचित् । त्यागिनो यतयोपि स्युः सङ्कोचाद्बाह्यकर्मणाम् ।। इत्यादि ।
"उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः' इत्यादि चोत्पन्नज्ञानतिरोभावनिवृत्त्यर्थम् ।
।।इति उपोद्घातः ।।
****************************************************************************************************************************
अथ द्वितीयोऽध्यायः
प्रकर्षेण जानन्तीति प्रज्ञाः । तदवादः प्रज्ञावादः । प्राज्ञमतविरुद्धवादं वदसि । कथं? गतासून् ।।11।।
बन्धुस्नेहाद्धि त्वया स्वधर्मनिवृत्तिः क्रियते । तत्र देहनाशभयात् किं वा चेतननाशभयात् । देहस्य सर्वथा विनाशित्वान्न तत्र भये प्रयोजनम् । न च चेतननाशभयात् । तस्याविनाशित्वादेव । न तावत्परमचेतनस्य मम नाशोस्ति । एवमेव तवान्येषां च । "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्' इत्यादि श्रुतेः ।
स्वदेहयोगविगमौ नाम जन्ममृती पुरा । इष्येते ह्येव जीवस्य मुक्तेर्न तु हरेः क्वचित् । इति स्कान्दे ।
ईश्वरस्यापि युद्धगतत्वात् मोहात् तस्याप्युभयविधानित्यत्वशङ्काप्राप्तौ तदपि निवार्यते- न त्वेवाहं जातु नासमिति ।। यद्यप्येषा शङ्कार्जुनस्य नास्ति । तथापि प्राप्तलोकोपकारार्थं भगवता निवार्यते । एकान्ते कथयन्नपि व्यासरूपेण तदेव लोके प्रकाशयिष्यति हि ।।12।।
मम स्वकीयदेहान्तरप्राप्तिरपि नास्तीति दर्शयितुं देहिन इति विशेषणम् । भवदादीनां सा भविष्यतीत्यपि शोको न कर्तव्यः । देहस्येदानीमप्यन्यथात्वदर्शनात् ।।13।।
तददर्शनादिनिमित्तं सोढव्यमित्याह- मात्रास्पर्शा इति ।। विषयसम्बन्धाः ।।14।।
फमाह- यं हीति ।। न केवमव्यथामात्रेणामृतत्वं किन्तु पुरुषम् । "पुरु ब्रह्म गुणाधिक्यात्तज्ज्ञानात् पुरुषः स्मृतः' इति प्रवृत्ते । पुरुसरणात् पुरुष इत्यर्थः ।।15।।
न च युद्धात् परलोकदुःखमिति शोकः । असत्कर्मणः सकाशाद्भावो नास्ति, सत्कर्मणः सकाशादभावो नास्तीति नियतत्वात् ।
सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचकाः । अभाववाचिनः शब्दाः सर्वे ते दुःखवाचकाः ।। इति शब्दनिर्णये ।
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते । इति वक्ष्यमाणत्वात् ।
"असन्नेव भवति । असद्ब्रह्मेति वेद चेत् ।' इत्यादेश्च । अन्तो निर्णयः । न चाविद्यमानविद्यमानयोरुत्पत्तिनाशनिषेधकोयं श्लोकः । प्रत्यक्षविरोधात् । सन्निति व्यवह्रियमाणमेव पदार्थस्वरूपमुत्पत्तेः प्राङ्नाशोत्तरं च नास्तीति सर्वलोको व्यवहरति । न च विपर्यये किञ्चिन्मानम् । इदं तु वाक्यमन्यथासिद्धम् ।
आद्यन्तयोः सर्वकार्यमसदेवेति निश्चितम् । यद्यसन्न विशेषोत्र जायते कोत्र जायते ।।
व्यक्तावपि समं ह्येतदनवस्थान्यथा भवेत् । एवं नाशेपि बोद्धव्यमतोसन्नेव जायते ।।
तथाप्यभेदानुभवात् कार्यकारणयोः सदा । भेदस्य चाविशेषेण देहोगात् क्षितितामिति ।।
व्यवहारो भवेद्यस्माद्बल्येवानुभवः सदा ।। इति ब्रह्मतर्के ।
न च सदसद्विक्षणं किञ्चिदस्तीत्यत्र किञ्चिन्मानम् । न चासतः ख्यात्ययोगात् सतो बाधायोगादुभयविक्षणत्वं भ्रान्तिविषयम् । असतः ख्यात्ययोगादिति वदतोसतः ख्यातिरभून्न वा । यदि नाभून्न तत्ख्यातिनिराकरणम् । यद्यभूत् तथापि । न चासतोसत्त्वेन भ्रान्तौ सत्त्वेन च ख्यातिर्नास्तीत्यत्र किञ्चिन्मानम् । असद्य्ववहारलोपप्रसङ्गाच्च । यदविद्यमानं रूपं तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वाच्च । अनिर्वचनीयत्वपक्षेपि सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतिं विना न हि भ्रान्तित्वम् । भ्रान्तिसत्त्वाङ्गीकारेप्यभ्रान्तं सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतौ हि प्रवर्तते । तस्मादुभयविक्षणं न किञ्चित् । "विश्वं सत्यम्' "यच्चिकेत सत्यमित्' "कविर्मनीषी परिभूस्स्वयम्भूर्याथातथ्यतोर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः' इत्यादिश्रुतेश्च ।।16।।
यद्यपि नित्यत्वं जीवस्याप्यस्ति । तथापि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेति तुशब्दः ।
अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता । नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ।।
तदन्येषां तु सर्वेषां नाशाः केचिद्भवन्ति हि ।। इति महावाराहे ।।
देशतः कातश्चैव गुणतश्च त्रिधा ततिः । सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः ।। इति परमश्रुतिः ।।17।।
शरीरिणां तु देहहान्यादिनाशो विद्यत एव । "येन सर्वमिदं ततम्' इति तस्यैव क्षणकथनात् न जीवानां देशतो गुणतश्च पूर्णता । अनिच्छया देहहान्यादेरेव दुःखावाप्तिः सिद्धा । तस्मादनाशिनोप्रमेयस्य विष्णोः पूजार्थं युध्यस्व । तत्प्रसादाधीनत्वाद् दुःखनिवृत्तेः सुखस्य च । "ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । तेषामहं समुद्धर्ता' इत्यादेः । जीवपक्षे नित्यस्योक्ता इत्युक्तत्वादनाशिन इति पुनरुक्तिः "अविनाशि' "येन सर्वमिदं ततम्' इत्युक्तस्यैव "अनाशिनोप्रमेयस्य' इति प्रत्यभिज्ञानाच्च । "इमे देहाः' इति विशेषणान्नित्यश्चिदानन्दात्मकाः स्वरूपभूतो देहो मुक्तानामपि विद्यत इति ज्ञायते ।
न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च नित्यं न च काविक्रमः ।
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ।।
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ।।
प्रवावैदूर्यमृणावर्चसां परिस्फुरत्कुण्डमौलिमालिनाम् ।
भ्राजिष्णुभिर्यः परितो विराजते सद्विमानाविभिर्महात्मनाम् ।।
विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रविभिर्यथा नभः ।। इति च भागवते ।।
चिदानन्दशरीरेण सर्वे मुक्ता यथा हरिः । भुञ्जते कामतो भोगांस्तदन्तर्बहिरेव च ।। इति परमश्रुतिः ।।
न च जीवेश्वरैक्यं मुक्तावपि ।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेपि नोपजायन्ते प्रये न व्यथन्ति च ।।
"यो वेद निहितं गुहायां परमे व्योमन् । सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता।।'
"एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत्साम गायन्नास्ते'
"सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः । किल्बिषस्पृत् पितुषणिर्ह्येषामरं हितो भवति वाजिनाय'
"ऋचां त्वः पोषमास्ते पुपुष्मान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वा वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः ।।'
"परं ज्योतिरुप सम्पद्य स्वेन रूपेणाभिनिष्पद्यते' "स तत्र पर्येति जक्षन् क्रीडन् रममाणः' "तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति'
मुक्ताः प्राप्य परं विष्णुं तद्देहं संश्रिता अपि । तारतम्येन तिष्ठन्ति गुणैरानन्दपूर्वकैः ।।
भूपा मनुष्यगन्धर्वा देवाः पितर एव च । आजानेयाः कर्मदेवास्तत्त्वरूपाः पुरन्दरः ।।
शिवो विरिञ्च इत्येते क्रमाच्छतगुणावराः । मुक्तावपि तदन्ये ये भूपाच्छतगुणावराः ।।
न समो ब्रह्मणः कश्चिन्मुक्तावपि कथञ्चन । ततः सहस्रगुणिता श्रीस्ततः परमो हरिः ।।
अनन्तगुणितत्वेन तत्समः परमोपि न ।।
न च "यत्र त्वस्य सर्वमात्मैवभूत् तत्केन कं पश्येत्' "यद्वै तन्न पश्यति पश्यन् वै तन्न पश्यति' "न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते । अविनाशित्वात् । न तु तद्द्वितीयमस्ति । ततोन्यद्विभक्तं तत्पश्येत्' "परमं ब्रह्म वेद ब्रह्मैव भवति' "तत्त्वमसि' "अहं ब्रह्मास्मि' इत्यादिश्रुतिविरोधः ।
सञ्ज्ञानाशो यदि भवेत् किं मुक्त्या नः प्रयोजनम् । मोहं मां प्रापयामास भवानत्रेति चोदितः ।।
याज्ञवल्क्यः प्रियामाह नाहं मोहं ब्रवीमि ते । भूतजज्ञानलोपः स्यान्निजं ज्ञानं न ुप्यते ।।
न च ज्ञेयविनाशः स्यादात्मनाशः कुतः पुनः । स्वभावतः पराद्विष्णोर्विश्वं भिन्नमपि स्फुटम् ।।
अस्वातन्त्र्याद्भिन्नमिव स्थितमेव यदेदृशम् । तदात्मानुभवोपि स्यादीश्वरज्ञानमेव च ।।
यदान्यन्न विजानाति नात्मानं नेश्वरं तथा । पुरुषार्थता कुतस्तु स्यात् तदभावाय को यतेत् ।।
तस्मात् स्वभावज्ञानेन भिन्ना विष्णुसमीपगाः । भुञ्जते सर्वभोगांश्च मुक्तिरेषा न चान्यथा ।।
यन्न पश्येत् परो विष्णुर्द्वितीयत्वेन स स्वतः । तद्द्वितीयं न भवति प्रादुर्भावात्मकं वपुः ।।
प्रधानपुरुषाद्यन्यद्यत्तस्माद् भिन्नमीश्वरः । विभक्तत्वेन नियतं यस्मात् पश्यति सर्वदा ।।
पश्यन्नेव यतो विष्णुस्तदभेदं न पश्यति । चेतनाचेतनस्यास्य नाभेदोस्ति ततोमुना ।।
न हि ज्ञानविलोपोस्ति सर्वज्ञस्य परेशितुः । ब्रह्माणि जीवाः सर्वेपि परब्रह्माणि मुक्तिगाः ।।
प्रकृतिः परमं ब्रह्म परमं महदच्युतः । नैव मुक्ता न प्रकृतिः क्वापि तद्विष्णुवैभवम् ।।
प्राप्नुवन्त्यपि तज्ज्ञानान्निजं ब्रह्मत्वमाप्यते । यद्यस्य परमेशत्वं तदा स्याद्दुःखिता कुतः ।।
दुःखी चेत्कुत ईशत्वमनीशो ह्येव दुःखभाक् । कुतः सर्वविदोज्ञत्वं क्व भ्रमोप्यज्ञतां विना ।।
तस्मान्नैवेश्वरो जीवस्तत्प्रसादात्तु मुच्यते । अहेयत्वादहंनामा भगवान् हरिरव्ययः ।।
ब्रह्मासौ गुणपूर्णत्वादस्म्यसावसनान्मितेः । असनादसिनामासौ तेजस्त्वात्त्वमितीरितः ।।
सर्वैः क्रियापदैश्चैव सर्वैर्द्रव्यपदैरपि । सर्वैगुणपदैश्चैव वाच्य एको हरिः स्वयम् ।।
युष्मत्पदैः प्रातियोग्यात् तद्युतैश्च क्रियापदैः । अस्मत्पदैरान्तरत्वात् क्रियार्थैश्च तदन्वयैः ।।
परोक्षत्वात् तत्पदैश्च मुख्यवाच्यः स एव तु । सर्वान् वेदानधीत्यैव प्रज्ञाधिक्येन हेतुना ।।
श्वेतकेतुरहङ्कारात् प्रायशो नास्मि मानुषः । देवो वा केशवांशो वा नैषा प्रज्ञान्यथा भवेत् ।।
एवं महत्त्वबुद्ध्यैव दर्पपूर्णोभ्यगात् पितुः । सकाशमाकृताचारं तं दृष्ट्वा स्तब्धमज्ञवत् ।।
पितोवाच कुतः पुत्र स्तब्धता त्वामुपागता । प्रायो नारायणं देवं नैव त्वं पृष्टवानसि ।।
यस्मिन् ज्ञाते त्वविज्ञातज्ञानादीनां फं भवेत् । प्राधान्यात् सदृशत्वाच्च तदधीनमिति स्फुटम् ।।
तत्सृष्टं चेति विज्ञातं फवद्धि भवेज्जगत् । स्वातन्त्र्येणास्य विज्ञानं मिथ्याज्ञानमनर्थकृत् ।।
यथा चैवैकमृत्पिण्डज्ञानादेः सदृशत्वतः । मृण्मयं तदकार्यं च ज्ञातं मृदिति वै भवेत् ।।
यथैव मृत्तिकेत्यादिनित्यनामप्रवेदनात् । वाचारब्धमनित्यं तु ज्ञातं तन्मूमित्यपि ।।
एवं कारणभूतोसौ भगवान् पुरुषोत्तमः । प्रधानश्च स्वतन्त्रश्च तन्मूमखिं जगत् ।।
तदाधारं विमुक्तौ च तदधीनं सदा स्थितम् । स सूक्ष्मो व्यापकः पूर्णस्तदीयमखिं जगत् ।।
तस्मात्तदीयस्त्वमसि नैव सोस्मि कथञ्चन । यथा पक्षी च सूत्रं च नानावृक्षरसा अपि ।।
यथा नद्यः समुद्रश्च यथा वृक्षपरावपि । यथा धानाः परश्चैव यथैव वणोदके ।।
यथा पुरुषदेशौ च यथाज्ञज्ञानदावपि । यथा स्तेनापहार्यौ च तथा त्वं च परस्तथा ।।
भिन्नौ स्वभावतो नित्यं नानयोरेकता क्वचित् । एवं भेदोखिस्यापि स्वतन्त्रात् परमेश्वरात् ।।
परतन्त्रं स्वतन्त्रेण कथमैक्यमवाप्नुयात् । स जीवनामा भगवान् प्राणधारणहेतुतः ।।
उपचारेण जीवाख्या संसारिणि निगद्यते । तदधीनमिदं सर्वं नान्याधीनः स ईश्वरः ।।
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा । जीवभेदो मिथश्चैव जडजीवभिदा तथा ।।
जडभेदो मिथश्चेति प्रपञ्चो भेदपञ्चकः । स नित्य एव नोत्पाद्य उत्पाद्यश्चेन्नशेदपि ।।
तस्मादनादिमानेव प्रपञ्चो भेदपञ्चकः । विष्णोः प्रज्ञापितं यस्माद् द्वैतं न भ्रान्तिकल्पितम् ।।
अद्वैतः परमार्थोसौ भगवान् विष्णुरव्ययः । परमत्वं स्वतन्त्रत्वं सर्वशक्तित्वमेव च ।।
सर्वज्ञत्वं परानन्दः सर्वस्य तदधीनता । इत्यादयो गुणा विष्णोर्नैवान्यस्य कथञ्चन ।।
अभावः परमद्वैते सन्त्येव ह्यपराणि तु । विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।।
अद्वैतं ज्ञानिनां पक्षे न तस्माद्विद्यते क्वचित् ।।
इत्यादिश्रुतिभ्योर्थान्तरस्यैवावगतत्वात् ।।
एकपिण्डनामधेयेतिशब्दानां वैयर्थ्यं चान्यथा । न चैकविज्ञानेन सर्वविज्ञानं तत्पक्षे । न हि शुक्तिज्ञो रजतज्ञ इति व्यवहारः । नवकृत्वोपि भेद एव दृष्टान्तोक्तेश्च । तस्मादतत्त्वमसीत्येवोच्यते । ऐतदात्म्यमित्येदात्मसम्बन्धि तत्स्वामिकम् । त्वमपि तदैतदात्म्यमेवासि न सोसीति वा । तदिति लिङ्गसाम्यं चात्र । अविद्यमानमेवेश्वरं सृष्ट्यादिकं चाप्राप्तमेवात्मनो भिन्नत्वेन प्रापयित्वा तन्निषेधे कथं श्रुतेरुन्मत्तवाक्यत्वं न स्यात् । अनुवादोपि यदिदं वदन्ति तन्न युज्यत इत्यादिवाक्यं परिहारे विशेषयुक्तिं च विना न दृष्टः । अतिप्रसङ्गश्चान्यथा । अभेदनुवादेन भेदोपदेशः किमिति न स्यात् । सर्वशाखान्ते भेदोक्तेश्चैतदेव युक्तम् । "नासंवत्सरवासिने प्रब्रूयात् नाप्रवक्र इत्याचार्या आचार्याः' "अहं विश्वं भुवनमभ्यभवाम्' "अनन्ते स्वर्गे ज्येये प्रतितिष्ठति प्रतितिष्ठतीति ब्रह्मविदो विदुः' "नमो विष्णवे महते करोमि' "पश्यन्त्यात्मन्यवस्थितम्' इत्यादि । न चेश्वरस्तद्भेदो वा प्रत्यक्षसिद्धः । तत्पक्षे त्वैक्यादेरपि मिथ्यात्वात् स्वरूपस्य च सिद्धत्वाद् व्यर्थैव श्रुतिः । क्षितस्वरूपस्यापि न स्वरूपाद्विशेषः । निर्विशेषत्वोक्तेः । मिथ्याविशेषोक्तौ चाप्रामाण्यं श्रुतेः । मिथ्यात्वं च मिथ्यैव तेषाम् । अतः सत्यत्वं सत्यं स्यात् । उपाधिकृतभेदेप्युपाधेर्मिथ्यात्वे त्वप्राप्तमेवोपाधिभेदं प्रापयित्वा पुनर्निषिध्यत इति स एव दोषः । सत्योपाधिपक्षेपि हस्तपादाद्युपाधिभेदेपि भोक्तुरेकत्वदृष्टेरेकेनैवेश्वरेण सर्वोपाधिगतं सुखं दुःखं भुज्येतेत्येवमादयो दोषाः समा एव । अचेतनानामनुभवाभावान्न तत्साम्यम् । अतो जीवेश्वरयोर्भेद एवेति सिद्धम् ।।18।।
य एनं जीवं वेत्ति हन्तारं स्वातन्त्र्येण । अन्यथा "मया हतांस्त्वं जहि' इत्यादिविरोधः । चेतनं प्रति य एनमिति परमात्मनोपि समम् ।।19।।
जीवेश्वरयोर्नित्यत्वे मन्त्रवर्णोप्यस्तीत्याह- न जायते म्रियते इति ।। अयं ना परमपुरुषो भूत्वा विद्यमान एव देहसम्बन्धरूपेणापि भविता न । मरणं तु देहवियोग इति सिद्धमेव । न हि घटादीनां मरणव्यवहारः । स्वरूपनाशः कैमुत्येनैव सिद्धः । अयं जीवोप्यज्ञो नित्यश्च । अन्यथा पुनरुक्तेः । शाश्वतश्च । न कदाचिदस्वातन्त्र्यादिकं जीवस्वरूपं जहाति ।
अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता । उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।।
स्वाभाविकं तयोरेतन्नान्यथा स्यात् कथञ्चन । वदन्ति शाश्वतावेतावत एव महाजनाः ।। इति महाविष्णुपुराणे ।
पुराण्यणनि गच्छतीति पुराणः ।।20।।
अविनाशिनं शरीरापायादिवर्जितम् । नित्यं स्वरूपतः । एनं परमेश्वरम् ।
कर्तृत्वं तु स्वतन्त्रत्वं तदेकस्य हरेर्भवेत् । तच्चाव्ययं तस्य जानन् कथं कर्ता स्वयं भवेत् ।। इति परमश्रुतिः ।
अन्यथाविनाशिनं नित्यमिति पुनरुक्तिः ।।21।।
जीवस्यापि शरीरसंयोगवियोगावेव जनिमृती यतस्ततो न दुःखकारणमित्याह- वासांसीति ।।22।।
कारणतोपि नेश्वरस्यान्यथात्वमित्याह- नैनं छिन्दन्तीति ।।23।।
अच्छेद्यत्वादिकं जीवस्यापि तत्सममित्याह- अच्छेद्योयमिति ।। नित्यं सर्वगते स्थितः अणुश्चायमिति सर्वगतस्थाणुः । सर्वगतो विष्णुः । तदधीनत्वादिकं तत्स्थत्वम् । हेतुतोपि तत्स्थत्वान्न चतीत्यचः । नादेन शब्देन सह वर्तते इति सनातनः ।
नित्यं सर्वगते विष्णावणुर्जीवो व्यवस्थितः । न चास्य तदधीनत्वं हेतुतोपि विचाल्यते ।।
निषेधविधिपात्रत्वात् सनातन इति स्मृतः ।। इति महाविष्णुपुराणे ।
अच्छेद्योयमित्यादिपुनरुक्तिश्चान्यथा । यस्मिन्नयं स्थितः सोव्यक्ताचिन्त्यादिरूपः । एवं ज्ञातः परमेश्वरः सर्वदुःखनाशं करोतीति नानुशोचितुमर्हसि । तेषामहं समुद्धतेत्यादेः । "न त्वेवाहं जातु नासं न त्वम्' इत्युभयोरपि प्रस्तुतत्वात् ।देहिनः शरीरिणः देहीति विशेषितत्वाच्च जीवस्य तत्र तत्र । "अविनाशि तु' "येन सर्वमिदं ततम्' "अनाशिनोप्रमेयस्य' "न म्रियते' "भूत्वा भविता न' "अविनाशिनम्' "अव्ययम्' "अव्यक्तोयमचिन्त्योयमविकार्योयम्' इत्यादि परमात्मनश्च । न हि जीवेन ततं सर्वम् । न च मुख्यतोप्रमेयोसौ । न चाविनाशिनं नित्यमिति नित्यत्वातिरिक्तमविनाशित्वं तस्य । न चाव्यक्तत्वमविकार्यत्वं च मुख्यम् । न च "भूत्वा भविता वा न' इति देहस्याप्यनुत्पत्तिः । परमात्मनस्तु देहवियोगादिकमपि नास्तीति "अविनाशि तु' इत्यादि विशेषणम् । यस्मादेवम्भूतस्तस्मात् स एव स्वतन्त्रस्तदधीनमन्यत् सर्वम् । अतः स एव सर्वपुरुषार्थदः । अतस्तत्पूजा सत्कर्मैव । अतस्तदर्थं युध्यस्व । अन्येषां त्वन्तवन्त एव देहाः । प्राकृतदेहिनश्च । अतो स्वतन्त्रवान्न हन्तुं तेषां सामर्थ्यम् । नित्यत्वान्न हन्यते च । तस्माद्धन्ता हत इति मन्यमानौ न विजानीतः । यस्मादयमेव परमेश्वरः शरीरवियोगरूपेणापि न म्रियते तत्संयोगरूपेणापि न जायते जीववत् कदापि अतः स एव स्वतन्त्रत्वात् सर्वस्य हन्ता । जीवस्तु तेन शरीरे हन्यमाने स्वयं न हन्यत इत्येतावत् । अत एवमविनाशित्वादेः स्वतन्त्र्याद् सर्वकर्तारं परमात्मानं यो वेद स कथं घातयति हन्ति वा । वाससो जरावत् स्वशरीरजरादावस्वातन्त्र्यदर्शनात् सर्वत्रास्वातन्त्र्यं ज्ञातव्यं जीवस्य । ईश्वरस्य तु देहस्यापि च्छेदादेरभावात् स्वातन्त्र्यम् । नैनं छिन्दन्तीति च्छेदनाद्यभावः साक्षादेव दर्शयितुं शक्यते स्वदेहस्येति वर्तमानापदेशः । छेदादिकं त्वीश्वरो मोहाय मृषैव दर्शयति ।।24।।
सर्वगतश्चेत् परमात्मा किमिति तथा न दृश्यत इत्यतो वक्ति- अव्यक्तोयमिति ।। कथमेद्युज्यते ? अचिन्त्यशक्तित्वात् । न च सा शक्तिः कदाचिदन्यथा भवति । अविकार्यत्वात् । यानि यान्यस्य रूपाणि तानि सर्वाण्यप्येवम्भूतानीति दर्शयितुं "एनम्' "अयम्' इत्यादि पृथग्वचनम् । जीवे तु सर्वजीवेष्वनुगमार्थम् । सर्वं चैतच्छ्रुतिसिद्धम् ।
सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः ।। इति पैङ्गिश्रुतिः ।।
अदेहो देहावांश्चैव प्रोच्यते परमेश्वरः । अप्राकृतशरीरत्वाददेह इति कथ्यते ।।
शिरश्चरणबाह्वादिविग्रहोयं स्वयं हरिः । स्वस्मान्नान्यो विग्रहोस्य ततश्चादेह उच्यते ।।
स्वयं स्वरूपवान्यस्माद्देहवांश्चोच्यते ततः । शिरश्चरणबाह्वादिः सुखज्ञानादिरूपकः ।।
स च विष्णोर्न चान्योस्ति यस्मात् सोचिन्त्यशक्तिमान् । देहयोगवियोगादिस्ततो नास्य कथञ्चन ।।
गुणरूपोपि भगवान् गुणभुक् च सदा श्रुतः । अहमित्यात्मभोगो यत्सर्वेषामनुभूयते ।।
अभिन्नेपि विशेषोयं सदानुभवगोचरः । विशेषोपि हि नान्योतः स च स्वस्यापि युज्यते ।।
नानवस्था ततः क्वापि परमैश्वर्यतो हरेः । युक्तायुक्तत्वमपि हि यदधीनं सदेष्यते ।।
प्रमाणावमते तत्र कुत एव ह्ययुक्तता ।। इत्यादि परमश्रुतिः ।
गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुताः अपि नैवात्र शङ्का ।
चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ।। इत्यादि च ऋग्वेदे सौपर्णशाखायाम् ।
एकमेवाद्वितीयं तत् नेह नानास्ति किञ्चन । मृत्यो स मृत्युमाप्नोति य इह नानेव पश्यति ।।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ।।
मत्स्यकूर्मादिरूपाणां गुणानां कर्मणामपि । तथैवावयवानां च भेदं पश्यति यः क्वचित् ।।
भेदाभेदौ च यः पश्येत् स याति तम एव तु । पश्येदभेदमैवैषां बुभूषुः पुरुषस्ततः ।।
अभेदेपि विशेषोस्ति व्यवहारस्ततो भवेत् । विशेषिणां विशेषस्य तथा भेदविशेषयोः ।।
विशेषस्तु स एवायं नानवस्था ततः क्वचित् । प्रादुर्भावादिरूपेषु मूरूपेषु सर्वशः ।।
न विशेषोस्ति सामर्थ्ये गुणेष्वपि कदाचन । मत्स्यकूर्मवराहाश्च नृसिंहवटुभार्गवाः ।।
राघवः कृष्णबुद्धौ च कल्किव्यासैतरेयकाः । दत्तो धन्वन्तरिर्यज्ञः कपिलो हंसतापसौ ।।
