मत्स्यपुराणम्
अथ प्रथमोऽध्यायः
प्रचण्डताण्डवाटोपे प्रक्षिप्ता येन दिग्गजाः
भवन्तु विघ्नभङ्गाय भवस्य चरणाम्बुजाः १
पातालादुत्पतिष्णोर्मकरवसतयो यस्य पुच्छाभिघाता-
दूर्ध्वं ब्रह्माण्डखण्डव्यतिकरविहितव्यत्ययेनापतन्ति ।
विष्णोर्मत्स्यावतारे सकलवसुमतीमण्डलं व्यश्नुवाना- स्तस्यास्योदीरितानां ध्वनिरपहरतादश्रियं वः श्रुतीनाम् १
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् २
अजोऽपि यः क्रियायोगान्नारायण इति स्मृतः
त्रिगुणाय त्रिवेदाय नमस्तस्मै स्वयम्भुवे ३
सूतमेकाग्रमासीनं नैमिषारण्यवासिनः
मुनयो दीर्घसत्रान्ते पप्रच्छुर्दीर्घसंहिताम् ४
प्रवृत्तासु पुराणीषु धर्म्यासु ललितासु च
कथासु शौनकाद्यास्तु अभिनन्द्य मुहुर्मुहुः ५
कथितानि पुराणानि यान्यस्माकं त्वयानघ
तान्येवामृतकल्पानि श्रोतुमिच्छामहे पुनः ६
कथं ससर्ज भगवील्लोकनाथश्चराचरम्
कस्माच्च भगवान्विष्णुर्मत्स्यरूपत्वमाश्रितः ७
भैरवत्वं भवस्यापि पुरारित्वं च केन हि
कस्य हेतोः कपालित्वं जगाम वृषभध्वजः ८
सर्वमेतत्समाचक्ष्व सूत विस्तरशः क्रमात्
त्वद्वाक्येनामृतस्येव न तृप्तिरिह जायते ९
सूत उवाच
पुण्यं पवित्रमायुष्यमिदानीं शृणुत द्विजाः
मात्स्यं पुराणमखिलं यज्जगाद गदाधरः १०
पुरा राजा मनुर्नाम चीर्णवान्विपुलं तपः
पुत्रे राज्यं समारोप्य क्षमावान्रविनन्दनः ११
मलयस्यैकदेशे तु सर्वात्मगुणसंयुतः
समदुःखसुखो वीरः प्राप्तवान्योगमुत्तमम् १२
बभूव वरदश्चास्य वर्षायुतशते गते
वरं वृणीष्व प्रोवाच प्रीतः स कमलासनः १३
एवमुक्तोऽब्रवीद्रा जा प्रणम्य स पितामहम्
एकमेवाहमिच्छामि त्वत्तो वरमनुत्तमम् १४
भूतग्रामस्य सर्वस्य स्थावरस्य चरस्य च
भवेयं रक्षणायालं प्रलये समुपस्थिते १५
एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत
पुष्पवृष्टिः सुमहती खात्पपात सुरार्पिता १६
कदाचिदाश्रमे तस्य कुर्वतः पितृतर्पणम्
पपात पाण्योरुपरि शफरी जलसंयुता १७
दृष्ट्वा तच्छफरीरूपं स दयालुर्महीपतिः
रक्षणायाकरोद्यत्नं स तस्मिन्करकोदरे १८
अहोरात्रेण चैकेन षोडशाङ्गुलविस्तृतः
सोऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत् १९
स तमादाय मणिके प्राक्षिपज्जलचारिणम्
तत्रापि चैकरात्रेण हस्तत्रयमवर्धत २०
पुनः प्राहार्तनादेन सहस्रकिरणात्मजम्
स मत्स्यः पाहि पाहीति त्वामहं शरणं गतः २१
ततः स कूपे तं मत्स्यं प्राहिणोद्र विनन्दनः
यदा न माति तत्रापि कूपे मत्स्यः सरोवरे २२
क्षिप्तोऽसौ पृथुतामागात्पुनर्योजनसंमिताम्
तत्राप्याह पुनर्दीनः पाहि पाहि नृपोत्तम २३
ततः स मनुना क्षिप्तो गङ्गायामप्यवर्धत
यदा तदा समुद्रे तं प्राक्षिपन्मेदिनीपतिः २४
यदा समुद्र मखिलं व्याप्यासौ समुपस्थितः
तदा प्राह मनुर्भीतः कोऽपि त्वमसुरेश्वरः २५
अथवा वासुदेवस्त्वमन्य ईदृक्कथं भवेत्
योजनायुतविंशत्या कस्य तुल्यं भवेद्वपुः २६
ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव
हृषीकेश जगन्नाथ जगद्धाम नमोऽस्तु ते २७
एवमुक्तः स भगवान्मत्स्यरूपी जनार्दनः
साधु साध्विति चोवाच सम्यग्ज्ञातस्त्वयानघ २८
अचिरेणैव कालेन मेदिनी मेदिनीपते
भविष्यति जले मग्ना सशैलवनकानना २९
नौरियं सर्वदेवानां निकायेन विनिर्मिता
महाजीवनिकायस्य रक्षणार्थं महीपते ३०
स्वेदाण्डजोद्भिदो ये वै ये च जीवा जरायुजाः
अस्यां निधाय सर्वांस्ताननाथान्पाहि सुव्रत ३१
युगान्तवाताभिहता यदा भवति नौर्नृप
शृङ्गेऽस्मिन्मम राजेन्द्र तदेमां संयमिष्यसि ३२
ततो लयान्ते सर्वस्य स्थावरस्य चरस्य च
प्रजापतिस्त्वं भविता जगतः पृथिवीपते ३३
एवं कृतयुगस्यादौ सर्वज्ञो धृतिमान्नृपः
मन्वन्तराधिपश्चापि देवपूज्यो भविष्यसि ३४
इति श्रीमात्स्ये महापुराण आदिसर्गे मनुविष्णुर्संवादे प्रथमोऽध्यायः १
अथ द्वितीयोऽध्यायः
सूत उवाच
एवमुक्तो मनुस्तेन पप्रच्छ मधुसूदनम्
भगवन्कियद्भिर्वर्षैर्भविष्यत्यन्तरक्षयः १
सत्त्वानि च कथं नाथ रक्षिष्ये मधुसूदन
त्वया सह पुनर्योगः कथं वा भविता मम २
मत्स्य उवाच
अद्यप्रभृत्यनावृष्टिर्भविष्यति महीतले
यावद्वर्षशतं साग्रं दुर्भिक्षमशुभावहम् ३
ततोऽल्पसत्त्वक्षयदा रश्मयः सप्त दारुणाः
सप्तसप्तेर्भविष्यन्ति प्रतप्ताङ्गारवर्षिणः ४
और्वानलोऽपि विकृतिं गमिष्यति युगक्षये
विषाग्निश्चापि पातालात्संकर्षणमुखच्युतः
भवस्यापि ललाटोत्थस्तृतीयनयनानलः ५
त्रिजगन्निर्दहन्क्षोभं समेष्यति महामुने
एवं दग्धा मही सर्वा यदा स्याद्भस्मसंनिभा ६
आकाशमूष्मणा तप्तं भविष्यति परंतप
ततः सदेवनक्षत्रं जगद्यास्यति संक्षयम् ७
संवर्तो भीमनादश्च द्रो णश्चण्डो बलाहकः
विद्युत्पताकः शोणस्तु सप्तैते लयवारिदाः ८
अग्निप्रस्वेदसम्भूताः प्लावयिष्यन्ति मेदिनीम्
समुद्रा ः! क्षोभमागत्य चैकत्वेन व्यवस्थिताः ९
एतदेकार्णवं सर्वं करिष्यन्ति जगत्त्रयम्
वेदनावमिमां गृह्य सत्त्वबीजानि सर्वशः १०
आरोप्य रज्जुयोगेन मत्प्रदत्तेन सुव्रत
संयम्य नावं मच्छृङ्गे मत्स्यभावाभिरक्षितः ११
एकः स्थास्यसि देवेषु दग्धेष्वपि परंतप
सोमसूर्यावहं ब्रह्मा चतुर्लोकसमन्वितः १२
नर्मदा च नदी पुण्या मार्कण्डेयो महानृषिः
भवो वेदाः पुराणानि विद्याभिः सर्वतोवृतम् १३
त्वया सार्धमिदं विश्वं स्थास्यत्यन्तरसंक्षये
एवमेकार्णवे जाते चाक्षुषान्तरसंक्षये १४
वेदान्प्रवर्तयिष्यामि त्वत्सर्गादौ महीपते
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत १५
मनुरप्यास्थितो योगं वासुदेवप्रसादजम्
अभ्यसन्यावदाभूतसम्प्लवं पूर्वसूचितम् १६
काले यथोक्ते संजाते वासुदेवमुखोद्गते
शृङ्गी प्रादुर्बभूवाथ मत्स्यरूपी जनार्दनः १७
भुजंगो रज्जुरूपेण मनोः पार्श्वमुपागमत्
भूतान्सर्वान्समाकृष्य योगेनारोप्य धर्मवित् १८
भुजंगरज्ज्वा मत्स्यस्य शृङ्गे नावमयोजयत्
उपर्युपस्थितस्तस्याः प्रणिपत्य जनार्दनम् १९
आभूतसम्प्लवे तस्मिन्नतीते योगशायिना
पृष्टेन मनुना प्रोक्तं पुराणं मत्स्यरूपिणा
तदिदानीं प्रवक्ष्यामि शृणुध्वमृषिसत्तमाः २०
यद्भवद्भिः पुरा पृष्टः सृष्ट्यादिकमहं द्विजाः
तदेवैकार्णवे तस्मिन्मनुः पप्रच्छ केशवम् २१
मनुरुवाच
उत्पत्तिं प्रलयं चैव वंशान्मन्वन्तराणि च
वंश्यानुचरितं चैव भुवनस्य च विस्तरम् २२
दानधर्मविधिं चैव श्राद्धकल्पं च शाश्वतम्
वर्णाश्रमविभागं च तथेष्टापूर्तसंज्ञितम् २३
देवतानां प्रतिष्ठादि यच्चान्यद्विद्यते भुवि
तत्सर्वं विस्तरेण त्वं धर्मं व्याख्यातुमर्हसि २४
मत्स्य उवाच
महाप्रलयकालान्त एतदासीत्तमोमयम्
प्रसुप्तमिव चातर्क्यमप्रज्ञातमलक्षणम् २५
अविज्ञेयमविज्ञातं जगत्स्थास्नु चरिष्णु च
ततः स्वयम्भूरव्यक्तः प्रभवः पुण्यकर्मणाम् २६
व्यञ्जयन्नेतदखिलं प्रादुरासीत्तमोनुदः
योऽतीन्द्रि यः परो व्यक्तादणुर्ज्यायान्सनातनः
नारायण इति ख्यातः स एकः स्वयमुद्बभौ २७
यः शरीरादभिध्याय सिसृक्षुर्विविधं जगत्
अप एव ससर्जादौ तासु वीर्यमवासृजत् २८
तदेवाण्डं समभवद्धेमरूप्यमयं महत्
संवत्सरसहस्रेण सूर्यायुतसमप्रभम् २९
