श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रियै पद्मावत्यै नमः
श्रीमते विष्वक्सेनाय नमः
%श्रीवेङ्कटाचलमाहात्म्यम्%
-------*-------
(श्रीवामनपुराणान्तर्गतम्)
--------*--------
%श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम्।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम्%
विंशोऽध्यायः
------
%प्रयागमाहात्म्यम्%
हरिः ॐ
<20.7.1>यच्छरीरं त्रयो वेदाः यञ्चेष्टाऽऽथर्वणः स्मृतः।
यदङ्गानि षडङ्गानि तस्मै वागात्मने नमः ।।1।।
व्यासः-----
<20.7.2>कदाचित् दुःखितः प्राह जनको मिथिलाधिपः।
शतानन्दं माहभागं सर्वज्ञं तत्त्वदर्शिनम् ।।2।।
%सीतादिस्वसुताविवाहाद्यर्थं जनकनृपकृतानुतापक्रमः%
<20.7.3>ब्रह्मन्! मां बाधते दु खं सीतादर्शनजं महत्।
केन दुःखमिदं त्यक्ष्ये क आराध्येऽघनाशनः ।।3।।
<20.7.4>दुष्टात्मा रावणो रक्षःपतिः वैश्रवणानुजः।
हरेदयोनिजां सीतां किन्नु न ज्ञायते मया? ।।4।।
<20.7.5>कमाराध्य महाभाग! लप्स्ये जामातरं वरम्।
समानोत्तमवंश्यञ्च योग्यमस्या महामुने! ।।5।।
<20.7.6>ममापि दुहिता चैषा ह्यूर्मिला नाम नामतः।
कुशध्वजस्य च सुते कनिष्ठभ्रातुरेव मे ।।6।।
<20.7.7>माण्डवीश्रुतकीर्त्याख्ये सुशीले सुमनोहरे।
क्वाऽसां चक्रे वरान् ब्रह्मन्निति चिन्ताकुलोऽस्म्यहम् ।।7।।
<20.7.8>परमध्यात्मविद्योगी दृष्टलोकपरावरः।
पुरोहितोऽस्य वंशस्य गतिर्मेऽस्तु भवानिह ।।8।।
<20.7.9>वेदशास्त्रपुराणज्ञः कालवित् कालधर्मवित्।
दुःखिनां दुःखहर्ता च सुखिनां स्मयनाशनः ।।9।।
<20.7.10>त्वं मे गतिश्च परमा भवदुःखविनाशन!।
राजानो विषयासक्ताः कामक्रोधसमन्विताः ।।10।।
<20.7.11>कन्यारत्ननिमित्तञ्च ह्यागमिष्यन्ति कोटिशः।
तेभ्यो युद्धं कथं दास्ये एकोऽहं ब्रह्मवित्तम! ।।11।।
<20.7.12>एतावन्तमहं कालं सुखं राज्यमशासिषम्।
इदानीमस्मि दुःखार्तो वृद्धः पुत्री तपोधन! ।।12।।
<20.7.13>अजो विविक्तो विमलो विष्णुभक्तो ममात्मजाः।
चत्वार एते शिशवः शिखिनो नास्त्रकोविदाः ।।13।।
<20.7.14>ममानुजस्य पुत्राश्च विचिकित्सो विकर्तनः।
प्रतर्दन इति त्वेते त्रयश्च शिशवस्तथा ।।14।।
<20.7.15>वृद्धत्वादात्मनश्चैव पुत्राणाञ्चैव शैशवात्।
कन्यकानाञ्च रत्नत्वात् दुःखितोऽहं तपोधन! ।।15।।
<20.7.16>कस्मादस्मादहं मोहात् निर्गमिष्याम्युपायतः।
तं मे वद त्वं ब्रह्मेष! गमिष्यामीह कां गतिम् ।।16।।
<20.7.17>येन मन्वादयस्तीर्णाः संसाराख्यं महार्णवम्।
इह दुःखञ्च राजानः तन्मे ब्रूहि तपोधन! ।।17।।
<20.7.18>कं ध्यात्वा पुरुषो लोके भुक्तिं मुक्तिञ्च विन्दते।
आपद्रक्षाकरः को वा?तं देवं ब्रूहि सत्तम! ।।18।।
%जनकनृपतापापनोदनार्थं शतानन्दोक्तपुरातनेतिहासः%
शतानन्दः-----
<20.7.19>राजन्! मनुष्या अपि यं प्रपन्नाः सन्त्यक्तदुःखा सुखिनो भवन्ति।
वक्ष्यामि देवं वरदं रमेशं तं प्राप्य दुःखाम्बुनिधिं तपिष्यसि ।।19।।
<20.7.20>पुराऽहं चम्पकारण्यात् तमसातीरमुत्तमम्।
वाल्मीकिं मुनिशार्दूलं द्रष्टुमस्मि गतो नृप! ।।20।।
<20.7.21>तेनागमनतुष्टेन प्रत्युद्यातो नृपोत्तम!।
उपचारैश्च पाद्याद्यैरतिथिः पूजितोऽस्म्यहम् ।।21।।
<20.7.22>अभिवन्द्य मुनिश्रेष्ठं तच्छिष्यैश्च नमस्कृतः।
क्रियां माद्याह्निकीं कृत्वा भुक्त्वा वाल्मीकिना सह ।।22।।
<20.7.23>अन्यैश्च मुनिभिः सार्धं भरद्वाजादिभिस्तदा।
वाल्मीकेराश्रमे रम्ये ह्यासं वाल्मीकिना सह ।।23।।
<20.7.24>उक्त्वा कालोचिता वार्ताः कथाश्चात्र पुरातनीः।
हृष्टावन्योन्यसङ्गेन ह्यभूव परमं नृप! ।।24।।
<20.7.25>एतस्मिन्नन्तरे स्वर्गादाजगाम च नारदः।
शुद्धस्फटिकसङ्काशो महात्मा महतीं दधत् ।।25।।
<20.7.26>तं दृष्ट्वा मुनिशार्दूलमुदतिष्ठत्तदासनात्।
सह शिष्यो मया सार्धं वाल्मीकिः भगवान् ऋषिः ।।26।।
<20.7.27>कृताञ्जलिपुटो भूत्वा प्रीतिसंहृष्टमानसः।
सशिष्यः कल्पयामास पूजां तस्य विधानतः ।।27।।
<20.7.28>"इदं पाद्यमिदं त्वर्ध्यं इदमासनमेव च।
इदं मूलं फलं स्वादु भगवन्! प्रतिगृह्यताम् ।।28।।
<20.7.29>आगतस्त्वं चिराद्ब्रह्मन्!।स्वागतं ते तपोधन!"
शतानन्दः----
इति वाल्मीकिना शिष्यैः अभिवाद्य च पूजितः ।।29।।
<20.7.30>निषसाद च सुप्रीतो नारदो मृगचर्मणि।
आस्वाद्य फलमूलानि श्रमं स्वमपनीय च ।।30।।
<20.7.31>कुशलं परिपप्रच्छ वाल्मीकिं मुनिपुङ्गवम्।
"निर्विघ्नं ते तपो ब्रह्मन्! वर्धते त्रिविधं मुने! ।।31।।
<20.7.32>अवन्ध्यास्तरवः काले भवन्त्यपि तवाऽऽश्रमे।
अपि क्रियार्थाः समिधः सुलभाश्च कुशा अपि" ।।32।।
<20.7.33>इति पृष्टस्तदा प्रीत्या प्राह नारदमुत्तरम्।
"त्वत्प्रसादान्मुनिश्रेष्ठ! सर्वं मङ्गलमेव मे ।।33।।
<20.7.34>वर्धते च तपो ब्रह्मन्! त्रिविधं कालवित्तम!।
अकालेऽपि फलन्त्येव तरवो वासवाज्ञया" ।।34।।
<20.7.35>इत्युक्तो नारदस्तेन प्रमुमोद महाद्युतिः।
कृताञ्जलिपुटाः सर्वे परिवार्य च नारदम् ।।35।।
<20.7.36>तदागमनसंहृष्टाः तस्थुः तद्वनवासिनः।
नारदेनाभ्यनुज्ञातः प्राप्य कृष्णाजिनासनम् ।।36।।
<20.7.37>कृताञ्जलिपुटो भूत्वा प्रह्वो वाक्यविशारदः।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ।।37।।
<20.7.38>"त्रैलोक्ये वैष्णवं क्षेत्रं किं श्रेष्ठं भुवि नारद!।
आब्रह्मलोकं सर्वं त्वं विशेषं दृष्टवानसि ।।38।।
<20.7.39>यत्तीर्थे सर्वतीर्थानि सन्निधानं व्रजन्ति च।
यत्क्षेत्रवासिनां पुण्यमनन्तमिति कीर्त्यते ।।39।।
<20.7.40>यत्राऽऽस्ते भगवान् विष्णु सश्रीभूः पुरुषोत्तमः।
तद्ब्रूहि मम देवर्षे! क्षेत्रं त्रैलोक्यपावनम्" ।।40।।
नारदः-----
<20.7.41>"साधु पृष्ठं त्वया ब्रह्मन्! सर्वेषां हितकाम्यया।
तत्ते वक्ष्यामि वाल्मीके! समाहितमनाः श्रृणु ।।41।।
<20.7.42>इममेव पुरा प्रश्नं पृष्टः प्राह महेश्वरः।
पुत्रेण षण्मुखेनैव जिष्णुना हिमवद्गिरौ ।।42।।
स्कन्दः----
<20.7.43>"हत्वा देवासुरे युद्धे तारकाख्यं महासुरम्।
आगतोऽस्मि जयी तात!पादमूलं त्रिलोचन! ।।43।।
<20.7.44>बुभुक्षा बाधते तीव्रा ब्रह्महत्यासमुद्भवा।
स्नात्वा भोक्ष्यामि यत्तीर्थे तत्तीर्थं तात! मे वद" ।।44।।
%स्कन्दं प्रति शंकरोक्तब्रह्महत्याविमुक्तिहेतूपन्यासः%
महेश्वरः----
<20.7.45>"सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम्।
गङ्गादिसर्वतीर्थेषु स्नातो भवति पुत्रक!" ।।45।।
<20.7.46>श्रुत्वा परममित्युक्त्वा भुक्त्वा पित्रा सहोमया।
ततः पप्रच्छ पितरं शङ्करं लोकशङ्करम् ।।46।।
<20.7.47>"उक्तो नारायणो देवः त्वया सर्वाघनाशनः।
जनैराराधितः केन कर्मणा दृश्यते भुवि ।।47।।
<20.7.48>स कुत्र सेव्यते देवः प्रियं तस्यापि किं पितः!"।
नारदः-----
इति पृष्टः पुनस्तेन पुत्रं प्राहाऽथ शङ्करः।।48।।
<20.7.49>"यं योगिनो मुनिवरा हृदि सन्निषण्णं ज्योतिर्मयं प्रणवरूपमचिन्त्यरूपम्।
आदित्यमण्डलनिवासमनन्तमाद्यम् आराधयन्ति सततं तमुदीरयामि ।।49।।
शङ्करः-----
<20.7.50>पुरा दक्षाध्वरे पुत्र! तस्य शीर्षं मया हृतम्।
तञ्च हस्ततले लग्नं ब्रह्महत्या च सङ्गता ।।50।।
<20.7.51>स्वर्गे कपाली भिक्षार्थीं पर्यटन्नियतेन्द्रियः।
न मोक्षं ब्रह्महत्याया अपश्यं तत्र पुत्रक! ।।51।।
<20.7.52>मेरौ ब्रह्मसरस्तीरे तप उग्नमुपाश्रितः।
स्नातुमभ्यागतो ब्रह्मा मामपश्यञ्चतुर्मुखः ।।52।।
<20.7.53>तच्च दृष्ट्वा प्रणम्याहमतिष्ठं पुरतस्तदा।
स मां कपालिनं दृष्ट्वा किमित्याह पितामहः ।।53।।
<20.7.54>तच्छ्रुत्वा ब्रह्मणो वाक्यं ततो देवं व्यजिज्ञपम्।
"किं ब्रुवे तात! शप्तोऽस्मि दक्षं हत्वा तु तेन ह ।।54।।
<20.7.55>हत्या मोक्षं न पश्यामि कुत्र वा केन कर्मणा।
दृष्टो भवान् मया दिष्टया शापमोक्षं वदस्व मे" ।।55।।
<20.7.56>इत्युक्तश्च मया पुत्र! ब्रह्मा प्राह च मां तदा।
ब्रह्माः-----
"मा विषीद महादेव! हत्यामोक्षं वदामि ते ।।56।।
<20.7.57>पुरा शङ्कर! गङ्गाया यमुनायाश्च सङ्गमे।
धनुस्त्रिंशतविस्तीर्णे पुण्यक्षेत्रे च माधवे ।।57।।
%प्रयागक्षेत्रस्य भगवद्वर्णितप्रयागाभिधाननिरुक्तिः%
<20.7.58>माधवप्रीतये तत्र यज्ञाः सर्वे मया कृताः।
प्रादुरासीत्तदा वेद्यां माधवो भक्तवत्सलः ।।58।।
<20.7.59>शङ्खचक्रगदापाणिः श्रीवत्साङ्कश्चतुर्भुजः।
प्राञ्जलिस्तं प्रणम्याहं प्रसीदेत्यस्तुवं तदा ।।59।।
<20.7.60>प्रसन्नो माधवः प्राह "ब्रह्मन्!प्रीतोऽस्मि तेऽध्वरैः।
प्रकृष्टाश्च कृता यज्ञाः प्रीतोऽहञ्च त्वयाऽनघ! ।।60।।
<20.7.61>यत्तद्ब्रह्मन्निदं क्षेत्रं प्रयागाख्यं गमिष्यति।
अस्यां वेद्यामहं नित्यं सन्निधानं करोमि ते" ।।61।।
<20.7.62>इतः प्रभृति ये पापाः पुरुषा याः स्त्रियश्च वा।
क्षेत्रेशं मां प्रपश्यन्ति मुक्ताः सर्वे भवन्तु ते" ।।62।।
<20.7.63>इति दत्त्वा वरं देवो ममाभीष्टञ्च माधवः।
आस्ते लक्ष्म्या महादेव! प्रयागे पुण्यसत्तमे ।।63।।
<20.7.64>त्वञ्च हत्यासमायुक्तो मोक्षं तत्र गमिष्यसि"।
शङ्करः-----
इत्युक्त्वा मां ततो ब्रह्मा सत्यलोकं जगाम ह ।।64।।
%शङ्करहस्तात् कपालविनिर्मुक्तिप्रकारः%
<20.7.65>ततः प्रीतो वरं लब्ध्वा पुण्यक्षेत्रं गतोऽस्मि तत्।
क्षेत्रे प्रविष्टमात्रे तु मया हत्या पृथक् स्थिता ।।65।।
<20.7.66>पञ्चक्रोशाद्ब्रहिर्भूता क्रोशन्ती विस्वरं गता।
कपालश्च च्युतो हस्तात् प्रससाद मनो मम ।।66।।
<20.7.67>ततः स्नात्वा प्रयागेऽहं देवं नत्वा च माधवम्।
अयाचं माधवं क्षेत्रं देहीदं मे जनार्दन! ।।67।।
<20.7.68>इत्युक्तो माधवो दत्त्वा क्षेत्रं मे वरदः प्रभुः।
श्रिया परमया युक्तः शङ्खचक्रगदाधरः ।।68।।
<20.7.69>स्वं लोकञ्च ययौ "देवः तपः कुर्वि"ति मां वदन्।
तत्राहञ्च तपः कृत्वा ब्रह्महत्यां व्यपोह्य च।
विहरन्नुमया सार्धं तत्रैव हि षडानन! ।।69।।
<20.7.70>लक्ष्मीसहायं रमणीयवेषं अजं हरिं कालघनाभिरामम्।
पीताम्बरं पाटलपाणिपादं ध्यात्वाऽर्चयंस्तत्र वसामि पुत्र!" ।।70।।
इति श्रीवामनुपुराणे क्षेत्रखाण्डे श्रीवेङ्कटाचलमाहात्म्ये प्रयागमाहात्म्यवर्णनं
नाम विंशोऽध्यायः।
----------
अथ एकविंशोऽध्यायः
------------
%अथ स्कन्दं प्रति शंकरकृतं तपः समुचितवेङ्कटाद्रिवर्णनम्%
नारदः-----
<21.7.1>स्कन्दः श्रुत्वा पितुर्वाक्यं मङ्गलं पापनाशनम्।
पुनः पप्रच्छ संहृष्टः पितरं तत्त्वदर्शिनम् ।।1।।
<21.7.2>"ममापि तपसो योग्यं क्षेत्रं ब्रूहि शुभान्वितम्।
न विघ्नास्तपतो यत्र प्रभवन्ति मम प्रभो! ।।2।।
<21.7.3>त्वयाऽऽज्ञप्तस्तपस्तप्स्ये भवदुःखविनाशन!।
योगीन्द्रवन्द्यचरण द्वन्द्वानन्दैकलक्षण! ।।3।।
<21.7.4>मम शङ्कर तद्ब्रूहि वैष्णवं क्षेत्रमुत्तमम्"।
एवमुक्तस्ततः शम्भुः पुत्रेण प्राप्तकारिणा ।।4।।
<21.7.5>उमामालोक्य संहृष्टो ध्यात्वा चैनं बभाण ह।
"श्रृणु पुत्र महाभाग! देवदुःखविनाशन! ।।5।।
<21.7.6>वृषो नाम महाशैलो वृषेणाराधितः पुरा।
तं गच्छ शिखिना पुत्र कुरु त्वं तत्र वै तपः" ।।6।।
नारदः-----
<21.7.7>इति प्रतिसमादिष्टः पुनराह च षण्मुखः।
"उक्तो यस्तत्र भवता वृषाभिख्यो महागिरिः ।।7।।
<21.7.8>नायं कुलाचलो नूनं कुत्राऽऽस्ते स महागिरिः।
किमर्थञ्च वृषस्तत्र तपस्तेपे महातपाः ।।8।।
<21.7.9>वृषः किं वृषभो धर्मो मनुर्वा नीललोहित!।
प्रोक्तः कोऽयं भगवता ब्रूहि मे पुत्रवत्सल!" ।।9।।
<21.7.10>इति पृष्टस्ततस्तेन प्राह तं वृषभध्वजः।
"नायं कुलाचलः पुत्र! मेरुपुत्रो महागिरिः ।।10।।
<21.7.11>अञ्जनो नाम नाम्ना च त्रिषु लोकेषु विश्रुतः।
शैलः स्वर्णमयो वत्स! रत्नसानुः सुशोभनः ।।11।।
<21.7.12>शेषमारुतसंवादे विधूतो दक्षिणां दिशम्।
नियुक्तोऽयं गिरिः पुत्र! पूर्वमेव तु विष्णुना ।।12।।
<21.7.13>सर्वतीर्थमयः पुण्यः पावनोऽञ्जनभूधरः।
सुदुर्लभो मनुष्याणां देवभूमौ वसन्निह ।।13।।
<21.7.14>स्थातव्यं भवता शैलदक्षिणस्यां दिशीति वै।"
एवमुक्तोऽपि हरिणा पितृस्नेहवशेन सः ।।14।।
<21.7.15>पितुराज्ञामवेक्ष्यायं कञ्चित्कालमवर्तत।
शेषमारुतसंवादे प्रवृत्ते लोकभीषणे ।।15।।
<21.7.16>मेरुणैवाऽभ्यनुज्ञातः प्रयातो दक्षिणां दिशम्।
आस्ते पूर्वोदधेः पश्चात् वत्सायं पञ्चयोजने ।।16।।
<21.7.17>उत्तरे दक्षिणाब्धेस्तु षट्त्रिंशद्योजनान्तरे।
तीरे पुण्यतमे पुत्र! रुक्मनद्यास्तथोत्तरे ।।17।।
<21.7.18>क्रोशद्वयार्धमात्रे तु हरिचन्दनमण्डिते।
वने रम्यतमे वत्स! नानापादपमण्डिते ।।18।।
<21.7.19>सिद्धा मुनिगणास्तत्र तपः कुर्वन्ति नित्यशः।
चण्डालयवनाद्यैस्तु वेदबाह्यैश्च नास्तिकैः ।।19।।
<21.7.20>नारोढुमपि यः शक्यः पावनः पर्वतोत्तमः।
शुकाद्या मुनयः केचित् भृग्वाद्याश्च तपोधनाः ।।20।।
<21.7.21>प्रह्लादप्रमुखाः पुण्याः अम्बरीषादयो नृपाः।
विष्णोरेवापरं देहं मन्वानाः तं नगोत्तमम् ।।21।।
<21.7.22>पद्भ्यामाक्रमितुं भीताः पर्यन्तेष्वेव वर्तनाः।
तन्निर्गतनदीष्वेव कुर्वाणाः स्नानतर्पणे ।।22।।
<21.7.23>तपः कुर्वन्ति वान्छन्तः साक्षात्कर्तुं जनार्दनम्।
एवंविधः स शैलेन्द्रो नित्यमत्यन्तपावनः ।।23।।
<21.7.24>शिखरं यस्य दृष्ट्वैव सद्यः पापैः प्रमुच्यते।
तत्राऽऽस्ते कोलरूपी तु महाविष्णुः सनातनः ।।24।।
<21.7.25>उद्धृतां धरणीं देवीमालिङ्ग्याङ्के निधाय च।
आराधितो मुनिगणैः त्रिसन्ध्यं श्रद्धयाऽन्वितैः ।।25।।
<21.7.26>तदा प्रभृति तत्पुण्यं वाराहं क्षेत्रमुच्यते।
तस्मिन् पुण्यतमे क्षेत्रे वाराहे वेङ्कटाचले ।।26।।
<21.7.27>सन्निधौ भूवराहस्य ये केचिन्नियतव्रताः।
शास्त्रोक्तेन विधानेन वाराहं मन्त्रमुत्तमम् ।।27।।
<21.7.28>जपन्ति विजितात्मानो मासमेकं निरन्तरम्।
गृहक्षेत्रादिकं तेषां सद्यः सिद्ध्यति वाञ्छितम् ।।28।।
<21.7.29>पृथिवीं ये च वाञ्छन्ति राजानः शासितुं चिरम्।
ये तु तत्र प्रकुर्वन्ति महादानानि षोडश ।।29।।
<21.7.30>प्रीणयन्तो महीं देवीं दक्षिणाभिः तदुद्धृताम्।
तेषामादिवराहस्तु भगवान् भक्तवत्सलः ।।30।।
<21.7.31>प्रयच्छति चिरं कालं महीं सागरमेखलाम्।
बुद्धजानपदोपेतां हतावग्रहकण्टकाम् ।।31।।
<21.7.32>अनादृत्य तु यस्तत्र वराहवदनं हरिम्।
धरणीञ्च तदङ्कस्थां पृथ्वीं शासितुमिच्छति ।।32।।
<21.7.33>तेन दोषेण तद्राज्यं पीड्यतेऽवग्रहैः सदा।
दस्युभिः शत्रुभिश्चैव महारोगैस्तथैव च ।।33।।
<21.7.34>तस्मात् तत्र स्थितं देवं वराहं धरणीयुतम्।
सम्यगाराधयेद्राजा भक्तिश्रद्धासमन्वितः ।।34।।
<21.7.35>तस्याग्रे देवदेवस्य सरस्त्रैलोक्यपावनम्।
स्वामिपुष्करिणी नाम सरसां वरमस्ति वै ।।35।।
<21.7.36>त्रैलोक्ये यानि तीर्थानि पावनान्यपि देहिनाम्।
पुष्करिण्यश्च नद्यो याः सन्ति ब्रह्माण्डगोचराः ।।36।।
<21.7.37>तानि सर्वाणि षड्वक्त्र! स्वात्मनां पावनाय वै।
वर्षे वर्षे समायान्ति तत्तीर्थे स्नातुमात्मज! ।।37।।
<21.7.38>वैवस्वते मनौ पुत्र! लोकं शासति चाऽज्ञया।
धर्मो मनुस्तपस्तेपे सोऽयं वृष इतीरितः ।।38।।
<21.7.39>तपश्चरति तस्मिंस्तु ववृधे धर्म उत्तमः।
ततः प्रसन्नो भगवान् महाकालो महीयुतः ।।39।।
<21.7.40>समक्षमब्रवीद्धर्मं शरन्मेघ इव स्थितः।
"धर्म! त्वया तपस्तप्तं वृषश्च ववृधे यतः ।।40।।
<21.7.41>तस्मादयं गिरिवरो वृषाभिख्यां गमिष्यति।
तवापि लोकपालत्वं यमात्पश्चाद्भविष्यति" ।।41।।
<21.7.42>इत्युक्त्वाऽन्तर्दधे देवो गिरिमूर्ध्नि षडानन!।
अथ लब्धवरो धर्मो जगाम च यथागतम् ।।42।।
<21.7.43>इदानीञ्च महाभाग! वायुरास्ते तपश्चरन्।
जपन् सतारकं मन्त्रं गणयन्नक्षमालया ।।43।।
<21.7.44>परात्परतरं राममर्चयन् विधिपूर्वकम्।
श्रीभूमिसहितं देवं चतुर्बाहुं किरीटिनम् ।।44।।
<21.7.45>शङ्खचक्रधनुर्बाणपाणिं नीलोत्पलद्युतिम्।
देवदेवं जगन्नाथं अपरोक्षं निरीक्षितुम्।
सर्वप्राणात्मको वायुः तपस्तीव्रं चरत्यहो! ।।45।।
<21.7.46>ब्रह्मादिदेवा अपि देवदेवं वाञ्छन्ति यं सेवितुमात्तभावाः।
तं वै वरेण्यं सकलान्तरस्थं द्रष्टुं तपो वर्धयते स वायुः" ।।46।।
नारदः-----
<21.7.47>इत्युक्तो गुरुणा स्कन्दः पप्रच्छ पितरं पुनः।
"ममापि वैष्णवं मन्त्रं वैष्णवेष्वपि चोत्तमम् ।।47।।
<21.7.48>मन्त्रेषु वरदं शम्भो! ब्रूहि तत्प्राप्तिसाधनम्"।
इति विज्ञापितः शम्भुः पुत्रेणाक्लिष्टकारिणा ।।48।।
%तपः करणाय स्कन्दस्य श्रीवेङ्कटाचलगमनम्%
<21.7.49>विधिनाऽऽशु ततः प्रादान्मन्त्रं तस्मै स तारकम्।
लब्ध्वा मन्त्रं महादेवात् स्कन्दः प्रीतोऽभवत्पितुः ।।49।।
<21.7.50>प्रह्वः प्रदक्षिणं कृत्वा पितरं सोऽभ्यवादयत्।
प्रणम्य मातरं पश्चात् प्रतस्थे शिखिवाहनः ।।50।।
<21.7.51>तं प्रस्थितं ततो दृष्ट्वा देवास्त्विन्द्रपुरोगमाः।
अनुजग्मुर्महात्मानं देवसेनापतिं विभुम् ।।51।।
<21.7.52>तैर्देवैरन्वितो गच्छन् शिखिना वेगगामिना।
गिरिं स पादलक्षप्रस्रवणैरन्वितं ययौ ।।52।।
<21.7.53>अध्वश्रमहरे तस्मिन् निषण्णः समरुद्गणः।
अदृष्ट्वा तत्र पितरौ विषण्णोऽभूत् सुराग्रणीः ।।53।।
%बृहस्पत्युक्तः स्कन्दोत्पत्तिक्रमः%
<21.7.54>तं विषण्णं ततो दृष्ट्वा गुरुः प्राहेन्द्रचोदितः।
"मा विषीद महाबाहो! देवसेनापतेऽग्रणीः ।।54।।
<21.7.55>किं न स्मरसि चात्मानं वैष्णवं धाम शाश्वतम्"।
नारदः----
इत्युक्तो गुरुणा स्कन्दः प्रीतः प्राह बृहस्पतिम् ।।55।।
<21.7.56>"कोऽहं ब्रूहि गुरो! नाऽहं जानाम्यात्मानमात्मना"।
एवमुक्तो गुरुश्चैनं वक्ष्यामीत्याह कारणम् ।।56।।
<21.7.57>"उपप्लुतैः तारकेण देवैः सेनापतीप्सुभिः।
याचितः प्राह भगवान् ब्रह्म कारणवित् सुरान् ।।57।।
ब्रह्माः-----
<21.7.58>"सुरेन्द्र! दक्षेण विमानिताऽथ सती यदा योगविसृष्टदेहा।
तदा प्रतिज्ञां ह्यकरोत् त्रिनेत्रः सतीं विनाऽन्यां न भजामि चेति ।।58।।
<21.7.59>तपश्चचारातिमहत् सुघोरं दिगम्बरः स्थाणुवदूर्ध्वबाहुः।
त्रिलोचनस्तम्भितवायुचारो विचिन्तयन्नात्मनि चात्मभावम् ।।59।।
<21.7.60>काले हि तस्मिन् असुरास्तपोऽचरन्मां प्रीणयन्नुग्रतपाः स तारकः।
प्रीतस्ततोऽहं वरदस्तमब्रुवं वरं वृणीष्वेति मनोरथेप्सितम् ।।60।।
<21.7.61>अयाचतान्येन तदा ह्यवध्यतां विना च शम्भोस्तनयेन सोऽसुरः।
तथाऽस्त्विति प्रत्तवरो मया ततो नाशेऽसुरस्यास्य परो न विद्यते ।।61।।
<21.7.62>सती च सा पर्वतराजकन्यका प्रवर्धते मेनकयोपलालिता।
तयैव संयोज्य च शङ्करं विभुं सुरेश्वरं प्रार्थय तारकान्तकम् ।।62।।
<21.7.63>विष्णोः कलांशो भविता भगवान् नः सुखावहः।"
बृहस्पतिः-----
एवमुक्तो विरिञ्चेन काममाहूय देवराट्।।63।।
<21.7.64>रतिदेवीसमायुक्तं वसन्तसहितं तदा।
अचोदयत्कर्मसिद्ध्यै देवानामेव शङ्करम् ।।64।।
<21.7.65>वशीकर्तुञ्च पार्वत्या संयोक्तुं कृतनिश्चयः।
जगाम कामः स्थाणुं तं गिरिजायाश्च सन्निधौ ।।65।।
<21.7.66>जग्राहास्त्रं त्वभूद्दग्धः त्रिनेत्रेण तपोऽव्ययात्।
कामं दग्ध्वा शिवस्तञ्च जहावाश्रममुत्तमम् ।।66।।
<21.7.67>तपस्विनामयुक्तं हि सन्निधानं तु योषितः।
जगाम कैलासगिरेरुत्तरे चाश्रमोत्तमम् ।।67।।
<21.7.68>ततश्चोमातपः शक्त्या वशीकृतपराक्रमः।
उपयेमे तदा शम्भुरुमां काममजीवयत् ।।68।।
<21.7.69>कैलासश्रृङ्गे हिमवत्प्रदेशे कलाधरः कामवशं प्रपन्नः।
रेमे हि सम्प्राप्य मनोरथांस्तान् उमासमेतः शरदां शतं सः ।।69।।
<21.7.70>ततस्तमिन्द्रप्रमुखाश्च देवा ययाचिरे "देहि सुतं भवेश!।
पापेन तारेण हि पीडिताः स्मः पापञ्च तं हन्तुमलं महान्तम्" ।।70।।
<21.7.71>इति याचितो गिरिजापतिरेतानमरान्विजनो भवितेति बभाण।
कुपितं गिरिशं मरुतो विदिताः सहसा विविशुः ककुभो हि दशैते ।।71।।
<21.7.72>विससर्ज तेजः क्षुभितं गिरिजापतिः।
तञ्च तेजोमयं भूतमाववार हि मेदिनीम् ।।72।।
<21.7.73>तेन तेजोमयेनेयं विकीर्णा सर्वमेदिनी।
धर्तुं तदक्षमा देवी तेजः प्राह मरुद्गणान् ।।73।।
<21.7.74>"अहो दग्धाऽस्मि मरुतः!पान्तु मां भवतेजसः "।
ततो दृष्ट्वा तु देवास्ते मेदिनीं परितापिताम् ।।74।।
<21.7.75>इत्यूचुरग्निदेवं स्वे तेजस्तेजसि धारय।
इत्यादिष्टो जातवेदास्तेज आवार्य शाम्भवम् ।।75।।
<21.7.76>ररक्ष मेदिनीं दीनामापदो हव्यवाहनः।
तेजस्ततो धारयन्तं शाम्भवं जातवेदसम् ।।76।।
<21.7.77>प्रीताऽऽह पार्वती देवी "त्वमग्ने पुत्रवान् भवे।
धृतं तेजस्त्वया यस्मात् तस्मात्त्वं सर्वजन्तुषु ।।77।।
<21.7.78>गर्भे गर्भधरो भूत्वा विहर त्वं ममाऽज्ञया।
प्रीताऽस्मि ते त्वया ह्यग्ने! स्कन्नं गर्भं धृतं यतः ।।78।।
<21.7.79>भक्त्या ये त्वां पूजयन्ति तेषां पुत्रा भवन्तु वै"।
इति तस्मै वरं दत्त्वा शशाप मरुतः शिवा ।।79।।
<21.7.80>"इतः प्रभृति युष्माकमप्रजाः सन्तु पत्नयः"।
उमा शशाप पृथ्वीञ्च "पुत्रप्रीतिं न लप्स्यसे ।।80।।
<21.7.81>मत्पुत्रो न धृतो यस्मात् बहुभार्या भविष्यसि"।
ततः प्रसन्ना सा देवी शङ्करेण समागता ।।81।।
<21.7.82>तपस्तप्तुं जगामाऽऽशु भृगुप्रस्रवणं तदा।
ततो विमनसो देवाः पुनरूचुः चतुर्मुखम् ।।82।।
<21.7.83>"भवदाज्ञा कृताऽस्माभिः व्यर्था सा चाभवत्प्रभो!।
शशाप सा तदास्मान्वै किं कुर्मो ब्रूहि का गतिः" ।।83।।
<21.7.84>धाता विज्ञापितो देवैः आह तान् सा यथाऽब्रवीत्।
"तद्वचः सत्यमेवास्तु तस्या वाङ् नानृता भवेत् ।।84।।
<21.7.85>किञ्च वक्ष्याम्युपायं वो जातवेदाः प्रदास्यति।
यूयं गङ्गां प्रार्थयध्वं सा गर्भं धारयिष्यति" ।।85।।
<21.7.86>इति तस्य वचः श्रुत्वा देवा जग्मुर्यथागतम्।
गङ्गां सम्प्रार्थयामासुः देवाः सर्वे समागताः ।।86।।
<21.7.87>ततः सा प्रार्थिता देवैः विसृष्ठं वह्निना विभो!।
त्वां दध्रे पार्वती गङ्गा तेजोराशिं महाद्युतिम् ।।87।।
<21.7.88>सा च त्वां व्यसृजद्गङ्गा सन्तप्ता तेजसा तव।
उमाऽऽश्रमप्रदेशे तत् जातरूपमभूद्वनम् ।।88।।
<21.7.89>कुमारं त्वां तदा दृष्ट्वा जातं हृष्टा दिवौकसः।
षट् कृत्याः प्रेषिता देवैः अदधुस्त्वां षडाननम् ।।89।।
%बृहस्पतिकृतस्कंदस्तुतिः%
<21.7.90>एवंप्रभावो बाल्ये त्वं कुमार! सुरतापहन्!।
त्वां प्रपद्ये सुवर्णभ! शङ्करात्मज! शङ्कर! ।।90।।
<21.7.91>त्वं विष्णुस्त्वं विधाता च त्वं रुद्रः कालरूपधृक्।
शिखिवाहन! षड्वक्त्र! कुमारस्तारकान्तकः।।91।।
<21.7.92>सुब्रह्मण्यः शिखी स्कन्दः कुमारः षोडशाब्दकः।
शरजन्मा शक्तिहस्तो गाङ्गेयोऽग्निसमुद्भवः ।।92।।
<21.7.93>एकवक्त्रो द्विबाहुश्च कुमारः पुरुषोत्तमः।
मातृप्रीत्या च षड्वक्त्रः पार्वतीप्रीतिवर्धनः ।।93।।
<21.7.94>उज्ज्वलषड्द्वितयाक्षिविराजत्षण्मुख शङ्करनन्दन वीर!।
सर्वदिगीश्वरसैनिकनाथ! शं दिश शक्तिधरेशकुमार! ।।94।।
<21.7.95>द्वादशहस्तविराजित हे ते दुःखपरामरवैरिहरेश!।
द्वादशकोटिरविद्युतितेजः शं दिश शक्तिधरेशकुमार! ।।95।।
<21.7.96>ये तव बालरविद्युतिराजत्फुल्लसरोरुहकान्तिपदाब्जम्।