शिंशुमारो हयास्यश्च हरिः कृष्णश्च धर्मजः । नारायणस्तथेत्याद्याः साक्षान्नारायणः स्वयम् ।।
ब्रह्मरुद्रौ शेषविपौ शक्राद्या नारदस्तथा । सनत्कुमारः कामभवोप्यनिरुद्धो विनायकः ।।
सुदर्शनाद्यायुधानि पृथ्वाद्याश्चक्रवर्तिनः । इत्याद्या विष्णुनाविष्टा भिन्नाः संसारिणो हरेः ।।
नरार्जुनादिषु तथा पुनरावेश उच्यते । स्वल्पस्तु पुनरावेशो धर्मपुत्रादिषु प्रभोः ।।
एतज्जानाति यस्तस्मिन् प्रीतिरभ्यधिका हरेः । सङ्करज्ञानिनस्तत्र पातस्तमसि च ध्रुवम् ।। इत्यादि महावाराहे ।।25।।
तिष्ठतु तावदयं विस्तारः । यावन्मोक्षं जीवस्य जन्ममरणे स्वयमेव मन्यसे न तु नियमेन । तथापि तावन्मात्रेणापि ज्ञानेन शोचितुं नार्हसि । "नित्यं सनातनं प्रोक्तं नित्यं नियतमेव च' इति शब्दनिर्णये । अत्र तु नियतम् । "जातस्य हि ध्रुवः' इति प्रकाशनात् ।।26।।
तस्मान्नात्राश्चर्यबुद्धिः कर्तव्या ।।27।।
किं तर्ह्याश्चर्यो भगवानेवेत्याह- आश्चर्यवदिति ।। आश्चर्यमेव सन्तमेनमाश्चर्यवत् पश्यति । न पुनरनाश्चर्यम् ।"गगनं गगनाकारं सागरं सागरोपमम्' इत्यादिवत् ।
आश्चर्यो भगवान् विष्णुर्यस्मान्नैतादृशः क्वचित् । तस्मात् तद्गोचरं ज्ञानं तद्गोचरवदेव तु ।। इति ब्रह्मतर्के ।
अनाश्चर्यवदप्यसुरादयः पश्यन्तीति कश्चिदिति विशेषणम् ।।29।।
देही कुतोवध्यः ? यस्मादयमीश्वरः सर्वस्य जीवस्य सूक्ष्मे स्थूले च देहे रक्षकत्वेनावस्थितः अत एवावध्यः । न स्वसामर्थ्यं कस्यापि ।
द्रव्यं कर्म च काश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ।। इति हि भागवते ।
तत तत्र स्थितो विष्णुर्नित्यं रक्षति नित्यदा । अनित्यदैवानित्यं च नित्यानित्ये ततस्ततः ।।
भावाभावनियन्ता हि तदेकः पुरुषोत्तमः ।। इति पाद्मे ।।30।।
जित्वा स्वर्गं महीं च । "ये युध्यन्ते प्रधनेषु शूरासः' इति श्रुतेः ।।37।।
सम्यक् ख्यातिर्ज्ञानं साङ्ख्यम् । युज्यतेनेनेति योगस्तदुपायः । "सम्यक्त्वदृष्टिः साङ्ख्यं योगस्तत्साधनं स्मृतम्' इति शब्दनिर्णये ।
ब्रह्मतर्कस्तर्कशास्त्रं विष्णुना यत्समीरितम् । अक्षपादकणादौ च साङ्ख्ययोगौ च हैतुकाः ।।
बौद्धपाशुपताद्यास्तु पाषण्डा इति कीर्तिताः । मीमांसा त्रिविधा प्रोक्ता ब्राह्मी दैवी च कार्मिकी ।।
ब्रह्मतर्कं च मीमांसा सेवेत ज्ञानसिद्धये । वैदिकज्ञानवैरूप्यान्नान्यत्सेवेत पण्डितः ।।
इत्यन्यसाङ्ख्ययोगयोर्निषिद्धत्वान्नारदीये । साङ्क्यस्य निरीश्वरत्वादुक्तत्वाच्चेश्वरस्य । साङ्ख्यैर्योगैश्च विहितहिंसाया अप्यनर्थहेतुत्वाङ्गीकारात् । अत एव युद्धविधानाच्च मोक्षार्थत्वेनैव "कर्मबन्धं प्रहास्यसि' इति । परमसाङ्ख्ययोगयोश्चोक्तार्थत्वेनैव न विरोधः ।।39।।
प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फला । न चान्यधर्मकरणाद्दोषवान् विष्णुधर्मकृत् ।। इत्याग्नेये ।
स्वोचितेनैव धर्मेण विष्णुपूजामृते क्वचित् । नाप्रवृत्तिः प्रवृत्तिर्वा यत्र धर्मः स वैष्णवः ।।
एनं धर्मं च देवाद्या वर्तन्ते सात्त्विका जनाः । एष कार्तयुगो धर्मः पाञ्चरात्रश्च वैदिकः ।।
तत्प्रीत्यर्थं विनान्यस्मै नोदबिन्दुं न तण्डुम् । दद्यान्निराशी च सदा भवेद्भक्तश्च केशवे ।।
नैतत्समेधिके वापि कुर्याच्छङ्कामपि क्वचित् । जानीयात्तदधीनं च सर्वं तत्तत्ववित्सदा ।।
यथाक्रमं तु देवानां तारतम्यविदेव च । एष भागवतो मुख्यस्त्रेतादिषु विशेषतः ।।
एष धर्मोतिफदो विशेषेण पुनः कलौ । एवं भागवतो यस्तु स एव हि विमुच्यते ।।
त्रैविद्यस्त्वपरो धर्मो नानादैवतपूजनम् । तत्रापि विष्णुर्ज्ञातव्यः सर्वेभ्योभ्यधिको गुणैः ।।
समर्पयति यज्ञाद्यमन्ततस्त्वेव विष्णवे । त्रैविद्यधर्मा पुरुषः स्वर्गं भुक्त्वा निवर्तते ।।
पुनः कुर्यात् पुनः स्वर्गं याति यावद्धरेर्वशे । सर्वान् देवान् प्रविज्ञाय तत्कर्मैव सदा भवेत् ।।
सम्यक्तत्वापरिज्ञानादन्यकर्मकृतेरपि । स्वर्गादिप्रार्थनाच्चैव रागादेश्चापरिक्षयात् ।।
सदा विष्णोरस्मरणात् त्रैविद्यो नाप्नुयात् परम् । क्रमेण मुच्यते विष्णौ कर्माण्यन्ते समर्पयत् ।।
यदि सर्वाणि नियमाज्जन्मभिर्बहुभिः शुभैः । परं विष्णुं न यो वेत्ति कुर्वाणोपि त्रयीक्रियाः ।।
नासौ त्रैविद्य इत्युक्तो वेदवादी स उच्यते । वादो विवादः संप्रोक्तो वादो वचनमेव च ।।
वेदोक्ते विष्णुमाहात्म्ये विवादात् पठनादपि । अथवा निरर्थकात् पाठाद्वेदवादी स उच्यते ।।
वेदवादरतो न स्यान्न पाषण्डी न हैतुकी । तेभ्यो याति तमो घोरमन्धं यस्मान्न चोत्थितिः ।।
अनारम्भमनन्तं च नित्यदुःखं सुखोज्झितम् । वव्रं यद्वेदगदितं तत्र यान्त्यसुरादयः ।।40।।
बुद्धिर्निर्णीततत्त्वानामेका विष्णुपरायणा । बहुशाखा ह्यनन्ताश्च बुद्धयोव्यवसायिनाम् ।। इति ब्रह्मवैवर्ते ।।41।।
अव्यवसायबुद्धिः केषाम् । यां वाचमविपश्चितः प्रवदन्ति तयापहृतचेतसां बुद्धिः व्यवसायात्मकत्वेन समाधाने न वर्तते ।
यथा वस्तु तथा ज्ञानं तत्साम्यात् सममीरितम् । विषमं त्वन्यथाज्ञानं समाधानं समस्थितिः ।।
न तद्भवत्यसद्वाक्यैर्विषमीकृतचेतसाम् । स्वर्गादिपुष्पवाद्येव वचनं यदचेतसाम् ।।
न मन्यन्ते फलं मोक्षं विष्णुसामीप्यरूपकम् । फदं च न मन्यन्ते तं विष्णुं जगतः पतिम् ।।
भोगैश्वर्यानुगत्यर्थं क्रियाबाहुल्यसन्तताम् । बहुसंसारफदामन्ते तमसि पातनीम् ।।
यां वदन्ति दुरात्मानो वेदवाक्यविवादिनः । तथा सम्मोहितधियां कथं तत्त्वज्ञता भवेत् ।। इति च ।
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृते तेनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ।। इति चाथर्वणीश्रुतिः ।
"वेदवादरतो न स्यान्न पाषण्डी न हैतुकी' इति हि भागवते ।
ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् । जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः ।।
निर्णेतॄणामभावेन केवलं ज्ञानवर्जिताः । ते याज्ञिकाः स्वर्गभोगक्षये यान्ति मनुष्यताम् ।।
यैनिश्चितं परत्वं तु विष्णोः प्रायो न यातनाम् । ब्रह्महत्यादिभिरपि यान्त्याधिक्ये चिरं न तु ।।
विशेष एव तेषां तु तदन्येषां विपर्ययः । ये तु भागवताचार्यैः सम्यग्यज्ञादि कुर्वते ।।
बहिर्मुखा भगवतोनिवृत्ताश्च विकर्मणः । दक्षिणातर्पितानां तु ह्याचार्यानां तु तेजसा ।।
यान्ति स्वर्गं ततः क्षिप्रं तमोन्धं प्राप्नुवन्ति च । तदन्ये नैव च स्वर्गं यान्ति विष्णुबहिर्मुखाः ।। इति नारदीये ।।42-44।।
त्रैगुण्याख्यं विषं यापयन्त्यपगमयन्तीति त्रैगुण्यविषयाः ।
आश्रित्य वेदांस्तु पुमान् त्रैगुण्यविषहारिणः । निस्त्रैगुण्यो भवेन्नित्यं वासुदेवैकसंश्रयः ।। इति ।
"सत्त्वं साधुगुणाद्विष्णुरात्मा सन्ततिहेतुतः ।' इति च । सन्ततविष्णुस्मरणं नित्यसत्त्वस्थत्वम् । परमात्मा मम स्वामीति ज्ञानमात्मवत्त्वम् । तेनैक्यज्ञानं निवारयति । विरुद्धयोगक्षेमेच्छावर्जितः । अन्यथोत्थानादेरप्ययोगात् ।।45।।
उद्रेकात् पातृराहित्यादनत्वाच्चाखिस्य च । प्रयेप्युदपानोसौ भगवान् हरिरीश्वरः ।।
प्रकृतिर्ह्युदरूपेण सर्वमावृत्य तिष्ठति । प्रयेतो यं प्राहुः सर्वतः सम्प्लुतोदकम् ।। इति च ।
यावत्प्रयोजनं विष्णोः सकाशात् साधकस्य च । धर्ममोक्षादिकं तावत् सर्ववेदविदो भवेत् ।।
वेदार्थनिर्णयो यस्माद् विष्णोर्ज्ञानं प्रकीर्तितम् । ज्ञानात् प्रसन्नस्य हरिर्यतोखिप्रदः ।। इति च ।
सर्वतः संप्लुतोदकेप्युद्रिक्तः पाकवर्जितः कालाद्यनश्च यो विष्णुस्तस्माद्यावत्फलं तावत् सर्ववेदेषु विशेषज्ञस्यैव भवतीत्यर्थः । सर्वे हि विष्णोरन्ये प्रयकाले नोद्रिक्ताः । ये चोद्रिक्ताः मुक्ता रमा च तेपि न पाकवर्जिताः । विष्णुपाल्यत्वात् । न च मुक्ताः कालादिचेष्टकाः । न चोद्रिक्तत्वं तेषां तद्वत् । अतः उदपानो विष्णुरेव । प्रये विशेषतोपि ।
"आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास । तम आसीत् तमसा गूळ्हमग्रेप्रकेतं सिलं सर्वमा इदम् ।।'
"आपो वा इदमग्रे सिमासीत्' "सि एको द्रष्टाद्वैतो भवति' इत्यादिश्रुतिभ्यः ।।46।।
कर्माधिकारिण एव त्वदादयो जीवाः फलं तु मदायत्तमिति भावः । मा कर्मफहेतुर्भूर्नेश्वरोहमिति भावं कुरु ।
"एष उ एष शुभाशुभैः कर्मफलैरेनं संयोजयति न स्वयं संयुक्तो भवति ।
यदेनं कर्मफलैः संयोजयति न स्वयं संयुक्तो भवति तस्मादन्य एवासौ भगवान् वेदितव्यः।। इति पैङ्गिश्रुतिः ।।47।।'
सङ्गं फस्नेहम् ।।48।।
बुद्धौ जातायामपि विष्णुमेव शरणमन्विच्छ ।
अज्ञानां ज्ञानिनां चैव मुक्तानां शरणं हरिः । तं ये स्वैक्येन मन्यन्ते सर्वभिन्नं गुणोच्छ्रयात् ।।
कृपणास्ते तमस्यन्धे निपतन्ति न संशयः । न तेषामुत्थितिः क्वपि नित्यातिशयदुःखिनाम् ।।
गुणभेदविदां विष्णोर्भेदाभेदविदामपि । देहकर्मादिषु तथा प्रादुर्भावादिकेपि वा ।।
स्वोद्रिक्तानां तदीयानां निन्दां कुर्वन्ति येपि च । सर्वेषामपि चैतेषां गतिरेषा न संशयः ।। इति नारदीये ।।49।।
यथावद्विष्णुं ज्ञात्वा तदर्थत्वेन कर्मकरणमित्येतत्कर्मकौशमेव योगः । भगवज्ज्ञानमेव बुद्धिः ।।50-51।।
निर्वेदं नितरां लाभम् ।
बुद्धिमोहो यदा न स्यादन्यथाज्ञानक्षणः । श्रोतव्यश्रुतसाफल्यं तदा प्राप्नोति मानवः ।।
श्रुतिमार्गं प्रपन्ना तु तदर्थज्ञाननिश्चला । समाधानेन तु पुनरापरोक्ष्याच्च निश्चला ।।
विष्णौ प्राप्स्यति तद्योगं मुक्तो भूत्वा तदश्नुते । इति च । श्रुतौ विशेषेण प्रतिपन्ना ।।52-53।।
का भाषा ? कथं भाष्यते ? कैर्गुणैः ? समाधिस्थस्य विषमबुद्धिवर्जितस्य ।।54।।
सर्वकामनिवृत्तिस्तु जानतो न कथञ्चन । अनिषिद्धकामितैवातो ह्यकामित्वमितीर्यते ।।
अपरोक्षदृशोपि स्याद् यदा नास्त्यपरोक्षदृक् । क्वचिद्विरुद्धकामोपि यथायुध्यद्धरो हरिम् ।।
अतोनभिभवो यावद् दृशस्तावन्निगद्यते । स्थितप्रज्ञस्तथाप्यस्य कादाचित्क्यपि या दृशिः ।।
नियमेनैव मोक्षाय भवेद्योग्या भवेद्यदि । अयोग्या भक्तिजाता चेत्क्रमान्मुक्त्यै भवेत्तथा ।। इति च ।
आत्मनि विष्णौ । आत्मना विष्णुना । तत्प्रसादादेव तुष्टः ।।55।।
रसो रागः ।।59।।
संमोहात् मिथ्याज्ञानात् ज्ञातमप्यन्यथा स्मर्यते । वाक्यार्थानामन्यथास्मरणान्निर्णीतं ज्ञानमपि नश्यति ।।63।।
शान्तिर्भगवन्निष्ठा । "शमो मन्निष्ठता' इति च भागवते ।।66।।
देवेभ्योन्ये यदा ब्रह्म पश्यन्त्यन्यन्न दृश्यते । निशायामिव सुव्यक्तं यथान्यैबर्रह्म नेयते ।।
आश्चर्यवस्तुदृक् यद्वद् व्यक्तमन्यन्न पश्यति । ऐकाग्र्याद्वा सुखोद्रेकाद्देवाः सूर्यवदेव च ।।
प्रायशः सर्ववेत्तारस्तत्रापि ह्युत्तरोत्तरम् ।। इति ब्रह्मतर्के ।।69।।
भुञ्जानोपि हि यः कामान् मर्यादां न तरेत् क्वचित् । समुद्रवद्धर्ममयीं नासौ कामी स मुच्यते ।।
केति कुत्सितवाची स्यात् कुत्सितं मानमेव तु । कामो मोक्षविरोधी स्यान्न सर्वेच्छा विरोधिनी ।। इति च । न च सर्वेच्छाभावे जीवनं भवति । "शान्तिर्मोक्षो यतो ह्यत्र विष्णुनिष्ठा भवेद् ध्रुवा' इति च ।।70।।
निषिद्धस्पृहाभावमात्रेण सर्वविषयान् विहाय ।
अस्वरूपे स्वरूपत्वमतिरेव ह्यहङ्कृतिः । त्याज्या सर्वत्र ममता ज्ञात्वा सर्वं हरेर्वशे ।। इति च ।।71।।
ब्राह्मी ब्रह्मविषया ज्ञानिनामप्यन्तकालेन्यमनसां प्रारब्धकर्मभावाज्जन्मान्तरम् । प्रारब्धकर्मनाशकाले नियमेन भगवत्स्मृतिर्भवति । ततो मोक्षश्च । "यं यं वापि स्मरन् भावम्' इति हि वक्ष्यति । बाणं शरीरम् ।
अभावाज्जडदेहस्य विष्णुनिर्वाण उच्यते । भिन्नदेहाभावतो वा स सहस्रशिरा अपि ।। इति च ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये द्वितीयोऽध्यायः
********************************************************************************************************************
अथ तृतीयोध्यायः
ज्ञाने योगश्चोक्तौ । तत्र कर्मयोगं विशेषतः प्रपञ्चयत्यनेनाध्यायेन । "दूरेण ह्यवरं कर्म' इति प्रश्नबीजम् ।।1।।
ज्ञानप्रचुरो योगो ज्ञानयोगः । कर्मप्रचुरोन्यः ।
साङ्ख्या ज्ञानप्रधानत्वाद्देवाश्च यतयस्तथा । मुख्यसाङ्ख्यास्तत्र देवा ज्ञानमेषां महद्यतः ।।
बहुकर्मकृतोप्येते ततोपि बहुवेदनात् । मुख्यसाङ्ख्या इति ज्ञेयास्तदन्ये कर्मयोगिनः ।।
ज्ञानिनोप्यतिबाहुल्यात् कर्मणः कर्मयोगिनः । नोभयं तद्विना कश्चित् पुमान् हि पुरुषार्थभाक् ।।
न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । न च ज्ञानं विना कर्म पुरुषार्थकरं भवेत् ।। इति ब्रह्मवैवर्ते ।
निष्ठा पर्यवसितिर्मुक्तिः ।
ज्ञानिनो मोक्षनियमस्तथापि शुभकर्मणा । आनन्दवृद्धिरन्येन ह्रासो ज्ञानं तु कर्मणा ।।
इति परमश्रुतेः "न कर्मणा न प्रजया धनेन' इत्यादिविरोधो न । अन्यथा "न कर्मणामनारम्भात्' इत्युभयसमवाक्यशेषविरोधश्च । समत्वं च "न हि कश्चित्' इत्यादेः । "नान्यः पन्थाः' इत्यपि ज्ञानमृते न मोक्ष इत्येवाह ।।3-4।।
कर्तृत्वं द्विविधं प्रोक्तं विकारश्च स्वतन्त्रता । विकारः प्रकृतेरेव विष्णोरेव स्वतन्त्रता ।।
इति परमश्रुतेः "कार्यते ह्यवशः' इत्यत्रावशो विष्णुवशः । "अः इति ब्रह्म' इत्यादि श्रुतेः ।।5-8।।
"कर्मणा बध्यते जन्तुः' इत्यादिकमप्यवैष्णवकर्मविषयमित्याह- यज्ञार्थमिति ।।
ज्ञो नाम भगवान् विष्णुस्तं यात्युद्देश एष यः । स यज्ञ इति सम्प्रोक्तो विहिते कर्मणि स्थितः ।। इति बर्कश्रुतिः ।।9।।
अननात् परसस्यादेः पर्जन्यो मेघसन्ततिः । स यज्ञात् कर्मणः सोपि समस्तं कर्म केशवात् ।।
स नित्योप्यक्षरततिरूपाद्वाक्याद्धि गम्यते । वाक्यमुच्चार्यते भूतैस्तान्यन्नात्तच्च मेघतः ।।
तस्मात् सर्वगतो विष्णुर्नित्यं यज्ञे प्रतिष्ठितः । एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।।
स पापो विश्वहन्तृत्वान्नरके मज्जति ध्रुवम् । वाचिको मानसो यज्ञो न्यासिनां तु विशेषतः ।।
वनस्थस्याक्रतुर्यज्ञः क्रत्वादिर्गृहिणोखिलः । शुश्रूषाद्यात्मको यज्ञो विहितो ब्रह्मचारिणः ।।
विद्याभयादिदानं च सर्वेषामपि सम्मतम् । गृहिणो वित्तदानं तु वनस्थस्यान्नपूर्वकम् ।।
सर्वै कार्यं तपो घोरमिति सर्वे त्रिकर्मिणः ।। इति नारदीये ।
ब्रह्माक्षरशब्दार्थयोर्व्यत्यासे "तस्मात् सर्वगतं ब्रह्म' इति प्रत्यभिज्ञाविरोधश्चक्राप्रवेशश्च ।।14-16।।
तृप्तिसन्तोषशब्दयोः पर्यायत्वेपि परमात्मना तृप्तः परमात्मनि तृप्त इति विशेषः ।
विष्णुप्रसादाद्रतिमान् तृप्तो विष्णुप्रसादतः । विष्मावेवातितृप्तश्च मुक्तोसौ विध्यगोचरः ।। इत्याग्नेये ।
रतिरानन्द उद्दिष्टस्तृप्तिस्तु कृतकृत्यता । प्रीतिस्तु द्विविधः स्नेहः कर्मजो निज एव च ।। इति शब्दनिर्णये ।
"सन्तोषस्तृप्तिरापूर्तिः प्रीतिः पर्यायवाचकाः' इत्यभिधाने ।।17-18।।
यस्मादमुक्तस्य कार्यमस्त्येव तस्मादसक्तः । असक्त आचरन्नेव यस्मात् परमाप्नोति । मुक्तस्यैव कार्यं नास्तीत्येवकारार्थोपि "यस्तु' इति तुशब्देनावगतः । "तस्मात् कर्म समाचर' इत्युपसंहारविरोधश्चान्यथा ।
ब्रह्मनिष्ठा ब्रह्मरता ब्रह्मज्ञानसुतर्पिताः । पाण्डवानां च मुक्तानामन्तरं किञ्चिदेव हि ।।
इति भविष्यत्पर्ववचनाच्च नार्जुनस्यामुख्याधिकारिता । आत्मरतिरेव स्यादित्येवशब्दन मुक्तानामेभ्यो विशेषो दर्शितः । एषां कदाचिद्दुःखाभासस्यापि भावात् ।।19।।
सहैव कर्मणा सिद्धिमास्थिता जनकादयः । ज्ञाननिष्ठा अपि ततः कार्यं वर्णाश्रमोचितम् ।। इति च ।
अज्ञानां ज्ञानदं कर्म ज्ञानिनां ोकसङ्ग्रहात् । अद्धैव तुष्टिदं मह्यं सा मुक्तानन्दपूर्तिदा ।।20-21।।
ममैव केवलं नास्ति केनाप्यर्थस्तथाप्यहम् । कर्मकृल्लोकरक्षायै तस्मात् कुर्वीत मत्परः ।। इति कृष्णसंहितायाम् ।
रक्षया वाथ सृष्टया वा संहृत्यादेर्न तु क्वचित् । अर्थो विष्णोस्तथाप्येष स्वभावात् सर्वकर्मकृत् ।।
मत्तो नृत्तादिकं यद्वत् कुर्यात् सुखविशेषतः । परमानन्दरूपत्वात् कुर्याद्विष्णुस्तथैव तु ।। इति बर्कश्रुतिः ।।22-26।।
नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिम् । तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा ।।
तद्भक्तिस्तत्फलं मह्यं तत्प्रसादः पुनः पुनः । कर्मन्यासो हरावेवं विष्णोस्तृप्तिकरः सदा ।।
यस्मात् स्वतन्त्रकर्तृत्वं विष्णोरेव च नान्यगम् । तदधीनं स्वतन्त्रत्वं स्यावरापेक्षयैव तु ।।
जीवस्य विकृतिर्नाण कर्तृत्वं जडसंश्रयम् । पुमान् दोग्धा च गौर्दोग्ध्री स्तनो दोग्धेतिवत् क्रमात् ।।
इति ब्रह्मतर्कवचनादीश्वरजीवाप्रकृत्यादीनां कर्तृत्वमकर्तृत्वं च विभागेन ज्ञातव्यं सर्वत्र ।
क्वचित् स्वभावः प्रकृतिः क्वचिच्च त्रिगुणात्मिका । क्वचित् प्रकृष्टकर्तृत्वाद्भगवान् प्रकृतिर्हरिः ।। इति शब्दनिर्णये ।
स्वभावतस्त्रिधा जीवा उत्तमाधममध्यमाः । उत्तमास्तत्र देवाद्या मर्त्यमध्यास्तु मध्यमाः ।।
अधमा असुराद्याश्च नैषामस्त्यन्यथाभवः । शरीरमात्रान्यथात्वे स्वजातिं पुनरेष्यति ।।
उत्तमा मुक्तियोग्यास्तु सृतियोग्यास्तु मध्यमाः । अपरेन्धतमोयोग्याः प्राप्तिः साधनपूर्तितः ।।
पूर्त्यभावेन सर्वेषामनादिः संसृतिः स्मृता । नैव पूर्तिश्च सर्वेषां नित्यकाहरीच्छया ।।
अतोनुवर्तते नित्यं संसारोयमनादिमान् । अतोधमानां जीवानां मिथ्याज्ञानादयोखिाः ।।
स्वाभाविकगुणाः ज्ञेया मध्यमर्त्येषु मिश्रिताः । तत्त्वज्ञानं विष्णुभक्तिरित्याद्या देवतादिषु ।।
कार्यते ह्यवशः कर्म सर्वस्तैः प्राकृतैर्गुणैः । स्वाभाविकगुणानेतान् हेतुं कृत्वैव विष्णुना ।।
कर्मसु क्रियमाणेेषु कर्ताहमिति मूढधीः । मन्यते तत्त्वविद्विष्णोर्गुणा इच्छादयस्तु ये ।।
स्वाभाविकेषु जीवस्य कामाद्येषु सदैव तु । प्रेरकत्वेन वर्तन्ते स्वातन्त्र्यं मम न क्वचित् ।।
इति मत्वा न सक्तः स्यात् प्रीतोस्य भवति प्रभुः । स्वभावगुणसंमूढा ज्ञानादिगुणवत्तरम् ।।
स्वातन्त्र्येणैव कर्तारं चात्मानं प्रतिजानते । तान् गुणान् कर्म तच्चैव विष्ण्वधीनं न ते विदुः ।।
तेष्वयोग्येषु तत्त्वज्ञस्तत्त्वं नातिप्रकाशयेत् । वदेद्विवादरूपेण नोपदेशात्मना क्वचित् ।।
सभ्यरूपेण वा ब्रूयात् पृष्टेव्यक्तिकृदेव वा । बुद्ध्वाप्यसौ यतो नित्यं स्वभावानुगचेष्टितः ।।
स्वभावं यान्ति भूतानि निग्रहः किं करिष्यति ।। इत्यादिप्रकाशसंहितायाम् ।।35।।
परमेश्वराद्देवेभ्यश्चार्वाक्तनं प्रेरकं पृच्छति- अथ केनेति ।।36।।
अखिप्रेरको विष्णुबर्रह्माद्यास्तदवान्तराः । असुरा अशुभेष्वेव कामादेरभिमानिनः ।।
तत्र कामः कानेमिः सर्वं धूममलोल्बवत् । शुभमध्यधमजनं क्रमादावृत्य तिष्ठति ।।
महाशनस्य तस्येदं नालं तेनानलोग्निवत् । भुञ्जान इन्द्रियाविष्टो ज्ञानास्त्रेणैव दह्यते ।। इति ब्रह्मतर्के ।
ज्ञानावरणरूपेणेदमावृणोतीत्यावृतं ज्ञानमिति पुनराह । न केवलं दुष्पूरो नामिति मन्यते चेत्यनः । "अग्रेरप्यनलः कामो यन्नामिति मन्यते' इति च ।।37-41।।
सर्वेभ्यः प्रवरा देवा इन्द्राद्या इन्द्रियात्मकाः । तेभ्यो मनोभिमानी तु रुद्रस्तस्मात् सरस्वती ।।
बुद्ध्यात्मिका ततो ब्रह्मा महानात्मा वरः स्मृतः । अव्यक्तरूपा क्ष्मीश्च वरातोतो हरिः स्वयम् ।।
न तत्समोधिको वेति ह्यानुपूर्वी प्रकीर्तिता । यथाक्रमप्रबोधेन नाश्याः कामादिशत्रवः ।।
प्राप्यते च परं स्थानं विष्णोरतुमञ्जसा ।। इति च ।
न च "इन्द्रियेभ्यः परा ह्यर्थाः' "रुद्रोहङ्कृतिरूपकः' इत्यादिविरोधः ।
सर्वाभिमानिनो देवाः सर्वेपि ह्युत्तरोत्तरम् । आधिक्यं वक्तुमेवैषां पृथक् स्थानमुदीर्यते ।।
आधिक्यक्रम एवात्र शास्त्रतात्पर्यमिष्यते । स्थानेषु त्ववरेषां च परे सन्ति न चेतरे ।।
तथापि पितुरर्थो यः पुत्रस्याप्युपचर्यते । अव्यक्तादिपदार्थानां सर्वे तदभिमानिनः ।। इति च ।