प्रविश्यान्तर्महातेजाः स्वयमेवात्मसम्भवः
प्रभावादपि तद्व्याप्त्या विष्णुत्वमगमत्पुनः ३०
तदन्तर्भगवानेष सूर्यः समभवत्पुरा
आदित्यश्चादिभूतत्वाद् ब्रह्मा ब्रह्म पठन्नभूत् ३१
दिवं भूमिं समकरोत्तदण्डशकलद्वयम्
स चाकरोद्दिशः सर्वा मध्ये व्योम च शाश्वतम् ३२
जरायुर्मेरुमुख्याश्च शैलास्तस्याभवंस्तदा
यदुल्बं तदभून्मेघस्तडित्सङ्घातमण्डलम् ३३
नद्योऽण्डनाम्नः संभूताः पितरो मनवस्तथा
सप्त येऽमी समुद्रा श्च तेऽपि चान्तर्जलोद्भवाः
लवणेक्षुसुराद्याश्च नानारत्नसमन्विताः ३४
स सिसृक्षुरभूद्देवः प्रजापतिररिन्दम
तत्तेजसश्च तत्रैष मार्तण्डः समजायत ३५
मृतेऽण्डे जायते यस्मान्मार्तण्डस्तेन संस्मृतः
रजोगुणमयं यत्तद् रूपं तस्य महात्मनः
चतुर्मुखः स भगवानभूल्लोकपितामहः ३६
येन सृष्टं जगत्सर्वं सदेवासुरमानुषम्
तमवेहि रजोरूपं महत्सत्त्वमुदाहृतम् ३७
इति श्रीमात्स्ये महापुराण आदिसर्गे ब्रह्माण्डवर्णनं नाम द्वितीयोऽध्यायः २
अथ तृतीयोऽध्यायः
मनुरुवाच
चतुर्मुखत्वमगमत्कस्माल्लोकपितामहः
कथं तु लोकानसृजद् ब्रह्मा ब्रह्मविदां वरः १
मत्स्य उवाच
तपश्चचार प्रथमममराणां पितामहः
आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः २
पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्
नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम् ३
अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः
मीमांसा न्यायविद्याश्च प्रमाणाष्टकसंयुताः ४
वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः
मनसः पूर्वसृष्टा वै जाता यत्तेन मानसाः ५
मरीचिरभवत्पूर्वं ततोऽत्रिर्भगवानृषिः
अङ्गिराश्चाभवत्पश्चात्पुलस्त्यस्तदनन्तरम् ६
ततः पुलहनामा वै ततः क्रतुरजायत
प्रचेताश्च ततः पुत्रो वसिष्ठश्चाभवत्पुनः ७
पुत्रो भृगुरभूत्तद्वन्नारदोऽप्यचिरादभूत्
दशेमान्मानसान्ब्रह्मा मुनीन्पुत्रानजीजनत् ८
शारीरानथ वक्ष्यामि मातृहीनान्प्रजापतेः
अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायत ९
धर्मः स्तनान्तादभवद् धृदयात्कुसुमायुधः
भ्रूमध्यादभवत्क्रोधो लोभश्चाधरसंभवः १०
बुद्धेर्मोहः समभवदहंकारादभून्मदः
प्रमोदश्चाभवत्कण्ठान्मृत्युर्लोचनतो नृप
भरतः करमध्यात्तु ब्रह्मसूनुरभूत्ततः ११
एते नव सुता राजन्कन्या च दशमी पुनः
अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता १२
मनुरुवाच
बुद्धेर्मोहः समभवदिति यत्परिकीर्तितम्
अहंकारः स्मृतः क्रोधो बुद्धिर्नाम किमुच्यते १३
मत्स्य उवाच
सत्त्वं रजस्तमश्चैव गुणत्रयमुदाहृतम्
साम्यावस्थितिरेतेषां प्रकृतिः परिकीर्तिता १४
केचित्प्रधानमित्याहुरव्यक्तमपरे जगुः
एतदेव प्रजासृष्टिं करोति विकरोति च १५
गुणेभ्यः क्षोभमाणेभ्यस्त्रयो देवा विजज्ञिरे
एका मूर्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वराः १६
सविकारात्प्रधानात्तु महत्तत्त्वं प्रजायते
महानिति यतः ख्यातिर्लोकानां जायते सदा १७
अहंकारश्च महतो जायते मानवर्धनः
इन्द्रि याणि ततः पञ्च वक्ष्ये बुद्धिवशानि तु
प्रादुर्भवन्ति चान्यानि तथा कर्मवशानि तु १८
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका च यथाक्रमम्
पायूपस्थं हस्तपादं वाक्चेतीन्द्रि यसंग्रहः १९
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
उत्सर्गानन्दनादानगत्यालापाश्च तत्क्रियाः २०
मन एकादशं तेषां कर्मबुद्धिगुणान्वितम्
इन्द्रि यावयवाः सूक्ष्मास्तस्य मूर्तिं मनीषिणः २१
श्रयन्ति यस्मात्तन्मात्राः शरीरं तेन संस्मृतम्
शरीरयोगाज्जीवोऽपि शरीरी गद्यते बुधैः २२
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया
आकाशं शब्दतन्मात्रादभूच्छब्दगुणात्मकम् २३
आकाशविकृतेर्वायुः शब्दस्पर्शगुणोऽभवत्
वायोश्च स्पर्शतन्मात्रात्तेजश्चाविरभूत्ततः २४
त्रिगुणं तद्विकारेण तच्छब्दस्पर्शरूपवत्
तेजोविकारादभवद्वारि राजंश्चतुर्गुणम् २५
रसतन्मात्रसंभूतं प्रायो रसगुणात्मकम्
भूमिस्तु गन्धतन्मात्रादभूत्पञ्चगुणान्विता २६
प्रायो गन्धगुणा सा तु बुद्धिरेषा गरीयसी
एभिः संपादितं भुङ्क्ते पुरुषः पञ्चविंशकः २७
ईश्वरेच्छावशः सोऽपि जीवात्मा कथ्यते बुधैः
एवं षड्विंशकं प्रोक्तं शरीरमिह मानवैः २८
सांख्यं संख्यात्मकत्वाच्च कपिलादिभिरुच्यते
एतत्तत्त्वात्मकं कृत्वा जगद्वेधा अजीजनत् २९
सावित्री लोकसृष्ट्यर्थं हृदि कृत्वा समास्थितः
ततः संजपतस्तस्य भित्वा देहमकल्मषम् ३०
स्त्रीरूपमर्धमकरोदर्धं पुरुषरूपवत्
शतरूपा च सा ख्याता सावित्री च निगद्यते ३१
सरस्वत्यथ गायत्री ब्रह्माणी च परन्तप
ततः स्वदेहसंभूतामात्मजामित्यकल्पयत् ३२
दृष्ट्वा तां व्यथितस्तावत्कामबाणार्दितो विभुः
अहो रूपमहो रूपमिति चाह प्रजापतिः ३३
ततो वसिष्ठप्रमुखा भगिनीमिति चुक्रुशुः
ब्रह्मा न किंचिद्ददृशे तन्मुखालोकनादृते ३४
अहो रूपमहो रूपमिति प्राह पुनः पुनः
ततः प्रणामनम्रां तां पुनरेवाभ्यलोकयत् ३५
अथ प्रदक्षिणं चक्रे सा पितुर्वरवर्णिनी
पुत्रेभ्यो लज्जितस्यास्य तद्रू पालोकनेच्छया ३६
आविर्भूतं तत्रो वक्त्रं दक्षिणं पाण्डुगण्डवत्
विस्मयस्फुरदोष्ठं च पाश्चात्यमुदगात्ततः ३७
चतुर्थमभवत्पश्चाद्वामं कामशरातुरम्
ततोऽन्यदभवत्तस्य कामातुरतया तथा ३८
उत्पतन्त्यास्तदाकाश आलोकनकुतूहलात्
सृष्ट्यर्थं यत्कृतं तेन तपः परमदारुणम् ३९
तत्सर्वं नाशमगमत्स्वसुतोपगमेच्छया
तेनोर्ध्वं वक्त्रमभवत्पञ्चमं तस्य धीमतः
आविर्भवज्जटाभिश्च तद्वक्त्रं चावृणोत्प्रभुः ४०
ततस्तानब्रवीद् ब्रह्मा पुत्रानात्मसमुद्भवान्
प्रजाः सृजध्वमभितः सदेवासुरमानुषीः ४१
एवमुक्तास्ततः सर्वे ससृजुर्विविधाः प्रजाः
गतेषु तेषु सृष्ट्यर्थं प्रणामावनतामिमाम् ४२
उपयेमे स विश्वात्मा शतरूपामनिन्दिताम्
संबभूव तया सार्धमतिकामातुरो विभुः
सलज्जां चकमे देवः कमलोदरमन्दिरे ४३
यावदब्दशतं दिव्यं यथान्यः प्राकृतो जनः
ततःकालेन महता तस्याः पुत्रोऽभवन्मनुः ४४
स्वायंभुवो इति ख्यातः स विराडिति नः श्रुतम्
तद्रू पगुणसामान्यादधिपुरुष उच्यते ४५
वैराजा यत्र ते जाता बहवः संशितव्रताः
स्वायंभुवा महाभागाः सप्त सप्त तथा परे ४६
स्वारोचिषाद्याः सर्वे ते ब्रह्मतुल्यस्वरूपिणः
औत्तमिप्रमुखास्तद्वद्येषां त्वं सप्तमोऽधुना ४७
इति श्रीमात्स्ये महापुराण आदिसर्गे मुखोत्पत्तिर्नाम तृतीयोऽध्यायः ३
अथ चतुर्थोऽध्यायः
मनुरुवाच
अहो कष्टतरं चैतदङ्गजागमनं विभो
कथं न दोषमगमत्कर्मणानेन पद्मभूः १
परस्परं च सम्बन्धः सगोत्राणामभूत्कथम्
वैवाहिकस्तत्सुतानां छिन्धि मे संशयं विभो २
मत्स्य उवाच
दिव्येयमादिसृष्टिस्तु रजोगुणसमुद्भवा
अतीन्द्रि येन्द्रि या तद्वदतीन्द्रि यशरीरिका ३
दिव्यतेजोमयी भूप दिव्यज्ञानसमुद्भवा
न मर्त्यैरभितः शक्या वक्तुं वै मांसचक्षुभिः ४
यथा भुजंगाः सर्पाणामाकाशं विश्वपक्षिणाम्
विदन्ति मार्गं दिव्यानां दिव्या एव न मानवाः ५
कार्याकार्ये न देवानां शुभाशुभफलप्रदे
यस्मात्तस्मान्न राजेन्द्र तद्विचारो नृणां शुभः ६