नो शिरसा प्रणमन्ति कुमार! ते तनयं तु न हीह लभन्ते ।।96।।
<21.7.97>स्फुरन्तं चलन्तं तडित्कोटिकान्तिं मयूराधिरूढं मनोहारिवेषम्।
पुलिन्दापतिं त्वां प्रपद्ये कुमारं कुमारञ्च मे देहि मृत्युञ्जय! त्वम्" ।।97।।
नारदः-----
<21.7.98>प्रसन्नो बभूवाथ वाग्मिः स्तुतोऽसौ गुरुं प्राह भूतेशपुत्रो महात्मा।
सुब्रह्मण्यः-----
वरं ते ददामीह पुत्रानभीष्टान् स्वमृत्युं जय त्वञ्च तारुण्यमेवम् ।।98।।
<21.7.99>स्तोत्रेणानेन यो मर्त्यः त्वयोक्तेन गुरो! भुवि।
आनन्दयति मां नित्यं त्रिसन्ध्यं मानवोत्तमः ।।99।।
<21.7.100>स पुत्रधनधान्यादिसम्पदो लभते ध्रुवम्।
अपमृत्युजयं चापि सौभाग्यं राजपूज्यताम् ।।100।।
नारदः-----
<21.7.101>इति दत्त्वा वरं तस्मै देवान् सर्वान् विसृज्य च।
जगाम शिखिना तस्मात् कुमारो वृषभाचलम् ।।101।।
<21.7.102>तत्र रम्ये शुचौ देशे ददर्श सर उत्तमम्।
स्नानार्थं देवपूजार्थं पद्मोत्पलसुशोभितम् ।।102।।
%स्कन्दस्य तपः करणप्रकारः%
<21.7.103>कृतस्नानः सरस्तीरे कुमारः समुपाविशत्।
दृष्ट्वा तपन्तं वायुञ्च तत्समीपे षडाननः ।।103।।
<21.7.104>त्रिसन्ध्यं देवदेवेशं नारायणमनुस्मरन्।
आतिष्ठत्तप उग्रञ्च समाधिध्यानसंयुतः।
ध्यायन्नारायणं देवं शङ्खचक्रधरं परम् ।।104।।
<21.7.105>पादद्वयालङ्कृतभूमिभागो भासा ज्वलत्काञ्चनतुल्यतेजाः।
ध्यायन् परं ब्रह्म कुमार आस्ते परात्परं यन्महतो महत्तत् ।।105।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये सुब्रह्मण्यस्य वृषभाद्रिप्राप्तिवर्णनं नामैकविंशोऽध्यायः।
-------*-------
अथ द्वाविंशोऽध्यायः
------------
%शङ्करकथित श्रीनिवासाविर्भावहेतूपोद्धातः%
ऋषयः-----
<22.7.1>ततः किमकरोदम्बा कुमारे वृषशैलगे।
सा पुत्रवत्सला नूनं भवानी शिवसंयुता ।।1।।
नारदः----
<22.7.2>तपसोऽर्थे प्रयाते तु स्कन्दे काञ्चनतेजसि।
देवसेनासमायुक्ते धनुः शक्तिधरे द्विजाः! ।।2।।
<22.7.3>भर्तारं भक्तिनम्राऽथ पुत्रवात्सल्यचोदिता।
पप्रच्छ पार्वती शम्भुं हरं चन्द्रार्धशेखरम् ।।3।।
<22.7.4>"किं करिष्यति?पुत्रो मे तत्र बालस्त्रिलोचन!।
कथं द्रक्ष्यति तं देवमचिन्त्यो ब्रह्मणाऽपि यः" ।।4।।
<22.7.5>इति पृष्टः स तां प्राह सोत्प्रासं परमेश्वरः।
"श्रृणु देवि! परं गुह्यं भविष्यत्ते मयोच्यते ।।5।।
<22.7.6>सर्वे च मुनयस्तस्मिन् आगमिष्यन्ति पर्वते।
द्रष्टुकामाः परं ब्रह्म तपस्तप्तुमनुत्तमम् ।।6।।
<22.7.7>देवा मनुष्याः पितरो गन्धर्वा यक्षराक्षसाः।
सिद्धाः साध्याश्च गरुडाः पन्नगा ऋषयस्तथा ।।7।।
<22.7.8>चरिष्यन्ति तपस्तस्मिन् गिरौ गिरिवरात्मजे!।
प्रत्यक्षं परमात्मानं द्रष्टुकामाः सनातनम् ।।8।।
<22.7.9>अर्चयिष्यन्ति मां केचित् केचिद् ब्रह्माणमेव च।
केचित् स्कन्दं महात्मानं शक्रं केचित्तथाऽपरे ।।9।।
<22.7.10>योद्धुकामास्तथा केचित् अमरैरमरारयः।
उग्रं तपः करिष्यन्ति प्रीणयन्तश्च नः परम् ।।10।।
<22.7.11>आवां तत्र गमिष्यावः कालेन महता प्रिये।
द्रष्टुं तत्परमं ब्रह्म तत्त्वं नारायणं परम् ।।11।।
<22.7.12>श्रीवेङ्कटाचले पुण्ये यत्तु प्रादुर्भविष्यति।
तत्प्रादुर्भावहेतोर्वै कर्तुञ्चापि महत्तपः ।।12।।
%सुदर्शनस्य शङ्करसमीपप्राप्तिक्रमः%
<22.7.13>आवाभ्यामपि गन्तव्यं तथाऽन्यैः दैवतर्षिभिः।
यत्कालाख्यञ्च तञ्चक्रं करिष्यति तपो महत् ।।13।।
<22.7.14>मदर्थं हिमवत्पुत्रि! मद्वियोगैकदुःखितम्।
विष्णुनैवाभ्यनुज्ञातं चक्रतीर्थे वसिष्यति" ।।14।।
नारदः------
<22.7.15>श्रुत्वैतत्पार्वती देवी वाक्यं शङ्करमब्रवीत्।
"आश्चर्यमुक्तं भवता विष्णुचक्रं प्रतीश्वर! ।।15।।
<22.7.16>तत्पवित्रं करे विष्णोः वसत्येव सदा प्रभो!।
त्वन्निमित्तं किमर्थं तत् तपस्तप्स्यति शङ्कर! ।।16।।
<22.7.17>त्वयि स्नेहश्च कस्तस्य ब्रूह्येतन्मे महाद्भुतम्"।
नारदः-----
एतच्छ्रत्वाऽम्बिकां प्राह शङ्करो लोकशङ्करः ।।17।।
<22.7.18>"अनादिनिधनं दिव्यं अप्रमेयपराक्रमम्।
सहस्रारसमायुक्तं कोटिसूर्यसमप्रभम् ।।18।।
<22.7.19>सुदर्शनाख्यं तच्चक्रं विष्णोरेव तु पार्वति!।
धर्तुमन्यैर्न शक्यं तत् तं विना पुरुषोत्तमम् ।।19।।
<22.7.20>तेन चक्रेण दिव्येन दग्धा वाराणसी पुरी।
सा राजधानी मे दिव्या कृत्याहेतोः विनाशिता ।।20।।
<22.7.21>कस्मिंश्चिदथ काले तु मयि प्रीतो जनार्दनः।
किमिच्छसीति मां प्राह वरदानसमुद्यतः ।।21।।
<22.7.22>एवमुक्ते मया तस्मात् याचितं वरमुत्तमम्।
"येन चक्रेण मे दग्धा पुरी वाराणसी हरे ।।22।।
<22.7.23>तद्यथा मद्वशं यायात् मम प्रेष्यञ्च माधव!।
तथा कुरु मयि प्रीतो नान्यं वरमहं वृणे" ।।23।।
<22.7.24>एवं विज्ञापितो देवः प्रहस्य मधुसूदनः।
हस्तेन मम हस्ताग्रं गृहीत्वेदमुवाच ह ।।24।।
<22.7.25>"कथं सूर्यं परित्यज्य प्रभाऽन्यस्य भविष्यति।
एवं श्रीः कौस्तुभं चक्रं गरुडः शार्ङ्गमेव च ।।25।।
<22.7.26>एवमादीनि वस्तूनि नित्यसिद्धानि शङ्कर!।
नैतेषां जन्मविलयौ नान्यस्तेषां व्यपाश्रयः ।।26।।
<22.7.27>अशक्यमिदमत्यर्थं याचितं प्रमथाधिप!।
न चाहमनृतं वक्ष्ये तथैवास्तु यथेप्सितम् ।।27।।
<22.7.28>एतत्सुदर्शनं दिव्यं कुतश्चित्कारणान्तरात्।
ब्रह्मणा निर्मितं भूत्वा लेशेनावतरिष्यति ।।28।।
<22.7.29>अवतीर्णन्तु तच्चक्रं त्वत्प्रेष्यत्वं गमिष्यति।
दिव्यं वर्षसहस्रं तु त्वत्समीपे वसिष्यति ।।29।।
<22.7.30>त्वया प्रत्यर्पितं पश्चात् स्वं भावमुपयास्यति"।
एवं विष्णुप्रसादेन वरदानसमागतम् ।।30।।
<22.7.31>देवि चक्रं ममैत्तद्धि सहस्ररविसन्निभम्।
विष्णवे च पुरा दत्तं मया पुरविमर्दने ।।31।।
<22.7.32>मन्त्रोपदेष्ट्रे कालाख्यं दक्षिणार्थं हि पार्वति!।
चिरं मया धृतं चक्रं ब्रह्मणा निर्मितं पुरा ।।32।।
<22.7.33>रक्षणाय च देवानां नाशार्थं सुरवैरिणाम्।
मया विहीनं यच्चक्रं मदर्थञ्चैव तप्स्यति" ।।33।।
नारदः-----
<22.7.34>श्रुत्वैतत्पार्वती प्रीताः पुनः पप्रच्छ शङ्करम्।
"चक्रतीर्थमिति प्रोक्तं त्वया शङ्कर कुत्र तत् ।।34।।
<22.7.35>ब्रूहि मे विस्तरात् शम्भो! पावनं तीर्थमुत्तमम्"।
इति पृष्टस्तु पार्वत्या प्राहैनां शङ्करः पुनः ।।35।।
<22.7.36>"वृषाद्रेः दक्षिणे पार्श्वे बहुप्रस्रवणे तटे।
सन्त्याश्रमाः सप्तदश चक्रादीनां महात्मनाम् ।।36।।
<22.7.37>तावन्ति चैव तीर्थानि तेषु पुण्यतमानि वै।
तत्राद्यं चक्रतीर्थं यत् वज्रतीर्थादधः स्थित्तम् ।।37।।
<22.7.38>कालचक्रतपःस्थानं कपिलोद्गमजं सरः।
तत्र स्नानेन नश्यन्ति सर्वपापानि वै नृणाम् ।।38।।
<22.7.39>तद्धि विष्णोः परं क्षेत्रं महापुण्यतमं स्मृतम्"।
इत्युक्त्वा पार्वती प्राह भर्तारं भक्तिमत्यथ ।।39।।
<22.7.40>"वज्रतीर्थमिति प्रोक्तं केनेदं हेतुना सरः।
यदूर्ध्वं चक्रतीर्थात्तु विद्यमानमुदीरितम्" ।।40।।
%इन्द्रस्य सहस्राक्षत्वप्राप्तिकारः%
<22.7.41>इति पृष्टस्तु पार्वत्या प्राहैनां शङ्करः पुनः।
"पुरा शक्रो महातेजा गौतमस्य स्त्रियं प्रियाम् ।।41।।
<22.7.42>भामिनीं तां समाक्रम्य शप्तोऽभूञ्च महर्षिणा।
तवैकामिच्छतो योनिं तत्सहस्रं भवित्विति" ।।42।।
शङ्करः------
<22.7.43>"इत्युक्तमात्रे मुनिना सर्वाङ्गे योनयोऽभवन्।
दृष्ट्वा सहस्रं योनीनां विषण्णोऽभूच्छचीपतिः ।।43।।
<22.7.44>"कष्टं मया बत कृतं युक्तं गन्तुं क्व वे"ति च।
इति सञ्चिन्त्य सहसा जगाम ब्रह्मणः सरः ।।44।।
<22.7.45>तत्र पङ्कजनालेन निलीनोऽभूत्सुरेश्वरः।
ततो देवाः सगन्धर्वाः ससिद्धाश्चारणैः सह ।।45।।
<22.7.46>द्रष्टुकामा महेन्द्रन्तं नापश्यन्नमरालये।
अनिन्द्रं सुरसैन्यं तत् दीनं दृष्ट्वा सुरादयः ।।46।।
<22.7.47>आक्रम्य देवलोकञ्च विविशुश्चामरावतीम्।
मरुतस्ते शचीं देवीं वाक्पतिप्रमुखा ययुः ।।47।।
<22.7.48>प्रणम्य तां महाभागां सर्वे प्राञ्जलयोऽब्रुवन्।
"क्व यातस्ते पतिर्भद्रे!वयं शत्रुभिरर्दिताः ।।48।।
<22.7.49>अदृष्ट्वा रक्षितारं तं अस्माकं व्यथिता वयम्"।
इत्युक्ता सा शची देवी जगाद सुरसत्तमान् ।।49।।
<22.7.50>"तेनाहं निशि शय्यायां भर्त्रा सुप्ता सुरोत्तमाः!।
क्व यातः स तु मायावी मया न ज्ञायते प्रभुः ।।50।।
<22.7.51>गुरुः सुराणामस्माकं नूनं जानाति वाक्पतिः"।
शङ्करः-----
इत्युक्तास्तेऽमराः सर्वे पुलोमसुतया तदा ।।51।।
<22.7.52>प्रणम्य च गुरुं भक्त्या ब्रह्माणमिव शाश्वतम्।
"अस्माकं ब्रूहि भगवन्! इन्द्रः काऽऽस्ते महेश्वरः" ।।52।।
<22.7.53>याचितः सोऽथ देवैस्तैः अपश्यद्योगवर्त्मना।
विहस्य किञ्चिदमरान् प्राह वाचस्पतिस्तदा ।।53।।
<22.7.54>"कृत्वाऽकृत्यमसौ तस्य फलं प्राप्य शचीपतिः।
आस्ते लज्जासमाविष्टो मेरौ पङ्कजनालके ।।54।।
<22.7.55>गच्छामस्तत्सरो देवा द्रक्ष्यामस्तं सुरेश्वरम्"।
इत्युक्त्वा तान् सुरान् सर्वान् जगाम सह तैर्गुरुः ।।55।।
<22.7.56>तत्सरः प्राप्य तानाह "गायध्वं सुरसत्तमाः"।
इत्यादिष्टाः जगुः सर्वे गन्धर्वाप्सरसां गणाः।
देवाश्च ऋषिभिः सार्द्धं तौर्यत्रिकसमन्वितम् ।।56।।
<22.7.57>"नाथ! त्रयाणामपि विष्टपानामुपप्लुताः स्मः सुरवैरिभिः प्रभो!।
आगच्छ देवेन्द्र! जगच्च रक्ष सरोजलीनोऽसि कृतञ्च किं त्वया" ।।57।।
शङ्करः----
<22.7.58>श्रुत्वा गीतं सुरेशोऽथ ज्ञात्वा तानागतान् सुरान्।
वहन् योनिशतं देवो दृश्योऽभूद्ब्रलसूदनः ।।58।।
<22.7.59>निर्गत्यास्मात् पद्मनालात् स्वपदार्पितलोचनः।
अवाङ्मुखो गुरोः पादौ जग्राह बलसूदनः ।।59।।
<22.7.60>उवाच दीनया वाचा देवेन्द्रोऽङ्गिरसः सुतम्।
"आदित्यानां हितार्थाय तपोविघ्नं हि कुर्वता ।।60।।
<22.7.61>मया फलमिदं प्राप्तं गौतमस्य महात्मनः"।
एतच्छ्रुत्वाऽथ धिषणो विहस्य गिरिजेऽवदत् ।।61।।
<22.7.62>"कृतमेतत्त्वया वज्रिन्! कामिना ज्ञातमेव मे।
देवार्थं कर्म कृत्वैतत् फलं प्राप्तं भृगो रुषा ।।62।।
<22.7.63>देवा यूयं प्रार्थयध्वमेता मेढ्रा भव"न्त्विति।
गुरोरेतद्वचः श्रुत्वा देवाः सर्वे वरानने ।।63।।
<22.7.64>"तावन्मेढ्रा भवन्त्वेता योनयश्चेन्द्रमाश्रिताः"।
इत्थमुक्तेषु देवेषु योनयो मेढ्रतां ययुः ।।64।।
<22.7.65>अथ दृष्ट्वा सहस्रन्तु मेढ्राणामप्सरोगणाः।
"ऊचुरस्मानलं भोक्तुं बह्वीरेकक्षणादयम्" ।।65।।
<22.7.66>इति तासां वचः श्रुत्वा प्रीतोऽभूद्बलसूदनः।
ततो विमानमारुह्य दंशनं चोद्वहन् महत् ।।66।।
<22.7.67>गीतवादित्रनिर्घोषैः पूरयन्नम्बरं दिशः।
विवेश च पुरीमिन्द्रो निहत्यसुरवैरिणः ।।67।।
<22.7.68>सुखमात्यन्तिकं भेजे बहुभिः सोऽप्सरोगणैः।
विजहारैकवारेण विषयासक्तचेतनः ।।68।।
<22.7.69>एवं स विहरन् नक्तं दिवा च गिरिकन्यके!।
न तृप्तिमाययौ कामी कामभोगैः सुदुस्त्यजैः ।।69।।
<22.7.70>"न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते" ।।70।।
<22.7.71>देवेन्द्रो विहरन्नेवं अशक्तः सोढुमद्रिजे!।
मेहनानां सहस्रं तु तेषां मोक्षमचिन्तयत् ।।71।।
<22.7.72>केनैतत्कर्मणा भोक्तुं शक्यं शिश्नसहस्रकम्।
"नाशयिष्याम्यहं त्वेतत्तपसे"ति सुनिश्चितः ।।72।।
<22.7.73>धिषणेनाभ्यनुज्ञातो विष्वक्सेनसरो ययौ।
विसृज्य देवानिन्द्राण्या ह्यातिष्ठत्तपसे सह ।।73।।
<22.7.74>विष्वक्सेनसरोधस्तात् वज्रेणाहत्य भूधरम्।
स्नानार्थं देवपूजार्थं पातालात् जलमाददे ।।74।।
<22.7.75>क्षीराहारो जितक्रोधो जितकामो जितेन्द्रियः।
पादाङ्गुष्ठेन सम्पीड्य ह्यतिष्ठन्मेदिनीं शुभे! ।।75।।
<22.7.76>जपंश्च नियतं देवीं गायत्रीं वेदमातरम्।
पूर्णं वर्षसहस्रन्तु ततः प्रीतोऽभवद्धरिः ।।76।।
<22.7.77>वराहरूपो भगवान् धरण्या सह भूधरे।
प्राह चेन्द्रं "सुरेशाहं वरदस्ते समागतः ।।77।।
<22.7.78>वृणीप्व यदभीष्टं ते ददामि सुरसत्तम!"।
एवमुक्तोऽथ देवेन्द्रः प्रणम्य धरणीधरम् ।।78।।
<22.7.79>प्रीतस्त्वमसि देवेश वरं देहि दयानिधे।
सहस्रमेतच्छिश्नानां विनैकं नश्यतां मम ।।79।।
<22.7.80>एवमेव वरं देहि ममैतावद्धि काङ्क्षितम्।
ततो वराहो देवाय वरं दत्त्वा यथेप्सितम् ।।80।।
<22.7.81>तत्रैवान्तर्दधे देवो वृषभाद्रौ वरानने!।
ततः शिश्नाः सहस्रं ते न्यपतन् वज्रिदेहतः ।।81।।
<22.7.82>सद्यस्तेजोमया भूत्वा ब्राह्मणा वेदपारगाः।
सहस्रमब्रुवन्निन्द्रं प्रीत्या परमया युताः ।।82।।
<22.7.83>"श्रृणु देव! वयं विप्राः पौलोमीसङ्गमेच्छया।
तपः कृत्वा ततो भूमौ तवाङ्गे देवसत्तम! ।।83।।
<22.7.84>मेढ्राः सहस्रमेवैते गौतमस्य तपोबलात्।
स्वर्गस्त्रियोऽनुभुक्ताश्च तथेन्द्राणी यथासुखम् ।।84।।
<22.7.85>वरं ददाम ते प्रीता वृणीष्व बलसूदन"।
इति तेषां वचः श्रुत्वा प्रीत्या वज्र्यब्रवीद्धि तान् ।।85।।
<22.7.86>"यदि प्रीताः स्थ मे विप्रा व्रणानां तु सहस्रकम्।
भवन्तु चक्षूंषि सदा भवतां तु प्रसादतः" ।।86।।
<22.7.87>तथाऽस्त्विति ब्रुवन्तस्ते द्विजा जग्मुस्तपोधनाः।
सहस्रदृक्च देवोऽथ जातोऽभूदद्भुताकृतिः ।।87।।
<22.7.88>सह शच्या विशालाक्ष्या प्रविवेशमरावतीम्।
दिव्यमङ्गलवाद्यैश्च हर्षयन् सर्वदेहिनः ।।88।।
<22.7.89>लब्ध्वा वरं देववरो वृषाद्रौ तुङ्गं समारुह्य तुरङ्गयुक्तम्।
वज्री रथं काञ्चनमप्सरोभिः सुगीयमानश्च ययौ स्वगेहम्" ।।89।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये स्कन्दकृततपः-
प्रकारादिवर्णनं नाम द्वाविंशोऽध्यायः।
-----------------
अथ त्रयोविंशोऽध्यायः
-----------
%सुवर्चलायां श्रीविष्वक्सेनोत्पत्तिक्रमः%
नारदः-----
<23.7.1>श्रुत्वा चित्रां कथां देवी पुनः प्रीताऽऽह शङ्करम्।
"विष्वक्सेनश्च को वाऽसौ किमर्थञ्च तपोऽचरत् ।।1।।
<23.7.2>किं लेभे कुत्र चाऽस्तेऽसौ ब्रूहि मे तत्त्वदर्शन!"।
श्रुत्वाऽथ पार्वतीवाक्यं प्रीतः प्राह महेश्वरः ।।2।।
<23.7.3>"पुरा कृतयुगे देवी कुन्तला नाम चाप्सराः।
दुर्वासस्याऽऽश्रमं प्राप्य रम्यमिन्द्रेण चोदिता ।।3।।
<23.7.4>सा लास्यमकरोद्बाला महर्षेः भाविताऽत्मनः।
अग्रतो रुचिरां दृष्ट्वा सोऽशपत् कोपनो मुनिः ।।4।।
<23.7.5>"किराती भव दुर्बुद्धे कुन्तले नीलकुन्तले!"।
सा शप्ता कुन्तला भीता प्राञ्जलिः प्रणताऽवदत् ।।5।।
<23.7.6>"स्वाधीना नास्मि भगवन्! क्षमस्व मम दुर्नयम्"।
प्राञ्चलिं प्रणतां दृष्ट्वा दुर्वासा वाक्यमब्रवीत् ।।6।।
<23.7.7>"नानृता वाक् च मे बाले! शापमोक्षं वदामि ते।
भीरु! पुत्रमुखं दृष्ट्वा पुनः स्वर्गं गमिष्यसि" ।।7।।
<23.7.8>इत्युक्त्वा सा पुनः प्राह "पुत्रं विष्णुपराक्रमम्"।
दीर्घायुषं तपोनिष्ठं सोताऽस्मि तव वैभवात्" ।।8।।
<23.7.9>इति नम्रां पुनस्तां तु "तथाऽस्त्वि"त्यब्रवीन्मुनिः।
वीरबाहोः किरातस्य पत्न्यां जज्ञे सुवर्चला ।।9।।
<23.7.10>पुत्री ह्यपुत्रिणस्तस्य ववृधे प्रीतिवर्धनी।
वरा सा रूपलावण्यगुणैः नारीगणेष्वभूत् ।।10।।
<23.7.11>धर्मपुत्राय भद्राय तां पिता प्रददौ तदा।
पीनोन्नतस्तनी श्यामा सा बाला तनुमध्यमा ।।11।।
<23.7.12>कदाचित् फाल्गुने मासि शुक्लपक्षे शुभे दिने।
ऋतुस्नाता नर्मदायां स्थिता ऋक्षवतस्तटे ।।12।।
<23.7.13>अपश्यत्तां तु वरुणः सङ्गम्य ह्यवदच्च ताम्।
"प्रीतोऽहं सुभगे! सुभ्रु वृणीष्व वरमीप्सितम्" ।।13।।
सुबर्चलाः------
<23.7.14>"प्रीतो यदि भवान् दद्याद्देव! मे पुत्रमुत्तमम्"।
वरुणस्त्वाह "कल्याणि! सुपुत्रा त्वं भविष्यसि" ।।14।।
शङ्करः-----
<23.7.15>इति दत्त्वा वरं तस्यै ययौ जलपतिस्ततः।
तछ्रुत्वा वचनं तस्य प्रीता साऽभूत् सुवर्चला ।।15।।
<23.7.16>साऽसूत पुत्रं तपनीयगात्रं पूर्णेन्दुवक्त्रं जलजाभनेत्रम्।
शङ्खासिबाणासनकुम्भरेखासमुज्ज्वलद्रक्तकराङ्क्षियुग्मम् ।।16।।
<23.7.17>देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता।
ववौ वायुः सुखस्पर्शः तज्जन्मदिवसे तदा ।।17।।
<23.7.18>पुष्यर्क्षे कर्कटे जातः सुवर्चलसुतो बली।
ववृधे वीर्यवांस्तत्र शुक्लपक्ष इवोडुराट् ।।18।।
<23.7.19>पुत्रस्य दशमे वर्षे कालधर्मं ययौ च सा।
ततस्त्यक्तश्च पित्राऽसौ काश्यपस्याश्रमं ययौ ।।19।।
<23.7.20>आयान्तं तं मुनिर्दृष्ट्वा ज्ञात्वा तं वरुणात्मजम्।
राजपुत्रं महात्मानं रूपलावण्यसंयुतम् ।।20।।
<23.7.21>प्रीतो जग्राह तं शिष्यं मन्त्रं प्रादान्महामुनिः।
लब्ध्वा मन्त्रं मुनिवराद्वेदान् साङ्गानधीत्य च ।।21।।
<23.7.22>अनुज्ञातो ययौ तेन तपसे वृषभाचलम्।
तपस्तप्त्वा चिरं कालं तैस्तैश्च नियमैः सह ।।22।।
<23.7.23>सम्पूर्णे द्वादशे वर्षे मासि चाश्वयुजे शुभे।
पूर्वाषाढे च पुण्यर्क्षे वरं लब्ध्वा जनार्दनात् ।।23।।
<23.7.24>सारूप्यं श्रीपतेस्तस्य सैनापत्यमवाप्य च।
शङ्खचक्रगदापाणिः विष्ण्वाज्ञापरिपालकः ।।24।।
<23.7.25>पञ्चायुधाश्रमाधः स्थात् ययौ स्वाश्रमतस्तटम्।
नारायणाद्रेर्गिरिजे! गन्धर्वैः परिवारितः ।।25।।
<23.7.26>चतुर्दशानां जगतामधीश्वरैः महाबलैः भूतगणैः महास्वनैः।
ज्वलच्छिखैः उज्ज्वलहेतिभिर्वृतो नैर्ऋत्यकोणे त्ववसद्गिरेस्तटम् ।।26।।
<23.7.27>विष्वक्सेनस्य यदिदं जन्म प्रोक्तं मया तव।
आश्रमाणां प्रसङ्गेन न तत्कर्मनिबन्धनम् ।।27।।
<23.7.28>अवतीर्णस्तु देवोऽसौ देवैरभ्यर्थितः पुरा।
विष्णोराज्ञां पुरस्कृत्य विष्णुतुल्यपराक्रमः ।।28।।
%चक्रादिसप्तदशतीर्थमाहात्म्यम्%
<23.7.29>विष्वक्सेनाश्रमादूर्ध्वं सरस्यः पञ्च चोज्ज्वलाः।
पञ्चायुधैः भगवतो देवि"नित्यमुपाश्रिताः ।।29।।
<23.7.30>तत्तदाकारयुक्तास्ताः दृश्यन्तेऽद्यापि पर्वते।
तासामूर्ध्वं जातवेदाः तपस्तेपे सरोवरे ।।30।।
<23.7.31>तत्सरस्तु दुरारोहमगाधं पापनाशनम्।
आग्नेयमिति विख्यातं तीर्थानामुत्तमोत्तमम् ।।31।।
<23.7.32>ब्राह्मं सरस्ततश्चोर्ध्वं पावनं परिकीर्तितम्।
सप्तर्षीणां ततश्चोर्ध्वं आश्रमाश्च सरांसि च ।।32।।
<23.7.33>एषां सप्तदशानाञ्च ह्येकैकं पापनाशनम्।
दर्शनात् कीर्तनाञ्चापि स्नानात् पानाच्च पार्वति!" ।।33।।
नारदः-----
<23.7.34>श्रुत्वैतत्पार्वती प्राह भर्तारं भक्तवत्सलम्।
"आदितः सरसामेषां माहात्म्यं वद शङ्कर! ।।34।।
<23.7.35>सर्वलोकहितार्थाय पावनं पुण्यवर्धनम्"।
शंकरः प्राह "पद्माक्षि! श्रृणु दुर्वाससे पुरा ।।35।।
<23.7.36>ब्रह्मणा पृच्छते प्रोक्तं कापिलं लिङ्गमुत्तमम्।
ऋषिणा कपिलाख्येन पाताले पूजितं सदा ।।36।।
<23.7.37>क्षीराभिषिक्तं सुरभेः उद्भिद्य भुवमुद्गतम्।
कुपिता सुरभिस्तस्य मूर्ध्न्याधायान्वशात् खुरम् ।।37।।
<23.7.38>मा वर्धस्वेति लिङ्गन्तु नावर्धत खुराङ्कितम्।
आदौ रजतवर्णञ्च मध्ये स्वर्णप्रभं महत् ।।38।।
<23.7.39>अग्रेऽरुणाभं सम्भूतं पञ्चवक्त्रं त्रियम्बकम्।
पञ्चवर्णं महाभीमं पातालाधिष्ठितं सदा ।।39।।
<23.7.40>महर्षिणा कृते पूर्वं कपिलेन प्रपूजितम्।
"कपिलेश्वर"इत्येतत्कृते ख्यातं युगे पुरा ।।40।।
<23.7.41>त्रेतायामग्निना पश्चात् "आग्नेय"मिति कीर्तितम्।
अनाद्यन्तं महालिङ्गं द्वापरे चक्रपूजितम् ।।41।।
<23.7.42>कलौ युगे भविष्यं तत् कपिलापूजितं शिवम्।
अग्रे कापिललिङ्गस्य सरोवरमनुत्तमम् ।।42।।
<23.7.43>पातालादुद्गतस्यास्य कपिलस्य महात्मनः।
मार्गो हि तद्बलं गुह्यं कापिलं परिक्रीर्तितम् ।।43।।
<23.7.44>जलाभिपूरितं तत्तु सरोवरमनुत्तमम्।
दर्शनादेव तत्तीर्थं सर्वाघौघविनाशनम् ।।44।।
<23.7.45>दर्शनात् स्वर्गदं पुंसां स्त्रीणामपि च पार्वति!।
स्नाने पाने कृते तस्मिन् जरामरणनाशनम् ।।45।।
<23.7.46>सकृत्स्नातस्य तु फलं जनस्य श्रृणु पार्वति!।
वाजपेयाश्वमेधानां पुष्कलं फलमश्नुते ।।46।।
<23.7.47>वाजपेयात्पुनर्जन्म सकृत्स्नातस्य न च्युतिः।
तदूर्ध्वसरसि स्नातो वज्रतीर्थमिति स्मृते ।।47।।
<23.7.48>दशाधिकफलं लब्ध्वा शक्रलोकं स गच्छति।
वज्रतीर्थोर्ध्वतः कुण्डे विष्वक्सेनसरोवरे ।।48।।
<23.7.49>स्नातस्तु यस्तस्य फलं शताधिकमितीरितम्।
एवं सप्तदशानां तु तीर्थानामधिकं फलम् ।।49।।
%कापिलाख्यचक्रतीर्थस्नानकालनिर्णयादिः%
<23.7.50>त्रैलोक्ये सर्वतीर्थानि कार्तिके मासि पर्वणि।
मध्याह्ने कापिले तीर्थे सान्निध्यं यान्ति पार्वति! ।।50।।
<23.7.51>तिष्ठन्ति प्राणिरक्षार्थं मध्याह्ने दश नाडिकाः।
तत्र स्नातास्तु ये पापाः पुरुषा योषितोऽमले! ।।51।।
<23.7.52>सर्वपापविनिर्मुक्ता ब्रह्मलोकं प्रयान्ति वै।
तत्र दानानि कुर्वन्ति ये नरास्तीर्थसन्निधौ ।।52।।
<23.7.53>तिलमात्रहिरण्यन्तु दत्तं मेरुसमं भवेत्।
भिक्षामात्रँ तथान्नस्य दानं कापिलसन्निधौ ।।53।।
<23.7.54>कुर्वान्ति ये नरा देवि सोमलोकं व्रजन्ति ते।
कन्यागोभूप्रदातारो विद्यामन्त्रोपदेशकाः ।।54।।
<23.7.55>स्वर्गकैलासवैकुण्ठब्रह्मलोकान् वजन्ति ते।
"वर्षे वर्षे तु कार्तिक्यां पौर्णमास्यां महातिथौ ।।55।।
<23.7.56>आयान्ति सर्वतीर्थानि मध्याह्ने कापिलं सरः"।
इमं मन्त्रं समुच्चार्य स्नातस्तत्फलमाप्नुयात् ।।56।।
<23.7.57>स्नानं तु दुर्लभं तत्र तद्विष्णोः परमं पदम्।
इति ते कथितं सर्वतीर्थमाहात्म्यमुत्तमम्।
अतः परं प्रवक्ष्यामि पवनस्य तपो महत्" ।।57।।
इति श्रीवामनपुराणे श्रीवेङ्कटाचलमाहात्म्ये चक्रादिसप्तदशतीर्थमाहात्म्यवर्णनं
नाम त्रयोविंशोऽध्यायः
---------------
अथ चतुर्विंशोऽध्यायः
---------------
%भगवन्तमुद्दिश्य वाय्वादिकृततपः प्रकारः%
शङ्करः-----
<24.7.1>"वायोस्तपः प्रभावन्तु श्रृणु देवि!ततः प्रिये!।
ग्रीष्मे पञ्चतपा वायुः वर्षासु भुवि तिष्ठति ।।1।।
<24.7.2>हेमन्ते शिशिरे चापि शेते स्वामिसरोजले।
एवं वर्षसहस्रान्ते देवदेवो जनार्दनः ।।2।।
<24.7.3>प्रादुर्भविष्यति हरिः वायोः प्रियचिकीर्षया।
ततः पश्चात्तु शङ्खस्य राज्ञः प्रियचिकीर्षया ।।3।।
<24.7.4>विश्वविख्यातसुमहाप्रादुर्भावं करिष्यति।
सर्वलोकहितायैव शङ्खव्याजेन वै हरिः ।।4।।
<24.7.5>श्रीवेङ्कटाचले पुण्ये प्रादुर्भावं गमिष्यति।
तस्य हेतोस्ततः पूर्वं कर्तुञ्च सुमहत्तपः ।।5।।
<24.7.6>आवां तत्र गमिष्यावः चिरकालादनन्तरम्।
गमिष्यन्ति सुराः सर्वे सह सर्वैः महर्षिभिः ।।6।।
<24.7.7>तदा कुमारं द्रक्ष्यावो विष्णुभक्तिपरायणम्"।
इत्युक्ता शङ्करेणाथ विरराम तदा सती ।।7।।
<24.7.8>ततः कालेन महता शङ्करो गमनोन्मुखः।
बभाषे पार्वतीं देवीं पुत्रदर्शनलालसाम् ।।8।।
शङ्करः-----
<24.7.9>"अयं स कालः सम्प्राप्तो यः पुरा ते मयोदितः।
श्रीवेङ्कटाह्वयं गन्तुं महापुण्यं नगोत्तमम्" ।।9।।
<24.7.10>इति संस्मारिता देवी तदा पप्रच्छ शङ्करम्।
पार्वती-----
"किं न वायोस्तपः पूर्णं? प्रादुर्भूतः किमीश्वरः? ।।10।।
<24.7.11>कथं प्रत्यक्षतां यातो वायोः नारायणो हरिः?।
किं न तस्मै वरं प्रादात्? तत्सर्वं शंस मे विभो!" ।।11।।
<24.7.12>इति पृष्टो महादेवः पार्वतीमब्रवीत्तदा।
शङ्करः----
"चचार खलु वै वायुः दारुणं सुमहत्तपः।।12।।