"यत्र ह क्व च तत्पितुर्यत्र वा पितुस्तत् पुत्रस्येत्येतत् तदुक्तं भवति ।' इत्यादिश्रुतेश्च ।
"बहुवाचिनां तु शब्दानां लिङ्गप्रकरणादिभिः । प्रवृत्तिहेतोश्चाधिक्यान्निर्णयोर्थेषु गम्यते।।' इति शब्दनिर्णये ।
लिङ्गादिसाम्यं यत्र स्यात् प्रयोगाधिक्यमेव तु । निर्णायकं भवेत्तत्र तेन स्यात् सुबहुश्रुतः ।। इति ब्रह्मतर्के ।।42-43।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये तृतीयोध्यायः॥
**************************************************************************************
अथ चतुर्थोऽध्यायः
उक्तयोर्ज्ञानकर्मणोरुभयोर्विशेषविस्तारात्मकोयमध्यायः ।
ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा । पञ्चरात्रात्मकं ज्ञानं व्यासोदात् पाण्डवेषु तत् ।।
तेषामेवावतारेषु सेनामध्येर्जुनाय च । प्रादाद्गीतेति निर्दिष्टं सङ्क्षेपेणायुयुत्सवे ।।
यथा कुर्वन्ति कर्माणि यथा जानन्ति देवताः । सर्वे कार्तयुगाश्चैव नृपाश्च मनुपूर्वकाः ।।
ज्ञातव्यं चैव कर्तव्यं यथा सर्वैर्मुमुक्षुभिः । त्रेतादित्रिषु जातैश्च गीतायां तदुदाहृतम् ।।
पाण्डवाद्याः क्षेमकान्ताः करिष्यन्ति च जानते । तथैव तेन गीताया नास्ति शास्त्रं समं क्वचित् ।।
वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतोखिम् । तत्सङ्क्षेपश्च गीतेयं तस्मान्नास्याः समं क्वचित् ।। इति ब्रह्मवैवर्ते ।।1-3।।
जानन्तोपि विशेषार्थज्ञानाय स्थापनाय वा । पृच्छन्ति साधवो यस्मात्तेन पृच्छसि पार्थिव ।।
इत्याग्नेयवचनान्नार्जुनो भगवन्तं न जानाति ।।4-5।।
आत्ममायया आत्मेच्छया । प्रकृतिं स्वामधिष्ठाय स्वभावम् । "देवस्यैष स्वभावोयम्' इत्यादिश्रुतेश्च । अत एव स्वशब्देन विशेषणं "प्रकृतिं स्वामवष्टभ्य' इत्यादिषु । "मयाध्यक्षेण प्रकृतिः' इत्यादिषु तु न स्वशब्दः । "प्रकृतिं विद्धि मे पराम्' इत्यादिषु सम्बन्धित्वेन प्रतीतेरन्या । अत्र तु स्वशब्दः स्वरूपवाची । स्वभाव इत्यत्रापि स्वाख्यो भावः स्वभावः । भावशब्दस्तु सम्बन्ध्याशङ्कानिवृत्तये । स्वस्वभाव इति तु स्वस्वरूपमितिवदुपचारत्वाशङ्कां निवर्तयति ।
स्रष्टृत्वादिस्वभावत्वात् स्वेच्छया विष्णुरव्ययः । सृष्ट्यादिकं करोत्यद्धा स्वयं च बहुधा भवेत् ।। इति नारायणश्रुतिः ।।6-8।।
येषां गुणानां ज्ञानेन मुक्तिरुक्ता पृथक् पृथक् । वेदेषु चेतिहासेषु सा तु तेषां समुच्चयात् ।।
एवमेव शमादीनां नान्यथा तु कथञ्चन ।।
इति ब्रह्मवैवर्तवचनात् "जन्म कर्म च' इत्यादिषु न तावन्मात्रेण मोक्षः ।।9।।
मयं प्रधानमुद्दिष्टं प्राधान्यं यैर्हरेर्मतम् । भगवन्मयास्ते विज्ञेयास्ते मुच्यन्ते न चापरे ।। इति च । मयि भावो मद्भावः ।।10।।
तथैव भजामि तदनुसारिफदानरूपेण । अन्यदेवतायाजिनामपि मत्समर्पणेन वैष्णवमार्गानुवर्ततेनैव सम्यक् फलं भवति ।
अन्यदैवतपूजापि यस्मिन्नन्ते समर्पिता । स्वर्गादिफहेतुः स्यान्नान्यथा तं भजेद्धरिम् ।। इत्याग्नेये ।।11-12।।
सत्त्वासत्त्वाधिकरजोरजोभिस्तमसा तथा । वर्णा विभक्ताश्चत्वारः सात्त्विका एव वैष्णवाः ।। इति च ।
कर्मविभागं "शमो दमः' इत्यादिना वक्ष्यति ।
वैष्णवाः सात्त्विका एव तामसा एव चापरे । दौर्भ्यसुभत्वेन तेषां वर्णादिभिन्नता ।। इति च ।
स्वाभाविको ब्राह्मणादिः शमाद्यैरेव भिद्यते । योनिभेदकृतो भेदो ज्ञेय औपाधिकस्त्वयम् ।।
विष्णुभक्तिश्चानुगता सर्ववर्णेषु विश्पतिम् । आरभ्य हीयतेथापि भेदः स्वाभाविकस्ततः ।। इति नारदीये ।
कर्तापि भगवान् विष्णुरकर्तेति च कथ्यते । तस्य कर्ता यतो नान्यः स्वतन्त्रत्वात् परात्मनः ।। इति च ।
अपिशब्दो गुणसमुच्चयार्थः कर्ता मे नास्तीत्यपि विद्धीति । जीवाभेदनिवृत्त्यर्थं मामिति विशेषणम् ।।13-16।।
कर्मापि नः मत्त इति बोद्धव्यमित्यादि ।।17।।
कर्मणि जीवे । अस्वातन्त्र्यादकर्म । कर्मविधिफयोरभावात् अकर्मणि विष्णौ स्वातन्त्र्यात् सर्वकर्मकर्तृत्वम् ।
करोस्मिन् मीयत इति कर्म जीव उदाहृतः । विधिशब्देनामितत्वात् अकर्म भगवान् हरिः ।। इति नारदीये ।
कर इति सकारान्तोदृष्टवाची । क्रियावाची वा । तदधीनत्वात् । प्रसिद्धश्च जीवे कर्मशब्दः पञ्चरात्रे । कृत्स्नफवत्त्वात् कृत्स्नकर्मकृत् ।।18।।
अनिराश्रयो भगवदाश्रयत्वात् । मुक्तस्य स्वातन्त्र्याभिमानात् ।।19-23।।
कथमभिमानत्यागः । ब्रह्मार्पणमित्यादि । ब्रह्मण्यर्पणं ब्रह्मार्पणम् । ब्रह्मो हविः । ब्रह्मणोग्नौ । ब्रह्मणः कर्म । समाधिना सह । समाधिरपि तदधीन इत्यर्थः । "एकः स्वतन्त्रो भगवांस्तदीयं त्वन्यदुच्यते' इति भारते ।।24।।
दैवं विष्णुमेव यज्ञ इत्युपासते । स्वभोग्यत्वात् स्वयमेव यज्ञः । ब्रह्माख्याग्नौ क्रियायज्ञं तेनैव यज्ञाख्येन विष्णुना समर्पयन्ति ।।25।।
तत्पूजात्वेन श्रोत्रादिसंयमं कुर्वन्ति । यज्ञेनैवेति सर्वत्राप्यन्वीयते ।
तेनैव तं पूजयेद्वा विहितैर्वान्यसाधनैः । स एव विष्णोर्यज्ञः स्यान्मानसो वा सबाह्यकः ।। इति ब्रह्मवैवर्ते ।।27-31।।
श्रोत्रादीनि इत्यादिषु इज्यानुक्तेरिज्योन्य इति शङ्कां निवारयति- वितता ब्रह्मणो मुखे इति ।। "सर्वयज्ञैः परं ब्रह्म याज्यं विष्ण्वाख्यमव्ययम्' इति च ।।32।।
सर्वं कर्म आखिम् आ समन्तादल्पं ज्ञाने परिसमाप्यते । ज्ञाने जाते पूर्यते । "समाप्तविद्यान् धनुषि श्रेष्ठान् यान् सप्त मन्यसे' इतिवत् समाप्तिशब्दोत्र पूर्तिवाची । "ज्ञानासिनात्मनः । छित्वैनं संशयं योगमातिष्ठ' इति पुनर्योगकथनात् ।।33।।
"ज्ञानं तेहं सविज्ञानम्' इति वक्ष्यमाणत्वात् स्वयमेवोपदेक्ष्यति ।।34।।
आत्मनि व्याप्ते मयि । अथो तस्मात् व्याप्तत्वादेव ।।35-40।।
आत्मवन्तं परमात्मभक्तम् ।।41-42।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये चतुर्थोध्यायः ॥
***************************************************************************************************************************************************
अथ पञ्चमोध्यायः॥
योगसंन्यासयोर्क्षणं स्पष्टयत्यनेनाध्यायेन । "योगसंन्यस्तकर्माणं ' इत्यादौ न्यासशब्दः सर्वकर्मत्यागविषय इत्याशङ्क्य योगसंन्यासयोर्भिन्नपुन्निष्ठत्वाभिप्रायेण पृच्छति- संन्यासमिति ।।1।।
एकपुंयोग्यवेतौ तयोर्मध्ये योग एव विशिष्ट इति परिहाराभिप्रायः । उभौ समुच्चितौ । "सन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः' इति वक्ष्यमाणत्वात् ।।2।।
द्वेषादिवर्जनमेव संन्यासशब्दार्थो न यत्याश्रमोत्राभिप्रेत इत्याह- ज्ञेय इति ।। न च "काम्यानां कर्मणां न्यासं'
इत्यनेन विरोधः । तेनापि सहितस्य न्यासत्वात् । न च त्यागस्य पृथग्वचनाद्विरोधः । कुरुपाण्डववत् न्यासावान्तरभेदत्वात् त्यागस्य ।।3।।
बालास्तु न्यासशब्देन यत्याश्रममेव स्वीकृत्य तत्स्थानामेव साङ्ख्यशब्दोदितज्ञानाधिकारः, गृहस्थानामेव योगशब्दोदितकर्माधिकार इति मन्यन्ते । तन्न पण्डिता मन्यन्ते । कुतः ? यस्माज्ज्ञानमार्गं कर्ममार्गं वा सम्यगास्थित उभयोरपि फलं प्राप्नोति । तस्माज्ज्ञानिनां कर्माप्यनुष्ठेयम् । कर्मिणामपि गृहस्थानां ज्ञातव्यो भगवान् । न हि ज्ञानं विना कर्मणः सम्यगनुष्ठानं भवति ।
निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ।।
बुद्ध्याविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत् । वासुदेवात्मकं ब्रह्म मूमन्त्रेण वा यति लः ।।
मुक्तिरस्तीति नियमो ब्रह्मदृग् यस्य विद्यते । तस्याप्यानन्दवृद्धिः स्याद्वैष्णवं कर्म कुर्वतः ।।
कर्म ब्रह्मदृशा हीनं न मुख्यमिति कीर्तितम् । तस्मात् कर्मेति तत्प्राहुर्यत्कृतं ब्रह्मदर्शिना ।।
एतस्मान्न्यासिनां लोकं संयान्ति गृहिणोपि हि । ज्ञानमार्गः कर्ममार्ग इति भेदस्ततो न हि ।।
तस्मादाश्रमभेदोयं कर्मसङ्कोचसम्भवः ।। इति व्यासस्मृतेः ।।4-5।।
मोक्षोपायो योग इति तद्रूपो न्यास एव तु । विष्ण्वर्पिततयो भद्रो नान्यो न्यासः कथञ्चन ।। इत्याग्नेये ।
विष्णर्पितत्वादियोगरूपत्वं विना केवकर्मत्यागो नरकफ एव । "यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव' इति वक्ष्यमाणत्वात् । योगविशेषत्वान्न्यासस्य पृथगुक्तिः ।।6।।
सर्वभूतात्मभूतात्मेति मुख्यो योगः ।
आदानात् सर्वभूतानां विष्णुरात्मा प्रकीर्तितः । सर्वभूतात्मभूतात्मा तत्र भूतमनाः पुमान् ।। इति च ।।7।।
यथा न्यासस्य योगरूपत्वं तथाह- नैव किञ्चिदित्यादिना ।।
विष्णुनार्थेष्वीरितानि मन आदीनि सर्वशः । वर्तन्तेन्यो न स्वतन्न्त्र इति जानन् हि तत्त्ववित् ।। इति च ।।8-9।।
तत्पूजात्मकानि तत्कृतानि मम शुभार्थमिति ब्रह्मण्याधानम् । स्वातन्त्र्याभावापेक्षयैव जीवस्याकर्तृत्वम् ।
स्ववन्दनं यथा पित्रा कारितं शिशुकर्तृकम् । एवं पूजा विष्ण्वधीना भवेज्जीवकृतेत्यपि ।।10-12।।
अतो मनसैव कर्मन्यासोस्वातन्त्र्यापेक्षया ।।13।।
यथा पितृदत्तं पाकत्वं राजपुत्राणामेवं परमात्मदत्तं क्रियास्वातन्त्र्यक्षणं कर्तृत्वं क्रियानिष्पन्नधर्मादिरूपकर्मणि स्वातन्त्र्यं च जीवानामप्यस्तीत्याशङ्कायां परिहरति- न कर्तृत्वमित्यादिना ।। क्रियायामदृष्टोत्पादने फले च स्वातन्त्र्यं लोकस्य न सृजतीश्वर इत्यर्थः । अन्यथा लोकस्येति विशेषणं व्यर्थम् । जनपदे निवसतां तद्वित्तभोजिनामप्यधिपत्यादानान्न दत्ता जनपदा राज्ञा स्वपुत्राणामितिवत् कर्मफलादिसंयोगिनामपि तत्स्वातन्त्र्यादानान्न सृजतीति युज्यते । स्वयमेव भवति भावयति चेति स्वभावो भगवान् । स्वभावत्वात् स्वयमेव कर्तृत्वादिषु प्रवर्तते ।
स्वातन्त्र्याद् भगवान् विष्णुः स्वभाव इति कीर्तितः । तत्स्वातन्त्र्यं कदाप्येष नान्यस्य सृजति क्वचित् ।।
स्वातन्त्र्यादेव पापादिसम्बन्धः कुर्वतोपि न । अज्ञानावृतबुद्धित्वादीदृशं तं न जानते ।। इति महावाराहे ।
"अहं सर्वस्य प्रभवः' "तपाम्यहमहं वर्षम्' "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबक्रिया च' "ऋते त्वत्क्रियते किञ्चनारे' "देवस्यैष स्वभावोयम्' "लोकवत्तु लीलाकैवल्यम्' इत्यादेर्नास्यास्वाभाविकं कर्तृत्वमकर्तृत्वं वा । विपरीतप्रमाणाभावाच्च । अनिर्वाच्यनिरासादेव च निरस्तोयं पक्षः । न च सर्वविशेषपराहित्यवादिनां शून्यवादात् कश्चिद्विशेषः । न हि सर्वविशेषरहितमित्युक्ते तदस्तीति सिद्ध्यति । वाच्यत्वक्ष्यत्वास्तित्वादीनामपि तद्विशेषत्वात् । अन्यथा "अस्ति ब्रह्म' इत्यादीनां शब्दानामपि पर्यायत्वादयो दोषाः । व्यावर्त्यविशेषश्च व्यावृत्तविशेषनिबन्धन एव । अन्यथा वैयर्थ्यमेव स्यात् । न च सर्वशब्दावाच्यस्य क्ष्यत्वम् । न च सर्वप्रमाणागोचरमस्तीत्यत्र किञ्चिन्मानम् । नास्तित्वं तु सप्तमरसादिवददर्शनात् सिद्ध्यति । स्वप्रकाशत्वं च नामानं सिद्ध्यति । स्वयंप्रकाशत्वं च ततोतिरिक्तं चेद् विशेषाङ्गीकारः । न चेत्तदेव प्रमाणगोचरम् । तत्प्रमाणाभावे परप्रकाशत्वमात्रनिरासे स्वप्रकाशत्वे प्रमाणाभावादप्रकाशत्वमेव स्यात् । अर्थतः सिद्धिरित्यर्थापत्तितः सिद्धिस्तत्प्रमाणतः सिद्धिर्वा । उभयथापि प्रमेयत्वमेव स्यात् । स्वप्रकाशशब्देन स्वमितत्वानङ्गीकारात् परमितत्वानङ्गीकाराच्चासिद्धिरेव । प्रकाश इत्युक्तेपि स्वमन्यं वा किञ्चित्प्रकाश्यं विना न दृष्ट एव भोजनादिवत् । कर्तृकर्माविरोधश्चानुभवाविरुद्धः । ज्ञानं च ज्ञेयं ज्ञातारं च विना न दृष्टम् । अतः शून्यवादान्न कश्चिद्विशेषः । अतोनन्तदोषत्वादुपरम्यते ।
हरिः स्वभावतः कर्ता सर्वमन्यत्तदीरितम् । अतः सा कर्तृता तस्य न कदाचिद्विनश्यति ।। इति पैङ्गिश्रुतिः ।।14-17।।
विषमेष्वपि जीवेषु समो विष्णुः सदैव तु । यत्तृणादिगतस्यापि गुणाः पूर्णाः हरेः सदा ।। इति च ।।18-20।।
इदानीमपि परमात्मनि स्मृतमात्रे सुखं विन्दतीति यत्तदा स एव सम्यग्युक्तः किमु ? ।।21-23।।
ब्रह्मणि भूतः । अन्यथा पुनबर्रह्म गच्छतीति विरोधाच्च । अन्तः सुखादिकं च ब्रह्मदर्शनात् ।।24-27।।
अमुक्तो मुक्तसादृश्यान्मुक्त एव हि तत्त्वदृक् । किमु मुक्तिगतस्तस्माज्ज्ञानमेवाधिकं नरे ।। इति नारदीये ।।28-29।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये पञ्चमोध्यायः ॥
***********************************************************************
अथ षष्ठोऽध्यायः ।।
ध्यानमत्रोच्यते । "स ब्रह्मनिष्ठस्तु यतिर्महात्मा शारीमग्निं च मुखे जुहोति' इत्यादेर्न यतेरप्यनग्नित्वम् । आत्मसमारोपाच्च ।।1।।
योगविशेष एव संन्यास इत्यर्थः ।।2।।
सम्पूर्णोपायो योगारूढः ।
नानाजनस्य शुश्रूषा कर्माख्या करवन्मितेः । योगार्थिना तु सा कार्या योगस्थेन हरौ स्थितिः ।।
तेनापि स्वोत्तमानां तु कार्यान्यैरखिेष्वपि । शक्तितः करणीयेति विशेषोसिद्धसिद्धयोः ।।
प्राप्तोपायस्तु सिद्धः स्यात् प्रेप्सुः साधक उच्यते । तस्य प्राण्युपकारेण सन्तुष्टो भवतीश्वरः ।।
सिद्धोपायेन विष्णोस्तु ध्यानव्याख्यार्चनादिकम् । कार्यं नान्यत्तस्य तेन तुष्टो भवति केशवः ।। इति प्रवृत्तवचनान्न विरोधः ।
"शमो मन्निष्ठता बुद्धेर्दम इन्द्रियनिग्रहः' इति भागवते ।।3।।
कथं नानुषज्जते । सर्वसङ्कल्पसंन्यासी । "मयि सर्वाणि कर्माणि' इत्युक्तत्वात् । "मदधीनमिदं ज्ञात्वा मत्संन्यासीति चोच्यते' इति च ।।4।।
उद्धरेतैव संसारात् जीवात्मानं परत्मना । विष्णुर्बन्धुः सतां नित्यं परात्मा ह्यसतामरिः ।।
तत्प्रसादजया भक्त्या जितो यस्य वशे त्विव । वर्तते तस्य मित्रं स तदन्यस्य च शत्रुवत् ।। इति च ।।
परमात्मा समाहित इति वाक्यशेषात् ।।5-6।।
सर्वत्र विष्णोरुकर्षज्ञानं ज्ञानमितीर्यते । तद्विशेषपरिज्ञानं विज्ञानमिति गीयते ।। इति च ।।7-8।।
यस्य यत्र यथा वृत्तिर्विहिता वर्तनं तथा । ज्ञानं वापि समत्वं तद्विषमत्वमतोन्यथा ।। इति महाविष्णुपुराणे ।
अनिमित्तस्नेहवांस्तु सुहृज्ज्ञात्वोपकारकृत् । मित्रं वधादिकदरिर्द्वेष्यस्त्वप्रियमात्रकृत् ।।
उदासीनः स्नेहवतोप्यस्नेही तत्कृतानुकृत् । मध्यस्थ इति विज्ञेयः सुहृदेषु विशिष्यते ।। इति नारदीये ।।9-19।।
आत्मानं विष्णुम् । आत्मना तत्प्रसादेन ।।20-29।।
ब्रह्मणि भूतम् ।।27-28।।
सर्वभूतेषु स्थितं परमात्मानम् ।।29-30।।
सर्वत्र विष्णुरेक इति स्थितः ।।31।।
अतो विष्ण्वनुवर्तिषु स्ववत् स्नेहः कर्तव्यः ।।32-36।।
अयतिरप्रयत्नः । प्रयत्नाद्यतमानस्त्विति वाक्यशेषात् । योगशब्दस्योपायार्थत्वेप्यत्रोपायविशेष एव ध्यानयोगादिर्विवक्षित इति न विरोधः ।।37-43।।
मोक्षोपायस्य जिज्ञासुरपि केवपाठकात् । विशिष्टः किमु तद्विद्वान् किं पुनर्यस्तदास्थितः ।। इति परमयोगे ।।44-45।।
तपसश्चैव यज्ञादेर्ध्यानमेव विशिष्यते । अज्ञानिध्यानतो ज्ञानं ध्यानं सज्ञानमप्यतः ।।
तत्रापि मय्यभक्तस्य नान्यध्यानं प्रयोजकम् । अन्यसामान्यविद् यो मे यश्चान्यं नेति पश्यति ।।
अवरत्वदृगुदासीनो विद्वेषी चेत्यभक्तयः । मद्भक्तोपि हि कार्यार्थं यो ध्यायेदन्यदेवताम् ।।
परिवारतामृते तस्मात् केवलं मदुपासकः । वरोन्यान् मदधीनांश्च सर्वान् जानन् विशुद्धधीः ।। इति दत्तात्रेयवचनम् ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये षष्ठोध्यायः॥
********************************************************************************************
अथ सप्तमोध्यायः ।।
भगवन्महिमा विशेषत उच्यते ।
अनन्तानां तु जीवानां यतन्ते केचिदेव तु । मुक्त्यै तेषु च मुच्यन्ते केचिन्मुक्तेषु च स्फुटम् ।।
केचनैव हरिं सम्यग् ब्रह्मरुद्रादयो विदुः । अन्येषां यावता मुक्तिस्तावज्ज्ञानं हरौ परम् ।। इति पाद्मे ।
मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्भः प्रशान्तात्मा कोटिष्वपि महामते ।। इति भागवते ।
सर्वे मुक्ता हरौ भक्तास्तेषु ब्रह्मैव मुख्यतः । विष्णोः परमभक्तस्तु तस्माज्जीवघनो मतः ।। इति सत्तत्वे ।।3।।
अचेतना चेतनेति द्विविधा प्रकृतिर्मता । त्रिगुणाचेतना तत्र चेतना श्रीर्हरिप्रिया ।।
ते उभे विष्णुवशगे जगतः माता श्रीर्या त्वचेतना । उपादानं तु जगतः सैव विष्णुबलेरिता ।। इति च ।।4-6।।
मत्तोन्यत् परतरं नास्ति परतरस्त्वहमेवेत्यर्थः । अन्यथा अन्यदिति व्यर्थम् ।
अवरा दुःखसम्बन्धाज्जीवा एव प्रकीर्तिताः । नित्यनिर्दुःखरूपत्वात् परा श्रीरेकलैव तु ।।
दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यते । अनन्याधीनरूपत्वात् असमाधिकसौख्यतः ।।
तत्तन्त्रत्वाच्च सर्वस्य विष्णुः परतरो मतः । अभावादन्तरान्यस्य त्विहैकार्थौ तरप्तमौ ।।
यस्याः सम्बन्धयोग्यत्वाज्जीवा अप्यवरा मताः । तस्या जडायाः प्रकृतेरवरत्वे क्व संशयः ।।
अथावरतरा ये तु विमुखाश्चेतना हरेः । नित्यदुःखैकयोग्यत्वान्न ह्येतत्स्यादचेतने ।।
अतः परतरं विष्णुं यो वेत्ति स विमुच्यते । मुक्तस्तु स्यात् पराभासः सुनित्यसुखभोजनात् ।।
तत्रापि तारतम्यं स्यात्तेषु ब्रह्माधिको मतः । विष्णोराधिक्यसंवित्तिः सर्वस्माज्ज्ञानमुच्यते ।।
एवं विविच्य तज्ज्ञानं विज्ञानमिति कीर्तितम् । एतच्च तारतम्येन वर्तते केशवादिषु ।।
मुख्यविज्ञान्यतो विष्णुः किञ्चिद्विज्ञानिनो परे ।।7।।
सोप्सु स्थित्वा रसयति रसनामा ततः स्मृतः । सूर्यचन्द्रादिषु स्थित्वा प्रभानामा प्रभासनात् ।।
वेदस्थः प्रणवाख्योसावात्मानं यत्प्रणौत्यतः । खे स्थितः शब्दनामासौ यच्छब्दयति केशवः ।।8।।
पुण्यापुण्यं गन्धयति स्वयं पुण्यो धरास्थितः । तेजयत्यग्निसंस्थः सन् भूतस्थो जीवनप्रदः ।।
तपस्विस्थस्तपयति ।।9।।
व्यञ्जनाद् बीजसञ्ज्ञितः ।बोधनाद्बुद्धिनामासौ बुद्धिमत्सु व्यवस्थितः ।।10।।
नित्यपूर्णबत्वात्तु बलं कामविवर्जितम् । अराजसबश्चैव स्थानेभ्योन्येष्वयोजनात् ।।
एतादृशबलात्मासौ बिनां बदः स्वयम् । वेति पूर्णत्ववाची स्यात्तद्रतेर्बमुच्यते ।।
प्रायो हि कामिता अर्था धर्मं हन्युर्हरिः पुनः । न धर्महानिकृत् किन्तु कामितो धर्मवृद्धिकृत् ।।
धर्माविरुद्धकामोतो विष्णुर्भूतेषु संस्थितः । एवं स सर्वतश्चान्यः स्वतन्त्रश्चैव सर्वगः ।।
व्यवस्थयैव सर्वेषां सर्वदा सर्वदः प्रभुः ।।11।।
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । तत एव न चान्यस्मात्तदायत्तमिदं न सः ।।
अन्यायत्तो ।।12।।
चेतनया तन्मेयत्वात्तु मायया । क्ष्म्या वशगया लोको विष्णुनैव विमोहितः ।।
ये तु विष्णुं प्रपद्यन्ते ते मायां तां तरन्ति हि । क्ष्मीः सा जडमाया या देवता ते उभे अपि ।।
विष्णोर्वशे ततोनन्यभक्त्या तं शरणं व्रजेत् । यादृशी तत्र भक्तिः स्यात्तादृशन्यत्र नैव चेत् ।।
अनन्यभक्तिः सा ज्ञेया विष्णावेव तु सा भवेत् । अन्येषु वैष्णवत्वेन क्ष्मीब्रह्महरादिषु ।।
कुर्याद्भक्तिं नान्यथा तु तद्वशा एव ते यतः । एवं जानंस्तमाप्नोति नान्यथा तु कथञ्चन ।।
पूर्णं वस्तु यतो ह्येको वासुदेवो न चापरः । एवंविद् दुर्भो लोके यत्सर्वे मिश्रयाजिनः ।।
विष्णुं तत्परमज्ञात्वा रमाब्रह्महरादिकान् । यजन्नपि तमो घोरं नित्यदुःखं प्रयाति हि ।।
अज्ञानां तु कुले जातो यावद्विष्णोः समर्चनम् । विष्णुतत्त्वं च जानीयात्तावत्सेवा पृथक् कृता ।।
विद्याद्यैहिकभोगाय यदि बुद्ध्वा पुनर्न तु । परिवारतामृते कुर्यादन्यदेवार्चनं क्वचित् ।।
अजानता कृतं त्यक्तं न दोषाय भविष्यति । जन्मादिप्रदमेव स्यादत्यागे पुनरेव तु ।।
क्षिप्रं च ज्ञापयत्येव भगवान् स्वयमेव तु । यदि जन्मान्तरे स्वीयो निमित्तीकृत्य कञ्चन ।। इत्यादि च ।
मत्त एवेति तान् विद्धीत्युपसंहाराच्च तत्तत्कारणत्वात् तत्तन्नामेत्यवसीयते । "मयि सर्वमिदं प्रोतम्' इति भेदनैवोपक्रमाच्च । आप्नोति विष्णुमित्येवात्मशब्दो ज्ञानिनि । "यच्चाप्नोति यदादत्ते' इत्यादेः । "आस्थितः स हि ' "मां प्रपद्यन्ते' इत्यादिवाक्यशेषाच्च । बहूनां जन्मनामन्ते ज्ञानवान् भवति । ततो मां प्रपद्यन्ते । वासुदेवः सर्वमिति पूर्णमिति जानन् । "प्रपद्यन्तेन्यदेवताः' इति वाक्यशेषे भेददर्शनाच्च । "देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ' इति च ।।21-22।।