अन्यच्च सर्ववेदानामधिष्ठाता चतुर्मुखः
गायत्री ब्रह्मणस्तद्वदङ्गभूता निगद्यते ७
अमूर्तं मूर्तिमद्वापि मिथुनं तत्प्रचक्षते
विरिञ्चिर्यत्र भगवांस्तत्र देवी सरस्वती
भारती यत्र यत्रैव तत्र तत्र प्रजापतिः ८
यथातपो न रहितश्छायया दृश्यते क्वचित्
गायत्री ब्रह्मणःपार्श्वं तथैव न विमुञ्चति ९
वेदराशिः स्मृतो ब्रह्मा सावित्री तदधिष्ठिता
तस्मान्न कश्चिद्दोषः स्यात्सावित्रीगमने विभोः १०
तथापि लज्जावनतः प्रजापतिरभूत्पुरा
स्वसुतोपगमाद् ब्रह्मा शशाप कुसुमायुधम् ११
यस्मान्ममाभिभवता मनः संक्षोभितं शरैः
तस्मात्त्वद्देहमचिराद्रुद्रो भस्मी करिष्यति १२
ततः प्रसादयामास कामदेवश्चतुर्मुखम्
न मामकारणे शप्तुं त्वमिहार्हसि मानद १३
अहमेवंविधः सृष्टस्त्वयैव चतुरानन
इन्द्रि यक्षोभजनकः सर्वेषामेव देहिनाम् १४
स्त्रीपुंसोरविचारेण मया सर्वत्र सर्वदा
क्षोभ्यं मनः प्रयत्नेन त्वयैवोक्तं पुरा विभो १५
तस्मादनपराधोऽहं त्वया शप्तस्तथा विभो
कुरु प्रसादं भगवन्स्वशरीराप्तये पुनः १६
ब्रह्मोवाच
वैवस्वतेऽन्तरे प्राप्ते यादवान्वयसम्भवः
रामो नाम यदा मर्त्यो मत्सत्त्वबलमाश्रितः १७
अवतीर्यासुरध्वंसी द्वारकामधिवत्स्यति
तद्भ्रातुस्तत्समस्य त्वं तदा पुत्रत्वमेष्यसि १८
एवं शरीरमासाद्य भुक्त्वा भोगानशेषतः
ततो भरतवंशान्ते भूत्वा वत्सनृपात्मजः १९
विद्याधराधिपत्यं च यावदाभूतसंप्लवम्
सुखानि धर्मतः प्राप्य मत्समीपं गमिष्यसि २०
एवं शापप्रसादाभ्यामुपेतः कुसुमायुधः
शोकप्रमोदाभियुतो जगाम स यथागतम् २१
मनुरुवाच
कोऽसौ यदुरिति प्रोक्तो यद्वंशे कामसम्भवः
कथं च दग्धो रुद्रे ण किमर्थं कुसुमायुधः २२
भरतस्यान्वये कस्य का च सृष्टिः पुराभवत्
एतत्सर्वं समाचक्ष्व मूलतः संशयो हि मे २३
मत्स्य उवाच
या सा देहार्धसम्भूता गायत्री ब्रह्मवादिनी
जननी या मनोर्देवी शतरूपा शतेन्द्रि या २४
रतिर्मनस्तपो बुद्धिर्महान्दिक्सम्भ्रमस्तथा
ततः स शतरूपायां सप्तापत्यान्यजीजनत् २५
ये मरीच्यादयः पुत्रा मानसास्तस्य धीमतः
तेषामयमभूल्लोकः सर्वज्ञानात्मकः पुरा २६
ततोऽसृजद्वामदेवं त्रिशूलवरधारिणम्
सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् २७
वामदेवस्तु भगवानसृजन्मुखतो द्विजान्
राजन्यानसृजद्बाह्वोर्विट्छूद्रा नूरुपादयोः २८
विद्युतोऽशनिमेघांश्च रोहितेन्द्र धनूंषि च
छन्दांसि च ससर्जादौ पर्जन्यं च ततः परम् २९
ततः साध्यगणानीशस्!त्रिनेत्रानसृजत्पुनः
कोटीश्च चतुरशीतिर्जरामरणवर्जिताः ३०
वामोऽसृजन्नमर्त्यांस्तान्ब्रह्मणा विनिवारितः
नैवंविधा भवेत्सृष्टिर्जरामरणवर्जिता ३१
शुभाशुभात्मिका या तु सैव सृष्टिः प्रशस्यते
एवं स्थितः स तेनादौ सृष्टेः स्थाणुरतोऽभवत् ३२
स्वायम्भुवो मनुर्धीमांस्तपस्तप्त्वा सुदुश्चरम्
पत्नीमेवाप रूपाढ्यामनन्ता नाम नामतः ३३
प्रियव्रतोत्तानपादौ मनुस्तस्यामजीजनत्
धर्मस्य कन्या चतुरा सूनृता नाम भामिनी ३४
उत्तानपादात्तनयान्प्राप मन्थरगामिनी
अपस्यतिमपस्यन्तं कीर्तिमन्तं ध्रुवं तथा ३५
उत्तानपादोऽजनयत्सूनृतायां प्रजापतिः
ध्रुवो वर्षसहस्राणि त्रीणि कृत्वा तपः पुरा ३६
दिव्यमाप ततः स्थानमचलं ब्रह्मणो वरात्
तमेव पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ३७
धन्या नाम मनोः कन्या ध्रुवाच्छिष्टमजीजनत्
अग्निकन्या तु सुच्छाया शिष्टात्सा सुषुवे सुतान् ३८
कृपं रिपुं जयं वृत्तं वृकं च वृकतेजसम्
चक्षुषं ब्रह्मदौहित्र्! यां वीरिण्यां स रिपुंजयः ३९
वीरणस्यात्मजायां तु चक्षुर्मनुमजीजनत्
मनुर्वै राजकन्यायां नड्वलायां स चाक्षुषः ४०
जनयामास तनयान्दश शूरानकल्मषान्
ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाग्घविः ४१
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चापराजितः
अभिमन्युस्तु दशमो नड्वलायामजायत ४२
ऊरोरजनयत्पुत्रान् षड् आग्नेयी तु सुप्रभान्
अग्निं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् ४३
पितृकन्या सुनीथा तु वेनमङ्गादजीजनत्
वेनमन्यायिनं विप्रा ममन्थुस्तत्करादभूत्
पृथुर्नाम महातेजाः स पुत्रौ द्वावजीजनत् ४४
अन्तर्धानस्तु मारीचं शिखण्डिन्यामजीजनत्
हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान्
प्राचीनबर्हिषं साङ्गं यमं शुक्रं बलं शुभम् ४५
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः
हविर्धानाः प्रजास्तेन बहवः सम्प्रवर्तिताः ४६
सवर्णायां तु सामुद्र यां! दशाधत्त सुतान्प्रभुः
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ४७
तत्तपोरक्षिता वृक्षा बभुर्लोके समन्ततः
देवादेशाच्च तानग्निरदहद्र विनन्दन ४८
सोमकन्याभवत्पत्नी मारीषा नाम विश्रुता
तेभ्यस्तु दक्षमेकं सा पुत्रमग्र्यमजीजनत् ४९
दक्षादनन्तरं वृक्षानौषधानि च सर्वशः
अजीजनत्सोमकन्या नदीं चन्द्र वतीं तथा ५०
सोमांशस्य च तस्यापि दक्षस्याशीतिकोटयः
वक्ष्ये तासां तु विस्तारं लोके यः सुप्रतिष्ठितः ५१
द्विपदश्चाभवन्केचित्केचिद्बहुपदा नराः
वलीमुखाः शङ्कुकर्णाः कर्णप्रावरणास्तथा ५२
अश्वऋक्षमुखाः केचित्केचित्सिंहाननास्तथा
श्वसूकरमुखाः केचित्केचिदुष्ट्रमुखास्तथा ५३
जनयामास धर्मात्मा म्लेच्छान्सर्वाननेकशः
स सृष्ट्वा मनसा दक्षः स्त्रियः पश्चादजीजनत् ५४
ददौ स दश धर्माय कश्यपाय त्रयोदश
सप्तविंशतिं सोमाय ददौ नक्षत्रसंज्ञिताः
देवासुरमनुष्यादि ताभ्यः सर्वमभूज्जगत् ५५
इति श्रीमात्स्ये महापुराण आदिसर्गे चतुर्थोऽध्यायः ४
अथ पञ्चमोऽध्यायः
ऋषय ऊचुः
देवानां दानवानां च गन्धर्वोरगरक्षसाम्
उत्पत्तिं विस्तरेणैव सूत ब्रूहि यथातथम् १
सूत उवाच
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसम्भवा २
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा
यथा ससर्ज चैवादौ तथैव शृणुत द्विजाः ३
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान्
न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः
दक्षः पुत्रसहस्राणि पाञ्चजन्यामजीजनत् ४
तांस्तु दृष्ट्वा महाभागः सिसृक्षुर्विविधाः प्रजाः
नारदः प्राह हर्यश्वान्दक्षपुत्रान्समागतान् ५
भुवः प्रमाणं सर्वत्र ज्ञात्वोर्ध्वमध एव च
ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः ६
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम्
अद्यापि न निवर्तन्ते समुद्रा दिव सिन्धवः ७
हर्यश्वेषु प्रनष्टेषु पुनर्दक्षः प्रजापतिः
वैरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ८
शबला नाम ते विप्राः समेताः सृष्टिहेतवः
नारदोऽनुगतान्प्राह पुनस्तान्पूर्ववत्स तान् ९
भुवः प्रमाणं सर्वत्र ज्ञात्वा भ्रातॄनथो पुनः
आगत्य चाथ सृष्टिं च करिष्यथ विशेषतः १०
तेऽपि तेनैव मार्गेण जग्मुर्भ्रातृपथा तदा
ततः प्रभृति न भ्रातुः कनीयान्मार्गमिच्छति
अन्विष्यन्दुःखमाप्नोति तेन तत्परिवर्जयेत् ११
ततस्तेषु विनष्टेषु षष्टिं कन्याः प्रजापतिः
वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा १२
