सदुक्तिकर्णामृतम् श्रीधरदाससङ्कलितम्
अ.रा. = अनर्घराघव
अमरु = अमरुशतकः
उ.नी. = उज्ज्वलनीलमणि
उ.रा.च. = उत्तररामचरित
द.रू. = दशरूपकम्
ध्व. = ध्वन्यालोकः
पद्या. = पद्यावली
प्र.च. = प्रबोधचन्द्रोदयम्
बा.रा. = बालरामायणः
भ्.र.सि. = भक्तिरसामृतसिन्धु
मा.अ.मि. = मालविकाग्निमित्रम्
मा.मा. = मालतीमाधवः
वि.शा.भ. = विद्धशालभञ्जिका
शा.प. = शार्ङ्गधरपद्धति
शृ.ति. = शृङ्गारतिलकम्
स.उ.क. = सदुक्तिकर्णामृतम्
स.क.आ. = सरस्वतीकण्ठाभरणम्
सा.द. = साहित्यदर्पणम्
सु.आ. = सुभाषितावली
सु.र. = सुभाषितरत्नाकर
सु.र.भा. = सुभाषितरत्नभाण्डागारम्
सू.मु. = सूक्तिमुक्तावलि
सदुक्तिकर्णामृतम्
श्रीधरदाससङ्कलितम्
मङ्गलम्
प्रज्ञां कामपि सम्पदं च कुरुते यत्पादसंवाहनं
नित्यं शाम्यति विष्वगन्धतमसं यच्चक्षुरुन्मीलनात।
यत्पादार्घ्यपयो विधूय दुरितं निःश्रेयसं यच्छति
स्वान्ते नः स वसत्वनारतमनाख्येयस्वरूपो हरिः ॥१॥
प्रस्तावः
शौर्याणीव तपांसि बिभ्रति भयं यस्मिन्न यस्यावधिर्
ज्ञाने दान इव द्विषामिव जयो येनेन्द्रियाणां कृतः ।
सम्राजामिव योगिनामपि गुरुर्यश्च क्षमामण्डले
स श्रीललक्ष्मणसेन एकनृपतिर्मुक्तश्च जीवन्नभूत॥१॥
तस्यासीत्प्रतिराजतद्वृतमहासामन्तचूडामणिर्
नाम्ना श्रीबटुदास इत्यनुपमप्रेमैकपात्रं सखा ।
तापं सन्तमसं हरन्नहरहः कीर्तिं दधत्कौमुदीं
साक्षादक्षयसूनृतामृतमयः पूर्णः कलानां निधिः ॥२॥
श्रीमान्श्रीधरदास इत्यधिगुणाधारः स तस्मादभूद्
आकौमारपारपौरुषपराधीनस्य यस्यानिशम् ।
लक्ष्मीर्वेदविदां गृहेषु गुणिता गोष्ठीषु विद्यावतां
भक्तिः श्रीपतिपादओपल्लवनखज्योत्स्नासु विश्राम्यति ॥३॥
प्रत्येकं विषयेषु पञ्चकमितैः श्लोकैः कवीनामिदं
तेनाकारणबान्धवेन विदधे श्रीसूक्तिकर्णामृतम् ।
प्रीतिं पल्लवयन्तु कर्णकलसीमापूरयन्तश्चिरं
मज्जन्तः परिशीलयन्तु रसिकाः पञ्च प्रवाहानिह ॥४॥
अमराः शृङ्गारचटू अपदेशोच्चावचे क्रमशः ।
इति पञ्चभिः प्रवाहैः सदुक्तिकर्णामृतं क्रियते ॥५॥
-----------------------------------------------
अमरप्रवाहवीचयः
अथ धाता रविरीशप्रणतिमहादेवशिवहरक्रीडाः ।
प्रश्नोत्तराट्टहासावमुष्य मूर्धीत्तमाङ्गगङ्गा च ॥१॥
मौलिशशी कोटीरो मुण्डावलिरक्षि पुरभिदारम्भः ।
बाणानलोष्टमूर्तिर्भैरवहरताण्डवारम्भौ ॥२॥
नृत्यं हरप्रसादनमथ गौरी परिणयस्थगौरी च ।
शृङ्गारो गिरिदुहितुर्दुर्गा काली तथार्धनारीशः ॥३॥
शृङ्गारी च गजाननशरसम्भवभृङ्गिणः प्रमथाः ।
अथ हरिहरौ सकान्तौ सुरसिन्धुर्जह्न्कन्यकाशंसा ॥४॥
मत्स्यकमठसूकरकेशरिनृसिंहपाणिजन्मानः ।
शृङ्गारी च नृसिंहो वामनमूर्तिस्त्रिविक्रमो भृगुजः ॥५॥
दाशरथिरेष विरही हलधरजिनकल्किनोऽथ कृष्णस्य ।
शिशुताकुमारभावौ स्वप्नायितयौवनक्रीडाः ॥६॥
प्रश्नोत्तरं च वेणुध्वननं गीतं भुजश्च गिरिधरणम् ।
उत्कण्ठा गोपवधूसन्देशो हरिरमुष्य भक्तिश्च ॥७॥
उदधिमथनहरिरम्बुधिमथनोत्थश्रीः स्वयंवरो लक्ष्म्याः ।
श्री शृङ्गारः कमलाकमलोपालभवाक्प्रशस्तेन्दुः ॥८॥
चन्द्रकला शशिबिम्बं प्रौढविधुः सरुचिचन्द्रमा रश्मिः ।
ज्योत्स्ना कलङ्कतमौडुकैरवसहितेन्दुभावश्च ॥९॥
मिश्रबहुरूपकास्तङ्गतबहुविषयेन्दवोऽथ गन्धवहः ।
दक्षिणनदीसमुद्रप्रभातभिन्नश्च पुष्पधन्वा च ॥१०॥
स्मरशौर्यमथोच्चावचमिति पञ्चोपेतनवतिवीचिभिः ।
श्रीधरदासेन कृतः कृतिना देवप्रवाहोऽयम् ॥११॥
देवप्रवाहः
१. अथ ब्रह्मवीचिः
शम्भोः साक्षात्सखैकः सुरपतिपरो धर्मराजस्तथान्यः
प्राणा विश्वस्य कस्य प्रथमतरमतः कोऽनु सम्भाषणीयः ।
कार्यायातान्विदित्वा मुहुरिति चतुरो लोकपालांश्चतुर्भिर्
वक्त्रैराभाषमाणः सममुदितरवः पातु पद्मोद्भवो वः ॥१॥
पालितस्य ।
आगस्कारिणि कालनेमिदलने तत्ताडनार्थं रुषा
नाभीपङ्कजमस्त्रतां गमयितुं जाने प्रयत्ने श्रियः ।
आवासोन्मथनोपपादितभयभ्रान्तात्मनः सम्भ्रमाद्
अब्रह्मण्यपराः पुरातनमुनेर्वाचः प्रसीदन्तु वः ॥२॥
भट्टश्रीनिवासस्य । (सू.मु. २.१०८)
पायाद्वो मधुकैटभासुरवधे विष्णुप्रबोधोद्धुरो
धाता वक्त्रचतुष्टयं तु युगपद्यस्याभवत्सार्थकम् ।
एकं स्तौति मुखं शिवामितरदप्यार्तं वरान्याचते
दैत्यौ प्रत्यपरं वितर्जति हरत्यन्यच्छ्रियः सम्भ्रमम् ॥३॥
वसन्तदेवस्य ।
यन्न क्षुण्णं कदाचित्तुहिनकणचयस्यन्दिभिश्चन्द्रपादैर्
नापि व्यालीनमुस्रैर्नवनलिनसरोबन्धुभिर्भानवीयैः ।
तत्कल्पान्तानुषङ्गि द्रुतमतनुतमः पाटयन्त्यः समन्ताद्
आद्याधीतौ विधातुर्मुखशशिविसृताः पान्तु वो दन्तभासः ॥४॥
बीजकस्य ।
जातस्तेऽधरखण्डनात्परिभवः कापालिकाद्योऽभवत्
स ब्रह्मादिषु कथ्यतामिति मुहुर्बाल्याद्गुहे जल्पति ।
गौरीं हस्तयुगेन षण्मुखवचो रोद्धुं निरीक्ष्याक्षमां
वैलक्ष्याच्चतुरास्यनिष्फलपरावृत्तिश्चिरं पातु वः ॥५॥
(सु.र. १०१, सू.मु. २.१०५)
२. सूर्यः
तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय
व्योमेन्द्रनीलतरुकाञ्चनपल्लवाय ।
संसारसागरसमुत्क्रमियोगिसार्थ
प्रस्थानपूर्णकलसाय नमः सवित्रे ॥६॥
वराहमिहिरस्य । (सु.र. १५०)
विष्वग्विसारितिमिरप्रकरावरुद्ध
त्रैलोक्यनेत्रपुटसिद्धरसायनाय ।
तुभ्यं नमः कमलषण्डविषादनिद्रा
विद्रावणोद्यतकराय दिवाकराय ॥७॥
श्रीकण्ठस्य ।
शुकतुण्डच्छवि सवितुश्चण्डरुचः पुण्डरीकवनबन्धोः ।
मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥८॥
विद्यायाः । (सु.र. १४९, शा.प. ८६)
जीयादेकफलं नभस्तलतरोरभ्रंशि सिन्दूरिणी
मुद्रा कैरवकाननस्य तिमिरस्तेयाय सन्धिर्दिवः ।
मन्दारस्तवकोन्तरीक्षकवरीभारस्य गौरीपतेः
कम्पिल्लच्छदपाटलच्छवि कुलच्छत्रं रघूणां रविः ॥९॥
हरेः ।
आद्यूनस्तमसां चकोररमणीरागाब्धिमन्थाचलो
जीवातुर्जलजस्य वासवदिशाशैलेन्द्रचूडामणिः ।
आदेष्टा श्रुतिकर्मणां कुमुदिनीशोकाग्निपूर्णाहुतिर्
देवः सोमरसायनं विजयते विश्वस्य बीजं रविः ॥१०॥
विभाकरस्य ।
३. ईशप्रणतिः
मौलौ वेगादुदञ्चत्यपि चरणभरन्यञ्चदुर्वीतलत्वाद्
अक्षुण्णस्वर्गलोकस्थितिमुदितसुरश्रेष्ठगोष्ठीस्तुताय ।
संत्रासान्निःसरनत्यविरतविषजद्दक्षिणार्धाङ्ग
बन्धादत्यक्तायाद्रिपुत्र्या तिर्पुरहरजगत्क्लेशहन्त्रे नमस्ते ॥११॥
बाणस्य । (सु.र. ५६)
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥१२॥
(सु.र. ४८)
तादृक्सप्तसमुद्रमुद्रितमहीभूभृद्भिरभ्रंकषैस्
तावद्भिः परिवारिता पृथुद्वीपैः समन्तादियम् ।
यस्य स्फारफणामणौ निलयनात्तिर्यक्कलङ्काकृतिः
शेषः सोऽप्यगमद्यदङ्गदपदं तस्मै नमः शम्भवे ॥१३॥
बल्लणस्य । (सु.र. ३८)
नमस्तस्मै कस्मैचन वचनवित्तेन्द्रिययमी
यमीशानं ज्योतिर्मयमयमुपास्ते मुनिजनः ।
गुरूपज्ञप्रज्ञामुकुरनिकुरम्बप्रतिफलन्
निजानन्दज्योत्स्नाभ्युदयभिदुराज्ञानतिमिरः ॥१४॥
हरेः ।
वृषधन धनदप्रिय प्रियार्ध
ग्रथनविदग्ध विदग्धचित्तयोने ।
पुरहर हरिणाङ्कचूड चूडा
भुजगभयङ्कर धूर्जटे नमस्ते ॥१५॥
भोजदेवस्य ।
४. महादेवः
शिल्पं त्रीणि जगन्ति यस्य कविता यस्य त्रिवेदी गुरोर्
यश्चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते ।
त्रीन्कालानिव वीक्षितुं वहति यो विस्फूर्जदक्ष्णां त्रयं
स त्रैगुण्यपरिच्छेदो विजयते देवस्त्रिशूलायुधः ॥१६॥
वसुकल्पदत्तस्य । (सु.र. ३०)
अर्वाञ्चत्पञ्चशाखः स्फुरदुपरिजटामण्डलः संश्रितानां
नित्यापर्णोऽपि तापत्रितयमपनयन्स्थाणुरव्यादपूर्वः ।
यः प्रोन्मीलत्कपर्दैः शिरसि विरचिताबालबन्धे द्युसिन्धोः
पाथोभिर्लब्धसेकः फलति फलशतं वाञ्छितं भक्तिभाजाम् ॥१७॥
जह्नोः ।
कामं मा कामयध्वं वृषमपि च भृशं माद्रियध्वं न वित्ते
चित्तं दत्त श्रयध्वं परममृतफला या कला तामिहैकाम् ।
इत्थं देवः स्मरारिर्वृषमधरचरीकृत्य मूर्त्यैव दित्सन्
निःस्वो विश्वोपदेशानमृतकरकलाशेखरस्त्रायतां वः ॥१८॥
कविपण्डितश्रीहर्षस्य ।
भूतिव्याजेन भूमीममरपुरसरित्कैतवादम्बु बिभ्रल्
लालाटाक्षिच्छलेन ज्वलनमहिपतिश्वासलक्ष्यं समीरम् ।
विस्तीर्णाघोरवक्त्रोदरकुहरनिभेनाम्बरं पञ्चभूतैर्
विश्वं शश्वद्वितन्वन्वितरतु भवतः सम्पदं चन्द्रमौलिः ॥१९॥
जयदेवस्य ।
पीयूषेण विषेण तुल्यमशनं स्वर्गे श्मशाने स्थितिर्
निर्भेदाः पयसोऽनलस्य वहने यस्याविशेषग्रहः ।
ऐश्वर्येण च भिक्षया च गमयन्कालं समः सर्वतो
देवः स्वात्मनि कौतुकी हरतु वः संसारपाशं हरः ॥२०॥
वैद्यगदाधरस्य ।
५. शिवः
वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी
यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते
स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥२१॥
कालिदासस्य । (Vइक्. १.१)
कण्ठच्छायमिषेण कल्परजनीमुत्तंसमन्दाकिनी
रूपेण प्रलयाब्धिमूर्ध्वनयनव्याजेन कल्पाजलम् ।
भूषापन्नगकेलिपानकपटादेकोनपञ्चाशतं
वातानप्युपसंहरन्नवतु वः कल्पान्तशान्तौ शिवः ॥२२॥
चित्तपस्य ।
क्वाप्यग्निः क्वचिदद्रिभूर्नरशिरःकीर्णा क्वचिन्निम्नगा
रूक्षा क्वापि जटा क्वचिद्विषधरा रौद्रं विषं कुत्रचित।
तादृग्भूतगणैर्वृतो मम चिताभस्मोर्मिकिर्मीरितः
संसारं प्रतिमुच्य यातुरपुनर्योगाय पन्थाः शिवः ॥२३॥
बिल्हणस्य ।
निर्माता जगदर्थमेव वचसां वाचं यमो यः स्वयं
भोगान्विश्वकृते तनोति विषयव्यावर्तितात्मेन्द्रियः ।
धत्तेऽस्त्राणि जगन्ति रक्षितुमुदासीनः स्वदेहग्रहे
योगीन्द्रोऽस्तु सदाशिवः स भवतां भूत्यै परार्थव्रती ॥२४॥
वैद्यगदाधरस्य ।
दूरोन्मुक्तखगेश्वरे मुरभिदि व्याक्षिप्तबाहौ ग्रह
व्यूहे वारितमातरिश्वनि नमत्याशापतीनां गणे ।
निष्कम्पोरगहारवल्लिरचलच्चूडेन्दुरव्याकुल
स्वःसिन्धुः स्थिरयोगनिर्वृतमनाः पायात्त्रिलोकीं शिवः ॥२५॥
तस्यैव ।
६. हरशृङ्गारः
एवं स्थापय सुभ्रु बाहुलतिकामेवं कुरु स्थानकं
नात्युच्चैर्नम कुञ्चिताग्रचरणं मां पश्य तावत्क्षणम् ।
गौरीं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना
शम्भोर्वः सुखयन्तु लम्भितलयच्छेदाहतास्तालिकाः ॥२६॥
योगेश्वरस्य । (सु.र. ६०)
तस्या नाम मया कथं कथमपि भ्रान्त्या समुच्चारितं
जानास्येव ममाशयं तव कृते गौरि प्रसन्ना भव ।
क्षान्तिः स्वीक्रियतां दयावति मयि क्रोधः परित्यज्यता
मित्येवं बहु जल्पतः स्मररिपोः प्रेमाञ्जलिः पातु वः ॥२७॥
चक्रपाणेः ।
बालः सुन्दरि चन्द्रमाः स्रुतसुधाधाराभिराप्यायितो
निद्रामेति फणीश्वरः सुरधुनी रुद्धा जटावल्लिभिः ।
इत्थं मन्मथकेलिकौतुकविधौ व्रीडावतीं पार्वतीं
पायाद्वः प्रतिबोधयन्नववधूं चन्द्रार्धचूडामणिः ॥२८॥
कक्कोलस्य ।
श्रुतिः सक्ता मुग्धे वचसि वदनेन्दौ निपतिता
दृशः स्वादौ बिम्बाधरमधुनि मग्नैव रसना ।
निषण्णाभून्नासा निजपरिमले शैलदुहितु
र्घनाश्लेषानन्दे वपुरपि विलीनं पुरभिदः ॥२९॥
उमापतिधरस्य ।
दूरे दारुवनाभिसारक मृषा चाटूनि मुञ्चाधुना
भूयस्त्वं पुनरप्यहं यदि तदा चन्द्रः क्षितिं यास्यति ।
इत्युक्तः शशिमौलिरद्रिसुतया चूडेन्दुभूलम्भन
व्याजव्यञ्जितपादपद्मपतनप्रीतप्रियः पातु वः ॥३०॥
कविपण्डितश्रीहर्षस्य । (सू.मु. २.८)
७. शिवयोः प्रश्नोत्तरम्
कस्मात्पार्वति निष्ठुरासि सहज शैलीद्भवानामिदं
निःस्नेहासि कुतो न भस्मपरुषः स्नेहं क्वचिन्निन्दति ।
कोपस्ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद्
इत्थं निर्वचनीकृतो दयितया शम्भुः शिवायास्तु वः ॥३१॥
भोजदेवस्य । (सु.र. ३५)
किं गौरि मां प्रति रुषा ननु गौः किमस्मि
कुप्यामि कं प्रति मयीत्यनुमानतोऽहम् ।
जानामि सत्यमौनामनत एव स त्वम्
इत्थं गिरो गिरिभुवः कुटिला जयन्ति ॥३२॥
रुद्रटस्य । (Kआव्यालङ्कार २.१५, सू.मु. ९९.६)
केयं मूर्ध्न्यन्धकारे तिमिरमिह कुतः सुभ्रु कान्तेन्दुयुक्ते
कान्ताप्यत्रैव कामिन्ननु जलमुमया पृष्टमेतावदेव ।
नाहं द्वन्द्वं करोमि व्यपनय शिरसस्तूर्णमेनामिदानीम्
एवं प्रोक्तं भवान्या प्रतिवचनजडः पातु वो मन्मथारिः ॥३३॥
कस्यचित॥
एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा
हंसः किं भजते जटां न हि शशी चन्द्रो जलं सेवते ।
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते
इत्थं यो विनिगूहते त्रिपथगां पायान्स वः शृङ्गारः ॥३४॥
कस्यचित। (Sव्६७)
धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या
नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः ।
नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्
देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः ॥३५॥
विशाखदत्तस्य । (ंउद्राराक्षस्१.१, सू.मु. ९९.१)
८. हरहास्यम्
पाणौ कङ्कणमुत्फणः फणिपतिर्नेत्रं ज्वलत्पावकं
कण्ठः कुण्ठितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् ।
गौरीलोचनलोभनाय सुभगो वेषो वरस्येति मे
गण्डोल्लासविभावितः पशुपतेर्हासोद्गमः पातु वः ॥३६॥
रुद्रटस्य । (शृ.ति. ३.२अ)
उद्दामदन्तरुचिपल्लवितार्धचन्द्र
ज्योत्स्नानिपीततिमिरप्रकरावरोधः ।
श्रेयांसि वो दिशतु ताण्डवितस्य शम्भोर्
अम्भोधरावलिघनध्वनिरट्टहासः ॥३७॥
सङ्घमित्रस्य । (सु.र. ४१)
मातर्ब्रूहि किमेतदञ्जलिपुटे तातेन गोपायितं
वत्स स्वादुफलं प्रयच्छति न मे गत्वा गृहाण स्वयम् ।
मात्रैवं प्रहिते गुहे विघटयत्याकृष्य सन्ध्याञ्जलिं
शम्भोर्भग्नसमाधिरुद्धमनसो हास्योद्गमः पातु वः ॥३८॥
योगेश्वरस्य । (सु.र. ५९)
निर्विघ्नं घनसारसारविशदस्वर्लोककल्लोलिनी
कल्लोलप्रतिमल्लबाहुचलनैर्व्याप्तान्तरालश्रियः ।
शम्भोः सम्भवदङ्गहारतरलोत्तंसामृतांशुद्रव
प्राणात्प्राणिकपालचापलदृशो हासोर्मयः पान्तु वः ॥३९॥
वाचस्पतेः ॥
भृङ्गी कस्तव चर्चिके गुह न कोऽप्याकार एकस्तु नौ
सत्यं भृङ्गरिटे सुसत्यमनृतं लोकं तु मोटिर्वदेत।
नग्नं पृच्छतमस्तु वां परिणयैकात्मत्वमित्युद्भट
स्तावुत्सृज्य सपर्षदः पशुपतेर्हास्योद्गमः पातु वः ॥४०॥
९. हरशिरः
त्वङ्गद्गङ्गमुदञ्चदिन्दुशकलं भ्रश्यत्कपालावलि
क्रोडभ्राम्यदमन्दमारुतचयस्फारीभवद्भाङ्कृति ।
पायाद्वो घनताण्डवव्यतिकरप्राग्भारखेदस्खल
द्भोगीन्द्रश्लथपिङ्गलोत्कटजटाजूटं शिरो धूर्जटेः ॥४१॥
वीर्यमित्रस्य । (सु.र. ४२)
सन्ध्याताण्डवितस्य खण्डपरशोरव्याज्जगन्ति ज्वलल्
लालाटाक्षिपुटोद्भवानलशिखालीढेन्दुलेखं शिरः ।
भ्रश्यत्कृत्ति चलन्महाहिविगलद्व्योमापगाम्बुस्खलत्
खण्डेन्दूच्छलभूतिचटुलभ्राम्यज्जटासन्तति ॥४२॥
योगेश्वरस्य ।
धूमोद्भेदानभिज्ञस्फुरदन,अमनाघ्रातपङ्काधिकार
प्रेङ्खत्कल्लोलवारिव्यतिकरमनघस्पर्शजाग्रत्कपालम् ।
अज्ञातास्तत्रियामादयितमविदितप्राणिहिंसोरगस्रग्
भूतेशस्य प्रभूताद्भुतमवतु शिरः श्रेयसां सन्ततिं वः ॥४३॥
वैद्यगदाधरस्य ।
नाट्यावेगविनिःसृतत्रिपथगावारिप्रवाहाकुलः
शीघ्रभ्रान्तिवशाल्ललाटनयनज्वालातडिद्भीषणः ।
मुण्डालीकुहरप्रसर्पदनिलास्फालप्रयुक्तध्वनिः
प्रावृट्काल इवोदितः शिवशिरोमेघः शिवायास्तु वः ॥४४॥
कस्यचित।
अन्तःस्वीकृतजाह्नवीजलमतिस्वच्छन्दरत्नाङ्कुर
श्रेणीशोणभुजङ्गनायकफणाचक्रील्लसत्पल्लवम् ।
भूयादभुयदाय मोक्षनगरप्रस्थानभाजमितः
प्रत्यूहप्रशमैकपूर्णकलशप्रायं शिरो धूर्जटेः ॥४५॥
जलचन्द्रस्य ।
१०. हरशिरोगङ्गा
कपाले गम्भीरः कुहरिणि जटासन्धिषु कृशः
समुत्तानश्चूडाभुजगमणिबन्धव्यतिकरे ।
मृदुर्लेखाकोणे रयवशविलोलस्य शशिनः
पुनीताद्दीर्घं वो हरशिरसि गङ्गाकलकलः ॥४६॥
योगेश्वरस्य । (सु.र. ५३)
स जयति गाङ्गजलौघः शम्भोरुत्तुङ्गमौलिविनिविष्टः ।
मज्जति पुनरुन्मज्जति चन्द्रकला यत्र शफरीव ॥४७॥
कस्यचित। (सु.र. ४५)
यच्चन्द्रकोटिकरकोरकभावभाजि
बभ्राम बभ्रुणि जटापटले हरस्य ।
तद्वः पुनातु हिमशैलशिलानिकुञ्ज
सात्कारडम्बरविरावि सुरापगाम्भः ॥४८॥
कस्यचित। (स.क.आ. १.७७)
गौरीविभज्यमानार्धसङ्कीर्णे हरमूर्धनि ।
अम्ब द्विगुणगम्भीरे भागीरथि नमोऽस्तु ते ॥४९॥
कस्यचित। (सु.र. ७८, सू.मु. १.२४)
मुक्ताभा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा
बह्वौ लाजनिभा दृशोर्मणिनिभा भोगोत्करे भोगिनः ।
नृत्यावर्तपरम्परेरितपयः मूर्च्छनोच्छालिताः
खेलन्तो हरमूर्ध्नि पान्तु भवतो गङ्गापयोबिन्दवः ॥५०॥
नडगाङ्गोकस्य ॥ शा.प. १०६, सू.मु. २.५३)
११. हरशिरश्चन्द्रः
स वः पायादिन्दुर्नवविसलताकोटिकुटिलः
स्मरारेर्यो मूर्ध्नि ज्वलनकपिशे भाति निहितः ।
स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥५१॥
राजशेखरस्य । (सु.र. ४६)
व्यलीके पार्वत्याः परिलघुलवैरञ्जनजुषः
पतद्भिर्बाष्पस्य क्रमलिखितलक्ष्म्या विजयते ।
लसल्लीलाचन्द्रश्चरणगतमौलेः स्मरजितः
किरद्भिः स्वज्योत्स्नानखमणिभिरापूरितकणः ॥५२॥
वामनस्य ।
शम्भोरिन्दुकला शिवं विशतु वो यस्याः प्रतिच्छायिकां
त्रिस्रोतःपतितामनेककुटिलीभावं गतां वीचिभिः ।
सेनानीरवलोकते ध्वजपटाकूतेन कात्यायनी
मल्लीदामस्मीहया निजवधूबोधेन नागाधिपः ॥५३॥
उमापतेः ।
अमुद्रकुमुदत्विषः स्फुरितफेनलक्षीस्पृशो
मरालकुलविभ्रमाः शफरफाललीलाभृतः ।
जयन्ति गिरिजापतेस्तरलमौलिमन्दाकिनी
तरङ्गचयचुम्बिनस्तुहिनदीधितेरंशवः ॥५४॥
उमापतिधरस्य ।
च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं
द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया ।
अवोचद्यं पश्येद्त्यवतु स शिवः सा च गिरिजा
स च क्रीडाचन्द्रो दशनकिरणापूरितकलः ॥५५॥
वररुचेः । (सु.र. ४७, Sव्६६, शा.प. ९६)
१२. हरजटा
ज्वालेवोर्ध्वविसर्पिणी परिणतस्यान्तस्तपस्तेजसो
गङ्गातोयतरङ्गसर्पवसतिर्वल्मीकलक्ष्मीरिव ।
सन्द्येवार्द्रमृणालकोमलतनोरिन्दोः सहस्थायिनी
पायाद्वस्तरुणांशुकपिला शम्भोर्जटासंहतिः ॥५६॥
रविनागस्य । (सु.र. ५५)
चूडापीडनिबद्धवासुकिफणाफूत्कारनिर्यद्विष
ज्वालाजृम्भितमत्स्यकच्चपवधूलीढेन्दुलेखामृतम् ।
अव्याद्वः स्मरसूदनस्य मदनक्रीडाकचाकर्षणश्
च्योतन्नाकसरित्सरोषगिरिजादृष्टं जटामण्डलम् ॥५७॥
भवभूतेः ।
क्वचिदमरसरित्क्वचित्कपालं
क्वचिदुरगाः क्वचिदैन्दवी च लेखा ।
इति विषमविभूषणैरुपेता
प्रमथपतेरवताज्जटाटवी ॥५८॥
दण्डिनः ।
उत्पत्रेव दृशोर्चिषा कुसुमितेवेन्दोः करैर्भोगिभिः
सारोहेव जटाटवी फलतु वः श्रेयो भवानीपतेः ।
यत्पर्यन्तविवर्तिनः सुरसरित्पूरस्य भूरिस्फुरत्
फेनेण्डूकविलासमञ्चति विधेर्जीर्णा कपालावली ॥५९॥
उमापतिधरस्य ।
मूलावनद्धभुजगेन्द्रकृतालवाल
बन्धाः स्खलत्त्रिदशसिन्धुजलौघसिक्ताः ।
उन्मुक्तचन्द्रकुसुमा जगतां हिताय
शम्भोर्जटाः कनककल्पलताः फलन्तु ॥६०॥
दङ्कस्य ।
१३. हरकपालः
शान्त्यै वोऽस्तु कपालदाम जगतां पतुर्यदीयां लिपिं
क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षरम् ।
विश्वं स्रक्ष्यति वक्ष्यति क्षितिमपामीशिष्यते शिष्यते
नागान्रागिषु रंस्यते स्यति जगन्निर्वेक्ष्यति द्यामिति ॥६१॥
कस्यचित। (सु.र. ५४)
गाढग्रन्थिप्रफुल्लद्गलविकलफणापीठनिर्यद्विषाग्नि
ज्वालानिष्टप्तचन्द्रद्रवदमृतरसप्रोषितप्रेतभावाः ।
उज्जृम्भा बभ्रुनेत्रद्युइत्मसकृदसृक्तृष्णयालोकयन्त्यः
पान्तु त्वां नागनालग्रथितशवशिरःश्रेणयो भैरवस्य ॥६२॥
भवभूतेः । (सु.र. ३९)
जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दु
स्रवदमृतनिवृत्तप्रेतभावैः कपालैः ।
विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरारेः
परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः ॥६३॥
कस्यचित। (स.क.आ. १.८४)
लिप्ता लालाटनेत्रस्फुरदुरुदहनज्वालजालप्रतापोत्
ताम्यत्कोटीरभारस्थिरशशिशकलप्रस्रुताभिः सुधाभिः ।
अन्तर्नृत्यप्रमोदप्रचलितशिरश्चन्द्रमौलेः कपालाः
कल्याणं वः क्रियासुः स्तुतिमभिधतस्ताण्डवाडम्बरेषु ॥६४॥
नरसिंहस्य ।
पायाद्वः स शिरांसि ताण्डवविधौ यन्मूर्ध्नि खिन्नोरग
श्वासाग्निद्रुतचूडचन्द्रसुधया प्राणन्त्यकस्माद्विधेः ।