ज्ञात्वा परत्वं विष्णोस्तु पृथग् देवान् यजन्नरः । याति देवांस्तदज्ञात्वा तम एव प्रपद्यते ।।
तथापि यावदन्यैस्तु साम्यं हीनत्वमेकताम् । न निश्चित्वन्ति जायन्ते संसारे ते पुनः पुनः ।। इति च ।।23।।
अव्यक्तः परमात्मासौ व्यक्तो जीव उदाहृतः । मन्यते यस्तयोरेक्यं स तु यात्यधरं तमः ।। इति च ।।24-25।।
यथात्मानं हरिर्वेत्ति तथान्ये नैव तं विदुः । जानन्ति किञ्चित् क्रमशो रमाद्यास्तत्प्रसादतः ।।इति च ।।26।।
द्वन्द्वमोहो मिथ्याज्ञानम् । "तमस्तु शार्वरं विद्यान्मोहश्चैव विपर्ययः' इति च भारते । जीवेश्वरादिकं द्वन्द्वम् । तद्विषयो मोहो द्वन्द्वमोहः । संमोहस्तदाग्रहः । "तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते' इत्युक्तत्वात् । सर्गे सर्गका एव ।
जीवधर्मानीश्वरे तु यो जीवेष्वैश्वरानपि । विद्याज्जीवैश्वरैक्यं वा द्वन्द्वमोही स उच्यते । इत्यग्नेये ।।27-29।।
तद्ब्रह्मेत्युक्तेन्यत्वशङ्कां निवारयति- साधिभूताधिदैवमिति ।।30।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये सप्तमोध्यायः ॥
************************************************************************************************
अथ अष्टमोध्यायः॥
उक्तव्याख्यानपूर्वकं ब्रह्मप्राप्तिरुच्यते । तदिति विशेषणाद् ब्रह्मेत्युक्तमल्पवदेव प्रकृत्यादीनां मध्ये यत्किञ्चित् उपरि साधियज्ञं च इति चशब्दादधिभूतादिसहितत्वेन विष्णुज्ञानमन्यवदेवेति संशयः किं तद्ब्रह्मेति प्रश्नकारणाम् । परमाक्षरो विष्णुरेव मुख्यत इति प्रसिद्धत्वात् तथैव परिहारः । पुनरहमिति नोक्तमित्याशङ्का "अव्यक्तं व्यक्तिमापन्नम्' इति विष्णावेव प्रयुक्तेनाव्यक्तशब्देनाव्यक्तशब्देनाव्यक्तोक्षर इत्युक्त इति परिह्रियते । "ये चाप्यक्षरमव्यक्तम्' इत्यत्र तु पृथक् प्रश्नादुपासकयोः फतारतम्यकथनात् "कूटस्थोक्षर उच्यते' इत्युक्त्वा "अहमक्षरादपि चोत्तमः' इति विष्णोः उत्तमत्वकथनाच्च अन्यदेवेत्यवसीयते । अधियज्ञोहमेवेति साधियज्ञमित्युक्त्वा प्राप्तभेदनिवृत्त्यर्थम् । तस्यैव सर्वप्राणिदेहस्थितरूपान्तरापेक्षया सहितत्वं युज्यते ।
प्राणिनां देहगो विष्णुरधियज्ञ इतीरितः । स एव व्याप्तरूपेण ब्रह्मेति परिकीर्त्यते ।।
तैस्तैरधिकयाज्यत्वात् बृंहितत्वाच्च हेतुतः । अध्यात्मं तत्स्वभावो यदधिकः परमात्मगः ।।
पुंसां स जडभावानां सर्गः कर्म हरेः स्मृतम् । भूताधिकत्वतो जीवा अधिभूतमितीरिताः ।।
अधिको दैवतं विष्णुरेव यस्यास्तु सा रमा । पुरुप्राणाधिदैवाख्या त्विति ज्ञेयमिदं नरैः ।। इति तत्त्वविवेके ।
कथंरूपोधियज्ञइति प्रश्नस्त्वहमेवेत्युक्तत्वात् क्षणोक्त्यैव परिहृतः ।।4।।
मद्भावं मयि भावम् । सदा तद्भावभावितानामेव स्मरन् त्यजतीति केवलं तत्कास्मरणं भवति । न चेत् स्मरतोपि समाधिस्थस्खनवत् पूर्वकर्मानुसारिस्मृत्या तत्प्राप्तिरेव भवति । अपरोक्षज्ञानिनां प्रारब्धकर्मावसाने स्मरंस्त्यजतीति भवत्येव । "प्रयाणकालेपि च मां ते विदुः' इत्युक्तत्वात् । युक्तचेतस इति विशेषणात् नित्यं स्मरतामेवापरोक्षज्ञानं जायते ।
भक्त्या ज्ञानान्निषिद्धानां त्यागान्नित्यं हरिस्मृतेः । अरागाद्विहितात्यागादित्येतैरेव संयुतैः ।।
अपरोक्षदर्शनं विष्णोर्जायते नान्यथा क्वचित् ।। इति सत्तत्वे ।।5-8।।
तमसः परस्तादप्राकृतदेहः ।।9-10।।
मन आदीनां ब्रह्मणि चरणं ब्रह्मचर्यम् ।।11-12।।
एकाक्षरवाच्यत्वादेकाक्षरं परं ब्रह्म ।।13-14।।
नियमाज्जन्मनोभावो मुक्तस्यैव तथापि तु । महर्ोकमतीतानां न जन्मांशयौ विना ।।
तत्राप्यवश्यं तत्स्थानं तैः क्षिप्रं पुनराप्यते ।। इति पाद्मे ।।16।।
सहस्रमिति बह्वेव । ब्रह्मणः परब्रह्मणः ।
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रीयन्ते तत्रैवाव्यक्तसञ्ज्ञकः ।।
इति वाक्यशेषात् । न हि विरिञ्चाहन्येव सर्वव्यक्तियः ।
नित्यस्यापि हरेः कालो द्विपरार्धात्मकस्त्वयम् । अहश्चासौ निमेषश्चेत्यप्रवृत्त्योपचर्यते ।। इति च ।।17-22।।
यत्र कालाभिमानिदेवतासु मृत्यनन्तरं प्रयाताः । अग्निज्योतिर्धूमानामकालाभिमानित्वेपि काप्राचुर्यात् का इत्युच्यते ।
अग्निज्योतिरिति द्वेधा वह्नेः पुत्रो व्यवस्थितः । तं प्राप्य याति ब्रह्मिष्ठो दिवसाद्यभिमानिनः ।। इति सत्तत्वे ।
तत्कामरणविवक्षायामग्निज्योतिर्धूमानामयोगः ।
"अथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं? सलोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद्ब्रह्मणो महिमानमाप्नोति' इति विदुषो दक्षिणायनमरणेप्यपुनरावृत्त्या ब्रह्मप्राप्तिश्रुतेः । "विद्वान् ब्रह्म समाप्नोति यत्र तत्र मृतोपि सन्' इति पाद्मे ।।23-26।।
मार्गौ ब्रह्म च यः पश्येत् साक्षादेवापरोक्षतः । सर्वपुण्यातिगोमुह्यन् यात्यसौ ब्रह्म तत्परम् ।। इति च ।।27-28।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये अष्टमोध्यायः ।।
**************************************************************************************
अथ नवमोऽध्यायः
सप्तमोक्तं प्रपञ्चयति ।।1-3।।
विष्णुगान्यप्यतत्स्थानि भूतान्येष ह्यसङ्गत इति च । ममात्मा मम देह एव । तदनन्यत्वात् । देहस्याचेतनत्वाशङ्कानिवृत्तये ममात्मा इत्याह ।।4-9।।
"अध्यक्षोधिपतिः प्रोक्तो यदक्षाण्यस्य चोपरि' इति शब्दनिर्णये ।।10।।
मानुषीं मनुष्यसदृशीम् । "तन्वा विष्णुरनन्योपि स्वाधीनत्वात् तदाश्रितः' इति च ।
ब्रह्मरुद्ररमादीनां साम्यदृष्टिरनन्यता । प्रादुर्भावगतस्यापि दोषदृष्टिरपूर्णता ।।
धर्मदेहावतारादेर्भेददृष्टिश्च सङ्करः । अवतारेष्विति ज्ञेयमवज्ञानं जनार्दने ।।
सर्वं मोघं शुभं तस्य योवजानाति केशवम् । अवरं याति च तमः प्रादुर्भावगतोप्यतः ।।
ज्ञेयः केवचिद्देहो विदोषः पूर्णसद्गुणः ।। इति च भविष्यत्पर्वणि ।।11-14।।
एकमूर्तिश्चतुर्मूर्तिरथवा पञ्चमूर्तिकः । द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिः ।। इति च ।।15।।
अर्च्यत्वादृक् समत्वाच्च निजरूपेषु साम सः । याज्यत्वात् स यर्जुर्यज्ञः सार्वज्ञात् पुरुषोत्तमः ।।
क्रतुः कृतिस्वरूपत्वात् स्वधानन्यधृतो यतः । मानात् त्रातीति मन्त्रोयमुष्टानां निधिरौषधम् ।।
आज्यायस्वादाज्यनामा दर्भो दरधरो यतः । आहूतत्वाद्धुतं चायमग्निर्नेतागतेर्यतः ।। इत्यादि च ।
तत्तत्पदार्थभिन्नोपि तत्तन्नामैवमच्युतः । स्वातन्त्र्यात् सर्वकर्तृत्वात् गुणानन्त्याच्च केवम् ।। इति च ।
ओमित्याक्रियते यस्मादोङ्कारो भगवान् हरिः ।। इति च ।
पातीति स पिता मानान्माता यत् स पितुर्महान् । पितामहो निधातृत्वान्निधानं भीतरक्षणात् ।।
शरणं व्यञ्जनाच्चैव बीजमित्युच्यते प्रभुः ।। इति च ।
प्रयकाे संहर्तृत्वात् प्रयः । अन्यदापीति मृत्युः ।
प्राणगः प्राणधर्ता यदमृतं प्रविलापयन् । विश्वं प्रय इत्युक्तो मृत्युरन्यत्र मारणात् ।। इति च ।
सत् साधुगुणपूर्णत्वादस्मान्नान्यो गुणाधिकः । यतोतोसदिति प्रोक्तं विष्ण्वाख्यं परमं पदम् ।। इति शब्दनिर्णये ।।16-19।।
अनन्यदेवतायागात् भक्त्युद्रेकादकामनात् । सदा योगाच्च वैशिष्ट्यं त्रैविद्याद्वैष्णवादपि ।।
स्याद्धि भागवतस्यैव तेन ब्रह्मादयोखिलाः । अश्वमेधादिभिर्यज्ञैरपि केशवयाजिनः ।।
वैष्णवा इति बुद्ध्यैव मानयन्त्यन्यदेवताः ।। इत्याग्नेये ।
सम्यग् गुणगणज्ञानादुपासा पर्युपासना ।। इति च ।।20-23।।
मामिष्ट्वा प्रार्थयन्त इत्युक्तत्वात् जानन्तोपि नाभिजानन्ति तत्त्वेन ।
सर्वदेववरत्वेन यो न जानाति केशवम् । तस्य पुण्यानि मोघानि याति चान्धतमो ध्रुवम् ।। इति च ।
मोघाशा मोघकर्माण इत्युक्तत्वाच्च न केवलाज्ञविषयं मिथ्याज्ञानिविषयं वा "च्यवन्ति च' इत्यादि । अतः सर्वाधिक्यं विष्णोर्ज्ञात्वापि ब्रह्मादीनां तत्परिवारत्वादिकमजानतामिदं फम् ।।24-28।।
नास्य भक्तोपि योद्वेष्यो न चाभक्तोपि यः प्रियः ।
किन्तु भक्त्यनुसारेण फदोतः समो हरिः ।। इति पाद्मे । प्रीत्या मयि ते ।।29-31।।
पापादिकारिताश्चैव पुंसां स्वाभाविका अपि । विप्रत्वाद्यास्तत्र पुण्याः स्वाभाव्या एव मुक्तिगाः ।।
यान्ति स्त्रीत्वं पुमांसोपि पापतः कामतोपि वा । न स्त्रियो यान्ति पुंस्त्वं तु स्वभावादेव याः स्त्रियः ।।
पुंसा सहैव पुंदेहे स्थितिः स्याद्वरदानतः । तज्जन्मनि वराः पापजाताभ्यो निजसत्स्त्रियः ।।
सर्वेषामपि जीवानामन्त्यदेहो यथा निजः । मुक्तौ तु निजभावः स्यात् कर्मभोगान्ततोपि च ।।
इति भविष्यत्पर्ववचनात् पापयोनयः पुण्या इति विशेषणम् ।।32-33।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये नवमोऽध्यायः ।।
****************************************************************************
अथ दशमोऽध्यायः
उपक्षणार्थं सुरगणा इत्यादि ।।1-2।।
अनस्याप्यादिरनादिः ।।3।।
"बुद्धिर्बोधिनिधित्वात् तदन्तःकरणमुच्यते' इति शब्दनिर्णये ।।4।।
मरीचिरत्र्यङ्गिरसौ पुस्त्यः पुहः क्रतुः । वसिष्ठश्च महातेजाः पूर्वे सप्तर्षयः स्मृताः ।। इति ब्राह्मे ।
मनवो बोधवैशेष्याद् देवा ब्रह्मादयः स्मृताः । विप्रादिवर्णभेदेन चत्वारो बहवोपि ते ।।
दीनत्वाद्देवनामानस्त्वन्ये ब्रह्मादिनामकाः । अवैष्णवकृतो यज्ञो दीनैर्देवैस्तु भुज्यते ।।
वैष्णवैस्तु कृतो यज्ञो मनुनामकैः । मरीच्याद्यास्तु तत्पुत्रा मानवा नामतः स्मृताः ।।
तत्पुत्रपौत्रा मुनयस्तथा मानवमानवाः । तेभ्यो मनुष्या इत्येषा सृष्टिर्विष्णोः समुत्थिता ।। इति महाविष्णुपुराणे ।।6।।
"युज्यते येन योगोसावुपायः शक्तिरेव च' इति च । विशिष्टभवनं विभूतिः । महत्त्वम् विविधभवनं च । योगः सामर्थ्यम् ।।7।।
"भजन्ते माम्' इत्यनेन जीवेश्वरैक्यशङ्कां निवर्तयति ।।8।।
मद्गतप्राणा मद्विषयचेष्टाः ।।9-20।।
येषां विष्णुस्वरूपाणां सन्निधेरन्यवस्तुषु । विशिष्टत्वं स्वजातेः स्याद् विभूत्याख्यानि तानि तु ।।
ब्रह्मनामा ब्रह्मगतः सर्वदैवतसञ्चयात् । आधिक्यहेतुर्भगवान् सामस्थः सामनामकः ।।
आधिक्यहेतुर्वेदेभ्यस्तथाश्वत्थस्थितो हरिः । उत्कर्षहेतुवृक्षेभ्यो य एवाश्वत्थनामकः ।। इत्यादि विभूतितत्त्वे ।
केषु केषु च भावेषु इत्युक्तत्वाच्च ब्रह्मादिजीवेभ्योन्यदेव विभूतिरूपम् ।
द्विविधं वैभवं रूपं प्रत्यक्षं च तिरोहितम् । कपिव्यासकृष्णाद्यं प्रत्यक्षं वैभवं स्मृतम् ।।
भिन्नं ब्रह्मादिजीवेभ्यो जडेभ्यश्चापि तद्गतम् । स्वजात्याधिक्यदं तेषां तत्तिरोहितवैभवम् ।। इत्यादि च ।
आत्माततगुणत्वेन स्वज्ञेयो यतो रविः । उदवन्मेघचनान्मरीचिः साम साम्यतः ।।
सुखात् सुखत्वात्तु शशी वेदो वेदनतो हरिः । वासवर्ती वासवोसौ चेतोनेता तु चेतना ।।
पाकैर्वननीयत्वात् पवनो बोधनान्मनः । पावकः शोधनान्मेरुरीरो यन्मास्य सागरः ।।
सारस्य गरणात् स्कन्दो जगतः स्कन्दनात् भृगुः । भर्जनाज्जपयज्ञश्च जगतो याज्य एव च ।।
अश्वाकारस्थितोश्वत्थ ऐरं श्रीश्च तदाश्रयः । ऐरावतो नराणां यद् दद्यात् सर्वं स नारदः ।।
ह्रीश्रीसमाश्रयत्वाच्च हिमाय इतीरितः । वर्ज्यत्वादरिभिर्वज्रो वैनतेयो नतास्पदः ।।
वासुकिर्वाससुखदः कन्दर्पः सुखभेदपः । अर्यमा ज्ञेयमातृत्वात् का आकनादपि ।।
वरुणो वरणाद् द्वन्द्वो द्विरूपोन्तर्बहिर्यतः ।मकरो मानकर्तृत्वात् यमः संयमनाद्विभुः ।।
प्रह्लादः स महानन्दो मृगेन्द्रो मृगयत्पतिः । जाह्नवी जहतां स्थानमध्यात्मं चात्मनां पतिः ।।
विद्या ज्ञप्तिस्वरूपत्वात् वादो वाच्यत्वतो हरिः । कीर्त्यो वक्ताश्रयः कीर्तिर्वाक् श्रीरिति च नामकः ।।
स्मरणीयः स्मृतिर्मेधाक्षमारूपस्तथेर्यते । द्यूतं क्रीडापरत्वाच्च गायत्री त्राति गायकान् ।।
सत्त्वं साधुगुणत्वाच्च दण्डनाद्दण्ड उच्यते । बृहत्सारोप्यमेयश्च बृहत्सामोशनोशतेः ।।
शुभाशुभज्ञानकरः कुसुमाकर ईरितः । ज्ञानं ज्ञानात्मतो मौनं मुनीड्यो नीतिरानयन् ।।
मार्गाणामन्तगत्वात्तु मार्गशीर्षः प्रकीर्तितः । सुखं पिबल्लीयैव कपिलो व्यास एव च ।।
विशिष्टत्वाद् विष्णुनामा विशिष्टप्राणसौख्यतः । एवं नानागुणैर्विष्णुर्नाना नामभिरीरितः ।।
नानाप्राण्यादिसंस्थश्च विभूतिरित शब्दितः । शश्यादिषु विजातीयस्वाम्यदः सारदः क्वचित् ।।
शर्वादिषु सजातीयश्रैष्ठदत्वेन संस्थितः । शक्रोशनार्जुनाद्येषु सजातीयैकदेशतः ।।
देवेष्वप्यधिको ब्रह्मा यतो विष्णोरनन्तरः । कवित्वादिगुणेष्वेव यत्समो नास्ति कश्चन ।।
तथा भीमश्च पार्थेषु ज्ञानं यज्ञेषु चोत्तमम् । सुदर्शनं चायुधेषु वेदेष्वृग्वेद उच्यते ।। इत्यादि विभूतितत्त्वे ।
क्वचित्साम्नः आधिक्यमभिमान्यपेक्षया "ऋचः श्रीर्गीरुमाद्याश्च साम्नः प्राणशिवादयः' इत्याद्यभिमानिभेदात् । तत्रापि यथायोग्यम् ।।21-40।।
मम तेजोंशेन संयुक्तं भवति ।।41।।
किं ज्ञातेन इति वक्ष्यमाणस्याधिकफत्वज्ञापकमेव । अन्यथोक्तेरेव वैय्यर्थ्यात् ।
अन्याधिक्यज्ञापनार्थं शुभं चाक्षिप्यते क्वचित् । न तावतास्य निन्द्यत्वं ज्ञेयैवान्यवरिष्ठता ।।
उभयं मिलितं चैव ततोप्यधिकशोभनम् ।। इति च ।।42।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये दशमोध्यायः ।।
*************************************************************************************
अथ एकादशोऽध्यायः
आत्मानमव्ययम् परमं रूपमैश्वरम् "सर्वाश्चर्यमयं देवमनन्तं विश्वतो मुखम्' इत्यादिरूपविशेषणाच्च रूपस्येश्वरसाक्षात्स्वरूपत्वं नित्यत्वं तत एव चिदानन्दाद्यात्मकत्वं च सिद्धम् । "मम देह' इत्युक्तत्वाच्चादित्यादीनां भेदः सिद्धः । "मे रूपाणि' "सर्वतोनन्तरूपम्' "द्रष्टुमिच्छामि ते रूपम्' इत्यादेश्चैकस्यैवाभिन्नानन्तरूपत्वं च ।
एकं रूपं हरेर्नित्यमचिन्त्यैश्वर्ययोगतः । बहुसङ्ख्यागोचरं च विशेषादेव केवम् ।।
अभावो यत्र भेदस्य प्रमाणावसितो भवेत् । विशेषो नाम तत्रैव विशेषव्यवहारभाक् ।।
विशेषोपि स्वरूपं स स्वनिर्वाहक एव च । द्रव्यात्मना स नित्योपि विशेषात्मैव जायते ।।
नित्या एव विशेषाश्च केचिदेवं द्विधैव सः । वस्तुस्वरूपमस्त्येवमादिष्वभेदिनः ।।
विशेषोनुभवादेव ज्ञायते सर्ववस्तुषु । न चाविशेषितं किञ्चिद्वाच्यं क्ष्यं तथा मितम् ।।
विशिष्टस्य स्वतोन्यत्वे स्वस्यामेयत्वहेतुतः । नैव ज्ञेयं विशिष्टं च मानाभावाच्च नो भवेत् ।।
स्वयमित्यपि हि स्वत्वविशेषेण विवर्जितम् । न ज्ञेयं तद्विशेष्यं च तथैवेत्यनवस्थितिः ।।
अभेदे न विरोधोस्ति ज्ञाताज्ञातं यतोखिम् । तदेव ज्ञातरूपेण ज्ञातमज्ञातमन्यथा ।।
अभिन्नस्य विशिष्टत्वान्न दोषद्वयमप्युत । एकत्वानुभवाच्चैव विशेषानुभवादपि ।।
तज्ज्ञानानुभवाच्चैव न दोषद्वयसम्भवः । भेदाभेदौ च तौ नैव कर्तृभोक्तृविशेषणे ।।
मदन्य इत्यनुभवो यतो नैवास्ति कस्यचित् । भेदो विशेषणस्यापि नान्तरस्य क्वचिद्भवेत् ।।
शुद्धस्वरूप इत्यादावभेदस्यैव दर्शनात् । अपृथग्दृष्टिनियमाद् बज्ञानादिकस्य च ।।
ऐक्यं बाह्यविशेषाणां पृथग् दृष्ट्यैव तन्न तु । विशेषहेत्वभावेपि द्वैविध्यं कल्प्यते यदि ।।
कल्पनागौरवाद्यास्तु दोषास्तत्रातिसङ्गताः । नैकत्वं नापि नानात्वं नियमादस्त्यचेतने ।।
भेदाभेदावनुभवादतस्तत्रान्यथागतेः । एकोहमन्यतोन्यश्चेत्येवमेव व्यवस्थितौ ।।
भेदाभेदौ चेतनेषु तस्मान्नैकप्रकारता । एकमित्येव यज्ज्ञातं बहुत्वेनैव तत्पुनः ।।
पटाद्यं ज्ञायते यस्माद्भेदाभेदौ कुतो न तत् । तन्तुभ्योन्यः पटः साक्षात् कस्य दृष्टिपथं गतः ।।
अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेत् । न चात्मनि विशेषोत्र दृष्टान्तत्वं गमिष्यति ।।
शुद्धोहंप्रत्ययो यस्मात् तत्राभेदप्रदर्शकः । अत्रावयवभेदेन स्यादेव ह्यनवस्थितिः ।।
न चानवयवं वस्तु क्वचित् स्यान्मानगोचरम् । पूर्वापरादिभेदेन यतोंशोस्यावगम्यते ।।
उपाधिरप्येकदेशसम्बद्धः सन्तमेव हि । ज्ञापयेद्भेदमखिलं ग्रसन् स विभजेत् कथम् ।।
तस्मात् गुणादिकमपि नास्त्यनंशतया क्वचित् । भावाभावव्यवहृतेर्विद्यमानेपि वस्तुनि ।।
भेदाभेदौ गुणादेव जडे वस्तुनि संस्थितौ । चेतने शक्तिरूपेण गुणादेर्भाव इष्यते ।।
सुप्तोयं बवान् विद्वानित्यादिव्यवहारतः । न चैवं शक्तिरूपेण जडे व्यवहृतिः क्वचित् ।।
एकमेवाद्वितीयं तन्नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यन् तानेवानुविधावति ।।
इत्यादिश्रुतिमानाच्च परमैश्वर्यगतस्तथा । सर्वं तु घटते विष्णौ यत्कल्याणगुणात्मकम् ।। इत्यादि ब्रह्मतर्के ।।1-14।।
कमलासने ब्रह्मणि स्थितं रुद्रम् ।
विष्णुं समाश्रितो ब्रह्मा ब्रह्मणोङ्कगतो हरः । हरस्याङ्गविशेषेषु देवाः सर्वेपि संस्थिताः ।। इति पाद्मे ।।15-18।।
द्यावापृथिव्योरन्तरमेकेनैव रूपेण व्याप्तम् । "नान्तं न मध्यम्' इत्युक्तत्वात् पुनः "अनादिमध्यान्तम्' इति गुणानन्त्यापेक्षया । "त्वया ततं विश्वमनन्तरूप' इति कालापेक्षया । स्वयमन्तं विद्यमानमपि न पश्यतीत्याशङ्क्य "त्वया ततं विश्वमनन्तम्' इत्याह । अन्यत् तात्पर्यज्ञापनायभ्यासरूपम् । "सर्वं समाप्नोषि ततोसि सर्वः' इति सर्वं खल्विदं ब्रह्म इत्यादिषु सर्वशब्दव्याख्यानरूपम् ।।19।।
त्रिलोकेषु स्थितैर्भक्तैरर्जुनाय प्रदशितम् । दृष्टं विष्णोर्विश्वरूपं स्वयोग्यत्वानुरूपतः ।।
प्रायःसहैव पार्थेन प्रायो भीताश्च तेखिलाः । दर्शनाभ्यासतो दृष्टिरानन्दोद्रेकदा भवेत् ।।
तस्मिन् काले तु भूमेश्च भारहारार्थमुद्यताम् । उग्रत्वमिव सर्वत्र न भीतिबर्रह्मदर्शिनाम् ।।
अर्जुनादधिका ये तु तेषां भीतिर्न चाभवत् । श्रीब्रह्मरुद्रपूर्वाणां कृष्णाया भीमरामयोः ।।
इत्याग्नेयवचनात् "दृष्ट्वाद्भुतं रूपम्' इत्यादि युज्यते ।।19-20।।
मुक्ताः सुरसङ्घाः विशन्ति । "प्रवेशो निर्गमश्चैव मुक्तानां स्वेच्छया भवेत्' इति ब्रह्माण्डे ।।21-25।।
अन्यचेष्टां कुर्वतामपि भगवच्चेष्टयैव प्रयोदके प्रजानां प्रवेशवत् प्रवेशो युज्यते । सेनामध्यतो भगवन्मुखानामुभयाभिमुखत्वाच्चोभे सेने तत्र प्रविशतः । ये तु तस्मिन् मुहूर्ते मरिष्यन्ति तेषां दशनान्तरे चूणितामपि शिरः सूक्ष्मदृष्टिगोचरत्वात् मानुषदृष्ट्या तथा न दृश्यते । यथा भिन्नमपि घटादिकं यावत् पृथङ् न पतति तावन्मन्ददृष्टीनां न ज्ञायते । यथा पुरूरवसो जराश्विभ्यामेव दृष्टा ।।26-30।।
विशेषगुणकर्मविषय एव प्रश्नः । विष्णविति सम्बोधनात् ।।31।।
कालः कितसम्पूर्णसद्गुणत्वाज्जनार्दनः । संहारात् सर्ववित्त्वाद्वा सर्वविद्रावणेन वा ।। इति महावाराहे ।
अपिशब्देन भ्रात्रादीनप्यृते ।।32-33।।
जयद्रथस्य पितुर्वरादेव विशेषः । निहता निहतप्रायाः । पश्चादर्जुनेपि स्थित्वा स एव हनिष्यति ।। 34-38।।
वायुर्बज्ञानयोगात् शशाङ्कोतिसुखाङ्कितः । इन्द्रः स परमैश्वर्यादिति नानाभिधो हरिः ।। इति च ।।39-41।।
एकः सर्वोत्तमोप्यसत्कृतः । "एकः सर्वाधिको ज्ञेय एक एव करोति यत्' इति च ।।42-45।।
तेनैव रूपेण भवेत्यनन्तरूपगोपनेन तदेव प्रकाशयेत्यर्थः । "पञ्चाननं चिन्त्यमचिन्त्यरूपं पद्मासनं गोपितविश्वरूपम्' इति वैहायससंहितायाम् ।।46।।
"विश्वनामा स भगवान् यतः पूर्णगुणः प्रभुः ।' इति पाद्मे । त्वदन्येन न दृष्टपूर्वमित्यनेन तेनैवेन्द्रशरीरेण दृष्टमिति ज्ञायते । त्वदन्येनेति त्वदवरापेक्षया । तैरपि तद्वन्न दृष्टमित्येव ।
विश्वरूपं प्रथमतो ब्रह्मापश्यच्चतुर्मुखः । तच्छतांशेन रुद्रस्तु तच्छतांशेन वासवः ।।
यथेन्द्रेण पुरा दृष्टमपश्यत् सोर्जुनोपि सन् । तदन्ये क्रमयोगेन तच्छतांशादिदर्शिनः ।। इति ब्रह्माण्डे ।।47।।