%प्रादुर्भूतं भगवन्तमुद्दिश्य वायुकृतविश्वरूपस्तुतिः%
<24.7.13>ततो वर्षसहस्रान्ते देवदेवो जनार्दनः।
प्रादुर्बभूव भगवान् परमात्मा सनातनः ।।13।।
<24.7.14>श्रीभूमिसहितो देवो गरुडोपरि संस्थितः।
सशेषः शङ्खचक्राभ्यां अन्वितः शार्ङ्गबाणधृक् ।।14।।
<24.7.15>तं दृष्ट्वा विस्मितो भूत्वा वायुः सर्वात्मगोचरः।
आसनादुदतिष्ठत्स मत्तोन्मत्त इव भ्रमन् ।।15।।
<24.7.16>सम्पतन्नुत्पतन् हर्षात् उद्भ्रमन् विभ्रमन्नपि।
"अद्भुतं किमिदं दृष्टं वृषभाद्रौ मयाऽद्य वै" ।।16।।
<24.7.17>इत्युन्मादात् विसंज्ञोऽभूत् मुहूर्तं परमेश्वरि!।
उदतिष्ठत्ससंज्ञोऽथ ददर्श हरिमञ्जसा ।।17।।
<24.7.18>यो वेदैश्च तपोभिश्च योगिभिः मुनिभिस्तथा।
द्रष्टुं शक्यो न देवस्तु तमपश्यत्सनातनम् ।।18।।
<24.7.19>प्रणनाम पुनश्चापि साष्टाङ्गं पुरुषोत्तमम्।
वायुस्तुष्टाव गिरेजे! भगवन्तं जनार्दनम्।
तत्त्वार्थयुक्तया वाचा वेदवेद्यं सनातनम्" ।।19।।
<24.7.20>"नमस्ते देवदेवेश! पुराणपुरुषोत्तम!।
श्रीधराऽनन्त! गोविन्द! जिष्णवे विष्णवे नमः ।।20।।
<24.7.21>एकस्त्वं पुरुषः साक्षात् आदौ मायासमन्वितः।
जगदेकार्णवीकृत्य शेषे सागरसम्प्लवे ।।21।।
<24.7.22>त्वन्नाभिपङ्कजोद्भूतो ब्रह्मा ब्रह्मविदां वरः।
येनेदं जगदुत्सृष्टं चराचरसमन्वितम् ।।22।।
<24.7.23>रजोगुणं समाश्रित्य जगत्सृष्टं त्वया विभो!।
सत्त्वं गुणं समाश्रित्य रक्ष्यते ह्यखिलं जगत् ।।23।।
<24.7.24>तमोगुणं समाश्रित्य ह्रियते च पुनस्त्वया।
जातास्त्वयि ब्रह्मरूपे ते प्रजापतयो नव ।।24।।
<24.7.25>येभ्यः सम्भूतमेतत्तु देवमानुषराक्षसम्।
मधुकैटभहन्ता त्वं सम्प्राप्ते ब्रह्मसङ्कटे ।।25।।
<24.7.26>ततोऽसुरं सोमकाख्यं हत्वा वेदञ्च तत्करात्।
गृहीत्वा ब्रह्मणे प्रादात् मीनरूपी महेश्वरः ।।26।।
<24.7.27>निराधारे जगत्यस्मिन् निरालम्बे चराचरे।
आधारः कूर्मरूपी त्वं पुरुषोत्तम! तिष्ठसि ।।27।।
<24.7.28>गतामुद्धृत्य पातालं भुवं सगिरिकाननाम्।
वोढाऽसि पोत्रिरूपेण त्वं महात्मा सनातनः ।।28।।
<24.7.29>पुनः कृतयुगादौ तु हिरण्याख्येऽसुरे सति।
सैंहीं प्रह्लादरक्षार्थं नरार्धतनुमुद्वहन् ।।29।।
<24.7.30>स्तम्भात् कालायसाज्जातो विदार्याऽथ महासुरम्।
लक्ष्मीमालिङ्ग्य भगवन्! रक्षिता त्वं जगत्त्रयम् ।।30।।
<24.7.31>अथ कालान्तरे विष्णो! यागे वैरोचनेर्विभो!।
त्वमिन्द्रचोदितो देव! वामनो वाग्मिनां वरः ।।31।।
<24.7.32>पदानि त्रीणि याचित्वा प्रतिगृह्य महाबलेः।
आक्रम्य भूर्भुवोलोकान् दत्त्वेन्द्राय जगत्रयम् ।।32।।
<24.7.33>चन्द्रमण्डलमासाद्य पद्मासनगतो विभो!।
अमृताऽन्नाधिपो विष्णो! जगत्पासि चराचरम् ।।33।।
<24.7.34>जामदग्न्यो महाबाहो! राक्षसान् राजरूपिणः।
हत्वा तद्रक्तकुण्डेषु कृत्वा पितृजलक्रियाम् ।।34।।
<24.7.35>महीं निःक्षत्रियां कृत्वा यज्ञं कृत्वाऽश्वमेधिकम्।
दक्षिणार्थं महीं दत्त्वा काश्यपाय जगत्प्रभो! ।।35।।
<24.7.36>गत्वा महोदधिं तत्र समुद्रेण कृतालयः।
सह्यादौ रमणीये त्वं तपश्चरसि भार्गवः ।।36।।
<24.7.37>रावणे राक्षसे देव! सम्भूते देवकण्टके।
ततस्त्रेतायुगे जिष्णो! रामो दाशरथिः स्वयम् ।।37।।
<24.7.38>लक्ष्मणानुचरो भूत्वा भार्याहर्तारमाहवे।
सपुत्रपौत्रं सगणं सामात्यं संहरिष्यसि ।।38।।
<24.7.39>बलभद्रोऽथ कृष्णस्त्वं वासुदेवः सनातनः।
कल्यन्ते कल्किरूपी च भविताऽसि त्रिलोकधृक् ।।39।।
<24.7.40>आदित्यानाञ्च विष्णुस्त्वं ज्योतिषां त्वं प्रभाकरः।
वसूनां पावकश्च त्वं रुद्राणां शम्भुरुत्तमः ।।40।।
<24.7.41>ग्रहाणाञ्च बुधोऽसि त्वं देवानां बलभित् भवान्।
सिद्धानां कपिलोऽसि त्वं देवर्षिणाञ्च नारदः ।।41।।
<24.7.42>यज्ञानां जपयज्ञोऽसि तपश्चासि तपस्विनाम्।
यक्षाणाञ्च धनेशस्त्वं यमः संयमतां भवान् ।।42।।
<24.7.43>मत्स्यानां मकरोऽसि त्वं वरुणो यादसां पतिः।
आपगानाञ्च गङ्गा त्वं सरसां सागरो भवान् ।।43।।
<24.7.44>वायूनां प्राणवायुस्त्वं विधातॄणां चतुर्मुखः।
वर्णानां ब्राह्मणश्च त्वमाश्रमाणां गृही भवान् ।।44।।
<24.7.45>तारकाणाञ्च चन्द्रस्त्वं इन्द्रियाणां मनो भवान्।
सिंहोऽसि त्वं मृगाणाञ्च गजेन्द्रोऽसि चतुष्पदाम् ।।45।।
<24.7.46>द्विपदां ब्राह्मणश्चासि पक्षिणां गरुडो भवान्।
वासुकिस्त्वन्तु सर्पाणां विषाणां कालकूटकम् ।।46।।
<24.7.47>नागानां त्वमनन्तोऽसि मेरुस्त्वं कुलभूभृताम्।
गिरीणां हिमवांश्च त्वं वेदानां सामरूपधृक् ।।47।।
<24.7.48>छन्दसामपि गायत्री मन्त्राणां प्रणवो भवान्।
पशूनां सुरभिश्च त्वं हुतभुक् यज्ञभोजिनाम् ।।48।।
<24.7.49>अचराणां गिरिश्च त्वं वृक्षाणां पिप्पलो भवान्।
सेनानीनां भवान् स्कन्दः क्षमा शौर्यवतां भवान् ।।49।।
<24.7.50>बीजानामङ्कुरश्चासि प्राणिनां प्राणधृक् भवान्।
ब्रह्मर्षीणां वसिष्ठस्त्वं चरतां पवनो भवान् ।।50।।
<24.7.51>महर्षीणां भृगुश्च त्वं व्यासो वेदविदां भवान्।
वाल्मीकिश्च कवीनां त्वं जनानां त्वं जनेश्वरः ।।51।।
<24.7.52>यत्सत्त्वं सर्वलोकेषु तेजोबलसमन्वितम्।
तद्भवानिति विज्ञेयमिति ब्रह्मविदो विदुः ।।52।।
<24.7.53>सहस्रशिरसे तुभ्यं पुरुषाय नमो नमः।
भुजासहस्रयुक्ताय ते सहस्रपदे नमः ।।53।।
<24.7.54>नानाविधानि देव! त्वदायुधानि सहस्रशः।
दीप्यमानानि सर्वाणि द्योतयन्ति दिशो दश ।।54।।
<24.7.55>वक्त्राणि तव तीव्राणि दंष्ट्राप्रतिभयानि च।
बालार्कमण्डलाकारकुण्डलाभ्यां विभान्ति वै ।।55।।
<24.7.56>त्वत्पादाम्भोरुहैरेतैः सहस्रैर्भाति ते पदम्।
बालार्कद्युतिसम्भिन्नरक्ताम्भोजैरिवाञ्चितम् ।।56।।
<24.7.57>पृथिवी पूरिता पद्भिराकाशं मूर्धभिस्तव।
बाहुभिश्च दिशो व्याप्ता महाविष्णो! नमोऽस्तु ते ।।57।।
<24.7.58>वेदास्तवैव निःश्वासाः चन्द्रसूर्यौ तवाक्षिणी।
ज्योतिष्कणाश्च ताराणि जगद्रूप! नमोऽस्तु ते ।।58।।
<24.7.59>कलाकाष्ठामुहूर्तादिदिनरात्रिशरीरिणे।
चतुर्युगाय कालाय नमोऽनन्ताय ते विभो! ।।59।।
<24.7.60>कालदृक् कालरूपी च कालाऽत्मा कालकारणम्।
कालविद्भिरवेद्यस्त्वं विश्वमूर्ते! नमोऽस्तु ते ।।60।।
<24.7.61>अनादीनि च भूतानि महान्ति मधुसूदन!।
तव मूर्तानि रूपाणि भूतभावन! ते नमः ।।61।।
<24.7.62>प्राणात्मा प्राणधृक् प्राणी साक्षी त्वं सर्वकर्मणाम्।
नित्यः सर्वगतः स्थाणुः अचलस्ते नमो नमः ।।62।।
<24.7.63>शरीरभृत् शरीरी त्वं शरीरात्मा शरीरगः।
शारीरकर्मणा स्पृष्टः शुद्धमूर्ते! नमोऽस्तु ते ।।63।।
<24.7.64>अणीयसामणीयांस्त्वं महीयांश्च महीयसाम्।
बृहताञ्च बृहञ्च त्वं विश्वमूर्ते नमोऽस्तु ते ।।64।।
<24.7.65>खस्थस्त्वं खगुणश्चापि खगुणातीत एव च।
खमूर्तिः खगतिश्चासि खगेशारूढ! ते नमः ।।65।।
<24.7.66>ज्ञानात्मा ज्ञानदृग् ज्ञानी ज्ञानं ज्ञानवतां भवान्।
ज्ञानविद्भिरविज्ञेयः तुभ्यं ज्ञेयाऽत्मने नमः ।।66।।
<24.7.67>वेदात्मा वेदवित् वेद्यो वैद्यो वेदविदां वरः।
वेदान्तवेद्यरूपाय ब्रह्मरूपाय ते नमः ।।67।।
<24.7.68>अक्षराय क्षराद्याय ह्यक्षराकारधारिणे।
क्षराक्षरविभक्तौ द्वावतीताय च ते नमः ।।68।।
<24.7.69>नमो निरन्तरानन्दमूलकन्दाय जिष्णवे।
उष्णत्वमग्नौ शैत्यञ्च जले पृथ्व्याञ्च गन्धिता ।।69।।
<24.7.70>स्पर्शित्वञ्च भवान्वायौ नैर्मल्यं खे नमोऽस्तु ते।
घनाः केशेषु नद्यस्ते भगवन्! सर्वसन्धिषु ।।70।।
<24.7.71>कुक्षौ च सिन्धवः सप्त नमस्ते जलमूर्तये।
स्तोत्रैः स्तुताय स्तोत्राय स्तोत्रकृत्प्रियकारिणे ।।71।।
<24.7.72>स्तोत्रज्ञेयाय स्तुत्याय स्तोत्ररूपाय ते नमः।
अद्भुताकाररूपाय नमस्ते शार्ङ्गपाणये ।।72।।
<24.7.73>भक्तप्रियाय शान्ताय भक्तचित्तानुवर्तिने।
भक्तपापविनाशाय नमस्ते शार्ङ्गपाणये ।।73।।
<24.7.74>रक्षाकराय जगतां रक्षोघ्ने राक्षसारये।
श्रीवत्सवक्षसे तुभ्यं शार्ङ्गपाणे! नमो नमः ।।74।।
<24.7.75>श्रिया सरोजकरया सरोजान्तरवर्णया।
दिव्याभरणविद्योतिदेहया दिव्यवेषया ।।75।।
<24.7.76>पलाशश्यामया देव्या धरिण्योत्पलहस्तया।
संश्रितोभयपार्श्वाय नमस्ते शार्ङ्गपाणये ।।76।।
<24.7.77>चराचराणि भूतानि भीतानि चलितानि वै।
लभन्ते न स्थितिं देव! भीमरूप! नमोऽस्तु ते ।।77।।
<24.7.78>युगान्तकालानलकोटितुल्य! प्रभाभिरापूरितलोकजाल!।
रत्नाङ्गदालङ्कृतबाहुदण्ड! नमो नमस्तेऽस्तु सहस्रबाहो! ।।78।।
<24.7.79>नमोऽस्तु देवा अपि लोकपाला भूताविशेषेण विरूपनेत्र!।
विमानगास्ते प्रणमन्ति चैते प्रसीद देवेश! जगन्निवास! ।।79।।
<24.7.80>पश्यामि देवेश तवैव देहे चराचराणीह गतागतानि।
भूतानि चैतानि च भूतवास! तपः प्रभावाञ्च भवत्प्रसादात् ।।80।।
<24.7.81>अनेकरत्नान्वितभूषणानां प्रभाभिरादीपितलोकजाल!।
तडिद्गुणालङ्कृतमेघकान्ते! प्रसीद देवेश! जगन्निवास! ।।81।।
<24.7.82>त्वदीयवक्त्राणि महाद्युतीनि कल्पान्तसूर्यानलसन्निभानि।
दंष्ट्राकरालानि महास्वनानि बिभेमि पश्यन् भगवन्! प्रसीद ।।82।।
<24.7.83>ब्रह्मत्रिनेत्रप्रमुखाश्च देवान् सयक्षगन्धर्वमहोरगांश्च।
पश्यामि सर्वांस्तव देव! देहे प्रसीद देवेश जगन्निवास! ।।83।।
<24.7.84>दिशो न जाने न लभे च शर्म सीदाम्यहो! देववर! प्रसीद।
भक्तानुकम्पिन्! परमार्थरूप! प्रसीद विष्णो! भगवन्! प्रसीद" ।।84।।
शङ्करः-----
<24.7.85>"प्रसीदे"ति नमस्कृत्य वायुः प्राञ्जलिरास वै।
प्रीतोऽथ भगवान् विष्णुः शङ्खचक्रगदाधरः ।।85।।
<24.7.86>श्रीभूमिसहितो देवो वरदो वायुमब्रवीत्।
"वरं वृणीष्व भद्रं ते वायो! यन्मनसेच्छसि" ।।86।।
वायुः-----
<24.7.87>"वरं न याचे देवेश! श्रीनाथ! परमेश्वर!।
त्वत्सान्निध्यं ममैवेदं नित्यमस्तु रमापते!" ।।87।।
%वायुं प्रति भगवत्कृतानवरतस्वसान्निध्यवरप्रदानम्%
शङ्करः-----
<24.7.88>एतच्छ्रुत्वा हरिः प्राह देवतानाञ्च सन्निधौ।
श्रीभगवान्----
"चतुः षष्टिं त्वयोक्तानां श्लोकानां यः पठेन्नरः ।।88।।
<24.7.89>भुक्तिं मुक्तिं स लभते मत्प्रसादात् न संशयः।
त्रिसन्ध्यं यः पठेत् भक्त्या पूजयन् मामनन्यधीः ।।89।।
<24.7.90>षण्मासान्मम सान्निध्यं लभते स न संशयः।
तवास्तु यद्यदिष्टं तत् देवानामपि दुर्लभम् ।।90।।
<24.7.91>अस्य स्कन्दकुमारस्य पूजनं मम नित्यशः।
आकल्पान्तं मया दत्तं तथा सान्निध्यमत्र वै" ।।91।।
शङ्करः-----
<24.7.92>वायुर्लब्ध्वा वरान् विष्णोः ययावथ सुराऽलयम्।
आस्ते वृषाचले देवः श्रीभूमिसहितोऽनघे ।।92।।
<24.7.93>अप्रत्यक्षाऽलयो दृश्यो विहरन् गिरिमूर्धनि।
नानाद्रुमलताकीर्णे सर्वर्तुगणसंयुते ।।93।।
<24.7.94>स्वामिवापीसमीपे तु कोटिकन्दर्परूपवान्।
आस्ते लक्ष्म्या च धरया रमन् षोडशवार्षिकः ।।94।।
<24.7.95>दृष्ट्वा गुहोऽपि तं देवं चैत्रमासि शुभे तिथौ।
आराधयं स्त्रिसन्ध्यं वै देवगन्धर्वकिन्नरैः ।।95।।
<24.7.96>नृत्यैरप्सरसाञ्चैव गीतवादित्रनिः स्वनैः।
रमयंश्च रमानाथं उत्तरे गह्वरे गिरेः ।।96।।
<24.7.97>कुमारधारिका नाम तत्र निर्झमरिणी शुभा।
मयूरवाहको देवि! तस्यास्तीरे वसत्यहो! ।।97।।
<24.7.98>ब्रह्महत्या तु या तस्य दुःसहा घोररूपिणी।
सा वृषाचलश्रृङ्गाग्रे दृष्टमात्रे बहिः स्थिता ।।98।।
<24.7.99>स कामयानः शेषाद्रौ नित्यसेवां हरेरसौ।
पुनरागमनं देवि! षण्मुखो नाभिवाञ्छति ।।99।।
<24.7.100>अथ काले गते देवि! बहुवर्षगणायुते।
गरुत्मांस्तु वृषाद्रिं तं काञ्चनं रत्नमण्डितम् ।।100।।
<24.7.101>उद्धृत्य "अहं विष्णुलोकं गमिष्यामी" त्यचिन्तयत्।
तज्ज्ञात्वा भगवान् विष्णुर्गरुडं त्वाह सुस्मितः ।।101।।
श्रीभगवान्-----
<24.7.102>"पक्षिराज! महासत्त्व! श्रृणु कारणमुत्तमम्।
गरुत्मन्निह सर्वे वै वसाम गिरिमूर्धनि ।।102।।
<24.7.103>त्वं गिरेर्दक्षिणं सानुमासाद्य वस नित्यशः।
शेषाऽऽगच्छ वसेह त्वं तार्क्ष्याधः शैलरूपधृक् ।।103।।
<24.7.104>तावन्नित्यं मम प्रीत्यै शैलमाश्रित्य सर्वतः।
आकल्पान्तं वसामीह जगत्पालनकारणात् ।।104।।
<24.7.105>युगे युगे गिरिरयं नामानि विविधानि वै।
गमिष्यति वराण्येव वरदोऽयं वृषाचलः ।।105।।
<24.7.106>कृते वृषाद्रिं वक्ष्यन्ति त्रेतायां गरुडाचलम्।
द्वापरे शेषशैलञ्च वेङ्कटाद्रिं कलौ युगे ।।106।।
<24.7.107>वेङ्कारोऽमृतबीजन्तु कटमैश्वर्यमुच्यते।
अमृतैश्वर्यसङ्घत्वाद्वेङ्कटाद्रिरिति स्मृतः ।।107।।
<24.7.108>विविधा मुनयश्चैव मनुष्याश्च युगे युगे।
नारायणाद्रिं वक्ष्यन्ति नामभिः विविधैरमुम्" ।।108।।
<24.7.109>इत्याज्ञाप्य च तौ देवो रमया विहरन् सदा।
आस्ते सुरासुरैर्वन्द्यः स्वामिपुष्करिणीतटे ।।109।।
<24.7.110>आवां गच्छाव तं शैलं गिरिजे! गणसंयुतौ।
नित्यं वसाव तत्रैव पश्यन्तौ गुहमव्ययम्।
देवसेनापुलिन्दाभ्यां विहरन्तं वृषाचले" ।।110।।
%देव्या सहागतस्य शम्भोः शेषाचलाग्नेयदिगवस्थानम्%
नारदः-----
<24.7.111>इत्युक्त्वा वृषमारूढः पार्वत्या सह शङ्करः।
सगणश्च ययौ स्कन्दं द्रष्टुं तं वृषभाचलम् ।।111।।
<24.7.112>उषित्वा वसतीस्तिस्रो मार्गे पर्वतमूर्धसु।
आराधितस्तदा तत्र देवैः सोमो वृषध्वजः ।।112।।
<24.7.113>स जगामास्थिकूटाख्यं वृषभाद्रौ सरोवरम्।
मृतानामस्थिकूटानि प्रक्षिप्तानि सरोवरे ।।113।।
<24.7.114>येषान्तु पूर्वरूपास्ते समुद्गच्छन्ति तज्जलात्।
तस्मात् तदस्थिकूटाख्यमागच्छ सर उत्तमम् ।।114।।
<24.7.115>अवरुह्य च तत्तीरे वृषभादुमया सह।
स्नात्वा तीर्थे महादेवः पार्वत्या सह शूलभृत् ।।115।।
<24.7.116>नत्वा श्रीशं वृषाद्रीशं दृष्ट्वा स्कन्दं ततः परम्।
मयूरवाहनं बालं सोमः सोमकलाधरः ।।116।।
<24.7.117>आससाद सरोमुख्यं शिवः स्वामिसरस्ततः।
स्नात्वा श्रीशाभ्यनुज्ञातः पूर्वदक्षिणतो गिरेः ।।117।।
<24.7.118>कपिलस्य सरस्तीरे कापिलं लिङ्गमुत्तमम्।
अपश्यद्वृषभारूढः चक्रपूजितमत्र वै ।।118।।
<24.7.119>प्रादुर्बभूव सगणः सुदर्शनपुरः शिवः।
%चक्रतीर्थे तपस्यन्तं सुदर्शनं प्रति शङ्करवचनम्%
दृष्ट्वा सुदर्शनो देवो नत्वा बद्धाञ्जलिः स्थितः ।।119।।
<24.7.120>प्रीतोऽथ भगवानाह सुदर्शनमुमापतिः।
"प्रीतस्ते तपसा चक्र! यदभीष्टं वृणीष्व ते ।।120।।
<24.7.121>ददामि देवैरपि यत् प्रार्थितं दुर्लभञ्च तत्"।
सुदर्शनो वरं वव्रे ज्ञात्वा प्रीतञ्च शङ्करम् ।।121।।
<24.7.122>"यदि प्रीतो गिरीश! त्वं अन्तरात्मनि मे वस।
नित्यं भीमश्च सौम्यश्च वरदो मृत्युहा भव" ।।122।।
नारदः-----
<24.7.123>"गिरीशः प्राह सुप्रीतः कालचक्रमनुत्तमम्।
"हेतिराज! महाबाहो! पर्याप्तं तपसा तव ।।123।।
<24.7.124>विष्णोः वरप्रसादेन स्नेहो मयि तवाधिकः।
प्रागेव दर्शितः सम्यक् शाठ्यं तत्र न किञ्चन ।।124।।
<24.7.125>दृष्टवानहमद्य त्वां मां प्रीणयसि किं! पुनः।
तदलं तपसा देव नाऽवयोर्विद्यतेऽन्तरम् ।।125।।
<24.7.126>अन्तरात्मनि ते वासः प्रार्थितो यस्त्वयाऽनघ!।
तदशक्यं महाचक्र! विष्णोरन्यस्य कस्यचित् ।।126।।
<24.7.127>अन्तरात्मा हि सर्वेषामेको नारायणः प्रभुः।
स्नेहातिशयतस्त्वेवं भवानाहेति मे मतिः ।।127।।
<24.7.128>दक्षिणार्थं तु दत्तस्त्वं चिरमाकाङ्क्षितोऽपि यत्।
तत्रैवाशङ्कमानेन हरिणा त्वमुदीरितः ।।128।।
<24.7.129>"प्रसादय पुनः शम्भुं"इत्याहूय महात्मना।
तदेतद्विदितं सर्वं मया योगबलेन वै ।।129।।
<24.7.130>उपायश्चात्र दृष्टो मे त्वयि वासो ममेप्सितः।
ममापि हि मतं तावत् त्वया निर्वर्त्यतां सखे! ।।130।।
<24.7.131>शुद्धसत्त्वस्य तद्विष्णोः सर्वयज्ञमयं वपुः।
साक्षात् स्प्रष्टुमहं भीतः तमोगुणसमाश्रयः ।।131।।
<24.7.132>वक्तव्यञ्च मया विष्णोः दिव्यमङ्गलविग्रहे।
त्वामेव तदहं नित्यं विष्णोः नित्यानपायिनम् ।।132।।
<24.7.133>अनुप्रविश्य तद्देहे वसिष्यामि सुदर्शन!।
एवं सति ममाभीष्टं प्रार्थितं च तवाद्भुतम् ।।133।।
<24.7.134>उभयं प्रार्थ्यते तस्मात् कुरुष्व वचनं मम।
ज्वालामालावृतो नित्यं वह मां हृदये स्थितम् ।।134।।
<24.7.135>सुवर्णाभं शतभुजं अष्टाविंशतिहस्तकम्।
अथवा षोडशभुजं अष्टबाहुं चुतुर्भुजम् ।।135।।
<24.7.136>ज्वालाकेशं त्रिनयनं ब्रह्मविष्णुशिवात्मकम्।
अर्चयिष्यन्ति मां लोके वसन्तं त्वयि नित्यशः ।।136।।
<24.7.137>उपचारैः तथा साङ्गैः पीठे शैवे च वैष्णवे।
पुरुषा वा स्त्रियो वाऽपि भवन्तु फलभागिनः" ।।137।।
<24.7.138>इति दत्त्वा वरं तस्मै वरदो वृषभध्वजः।
आस्ते तत्रेश्वरो नित्यं अदृश्यः सगणस्तटे ।।138।।
<24.7.139>वरं लब्ध्वाऽथ चक्रोऽपि पञ्चायुधसरो ययौ।
आसाद्य स्वं सरोऽदृश्यः तपश्चरति नित्यशः" ।।139।।
शतानन्दः-----
<24.7.140>"श्रुत्वैतन्मुनयः प्रीता आख्यानं नारदेरितम्।
सार्द्धं वाल्मीकिना सर्वे जग्मुस्तं वृषभाचलम् ।।140।।
<24.7.141>अहं तैरभ्यनुज्ञातो मिथिलामागतो नृप!।
इति ते कथितं सर्वमाख्यानं तु यथाश्रुतम्" ।।141।।
व्यसिः-----
<24.7.142>"श्रुत्वा सविस्तरं वाक्यं अद्भुतं रोमहर्षणम्।
पुनः प्रीतोऽभवद् राजा शतानन्दं पुरोधसम् ।।142।।
<24.7.143>"श्रृण्वतस्ते कथां ब्रह्मन्! तृप्तिर्मे नोपजायते।
भूयः कथय मे ब्रह्मन्! वेङ्कटाद्रीश्वरं प्रति" ।।143।।
व्यासः-------
<24.7.144>शतानन्दः पुनः प्राह जनकं मिथिलापतिम्।
"वक्ष्यामि विस्तरेणाऽहं सावधानमनाः श्रृणु ।।144।।
<24.7.145>वामदेवेन मुनिना कथितां जनकाय वै।
निमिपुत्राय च पुरा कथां यज्ञान्तरे नृप!" ।।145।।
इति श्रीवामनपुराणे श्रीवेङ्कटाचलमाहात्म्ये वायुं प्रति भगवत्सान्निध्यवरप्रदानादिवर्णनं नाम
चतुर्विंशोऽध्यायः।
---------
अथं प़ञ्चविंशोऽध्यायः
---------------
%जनकं प्रति शतानन्दोक्तभगवदाविर्भावकथोपोद्धातः%
शतानन्दः------
<25.7.1>पुरा तु जाह्नवीतीरे जनकं शंसितव्रतम्।
अश्वमेधे महायज्ञे दीक्षितं मुनयोऽभ्ययुः ।।1।।
<25.7.2>तानभ्यर्च्य मुनीन् सर्वान् राजा स ऋषिसत्तमान्।
जनकः प्रीतिसंहृष्टो वाक्यमेतदुवाच ह ।।2।।
<25.7.3>"अद्य मे सफलं जन्म सुतप्तञ्च महत्तपः।
सङ्गम्य यूयमस्माकं यज्ञवाटमिहागताः" ।।3।।
<25.7.4>तेनैव मुनयः सर्वे संहृष्टाः परमां मुदम्।
ययुस्तत्र निशामेकां अवसन् मुनिसत्तमाः ।।4।।
<25.7.5>बहु संभाषमाणानां अन्योन्यं वै महात्मनाम्।
पर्यस्ता रजनी चापि प्रातः कालो ह्यवर्तत ।।5।।
<25.7.6>कृत्वा प्रातस्तनीं सन्ध्यां मुनयश्च समागताः।
यज्ञवाटं महात्मानो जनको यत्र तिष्ठति ।।6।।
<25.7.7>नारायणकथाश्चापि कथयन्तः परस्परम्।
आसीनास्तत्र ते सर्वे जनकेन महात्मना ।।7।।
<25.7.8>तस्मिन् काले महातेजाः पर्यटन् पृथिवीमिमाम्।
ब्रह्मर्षिः वामदेवस्तु सङ्गतो मुनिसत्तमः ।।8।।
<25.7.9>अभ्युत्थितास्ततः सर्वे ऋषयो वेदपारगाः।
पप्रच्छुः सङ्गताः सर्वे वामदेवं द्विजोत्तमम् ।।9।।
<25.7.10>"भूरियं वामदेवाद्य परिक्रान्ता त्वया विभो!।
श्रोतुमिच्छामहे त्वत्तो नारायणकथां शुभाम् ।।10।।
<25.7.11>क्व वा वसति देवेशः श्रीनिवासो जगत्पतिः?।
उत्कण्ठा विद्यते चाऽस्य जनकस्य महात्मनः" ।।11।।
<25.7.12>इति तैः परिपृष्टस्तु वामदेवस्तदाऽब्रवीत्।
"नारायणगिरिर्नाम भूधरेन्द्रो द्विजोत्तमाः! ।।12।।
<25.7.13>इतो दक्षिणतश्चापि द्विशते योजने पुनः।
तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।।13।।
<25.7.14>वसन्ति नियताऽऽहारा वेङ्कटाह्वयभूधरे।
अहमप्यागतस्तत्र भूधरेन्द्रे द्विजोत्तमाः ।।14।।
<25.7.15>अगस्त्यं नारदञ्चैव पुलस्त्यं पुलहं तथा।
क्रतुमाङ्गिरसञ्चैव दक्षं जाबालिमेव च ।।15।।
<25.7.16>योगाभ्यासरतांस्तांस्तु दृष्ट्वाऽहं पुनरब्रुवम्।
किमत्र संङ्गता यूयमासीना पर्वते द्विजाः ।।16।।
<25.7.17>इति पृष्टास्तु ते सर्वे प्रत्यूचुर्मे न किञ्चन।
अगस्त्यः परमर्षिस्तु मामाहूय महायशाः ।।17।।
<25.7.18>उवाच मुनिशार्दूलो निवासे तत्र कारणम्।
"भगवन्तमुपासीनो नारदो योगवित्तमः ।।18।।
<25.7.19>वसन् गोदावरीतीरे न ददर्श श्रियः पतिम्।
वैकुण्ठे तु परे लोके तेनोद्विग्नमना मुनिः ।।19।।
<25.7.20>ब्रह्माणं समुपागम्य पर्यपृच्छत् सनातनम्।
"निवासः सर्वभूतानां परमात्मा सनातनः ।।20।।
<25.7.21>क्व प्रयातः परो देवः?तन्मे ब्रूहि पितामह!।
इति पृष्टस्तदा तेन ब्रह्मा लोकपितामहः ।।21।।
<25.7.22>"ध्यात्वा चिरमुवाचेदं नारदं प्राञ्जलिं स्थितम्।
नारायणगिरिर्नाम भूमौ क्वापि महामुने! ।।22।।
<25.7.23>तस्मिन् हि रमया सार्धं रमते पुरुषोत्तमः।
प्रीतिः सुमहती जाता तस्मिंस्तु गिरिमूर्धनि ।।23।।
<25.7.24>गच्छ नारद! सर्वेशं द्रष्टुमिच्छसि चेत्प्रभुम्"।
इति तेन समादिष्टो नारदो मुनिसत्तमः ।।24।।
<25.7.25>ततस्तस्मादपाक्रम्य सशैलेन्द्रमुपागमत्।
आगच्छन्तं वयं सर्वे सङ्गताः पथि नारदम् ।।25।।
<25.7.26>अस्माभिः सह सङ्गत्य पर्वतेन्द्रमुपागमत्।
ततश्चतुर्मुखश्चापि देवैः सह समागतः ।।26।।
<25.7.27>अस्माभिः सहितः पूर्वं तस्मिन्पर्वतसत्तमे।
चचार भगवान् ब्रह्मा परमात्मानमव्ययम् ।।27।।
<25.7.28>अदृष्ट्वा नारदं चास्मान् इत्युवाच पितामहः।
"यावत्यः सरितश्चास्मिन् सरांसि च महामुने ।।28।।
<25.7.29>याश्च सन्ति महापुण्याः पुष्करिण्यः शुभोदकाः।
तटाकान्युदपानानि तथा प्रस्रवणानि च ।।29।।
<25.7.30>वाप्यश्च सर्वदा पुण्या ह्रदाश्च मुनिसेविताः।
यानि सन्त्येवमादीनि पुण्येऽस्मिन् पर्वतोत्तमे ।।30।।
<25.7.31>तानि सर्वाणि विप्रेन्द्र! सेवमानः समन्ततः।
कुर्वन् प्रदक्षिणञ्चैव विचरस्व महीधरम् ।।31।।
<25.7.32>यावता भगवान् देवः कालेन द्रक्ष्यते हरिः।
तावत्कालमिहैव त्वं विचरस्व महामुने!" ।।32।।
<25.7.33>इत्युक्त्वा भगवान् देवो ब्रह्मा लोकपितामहः।
स्वानुगैः सह देवैश्च तत्रैवान्तरधीयत ।।33।।
वामदेवः------
<25.7.34>अगस्त्योऽथ महीपाल! तैरेव मुनिभिः सह।
प्रणम्य तस्मै देवाय ब्रह्मणेऽव्यक्तजन्मने ।।34।।
<25.7.35>चिन्तयन् वासुदेवाख्यं परब्रह्मस्वरूपिणम्।
द्रष्टुकामश्च तं देवं वृषभाद्रिनिवासिनम् ।।35।।
%अगस्त्यस्य शेषाचलवायव्यदिशि महाभूतविलोकनम्%
<25.7.36>अतीत्य पश्चिमं भागं पर्वतस्य महीयसः।
उदीचीं दिशमभ्यायात् तपसा च समन्वितः ।।36।।
<25.7.37>चिन्तयन् देवदेवेशं भूपाल! हरिमीश्वरम्।
संस्मरन् ब्रह्मणो वाक्यं विचचार ततस्ततः ।।37।।
<25.7.38>ऋषिभिः सहितः सर्वैः तपसा भावितात्मभिः।
आदित्यकल्पतेजोभिः जटामण्डलधारिभिः ।।38।।
<25.7.39>संयुक्तो विचरंस्तत्र भूपते! पर्वतोत्तमे।
वायव्यां दिशि चाद्राक्षीत् इदमाश्चर्यमुत्तमम् ।।39।।
<25.7.40>"शुद्धस्फटिकसङ्काशा तत्राऽसीन्महती शिला।
दर्शनीयतमा स्निग्धा विस्तीर्णा विमला शुभा ।।40।।
<25.7.41>तस्यां शिलायामास्ते स्म समुच्छ्रिततनुः पुमान्।
दीप्यमानः स्ववपुषा पर्वतेन्द्र इवापरः ।।41।।
<25.7.42>महाबाहुः विशालाक्षो महादंष्ट्रो महाहनुः।
रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ।।42।।