ऋक्सामे कतिचित्पठन्ति कतिचिन्मज्जन्ति गङ्गाजले
स्वात्मानं कतिचिन्मनन्ति कतिचिन्नेत्रानले जुह्वति ॥६५॥
वामदेवस्य ।
१४. हरनयनम्
धूमश्यामककुम्भि भूधरतटत्रुय्द्यद्दृषन्ति स्फुटा
टोपोल्लुण्ठितसागराम्पि विकलव्यालोकभास्वन्ति च ।
दृप्यत्तूर्णमरुन्ति कातरतरभ्रश्यज्जगन्ति प्रभोर्
उद्यन्ति त्रिपुरान्तकृन्ति नयनादर्चींषि पुष्यन्तु वः ॥६६॥
कस्यचित।
यज्ज्योतिर्द्वादशार्कं हिमगिरिदुहितुर्यन्निशाकेलिदीपो
यत्कन्दर्पास्थिभस्मीकरणतरुणिताभ्यन्तरज्वाललेखम् ।
कल्पान्ते जुह्वतो यत्त्रिभुवनसमिधं वेधसः पुण्यवह्निर्
बिभ्राणं बभ्रुकान्तिं त्रिनयननयनज्योतिरस्तु श्रिये वः ॥६७॥
अंशुधरस्य ।
आनन्दस्तिमिताः समाधिषु मुखे गौर्या विलासालसाः
सम्भ्रान्ताः क्षणमद्भुताः क्षणमथ स्मेरा निजे वैकृते ।
क्रूराः कृष्टशरासने मनसिजे दग्धे घृणाकूणितास्
तत्कान्तारुदितेश्रुपूरतरलाः शम्भोर्दृशः पान्तु वः ॥६८॥
कस्यचित।
पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो
यस्मिन्ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव ।
अर्चिर्निष्टप्तचूडाशशिगलितसुधाघोरझाङ्कारिकोणं
तार्तीयोकं पुरारेर्तदवतु मदनप्लीषणं लोचनं वः ॥६९॥
भवभूतेः । (ंं १, अफ़्तेर्५.२; शा.प. ९९)
एकं योगनियोजनान्मुकुलितं चक्षुर्द्वितीयं पुनः
पार्वत्या जघनस्थले स्तनतटे शृङ्गारभावालसम् ।
अन्यद्दूरविकृष्टचापमदनक्रोधानलोद्दीपितं
शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥७०॥
श्रीहर्षदेवस्य ।
१५. त्रिपुरदाहारम्भः
संरब्धाङ्घ्रिनिवेशनादनिभृतं सर्वंसहाविग्रहे
वीतालम्बनमारसातलमधोविस्त्रंसिनि स्यन्दने ।
याते दृक्पथदूरतां मयपुरे देवस्य भूतप्रभोर्
द्राग्विश्वम्भरबाणमोक्षविषयो यत्नः शिवायास्तु वः ॥७१॥
वैद्यगदाधरस्य ।
चापोत्क्षेपापसर्पद्वलयफणिगुणोत्तंसितापाङ्गभित्ति
प्रत्यालीढानुबन्धोच्छलितजलनिधिव्याप्तवेलोपकण्ठम् ।
उन्मीलद्भालवह्नि क्रमशिथिलजटालम्बिगङ्गेन्दुलेखं
भूयाद्वश्चन्द्रमौलेर्मयनगरभिदः सौष्ठवं मङ्गलाय ॥७२॥
जलचन्द्रस्य ।
सङ्व्यानांशुकपल्लवेषु तरलं वेणीगुणेषु स्थितं
मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषम् ।
आलोक्य त्रिपुरावरोधनवधूवर्गस्य धूमध्वजं
हस्तस्रस्तशरासनो विजयते देवो दयार्द्रेक्षणः ॥७३॥
मयूरस्य । (सु.र. ६१)
वाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते
निद्रातीक्षणजाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे ।
नम्रोन्नम्रभुजङ्गपुङ्गवगुणव्याकृष्टबाणासन
क्षिप्तास्त्रस्य पुरद्रुहो विजयते सन्धानसीमाश्रमः ॥७४॥
मुरारेः । (आर्७.११४, सु.र. ३१)
दृष्टः सप्रेम देव्या किमिदमिति भयात्सम्भ्रमाच्चासुरीभिः
शान्तान्तस्तत्त्वसारैः सकरुणं ऋषिभिर्विष्णुना सस्मितेन ।
आकृष्यास्त्रं सगर्वैरुपशमितबन्धुसंभ्रमैर्दैत्यवीरैः
सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान॥७५॥
भट्टनारायणस्य । (Vस्१.३)
१६. हरबाणः
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोऽंशुकान्तं
गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥७६॥
अमरोः । (अमरु २; सु.र. ४९)
सिन्दूरश्रीर्ललाटे कनकरसमयः कर्णपाशावतंसो
वक्त्रे ताम्बूलरागः पृथुकुचकलसे कुङ्कुमस्यानुलेपः ।
दैत्याधीशाङ्गनानां जघनपरिसरे लाक्षिकक्षौमलक्ष्मी
रश्रेयांसि क्षिणोतु त्रिपुरहरशरोद्गारजन्मानलो वः ॥७७॥
मङ्गलस्य । (सु.र. ६७)
विष्वग्व्याधूय धूमप्रचययवनिकां स्फायमानस्फुलिङ्ग
व्याजादवकीर्य पुष्पाञ्जलिमुपरि पदं न्यस्यतो मन्दिराणाम् ।
स्वच्छन्दाभोगसीमा महति मयपुरे दत्तरौद्राङ्गराग
व्याप्ताशेषस्य विश्वेश्वरशरशिखिनस्ताण्डवं नः पुनातु ॥७८॥
वैद्यगदाधरस्य ।
बाष्पैर्वीताङ्गरागच्छविषु विरचयन्नच्छधूमच्छटाभिः
कस्तूरीपत्रमायां मयनगरवधूवर्गवक्षोरुहेषु ।
आसाम्लानपुष्पस्तवकनवकलामंशुभिः कुन्तलेषु
व्याकुर्वन्नन्धकारं हरतु हरशरोद्गारजन्मानलो वः ॥७९॥
जलचन्द्रस्य ।
चापं मुष्टिर्भवान्याः सरसिजमुकुलश्रीः कथं वा विधत्ते
प्रत्यालीढं कथं वा रचयतु मणिमन्नूपुरो वामपादः ।
इत्थं यावद्वितर्कं विदधति विबुधास्तावदग्रे य आसीद्
वाणाग्निः प्लुष्टदैत्यो मयपुरमथने धूर्जटेः सोऽवताद्नः ॥८०॥
१७. अष्टमूर्तिः
पयोदानां पन्थाः कवलविषयो वा परिमलं
वहन्बिभ्राणो वा सुहृदपसुहृद्वा जलरुहाम् ।
ददद्गृह्णानो वा हविरिति मुहुर्यस्य विबुधाः
स्तुवन्त्यष्टौ मूर्तीः स जगदवतादन्धकरिपुः ॥८१॥
श्रीहनूमतः ।
दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते
यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत।
यस्तत्पित्तमुषःसु योऽस्य विधये यस्तस्य जीवातवे
वोढा यद्गणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥८२॥
चित्तपस्य । (Kउवल्. १०५६)
मौलिं नेनोक्ति भालं तिलकयति तनोरङ्गरागं विधत्ते
धम्मिल्लं सन्दधाति प्रथयति शिरसि व्यक्तमुत्तंसलक्ष्मीम् ।
सम्प्रीणीते भुजङ्गानपनयति रसं वेत्ति संमोदमुद्रां
याभिः शृङ्गारबन्धस्तनुभिरिव शिवस्ताभिरस्तु श्रिये वः ॥८३॥
जलचन्द्रस्य ।
यां धम्मिल्लपदेऽभिषिञ्चति यया सन्ध्यासु बद्धाञ्जलिर्
यामायम्य यदात्मकानि नयनान्यामील्य यां ध्यायति ।
यां च स्यन्दनतां निनाय सहितस्ताभिः स्वयं मूर्तिभिर्
देवो विश्वतनुः पुनातु स जगच्चन्द्रार्धचूडामणिः ॥८४॥
सुधाकरस्य ।
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविष्यगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥८५॥
कालिदासस्य । (Sःअक्१.१)
१८. भैरवः
खट्वाङ्गीकृतधूमकेतुधटितप्रेताधिराट्पञ्जर
प्रोतब्रह्मशिरः कपालवलयं बिभ्रज्जटामण्डलम् ।
कण्ठे सप्तमहर्षिवक्त्ररचितामेकावलीमुद्वहन्
पायाद्वः सुलभव्रतोपकरणः कल्पान्तकापालिकः ॥८६॥
कस्यचित।
सद्यः प्रध्वस्तदेवासुरसरसशिरःश्रेणिशोणारविन्द
स्रग्दामानद्धमूर्तेर्घनरुधिरकणक्लिन्नचर्मांशुकस्य ।
निष्पर्यायत्रिलोकीभवकवलरसव्यात्तवक्त्रस्य जीयाद्
आनन्दः कालरात्रीकुचकलसपरीरम्भिणो भैरवस्य ॥८७॥
उमापतिधरस्य ।
वैकुण्ठस्य करङ्कमङ्कनिहितं स्रष्टुः कपालं करे
प्रत्यङ्गं च विभूषणं विरचितं नाकौकसां कीकसैः ।
भस्म स्थावरजङ्गमस्य जगतः शुभ्रं तनौ बिभ्रतः
कल्पान्तेषु कपालिनो विजयते रौद्रं कपालव्रतम् ॥८८॥
भवभूतेः ।
एकाम्भोधीकृतायां भुवि जगदखिलं निर्जनीकृत्य खेलन्
देवः कालीसहायः प्रसभविहरणोन्मुक्तलीलाट्टहासः ।
सद्यो दंष्ट्रांशुभिन्ने तमसि निजवपुर्बिम्बमालोक्य कस्त्वं
कस्त्वं ब्रूहीति कोपादभिदधदभयं भैरवश्चेष्टतां वः ॥८९॥
वैद्यगदाधरस्य ।
कल्पान्ते शयितत्रिविक्रममहाकङ्कालदन्ती स्फुरच्
छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः ।
विश्वैकार्णवतानितान्तमुदितौ तौ मत्स्यकूर्मावुभौ
कर्षन्धीवरतां गतोऽस्य तु महामोहं महाभैरवः ॥९०॥
चित्तपस्य । (सू.मु. २.२४)
१९. हरनृत्यारम्भः
आर्द्रां कण्ठे मुखाब्जस्रजमवनमयत्यम्बिका जानुलम्बां
स्थाने क्ट्वेन्दुलेखां निविडयति जटापन्नगेन्द्रेण नन्दी ।
कालः कृत्तिं निबध्नात्युपनयति करे कालरात्रिः कपालं
शम्भोर्नृत्यावतारे परिषदिति पृथग्व्यापृता वः पुनातु ॥९१॥
शतानन्दस्य । (सु.र. ७६, सू.मु. २.२९)
नन्दिन्खञ्जनमञ्जुनादमुरजं संगृह्य सज्जीभव
कुष्माण्डानय भस्मभाजनमितो लम्बोदरागम्यताम् ।
स्कन्दं नन्दय मन्दिरोदरगतं देवीति रङ्गाङ्गणे
शम्भोस्ताण्डवमण्डनैर्कमनसः संजल्पितं पातु वः ॥९२॥
योगेश्वरस्य ।
भो भो दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः
पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः ।
ब्रह्मन्नुन्नय दूरमात्मसदनं देवस्य नो नृत्यतः
शम्भोः संकटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥९३॥
तस्यैव । (सु.र. ७४, सू.मु. २.३०)
अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दुर्
गङ्गा गङ्गोरग उरग इत्याकुलाः सम्भ्रमेण ।
भूषादानोपकरणगणप्रापणव्यापृतानां
नृत्यारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् ॥९४॥
धनपालस्य । (स.क.आ. २.२३५, सू.मु. २.२७)
क्षोणि क्षोभं क्षमस्व त्वमपि कुरु महाकूर्म कर्म स्वकीयं
भो भोः कैलासमेरुप्रभृतिकुलधराधारिणो गच्छताधः ।
ब्रह्मन्नुद्गच्छ दूरं कुरुत जलधयः स्थैर्यमित्यष्टमूर्तेर्
भर्तुर्नृत्यावतारे सरभसगदिताः पान्तु वो नन्दिवाचः ॥९५॥
द्वैपायनस्य ।
२०. हरनृत्यं
भ्राम्यद्विश्वंभराणि भ्रमिचलननमत्कूर्मकुम्भीनसानि
त्रुष्ट्यत्ताराणि रिङ्गद्धरिणधरशिरःश्रेणीशीर्यद्दृषन्ति ।
दिक्कीरेओदञ्चदम्पि द्रवदमरचमूचक्रचञ्चद्वियन्ति
व्यस्यन्तु व्यापदं वस्त्रिपुरविजयिनस्ताण्डवारम्भणानि ॥९६॥
राजशेखरस्य ।
हेलापाद्रप्रतापान्नमदवनिभराक्रान्तकूर्मेशशेष
प्रोद्भूतश्वासवातोच्छलदुदधिपयोधौतसूर्येन्दुतारम् ।
भ्राम्यद्दोःसङ्घवेगापतदचलकुलध्वानसंत्रस्तविश्वं
त्रैलोक्यैश्वर्यकारि द्यतु तव दुरितं ताण्डवं चन्द्रमौलेः ॥९७॥
वाच्छोकस्य ।
उत्तानाः कति वेल्लिताः कति रयादाभुग्नमध्याः कति
क्षिप्तोत्क्षिप्तविकुञ्चिताः कति भुजास्तौर्यत्रिकानुक्रमात।
कल्पान्तेषु महानटस्य झटिति प्रक्रान्तचक्रभ्रमि
भ्रान्तौ केवलमग्निहासगरलैर्लेखात्रयं पातु वः ॥९८॥
सागरधरस्य ।
पायाद्वः सुरदीर्घिकाजलरयभ्राम्यज्जटामण्डली
वेगव्याकुलनागनायकफणाफूत्कारवातोच्छलम् ।
सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभोमण्डल
ग्रासत्रस्तसुराङ्गनाकलकलक्रीडाविलक्षो हरः ॥९९॥
ब्रह्महरेः । (सु.र. ६८, कर्कराजस्य)
सन्ध्याताण्डवडम्बरव्यसनिनो भीमस्य चण्डभ्रमि
व्यानृत्यद्भुजदण्डमण्डलभुवो झञ्झानिलाः पान्तु वः ।
येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम्
उड्डीनेषु विडौजसा पुनरसौ दम्भोलिरालोकितः ॥१००॥
कस्यचित। (सु.र. ५०, सू.मु. २.३१)
२१. हरप्रसादनम्
निःशङ्कं शङ्कर करग्रथिताहिभोग
भोगप्रद प्रदलितामरवैरिवृन्द ।
वृन्दारकार्चित चिताभसिताङ्गराग
रागातिदूर दुरितापहर प्रसीद ॥१०१॥
बाणस्य ।
करकलितपिनाक नाकनाथ
द्विषदुरुमानसशूल शूलपाणे ।
भव वृषभविमान मानशौण्ड
त्रिजगदकारणतारक प्रसीद ॥१०२॥
सञ्चाधरस्य ।
कटुविशिखशिखिप्रपञ्च पञ्चा
नन धनदप्रियमित्र मित्रनेत्र ।
धृतसकलविकल्प कल्पशेष
प्रकटमहानट नाटय प्रसादम् ॥१०३॥
तस्यैव ।
भव शिव शवभस्मगौर गौरी
ग्रथितशरीर सरीसृपोत्तरीय ।
स्मरहर हर भीम भीमभूत
प्रकरभयङ्कर शङ्कर प्रसीद ॥१०४॥
तस्यैव ।
धृतनिधनधनुः प्रचण्ड चण्डी
मुखकमलभ्रमरामराधिनाथ ।
हर रणरणकान्त कान्तमूर्ते
गगनदुकूल विकूलयापदं नः ॥१०५॥
तस्यैव ।
२२. गौरी
यानुद्धूलयतीश्वरः सिकतिला यैर्मौलिमन्दाकिनी
यैर्बालेन्दुकणार्द्रकेतकदलोत्सङ्गे परागायितम् ।
यैः कैलासविलासकाननतटीकङ्केल्लिपुष्पोद्गम
क्रीडाकार्मणमद्रिजाचरणयोस्ते रेणवः पान्तु वः ॥१०६॥
उमापतिधरस्य ।
लाक्षारागं हरति शिखराज्जाह्नवीवारि येषां
ये तत्वन्ति स्रजमधिजटामण्डलं मालतीनाम् ।
प्रत्युत्सर्पद्विमलकिरणैर्यैस्तिरोधानमिन्दोर्
देव्याः स्थाणौ चरणपतिते ते नखाः पान्तु विश्वम् ॥१०७॥
कस्यचित। (सु.र. ८१, दक्षस्य)
भवजलधिजलावलम्बयष्टिर्
महिषमहासुरशैलवज्रधारा ।
हरहृदयतडागराजहंसी
दिशतु शिवं भवतश्चिरम् ॥१०८॥
भगीरथदत्तस्य । (सु.र. ८६)
कां तपस्वी गतोऽवस्थामिति स्मेराविव स्तनौ ।
वन्दे गौरीघनाश्लेषभवभूतिसिताननौ ॥१०९॥
भवभूतेः ।
अभिमतफलसिद्धिसिद्धमन्त्रा
वलि बलिजित्परमेष्टिनोरुपास्ये ।
भगवति मदनारिनारि वन्दे
निखिलनगाधिपभर्तृदारिके त्वाम् ॥११०॥
वामदेवस्य ।
२३. विवाहसमयगौरी
गोनासाय वियोजितागदरजाः सर्पाय बद्धौषधिः
कण्ठस्थाय विषाय वीर्यमहतः पाणौ मणीन्बिभ्रती ।
भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा
रक्षत्वद्रिसुता विवाहसमये प्रीता च भीता च वः ॥१११॥
राजशेखरस्य । (वि.शा.भ. १.३, सु.र. १०२, सू.मु. २.३६)
प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनव्यस्तया
दृष्ट्वाग्रे परिणेतुरेव लिखितां गङ्गाधरस्याकृतिम् ।
उन्मादस्मितरोषलज्जितरसैर्गौर्या कथंचिच्चिराद्
वृद्धस्त्रीवचनात्प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ॥११२॥
भासस्य । (सु.र. ८८, शा.प. १०२, सू.मु. २.३७)
ब्रह्मायं विष्णुरेष त्रिदशपतिरसौ लोकपालास्तथैते
जामाता कोऽत्र योऽसौ भुजगपरिवृतो भस्मरूक्षः कपाली ।
हा वत्से वञ्चितासीत्यनभिमतवरप्रार्थनाव्रीडिताभिर्
देवीभिः शोच्यमानाप्युपचितपुलका श्रेयसे वोऽस्तु गौरी ॥११३॥
कस्यचित।
धूमव्याकुलदृष्टिरिन्दुकिरणैराह्लादिताक्षी पुनः
पश्यन्ती वरमुत्सुका नतमुखी भूयो ह्रिया ब्रह्मणः ।
सेर्ष्या पादनखाच्छदर्पणगतां गङ्गां दधाने हरे
स्पर्शादुत्पुलका करग्रहविधौ गौरी शिवायास्तु वः ॥११४॥
श्रीहर्षदेवस्य । (Pरियदर्शिका १.१)
पादाग्रे स्थितया मुहुः स्तनभरेणानीतया नम्रतां
शम्भोः सस्प्रृहलोचनत्रयपथं यान्त्या तदाराधने ।
ह्रीमत्या शिरसीहितः सपुलकस्वेदोद्गमोत्कम्पया
विश्लिष्यन्कुसुमाञ्जलिर्गिरिजया क्षिप्तोऽन्तरे पातु वः ॥११५॥
तस्यैव । (ऱत्नावलि १, सू.मु. २.३८)
२४. गौरीशृङ्गारः
स्वेदस्ते कथमीदृशः प्रियतमे त्वन्नेत्रवह्नेर्विभो
कस्मात्कम्पितमेतदिन्दुवदने भोगीन्द्रभीतेर्भव ।
रोमाञ्चः कथमेष देवि भगवन्गङ्गाम्भसां शीकर
इत्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः ॥११६॥
लक्ष्मीधरस्य । (सु.र. ७५, शा.प. १०४)
शम्भो सत्यमिदं पयोधिमथने लक्ष्म्या वृते केशवे
वैलक्ष्यात्किल काककूटमशितं पीतं विषं यत्त्वया ।
सत्यं पार्वति नास्ति नः सुभगता साक्षी तथा च स्मरो
देवेनेति कृतस्मृतिः स्मितमुखी गौरी चिरं पातु वः ॥११७॥
श्रीहर्षदेवस्य ।
चर्मालम्बिदुकूलवल्लरिचिताभस्मावधूतस्तनो
न्मीलच्चन्दनमुत्तरीयभुजगव्यासक्तमुक्तावलि ।
मुग्धाया अपि शैलराजदुहितुर्गङ्गाधारालिङ्गनं
गाढप्रेमरसानुबन्धनिकषग्रावा शिवायास्तु वः ॥११८॥
जलचन्द्रस्य ।
शिरसि कुटिला सिन्धुर्दोषाकरस्तव भूषणं
सह विषधरैः प्रत्यासन्ना पिशाचपरम्परा ।
हरसि न हर प्राणानेव न वेद कथं न्विति
प्रणयकुपितक्ष्माभृत्पुत्रीवचांसि पुनन्तु वः ॥११९॥
भगवद्गोविन्दस्य ।
नादत्ते फणिकङ्कणप्रणयिनं नीईवीनिवेशे करं
नो चूणैरुपहन्ति भालनयनज्योतिर्मयीं दीपिकाम् ।
धत्ते चर्म हरेण मुक्तमपि न द्वैपं भयादित्यसौ
पायाद्वो नवमोहनव्यतिकरव्रीडावती पार्वती ॥१२०॥
आचार्यगोपीकस्य ।
२५. दुर्गा
एकं महिषशिरःस्थितम्
अपरं सानन्दसुरगणप्रणतम् ।
गिरिदुहितुः पदयुगलं
शोणितमणिरागरञ्जितं जयति ॥१२१॥
जलचन्द्रस्य ।
त्रिभुवनशुभपञ्जिकाञ्जिकेव
स्फुरति भवानि तवाङ्कुशः कराग्रे ।
डमरुरपि बिभर्ति देवि तत्तद्
विपदवसानविसर्जनीयलक्ष्मीम् ॥१२२॥
हरेः ।
ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ
प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूर
लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१२३॥
अमरोः । (अमरु १; सु.र. १००)
पादावष्टम्भनम्रीकृतमहिषतनोरुल्लसद्बाहुमूलं
शूलं प्रोल्लासयन्त्याः सरलितवपुषो मध्यभागस्य देव्याः ।
विश्लिष्टस्पष्टदृष्टोन्नतविरलबहुव्यक्तगौरान्तरालास्
तिस्रो वः पान्तु रेखाः क्रमवशविकसत्कञ्चुकप्रान्तमुक्ताः ॥१२४॥
बाणस्य ।
विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे
जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।
वैकुण्ठे कुण्ठितास्ते महिषमतिरुषं पौरुषोपघ्निविघ्नं
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥१२५॥
तस्यैव ।
२६. काली
यद्वक्त्राकाशशेषो नभसि न सुलभो यद्भुजानां सहस्रैः
प्रेङ्खद्भिः कीर्यमाणास्वनुरपि विदितो नावकाशो दिशासु ।
पञ्च ग्रासा न यस्यास्त्रिभुवनमभवत्पूरणार्थंअ समस्तं
क्ष्ण्ड्त्क्षामाकाण्डचण्डी चिरमवतुतरां भैरवी कालरात्रिः ॥१२६॥
भासोकस्य ।
शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले
गले ताराहारस्तरलमुडुचक्रं च कुचयोः ।
तडित्काञ्ची सन्ध्यासिचयरचिता कालि तदयं
तवाकल्पः कल्पव्युपरमविधेयो विजयते ॥१२७॥
कस्यचित।
निर्मांसप्रकटास्थिजालविकटां पातालनिम्नोदरीं
कूपक्रोडगभीरनेत्रकुहरामुन्नद्धजूटाटवीम् ।
दन्तान्तर्गतदैत्यकीकसकणव्याकर्षणव्यापृत
क्रूरैकाग्रनखामखण्डितरुचं त्वां चण्डि वन्दामहे ॥१२८॥
कस्यचित।
तारान्तर्ज्वलदग्निलक्षनयनश्वभ्रान्तकृपान्तरां
क्रुद्दागस्त्यनिरस्तवारिधिपयःपातालनिम्नोदरीम् ।
वन्दे त्वामजितावृतोत्कटसिरापृष्ठास्थिसाराकृतिं
दंष्ट्राकोटितटोत्पतिष्णुदितिजासृक्चर्चितां चर्चिकाम् ॥१२९॥
उमापतिधरस्य ।
जयति तव कूणितेक्षणमश्नत्या दशनपेषमसुरास्थि ।
कल्पशिखिस्फुटदद्रिक्वाणकरालः कडत्कारः ॥१३०॥
शतानन्दस्य ।
२७. अर्धनारीशः
स जयति गिरिकन्यामिश्रिताश्चर्य्मूर्तिस्
त्रिपुरयुवतिलीलाविभ्रमभ्रंशहेतुः ।
उपचयवति यस्य प्रोन्नतैकस्तनत्वाद्
उपरि भुजगहारः स्थानवैषम्यमेति ॥१३१॥
माघस्य ।
आश्लेषाधरबिम्बचुम्बनसुखालापस्मितान्यासतां
दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनम् ।
इत्थं व्यर्थकृतैकदेहघटनाविन्यासयोरावयोः
केयं प्रीतिविदम्बनेत्यवतु वः स्मेरोऽर्धनारीश्वरः ॥१३२॥
कस्यचित। (Sव्६८)
चन्द्रालोकय पश्य पन्नगपते वीक्षध्वमेतद्गणाः
कामारेः स्तनभारमन्थरमुरो लाक्षारुणाङ्घ्रिश्रियः ।
आकर्ण्य त्रिदशापगागिरमिमां सोल्लासमाभाषितां
व्रीडास्मेरनताननो विजयते कान्तार्धनारीश्वरः ॥१३३॥
योगेश्वरस्य ।
स्वच्छन्दैकस्तनश्रीरुभयगतमिलन्मौलिचन्द्रः फणीन्द्र
प्राचीनावीतवाही सुखयतु भगवानर्धनारीश्वरो वः ।
यस्यार्धे विश्वदाहव्यसनविसृमरज्योतिरर्धं कृपोद्यद्
बाष्पं चान्योन्यवेगप्रहतिसिमसिमाकारि चक्ष्ण्ड्स्मृतीयम् ॥१३४॥
मुरारेः । (आर्७.३८, सू.मु. २.२१)
धम्मिल्लं च जटां च मौक्तिकसरं चाहिं च रत्नानि च
ब्रह्मास्थीनि च कुङ्कुमं च नृशिरश्चूर्णोत्तरं भस्म च ।
क्षौमं च द्विपचर्म चैकवपुषा बिभ्रद्दिशन्नेकतां
भावानामिव योगिनां दिशतु वः श्रेयोऽर्धनारीश्वरः ॥१३५॥
शङ्करदेवस्य ।
२८. शृङ्गारात्मकार्धनारीश्वरः
अर्धं दन्तच्छदस्य स्फुरति जपवशादर्धमप्युत्प्रकोपाद्
एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव ।
एकं ध्यानान्निमीलत्यपरमविकसद्वीक्षते नेत्रमित्थं
तुल्यानिच्छाविधित्सा तनुरवतु स वो यस्य संध्याविधाने ॥१३६॥
कस्यचित।
अच्छिन्नमेखलमलब्धदृढोपगूढं
अप्राप्तचुम्बनमवीक्षितवक्त्रकान्ति ।
कान्ताविमिश्रवपुषः कृतविप्रलम्भ
सम्भोगसख्यमिव पातु वपुः स्मरारेः ॥१३७॥
छित्तिपस्य ।
प्रौढप्रेमरसादभेदघटितामङ्गे दधानः प्रियां
देवः पातु जगन्ति केलिकलहे तस्याः प्रसादाय यः ।
व्याहर्तुं प्रणयोचितं नमयितुं मूर्धानमप्यक्षमो
धत्ते केवलमेव वामचरणाम्भोजे करं दक्षिणम् ॥१३८॥
गदाधरस्य ।
मिश्रीभूतां तव तनुलतां बिभ्रतो गौरि कामं
देवस्य स्यादविरलपरीरम्भजन्मा प्रमोदः ।
किन्तु प्रेमस्तिमितमधुरस्निग्धमुग्धा न दृष्टिर्
दृष्टेत्यन्तःकरणमसकृत्ताम्यति त्र्यम्बकस्य ॥१३९॥
भगीरथस्य । (सु.र. ८२)
अन्यस्यै संप्रतीयं कुरु मदनरिपो स्वाङ्गदानप्रसादं
नाहं सोढुं समर्था शिरसि सुरनदीं नापि संध्यां प्रणन्तुम् ।
इत्युक्त्वा कोपबिद्धां विघटयितुमुमामात्मदेहं प्रवृत्तां
रुन्धानः पातु शम्भोः कुचकलसहठस्पर्शकृष्टो भुजो वः ॥१४०॥
मयूरस्य ।
२९. गणेशः
एकः स एव परिपालयताज्जगन्ति
गौरीगिरीशचरितानुकृतिं दधानः ।
आभाति यो दशनशून्यमुखैकदेश
देहार्धहारितवधूक इवकदन्तः ॥१४१॥
वसुकल्पस्य । (सु.र. ९४)
कपोलादुड्डीनैर्भयवशविलोलैर्मधुकरैर्