वेदादिभिरपि त्वदवरेणैवं द्रष्टुमशक्यम् । अन्यथा "दृष्ट्वाद्भुतं रूपम्' इत्यादिविरोधः ।।48-49।।
स्ववत् क्रियत इति स्वकं रूपम् । विश्वरूपमज्ञानां स्वरूपवन्न दर्शयति । एतदज्ञानामपि तथैव दर्शयतीति विशेषः । अन्यथा "द्रष्टुमिच्छामि ते रूपम्' इति विरुद्धं स्यात् ।
परावरविभेदस्तु मुग्धदृष्टिमपेक्ष्य तु । प्रादुर्भावस्वरूपाणां विश्वरूपस्य च प्रभोः ।।
अन्यथा न विशेषोस्ति व्यक्तिर्ह्यज्ञव्यपेक्षया ।। इति च ।।50।।
किञ्चिन्मनुष्यवत् दृश्यमानत्वात् मानुषम् ।।51।।
ये दर्शनकाङ्क्षिणस्तैरपीदानीं दृष्टप्रायः ।।52।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये एकादशोऽध्यायः ।।
********************************************************************************************************************
अथ द्वादशोऽध्यायः
साधननिर्णयोत्र ।
"श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति । श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिथा मितद्रौ ।।'
"उपासिता मुक्तिदा सद्य एव ह्यस्येशाना जगतो विष्णुपत्नी । या श्रीर्क्ष्मीरौपला चाम्बिकेति ह्रीश्चेत्युक्ता संविदग्र्या सुविद्या ।।' इत्यादिश्रुतिभ्यः
श्रीः सुतुष्टा हरेस्तोषं जनयेत् क्षिप्रमेव तु । अतुष्टा तदतुष्टिं च तस्माद् ध्येयैव सा सदा ।।
अव्यक्तं प्रकृतिं चाहुः कूटस्थं चाक्षरं च ताम् । प्रधानमिति च प्राहुर्महापुरुष इत्यपि ।।
तां ब्रह्म महदित्याहुः परं जीवं परां चितिम् । तस्यास्तु परमो विष्णुर्यो ब्रह्म परमं महत् ।।
इति ब्रह्माण्डवचनाच्चाव्यक्तोपासनात् मोक्षाशङ्कया पृच्छति । "कूटस्थोक्षर उच्यते' इत्युत्तरवचनात् "कूटस्थमचम्' इत्यत्राप्युक्तेरव्यक्तशब्दः चित्प्रकृतिवाची । अन्यथा "ये त्वां पर्युपासते' "ये चाप्यक्षरं' "तेषां के योगवित्तमाः' इति भेदेन प्रश्नानुपपत्तिः । "परं ब्रह्म परं धाम पवित्रं परमं भवान्' इति तेनैवोक्तत्वात् । ये तु "ते मे युक्ततमा मताः' "मय्येव मन आधत्स्व' इत्यादौ भगवतोक्तेप्यव्यक्तोपासकानामाधिक्यं वदन्ति ते त्वपलापकत्वादतीव साहसिका इति सुशोच्या एव । "न चलेत् स्वात् पदात् यस्मादचला श्रीस्ततो मता' इत्याग्नेये ।
"सूक्ष्मत्वादप्रसिद्धत्वाद् गुणबाहुल्यतस्तथा । अनिर्देश्यौ तथाव्यक्तावचिन्त्यौ श्रीश्च माधवः ।।' इति नारदीये ।।
अविष्णुज्ञैरतद्भक्तैस्तदुपासाविवर्जितैः । शपेदुपासिताप्येषा श्रीस्तान् तद्धरितत्त्ववित् ।।
तद्भक्तस्तमुपास्यैव श्रियं ध्यायीत नित्यदा । तेन तुष्टा तु साच्छिद्रं दद्याद्विष्णोरुपासनम् ।।
ततस्तद्दर्शनान्मुक्तिं यात्यसौ नात्र संशयः । तथापि सर्वपरमां सर्वदोषविवर्जिताम् ।।
ज्ञात्वा श्रियं तत्परमं तत्पतिं पुरुषोत्तमम् । विज्ञायोपासते नित्यं ते हि युक्ततमा मताः ।।
यतः क्लेशोधिकस्तेषां पृथक् श्रियमुपासताम् । विष्णुना सहिता ध्याता सा हि तुष्टिं परां व्रजेत् ।।
अन्यथा तु पुनर्विष्णोः श्रीपतित्वेन चिन्तनम् । अच्छिद्रमेव कर्तव्यमिति मुक्तिश्चिराद्भवेत् ।।
तस्मादक्लेशतो मुक्तिः क्षिप्रं विष्णुमुपासताम् ।। इति परमश्रुतिः । युक्ततमाः साधकतमाः ।।2-3।।
विष्णोरन्यं न स्मरेद्यो विना तत्परिवारताम् । तदधीनतां वानन्ययोगी स परिकीर्तितः ।। इति च ।
"अन्तवत्तु फलं तेषाम्' इत्यादिनान्यदेवतोपासनायाः पूर्वं निन्दितत्वात् क्ष्म्यास्तवतिसामीप्यात् विशेषमाशङ्क्य तदुपासनाविषयः एव प्रश्नः कृतः ।
वैष्णवान्येव कर्माणि यः करोति सदा नरः । जपार्चामार्जनादीनि स्वाश्रमोक्तानि यानि च ।।
न तत्कर्मेति विज्ञेयो योन्यदेवादिपूजनम् । कृत्वा हरावर्पयति स तु तद्योगमात्रवान् ।।
तत्र पूर्वो विशिष्टः स्यादादिमध्यान्ततः स्मृतेः । अवान्तरं च नियमाद्विष्णोस्तद्दास्यतास्य यत् ।।
मनसा वर्ततेन्योपि यथाशक्ति हरिस्मृतेः । पूर्वोक्तयोग्यो भवति यदि नित्यं तदिच्छति ।।
असम्यग्ज्ञानिनो ध्यानाज्ज्ञानमेव विशिष्यते । ज्ञात्वा ध्यानं ततस्तस्मात् तत्फलेच्छाविवर्जितम् ।।
तस्माज्ज्ञानाद्भवेन्मुक्तिः त्यागाद्ध्यानयुतात् स्फुटम् ।। इति च ।
शान्तिर्मुक्तिः ।।4-15।।
अवैष्णवसर्वारम्भपरित्यागी । सर्वारम्भाभिमानत्यागेन फत्यागेन भगवत्समर्पणरूपेण च त्यागी ।
"सर्वकर्मफत्यागी प्राहुस्त्यागं विचक्षणाः' "मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा' इत्यादेः ।
भक्तिं ज्ञानं च वैराग्यमृते यो नेच्छति क्वचित् । शुभाशुभपरित्यागी विद्वद्भिः कीर्तितो हि सः ।। इति च ।
प्रायः सुखादिषु समः प्रायो हर्षादिवर्जितः । तथोच्यते यथाल्पस्वो निःस्व इत्युच्यते जनैः ।।
न हि मुख्यतया साम्यं कस्यचित् सुखदुःखयोः । न च हर्षादिसन्त्यागो यावन्मुक्तिः कुतश्चन ।। इति च ।
"हृतिर्मदादधर्माय हर्षो नाम प्रकीर्तितः' इति शब्दनिर्णये ।।17-19।।
व्यस्तेन प्रियाः समस्तेनातीव प्रियाः । भक्तिस्तु व्यस्तेप्युक्तैव । "यस्मान्नोद्विजते' इत्यत्रापि स चेत्यनेन भक्तिरनुषज्यते । धर्मसाधनं धर्म्यं तदेवामृतसाधनममृतं धर्म्यामृतम् ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये द्वादशोध्यायः ।।
***********************************************************************************
अथ त्रयोदशोध्यायः
सर्वार्थसङ्क्षेपोयम् ।
हिंसाहेतुश्च जीवस्य परेण प्रेर्यते च यत् । अव्यक्तादिशरीरं तु तत्क्षेत्रं क्षीयतेत्र यत् ।।
इच्छा द्वेषः सुखं दुःखं देहो व्याप्तिश्च चेतसः । तद्विकारा इति ज्ञेयाश्चिद्रूपेच्छादिमिश्रिताः ।।
विकारेच्छादिनिर्मुक्तश्चिन्मात्रेच्छादिसंयुतः । मुक्तः इत्युच्यते जीवो मुक्तिश्च द्विविधा मता ।।
चिन्मात्रद्वेषदुःखे च देहो मिथ्यादृगात्मकः । निषिद्धेच्छा यत्र स्युर्नित्या सा मुक्तिरासुरी ।।
चिन्मात्रा वैष्णवी भक्तिर्देहः सम्यग् दृगात्मकः । सुखमिच्छानुकूा च धृतिर्दैवीति सा मता ।। इति नारायणश्रुतिः ।
क्षेत्रज्ञो भगवान् विष्णुर्न ह्यन्यः क्षेत्रमञ्जसा । वेत्त्यसौ भगवान् ज्ञेयो व्यक्ताव्यक्तविक्षणः ।।
स तु जीवेषु सर्वेषु बहिश्चैव व्यवस्थितः । विक्षणश्च जीवेभ्यः सर्वेभ्योपि सदैव च ।।
सर्वतः पाणिपादादिर्यतः पाण्यादिशक्तिमान् । केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः ।।
अणोरणुतरै रूपैः पाणिपादादिसंयुतैः । सर्वत्र संस्थितत्वाद्वा सर्वतः पाणिपादवान् ।।
सर्वेन्द्रियाणां विषयान् वेत्ति सोप्राकृतेन्द्रियः । यतोतोनिन्द्रियः प्रोक्तो यन्न भिन्नेन्द्रियोथवा ।।
गुणैः सत्त्वादिभिर्हीनः सर्वकल्याणमूर्तिमान् । अन्यथाभावराहित्यादचरश्चरः एव च ।।
चरणात् सर्वदेशेषु व्याप्तोणुर्मध्यमस्तथा । सर्वगत्वात् समीपे च दूरे चैवान्तरे च सः ।।
अनन्ताव्ययशक्तित्वात् तदन्यत्र विरोधिनः । सन्ति सर्वे गुणास्तत्र न च तत्र विरोधिनः ।। इति च ।
न च जीवस्य क्षेत्रज्ञनाम ।
क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिता अनित्याः । आविर्हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः ।। इति भागवते ।
अत एतद्यो वेत्तीत्युक्ते जीवस्यापि किञ्चिज्ज्ञानात् तत्प्राप्तेस्तन्निराकरणार्थं क्षेत्रज्ञं चापि मां विद्धीत्याह । अन्यथा एतद्यो वेत्तीत्युक्तेनैव सिद्धत्वात् क्षेत्रज्ञं चापीति व्यर्थम् । भेदपक्षे तु नामनिरुक्त्यर्थमेतद्यो वेत्तीति । सर्वाभेदमपि केचिद्वदन्तीति क्षेत्रं च ज्ञश्चेति व्युत्पत्तिं निवारयति । क्षेत्रज्ञं मां सर्वक्षेत्रेषु स्थितत्वेन विद्धीत्यर्थः । तत्पक्षे तु यो वेत्तीत्युक्त ईश्वरस्यापि क्षेत्रज्ञत्वं सिद्धमेव । सर्वाभेदविवक्षायां च सर्वं क्षेत्रमिति वक्तव्यम् । क्षेत्रेष्विति व्यर्थम् । न च तत्पक्षे मामित्यस्य कश्चिद्विशेषः । किन्त्वेक एव क्षेत्र इति वक्तव्यम् ।।3।।
यतश्च यत् । यतः परमेश्वरानुमतेरिदं याति प्रवर्तते स चानुमन्ता यः । अनुसारिणी मतिरनुमतिः प्रेरणरूपा ।
प्रेरणानुमतिः प्रोक्ता क्वचित्संवाद उच्यते । प्रेरकत्वात्तु भगवाननुमन्ता प्रकीर्तितः ।। इति च ।
उपद्रष्टानुमन्ता चेत्यनेनैवानुमतिरनुमन्ता चोक्तः । ज्ञेयं यत्तदित्यादिना यन्प्रभाव इत्यपि ।।4।।
चेतना चित्तव्याप्तिः । "सङ्घातो देह उद्दिष्टश्चित्तव्याप्तिस्तु चेतना' इति च ।।5-7।।
तत्त्वज्ञानविषयस्य विष्णोरपरोक्षदर्शनं तत्त्वज्ञानार्थदर्शनम् । ज्ञायतेनेनेति ज्ञानम् । ज्ञप्तिज्ञानमिति व्युत्पत्त्या "एतज्ज्ञानमिति प्रोक्तं' इति ज्ञानसाधनं ज्ञानं चोक्तम् ।।12।।
अनादित्युक्ते स्वयं कारणं न भवतीत्याशङ्का स्यादिति तन्निवृत्यर्थमनादिमदित्याह ।
मुख्यतो गुणपूर्णत्वात् परंब्रह्म जनार्दनः । मूर्तामूर्तव्यतीतत्वान्न सन्नैवासदुच्यते ।। इति च ।
मूर्तं सदवगम्यत्वादज्ञेयत्वादसत्परम् । पुंसामर्थ्यादगम्यत्वात् सर्ववेदप्रसिद्धितः ।।
विक्षणः सदसतोर्भगवान् विष्णुरव्ययः ।। इति च ।।17।।
ज्ञानेन मुक्तौ प्राप्यत्वात् ज्ञानगम्यम् । स्वयमेवात्मनात्मानं वेत्थेति स्वज्ञेयत्वाज्ञेयम् । अन्यज्ञेयत्वस्य "ज्ञेयं यत्तत्' इति पूर्वमेव सिद्धत्वात् । कर्तृकर्मविरोधवादिमतं निराकरोत्युत्तरज्ञेयशब्देन ।
स्ववेत्ता वेदनं च स्वं स्वेन वेद्यश्च केशवः । परस्य वेत्ता वित्तिश्च वेद्यश्च स्यात् परैः क्वचित् ।।
तत्प्रसादं विना कश्चिन्नैव वेत्तुं हि शक्नुयात् । स्ववेदनेन्यवित्तौ वा नासावन्यदपेक्षते ।।
स्वप्रकाश इति प्रोक्तस्तेनैकः पुरुषोत्तमः । जीवानां स्वप्रकाशत्वं तत्प्रसादात् स्ववेदनम् ।। इति च ।।18।।
मद्भावाय मयि भावाय ।।19।।
"प्रकृतिं पुरुषं च' इत्यत्र पुरुषशब्देन जीवपरयोः प्रकृतिशब्देन चेतनाचेतनप्रकृत्योः स्वीकाराय "उभावपि' इति । विकाराणां सत्त्वादीनां चोपादानत्वविवक्षया प्रकृतिसम्भवत्वम् । स्वातन्त्र्यं तु परमेश्वरस्यैव ।"उपद्रष्टानुमन्ता च' इत्यादिवक्ष्यमाणत्वात् । गुणानां च विकारत्वेप्यधिकविकारत्वविवक्षयान्येषां विकारांश्च गुणांश्चेति पृथगुक्तिः ।।20।।
स्वदेहेन्द्रियहेतुत्वं यज्जीवस्य स्वकर्मभिः । आवृत्य विष्णुतत्त्वं तद्धेतुश्चित्प्रकृतिर्मता ।।
जीवस्य सुखदुःखानां भोगशक्तिप्रदः सदा । परमः पुरुषो विष्णुः सर्वकर्तापि सन् सदा ।।
विशेषकर्ता केषाञ्चिदुक्तो यद्वद्विकुण्ठपः । उच्यते सर्वपालोपि विशेषेण स्वकर्मणा ।। इति च ।
परमेश्वरस्यैव सर्वकर्तृत्वेपि भोक्तृत्वदाने देव्या अल्पप्रवृत्तिरिति दर्शयितुमुच्यत इति स्थानद्वयेप्युक्तम् । कर्तृत्वेपि स एव मुख्यहेतुः । तथापि भोक्तृत्वापेक्षया तस्या अधिकप्रवृत्तिरिति कर्तृत्वे "हेतुः प्रकृतिरुच्यते' इति सर्वहेतुत्वेपि विष्णोः प्रकृतेर्जीवं प्रति भोक्तृत्वदानेल्पप्रवृत्तिरिति पुरुषो "भोक्तृत्वे हेतुरुच्यते' इति विशेषहेतोरेवमुच्यते । मुख्यतस्तु सर्वहेतुत्वं विष्णोरेवेति भावः । "पुरुषः प्रकृतिस्थः' इत्यत्र पुरुषशब्दो जीवे । उभयोरपि पुरुषशब्देन पूर्वं प्रस्तुतत्वात् । यथायोग्यमुपपत्तेः ।।21।।
कार्यकारणसम्बन्धं भोगं च मिथ्येति वदतां निराकरणायाह- प्रकृतिः पुरुषस्थो हि इति ।। हीत्यनुभवविरोधं दर्शयति तेषाम् । न हि ज्ञानानानसुखदुःखादिविषयस्यान्तरानुभवस्य भ्रान्तित्वं क्वचिद्दृष्टम् । न चास्य मिथ्यात्वे किञ्चिन्मानम् । शरीरमारभ्यैव ह्यपरोक्षभ्रमो दृष्टः । तत्रापि बवत्प्रमाणविरोधादेव भ्रान्तित्वं कल्प्यम् । साक्षिसिद्धस्यापि भ्रान्तित्वाङ्गीकारे येन सर्वस्य भ्रान्तित्वमभ्रान्तित्वं चात्मनोवगतं तदपि प्रमाणमात्मैव । व्यवहारतोप्यस्तीत्यत प्रमाणाभावात् भ्रान्तिरभ्रान्तिर्वा न किञ्चित् सिद्ध्यति । अनुभवो भ्रान्त इत्युक्ते भ्रान्तत्वे प्रमाणं तत्प्रामाण्यं च कुतः सिद्ध्येत् । व्यवहारातः सर्वमङ्गीकुर्म इत्युक्ते व्यवहारो व्यवहर्ता च कुतः सिद्धः ? प्रतीतित इत्युक्ते सैव कुतः ? स्वत इत्युक्ते स्वस्य भ्रान्तित्वे प्रतीतिं विनैव प्रतीतिरस्तीति भ्रान्तिः स्यात् । स्वभावोपि स्यात् । स्वयमस्तीति च भ्रमः स्यात् । निराम्बनो भ्रमो नोपपद्यत इत्यस्यापि भ्रमत्वोपपत्तेः । तत्प्रमाणमप्यप्रमाणमेव । प्रमाणत्वभ्रम इति न किञ्चिद् सिद्ध्यति । भ्रम इत्यस्यैव भ्रमत्वेन्यस्याभ्रमत्वमेव भवति । सुखदुःखादिविषयं ज्ञानमात्मस्वरूपमेवेति तस्य भ्रमत्वे छद्मना विनैव शून्यवादो भवति । न हि वृत्तिज्ञानविषयमज्ञानादिकं तेषामपि । भ्रमस्य चाविद्याकार्यत्वाङ्गीकारात् । आत्मस्वरूपस्याप्यविद्याकार्यत्वं स्यात् । दुर्घटत्वं भूषणमित्युक्ते दुर्घटत्वं सुघटत्वं चोभयं भूषणमस्माकमित्युक्तम् । न हि प्रमाणसिद्धस्य दुर्घटत्वे सुघटत्वे वापवादो दृष्टः । दुर्घटत्वं भूषणमिति बदद्भिरात्मनोप्यविद्यात्वमङ्गीकृत्य तदयुक्तमित्युक्ते तत्रापि भूषणत्वं किमित नाङ्गीक्रियते । अतिसुकरत्वात् । न चात्मनोप्यविद्यात्वं वदतां तेषामुत्तरम् । अतोनन्तदोषदुष्टत्वात् हीति प्रसिद्ध्यैव भगवता निराकृताः ।।22।।
अस्य जीवस्य सदसद्योनिजन्मसु कारणं सत्त्वादिगुमसङ्गः । स्वतन्त्रकारणं तु परमेश्वर एवेत्याह- उपद्रष्टानुमन्तेति ।
"सवेभ्य उपरि द्रष्टा यदुपद्रष्ट्रनामकः । स्वातन्त्र्यात् स्वानुकूल्येन मत्या प्रेरयति स्म यत् ।।
अनुमन्तेति कथितः स्वयं प्रभुरजो हरिः । महाशक्तिर्यतो विष्णुर्महेश्वरः इतीरितः ।।
परमत्वाच्च तस्यैव ह्यनुमन्तृत्वमुच्यते । स एव सर्वदेहेषु देहिनोन्यो व्यवस्थितः ।।' इति च ।।
मां विद्धि सर्वक्षेत्रेष्विति देहेप्युक्तः । तेनाहमेव स इति दर्शयति ।।23।।
द्विविधं पुरुषं चैव प्रकृतिं द्विविधामपि । सह तत्तद्गुणैः सम्यग्ज्ञात्वा पश्यति यः पुमान् ।।
सर्वथा वर्तमानोपि न स भूयोभिजायते ।।24।।
अनादियोग्यताभेदात् पुंसां दर्शनसाधनम् । नानैव तत्र विष्णोस्तु प्रसादाद्वैष्णवं वपुः ।।
स्वयं विज्ञायते किञ्चित् श्रूयते किञ्चिदन्यतः । तथा ज्ञात्वा हरिं ध्यात्वा स्वान्तः पश्यन्ति केचन ।।
ऋषयः केचिदृषयो नारदाद्या बहिस्त्वयि । देवा विष्णुप्रसादेन ब्धसत्प्रतिभाबात् ।।
सर्वं क्रमेण विज्ञाय प्रतिभास्पष्टताक्रमात् । पश्यन्ति बहिरन्तश्च विष्णुं ध्यानमृतेपि तु ।।
येषां ध्यानमृते दृष्टिस्तेषां ध्यानेपि दर्शनम् । स्यादेव साङ्ख्ययोगास्ते देवा ब्रह्माधिकोत्र च ।।
केचित्तु क्षत्रियवरा अश्वमेधादिकर्मभिः । यजन्तो भक्तिमन्तश्च यज्ञभागार्थमागतम् ।।
श्रवणप्रतिभाभ्यां च स्मरन्तः पुरुषोत्तमम् । पश्यन्त्यन्ये तथान्येभ्यः सर्वं श्रुत्वानुमत्य च ।।
उपास्यैव तु पश्यन्ति नान्यथा तु कथञ्चन । ऋषीन् राज्ञस्तथारभ्य प्रतिभाभ्यधिका क्रमात् ।।
यावद्ब्रह्मा ब्रह्मणस्तु प्रायो नाप्रतिभासितम् । विष्णोः प्रीत्यर्थमेवास्य श्रोतव्यं प्रायशो हरेः ।।
अन्येषां श्रवणाज्ज्ञानं क्रमशो मानुषोत्तरम् । अत्यल्पप्रतिभानत्वात् मानुषाः श्रुतवेदिनः ।।
सर्वे ते दर्शनात् तस्मात् स्वयोग्यान्मुक्तिगामिनः ।। इति च ।
अन्येषामपि किञ्चिच्छ्रवणे विद्यमानेपि मनुष्याणामत्यल्पप्रतिभानत्वात् "श्रुत्वान्येभ्यः' इति विशेषणम् । मनुष्याणां प्रतिभा मूप्रमाणापेक्षा प्रायो न सम्यगुत्पद्यतेल्पा चेति "श्रुतिपरायणाः' इति ।
अश्रुतप्रतिभा यस्य श्रुतिस्मृत्यविरोधिनी । विश्रुता नृषु जातं च तं विद्याद् देवमानुषम् ।।
यश्च स्वमुखमानेन नवाधोदेहवान् पुमान् । अष्टमानवती स्त्री च षण्णवत्यङ्गुलो पुनः ।।
दशतालौ सप्तपादौ विद्यात्तौ च सुरोत्तमौ । यावत्पञ्चाङ्गुलोनं तद्देवमानं क्रमात् परम् ।।
पादे त्वङ्गुमात्रोनं तदूनं चतुरङ्गुम् । यावदेवोपदेवानां पादे चोनाङ्गुलं पुनः ।।
तावन्मनुष्यमानं स्यात् ततोधस्त्वासुरं स्मृतम् । द्विचत्वार्यधिकं तस्मात् षण्णवत्यङ्गुलादधः ।।
ज्ञेयमङ्गुमानं तदुपदेवादिषु स्फुटम् । देवेष्वरवज्ज्ञेयमृषीणां चक्रवर्तिनाम् ।।
यावद्यावत्प्रियो विष्णोस्तावत् स्त्रीपुंस्वरूपिणः । हरेः सादृश्यमस्य स्यादनादिक्रमसुस्थिरम् ।। इति च ।।25-26।।
क्षेत्रक्षेत्रज्ञसंयोगादित्यत्र क्षेत्रं श्रीः । "मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्' इति वक्ष्यमाणत्वात् ।
"अव्यक्तं च महद्ब्रह्म प्रधानं क्षेत्रमित्यपि । उच्यते श्रीः सदा विष्णोः प्रिया निर्दोषिचद्घना ।।
सा हि न व्यज्यते विष्णुरत्र क्षेति महागुणा । जीवोत्तमा च तेनैते शब्दैरेकाभिधीयते ।।
महान् ब्रह्मा जीवमहान् परात्मप्रेरिताः क्रियाः । अहं कर्तेति येनायं जीवो मंस्त्यसौ शिवः ।।
अहङ्कार इति प्रोक्ता जीवाहङ्कृतिकृद्यतः । उमा बुद्धिरिति ज्ञेया शब्दादिज्ञानदा यतः ।।
मतिदो मन उद्दिष्ट इन्द्रः स्कन्दोपि तत्सुतः । श्रोत्रं त् लुश्रावयंश्चन्द्रः स्पर्शो वायुसुतो मरुत् ।।
चक्षुः सूर्यश्चक्षयति जिह्वा वारिपतिर्हृतेः । अश्विनौ घ्राणमाघ्रातेर्वागग्निर्वचनादपि ।।
हस्तौ वायुसुतौ ज्ञेयौ मरुतौ हानिाभयोः । पादौ तु विष्णुनाविष्टौ यज्ञशम्भू शचीसुतौ ।।
पदनादेव पायुश्च भुक्तस्यैवाप्ययाद्यमः । सन्तत्युपस्थितिकृतेरुपस्थः सशिवो मनुः ।।
विनायकस्तथाकाशो निरावृत्या प्रकाशनात् । प्रधानवायुजो भूतवायुर्नाम्ना मरीचिकः ।।
अग्निश्च पृथिवी चैव प्रसिद्धौ वरुणो जम् । अदनात् प्रथनाज्जन्मयहेतोस्तथाभिधाः ।।
शब्दाद्या पञ्च शिवजाः शब्दनात् स्पर्शनादपि । रूपाद्रसनाच्चैव गन्धनाच्च तथाभिधाः ।।
सुखं धृतिश्चेतना च सुखनाद्विधृतेरपि । चेतोनेतृत्वतश्चैव मुख्यवायुः सरस्वती ।।
श्रीश्चेच्छा सैव सा वायोः पत्नी त्वेवं धृतिर्मता । इच्छादानात्तु सैवेच्छा स्थानभेदात्तु देवताः ।।
पृथक् पृथक् च कथ्यन्ते क्ष्म्याद्या उदिता अपि । दुःखद्वेषौ किश्चैव द्वापरो ब्रह्मणः सुतौ ।।
प्रवरावसुराणां तौ सङ्घातश्चेतना परे । एतैरभिमतं यच्च तत्तन्नाम्नाभिधीयते ।।
चेतनाचेतनं त्वेतत् सर्वं क्षेत्रमीर्यते । क्षिणोति त्राति चैवैतदतो वा क्षेत्रमुच्यते ।।
क्षितिं कृत्वा त्राति चैतदतो वा क्षेत्रमीरितम् । एतस्मात् क्षीणमेतेन त्रातमित्यथवा पुनः ।।
इच्छाद्यानां क्षेत्रनाम्नामपि नामान्तरं स्मृतम् । विकारा इति यस्मात् ते विशेषविकृतिस्थिताः ।।
विशेषात् क्रियते यस्मात् विकारः कार्यमन्तिमम् । विगतं करणं चात्र पुनर्नाशमृते यतः ।।
तत्सम्बन्धाद्विकाराख्या इच्छाद्या अभिमानिनः । एतत्सर्वं सर्वदैव निर्दोषेणैव चक्षुषा ।।
प्रेरयन्नेव जानाति तत्क्षेत्रज्ञो हरिस्ततः ।।' इति च ।
"यस्यात्मा शरीरम्' इत्यादिश्रुतेश्चेतनस्यापि "इदं शरीरं कौन्तेय' इति शरीरत्वोक्तिर्युज्यते ।
सत्त्वं जीवः क्वचित्प्रोक्तः क्वचित् सत्त्वं जनार्दनः । सत्त्वं नाम गुणः क्वापि क्वचित् साधुत्वमुच्यते ।। इति शब्दनिर्णये ।
"तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्' इति च पैङ्गिश्रुतिः । जनी प्रादुर्भावे इति धातोर्जीवस्यापि शरीरं व्यक्त्यपेक्षया जनिर्युज्यते ।।27।।
जीवेषु दुःखयोगादिरूपेण विनश्यत्स्वप्यतथाभूतम् ।
दुःखयोगादिरूपेण जीवेषु विनशत्स्वपि । दुःखयोगादिरहितः सर्वजीवेष्ववस्थितः ।।
गुणैः सर्वै समो नित्यं न हीनो हीनगोपि सन् । इति पश्यति यो विष्णुं स एव न तमो व्रजेत् ।। इति पाद्मे ।।28-29।।
प्रकृत्या स्वयमेव प्रारभ्य विष्णुना क्रियमाणानि । विष्णोर्नान्यः पूर्वप्रेरक इति । "पूर्वं तु बादरायणो हेतुव्यपदेशात्' इति भगवद्वचनात् । "द्रव्यं कर्म च काश्च' इति च ।
स्वयं प्रकृत्या भगवान् करोति निखिं जगत् । नैव कर्ता हरेः कश्चिदकर्ता तेन केशवः ।। इति च स्कान्दे ।
तेनेति प्रस्तुतत्वादेव सिद्धम् । "अहं सर्वस्य प्रभवः' "स हि कर्ता' "कर्तारमीशं पुरुषं ब्रह्मयोनिम्' "जन्माद्यस्य यतः' "मत्त एवेति तान् विद्धि' इत्यादिसकप्रमाणविरोधश्चान्यथा । "प्रकृत्यैव च' इति चशब्दात् तेनैवेति सिद्ध्यति ।