<25.7.43>बिभ्रद्रक्ते तथा दिव्यकुण्डले रत्नभूषिते।
बिभ्रञ्चन्द्रप्रतीकाशं स्निग्धहेमविभूषितम्" ।।43।।
<25.7.44>अनेकरत्नसञ्छन्नैः भूषणैः सुविभूषितम्।
श्यामं नानाविधैः रत्नैः शोभमानकिरीटकम् ।।44।।
<25.7.45>तमुपेत्य महाकायं महावीर्यं महाभुजम्।
अगस्त्यो विस्मयाऽऽविष्टो भूयो भूयोऽन्ववैक्षत ।।45।।
<25.7.46>ततस्तमृषिशार्दूलः प्राह चैवं वचो नृप!।
प्रणम्य तस्मै देवाय ज्वलद्भास्करतेजसे ।।46।।
अगस्त्यः------
<25.7.47>"को भवान् सुमहावीर्य! कस्य वा प्रियदर्शन!।
एतन्नस्त्वं तु तत्त्वेन पृच्छतां ब्रूहि नानृतम्" ।।47।।
वामदेवः-----
<25.7.48>एवमुक्ते ततस्तेन नरेन्द्र! मुनिना तदा।
श्रृण्वतां प्रीतिदायिन्या वाचा मधुरया गिरा ।।48।।
<25.7.49>महौजसं मुनीन्द्रं तं न किञ्चित्प्रत्यभाषत।
स्तुवन्तञ्च तदाऽगस्त्यमुदैक्षत पुनः पुनः ।।49।।
<25.7.50>पश्यताञ्चैव सर्वेषां मुनीन्द्राणां महात्मनाम्।
अन्तर्दधे महातेजाः तदद्भुतमिवाभवत् ।।50।।
<25.7.51>ततस्ते मुनय सर्वे विस्मयोत्फुल्ललोचनाः।
"अहो दृष्टम्! अहो दृष्टम् आश्चर्य"मिति चाब्रुवन् ।।51।।
<25.7.52>"दर्शयित्वा महाश्चर्यं रूपं भास्ककसन्निभम्।
मायया मोहयित्वाऽस्मान् सद्यो ह्यन्तरधीयत" ।।52।।
<25.7.53>इति ब्रुवन्तस्ते सर्वे मुनयोऽद्भुततेजसः।
प्रणम्य तस्मै देवाय व्यचरंस्तं महीधरम् ।।53।।
<25.7.54>संवृतो मुनिभिः सर्वैः अगस्त्यो भगवांस्तदा।
तमेव देवदेवेशं द्रष्टुकामोऽनपायिनम् ।।54।।
<25.7.55>भागं परित्यज्य नरेन्द्र! पश्चात् नारायणाद्रेः विमलं विशालम्।
द्विजेन्द्रवर्यः सहसा महात्मा तस्योत्तरं भागमथ प्रपेदे ।।55।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये भगवदाविर्भावउपोद्धातो नाम पञ्चविंशोऽध्यायः
----------------
अथ षड्विंशोऽध्यायः
-------------
%शेषाचलोत्तरदिशि अगस्त्यादिकृतभगवदन्वेपणप्रकारः%
वामदेवः-----
<26.7.1>ततस्तस्मिन् महातेजाः विचरन् पर्वतोत्तमे।
उत्तरं भागमाश्चर्यं ददर्शाद्भुतदर्शनम् ।।1।।
<26.7.2>लम्बमानमहाशाखैः जम्बूवृक्षैश्च पाण्डुरैः।
शुद्धस्फटिकसङ्काशैः फलवद्भिः सुशोभितम् ।।2।।
<26.7.3>सरितः पुण्यदास्तत्र ददर्श विमलोदकाः।
सर्वपापहराः शुद्धाः शतशः शुभदर्शनाः ।।3।।
<26.7.4>सर्वासु तासु पुण्यासु सरित्सु विमलासु च।
मुनीन्द्रो मुनिभिः सार्धं कृतशौचो यथाविधि ।।4।।
<26.7.5>स्नानं चक्रे प्रयत्नेन प्रयतः सुसमाहितः।
चिन्तयन् वासुदेवाख्यं हृदि नारायणं हरिम् ।।5।।
<26.7.6>कृत्वा स्नानक्रियाः सर्वाः अर्चयामास केशवम्।
अर्चयित्वा जगन्नाथं जगाम सुसमाहितः ।।6।।
<26.7.7>नरेन्द्र! मुनिभिः सार्द्धं द्रष्टुकामः सुरेश्वरम्।
विचरन् सर्वशस्तत्र मुनीन्द्रः पर्वतोत्तमे ।।7।।
<26.7.8>ददर्श चोत्तरं भागं शोभितं विविधैः द्रुमैः।
मेघैः शैलनिभैश्चापि शोभितं शुभदर्शनम् ।।8।।
<26.7.9>मृगसर्पमहाव्यालद्विजसङ्घनिषेवितम्।
बहुपुष्पलताभिश्च सुसञ्छन्नमहीतलम् ।।9।।
<26.7.10>सुखवातानुचरितं शीतोदकतटाककम्।
भ्रमरैः गीयमानञ्च पिबद्भिः पुष्पजं मधु ।।10।।
<26.7.11>शैलकन्दरनिष्क्रान्तैः कोकिलैः मधुरस्वनैः।
सुस्वरैर्गीयमानञ्च गन्धर्वैस्तु निषेवितम् ।।11।।
<26.7.12>नृत्यद्भिश्च महापक्षैः मयूरैरुपशोभितम्।
अश्वत्त्थप्लक्षबिल्वैश्च शोभितं बहुशाखिभिः ।।12।।
<26.7.13>तिलकैः पुष्पितैश्चापि कृतमालैश्च पुष्पितैः।
करञ्जैः कोविदारैश्च पाटलैश्चापि पुष्पितैः ।।13।।
<26.7.14>अङ्कोलैः मातुलुङ्गैश्च शोभितं चित्रशाखिभिः।
शिरीषशिंशिपोत्तालहिन्तालपनसैस्तथा ।।14।।
<26.7.15>तिमिशैः नक्तमालैश्च स्यन्दनैः चन्दनैस्तथा।
बकुलैः पुष्पितैश्चापि राजद्भिः रक्तचन्दनैः ।।15।।
<26.7.16>एवं बहुविधैर्वृक्षैः नानाशाखोपशोभितैः।
शोभितं शुभगन्धाढ्यं नानाधातुसमन्वितम् ।।16।।
<26.7.17>पर्वतसस्योत्तरं भागं मणिप्रवरसेवितम्।
ददर्श नृपते! धीमान् मुनिभिर्भगवांस्तदा ।।17।।
<26.7.18>अथ तैर्मुनिभिः सार्धं विचरन् गिरिमूर्धनि।
ददर्श दिव्यामाश्चर्यात् पद्मिनीं पद्मशोभिताम् ।।18।।
<26.7.19>उत्फुल्लैरुत्पलैश्चापि प्रफुल्लैः कुसुमैस्तथा।
शोभितां शुभगन्धाढ्यां प्रसन्नसलिलां शुभाम् ।।19।।
<26.7.20>इन्द्रस्फटिकसङ्काशां राजहंसनिषेविताम्।
सिंहव्याघ्रमृगैश्चापि निनदद्भिर्निषेविताम् ।।20।।
<26.7.21>जलार्थिभिश्च मातङ्गैः शोभितां शुभदंष्ट्रिभिः।
क्रौञ्चैः प्लवङ्गैः वाराहैः शोभितां शुभदर्शनैः ।।21।।
<26.7.22>अधिकं शोभमानां तां कूजद्भिश्च विहङ्गमैः।
सेवितां देवगन्धर्वयक्षविद्याधरादिभिः ।।22।।
<26.7.23>एवमत्यद्भुतां तां तु सर्वदुःखप्रणाशिनीम्।
दृष्ट्वा स विस्मयाविष्टो मुनीन्द्रः प्राह तान् मुनीन् ।।23।।
अगस्त्यः----
<26.7.24>"अस्यां स्नात्वाऽथ गच्छामो दिशं प्राचीं महागिरेः।
लोकेऽस्मिन् श्रूयते चैषा पापहानिप्रदेति वै ।।24।।
<26.7.25>सर्वपापहरा शुद्धा पद्मिनी लोकविश्रुता।
सर्वदुखहरा चापि सर्वतीर्थफलप्रदा" ।।25।।
<26.7.26>एवमुक्त्वा तु तैः सार्धं ऋषिभिः भावितात्मभिः।
निवेश्य हृदि देवेशं ममज्ज सहसा जले ।।26।।
<26.7.27>स्नानं कृत्वाऽथ देवेशं प्रणम्यात्मनि तं प्रति।
अभ्यर्च्य च हृषीकेशं वासुदेवं सनातनम्।
विचचार यथापूर्वं ऋषिभिः सहितो मुनिः ।।27।।
%अगस्त्यादीनां सनत्कुमारविलोकनपूर्वकं पूर्वदिग्गमनम्%
<26.7.28>तस्या एवोत्तरे तीरे वृक्षमूलं समाश्रितान्।
समाहितान् समासीनान् पद्मिन्याः सुमहौजसः ।।28।।
<26.7.29>दक्षिणाभिमुखान् भूप! योगीन्द्रान् स ददर्श ह।
सनत्कुमारप्रमुखान् भगवन्न्यस्तमानसान् ।।29।।
<26.7.30>भक्त्या परमया युक्तान् निमीलितविलोचनान्।
तान् दृष्ट्वा सहसा हृष्टो योगीन्द्रान् योगपारगान् ।।30।।
<26.7.31>तेषां समीपमभ्यागात् अगस्त्योऽथ महामुनिः।
तमायान्तं ततो दृष्ट्वा मुनीन्द्रं मुनिभिः सह ।।31।।
<26.7.32>सनत्कुमारप्रमुखाः योगीन्द्राः तमपूजयन्।
सङ्गम्य सहिताः सर्वैः योगीन्द्रैः मुनिपङ्गवैः ।।32।।
<26.7.33>सम्पूजितो यथान्यायं ततस्तैः मिथिलेश्वर!।
अथ तान् मधुरं वाक्यमुवाचेदं महामुनिः ।।33।।
अगस्त्यः-----
<26.7.34>"किमत्र दृष्टमाश्चर्यं? को वाऽत्र वसते पुमान्?।
युष्माभिश्चिन्त्यमानः कः किं वा यूयं समागताः? ।।34।।
<26.7.35>एतदिच्छाम्यहं श्रोतुं एतन्मे शंसताऽमलाः!"।
एवं पृष्टास्तदा तेन मुनिना भावितात्मना ।।35।।
<26.7.36>सनत्कुमारप्रमुखाः योगीन्द्राः तमथाब्रुवन्।
"सर्वात्मा भगवान् विष्णुः वसत्यस्मिन् महागिरौ ।।36।।
<26.7.37>चिन्तनीयः स एवैको मुनीन्द्र! पुरुषोत्तमः।
तमचिन्त्यं विधातारं चिन्तयामोऽनपायिनम् ।।37।।
<26.7.38>नान्यं वयं जगन्नाथात् चिन्तयामो जनार्दनात्।
द्रक्ष्यसे तं महात्मानं त्वं चापि पुरुषोत्तमम् ।।38।।
<26.7.39>अचिरेणैव कालेन ब्रह्मभूतं सनातनम्।
नारायणं हरिं विष्णुं सर्वलोकपरायणम् ।।39।।
<26.7.40>दृष्टवन्तो वयं चापि सकृत्तममरार्चितम्।
वेङ्कटाख्यगिरावस्मिन् पूर्वं पुण्यप्रदायिनि ।।40।।
<26.7.41>अस्त्यन्यादृष्टमाश्चर्यं प्राच्यां दिशि महामुने!।
पर्वतस्यास्य दिव्यस्य श्रृणु तद्वदतां वर! ।।41।।
<26.7.42>शक्रश्च सहितो देवैः साक्षात् वज्रधरः स्वयम्।
द्रष्टुकामो गिरावस्मिन् वसत्यव्यक्तरूपिणम् ।।42।।
<26.7.43>त्वं चापि सुरलोकेशं द्रक्ष्यसे तं शचीपतिम्।
एतैः सार्धं मुनीन्द्रैस्त्वं प्राचीं गच्छ शुभां दिशम्" ।।43।।
वामदेवः-----
<26.7.44>इत्युक्त्वाऽन्तर्हिताः सर्वे मुनीन्द्रास्तं महौजसः।
सनत्कुमारप्रमुखाः तदद्भुतमिवाभवत् ।।44।।
<26.7.45>अन्तर्हितेषु सर्वेषु योगीन्द्रेषु महात्मसु।
अगस्त्यो मुनिभिः सार्धं सर्वैस्तैः मुनिसत्तमः ।।45।।
<26.7.46>पराजितायामद्राक्षीत् आश्चर्यं दिशि भूपते!।
तस्यां दिशि महावृक्षः इन्द्रकेतुरिवोच्छ्रितः ।।46।।
<26.7.47>लम्बमानमहाशाखः पुष्पभारनिपीडितः।
आसीदाच्छादयन् सर्वं भूधरं छायया नृप! ।।47।।
<26.7.48>तन्मूले तु समासीनाः आदित्यसमतेजसः।
सप्तर्षयो महात्मानो भगवन्न्यस्तमानसाः ।।48।।
<26.7.49>तान् दृष्ट्वा स मुनिस्तेषां समीपमगमन् नृप!।
अगस्त्यो मुनिभिः सार्धं तपसा भावितात्मभिः ।।49।।
<26.7.50>तमायान्तं ततो दृष्ट्वा मुनयो यमिनां वरम्।
स्नेहान्विता यथान्यायं महात्मानमपूजयन् ।।50।।
<26.7.51>ततोऽब्रवीन्महातेजाः अभिवाद्य च तान् मुनीन्।
अर्थवन्मधुरं वाक्यं प्रश्रयान्मृदुलाक्षरम् ।।51।।
अगस्त्यः-----
<26.7.52>"किमर्थमागता यूयं दिव्येऽस्मिन् पर्वतोत्तमे?।
को वा ध्येयो महादेवो युष्माकं मुनिसत्तमाः? ।।52।।
<26.7.53>एतदाख्यात मे यूयं सर्वं सत्येन पृच्छतः।
पृच्छामि श्रोतुकामोऽहं कौतूहलसमन्वितम्" ।।53।।
वामदेवः-----
<26.7.54>एवं पृष्टस्तदा तेन मुनिना मुनिपुङ्गवाः।
इदं प्रोचुर्महात्मानं "वक्ष्यामः श्रूयता"मिति ।।54।।
ऋषयः------
<26.7.55>"वयमत्रागता ब्रह्मन्! द्रष्टुं देवं जनार्दनम्।
नारायणं विशालाक्षं जगत्त्रातारमीश्वरम् ।।55।।
<26.7.56>स एव देवः सर्वात्मा ध्येयो नः पुरुषोत्तमः।
न चान्यो विद्यते ध्येयः तमृते जगतां पतिम् ।।56।।
<26.7.57>तमजं सर्वलोकेशं कृष्णमच्युतमीश्वरम्।
पूज्यं वरेण्यं वरदं चिन्तयिष्यामहे वयम् ।।57।।
<26.7.58>त्वं चापि सर्वलोकेशं द्रष्टाऽसि कमलेक्षणम्।
सिंहाख्ये पर्वते ह्यस्मिन् गच्छ प्राचीं दिशं मुने" ।।58।।
वामदेवः-----
<26.7.59>एवमुक्तो मुनिश्रेष्ठैः नृपश्रेष्ठ! महामुनिः।
अभ्यनुज्ञाय तान् सर्वान् जगाम मुनिसत्तमः ।।59।।
<26.7.60>चिन्तयन् मनसा देवं विश्वकर्तारमीश्वरम्।
चिन्तयन् मनसा वाक्यं पितामहसमीरितम्।
जगाम सहसा दिव्यां दिशं प्राचीं गिरेस्ततः ।।60।।
<26.7.61>नृपेन्द्र! दृष्ट्वा भगवानगस्त्यः तस्योत्तरं भागमदृष्टपूर्वम्।
तत्राऽप्यदृष्ट्वा भगवन्तमाद्यं द्रष्टुं तदा पूर्वमथ प्रपेदे ।।61।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये अगस्त्यादीनां
सनत्कुमारादिदर्शनपूर्वकं भगवदन्वेषणप्रकारादिवर्णनं
नाम षड्विंशोऽध्यायः।
-------------
aअथ सप्तविंशोऽध्यायः
-------------
%शेषाचलपूर्वदिशि अगस्त्यादीनां अद्भुतवस्तुदर्शनम्%
वामदेव------
<27.7.1>अथ पूर्वां समासाद्य दिशं तां मुनिभिः सह।
नारायणगिरेस्तस्य द्रुममण्डलभूषिताम् ।।1।।
<27.7.2>विचचार यथापूर्वं सहितस्तैः महात्मभिः।
ज्वलद्भास्करतेजोभिः मुनिभिः भावितात्मभिः ।।2।।
<27.7.3>सोऽपश्यद्गिरिश्रृङ्गाभान् वृक्षान् पुष्पफलान्वितान्।
लम्बमानमहाशाखान् मृदुपल्लवशोभितान् ।।3।।
<27.7.4>समदान् वारणांश्चापि सुदंष्ट्रान् सम्यगुच्छ्रितान्।
नदतश्च महासिंहान् वराहांश्चापि धावतः ।।4।।
<27.7.5>गुह्यकिन्नरगन्धर्वान् यक्षाद्यांश्च सहस्रशः।
एवमाद्यैस्तथाऽन्यैश्च शोभितं पर्वतोत्तमम् ।।5।।
<27.7.6>पश्यन् समन्तात् सोऽगस्त्यो विचचार महामुनिः।
विचरन् स ददर्शाथ मुनिप्रवरसेवितम् ।।6।।
<27.7.7>महाभागं महापुण्यं मृगयूथपसेवितम्।
नित्यपुष्पफलोपेतैः द्रुमैः नानाविधैर्युतम् ।।7।।
<27.7.8>मत्तद्विपानुचरितं मत्तकोकिलनादितम्।
महद्भिरुच्छ्रितैः श्रृङ्गैः शोभनीयैश्च शोभितम् ।।8।।
<27.7.9>भयङ्करमहानागं महासानुं शुभावहम्।
उच्छ्रितामलकैश्चापि फलवद्भिश्च शोभितम् ।।9।।
<27.7.10>एवंभूतं महाश्चर्यं महाभोगं महागिरिम्।
अगस्त्यो भगवान् पूर्वं दिशं दृष्ट्वा महागिरेः ।।10।।
<27.7.11>दृष्ट्वाऽथ विचचाराशु मुनिभिस्तैः समावृतः।
तत्राद्भुतमथापश्यत् अगस्त्यः पर्वतोत्तमे ।।11।।
<27.7.12>बिलं पातालसङ्काशं पश्यतां भयदायकम्।
महान्तं भैरवं दुर्गं अदृष्टं मानुषैर्नृप! ।।12।।
<27.7.13>निपतेयुर्हि पश्यन्तो नरा यस्मिन् विमोहिताः।
तद्बिलं समुपागम्य मुनीन्द्रो मुनिभिः सह ।।13।।
<27.7.14>पुनः पुनर्निरीक्ष्येदं वचः प्रोवाच घर्मवित्।
अगस्त्यः------
"दृष्ट्वा चैवंविधं सर्वे निपतिष्यन्ति मोहिताः ।।14।।
<27.7.15>मानवा द्रष्टुकामा ये समारूढा महीधरम्।
तस्मादेतन्न चैवास्मिन् भवेदिति मतिर्मम ।।15।।
<27.7.16>बिलन्तु भैरवं घोरं मृत्युवक्तसमं गिरौ"।
वामदेवः-----
इत्युक्तो मुनिना तेन सद्यश्चान्तर्हितं बिलम् ।।16।।
<27.7.17>अगस्त्यस्य प्रभावेण तदद्भुतमिवाभवत्।
अन्तर्हिते ततस्तस्मिन् विचचार महामुनिः ।।17।।
<27.7.18>तस्मिन्नेव महापुण्ये वेङ्कटाख्ये महागिरौ।
ददर्शाऽथ चिरं तत्र शतशाखसमुच्छ्रितम् ।।18।।
<27.7.19>सालं महाद्भुताकारं मृदुपल्लवशोभितम्।
महान्तं महदाश्चर्यं अदृष्टं भुवि मानुषैः ।।19।।
<27.7.20>तं दृष्ट्वा शीघ्रमभ्यायात् अगस्त्योऽथ महामुनिः।
तत्समीपे महातेजाः विस्मयाविष्टचेतनः ।।20।।
%भगवतः साक्षात्काराथः तपः कुर्वन्तं इन्द्रं प्रति अगस्त्योक्तिः%
<27.7.21>तमुपेत्य महासालं मुनीन्द्रो मुनिभिः सह।
ददर्श शक्रमासीनं देवं साक्षात् शचीपतिम् ।।21।।
<27.7.22>सालस्कन्धप्रतीकाशबाहुशाखं शतक्रतुम्।
रत्नजालोपसम्पन्नमकुटेन विराजितम् ।।22।।
<27.7.23>वैडूर्यमणिरत्नाढ्यकुण्डलाभ्यामलङ्कृतम्।
वज्रपाणिं विशालाक्षं नारायणमिवापरम् ।।23।।
<27.7.24>सूर्याग्नियमवस्वश्विकुबेरवरुणैस्तथा।
गन्धर्वकिन्नरेन्द्रैश्च शुभकुण्डलधारिभिः ।।24।।
<27.7.25>दिव्याम्बरधरैरारात् सर्वैः समुपसेवितम्।
तं दृष्ट्वा नृपते! देवं देवजन्मा महामुनिः ।।25।।
<27.7.26>तत्समीपं महातेजाः सहसा व्यगमत्तदा।
संवृतं देवदेवेशं त्रैलोक्याधिपतिं द्विजः ।।26।।
<27.7.27>मुनिभिः सहितः सर्वैः अपूजयदरिन्दमम्।
देवाश्च सह शक्रेण मुनीन्द्रानागतांस्तथा ।।27।।
<27.7.28>अपूजयन् यथान्यायं स्थिताः सार्धं महात्मना।
तानुवाच सशक्रांस्तु ततोऽगस्त्यः सुरोत्तमान् ।।28।।
<27.7.29>"श्रूयता"मिति चाभाष्य प्रहसन्निव विस्मितः।
"किमर्थमागता यूयं किं वा चिन्तयताऽमराः! ।।29।।
<27.7.30>आश्चर्यञ्चापि किं दृष्टमस्मिन् पुण्ये नगोत्तमे?।
एतत् सत्येन मे सर्वं आख्येयं त्रिदशेश्वराः! ।।30।।
<27.7.31>श्रोतुमिच्छाम्यहं त्वेतत् युष्माभिः समुदीरितम्"।
वामदेवः-----
अगस्त्येनैवमुक्तास्ते सर्व एव ततः सुराः ।।31।।
<27.7.32>एवमूचुः मुनिश्रेष्ठं नृपश्रेष्ठाऽसुरार्दनाः।
"द्रष्टुकामा वयं देवं पद्मपत्रनिभेक्षणम् ।।32।।
<27.7.33>नारायणं हृषीकेशं शङ्खचक्रगदाधरम्।
प्रणतार्तिहरं विष्णुं ब्रह्मभूतं सनातनम् ।।33।।
<27.7.34>समागम्य मुनिश्रेष्ठ! सिंहाख्येऽस्मिन् नगोत्तमे।
जयं देवजिदादीनां दैत्येन्द्राणां महौजसाम् ।।34।।
<27.7.35>चिन्तयन्तस्तमेवेशं सृष्टिस्थित्यन्तकारणम्"।
एवमूचुर्मुनिश्रेष्ठं नृप श्रेष्ठाऽसुरार्दनाः ।।35।।
<27.7.36>स एव भगवान् देवो ध्येयोऽस्माभिः सनातनः।
नान्यो ध्येयः पुमान् यस्मात् विद्यते न च दृश्यते ।।36।।
<27.7.37>स एव भगवान् देवो ध्येयोऽस्माभिः सनातनः
नान्यो ध्येयः पुमान् यस्मात् विद्यते न च दृश्यते।।37।।
<27.7.38>दृष्टं चापि महार्श्चर्यं पर्वतेऽस्मिन् महामुने!।
शुभे तु दक्षिणे भागे गिरेरस्य महीयसः ।।38।।
%इन्द्रोक्त्या अगस्त्यस्य शङ्करदर्शनाय आग्नेयदिग्गमनम्%
<27.7.39>आश्चर्यभूतो भगवान् वसतीशः सदा हरः।
पिनाकपाणिः सर्वात्मा सर्वशक्तिः महेश्वरः ।।39।।
<27.7.40>स्वैरेव संवृतो भूतैः किन्नरोरगराक्षसैः।
तत्र गत्वा च देवेशं द्रष्टाऽसि भुवनेश्वरम् ।।40।।
<27.7.41>ऋषिं दुर्वाससञ्चापि नन्दिकेश्वरमेव च।
ये चाप्यनुचरास्तत्र तांश्चापि द्रक्ष्यसे मुने! ।।41।।
<27.7.42>इतो गच्छ हितं देशं यत्राऽऽस्ते भगवान् हरः।
एभिर्मुनिवरैः सार्धं मा विलम्बितुमर्हसि" ।।42।।
वामदेवः-----
<27.7.43>एव मुक्तः सुरैः सर्वैः अभ्यनुज्ञाय तान् सुरान्।
पूर्वभागं विहायाथ भूधरस्य महीयसः ।।43।।
<27.7.44>अभ्यगात् दक्षिणं भागं तैरेव मुनिभिः सह।
स पश्यन् दक्षिणं भागं अगस्त्योऽथ महामुनिः ।।44।।
<27.7.45>आग्नेय्यां दिशि चाद्राक्षीदिदमाश्चर्यमुत्तमम्।
शङ्खचक्रगदाशार्ङ्गशक्तिलाङ्गलनन्दकान् ।।45।।
<27.7.46>स्वैः स्वैः रूपैः समासीनान् भ्राजयद्भिः दिशो दश।
दिव्याभरणमालाभिः भ्राजितान् शुभदर्शनान् ।।46।।
<27.7.47>रक्तचन्दनदिग्धाङ्गान् दिव्यमाल्योपशोभितान्।
शुभनूपुरकेयूरकटकादिविभूषितान् ।।47।।
<27.7.48>अथ तान् सहसा दृष्ट्वा मुनीन्द्रः पुरुषर्षभान्।
तेषां समीपमागम्य सहर्षो मुनिभिः सह ।।48।।
<27.7.49>अगस्त्यश्च ततस्तेभ्यः प्रणाममकरोत्तदा।
प्रणम्य प्राञ्जलिर्भूत्वा प्रस्तूय च महाद्युतिः ।।49।।
<27.7.50>कृत्वा प्रदक्षिणञ्चापि दक्षिणां दिशमभ्यगात्।
अत्यन्तं विस्मयाऽऽविष्टो मुनिभिः सहितो नृपे! ।।50।।
<27.7.51>आदिदेवं महादेवं द्रष्टुकामो जनार्दनम्।
आश्चर्यरूपमारुह्य प्रेक्षमाणो महागिरिम् ।।51।।
<27.7.52>परीत्य तस्यैव नगोत्तमस्य प्राचीं दिशं देवगणाभिजुष्टाम्।
अवाप्य तस्यैव गिरेर्महात्मा तं दक्षिणं भागमसौ प्रपेदे ।।52।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये अगस्त्यस्य
शेषाचलवासीन्द्रादितपः प्रकारभगवद्दिव्यायुधदर्शनादिवर्णनं
नाम सप्तविंशोऽध्यायः।
-------------
अथ अष्टाविंशोऽध्यायः
-------------
%अगस्त्यकृतशेषाचलदक्षिणभागस्थशङ्करसेवाक्रमः%
वामदेवः------
<28.7.1>तस्याथ दक्षिणं भागं भूधरस्य महीयसः।
अवाप परया प्रीत्या मुनीन्द्रो मेघसन्निभम् ।।1।।
<28.7.2>शुभगुल्मलतागूढं नानापादपसङ्कुलम्।
मार्जारैः वानरैश्चापि गोपुच्छैश्च निषेवितम् ।।2।।
<28.7.3>फलवद्द्रुमखण्डैश्च पुष्पभारनिपीडितैः।
दर्शनीयतमैः दिव्यैः शोभितं शुभशाखिभिः ।।3।।
<28.7.4>भिन्नाञ्जनचयाकारं शिलाभिरुपशोभितम्।
हंससारसगृध्रैश्च शतपत्रैश्च शोभितम् ।।4।।
<28.7.5>शोभितं रमणीयैश्च चक्रवाकैः महास्वनैः।
नानाधातुसमाकीर्णं नानाप्रस्रवणाकुलम् ।।5।।
<28.7.6>गुह्यविद्याधराद्यैश्च सभार्यैः शुभदर्शनैः।
शोभितं शुभगन्धाढ्यं शुभमारुतसेवितम् ।।6।।
<28.7.7>गायद्भिः किन्नरैश्चापि गन्धर्वैश्च निषेवितम्।
प्रसादयद्भिः देवेशं कृष्णमक्लिष्टकारिणम् ।।7।।
<28.7.8>एवमत्यद्भुतं दिव्यं दक्षिणं भागमात्मवान्।
ददर्श मुनिशार्दूलः पर्वतस्य महीयसः ।।8।।
<28.7.9>तत्रापि नृपतेऽद्राक्षीत् पुष्पितं बहुशाखिनम्।
अत्युच्छ्रितं महाश्चर्यं दर्शनीयतमं नृप! ।।9।।
<28.7.10>अतीव शुभगन्धाढ्यं मृदुपल्लवशोभितम्।
वृक्षं महाद्भुतं दिव्यं यो न दृष्टः पुरातनैः ।।10।।
<28.7.11>तं दृष्ट्वा सहसाऽगस्त्यो ययौ शीघ्रतरं मुनिः।
मुनीन्द्रैः सहितः सर्वैः नरेन्द्रः सोऽतिविस्मितः ।।11।।
<28.7.12>तत्समीपं समागम्य कौतूहलसमन्वितः।
उदैक्षत महातेजाः तं वृक्षं बहुशाखिनम् ।।12।।
<28.7.13>तत्राऽऽसीनं ततोऽपश्यत् भगवन्तमुमापतिम्।
नेत्रैः रक्तैः समायुक्तं त्रिभिस्त्रिभिरिवाग्निभिः ।।13।।
<28.7.14>उदङ्मुखं महाश्चर्यजटामण्डलधारिणम्।
चतुर्भुजं महादेवं नीलकण्ठं पिनाकिनम् ।।14।।
<28.7.15>तरुणादित्यसङ्काशं ज्वलन्तं स्वेन तेजसा।
स्वेनैवं तेजसा देवं भासयन्तं दिशो दश ।।15।।
<28.7.16>कपिलाक्षं विशालाक्षं चार्वोष्ठं चारुवक्षसम्।
समुन्नततनुं सौम्यं सर्वलोकनमस्कृतम् ।।16।।
<28.7.17>नानामणिगणच्छन्नज्वलत्कुण्डलधारिणम्।
तैस्तैरनुचरैश्चापि नानारूपधरैस्तथा ।।17।।
<28.7.18>अनेकबाहुसाहस्रैः बलवद्भिः निषेवितम्।
नन्दिकेश्वरदुर्वासो-बाणाद्यैश्च निषेवितम् ।।18।।
<28.7.19>यक्षकिन्नरगन्धर्वैः दैवैश्चापि निषेवितम्।
हाहाहूहूभ्याञ्च तथा गन्धर्वाभ्यां निषेवितम् ।।19।।
<28.7.20>तैस्तैरभिष्टुतञ्चैव महादेवं महाद्युतिम्।
दृष्ट्वा शम्भुं तदाऽगस्त्यो ननाम शिरसा भुवि ।।20।।
<28.7.21>प्रणेमुः मुनयश्चापि भगवन्तं महेश्वरम्।
ब्रुवन्तो देवदेवेशं "प्रसीदे"ति पुनः पुनः ।।21।।
<28.7.22>प्रस्तूय तं महादेवं भगवन्तं महेश्वरम्।
उवाच च तदाऽगस्त्यः समासीनं महौजसम् ।।22।।
<28.7.23>नानारत्नविचित्रैश्च वलयैश्च विभूषितम्।
जाम्बूनदमयैश्चापि केयूरैः समलङ्कृतम्।
वरदं सर्वभूतानां सर्वदेवनमस्कृतम् ।।23।।
<28.7.24>"किं न मां भाषसे देव! त्वत्समीपमिहागतम्।
को वा ध्येयस्त्वया देवः कोऽस्मिन् वा निवसत्यहो!" ।।24।।
%सेवाकांक्षिणमगस्त्यं प्रति शङ्करोक्तिः%
वामदेवः-----
<28.7.25>एवमुक्तो महातेजा महादेवो महामुनिम्।
जलदस्वनगम्भीरवचसा वाक्यमब्रवीत् ।।25।।
शङ्करः------
<28.7.26>"परावरपतिर्देवो विश्वयोनिः जनार्दनः।
मया चान्यैश्च सर्वाऽत्मा ध्येयो नारायणो हरिः ।।26।।
<28.7.27>नान्यो ध्येयः पुमाँल्लोके दृश्यते न च विद्यते।
तमृते जगतां नाथं सर्वव्यापिनमीश्वरम् ।।27।।
<28.7.28>नारायणगिरावस्मिन् वसत्येष सनातनः।
नारायणो जगद्योनिः भगवान् पुरुषोत्तमः ।।28।।
<28.7.29>अस्मिन् न्यस्तं मनो यस्मात् मया सर्वेश्वरे हरौ।
तस्मात् समागतं त्वाऽहं नाभिभाषे न चान्यथा ।।29।।
<28.7.30>त्वञ्चापि तं विशालाक्षं जनानामीश्वरेश्वरम्।
शरण्यं सर्वभूतानां अनादिनिधनं हरिम् ।।30।।
<28.7.31>ज्वलन्मुकुटकेयूरकटकादिविभूषितम्।
मालया दिव्यया चापि वैजयन्त्या विराजितम् ।।31।।
<28.7.32>पतित्रिराजमारूढं द्रक्ष्यसे विश्वरूपिणम्।
ब्रह्मणाऽपि मया चात्र प्रोक्तमेतत् तवानघ! ।।32।।
<28.7.33>द्रष्टाऽसीति जगन्नाथं भवत्येतत् न संशयः।
अचिरेणैव कालेन भगवान् पुरुषोत्तमः ।।33।।
<28.7.34>करिष्यति स विश्वात्मा सान्निध्यं तव केशवः।
विचरस्व यथापूर्वं पर्वतेऽस्मिन् महामुने! ।।34।।
<28.7.35>मा विषादं कृथा ब्रह्मन्! तस्मिन् न्यस्तमना भव"।
एवमुक्तस्तु देवेन शम्भुना परमेष्ठिना ।।35।।
<28.7.36>पुनः पुनः प्रणम्येशं तस्मान्नैवाभ्ययान्मुनिः।
स्नेहान्वितो मुनिश्रेष्ठः तस्मिन् देवे पिनाकिनि ।।36।।
<28.7.37>पश्यतान्तु मुनीन्द्राणां अगस्त्यस्य तु पश्यतः।
सानुगः सहसा शम्भुः तत्रैवान्तरधीयत ।।37।।
<28.7.38>मुनयश्चापि तं देवं संस्तूय परमेश्वरम्।
प्रणम्य च मुनीन्द्रेण सह तेऽभ्यगमंस्तदा ।।38।।
<28.7.39>एवमेतन्महाश्चर्यं संवादं शम्भुना सह।
ऋषिभिर्विस्तृतं लोके ह्यगस्त्यस्य महात्मनः ।।39।।
<28.7.40>आख्यातं ते मया चापि मिथिलेश! महाद्भुतम्।
सर्वपापप्रशमनं किमन्यत् श्रोतुमिच्छसि ।।40।।
जनक-----
<28.7.41>"आश्चर्यमिदमाख्यानं कथितं मे महामुने!।
श्रुतञ्चापि मया सम्यक् प्रहृष्टेनान्तरात्मना ।।41।।
<28.7.42>ततः परं मुनीन्द्रोऽसौ अकरोत् किं महाद्युतिः।
एतदाचक्ष्व मे ब्रह्मन्! श्रोतुमिच्छा प्रवर्तते" ।।42।।
वामदेवः-----
<28.7.43>अगस्त्योऽथ महातेजाः प्रणिपत्य महेश्वरम्।
त्यक्त्वाऽथ दक्षिणं भागं नैर्ऋतीं दिशमास्थितः ।।43।।
<28.7.44>तं दक्षिणं भागमतीत्य भूपते! नारायणाद्रेः सह तैः मुनीश्वरैः।
अथोत्तमां दक्षिणपश्चिमां दिशं द्रष्टुं परेशं प्रययौ प्रतापवान् ।।44।।
अथ एकोनत्रिंशोऽध्यायः
--------------