मदाम्भःसंलोभादुपरि पतितुं बद्धपटलैः ।
चलद्बर्हच्छत्रश्रियमिव दधानोऽतिरुचिराम्
अविघ्नं हेरम्बो जगदघविघ्âतं घटयतु ॥१४२॥
तस्यैव । (सु.र. ९३)
सन्ध्यासिन्दूररागारुणगगनतलासङ्गिगङ्गोत्तमाङ्ग
त्वङ्गन्नक्षत्रमालाकृतरुचिररुचिः कर्णशंखीकृतेन्दुः ।
निस्तोयऽम्भोदवृन्दैः श्रुतियुगलचलच्चामराडम्बरश्रीर्
अव्याजालङ्कृतिर्वः प्रवितरतु गणग्रामणीर्मङ्गलानि ॥१४३॥
दङ्कस्य ।
गर्जद्गभीरघनघर्घरघोरघोष
दिग्दन्तिभीतिजननोद्गतकण्ठनादः ।
धुन्वन्मुखं तव निरस्यतु सर्वविघ्नं
लम्बोदरः सहजनाठ्यरसप्रवृत्तः ॥१४४॥
पापाकस्य ।
देवेन्द्रमौलिमन्दारमकरन्दकणारुणाः ।
विघ्नं हरन्तु हेरम्बचरणाम्बुजरेणवः ॥१४५॥
उमापतिधरस्य ॥
३०. कार्त्तिकेयः
स्वेच्छारम्यं लुठित्वा पितुरुरसि चिरं भस्मधूलीचिताङ्गो
गङ्गावारिण्यगाधे झटिति हरजटाजूटतो दत्तझम्पः ।
सद्यः सीत्कारकारी जलजडिमरणहन्तपङ्क्तिर्गुहो वः
कम्पी पायादपायाज्ज्वलितशिखिशिखे चक्षुषि न्यस्तहस्तः ॥१४६॥
बाणस्य । (सु.र. ९१, सू.मु. २.४३)
अर्चिष्मन्ति विदार्य वक्त्रकुहराण्यासृक्कतो वासुकेस्
तर्जन्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान।
एकं त्रीणि नवाष्ट सप्त षडतिव्यस्तास्तसङ्ख्याक्रमा
वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् ॥१४७॥
कस्यचित। (सु.र. ९५, शा.प. १०५)
सुप्तं पक्षपुटे निलीनशिरसं सृष्ट्वा मयूरं पुरः
कृत्तं केन शिरोऽस्य तात कथमित्याक्रन्दतः शैशवात।
अन्तर्हासपिनाकिपाणियुगलस्फालोल्लसच्चेतसस्
तन्मूर्धेक्षणहर्षितस्य हसितं पायात्कुमारस्य वः ॥१४८॥
कस्यचित। (सु.र. ९६)
हंसश्रेणिकुतूहलेन कलयन्भूषाकपालावलीं
बालामिन्दुकलां मृणालरभसादान्दोलयन्पाणिना ।
रक्ताम्भोजधिया च लोचनपुटं लालाटमुद्घाटयन्
पायाद्वः पितुरङ्कभाक्शिशुजनक्रीडोन्मुखः षण्मुखः ॥१४९॥
बलभद्रस्य । (सु.र. ९२)
नालैर्नीलोत्पलानां रचितगुरुजटाजूटविन्यासशोभः
कृत्वा संभुग्नकोटिद्वयमथ विसिनीकन्दमिन्दोः प्रदेशे ।
मातुश्चित्रांशुकेन त्वचमुचितपदे पौण्डरीकीं विधाय
क्रीडारुद्रायमाणो जगदवतु गुहो वीक्ष्यमाणः पितृभ्याम् ॥१५०॥
हलायुधस्य ।
३१. भृङ्गी
दिग्वासा यदि तत्किमस्य धनुषा सास्त्रस्य किं भस्मना
भस्माथास्य किमङ्गना यदि च सा कामं परिद्वेष्टि किम् ।
इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो
भृङ्गी सान्द्रशिरावनद्धपरुषं धत्तेऽस्थिशेषं वपुः ॥१५१॥
योगेश्वरस्य (सु.र. १०३, Sव्२३९९)
कस्मात्त्वं तात गेहादपरमभिनवा ब्रूहि का तत्र वार्ता
देव्या देवो जितः किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान।
इत्येवं बर्हिनाथे कथयति सहसा भर्तृभिक्षा विभूषा
वैगुण्योद्वेगजन्मा जगदवतु चिरं हारवो भृङ्गिरीटेः ॥१५२॥
तुङ्गोकस्य । (सु.र. ९८)
चर्चेयं क्षुधिता सदैव गृहिणी पुत्रोऽप्ययं षण्मुखो
दुष्पूरोदरभारमन्थरवपुर्लम्बोदरोऽपि स्वयम् ।
इत्येवं स्वकुटुम्बमेकवृषभो देवः कथं पोक्षतीत्य्
आलोक्येव विशुष्कपञ्जरतनुर्भृङ्गी चिरं पातु वः ॥१५३॥
नीलाङ्गस्य ।
भिक्षाभोजिनि कृत्तिवाससि वसुप्राप्तिः कुतः स्यादिति
प्रागर्धं वपुषः स्वयं व्यसनिनो यस्याहरत्पार्वती ।
तस्यार्धं कुपिता हठाद्यदि हरेन्मूर्ध्नि स्थिता जाह्नवी
हा नाथ क्व तदेति दुःस्थहृदयो भृङ्गी भृशं शुष्यति ॥१५४॥
भवानन्दस्य ।
सेवां नो कुरुते करोति न कृषिं वाणिज्यमस्यास्ति नो
पैत्र्यं नास्ति धनं न बान्धवबलं नैवास्ति कश्चिद्गणः ।
द्यूतस्त्रीव्यसनं न मुञ्चति तथापीशस्तदस्मात्फलं
किं मे स्यादिति चिन्तयन्निव कृशो भ्ङ्गी चिरं पातु वः ॥१५५॥
कस्यचित।
३२. गणोच्चावचम्
स्थूलो दूरमयं न यास्यति कृशो नैष प्रयाणक्षमस्
तेनैकस्य ममैव तत्र कशिपुप्राप्तिः परं दृश्यते ।
इत्यादौ परिचिन्तितं प्रतिमुहुस्तद्भृङ्गिकूष्माण्डयोर्
अन्योन्यप्रतिकूलमीशशिवयोः पाणिग्रहे पातु वः ॥१५६॥
कस्यचित। (सु.र. ९९)
चर्चायाः कथमेव रक्षति सदा सद्यो नृमुण्डस्रजं
चण्डीकेशरिणो वृषं च भुजगान्सूनोर्मयूरादपि ।
इत्यन्तःपरिभावयन्भगवतो दीर्घं धियः कौशलं
कूष्माण्डो धृतिसम्भृतामनुदिनं पुष्णाति तुन्दश्रियम् ॥१५७॥
कस्यचित। (सु.र. ९७)
देवी सूनुमसूत नृत्यत गणाः किं तिष्ठतेत्युद्भुजे
हर्षाद्भृङ्गरिटावयाचितगिरा चामुण्डयालिङ्गिते ।
अव्याद्वो हतदुन्दुभिस्वनघनध्वानातिरिक्तस्तयोर्
अन्योन्यप्रचलास्थित्पञ्जररणत्कङ्कालजन्मा रवः ॥१५८॥
योगेश्वरस्य । (सु.र. ७१, सू.मु. २.५५)
शृङ्गं भृङ्गिन्विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं
मन्दानन्दोऽसि नन्दिन्नलमबल महाकाल कण्ठग्रहेण ।
इत्युक्त्वा नीयमानः सुखयतु वृषभः पार्वतीपादमूले
पश्यन्नक्षैर्विलक्षं वलितगलचलत्कम्बलं त्र्यम्बकं वः ॥१५९॥
अभिनन्दस्य । (सु.र. ७७)
दिग्वासा वृषवाहनो नरशिरोधारी दधानोऽजिनं
भिक्षुर्भस्मभुजङ्गभूषिततनुर्भूतैर्भ्रमन्काननम् ।
स्मर्त्èणां शिवकृत्तथापि जगति ज्येष्ठोऽस्मदीयः प्रभुर्
धन्योऽस्मीत्यतितोषपुष्टजठरः कूष्माण्डकोऽव्याज्जगत॥१६०॥
महानिधेः ।
३३. हरिहरौ
यद्बद्धार्धजटं यदर्धमुकुटं यच्चन्द्रमन्दारयोर्
धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः ।
तत्खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर्
वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नामाङ्कमेकं वपुः ॥१६१॥
राजशेखरस्य । (सु.र. १६३९)
नियमितजटावल्लीलीलाप्रसुप्तमहोरगं
चरणकमलप्रान्ते मुक्तस्वविक्रमगोवृषम् ।
विततफणिभुक्पत्रच्छत्रं गदालगुडश्रियं
हरिहरवपुर्ब्रह्मोपास्यं पुनातु जगत्त्रयम् ॥१६२॥
भवानन्दस्य ।
येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः ।
यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
सोऽव्यादिष्टभुजङ्गहारवलयस्तां सर्वदो माधवः ॥१६३॥
भारवेः । (Sव्४४, सू.मु. २.१०४, Sआह्.द्. १०.१२)
एकावस्थितिरस्तु वः पुरमुरप्रद्वेषिणोर्देवयोः
प्रालेयाञ्जनशैलशृङ्गसुभगच्छायाङ्गयोः श्रेयसे ।
तार्क्ष्यत्रासविहस्तपन्नगफटा यस्यां जटापालयो
बालेन्दुद्युतिकोशसुप्तजलजो यस्यां च नाभीह्रदः ॥१६४॥
तुङ्गोकस्य ।
यज्जम्बूकम्बुरोचिः फणधरपरिषद्भोजिभोगीन्द्रकान्तं
नन्दच्चन्द्रारविन्दद्युतिचरणशिरःस्यन्दिमन्दाकिनीकं ।
रक्षासंहारदक्षं मदनसमुदयोद्दीपनं शश्वदव्याद्
अव्याघातं विबोधेऽप्युदधिगिरिसुताकान्तयोर्देहमेकम् ॥१६५॥
जलचन्द्रस्य ।
३४. कान्तासहितहरिहरौ
सम्भोगस्पृहयालुमन्मथपुनर्जन्मास्पदं भूर्भुवः
स्वः पायात्पुरुषोत्तमक्रतुभिदोरर्धार्धपूर्णं वपुः ।
यल्लक्ष्मीगिरिजाकटाक्षकुटिलक्रीडाहठाकृष्टिभिः
स्यादेव त्रुटितं परस्परगुणस्यूतं न चेदन्तरा ॥१६६॥
त्रिपुरारिपालस्य ।
वपुरवतु जटाकिरीटमिश्रं
पुरमुरसूदनयोर्विमिश्रितं वः ।
गिरिजलघिसुतास्वभर्तृकण्ठ
ग्रहचलिताहृतबाहुवल्लरीकम् ॥१६७॥
तस्यैव ।
स्फटिकमरकतश्रीहारिणोः प्रीतियोगात्
तदवतु वपुरेकं कामकंसद्विषोर्वः ।
न विरमति भवान्याः सार्धमब्धेर्दुहित्रा
सदृशमहसि कण्ठे यत्र सीमाविवादः ॥१६८॥
योगेश्वरस्य । (शा.प. ११०, सू.मु. २.१०३)
देवस्यैकतमालपत्रमुकुटस्यार्धं पुरद्वेषिणो
देहार्धेन समस्यमानमसमं श्वःश्रेयसायास्तु वः ।
यस्मिन्भूधरकन्यकाब्धिसुतयोरप्राप्तसम्भोगयोर्
अन्योन्यप्रतिकर्मनर्मभिदुरो भूयाननङ्गज्वरः ॥१६९॥
हरेः ।
धात्रा सौहृदसीमविस्मितमुखं भेदभ्रमापासनात्
सानन्दं मुनिभिः सनिर्वृति सुरैरेकत्र सेवासुखात।
पार्वत्या स्वपदावकृष्टिकुटिलभ्रूभङ्गमालोकितः
पायाद्वो भगवांश्चराचरगुरुर्देहार्धहारी हरः ॥१७०॥
आर्याविलासस्य ।
३५. गङ्गा
ब्राह्मं तेजो द्विजानां ज्वलयति जडिमप्रक्रमं हन्ति बुद्धेर्
वृद्धिं सेकेन सद्यः शमयति वलिनो दुष्कृतानोकहस्य ।
ऊर्ध्वं चैवात्र लोकादपि नयतितरां जन्मिनो मग्नमूर्तींस्
त्वद्धारावारि काशीप्रणयिनि परितः प्रक्रिया कीदृशीयम् ॥१७१॥
कोलाहलस्य ।
दुर्वारदोषतिमिरागमवासरश्रीः
कैवल्यकैरवविकाससितांशुलेखा ।
जीयात्त्रिविष्टपधुनी कलिकालभग्न
गीर्वाणराजनगराकरवैजयन्ती ॥१७२॥
ग्रहेश्वरस्य ।
तीर्थाटनैः किमधिकं क्षणमीक्षिता चेत्
पीतं त्वदम्बु यदि देवि मुधा सुधापि ।
स्नातं यदि त्वयि विरिञ्चिपदं न दूरे
मुक्तिः करे यदि च सा समुपासितासि ॥१७३॥
विरिञ्चेः ।
तीरं तवावतरतीह यथा यथैव
देहेन देवि जरता मुनजो मुमूर्षुः ।
अम्ब स्वयंवरवशंवदनाकनारी
दोर्वल्लिपल्लवि नभोऽपि तथा तथैव ॥१७४॥
तस्यैव ।
तप्तं यन्न तपो हुतं च न हविर्यज्जातवेदो मुखे
दत्तं यच्च न किंचिदेव न कृतो यत्तीर्थयात्रादरः ।
काकेनेव शुनेव केवलमयं यत्पूरितः पुद्गलो
मातस्त्वां परिरभ्य जाह्नवि स मे शान्तोऽयमन्तर्ज्वरः ॥१७५॥
सेन्तुतस्य ।
३६. गङ्गाप्रशंसा
धर्मस्योत्सववैजयन्तिमुकुटस्रग्वेणिगौरीपतेस्
त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये ।
त्वत्तोयान्तशिलानिषण्णवपुषस्त्वद्वीचिभिः प्रेङ्खतस्
त्वन्नाम स्मरतस्तदर्पितदृशः प्राणाः प्रयास्यन्ति मे ॥१७६॥
लक्ष्मीधरस्य । (सु.र. १६१३, स.क.आ. ४.१८३)
शत्रौ मे सुहृदीव काप्युपकृतिर्भूयादसूया न तु
स्वाच्छ्यं सत्सु मतिर्जनेषु करुणा हीना न दीनात्मसु ।
प्रक्षीणा कलिकल्मषक्षयकरी तृष्णा न कृष्णार्चने
देवि श्रद्दधतां गतिस्त्वयि मुदा मन्दा न मन्दाकिनि ॥१७७॥
तस्यैव ।
प्रसीद श्रीगङ्गे मृडमुकुटचूडाग्रसुभगे
तवोल्लोलोन्मूलः स्खलतु मम संसारविटपी ।
अथोत्पत्स्ये भूयस्त्रिजगदधिराजोऽपि न तदा
श्वपाकः काको वा भगवति भवेयं तव तटे ॥१७८॥
पादुकस्य ।
कदा ते सानन्दं विततनवदूर्वाञ्चिततटी
कुटीरे तीरे वा सवनमनु मन्वादिकथितैः ।
कथाबन्धैरन्धङ्करणकरणग्रामनियमाद्
यमादुज्झन्भीतिं भगवति भवेयं प्रमुदितः ॥१७९॥
गोपीचन्द्रस्य ।
बद्धाञ्जलिर्नौमि कुरु प्रसादम्
अपूर्वमाता भव देवि गङ्गे ।
अन्ते वयस्यङ्गगताय मह्यम्
अदेहबन्धाय पयः प्रयच्छ ॥१८०॥
केवट्टपपीपस्य ।
३७. हरेर्मत्स्यावतारः
मत्स्यः पुनातु जगदोङ्कृतिकुञ्चितास्यो
ब्रह्माद्वयप्रणयपीवरमध्यभागः ।
क्रीडन्नसौ जलधिवीचिभिरेव नेति
नेत्यादरादिव विभावितपुच्छकम्पः ॥१८१॥
आवन्त्यकृष्णस्य ।
देव्याः श्रुतेर्दनुजदुर्णयदूषिताया
भूयःसमुद्गमविधाववलम्बभूमिः ।
एकार्णवीभवदशेषपयोधिमध्य
द्वीपं वपुर्जयति मीनतनोर्मुरारेः ॥१८२॥
उमापतिधरस्य ।
ब्रह्माण्डोदरदर्पणे भ्रमिरयोत्क्षिप्ताम्बुधिक्षालिते
संक्रान्तामनिमेषलोचनयुगेनोत्पश्यतः स्वां तनुम् ।
शौरेर्मीनतनोः कृशानुकपिशं पार्श्वद्वयं प्रोल्लसच्
चन्द्रार्काङ्कितकाञ्चनाद्रिशिखराकारं शिरः पातु वः ॥१८३॥
वसन्तदेवस्य ।
पातु त्रीणि जगन्ति पार्श्वकषणप्रक्षुण्णदिङ्मण्डलो
नैकाब्धिस्तिमितोदरः स भगवान्क्रीडाझषः केशवः ।
त्वङ्गन्निष्ठुरपृष्ठरोमखचितब्रह्माण्डभाण्डावधेर्
यस्योत्फालकुतूहलेन कथमप्यङ्गेषु जीर्णायितम् ॥१८४॥
रघुनन्दस्य । (सु.र. १३५)
मत्स्यः पुच्छाभिघातेन तुच्छीकृतमहोदधिः ।
अपर्याप्तजलक्रीडारसो दिशतु वः शिवम् ॥१८५॥
कस्यचित।
३८. कूर्मः
पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्
निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।
यत्संस्कारकलानुवर्तनवशाद्वेलाछलेनाम्भसां
यातायातमयन्त्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥१८६॥
केशटाचार्यस्य । (भ्P १२.१३.२; सु.र. १०५, वाक्पतिराजस्य; Sव्३६)
क्षीराब्धौ मथ्यमाने त्रिदशदनुसुतोन्मुक्तकोलाहलौघे
ब्रह्माण्डकाण्डचण्डस्फुटनगुरुरवभ्रान्तिभाजित्रिलोक्याम् ।
सद्यो निर्दावबोधादुपरि रयवशक्षिप्तदीर्घक्षितिधा
लग्नग्रीवाप्रकाण्डो जयति कमठराट्चण्डविष्कम्भतुल्यः ॥१८७॥
वसुसेनस्य ।
पायाद्वो मन्दराद्रिभ्रमणनिकषणाकृष्टपृष्ठाग्रकण्डू
लीनानिद्रालुरब्धेः क्षुभितमगणयन्नद्भुतः कूर्मराजः ।
यस्याङ्गमर्दहेलावशचलितमहाशैलकीला धरित्री
त्वङ्गत्कल्लोलरत्नाकरवलयचलन्मेखला नृत्यतीव ॥१८८॥
सूरेः ।
पार्श्वास्फालातिवेगाज्झगिति च विरहादुच्छलद्भिः पतद्भिर्
भूयो भूयः समुद्रैर्मिहिरमतिरयादापिबद्भिर्वमद्भिः ।
कोटीरस्तोयदानां क्षणमिव गगने दर्शयन्वः पुनीताद्
प्षद्गात्रावहेलाचलितवसुमतीमण्डलः कूर्मराजः ॥१८९॥
धरणीधरस्य ।
कुर्मः कूर्माकृतये हरये मुक्तावलम्बनाय नमः ।
पृष्ठे यस्य निषण्णं शैवलवल्लीसमं विश्वम् ॥१९०॥
भवानन्दस्य ।
३९. वराहः
दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः
सिन्धुष्वङ्गावगाहः खुरकुहरविशत्तोयतुच्छेषु नाप्तः ।
प्राप्ताः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते
येनोद्धारे धरित्र्याः स जयति विभुताबृंहितेच्छो वराहः ॥१९१॥
वराहमिहिरस्य । (सु.र. १३४)
अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थली
देवः सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदयः ।
क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्
भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥१९२॥
नग्नस्य । (सु.र. १०४)
सेयं चन्द्रकलेति नागवन्तिआनेत्रोत्पलैरर्चिता
मद्भारापगमक्षमेति फणिना सानन्दमालोकिता ।
दिङ्नागैः सरलीकृतायतकरैः स्पृष्टा मृणालाशया
भित्त्वोर्वीमभिनिःसृता मधुरिपोर्दंष्ट्रा चिरं पातु वः ॥१९३॥
केशवस्य ।
घोणाघोराभिधातोच्छलदुदधिजलासारसिक्ताग्ररोमा
रोमाग्रप्रोततारानिकर इति सुरैर्धीरमालोकितो वः ।
श्वासाकृष्टावकृष्टप्रविशदपसरद्बुध्नबिम्बानुबन्धाद्
आविर्नक्तं दिनश्रीः स दिशतु दुरितध्वंसमाद्यो वराहः ॥१९४॥
नरसिंहस्य ।
येनाधोमुखपद्मिनीदलधिया कूर्मश्चिरं वीक्षितो
घ्रातो येन मृणालमुग्धलतिकाबुद्ध्या फणिग्रामणीः ।
यः शालूकमिवोद्दधार धरणीबिम्बं पुनीतादसौ
त्वामेकार्णवपल्वलैकरसिकः क्रीडावराहो हरिः ॥१९५॥
कस्यचित।
४०. नरसिंहः
सोमार्धायितनिष्पिधानदशनः सन्ध्यायितान्तर्मुखो
बालार्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः ।
अन्तर्नादगभीरपल्वलगलत्वग्रूपनिर्यत्तडित्
तारस्फारसटावरुद्धगगनः पायान्नृसिंहो जगत॥१९६॥
मुरारेः ।
चटच्चटिनि चर्मणि च्छमिति चोच्छलच्छोणिते
धगद्धगिति मेदसि स्फुटतरोऽस्थिषु ष्ठादिति ।
पुनातु भवतो हरेरमरवैरिनाथोरसि
क्वणत्करजपञ्जरक्रकचकाषजन्मा रवः ॥१९७॥
वाक्पतिराजस्य । (सु.र. ११६, शा.प. १२६, सू.मु. २.७७)
प्रेङ्खद्भास्वरकेशरौघरचितत्रैलोक्यसन्ध्यातपो
ब्रह्माण्डोदररोधिघर्घरसघूत्कारप्रचण्डध्वनिः ।
स्फूर्जद्वज्रकठोरनखरक्षुण्णासुरोरःस्थली
रक्तास्वादविदीर्णदीर्घरसनः पायान्नृसिंहो जगत॥१९८॥
तस्यैव ।
चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय
भो भो नन्दक जीव पन्नगरिपो किं नाथ भिन्नो मया ।
को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे
केनास्त्रेण नखैरिति प्रवदतः शौरेर्गिरः पान्तु वः ॥१९९॥
केशटस्य ।
किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो
नैवं धिक्कोऽत्र जीव द्रुतमुपनय तं सोऽपि सम्प्राप्त एव ।
चापं चापं न खड्गं झटिति हहहहा कर्कशत्वं नखानाम्
इत्येवं दैत्यराजं निजनखकुलिशैर्जघ्निवान्सोऽवताद्वः ॥२००॥
श्रीव्यासपादानाम् । (सु.र. १२८, सू.मु. २.७६)
४१. नरसिंहनखाः
दंष्ट्रासङ्कटवक्त्रघर्घरललज्जिह्वाभृतो हव्यभुग्
ज्वालाभास्वरभूरिकेशरसटाभारस्य दैत्यद्रुहः ।
व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलीपाटन
स्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः ॥२०१॥
दक्षस्य । (सु.र. १४१)
ये बालेन्दुकलार्धविभ्रमभृतो मायानृसिंहाकृतेर्
निर्याता इव ये सिरासरणिभिर्नाभ्यब्जकन्दाङ्कुराः ।
ते वक्षःस्थलदारितासुरसरित्कीलालधारारुणाः
पायासुर्नवकिंशुकाम्रमुकुलश्रीसाक्षिणः पाणिजाः ॥२०२॥
वराहस्य ।
अस्रस्रोतस्तरङ्गभ्रमिषु तरलिता मांसपङ्क्ते लुठन्तः
स्थूलास्थिभङ्गैर्धवलविसलताग्रासमाकल्पयन्तः ।
मायासिंहस्य शौरेः स्फुरदरुणहृदम्भोजसंश्लेषभाजः
पायासुर्दैत्यवक्षःस्थलकुहरसरोराजहंसा नखा वः ॥२०३॥
मयूरस्य ।
पुनन्तु भुवनत्रयं दलितदैत्यवक्षःस्थल
प्रसर्पिरुधिरच्छटाच्छुरणबालसूर्यत्विषः ।
दृढास्थिचयचूर्णनाघटितशब्दसारा हरेर्
नृसिंहवपुषश्चिरं पिशितपिण्डगर्भा नखाः ॥२०४॥
धूर्जटिराजस्य ।
जयन्ति निर्दारितदैत्यवक्षसो
नृसिंहरूपस्य हरेर्नखाङ्कुराः ।
विचिन्त्य येषां चरितं सुरारयः
प्रियानखेभ्योऽपि रतेषु बिभ्यति ॥२०५॥
कस्यचित्(सु.र. १३०)
४२. शृङ्गारिनरसिंहः
लक्ष्मीमुरःपरिसरे वहतः सलीलं
योगासनं च चरतो नृहरेर्जयन्ति ।
एकक्षणोपनतमान्मथभावमुग्ध
स्वात्मावबोधमसृणानि विलोकितानि ॥२०६॥
कस्यचित।
न्यञ्चत्केसरमुत्तरङ्गपुलकस्रङ्नद्धमर्धस्खलद्
द्वन्द्वालापमपास्तगर्जनमटद्भ्रूभङ्गमार्द्रेक्षणम् ।
स्विद्यत्पाणि विनीतदृप्तिकरजं पायान्नृसिंहाकृतेर्
देवस्य श्रियमङ्कसीम्नि दधतो विश्रान्तरौद्रं वपुः ॥२०७॥
वैद्यगदाधरस्य ।
स्वच्छन्दं वैरिवक्षःस्थलकुलिशभिदो वीक्ष्य कन्दर्पचाप
क्रीडाभाजो नखाग्रान्समसमयभयानन्दलोलायताक्ष्याः ।
लक्ष्म्या वक्षोजकुम्भं करिकलभशिरःशङ्कया वीक्ष्यमाणः
स्वैरं शान्ताक्षिरागो जयति नरहरिर्जातचित्तानुरागः ॥२०८॥
जलचन्द्रस्य ।
अव्याद्वो वज्रसारस्फुरदुरुनखरक्रूरचक्रक्रमाग्र
प्रोद्भिन्नेन्द्रारिवक्षःस्थलगलदसृगासारकाश्मीरगौरः ।
प्रस्फूर्जत्केशराग्रग्रथितजलधरश्रेणिनीलाब्जमाल्यः
सूर्याचन्द्रावतंसो नरहरिरसमाबद्धशृङ्गारलीलः ॥२०९॥
प्रजापतेः ।
आनन्दमुग्धनयनां श्रियमङ्कभित्तौ
बिभ्रत्पुनातु भवतो भगवान्नृसिंहः ।
यस्यावलोकनविलासवशादिवासीद्
उत्सन्नलाञ्छनमृगः कमलामुखेन्दुः ॥२१०॥
उमापतिधरस्य ।
४३. वामनः
इदं प्रायो लोके न परिचितपूर्वं नयनयोर्
न याच्ञा यत्पुंसः सुगुणपरिमाणं लघयति ।
विशद्भिर्विश्वात्मा स्ववपुषि बलिप्रार्थनकृते
त्रपालीनैरङ्गैर्यदयमभवद्वामनतनुः ॥२११॥
वङ्कस्य ।
अपसर पृथिवि समुद्राः संवृणुताम्बूनि भूभृतो नमत ।
वामनहरिलघुतुन्दे जगतीकलहः स वः पातु ॥२१२॥
भवानन्दस्य ।
कुतस्त्वमणुकः स्वतः स्वमिति किं न यत्कस्यचित्
किमिच्छसि पदत्रयं ननु भुवा किमित्यल्पया ।
द्विजस्य शमिनो मम त्रिभुवनं तदित्याशयो
हरेर्जयति निह्नुतः प्रकटितश्च वक्रोक्तिभिः ॥२१३॥
वाक्पतेः । (सु.र. ११४)
पूज्यो ब्रह्मविदां त्वमेव विमलज्ञानैकपात्रं भवान्
मद्भाग्येन गतोऽतिथित्वमधुना किं ते त्रिभिर्भूपदैः ।
त्रैलोक्यं भवतं स्वमित्युपगतो दैत्येश्वरेणादराज्
ज्ञातोऽस्मीति सलज्जनम्रवदनः पायाज्जगद्वामनः ॥२१४॥
वसुसेनस्य ।
लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः ।
बलिरेष स येनास्य भिक्षापात्रीकृतः करः ॥२१५॥
गणाध्यक्षस्य । (शा.प. २७८)
४४. त्रिविक्रमः
किं छत्रं किं नु रत्नं तिलकमथ तथा कुण्डलं कौस्तुभो वा
चक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्बलिध्वंसि देहे ।
ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं
पायात्तद्वोऽर्कबिम्बं स च दनुजरिपुर्वर्धमानः क्रमेण ॥२१६॥
श्रीहनूमतः ।
ज्योतिश्चक्राक्षदण्डः क्षरदमरसरित्पट्टिका केतुदण्डः
क्षोणीनौकूपदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः ।
ब्रह्माण्डच्छत्र दण्डस्त्रिभुवनस्तम्भदण्डोङ्घ्रिदण्डः
श्रेयस्त्रिविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥२१७॥
दण्डिनः ।
चञ्चत्पादनखाग्रमण्डलरुचिप्रस्यनिगङ्गाजलो
विस्फूर्जद्बलिराज्यनाशपिशुनोत्पाताम्बुवाहद्युतिः ।
पातु त्वां चरणो हरेः क्रमविधौ यस्याधिकं द्योतते
दूरादङ्गुलिमुद्रिकामणिरिव स्फाराङ्कुशजालो रविः ॥२१८॥
विक्रमादित्यस्य ।
यत्काण्डं गगनद्रुमस्य यदपि क्षोणीतडागोदरे
देवस्यैव यशोऽम्बुशोभिनि महायष्टिः प्रतिष्ठाकरी ।