प्रादात्स दश धर्माय कश्यपाय त्रयोदश
सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमये १३
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते
द्वे चैवाङ्गिरसे तद्वत्तासां नामानि विस्तरात् १४
शृणुध्वं देवमातॄणां प्रजाविस्तारमादितः
मरुत्वती वसुर्यामी लम्बा भानुररुन्धती १५
संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी
धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोधत १६
विश्वे देवास्तु विश्वायाः साध्या साध्यानजीजनत्
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा १७
भानोस्तु भानवस्तद्वन्मुहूर्तायां मुहूर्तकाः
लम्बायां घोषनामानो नागवीथी तु यामिजा १८
पृथिवीतलसम्भूतमरुन्धत्यामजायत
संकल्पायास्तु संकल्पो वसुसृष्टिं निबोधत १९
ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतो दिशम्
वसवस्ते समाख्यातास्तेषां सर्गं निबोधत २०
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः २१
आपस्य पुत्राश्चत्वारः शान्तो वै दण्ड एव च
शाम्बोऽथ मणिवक्त्रश्च यज्ञरक्षाधिकारिणः २२
ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत
द्र विणो हव्यवाहश्च धरपुत्रावुभौ स्मृतौ २३
कल्याणिन्यां ततः प्राणो रमणः शिशिरोऽपि च
मनोहरा धरात्पुत्रानवापाथ हरेः सुता २४
शिवा मनोजवं पुत्रमविज्ञातगतिं तथा
अवाप चानलात्पुत्रावग्निप्रायगुणौ पुनः २५
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः २६
अपत्यं कृत्तिकानां तु कार्त्तिकेयस्ततः स्मृतः
प्रत्यूषस ऋषिः पुत्रो विभुर्नाम्नाथ देवलः
विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः २७
प्रासादभवनोद्यानप्रतिमाभूषणादिषु
तडागारामकूपेषु स्मृतः सोऽमरवर्धकिः २८
अजैकपादहिर्बुÞयो विरूपाक्षोऽथ रैवतः
हरश्च बहुरूपश्च त्र्! यम्बकश्च सुरेश्वरः २९
सावित्रश्च जयन्तश्च पिनाकी चापराजितः
एते रुद्रा ः! समाख्याता एकादश गणेश्वराः ३०
एतेषां मानसानां तु त्रिशूलवरधारिणाम्
कोटयश्चतुरशीतिस्तत्पुत्राश्चाक्षया मताः ३१
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः
पुत्रपौत्रसुताश्चैते सुरभीगर्भसम्भवाः ३२
इति श्रीमात्स्ये महापुराण आदिसर्गे वसुरुद्रा न्वयो नाम पञ्चमोऽध्यायः ५
अथ षष्ठोऽध्यायः
कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्रपौत्रकान्
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा १
सुरभिर्विनता तद्वत्ताम्रा क्रोधवशा इरा
कद्रू र्विश्वा मुनिस्तद्वत्तासां पुत्रान्निबोधत २
तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः
वैवस्वतेऽन्तरे चैते आदित्या द्वादश स्मृताः ३
इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणो यमः
विवस्वान्सविता पूषा अंशुमान्विष्णुरेव च ४
एते सहस्रकिरणा आदित्या द्वादश स्मृताः
मारीचात्कश्यपादाप पुत्रानदितिरुत्तमान् ५
कृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः
एते देवगणा विप्राः प्रतिमन्वन्तरेषु च ६
उत्पद्यन्ते प्रलीयन्ते कल्पे कल्पे तथैव च
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम् ७
हिरण्यकशिपुश्चैव हिरण्याक्षं तथैव च
हिरण्यकशिपोस्तद्वज्जातं पुत्रचतुष्टयम् ८
प्रह्लादश्चानुह्लादश्च संह्लादो ह्लाद एव च
प्रह्लादपुत्र आयुष्माञ्छिबिर्बाष्कल एव च ९
विरोचनश्चतुर्थश्च स बलिं पुत्रमाप्तवान्
बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं ततो द्विजाः १०
धृतराष्ट्रस्तथा सूर्यश्चन्द्र श्चन्द्रा शुं!तापनः
निकुम्भनाभो गुर्वक्षः कुक्षिभीमो विभीषणः ११
एवमाद्यास्तु बहवो बाणज्येष्ठा गुणाधिकाः
बाणः सहस्रबाहुश्च सर्वास्त्रगणसंयुतः १२
तपसा तोषितो यस्य पुरे वसति शूलभृत्
महाकालत्वमगमत्साम्यं यश्च पिनाकिनः १३
हिरण्याक्षस्य पुत्रोऽभूदुलूकः शकुनिस्तथा
भूतसंतापनश्चैव महानाभस्तथैव च १४
एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः
महाबला महाकाया नानारूपा महौजसः १५
दनुः पुत्रशतं लेभे कश्यपाद्बलदर्पितम्
विप्रचित्तिः प्रधानोऽभूद्येषां मध्ये महाबलः १६
द्विमूर्धा शकुनिश्चैव तथा शङ्कुशिरोधरः
अयोमुखः शम्बरश्च कपिशो वामनस्तथा १७
मारीचिर्मेघवांश्चैव इरागर्भशिरास्तथा
विद्रा वणश्च केतुश्च केतुवीर्यः शतह्रदः १८
इन्द्र जित्सप्तजिच्चैव वज्रनाभस्तथैव च
एकचक्रो महाबाहुर्वज्राक्षस्तारकस्तथा १९
असिलोमा पुलोमा च बिन्दुर्बाणो महासुरः
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोः सुताः २०
स्वर्भानोस्तु प्रभा कन्या शची चैव पुलोमजा
उपदानवी मयस्यासीत्तथा मन्दोदरी कुहूः २१
शर्मिष्ठा सुन्दरी चैव चन्द्रा च वृषपर्वणः
पुलोमा कालका चैव वैश्वानरसुते हि ते २२
बह्वपत्ये महासत्त्वे मारीचस्य परिग्रहे
तयोः षष्टिसहस्राणि दानवानामभूत्पुरा २३
पौलोमान्कालकेयांश्च मारीचोऽजनयत्पुरा
अवध्या येऽमराणां वै हिरण्यपुरवासिनः २४
चतुर्मुखाल्लब्धवरास्ते हता विजयेन तु
विप्रचित्तिः सैंहिकेयान्सिंहिकायामजीजनत् २५
हिरण्यकशिपोर्ये वै भागिनेयास्त्रयोदश
व्यंसः कल्पश्च राजेन्द्र नलो वातापिरेव च २६
इल्वलो नमुचिश्चैव श्वसृपश्चाजनस्तथा
नरकः कालनाभश्च सरमाणस्तथैव च २७
कालवीर्यश्च विख्यातो दनुवंशविवर्धनाः
संह्रादस्य तु दैत्यस्य निवातकवचाः स्मृताः २८
अवध्याः सर्वदेवानां गन्धर्वोरगरक्षसाम्
ये हता भर्गमाश्रित्य त्वर्जुनेन रणाजिरे २९
षट्कन्या जनयामास ताम्रा मारीचबीजतः
शुकी श्येनी च भासी च सुग्रीवी गृध्रिका शुचिः ३०
शुकी शुकानुलूकांश्च जनयामास धर्मतः
श्येनी श्येनांस्तथा भासी कुररानप्यजीजनत् ३१
गृध्री गृध्रान्कपोतांश्च पारावतविहंगमान्
हंससारसक्रौञ्चांश्च प्लवाञ्छुचिरजीजनत् ३२
अजाश्वमेषोष्ट्रखरान्सुग्रीवी चाप्यजीजनत्
एष ताम्रान्वयः प्रोक्तो विनतायां निबोधत ३३
गरुडः पततां नाथः अरुणश्च पतत्रिणाम्
सौदामनी तथा कन्या येयं नभसि विश्रुता ३४
सम्पातिश्च जटायुश्च अरुणस्य सुतावुभौ
सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चापि विश्रुतः ३५
जटायुषः कर्णिकारः शतगामी च विश्रुतौ
सारसो रज्जुवालश्च भेरुण्डश्चापि तत्सुताः ३६
तेषामनन्तमभवत्पक्षिणां पुत्रपौत्रकम्
सुरसायाः सहस्रं तु सर्पाणामभवत्पुरा ३७
सहस्रशिरसां कद्रू ः! सहस्रं चापि सुव्रत
प्रधानास्तेषु विख्याताः षड्विंशतिररिंदम ३८
शेषवासुकिकर्कोटशङ्खैरावतकम्बलाः
धनंजयमहानीलपद्माश्वतरतक्षकाः ३९
एलापत्त्रमहापद्मधृतराष्ट्रबलाहकाः
शङ्खपालमहाशङ्खपुष्पदंष्ट्रशुभाननाः ४०
शङ्कुरोमा च बहुलो वामनः पाणिनस्तथा
कपिलो दुर्मुखश्चापि पतञ्जलिरिति स्मृताः ४१
एषामनन्तमभवत्सर्वेषां पुत्रपौत्रकम्
प्रायशो यत्पुरा दग्धं जनमेजयमन्दिरे ४२
रक्षोगणं क्रोधवशा स्वनामानमजीजनत्
दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम् ४३
रुद्रा णां च गणं तद्वद्गोमहिष्यो वराङ्गनाः
सुरभिर्जनयामास कश्यपात्संयतव्रता ४४