%शेषाचलनैर्ऋतदिशि अगस्त्यादीनां विष्वक्सेनदर्शनम्%
वामदेवः------
<29.7.1>तां दिशं समनुप्राप्य नैर्ऋतीं भगवान् अथ।
मन्दराद्रिप्रतीकाशं शतशाखं महोच्छ्रितम् ।।1।।
<29.7.2>वटं महान्तमाश्चर्यं ददर्श स महामुनिः।
तस्य मूले समासीनं भगवन्तं सुरेश्वरम् ।।2।।
<29.7.3>शिलायामद्भुतायान्तु महत्यां दीप्ततेजसम्।
विष्वक्सेनं सुराध्यक्षं भगवन्न्यस्तमानसम् ।।3।।
<29.7.4>सर्वैरनुचरैश्चापि महेन्द्रसमविक्रमैः।
संवृतं बलिभिर्देवैः शतक्रतुमिवापरम् ।।4।।
<29.7.5>ग्रसन्तमिव चाकाशं भक्षयन्तमिव प्रजाः।
दैत्येन्द्रा बलवन्तस्तं परिवार्योपतस्थिरे ।।5।।
<29.7.6>शतशो दृष्टकर्माणो राक्षसाश्च भयावहाः।
गन्धर्वपतयश्चापि यक्षाश्चापि सहस्रशः ।।6।।
<29.7.7>तमासीनं महावीर्यं विष्वक्सेनं नराधिप!।
उपातिष्ठन्त ते सर्वे गृहीतविविधायुधाः ।।7।।
<29.7.8>भूतयूथानि चोग्राणि वैष्णवानि सहस्रशः।
मेरुमन्दरसङ्काशरूपवन्ति महान्ति च ।।8।।
<29.7.9>क्रुद्धानि यानि भूतानि निर्दहेयुरिमाः प्रजाः।
पिबेयुः सहसा सर्वान् उदधींश्चापि सर्वशः ।।9।।
<29.7.10>तानि चाऽऽवार्य तं देवं उपातिष्ठन्त सर्वशः।
एवमेतैस्तथान्यैश्च समेतैः तत्र भूधरे ।।10।।
<29.7.11>उपास्यमानं तं देवं प्रासतोमरपाणिभिः।
सुस्वरैः गायमानश्च गन्धर्वाः तस्य सन्निधौ ।।11।।
<29.7.12>जग्मुर्नारायणं देवं किन्नरेन्द्रास्तु सर्वशः।
गायन्त्यः सुस्वनाश्चापि नृत्यन्त्योऽप्सरसस्तथा ।।12।।
<29.7.13>विष्वक्सेनस्य देवस्य सन्निधौ तस्य धीमतः।
देवा ब्रह्मर्षयश्चापि सिद्धाश्चापि सहस्रशः ।।13।।
<29.7.14>उपतस्थुर्हि तं देवं नारायणमिवापरम्।
तं दृष्ट्वा विस्मयाऽऽविष्टो रोमाञ्चिततनुस्तदा ।।14।।
<29.7.15>अगस्त्यो मुनिशार्दूलः तत्समीपमुपेयिवान्।
तत्समीपमुपागम्य प्रणाममकरोद्भुवि ।।15।।
<29.7.16>व्याहरन् श्लक्ष्णया वाचा "प्रसीदे"ति पुनः पुनः।
प्रणेमुः मुनयश्चापि तमासीनं महाबलम् ।।16।।
<29.7.17>सुखासीनं महेष्वासं नारायणमिवापरम्।
शङ्खचक्रगदापाणिं अभयोद्यतपाणिकम् ।।17।।
<29.7.18>तानब्रवीन्महावीर्यो विष्वक्सेनो नराधिप!।
अगस्त्यप्रमुखान् सर्वान् ऋषीन् परपुरञ्जय! ।।18।।
%अगस्त्यादीन् प्रति विष्वक्सेनोक्तभगवद्दर्शनोपायः%
विष्वक्सेनः-----
<29.7.19>"युष्माभिर्भगवान् देवो विश्वरूपधरो हरिः।
अस्मिन्गिरौ महातेजा द्रष्टुं शक्यो हि सोऽव्ययः ।।19।।
<29.7.20>सर्ववेदोदितस्यास्य देवस्यानुचरा वयम्।
दृष्टवन्तोऽजितं पूर्वं समासीनं महौजसम् ।।20।।
<29.7.21>नारायणं सुराध्यक्षं शङ्खचक्रासिधारिणम्।
वसत्यस्मिन् स विश्वात्मा नारायणगिरौ द्विजाः! ।।21।।
<29.7.22>विचरध्वं यथापूर्वमस्मिन् पर्वतसत्तमे।
एतस्मिन् पर्वते दिव्ये प्रसादात् तस्य शार्ङ्गिणः ।।22।।
<29.7.23>अदृष्टरूपमाश्चर्यं दृष्टवन्तः पुरा वयम्।
तपस्तप्यन्ति ये चास्मिन् द्रष्टुकामास्तमीश्वरम् ।।23।।
<29.7.24>ददाति भगवांस्तेषां दर्शनं पुरुषोत्तमः।
यूयमप्यत्र चास्माभिः विमले पर्वतोत्तमे ।।24।।
<29.7.25>परमं तप आस्थाय भक्त्या परमया युताः।
चरताऽशेषभूतानामीश्वरे न्यस्तमानसाः।
विष्णौ ब्रह्मणि गोविन्दे जगद्धातरि केशवे" ।।25।।
वामदेवः-----
<29.7.26>एवमुक्त्वाऽथ भगवान् विष्वक्सेनः स वीर्यवान्।
अन्तर्दधे तदा देवः तत्रैव नृपते! प्रभुः ।।26।।
<29.7.27>सर्वैरनुचरैः सार्धं सर्वदेवनमस्कृतः।
पश्यतामेव सर्वेषां मुनीन्द्राणां महात्मनाम् ।।27।।
<29.7.28>मुनयश्चापि ते सर्वे सहसैव महाद्युतिम्।
प्रणम्य तं महात्मानं विष्वक्सेनं मुदा युताः ।।28।।
%अगस्त्यादीनां शेषाचलस्थविष्वक्सेनानुचरावलोकनम्%
<29.7.29>पुनश्चापि यथापूर्वं विचेरुरवनीपते!।
वेङ्कटाख्ये गिरौ तस्मिन् वृक्षखण्डविभूषिते ।।29।।
<29.7.30>गिरिमूर्ध्नि चरन्तस्ते मुनयः सर्व एव तु।
ददृशुस्तत्र रम्याणि शिखराणि महान्ति च ।।30।।
<29.7.31>पुष्पितद्रुमखण्डैश्च मण्डितानि सहस्रशः।
नीलजीमूतवर्णानि पाण्डुराभ्रनिभानि च ।।31।।
<29.7.32>देवदानवगन्धर्वयक्षकिंपुरुषैस्तथा।
गुह्यविद्याधराद्यैश्च सेवितानि महात्मभिः ।।32।।
<29.7.33>शिखरात् शिखरं गत्वा चरन्तस्ते महीपते!।
ददृशुः शिखरे रम्ये कस्मिंश्चिन्मुनयोऽमलाः ।।33।।
<29.7.34>समासीनान् महावीर्यान् महाबलनिभांस्तथा।
कामरूपधरान् घोरान् वायुवेगसमान् जवे ।।34।।
<29.7.35>मेरुमन्दरसङ्काशान् समवेगान् सहस्रशः।
किन्नरांश्चाणि गन्धर्वान् यक्षांश्चापि महासुरान् ।।35।।
<29.7.36>तान् दृष्ट्वा स मुनीन्द्रस्तु मुनीन्द्रानिदमब्रवीत्।
विस्मयोत्फुल्लनयनो विस्मयोत्फुल्ललोचनान् ।।36।।
अगस्त्यः-----
<29.7.37>"नूनमेतैः पुरा शक्रो बलवीर्यसमन्वितैः।
देवासुरमहायुद्धे दैतेयानजयद् द्विजाः! ।।37।।
<29.7.38>एते हि बलिनः सर्वे विचित्राद्भुतवाससः।
नानाप्रहरणोपेता दृश्यन्तेऽद्भुतरूपिणः ।।38।।
<29.7.39>एतान् दृष्ट्वाऽथ गच्छामो द्रष्टुमेतं महागिरिम्।
आलयं सर्वभूतानां ईश्वरस्याऽव्ययात्मनः" ।।39।।
वामदेवः-----
<29.7.40>इति निश्चित्य मनसा नरेन्द्र! मुनिभिर्वृतः।
तेषां समीपमभ्यायात् गन्धर्वाणां तरस्विनाम् ।।40।।
<29.7.41>तमायान्तं ततो दृष्ट्वा मुनीन्द्रं मिथिलेश्वर!।
उपतस्थुर्हि ते सर्वे ब्रह्माणं त्रिदशा इव ।।41।।
<29.7.42>प्रणेमुश्च महात्मानं तत्समीपमुपागमन्।
तानुवाच ततोऽगस्त्यो ब्रह्मर्षिः श्लक्ष्णया गिरा ।।42।।
अगस्त्यः-----
<29.7.43>"श्रूयता"मिति चाभाष्य मधुरं वदतां वरः।
"यूयं सर्वे महावीर्याः श्रुणुध्वं मधुरं वचः ।।43।।
<29.7.44>कस्य यूयं किमर्थं वा चरन्त इह पर्वते।
आश्चर्यं वा महात्मानो द्रष्टव्यं दृष्टमेव वा? ।।44।।
<29.7.45>एतद्यूयं समासेन सर्वमाख्यात तत्त्वतः।
पृच्छामि श्रोतुकामोऽहं युष्मान् सर्वान् समागतान्" ।।45।।
%अगस्त्यादीन् प्रति विष्वक्सेनपरिजनकृतस्वोदन्तज्ञापनम्%
गन्धर्वाद्याः-----
<29.7.46>एवं ब्रुवाणं ब्रह्मर्षि प्रोचुस्तं "श्रूयता"मिति।
"देवस्यानुचरास्तस्य वयं ब्रह्मन्! महात्मनः ।।46।।
<29.7.47>बलवीर्याभिजुष्टस्य विष्वक्सेनस्य धीमतः।
यः सर्वलोकनाथस्य मधुकैटभघातिनः ।।47।।
<29.7.48>हरेरनुचरस्तस्य वयं ब्रह्मन्! निदेशगाः।
उपतिष्ठन्ति यं सर्वे विष्यक्सेनं समाहिताः ।।48।।
<29.7.49>यद्वशे वर्तते विप्र! जगदेतच्चराचरम्।
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।।49।।
<29.7.50>मुनयो देवगन्धर्वा दैत्याः सिद्धाः तथोरगाः।
प्रणेमुः यं महावीर्यं नारायणमिवापरम् ।।50।।
<29.7.51>देवदेवेन चाऽज्ञप्तो ऋषभं योऽवधीत् पुरा।
दैत्येन्द्रं सुमहावीर्यं शक्रतुल्यपराक्रमम् ।।51।।
<29.7.52>देवासुरे महायुद्धे दारुणे रोमहर्षणे।
सूदिता येन दैत्येन्द्राः शतशोऽथ सहस्रशः ।।52।।
<29.7.53>सदा हि यो जगद्धातुः निदेशे परिवर्तते।
अचिन्त्यबलवीर्यौजाः विष्णुपादाब्जसंश्रयः ।।53।।
<29.7.54>संक्रुद्धः सहसा लोकान् हन्तुं शक्तः सवासवान्।
सयक्षनागगन्धर्वगुह्यकिन्नरराक्षसान् ।।54।।
<29.7.55>एवंप्रभावो यो देवो हरेरनुचरो बली।
विश्रुतः सर्वलोकेषु तस्यैवानुचरा वयम्" ।।55।।
वामदेवः------
<29.7.56>एवमुक्तस्तदा तैस्तु गन्धर्वाद्यैः नरेश्वर!।
प्रशशंस तदा देवं विष्वक्सेनं महामुनिः ।।56।।
<29.7.57>प्रणम्य च तदा देवं हरिं भक्या च तैः सह।
तपोबलसमायुक्तैः मुनिभिः भावितात्मभिः ।।57।।
<29.7.58>ताननुज्ञाप्य संहृष्टो गन्धर्वाद्यांस्तपस्विनः।
विचचार यथापूर्वं नारायणदिदृक्षया ।।58।।
%अगस्त्यादिकृतशेषाचलस्थानेकपुण्यतीर्थावलोकनम्%
<29.7.59>तस्मिन् गिरिवरे रम्ये वृषभाख्ये महीयसि।
गिरिमूर्धनि राजेन्द्र! विचरन् वै ततस्ततः ।।59।।
<29.7.60>ददर्श शतशो वृक्षान् पुष्पितान् पर्वतोपमान्।
शुभोदकवहाः शुद्धाः सरितश्चातिशोभनाः ।।60।।
<29.7.61>गुहाश्च विविधास्तत्र द्रुमषण्डविभूषिताः।
कन्दराणि च दिव्यानि दरीश्च प्रियदर्शनाः ।।61।।
<29.7.62>शिखराणि च मुख्यानि नीलमेघनिभानि च।
तटाकांश्च तथा दिव्यान् शोभितांश्च शुभैर्जलैः ।।62।।
<29.7.63>हंसकारण्डवाकीर्णान् सारसैश्चानुनादितान्।
जीवञ्जीवैश्च सारङ्गैश्च वारणैश्च सदामदैः ।।63।।
<29.7.64>राजद्भिश्चक्रवाकैश्च शकुन्तैरनुनादितान्।
एवमाद्यैस्तथान्यैश्च शोभितान् विमलोदकान् ।।64।।
<29.7.65>सरसीश्च तथा दिव्या नारायणमहागिरौ।
कुन्दैर्नीपैस्तथा सालैः अर्जुनैस्तिलकैस्तथा ।।65।।
<29.7.66>चम्पकाशोकपुन्नागकोविदारासनादिभिः।
तीरजैः द्रुमषण्डैश्च शोभितेषु सरःसु च ।।66।।
<29.7.67>प्रीत्या स्नात्वा तथा चक्रुः देवपूजां यथाविधि।
स गच्छन्नथ विप्रेन्द्रो नरेन्द्र! मुनिभिर्वृतः ।।67।।
<29.7.68>ददर्श पर्वते भूयो दर्शनीयतमान् मुनीन्।
शष्पाङ्कुरकृताहारान् हरिणान् वनचारिणः ।।68।।
<29.7.69>चरतः सर्वतो भूप! स्थलेषु मृगपोतकान्।
कुञ्जरान् मेघसङ्काशान् शुभदन्तविभूषितान् ।।69।।
<29.7.70>शिखराच्छिखरं शीघ्रं पततश्चापि वानरान्।
एवमाद्यैस्तथान्यैश्च शोभितो गिरिमूर्धनि ।।70।।
<29.7.71>विचचार तथाऽगस्त्यः चिरकालं नृपेश्वर!।
ऋषिभिः सहितः सर्वैः पितामहवचः स्मरन् ।।71।।
<29.7.72>दिदृक्षुर्देव देवेशं भगवन्तं सनातनम्।
अन्यानपश्यत् सोऽगस्त्यं तस्मिन्ननद्रौ जलाशयान् ।।72।।
<29.7.73>सरितश्च महापुण्यवैडूर्यविमलोदकाः।
पुष्करिण्यः शुभाश्चापि सरांसि विमलानि च ।।73।।
<29.7.74>सर्वेषु तेषु पुण्येषु तीर्थेषु मुनिसत्तमः।
स्नात्वा स्नात्वा जगन्नाथं अर्चयामास भक्तिमान् ।।74।।
%अगस्त्यादीनां कुमारधारस्नानम्%
<29.7.75>एकदा तु स धर्मात्मा विचरन् गिरिमूर्धनि।
कौमारीं महतीं धारां पतन्तीं ददृशे मुनिः ।।75।।
<29.7.76>अत्युच्चगिरिपृष्ठात्तु कार्तिकेयेन सेविताम्।
तां दृष्ट्वा विस्मयाऽऽविष्टः सर्वपापहरां शुभाम् ।।76।।
<29.7.77>देवर्षिसिद्धमनुजैः सेवितां पुण्यकाङ्क्षिभिः।
यत्र सा निपतत्युच्चात् शिखराद्विमलोदका ।।77।।
<29.7.78>तटाके विमले दिव्ये पवित्रे पापनाशने।
यस्मिन् वसति राजेन्द्र! शम्भुपुत्रः प्रतापवान् ।।78।।
<29.7.79>दारुणं तप आस्थाय प्रीतये मधुघातिनः।
देवसेनापतिः श्रीमान् सुब्रह्मण्योऽसुरार्दनः ।।79।।
<29.7.80>त्रिकालमर्चयन् विष्णुं श्रीनिवासं जगत्पतिम्।
तस्मिन् गत्वा मुनीन्द्रस्तु नरेन्द्र! मुनिभिः सह ।।80।।
<29.7.81>आचम्य प्रयतो भूत्वा ममज्ज सुसमाहितः।
सर्वपापहरे शुद्धे तीर्थे तस्मिन् सदाऽमले ।।81।।
<29.7.82>चिन्तयन् देवदेवेशं नारायणमनामयम्।
स्नात्वा मुनिवरस्तस्मिन् आचम्य च यथाविधि ।।82।।
<29.7.83>देवदेवं जगद्योनिं वासुदेवमधोक्षजम्।
अर्चयामास गोविन्दं दिव्यैः पुष्पैः सुगन्धिभिः ।।83।।
<29.7.84>ऋषयश्च महात्मानः स्नात्वा तस्मिन् महोदके।
अर्चयामासुखयग्रं देवदेवं जनार्दनम् ।।84।।
<29.7.85>समाधाय मनस्तस्मिन् ब्रह्मण्यमिततेजसि।
मनो निवेश्य जगतामीश्वरे पुरुषोत्तमे ।।85।।
<29.7.86>नारायणे जगद्धाम्नि सर्वपापहरे हरौ।
अथ तं वरदं विष्णुं सर्वलोकनमस्कृतम् ।।86।।
<29.7.87>प्रणेमुर्मुनिशार्दूलाः वेङ्कटाद्रिनिवासिनम्।
प्रणतार्तिहरं देवं कृष्णं सर्वेश्वरं हरिम् ।।87।।
<29.7.88>रमन्तं मायया सार्धं अर्चयित्वा सुरोत्तमम्।
यथापूर्वं मुनिश्रेष्ठः चचार गिरिमूर्धनि ।।88।।
<29.7.89>विचरंश्च ततस्तत्र तीर्थौघान् पापनाशनान्।
देवदानवगन्धर्वैः सिद्धचारणपन्नगैः ।।89।।
<29.7.90>ऋषिभिर्वालखिल्यैश्च सेवितं पर्वतोत्तमम्।
अगस्त्यो मुनिभिस्तत्र ददर्श विमलं गिरिम् ।।90।।
इति श्रीवामनपुराणे क्षेत्रकाण्डे श्रीवेङ्कटाचलमाहात्म्ये अगस्त्यादिमहर्षिकृतविष्वक्सेन-तत्पारिषदादिदर्शनं नाम
एकोनत्रिंशोऽध्यायः
-------------
अथ त्रिंशोऽध्यायः
-----------
%अथ श्रीवेङ्कटाचलस्थपुण्यतीर्थवर्णनम्%
जनकः------
<30.7.1>"मुनिना तेन दृष्टानां अगस्त्येन महात्मना।
नामानि तेषां तीर्थानां पर्वतेन्द्रनिवासिनाम् ।।1।।
<30.7.2>माहात्म्यं चापि सर्वेषां पापहानिं वदस्व मे।
यद्वा सम्प्राप्यते मर्त्यैः स्नात्वा तेषु फलं मुने! ।।2।।
<30.7.3>विस्तरेणैतदाश्चर्यं वक्तुमर्हस्यशेषतः।
श्रोतुकामो ह्यहं ब्रह्मन्!पृच्छामि त्वां तपोधन!" ।।3।।
वामदेवः------
<30.7.4>श्रूयतां नृपते! वक्ष्ये यत्पृष्टोऽहमिह त्वया।
तीर्थानां नामधेयानि माहात्म्यञ्च तथाऽद्भुतम् ।।4।।
<30.7.5>विस्तरात् नैतदाख्यातुं शक्यं वर्षशतैरपि।
सङ्क्षेपेण मया त्वेतत्कथ्यमानं निशामय ।।5।।
<30.7.6>"वाराहं वामनं सौम्यं दिव्यं पञ्चनदं तथा।
शिलातोयं महातीर्थं पाद्मं सौरं तथाऽपरम् ।।6।।
<30.7.7>पापनाशनमैन्द्रञ्च वायव्यं वारुणं तथा।
ब्रह्मतीर्थं तथाऽघघ्नम् आग्नेयं सर्वकामदम् ।।7।।
<30.7.8>पञ्चतीर्थं महापुण्यं सर्वलोकेषु पूजितम्।
गौरीतीर्थञ्च विख्यातम् आश्विनं पारमेश्वरम् ।।8।।
<30.7.9>चक्रतीर्थं महापुण्यं शङ्खतीर्थमतः परम्।
विजयं विमलञ्चापि शोकनाशनमेव च ।।9।।
<30.7.10>मात्स्यं कौर्मं तथा दिव्यं गारुडं पाण्डवं तथा।
मायामयं महातीर्थं काण्डवं काहलं तथा ।।10।।
<30.7.11>दाडिमं मधुरञ्चापि सर्वपापप्रणाशनम्।"
तीर्थान्येतानि पुण्यानि विद्यन्ते वेङ्कटाचले ।।11।।
%अथ कपिलतीर्थपश्चिमभागस्थपञ्चतीर्थमाहात्म्यम्%
जनकः-----
<30.7.12>"पञ्चतीर्थमिति प्रोक्तं यत्त्वया मुनिसत्तम!।
तन्मे ब्रूहि महाभाग! श्रोतुमिच्छामि तत्त्वतः" ।।12।।
वामदेवः-----
<30.7.13>कापिलं नाम यत्तीर्थं तस्य पश्चिमभागतः।
"पञ्चतीर्थं"मिति ख्यातं पावनं पुण्यवर्धनम् ।।13।।
<30.7.14>विप्रक्षत्रियविट्शूद्रा ये चान्त्याः पापयोनयः।
तेषां क्रमेण तीर्थानि पञ्चैतानि नरोत्तम! ।।14।।
<30.7.15>देवास्तत्र तपस्यन्ति पञ्चजात्यभिमानिनः।
वसन्ति कापिलं लिङ्गं पश्यन्तः परया मुदा ।।15।।
<30.7.16>वराहरूपिणं देवमञ्जनाद्रिनिवासिनम्।
अर्चयन्तः स्तुवन्तश्च सदा तद्भावभाविताः ।।16।।
<30.7.17>"उपरि प्रथमं तीर्थं ब्राह्मणानां शुभोदकम्।
सद्यः सिद्धिकरं तेषां स्नानपानजपादिभिः ।।17।।
<30.7.18>तस्याधस्तान्महातीर्थं क्षत्रियाणामभीष्टदम्।
अनन्तरञ्च वैश्यानां तीर्थमाशु फलप्रदम् ।।18।।
<30.7.19>तस्य त्वनन्तरं तीर्थं शूद्राणामघनाशनम्।
चतुर्णामप्यधस्तात्तु चण्डालानां च पापिनाम् ।।19।।
<30.7.20>तीर्थं पर्वतमूले तु सद्यः पापनिबर्हणम्।
वराहरूपी भगवन् विष्णुर्भक्तानुकम्पया ।।20।।
<30.7.21>तेषु पञ्चसु तीर्थेषु सान्निध्यं कुरुते सदा।
वर्णाश्रमाणामाचारवैकल्यं नाशयत्यहो!" ।।21।।
<30.7.22>तेषामन्यतमं तीर्थं सेवमानो नरो नृप!।
तांस्तांश्च समवाप्नोति कामांस्तीर्थप्रभावतः ।।22।।
<30.7.23>प्रसादात्तस्य देवस्य प्राप्नोति शुभमुत्तमम्।
तीर्थान्येतानि सम्भूय वर्तन्ते पर्वतोत्तमे ।।23।।
<30.7.24>नद्यः समस्ताः पापघ्न्यः तासां सङ्ख्या न विद्यते।
तथाऽपि श्रुणु वक्ष्यामि षट्षष्टिः कोटयस्तथा ।।24।।
<30.7.25>नारायणाऽचले तस्मिन् अञ्जनाख्ये नगोत्तमे।
देवर्षिसिद्धगन्धर्वयक्षराक्षराक्षसपन्नगैः ।।25।।
<30.7.26>गुह्यविद्याधरैश्चापि ह्यप्सरोभिः समन्ततः।
किन्नरैर्गरुडैश्चापि देवैर्देवाधिपैरपि ।।26।।
<30.7.27>एवमाद्यैस्तथाऽन्यैश्च सेविताः पुण्यकाङ्क्षिभिः।
तीर्थानि तेषां माहात्म्यं गदितुं नैव शक्यते ।।27।।
<30.7.28>यस्मिन् यस्मिन् गिरेः श्रृङ्गे वारि संदृश्यते शुभम्।
तदद्भुतं महापुण्यं तीर्थेभ्यः सम्भवं नृप! ।।28।।
<30.7.29>तेषु तेषु च तीर्थेषु स्नात्वा स्नात्वा बुधो जनः।
आभ्यन्तरविशुद्ध्यर्थं विचरेत् सुसमाहितः ।।29।।
वामदेवः-----
<30.7.30>पुनरत्र प्रवक्ष्यामि तीर्थानि मुनिसत्तम!।
यानि तानि तु सर्वाणि श्रृणुष्वैकमना विभो! ।।30।।
%अथ स्वामिपुष्करिण्यादिसर्वतीर्थमाहात्म्यवर्णनम्%
<30.7.31>पर्वतस्योत्तरे भागे पुण्यतीर्थानि मे श्रृणु।
सर्वदोषप्रशमनं गिरिरूपमतः परम् ।।31।।
<30.7.32>शालिवाहं तथा चान्यत् रोगघ्नं शान्तमेव च।
सर्वदुःखप्रशमनं कृष्णनिध्यानमेव च ।।32।।
<30.7.33>स्वामितीर्थं महापुण्यं सर्वपापप्रणाशनम्।
यस्य तीरे जगन्नाथो रमते रमया सह ।।33।।
<30.7.34>विश्रुतं सर्वलोकेषु विशेषेण नृपात्मज!।
पाण्डुराभ्रघनप्रख्यैः राजहंसैर्निषेवितम् ।।34।।
<30.7.35>कोकिलैश्च तथा मत्तैः चक्रवाकैश्च शोभनैः।
द्रुमैर्नानाविधैश्चापि पुष्पबारनिपीडितैः ।।35।।
<30.7.36>तोयार्थमापतद्भिश्च शैलेन्द्रसदृशैर्गजैः।
ऋक्षैः सिंहैर्वराहैश्च वृकैश्च हरिणैः शिवैः ।।36।।
<30.7.37>एवमाद्यैस्तथान्यैश्च लोलितं विमलोदकम्।
धनुः शतेन विस्तीर्णं चन्द्रकान्तामलोदकम् ।।37।।
<30.7.38>मुख्यान्येतानि राजेन्द्र! तीर्थानि कथितानि ते।
सर्वतीर्थानि कथितुं न शक्यं नृपसत्तम! ।।38।।
<30.7.39>उद्देशतस्तवोक्तानि नारायणमहीधरे।
या मया भवतः प्रोक्ता "स्वामिपुष्करिणी"शुभा ।।39।।
<30.7.40>तस्याः प्रभावमतुलं ससुरैरपि मानुषैः।
वक्तुं न शक्यते चापि यस्यास्तीरे हरिः स्वयम् ।।40।।
<30.7.41>रमते ह्यधिकं तस्मिन् नारायणगिरावपि।
यां गत्वा सर्वपापघ्नीं देवर्षिगणसेविताम् ।।41।।
<30.7.42>विश्रुतां सर्वलोकेषु पूजितां त्रिदशैरपि।
अनेकबहुसाहस्रैः पातकैरपि संवृतः ।।42।।
<30.7.43>नरस्तेभ्यः समस्तेभ्यः पापेभ्योऽपि प्रमुच्यते।
साक्षान्नारायणस्याद्रेः सर्वलोकविमोहिनी ।।43।।
<30.7.44>सर्वदोषप्रशमनी मायैषा परमेश्वरी।
वरिष्ठा सर्वतीर्थेभ्यः स्वामिपुष्करिणी नृप! ।।44।।
<30.7.45>ये नराः प्रातरुत्थाय "स्वामिपुष्करिणी"ति वै।
कीर्तयन्ति महात्मानः ते यान्ति परमां गतिम् ।।45।।
<30.7.46>तस्यां स्नात्वा च तद्वारि दृष्ट्वा च महदद्भुतम्।
सर्वपापविनिर्मक्ताः सर्वशोकविवर्जिताः ।।46।।
<30.7.47>विमानं दिव्यमारुह्य व्रजन्ति त्रिदशालयम्।
ये चाप्यस्यास्तथा वारि पिबन्ति मिथिलाधिप! ।।47।।
<30.7.48>अनेकबहुसाहस्रैः पातकैश्चापि संयुताः।
नरास्तेभ्यो विमुच्यन्ते पापेभ्यः पापकृत्तमाः ।।48।।
<30.7.49>मुच्यन्ते रोगिणो रोगात् मुच्यन्तेऽसुखिनोऽसुखात्।
मुच्यन्ते मोहमापन्नाः नरा मोहान्नराधिप! ।।49।।
<30.7.50>शोकसागरमापन्नाः मुच्यन्ते शोकसागरात्।
संसारदुःखतापार्ताः पुरुषा ध्वस्तमानसाः ।।50।।
<30.7.51>यां समाश्रित्य तद्बह्म प्राप्नुवन्ति सदाऽमलम्।
या पुरा देवदेवेन विष्णुना प्रभविष्णुना ।।51।।
<30.7.52>ब्रह्मणा लोकनाथेन प्रभुणाऽव्यक्तरूपिणा।
"गङ्गाद्यैः सकलैस्तीर्थैः सर्वपापप्रणाशनैः ।।52।।
<30.7.53>प्रोक्ता समे"ति देवेन मेघगम्भीरया गिरा।
श्रृण्वतां सर्वदेवानां ऋषीणाञ्च तथा नृप! ।।53।।
जनकः----
<30.7.54>कथं प्रोक्ता पुरा ब्रह्मन्! स्वामिपुष्करिणी शुभा।
गङ्गाद्यैः सकलैस्तीर्थैः समेति हरिणा पुरा ।।54।।
<30.7.55>एतद्ब्रह्मन् महाभाग! याथार्थ्येनाद्य शंस मे।
एतच्छ्रोतुमिहेच्छामि त्वत्तोऽहं मुनिपुङ्गव! ।।55।।
शतानन्दः-----
<30.7.56>एवं पृष्टस्तदा तेन जनकेन महात्मना।
मुनिः प्राह नरेन्द्रं तं "वक्ष्येऽहं श्रूयता"मिति ।।56।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये स्वामिपुष्करिण्यादिसर्वतीर्थमाहात्म्यवर्णनं नाम
त्रिंशोऽध्यायः
----------
अथैकत्रिंशोऽध्यायः
-------*------
%अथ शङ्खाख्यनृपवृत्तान्तः%
वामदेवः-----
<31.7.1>शङ्खो नाम पुरा राजा राजन्! आसीन्महाद्युतिः।
हैहयानां कुले जातः कर्मणा विश्रुतो भुवि ।।1।।
<31.7.2>श्रुतस्य बलिनो राज्ञः पुत्रः परपुरञ्जयः।
सोऽन्वशासन् महीं कृत्स्नां सशैलवनकाननाम् ।।2।।
<31.7.3>सोऽभवत् भगवद्भक्तः प्रह्लादेन समो भुविः।
गुणैः सर्वैः समायुक्तः श्रीमान् परमधार्मिकः ।।3।।
<31.7.4>सोऽयजत् सर्वभूतेशं अश्वमेदादिभिर्मखैः।
नारायणं जगन्नाथं प्रणतार्तिहरं हरिम् ।।4।।
<31.7.5>अददाद् भक्तिमान् देवे दक्षिणाश्च सहस्रशः।
सर्वेषु तेषु यज्ञेषु प्रीतये मधुघातिनः ।।5।।
<31.7.6>न चाद्राक्षीत्स तैर्यज्ञैः भगवन्तं सनातनम्।
नारायणं नृपाचिन्त्यं पुण्डरीकनिभेक्षणम् ।।6।।
<31.7.7>द्रष्टुं तमजरं देवं कृतवानपि तान् मखान्।
श्रद्धया परया युक्तो विविधैः भूरिदक्षिणैः ।।7।।
<31.7.8>सोऽभवद् दुःखसन्तप्तः ततोऽपश्यज्जनार्दनम्।
भक्तिभावेन मनसा चेष्ट्वा सर्वमखैरपि ।।8।।
%स्वामिपुष्करिण्या भगवदुक्तगङ्गाद्यशेषपुण्यतीर्थसाम्यम्%
<31.7.9>एकदा तु महात्मानं भूपते!भूपतिं विभुः।
अन्तर्हितो जगादैवं भगवान् पुरुषोत्तमः ।।9।।
<31.7.10>तस्य दुःखं समालोक्य वासुदेवो महीपते!।
श्रृण्वतां सर्वभूतानां मेघगम्भीरया गिरा ।।10।।
<31.7.11>"नारायणगिरौ मां त्वं द्रक्ष्यसे हे महीपते!।
भक्तिभावेन मनसा तपस्तप्त्वा सुदुश्चरम् ।।11।।
<31.7.12>तत्र पुष्करिणी दिव्या विमला पापहारिणी।
धनुः शतपरीणाहा वैडूर्यविमलोदका ।।12।।
<31.7.13>त्रैलोक्यविश्रुता पुण्या "स्वामिपुष्करिणी"ति वै।
गङ्गाद्यैः सकलैस्तीर्थैः सा समा विमलोदका ।।13।।
<31.7.14>तस्यां स्नात्वा भविष्यन्ति नराः पापविवर्जिताः।
तस्यास्तीरे महापुण्ये पुष्करिण्यां नृपात्मज! ।।14।।
<31.7.15>महता तपसा युक्तः तिष्ठ त्वं सुसमाहितः।
वत्सराणां सहस्रे तु समतीते महामुनिः ।।15।।
<31.7.16>आयास्यति महातेजाः अगस्त्यो मुनिभिः सह।
अनेकशतसाहस्रैः परीतस्तं महीधरम् ।।16।।
<31.7.17>द्रष्टुकामश्च मां विप्रो विचरन् गिरिमूर्धनि।
वहन् मयि परां भक्तिं सर्वब्रह्मविदां वरः ।।17।।
<31.7.18>आगतेऽथ मुनौ तस्मिन् अचिरेणैव मां नृप!।
द्रष्टाऽसि मत्प्रसादेन तेन सार्धं महात्मना ।।18।।
<31.7.19>त्वया न शोकः कर्तव्यो दास्ये तव यथेप्सितम्।
मा विषादं कृथा वीर! गच्छ त्वं तं महीधरम्" ।।19।।
वामदेवः-----
<31.7.20>एवं पुरा हि भगवान् गङ्गाद्यैः साम्यमादिशत्।
देवदेवो जगन्नाथः स्वामिपुष्करिणीं प्रति ।।20।।
%भगवदुक्तया शंखनृपकृतस्वामितीर्थतपःप्रकारः%
<31.7.21>शङ्खोऽपि नृपतिर्धीमान् गदितं तस्य शार्ङ्गिणः।
नारायणस्य देवस्य विष्णोरन्तर्हितस्य सः ।।21।।
<31.7.22>निशम्य मधुरं वाक्यं नरेन्द्रोऽथ नरेश्वर!।
अभिषिच्य सुतं वीरं महेन्द्रसमविक्रमम् ।।22।।
<31.7.23>सौम्यं पुरुषशार्दूलं वज्रपाणिमिवापरम्।
नारायणालयं दिव्यं नारायणगिरिं तदा ।।23।।
<31.7.24>अभ्यगात् द्रष्टुकामः स वासुदेवं नराधिप!।
तत्र गत्वा महीपालः स तेपे परमं तपः ।।24।।
<31.7.25>स्वामिपुष्करिणीतीरे यथोक्तं परमेष्ठिना।
विषयेभ्यः समस्तेभ्यः समाहृतमनोरथः ।।25।।
<31.7.26>निवेश्य च मनस्तस्मिन् परे ब्रह्मणि केशवे।
तपश्चरंश्च विश्वेशं अर्चयंश्च यथाविधि ।।26।।
<31.7.27>वत्सराणां सहस्रन्तु सोऽभवन्नियतात्मवान्।
एवमेषा महापुण्या स्वामिपुष्करिणी शुभा ।।27।।
<31.7.28>एनां पुरातनीं पुण्यां सेवमानो न सीदिति।
नरः समस्तपापैस्तु संयुक्तोऽपि नरेश्वर! ।।28।।
<31.7.29>यस्त्वेनां सेवते भक्त्या स गच्छेत्परमां गतिम्।