तद्विष्णोः पदमन्तरालजलधेराधारतो भूतलात्
पारं द्यामुपगन्तुमुद्यमवतां सेतूभवत्पातु वः ॥२१९॥
चक्रपाणेः ।
खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभं
निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामएध्वनि ।
पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितं
पायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः ॥२२०॥
वाक्पतिराजस्य । (सु.र. १२४)
४५. परशुरामः
दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यत्रैवाविरभूत्कथाद्भुतमिदं यत्रैव चास्तंगतम् ॥२२१॥
केशटस्य ।
हा तातेति न जल्पितं न रुदितं न स्वीकृतं तद्धनं
न स्नातं न च वीक्षितः परिजनः पित्रे न दत्तं जलम् ।
यावन्न क्रकचाभिघातविगलद्दाम्नामरीणामसृग्
गण्डूषैर्घनघोरघर्घररवाः सन्तर्पिताः फेरवः ॥२२२॥
तस्यैव ।
शौर्यं शत्रुकुलक्षयावधि यशो ब्रह्माण्डखण्डावधि
त्यागः सप्तसमुद्रमुद्रितमहीनिर्वाजदानावधिः ।
व्र्यं यन्तु गिरां न तत्पथि ननु व्यक्तं हि तत्कर्मभिः
सत्यं ब्रह्मतपोनिधेर्भगवतः किं किं न लोकोत्तरम् ॥२२३॥
भवभूतेः ।
गोत्राचारविशेषपारगतया वृद्धाभिरादिष्टया
मात्रा वस्तुषु तेषु तेषु विशदन्यस्तेषु दृष्टेः पुरः ।
अन्नप्राशनवासरे सरभसं वक्षोभरोत्सर्पिणा
येनात्तं धनुरीक्षिताश्च झटिति क्षत्रावतंसा दिशः ॥२२४॥
केशटस्य ।
त्रिःसप्तावधि वाधिता क्षितिभुजामाजन्म वैखानसः
कर्ता मातृवधैनसः स सकलश्रुत्यर्थवीथीगुरुः ।
विश्वस्याश्च भुवः क्रतौ वितरिता श्यामकमुष्टिंपचो
रामः सोऽयमुदग्रगेयमहिमा कासां गिरां गोचरः ॥२२५॥
कस्यचित।
४६. श्रीरामः
शौर्योत्कर्षतृणीकृतत्रिभुवनो लङ्कापतिः सोऽभवत्
कारायामुपवासयन्विजयते तं हेलया हैहयः ।
लीलालूनविशालतद्भुजवनोऽभूज्जामदग्न्यस्ततस्
तज्जेता जनकात्मजापरिवृढो रामः कथं वर्ण्यताम् ॥२२६॥
सुरभेः ।
रामः कस्य न विस्मयाय मनसो निःशङ्कलङ्केश्वर
त्रुट्यन्मौलिसिरासमुच्छलदसृग्धारानुबन्धेन यः ।
तद्दोर्विक्रमविद्रुता दशदिशो भोगाय भूमण्डले
सम्यग्वासयितुं प्रवालघटिता यष्टीरुदस्तम्भयन॥२२७॥
दङ्कस्य ।
मार्तण्डैककुलप्रकाण्डतिलकस्त्रैलोक्यरक्षामणिर्
विश्वामित्रमहामुनेर्निरुपधिः शिष्यो रघुग्रामणीः ।
रामस्ताडितताडकः किमपरं प्रत्यक्षनारायणः
कौशयानयनोत्सवो विजयते भूकश्यपस्यात्मजः ॥२२८॥
राजशेखरस्य ।
रामो नूनमयं निशाचरचमूकालाग्निरुद्रोपमो
निःसन्देहमयं च विक्रमनिधिः सौमित्रिरस्यानुजः ।
वारं वारमपाङ्गभागचलितैर्यद्दृष्टिपातैरियं
लङ्काभर्तुरनीकिनी पितृपतेः पाशैरिवावध्यते ॥२२९॥
श्रीमित्रस्य ।
रामोऽसौ भुवनेषु विक्रमगुणैर्यातः प्रसिद्धिं पराम्
अस्मद्भाग्यविपर्ययाद्यदि पुनः देवो न जानाति तम् ।
वन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति
श्रीएणीभूतविशालसालविवरोद्गीर्णैः शरैः सप्तभिः ॥२३०॥
विशाखदत्तस्य ।
४७. विरहिश्रीरामः
सरसि विरसः प्रस्थे दुःस्थो लतासु गतादरः
प्रति परिसरं भ्रान्तोद्भ्रान्तः सरित्सु निरुत्सुकः ।
दददपि दृशौ कुब्जे कुब्जे रुदन्नुपनिर्झरं
सुचिरविरहक्षामो रामो न करि अनुरुद्यते ॥२३१॥
वासुदेवज्योतिषः ।
निष्पन्दं गिरिकन्दरेषु विपिनच्छायासु मूर्च्छालसं
सास्रं पञ्चवटीतटीषु तटिनीतीरेषु तीव्रव्यथम् ।
काकुत्स्थं तदवस्थमाधिविधुरं दृष्ट्वा तडिद्व्याजतो
मन्ये मन्युभरैरभेदि हृदयं गाढं घनानामपि ॥२३२॥
वसुरथस्य ।
अनुवनमनुशैलं तामनालोक्य सीतां
प्रतिदिनमतिदीनं वीक्ष्य रामं विरामम् ।
गिरिरशनिमयोऽयं यस्तदा न द्विधाभूत्
क्षितिरपि न विदीर्णा सापि सर्वंसहैव ॥२३३॥
शोभाकस्य ।
कोऽहं वत्स स आर्य एव भगवानार्यः स को राघवः
के यूयं बत नाथ नाथ किमिदं भृत्योऽस्मि ते लक्ष्मणः ।
कान्तारे किमिहास्महे बत वृथा देव्या गतिर्मृग्यते
का देवी जनकाधिराजतनया हा जानकि क्वासि मे ॥२३४॥
कस्यचित।
कूजन्कुञ्जे किमपि करुणं कन्दरे कान्दिशीकः
सानौ शून्यप्रणिहितमनाः कानने ध्याननेत्रः ।
गच्छन्मूर्च्छां कुसुमशयने वीतरागस्तडागे
जीयाज्जायाविरहविदुषां ग्रामणीः रामभद्रः ॥२३५॥
आचार्यगोपीकस्य ।
४८. हलधरः
सुरापीतो गोत्रस्खलनपरिवृद्धाधिकरुषः
प्रसादं रेवत्या जनयितुमनीशः कथमपि ।
विचुम्बन्संश्लिष्यन्स्तनवसनमस्यन्नविरतं
मधून्मादाविष्टः स किल बलभद्रो विजयते ॥२३६॥
लक्ष्मीधरस्य ।
आघूर्णद्वपुषः स्खलन्मृदुगिरः किञ्चिल्लसद्वाससो
रेवत्यं सनिषण्णनिःसहभुजस्याताम्रनेत्रद्युतेः ।
श्वासामोदमदान्धषट्पदकुलव्यादष्टकण्ठस्रजः
पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः ॥२३७॥
कोकस्य ।
भभभ्रमति मेदिनी लललन्दते चन्द्रमाः
कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः ।
सिसीधु मुमुमुञ्च मे पपपपानपात्रे स्थितः
मदस्खलितमालपन्हलधरः श्रियः वः क्रियात॥२३८॥
पुरुषोत्तमदेवस्य । (सु.र. १२७; बा.रा.स्२.४.३७)
रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ ।
वहन्हली मदक्षीवः पानगोष्ठ्यां पुनातु वः ॥२३९॥
माघभोजदेवयोः । (स.क.आ. २.६१)
भ्रमति धरणीचक्रं चक्रे नभस्तलयन्त्रणात्
प्रभवति न मे गात्रं किञ्चित्क्रियासु विधूर्णते ।
जलधिसलिले मग्नं विश्वं विलोक्य रेवति
त्रिजगदवताज्जल्पन्नेवं हली मदविह्वलः ॥२४०॥
माधवस्य ।
४९. बुद्धः
कामक्रोधौ द्वयमपि यदि प्रत्यनीकं प्रसिद्धं
हत्वानङ्गं किमिव हि रुषा साधितं त्र्यम्बकेन ।
यस्तु क्षान्त्या शमयति शतं मन्मथादीनरातीन्
कल्याणं वो दिशतु स मुनिग्रामणीरर्कबन्धुः ॥२४१॥
सङ्घश्रियः । (सु.र. ४)
पादाम्भोजसमीपसन्निपतितस्वर्णाथदेहस्फुरन्
नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः ।
वन्दारुत्रिदशौधरत्रमुकुटोत्सर्पत्प्रभापल्लव
प्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः ॥२४२॥
वसुकल्पस्य । (सु.र. १५)
कारुण्यामृतकन्दलीसुमनसः प्रज्ञावधूमौक्तिक
ग्रीवालङ्करणश्रियः शमसरित्पूरोच्छलच्छीकराः ।
ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित
स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ॥२४३॥
श्रीधरनन्दिनः । (सु.र. ७)
शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्
दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः ।
देयात्तुभ्यमवार्थवीर्यविटपः क्षान्तिप्रसूनोद्गमः
सुच्छायः षडभिज्ञकल्पविटपीसम्बोधबीजं फलम् ॥२४४॥
तस्यैव । (सु.र. ८)
यदाख्यानासङ्गादुषसि पुनते वाचं ऋषयो
यदीयः सङ्कल्पो हृदि सुकृतिनामेव रमते ।
स सार्वः सर्वज्ञः पथि निरपवादे कृतपदो
जिनो जन्तूनुच्चैर्दमयतु भवावर्तपतितान॥२४५॥
मङ्गलस्य ।
५०. कल्की
भ्रान्त्वा महीं तत इतस्तुरगाधिरूढो
वेदद्विषो विदलयन्दलिताखिलाशः ।
देवो निवर्तितकलिः कृतमार्गदर्शी
कल्कं स ते हरतु कल्किकुले भविष्यन॥२४६॥
कस्यचित।
वामनादणुतमादनु जीयास्
त्वं त्रिविक्रम तनूभृतदिक्कः ।
वीतहिंसनपथादथ बुद्धात्
कल्किताहतसमस्त नमस्ते ॥२४७॥
श्रीहर्षस्य । (ण्च्२१.९६)
कल्की कल्कं हरतु जगतः स्फूर्जदूर्जस्वितेजा
वेदोच्छेदस्फुरितदुरितध्वंसने धूमकेतुः ।
येनोत्क्षिप्य क्षणमसिलतां धूमवत्कल्मषेच्छान्
म्लेच्छान्हत्वा दलितकलिनाकारि सत्यावतारः ॥२४८॥
जयदेवस्य ।
आघ्राणश्रवणावलोकनरसास्वादादयश्चुम्बन
श्रद्धा वाग्विषवर्षणं च शिरसो दोषा इमे यैर्जनः ।
मूढो लङ्घितसत्पथोऽयमिति संक्रुद्धः शठानां हठाद्यः
शीर्षाणि कृपाणपाणिरलुनात्तस्मै नमः कल्किने ॥२४९॥
कुलदेवस्य ।
तीर्थानां शतमस्ति किन्तु फलति श्रद्धाभरादित्यसेर्
धारातीर्ह्तमपूर्वमेव कलयन्कल्की शिवायास्तु वः ।
यत्प्राप्याखिलवेदभेदकधियः श्रद्धातिरस्कारिणः
शक्रस्यातिथयो भवन्ति भवएन्ष्वेनस्विनो जन्तवः ॥२५०॥
कस्यचित।
५१. कृष्णशैशवम्
कृष्णेनाद्य गतेन रन्तुमनसा मृद्भक्षिता स्वेच्छया
सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगन्
माता यस्य जगाम विस्मयपदं पायात्स वः केशव ॥२५१॥
कस्यचित। (स.क.आ.व्२३, शा.प. ४०१६)
लीलोत्तानशयोऽपि गोपनिवहैरुद्गीयमानेष्वति
प्रौढप्रौढमुरारिविक्रमकथागीतेषु दत्तश्रवाः ।
कस्मिंश्चित्क्षुभितः कुतोऽपि चलितः कुत्रापि रोमाञ्चितः
क्वापि प्रस्फुरितः कुतोऽपि हसितः प्राप्तो हरिः पातु वः ॥२५२॥
महीधरस्य ।
न्यञ्चन्नुदञ्चन्बहुशः कथंचिद्
उदञ्चितो वेफथुमान्हरिर्वः ।
देवोऽसि देवोऽसि सपाणितालं
यशोदयोक्तः प्रहसन्पुनातु ॥२५३॥
कस्यचित।
अधरमधुरे कण्ठं कण्ठे सचाटु दृशौ दृशोर्
अलिकमलिके कृत्वा गोपीजनेन ससम्भ्रमम् ।
शिशुरिति रुदन्कृष्णो वक्षःस्थले निहितश्चिरान्
निभृतपुलकः स्मेरः पायात्स्मरालसविग्रहः ॥२५४॥
दिवाकरदत्त्स्य । (पद्या. १३५; बा.रा.क्५.१७५१)
ब्रूमस्त्वच्चरितं तवाधिजननि च्छद्मातिबाल्याकृते
त्वं यादृग्गिरिकन्दरेषु नयनानन्दः कुरङ्गीदृशाम् ।
इत्युक्तः परिलेहनच्छलतया न्यस्ताङ्गुलिः स्वानने
गोपीभिः पुरतः पुनातु जगतीमुत्तानसुप्तो हरिः ॥२५५॥
वनमालिनः । (पद्या. १३५)
५२. कृष्णकौमारम्
वत्स स्थवरकन्दरेषु विचरन्दूरप्रचारे गवां
हिंस्रान्वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि ।
इत्युक्तस्य यशोदया मुरारिपोरव्याज्जगन्ति स्फुरद्
बिम्बोष्ठद्वयगाढपीडनवशादव्यक्तभावं स्मितम् ॥२५६॥
अभिनन्दस्य । (सु.र. १४४, पद्या. १४९)
श्यामोच्चन्द्रा स्वपिति न शिशो नैति मामम्ब निद्रा
निद्राहेतोः शृणु कथां कामपूर्वां कुरुष्व ।
व्यक्तः स्तम्भान्नरहरिरभूद्दानवं दारयिष्यन्न्
इत्युक्तस्य स्मितमुदयते देवकीनन्दनस्य ॥२५७॥
शतानन्दस्य । (सु.र. १२३; Pक्१५१ सर्वानन्दस्य; बा.रा.क्५.१७६१)
मा दूरं व्रज वत्स तिष्ठति पुरस्ते लूनकर्णो वृकः
पोतानत्ति इति प्रपञ्चचतुरोदारा यशोदागिरः ।
आकर्ण्योच्छलदच्छहासविकसद्बिम्बाभदन्तच्छद
द्वन्द्वोदीरितदन्तमौक्तिकमणिः कृष्णः स पुष्णातु वः ॥२५८॥
कस्यचित।
कालिन्दीपुलिने मया न न मया शीलोपशल्ये न न
न्यग्रोधस्य तले मया न न मया राधापितुः प्राङ्गने ।
दृष्टः कृष्ण इतीरिते सनियमं गोपैर्यशोदापतेर्
विस्मेरस्य पुरो हसन्निजगृहान्निर्यन्हरिः पातु वः ॥२५९॥
उमापतिधरस्य । (पद्या. १४८)
मन्थानमुज्झ मथितुं दधि न क्षमस्त्वं
बालोऽसि वत्स विरमेति यशोदयोक्तः ।
क्षीराब्धिमन्थनविधिस्मृतिजातहासो
वाञ्छास्पदं दिशतु वो वासुदेवसूनुः ॥२६०॥
कस्यचित।
५३. कृष्णस्वप्नायितम्
शम्भो स्वागतमास्यतामित इतो वामेन पद्मोद्भव
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यते ।
इत्थं स्वप्नगतस्य कैटभरिपोः श्रुत्वा जनन्या गिरः
किं किं बालक जल्पसीत्यनुचितं थूथूत्कृतं पातु वः ॥२६१॥
मयूरस्य (KKआ २.५९, पद्या. १४६; बा.रा.क्५.१७५८)
धीरा धरित्रि भाव भारमवेहि शान्तं
नन्वेष कंसहतकं विनिपातयामि ।
इत्यद्भुतस्तिमितगोपवधूश्रुतानि
स्वप्नायितानि वसुदेवशिशोर्जयन्ति ॥२६२॥
अभिनन्दस्य । (पद्या. १४७)
एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्यम्बुदा
मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः ।
इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥२६३॥
शुभाङ्कस्य । (KK २.६९(७०); सु.र. १३१, पद्या. २५२)
कालिन्दीपुलिनान्तवञ्जुललता कुञ्ज कुतश्चित्क्रमात्
सुप्तस्यैव मिथः कथाजुषि शनैः संवाहिकामण्डले ।
वैदेहीं दशकन्धरोऽपहरतीत्याकर्ण्य कंसद्विषो
हुं हुं वत्स धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥२६४॥
विरिञ्चेः ।
निर्मग्नेन मयाम्भसि स्मरभयादाली समालिङ्गिता
केनालीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्थं स्वप्नपरम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः
सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः ॥२६५॥
कस्यचित। (द.रू. उन्देर्४.६०, पद्या. ३७२)
५४. कृष्णयौवनम्
सोत्तापं जरतीत्भिरफुटरसं बालाभिरुन्मीलित
श्वासं वेश्म सुवासिनीभिरधिकाकृतं भुजिष्याजनैः ।
प्रत्यग्रप्रकटीकृतार्ति कुलटासार्थेन दृष्टं हरेर्
अव्याद्वो नवयौवनोत्सवदशानिर्व्याजमुग्धं वपुः ॥२६६॥
भट्टशालीयपीताम्बरस्य ।
राधायामनुबद्धनर्मनिभृताकारं यशोदाभयाद्
अभ्यर्णेष्वतिनिर्जनेषु यमुनारोधोलतावेश्मसु ।
मन्दाक्षश्लथवल्लवानुकरणक्रीडस्य कंसद्विषो
लब्धं यौवनमात्रया विजयते गम्भीरशोभं वपुः ॥२६७॥
अभिनन्दस्य ।
वत्स त्वं नवयौवनोऽसि चपलाः प्रायेण गोपस्त्रियः
कंसो भूपतिरब्जनालभिदुरग्रीवा वयं गोदुहः ।
सैषानर्थपरम्परेति भगवत्याशङ्क्तातिक्रमे
कृष्णे तद्विनयाय नन्दगृहिणीशिक्षोक्तयः पान्तु वः ॥२६८॥
वर्धमानस्य ।
आरूढान्तरयौवनस्य परितो गोष्ठीरनुभ्राम्यतस्
तत्तत्तासु मनोगतं सुनिभृतं संव्याचिकीर्षोर्हरेः ।
वेगादुच्छलितास्फुटाक्षरदशा गर्भास्त्रपागौरवात्
प्रत्यञ्चो वलिता भवन्तु भवतां कृत्याय वागूर्मयः ॥२६९॥
चक्रपाणेः ।
आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता
क्षीवः प्रेष्यजनः कथं कुलवधूरेकाकिनी यास्यति ।
वत्स त्वं तदिमां नयालयमिति श्रुत्वा यशोदागिरो
राधामाधवयोर्जयन्ति मधुरस्मेरालसा दृष्टयः ॥२७०॥
श्रीमत्केशवसेनदेवस्य । (पद्या. २०६)
५५. हरिक्रीडा
इह निचुलनिकुञ्जे मध्यमध्यास्य रन्तुर्
विजनमजनि शय्या कस्य बालप्रवालैः ।
इति निगदति वृन्दे योषितां पान्तु युष्मान्
स्मितशवलितराधामाधवालोकितानि ॥२७१॥
(पद्या. २०१)
कृष्ण त्वद्वनमालया सह कृतं केनापि कुञ्जान्तरे
गोपीकुन्तलबर्हदाम तदिदं प्राप्तं मया गृह्यताम् ।
इत्थं दुग्धमुखेन गोपशिशुनाख्याने त्रपानम्रयो
राधामाधवयोर्जयन्ति बलितस्मेरालसा दृष्टयः ॥२७२॥
लक्ष्मणसेनदेवस्य । (पद्या. २०२)
भ्रूवल्लीचलनैः कयापि नयनोन्मेषैः कयापि स्मित
ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि ।
गर्वाद्भेदकृतावहेलविनयश्रीभाजि राधानने
सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥२७३॥
उमापतिधरस्य । (पद्या. २५९, ऱ्Kआद्१२९)
व्यालाः सन्ति तमालवल्लिषु वृतं वृन्दावनं वानरैर्
उन्नक्रं यमुनाम्बु घोरवदनव्याघ्रा गिरेः सन्धयः ।
इत्थं गोपकुमारकेषु वदतः कृष्णस्य तृष्णोत्तर
स्मेराभीरवधूनिडेधिनयनस्याकुञ्चनं पातु वः ॥२७४॥
आचार्यगोपीकस्य ।
सङ्केतीकृतकोकिलादिनिनदं कंसद्विषः कुर्वतो
द्वारोन्मोचनलोलशङ्खवलयक्वाणं मुहुः शृण्वतः ।
केयं केयमिति प्रगल्भजरतीवाक्येन दूनात्मनो
राधाप्राङ्गणकोणकोलिविटपिक्रोडे गता शर्वरी ॥२७५॥
आचार्य गोपीकस्य (पद्या. २०५; बा.रा.क्५.११५९)
५६. प्रश्नोत्तरम्
राधे त्वं कुपिता त्वमेव कुपिता रुष्टासि भूमेर्यतो
माता त्वं जगतां त्वमेव जगतां माता न विज्ञोऽपरः ।
देवि त्वं परिहासकेलिकलहेऽनन्ता त्वमेवेत्यसौ
स्मेरो वल्लवसुन्दरीमवनमच्छौरिः श्रियः वः क्रियात॥२७६॥
वाक्पतेः । (सु.र. १०८; पद्या. २८४)
कोऽयं द्वारि हरिः प्रयाह्युपवनं शाखामृगेणात्र किं
कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः ।
मुग्धेऽहं मधुसूदनो व्रज लतां तामेव पुष्पान्विताम्
इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥२७७॥
शुभङ्करस्य । (सु.र. १०९, Sव्. १०४, शा.प. १२२)
कस्त्वं भो निशि केशवः शिरसिजै ःय्किं नाम गर्वायसे
भद्रे शौरिरहं गुणैः पितृगतैः पुत्रस्य किं स्यादिह ।
चक्री चन्द्रमुखि प्रयच्छसि न मे कुण्डीं घटीं दोहनीम्
इत्थं गोपवधूजितोत्तरतया ह्रीणो हरिः पातु वः ॥२७८॥
कस्यचित। (पद्या. २८२)
वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्विदं
वासं ब्रूहि शठ प्रकामसुभगे त्वद्गात्रसंसर्गतः ।
यामिन्यामुषितः क्व धूर्त वितनुर्मुष्णाति किं यामिनी
शौरिर्गोपवधूं छलैः परिहसन्नेवंविधैः पातु वः ॥२७९॥
कस्यचित। (पद्या. २८३; भ.र.सि. २.१.८३)
कुशलं राधे सुखितोऽसि कंस कं स क्व नु सा राधा ।
इति पालीप्रतिवचनैर्विलक्षहासो हरिर्जयति ॥२८०॥
कस्यचित। (स.क.आ. २.३५१)
५७. वेणुनादः
कृष्णः पातु स यस्य संसदि गवां वेणुप्रणादोर्मयो
गोपीनामनुवासरं नवनवा घूर्णन्ति कर्णोदरे ।
तद्वक्त्रासववासिता इव तदाकूतिप्रपञ्चा इव
भ्राम्यत्तत्करपल्लवाङ्गुलिगलल्लावण्यलिप्ता इव ॥२८१॥
लक्ष्मीधरस्य ।
तिर्यक्कन्धरमंसदेशमिलितश्रोत्रावतंसं स्फुरद्
बर्होत्तम्भितकेशपाशमनृजुभ्रूवल्लरीविभ्रमम् ।
गुञ्जद्वेणुनिवेशिताधरपुटं साकूतराधानन
न्यस्तामीलितदृष्टि गोपवपुषो विष्णोर्मुखं पातु वः ॥२८२॥
लक्ष्मणसेनदेवस्य । (पद्या. २६०)
सायं व्यावर्तमानखिलसुरभिकुलाह्वानसंकेतनामान्य्
अभीरीवृन्दचेतो हठहरणकलासिद्धमन्त्राक्षराणि ।
सौभाग्यं वः समन्ताद्दधतु मधुभिदः केलिगोपालमूर्तेः
सानन्दकृष्टवृन्दावनरसिकमृगश्रेणयो वेणुनादाः ॥२८३॥
उमापतिधरस्य । (पद्या. ५)
मन्द्रक्वाणितवेणुरह्नि शिथिले व्यावर्तयन्गोकुलं
बर्हापीडकमुत्तमाङ्गरचितं गोधूलिधुम्रं दधत।
म्लायन्त्या वनमालया परिगतः श्रान्तोऽपि रम्याकृतिर्
गोपस्त्रीनयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥२८४॥
कस्यचित। (Kव्स्२२, SKं १.५७.४, सु.र. ११०, पद्या. २५६)
अंसासक्तकपोलवंशवदनव्यासक्तबिम्बाधर
द्वन्द्वोदीरितमन्दमन्दपवनप्रारब्धमुग्धध्वनिः ।
ईषद्वक्रिमलोलहारनिकरः प्रत्येकरोकानन
न्यञ्चच्चञ्चदुदञ्चदङ्गुलिचयस्त्वां पातु राधाधवः ॥२८५॥
केशरकीलीयनाथोकस्य । (पद्या. २६१, नाथोकस्य)
५८. गीतम्
सञ्जाते विरहे कयापि हृदये सन्दानिते चिन्तया
कालिन्दीतटवेतसीवनघनच्छायानिषण्णात्मनः ।
पायासुः कलकण्ठकूजितकला गोपस्य कंसद्विषो
जिह्वावर्जिततालुमूर्च्छितमरुद्विस्फारिता गीतयः ॥२८६॥
कस्यचित। (पद्या. २४०)
कालिन्दीजलकुञ्जवञ्जुलवनच्छायानिषण्णात्मनो
राधाबद्धनवानुरागरसिकस्योत्कण्ठितं गायतः ।
तत्पायादपरिस्खलज्जलरुहापीडं कलस्पृङ्नत
ग्रीवोत्तानितकर्णतर्णककुलैराकर्ण्यमानं हरेः ॥२८७॥
उद्भटस्य ।
देवस्त्वामेकजङ्घावलयितगुडीमूर्ध्नि विन्यस्तबाहुर्
गायन्गोयुद्धगीतिरुपरचितशिरःशेखरः प्रग्रहेण ।
दर्पस्फूर्जन्महोक्षद्वयसमरकलाबद्धदीर्घानुबन्धः
क्रीडागोपालमूर्तिर्मुररिपुरवतादात्तगोरक्षलीलः ॥२८८॥
योगेश्वरस्य । (सु.र. १२९, सोन्नोकस्य; पद्या. १५२)
याते द्वारवतीपुरं मुररिपौ तद्वस्त्रसंव्यानया
कालिन्दीतटकुञ्जवञ्जुललतामालाम्ब्य सोत्कण्ठया ।
उद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया
येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥२८९॥
कस्यचित। (ध्व्, Vअक्२.५९; एत्च्.; पद्या. ३७३ अपराजितस्य, उ.नी. १४.१८८)
यानि तच्चरितामृतानि रसनालेह्यानि धन्यात्मनां
ये वा शैशवचापल्यव्यतिकरा राधावरोधोन्मुखाः ।
या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे
धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे ॥२९०॥
कस्यचित। (KKआ १.१०६)
५९. कृष्णभुजः
भ्राम्यद्भास्वरमन्दराद्रिशिखरव्याघट्टनाद्विस्फुरत्
केयूराः पुरुहूतकुञ्जरकरप्राग्भारसंवर्धिनः ।
दैत्येन्द्रप्रमदाकपोलविलसत्पत्राङ्कुरच्छेदिनो
दोर्दण्डाः कलिल्कालकल्मषमुषः कंसद्विषो पातु वः ॥२९१॥
कस्यचित। (पद्या. ३८६)
लक्ष्म्याः केशप्रसवरजसां बिन्दुभिः सान्द्रपातैर्
उद्वर्णश्रीर्घननिधुवनक्लान्तिनिद्रान्तरेषु ।
दोर्दण्डोऽसौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि
ग्रावश्रेणिकषमसृणक्षुण्णुकेयूरपत्रः ॥२९२॥
भगीरथस्य । (सु.र. १४२)
ये गोवर्धनमूलकर्दमरसव्यादष्टबर्हच्छदा
ये वृन्दावनकुक्षिषु व्रजवधूलीलोपधानानि च ।
ये चाभ्यङ्गसुगन्धयः कुवलयापीडस्य दानाम्भसा
ते वो मङ्गलमादिशन्तु सततं कंसद्विषो बाहवः ॥२९३॥
शुभाङ्कस्य । (पद्या. ४)
जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥२९४॥