प्रकृतेन क्रियायोगं चशब्दः क्वचिदीरयेत् । क्वचित् समुच्चयं ब्रूयात् क्वचिद्दौर्भ्यवाचकः ।। इति शब्दनिर्णये ।
प्रकृतेः कर्तृत्वं "रचनानुपपत्तेश्च नानुमानम्' इत्यादिभगवद्वचनेन निरस्तम् । "न ऋते त्वत्क्रियते किञ्चनारे' इति च । केवप्रकृतेः कर्तृत्वाङ्गीकारे चशब्दो व्यर्थः । "तत एव च विस्तारं' इति वाक्यशेषविरोधाश्च । "अहं बीजप्रदः पिता' इति वक्ष्यमाणमत्रापि क्षेत्रक्षेत्रज्ञसंयोगादिति प्रकृतिमिति तेनापि विरोधः । अचेतनं करोतीति स्वोक्तिविरोधश्च । "इच्छापूर्वं क्रियादानं कर्तृत्वं मुख्यमीरितम्' इति पैङ्गिश्रुतिः । विकारक्षणं कर्तृत्वं तु प्रकृतेरङ्गीकृतमेव । तथापि क्ष्मीपरमेश्वरमुक्तचेष्टासु तदभावात् सर्वश इत्यस्य सङ्कोचप्राप्तिः ।
अचेतनाश्रितं कर्म विकारात्मकमीरितम् । यत्तु केवचित्संस्थं प्रत्यभिज्ञाप्रमाणतः ।।
अविकारात्मकं ज्ञेयं तन्न तत्प्राकृतं भवेत् ।। इति च ।।30।।
एकविष्ण्वाश्रितानां तु जीवानां भेदमेव यः ।ततः परस्परं चैव तारतम्येन पश्यति ।।
विष्णोरेव च विस्तारं जगतः स विमुच्यते ।। इति च ।।31।।
शरीरस्थो जीवः । "स्वप्नेन शारीरमभिप्रहृत्यासुप्तः सुप्तानभिचाकशीति' इति श्रुतेः ।
शरीरस्थस्तु संसारी शरीराभिमतेर्मतः । विष्णुः शरीरगोप्येष न शरीरस्थ उच्यते ।।
शरीराभिमतिर्यस्मान्नैवास्यास्ति कदाचन । तद्गतानां तु दुःखानां भोगोभिमतिरुच्यते ।।
तदभावान्नाभिमानी भगवान् पुरुषोत्तमः ।। इति च ।
अनादित्वान्निर्गुणत्वात् परमात्मा जीवोपि न किमुत जडं न भवतीति । शरीरोत्पत्तिक्षणमप्यादिमत्त्वं परस्य नास्तीति विशेषः । जीवस्य हि तदस्तीति । सत्त्वादिगुणसम्बन्धश्च । सर्वं करोति परमात्मा तथापि न लिप्यते । वादिप्रसिद्धत्वादेव "इष्टापूर्तं मन्यमाना वरिष्ठं' इत्यादिवन्निषेधः ।
कुर्वाणोपि यतः सर्वं पुण्यपापैर्न लिप्यते । जन्ममृत्यादिरहितः सत्त्वादिगुणवर्जितः ।।
विष्णुस्तद्विपरीतस्तु जीवोतस्तौ पृथक् सदा ।। इति च । "स एष नेति नेति' इत्यादि च ।।32-34।।
जीवानामचेतनप्रकृतेर्मोक्षं भूतप्रकृतिमोक्षम् ।।35।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये त्रयोदशोध्यायः ।।
**************************************************************************
अथ चतुर्दशोध्यायः
क्षेत्रक्षेत्रज्ञसंयोगस्पष्टीकरणपूर्वकं त्रैगुण्यं विविच्य दर्शयति ।।1-2।।
"योनिर्भार्या तथा स्थानं योनिः कारणमेव च' इति शब्दनिर्णये । अत्र योनिर्भार्या । "तस्मिन् गर्भं दधाम्यहम्' इति वाक्यशेषात् ।।3-15।।
एतेभ्यः सत्त्वादिगुणेभ्योन्यं कर्तारमीशं यदा पश्यति तदैवायं ना पुरुषः । अन्यथा पशुसमः । न केवहमन्यत्वेन पश्यन् ना तं कर्तारं विष्णुम् । किन्तु गुणेभ्य उत्तमत्वेन च । कथं स एव ना । यस्मात् मद्भावं सोधिगच्छति ।
महाक्ष्मीरिति परा भार्या नारायणस्य या । प्रकृतिर्नाम सा ज्ञेया प्रकर्षेण करोति यत् ।।
तस्यास्तु त्रीणि रूपाणि सत्त्वं नाम रजस्तमः । सृष्टिकाले विभज्यन्ते सत्त्वं श्रीः सद्गुणप्रभा ।।
रजो रञ्जनकर्तृत्वात् भूः सा सृष्टिकरी यतः । यदावेशादियं पृथ्वी भूमिरित्येव कथ्यते ।।
जीवानां ग्पनाद् दुर्गा तम इत्येव कीर्तिता । एताभिस्तिसृभिर्जीवाः सर्वे बद्धा अमुक्तिगाः ।।
सर्वान् बध्नन्ति सर्वाश्च तथापि तु विशेषतः । श्रीर्देवबन्धिका नॄणां भूर्दैत्यानां तथा परा ।।
एताभ्योन्यं परं चैव विष्णुं ज्ञात्वा विमुच्यते । सामर्थ्यातिशयादासां नैताभ्यो विद्यते परः ।।
इति यावद्विजानाति तावत्तं नृपशुं विदुः । तस्मादाभ्योधिकगुणो विष्णुर्ज्ञेयः सदैव च ।। इति महाविष्णुपुराणे ।।16-19।।
रजसस्तु फलं दुःखमित्यत्र दुःखमिति दुःखमिश्रं सुखम् ।"दुःखं दुरिति संप्रोक्तं खं नाम सुखमुच्यते' इति शब्दनिर्णये ।
कर्मणो राजसस्योक्तं दुःखमिश्रं सुखं फम् । अज्ञानजं तामसस्य नित्यदुःखं फलं विदुः ।। इति स्कान्दे ।।20-21।।
लोकस्थितान् प्रकाशादीन् प्रायो न द्वेष्टि नेच्छति ।
स्वयंप्रकाशी मोहोज्झस्तथापि पुनरिच्छति । विष्णोः प्रकाशं तं चापि नित्यभक्त्याभिसेवते ।।
सुखदुःखदिभावेपि विष्णुभक्तौ समः सदा । अर्थार्थं वा प्रियार्थं वा निन्दादीनां भयादपि ।।
न विष्णुभक्तिह्रासोस्य किन्तु साम्यमथोन्नतिः । अवैष्णवारम्भवर्जी विष्णुं याति न संशयः ।। इति च ।।22।।
उदासीनवदित्युक्तेश्च न केवलोदासीनत्वम् । नेङ्गत इत्युदासीनप्रवृत्तिनिषेधः । सर्वारम्भपरित्यागीति विशेषप्रयोजनापेक्षयापि नावैष्णवारम्भ इति । "इङ्गनं क्षणिकं कर्म दीर्घमारम्भ उच्यते' इति शब्दनिर्णये ।।23-25।।
क्ष्म्यादिभिः कृतो बन्धो योनादिः पुरुषस्य तु । तमत्येतीह यो विद्वान् स विज्ञेयो गुणात्ययी ।। इति च प्रवृत्ते ।
तत्कृतबन्धात्ययात् तदधिकविष्णुप्राप्तेश्च तदत्ययीत्युच्यते । यथा द्वारपामतीत्य राजानं गच्छतीति । ब्रह्मणि भूयं ब्रह्मभूयम् । ब्रह्मेति प्रकृता महाक्ष्मीः ।
अतीत्य त्रीणि रूपाणि महाक्ष्मी प्रपद्यते । तया त्वनुगृहीतोसौ वैष्णवो विष्णुगो भवेत् ।। इति च ।।26।।
ब्रह्म प्राप्तो मत्प्राप्त एव भवतीत्याह- ब्रह्मण इति ।। मदवियोगात् तस्या अपि मत्स्थ एव भवतीत्यर्थः । तथापि मत्प्राप्तिक्रमविवक्षया तदुक्तिः । एकान्तिकस्य सुखस्य मोक्षस्य ।।27।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये चतुर्दशोध्यायः ।।
***********************************************************************************
अथ पञ्चदशोध्यायः
त्रयोदशाध्यायोक्तं विविच्य दर्शयति ।
पृथङ् मूलं हरिस्तस्य जगद्वृक्षस्य भूमिवत् । सत्त्वादियुक्ते चिदचित्प्रकृती मूभागवत् ।।
अत्रापि चिदचिद्योगो वृक्षवत्संप्रकीर्तितः । पृथिवीदेवतावत् तद्धरिर्मृद्वदचेतना ।।
नीचास्ततो महदहंबुद्धयो भूतसंयुताः । शाखाश्छन्दांसि पर्णानि काममोक्षफले ह्यतः ।।1।।
कारणेषु स्थितं कार्यं व्याप्तं कार्येषु कारणम् । अन्योन्यसन्तताः शाखा मूलानि च सदैव तु ।।
विषया दर्शनीयत्वात् प्रवासदृशा मताः ।।2।।
जगद्वृक्षोयमश्वत्थो ह्यश्ववच्चात्मकः । अव्ययोयं प्रवाहेण स्वसक्तिज्ञानहेतिना ।।
विष्णो सम्यक् पृथग्दृष्टिनामच्छेदनभाक् सदा । अव्यक्तादिसमस्तं तु नेति नेत्यादिवाक्यतः ।।
बोधनेनैव पृथग्विष्णोः कृत्वा मृग्यः स केशवः । तमेवाद्यं प्रपद्येत यदंशाभासको ह्ययम् ।।
जीवराशिः समस्तोपि ब्रह्मरुद्रेन्द्रपूर्वकः ।।3-4।।
किञ्चित्सादृश्यमात्रेण भिन्नोप्यंश इवोच्यते । ईश्वरस्तु यदा त्वस्य शरीरं विशति प्रभुः ।।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ।।5-7।।
शब्दादीन् प्रत्यथ यदा जीवमादाय यात्यतः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ।।8।।
भुङ्क्ते हरिः शुभान् भोगानिन्द्रियेषु व्यवस्थितः । पूर्णानन्दोपि भगवान् क्रीडया भुङ्क्त एव तु ।।9-12।।
सौम्यत्वात् सोमनामासौ सोममण्डगः सदा ।।13।।
स एवाग्निस्थितो विष्णुर्नाम्ना वैश्वानरः सदा । सर्वेषां स नराणां यदुपजीव्यः सदैव च ।।14।।
स एव व्यासरूपेण वेदान्तकृदुदाहृतः ।।15।।
ब्रह्मरुद्रादयः सर्वे शरीरक्षरणात् क्षराः । श्रीरक्षरात्मेत्युदिता नित्यचिद्देहका यतः ।।
चेतनाचेतनस्यास्य राशेः संस्थापकत्वतः । कूटस्थ आत्मा सा ज्ञेया परमात्मा हरिः स्वयम् ।।16-17।।
क्षराक्षरात्मनोर्यस्मादुत्तमः स सदानयोः । पुरुषोत्तमनाम्नातः प्रसिद्धो लोकवेदयोः ।। इति नारायणश्रुतिः ।।18-20।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये पञ्चदशोध्यायः ॥
*****************************************************************************************************
अथ षोडशोध्यायः
देवासुरक्षणम् ।
येतिमानेन मन्यन्ते परमेशोहमित्यपि । मिथ्या जगदिदं सर्वं भ्रमजत्वान्न तिष्ठति ।।
मिथ्यात्वान्नेश्वरोस्यास्ति परेभ्यो न च जायते । स्वस्मिन्नपि तथान्यस्मिन्नियन्तान्य इतीरिते ।।
प्रद्विषन्त्यसुरास्ते तु सर्वे यान्त्यधरं तमः । अयोग्येशत्वकामाच्च लोभाच्चात्मसमर्पणे ।।
तत्त्ववेदिषु कोपाच्च तमस्तेषां न दुर्भम् । अक्षागमानुमानां च स्वोक्तेरपि विरोधिनः ।।
यस्मात् ततोसुरा ज्ञेया एवमन्येपि तादृशाः । ये तु विष्णुं परं ज्ञात्वा यजन्ते नान्यदेवताः ।।
प्रत्यक्षाद्यविसंवादिज्ञानादेव विमुक्तिगाः ।। इति ब्रह्मवैवर्ते ।
निबन्धाय नीचस्थानेन्धे तमसि बन्धाय ।
सर्गाणां सुबहुत्वेपि शुभाशुभफलाधिकौ । देवासुराख्यौ द्वावेव गन्धर्वाद्यास्तदन्तराः ।।
मुक्तिगा एव विज्ञेया देवा एव विमुक्तिगाः ।। इति च ।
विमोक्षायेत्यत्र वीत्युपसर्गादेव च मोक्षनानात्वं ज्ञायते ।
देवासुरनरत्वाद्या जीवानां तु निसर्गतः । निसर्गो नान्यथैतेषां केनचित् क्वचिदेव वा ।।
देवा शापबलादेव प्रह्लादादित्वमागताः । अतः पुनश्च देवत्वं ते यान्ति निजमेव तु ।।
हेतुतः सोन्यथाभावो रक्तता स्फटिके यथा । अतो नित्यश्च नाप्येष स्वभावविनिवर्तकः ।।
किन्त्वाक्रम्यैव तं तिष्ठेद्देवसर्गस्ततो हि सः । अशोच्य एव विज्ञेयो मोक्षयोग्यो हरेः प्रियः ।। इति च ।।1-24।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये षोडशोध्यायः॥
*****************************************************************************
अथ सप्तदशोध्यायः
सदसत्कर्मविवेकः ।।1-2।।
सत्त्वानुरूपा जीवानुरूपा । अतो ये सात्विकाश्रद्धास्ते सात्विका इति ज्ञेया अन्येभ्य इति । श्रद्धामयः श्रद्धास्वरूपः ।
श्रद्धा स्वरूपं जीवस्य तस्माच्छ्रद्धाविभेदतः । उत्तमाधममध्यास्तु जीवा ज्ञेयाः पृथक् पृथक् ।।
स्वरूपभूता श्रद्धैव तमोगानां च मोक्षिणाम् । शिष्यते संसृतिस्थानां श्रद्धारूपं मनोपरम् ।।
तत्र स्वरूपश्रद्धैव व्यज्यते प्रायशः क्वचित् । सात्विकस्य तमोरूपा श्रद्धान्तःकरणात्मिका ।।
सात्विकी तामसस्यापि भूयस्त्वात् तद्विविच्यते ।।3।।
श्रद्धेत्यास्तिक्यनिष्ठोक्ता सा येषां देवतोत्तमे । विष्णौ तद्भक्तबुद्ध्यैव रमाब्रह्मादिकेषु च ।।
ते सात्विका इति ज्ञेयास्तैरिष्टं विष्णुरेव तु । श्रीश्च साध्याक्षविद्याख्या ब्रह्मेन्द्राद्याश्च देवताः ।।
विबुधत्वात्तु मन्वाख्या भुञ्जते प्रीतिपूर्वकम् । व्यामिश्रयाजिनो ये तु विष्ण्वाधिक्ये ससंशयाः ।।
स्वरूपमात्रे देवानां श्रद्धायुक्ताश्च सर्वदा । राजसास्ते तु विज्ञेयास्तैरिष्टं यक्षराक्षसाः ।।
दीनत्वात् देवनामानो ब्रह्मेन्द्रादिसनामकाः । गृह्णन्ति ये हरिं त्वन्यदेवादिसममेव तु ।।
नीचं ब्रह्माद्यनन्यं वा मन्यन्ते नेति चाखिम् । ततच्छ्रद्धायुतास्ते तु तामसाः परिकीर्तिताः ।।
भूतप्रेतास्तु तैरिष्टं शिवस्कन्दादिनामकाः । साक्षाच्छिवपरीवारा भुञ्जते ह्यतितामसाः ।।
मोक्षः साङ्कल्पिकः स्वर्गो भूतादित्वं फलं क्रमात् । त्यक्त्वापि शास्त्रविहितं मिथ्याज्ञानविवर्जिताः ।।
भक्त्या विष्णुं यजन्ते ये निषिद्धचरणोज्झिताः । तेपि यान्ति हरिं शास्त्रविधानस्थाः कुतः पुनः ।।
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ।।
अकृशानपि क्ष्म्यादीन् देवान् विष्णुपरायणान् । विष्णुं च सर्वदेहस्थं कृशत्वेन विजानते ।।
तेषामल्पगुणत्वेन कल्पनात् ते तमो ध्रुवम् । यान्ति ज्ञेयाश्च ते दैत्याः पिशाचा वाथ राक्षसाः ।।
अन्नैश्चैवाथ यज्ञाद्यैः प्रायो ज्ञेयाः इमे नराः । सात्विकाः सात्विकान् कुर्युर्यस्मादन्ये तथेतरान् ।।
ओंतत्सदिति यद्विष्णोर्नामत्रयमुदाहृतम् । प्रसिद्धं वैदिकं तस्मात् कर्म तद्विषयं हि सत् ।।
तत्राश्रद्धाकृतं तस्मादसदित्येव कीर्त्यते । विप्रा वेदाश्च यज्ञाश्च यस्मादोताः परस्परम् ।।
विहिता विष्णुना तेन विष्णुरोमिति कीर्तितः । ओतमस्मिन्निदं सर्वमिति चोक्तः स ओमिति ।।
तस्मादोमिति यज्ञादीन् प्रवर्तन्ते हि वैदिकाः । अनोङ्कृतं ह्यासुरं स्याद्यत् तस्मादोङ्कृतं त्वपि ।।
ओङ्कारार्थहरेः सम्यगज्ञानादासुरं भवेत् । फलं त्वनभिसन्धाय तद्ब्रह्म स्यान्ममास्पदम् ।।
इति यत् क्रियते कर्म तन्नामातो जनार्दनः । अभिसंहितं हि तत्प्रोक्तं ततं वा स्वगुणैः सदा ।। इत्यादि च ।
"मयं प्रधानमुद्दिष्टं स्वरूपं कार्यमेव च' इति शब्दनिर्णये । शास्त्रविहितमपि भगवच्छ्रद्धाविहीनमसदेवेति वक्ष्यति- अश्रद्धया हुतमिति ।। भगवच्छ्रद्धाविरहितत्वादेव चाशास्त्रविहितं भवति । "विष्णुभक्तिविधानार्थं सर्वं शास्त्रं प्रवर्तते' इति पैङ्गिश्रुतिः ।।4-7।।
स्थिराः स्थिरगुणाः घृतादयः । कट्वादीनामप्यारोग्यरसाद्यर्थत्वेन सात्विकत्वमेव । रस्यादीनामपि राजसत्वमनारोग्यादिहेतुत्वे । "दुःखशोकामयप्रदाः' इत्युक्तेः । सत्त्वं साधुभावः । भवति हि सोपि शुच्यन्नात् ।
हृद्यं पश्चान्मनोहारि प्रियं तत्कासौख्यदम् । सुखं तु दीर्घसुखदं रस्यमभ्याससौख्यदम् ।। इति शब्दनिर्णये ।।8।।
रूक्षं नीरसं तीक्ष्णं सर्षपादि ।।9।।
यामान्तरितपाकं तु यातयाममितीर्यते । क्वचिच्च गतसारं स्यान्नियम्यं यातमस्य यत् ।। इति च ।
पूर्वं स्वादु पश्चादन्यथा जातं गतरसम् ।
शुद्धभागवतानां तु स्वभावापेक्षयैव तु । स्वादुत्वादि विजानीयात् पदार्थानां न चान्यथा ।। इति सूदशास्त्रे ।
यागात्तु राजसात् स्वर्गः साङ्कल्पि उदाहृतः । लोकः सदीनदेवानां सनाम्नां वासवादिभिः ।।
विष्णावश्रद्धयायोग्यकामाच्चैषां पुनर्भवेत् । नरकं च विना यज्ञं राजसा नरलोकगाः ।।
निषिद्धं कर्म कुर्युश्चेदीयुस्ते नरकं ध्रुवम् । कदाचित् सात्त्विकाः कुर्युः कर्म राजसतामसम् ।।
अन्येन्यच्च तथाप्येषां स्थितिः स्वाभाविकी पुनः । स्वं स्वं कर्म तु सर्वेषां सदैव स्यान्महाफम् ।।
अन्यदल्पफलं चैव बाहुल्यं तेषु क्षणम् ।। इति पाद्मे ।।12-15।।
मौनं मननम् ।।16।।
युक्तैः भगवदर्पणादियोगयुक्तैः । युक्तैरिति दानादिषु सर्वत्र समम् । सत्सम्बन्धित्वादेव कर्मादि सत् ।।17-22।।
ओं तत्सदिति नाम्नां विष्णौ प्रसिद्धत्वात् ।
"स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते । अनोङ्कृतमासुरं कर्म' इति श्रुतेरनोङ्कृतस्यासुरत्वप्रसिद्धेः ।
अनर्थज्ञोदितो मन्त्रो निरर्थस्त्राति मानतः । यन्मन्त्रस्तेन कथितो मन्त्रार्थो ज्ञेय एव तत् ।।
इति पैङ्गिश्रुतेश्च । तदर्थत्वेन फलानभिसन्धिपूर्वककर्मण एव सात्त्विकत्वाच्च । तद्भक्त्या तत्स्मरणपूर्वकमेव कर्म सदन्यदसदेवेति भावः । राजसस्याप्यसदन्तर्भाव एव । विष्णुश्रद्धारहितत्वात् ।
सात्त्विकं मोक्षदं कर्म राजसं सृतिदुःखदम् । तामसं पातदं ज्ञेयं तत्कुर्यात् कर्म वैष्णवम् ।। इत्याग्नेये ।।23-28।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये सप्तदशोध्यायः ॥
***************************************************************************************************************
अथ अष्टादशोध्यायः
सर्वाध्यायोक्तधर्मस्य समासतो निर्णयात्मकोनुक्तत्रैगुण्यवादी चायम् ।।1-2।।
"मनीषिणः' इत्युक्तत्वात् तेप्यनिन्द्याः । अतः त्याज्यं दोषवत् इत्यस्यार्थः सङ्गं त्यक्त्वा फलं च इति ।।3-4।।
द्रव्ययज्ञादीनां मध्ये स्वोचितो यज्ञो विद्यादानादिषु स्वोचितं दानं स्वोचितं तपश्च सर्वैर्वर्णाश्रमिभिरन्यैश्च कार्यमेवेत्यर्थः । विष्णुनामस्वाध्यायोन्त्यानां सत्योपवासादितपश्च ।।5-6।।
सङ्गफत्यागमृते स्वरूपत्यागः कार्य इति मिथ्याज्ञानाख्यमोहात् । स्वयज्ञादीन् परित्यज्य निरयं यान्त्यसंशयम् । इति पाद्मे ।।7।।
मोहं विना दृष्टदुःखमित्येव । दुःखशब्देन केवलं मानसम् । कायक्लेशस्य पृथगुक्तेः ।
दुःखं तु मानसं ज्ञेयमायासो बाह्य उच्यते । विशेषस्य विवक्षायामन्यथा सर्वमेव तु ।। इति शब्दनिर्णये ।।8-9।।
न द्वेष्ट्यकुशलं कर्म केवलं दृष्टदुःखदम् । जन्मान्तरकृते पुण्ये न सज्जेत् सात्विकश्चले ।।
यः सम्यक् तत्वविद्विष्णोः तदर्पणाधियैव तु । फलेच्छावर्जितस्तस्य कर्म बन्धाय नो भवेत् ।।
बहुलं चेदल्पदोषं यावदेवापरोक्षदृक् ।। इति च ।।10-11।।
अन्येषामिष्टम् । अस्य तु त्यागित्वादेव नेष्टम् । ज्ञानादेर्मोक्षभोग्याच्च नान्यत् स्यात् कर्मणः फम्' "त्यागिनस्तत्त्वसंवेत्तुरन्येषां तदृते फम्' इति च । केवकाम्यकर्मणां फलानपेक्षयाप्यकरणमित्येवांस्त्यागात् सन्यासस्य विशेषः इत्यत्यागिनां प्रतियोगित्वेन न्यासिन उक्ताः । त्यागित्वं तेषामपि ह्यस्ति ।
परेच्छयापि ये काम्यं कर्म कुर्युर्न तु क्वचित् । न्यासिनो नाम तेन्येभ्यः फत्यागिभ्य उत्तमाः ।। इति च ।।12।।
कथितं परमं साङ्ख्यं कपिलाख्येन विष्णुना । सेश्वरं वैदिकं साक्षात् ज्ञेयमन्यदवैदिकम् ।। इति च ।।13।।
अधिष्ठानं शरीरादि ।।14-16।।
स्वतन्त्र्यमीश्वरे वेत्ति नैवात्मनि कदाचन । ईश्वराधीनमेवात्मन् स्वातन्त्र्यं तु जडान् प्रति ।।
तारतम्येन क्ष्म्यादेर्जीवान् प्रति च सर्वशः । यस्तदर्थं समुत्पन्नो यथा रुद्रो यथा यमः ।।
हत्वापि स इमान् लोकान् न हन्ति न निबद्ध्यते । अज्ञस्तदर्थं जातोपि बध्यते दैत्यवत् ध्रुवम् ।।
अपरोक्षदृङ् न जातो यस्तदर्थं मुक्तिगं सुखम् । ह्रसेत् तस्य परोक्षज्ञः किञ्चिद्दोषेण लिप्यते ।। इति च ।
अस्वातन्त्र्यज्ञानाद् हन्मीति भावोप्यस्य नास्तीति न हन्ति । अन्यस्य भावोस्तीति विशेषः । "बुद्धिर्यस्य न लिप्यते' इति । रागान्न हन्ति किन्तु धर्मबुद्ध्या ।
स्वातन्त्र्यं मन्यमानस्य रागाद्धर्मं च कुर्वतः । तन्निमित्तस्तु दोषः स्यात् गुणश्च स्यात् स्वकर्मजः ।। इति च ।।17।।
सम्प्रेरयितुरीशस्य कर्मस्वखिचेतनान् । ज्ञातृज्ञेयज्ञानरूपा प्रेरणा सा स एव यत् ।।
स्वरूपेणैव नित्या सा विशेषात्मतया भवेत् । विशेषोपि स्वरूपेण नित्यश्च स्यात् विशेषतः ।।
स्वनिर्वाहकता यस्मान्नानवस्था विशिष्टवत् । विशेष्यस्य विशिष्टस्याप्यभेदेप्यविवादिनि ।।
विशेषोस्त्येव नात्रास्ति ह्यनवस्था कदाचन । ज्ञातुरन्योहमिति तु कस्याप्यनुभवो न हि ।।
अस्मि ज्ञातैवाहमिति भेदस्तस्मात् तयोः कुतः । पश्यामीति विशेषोयमिदानीं मे समुत्थिताः ।।
इत्याद्यनुभवाद् भेदो न विशेष्यविशिष्टयोः । विशेषणं तु द्विविधं विशेषाख्यं तथेतरत् ।।
विशेषमणयेत् येन प्रोक्तं तेन विशेषणम् । विशेषोपि विशेषस्य स्वस्यैव गमको भवेत् ।। इत्यादि तत्त्वविवेके ।।
सङ्ग्रहः पञ्चकारणानां सङ्क्षेपः । अधिष्ठानस्य करणेन्तर्भावात् । दैवशब्दोदितेश्वरस्यैव मुख्यकर्तृत्वात् स्वतन्त्रास्वतन्त्रकर्त्रोः कर्तृशब्देनैवोक्तेस्त्रैविध्यम् । कर्म चेष्टा ।।18।।
एवं गुणसङ्ख्याने परमसाङ्ख्यशास्त्रे ।।19।।
अस्तित्वात् भूतनामभ्यः सर्वजीवेभ्य एव च । मुक्तेभ्योपि पृथक्त्वेन विष्णोः सर्वत्रगस्य च ।।
ऐक्येन च स्वरूपाणां प्रादुर्भावादिकात्मनाम् । तारतम्येन जीवानां भेदेनैव परस्परम् ।।
जडेभ्यश्चैव जीवानां जडानां च परस्परम् । तेभ्यो विष्णोश्च सम्यक् तल्लक्षणज्ञानपूर्वकम् ।।
ज्ञानं सात्विकमुद्दिष्टं यत्साक्षान्मोक्षकारणम् ।।20।।
विष्णोरन्यस्य याथार्थ्यज्ञानं राजसमुच्यते । यदि विष्णुं न जानाति यदि वा मिश्रतत्त्ववित् ।।
अन्यथाकरणीयत्वात् कार्याख्यं जीवमेव यः । अकार्यं ब्रह्म जानाति स एवाखिमित्यपि ।।
एकजीवपरिज्ञानात् कृत्स्नज्ञोस्मीति मन्यते । युक्तिविज्ञानराहित्यात् स्वपक्षस्याप्ययुक्तितः ।।
अयुक्ततामेव गुणं मन्यते चाल्पदर्शनः । अतत्त्वार्थं जगद् ब्रूते तत्त्वार्थज्ञानवर्जनात् ।।
सः मुख्यतामसज्ञानी ह्येकैकेनापि किं पुनः । सर्वैरेतैर्विशेषैश्च युक्तः पापतमाधिकः ।। इति पाद्मे ।