देवदेवप्रसादेन कृष्णस्य परमात्मनः ।।29।।
<31.7.30>सकामाश्चापि सेवन्ते ये नरा नियतेन्द्रियाः।
स्वामिपुष्करिणीमेनां तान् कामानाप्नुवन्ति हि ।।30।।
<31.7.31>ऋषयो वालखिल्याश्च सिद्धाश्चापि सहस्रशः।
अस्यां स्नात्वा जगन्नाथं अर्चयन्ति दिने दिने ।।31।।
<31.7.32>अस्यास्तीरं समागम्य गन्धर्वांश्च सहस्रशः।
प्रसादयन्तो देवेशं सुस्वरं बहु किन्नराः ।।32।।
<31.7.33>गायन्ति विविधैर्दिव्यैः कर्मभिस्तमहर्निशम्।
नृत्यन्त्यप्सरसश्चापि गायन्ति शुभलोचनाः ।।33।।
<31.7.34>एषा महाश्चर्यतमा महीपते! महीतले देवगणैरभिष्टुता।
नारायणाद्रिप्रवरं समाश्रिता नारायणेनाप्युदिता प्रियेति सा ।।34।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये स्वामिपुष्करिणीमाहात्म्यवर्णनं नाम एकत्रिँशोऽध्यायः।
-------------------
अथ द्वात्रिंशोऽध्यायः
--------------
%स्वामिपुष्करिणीतीर्थे भगवन्तमुद्दिश्य अगस्त्यादिकृततपश्चिन्ता%
वामदेवः------
<32.7.1>अगस्त्योऽथ मुनीन्द्रस्तु नरेन्द्र! मुनिभिः सह।
एतानि तीर्थानि मुनिः स्वामिपुष्करिणीं विना ।।1।।
<32.7.2>मनः प्रह्लादजननीं दृष्ट्वा हर्षमुपागमत्।
तेषु तेषु च सर्वेषु तीर्थेषु शुभवारिषु ।।2।।
<32.7.3>स्नात्वा स्नात्वा प्रणम्येशं अर्चयामास केशवम्।
मुनयश्चापि ते सर्वे परां प्रीतिमुपागताः ।।3।।
<32.7.4>दृष्ट्वा तीर्थानि पुण्यानि शतशोऽथ सहस्रशः।
ते चापि तेषु तेष्वेवं स्नात्वा स्नात्वा द्विजोत्तमाः ।।4।।
<32.7.5>अर्चयामासुखयग्रा भगवन्तं सनातनम्।
अथ तै. सहितै सर्वैः अगस्त्यो नियतात्मवान्।।5।।
<32.7.6>अर्चयित्वा जगन्नाथं अभ्यगात्पुरुषोत्तमम्।
द्रष्टुकामो महीपाल! भूतभव्यभवत्प्रभुम् ।।6।।
<32.7.7>आदिदेवं विशालाक्षं कृष्णमक्लिष्टकारिणम्।
मुनीन्द्रः परमायत्तो विचरन् गिरिमूर्धनि ।।7।।
<32.7.8>कालेन महता चापि नाद्राक्षीत् पुरुषोत्तमम्।
स्रष्टारमीश्वरं देवं सर्वलोकपरायणम् ।।8।।
<32.7.9>दुःखेन महताऽऽविष्टो मुनीन्द्रो मुनिभिः सह।
निषसाद ततो भूप! कस्मिंश्चित् गिरिगह्वरे ।।9।।
<32.7.10>भूधरं सर्वतः पश्यन् "किमेत"दिति चिन्तयन्।
यत्पुरा ब्रह्मणा प्रोक्तं "द्रष्टाऽसी"ति सुरेश्वरम् ।।10।।
<32.7.11>तञ्चापि संस्मरन् वाक्यं निषसाद सुदुखितः।
ऋषयश्चापि दुःखार्ता ह्यपश्यन्तः सुरेश्वरम् ।।11।।
<32.7.12>परिवार्य मुनीन्द्रंतं निषेदुरवनीपते!।
राजंस्तेषां मुनीन्द्राणां चरतां तत्र भूधरे ।।12।।
<32.7.13>वेङ्कटाख्येऽभ्यगात्पुण्ये वर्षाणामधिकं शतम्।
ततस्तेषूपविष्टेषु मुनीन्द्रेषु महीधरे ।।13।।
%भगवत्सेवार्थं वेङ्कटाचलं प्रति गुरुशुक्राद्यागमनम्%
<32.7.14>आजग्मुः शिखरे तस्मिन् द्रुमखण्डविभूषिते।
बृहस्पतिश्च भगवान् शुक्रश्चापि तथाऽत्मवान् ।।14।।
<32.7.15>तथा च भगवद्भक्तो राजोपरिचरो वसुः।
सान्निध्यं कुरुते यस्य सदा कृष्णो महीपते! ।।15।।
<32.7.16>यः पुरा विप्रशापेन पातालतलपातितः।
उद्धृतो हरिणा तस्मात् संसारगहनादिव ।।16।।
अनकः------
<32.7.17>"कथं स विप्रशापेन पातालतलपातितः?।
उद्धृतो हरिणा कस्मात् संसारगहनादिव? ।।17।।
<32.7.18>एतन्मुने! महाश्चर्यं श्रोतुमिच्छाम्यशेषतः।
नारायणाश्रितत्वेन प्रसादसुमुखो वद" ।।18।।
शतानन्दः-----
<32.7.19>इत्थं निशम्य वचनं जनकस्य मुनिस्तदा।
वामदेवो "महीपाल! श्रूयता"मिति चाब्रवीत् ।।19।।
वामदेवः----
<32.7.20>"इदं चोवाच भगवान् सर्वशास्त्रविशारदः।
पुण्यमेतन्महाश्चर्यं श्रुत्वा चैवावधारय ।।20।।
<32.7.21>वासुदेवाश्रयं पुण्यं इतिहासं पुरातनम्।
ऋषयश्च पुरा राजन् सेन्द्राश्च त्रिदिवौकसः ।।21।।
<32.7.22>तं देशं प्रस्थिताः सर्वे यत्रोपरिचरो वसुः।
धर्मसंशयमापन्ना द्रष्टुं तं वसुधाधिपम् ।।22।।
%उपरिचरवसुवृत्तान्तः%
<32.7.23>अत्रान्तरे समायातः सोऽयं मार्गवशाद्वसुः।
अभिजग्मुश्च तं देवा ऋषयश्च तदा वसुम् ।।23।।
<32.7.24>तानागतांस्ततो दृष्ट्वा देवान् ब्रह्मर्षिभिः सह।
पूजयामास धर्मात्मा समुत्थाय वरासनात् ।।24।।
<32.7.25>सम्पूज्य तान् यथान्यायं प्रणम्य च कृताञ्जलिः।
सकौतुकं समाविष्टः प्राह चेदं वचो नृप! ।।25।।
<32.7.26>"कृतार्थोऽस्मि महाभागा यद्यूयं मम चान्तिकम्।
आगतास्त्रिषु लोकेषु पूजिता वेदपारगाः ।।26।।
<32.7.27>एष्वासनेषु सर्वेषु विशन्तु च यथाविधि।
प्रसीदन्तु भवन्तोऽत्र देवा ब्रह्मर्षयोऽमलाः!" ।।27।।
<32.7.28>इत्युक्त्वा प्रददौ तेषां आसनानि महान्ति वै।
मणिकाञ्चनाचित्राणि दीप्यमानान्यनेकशः ।।28।।
<32.7.29>मुनीन्द्राणाञ्च सर्वेषां त्रिदशानाञ्च धर्मवित्।
तेषु तेषूपविष्टेषु देवेषु मुनिभिः सह ।।29।।
<32.7.30>कृताञ्जलिर्मुदा युक्तः पप्रच्छाथ स चेदिराट्।
"किमर्थमागता यूयं किं कार्यं भवतां मया?।
एतत्सर्वं समासेन त्वाख्यात मुनिसत्तमाः!" ।।30।।
%उपरिचरवसुं प्रति महर्षिकृतप्रश्नप्रकारः%
वामदेवः-----
<32.7.31>इत्युक्ता वसुना दृष्टा मुनीन्द्रास्ते सुरैः सह।
धर्मसंशयमापन्ना आचख्युस्तस्य भूपते ।।31।।
<32.7.32>"धर्मसंशयमापन्ना वयं सर्वे समागताः।
धर्मतत्त्वं परिप्रष्टुं छिन्धि नो धर्मसंशयम् ।।32।।
<32.7.33>भो राजन्! केन यष्टव्यं सद्भि किं पशुनाऽथवा।
औषधैरेव यष्टव्यं? तदेतद्वद तत्त्वतः ।।33।।
<32.7.34>एनं नः संशयं छिन्धि प्रमाणं नो भवान् मतः"।
इत्येवमुक्तः स वसु कृताञ्जलिरभाषत ।।34।।
<32.7.35>"कस्य वै को मतः पक्षौ ब्रूत सत्यं द्विजोत्तमाः"।
इत्युक्ता ऋषयः प्रोचुः पक्षौ द्वौ च पृथक् पृथक् ।।35।।
<32.7.36>धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप!।
पशुपक्षस्तु देवानां मतो राजन्! वदस्व नः" ।।36।।
<32.7.37>निशम्य वचनं तेषां नृपेन्द्रो वसुरात्मवान्।
प्रश्नमेतं समाधित्सुः मनस्येवमचिन्तयत् ।।37।।
<32.7.38>"महर्षिदेवतामध्ये पूर्वं पूज्या हि देवताः।
ततो मयाऽद्य सङ्ग्राह्यः पक्षोऽत्र मरुता"मिति ।।38।।
<32.7.39>देवानान्तु मतं ज्ञात्वा वसुस्तत्पक्षसंश्रयात्।
""छागेनैव तु यष्टव्यम्"इत्यूचुरमरास्तु यत्।
एवमेवैतत् इत्याह नान्यथे"ति नरोत्तम!।।39।।
%महर्षिशापेन उपरिचरवसोः पातालकुहरप्राप्तिः%
<32.7.40>तेनोक्तं वचनं श्रुत्वा वसुना रक्तवीक्षणाः।
मुनीन्द्रास्ते तु सङ्क्रुद्धाः प्रोचुरेवं वचो नृपम् ।।40।।
<32.7.41>"यदि त्वयोक्तः परमो धर्मो न स्यात्परन्तप!।
रसातलतलं घोरं विविशेथा ह्यकामतः ।।41।।
<32.7.42>यदि स्यात्परमो धर्मः त्वयोद्दिष्टो नरेश्वर!।
वयमेवाद्य तद्धोरं प्रविशेम रसातलम् ।।42।।
<32.7.43>विधाता भगवान् देवः सर्वात्मा परमेश्वरः।
नारायणः स भगवान् कृष्णः कमललोचनः ।।43।।
<32.7.44>स एतदेव देवेशो वेत्त्येष मधुसूदनः।
न वेदान्यः पुमाँल्लोके वेदैतद्वा पितामहः ।।44।।
<32.7.45>वेद देववरः साक्षात् शङ्करो वा पुरान्तकः।
यं विदुः सर्वभूतानां संहर्तेति पुराविदः" ।।45।।
<32.7.46>एवमुक्ते ततस्तैस्तु निपपात स चेदिराट्।
अनिच्छन्नेव भूपाल! घोरदुर्गे रसातले ।।46।।
<32.7.47>भावयन् हृदि देवेशं त्रातारं मधुघातिनम्।
भक्त्या परमया युक्तः कृष्णमक्लिष्टकारिणम् ।।47।।
<32.7.48>पतमानं ततो वायुः विचरन् वै तदा बिले।
दधौ परमया प्रीत्या भक्तोऽयमिति शार्ङ्गिणः ।।48।।
<32.7.49>वहन्नेव शनैर्देवो वायुस्तं चेदिपुङ्गवम्।
प्रवेशयामास तदा पातालं दैत्यसेवितम् ।।49।।
<32.7.50>प्रविष्टः स नरेन्द्रोऽथ चेदिराट् विश्रुतो भुवि।
मनस्यच्युतमीशेशं कृत्वा सर्वेश्वरं हरिम् ।।50।।
<32.7.51>वासुदेवं सुराध्यक्षं शङ्खचक्रगदाधरम्।
स्थितिसंयमकर्तारं कृष्णमक्लिकारिणम् ।।51।।
<32.7.52>नारायणं समस्तानां लोकानां प्रभुमीश्वरम्।
द्वादशाक्षरमैवेकं परं मन्त्रं जजाप ह ।।52।।
<32.7.53>सर्वेन्द्रियाणि संयम्य भक्त्या परमया युतः।
विषादं नागमद्धोरं प्रविष्टोऽपि रसातलम् ।।53।।
%भगवत्प्रेरितचक्रकृतवसुहननोद्युक्तासुकवधप्रकारः%
<32.7.54>शोकं मोहं भयञ्चापि नागमत् पृथिवीपतिः।
प्रविष्टमथ तं दृष्ट्वा चेदिराजं जिघांसवः ।।54।।
<32.7.55>पूर्ववैरं स्मरन्तस्तु दैतेयाः शस्त्रपाणयः।
आजग्मुः सङ्घशस्तत्र शतशोऽथ सहस्रशः ।।55।।
<32.7.56>महाबला महावीर्या महादंष्ट्रा महौजसः।
ते समेत्य महात्मानं चेदिराजं महाभुजम् ।।56।।
<32.7.57>निजघ्नुः सहसा तैस्तैरस्त्रैः शस्त्रैस्तरस्विनः।
न शेकुस्तं महात्मानं हन्तुं दैतेयदानवाः ।।57।।
<32.7.58>ब्राह्माद्यैरस्त्रजालैश्च शस्त्रैश्चापि सुदारुणैः।
चक्रं भगवताऽऽज्ञप्तं रक्षार्थं तस्य धीमत ।।58।।
<32.7.59>आगतं तत्र पाताले दुर्दर्शं तद्दुरासदम्।
चक्राग्नौ दैत्यनिर्मुक्तशस्त्राण्यस्त्राणि भूपते! ।।59।।
<32.7.60>लयं यातानि सर्वाणि पतङ्गा इव पावके।
अथ ते पापकर्माणो दैतेया दानवास्तदा ।।60।।
<32.7.61>जग्मुर्यथागतं सर्वे स्वालयात् मिथिलेश्वर!।
वसुश्चापि स राजर्षिः चिन्तयन् मधुसूदनम् ।।61।।
<32.7.62>इष्टाभिर्वाग्भिरीशेशं तुष्टाव पुरुषोत्तमम्।
भगवानपि विज्ञाय चेदिराजं रसातले ।।62।।
%वस्वानयनाय पातालबिलं प्रति भगवत्कृतगरुडप्रेषणम्%
<32.7.63>पतितं विप्रशापेन सर्वेशः सर्वभावनः।
परः परात्मा पुरुषः परमात्मा सनातनः ।।63।।
<32.7.64>अव्यक्तरूपो विश्वात्मा विष्णुर्नारायणः स्वयम्।
नागेन्द्रशयने रम्ये शयानो मधुसूदनः ।।64।।
<32.7.65>भक्तानुकम्पी देवेशः क्षीरार्णवनिकेतनः।
वैनतेयं जगन्नाथः सस्मार शुभलोचनः ।।65।।
<32.7.66>संस्मृतो गरुडस्तेन विनतानन्दनस्ततः।
शीघ्रमेव हरेस्तस्य पार्श्वमभ्यागमत्तदा ।।66।।
<32.7.67>आगतं तं गरुत्मन्तं समीक्ष्य वसुधाधिप!।
मेघगम्भीरया वाचा प्रोवाचेदं प्रजापतिः ।।67।।
श्रीभगवान्------
<32.7.68>"वैनतेय! स राजर्षिर्वसुर्नित्यं मम प्रियः।
विप्रशापभयाद्घोरे पाताले पतितः किल ।।68।।
<32.7.69>पतितोऽपि स पाताले भक्त्या परमया युतः।
मामेव भजते नित्यं मय्यावेश्य मनोगतिम् ।।69।।
<32.7.70>तमानयस्व भूपालं गरुत्मन्! वचनान्मम।
तस्मादुद्धृत्य पातालात् स्वदेशं प्रापयाव्ययम् ।।70।।
<32.7.71>क्षिप्रं त्वं गच्छ राजर्षिः मद्भक्तोयत्र हि स्थितः।
नैवमर्हति भूपालः स वसुः गरुडामलः" ।।71।।
वामदेवः------
<32.7.72>इत्युक्तो गरुडस्तेन हरिणा परमेष्ठिना।
"तथे"त्युक्त्वा ततः शीघ्रं अभ्यगाद्वै रसातलम् ।।72।।
<32.7.73>भूप! प्रविशतस्तस्य पातालन्तु तरस्विनः।
गरुडस्योग्रवेगस्य पक्षवातेन वेगतः ।।73।।
<32.7.74>आहताः शतशो नेशुः पन्नगेन्द्रा रसातले।
पातालवासिनश्चापि दैतेयाः शतशस्तथा ।।74।।
<32.7.75>तद्भयाञ्च महावीर्या निपेतुः शतशस्ततः।
चुक्षुभुः सागराश्चापि पर्वताश्च चकम्पिरे ।।75।।
<32.7.76>समूला न्यपतन् वृक्षा भग्नस्कन्धाः समुच्छ्रिताः।
परित्यज्य तदाऽऽकाशं खेचराः प्रययुर्दिवम् ।।76।।
<32.7.77>अन्तर्गत्वाऽथ पाताले गरुत्मान् विनतासुतः।
ददर्श तं समासीनं चेदिराजं महापतिम् ।।77।।
<32.7.78>भगवन्तं जगन्नाथं स्तुवन्तं पुरुषोत्तमम्।
गरुत्मन्तं ततो दृष्ट्वा सहसा वसुरुत्त्थितः ।।78।।
<32.7.79>धृताञ्जलिर्महातेजाः पूजयामास भक्तिमान्।
गरुडश्चापि भूपालं सम्पूज्येदमथाब्रवीत्।
स्मयन्निव महावीर्यो हर्षयन्निव तं वसुम् ।।79।।
<32.7.80>"श्रूयतां भूपते! वाक्यं कृष्णसस्याक्लिष्टकारिणः।
सृष्टिसंयमनेशस्य विष्णोरमिततेजसः ।।80।।
<32.7.81>"आनयस्व वसं भक्तं रसातलतलं गतम्।
स्तुवन्तं मां समावेश्य मय्येव मतिमुत्तमाम्" ।।81।।
<32.7.82>इत्युक्तो लोकनाथेन तवानयनकर्मणि।
आगतोऽहं महीपाल! समारोह ममोपरि" ।।82।।
वामदेवः-----
<32.7.83>वैनतेयेन तेनैव प्रोक्तः स पृथिवीपतिः।
उवाच परया प्रीत्या गरुत्मन्तं वसुर्नृपः ।।83।।
<32.7.84>"तव पृष्ठं समारोढुं न चेच्छामि शुभेक्षण!।
यत्रारोहति गोविन्दः कृष्णः शुभविलोचनः ।।84।।
<32.7.85>नाथश्च जगतां धाता यस्मिंश्चक्रगदाधरः।
आरोहति मया तस्मिन् आस्थातुं नैव चोचितम्" ।।85।।
वामदेवः------
<32.7.86>इत्युक्तो गरुडस्तेन चेदिराजेन धीमता।
"तवानुरूपं वचनमुक्त"मित्यब्रवीत्ततः ।।86।।
<32.7.87>इत्युक्त्वा तं तथाभूतं गरुत्मान् पन्नगाशनः।
बाहुभ्यां सम्परिष्वज्य प्राह चैनं पुन पुनः ।।87।।
<32.7.88>"उत्पपाताशु वेगेन बाहुभ्यां परिगृह्यताम्"।
महाजवो महावीर्यो महादंष्ट्रो महामनाः ।।88।।
<32.7.89>तत उत्पततस्तस्य गरुडस्य तरस्विनः।
पक्षवातेन सन्त्रस्ताः पातालतलवासिनः ।।89।।
<32.7.90>महोरगा महावीर्याः प्रययुः सर्वतो दिशम्।
दैतेया दानवाश्चापि राक्षसाश्च सहस्रशः ।।90।।
<32.7.91>दिशो दश समाजग्मुः कृष्णागमनशङ्कया।
पातालं समतीत्याथ वैनतेयः प्रतापवान् ।।91।।
<32.7.92>स्वदेशं प्रापयामास तं वसुं चेदिपुङ्गवम्।
हस्ताभ्यां भुवि निक्षिप्य तं वसुं गरुडस्तदा ।।92।।
<32.7.93>"अत्रैव स्थीयतां राजन्!" इत्युक्त्वा प्रययौ बली।
वसुश्चापि स राजर्षिः स्वराज्यं प्राप्य भूपतिः ।।93।।
<32.7.94>बुभुजे सकलान् कामान् शशास च वसुन्धराम्।
विष्णोरेव प्रसादेन सर्वभूतनिवासिनः ।।94।।
<32.7.95>जगद्धातुरनन्तस्य पश्चात् मुक्तिमवाप्तवान्"।
एवमेतत्पुरावृत्तं कथितं ते नृपोत्तम ।।95।।
<32.7.96>नारायणाश्रितं पुण्यं यः पठेत् भक्तिमान् नरः।
प्रणम्याच्युतमीशेशं स याति परमां गतिम् ।।96।।
<32.7.97>नारायणेतिहासं यः श्रृणोति श्रावयिष्यति।
श्रद्धया भगवद्भक्तिं प्राप्नोति स नराधिप! ।।97।।
<32.7.98>मुच्यन्ते ते नराः सद्यो दुष्कृतैः सकलैर्नृप!।
उद्ध्रियन्ते च संसारात् पातालाञ्चेदिराडिव ।।98।।
<32.7.99>विभुना वासुदेवेन कृष्णेनैव दयालुना।
हरिणा लोकनाथेन सर्वकामप्रदायिना ।।99।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये उपरिचरवसुउपाख्यानं नाम द्वात्रिंशोऽध्यायः।
---------------------
अथं त्रयस्त्रिंशोऽध्यायः
---------------
%शंखादीनां भगवद्दिव्यमङ्गलविग्रहसेवा%
वामदेवः------
<33.7.1>ततस्ते त्रय आश्चर्यं गिरेस्तत्र समाययुः।
शिखरं मेरुसङ्काशं नानाधातुविभूषितम् ।।1।।
<33.7.2>श्रिया परमया युक्तं भासयन्तः स्वतेजसा।
शिखरेण च येनैव पर्वतः स विराजितः।
यस्मिंश्चापि समासीना मुनयः शतशो नृप! ।।2।।
<33.7.3>अगस्त्यप्रमुखाः सर्वे भास्करोपमतेजसः।
आगत्य सहसा भूप! दीप्यमाना इवाग्नयः ।।3।।
<33.7.4>भासयन्तो दिशः सर्वाः तेजोभिर्भास्करोपमाः।
अगस्त्यप्रमुखान् विप्रान् सर्वांस्तान् ददृशुस्तदा ।।4।।
<33.7.5>निषण्णांस्तस्य शिखरे विषण्णान् भृशदुखितान्।
तानागतांस्ततो दृष्ट्वा ह्यादित्यानपरानिव ।।5।।
<33.7.6>समुत्तस्थुर्द्विजास्तत्र निषण्णा ये नगोत्तमे।
पूजयन्ति स्म तान् सर्वान् अगस्त्यप्रमुखांस्तथा ।।6।।
<33.7.7>सङ्गत्य मुनिभिः सर्वैः त्रयस्तेऽथ महौजसः।
प्रोचुः परमसंहृष्टा नादयन्तो दिशो दश ।।7।।
<33.7.8>"शुभा व्युष्टा निशाऽस्माकं शुभाश्च तिथयोऽमलाः।
युष्माभिः सङ्गता यस्मात् वयं ब्रह्मर्षिसत्तमाः! ।।8।।
<33.7.9>किमर्थमागता यूयं पर्वतेऽस्मिन् महीयसि।
विषण्णाश्च किमर्थं वा कं वा द्रष्टुमिहागताः? ।।9।।
<33.7.10>एतन्मुनिवरा यूयं अस्माकं पृच्छतां द्विजाः।
सर्वमाख्यात तत्त्वेन श्रोतुमिच्छामहे वयम्" ।।10।।
<33.7.11>एवं मुनिवरास्तैस्तु सम्यक् पृष्टा महात्मभिः।
"श्रूयता"मिति चाभाष्य प्रोचुस्ते मिथिलेश्वर! ।।11।।
ऋषयः-----
<33.7.12>शङ्खचक्रधरं देवं पीतवाससमच्युतम्।
नारायणगिरावस्मिन् वसन्तं पुरुषोत्तमम् ।।12।।
<33.7.13>ईशितारं समस्तस्य स्रष्टारं जगतोऽव्ययम्।
तं वयं शुभदातारं द्रष्टुकामाः समागताः ।।13।।
<33.7.14>न च दृष्टो जगन्नाथो विचरद्भिः समन्ततः।
कालेन महता चापि विषण्णास्तेन ते वयम् ।।14।।
<33.7.15>अदृश्यमाने गोविन्दे हरावव्यक्तजन्मनि।
शोकेन महताऽऽविष्टा भृशमुद्विग्नमानसाः ।।15।।
<33.7.16>विषण्णाश्च शुभे ह्यस्मिन् शिखरे धातुमण्डिते"।
एवमुक्ते मुनीन्द्रैस्तु ततस्तैः जनकामराः।
मुनीन्द्राः तान् समाभाष्य प्रोचुस्ते "श्रुयता"मिति ।।16।।
वस्वादयः-----
<33.7.17>"शङ्खो नाम महीपालो हैहयाधिपतिः प्रभुः।
आसीत् श्रुतस्य तनयः सत्पथे निष्ठितः शुभे ।।17।।
<33.7.18>स्वामिपुष्करिणीतीरे स च राजाऽर्चयन् हरिम्।
तपश्चरति राजेन्द्र! तस्य राज्ञो जनार्दनः ।।18।।
<33.7.19>सान्निध्यं कुरुते देवो भगवानिति विश्रुतम्।
सोऽयं समागतः कालो यस्मिन् काले जनार्दनः ।।19।।
<33.7.20>शङ्खेन दृश्यते राजन्! विश्वरूपधरो हरिः।
तान्तु गच्छामहे पुण्यां स्वामिपुष्करिणीं शुभाम् ।।20।।
<33.7.21>सर्वकामप्रदां शुद्धां सेवितां त्रिदशैरपि।
तत्र गत्वा वयञ्चापि द्रक्ष्यामः पुरुषोत्तमम् ।।21।।
<33.7.22>सर्वकामप्रदातारं सर्वेशं सर्वभावनम्।
तस्माद्यूयं वयं चापि गच्छाम द्विजसत्तमाः! ।।22।।
<33.7.23>नात्र स्थेयं क्षणमपि त्वर्यतां त्वर्यतामिति"।
इत्युक्तेऽथ तदा भूप! वस्वाद्यैस्तैः महात्मभिः ।।23।।
<33.7.24>संहृष्टमनसः सर्वे बभूवुः द्विजसत्तमाः।
प्रोचुश्च "शीघ्रमेवास्मात् गम्यतां गम्यता"मिति ।।24।।
<33.7.25>गतमोहा महात्मानो गतशोका गतज्वराः।
मुनयोऽथ ययुः सर्वे वस्वाद्यैः सहिता नृप! ।।25।।
<33.7.26>स्वामिपुष्करिणीतीर्थं मुनीनां गणसेविताम्।
गच्छन्तस्तेऽथ संहृष्टाः प्रोचुरेवं परस्परम्।
नरेन्द्र! मुनिशार्दूला वीक्षमाणा महीधरम् ।।26।।
<33.7.27>"अयं किल जगद्धातुः वासुदेवस्य शार्ङ्गिणः।
भूधरो बहुवृक्षाढ्यः सदा प्रियतमो भुवि ।।27।।
<33.7.28>एनं समाश्रिताः पुण्यं मुनयश्च पुरातनाः।
पुरातनं सुराध्यक्षं दृष्टवन्तः किलाव्ययम् ।।28।।
<33.7.29>भक्ताश्चापि जगद्धातुः स्तुवन्तः पुरुषोत्तमम्।
एनमारुह्य शैलेन्द्र द्रक्ष्यन्ति पुरुषाः किल ।।29।।
<33.7.30>स्थानेभ्यश्च समस्तेभ्यः तस्येशस्य महात्मनः।
अयं गिरिः महान् दिव्यः सम्यक् प्रियतरः किल ।।30।।
<33.7.31>"नारायणाद्रि"रित्येतत् नामैव वदति स्वयम्।
नारायणस्य स्थानेषु नैतस्मात् विद्यते परम् ।।31।।
<33.7.32>एवंविधानि वाक्यानि ब्रुवन्तस्ते द्विजोत्तमाः।
ययुस्ते सर्वतस्तत्र शतशो मिथिलेश्वर! ।।32।।
<33.7.33>एतस्मिन्नन्तरे तत्र समाजग्मुः सहस्रशः।
तद्विज्ञाय ततः सिद्धाः श्वेतद्वीपनिवासिनः ।।33।।
<33.7.34>यैः प्राप्तं देवसारूप्यं प्रसादात् तस्य शार्ङ्गिणः।
नारायणस्य देवस्य हरेः क्षीरोदशायिनः ।।34।।
<33.7.35>सर्वदाऽनुगता ये वै प्रीणयन्ति जनार्दनम्।
क्षीरोदशायिनं देवं विश्वकर्तारमीश्वरम् ।।35।।
<33.7.36>ते सङ्गतास्तु तैः सर्वैः अगस्त्यप्रमुखैर्द्विजैः।
तपसा महता युक्तैः विचरद्भिर्महीधरम् ।।36।।
<33.7.37>अगस्त्यप्रमुखान् सर्वान् श्वेतद्वीपनिवासिनः।
हर्षेण महता युक्ता यथान्यायमपूजयन् ।।37।।
<33.7.38>ते चापि मुनयः सर्वे प्रहर्षोत्फुल्ललोचनाः।
तानागतांस्ततो दृष्ट्वा भास्करोपमतेजसः ।।38।।
<33.7.39>अपूजयन्महात्मानो यथान्यायमरिन्दमम्!।
सर्वे ते सङ्गतास्तत्र तैः सर्वैर्मुनिपुङ्गवैः ।।39।।
<33.7.40>ययुः परमया प्रीत्या श्वेतद्वीपनिवासिनः।
स्वामिपुष्करिणीतीरं देवासुरनिषेवितम् ।।40।।
<33.7.41>सर्वे मुनिवराश्चापि सिद्धाश्चापि सहस्रशः।
बृहस्पतिश्च भगवान् शुक्रश्चापि तथा वसुः ।।41।।
<33.7.42>स्वामिपुष्करिणीतीरं अवापुरवनीपते!।
सान्निध्यं कुरुते यत्र भगवान् भूतभावनः ।।42।।
<33.7.43>तत्र गत्वाऽथ ते सर्वे नापश्यन् पुरुषोत्तमम्।
नीलमेघप्रतीकाशं पद्मपत्रनिभेक्षणम् ।।43।।
<33.7.44>तत्रापश्यंस्ततो राजन्! तप्यन्तं सुमहत्तपः।
विष्णोराराधनार्थाय शङ्खञ्च नियतेन्द्रियम् ।।44।।
<33.7.45>तानागतांस्ततो दृष्ट्वा शङ्खोऽथ नृपतेः सुतः।
रोमाञ्चिताङ्गः सहसा परां प्रीतिमुपागमत् ।।45।।
<33.7.46>कृतकृत्यं तदात्मानं मेने नरवरात्मजः।
संस्मरन् पूर्वमेवोक्तं हरिणा हरिमेधसा ।।46।।
<33.7.47>"अथ तेषु मुनीन्द्रेषु द्रष्टाऽसी"ति वचः स्मरन्।
सहसोत्थाय तान् सर्वान् प्रणनाम नृपस्तदा ।।47।।
<33.7.48>व्याकुलीकृतसर्वाङ्गः ततः सम्भ्रान्तमानसः।
सिद्धांश्चापि तथा सर्वान् श्वेतद्वीपनिवासिनः ।।48।।
<33.7.49>वागीशञ्च तथा शुक्रं वसुञ्चापि महामतिम्।
कृताञ्जलिपुटो भूत्वा प्रणनाम च तान् नृप! ।।49।।
<33.7.50>अगस्त्यप्रमुखाश्चापि सिद्धाश्चापि सहस्रशः।
बृहस्पतिश्च भगवान् शुक्रश्चापि महामुनिः ।।50।।
<33.7.51>तथा च भगवद्भक्तो राजोपरिचरो वसुः।
श्रुतस्य तनयश्चापि शङ्खः परपुरञ्जयः ।।51।।
<33.7.52>एते सर्वे महात्मानः समवेता ह्यकल्मषाः।
स्वामिपुष्करिणीतीरे द्रष्टुकामा जनार्दनम् ।।52।।
<33.7.53>अपश्यन्तस्तु ते सर्वे गोविन्दं विभुमच्युतम्।
अनादिमध्यनिधनं सर्वभूतनिवासिनम् ।।53।।
<33.7.54>तपः परममास्थाय प्रयता नियतेन्द्रियाः।
चिन्तयन्तस्तु देवेशं तत्रातिष्ठंस्ततो नृप! ।।54।।
<33.7.55>तस्यामेव तदा सर्वे स्नात्वा पीत्वा मुदामन्विताः।
पुष्करिण्यां शुभायान्तु विमलायां दिने दिने ।।55।।
<33.7.56>अर्चयन्तो हृषीकेशं दिव्यैः पुष्पैः सुगन्धिभिः।
अकुर्वंस्ते तपो घोरं द्रष्टुमव्यक्तरूपिणम् ।।56।।
<33.7.57>त्रिरात्रमेवं भूपाल! व्यतिष्ठंस्ते दिवानिशम्।
ततो विमल आदित्ये चतुर्थेऽह्नि शुभे दिने ।।57।।
<33.7.58>तपसोऽन्ते च पुण्यर्क्षे विमले चाम्बरे शुभे।
तदा प्रसन्नः सर्वात्मा साक्षात् नारायणः स्वयम् ।।58।।
<33.7.59>आविर्बभूव भगवान् नृपते! पुरुषोत्तमः।
भ्राजयन् सर्वलोकेशः सर्वान् लोकान् स्वतेजसा ।।59।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये शङ्खादीनां
भगवत्सेवाप्राप्तिवर्णनं नाम
त्रयस्त्रिंशोऽध्यायः
अथ चतुस्त्रिंशोऽध्यायः
-------------
%आविर्भूतभगवद्दिव्यमङ्गलविग्रहवर्णनम्%
जनकः-----
<34.7.1>"कीदृशं वै हरेस्तस्य रूपमव्यक्तरूपिणः।
कियन्तो वा भुजास्तस्य कियन्ति वदनानि च ।।1।।
<34.7.2>कियन्तो वा धृतास्तेन तीक्ष्णाः प्रहरणास्तथा?।
ब्रूहि तद्रूपसंस्थानं विश्वमूर्तेर्हरेर्मुने!।
दृष्टवन्तो यथा सिद्धा मुनयश्च पुरातनाः।।2।।
शतानन्दः------
<34.7.3>जनकेनैवमुक्तस्तु वामदेवो महामुनिः।
"श्रूयतामि"त्यथाऽभाष्य जनकं तं वचोऽब्रवीत् ।।3।।
<34.7.4>वक्ष्येऽहं नृपते! सम्यक् श्रूयतामिदमादरात्।
यथाश्रुतं मयाऽगस्त्यात् मुनीन्द्रात् कुम्भजन्मनः ।।4।।
वामदेवः-----
<34.7.5>तद्रूपं वासुदेवस्य हरेरव्यक्तरूपिणः।
उद्यतादित्यसङ्काशैः नयनैः शोभितं शुभैः।
नानारत्नचितैश्चित्रैः किरीटैरुपशोभितम् ।।5।।
<34.7.6>प्रसन्नैर्बहुभिश्चापि वदनैरुपशोभितम्।
प्रवालमणिहेमाद्यैः चित्रितैः हेमकुण्डलैः ।।6।।
<34.7.7>नानावर्णैरनेकैश्च रुचिरैः समलङ्कृतम्।
दिव्याभरणजालैश्च नानारत्नविचित्रितैः ।।7।।
<34.7.8>अनेकशतसाहस्रैः शोभितं शुभलोचनैः।
कम्बुग्रीवं महोरस्कं महाबाहुं महाद्युतिम् ।।8।।
<34.7.9>सह्रस्रबाहुकं दिव्यं रत्नजालविभूषितम्।