जयदेवस्य । (ङ्ग्११.३५)
पान्तु वो जलदश्यामाः
शार्ङ्गज्याघातकर्कशाः ।
त्रैलोक्यनगरस्तम्भाश्
चत्वारो हरिबाहवः ॥२९५॥
श्रीव्यासपादानाम् । (शा.प. ११३)
६०. गोवर्धनोद्धारः
सत्रासर्ति यशोदया प्रियगुणप्रीतेक्षणं राधया
लग्नैर्वल्लवसूनुभिः सरभसं सम्भावितात्मोर्जितैः ।
भीतानन्दितविस्मितेन विषमं नन्देन चालोकितः
पायाद्वः करपद्मसुस्थितमहाशैलः सलीलो हरिः ॥२९६॥
सोल्लोकस्य । (सु.र. १४० सोन्नोकस्य; पद्या. २६४ सोह्नोकस्य)
एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः
श्रान्तोऽसि क्षणमास्स्व साम्प्रतममी सर्वे वयं दध्महे ।
इत्युल्लासितदोष्णि गोपनिवहे किञ्चिद्भुजाकुञ्चन
न्यञ्चच्छैलभरार्दिते विरुवति स्मेरो हरिः पातु वः ॥२९७॥
शरणस्य । (पद्या. २६५)
स्नेहादंसतटेऽवलम्ब्य चरणावारोप्य तत्पादयोर्
दूरादस्तमहीधरस्य तनुतामाशङ्क्य दोष्णो हरेः ।
शैलोद्धारसहायतां जिगमिषोरप्राप्तगोवर्धना
राधायाः सुचिरं जयन्ति गगने बन्ध्याः करभ्रान्तयः ॥२९८॥
शतानन्दस्य ॥
दूरं दृष्टिपथात्तिरोभव हरेर्गोवर्धनं विभ्रतस्
त्वय्यासक्तदृशः कृशोदरि करस्रस्तोऽस्य मा भूदयम् ।
गोपीनामिति जल्पितं कलयतो राधानिरोधाश्रयं
श्वासाः शैलभरश्रमभ्रमकराः कंसद्विषः पान्तु वः ॥२९९॥
शुभाङ्कस्य । (पद्या. २६७)
मुग्धे नाथ किमात्थ तन्वि शिखरिप्राग्भारभुग्नो भुजः
साहाय्यं प्रिय किं भजामि सुभगे दोर्वल्लिमायासय ।
इत्युल्लासितबाहुमूलविचलच्चेलाञ्चलव्यक्तयो
राधायाः कुचयोर्जयन्ति चलिताः कंसद्विषो दृष्टयः ॥३००॥
शङ्करस्य ।
६१. उत्कण्ठा
रत्नच्छायाच्छुरितजलधौ मन्दिरे द्वारकाया
रुक्मिण्यापि प्रबलपुलकोद्भेदमालिङ्गितस्य ।
विश्वं पायान्मसृणयमुनातीरवानीरकुञ्जे
राधाकेलीपरिमलभरध्यानमूर्च्छा मुरारेः ॥३०१॥
उमापतिधरस्य । (पद्या. ३७१, उ.नी. १४.१८४; Jईव अन्द्VCःत्तो भ.र.सि. २.४.१७८)
कलिन्दीमनुकूलकोमलरयामिन्दीवरश्यामलाः
शैलोपान्तभुवः कदम्बकुसुमैरामोदिनः कन्दरात।
राधां च प्रथमाभिसारमधुरां जातानुतापः स्मरन्न्
अस्तु द्वारवतीपतिस्त्रिभुवनामोदाय दामोदरः ॥३०२॥
शरणस्य । (पद्या. ३६९)
कामं कामयते न केलिनलिनीं नामोदते कौमुदी
निस्यन्दैर्न समीहते मृगदृशामालापलीलामपि ।
सीदन्नेष निशासु निःसहतनुर्भोगाभिलाषालसैर्
अङ्गैस्ताम्यति चेतसि व्रजवधूमाधाय मुग्धो हरिः ॥३०३॥
तस्यैव । (पद्या. ३७०)
प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्नमूढस्य मां
मा गोत्रस्खलितादुपैतु च दिवा राधेति भीरोरति ।
रात्रावस्वपतो दिवा च विजने लक्ष्मीति चाभ्यस्यतो
राधां संस्मरतः श्रियं रमयतः खेदो हरेः पातु वः ॥३०४॥
कस्यचित। (स.क.आ.व्४४८)
तल्पीकृतस्य भुजगाधिपतेः फणायां
रत्नेषु संवलितबिम्बतस्याचलायाः ।
कृष्णावतारकृतगोपवधूसहस्र
सङ्गस्मृतिर्जयति सोत्कलिकस्य विष्णोः ॥३०५॥
कस्यचित।
६२. गोपीसन्देशः
ते गोवर्धनकन्दराः स यमुनाकच्छः स चेष्टारसो
भाण्डीरः स वमस्पतिः सहचरास्ते तच्च गोष्ठाङ्गनम् ।
किं द्वारवतीभुजङ्ग हृदयं नायाति दोषैरपीत्य्
अव्याद्वो हृदि दुःसहं व्रजवधूसन्देशशल्यं हरेः ॥३०६॥
नीलस्य । (पद्या. ३७५)
पान्थ द्वारवतीं प्रयासि यदि हे तद्देवकीनन्दनो
वक्तव्यः स्मरमोहमन्त्रविवशो गोप्योऽपि नामोज्झिताः ।
एताः केलिकदम्बधूलिपटलैरालोकशून्या दिशः
कालिन्दीतटभूमयो भवतो नायान्ति चित्तास्पदम् ॥३०७॥
गोवर्धनाचार्यस्य । (पद्या. ३७४; Sःऋङ्गारप्रकाश, छेच्क्सु.र.)
उपनय मसिं पत्रं चेदं लिखामि किमत्र वा
त्वमिति विनयभ्रंशो यूयं त्विति प्रणयक्षतिः ।
सुहृदिति मृषा नाथेत्यूनं नृपेति तटस्थता
कथमिति ततः सन्देष्टव्यो मया यदुनन्दनः ॥३०८॥
पुंसोकस्य ॥
कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशङ्कांशवः
सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात्पुनः ।
सन्दिष्टं व्रजयोषितामिति हरेः संशृण्वतोऽन्तःपुरे
निःश्वासाः प्रसृता जयन्ति रमणीसौभाग्यगर्वच्छिदः ॥३०९॥
पञ्चतन्त्रकृतः । (पद्या. ३७६, उ.नी. १५.१६४)
मथुरापथिक मुरारेर्
उपगेयं द्वारि वल्लवीवचनम् ।
पुनरपि यमुनासलिले
कालियगरलानलो ज्वलति ॥३१०॥
वीरसरस्वत्याः । (पद्या. ३६८; उ.नी. १०.९८)
६३. सामान्यहरिः
सेयं द्योस्तदिदं शशाङ्कदिनकृच्चिह्नं नभः सा क्षितिस्
तत्पातालतलं त एव गिरयस्तेऽम्भोधरास्ता दिशः ।
इत्थं नाभिविनिर्गतेन सशिरःकम्पाद्भुतं वेधसा
यस्यान्तश्च बहिश्च दृष्टमखिलं त्रैलोक्यमव्यात्स वः ॥३११॥
वाक्पतिराजस्य । (सु.र.. १३७)
लक्ष्मीं यत्परिचारिकेति नयनं यस्येति यासां पतिं
यत्पादार्धभवेति नाकसरितं येनोद्धृतेति श्रुतिम् ।
ईशं यत्तनुभागभागिति जनः शुश्रूषते सादरं
भूयाद्विश्वनमस्यमानमहिमा भूत्यै स वः केशवः ॥३१२॥
समन्तभद्रस्य ।
संसारार्तिपरिश्रमाध्वविटपी क्षीरोदवापीपयः
क्रीडानाटकनायको विजयते सत्कर्मबीजाङ्कुरः ।
दैत्यस्त्रीस्तनपालिपाणिजपदव्यालोपिशिल्पीत्तरी
देवः श्रीवदनेन्दुबिम्बलडहज्योत्स्नाचकोरो हरिः ॥३१३॥
भानीः ॥
बीजं ब्रह्मैव देवो मधुजलनिधयः कर्णिका स्वर्णशैलः
कन्दो नागाधिराजो वियदपि विपुलः पत्रकोशावकाशः ।
द्वीपाः पत्राणि मेघा मधुपकुलमभूत्तारकागर्भधूलिर्
यस्यैतन्नाभिपद्मं भुवनमिति स वः शर्म देवो दधातु ॥३१४॥
हलायुधस्य । (सु.र. १४६)
यं लक्ष्मीरुपजीवति स्म भजते यं भारती सम्भ्रमा
देतस्मै किमु कीयतां कथमसावस्मादृशैः स्तूयताम् ।
सेव्यो वा कथमेष यस्य शिरसा धत्ते पदार्घ्यं शिव
स्तस्मात्कृत्यमजानतो मम मनोवृत्तेः प्रमाणं हरिः ॥३१५॥
तिलचन्द्रस्य ।
६४. हरिभक्तिः
बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम्
अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥३१६॥
श्रीकुलशेखरस्य । (ंउकुन्दमाला २५)
नास्था धर्मे न वसुनिचये नैव कामोपभोगे
यद्भाव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहु मतं जन्मजन्मान्तरेऽपि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥३१७॥
तस्यैव । (ंउकुन्दमाला ७)
मज्जन्मनः फलमिदं मधुकैतभारे
मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥३१८॥
तस्यैव । (ंउकुन्दमाला ३२)
नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः
कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।
रम्यारामामृदुतनुलता नन्दने नापि रन्तुं
भावे भावे हृदयभवने भावयेयं भवन्तम् ॥३१९॥
तस्यैव । (ंउकुन्दमाला ६)
मुकुन्द मूर्ध्ना प्रणिपत्य याचे
भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे
भवे भवे मेऽस्तु भवत्प्रसादात॥३२०॥
तस्यैव । (ंउकुन्दमाला ४)
६५. समुद्रमथने हरिः
श्रेयोऽस्याश्चिरमस्तु मन्दरगिरेर्माघानि पाश्र्वैरिय
मावष्टम्भि महोर्मिभिः फणिपतेर्मालेऽपि लालाविषैः ।
इत्याकूतजुषः श्रियं जलनिधेर् अर्धोत्थितां पश्यतो
वाचोन्तःस्फुरिता बहिर्विकृतिभिर्व्यक्ता हरेः पातु वः ॥३२१॥
वाक्पतिराजस्य । (सु.र. ११५)
पाण्डुलक्ष्मीकुचाभोगे नर्तिता हरिणा दृशः ।
औत्सुक्यादिव तेनादौ निहिता वरणस्रजः ॥३२२॥
श्रीमत्केशवसेनदेवस्य ।
पातु त्रिलोकीं हरिरम्बुराशौ
प्रमथ्यमाने कमलां विलोक्य ।
अज्ञातहस्तच्युतभोगिनेत्रः
कुर्वन्वृथा बाहुगतागतानि ॥३२३॥
त्रिभुवनसरस्वत्याः ।
ग्राव्णा नासि गिरेः क्षता न पयसाप्यार्तासि न म्लापिता
निःश्वासैः फणिनोऽसि न त्वानुगा नायासिता कापि न ।
स्वं वेश्म प्रतिगच्छतोरितो मुहुः श्रीशार्ङ्गिणोः सस्पृहं
सा पर्श्नोत्तरयुग्मपंक्तिरुभयोरत्यायता पातु वः ॥३२४॥
कस्यचित। (स.क.आ. १.९६)
पाथोधेः पर्मथ्यमानसलिलादर्धोत्थितायाः श्रियः
सानन्दोल्लसितभुवः कुटिलया दृष्ट्यैव पीताननः ।
अज्ञातस्वकरद्वयीविगलितव्यालोलमन्थोरगः
शून्ये बाहुगतागतानि रचयन्नारायणः पातु वः ॥३२५॥
सागरस्य ।
६६. समुद्रोत्थितलक्ष्मीः
सम्पूर्णः पुनरभ्युदेति किरणैरिन्दुस्ततो दन्तिनः
कुम्भद्वन्द्वमिदं पुनः सुरतरोरग्रोल्लसन्मञ्जरी ।
इत्थं यद्वदनस्तनद्वयवलद्रोमावलीषु भ्रमः
क्षीराब्धेर्मथने भवद्दिविषदामलक्ष्मीरसावस्तु वः ॥३२६॥
कस्यचित। (सु.र. १२६)
सानन्दं त्रिदशैः सविस्मयमविश्वस्तैः सुरद्वेषिभिः
साश्चर्यं सुरसुन्दरीपरिजनैः सेर्ष्यं च रम्भादिभिः ।
साकूतं च सकौतुकं च समनोह्लादं च कंसद्विषा
दृष्टा दुग्धमहोदधिप्रमथने लक्ष्मीः शिवायास्तु वः ॥३२७॥
शङ्करसेवस्य ।
जयति महोदधिमथने मुररिपुपरिरम्भसंभृता लक्ष्मीः ।
सत्वरसत्रपसरभससपुलकसोत्कम्पसस्वेदा ॥३२८॥
कस्यचित।
मन्थानोल्लासलीलाचलचिकुरमिलत्कुण्डलां कर्णपालिं
मिथ्यैवोन्मोचयन्त्याः कृतकपटपरावृत्तयस्ते कटाक्षाः ।
लक्ष्म्याः पायासुरन्तः स्मरभरविकसत्स्मेरगण्डस्थलाया
लज्जालोलं वलन्तो मधुरिपुवदनाम्भोजभृङ्गाश्चिरं वः ॥३२९॥
भोजदेवस्य ।
श्रियः क्षीराम्भोधेर्निजविनयनम्रेण वपुषा
शनैरुत्तिष्ठन्त्याः पवनचलितेन्दीवरदृशः ।
कटाक्षो मन्दाक्षस्तिमितलुलितभ्रूर्हरिमनु
प्रकीर्णः कालिन्दीलघुलहरिवृत्तिर्विजयते ॥३३०॥
कस्यचित।
६७. लक्ष्मीस्वयंवरः
सोद्वेगं करिकृत्तिवाससि भवद्व्रीडान्वितं ब्रह्मणि
त्रैलोक्यैकगुआवनादरवलत्तारं शचीभर्तरि ।
त्रासामीलितपक्ष्म भास्वति लसत्प्रेमप्रसन्नं हरौ
क्षीरोदोत्थितया श्रिया विनिहितं चक्ष्ण्डः शिवायास्तु वः ॥३३१॥
समुद्रमथनव्यग्रसुरसन्दोहनिस्पृहाः ।
लग्नाः कृष्णस्य वक्त्रेन्दौ पान्तु नो दृष्टयः ॥३३२॥
उमापतिधरस्य ।
सोत्साहं दधति स्वयंवरमहारङ्गे मिथः स्पर्धया
नेपथ्यप्रतिपन्नचित्तकलनाश्चर्यं सुराणां गणे ।
उद्यान्त्या मकरालयात्कमलया संभावितः केन
चिद्दृक्पातेन विरूढगूढहसितानन्दो हरिः पातु वः ॥३३३॥
महादेवस्य ।
आख्याते हसितं पितामह इति त्रस्तं कपालीति च
व्यावृत्तं गुरुरित्यसौ दहन इत्याविष्कृता भीरुता ।
पौलोमीपतिरित्यसूयितमथ व्रीडावनम्रं श्रिया
पायाद्वः पुरुषोत्तमोऽयमिति च न्यस्तः स पुष्पाञ्जलिः ॥३३४॥
क्षेमेश्वरस्य ।
मुग्धे मुञ्च विषादमत्र बलभित्कम्पो गुरुस्त्यज्यतां
सद्भावं भज पुण्डरीकनयने मान्यानिमान्मानय ।
लक्ष्मीं शिक्षयतः स्वयंवरविधौ धन्वन्तरेर्वाक्छलाद्
इत्यन्यप्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः ॥३३५॥
पुण्डरीकस्य । (Sभ्व्८४ दाक्षिणात्यस्य कस्यापि, पद्या. ३८४ कस्यचित्)
६८. लक्ष्मीशृङ्गारः
शान्तं शेते न शेषः स्थगयति तिमिरं कौस्तुभीर्नापि भासः
साम ब्रह्मापि गीत्वा मुकुलितनयनो निद्रया ध्यायतीव ।
लक्ष्म्या कर्णे गदित्वा मृदुकमिति हरेर्व्रीडया हारि हास्यं
हस्तो हस्तेन नीवीवसनविघटनाद्वारितो वः पुनातु ॥३३६॥
कस्यचित।
तिर्यक्त्वादबुधः फणीमणिर्चोऽप्यस्योपधानीकृतैर्
मन्दारैः स्थगितांशवः स्तनघनस्वेदास्पदं कौस्तुभः ।
नाभीपद्मरजोऽन्ध एव सततं वेधा मुधा लज्जसे
लक्ष्मीमित्यवबोधयन्निधुवनारम्भे हरिः पातु वः ॥३३७॥
गणपतेः ।
मिथ्याकण्डूतिसाचीकृतगलसरणिर्येषु जातो गरुत्मान्
ये निद्रां नाटयद्भिः शयनफणिफणैर्लक्षिता न श्रुताश्च ।
ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टास्
ते लक्ष्मीं नर्मयन्तो निधुवनविधयः पान्तु वो माधवस्य ॥३३८ ॥
राजशेखरस्य (सु.र. १३२)
उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विगलितकवरीभारमंशं वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालम्ब्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥३३९ ॥
वररुचेः (स.क.आ. २.३३, V १६५, Vस्१.३; सु.र. १२५, Sव्७९, शा.प. १३५)
कचचिबुक कुचाग्रे पाणिषु व्यापृतेषु
प्रथमजलधिपुत्रीसंगमेऽनङ्गधाम्नि ।
ग्रथितनिविडनीवीबन्धनिर्मोचनार्थं
चतुरधिककराशः पातु वश्चक्रपाणिः ॥३४०॥
दाक्षिणात्यस्य ।
६९. लक्ष्मीः
प्रवीरहठभोग्यापि
जयति श्रीर्महासती ।
कृत्स्नत्रैलोक्यवासापि
कृष्णोरःस्थलशायिनी ॥३४१॥
राजशेखरस्य ।
विद्वानक्षरनष्ट्धीरिति शुर्चिर्धर्मध्वजीति स्थिर
स्तब्धः क्रुद्ध इति ग्रहीति सुदृढः क्षन्ता लघीयानिति ।
मायावीति च नीतिशास्त्रकुशलो यामन्तरेणेश्वरैर्
गण्यन्ते गुणिनोऽपि दूषणपदं तस्यै नमस्ते श्रिये ॥३४२॥
सोलुकस्य ।
विष्णुवक्षोगृहे लक्ष्मीर्
अस्ति कौस्तुभदीपिके ।
पुनातु निवसन्ती वो
दृढदोःस्तम्भतोरणे ॥३४३॥
राजशेखरस्य ।
जयति श्रीमुखं कान्तं
कौस्तुभप्रतिबिम्बितम् ।
चन्द्रमा मनसो जात
इति यद्गायति श्रुतिः ॥३४४॥
आचार्यगोपीकस्य ।
वृत्ते साङ्गविवाहमङ्गलविधौ लब्धापि दैत्यद्रुहः
सौहार्दं विमनाः पुनातु भवतो लक्ष्मीः स्मरन्ती पितुः ।
यामाश्वासयतीव सोदरतया प्रत्यग्रबिम्बग्रह
व्याजादङ्गगतामनङ्कुशनिजस्नेहो मुहुः कौस्तुभः ॥३४५॥
शरणदेवस्य ।
७०. लक्ष्म्युपालम्भः
कोपस्तेज इति ग्रहः स्थितिरिति क्रीडेति दुश्चेष्टता
माया च व्यवहारकौशलमिति स्वच्छत्वमित्यज्ञता ।
दौर्जन्यं स्फुटवादितेति धनिनामग्रे बुधैर्यद्वशाद्
दोषोऽपि व्यपदिश्यते गुणतया तस्यै नमोऽस्तु श्रिये ॥३४६॥
शालूकस्य ।
रत्नाकरस्तव पिता स्थितिरम्बुजेषु
भ्राता तुषारकिरणः पतिरादिदेवः ।
केनापरेण कमले बत शिक्षितासि
सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥३४७॥
कस्यचित। (सु.र. १५१६)
कस्मैचित्कपटाय कैटभरिपूरःपीठदीर्घालयां
देवि त्वामभिवाद्य कुप्यसि न चेत्तत्किंचिदाचक्ष्महे ।
यत्ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते
नीचान्नीचतरोपसर्पणमपामेतत्किमाचार्यकम् ॥३४८॥
मुरारेः । (आर्७.४३)
अस्मान्मा भज कालकूटभगिनि स्वप्नेऽपि पद्मालये
व्याधीभूय कदर्थयन्ति बहुशो मातर्विकारा इमे ।
यच्चक्षुर्न निरीक्षतेच्छविषयं नैवं शृणोति श्रुतिः
प्राणा एव वरं प्रयान्ति न पुनर्निर्यान्ति वाचो बहिः ॥३४९॥
भवग्रामीणवाथोकस्य ।
लक्ष्मि नीचानुरक्तासि
पुनरब्धिविलं विश ।
क्व मन्दर क्व ते देवाः
कस्त्वामुत्तोलयिष्यति ॥३५०॥
कस्यचित।
७१. सरस्वती
वीणाक्वाणलयोल्लासि
लोलदङ्गुलिपल्लवः ।
भारत्याः पातु भूतानि
पाणिर्लसितकङ्कणः ॥३५१॥
कङ्कणस्य ।
आदित्यादपि नित्यदीप्तममृतप्रस्यन्दि चन्द्रादपि
त्रैलोक्याभरणं मणेरपि तमःकाषं हुताशादपि ।
विश्वालोकि विलोचनादपि परब्रह्मस्वरूपादपि
स्वान्तानन्दनमस्तु धाम जगतस्तोषाय सारस्वतम् ॥३५२॥
बलदेवस्य ।
निगूढं कुत्रापि क्वचिदपि बहिर्व्यक्तमधुरं
सरस्वत्याः स्रोतः परिमलगभीरं विजयते ।
अतिस्वादुन्यन्तःपिहितरसरम्ये यदुपरि
प्लवन्ते भूयांसः कतिचिदपि मज्जन्ति निपुणाः ॥३५३॥
क्वचिदिव रविर्जाड्यच्छेदि क्वचित्प्रचुराचिर
द्युतिरिव चमत्कारि क्वापि क्षपाकरवन्मृदु ।
शिखिवदनृजु क्वापि क्वापि प्रदीपवदुज्ज्वलं
विजयि किमपि ज्योतिः सारस्वतं तदुपास्महे ॥३५४॥
अपिदेवस्य ।
यस्याः प्रसादपरमाणुरसायनेन
कल्पान्तरे सुकविकीर्तिशरीरमस्ति ।
या कामधेनुरिव कामशतानि दुग्धा
देवी प्रयच्छति नमामि सरस्वतीं ताम् ॥३५५॥
पुरुषोत्तमदेवस्य ।
७२. प्रशस्तचन्द्रः
शृङ्गारे सूत्रधारः कुसुमशरमुनेराश्रमब्रह्मचारी
नारीणामादिदेवस्त्रिभुवनमहितो रागयज्ञे पुरोधाः ।
ज्योत्स्नासत्रं दधानः पुरमथनजटाजूटकोटीशयालुर्
देवः क्षीरोदजन्मा जयति कुमुदिनीकामुकः श्वेतभानुः ॥३५६॥
वसुकल्पस्य । (सु.र. ८९७)
कामायुष्टोमयज्वा पुरमथनजटाचक्रकौमारभक्तिः
प्राणायामोपदेष्टा सरसिरुहवने शर्वरीसार्वभौमः ।
देवो जागर्ति भानोर्भुवनभरभृतः स्कन्धविश्रामबन्धुः
शृङ्गाराद्वैतवादी शमितकुमुदिनी मौनमुद्रो मृगाङ्कः ॥३५७॥
मुरारेः । (आर्. ७.६२)
कन्दर्पस्य जगत्त्रयीविजयिनः साम्राज्यदीक्षागुरुः
कान्तामानशिलोञ्छवृत्तिरखिलध्वान्ताभिचारे कृती ।
देवस्त्र्यम्बकमौलिमण्डनसरित्तीरस्थलीतापसः
शृङ्गाराध्वरदीक्षितो विजयते राजा द्विजानामयम् ॥३५८॥
विश्वेश्वरस्य ।
व्योमाम्भोनिधिपुण्डरीकममृतप्राधारधारागृहं
शृङ्गारद्रुमपुष्पमीश्वरशिखालङ्कारमुक्तामणिः ।
काकाकारतमोभिभूतकुमुदग्रामाय मृत्युञ्जयो
जीयान्मन्मथराष्ट्रपोष्ठिकमहाशान्तिद्विजश्चन्द्रमाः ॥३५९॥
उमापतिधरस्य ।
लीलासद्मप्रदीपस्त्रिपुरविजयिनः स्वर्णदीकेलिहंसः
कन्दर्पोल्लास सबीजं रतिरसकलहक्लेशविच्छेदचक्रम् ।
कह्लाराद्वैतबन्धुस्तिमिरजलनिधेरुच्छिखो बाडवाग्निर्
लक्ष्म्याः क्रीडारविन्दं जयति भुजभुवां वंशकन्दः ॥३६०॥
श्रीमत्केशवसेनस्य ।
७३. चन्द्रकला
श्यामायाः करजक्षतं रतिपतेर्जैत्रं धनुर्बन्धकी
हृत्कम्बुककचश्चकोरखुरली सौहृद्यबीजाङ्कुरः ।
चोरग्रामगजाङ्कुशः परिलसन्मन्दाकिनीरोहितो
ध्वान्ताम्भस्तरणैकनौरुदयते बालः सुधादीधितिः ॥३६१॥
उमापतेः ।
लेखामनङ्गपुरतोरणकान्तिभाजम्
इन्दोर्विलोकय तनूदरि नूतनस्य ।
देशान्तरप्रणयिनोरपि यत्र यूनोर्
नूनं मिथः सखि मिलन्ति विलोकितानि ॥३६२॥
वसुकल्पस्य । (सु.र. ९०३, राजशेखरस्य)
विगाढदोषं तिमिरं निरस्यता
क्रमेण बिद्ध्वाग्रकलाशलाकया ।
चिकित्सकेनेव विलोकनक्षमं
पुनर्नभश्चक्षुरिवेन्दुना कृतम् ॥३६३॥
गणपतेः ।
प्रसरत्तिमिरसरित्तरिरसतीहृद्दारुदारुणक्रकचः ।
स्मरगृहकवाटविघटनराजतकुञ्जीकला शशिनः ॥३६४॥
सेह्नोकस्य ।
चैतन्यं नभसश्चकोररमणीकर्पूरपाली सुधा
निर्यासद्रवदोहदस्य कुमुदस्तोमस्य सन्धुक्षणम् ।
ध्वान्तोत्तुङ्गमतङ्गवारणसृणिः शृङ्गारबीजाङ्कुरः
पश्योदञ्चति सस्पृहं प्रणयिनि प्रालेयभानोः कला ॥३६५॥
इन्द्रज्योतिषः ।
७४. चन्द्रबिम्बः
अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः
समदयवनीगण्डच्छायं पुनर्मधुपिङ्गलम् ।
तदनु च नवस्वर्णाम्भोजप्रभं शशिनस्तत
स्तरुणि तगराकारं बिम्बं विभाति नभस्तले ॥३६६॥
कस्यचित। (सु.र. ९४३)
उद्दर्पहूणतरुणीरमणोपमर्द
भुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।
बिम्बं कठोरविसकाण्डकडारगौरै
र्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥३६७॥
अपराजितरक्षितस्य । (सु.र. ९२४)
स्फुटकोकनदारुणं पुरस्ताद्
अथ जाम्बूनदपत्रपिञ्जराभम् ।
क्रमलङ्घितमुग्धभावमिन्दोः
स्फटिकच्छेदनिभं विभाति बिम्बम् ॥३६८॥
भगीरथस्य । (सु.र. ९४१)
करमूलबद्धपन्नगविषाग्निधूमहतमध्यम् ।
ऐशानमिव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् ॥३६९॥
कस्यचित। (सु.र. ९५०, Jह्७.१७)
मध्येयामिनि पार्वणामृतरुचेर्बिम्बं स्फुरच्चन्द्रिका
तत्प्रान्तं परितो विसारिकिरणश्रेणी शलाकावलि ।
ताराग्रन्थिविसंष्ठुलं स्थलमिव ज्योत्स्नास्फुरद्वाससा
संवीतं सुखमध्यशेत जगती सुव्यक्तमालोक्यते ॥३७०॥
अंशुधरस्य ।
७५. प्रौढचन्द्रः
एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ
दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि ।
कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैर्
अक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः ॥३७१॥
वसुकल्पस्य । (शा.प. ३६३९, सु.र. ९००)
जनानन्दश्चन्द्रो भवतु न कथं नाम सुकृती
प्रयातोवस्थाभिस्तिसृभिरपि यः कोटिमियतीम् ।
भ्रुवोर्लीलां बालः शिर्यमलिकपट्टस्य तरुणो
मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥३७४॥
मुरारेः । (सु.र. ४२५, सू.मु. ५३.३३)
निर्यासैः करपत्रपीडनवशान्निर्यद्भिरिन्दूपलान्
मानग्रन्थिभिरश्रमेण कठिनैस्त्रुट्यद्भिरेणीदृशाम् ।
देवोऽयं परिपष्टचक्रहृदयादुत्सर्पिभिः पावकैर्
व्यक्ताहंकृतिरभ्युदेति तमसां माराङ्कमल्लः शशी ॥३७५॥
७६. सकिरणचन्द्रः
अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि
स्थातुं वाञ्छति मान एष झगिति क्रोधादिवालोहितः ।
उद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्
फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥३७६॥
वसुकल्पस्य । (ंन्२.४१, सु.र. ९२१, शा.प. ३६३६, सा.द. उन्देर्७.४, Kप्२३७)
सद्यः कुङ्कुमपङ्कपिच्छिलमिव व्योमाङ्गणं कल्पयन्
पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः ।
उद्गच्छत्ययमच्छमौक्तिकमणिप्रालम्बलम्बैः करैर्
मुग्धानां स्मरलेखवाचनकलाकेलिप्रदीपः शशी ॥३७७॥
राजशेखरस्य । (सु.र. ९०८)
सलीलं लिम्पद्भिर्धवलधवलैरम्बरतलं
करौघैः कह्लारप्रसवनवकर्मस्थपतिभिः ।
चकोरस्तोमानाममृतघृतकुल्यामुपनयन्न्
अयं देवः प्राचीमवतरति ताराप्रैवृढः ॥३७८॥
हरेः ।
गोरोचनारुचकभङ्गपिशङ्ग्ताङ्गस्
तारापतिर्मसृणमाक्रमते क्रमेण ।
गोभिर्नवीनबिसतन्तुवितानगौरैर्
आढ्यम्भविष्णुरयमम्बरमावृणोति ॥३७९॥
कस्यचित। (सु.र. ९४५)
रसातलस्थानविसारिणीं हरन्
प्रभां मृणालीमिव धौतकर्दमाम् ।
समुत्पपातार्द्रतनूरुहः शनैर्
उदन्वतो हंस इव क्षपाकरः ॥३८०॥
भृङ्गस्वामिनः ।
७७. चन्द्ररश्मिः
ये पूर्वं यवशूकसूचिसुहृदो ये केतकाग्रच्छद
च्छायाधामभृतो मृणाललतिका लावण्यभाजश्च ये ।
ये धाराम्बुविडम्बिनः क्षणमथो ये तारहारश्रियस्
तेऽमी स्फाटिकदण्डडम्बररुचो जाताः सुधांशोः कराः ॥३८१॥
राजशेखरस्य । (वि.शा.भ. ३.१०, सु.र. ९५३)
कपाले मार्जारः पय इति करान्लेढि शशिनः
तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति ।
रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति
प्रभामत्तश्चन्द्रो जगदिदमहो विह्वलयति ॥३८२॥
तस्यैव । (Kप्५४६, Sव्. १९९४, स.क.आ. ३.११४, सु.र. ९०५)
निद्रानन्दकरीर्नितान्तधवला आमोदिनीरप्यमूः
पीयूषं मधु वर्षतीरपि तमोभृङ्गान्निराकुर्वतीः ।
आकाशद्रुममञ्जरीरिव विधोर्भासः ककुप्कामिनी
लीलोत्तंसरुचः करोति नियतं बाणान्प्रसूनायुधः ॥३८३॥
सुरभेः ।
एतैर्जह्नुसुताजलैरयमुनाभिन्नैरलग्नाञ्जनैर्
नारीणां नयनैरकर्दमलवालिप्तैर्मृणालाङ्कुरैः ।
हारैरस्फुरदिन्द्रनीलतरलैः कुन्दैरलीनालिभिर्
वेल्लद्भिर्भुवनं विभूषितमिदं शीतद्युतेरंशुभिः ॥३८४॥
तस्यैव ।
हारश्रीसुहृदो रथाङ्गरमणीसंन्यासपुण्यापगा
वन्दीभूतमधुव्रताब्जकलिकाकाराकवाटार्गलाः ।
उन्मीलन्ति चकोरदैवतसुधापूर्णाहुतीनां स्रुवो
व्योमान्तःपरिमाणसूत्रसरलास्तास्ता हिमांशोः कलाः ॥३८५॥
अभिनन्दस्य ।
७८. ज्योत्स्ना
शीतांशुः शशिकान्तनिर्मलशिला तस्यां प्रसुप्तः सुखं
जग्ध्वा ध्वान्ततृणाङ्कुरान्मृगशिशुः खण्डेन्द्रनीलत्विषः ।
निद्रामुद्रितलोचनालसतया रोमन्थफेनच्छटां
रोदःकन्दरपूरणाय तनुते ज्योत्स्नाच्छलेनामुना ॥३८६॥
कापालिकस्य ।
संप्रत्याक्रमते पुरन्दरपुरीकासारकह्लारिणी
कोषोद्धाटनकुञ्जिकाः प्रकटयन्नारम्भतः कौमुदीः ।
पौरस्त्याद्रितटीकुटुम्बि मृगयुव्यापारितास्त्रव्यध
व्यङ्गक्रोडकुरङ्गसङ्गलदसृक्संसर्गशोणः शशी ॥३८७॥
अपिदेवस्य ।
कर्पूरद्रवशीकरोत्करमहानीहारमग्नामिव
प्रत्यग्रामृतफेनपङ्कपटलीलेपोपदिग्धामिव ।
स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्तामिव क्ष्मामिमां
कुर्वन्पार्वणशर्वरीपतिरसावुद्दाम विद्योतते ॥३८८॥
परमेश्वरस्य । (सु.र. ९३७)
सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रती
येयं मौक्तिकदामगुम्फनविधौ योग्यच्छविः प्रागभूत।
उन्मेयाकलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः
पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥३८९॥
राजशेखरस्य । (शा.प. ३६३८, सू.मु. ७२.१५, सु.र. ९५२)
क्षीरोदाम्भसि मज्जतीव दिवसव्यापारखिन्नं जगत्
तत्क्षोभाज्जलबुद्बुदा इव भवन्त्यालोहितास्तारकाः ।
चन्द्रः क्षीरमिव क्षरत्यविरतं धारासहस्रोत्करैर्
उद्ग्रीवैस्तृषितैरिवाद्य कुमुदैर्ज्योत्स्नापयः पीयते ॥३९०॥
विक्रमादित्यचण्डालविद्याकालिदासानाम् । (सु.र. ९२७)
७९. कलङ्कः
महानीलश्यामं नरकरिपुवक्षो वियदिदं
ततांशुश्रेणीकस्तुहिनकिरणः कौस्तुभमणिः ।
कलङ्कोऽप्येतस्य प्रमुखनिवसत्तोयाधिसुता
स्तनासङ्गस्फूर्जन्मदलिखितपत्रप्रतिकृतिः ॥३९१॥
सुरभेः ।
किरद्वारां धारा इव किरणधाराः प्रतिदिशं
तुषारांशोर्बिम्बं मणिघटितधारागृहमिव ।
इहायं कस्तूरीहरिणमदपङ्काङ्किततनुः
कलङ्कव्याजेन प्रतिवसति कन्दर्पनृपतिः ॥३९२॥
प्रतिनन्दस्य ।
शेषस्याहेर्व्रजति तुलनां मण्डलीभूतमूर्तेर्
इन्दुः कुन्दस्तवकविशदः पार्वणोऽयं यथैव ।
व्योमाभोधौ सजलजलदश्यामरोचिस्तथोच्चैर्
अङ्कः शङ्कामयमपि हरेस्तत्र सुप्तस्य धत्ते ॥३९३॥
राजशेखरस्य ।
स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बमम्बरोद्याने ।
किरणजलसिक्तलाञ्छनबालतमालैकविटपस्य ॥३९४॥
तस्यैव । (सु.र. ९२८)
यथायं भात्यंशून्दिशि दिशि किरन्कुन्दविशदान्
शशाङ्कः काश्मीरीकुचकलशशलावण्यघटितः ।
तथायं कस्तूरीमसिलिखितमुद्रामतितुलां
नवाम्भोदच्छेदच्छविरपि समारोहति मृगः ॥३९५॥
शर्वस्य । (सु.र. ९३९)
८०. सतमश्चन्द्रः
प्रथममरुणच्छायस्तावत्ततः कनकप्रभस्
तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
प्रभवति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥३९६॥
राजशेखरस्य । (Kप्१३९, Sव्२००४, सू.मु. ७२.४, सु.र. ९२६)
निःससार करघातविदीर्ण
ध्वान्तदन्तिरुधिरारुणमूर्तिः ।
केशरीव कटकादुदयाद्रेर्
अङ्कलीनहरिणो हरिणाङ्कः ॥३९७॥
भवभूतेः ।
प्रत्यग्रप्रसरे तमिस्रपटले बिम्बैकमात्रोदया
रम्भे शीतरुचावकीर्णकिरणे रम्योऽयमेकः क्षणः ।
यस्मिन्नीलनिचोलकेन पिहितं कृत्वा तदेकान्ततः
सिन्दूरारुणचक्रमुद्रितमिव त्रैलोक्यमालोक्यते ॥३९८॥
कस्यचित।
अथ जगदवगाढं वासरान्तापचारात्
तिमिरपटलवृद्धावप्रतीकारसत्त्वम् ।
शशिभिषगनुपूर्वं शीतहस्तोऽभिषज्यन्न्
अधिकविशदवक्त्रः स्वैरभावं चकार ॥३९९॥
कस्यचित।
य एष प्रत्यूषे रविशवरमालोक्य पुरतो
नभःपारावारं न्यविशत भयादिन्दुशफरः ।
स सायं निःशङ्कं चटुलतरतारार्भकशतैश्
चरन्मन्दं मन्दं तिमिरजलनीलीमुदयते ॥४००॥
वैद्यगदाधरस्य ।
८१. सतारश्चन्द्रः
मृगेन्द्रस्येव चन्द्रस्य मयूखैर्नखरैरिव ।
पाटितध्वान्तमातङ्गमुक्ताभा भान्ति तारकाः ॥४०१॥
अभिनन्दस्य । (सु.र. ९४८)
तारास्तोकतमिस्रधूमपटलीव्यापारसन्ध्यानन
ज्वालालीढनभःकपालविचलल्लाजश्रियं बिभ्रति ।
किं चायं रजनीपतिः परिणतप्राग्भारतालद्रवो
न्मिश्रं चिक्कणपिण्डमण्डकलसल्लावण्यमारोहति ॥४०२॥
कस्यचित।
उदयगिरिसौधशिखरे ताराचयचित्रिताम्बरविताने ।
सिंहासनमिव निहितं चन्द्रः कन्दर्पभूपस्य ॥४०३॥
कस्यचित।
ताराकोरकराजिभाजि गगनोद्याने तमोमक्षिकाः
सन्ध्यापल्लवपातिनीः कवलयन्नेकान्ततस्तर्कय ।
एतस्मिन्नुदयान्तपर्वततरुद्वन्द्वान्तराले ततै
रेतैर्भाति गभस्तितन्तुपटलैः श्वेतोर्णनाभः शशी ॥४०४॥
हरेः । (सु.र. ९५६)
अयमुदयमहीध्रधातुरागै
ररुणकरारुणिताम्बराभिरामः ।
वितरसि न दृशौ कृशाङ्गि तारा
मिव दिवि वन्दितुमिन्दुरभ्युपैति ॥४०५॥
हरिदत्तस्य ।
८२. क्षरदमृतश्चन्द्रः
शशिनमसूत प्राची नृत्यति मदनो हसन्ति ककुभोऽपि ।
कुमुदरजःपटवासं विकिरति गगनाङ्गने पवनः ॥४०६॥
धर्मकीर्तेः । (सु.र. ९१९)
तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका
कपाटघ्नीमिन्दुः किरणलहरीमुल्ललयति ।
समन्तादुन्मीलद्बहुजलबिन्दुव्यतिकरै
र्यथा पुञ्जायन्ते प्रतिगुणकमेणाङ्कमणयः ॥४०७॥
मुरारेः । (आर्२.७८, सु.र. ९१५)
स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाङ्कुरो
देवः कैरवबन्धुरन्धतमसप्राग्भारकुक्षिम्भरिः ।
संस्कर्ता निजकान्तमौक्तिकमणिश्रेणीभिरेणीदृशां
गीर्वाणाधिपतेः सुधारसवती पौरोगवः प्रोदगात॥४०८॥
तस्यैव । (आर्. ७.६१)
आमोदं कुमुदाकरेषु विपदं पद्मेषु कालानलं
पञ्चेषोर्विशिखेषु सान्द्रशिशिरक्षारं शशिग्रावसु ।
म्लानिं मानवतीमुखेषु विनयं चेतःसु वामभ्रुवां
वृद्धिं वार्धिषु निक्षिपन्नुदयते देवस्तमीकामुकः ॥४०९॥
शङ्करदेवस्य ।
सौरातपविरहज्वललङ्घितगात्रीं कुमुद्वतीं निभृतः ।
संरक्तः परिपश्यन्विधुरयमयते प्रसादयितुम् ॥४१०॥
कस्यचित।
८३. भासः
कह्लारस्पर्शगर्भैः शिशिरपरिचयात्कान्तिमद्भिः कराग्रै
श्चन्द्रेणालिङ्गितायास्तिमिरनिवसने स्रंसमाने रजन्याः ।
अन्योन्यालोकनीभिः परिचयजनितप्रेमनिस्यन्दिनीभि
र्दूरारूढे प्रमोदे हसितमिव परिस्पष्टमाशासखीभिः ॥४११॥
पाणिनेः । (सु.र. ९२०)
उपोढरागेण विलोलतारकं
तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तथा
पुरोऽपि मोहाद्गलितं न लक्षितम् ॥४१२॥
तस्यैव । (Sव्१९६९, शा.प. ३६३४)
यातस्यास्तमनन्तरं दिनकृतो वेशेन रागान्वितः
स्वैरं शीतकरः करं कमलिनीमालिङ्गितुं योजयन।
शीतस्पर्शमवाप्य सम्प्रति तथा गुप्ते मुखाम्भोरुहे
हासेनेव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ॥४१३॥
वसुकल्पस्य । (सु.र. ९२२, ंन्२.४२)
प्राचीमञ्चति यामिनीमनूनयत्याशाः समालम्बते
द्यामालिङ्गति सेवते कुमुदिनीं स्निग्धोऽतिमुग्धैः करैः ।
बह्वीषु प्रतिपन्नमन्मथरसं कुर्वन्मनः कामिना
मिन्दुर्वन्द्यकरः स एष भुवनानन्दः परिस्पन्दते ॥४१४॥
कस्यचित।
कलाधारो वक्रः स्फुरदधररागो नवतनु
र्गलन्मानावेशास्तरुणरमणीर्नागर इव ।
घनश्रोणीबिम्बे नयनमुकुले चाधरदले
कपोले ग्रीवायां कुचकलशयोश्चुम्बति शशी ॥४१५॥
श्रीकण्ठस्य । (सु.र. ९०१)
८४. मिश्रकचन्द्रः
उत्पल्लव इव किरणैः कुसुमित इव तारकाभिरयमिन्दुः ।
उदयत्युदयतटान्ते सुरतरुरिव शीतलच्छायः ॥४१६॥
जनकस्य ।
यात्रायामिव दत्तपूर्णकलशः कन्दर्पराज्ञः शशी
तत्रायं सहकारपल्लवतुलामङ्कः समारोहति ।
ज्योत्स्नालेपनपङ्कपूरितमिव व्योमाङ्गणं सर्वतः
क्षिप्ता मङ्गललाजमुष्टय इव भ्राजिष्णवस्तारकाः ॥४१७॥
कस्यचित।
गगनतलतडागप्रान्तसीम्नि प्रदोष
प्रबलतरवराहोत्खन्यमानश्चकास्ति ।
परिकलितकलङ्कस्तोकपङ्कानुलेपो
निजकिरणमृणालीमूलकन्दोऽयमिन्दुः ॥४१८॥
परमेश्वरस्य । (सु.र. ९३२)
चिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषः
कलङ्कस्तस्यायं वहति मलिनाङ्गारतुलनाम् ।
अथैतस्य ज्योतिर्दरदलितकर्पूरधवलं
मरुद्भिर्भस्मेव प्रसरति विकीर्णं दिशि दिशि ॥४१९॥
राजशेखरस्य । (सु.र. ९०७)
अथोद्दामैरिन्दोः सरसविसदण्डद्युतिधरै
र्मयूखैर्विक्रान्तं सपदि परितः पीततिमिरैः ।
दिनंमन्या रात्रिश्चकितचकितं कौशिककुलं
प्रफुल्लं निद्राणैः कथमपि यथाम्भोरुहवनैः ॥४२०॥
योगेश्वरस्य । (सु.र. ९२३)
८५. बहुरूपकचन्द्रः
एकः संप्रति पाकशासनपुरीपीयूषसत्त्री पुरः
पारक्यं तमसामसौ कुमुदिनीचैतन्यचिन्तामणिः ।
मानोच्चाटनकार्मणं मृगदृशां देवो नभोऽम्भोनिधौ
पश्योदञ्चति पञ्चबाणवणिजो यात्रावहित्रं शशी ॥४२३॥
हरेः ।
अमृतमयमनङ्गक्ष्मारुहस्यालवालं
मृतदिवसकपालं कालकापालिकस्य ।
जयति मकरकेतोः शाणचक्रं शराणां
अमरपुरपुरन्ध्रीदर्पणः श्वेतभानुः ॥४२४॥
त्रिपुरारेः ।
क्रीडाकर्पूरदीपस्त्रिदशमृगदृशां कामसाम्राज्यलक्षी
प्रोत्क्षिप्तैकातपत्रं श्रमशमनचलच्चामरं कामिनीनाम् ।
कस्तूरीपङ्कमुद्राङ्कितमदनवधूमुग्धगण्डोपधानं
द्वीपं व्योमाम्बुराशेः स्फुरति सुरपुरीकेलिहंसः सुधांशुः ॥४२५॥
८६. अस्तमयः
यथैवैष श्रीमांश्चरमगिरिवप्रान्तजलधौ
सुधासूतिश्चेतः कनककमलाशङ्कि कुरुते ।
तथायं लावण्यप्रसरमकरन्दद्रवतृषा
पतद्भृङ्गश्रेणिश्रियमपि कलङ्कः कलयति ॥४२६॥
कस्यचित। (सु.र. ९४०)
कृतपादनिगूहनोवसीद
न्नधिकश्यामकलङ्कपङ्कलेखः ।
गगनोदधिपश्चिमान्तलग्नो
विधुरुत्तान इवास्ति कूर्मराजः ॥४२७॥
शतानन्दस्य । (सु.र. ९७८)
मुषितमुषितालोकास्तारास्तुषारकणत्विषः
सवितुरपि च प्राचीमूले मिलन्ति मरीचयः ।
श्रयति शिथिलच्छायाभोगस्तटीमपराम्बुधेर्
जरठलवलीलावण्याच्छच्छविर्मृगलाञ्छनः ॥४२८॥
शर्वस्य । (सु.र. ९७३)
लुठत्यपरवारिधौ कमलनिर्विशेषः शशी
प्ररूढमुदयाचले चुलुकमात्रमुष्णं महः ।
क्षणं गगनवेदिकामिदमनङ्कुशं गाहते
कलिन्दगिरिकन्यकातटमालनीलं तमः ॥४२९॥
सिह्लणस्य । (सू.मु. ८२.२०)
स्वस्थानादवनीभुजेव पतितं दोषाकरेणेन्दुना
ताराभिर्विरलायितं प्रकृतिभिस्तस्येव निर्धामभिः ।
निःश्रीकैः कुमुदाकरैर्मुकुलितं तस्यावरोधैरिव
प्रध्वस्तं तिमिरोत्करैः परिजनैस्तस्यैव दुश्चारिभिः ॥४३०॥
लक्ष्मीधरस्य ।
८७. उच्चावचचन्द्रः
नेपथ्यं भूतभर्तुस्त्रिदशपरिषदां जीवनं यामिनीनाम्
उत्तंसः पांसुलानां कुलरिपुरमृतस्रोतसामादिशैलः ।
आतङ्कः पङ्कजानां जयति रतिकलाकेतनं मीनकेतोः
सिन्धूनामेकबन्धुः कुमुदसमुदयानन्दकन्दोऽयमिन्दुः ॥४३१॥
शरणस्य ।
ज्योत्स्नामुग्धवधूविलासभवनं पीयूषवीचिसरः
क्षीराब्धेर्नवनीतकूटमवनीतापार्तितोयोपलः ।
यामिन्यास्तिलकः कला मृगदृशां प्रेमव्रतैकाश्रमः
क्रामत्येष चकोरयाचकमहःकर्पूरवर्षः शशी ॥४३२॥
(सु.र. ९५५)
प्राचीगण्डस्थलमलयजस्थासके कामिनीनाम्
अन्तर्यामिण्यमृतकिरणे वैरिणि स्वैरिणीनाम् ।
ज्योत्स्नाजालं विकिरति मुहुश्चन्द्रकान्तप्रणालीर्
आचामन्ति प्रियसहचरीचाटुकाराश्चकोराः ॥४३३॥
हरेः ।
तमोभिर्दिक्कालैर्वियदिव विलङ्घ्य क्व नु गतं
गता द्राङ्मुद्रापि क्व नु कुमुदकोषस्य सरसः ।
क्व धैर्यं तच्चाब्धेर्विदितमुदयाद्रेः परिसर
स्थलीमध्यासीने शशिनि जगदप्याकुलमिदम् ॥४३४॥
अपराजितरक्षितस्य । (सु.र. ९२५)
ऋक्षैर्वृतो हरिपदे निवसन्समीर
सन्तानशैत्यजनकः कुमुदप्रमोदी ।
निघ्नन्निशाचरतमः पृथुनीललक्ष्मा
तारापतिः स्फुरति चित्रमनङ्गदोऽयम् ॥४३५॥
सुरभेः ।
८८. वातः
मज्जन्नम्भसि पुष्पधूलिषु लुठन्नाकम्पयन्भूरुह
श्रेणीरुन्मदकोकिलावलिरवैराबद्धकोलाहलः ।
अध्वन्यान्हृदि ताडयन्पुरवधूवासांसि विस्रंसयन्
स्वच्छन्दं भ्रमति स्मरावनिपतेरुन्मत्तको मारुतः ॥४३६॥
कस्यचित।
अलीनां मालाभिर्विरचितजटाभारमहिमा
परागैः पुष्पाणामुपरचितभस्मव्यतिकरः ।
वनानामाभोगे कुसुमवति पुष्पोच्चयपरो
मरुन्मन्दं मन्दं विचरति परिव्राजक इव ॥४३७॥
वीर्यमित्रस्य । (सु.र. ११३४)
सुरतसमरस्वेदच्छेदप्रदो दलदम्बुज
व्रजपरिमलस्पर्शं वर्षन्नसौ श्वसनः शनैः ।
प्रसरति पिकत्रोटित्रुट्यद्रसालनवाङ्कुर
द्रवनवपरिष्वङ्गैः शीतः कुरङ्गवधूदृशाम् ॥४३८॥
कस्यचित।
प्रमदविपिनवापीसम्भृताम्भोजराजि
प्रकटितमकरन्दग्राहिणोऽमी समीराः ।
अभिनवमदभाजां कामिनीनां कपोले
सुरतसमरखेदस्वेदमुन्मूलयन्ति ॥४३९॥
गदाधरनाथस्य ।
एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि
क्लिश्यत्पीतस्तनपरिसरस्वेदसम्पद्विपक्षाः ।
वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द
त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ॥४४०॥
कस्यचित। (सु.र. ११४१)
८९. दक्षिणवातः
चुम्बन्नाननमालुठन्स्तनतटीमान्दोलयन्कुन्तलं
व्यस्यन्नंशुकपल्लवं मनसिजक्रीडां समुल्लासयन।
अङ्गं विह्वलयन्मनो विकलयन्मानं समुन्मूलयन्
नारीणां मलयानिलः प्रिय इव प्रत्यङ्गमालिङ्गति ॥४४१॥
विनयदेवस्य । (सु.र. ११३३)
एते मे मलयाद्रिकन्दरजुषस्तच्छाखिशाखावली
लीलाताण्डवसम्प्रदानगुरवश्चेतोभुवो बान्धवाः ।
चूतोन्मत्तमधुव्रतप्रणयिनीहुङ्कारझङ्कारिणो
हा कष्टं प्रसरन्ति पान्थयुवतिजीवद्रुहो वायवः ॥४४२॥
श्रीपतेः ।
अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचारा
श्चारून्नुल्लासयन्तो द्रविडवरवधूहारधम्मिल्लभारान।
जिघ्रन्तः सिंहलीनां मुखकमलवनं केरलीनां कपोलं
चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ॥४४३॥
कस्यचित। (सु.र. ११२६)
ये दोलाकेलिकाराः किमपि मृगदृशां मन्युतन्तुच्छिदो ये
सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रयेऽपि ।
ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं
वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥४४४॥
राजशेखरस्य । (वि.शा.भ. १.२७, शा.प. ३८१६, सू.मु. ५९.२९, सु.र. ११४५)
स्वैरं स्वैरं द्रविडललनागण्डपीठं स्पृशन्तः
कर्णाटीनामटनकुटिलाः कुन्तलावर्तनेषु ।
व्याधुन्वन्तो बकुललवलीनागपुंनागवल्ली
र्लोपामुद्रादयितकुकुभो मारुताः संचरन्ति ॥४४५॥
कस्यचित।
९०. नदीवातः
प्रतितटिनि तरङ्गान्मन्दमान्दोलयन्त
स्तरुणकरुणमल्लीफुल्लमुल्लासयन्तः ।
इह हि नववसन्ते वान्ति सीमन्तिनीनां
सुरतसमरखेदच्छेदधीराः समीराः ॥४४६॥
कस्यचित।
धुनानः कावेरीपरिसरभुवश्चम्पकतरू
न्मरुन्मन्दं कुन्दप्रकरमकरन्दानवकिरन।
प्रियप्रेमावर्षच्युतरचनमामूलसरलं
ललाटे लाटीनां लुठितमलकं ताण्डवयति ॥४४७॥
अचलस्य । (सु.र. ११२९)
रेवानिर्झरवारिबिन्दुशिशिरः प्रेयानिवायं सखे
वातः फुल्ललवङ्गसङ्गमवशान्मन्दः कुरङ्गीदृशाम् ।
वक्त्रं चुम्बति वेपथुं जनयति प्रोद्घाटयत्यंशुकं
शीत्कारं तनुते तनीति पुलकं केशान्तमाकर्षति ॥४४८॥
कस्यचित।
वहति मलयशैलोपान्तविश्रान्तवल्ली
नवकिसलयभङ्गक्षीरसौरभ्यबन्धुः ।
रहसि परिचितोऽयं पाण्ड्यसीमन्तिनीनां
दरतरलितरेवातीरनीरसमीरः ॥४४९॥
उमापतिधरस्य ।
उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः
कुहूकण्ठीकण्ठीरवरवलवत्रासितप्रोषितेभाः ।
अमी चैत्रे मैत्रावरुणि तरुणीकेलिकङ्केल्लिमल्ली
चलद्वल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥४५०॥
राक्षसस्य । (शा.प. ३८१०)
९१. समुद्रवातः
वहति जलधिकूले बालताम्बूलवल्ली
चलनविधिविदग्धः सान्द्रनीहारसार्द्रः ।
गगनचरपुरन्ध्रीदन्तनिर्भिन्नवन्य
क्रमुकफलकषायामोदसौम्यः समीरः ॥४५१॥
दक्षस्य ।
लवणजलधिवेलाशीकरासारवर्षी
सुरतरभसखिन्नद्राविडीभुक्तमुक्तः ।
वहति मलयशैलारण्यदोलाविलासी
तरुणकरुणमल्लीगन्धबन्धुः समीरः ॥४५२॥
धर्मपालस्य ।
ये कल्लोलैश्चिरमनुगता दक्षिणस्याम्बुराशेः
पीतोच्छिष्टास्तदनु मलये भोगिभिश्चन्दनस्थैः ।
अन्तर्भ्रान्ताः प्रतिकिसलयं पुष्पितानां लतानां
सम्प्राप्तास्ते विरहशिखिनो गन्धवाहाः सहायाः ॥४५३॥
अमरसिंहस्य ।
मन्दान्दोलितदक्षिणार्णवचलत्कल्लोललीलालस
त्कर्णाटीरतकेलिलोलसुमनोमालासमुल्लासिनः ।
वाताः केरलकामिनीकुचतटे लाटीललाटे मुहुः
खेलन्तो विकिरन्ति मालववधूधम्मिल्लमल्लीस्रजः ॥४५४॥
कस्यचित।
लावण्यैश्चक्रपाणेः क्षणधृतगतयः प्रांशुभिश्चन्द्रकान्त
प्रासादैर्द्वारकायां तरलितचरमाम्भोधितीराः समीराः ।
सेवन्ते नित्यमाद्यत्करिकठिनकरास्फालकालप्रबुद्ध
क्रुध्यत्पञ्चाननोग्रध्वनिभरविगलच्चण्डहुङ्कारगर्भाः ॥४५५॥
कस्यचित।
९२. प्राभातिकवातः
अयमुषसि विनिद्रद्राविडीपीनतुङ्ग
स्तनपरिसरसान्द्रस्वेदविन्दूपमर्दी ।
स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो
वहति सखि भुजङ्गीभुक्तशेसः समीरः ॥४५६॥
कस्यचित। (सु.र. ११४४)
प्रभाते सन्नद्धस्तनिततनिमानं जलधरं
स्पृशन्तः सर्वत्र स्फुटिततरमल्लीसुरभयः ।
अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणी
ललाटस्वेदाम्भःकणपरिमुषो वान्ति मरुतः ॥४५७॥
अचलस्य । (सु.र. ११३९)
रजनिकरमयूखोन्निद्रनीलोत्पलाली
परिमलबहुगन्धो बधुरस्तत्परागैः ।
कवलितरतिखेदस्वेदबिन्दुर्निशान्ते
पुलकयति तुषारासारवर्षी समीरः ॥४५८॥
सरसिरुहस्य ।
रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो
व्यालोलालकवल्लरीं प्रचलयन्धुन्वन्नितम्बाम्बरम् ।
प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजो
जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥४५९॥ अमरुकस्य ।
(अमरु ५८; शा.प. ३७३२, सू.मु. ८३.१)
स्तनपरिसरभागे दूरमावर्तमानाः
श्रिततनिमनि मध्ये किञ्चिदेव स्खलन्तः ।
ववुरतनुनितम्बाभोगरुद्धा वधूनां
निधुवनरसखेदच्छेदिनः कल्यवाताः ॥४६०॥
रत्नाकरस्य । (Sव्२१६७, शा.प. ३७३०)
९३. मदनः
सुधासूतेर्बन्धुर्मधुसहचरः पञ्चमरुचि
दिशंल्लीला बह्वीः कुवलयदृशां नर्मणि गुरुः ।
स देवः शृङ्गारी हृदयवसतिः पञ्चविशिखः
सदा स्वादून्कुर्वन्मधुमदविकारान्विजयते ॥४६१॥
राजशेखरस्य ।
अन्तर्बहिस्त्रिजगतीरसभावविद्वान्
यो नर्तयत्यखिलदेहभृतां कुलानि ।
क्षेमं ददातु भगवान्परमादिदेवः
शृङ्गारनाटकमहाकविरात्मजन्मा ॥४६२॥
भवानन्दस्य ।
जयति स मदलेखोच्छृङ्खलप्रेमरामा