"पृथक्त्वेन तु यज्ज्ञानं' इत्यस्य व्याख्या "नानाभावान्' इत्यादि । सर्वगतमेकमीश्वरं न जानातीत्येतावतैव राजसत्वम् । एकस्य कृत्स्नवज्ज्ञानमेव तामसम् । मुक्तत्वादिरूपेण अन्यथा करणीयत्वात् पराधीनत्वेनाल्पस्य जीवस्य स्वातन्त्र्यादिगुणपूर्णत्वात् कृत्स्नेन ब्रह्मणैक्यज्ञानं च महातामसम् । किं पुनस्तावन्मात्रं सर्वमिति ज्ञानम् । किं पुनस्तत्राप्येकजीवादन्यत् किमपि नास्तीति । अहैतुकं ज्ञानं सर्वमपि तामसम् । किमु तदेवोक्तक्षणम् । अतत्त्वार्थवत् सदसद्वैक्षण्याद्यन्यथार्थकल्पनायुक्तमेव तामसम् । किमु तदेवोक्तविशेषणैर्युक्तम् । प्रायोल्पज्ञानमपि तामसम् । अज्ञानबहुत्वात् । किमु तदेवोक्तमिथ्याज्ञानबहुमित्यपुनरुक्तिः । एकस्मिन् सर्वज्ञानं कार्ये जीवे पूर्णब्रह्मेति सक्तं ज्ञानं निर्युक्तिकं चातत्त्वार्थकल्पनायुक्तमल्पज्ञानं च पृथक् पृथक् तामसानीति वा । मायावादे त्वेतानि समस्तानि । अन्यत्रापि त्वहैतुकत्वादिकं विरुद्धवादिषु समं सर्वेषु ।।21-22।।
"मयि सर्वाणि कर्माणि सन्यस्याध्यात्मचेतसा' इत्युक्तत्वात् "ये मे मतं' "ये त्वेतत्' इति च तस्य मोक्षसाधनस्याकरणे प्रत्यवायस्य चोक्तेः भगवदर्पितत्वेन सर्वकर्मकरणं तस्य विष्णोः सर्वपरमत्वज्ञानं च नियतमेवेति ज्ञायते । "अध्यात्मचेतसा' इत्युक्तत्वात् तत्स्वरूपयाथार्थ्यज्ञानादि । "ये तु सर्वाणि कर्माणि' इत्येतस्मिन् श्लोकेध्यात्मचेतस्त्वस्य "मत्पराः अनन्येनैव योगेन मां ध्यायन्तः' इति व्याख्यातत्वात् । एवं सर्वमपि भगवद्भक्तियुक्तमेव सात्विकम् ।।23-25।।
सर्वस्य भगवदधीनत्वनिश्चयादेवानहंवादी ।।26-27।।
भगवद्भक्तिसामर्थ्यात् प्रकृष्टो न कृतो हि यः । स प्राकृतो दीर्घसूत्री कुर्यां पश्चादिति स्मरन् ।। इति शब्दतत्त्वे ।
प्राप्तकास्य कर्मणो दीर्घकालेनैव कृतिं सूचयन् दीर्घसूत्रीत्यर्थः ।
असो दीर्घसूत्री च सत्त्वयुक् तामसो मतः । अयुक्तो राजसः स्तब्धः प्राकृतो नैकृतिकः शठः ।।
एकैकेनेव दोषेण प्रोक्तस्तामसतामसः । दुर्नरत्वं च तिर्यक्त्वं तमश्चैतत् फलं क्रमात् ।। इति च ।।28-30।।
किञ्चित् यथावत् धर्मादीनयथावच्च पश्यति । यथा बुद्ध्या राजसी सा मिथ्यादृक् त्वेव तामसी ।। इति च ।।31-32।।
वैष्णवो भक्तियोगो यस्तद्युक्ता सात्विकी धृतिः । इति च विहितविषयैवेत्यव्यभिचारिणी ।।33-34।।
स्वप्नं भयम् इत्यादि सर्वनिषिद्धोपक्षणम् ।
तत्तत् सात्विकमेव स्यात् यद्यद्वृद्धाः प्रचक्षते । निन्दन्ति तामसं तत्तद् राजसं तदुपेक्षितम् ।। इति भागवते ।
"माहात्मानस्तु मां पार्थ' "अभयं सत्त्वसंशुद्धिः' इत्यादिना वृद्धाश्चोक्ताः ।।35-36।।
"विष्णोः प्रसादात् स्वमनःप्रसादात् सात्त्विकं सुखम् 'इति पाद्मे ।।37-39।।
सत्त्वं जीवजातम् । मुक्तानां गुणातीतत्वात् । पृथिव्यां दिवि देवेषु च इति विशेषः ।
यथेष्टं सञ्चरन्तोपि मुक्ता भूम्यादिगा न तु । ग्रामस्था अपि न ग्राम्या वैक्षण्याद्धि सज्जनाः ।।
नराधमास्तामसेषु सात्त्विकास्तत्र राजसाः । दैत्यभृत्या महादैत्या मुख्यतामसतामसाः ।।
राजसास्तु नरास्तत्र विप्रा राजससात्त्विकाः । तत्रस्थशुद्धसत्त्वास्तु परहंसाः प्रकीर्तिताः ।।
हंसो बहूदः कुटिजो वनस्थो नैष्ठिको गृही । क्रमात् रजोधिका बाह्यं कर्मैषामधिकं यतः ।।
धर्माः परमहंसानां बाह्या एव शमादिकाः । देवादेः कर्मबाहुल्यं न लिङ्गं रजसः क्वचित् ।।
न हि विष्णोश्चलेत् तेषां मनः कर्मकृतावपि । अन्येषां चचित्तत्वात् प्रायः स्यात् कर्म राजसम् ।।
यदि तत् स्मारकं विष्णोर्विद्यात् सात्विकमेव तु । धर्मार्थहिंसनाग्निश्च विशेषो ब्रह्मचारिणः ।।
पैतृकं चापि यतितो दारास्तु गृहिणस्ततः । असर्गो ग्राम्यसन्त्यागः पश्वहिंसा गृहस्थतः ।।
वनस्थस्य विशेषोयं सर्वेषामितरत् समम् ।। इति च ।।
सात्त्विकाः स्वल्परजसः क्षत्रियाः सत्त्वराजसाः । वैश्याः शूद्रा अतिस्वल्पसत्त्वाधिक्येन तामसाः ।।
ये तु भागवता वर्णास्तेषां भेदोयमीरितः । सत्त्वाधिकः पुल्कसोपि यस्तु भागवतः सदा ।।
त्रैविद्यमात्रा विष्णोर्ये सर्वाधिक्ये ससंशयाः । अन्याधिक्यं न मन्यन्ते श्रीशाद् राजसराजसाः ।।
अज्ञा विष्णौ द्वेषहीनाः सर्वे राजसतामसाः । पितृगन्धर्वपूर्वाश्च मुनयो देवता इति ।।
सात्त्विकास्त्रिविधास्तत्र श्रेष्ठा एवोत्तरोत्तराः । देवा इन्द्रो विरिञ्चाद्याः इति त्रेधैव देवताः ।।
क्रमोत्तराः शिवो वाणी ब्रह्मा चैवोत्तरोत्तराः । सत्त्वसत्त्वमहासत्त्वसूक्ष्मसत्त्वश्चतुर्मुखः ।।
तस्मात् यावत् विर्मुक्तिः स्यात् मुक्तावेवं सुखक्रमः ।। इति च ।
विष्णौ किञ्चित्प्रीतियुक्ताः तामसमध्ये सात्विका नराधमा इत्यर्थः । राजसानां मध्ये सात्विकाः एव भागवता विप्रादयः । राजसस्थसात्त्विकेष्वेव शुद्धसात्विकाः किञ्चिद्रजोयुक्तसात्त्विकाः समरजोयुक्तसात्त्विकाः सत्त्वात् किञ्चिदूनतमोयुक्तसात्त्विका इति वर्णभेदः । सत्त्वप्रधानत्वादेतानारभ्योत्तरोत्तरं सर्वेपि मोक्षयोग्याः । सत्त्वात् सञ्जायते ज्ञानम् इत्यादेः ।
सत्त्वाधिको मोक्षयोग्यो योग्योन्धतमसस्तथा । तम उत्तरो रजोभूयान् समो वा सृतिपात्रकः ।। इति च ।।40-41।।
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं विप्रकर्म स्वभावजम् ।।
एते गुणाऋ किञ्चिदूनाः विप्रात् क्षत्रिय एव च । अधिका वा ब्राह्मणेभ्यः केषुचिच्चक्रवर्तिषु ।।
ऋषयस्त्वेव विज्ञेयाः कार्तवीर्यादयो नृपाः ।।42।।
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षत्रियेन्ये गुणा अपि ।।43।।
क्षत्रियोनब्रह्मगुणो वैश्यः कृष्यादिजीवनः । तत ऊनः शमाद्यैर्यः शुश्रूषुः शूद्र उच्यते ।।
अधिकाश्चेत् गुणाः शूद्रे ब्राह्मणादिः स उच्यते । ब्राह्मणोप्यल्पगुणकः शूद्र एवेति कीर्तितः ।।
नरोपि यो देवगुणो देवो ज्ञेयो नृतां गतः ।। इति च ।
"स्वकर्मणा तमभ्यर्च्य' इति वचनात् क्षत्रियादिष्वपि शमाद्यनुवृत्तिः ज्ञायते । न हि शमादिकं विना तस्याभितोर्चनं भवति । सम्यक् शमादिभिरर्चनं ह्यभ्यर्चनम् । न च शमादीन् विना सिद्धिं विन्दति । "यज्ञदानतपःकर्म न त्याज्यम्' इत्युक्तत्वाच्च । "शमो मन्निष्ठता बुद्धेः दम इन्द्रियनिग्रहः' इति भागवते । न च क्षत्रियादिभिरपि शौचतपःशमादिभिः हीनैर्भवितव्यमिति तत्तद्धर्मेषूच्यते । युक्ता ह्येतैः सर्वगुणैर्जनकतुलाधारादयः । अतो युद्धेप्यपलायनमैश्वर्यं च क्षत्रियस्य विशेषगुणौ । तौ च कृष्यादयो जीवनार्थं शुश्रूषा याजनं जीवनार्थं प्रतिग्रहश्चेत्येत एवान्येषां परधर्माः ।
शौर्यं तेजो धृतिर्दाक्ष्यं दानं च क्षत्रियेधिकाः । तद्धीना ब्राह्मणे तस्माद्वैश्ये शूद्रे ततोल्पकाः ।।
अध्यापनं च शुश्रूषा जीवनार्थमृते सताम् । विप्रादिषु क्रमाज्ज्ञेयाः शूद्रस्याध्यापनं विना ।।
एते नैसर्गिकाः भावाः स्यात् भावोन्योपि च क्वचित् । बाद्विरुद्धभावस्तु हेयः स्वाभाविकोपि यः ।।
अनिसर्गोपि हि शुभो वर्धनीयः प्रयत्नतः । याजनैश्वर्यपूर्वास्तु नान्यैः कार्याः शुभा अपि ।।
अपलायनं च शूद्राणां ब्रह्मक्षत्रार्थमिष्यते ।। इति च ।
प्रसह्य वित्ताहरणं शारीरो दण्ड एव च । अशिष्याणां शासनं च तथैवार्थविनाशनम् ।।
एष ईश्वरभावः स्यान्न कार्यः क्षत्रियेतरैः । सर्वे विधर्मिणः शास्याः क्षत्रियैर्यत्नतः सदा ।।
अङ्गाद्यहानिकद्दण्डः शिष्येषु ब्राह्मणादिभिः । कार्यो देहेपि शिष्यश्च स्वामिना स्वेन वार्पितः ।।
पुत्रालानुजादयः सर्वे शिष्या एव निसर्गतः । गुरवश्चैव मित्राणि सखिसब्रह्मचारिणः ।।
संबन्धिनश्च सर्वेपि तत्तद्योग्यतयाखिलैः । शिक्षणीयेषु भावेषु शिक्षणीयाः प्रयत्नतः ।।
उन्मादे बन्धनाद्यैर्वा ताडनं न गुरोः क्वचित् । पापं चरन्तस्त्वन्येपि सर्वैर्दृष्टिपथं गताः ।।
शक्तितो वारणीयाः स्युर्देशकाानुसारतः । तदुत्तमविरोद्धारः सन्त्याज्या गुरवोपि तु ।।
यथाशक्त्यानुशास्यैव कातोपि न चेच्छुभाः । विष्णौ परमभक्तस्तु न त्याज्यः शास्य एव च ।।
शिक्षयंश्च गुरून् शिष्यो गुरुवन्नैव शिक्षयेत् । महान्तो नानुशास्याश्च विरुद्धाचरिता अपि ।।
यदि च स्वाधिकानां ते विरोधं नैव कुर्वते ।। इत्यादि च ।
आपत्सु विप्रः क्षात्रं तु विशां वा धर्ममाचरेत् । क्षात्रासिद्धौ न शूद्रस्तु विप्रक्षत्रिययोः क्वचित् ।।
क्षत्रियो ब्राह्ममापत्सु तदापत्सु विशामपि । क्षत्रियो विप्रधर्मोपि नैव भैक्ष्यप्रतिग्रहौ ।।
वैश्य आपत्सु शौद्रं तु धर्ममेकं न चापरम् । शूद्र आपत्सु विड्धर्मा तदापत्सु च कारुकः ।।
शूद्रस्तु वैश्यधर्मापि नैव वेदाक्षरो भवेत् । अत्यापदि क्षत्रियोपि पादशुश्रूषणं विना ।।
शौद्रधर्मं चरन् विप्रक्षत्रियेषु न दुष्यति । येषु कर्मसु याच्यः स्यात् स्वामिनापि न याचिता ।।
शौद्रण्यपि स्वधर्मत्वे क्षत्रियस्यापदो यदि । आत्मनश्चेद् बलाधिक्यं सानुबन्धादपि प्रभोः ।।
धर्मार्थं सेवतोर्थार्थं विप्रधर्मादिकाद्वरः । प्रभुणा याच्यवृत्तिस्तु विशेषेणापि धर्मभाक् ।।
बाह्वोर्बलेधिको यः स्यात् क्षत्रियो विद्ययाधिकः । विप्रो भागवतौ चेतौ सेशा लोकास्तयोरिमे ।। इत्यादिव्यासस्मृतौ ।।44-48।।
नैष्कर्म्यसिद्धिं अनिष्टसर्वकर्मनाशाख्यसिद्धिम् ।।49।।
वक्ष्यमाणप्रकारेण वर्तमानस्तदनन्तरं नैष्कर्म्यसिद्धिं प्राप्तो भूत्वा ब्रह्माख्याया महाक्ष्म्याः सकाशं यथाप्नोति तथा निबोध । "मम योनिर्महत् ब्रह्म' "ब्रह्मणो हि प्रतिष्ठाहं' इत्युक्तत्वात् । "ब्रह्मभूतः प्रसन्नात्मा' इत्युक्त्वा "मद्भक्तिं भते पराम्' इति वक्ष्यमाणत्वाच्च ।
सर्वपापक्षयाद्देहं त्यक्त्वा देवान् क्रमात् व्रजन् । प्राप्य क्ष्मीं तत्प्रसादात् पुनः स्वृद्धा हरौ यदा ।।
भक्तिस्तया पुनर्ज्ञाने स्वृद्धे विष्णुं प्रपद्यते । अपरोक्षदृशो विष्णोः शरीरेपि सतः पुरा ।।
त्यक्तदेहादिकस्यापि यावत् विष्णुं प्रपद्यते । तावत् गुणा विवर्धन्ते स्थिताः स्युः प्राप्य केशवम् ।। इति महावाराहे ।।50-52।।
"विमुच्य निर्ममः शान्तः' नैष्कर्म्यसिद्धिं प्राप्तो भूत्वा ब्रह्मणि भूयाय भवतीत्यर्थः ।।53-55।।
विहितानि सर्वकर्माण्यपि मद्य्वपाश्रयो भूत्वा सदा कुर्वाणः । नहि यथेष्टचरणे तात्पर्यमत्र । तथा सति विहिताकरणेपि समत्वात् "मामनुस्मर युध्य च' "ततः स्वधर्मं कीर्तिं च' इत्यादिप्रस्तुतविरोधः । अपिशब्दस्त्वेकमपि कर्मातदाश्रयेण न कार्यमित्यर्थे ।।56।।
भगवत्संश्रितस्य त्रैविद्यस्य च मनसैव विशेष इत्याह- चेतसा सर्वकर्माणि इति ।। स एव सर्वस्मात् परम इति भावोस्येति मत्परः । तत्र चित्तवृत्तिनिरोधोपि । बुद्धियोगः प्रत्याहारादिः ।।56-57।।
प्रकृतिरीश्वरेच्छा । "प्रकृतिर्वासनेत्येवं तवेच्छानन्त कथ्यते' इति वचनात् । एषा तु "प्रकृत्यैव च कर्माणि' इत्यादिष्वपि युज्यते । तस्या एव हि मुख्यतो नियोक्तृत्वं स्वभावकर्मादिभिर्बद्धा ।।59-60।।
तदेवाह- ईश्वरः सर्वभूतानामिति ।।
निश्चितार्थः स तु ज्ञेयो यत्रात्मैव परोक्षतः । उच्यते विष्णुना यद्वत् तद् ब्रह्मेत्यादि कथ्यते ।। इति शब्दनिर्णये । "मन्मनाः' इत्युपसंहाराच्च ।।61।।
शाश्वतं स्थानं वैकुण्ठादि
श्रीरेव लोकरूपेण विष्णोस्तिष्ठति सर्वदा । अतो हि वैष्णवा लोके नित्यास्ते चेतना अपि ।। इत्याग्नेये ।
"न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च' इत्याद्युक्तम् ।।62-63।।
तत्त्वसारकथनं "द्वाविमौ पुरुषौ' इत्यत्रैवोपसंहृतम् । तत्त्वप्रशंसार्थमेव तद्बुद्धिप्रशंसा कृता । अत्र तु साधनसारोपसंहारः- सर्वगुह्यतममिति ।। "मन्मनाः' इत्यादेः पूर्वमेोक्तत्वात् "भूयः' इति । अर्थतस्त्वत्रापि विष्ण्वाधिक्यमेवोक्तं भवति ।।64-65।।
अन्यसर्वधर्मान् परित्यज्येत्युक्तशेषत्वेनैव सर्वधर्मानिति वचनम् । "मामेकं शरणं व्रज' इत्यपि "मन्मनाः' इत्याद्युक्तनिगमनात्मना तद्य्वाख्यानम् ।
सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा । सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम् ।।
अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः । रक्षतीत्येव विश्वासस्तदीयोहमिति स्मृतिः ।।
शरणागतिरेषा स्यात् विष्णौ मोक्षफप्रदा ।। इति महाविष्णुपुराणे ।
अनादिजन्मकृतसर्वपापेभ्यः । अत्र प्राप्त्यभावात् । धर्मपरित्यागे पापपरित्यागस्य कैमुत्येनैव सिद्धत्वात् ।।66।।
अतपस्कायैव न वाच्यम् । अशुश्रूषवे पुनश्चेति दोषाधिक्यमशुश्रूषोर्दर्शयितुं चशब्दः । एवमभक्ताय कदापि न वाच्यम् । कदाचिदल्पतपसोल्पशुश्रूषोरपि भक्त्याधिक्ये वाच्यं भवतीति कदाचनेति शेषः । अभक्ताच्च न वाच्यमसूयोरिति तत्रापि चशब्दः । "समुच्चये तथाधिक्ये न्यूनत्वे चः प्रयुज्यते' इति शब्दनिर्णये । "अभक्तादपि पापः स्यादसूयुर्दोषदृग्यतः' इति च पाद्मे ।।67।।
"सोपि मुक्तः' "न च तस्मान्मनुष्येषु' इत्युक्तेश्च मुक्तानां महत् तारतम्यं ज्ञायते । "मनुष्येषु' इति विशेषणात् तत्रापि देवानामाधिक्यं च ।
मुक्तिर्ज्ञात्वापि विष्णुं स्यात् शास्त्रं श्रुत्वा ततोधिकम् । मुक्तौ सुखं तत्पठतस्ततोप्यधिकमिष्यते ।।
व्याख्यातुस्तु समं मुक्तौ सुखं नान्यस्य कस्यचित् । ततोधिकं तु देवानां मुख्यव्याख्याकृतो यतः ।। इति च ।।68-69।।
"यथेच्छसि तथा कुरु' इत्याक्षेपपरिहाराय "करिष्ये वचनं तव' इत्यनुसरति भगवन्तम् ।।73-78।।
नमस्ते वासुदेवाय प्रेयसां मे प्रियोत्तम । समस्तगुणसम्पूर्णं निर्दोषानन्ददायिने ।।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ।।
निशेषदोषरहितकल्याणाशेषसद्गुण । भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये अष्टादशोध्यायः॥
*********************************************************************************
॥ श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
॥ अथ त्रयोदशोऽध्यायः ॥
श्री हरिः ॐ ॥
पूर्वषट्कद्वयोक्तार्थस~घ्ग्रहपरोऽयमध्यायः । तथाहि । यत्प्रथमषट्के `त्रैगुण्यविषयावेदा' (2-46) इत्यादिना प्राचुर्येण ज्ञानसाधनमाषष्ठसमाप्तेरुक्तम्, यच्च तत्र द्वितीयेऽध्याये `न त्वेवाहं' (2-12) इत्यादिनाऽनादिनित्यत्वादिना जीवस्वरूपमुक्तम्, यच्च द्वितीयषट्के भगवत्स्वरूपमुक्तम्, यदपि सप्तमे `भूमिराप' (7-4) इत्यादिना क्षेत्रशब्दितं भगवदावासस्थानमुक्तम्, तद्विकीर्णतयोक्तं सर्वं बुद्ध्यारोहार्थं स~घ्क्षिप्यास्मिन्नध्याये प्रश्नपूर्वकं प्रदर्श्यते - प्रकृतिमित्यादिना ॥ पुरुषं जीवम् । ज्ञानं ज्ञानसाधनम् ॥ 1 ॥
ननु भगवत्स्वरूपज्ञानस्यैव पूर्वोक्तदिशा मुक्तिहेतुत्वात् तत्स्वरूपोक्तिर्युक्ता । क्षेत्रस्वरूपं `महाभूतानि' (13-6) इत्यादिना किमर्थमत्रोच्यत इति चेन्न । क्षेत्रज्ञत्वविशिष्टभगवद् ज्ञानोपयोगित्वात् क्षेत्रोक्तिरिति क्षेत्रोद्देशपूर्वं भगवतः क्षेत्रज्ञत्वमाह- इदमिति ॥ कौन्तेय इदं शरीरं अव्यक्तमहदह~घ्कारादिकं भगवदावासस्थानत्वात् क्षीयते स्थीयतेऽत्र भगवतेति व्युत्पत्त्या क्षेत्रमित्यभिधीयते । ऎतदव्यक्तादिकं क्षेत्रशब्दितं यो वेत्ति जानाति तं तद्विदः क्षेत्रविदः क्षेत्रज्ञमिति प्राहुरित्यर्थः । शरीरशब्दस्याव्यक्तादिपरत्वं च स्वपरिणामदेहादिवियोगद्वारा जीवस्य हिंसादिहेतुत्वात् शर्, शृ हिंसायामिति धातोः, भगवता प्रेर्यत्वादीरं च । ईर प्रेरण इति धातोः । शर् च तदीरं चेति शरीरमिति व्युत्पत्तेरिति ज्ञेयम् । तेन स~घ्घाश्चेतनेति स~घ्घातपदेन क्षेत्रविकारेष्वेकदेशत्वेनोक्तशरीरस्य कथं समस्तक्षेत्रत्वमुच्यत इति श~घ्का निरस्ता ॥ 2 ॥
जीवस्यापि किञ्चिद् क्षेत्रज्ञात्स किं क्षेत्रज्ञ इत्यत आह- क्षेत्रज्ञं चेति ॥ सर्वक्षेत्रेष्वव्यक्तादिषु क्षेत्रज्ञं तु मां विद्धि । न जीवम् । क्षेत्रक्षेत्रज्ञयोर्यद् ज्ञानं तद् ज्ञानं मम सम्यग् ज्ञानं मतमित्यर्थः । अत्र सर्वक्षेत्रेष्वित्युक्तिरिदं शरीरमित्यत्र शरीरपदोक्ताव्यक्तादेः क्षीयतेऽत्रेश्वरेणेति व्युत्पत्त्या क्षेत्रपदवाच्यत्वमिति सूचनाय ॥ 3 ॥
क्षेत्रादिस्वरूपं वक्तुं प्रतिजानीते- तत्क्षेत्रमिति । तत्क्षेत्रं यद् भगवन्निवासस्थानतया क्षेत्रपदोक्तम् । देहद्वारा जीवहिंसाहेतुतया ईश्वरप्रेर्यत्वहेतुना च शरीरपदेन प्रकृतं अव्यक्तादि, यच्च यत्स्वरूपं यादृक् यत्प्रकारं यद्विकारि । कर्मधारयात् मतुप् । येन विकारेण (सं)युक्तम् । यतः यादृशप्रवृत्त्यनुकूलधर्मयुक्तात्पुरुषात् । यत् । इणः शत्रन्तं रूपम् । गतिमत् । प्रवर्तत इति यावत् । सच प्रवर्तकः यः यत्स्वरूपः यत्प्रभावः यादृशप्रवृत्त्यनुकूलधर्मेतरसामर्थ्यवान्, तत्सर्वं समासेन स~घ्क्षेपेण मे सकाशाद् शृणु श्रुत्वा निष्ठां कुरु ॥ 4 ॥
श्रोतृविश्वासजननाय उच्यमानं प्रामाणिकमित्याह - ऋषिभिरिति ॥ तदित्यनुषज्यते । यद् शृण्वित्युक्तं क्षेत्रादिस्वरूपं तद् ऋषिभिर्बहुधा गीतम् । गै शब्दे । उक्तमित्यर्थः । विविधैः छन्दोभिर्वेदैः । प्रत्येकं गीतमिति सर्वत्रानुषज्यते । हेतुमद्भिः न्यायोपेतैः ब्रह्मसूत्रपदैश्च विनिश्चितमेव शृण्वित्यन्वयः ॥ 5 ॥
क्षेत्रं यच्च यादृक् च तच्छ्रुण्विति प्रतिज्ञातमाह- महाभूतानीति ॥ पञ्चमहाभूतानि । महत्तत्त्वमप्यह~घ्कारशब्देन गृह्यते । बुद्धिरन्तःकरणविशेषः । अव्यक्तं त्रिगुणात्मकं प्रधानम् । `इन्द्रियाणि दशैकं चे'ति ज्ञानेन्द्रियमनोभेदेनैकादशेन्द्रियाणि । इन्द्रियगोचराः क्षेत्रादिविषयाः शब्दाद्याः पञ्च च । ऎतत्क्षेत्रं समासेन स~घ्क्षेपेण महाभूतत्वादिप्रकारोपेतमुदाहृतमित्यन्वयः ॥ 6 ॥
क्षेत्रं यद्विकारीति प्रतिज्ञातक्षेत्रविकारमाह- इच्छेति । स~घ्घातो देहः । चेतना चेतसो व्याप्तिः । धृतिर्धैर्यम् । ऎतद् प्रागुक्तं क्षेत्रं इच्छादिविकारोपेतं स~घ्क्षेपेणोक्तमित्यर्थः । महाभूतादिक्षेत्राभिमानिनः । तद्विकारेच्छाद्यभिमानिनश्चावश्यं ज्ञेयत्वादुच्यन्ते । आकाशाभिमानी विघ्नेशः । वायुमानी मुख्यवायुजो अभिमानी मरीचिनामा । अग्निमानी वह्निः । अबभिमानी वरुणः । भूमिमानिनी धरादेवी । अह~घ्कारः शिवः । महान् ब्रह्मा । बुद्धिरुमा । अव्यक्तं श्रीदेवी । इन्द्रियेषु मनोऽभिमानिनः स्कन्देन्द्रानिरुद्धाः । श्रोत्रं चन्द्रः । त्वक् वायुसुतो मरुत् । चक्षुः सूर्यः । जिह्वा वरुणस्य रूपान्तरम् । घ्राणमश्विनौ । वागग्निः । हस्तौ वायुसुतौ मरुतौ । पादौ तु विष्णुनाविष्टौ शचीसुतौ यज्ञशम्भुनामकौ । पायुर्यमः । उपस्थः शिवः मनुश्च । इन्द्रियगोचरेषु शब्दस्पर्शरूपरसगन्धाभिमानिनः शिवपुत्राः पञ्च ज्ञेयाः । विकारेषु इच्छा श्रीर्भारती च । द्वेषदुःखाभिमानिनौ कलिद्वापरौ । सुखं मुख्यवायुः । धृतिः सरस्वतीभारती च । चेतना श्रीः । स~घ्घातमानिनोऽन्ये चेतनाः ज्ञेयाः । अभिमानिनां प्रागुक्तव्युत्पत्त्या भगवन्निवासत्वादेव क्षेत्रनामत्वम् । क्षेत्रविकारित्वमपि महदादिभ्योऽतिशयेन विकारितया स्थितत्वादिति ज्ञेयम् ॥ 7 ॥
ऎवं प्रतिज्ञातार्थषट्कमध्ये यच्च यादृक्च यद्विकारीति त्रयमुक्त्वा यतश्च यदिति (अग्रे)वक्ष्यन् ततः प्राक् स च यो यत्प्रभावश्चेति प्रतिज्ञातार्थद्वयं `ज्ञेयं यत्तदि'त्यादिना वक्तुं न यादृशातादृशेन श्रवणेन तदनुभवारूढं भवतीति भावेन वक्ष्यमाणज्ञेयद्वयभूतभगवद् ज्ञानस्य साधनान्याह- अमानित्वमित्यादि पञ्चकेन ॥ अमानित्वमात्मनः श्लाघनराहित्यम् । आत्माल्पत्वं ज्ञात्वाऽपि महत्त्वप्रदर्शनं दम्भः । तद्राहित्यमदम्भित्वम् । क्षान्तिः सहिष्णुत्वम् । आर्जवं सन्मार्गे मनोवाक्कायकर्मणामवैपरीतम् । आचार्योपासनं ज्ञानिनां सेवा । शौचं बाह्यान्तरशुद्धिः । `शौचं तु द्विविधं प्रोक्तं बाह्यमान्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथाऽऽन्तरम्' इति स्मृतेः । स्थैर्यं भयादिना स्वधर्मादचलनम् । आत्मविनिग्रहः विशेषेण मनसो नियमनम् ॥ 8 ॥
इन्द्रियार्थेषु वैराग्यं शब्दादिषु रागाभावः । अनह~घ्कारः अविद्यमानात्मगुणाभिमानमोहाभावः । जन्मादिषु दुःखदोषयोरनुदर्शनमिति वा दुःखरूपस्य दोषस्यानुदर्शनमिति वा । अनुक्षणमनुसन्धानमित्यर्थः ॥ 9 ॥