आयताश्च सुपीनाश्च सुवृत्ताश्च भुजाः शुभाः ।।9।।
<34.7.10>नानाप्रहरणोपेताः नानाभूषणभूषिताः।
सालस्कन्धोपमाश्चापि भूषिता भूषणोत्तमैः ।।10।।
<34.7.11>श्यामाः पृथुतरा दिव्याः तरुणादित्यतेजसः।
तरुणाः स्निग्धवर्णाश्च सुखस्पर्शनखाङ्कुराः ।।11।।
<34.7.12>शुभरेखाः सुरत्ताश्च समा मृदुतरास्तथा।
दृश्यन्ते शतशस्तत्र राजन्! करिकरोपमाः ।।12।।
<34.7.13>यैरण्डमेतत् भूपाल! ससागरमहीधरम्।
सपातालतलं सर्वं सदेवासुरमानुषम् ।।13।।
<34.7.14>ससप्तलोकं सद्वीपं सर्वभूतसमाकुलम्।
रक्षितं बहुशो दिव्यैः निहता यैश्च दानवाः ।।14।।
<34.7.15>ये दुःखहानिदा नित्यं वैष्णवानां विशेषतः।
वसन्ति यान् समाश्रित्य दैत्येभ्यो निर्भयाः सुराः ।।15।।
<34.7.16>ते कराः सुरनाथस्य दृश्यमानाः चकाशिरे।
उदयादुद्यतस्तस्य भास्करस्य करा इव।।।16।।
<34.7.17>सद्रत्नजालकाकीर्णहारेणापि सुशोभितम्।
मेघकाले तडिन्मालाशोभितस्य महात्मनः ।।17।।
<34.7.18>मेघजालस्य वर्णेन सदृशं रुचिरं वपुः।
चारुरक्ततलोष्ठं तत् चारुरक्ततरेक्षणम् ।।18।।
<34.7.19>मृदुचारुकपोलैश्च कुण्डलैरुपशोभितम्।
शोभमानं ज्वलद्भिश्च ललाटफलकैरपि ।।19।।
<34.7.20>शोभमानैस्तथा चारुभ्रूचापैरुपशोभितम्।
ऐरावतकराकारचारुपीनशुभोरुकम् ।।20।।
<34.7.21>द्युतिमन्मणिरत्नाढ्यचलन्नूपुरशोभितम्।
काञ्चनेन विचित्रेण ब्रह्मसूत्रेण शोभितम् ।।21।।
<34.7.22>सहस्रादित्यसङ्काशमचिन्त्यं महदद्भुतम्।
मेरुमन्दरसङ्काशं नीलपर्वतसन्निभम् ।।22।।
<34.7.23>समुच्छ्रितोरसं सौम्यं समायतविलोचनम्।
दिव्यपीताम्बरधरं दिव्यगन्धानुलेपनम् ।।23।।
<34.7.24>दिव्यया वैजयन्त्या च सुस्कन्धगतया तथा।
चकाशे तद्यथा मेघो विद्युन्मालाविराजितः ।।24।।
<34.7.25>जाम्बूनदमयैर्दिव्यैः निःस्वनद्भिरनेकशः।
किङ्किणीजालसङ्घैश्च शोभनैः रुचिरप्रभैः ।।25।।
<34.7.26>स्वनद्भिर्मणिजालैश्च शोभयद्भिर्दिशो दश।
सुरक्तैर्बहुसाहस्रैः ज्वलद्भिर्भास्करोपमैः ।।26।।
<34.7.27>उद्यदिन्दुप्रतीकाशैः दिव्यैश्च नखमण्डलैः।
रक्तान्तैरुन्नतैश्चापि शोभमानं सदाम्बुजैः ।।27।।
<34.7.28>अङ्कुशध्वजचक्राब्जशङ्खवज्राङ्कितैस्तथा।
सुपादतलपद्मैश्च शोभितं वसुधाधिप! ।।28।।
<34.7.29>मुक्तादामभिरन्यैश्च वज्रसूर्यांशुसन्निभैः।
प्रभया द्योतमानैश्च शोभमानपदाम्बुजम् ।।29।।
<34.7.30>अनेकशतसाहस्रैः अङ्गुलीयकभूषणैः।
नानारत्नचितैश्चापि संशोभिकरशाखिभिः ।।30।।
<34.7.31>मूर्धजैः कुञ्चितैश्चापि नीलैः मृदुतरैस्तथा।
लम्बमानैर्विनिष्क्रान्तैः किरीटात् शुभदर्शनात् ।।31।।
<34.7.32>प्रच्छाद्यमानवदनं मेघैरिव निशाकरम्।
रत्नस्यूतेन सूत्रेण काञ्चनेन विराजितम् ।।32।।
<34.7.33>नानामणिनिबद्धेन शोभमानेन शोभितम्।
शोभितं दिव्यमालाभिः भूषितं पृथुलोचनम् ।।33।।
<34.7.34>नानाश्चर्यसमायुक्तं नानामणिगणान्वितम्।
समन्ताद्दीप्यमानं तत् भूरिणा स्वेन तेजसा ।।34।।
<34.7.35>आदित्य इव तेजोभिः उद्यतं तूदयाद्रितः।
तेजोभिः काञ्चनाभैश्च समन्तान्निर्गतैस्तथा ।।35।।
<34.7.36>जाज्वल्यमानं तद्रूपं चकाशेऽद्भुतदर्शनम्।
स्वभासा दुर्निरीक्ष्यं तत् मुनिभिश्च सुरैरपि ।।36।।
<34.7.37>तप्यते तेजसा तस्मात् निर्गतेन स्म भूरिणा।
ससुरासुरगन्धर्वं जगदेतत् चराचरम् ।।37।।
<34.7.38>ज्वलद्भिरर्कवर्णैश्च जाम्बूनदमयैस्तथा।
अनेकशतसाहस्रैः संयुक्तं हेमभूषणैः ।।38।।
<34.7.39>करेषु तेषु संयुक्ताः तीक्ष्णाः प्रहरणास्तथा।
ज्वलन्तश्च स्फुरन्तश्च मिथिलेश! चकाशिरे ।।39।।
<34.7.40>अचींषि तेभ्यो निष्पेतुः यैर्दिशो विमलीकृताः।
उदयाद्रिसमारूढात् सूर्यात् दीप्तांशवो यथा ।।40।।
<34.7.41>व्यालोला लोकनाथस्य प्रसन्नाः शुभदर्शनाः।
आयताः कृष्णरक्ताश्च भ्रूचापा दृष्टिमार्गणाः ।।41।।
<34.7.42>रक्तपद्मदलप्रख्याः कान्तिमन्तः सुवर्चसः।
श्रिया परमया युक्ताः पक्ष्मराजिविराजिताः ।।42।।
<34.7.43>येषां निपातैः दैतेयाः नेदुः भीताः सहस्रशः।
रक्षांसि दानवाश्चपि जग्मुः वैवस्वतक्षयम् ।।43।।
<34.7.44>दुर्लभञ्चापि देवत्वं प्राप्नुवन्ति नरा अपि।
अन्यांश्च दुर्लभान् कामान् मुक्तिञ्चापि सुदुर्लभाम् ।।44।।
<34.7.45>यान् द्रष्टुकामाः तद्भक्ताः शोचन्ति हि दिवानिशम्।
ते भूप! शतशो दिव्या राजन्ते रुचिरप्रभाः ।।45।।
<34.7.46>अनेकशतसाहस्राः कालाग्निसदृशप्रभाः।
नानाप्रहरणा घोराः संयुक्तास्तत्र बाहुषु ।।46।।
<34.7.47>भयदाः सुरशत्रूणां दैत्येन्द्राणां महौजसाम्।
सर्वगाः सर्वदेशेषु भक्तानामभयप्रदाः ।।47।।
<34.7.48>जाज्वल्यमानास्तेजोभिः रूक्षकैः सौम्यकैरपि।
अकुर्वन्निष्प्रभौ सद्यः चन्द्रसूर्यौ स्वरश्मिभिः ।।48।।
<34.7.49>तद्रूपमाश्चर्यमनेकवर्णं किरीटमालाभिरशेषभूर्तेः।
व्यराजताऽदित्य इवान्तकाले स्वरश्मिमालाभिरनेकरश्मिः ।।49।।
<34.7.50>तद्दीप्तवक्त्रं विमलं विशोकं जाज्वल्यमानं महता स्वतेजसा।
अशोभताऽद्यं वपुरद्भुतेक्षणं युगान्तकालाग्निरिव प्रदीप्तम् ।।50।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये भगवद्दिव्यमङ्गलविग्रहवर्णनं नाम
चतुस्त्रिंशोऽध्यायः।
-------------
अथ पञ्चत्रिंशोऽध्यायः
--------------
%आविर्भूतं भगवन्तं प्रति महर्षिकृतप्रणामादिक्रमः%
वामदेवः------
<35.7.1>एवंविधं हरिस्तेभ्योऽदर्शयद्भगवान् वपुः।
यन्न देवा न मुनयो नापि सिद्धा न चारणाः ।।1।।
<35.7.2>न योगिनो न गन्धर्वा नापि विद्याधराः अपि।
न च यक्षा न चाप्यन्ये वालखिल्याश्च तापसाः ।।2।।
<35.7.3>नोरगा नापि दैतेया नापि किम्पुरुषास्तथा।
दृष्टवन्तः पुरा राजन्! कृष्णस्य वपुरद्भुतम् ।।3।।
<35.7.4>ततस्तु मुनयो दिव्यं रूपं तद्विश्वतोमुखम्।
अनेकरत्नसञ्छिन्नकिरीटोज्ज्वलिताननम् ।।4।।
<35.7.5>व्यालोलमानैर्बहुभिः कुण्डलैः समलङ्कृतम्।
पिबन्त इव नेत्रैस्ते सङ्क्षोभस्तिमितैस्तदा ।।5।।
<35.7.6>ददृशुर्मुदिताः सर्वे नरेन्द्रानिमिषेक्षणाः।
"भृशमार्ताः स्म देवे" ति सहसा भुवि भूपते! ।।6।।
<35.7.7>निपेतुरथ ते सर्वे सम्भ्रान्तमनसोऽमलाः।
अथ दृष्ट्वा जगन्नाथं वेङ्कटाद्रिनिवासिनम् ।।7।।
<35.7.8>सहस्रशः समागम्य भक्तिभारावनामितैः।
शिरोभिरवनीपाल! प्रणेमुः सहसा भुवि ।।8।।
<35.7.9>बृहस्पतिरगस्त्यश्च शुक्रश्चापि वसुस्तथा।
भगवन्तं ततो दृष्ट्वा गरुडोपरि संस्थितम् ।।9।।
<35.7.10>जाम्बूनदाद्रिशिखरे नीलमेघमिवोत्थितम्।
भक्त्या प्रणेमुस्तं देवं वीक्षमाणा इतस्ततः ।।10।।
<35.7.11>उत्थायोत्थाय ते सर्वे भूयोभूयो नीरीक्षितम्।
"प्रसीदे"ति ब्रुवन्तस्तं प्रणेमुः बहुशो नृप! ।।11।।
%भगवदाविर्भावकाले देवताद्यापूरितशङ्खादिमङ्गलवाद्यक्रमः%
<35.7.12>एतस्मिन्नन्तरे खस्थैः शतशोऽथ सहस्रशः।
पाञ्चजन्योपमाः शङ्खाः दध्मिरे हेमभूषणाः ।।12।।
<35.7.13>अवाद्यन्त च दिव्यानि वाद्यानि बहुशोऽम्बरे।
मृदङ्गादीनि सर्वाणि हेमरत्नचितानि वै ।।13।।
<35.7.14>महता शङ्खनादेन वादित्राणां स्वनेन च।
जगदापूरितं सर्वं क्षुभिताश्चापि दानवाः ।।14।।
<35.7.15>निवसन्ति च ये तत्र नारायणगिरौ नृप!।
ते सर्वे सहसा हृष्टाः समुत्तस्थुश्च सङ्घशः ।।15।।
<35.7.16>तस्मिंञ्छब्दे श्रुते सर्वे सिंहपक्षिमृगास्तथा।
प्रसन्नतां ययुः सर्वे वेङ्कटाद्रिनिवासिनः ।।16।।
%भगवत्सेवार्थं वेङ्कटाचलं प्रति ब्रह्मरुद्राद्यागमनम्%
<35.7.17>श्रुत्वा तं शब्दमतुलं ब्रह्मा लोकपितामहः।
ज्ञात्वाऽथ वासुदेवं तं हरिं प्रत्यक्षतां गतम्।
आजगामाथ तत्पार्श्वं कृष्णस्याक्लिष्टकारिणः ।।17।।
<35.7.18>मुनीन्द्रैर्देवसङ्घैश्च गन्धर्वैश्च समावृतः।
भगवान् शङ्करश्चापि त्र्यम्बकस्त्रिपुरान्तकः ।।18।।
<35.7.19>ज्वलद्भास्करसङ्काशजटामण्डलशोभितः।
तेन शब्देन विज्ञाय सान्निध्यं हरिमेधसः ।।19।।
<35.7.20>अभ्यगादाशु तत्पार्श्वं द्रष्टुं तं वसुधाधिप!।
दुर्वाससा मुनीन्द्रेण नन्दिना च समं विभुः ।।20।।
<35.7.21>शक्रश्च त्रिदशश्रेष्ठः श्रुत्वा तं शब्दमद्भुतम्।
हरिं प्रत्यक्षतां यान्तं ज्ञात्वा देवं जनार्दनम् ।।21।।
<35.7.22>देवैः परिवृतः पार्श्वं ययावव्यक्तजन्मनः।
ततः शङ्खध्वनिं श्रुत्वा विष्वक्सेनः प्रतापवान् ।।22।।
<35.7.23>ज्ञात्वा प्रत्यक्षतां यान्तं नारायणमनामयम्।
सहसोत्थाय भूपाल! शीघ्रमेवाभ्यगात्तदा ।।23।।
<35.7.24>सप्तभिः सचिवैः सार्धं सकाशं शार्ङ्गधन्वनः।
अनुरक्तैर्महावीर्यैः प्रयतैः सुसमाहितैः ।।24।।
<35.7.25>सनन्दनादयश्चापि योगिनस्तेऽथ चक्रिणः।
पार्श्वमभ्याययुः श्रुत्वा तं शब्दं मिथिलेश्वर! ।।25।।
<35.7.26>सप्तर्षयश्च ये पूर्वं मयोक्ता मुनिसत्तमाः।
तेऽपि श्रुत्वा च तं शब्दं हरेः पार्श्वं ययुस्तदा ।।26।।
<35.7.27>यश्चापि मुनिभिर्दृष्टो वायव्यां दिशि भूभृतः।
शिलातले समासीनः पुरुषोऽद्भुतदर्शनः ।।27।।
<35.7.28>सोऽपि शङ्खध्वनिं श्रुत्वा भगवत्पार्श्वमाययौ।
ब्रह्मा प्रजापतिश्चापि भगवान् शम्भुरेव च ।।28।।
<35.7.29>विष्वक्सेनश्च भगवान् शक्रश्च त्रिदशाधिपः।
सप्तर्षयश्च मुनयः सनकाद्याश्च योगिनः ।।29।।
<35.7.30>वायव्यां दिशि यो दृष्टो मुनिभिः सोऽपि भूपते!।
एते सर्वे समागम्य सकाशं शार्ङ्गधन्वनः ।।30।।
<35.7.31>भक्त्या परमया युक्ताः राजन्! संहृष्टमानसाः।
ददृशुस्ते समारूढं वैनतेयं महाबलम् ।।31।।
<35.7.32>हरिं हेमाद्रिशिखरे नीलमेघमिव स्थितम्।
शिरोभिस्ते प्रणेमुस्तं विश्वेशं विश्वरूपिणम् ।।32।।
<35.7.33>"जय देव! जयेशे"ति वदन्तः सहसा भुवि।
सर्वे देवगणाश्चापि प्रणेमुः पृथुलोचनम् ।।33।।
<35.7.34>"प्रसीद देवदेवे"ति वदन्तस्ते पुनः पुनः।
ब्रह्माद्या देवताश्चापि मुनयश्च तपोधनाः ।।34।।
<35.7.35>सिद्धाश्चापि तथा सर्वे श्वेतद्वीपनिवासिनः।
एते सर्वे हरेस्तस्य रूपं परपुरञ्जय! ।।35।।
<35.7.36>द्रष्टुं नाशक्नुवन् नेत्रैः तेजसा तस्य तापिताः।
प्रतपन्तमिवादित्यं संहारसमये नराः।
न्यमीलयन्त नेत्राणि ब्रह्माद्यास्ते ततो नृप! ।।36।।
%ब्रह्मकृतभगवत्स्तुतिः%
<35.7.37>तेजसा पीडितास्तस्य देवदेवस्य शार्ङ्गिणः।
तुष्टावाथ तदा ब्रह्मा देवाधिपतिमव्ययम्।
पतत्रिराजमारूढं शिरोभिः प्रणिपत्य तम् ।।37।।
ब्रह्मोवाच------
<35.7.38>"नामामि त्वां जगन्नाथ! सहस्रवदनेक्षण!।
ज्वलत्किरीटसाहस्रधारिणं पुरुषोत्तमम् ।।38।।
<35.7.39>रुचिरैर्बहुभिर्दिव्यैः बाहुभिः परिघोपमैः।
संयुक्तं त्वां नमाम्याद्यं विश्वेशं विश्वतोमुखम् ।।39।।
<35.7.40>अणीयसामशेषाणां अणीयांसं सनातनम्।
भूतादीनां समस्तानां गरिष्ठञ्च गरीयसाम् ।।40।।
<35.7.41>नारायण! त्वां वरदं नमामि परमेश्वरम्।
योगिभिर्गम्यमान त्वां जनोलोकगतं विभुम् ।।41।।
<35.7.42>परं पुराणं पुरुषं नमामि सुरनायकम्।
प्रसीदतु भवान् विष्णो! रहितः प्राकृतैर्गुणैः ।।42।।
<35.7.43>शुद्धः पुमान् समस्तेभ्यो भूतेभ्यः सर्वसम्भवः।
साक्षिभूतः समस्तस्य जगतोऽस्य जगत्पते! ।।43।।
<35.7.44>नमामि त्वामहं नित्यं व्यालोलायतलोचनम्।
यः प्रोच्यते विशुद्धो हि सर्वेश इति केशव! ।।44।।
<35.7.45>तं त्वां नमाम्यशेषाणां आत्मानं सर्वदेहिनाम्।
समस्तकारणानां त्वं कारणं प्रभुरव्ययः ।।45।।
<35.7.46>ब्रह्मवित् योगिनाञ्छासि प्रजानाञ्च प्रजापतिः।
यं न जानन्ति मुनयो नापि देवा न दानवाः ।।46।।
<35.7.47>नाहं न शम्भुर्विष्ण्वाख्यं तत्पदं परमं भवान्।
इन्द्राद्याः शतशो यस्य देवाः त्रिभुवनेश्वराः ।।47।।
<35.7.48>द्रष्टुकामा न जानन्ति रूपमव्यक्तरूपिणः।
तदहं विमलं देव! शाश्वतं पदमव्ययम् ।।48।।
<35.7.49>न स्तोतुमीशो न च देव वक्तुं गुणांस्तवेशाच्युत! लोकनाथ!।
प्रसीद देवाधिपते! समस्तान् आलोकयास्मान् विमलैः सुनेत्रैः" ।।49।।
%शम्भुकृतभगवत्स्तुतिः%
<35.7.50>इत्युक्ते ब्रह्मणा तेन शम्भुरव्यक्तरूपिणम्।
अस्तौषीद्भगवन्तं तं अच्युतं पुरुषोत्तमम् ।।50।।
शम्भुः-------
<35.7.51>"परावरेशं पुरुषं दुष्टदैत्येन्द्रघातिनम्।
जगत्पालनकर्तारं जगदुत्पत्तिकारणम् ।।51।।
<35.7.52>प्रजापतीनां सर्वेषां स्रष्टारममलेक्षणम्।
भक्तार्तिहानिदातारं भक्तानां प्रियकामदम् ।।52।।
<35.7.53>त्वां नमामि हरे! दिव्यं परब्रह्मस्वरूपिणम्।
प्रधानपुंसोजयोः जगत्कारणभूतयोः ।।53।।
<35.7.54>नित्ययोर्व्यापिनोश्चापि प्रभुं त्वां कारणं परम्।
तं त्वां नमामि भूतेशं भूतानामपि कारणम् ।।54।।
<35.7.55>सूरयो यच्च पश्यन्ति परमं धाम शाश्वतम्।
तत्त्वमेतत्परं धाम परं ब्रह्म सनातनम् ।।55।।
<35.7.56>तं त्वां नमामि गोविन्दं सहस्रादित्यसन्निभम्।
मुनयस्त्वां समभ्यर्च्य बहुवर्षशतानि वै ।।56।।
<35.7.57>त्वत्प्रसादाच्च देवेश! त्वथ्येव लयमागताः।
पुरन्दरोऽपि देवेश! त्वामेव पुरुषोत्तम! ।।57।।
<35.7.58>अश्वमेधशतैरिष्ट्वा देवेन्द्रत्वमवाप्तवान्।
ब्रह्माऽश्वमेधसाहस्रैः त्वामिष्ट्वा जगदीश्वरम्।।58।।
<35.7.59>प्राप ब्रह्मपदं दिव्यं दुःखशोकविवर्जितम्।
अहमाराध्य देव! त्वां सर्वमेधे महाक्रतौ ।।59।।
<35.7.60>प्राप्तवान् देवदेवत्वं दुर्लभं सर्वदैवतैः।
त्वमेवेश! जगद्धाता त्वमेव जगतो गतिः ।।60।।
<35.7.61>स्रष्टा त्वमेव जगतः संहर्ता च त्वमेव हि।
तं त्वां नमामि शोकार्तिमोहहानिप्रदायिनम् ।।61।।
<35.7.62>प्रसीदेश! महामाय! सहस्रवदनेक्षण!।
सर्वलोकपते! नाथ! सर्वलोकपरायण! ।।62।।
<35.7.63>विष्णो! तवैतद्बहुबाहुशाखं तमालवर्णं बहुवक्त्रनेत्रम्।
ज्वलत्किरीटैः बहुरत्नवद्भिः जाज्वल्यमानं प्रणमामि रूपम्" ।।63।।
%महर्षिकृतभगवत्स्तुतिः%
वामदेवः-----
<35.7.64>एवं स्तुते जगन्नाथे शम्भुना परमेष्ठिना।
तुष्टुवुर्मुनयो भूप! प्रणम्यामलचेतसः ।।64।।
मुनयः------
<35.7.65>"नमः कृष्णाय हरये परस्मै ब्रह्मरूपिणे।
नमो भगवते तस्मै विष्णवे परमात्मने ।।65।।
<35.7.66>सर्वभूतशरण्याय सर्वज्ञाय नमो नमः।
वासुदेवाय भक्तानां सर्वकामप्रदायिने ।।66।।
<35.7.67>नमः पङ्कजनेत्राय जगद्धात्रेऽच्युताय च।
हृषीकेशाय सर्वाय नमः कमलमालिने ।।67।।
<35.7.68>अनन्तनागपर्यङ्के सहस्रफणशोभिते।
दीप्यमानेऽमले दिव्य सहस्रार्कसमप्रभे ।।68।।
<35.7.69>योगनिद्रामुपेताय तस्मै भगवते नमः।
यद्रूपं न च पश्यन्ति सूरयो न च योगिनः ।।69।।
<35.7.70>तं नताः स्म जगन्नाथं क्षीरोदार्णवशायिनम्।
त्वामेवार्ताः प्रपन्नाः स्म शरण्यं वयमीश्वरम् ।।70।।
<35.7.71>अस्मान् पाहि शरण्येश! प्रणतार्तिहराव्यय!।
त्वद्रूपमेतद्गोविन्द! सहस्रार्कसमद्युते! ।।71।।
<35.7.72>जाज्वल्यमानं तेजोभिः नेक्षितुं शक्नुमो वयम्।
कुरु प्रसादमस्माकं प्रसन्नवदनेक्षण!।
त्वमेव गतिरस्माकं सर्वेषामेव केशव! ।।72।।
<35.7.73>नताः स्म दिव्यं पुरुषं पुराणं त्वामेव सर्वेश्वरमीश्वराणाम्।
युगान्तकालाग्निसमप्रतापं प्रदीप्तवक्त्रेक्षणमप्रमेयम्" ।।73।।
%सप्तर्ष्यादिकृतभगवत्स्तुतिः%
वामदेवः-----
<35.7.74>इति तेषां मुनीन्द्राणां वचः श्रुत्वा ततो नृप!।
सप्तर्षयो महात्मानो वागीशश्च महाद्युतिः ।।74।।
<35.7.75>वसुश्च भगवद्भक्तो महेन्द्रश्च प्रतापवान्।
तुष्टुवुर्देवदेवेशं शिरोभिः प्रणिपत्य तम् ।।75।।
सप्तर्ष्यादयः-----
<35.7.76>"नमोनमोऽस्तु विश्वात्मन्! त्वं ब्रह्मा त्वं पिनाकधृत्।
चन्द्रेन्द्रार्काश्विमरुतः त्वमेव जगतः पते! ।।76।।
<35.7.77>सहस्रादित्यसङ्काशचक्रहस्ताय ते नमः।
शङ्खहस्ताय ते नित्यं नमो विष्णो!महात्मने ।।77।।
<35.7.78>नमः किरीटिने नित्यं नमः कौस्तुभधारिणे।
नीलमेघप्रतीकाशवपुषे ब्रह्मणे नमः ।।78।।
<35.7.79>असिरत्नगदाचापशक्तितोमरपाणये।
प्रदीप्तायुधजालाय प्रदीप्तवपुषे नमः ।।79।।
<35.7.80>यज्ञेशाय नमस्तुभ्यं ज्वलत्कुण्डलधारिणे।
नमोऽस्तु पद्मनाभाय नमस्ते विश्वयोनये ।।80।।
<35.7.81>परावराणां पतये करालवपुषे नमः।
कालनेमिहिरण्याक्षहिरण्यादिविघातिने ।।81।।
<35.7.82>उग्ररूपाय ते नित्यं नृसिंहायाप्यनादये।
नमोऽस्तु पद्मनाभाय नमोऽस्तु वरदाय च।
भूयो भूयो नमो नित्यं व्यापिने शार्ङ्गपाणये ।।82।।
<35.7.83>नताः स्म चैतत्तव विश्वरूपं सर्वायुधोपेतमपास्तदोषम्।
विद्मो न चाद्यं परमं तवाद्य रूपं परं वेद न चाब्जयोनिं" ।।83।।
%सनकादिपरमयोगिकृतभगवत्स्तुतिः%
वामदेवः-----
<35.7.84>एवमुक्ते ततस्ते तु सनकाद्याश्च योगिनः।
प्रणम्य तुष्टुवुर्देवं वैनतेयोपरि स्थितम् ।।84।।
सनकाद्याः------
<35.7.85>"जय यज्ञपते देव! जय नाथ! जयाक्षर!।
जय शंखधराचिन्त्य! जय चक्रधराव्यय! ।।85।।
<35.7.86>विभो! जय विशालाक्ष! परमात्मन्! जयाच्युत!।
जय दंष्ट्राग्रविन्यस्तमहीपद्म! जयेश्वर! ।।86।।
<35.7.87>जय सर्वद! सर्वेश! जय सर्वहृदि स्थित!।
पद्मनाभ! य्थजयाजथ्य! जय पूरुष! मानद! ।।87।।
<35.7.88>मायया तव मोहिन्या देवाश्चापि विमोहिताः।
अनेकरत्नसञ्छन्नसुवर्णमुकुटाय ते ।।88।।
<35.7.89>नताः स्मोऽचिन्त्यरूपाय योगिध्येयाय ते नमः।
नताः स्मोऽत्यन्तशुद्धाय सर्वज्ञायादिवेधसे ।।89।।
<35.7.90>परब्रह्मस्वरूपाय नताः स्मो वरदायिने।
अव्यक्तायाप्रमेयाय श्रीधराय सुवर्चसे ।।90।।
<35.7.91>शक्रादिलोकपालानां पालयित्रे नमोऽस्तु ते।
पीताम्बराय ते नित्यं नताः स्म पुरुषोत्तम! ।।91।।
<35.7.92>व्याप्तं त्वया नाथ! नभः सुदीप्तं विश्वात्मनाऽशेषनिवासिना विभो!।
त्वामद्य सर्वे वयमीशितारं नताः स्म पद्माभविलोललोचनम् ।।92।।
<35.7.93>तन्नास्ति किञ्चित् रहितं त्वया हरे! समस्तलोकेष्वपि जातु यत्स्यात्।
वन्दामहे त्वां विमलार्कवर्णं किरीटहारोज्ज्वलितं शुभोरुकम् ।।93।।
<35.7.94>एतत्परं रूपमपेतजन्मजरादिदोषं विमलं विशोकम्।
अदृष्टपूर्वं मनुजामराद्यैः नताः स्म विद्युज्ज्वलितोरुशोभम्" ।।94।।
%इन्द्रादिदिक्पालकृतभगवत्स्तुतिः%
वामदेवः-----
<35.7.95>एवं स्तुते जगन्नाथे सनकादिमहात्मभिः।
शक्राद्या लोकपालास्तं तुष्टुवुर्मधुसूदनम् ।।95।।
<35.7.96>वन्दमानाः शिरोभिस्तं भूतभावनभावनम्।
अञ्जलिं मूर्ध्नि सन्धाय विस्मयोत्फुल्ललोचनाः ।।96।।
इन्द्रादयः-----
<35.7.97>"नमोऽस्तु विश्वरूपाय पीताम्बरधराय ते।
नमस्तेऽस्तु जगद्धात्रे शार्ङ्गचापासिधारिणे ।।97।।
<35.7.98>मधुहन्त्रे नमो नित्यं नमः कैटभघातिने।
कालाग्निसमचक्रेण निहन्त्रे सुरवैरिणाम् ।।98।।
<35.7.99>सर्वकल्याणभूताय वरदाय वरार्थिनाम्।
नमो नित्यमदृश्याय दृश्यरूपाय ते नमः ।।99।।
<35.7.100>परस्मै ब्रह्मणे तुभ्यं नमो यज्ञस्वरूपिणे।
नमो भव्याय ते नित्यं श्रीवत्साङ्कितवक्षसे ।।100।।
<35.7.101>भयदाय नमो नित्यं दैत्येन्द्राणां बलीयसाम्।
भोगदाय नमो नित्यं अस्माकं स्वर्गदायिनाम् ।।101।।
<35.7.102>वरेण्याय नमो नित्यं अचलायाव्ययाय च।
शरण्याय नमो नित्यं नमः क्षीरोदशायिने ।।102।।
<35.7.103>योगात्मने नमो नित्यं नमो दामोदराय च।
क्षयवृद्धिविहीनाय निर्गुणाय नमोनमः ।।103।।
<35.7.104>यत्तत्परमनिर्देश्यं अचिन्त्यमजमक्षरम्।
अव्यक्तमजरं नित्यं अव्ययं धाम शाश्वतम् ।।104।।
<35.7.105>अरूपममलं ब्रह्म सर्वेशमचलं विभुम्।
यद्ब्रह्म तत्परं धाम भवानेव न चापरः ।।105।।
<35.7.106>तन्न विद्मः परं रूपं तव यत्तु पुरातनम्।
एतञ्चापि न जानीमो यदेतद्दर्शितं त्वया ।।106।।
<35.7.107>प्रसीद विश्वेश्वर! विश्वतोमुख! प्रसीद विश्वक्षयपालनेश!।
प्रसीद विश्वालय! विश्वमूर्ते! विश्वस्य योने भगवन् प्रसीद! ।।107।।
%श्वेतद्वीपवासिसिद्धकृतभगवत्स्तुतिः%
वामदेवः------
<35.7.108>एवं स्तुतेऽथ देवेशे शक्राद्यैः त्रिदशेश्वरैः।
तुष्टुवुस्तं प्रणम्येशं श्वेतद्वीपनिवासिनः ।।108।।
सिद्धाः------
<35.7.109>यं विष्णुमाद्यं पुरुषं पुराणं देवा नमस्यन्ति शुभोरुबाहुम्।
नताः स्म तं देवमजं सुरेशं विश्वस्य कर्तारमनादिमूर्तिम् ।।109।।
<35.7.110>येनैव दंष्ट्राग्रसमुद्धृता धरा बिभर्ति विश्वं ससुरासुरेन्द्रम्।
नताः स्म तस्मै वरदाय पुंसे सर्वात्मने शेषविभूतिदायिने ।।110।।
<35.7.111>येनेदमण्डं सकलं महीयसा व्याप्तं त्वयैकेन सुरारिघातिना।
तं त्वां नताः स्माऽच्युतमीडितारो वयं विभुं लोकविभूतिहेतुम् ।।111।।
<35.7.112>येनान्त्काले जगदेतदादिना ग्रस्तं त्वया ह्यक्षयशक्तिरूपिणा।
ज्ञानैकदृश्यं परमार्थतत्त्वं तं बालरूपं प्रणमाम नित्यम् ।।112।।
<35.7.113>येनादिकाले विभुना महीयसा स्वनाभिपद्मान्तरुपेतमण्डलम्।
विसृष्टमप्सु स्वपताऽऽत्मलीलया तं त्वां नताः स्मामरलोकनाथ ।।113।।
<35.7.114>येनेदमण्डं बहुशो विभूतं दुरात्मभिर्दैत्यवरैः सुघोरैः।
निहत्य दैत्यान् सहसा महारणे संरक्षितं तं प्रणमाम नित्यम् ।।114।।
<35.7.115>जानन्ति यन्नैव पितामहाद्याः परं पदं नैव वयं च नान्ये।
त्वं तत्पदं वृद्धिविनाशहीनं रक्षस्व चास्मान् भगवन्!प्रसीद ।।115।।
इति श्रीवामनपुराणे क्षेत्रकाण्डे श्रीवेङ्कटाचलमाहात्म्ये ब्रह्मादिकृतभगवत्स्तुतिपरम्पर नाम
पंचत्रिंशोऽध्यायः।
---------------
अथ षट्त्रिंशोऽध्यायः
--------*------
वामदेवः-----
<36.7.1>एवं स्तुत्वाऽथ ते सर्वे ब्रह्माद्या देवतागणाः।
अगस्त्यप्रमुखाश्चापि मुनयोऽमलचेतसः ।।1।।
<36.7.2>सिद्धाश्चापि तथा सर्वे श्वेतद्वीपनिवासिनः।
वागीशवसुशुक्राश्च दुर्वासाश्च महामुनिः ।।2।।
<36.7.3>सप्तर्षयश्च राजेन्द्र! सनकाद्याश्च योगिनः।
सर्व एते महीपाल! ये चाप्यन्ये समागताः ।।3।।
<36.7.4>द्रष्टुं तमीश्वरं देवं तत्प्रसादानुवर्तिनः।
भूयो भूयः प्रणम्येशं नारायणमरिन्दमम् ।।4।।
<36.7.5>कृताञ्जलिपुटास्तन्तु परिवार्योपतस्थिरे।
ततस्तेषां स भगवान् मध्ये राजीवलोचनः ।।5।।
<36.7.6>स्मयन्निव महाबाहुः विनतानन्दनास्थितः।
अतिष्ठद्देवदेवेशः स तान् सर्वान् विलोकयन् ।।6।।
<36.7.7>दीप्यमानः स्वतेजोभिः अंशुमानिव रश्मिभिः।
एतस्मिन्नन्तरे देवं वाय्वाहाराङ्गना नृप! ।।7।।
<36.7.8>अगायन् कर्मभिर्दिव्यैः दिव्यभूषणभूषिताः।
रावणादिवधं केचित् गन्धर्वपतयो जगुः ।।8।।
<36.7.9>कंसकेशिजरासन्धशाल्वादीनां वधं तथा।
बाणदुर्योधनादीनां वधञ्चापि महाद्भुतम् ।।9।।
<36.7.10>अगायन्नपरे तत्र गन्धर्वपतयोऽमलाः।
हिरण्यकशिपोस्तत्र वधञ्चापि जगुः परे ।।10।।
<36.7.11>अवतारेषु चान्येषु यानि यानि कृतानि वै।
केचित् जगुः जगत्सृष्टिं ब्रह्मादिस्थावरान्तिकाम् ।।11।।
<36.7.12>गन्धर्वपतयस्तत्र सुस्वरा हरिसन्निधौ।
नृत्यन्त्योऽप्सरसस्तत्रादृश्यन्त शतशो नृप! ।।12।।
<36.7.13>गायन्त्यो देवदेवेशं नादयन्त्यो दिशो दश।
%ब्रह्मादीनां भगवद्विश्वरूपदर्शनम्%
अथ ते प्रेक्षमाणास्तं नारायणमनामयम् ।।13।।
<36.7.14>विस्मयाविष्टहृदया ब्रह्माद्या देवतागणाः।
अगस्त्यप्रमुखाश्चापि मुनीन्द्राश्च सहस्रशः ।।14।।
<36.7.15>ददृशुर्देवदेवस्य दिव्ये रूपे महाद्भुते।
तस्मिन् महति भूपाल! पद्मपत्रनिभेक्षणे ।।15।।
<36.7.16>अण्डमेतदशेषं वै साद्रिग्रामनदीवनम्।
सपर्वतं सपातालं सदेवासुरमानुषम् ।।16।।