ललितसुरतलीलादैवतं पुष्पचापः ।
त्रिभुवनजयसिद्धौ यस्य शृङ्गारमूर्ते
रुपकरणमपूर्वं माल्यमिन्दुर्मधूनि ॥४६३॥
उत्पलराजस्य । (सु.र. ३३२)
मनसि कुसुमबाणैरेककालं त्रिलोकीं
कुसुमधनुरनङ्गस्ताडयत्यस्पृशद्भिः ।
इति विततविचित्राश्चर्यसङ्कल्पशिल्पो
जयति मनसिजन्मा जन्मिभिर्मानिताङ्गः ॥४६४॥
कस्यचित। (सु.र. ३२५)
याच्यो न कश्चन गुरुः प्रतिमा च कान्ता
पूजा विलोकननिगूहनचुम्बनानि ।
आत्मा निवेद्यमितरव्रतसारजेत्रीं
वन्दामहे मकरकेतन देव दीक्षाम् ॥४६५॥
वल्लनस्य । (सु.र. ३३३)
९४. मदनशौर्यं
वन्दे देवमनङ्गमेव रमणीनेत्रोत्पलच्छद्मना
पाशेनायतिशालिना सुनिविडं संयम्य लोकत्रयम् ।
येनासावपि भस्मनाञ्जिततनुर्देवः कपाली बलात्
प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः ॥४६६॥
ललितोकस्य । (सु.र. ३२८)
चापः क्षमाधरपतिः फणिना पतिर्ज्या
बाणः पुराणपुरुषस्त्रिदशाः सहायाः ।
ईशः पुरामिति पुरां तिसृणां विजेता
पुष्पायुधः पुनरयं त्रिजगद्विजेता ॥४६७॥
भवानन्दस्य ।
अयं स भुवनत्रयप्रथितसंयमः शङ्करो
बिभर्ति वपुषाधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयमिति प्रयायाः करं
करेण परिताडयञ्जयति जातहासः स्मरः ॥४६८॥
नीलपट्ठस्य । (सु.र. ३२३)
कुलगुरुरबलानां केलिदीक्षाप्रदाने
परमसुहृदनन्ङ्गो रोहिणीवल्लभस्य ।
अपि कुसुमपृषत्कैर्देवदेवस्य जेता
जयति सुरतलीलानाटिकासूत्रधारः ॥४६९॥
राजशेखरस्य । (वि.शा.भ. १.१, सु.र. ३२७, शा.प. ३०७७, सू.मु. १.२५)
धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला
मनोभेद्यशब्दप्रभृतय इमे पञ्चविशिखाः ।
इयां जेतुं यस्य त्रिभुवनमदेहस्य विभवः
स वः कामः कामान्दिशतु दयितापाङ्गवसतिः ॥४७०॥
कस्यचित। (Sव्८२, सु.र. ३३१)
९५. उच्चावचम्
पुनः प्रादुर्भावादनुमितमिदं जन्मनि पुरा
पुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान।
नमन्जन्मन्यस्मिन्नहमतनुरग्रेऽप्यनतिभाङ्
महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥४७१॥
मुञ्जस्य । (सु.र. ३६)
न ज्योत्स्ना न च मालती न दयिता नो वल्लकीपञ्चम
स्ताम्बूलं न विलेपनं न च रहःकेलिर्न मुक्तालता ।
नो वा सत्कविसूक्तयो मम तथा हर्तुं क्षमन्ते मनः
पुण्यैरुन्मिलिता चराचरगुरोर्भक्तिर्यथा शूलिनः ॥४७२॥
तस्यैव ।
का दुर्दशा कुपितनिर्दयचित्रगुप्त
वित्रासितस्य जगतो यदि देवि न स्याः ।
त्वं कर्मबन्धनविमोचनधर्मराज
लेखाधिकारपरिशोधनजातपत्री ॥४७३॥
विरिञ्चेः ।
स्वाङ्गैः कल्पितसान्द्रतल्परचनः श्वासानिलोल्लासिभिः
कल्लोलैः कृतचामरः पृथुफणाक्ÿप्तातपत्रक्रियः ।
चूडारत्नधृतप्रदीपवलयो विश्वेशमादार्धयन्
नाकल्पस्थिरनिश्चयेन मनसा शेसः परं जीवति ॥४७४॥
ब्रह्मनागस्य ।
स श्लाघ्यस्तनमुपस्तुन्वन्ति विबुधास्तेनान्वयः पावित
स्तस्मै नाम नमन्ति तेऽपि मुनयो मान्यास्ततो बिभ्यति ।
हस्ते तस्य जगत्त्रयी किमपरं तत्रामृतं लीयते
येन श्रीहरिपादपद्मरजसि न्यस्तं कदाचिन्मनः ॥४७५॥
श्रीधरदासविनिर्मितसदुक्तिकर्णामृते पवित्रयतु ।
गङ्गेव गाहमानान्प्रथमो देवप्रवाहोऽयम् ॥
इति श्रीमहामाण्डलिकश्रीधरदाससंगृहीते सदुक्तिकर्णामृते देवताप्रवाहो नाम प्रथमः प्रवाहः ।
(अथ वीचयः ९५ श्लोकाः ४७५)
------------------------------------------------------------
(२) शृङ्गारप्रवाहवीचयः
वयसोः सन्धिरुदञ्चद्युवभावा युवतिरङ्गनाश्चर्यम् ।
मुग्धा मध्या प्रौढा नवपरिणीता च सैव विस्रब्धा ॥१॥
गर्भवती सत्यवती स्वैरिण्युपदेशगुप्तबन्धक्यौ ।
वैदग्ध्यवती कुलटा लक्षितकुलटा च वारवनिता च ॥२॥
अपि दाक्षिणात्यपाश्चात्यौदीच्यप्राच्ययुवतयो ग्राम्याः ।
स्त्रीमात्रं खण्डितया सहान्यसंभोगचिह्नदूना च ॥३॥
कलितविरहिणी विरहिण्यस्या वागश्रु दूतिकावचनम् ।
दयिते प्रियपुर्षोत्तरवचसी चेष्टानुकथनं च ॥४॥
ताप तन्त्वोद्वेगक्षणदावस्थाविभावनं तस्याः ।
वासकसज्जा स्वाधीनभर्तृका विप्रलब्धा च ॥५॥
कलहान्तरिता तद्वाक्सखीवचो गोत्रतः स्खलनम् ।
मानिन्युदात्तमानिन्यनुरक्तमनस्विनी तदीयोक्तिः ॥६॥
तस्यां सखीप्रबोधोऽनुनयो मानक्षतिः प्रवसतः स्त्री ।
यात्राक्षेपः प्रोषितपतिका तद्वाक्सखीषु तद्वचनम् ॥७॥
तस्याः प्रियसंवादोऽवस्थाकथनं प्रतीक्षणं पत्युः ।
काकः प्रियसंभेदोऽप्यथाभिसारक्रियारम्भः ॥८॥
अभिसारिका दिनतमोज्योत्स्नादुर्दिनगता च कुलटानाम् ।
प्रलपितमबलारूपं भ्रूदृक्कर्णाधराननं वचनम् ॥९॥
बाहुस्तनरोमावलिमध्यं च क्रीडितानि युवतीनाम् ।
अनुकूलो दक्षिणशठधृष्टग्राम्याश्च नायका मानी ॥१०॥
प्रोषितपथिकौ वर्षापथिकः पथिकस्य नायिकास्मरणम् ।
यात्राभङ्गो विरहो विरहिस्त्रीस्मरणमवलोकः ॥११॥
चित्रं स्वप्नो यूनोरभिलाषस्तानवं गुणाख्यानम् ।
उद्वेगः परिदेवनमिद्नुस्मरजलमुचामुपालम्भः ॥१२॥
उन्मादः स्मरलेखः क्रीडावनवारिणोरलङ्कारः ।
दूतीसंवदनं स्त्री पुंलोभनदूत्युपालम्भौ ॥१३॥
मिथुनागमनं वाद्यं गीतं दुरोदरं दृष्टिः ।
स्त्रीणां कटाक्षचाटू मधुपानं तल्पसंश्रयणम् ॥१४॥
परिरम्भचुम्बनाधरदंशनखन्यासकण्ठकूजश्च ।
वस्त्राकर्षनवोढासंभोगौ निधुवनारम्भः ॥१५॥
सुरतं विपरीतरतं विपरीतरतानुकथनसुरतान्तौ ।
उषसि प्रियावलोकनमथ वनितानिष्क्रमो रतश्लाघा ॥१६॥
आलीनामितरेतरकथा शुकालापलज्जमाना च ।
प्रत्यूषादित्योदयमध्याह्नास्तमयसायतिमिराणि ॥१७॥
दीपेन्दूदयरजनय आरम्भः कुसुमसमयस्य ।
कुसुमसमयोऽस्य वासरतरुपिकमधुपा निदाघतद्वेशौ ॥१८॥
ग्रीष्मभवः शृङ्गारो दववह्निः प्रावृडारम्भः ।
वर्षा वार्षिकवारिदतटिनीदिनरात्रयः ॥१९॥
शरदेतदीयह्रद्नी खञ्जनहेमन्ततत्तमस्विन्यः ।
हैमनहालिकपथिकौ शिशिरस्तद्ग्रामशस्यशर्माणि ॥२०॥
उच्चावचमिति नवसप्तत्यधिकशतेन सरसवीचीनाम् ।
श्रीधरदासेन सतारचि शृङ्गारप्रवाहोऽयम् ॥२१॥
शृङ्गारप्रवाहः
१. वयःसन्धिः
अचञ्चलं मुग्धमुदञ्चितं दृशोर्
अनुन्नतं श्रीमदुरो मृगीदृशः ।
अभङ्गुराकूतवती गतिर्भ्रुवोर्
अबद्धलक्ष्यं क्वचिदुत्कमान्तरम् ॥४७६॥
गोसोकस्य ।
अप्रकटवर्तितस्तनमण्डलिकानिभृतचक्रदर्शिन्यः ।
आवेशयन्ति हृदयं स्मरचर्यागुप्तयोगिन्यः ॥४७७॥
तस्यैव ।
यूनां पुरः सपदि किञ्चिदुपेतलज्जा
वक्षो रुणद्धि मनसैव न दोर्लताभ्याम् ।
प्रौढाङ्गनाप्रणयकेलिकथासु बाला
शुश्रूषुरन्तरथ बाह्यमुदास्त एव ॥४७८॥
श्रीहनूमतः ।
अहमहमिकाबद्धोत्साहं रतोत्सवशंसिनि
प्रसरति मुहुः प्रौढस्त्रीणां कथामृतदुर्दिने ।
कलितपुलका सद्यः स्तोकोद्गतस्तनकोरके
वलयति शनैर्बाला वक्षःस्थले तरलां दृशम् ॥४७९॥
धर्माशोकदत्तस्य ।
लावण्यामृतसान्द्रसिन्धुलहरीसंसिक्तमस्या वपुर्
जातस्तत्र नवीनयौवनकलालीलालतामण्डपः ।
तत्रायं स्पृहणीयशीतलतरुच्छायाप्रसुप्तोत्थितः
संमुग्धो मधुबान्धवः स भगवानद्यापि निद्रालसः ॥४८०॥
भिक्षोः । (सु.र. ३५९)
२. किञ्चिदुपारूढयौवना ।
यत्प्रत्यङ्गं स्फुटमनुसरन्त्यूर्मयो विभ्रमाणां
क्षोभं धत्ते यदपि विपुलः स्निग्धलावण्यपङ्कः ।
उन्मग्नं यत्स्फुरति च मनाक्कुम्भयोर्युग्ममेतत्
तन्मन्येऽस्या स्मरगजयुवा गाहते हृत्तडागम् ॥४८१॥
विधूकस्य । (सु.र. ३६५)
भ्रुवोः काचिल्लीला परिणतिरपूर्वा नयनयोः
स्तनाभोगो व्यक्तस्तरुणिमसमारम्भसमये ।
इदानीमेतस्याः कुवलयदृशः प्रत्यहमयं
नितम्बस्याभोगो नयति मणिकाञ्चीमधिकताम् ॥४८२॥
राजोकस्य । (सु.र. ३३४, शा.प. ३२७४, सू.मु. ५१.७)
दरोत्तानं चक्षुः कलितविरलापाङ्गचलनं
भविष्यद्विस्तारस्तनमुकुलगर्भालसमुरः ।
नितम्बे सङ्क्रान्ताः कतिपयकला गौरवजुषो
वपुर्मुञ्चद्बाल्यं किमपि कमनीयं मृगदृशः ॥४८३॥
कस्यचित। (सु.र. ३५१, सू.मु. ५१.१०)
पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्यां
श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः ।
धत्ते वक्षः कुचसचिवतामद्वितीयं च वक्त्रं
तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥४८४॥
राजशेखरस्य । (सु.र. ३५५, शा.प. ३२८२, सू.मु. ५२.४)
गते बाल्ये चेतः कुसुमधनुषा सायकहतं
भयाद्वीक्ष्यैवास्याः स्तनयुगमभून्निर्जिगमिषु ।
सकम्पा भ्रूवल्ली चलति नयनं कर्णकुहरं
कृशं मध्यं भुग्ना बलिरलसितः श्रोणिफलकः ॥४८५॥
३. युवतिः
तरन्तीवाङ्गानि स्फुरदमललावण्यजलधौ
प्रथ्म्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च ।
दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलताम्
अहो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥४८६॥
राजशेखरस्य । (सु.र. ३७५)
अतन्त्री वाग्वीणा स्तनयुगलमग्रीवकलसा
वनब्जं दृङ्नीलोत्पलदलमपत्रोरुकदली ।
अकाण्डा दोर्वल्ली वदनमकलङ्कः शशधरस्
तदस्यास्तारुण्यं भुवनविपरीतं घटयति ॥४८७॥
वाग्वीणस्य ।
न जङ्घे गौराङ्ग्याः सरसकदलीस्तम्भयुगलं
न मध्योऽयं वेदी न कुचयुगलं काञ्चनघटौ ।
न काञ्ची किं चायं स्फुरति परितस्तोरणगुणः
स्मरस्यैतन्मन्ये सकलमभिषेकोपकरणम् ॥४८८॥
कस्यचित।
तदेतत्सर्वस्वं भुवनजयिनः पुष्पधनुषो
मनुष्याणामेकं तदिदमसमं जीवितफलम् ।
इदं तत्सौख्यानां कुलभवन्माद्यं त्रिभुवने
यदेतत्तारुण्योपहितमहिमानो मृगदृशः ॥४८९॥
कस्यचित।
मध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नमद्
विस्तारिस्तनभारमन्थरमुरो मुग्धा कपोलश्रियः ।
किं चामुग्धविनिद्रनीरजदृशस्तारुण्यपुण्यातिथेर्
अस्याः कुङ्कुमपङ्कलेपलडहच्छायं वपुर्वर्तते ॥४९०॥
कस्यचित। (सु.र. ३६१, वज्रमुष्टेः)
४. नायिकाद्भुतम्
मध्ये हेमलतं कपित्थयुगलं प्रादुर्बभूव क्रम
प्राप्तौ तालफलद्वयं तदभवन्निःसन्धि भावस्थितम् ।
पश्चाद्बद्धसमुन्नतिव्यतिकरं सौवर्णकुम्भद्वया
कारेण स्फुटमेव तत्परिणतं क्वेदं वदामोद्भुतम् ॥४९१॥
वेतोकस्य । (सु.र. ३८७)
दृष्टा काञ्चनयष्टिरद्य नगरोपान्ते भ्रमन्ती मया
तस्यामद्भुतमेकपद्ममनिशं प्रोत्फुल्लमालोकितम् ।
तत्रोभौ मधुपौ तथोपरि तयोरेकोष्टमीचन्द्रमास्
तस्याग्रे परिपुञ्जितेन तमसा नक्तं दिवं स्थीयते ॥४९२॥
तस्यैव (सु.र. ३८८)
दृष्टाः शैवलमञ्जरीपरिचिताः सिन्धोश्चिरं वीचयो
रत्नान्यप्यवलोकितानि बहुशो युक्तानि मुक्ताफलैः ।
यत्तु प्रोज्झितलाञ्छने हिमरुचावुन्निद्रमिन्दीवरं
संसक्तं च मिथो रथाङ्गमिथुनं तत्कुत्र दृष्टं पुनः ॥४९३॥
रथाङ्गस्य । (सु.र. ४५२, विक्रमादित्यस्य)
लावण्यसिन्धुरपरैव हि केयमत्र
यत्रोत्पलानि शशिना श सम्प्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटी च यत्र
यत्रापरे कदलकाण्डमृणालदण्डाः ॥४९४॥
विक्रमादित्यस्य । (स.क.आ. ४.१०२, सू.मु. ४९.१७, सु.र. ४२६)
किं कोप्येष मनोभ्रमः किमथवा जातो दृशां मादृशां
दोषस्तैमिरिकः किमेष सुमहानुत्पातनामा विधिः ।
यन्नीलाञ्जनसंनिभोत्पलदलद्वन्द्वोल्लसत्पञ्चम
व्याहारी दिवसे च वर्धितरुचिर्गेहे शशी पार्वणः ॥४९५॥
कस्यचित।
५. मुग्धा
वारं वारमनेकधा सखि मया चूतद्रुमाणां वने
पीतकर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः ।
तस्मिन्नद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गमुत्कम्पितं
तापश्चेतसि नेत्रयोस्तरलता कस्मादकस्मान्मम ॥४९६॥
भोजदेवस्य । (सु.र. ३५०)
वविरेव मलयमरुतो जगुरेव पिकाः परारि च परुच्च ।
उत्कण्ठाभरतरलं सखि मानसमैषमः किमिदम् ॥४९७॥
कालिदासस्य ।
सा पत्न्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥४९८॥
अमरोः [अमरु २६]
ध्रुवमुदधितटीषु वल्लयस्ता
यदुदिततन्तुचयैर्भवन्ति काञ्च्यः ।
इह हरिणदृशः फलैर्यदीयैर्
विदधति मौक्तिकनाम्भिश्च हारान॥४९९॥
राजशेखरस्य । (सू.मु. ८६.३)
यावद्यावत्कुवलयदृशा मृज्यते दन्तराजिस्
तावत्तावद्द्विगुणमधरच्छायया शोणशोचिः ।
भूयो भूयः प्रियसहचरीदर्शितादर्शभित्तौ
दृष्ट्वा दृष्ट्वा न विरमयते पाणिमद्यापि मुग्धा ॥५००॥
देवबोधस्य ।
६. मध्या
विरम नाथ विमुञ्च ममाञ्चलं
शमय दीपमियं समया सखी ।
इति नवोढवधूवचसा युवा
मुदमगादधिकां सुरतादपि ॥५०१॥
रुद्रटस्य । (शृ.ति. १.३५फ़्, शा.प. ३६७५, सू.मु. ७७.४)
दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्यभाजो गिरः
पाणिः कुन्तलमालिकाविरचने त्यक्तान्यकार्यग्रहः ।
वक्षः संव्रियते पुनः पुनरिदं भारालसं गम्यते
जाता सुभ्रु मनोरमा तव दशा कस्मादकस्मादियम् ॥५०२॥
कस्यचित। (शृ.ति. १.३९फ़्)
यथा रोमाञ्चोऽयं स्तनभुवि लसत्स्वेदकणिको
यथा दृष्टिस्तिर्यक्पतति सहसा सङ्कुचति च ।
तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादितरसं
न मध्यस्थं चेतः प्रगुणरमणीयं न च दृढम् ॥५०३॥
कस्यचित।
न वक्ति प्रेमार्द्रं न खलु परिरम्भं रचयति
स्थितौ तस्यां तस्यां करकमललीलां न सहते ।
स्मितज्योत्स्नाकान्तं मुखमभिमुखं नैव कुरुते
तथाप्यन्तः प्रीतिं वपुषि पुलकोऽस्याः कथयति ॥५०४॥
कालिदासस्य ।
यदन्योन्यप्रेमप्रवणयुवतीमन्मथकथा
समारम्भे स्तम्भीभवति पुलकैरञ्चिततनुः ।
तथा मन्ये धन्यं परमसुरतब्रह्मनिरतं
कुरङ्गाक्षी दीक्षागुरुमकृत कञ्चित्सुकृतिनम् ॥५०५॥
नरसिंहस्य । (सु.र. ३७४)
७. प्रगल्भा
गण्डे मण्डनमात्मनैव कुरुते वैदग्ध्यगर्वादसौ
मुक्त्वा हेमविभूषणानि तनुते तालीदलेषु ग्रहम् ।
मन्दा कन्दुकखेलनाय भजते शारीषु शिक्षारसं
तन्व्याश्चित्रमकाण्ड एव लडहे भावे निबद्धो भरः ॥५०६॥
कस्यचित। (सू.मु. ५१.१२)
दोलायां जघनस्थलेन चलता लोलेक्षणा लज्जते
सज्जं मौग्ध्यविसर्जनाय सुतनोः शृङ्गारमित्रं वपुः ।
स्पर्शः कण्टककोटिभिः कुटिलया लीलावने नेष्यते
धत्ते दिक्षु निरीक्षणं स्मितमुखी पारावतानां रुतैः ॥५०७॥
बिल्हणस्य । (Vच्८.८६, शा.प. ३२७८, सू.मु. ५१.१४)
प्रियस्य रूढप्रणयस्य काचित्
किञ्चित्समुत्सार्य नितम्बबिम्बम् ।
भ्रुवस्त्रिभागेन तरङ्गितेन
सलीलमर्धासनमादिदेश ॥५०८॥
प्रवरसेनस्य ।
मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनैर्
अलसवलितैरङ्गन्यासैर्महोत्सवबन्धुभिः ।
असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितैस्
त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥५०९॥
रुद्रटस्य । (शृ.ति. १.४२द्)
अभ्यस्य स्मरदंशकौशलमुपाध्यायीरुपास्यावयोः
क्रीडाम्नायरहस्यवस्तुनि मिथोऽप्यासीज्जिगीषा सखि ।
उत्कम्पोत्पुलकाङ्गसंभृतघनस्वेदाबिलस्तन्मया
सद्यो निष्प्रतिभः स मन्मथकथावैतण्डिकः खण्डितः ॥५१०॥
योगोकस्य ।
८. नवोढा
प्रथयति मयि व्याजेनाङ्गं ह्रिया च निगूहते
क्षिपति विशदस्निग्धं चक्षुः क्षणाच्च नियच्छति ।
मम च सहते दृष्टा दृष्टिं पुनश्च समीहते
वहति हृदये कामं बाला न चोज्झति वामताम् ॥५११॥
चन्द्रस्वामिनः ।
पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥५१२॥
अमरुकस्य । (अमरु ३८, Sव्२०५६, शा.प. ३६७३; स.क.आ.ं ११२८; Vइश्नुदस्तो उ.नी. ५.१९)
निर्यन्त्रणं विहर मा चिरस्य प्रसीद
किं वेपसे पवनवेल्लितवल्लरीव ।
क्षीरोदचञ्चलदृगञ्चलपातमात्रैः
क्रीते जने क इव संभ्रमसंनिरोधः ॥५१३॥
गोवर्धनस्य ।
अवचनं वचनं प्रियसंनिधा
वनवलोकनमेव विलोकनम् ।
अवयवावरणं च यदञ्चल
व्यतिकरेण तदङ्गसमर्पणम् ॥५१४॥
कालिदासस्य । (सु.र. ५०२, सू.मु. ८८.१८)
क्षिपति दयिते दृष्टिं वक्रामपाङ्गतरङ्गिणीं
हसितमनभिव्यक्तं मध्ये दधाति कपोलयोः ।
मृदु मदकलं किञ्चिद्वाक्यं कथञ्चन मुञ्चती
हरति हृदयं प्रौढेवेयं नवापि नितम्बिनी ॥५१५॥
उमापतिधरस्य ।
९. विस्रब्धनवोढा
दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता
शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते
जाता वामतयैव मेऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥५१६॥
श्रीहर्षदेवस्य । (ण्न्३.४, Sव्२०७२, सु.र. ४६९, शा.प. ३६७२, सू.मु. ७७.२)
अपि भुजलतोत्क्षेपादस्याः कृतं परिरम्भणं
प्रियसहचरीक्रीडालापे श्रुता अपि सूक्तयः ।
नवपरिणयव्रीडावत्या मुखोन्नतियत्नतोऽप्य्
अलसवलिता तिर्यग्दृष्टिः करोति महोत्सवम् ॥५१७॥
कालिदासनन्दिनः ।
हरति रुचिरं गाडाश्लेषे यदङ्गकमङ्गना
स्थगयति तथा यत्पाणिभ्यां मुखं परिचुम्बने ।
यदपि बहुशः पृष्टा किञ्चिद्ब्रवीत्यपरिस्फुटं
रमयतितरां तेनैवासौ मनोभिनवा वधूः ॥५१८॥
कस्यचित। (Sव्२०६१)
प्रगल्भस्त्रीशिक्षानियमितभयव्रीडमुदित
स्मरोत्कम्पस्वेदं वहति घनमालिङ्गति मुहुः ।
मुहुः स्वादु स्वैरं वदति निभृतं पश्यति मुहुश्
चिरादेवं धन्या नचिरपरिणीता रमयति ॥५१९॥
प्रियाकरस्य ।
दन्ताग्रग्रहणं करोति शनकैर्नैवाधरे खण्डनं
कण्ठे श्लिष्यति निर्भरग्रहविधिं कर्तुं पुनः शङ्कते ।
तिष्ठत्येव रतान्तरेष्वभिमुखं नैवाभियुङ्क्ते स्वयं
निष्प्रागल्भ्यतयैव वल्लभतरो यूनां नवोढाजनः ॥५२०॥
भ्रमरदेवस्य । (Sव्२१११)
१०. गर्भिणी
आविर्भूतविपाण्डुरच्छवि मुखं क्षामा कपोलस्थली
सव्यापारपरिश्लथे च नयनेऽनुत्साहमुग्धं वपुः ।
श्यामीभूतमुखं पयोधरयुगं मध्यः स्वभावोच्छ्रितो
जातान्यैव मनोहराकृतिरहो गर्भोदये सुभ्रुवः ॥५२१॥
कालिदासनन्दिनः ।
हारिद्रमम्बरमुपान्तनिबद्धचक्रम्
एकं कुलस्थितिवशाद्दधती प्रियासौ ।
तत्कालमङ्गलसमाचरणप्रयत्न
व्यासिद्धकेलिरपि मङ्गमातनोति ॥५२२॥
तस्यैव ।
मृदासक्ता हृद्यं स्थगयति मुखं चुम्बति मयि
स्तनौ पाण्डुश्यामौ मम करतलादाक्षिपति च ।
कृते गर्भालापे विशदहसितं रक्षति रुषा
प्रिया सर्वाकारं विशति हृदयं वल्लभतया ॥५२३॥
कर्णाटदेवस्य ।
अलसमधुरा स्निग्धा दृष्टिर्घनत्वमुपागता
किसलयरुचिर्निस्ताम्बूलस्वभावधरोधरः ।
त्रिवलिवलया लेखोन्नेया घटन्त इवैकतः
प्रकृतिसुभगा गर्भेणासौ किमप्युपपादिता ॥५२४॥
तस्यैव ।
परिणतशरकाण्डा पाण्डुरा गण्डभित्तिः
कुचकलसमुखश्रीः कालिमानं दधाति ।
व्यपनतकृशभावं पीनतामेति मध्यं
वपुरतिशयगौरं गर्भमाविष्करोति ॥५२५॥
पशुपतिधरस्य ।
११. कुलस्त्री
कुर्वीथाः श्वशुरस्य भक्तिमधिकां श्वश्र्वाश्च पादानतिं
स्नेहं भृत्यजने प्रतीच्छ रभसाद्द्वारागतान्बान्धवान।
भर्तारं सुखदुःखयोरविकृतप्रेमानुबन्धोदया
गेहे वा विपिनेऽपि वा सहचरीवृत्तेन नित्यं भज ॥५२६॥
कालिदासनन्दिनः ।
न नयति बहुमानस्यास्पदं स्निग्धबन्धून्
न च गुणिनि समृद्धेऽप्यादरं याति ताते ।
न भजति धृतिमन्तर्नन्दनेऽप्यन्तरात्मा
भवति हि पतिनिष्ठं प्रेम साध्वीजनस्य ॥५२७॥
उमापतिधरस्य ।
अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता
तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् ।
सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति
प्राच्यैः पुतिर्निवेदिताः कुलवधूसिद्धान्तधर्मा अमी ॥५२८॥
राजशेखरस्य । (बा.रा. ४.४३)
शिरो यदवगुण्ठितं सहजरूढलज्जानतं
गतं च परिमन्थरं चरणकोटिलग्ने दृशौ ।
वचः परिमितं च यन्मधुरमन्दमन्दाक्षरं
निजं तदियमङ्गना वदति नूनमुच्चैः कुलम् ॥५२९॥
क्षेमीश्वरस्य ।
शुश्रूषस्व गुरून्कुरु प्रियसखिवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥५३०॥
कालिदासस्य । (Sःअक्. ४.१८, सू.मु. ११८.१)
१२. असती
सिकतिलतलाः सान्द्रच्छायास्तटान्तविलम्बिनः
शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः ।
अविनयवतीनिर्विच्छेदस्मरव्ययदायिनः
कथय मुरले केनामी ते कृता निचुलद्रुमाः ॥५३१॥
विद्यायाः । (सु.र. ८०९)
पत्युः केलिभिरस्थिषु च्छिदुरता मर्मक्षतिर्नर्मणा
शृङ्गारेण गुरुव्यथा समुदयत्युच्चाटनं चाटुभिः ।
ध्यायन्त्याः सततोत्सुकेन मनसा नीरन्ध्रवानीरिणीर्
आकौमारमुपास्यमानमुरलासीमाभुवः सुभ्रुवः ॥५३२॥
उमापतिधरस्य ।
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्
ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कणंहते ॥५३३॥
कस्यचित। (सु.र. ८१५; शा.प. ३७६८; सू.मु. ८७.९; Sद्१.२, पद्या. ३८२, CःCः २.१.५८, २.१३.१२१, ३.१.७८.)