मुनिर्मुनीनां च गणं गणमप्सरसां तथा
तथा किंनरगन्धर्वानरिष्टाजनयद्बहून् ४५
तृणवृक्षलतागुल्ममिरा सर्वमजीजनत्
विश्वा तु यक्षरक्षांसि जनयामास कोटिशः ४६
तत एकोनपञ्चाशन्मरुतः कश्यपाद्दितिः
जनयामास धर्मज्ञान्सर्वानमरवल्लभान् ४७
इति श्रीमात्स्ये महापुराणे आदिसर्गे कश्यपान्वयो नाम षष्ठोऽध्यायः ६
अथ सप्तमोऽध्यायः
ऋषय ऊचुः
दितेः पुत्राः कथं जाता मरुतो देववल्लभाः
देवैर्जग्मुश्च सापत्नैः कस्मात्ते सख्यमुत्तमम् १
सूत उवाच
पुरा देवासुरे युद्धे हृतेषु हरिणा सुरैः
पुत्रपौत्रेषु शोकार्ता गत्वा भूलोकमुत्तमम् २
स्यमन्तपञ्चके क्षेत्रे सरस्वत्यास्तटे शुभे
भर्तुराराधनपरा तप उग्रं चचार ह ३
तदा दितिर्दत्यमाता ऋषिरूपेण सुव्रता
फलाहारा तपस्तेपे कृच्छ्रं चान्द्रा यणादिकम् ४
यावद्वर्षशतं साग्रं जराशोकसमाकुला
ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत ५
कथयन्तु भवन्तो मे पुत्रशोकविनाशनम्
व्रतं सौभाग्यफलदमिहलोके परत्र च ६
ऊचुर्वसिष्ठप्रमुखा मदनद्वादशीव्रतम्
यस्याः प्रभावादभवत्सुतशोकविवर्जिता ७
ऋषय ऊचुः
श्रोतुमिच्छामहे सूत मदनद्वादशीव्रतम्
सुतानेकोनपञ्चाशद्येन लेभे दितिः पुनः ८
सूत उवाच
यद्वसिष्ठादिभिः पूर्वं दितेः कथितमुत्तमम्
विस्तरेण तदेवेदं मत्सकाशान्निबोधत ९
चैत्रे मासि सिते पक्षे द्वादश्यां नियतव्रतः
स्थापयेदव्रणं कुम्भं सिततण्डुलपूरितम् १०
नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम्
सितवस्त्रयुगच्छन्नं सितचन्दनचर्चितम् ११
नानाभक्ष्यसमोपेतं सहिरण्यं तु शक्तितः
ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत् १२
तस्मादुपरि कामं तु कदलीदलसंस्थितम्
कुर्याच्छर्करयोपेतां रतिं तस्य च वामतः १३
गन्धं धूपं ततो दद्याद्गीतं वाद्यं च कारयेत्
तदभावे कथां कुर्यात्कामकेशवयोर्नरः १४
कामनाम्ना हरेरर्चां स्नापयेद्गन्धवारिणा
शुक्लपुष्पाक्षततिलैरर्चयेन्मधुसूदनम् १५
कामाय पादौ सम्पूज्य जङ्घे सौभाग्यदाय च
ऊरू स्मरायेति पुनर्मन्मथायेति वै कटिम् १६
स्वच्छोदरायेत्युदरमनङ्गायेत्युरो हरेः
मुखं पद्ममुखायेति बाहू पञ्चशराय वै १७
नमः सर्वात्मने मौलिमर्चयेदिति केशवम्
ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत् १८
ब्राह्मणान्भोजयेद्भक्त्या स्वयं च लवणादृते
भुक्त्या तु दक्षिणां दद्यादिमं मन्त्रमुदीरयेत् १९
प्रीयतामत्र भगवान्कामरूपी जनार्दनः
हृदये सर्वभूतानां य आनन्दोऽभिधीयते २०
अनेन विधिना सर्वं मासि मासि व्रतं चरेत्
उपवासी त्रयोदश्यामर्चयेद्विष्णुमव्ययम् २१
फलमेकं च संप्राश्य द्वादश्यां भूतले स्वपेत्
ततस्त्रयोदशे मासि धृतधेनुसमन्विताम् २२
शय्यां दद्यादनङ्गाय सर्वोपस्करसंयुताम्
काञ्चनं कामदेवं च शुक्लां गां च पयस्विनीम् २३
वासोभिर्द्विजदाम्पत्यं पूज्यं शक्त्या विभूषणैः
शय्यागन्धादिकं दद्यात्प्रीयतामित्युदीरयेत् २४
होमः शुक्लतिलैः कार्यः कामनामानि कीर्तयेत्
गव्येन हविषा तद्वत्पायसेन च धर्मवित् २५
विप्रेभ्यो भोजनं दद्याद्वित्तशाठ्यं विवर्जयेत्
इक्षुदण्डानथो दद्यात्पुष्पमालाश्च शक्तितः २६
यः कुर्याद्विधिनानेन मदनद्वादशीमिमाम्
स सर्वपापनिर्मुक्तः प्राप्नोति हरिसाम्यताम् २७
इहलोके वरान्पुत्रान्सौभाग्यफलमश्नुते
यः स्मरः संस्मृतो विष्णुरानन्दात्मा महेश्वरः २८
सुखार्थी कामरूपेण स्मरेदङ्गजमीश्वरम्
एतच्छ्रुत्वा चकारासौ दितिः सर्वमशेषतः २९
कश्यपो व्रतमाहात्म्यादागत्य परया मुदा
चकार कर्कशां भूयो रूपयौवनशालिनीम् ३०
वरैराछन्दयामास सा तु वव्रे ततो वरम्
पुत्रं शक्रवधार्थाय समर्थममितौजसम् ३१
वरयामि महात्मानं सर्वामरनिषूदनम्
उवाच कश्यपो वाक्यमिन्द्र हन्तारमूर्जितम् ३२
प्रदास्याम्यहमेवेह किं त्वेतत्क्रियतां शुभे
आपस्तम्बः करोत्विष्टिं पुत्रीयामद्य सुव्रते ३३
विधास्यामि ततो गर्भमिन्द्र शत्रुनिषूदनम्
आपस्तम्बस्ततश्चक्रे पुत्रेष्टिं द्र विणाधिकाम् ३४
इन्द्र शत्रुर्भवस्वेति जुहाव च सविस्तरम्
देवा मुमुदिरे दैत्या विमुखाः स्युश्च दानवाः ३५
दित्यां गर्भमथाधत्त कश्यपः प्राह तां पुनः
त्वया यत्नो विधातव्यो ह्यस्मिन्गर्भे वरानने ३६
संवत्सरशतं त्वेकमस्मिन्नेव तपोवने
संख्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ३७
न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा
नोपस्करेषूपविशेन्मुसलोलूखलादिषु ३८
जले च नावगाहेत शून्यागारं च वर्जयेत्
वल्मीकायां न तिष्ठेत न चोद्विग्नमना भवेत् ३९
विलिखेन्न नखैर्भूमिं नाङ्गारेण न भस्मना
न शयालुः सदा तिष्ठेद् व्यायामं च विवर्जयेत् ४०
न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत्
वर्जयेत्कलहं लोकैर्गात्रभङ्गं तथैव च ४१
न मुक्तकेशा तिष्ठेत नाशुचिः स्यात्कदाचन
न शयीतोत्तरशिरा न चापरशिराः क्वचित् ४२
न वस्त्रहीना नोद्विग्ना न चार्द्र चरणा सती
नामङ्गल्यां वदेद्वाचं न च हास्याधिका भवेत् ४३
कुर्यात्तु गुरुशुश्रूषां नित्यं माङ्गल्यतत्परा
सर्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत् ४४
कृतरक्षा सुभूषा च वास्तुपूजनतत्परा
तिष्ठेत्प्रसन्नवदना भर्तुः प्रियहिते रता ४५
दानशीला तृतीयायां पार्वण्यं नक्तमाचरेत्
इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी ४६
यस्तु तस्या भवेत्पुत्रः शीलायुर्वृद्धिसंयुतः
अन्यथा गर्भपतनमवाप्नोति न संशयः ४७
तस्मात्त्वमनया वृत्त्या गर्भेऽस्मिन्यत्नमाचर
स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया पुनः ४८
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत
ततः सा कश्यपोक्तेन विधिना समतिष्ठत ४९
अथ भीतस्तथेन्द्रो ऽपि दितेः पार्श्वमुपागमत्
विहाय देवसदनं तच्छुश्रूषुरवस्थितः ५०
दितेश्छिद्रा न्तरप्रेप्सुरभवत्पाकशासनः
विनीतोऽभवदव्यग्रः प्रशान्तवदनो बहिः ५१
अजानन्किल तत्कार्यमात्मनः शुभमाचरन्
ततो वर्षशतान्ते सा न्यूने तु दिवसैस्!त्रिभिः ५२
मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा
अकृत्वा पादयोः शौचं प्रसुप्ता मुक्तमूर्धजा ५३
निद्रा भरसमाक्रान्ता दिवापरशिराः क्वचित्
ततस्तदन्तरं लब्ध्वा प्रविष्टस्तु शचीपतिः ५४
वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः
ततः सप्तैव ते जाताः कुमाराः सूर्यवर्चसः ५५
रुदन्तः सप्त ते बाला निषिद्धा गिरिदारिणा
भूयोऽपि रुदतश्चैतानेकैकं सप्तधा हरिः ५६
चिछेद वृत्रहन्ता वै पुनस्तदुदरे स्थितः
एवमेकोनपञ्चाशद् भूत्वा ते रुरुदुर्भृशम् ५७
इन्द्रो निवारयामास मां रोदिष्ट पुनः पुनः
ततः स चिन्तयामास किमेतदिति वृत्रहा ५८
धर्मस्य कस्य माहात्म्यात्पुनः संजीवितास्त्वमी
विदित्वा ध्यानयोगेन मदनद्वादशीफलम् ५९
नूनमेतत्परिणतमधुना कृष्णपूजनात्
वज्रेणापि हताः सन्तो न विनाशमवाप्नुयुः ६०
एकोऽप्यनेकतामाप यस्मादुदरगोऽप्यलम्
अवध्या नूनमेते वै तस्माद्देवा भवन्त्विति ६१
यस्मान्मा रुदतेत्युक्ता रुदन्तो गर्भसंस्थिताः