पुत्रदारगृहादिषु असक्तः स्नेहाभावः । अनभिष्व~घ्गः अतिपक्वस्नेहाभावः । इष्टानिष्टोपपत्तिषु । उपपत्तिः प्राप्तिः, तत्र नित्यं समचित्तत्वं हर्षविषादयोरभावः ॥ 10 ॥
अनन्ययोगेन रमाब्रह्मादिस्वातन्त्र्यासम्बन्धेन, तदविषयिणीति यावत् । अत ऎवव्यभिचारिणी मयि भक्तिः । विविक्तदेशसेवित्वं जनसम्मर्दहीनशुद्धस्थानस्थितिः ॥ 11 ॥
अध्यात्मज्ञाननित्यत्वं आत्मान(परमात्मान)मधिकृत्य स्थिते ज्ञाने नियतत्वम् । तत्त्वज्ञXानार्थदर्शनम् ॥ अपरोक्षज्ञXानार्थं शास्त्रपर्यालोचनम् । ऎतत् `अमानित्वं' इत्यादिनोक्तं विंशतिधर्मजातम् । ज्ञानमिति ज्ञायतेऽनेनेति करणव्युत्पत्त्या ज्ञानसाधनं प्रोक्तम् । अतोऽन्यथा यदस्ति तदज्ञानं ज्ञानसाधनं नेत्यर्थः । यद्वा ज्ञानशब्दः भावव्युत्पत्त्या संवित्परश्च । तत्त्वज्ञानार्थस्य तत्त्वज्ञानविषयस्य विष्णोर्दर्शनं अपरोक्षज्ञानमित्यर्थः । ऎतद् भगवद्विषयापरोक्षज्ञानं ज्ञानमिति प्रोक्तम् । अतोऽन्यथा यत् तद् ज्ञानं न भवतीति । इह ज्ञानशब्दो ज्ञानतत्साधनोभयपरः । तत्त्वज्ञानार्थदर्शनमित्ययमप्युक्तदिशा शास्त्रपर्यालोचनरूपज्ञानसाधनपरः, अपरोक्षज्ञानपरश्च । ततश्बैतच्छब्देनोभयं परामृश्य ज्ञानशब्देन भावकरणोभयव्युत्पत्त्या ज्ञानसाधनत्वज्ञानत्वयोर्विधानं युक्तमिति ज्ञेयम् ॥ 12 ॥
ऎवं ज्ञानं ज्ञानसाधनं चोक्त्वाऽधुना स च यो यत्प्रभावश्चेति प्रतिज्ञातज्ञेयस्वरूपं तत्प्रभावं च प्रतिज्ञापूर्वकमाह- ज्ञेयमित्यादिना । आदरजननाय तद् ज्ञानस्य फलमाह- यद् ज्ञात्वेति ॥ `स च य' इति प्रतिज्ञातज्ञेयस्वरूपोक्तिः - परं ब्रह्मेति ॥ नामोक्त्या तत्स्वरूपस्यावगतेः अहमेवेति वक्तव्ये `अक्षरं ब्रह्म परमम्'(8-3) इति अष्टमोक्तदिशा ब्रह्म स्वयमेवेति सिद्धमिति भावः । सच यत्प्रभाव इत्युक्तमाह- अनादिमदित्यतादिना ॥ आदिरेषामस्तीत्यादिमन्ति देहेन्द्रियगुणकर्मादिहीनमित्यर्थः । भगवान् क्षेत्रान्तर्गतो भूत्वा क्षेत्रज्ञ इत्युच्यते किमित्यतो नेत्याह- नेति ॥ तद् ब्रह्म सद् व्यक्तशब्दितकार्यजातान्तर्गतं नेत्युच्यते । असदव्यक्तशब्दितकारणान्तर्गतं नेत्युच्यते । `व्यक्ताव्यक्तविलक्षण' इति स्मृतेः । यद्वा `मूर्तामूर्तव्यतीतत्वान्न सत्तन्नासदुच्यते' इति स्मृत्युक्तदिशा मूर्तं न, अमूर्तं च नेत्युच्यत इति, `नेति नेति' इत्यादि श्रुत्यावित्यर्थः ॥ 13 ॥
पुनस्तत्प्रभावमाह- सर्वत इति ॥ कथं जगद् वैलक्षण्यं हरेरित्यतो वाऽऽह- सर्वत इति ॥ तत्प्रागुक्तं परं ब्रह्म सर्वतः सर्वावयवेषु पाणिपादं द्वन्द्वैकवद् भावः प्राण्य~घ्गत्वात् । तेन तच्छक्तिर्लक्ष्यते । पाणिपादादिशक्तिम(न्तः)त्सर्वेऽप्यवयवाः स्वस्वेतरावयवशक्तिमन्तः इत्यर्थः । शुक्लकृष्णकेशावतारयोर्बलरामकृष्णयोः पाणिपादादिशक्तेर्दर्शनात् । ऎवं सर्वतः सर्वावयवेषु चक्षुरादिशक्तिमदित्यर्थः । सर्वतः सर्वावयवेषु श्रुतिमच्छ्रोत्रेन्द्रियशक्तिमत् । सर्वेन्द्रियाणां विषयान् कर्माणि च सर्वेन्द्रियैः वेत्ति करोति चेति यावत् । लोके जगति सर्वं वस्तु आवृत्त्य तिष्ठति व्याप्य वर्तते । यद्वा सर्वतः सर्वत्र देशे स्थितं तद् ब्रह्म पाणिपादाक्षिशिरःप्रभृत्यवयवोपेतं सत् लोके सर्वं वस्तु व्याप्य तिष्ठति इति । अणोरणुतरैः पाणिपादाद्यवयवोपेतैः अनन्तरूपैः सर्वत्र स्थितं सत् व्याप्तरूपेण च सर्वमपि व्याप्य वर्तते ब्रह्मेति भावः ॥ 14 ॥
किञ्च सर्वेन्द्रियगुणाभासं तद् ब्रह्म सर्वाणीन्द्रियाणि गुणान् शब्दादिविषयांश्चाभासयति प्रत्याययति प्रत्येति वा सर्वेन्द्रियगुणाभासम् । भासु दीप्तौ इत्यतः पचाद्यच् । प्राकृतानां भिन्नानां चेन्द्रियाणामभावात् सर्वेन्द्रियविवर्जितम् । असक्तं निर्लेपम् । सर्वं भुक्तं इति सर्वभुक् च । सर्वसंहर्तृ इति वा सर्वसारभोक्तृ इति वाऽर्थः । सर्वभृच्चेति पाठान्तरम् । गुणभोक्तृ च सर्वकल्याणगुणभोक्तृं चेत्यर्थः ॥ 15 ॥
किञ्च भूतानां सर्वप्राणिनां बहिरन्तश्च परं ब्रह्म तिष्ठतीत्यनुषज्यते । अन्यथाभावराहित्यादचरम् । सर्वदेशेषु चरणाद्गमनाच्चरम् । सूक्ष्मत्वादप्रतिघात्वात्तद् ब्रह्माविज्ञेयं अग्राह्यमिन्द्रियाविषयः । सर्वगतत्वाद् दूरे अन्तिके समीपे च स्थितं तत् ॥ 16 ॥
किञ्च भूतेषु नानाविधप्राणिष्वविभक्तमेव विभक्तमिव स्थितम् । अज्ञानां तथा प्रतीतमिति यावत् । भूतभर्तृ भूतानां भर्तृ धारणपोषणकर्तृ तद् ब्रह्म ज्ञेयम् । ग्रसिष्णु प्रलये सर्वभक्षकम् । प्रभविष्णु सृष्टिकाले सर्वोत्पादकं च ॥ 17 ॥
किञ्च तद् ब्रह्म ज्योतिषां सूर्यादीनामपि ज्योतिः प्रकाशशक्तिप्रदम् । तमसः अव्यक्तान्मृत्योः अज्ञानाद्वा परमतिक्रान्तं उच्यते । `तमसः परस्तात् ' इति श्रुतादावित्यर्थः । ज्ञानं प्रकाशस्वरूपम् । ज्ञेयं स्वेन ज्ञातव्यरूपं स्वप्रकाशमित्यर्थः । जीवानां स्वप्रकाशत्वेऽपि तस्येशाधीनत्वात् । अस्य चान्यानपेक्षत्वात् । स्वकर्मकत्वस्य (क्रियात्वकर्मत्वयोरेकत्र विरोधेन) दुर्घटत्वाच्च तदुक्तिर्भगवतो महिमेति यत्प्रभाव इत्यस्योत्तरं भवतीति भावः । ज्ञानगम्यमपरोक्षज्ञानेन मुक्तौ प्राप्यम् । सर्वस्य हृदि विष्ठितम् विशेषेण स्थितम् । सर्वगतत्वेन दूरस्थमन्तिके च तत्सर्वमावृत्य तिष्ठतीत्युक्तावपि हृद्यल्पदेशे स्थित्युक्तिर्युक्ता । `ओं अर्भकौकस्त्वात्तद् व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ' इति (1-2-7) `ओं अन्यभावव्यावृत्तेश्च ॐ' (1-3-12) इत्यादि सूत्रेणाणुरूपेणावस्थितेरुक्तत्वात् । अत ऎव चरमित्युक्तिरप्युपपन्नेति भावः ॥ 18 ॥
उक्तमुपसंहृत्य तद् ज्ञानं स्तौति - इति क्षेत्रमिति ॥ महाभूतानीत्यादिना क्षेत्रम् । इच्छेत्यादिना तद् विकारश्चेत्यपि ग्राह्यम् । ज्ञानशब्दोऽत्र ज्ञप्तितत्साधनोभयपरः । `अमानित्वं' इत्यादिना ज्ञानसाधनस्य `तत्त्वज्ञानार्थदर्शनं' इत्यत्र भगवदपरोक्षज्ञप्तेश्चोक्तत्वात् । `ज्ञेयं यत्तत्' इत्यादिना ज्ञेयं चोक्तम् समासतः स~घ्क्षेपेण । मद्भावाय मयि स्थितये उपपद्यते योग्यो भवति । यद्यप्यत्र ज्ञेये ब्रह्मणि प्रतिपादिते केन साधनेनेदं बुद्ध्यारूढं भवेदित्याका~घ्क्षायां `ज्ञेयमित्यादिकं' पूर्वमुक्त्वा `अमानित्वं' इत्यादिकं तद् ज्ञानसाधनं पश्चाद् वाच्यम् । तथाऽपि साधनस्येच्छादिरूपक्षेत्रविकारेष्वन्तर्भावज्ञापनार्थत्वात् । यत्प्रभावपदोक्त प्रेरकत्वस्यालौकिकप्रमेयस्य बुद्ध्यारोहे साधनानामप्युपयोगाच्च साधनानन्तरमेव यत्प्रभावश्चेत्यस्य वाच्यत्वात् तत्प्रस~घ्गेन ज्ञेयस्यापि पश्चादेवोक्तिः । नन्वथाऽपि उद्देशक्रमानुसारेण `यतश्च यदि'त्येतत्प्रथममुक्त्वा `सच यो यत्प्रभावश्चे'त्येतत्पश्चाद् वक्तव्यमित्येतदप्यनेनैव निरस्तम् । विकारान्तर्भावज्ञापनाय इच्छाद्युक्त्यनन्तरं अममानित्वादेः `सच यो यत्प्रभावश्चे'त्युक्तस्य वाच्यत्वात् । बहुत्वाच्च `स च यो यत्प्रभावश्चे'त्येतदुक्त्यपेक्षया `यतश्च यदित्ये'तदुक्तेरल्पत्वात् तत्सर्वोक्त्यनन्तरं पश्चात् `यतश्च यदि'त्यस्योक्तिः ॥ 19 ॥
ऎवमुक्तदिशा यतश्च यदिति प्रतिज्ञातप्रेरकस्वरूपस्य प्रभावोक्त्यनन्तरं वाच्यत्व सिद्धौ प्रेरकज्ञानस्य प्रेर्यज्ञानसापेक्षत्वाद् प्रेरणीयं सप्रकारं पुरुषादिरूपं क्षेत्रं तावदाह- प्रकृतिं इति ॥ न चैतत् `ऎतत् क्षेत्रमिति' श्लोके न प्रतिज्ञातमिति श~घ्क्यम् । `यादृक् चे'त्यनेन प्रतिज्ञातत्वात् । तर्~हि महाभूतानीत्याद्युक्त्यवसरे प्रागेव वाच्यमिति न श~घ्क्यम् । वक्ष्यमाणप्रेरकस्वरूपोक्त्युपयोगितयाऽपेक्षितप्रेर्यस्वरूपस्यात्रावश्यं वाच्यत्वाद् प्रागप्युक्तौ गौरवापत्तेरिति भावः । ऎवं च प्रकृतिपदेन `महाभूतानि' इत्यादिना प्रागुक्तपञ्चविंशति तत्त्वानि गृह्यन्ते, विकार शब्देन च प्रागुक्तेच्छादयः सर्वे प्रकृतिविकाराः गुणत्रयस्याल्पविवक्षया पृथगुपादानम् । पुरुषोऽत्र जीवः । प्रकृतिं पञ्चविंशतितत्त्वानि पुरुषं जीवं च उभावप्यनादी विद्धि । तथा प्रकृतिसम्भवान्प्रधानोपादानकानिच्छादि विकारान्सत्त्वादिगुणांश्च विद्धीत्यर्थः । यद्वा प्रकृतिं चिदचित्प्रकृती पुरुषं जीवं परमात्मानं च उभौ उभे चेत्यपि स~घ्गृह्यते अनादी विद्धीत्यर्थः । विकारानिच्छादीन्सत्त्वादिगुणांश्च प्रकृतिसम्भवान् प्रकृत्युपादानकान् विद्धि । गुणानां विकारत्वेऽपीच्छाद्यपेक्षयाऽल्पविकारत्वादिच्छादीनामधिकविकारत्वविवक्षया पृथगुक्ताः ज्ञेयाः । तात्पर्येतु प्रकृतिपदेन चिदचित्प्रकृत्योः पुरुषपदेन जीवेश्वरयोर्ग्रहणाय उभौ इत्युक्तिरित्युक्तम् ॥ 20 ॥
प्रकृतिसम्भवत्वं विकाराणां व्यनक्ति - कार्येति ॥ कार्यं शरीरम् । कारणानीन्द्रियाणि । जीवस्य यद् देहेन्द्रियकर्तृत्वं तत्र कारणं चित्प्रकृतिरुच्यते । सुखदुःखानां भोक्तृत्वे जीवस्य प्रकृतिविकारसुखदुःखानां स्वीयतया साक्षात्काररूपे भोगे पुरुषो भगवान् हेतुरुच्यते । अत्र हरेः सर्वहेतुत्वेन जीवगतदेहेन्द्रियकर्तृत्वहेतुत्वसत्वेऽपि , देव्याः सुखदुःखभोगदाने प्रवृत्तिरल्पा । कार्यकारणकर्तृत्वे भोगदानप्रवृत्त्यपेक्षयाऽधिका । अतः कार्यकारणकर्तृत्वे प्रकृतिर्~हेतुरिति । पुरुषस्तु सुखदुःखभोगदानहेतुरिति विशिष्योक्तिर्युक्ता । अत ऎव पूर्वापरार्धयोरुच्यत इति द्विवारमुक्तिः । यद्वा कार्यकारणकर्तृत्वे देहेन्द्रियाणां परिणामक्रियायां प्रकृतिः प्रधानं हेतुरुच्यते । पुरुषो जीवः सुखदुःखानां भोक्तृत्वे अनुभवे हेतुः कर्तोच्यते इत्यर्थः ॥ 21 ॥
ननु प्रकृतिकृतदेहेन्द्रियसम्बन्धेन सुखदुःखादिभोक्ता जीवस्तन्नियामिके देवदेव्याविति यत्तदयुक्तम् । देहादि सम्बन्धादेर्मिथ्यात्वादित्यत आह- पुरुष इति ॥ पुरुषो जीवः प्रकृतिस्थः प्रकृतिकार्यदेहादौ स्थितः प्रकृतिजान् गुणान् सुखादीन् भु~घ्क्ते । हीति निर्बाधानुभवसिद्धत्वं सूचयति । तेन तद्विरोधान्न मिथ्यात्वं सुखादेरित्युक्तं भवति । एतेन `कार्यकारणकर्तृत्व' इत्यत्र जीवदेहस्थत्वस्य, `भोक्तृत्वे सुखदुःखानां' इत्यत्र सुखादिभोगस्योक्तेस्ताभ्यामस्य पौनरुक्त्यमिति निरस्तम् । मिथ्यात्वनिरासाय साक्ष्यनुभवविरोधं मिथ्यावादिनां दर्शयितुं प्रागुक्तस्यैवात्र पुनरभिधानात् । शुद्धस्य जीवस्य प्रकृतिस्थत्वे किं कारणमित्यत आह- कारणमिति ॥ अस्य जीवस्य ॥ 22 ॥
साध्वसाधुयोन्युत्पत्तौ सत्त्वादिगुणस~घ्गो निमित्तमात्रकारणम् । भगवानेव तु स्वतन्त्रकारणमित्याह- उपद्रष्टेति ॥ अनुमन्ता पुनः पुनः कर्तव्यस्य विशेषेणालोचकः । यद्वा अनु स्वानुकूल्येन स्वमनोऽविक्षेपकतयेति यावत् । मन्ता(मत्याः) मतिपूर्वं इति यावत् । प्रेरयतीत्यनुमन्ता । तत्र हेतुरुपद्रष्टेति । सर्वेभ्य उपरि वर्तमानः । उत्तमः सन्निति यावत् । द्रष्टा , भर्ता सर्व(धारकः) भारकः सर्वपोषकं इति यावत् । भोक्ता सर्वकर्मफलसारभुक् । महाशक्तित्वात् महेश्वरः । परमात्मा परमचेतनः । इतिशब्दो हेत्वर्थः सन् सर्वत्रान्वीयमानः अनुमन्तृत्वे उपद्रष्टृत्वाद् भर्तृत्वादादित्यादिरूपेण हेत्वर्थको ध्येयः । उपद्रष्टृत्वादि हेतुभ्योऽनुमन्ता पुरुष उक्त इति । च शब्दो हेतुसमुच्चये । कोऽनुमन्ता पुरुष इत्यतः अस्मिन् देहेऽप्युक्त इति उक्तम् । देहस्थत्वेनोक्तश्च भगवान्स्वयमेव, `क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु' इति स्वस्य देहस्थत्वेन प्रागुक्तत्वादिति भावः । एतेन यतश्च यदित्यनेन यादृग्धर्मविशिष्टाद्यत्क्षेत्रं प्रवर्तते ऎतन्मे शृण्विति प्राक् प्रतिज्ञातमप्युक्तं भवति । उपदेष्टृत्वादिधर्मविशिष्टात्प्रवर्तत इति ॥ 23 ॥
`प्रकृतिं पुरुषं चैव विद्धि' इत्युक्तार्थे बुभुत्साऽतिशयोत्पादनाय तद् ज्ञानफलमाह- य एनमिति । योऽधिकारी एनं पुरुषं जीवपराख्य द्विविधपुरुषं जडाजडाख्यद्विविधप्रकृतिं च तत्तद्गुणैः सह वेत्ति परोक्षतो विदित्वाऽपरोक्षतो जानाति स पुमान् सर्वथा वर्तमानोऽपि प्रमादादन्यायप्रवृत्तिमानपि भूयः पुनर्नाभिजायते मुक्तो भवतीत्यर्थः । तदुक्तं सूत्रे - ``ओं कामकारेण चैके ॐ"(3-4-15) इति ॥ 24 ॥
परमपुरुषादिदर्शने साधनमाह- ध्यानेनेति ॥ केचित् श्रवणमननोपेताः ध्यानेनात्मना बुद्ध्याऽऽत्मानं भगवन्तं आत्मनि देहे पश्यन्ति । अन्ये सा~घ्ख्येन योगेन वेदोक्तभगवत्स्वरूपपरोक्षज्ञानेन ध्यानेन चेत्यनुषज्यते । आत्मानं पश्यन्ति । अपरे श्रवणादिहीनाः कर्मयोगेन च कर्मरूपोपायेन सा~घ्ख्येन ध्यानेन चेत्यनुषज्यते । साधुकर्मानुष्ठानलब्धभगवत्प्रसादजन्यश्रवणमननध्यानैरात्मानं पश्यन्ति । ध्याने अशक्तानां सा~घ्ख्यसम्पादनद्वारा ध्यानसम्पादनेन । तत्राप्यशक्तानां कर्मोपायेन श्रवणादिसम्पादनेनात्मदर्शनमित्यवस्थाभेदमाश्रित्यायमर्थो भाष्योक्तः । तात्पर्येतु केचिदृषयः स्वप्रतिभयाऽन्यतः श्रवणेन च हरिं ज्ञात्वा आत्मना मनसा आत्मनि हृदये आत्मानं परमात्मानं ध्यानेन पश्यन्ति । साक्षात्कुर्वति । केचिदित्युक्त्याऽन्ये नारदाद्याः ऋषयस्तु बहिरपि पश्यन्ति इति सूचितम् । `केचिदृषयो नारदाद्या बहिस्त्वपि' इति स्मृतेः । `ऋषयोऽन्तःप्रकाशा' इति सूत्रभाष्योक्तशृतिस्तु नारदाद्यन्यविषयेति ज्ञातव्यम् । अन्ये देवास्तु सा~घ्ख्येन योगेन स्वप्रतिभाख्यज्ञानरूपोपायेन ध्यानेन विनैव विष्णुप्रसादलब्धस्वप्रतिभाख्यज्ञानेन बहिरन्तश्च विष्णुं पश्यन्तीत्यर्थः । अपरे क्षत्रियवरा राजानः कर्मयोगेनाश्वमेधादिकर्मरूपोपायेन श्रवणेन स्वप्रतिभया च नित्यं भगवन्तं स्मरतोऽश्वमेधादियज्ञकर्मकाले यज्ञभागार्थमागतमात्मानं पश्यन्तीत्यर्थः । श्रवणप्रतिभयोरल्पत्वादत्रानुक्तिः ॥ 25 ॥
अन्ये तु मनुष्यास्तु ऎवं स्वप्रतिभाबलेनात्मानमजानन्तः अन्येभ्यः श्रुत्वा मत्वेत्यपि ग्राह्यम् । उपासते ध्यायन्ति । ततः पश्यन्ति च । तेऽपि च अल्पतरप्रतिभावन्तोऽपि श्रुतिपरायणाः बहुश्रवणवन्तः सन्तः मृत्युं संसारं अतितरन्त्येवेत्यर्थः ॥ 26 ॥
कार्योपादानत्वप्रकृत्युक्तुपादानकदेहयोगित्वसर्वत्रसमत्वरूपधर्मयुक्ततया प्रकृतिपुरुषेश्वरस्वरूपं पुनरप्याह- यावदिति ॥ न चाप्रतिज्ञातोक्तिदोषः, प्रकृतिपुरुषधर्मोक्तेः `यादृक् च' इत्यत्रेश्वरधर्मोक्तेश्च `यत्प्रभाव'इत्यत्र प्रतिज्ञातेऽन्तर्भावात् । यावत्स्थावरज~घ्गमात्मकं सत्त्वं जीवजातं तत्क्षेत्रसंयोगात् । चित्प्रकृतिपरमात्मनोः संयोगाज्जायते प्रादुर्भवतीति विद्धि । यद्वा `उपद्रष्टा' इत्यादिना सदसद्योनिजन्मसु भगवानेव स्वतन्त्रकारणमिति यदुक्तं तत्प्रपञ्चयति - यावदिति ॥ उक्त ऎवार्थः ॥ 27 ॥
`क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु' इति हरेः सर्वशरीरस्थत्वं यदुक्तं तदयुक्तम् । तथात्वेऽधिष्ठानतारतम्यात्तारतम्यं, दुःखिसहावस्थानाद् दुःखं च स्यादित्यत आह- सममिति ॥ सर्वेषु तारतम्योपेतेषु प्राणिषु तिष्ठन्तं परमेश्वरं अचिन्त्यशक्तिकं हरिं समं न्यूनाधिकहीनं सर्वत्राशेषसद्गुणोपेतम्, ऎवं यः पश्यति । विनश्यत्सु सुखदुःखजनिमृत्यादिदोषवत्सु भूतेषु तिष्ठन्तं अविनश्यन्तं दुःखादिदोषहीनं यः पश्यति स पश्यति । स ऎव यथार्थ ज्ञानवानित्यर्थः ॥ 28 ॥
साम्यादि ज्ञानस्य फलमाह- सममिति ॥ सर्वत्र समवस्थितं निर्दोषाशेषसद्गुणतया सम्यगवस्थितं ईश्वरं समं सर्वत्र निर्दोषाशेषसद्गुणतयैकप्रकारम् । `ओं नस्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ' (2-3-11) इति सूत्रोक्तदिशापश्यन् । आत्मना बुद्ध्या आत्मानं स्वात्मानं च न हिनस्ति । नरके न पातयति । ततो ज्ञानात्परां गतिं मुक्तिं च यातीत्यर्थः ॥ 29 ॥
नन्वीश्वरः कर्मानपेक्षयैव `उपद्रष्टा' इत्यत्रोक्तदिशा यदि सदसद्योनिजन्मसु स्वतन्त्रकारणं, तर्~हि तस्य वैषम्यादिदोषः स्यात् । कर्मापेक्षितायां स्वातन्त्र्यप्रच्युतिस्तस्य स्यात् । तस्यापि कर्त्रतरसत्त्वाच्च स्वातन्त्र्यहानिरेवेत्यत आह- प्रकृत्येति ॥ ल्यबन्तमेतत् । च शब्दात् पूर्वप्रकृतेश्वरोऽनुषज्यते । ईश्वरेणैव प्रकृत्य पूर्वतनं जीवकर्म उद्बोध्य तदनुसृत्य क्रियमाणानि सर्वकर्माणि यः पश्यति । तथा स्वात्मानं चाकर्तारं अस्वतन्त्रं च यः पश्यति स पश्यति हरिमित्यर्थः । तथाच सूत्रं `ओं पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ' (2-3-42) इति । कर्तृराहित्यात्स्वातन्त्र्यम् । स्वाधीनसत्ताकतत्तदीयपूर्वकर्मापेक्ष्य सर्वं करोतीति न वैषम्यादि दोष इति भावः । तदुक्तं `ओं वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ'(2-1-35) इति ॥ 30 ॥
न केवलं भगवतः सर्वप्रेरकत्वादि ज्ञानमात्रेणालम् । किन्तु तस्य `ओं अवस्थितेरिति काशकृत्स्नः ॐ' (1-4-23) इति सूत्रोक्तदिशा सर्वाधारत्वाद्यपि ज्ञातव्यमित्युच्यते - यदेति । भूतपृथग्भावं भूतानां जीवानां पृथक्त्वं भेदं एकस्थमेकस्मिन् विष्णौ स्थितम् । किमुक्तं भवति विष्णुनाऽन्योन्यं च पृथग्भूतं भूतग्राममेकविष्ण्वाश्रितं यदानुपश्यतीत्युक्तं भवति । तत ऎव विष्णुत ऎव विस्तारमुत्पत्तिं च भूतानामित्यन्वेति । अनु तारतम्येन पश्यति । तदा ब्रह्म सम्पद्यते प्राप्नोति ॥ 31 ॥
ननु सर्वभूतेषु तिष्ठतो न विनाश इत्ययुक्तम् । शरीरसम्बन्धे व्ययादेरावश्यकत्वादित्यतो हेतूक्तिपूर्वं व्ययलेपाद्यभावमाह- अनादित्वादिति ॥ शरीरस्थोऽप्ययं परमात्मा अनादित्वात् निर्गुणत्वात् सत्त्वादिगुणहीनत्वाच्च अव्ययः । नाशादिव्ययहीनः । चिन्तासन्तापदुःखादिना न लिप्यते न सम्बध्यते । लौकिकक्रियविलक्षणक्रियावत्त्वान्नकरोति च । अनादित्व हेतोर्भावत्वे सतीति विशेषणान्न प्रागभावे व्यभिचारः श~घ्क्यः । यद्वा `सर्वं खल्विदं ब्रह्म'(छां 3-14-1) `पुरुष एवेदं सर्वं'(मुं 2-1-10) इत्यादिना विष्णोः सर्वचिदचिदात्मकत्वप्रतीतेर्वाद्यन्तरैस्तथोक्तेश्च कथं भूतानां विष्णोः पृथग्भाव इत्यतः श्रुतितात्पर्यापरिज्ञानादिप्राप्तमद्वैतं सहेतुकं निराह- अनादित्वादिति ॥ अयं परमात्मा शरीरस्थोऽपि शरीराभिमानितया तत्स्थसुखदुःखादिभोक्तृतयाशरीरस्थोऽत्रजीवोऽभिमतः । शरीरस्थोऽपि न भवति । जीवात्मकोऽपि न भवति । किमु वाच्यं जडात्मको न भवतीति अपेरर्थः । कुतः अनादित्वात् । देहयोगनिमित्तादिमत्त्वहीनत्वादिति यावत् । सत्त्वादिगुणहीनत्वाद्देहव्ययनिमित्तव्ययहीनत्वात् । करोति, सर्वकर्तृत्वान्न लिप्यते सर्वकरणनिमित्तफलाभोक्तृत्वाच्च । जीवस्य चोक्तहेतुपञ्चकविपर्ययत्त्वादिति भावः । ईश्वरः करोति न लिप्यते । जीवस्तु `परात्तु तच्छ्रुतेरिति' (2-3-41) सूत्रोक्तदिशा कर्तृशक्तेरपीशाधीनतया स्वातन्त्र्याभावान्न करोति । पराधीनकर्तृतया लिप्यते चेति योजना ॥ 32 ॥
परमात्मनो लेपाभावं दृष्टान्तेनोपपादयति - यथेति ॥ प~घ्कादिसर्वगतमप्याकाशं सौक्ष्म्यादप्रतिघत्वान्नोपलिप्यते यथा तथा सर्वत्र नीचोच्चादिदेहे स्थितोऽप्यात्मा परमात्मा नोपलिप्यते ॥ 3 ॥
यत्क्षेत्रज्ञत्वविशिष्टतया भगवद् ज्ञानार्थं क्षेत्रादिकमुक्तम् । तत्क्षेत्रज्ञत्वं दृष्टान्तेन व्यनक्ति - यथेति ॥ यथैको रविः इमं लोकं कृत्स्नं प्रकाशयति । तथैकः क्षेत्री क्षेत्रस्थः परमात्मा कृत्स्नं क्षेत्रं चेतनाचेतनरूपं प्रकाशयति ॥ 34 ॥
फलोक्त्याऽध्यायार्थमुपसंहरति - क्षेत्रेति ॥ क्षेत्रक्षेत्रज्ञयोरेवमुक्तप्रकारेणान्तरं भेदं ज्ञानचक्षुषा विवेकदृष्ट्या ये विदुः । तथा भूतेभ्यः प्रकृतेश्च जीवानां मोक्षो येनेति वा । भूतानां जीवानां अचेतनप्रकृतेः सकाशान्मोक्षो येनेति वा । तदभिमानित्वादिकं प्रागुक्तमोक्षसाधनं च ये विदुः ते ब्रह्म यान्तीति ॥ 35 ॥
इति श्रीमद्गीतार्थस~घ्ग्रहे श्रीमद्राघवेन्द्रयतिकृते त्रयोदशोऽध्यायः ॥
॥ श्रीवादिराजान्तर्गत श्रीमध्वेशार्पणमस्तु ॥
***********************************************************************