दावालीढकलेवरे विटपिनि प्राप्तोद्गमानङ्कुरान्
अग्रे पल्लवितैर्मनोभिरचिराच्चेतोभुवा नर्तिताः ।
सानन्दाश्रु विलोकयन्ति कलितस्वेदं स्पृशन्त्यादराद्
उत्कम्पाङ्गुलि दर्शयन्ति मदनक्रीडामहस्मारिणः ॥५३४॥
जलचन्द्रस्य ।
तस्याः सम्प्रति वासरक्रमनमत्तोये तमालातटे
साकूतं निपतन्ति वेतसलताकुञ्जोदरे दृष्टयः ।
सोत्कम्पस्खलितांशुकस्तनतटं सोल्लासकाञ्चीगुण
ग्रन्थिन्यस्तचलाङ्गुलीकिसलयं स्वेदार्द्रहस्ताम्बुजम् ॥५३५॥
चण्डालचन्द्रस्य ।
१३. कुलटोपदेशः
वयं बाल्ये बालांस्तरुणिमनि यूनः परिणताव्
अपीच्छामो वृद्धांस्तदिह कुलरक्षा समुचिता ।
त्वयारब्धं जन्म क्षपयितुमनेनैकपतिना
न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत॥५३६॥
विद्यायाः । (स.क.आ. ३.१६३, शा.प. ३७६१)
उन्मीलद्यौवनासि प्रियसखि विषमाः श्रेणयो नागराणां
तस्मात्कोऽपि त्वयाद्य प्रभृति न सहसा संमुखं वीक्षणीयः ।
यावच्चन्द्रार्कमेकः पतिरतिशयितश्रद्धया सेवितव्यः
कर्तव्या रूपरक्षा वचसि न हृदयं देयमस्मद्विधानाम् ॥५३७॥
शरणस्य ।
आराध्यः पतिरेव तस्य च पदद्वन्द्वानुवृत्तिर्व्रतं
केनैताः सखि शिक्षितासि विपथप्रस्थानदुर्वासनाः ।
किं रूपेण न यत्र मज्जति मनो यूनां किमाचार्यकैर्
गूढानङ्गरहस्ययुक्तिषु फलं येषां न दीर्घं यशः ॥५३८॥
तस्यैव ।
अस्माकं व्रतमेतदेव यदयं कुञ्जोदरे जागरः
शुश्रूषा मदनस्य वक्त्रमधुभिः सन्तर्पणीयोऽतिथिः ।
निस्त्रिंशाः शतशः पतन्तु शिरसश्छेदोऽथवा जायताम्
आत्मीयं कुलवर्त्म पुत्रि न मनागुल्लङ्घनीयं त्वया ॥५३९॥
वैद्यगदाधरस्य ।
कुलोत्कर्षात्स्नेहात्कमितुरथवा पातकभयात्
सखि श्रद्धा ते स्याद्यदि विनयमालम्बितुमपि ।
किमेभिर्दातव्यं परिकलयं शिप्रातटरुहां
करञ्जानां कुञ्जैरविनयवतीनर्मनिपुणैः ॥५४०॥
डिम्बोकस्य ।
१४. गुप्तासती
दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि
प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि सत्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥५४१॥
विद्यायाः । (द.रू. २.२१अ, शा.प. ३७६९, सू.मु. ८७.७, सु.र. ८०७)
उपान्तप्रोन्मीलद्विटपिजटिलां कौतुकवती
कदाचिद्गन्तासि प्रियसखि न शिप्रातटभुवम् ।
यदस्यां मुक्तास्रग्विहितसितभोगिभ्रमतया
वयोरूढः केकी लिखति नखरेण स्तनतटम् ॥५४२॥
मधोः ।
षष्ठ्यां गन्तुमरण्यमस्मि चकिता यत्रार्चयन्ती द्रुमान्
दृष्ट्वैवापतिता भुजङ्गमभितो व्यस्तापयान्ती ततः ।
विश्लिष्यद्वसना विकीर्णकवरी जातक्षता कण्टकैः
कास्मीति स्वमहं न वेद सखि तद्वन्दे व्रतं तादृशम् ॥५४३॥
गोविन्दस्वामिनः ।
अन्यासां न किमस्ति वेश्मनि वधूः कैवं निशि प्रावृषि
प्रैति प्रान्ततडागमम्ब गृहिणि स्वस्थासि मेऽवस्थया ।
भग्नोऽयं वलयो घटो विघटितः क्षण्णा तनुः कण्टकैर्
आक्रान्तः स तथा भुजङ्गहतकः कष्टं न यद्दष्टवान॥५४४॥
पातुकस्य ।
अम्ब श्वश्रु यदि त्वया हतशुकः संवर्धनीयस्तदा
लौहं पञ्जरमस्य दुर्णयवतो गाढान्तरं कारय ।
अद्यैवं वदरीनिकुञ्जकुहरे संलीनमन्विष्यती
दष्टा यन्न भुजङ्गमेन तदतिश्रेयः किमेभिः क्षतैः ॥५४५॥
कस्यचित। (सु.र. ८१८)
१५. विदग्धासती
ग्रामान्ते वसतिर्ममातिविजने दूरप्रवासी पतिर्
गेहे देहवती जरेव जरती श्वश्रूर्द्वितीया परम् ।
एतत्पान्थ वृथा विडम्बयति मां बाल्यातिरिक्तं वयः
सूक्ष्मं वीक्षितुमक्षमेह जनता वासोन्यतश्चिन्त्यताम् ॥५४६॥
बलभद्रस्य ।
एकाकिनी परवशा तरुणी तथाहम्
अस्मिन्गृहे गृहपतिश्च गतो विदूरम् ।
किं याचसे तदिह वासमियं वराकी
श्वश्रूर्ममान्धवधिरा ननु मूढपान्थ ॥५४७॥
रुद्रस्य । (Kआव्यालङ्कार ७.४१)
अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो
निःशेषागारकर्मश्रमशिथिलतनुर्गर्भदासी तथात्र ।
अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा
पान्थायेत्थं युवत्या कथितमभिमतं व्याहृतिव्याजपूर्वम् ॥५४८॥
भट्टस्य । (सु.र. ८१२, सू.मु. ८७.१२)
पुरः पल्ली शून्या तदनु च विदूरेऽस्ति नगरं
परं पारे गङ्गं चरमगिरिगामी च मिहिरः ।
इतो यान्तं प्रान्ते मम रमणमालोकयसि चेत्
ततस्ते कल्याणं पथिक स हि तत्र प्रहरिकः ॥५४९॥
नीलोकस्य ।
पान्थ स्वैरगतिं विहाय झटिति प्रस्थानमारभ्यताम्
अत्यन्तं करिशूकराहित्गवयिर्भीमं पुरः काननम् ।
चण्डांशोरपि रश्मयः प्रतिदिशं म्लानास्त्वमेको युवा
स्थानं नास्ति गृहे ममापि भवतो बालाहमेकाकिनी ॥५५०॥
कस्यचित। (सु.र. ८१०)
१६. लक्षितासती
दशनपदमतिस्फुटं विभाति
स्फुरति तनुः श्रमवारिसिक्तमास्यम् ।
अवितथमभिधत्स कामिनि त्वां
कुटिलगतिर्न दष्टवान्भुजङ्गः ॥५५१॥
कस्यचित।
न्यस्तं न स्तनमण्डले नखपदं कण्ठान्न विश्लेषिता
मुक्ता हारलता कपोलफलके लुप्ता न पत्रावली ।
मुग्धे यद्यपि तेन ते न दशनैर्भिन्नोऽद्य बिम्बाधरस्
तद्वैलक्ष्यविजृम्भितैरिह तथाप्युन्नीयते दुर्णयः ॥५५२॥
श्रीमल्लक्ष्मणसेनस्य ।
निर्धौताञ्जनलक्ष्मनेत्रमरुणोच्छूना कपोलस्थली
क्रान्तेवाधरपालिरस्फुटमिलल्लेखा तटी पार्श्वयोः ।
निद्राघूर्णितनिष्प्रयत्नशिथिलान्यङ्गानि ते तद्वयं
नो विद्मः सखि संमुखः स भगवान्कस्याद्य पुष्पायुधः ॥५५३॥
उमापतिधरस्य ।
मीलच्चक्षुरनुक्षणं पुलकिनी धत्से यदन्तर्मुदं
सावज्ञं यदुपान्तसङ्कुचितया दृष्ट्या पतिं पश्यसि ।
यद्वक्रास्वपि वेषभाषितकलास्वभ्यासमालम्बसे
तन्मन्ये सखि नागरस्य विषयं कस्यापि यातासि किम् ॥५५४॥
तस्यैव ।
परिणतसखीवाङ्निर्वेदान्निवृत्तगृहग्रहे
सुदति मदनाद्वैताभ्यासान्निकुञ्जनिवासिनि ।
कनखलशिलोत्खेलद्गङ्गास्खलद्गुरुकीकसः
कथय कतमो वानप्रस्थाश्रमेऽद्य तवातिथिः ॥५५५॥
पादूकस्य ।
१७. वेश्या
ईर्ष्या कुलस्त्रीषु न नायकस्य
निःशङ्ककेलिर्न पराङ्गनासु ।
वेश्यासु चैतद्द्वितयं प्ररूढं
सर्वस्वमेतास्तदहो स्मरस्य ॥५५६॥
रुद्रटस्य । (शृ.ति. १.६९)
कुप्यत्पिनाकिनेत्राग्निज्वालाभस्मीकृतः पुरा ।
उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥५५७॥
तस्यैव । (शृ.ति. १.७०)
सश्रीकोलकपल्लवेन तिमिरस्ताम्बूलरागच्छविः
स्वच्छायादशनव्रणैर्नखपदैश्चित्रा च पत्रावली ।
लोलापाङ्गविलोकितस्तवकिता कर्णोत्पलश्रीरिति
व्यक्तोद्दीपितभूषणः स्मरमपि क्षुभ्नन्ति वारस्त्रियः ॥५५८॥
जलचन्द्रस्य ।
श्रोणीभारभरालसा दरगलन्माल्योपवृत्तिच्छलाल्
लोलोत्क्षिप्तभुजोपदर्शितकुचोन्मीलन्नखाङ्कावलिः ।
लोलेन्दीवरदामदीर्घतरया दृष्ट्या धयन्ती मनो
दारान्दोलनलोलकङ्कणझणत्कारोत्तरं सर्पति ॥५५९॥
कृष्णमिश्रस्य । (प्र.च. २.३४)
समुद्रवीचीव चलस्वभावा
सन्ध्याभ्रलेखेव मुहूर्तरागा ।
वेश्या कृतार्था पुरुषं हृतस्वं
निष्निषीडितालक्तकवज्जहाति ॥५६०॥
शूद्रकस्य । (मृच्छकटिका ४.१५)
१८. दाक्षिणात्यस्त्री
आमूलतो वलितकुन्तलचारुचूड
चूर्णालकप्रकरलाञ्छितभालभागः ।
कक्षानिवेशनिविडीकृतनीविरेष
वेषश्चिरं जयति कुन्तलकामिनीनाम् ॥५६१॥
राजशेखरस्य ।
नेत्रयात्राशरक्षेपैस्त्र्यम्बकस्यापि ताडनी ।
भ्रूलता द्राविडस्त्रीणां द्वितीयं कामकार्मुकम् ॥५६२॥
तस्यैव । (बा.रा.. १०.६८)
मुखानि चारूणि घनाः पयोधरा
नितम्बपृथ्व्यो जघनोत्तमश्रियः ।
तनूनि मध्यानि च यस्य सोभ्यगात्
कथं नृपाणां द्रविडीजनो हृदः ॥५६३॥
पाणिनेः ।
वाचो माधुर्यवर्षिण्यो नाभयः शिथिलांशुकाः ।
दृष्टयश्च चलद्भ्रूका मण्डनान्यन्ध्रयोषिताम् ॥५६४॥
भर्तृमेण्ठस्य ।
द्रविडीनां ध्रुवं लीलारेचितभ्रूलते मुखे ।
आसज्य राज्यभावं स्वं सुखं स्वपिति मन्मथः ॥५६५॥
कस्यचित। (स.क.आ. २.२००)
१९. पाश्चात्यस्त्री
प्रपञ्चितकलातन्त्रे पञ्चालीकेलिकर्मणि ।
सर्वास्त्रमोक्षं लभते समं कुसुमकार्मुकः ॥५६६॥
राजशेखरस्य । (बा.रा. १०.८७)
खेलं संचरितुं तरङ्गतरलभ्रूलेखमालोकितुं
रम्यं स्थातुमनादरार्पितमनोमुद्रं च सम्भाषितुम् ।
सन्त्यज्योज्जयिनीजनीर्विवदितुं हृद्यं च लङ्कापते
प्रत्यङ्गार्पणसुन्दरं च न जनो जानाति रन्तुं पुरः ॥५६७॥
तस्यैव । (बा.रा. १०.८१, सू.मु. १०७.२५)
चकीर्य एव चतुराश्चन्द्रिकापानकर्मणि ।
आवन्त्य एव निपुणाः स्त्रियः सुरतकर्मणि ॥५६८॥
तस्यैव । (Sब्र्१०.८२, सा.द. उन्देर्१०.६८)
ताडङ्कवल्गनतरङ्गितगण्डलेख
मानाभिलम्बिदरदोलिततारहारम् ।
आश्रोणि गुल्फपरिमण्डलितोत्तरीयं
वेशं नमस्यत महोदयसुन्दरीणाम् ॥५६९॥
कस्यचित।
बाहुद्वन्द्वे वलयरचना रक्तकौशेयसूत्रैः
सिन्दूरान्तस्तवकशवला सामि सीमन्तलक्ष्मीः ।
दूर्वाश्यामं तिलकमलिके ग्रन्थिलः केशपाशः
प्रीतिं काशीनगरसुदृशामेव वेषस्तनोति ॥५७०॥
कस्यचित।
२०. उदीच्यप्राच्ये
कान्तिं कुङ्कुमकेशरान्मधुरतां द्राक्षारसस्यासवाद्
वैदर्भीपरिपाकपूतवचसः काव्यात्कवेर्मार्दवम् ।
पार्श्वादेव जरातुरेण विधिना तं तं गृहीत्वा गुणं
सृष्टा हन्त हरन्ति कस्य न मनः कश्मीरवामभ्रुवः ॥५७१॥
उमापतिधरस्य ।
हूणीनां हरिणाङ्कपाण्डुमधुरश्रीभाजि गण्डस्थले
शोभां कामपि बिभ्रति प्रणिहिताः कश्मीरविच्छित्तयः ।
अप्यासां स्तनमण्डले परिणमन्मालूरगौरे श्रियं
संधत्ते नवसान्ध्यरश्मिरुचिरं माञ्जिष्ठपट्टांशुकम् ॥५७२॥
तस्यैव ।
उत्तरापथकान्तानां किं ब्रूमो रामणीयकम् ।
यासां तुषारसम्भेदे न म्लायति मुखाम्बुजम् ॥५७३॥
अमृतदत्तस्य ।
अत्रार्द्रचन्दनकुचार्पितसूत्रहार
सीमन्तचुम्बिसिचयस्फुटबाहुमूलः ।
दूर्वाप्रकाण्डरुचिरासु गुरूपभोगो
गौडाङ्गनासु चिरमेष चकास्ति वेषः ॥५७४॥
राजशेखरस्य ।
वासः सूक्ष्मं वपुषि भुजयोः काञ्चनी चाङ्गदश्रीर्
मालागर्भः सुरभिमसृणैर्गन्धतैलैः शिखण्डः ।
कर्णोत्तंसे नवशशिकला निर्मलं तालपत्रं
वेशः केषां न हरति मनो बङ्गवाराङ्गनानाम् ॥५७५॥
कस्यचित।
२१. ग्राम्या
तथाप्यकृतकोत्तालहासपल्लविताधरम् ।
मुखं ग्रामविलासिन्यः सकलं राज्यमर्हति ॥५७६॥
भर्तृमेण्ठस्य ।
भाले कज्जलबिन्दुरिन्दुकिरणस्पर्धी मृणालाङ्कुरो
दोर्वल्लीषु शलाटुफेनिलफलोत्तंसश्च कर्णातिथिः ।
धम्मिल्लस्तिलपल्लवाभिषवणस्निग्धः स्वभावादयं
पान्थान्मन्थरयत्यनागरवधूवर्गस्य वेशग्रहः ॥५७७॥
चन्द्रचन्द्रस्य ।
न तथा नागरस्त्रीणां विलासा रमयन्ति नः ।
यथा स्वभावमुग्धानि वृत्तानि ग्राम्ययोषिताम् ॥५७८॥
कस्यचित।
मञ्चे रोमाञ्चिताङ्गी रतिमृदिततनोः कर्कटीवाटिकायां
कान्तस्याङ्गे प्रमोदादुभयभुजपरिष्वक्तकण्ठे निलीना ।
पादेन प्रेङ्खयन्ती मुखरयति मुहुः पामरी फेरवाणां
रात्रावुत्त्रासहेतोर्वृतिशिखरलतालम्बिनीं कम्बुमालाम् ॥५७९॥
विद्यायाः ।
हलक्षतकरस्पर्शत्रपयेवासिताननम् ।
बिभर्ति सुभगाभोगं ग्राम्यस्त्री स्तनमण्डलम् ॥५८०॥
आचार्यगोपीकस्य ।
२२. स्त्रीमात्रम्
यासां सत्यपि सद्गुणानुसरणे दोषानुबन्धः सदा
याः प्राणान्वरमर्पयन्ति न पुनः सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मकस्
तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु वः ॥५८१॥
बिभोकस्य । (सा.द. ३.११६, सु.र.को. ३८४, शा.प.. ३०७९)
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥५८२॥
राजशेखरस्य । (सु.र. ३९५, वि.शा.भ. १.२, Sव्. १३०९, शा.प. ३०७८, सू.मु. ३७.२)
सोऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं
स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिर्गुणः कार्मुके ।
एतत्साधन उत्सहेत स जगज्जेतुं कथं मन्मथस्
तस्यामोघममूर्भवन्ति नहि चेदस्त्रं कुरङ्गीदृशः ॥५८३॥
अमरसिंहस्य । (सु.र. ४०३)
यन्नामापि सुखाकरोति कलयत्युर्वीमपि द्यामिव
प्राप्तिर्यस्य यदङ्गसङ्गविधिना किं यन्न निह्नूयते ।
अन्तः किं च सुधासपत्नमनिशं जागर्ति यद्रागिणां
विस्रम्भास्पदमद्भुतं किमपि तत्कान्तेति तत्त्वान्तरम् ॥५८४॥
कस्यचित। (सु.र. ४३५)
व्यर्थं विलोक्य कुसुमेषुमसुव्ययेऽपि
गौरीपतीक्षणशिखिज्वलितो मनोभूः ।
रोषाद्वशीकरणमस्त्रमुपाददे यत्
सा सुभ्रुवां विजयते जगति प्रतिष्ठा ॥५८५॥
मनोविनोदस्य । (सु.र. ४४१)
२३. खण्डिता
तव कितव किमाभिर्वाग्भिरभ्यर्णचूत
क्षितिरुहि कलकण्ठालापमाकर्णयन्ती ।
रजनिमहमलज्जाजागरं पांशुलानाम्
उषसि विघस न त्वां पाणिनापि स्पृशामि ॥५८६॥
धर्मयोगेश्वरस्य ।
सार्धं मनोरथशतैस्तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिमभावरम्या ।
अस्माकमस्ति न हि कश्चिदिहावकाशस्
तस्मात्कृतं चरणपातविडम्बनाभिः ॥५८७॥
रुद्रटस्य । (शृ.ति. १.४१द्; शा.प. ३५६३; सू.मु. ५७.१६; स.क.आ.ं ५८७; पद्या.. २१८)
पादान्ते पतितः प्रियः पततु न प्रव्यक्तबाष्पोद्गमः
संजातः स न जायतां त्वमधुना तद्वक्त्रमत्रागता ।
एकाहं तटिनीतटान्तविटपागारे यदा जागरं
नासीत्कापि सखी तदा घनतः स्तोमावृतायां निशि ॥५८८॥
आचार्यगोपीकस्य ।
किं ते बाष्पस्तिरयति दृशो किं सकम्पोऽधरस्ते
गण्डाभोगः कथय किमु ते कोपकेलीकषायः ।
निर्यर्यादे मम हि रजनी जागरक्लेशराशेर्
एकः साक्षी स खलु मुरलातीरवानीरकुञ्जः ॥५८९॥
वासुदेवस्य ।