मरुतो नाम ते नाम्ना भवन्तु मखभागिनः ६२
ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः
अर्थशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतम् ६३
कृत्वा मरुद्गणं देवैः समानममराधिपः
दितिं विमानमारोप्य ससुतामनयद्दिवम् ६४
यज्ञभागभुजो जाता मरुतस्ते ततो द्विजाः
न जग्मुरैक्यमसुरैरतस्ते सुरवल्लभाः ६५
इति श्रीमात्स्ये महापुराणे
आदिसर्गे मरुदुत्पत्तौ मदनद्वादशीव्रतं नाम सप्तमोऽध्यायः ७
अथाष्टमेऽध्यायः
ऋषय ऊचुः
आदिसर्गश्च यः सूत कथितो विस्तरेण तु
प्रतिसर्गश्च ये येषामधिपास्तान्वदस्व नः १
सूत उवाच
यदाभिषिक्तः सकलाधिराज्ये पृथुर्धरित्र्! यामधिपो बभूव
तदौषधीनामधिपं चकार यज्ञव्रतानां तपसां च चन्द्र म् २
नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भः
अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत् ३
विष्णुं रवीणामधिपं वसूनामग्निं च लोकाधिपतिश्चकार
प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम् ४
दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम्
पिशाचरक्षःपशुभूतयक्षवेतालराजं त्वथ शूलपाणिम् ५
प्रालेयशैलं च पतिं गिरीणाम् ईशं समुद्रं ससरिन्नदानाम्
गन्धर्वविद्याधरकिंनराणाम् ईशं पुनश्चित्ररथं चकार ६
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश
दिशां गजानामधिपं चकार गजेन्द्र मैरावतनामधेयम् ७
सुपर्णमीशं पततामथाश्वराजानमुच्चैःश्रवसं चकार
सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम् ८
पितामहः पूर्वमथाभ्यषिञ्चच्चैतान्पुनः सर्वदिशाधिनाथान्
पूर्वेण दिक्पालमथाभ्यषिञ्चन्नाम्ना सुधर्माणमरातिकेतुम् ९
ततोऽधिपं दक्षिणतश्चकार सर्वेश्वरं शङ्खपदाभिधानम्
स केतुमन्तं च दिगीशमीशश्चकार पश्चाद् भुवनाण्डगर्भः १०
हिरण्यरोमाणमुदग्दिगीशं प्रजापतिर्देवसुतं चकार
अद्यापि कुर्वन्ति दिशामधीशाः शत्रून्दहन्तस्तु भुवोऽभिरक्षाम् ११
चतुर्भिरेभिः पृथुनामधेयो नृपोऽभिषिक्तः प्रथमं पृथिव्याम्
गतेऽन्तरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते
प्रजापतिः सोऽस्य चराचरस्य बभूव सूर्यान्वयवंशचिह्नः १२
इति श्रीमात्स्ये महापुराणे आधिपत्याभिषेचनं नामाष्टमोऽध्यायः ८
अथ नवमोऽध्यायः
सूत उवाच
एवं श्रुत्वा मनुः प्राह पुनरेव जनार्दनम्
पूर्वेषां चरितं ब्रूहि मनूनां मधुसूदन १
मत्स्य उवाच
मन्वन्तराणि राजेन्द्र मनूनां चरितं च यत्
प्रमाणं चैव कालस्य तां सृष्टिं च समासतः २
एकचित्तः प्रशान्तात्मा शृणु मार्तण्डनन्दन
यामा नाम पुरा देवा आसन्स्वायम्भुवान्तरे ३
सप्तैव ऋषयः पूर्वे ये मरीच्यादयः स्मृताः
आग्नीध्रश्चाग्निबाहुश्च सहः सवन एव च ४
ज्योतिष्मान्द्युतिमान्हव्यो मेधा मेधातिथिर्वसुः
स्वायम्भुवस्यास्य मनोर्दशैते वंशवर्धनाः ५
प्रतिसर्गमिमे कृत्वा जग्मुर्यत्परमंपदम्
एतत्स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम् ६
स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः
नभोनभस्यप्रसृतिभानवः कीर्तिवर्धनाः ७
दत्तो निश्च्यवनस्तम्बः प्राणः कश्यप एव च
और्वो बृहस्पतिश्चैव सप्तैते ऋषयः स्मृताः ८
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे
हस्तीन्द्र ः! सुकृतो मूर्तिरापो ज्योतिरयः स्मयः ९
वसिष्ठस्य सुताः सप्त ये प्रजापतयः स्मृताः
द्वितीयमेतत्कथितं मन्वन्तरमतः परम् १०
औत्तमीयं प्रवक्ष्यामि तथा मन्वन्तरं शुभम्
मनुर्नामौत्तमिर्यत्र दश पुत्रानजीजनत् ११
ईष ऊर्जश्च तर्जश्च शुचिः शुक्रस्तथैव च
मधुश्च माधवश्चैव नभस्योऽथ नभास्तथा १२
सहः कनीयानेतेषामुदारः कीर्तिवर्धनः
भावनास्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः १३
कौकुरुण्डिश्च दाल्भ्यश्च शङ्गः प्रवहणः शिवः
सितश्च सस्मितश्चैव सप्तैते योगवर्धनाः १४
मन्वन्तरं चतुर्थं तु तामसं नाम विश्रुतम्
कविः पृथुस्तथैवाग्निरकपिः कपिरेव च १५
तथैव जल्पधीमानौ मुनयः सप्त तामसे
साध्या देवगणा यत्र कथितास्तामसेऽन्तरे १६
अकल्मषस्तथा धन्वी तपोमूलस्तपोधनः
तपोरतिस्तपस्यश्च तपोद्युतिपरंतपौ १७
तपोभागी तपोयोगी धर्माचाररताः सदा
तामसस्य सुताः सर्वे दश वंशविवर्धनाः १८
पञ्चमस्य मनोस्तद्वद्रै वतस्यान्तरं शृणु
देवबाहुः सुबाहुश्च पर्जन्यः सोमपो मुनिः १९
हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः
देवाश्चाभूतरजसस्तथा प्रकृतयः शुभाः २०
अरुणस्तत्त्वदर्शी च वित्तवान्हव्यपः कपिः
युक्तो निरुत्सुकः सत्त्वो निर्मोहोऽथ प्रकाशकः २१
धर्मवीर्यबलोपेता दशैते रैवतात्मजाः
भृगुः सुधामा विरजाः सहिष्णुर्नाद एव च २२
विवस्वानतिनामा च षष्ठे सप्तर्षयोऽपरे
चाक्षुषस्यान्तरे देवा लेखा नाम परिश्रुताः २३
ऋभवोऽथ ऋभाद्याश्च वारिमूला दिवौकसः
चाक्षुषस्यान्तरे प्रोक्ता देवानां पञ्च योनयः २४
रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश
प्रोक्ताः स्वायम्भुवे वंशे ये मया पूर्वमेव तु २५
अन्तरं चाक्षुषं चैतन्मया ते परिकीर्तितम्
सप्तमं तत्प्रवक्ष्यामि यद्वैवस्वतमुच्यते २६
अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा
भरद्वाजस्तथा योगी विश्वामित्रः प्रतापवान् २७
जमदग्निश्च सप्तैते साम्प्रतं ये महर्षयः
कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदम् २८
साध्या विश्वे च रुद्रा श्च मरुतो वसवोऽश्विनौ
आदित्याश्च सुरास्तद्वत्सप्त देवगणाः स्मृताः २९
इक्ष्वाकुप्रमुखाश्चास्य दश पुत्राः स्मृता भुवि
मन्वन्तरेषु सर्वेषु सप्त सप्त महर्षयः ३०
कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदम्
सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथान्तरम् ३१
अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा
शतानन्दः काश्यपश्च रामश्च ऋषयः स्मृताः ३२
धृतिर्वरीयान्यवसः सुवर्णो वष्टिरेव च
चरिष्णुरीड्यः सुमतिर्वसुः शुक्रश्च वीर्यवान् ३३
भविष्या दश सावर्णेर्मनोः पुत्राः प्रकीर्तिताः
रौच्यादयस्तथान्येऽपि मनवः संप्रकीर्तिताः ३४
रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति
मनुर्भूतिसुतस्तद्वद्भौत्यो नाम भविष्यति ३५
ततस्तु मेरुसावर्णिर्ब्रह्मसूनुर्मनुः स्मृतः
ऋतश्च ऋतधामा च विष्वक्सेनो मनुस्तथा ३६
अतीतानागताश्चैते मनवः परिकीर्तिताः
षडूनं युगसाहस्रमेभिर्व्याप्तं नराधिप ३७
स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्य सचराचरम्
कल्पक्षये विनिर्वृत्ते मुच्यन्ते ब्रह्मणा सहा ३८
एते युगसहस्रान्ते विनश्यन्ति पुनः पुनः
ब्रह्माद्या विष्णुसायुज्यं याता यास्यन्ति वै द्विजाः ३९
इति श्रीमात्स्ये महापुराणे मन्वन्तरानुकीर्तनं नाम नवमोऽध्यायः ९
अथ दशमोऽध्यायः
ऋषय ऊचुः
बहुभिर्धारिणी भुक्ता भूपालैः श्रूयते पुरा
पार्थिवाः पृथिवीयोगात्पृथिवी कस्य योगतः १
किमर्थं च कृता संज्ञा भूमेः किं पारिभाषिकी
गौरितीयं च विख्याता सूत कस्माद्ब्रवीहि नः २
सूत उवाच
वंशे स्वायम्भुवस्यासीदङ्गो नाम प्रजापतिः
मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा ३
सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा
अधर्मनिरतश्चासीद्बलवान्वसुधाधिपः ४
लोकेऽप्यधर्मकृज्जातः परभार्यापहारकः
धर्माचारस्य सिद्ध्यर्थं जगतोऽथ महर्षिभिः ५
अनुनीतोऽपि न ददावनुज्ञां स यदा ततः
शापेन मारयित्वैनमराजकमयार्दिताः ६
ममन्थुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः
तत्कायान्मथ्यमानात्तु निपेतुर्म्लेच्छजातयः ७
शरीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः
पितुरंशस्य चांशेन धार्मिको धर्मचारिणः ८
उत्पन्नो दक्षिणाद्धस्तात्सधनुः सशरो गदी
दिव्यतेजोमयवपुः सरत्नकवचाङ्गदः ९
पृथोरेवाभवद्यत्नात्ततः पृथुरजायत
स विप्रैरभिषिक्तोऽपि तपः कृत्वा सुदारुणम् १०
विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्पुनः
निःस्वाध्यायवषट्कारं निर्धर्मं वीक्ष्य भूतलम् ११
दग्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः
ततो गोरूपमास्थाय भूः पलायितुमुद्यता १२
पृष्ठतोऽनुगतस्तस्याः पृथुर्दीप्तशरासनः
ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत् १३
पृथुरप्यवदद्वाक्यम् ईप्सितं देहि सुव्रते
सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च १४
तथैव साब्रवीद् भूमिर्दुदोह स नराधिपः
स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुम् १५
तदन्नमभवच्छुद्धं प्रजा जीवन्ति येन वै
ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत् १६
दोग्धा बृहस्पतिरभूत्पात्रं वेदस्तपो रसः
देवैश्च वसुधा दुग्धा दोग्धा मित्रस्तदाभवत् १७
इन्द्रो वत्सः समभवत्क्षीरमूर्जस्करं बलम्
देवानां काञ्चनं पात्रं पितॄणां राजतं तथा १८
अन्तकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः
अलाबुपात्रं नागानां तक्षको वत्सकोऽभवत् १९
विषं क्षीरं ततो दोग्धा धृतराष्ट्रोऽभवत्पुनः
असुरैरपि दुग्धेयमायसे शक्रपीडिनीम् २०
पात्रे मायामभूद्वत्सः प्राह्लादिस्तु विरोचनः
दोग्धा द्विमूर्धा तत्रासीन्माया येन प्रवर्तिता २१
यक्षैश्च वसुधा दुग्धा पुरान्तर्धानम् ईप्सुभिः
कृत्वा वैश्रवणं वत्समामपात्रे महीपते २२
प्रेतरक्षोगणैर्दुग्धा धरा रुधिरमुल्बणम्
रौप्यनाभोऽभवद्दोग्धा सुमाली वत्स एव तु २३
गन्धर्वैश्च पुरा दुग्धा वसुधा साप्सरोगणैः
वत्सं चैत्ररथं कृत्वा गन्धान्पद्मदले तथा २४
दोग्धा वररुचिर्नाम नाट्यवेदस्य पारगः
गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च २५
औषधानि च दिव्यानि दोग्धा मेरुर्महाचलः
वत्सोऽभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः २६
वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणम्
पालाशपात्रे दोग्धा तु शालः पुष्पलताकुलः २७
प्लक्षोऽभवत्ततो वत्सः सर्ववृक्षो धनाधिपः
एवमन्यैश्च वसुधा तदा दुग्धा यथेप्सितम् २८
आयुर्धनानि सौख्यं च पृथौ राज्यं प्रशासति
न दरिद्र स्तदा कश्चिन्न रोगी न च पापकृत् २९
नोपसर्गभयं किंचित्पृथौ राजनि शासति
नित्यं प्रमुदिता लोका दुःखशोकविवर्जिताः ३०
धनुष्कोट्या च शैलेन्द्रा नुत्सार्य स महाबलः
भुवस्तलं समं चक्रे लोकानां हितकाम्यया ३१
न पुरग्रामदुर्गाणि न चायुधधरा नराः
क्षयातिशयदुःखं च नार्थशास्त्रस्य चादरः ३२
धर्मैकवासना लोकाः पृथौ राज्यं प्रशासति
कथितानि च पात्राणि यत्क्षीरं च मया तव ३३
येषां यत्र रुचिस्तत्तद्देयं तेभ्यो विजानता
यज्ञश्राद्धेषु सर्वेषु मया तुभ्यं निवेदितम् ३४
दुहितृत्वं गता यस्मात्पृथोर्धर्मवतो मही
तदानुरागयोगाच्च पृथिवी विश्रुता बुधैः ३५
इति श्रीमात्स्ये महापुराणे वैन्याभिवर्णनो नाम दशमोऽध्यायः १०
अथैकादशोऽध्यायः
ऋषय ऊचुः
आदित्यवंशमखिलं वद सूत यथाक्रमम्
सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि १
सूत उवाच
विवस्वान्कश्यपात्पूर्वमदित्यामभवत्सुतः
तस्य पत्नीत्रयं तद्वत्संज्ञा राज्ञी प्रभा तथा २
रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतम्
प्रभा प्रभातं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ३
यमश्च यमुना चैव यमलौ तु बभूवतुः
ततस्तेजोमयं रूपमसहन्ती विवस्वतः ४
नारीमुत्पादयामास स्वशरीरादनिन्दिताम्
त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी ५
पुरतः संस्थितां दृष्ट्वा संज्ञा तां प्रत्यभाषत
छाये तं भज भर्तारमस्मदीयं वरानने ६
अपत्यानि मदीयानि मातृस्नेहेन पालय
तथेत्युक्त्वा तु सा देवमगमत्क्वापि सुव्रता ७
कामयामास देवोऽपि संज्ञेयमिति चादरात्
जनयामास तस्यां तु पुत्रं च मनुरूपिणम् ८
सवर्णत्वाच्च सावर्णिर्मनोर्वैवस्वतस्य च
ततः शनिं च तपतीं विष्टिं चैव क्रमेण तु ९
छायायां जनयामास संज्ञेयमिति भास्करः
छाया स्वपुत्रेऽभ्यधिकं स्नेहं चक्रे मनौ तथा १०
पूर्वो मनुस्तु चक्षाम न यमः क्रोधमूर्छितः
संतर्जयामास तदा पादमुद्यम्य दक्षिणम् ११
शशाप च यमं छाया सक्षतः कृमिसंयुतः
पादोऽयमेको भविता पूयशोणितविस्रवः १२
निवेदयामास पितुर्यमः शापादमर्षितः
निष्कारणमहं शप्तो मात्रा देव सकोपया १३
बालभावान्मया किंचिदुद्यतश्चरणः सकृत्
मनुना वार्यमाणापि मम शापमदाद्विभो १४
प्रायो न माता सास्माकं शापेनाहं यतो हतः
देवोऽप्याह यमं भूयः किं करोमि महामते १५
मौर्ख्यात्कस्य न दुःखं स्यादथवा कर्मसंततिः
अनिवार्या भवस्यापि का कथान्येषु जन्तुषु १६
कृकवाकुर्मया दत्तो यः कृमीन्भक्षयिष्यति
क्लेदं च रुधिरं चैव वत्सायमपनेष्यति १७
एवमुक्तस्तपस्तेपे यमस्तीव्रं महायशाः
गोकर्णतीर्थे वैराग्यात्फलपत्त्रानिलाशनः १८
आराधयन्महादेवं यावद्वर्षायुतायुतम्
वरं प्रादान्महादेवः संतुष्टः शूलभृत्तदा १९
वव्रे स लोकपालत्वं पितृलोके नृपालयम्
धर्माधर्मात्मकस्यापि जगतस्तु परीक्षणम् २०
एवं स लोकपालत्वमगमच्छूलपाणिनः
पितॄणां चाधिपत्यं च धर्माधर्मस्य चानघ २१
विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितम्
त्वष्टुः समीपमगमदाचचक्षे च रोषवान् २२
तमुवाच ततस्त्वष्टा सान्त्वपूर्वं द्विजोत्तमाः
तवासहन्ती भगवन्महस्तीव्रं तमोनुदम् २३
वडबारूपमास्थाय मत्सकाशमिहागता
निवारिता मया सा नु त्वया चैव दिवाकर २४
यस्मादविज्ञाततया मत्सकाशमिहागता
तस्मान्मदीयं भवनं प्रवेष्टुं न त्वमर्हसि २५
एवमुक्ता जगामाथ मरुदेशमनिन्दिता
वडबारूपमास्थाय भूतले सम्प्रतिष्ठिता २६
तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम्
अपनेष्यामि ते तेजो यन्त्रे कृत्वा दिवाकर २७
रूपं तव करिष्यामि लोकानन्दकरं प्रभो
तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम् २८
पृथक्चकार तत्तेजश्चक्रं विष्णोरकल्पयत्
त्रिशूलं चापि रुद्र स्य वज्रमिन्द्र स्य चाधिकम् २९
दैत्यदानवसंहर्तुः सहस्रकिरणात्मकम्
रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत् ३०
न शशाकाथ तद्द्रष्टुं पादरूपं रवेः पुनः
अर्चास्वपि ततः पादौ न कश्चित्कारयेत्क्वचित् ३१
यः करोति स पापिष्ठां गतिमाप्नोति निन्दिताम्
कुष्ठरोगमवाप्नोति लोकेऽस्मिन्दुःखसंयुतः ३२
तस्माच्च धर्मकामार्थी चित्रेष्वायतनेषु च
न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः ३३
ततः स भगवान्गत्वा भूर्लोकममराधिपः
कामयामास कामार्तो मुख एव दिवाकरः ३४
अश्वरूपेण महता तेजसा च समावृतः
संज्ञा च मनसा क्षोभमगमद्भयविह्वला ३५
नासापुटाभ्यामुत्सृष्टं परोऽयमिति शङ्कया
तद्रे तसस्ततो जातावश्विनाविति निश्चितम् ३६
दस्रौ सुतत्वात्संजातौ नासत्यौ नासिकाग्रतः
ज्ञात्वा चिराच्च तं देवं संतोषमगमत्परम् ३७
विमानेनागमत्स्वर्गं पत्या सह मुदान्विता
सावर्णोऽपि मनुर्मेरावद्याप्यास्ते तपोधनः
शनिस्तपोबलादाप ग्रहसाम्यं ततः पुनः ३८
यमुना तपती चैव पुनर्नद्यौ बभूवतुः
विष्टिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थिता ३९
मनोर्वैवस्वतस्यासन्दश पुत्रा महाबलाः
इलस्तु प्रथमस्तेषां पुत्रेष्ट्यां समजायत ४०
इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च
नरिष्यन्तः करूषश्च शर्यातिश्च महाबलाः
पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः ४१
अभिषिच्य मनुः पुत्रमिलं ज्येष्ठं स धार्मिकः
जगाम तपसे भूयः स महेन्द्र वनालयम् ४२
अथ दिग्जयसिद्ध्यर्थमिलः प्रायान्महीमिमाम्
भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः सम्प्रधर्षयन् ४३
जगामोपवनं शम्भोरश्वाकृष्टः प्रतापवान्
कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत् ४४
रमते यत्र देवेशः शम्भुः सोमार्धशेखरः
उमया समयस्तत्र पुरा शरवणे कृतः ४५
पुंनाम सत्त्वं यत्किंचिदागमिष्यति ते वने
स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमण्डले ४६
अज्ञातसमयो राजा इलः शरवणे पुरा
स्त्रीत्वमाप विशन्नेव वडबात्वं हयस्तदा ४७
पुरुषत्वं हृतं सर्वं स्त्रीरूपे विस्मितो नृपः
इलेति साभवन्नारी पीनोन्नतघनस्तनी ४८
उन्नतश्रोणिजघना पद्मपत्त्रायतेक्षणा
पूर्णेन्दुवदना तन्वी विलासोल्लासितेक्षणा ४९
मूलोन्नतायतभुजा नीलकुञ्चितमूर्धजा
तनुलोमा सुदशना मृदुगम्भीरभाषिणी ५०
श्यामगौरेण वर्णेन हंसवारणगामिनी
कार्मुकभ्रूयुगोपेता तनुताम्रनखाङ्कुरा ५१
भ्रमन्ती च वने तस्मिंश्चिन्तयामास भामिनी
को मे पिताथवा भ्राता का मे माता भवेदिह ५२
कस्य भर्तुरहं दत्ता कियद्वत्स्यामि भूतले
चिन्तयन्तीति ददृशे सोमपुत्रेण साङ्गना ५३
इला रूपसमाक्षिप्तमनसा वरवर्णिनी
बुधस्तदाप्तये यत्नमकरोत्कामपीडितः ५४
विशिष्टाकारवान्दण्डी सकमण्डलुपुस्तकः
वेणुदण्डकृतानेकपवित्रकगणत्रिकः ५५
द्विजरूपः शिखी ब्रह्मा निगदन्कर्णकुण्डलः
बटुभिश्चान्वितो युक्तैः समित्पुष्पकुशोदकैः ५६
किलान्विषन्वने तस्मिन्नाजुहाव स तामिलाम्
बहिर्वनस्यान्तरितः किल पादपमण्डले ५७
ससंभ्रममकस्मात्तां सोपालम्भमिवावदत्
त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मन्दिरान्मम ५८
इयं विहारवेला ते ह्यतिक्रामति साम्प्रतम्
एह्येहि पृथुसुश्रोणि संभ्रान्ता केन हेतुना ५९
इयं सायन्तनी वेला विहारस्येह वर्तते
कृत्वोपलेपनं पुष्पैरलंकुरु गृहं मम ६०
सा त्वब्रवीद्विरमृताहं सर्वमेतत्तपोधन
आत्मानं त्वां च भर्तारं कुलं च वद मेऽनघ ६१
बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनी
अहं च कामुको नाम बहुविद्यो बुधः स्मृतः ६२
तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः
इति सा तस्य वचनात्प्रविष्टा बुधमन्दिरम् ६३
रत्नस्तम्भसमायुक्तं दिव्यमायाविनिर्मितम्
इला कृतार्थमात्मानं मेने तद्भवनस्थिता ६४
अहो वृत्तमहो रूपमहो धनमहो कुलम्
मम चास्य च मे भर्तुरहो लावण्यमुत्तमम् ६५
रेमे च सा तेन सममतिकालमिला ततः
सर्वभोगमये गेहे यथेन्द्र भवने तथा ६६
इति श्रीमात्स्ये महापुराणे बुधसंगमो नामैकादशोऽध्यायः ११
अथ द्वादशोऽध्यायः
सूत उवाच
अथान्विषन्तो राजानं भ्रातरस्तस्य मानवाः
इक्ष्वाकुप्रमुखा जग्मुस्तदा शरवणान्तिकम् १
ततस्ते ददृशुः सर्वे वडबामग्रतः स्थिताम्
रत्नपर्याणकिरणदीप्तकायामनुत्तमाम् २
पर्याणप्रत्यभिज्ञानात्सर्वे विस्मयमागताः
अयं चन्द्र प्रभो नाम वाजी तस्य महात्मनः ३
अगमद्वडबारूपमुत्तमं केन हेतुना
ततस्तु मैत्रावरुणिं पप्रच्छुस्ते पुरोधसम् ४
किमित्येतदभूच्चित्रं वद योगविदां वर
वसिष्ठश्चाब्रवीत्सर्वं दृष्ट्वा तद्ध्यानचक्षुषा ५
समयः शम्भुदयिताकृतः शरवणे पुरा
यः पुमान्प्रविशेदत्र स नारीत्वमवाप्स्यति ६
अयमश्वोऽपि नारीत्वमगाद्रा ज्ञा सहैव तु
पुनः पुरुषतामेति यथासौ धनदोपमः ७
तथैव यत्नः कर्तव्यश्चाराध्यैव पिनाकिनम्
ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः ८
तुष्टुवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ
तावूचतुरलङ्घ्योऽयं समयः किंतु साम्प्रतम् ९
इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः
दत्त्वा किम्पुरुषो वीरः स भविष्यत्यसंशयम् १०
तथेत्युक्तास्ततस्ते तु जग्मुर्वैवस्वतात्मजाः
इक्ष्वाकोश्चाश्वमेधेन चेलः किम्पुरुषोऽभवत् ११
मासमेकं पुमान्वीरः स्त्री च मासमभूत्पुनः
बुधस्य भवने तिष्ठन्निलो गर्भधरोऽभवत् १२
अजीजनत्पुत्रमेकमनेकगुणसंयुतम्
बुधश्चोत्पाद्य तं पुत्रं स्वर्लोकमगमत्ततः १३
इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा
सोमार्कवंशयोरादाविलोऽभून्मनुनन्दनः १४
एवं पुरूरवाः पुंसोरभवद्वंशवर्धनः
इक्ष्वाकुरर्कवंशस्य तथैवोक्तस्तपोधनाः १५
इलः किम्पुरुषत्वे च सुद्युम्न इति चोच्यते
पुनः पुत्रत्रयमभूत्सुद्युम्नस्यापराजितम् १६
उत्कलो वै गहस्तद्वद्धरिताश्वश्च वीर्यवान्
उत्कलस्योत्कला नाम गयस्य तु गया मता १७
हरिताश्वस्य दिक्पूर्वा विश्रुता कुरुभिः सह
प्रतिष्ठानेऽभिषिच्याथ स पुरूरवसं सुतम् १८
जगामेलावृतं भोक्तुं वर्षं दिव्यफलाशनम्
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् १९
नरिष्यन्तस्य पुत्रोऽभूच्छुचो नाम महाबलः
नाभागस्याम्बरीषस्तु धृष्टस्य च सुतत्रयम् २०
धृतकेतुश्चित्रनाथो रणधृष्टश्च वीर्यवान्
आनर्तो नाम शर्यातेः सुकन्या चैव दारिका २१
आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान्
आनर्तो नाभ देशोऽभून्नगरी च कुशस्थली २२
रोचमानस्य पुत्रोऽभूद्रे वो रैवत एव च
ककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च २३
रेवती तस्य सा कन्या भार्या रामस्य विश्रुता
करूषस्य तु कारूषा बहवः प्रथिता भुवि २४
पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत
इक्ष्वाकुवंशं वक्ष्यामि शृणुध्वमृषिसत्तमाः २५
इक्ष्वाकोः पुत्रतामाप विकुक्षिर्नाम देवराट्
ज्येष्ठः पुत्रशतस्यासीद्दश पञ्च च तत्सुताः २६
मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः
चतुर्दशोत्तरं चान्यच्छतमस्य तथाभवत् २७
मेरोर्दक्षिणतो ये ये राजानः संप्रकीर्तिताः
ज्येष्ठः ककुत्स्थो नाम्नाभूत्तत्सुतस्तु सुयोधनः २८
तस्य पुत्रः पृथुर्नाम विश्वगश्चपृथोः सुतः
<