<36.7.17>ससप्तलोकं सद्वापं सयक्षोरगराक्षसम्।
सासुरं सामरपुरं जङ्गमाजङ्गमाकुलम् ।।17।।
<36.7.18>सतिर्यक्तरूपाषाणं सकाननमहोरगम्।
एवमाद्यैस्तथान्यैश्च संयुक्तं महदद्भुतम् ।।18।।
<36.7.19>अदृष्टपूर्वमाश्चर्यं दृष्ट्वा हर्षमुपागमन्।
विस्मिताश्चाभवस्तेऽथ मुदिताश्चाभवन् नृप! ।।19।।
<36.7.20>व्याकुलीकृतनेत्रास्ते व्याकुलीकृतमानसाः।
व्याकुलीकृतसर्वाङ्गा आसन् सर्वे भयाकुलाः ।।20।।
<36.7.21>अथ तान् भगवान् भूप! प्रसन्नैः विमलैः शुभैः।
पद्मोत्पलदलाभैस्तैः नेत्रैस्तान् समलोकयत् ।।21।।
<36.7.22>अथ ते भूपते! सर्वे ब्रह्माद्यास्तेन शार्ङ्गिणा।
प्रसन्नैर्नयनैर्दिव्यैः आयतैरवलोकिताः ।।22।।
<36.7.23>प्रसन्नतां ययुः सर्वे त्यक्तमोहभयाः स्थिताः।
मुनीन्द्रानवलोक्याथ भगवानिदमब्रवीत् ।।23।।
<36.7.24>नृपते! सर्वलोकेशो विश्वरूपधरो हरिः।
श्रृण्वतां सर्वदेवानां ब्रह्मादीनां सनातनः ।।24।।
<36.7.25>मेघगम्भीरया वाचा श्राव्यया श्लक्ष्णरूपया।
जगदापूरयत्सर्वं सुतरां प्रीतया तदा ।।25।।
%महर्षीन् प्रति भगवदुक्तिः%
श्रीभगवान्------
<36.7.26>युष्माभिर्भूरितेजोभिः मत्तो यत्प्रार्थ्यते द्विजाः! ।।26।।
<36.7.27>व्रियतां तदशेषेण नात्र कार्या विचारणा।
मां दृष्ट्वा प्रार्थितान् कामान् प्राप्नुवन्ति नरा भुवि ।।27।।
<36.7.28>अचिरेणैव कालेन मुक्तिञ्चापि सुदुर्लभाम्।
अप्राप्य प्रार्थितान् कामान् न यास्यन्ति द्विजोत्तमाः ।।28।।
<36.7.29>मयि दृष्टेऽचिरात्तस्मात् ब्रूत प्रार्थितमुत्तमम्।
मुनयः----
कृतार्थाः स्म वयं देव! त्वयि दृष्टे सनातने ।।29।।
<36.7.30>त्वत्प्रसादं विना नाथ! न त्वं द्रष्टुं हि शक्यसे।
त्वां द्रष्टुकामा गोविन्द विचरन्तो वयं विभो! ।।30।।
<36.7.31>नारायणगिरावस्मिन् त्वत्पादतलवासिते।
त्वां दृष्ट्वा भृशमुद्विग्ना भगवन् पुरुषोत्तम! ।।31।।
<36.7.32>संसारात् मोक्षिमिच्छन्तो देव! त्वत्पादमाश्रिताः।
मुक्तिं प्रयच्छ देवेश संसारात् भीतिवर्धनात् ।।32।।
वामदेवः-----
<36.7.33>एवमुक्त्वाऽथ गोविन्दो वरेण्यः पुरुषोत्तमः।
भगवान् भूतभव्येशः प्रोवाचेदं वचो नृप ।।33।।
<36.7.34>येन यत्प्रार्थितं मत्तो दत्तं तद्धि न संशयः।
मुक्तिर्न चैषा भवतां प्रसन्ने मयि दुर्लभा ।।34।।
<36.7.35>कल्पान्ते मत्प्रसादेन मुक्तिं प्राप्स्यथ सत्तमाः।
तावत्कालं जगत्यस्मिन् तपसे कृतनिश्चयाः ।।35।।
<36.7.36>श्रृण्वन्तः श्रावयन्तश्च मत्कथां मुनिसत्तमाः।
तिष्ठन्तु तप आस्थाय महत्परमदारुणम् ।।36।।
वामदेवः-----
<36.7.37>एतस्मिन्नन्तरे राजन्! ब्रह्मा लोकपितामहः।
शिरस्यञ्जलिमाधाय प्रणम्य जगतां पतिम् ।।37।।
%मुनीनाश्वासयन्तं भगवन्तं प्रति ब्रह्मकृतविज्ञप्तिः%
ब्रह्माः-----
<36.7.38>इदं विज्ञापयामास देवायामिततेजसे।
भगवन् सर्वलोकेश! सर्वयज्ञमयाच्युत! ।।38।।
<36.7.39>दैत्यैः निराकृता ह्येते देवाः सर्वे सवासवाः।
यज्ञभागांश्च दैतेया भुञ्जन्ते न दिवौकसः ।।39।।
<36.7.40>तान् हन्तुं समरे ह्येते न शक्ता देवतागणाः।
विवृद्धान् घातयाद्येश! तान् सर्वानसुरोत्तमान् ।।40।।
वामदेवः-----
<36.7.41>इत्युक्ते ब्रह्मणा राजन्! प्रहसन्निदमब्रवीत्।
%भगवत्कृतब्रह्माद्यभीष्टवरप्रदानम्%
श्रीभगवान्-----
एते च दानवा घोरा बाधन्ते देवतागणान् ।।41।।
<36.7.42>महावीर्या महामाया महाकाया महौजसः।
रणकर्मणि संयुक्ता दुर्जया दुर्निवारणाः ।।42।।
<36.7.43>एतांस्त्वमद्य दैत्येन्द्रान् हन्याः सर्वान् सबान्धवान्।
एवमुक्त्वा हृषीकेशो विष्वक्सेनं प्रतापिनम् ।।43।।
<36.7.44>विलोक्य सर्वभूतात्मा वसुं नारायणोऽब्रवीत्।
तव दत्तं महावीर्यं! चेदिराज! नृपोत्तम! ।।44।।
<36.7.45>संसारबन्धनान्मोक्षमचिरेणाऽथ गच्छसि।
मद्भक्तस्त्वत्समो नैव त्रिषु लोकेषु विद्यते ।।45।।
<36.7.46>हिरण्यकशिपोः पुत्रं ऋते दैत्येन्द्रसत्तम!।
प्रह्लादः सर्वभूतेभ्यो यः पुरा रक्षितो मया ।।46।।
वामदेवः----
<36.7.47>एवमुक्त्वा महीपाल! चेदिराजं प्रजापतिः।
अगस्त्यमवलोक्याथ बाष्पपर्याकुलेक्षणम् ।।47।।
<36.7.48>भक्त्या परमया युक्तं जगादेदं वचो विभुः।
प्रसन्नोऽहं द्विजश्रेष्ठ! व्रियतां यत्तवेप्सितम् ।।48।।
<36.7.49>मत्तः सुदुर्लभं चापि तत्ते दास्याम्यसंशयम्।
वामदेवः----
एवमुक्तस्तु देवेन हर्षात् किञ्चिदिदं वचः ।।49।।
<36.7.50>विज्ञापयामास मुनिः परस्मै हरिमेधसे।
मूर्धन्यञ्जलिमाधाय प्रोत्फुल्लपुलकोद्गमः ।।50।।
अगस्त्यः-----
<36.7.51>नारायणगिरावस्मिन् चरतो मम केशव!।
समतीतं महाबाहो! वर्षाणामधिकं शतम् ।।51।।
<36.7.52>सुचिरं कालमत्रैव विचरन् वै ततस्ततः।
न चापश्यं विशालाक्षं त्वामाद्यमजमक्षरम् ।।52।।
<36.7.53>ततोऽहं भृशमुद्विग्नो विषादं चाप्यवाप्तवान्।
दिष्टया दृष्टो जगत्स्वामी त्वमद्य पुरुषोत्तम! ।।53।।
<36.7.54>वृणे तत्त्वप्रसादेन प्राप्तुं यद्वाञ्छितं मया।
भूते भव्ये तथा काले वर्तमाने तथा प्रभो! ।।54।।
<36.7.55>सर्वेषामेव भूतानां दुर्ज्ञेया गतिरुत्तमा।
दुर्ज्ञेयामपि तां सम्यग् ज्ञातुमिच्छाम्यहं हरे! ।।55।।
<36.7.56>सहस्रशस्तु या श्रुत्वा दुर्ज्ञेया च सुरैरपि।
त्वत्प्रसादेन भगवन्! भवेत् सा विदिता मम ।।56।।
<36.7.57>त्वयि भक्तिः परा चापि निश्चला स्यात् ममामला।
वामदेवः------
इत्युक्ते मुनिना भूप! प्रहसन्निव लोकधृत् ।।57।।
<36.7.58>उवाच श्लक्ष्णया वाचा मेघगम्भीरया तदा।
श्रीभगवान्-----
अगस्त्य! यत्त्वया प्रोक्तमेतद्दत्तं मया तव ।।58।।
<36.7.59>प्रसन्नेनात्र भवता पूजितेन महीधरे!।
अगस्त्यः-----
त्वञ्च दृश्यो वसेहेश! सर्वेषां प्राणिनामपि ।।59।।
श्रीभगवान्-----
<36.7.60>अहं दृश्यो वसामीह श्रीभूमिसहितोऽनघ!।
विमानं मम दिव्यं तु गूढं मुक्तिपरं भवेत् ।।60।।
<36.7.61>आकाशगमचिन्त्यञ्च नानारत्नसमन्वितम्।
अन्येऽपि ये मुनीन्द्रास्मिन्नारायणगिरौ नराः ।।61।।
<36.7.62>समारुह्यामलाञ्चेमां स्वामिपुष्करिणीं शुभाम्।
दृष्ट्वा स्नात्वाऽथ पीत्वा तु तस्याः पुण्यजलं शुभम् ।।62।।
<36.7.63>अस्यास्तीरे महत्यस्मिन् विमाने मदधिष्ठिते।
मम प्रीतिकरे पुण्ये सर्वपापहरे शुभे ।।63।।
<36.7.64>भक्ता मामर्चयिष्यन्ति मयि सन्न्यस्तमानसाः।
ददामीष्टतमान् कामांस्तेषामपि सुदुर्लभान् ।।64।।
<36.7.65>ये नराः कुर्वते विप्र! योजनानां शतेष्वपि।
प्रणामं दिशमुद्दिश्य भक्त्या मत्पर्वतोत्तमे ।।65।।
<36.7.66>ते नरा मत्प्रसादेन पापराशिं व्यपोह्य वै।
प्राप्नवन्ति पदं पुण्यं प्रविष्टं दुरात्मभिः ।।66।।
<36.7.67>य एनां सेवते नित्यं स्वामिपुष्करिणीं शुभाम्।
सोऽपि भुक्तिमवाप्नोति मुक्तिञ्चापि न संशयः ।।67।।
इति श्रीवामनपुराणे क्षेत्रकाण्डे श्रीवेङ्कटाचलमाहात्म्ये भगवत्कृतअगस्त्याभीष्टवरप्रदानवर्णनं नाम
षट्त्रिंशोऽध्यायः।
----------------
अथ सप्तत्रिंशोऽध्यायः
------------
%महर्षिणां भगवद्दिव्यविमानदशनम्%
वामदेवः-----
<37.7.1>मुनयस्तेऽथ भूपाल! तद्वाक्यसमनन्तरम् ।।1।।
<37.7.2>ददृशुर्विमलं दिव्यं विमानं भास्करोपमम्।
स्वामिपुष्करिणीतीरे दक्षिणे लोकविश्रुते ।।2।।
<37.7.3>नारायणाश्रितं दिव्यं नित्यञ्च महदद्भुतम्।
पाण्डुराभ्रघनप्रख्यं नानाश्रृङ्गैरलङ्कृतम् ।।3।।
<37.7.4>अनेकरत्नसञ्छन्नं मुक्तादामविभूषितम्।
भासयत्तेजसा सर्वा दिशो दश नराधिप! ।।4।।
<37.7.5>दीप्यमानं स्वतेजोभिः नानारत्नविभूषितम्।
अत्युच्छ्रितं सुदुष्प्रेक्षं पश्यतां हर्षवर्धनम् ।।5।।
<37.7.6>यन्न दृष्टं मुनीन्द्रैस्तैः देवैरपि सवासवैः।
तस्मिन् महीधरे दिव्ये विचरद्भिरितस्ततः ।।6।।
<37.7.7>मुनीन्द्रास्ते तु तद् दृष्ट्वा विमानं परमाद्भुतम्।
अदृष्टपूर्वमन्यस्मिन् काले नरवरात्मज! ।।7।।
<37.7.8>इतस्ततो विचिन्वद्भिः तस्मिन्नेव महीधरे।
विस्मयं परमं जग्मुः ततो मुनिगणास्तदा ।।8।।
<37.7.9>किमिदं नैव चास्माभिः दृष्टमासीत् पुरातनम्।
पुरा विमानमाश्चर्यं विचरद्भिरितस्ततः ।।9।।
<37.7.10>विमानमद्भुताकारं तञ्चापि पुरुषोत्तमम्।
दृष्ट्वा तत्प्रोचुराश्चर्यं ते हर्षोत्फुल्ललोचनाः ।।10।।
<37.7.11>अहो बत! महाश्चर्यं नूनमेतन्महात्मना।
अनेनान्तर्हितं यस्मात् पूर्वं तत् न ह्यदृश्यत ।।11।।
<37.7.12>विमानं पुण्यमाश्चर्यं ज्वलद्भास्करसन्निभम्।
अस्या एव शुभे तीरे पुष्करिण्याः स्थितैरपि ।।12।।
<37.7.13>अस्माभिः सहितैः सर्वैः सद्भिरत्रैव चादरात्।
हरिणा ध्रुवमेतत्स्यात् अनेनैव स्वमायया ।।13।।
<37.7.14>अन्तर्हितं कृतं दिव्यं विमानं सिद्धसेवितम्।
एवं विधानि वाक्यानि मुनयस्ते परस्परम्।
प्रोचुर्देवाधिदेवस्य सन्निधौ तस्य शार्ङ्गिणः ।।14।।
%शङ्खनृपस्य वरं प्रदाय भगवत्तिरोधानम्%
<37.7.15>एतस्मिन्नन्तरे देवः शङ्खं प्रोवाच केशवः।
हेहयाधिपतेः पुत्रं श्रुतस्य सुमहात्मनः ।।15।।
श्रीभगवान्----
<37.7.16>वरं वरय भूपाल! यत्ते मनसि वर्तते।
तद्दास्ये तव तुष्टोऽहं वरदः समुपस्थितः ।।16।।
वामदेवः-----
<37.7.17>इदं निशम्य वचनं गदितं तस्य शार्ङ्गिणः।
जगद्धातुरनन्तस्य विश्वयोनेर्महात्मनः ।।17।।
<37.7.18>शङ्खः परमसंहृष्टो रोमाञ्चिततनुस्तदा।
इत्थं विज्ञापयामास ब्रह्मणेऽव्यक्तजन्मने ।।18।।
<37.7.19>एतस्मै देवदेवाय परस्मै हरिमेधसे।
शङ्खः-----
त्वल्लोकं प्राप्तुमिच्छामि त्वत्प्रसादादधोक्षज! ।।19।।
<37.7.20>त्वत्पदे वस्तुकामोऽहं तपस्तीव्रं समास्थितः।
त्वं ममैतत्प्रयच्छाऽऽशु विष्णो! राजीवलोचन! ।।20।।
<37.7.21>नान्यदिच्छामि देवेश! त्वत्तः प्राप्तुं सुरेश्वर!।
वामदेवः-----
इत्युक्तस्तु प्रहस्यैनं शङ्खं प्राह जनार्दनः ।।21।।
<37.7.22>हर्षयन्निव भूतानि स्वया गधुरया गिरा।
श्रीभगवानुवाच-----
यावत्कल्पं महाभाग! स्वर्लोके निवसिष्यसि ।।22।।
<37.7.23>सदा सम्पूजितः सर्वैः इन्द्रलोकनिवासिभिः।
वामदेवः-----
इत्युक्त्वा भगवान् देवः तत्रैवान्तरधीयत ।।23।।
<37.7.24>पश्यतामेव सर्वेषां ब्रह्मादीनां सुरेश्वरः।
नारायणः परो नित्यः परमात्मा प्रजापतिः ।।24।।
<37.7.25>सर्वस्वभूतो भक्तानां सर्वलोकपरायणः।
अन्तर्हिते ततस्तस्मिन् जगद्धातरि केशवे ।।25।।
%भगवदन्तर्धानानन्तरं देवाद्यनुभूतानुतापवर्णनम्%
<37.7.26>विष्णो समस्तजगतां आधारे पुरुषोत्तमे।
सर्वस्वभूते देवानां सर्वेशे परमात्मनि ।।26।।
<37.7.27>तेजोराशियुते कृष्णे राजीवायतलोचने।
देवा ब्रह्मर्षयश्चापि मुनीन्द्राश्च तपोधनः ।।27।।
<37.7.28>सिद्धाश्चापि तथा सर्वे मुनीन्द्रा विमलाशयाः।
वागीशवसुमुख्याश्च सनकाद्याश्च योगिनः ।।28।।
<37.7.29>सर्वे सप्तर्षयश्चापि श्वेतद्वीपनिवासिनः।
एते चान्ये च ये तत्र समेता द्रष्टुमीश्वरम् ।।29।।
<37.7.30>सर्व एते महीपाल भूयो भूयः सनातनम्।
अन्तर्धानं गतं देवं प्रणेमुः विस्मितेक्षणाः ।।30।।
<37.7.31>दीनचित्तास्ततः सर्वे पश्यन्ति स्म दिशो दश।
एते सर्वे मुनिश्रेष्टा रुरुदुस्तेऽथ तत्र वै ।।31।।
<37.7.32>प्रणम्य हरये तस्मै देवायान्तर्हिताय ते।
ब्रह्माद्यास्तेऽथ भूपाल! सर्व एवेदमब्रुवन् ।।32।।
<37.7.33>अहो भगवतस्तस्य माहात्म्यममितौजसः।
ब्रह्माण्डकमशेषन्तु तेन व्याप्तं स्वतेजसा ।।33।।
<37.7.34>आयुधानि ज्वलन्ति स्म चक्रादीनि धृतानि वै।
दहन्तीव जगत्सर्वं शोषयन्तीव चोदधीन् ।।34।।
<37.7.35>प्रसन्नास्ते कटाक्षाश्च दीपयन्तो दिशो दश।
चकाशिरे स्वतेजोभिः शतशस्तस्य शार्ङ्गिणः ।।35।।
<37.7.36>शतशो बहवश्चापि हरेः करिकरोपमाः।
स्पर्धन्त इव चान्योन्यं रेजिरे रुचिरप्रभाः ।।36।।
<37.7.37>वदनानि ज्वलन्ति स्म पूर्णेन्दुसदृशानि वै।
शोभितान्यमलैर्दिव्यैः सरत्नैः कुण्डलैस्तथा ।।37।।
<37.7.38>इन्दुमण्डलसङ्काशनखमण्डलशोभिते।
पादपद्मे हरेस्तस्य शोभिते विमलप्रभे ।।38।।
<37.7.39>अहो हि भूधरेन्द्रस्य माहात्म्यममितौजसः।
यस्मिन्नेवंविधो देवो निवसत्यच्युतो हरिः ।।39।।
<37.7.40>न शक्यमस्य माहात्म्यं वक्तुं वर्षशतैरपि।
अस्माभिः सहितैः सर्वैः विमलेनापि तेजसा ।।40।।
<37.7.41>वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन।
वेङ्कटेशसमो देवो न भूतो न भविष्यति ।।41।।
<37.7.42>नास्ति पुण्यतमं तीर्थं स्वामिपुष्करिणीसमम्।
सममस्तीति यो ब्रूयात्तत्समो नास्ति पातकी ।।42।।
<37.7.43>याश्च सप्त महापुर्यः कीर्त्यन्ते मुक्तिदायिकाः।
ता वेङ्कटाद्रिपर्यन्तग्रामकोट्यंशशक्तयः ।।43।।
वामदेव------
<37.7.44>एवं विधानि वाक्यानि वदन्तः सुबहूनि वै।
सर्वे संहृष्टमनसो ब्रह्माद्यास्ते सुरोत्तमाः ।।44।।
%भगवद्विमानादि दृष्ट्वा ब्रह्मादिनिर्गमनम्%
<37.7.45>स्वामिपुष्करिणीतीर्थे स्नात्वा पीत्वा द्विजोत्तमाः।
ददृशुस्ते महाश्चर्ये विमानं पुनरद्भुतम् ।।45।।
<37.7.46>अप्यदृष्टं पुरा सर्वैः ब्रह्माद्यैरपि सत्तमैः।
प्रहृष्टास्ते महात्मानो विमाने हरिमेधसः ।।46।।
<37.7.47>ददृशुर्देवदेवेशं विमलार्कसमप्रभम्।
चतुर्बाहुमशेषेशं च दिव्यकुण्डलधारिणम् ।।47।।
<37.7.48>तिष्ठन्तमच्युतं देवं नानाभूषणभूषितम्।
शोभमानं किरीटेन नानारत्नचितेन वै ।।48।।
<37.7.49>सुधृतायुधजातं तं वरदं सर्वदेहिनाम्।
दिव्यरत्नचितैश्चित्रैः वलयैरुपशोभितम् ।।49।।
<37.7.50>दिव्याम्बरधरं सौम्यं दिव्यरत्नविभूषितम्।
प्रणतार्तिहरं विष्णुं त्रौलोक्यतिलकं विभुम् ।।50।।
<37.7.51>स्फरन्मणिगणच्छन्नचारुहारविराजितम्।
स्फुरन्नूपुरसंशोभिपादं पद्मनिभेक्षणम् ।।51।।
<37.7.52>सेव्यमानं श्रिया चापि स्वपार्श्वगतया तथा।
चारुमत्या पृथिव्या च सेव्यमानं स्वकान्तया ।।52।।
<37.7.53>एवंभूतं तदा दृष्ट्वा ब्रह्माद्या विस्मितेक्षणाः।
प्रणेमुर्मुदिताः सर्वे शिरोभिर्भुवि केशवम् ।।53।।
<37.7.54>प्रस्तूय च जगद्योनिं स्तुतिभिः शुभलोचनाः।
निश्चक्रमुस्तदा तस्मात् विमानात् दीप्तचक्रिणः ।।54।।
<37.7.55>निष्क्रम्य सहिता नेमुः शिरोभिर्भुवि केशवम्।
कृत्वा प्रदक्षिणञ्चापि तद्विमानमनुत्तमम् ।।55।।
<37.7.56>यथागतं ययुः सर्वे प्रशंसन्तो महीधरम्।
पितामहश्च भगवान् खेचरैः परिवारितः ।।56।।
<37.7.57>संस्तूयमानस्त्रिदशैः निजलोकमथाभ्ययात्।
पिनाकपाणिर्भगवान् शङ्करस्त्रिपुरान्तकः ।।57।।
<37.7.58>जगाम विश्रुतं दिव्यं कैलासं रजताचलम्।
नानारत्नैर्विराजन्तं पारिजातैरलङ्कृतम् ।।58।।
<37.7.59>नानातपस्विभिर्युक्तं नानासिद्धनिषेवितम्।
ऋषयश्च तथा सर्वे कैलासं प्रति निर्ययुः ।।59।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये भगवद्विमानदर्शनपूर्वकब्रह्मादिनिर्गमनादिवर्णनं नाम
सप्तत्रिंशोऽध्यायः।
---------
अथ अष्टत्रिंशोऽध्यायः।
--------*-------
%श्रीवेङ्कटाचलात्कैलासं प्रति शङ्करगमनम्%
जनक उवाच-----
<38.7.1>कथं स भगवान्! शम्भुः शङ्करश्चन्द्रशेखरः।
प्रयातः पर्वताद्दिव्यं कैलासं स्वालयं शिवः ।।1।।
<38.7.2>एतन्मुनिवराशेषं श्रोतुमिच्छामि तत्त्वतः।
कथयैतन्महाश्चर्यं श्रृण्वतां हर्षवर्धनम् ।।2।।
वामदेवः------
<38.7.3>श्रूयतामिदमाश्चर्यं वक्ष्यामि नृपते! तव।
यदा हि भगवान् देवः प्रयातः स्वालयं प्रति ।।3।।
<38.7.4>वृषभं तं महावीर्यं मेरुमन्दरसन्निभम्।
नानामणिगणैश्चत्रैः स्वनवद्भिरनेकशः ।।4।।
<38.7.5>अलङ्कृतं महावीर्यं महाकायं महाबलम्।
मेघाभं मेघसन्नादं द्विषतां शोकवर्धनम् ।।5।।
<38.7.6>विश्रुतं सर्वलोकेषु सर्वरत्नविभूषितम्।
उदग्रककुदं दिव्यं वायुवेगसमं जवे ।।6।।
<38.7.7>रज्जुभिश्च तदा दिव्यैः जाम्बूनदमयैः शुभैः।
स्फुरन्मणिगणाकीर्णैः समन्तात्परिवेष्टितम् ।।7।।
<38.7.8>आकाशगं महाश्रृङ्गं हेममालापरिष्कृतम्।
जाज्वल्यमानं वपुषा दर्शनीयतमं शुभम् ।।8।।
<38.7.9>अनेकशतसाहस्रैः जाम्बूनदमयैस्तथा।
किङ्किणीजालसङ्घैश्च समन्तात् परिवेष्टितम् ।।9।।
<38.7.10>मुक्तादामभिरालोलैः भ्राजमानैः सुरश्मिभिः।
अलङ्कृतमहाकर्णं महाकायं महोक्षकम् ।।10।।
<38.7.11>आरुह्य भगवान् देवः सर्वपापहरो हरः।
बलिभिर्भूतसङ्घैश्च वेतालैश्च महाबलैः ।।11।।
<38.7.12>अनेकबाहुभिश्चैव संवृतः परमेश्वरः।
संस्तूयमानः सदृशैः खेचरैरप्यभिष्टुतः ।।12।।
<38.7.13>स्वभासा भासयन् दिव्यं जगदेतच्चराचरम्।
श्रृण्वंश्च वदतां तेषां नारायणगिरेः कथाः ।।13।।
<38.7.14>शनैर्जगाम भूपाल! कैलासनिलयं शिवः।
समस्ताः परिवार्यैनं भूतसङ्घाः सहस्रशः ।।14।।
<38.7.15>तन्निदेशकरा जग्मुः नानारूपभयावहाः।
केचिन्नीलाचलप्रख्याः केचिद्बिसनिभास्तथा ।।15।।
<38.7.16>सन्ध्यामेघनिभाः केचित् केचिद्वै सूर्यवर्चसः।
केचित् कालागरुनिभाः केचित् अग्निशिखोपमाः ।।16।।
<38.7.17>केचित् दशभुजा राजन्! केचित् एकभुजास्तथा।
जानुदेशशिराः कश्चित् ऊरुदेशशिरास्तथा ।।17।।
<38.7.18>पाणिदेशशिराः कश्चित् तत्रासीन्मिथिलेश्वर!।
तेषां वर्णञ्च रूपञ्च वक्तुं नाम न शक्यते ।।18।।
<38.7.19>केचित् द्विपमुखास्तत्र केचित् अश्वमुखास्तथा।
केचित् खराभवदनाः केचित् व्याघ्रमुखास्तदा ।।19।।
<38.7.20>शक्यं देवैः न कालेन महता चापि तानि वै।
रूपाणि तेषां भूतानां वक्तुं नानाकृतीनि वै ।।20।।
<38.7.21>एवं विधैरनेकैस्तु भूतसङ्घैः समावृतः।
त्रिपुरान्तकरो देवो जगाम रजताचलम् ।।21।।
<38.7.22>हरस्य तद्रूपमपास्तदोषं सिताचलाभं शितिकण्ठकायम्।
व्यराजताशेषजगत्प्रभोस्तत् नारायणस्येव वपुस्त्रिविक्रमे ।।22।।
<38.7.23>नृपेन्द्र संशान्तमपेतदोषं समीक्ष्य देव त्रिपुरारिमीशम्।
सर्वाणि भूतानि समेत्य पार्श्वं भक्त्या प्रणेमुः प्रणतैः शिरोभिः ।।23।।
<38.7.24>अथ तं भीमकर्माणं भगवन्तमुमापतिम्।
वहन् वृषेन्द्रः प्रययौ लीलयैवान्तरिक्षगः ।।24।।
<38.7.25>रराज सोऽत्यद्भुतचारुश्रृङ्गः संतप्तचामीकरचारुभूषणः।
हंसेन्दुकुन्दस्फटिकाचलाभो गच्छन् महामेघ इवान्तरिक्षे ।।25।।
<38.7.26>तं यान्तमनुजग्मुस्ते देवा ब्रह्मर्षयस्तदा।
कृताञ्जलिपुटा देवं स्तुवन्तःi त्रिपुरान्तकम् ।।26।।
जनकः-----
<38.7.27>स्तुवन्ति स्म कथं देवं देवा ब्रह्मर्षयस्तदा।
शूलपाणिं प्रयास्यन्तं कैलासनिलयं प्रति ।।27।।
शतानन्दः-----
<38.7.28>जनकेनैवमुक्तस्तु वामदेवो महातपाः।
वक्ष्येऽहमेतद्भूपाल! श्रूयतामित्यथाब्रवीत् ।।28।।
देवाद्याः------
<38.7.29>पिनाकपाणिं देवेशं नताः स्म गिरिजेश्वरम्।
गरुत्मति तथा विष्णुं तद्रूपमिव संस्थितम् ।।29।।
<38.7.30>त्रिपुरस्य नियन्तारं त्रिनेत्रं शूलधारिणम्।
विष्णुभक्तं विरूपाक्षं विष्णुप्रियकरं शुभम् ।।30।।
<38.7.31>दुष्टदैत्यनिहन्तारं कैरासनिलयं हरम्।
सर्वं भवन्तमीशानं शङ्करं कामरूपिणम् ।।31।।
<38.7.32>उग्ररूपं महादेवं अप्रधृष्यं दुरासदम्।
नीलकण्ठं विरूपाक्षं सर्वसंहारमूर्तिकम् ।।32।।
<38.7.33>कपिलाक्षं विशालाक्षं जटामुकुटधारिणम्।
नताः स्म चर्मवसनं वयं त्वां वृषभध्वजम् ।।33।।
<38.7.34>त्राह्यस्मान् सर्वलोकेश! त्वामद्य शरणं गतान्।
त्वमेव गतिरस्माकं सर्वेषामेव शङ्कर! ।।34।।
<38.7.35>एवं स्तुवन्तो देवेशं देवा ब्रह्मर्षयस्तदा।
अनुजग्मुर्महात्मानं नारायणमिवापरम् ।।35।।
<38.7.36>एवं संस्तूयमानोऽसौ तदा पशुपतिर्नृप!।
प्रपेदे तं महापुण्यं कैलासं पर्वतोत्तमम् ।।36।।
<38.7.37>तत्रापि स्वालयं दिव्यं सर्वभूतनिषेवितम्।
देवर्षिसिद्धमनुजैः गन्धर्वैश्चापि सेवितम्।
अतीव शुभगन्धाढ्यं प्रपेदे त्रिदशेश्वरः ।।37।।
<38.7.38>तेषां मुनीनामथ पश्यतां तदा गौरीश्वरो देववरः प्रतापवान्।
अन्तर्दधे सानुचरप्रभावः तत्रैव राजंस्तदभून्महाद्भुतम् ।।38।।
<38.7.39>अन्यदिच्छसि किं भूयस्तत्तच्छ्रोतुं महीपते!।
वासुदेवाश्रितं पुण्यं तत्पृच्छ कथये तव ।।39।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये
श्रीवेङ्कटाचलाच्छङ्करस्य कैलासगमनादिवर्णनं नाम
अष्टत्रिंशोऽध्यायः।
------------
अथ एकोनचत्वारिंशोऽध्यायः
--------*---------
%भगवद्विमानान्तर्धानहेतुनिरूपणम्%
जनकः-----
<39.7.1>अन्तर्हितं कथं तेषां मुनीनामञ्जनाचले।
आसीद्विमानमाश्चर्यं श्रोतुमिच्छाम्यशेषतः ।।1।।
<39.7.2>आख्याहि मे महाश्चर्यं एतत्पुण्यमनुत्तमम्।
वामदेवः-----
लीलया देवदेवेन विष्णुना प्रभविष्णुना ।।2।।
<39.7.3>तदाऽऽसीदद्भुतं दिव्यं विमानं मुनिसेवितम्।
अन्तर्हितं कृतं राजन् मायया दिव्यया स्वया ।।3।।
<39.7.4>सर्व एते मुनिश्रेष्ठाः सुचिरं गिरिमूर्धनि।
चरेयुरिति देवेन ह्यादावन्तर्हितं कृतम् ।।4।।
<39.7.5>स्वेनैव तेषां सर्वेषां मुनीन्द्राणां महात्मनाम्।
मायामपास्य स्वं दिव्यं विमानं दर्शितं पुनः ।।5।।
<39.7.6>तस्मान्मुनिवराः पूर्वं नापश्यन् दिव्यमुत्तमम्।
विमानं सर्वपापघ्नं सर्वलोकेषु विश्रुतम् ।।6।।
<39.7.7>अप्राकृतमनाद्यन्तं वैकुण्ठादागतं महत्।
श्रीसहायस्य तद्विष्णोः विहारायतनं सदा ।।7।।
<39.7.8>दृष्टवन्तश्च तद्दिव्यं प्रसादात् जगदीशितुः।
हरेर्भगवतस्तस्य तदद्भुतमिवाभवत् ।।8।।
<39.7.9>एतच्चापि समाख्यातं यत्पृष्टोऽहं त्वया नृप!।
श्रोतव्यं यत्त्वया चान्यत् तत्पृच्छ कथयामि ते ।।9।।
जनकः-----
<39.7.10>अगस्त्यप्रमुखास्तत्र किमकुर्वंस्ततः परम्।
मुनयो मुनिशार्दूल! तन्मे कथय सुव्रत! ।।10।।
%स्वामिपुष्करिण्यां अगस्त्यादिकृतभगवन्मन्त्रोपासनाप्रकारः%
वामदेवः----
<39.7.11>अगस्त्याद्यास्ततस्तस्मिन् भगवत्यच्युतेऽमले।
अन्तर्हिते जगद्धाम्नि परे ब्रह्मणि केशवे ।।11।।
<39.7.12>कृतवन्तो महात्मानो यत्तत्र कथयामि तत्।
चिरकालं विमानेऽस्मिन् पुण्ये पुण्यप्रदायिनि ।।12।।
<39.7.13>वसाम तत्परं ब्रह्म चिन्तयामो जनार्दनम्।
पुष्करिण्या विशालायाः तस्या एव शभे जले ।।13।।
<39.7.14>सर्वपापहरे शुद्धे स्नात्वा स्नात्वा दिने दिने।
सर्वे सम्पूज्य तपसा तमासाद्य दिवानिशम् ।।14।।
<39.7.15>एवमुक्त्वा ततः सर्वे मुनयोऽमलचेतसः।
ऊषुस्तस्मिन् विमाने ते द्वादशाब्दं नराधिप! ।।15।।
<39.7.16>तपस्तीव्रं समास्थाय विष्णोराराधनोद्यताः।
स्वामिपुष्करिणीं दिव्यां सेवमाना अहर्निशम् ।।16।।
<39.7.17>जपेरष्टाक्षरं मन्त्रं मुक्तिबीजमनुत्तमम्।
विद्वद्भिः प्रेस्यते पूर्वैः यो मन्त्रो मुक्तिकाङ्क्षिभिः ।।17।।
<39.7.18>अर्थार्थिभिस्तथान्यैश्च कामसंसिद्धये नृप!।
जजाप यं परं मन्त्रं पुरा ब्रह्मा सनातनम् ।।18।।
<39.7.19>कल्पादौ सर्वदेवेशः सिसृक्षुर्विविधाः प्रजाः।
तथा संहारसमये सम्प्राप्ते चन्द्रशेखरः ।।19।।
<39.7.20>यमभ्यस्य महामन्त्रं शक्तिं प्राप्नोति दुर्लभाम्।
यत्समं चाधिकं वा न त्रिषु लोकेषु विद्यते ।।20।।
<39.7.21>तथा सर्वेषु मन्त्रेषु वैदिकेषु शुभेषु च।
यं ज्ञात्वा सर्वपापेभ्यो विमुच्यन्तेऽत्र मानवाः ।।21।।
<39.7.22>सर्वान् कामांश्च विन्दन्ति यं जप्त्वा मन्त्रमुत्तमम्।
तं मन्त्रं सर्वपापघ्नं सर्वशोकप्रणाशनम् ।।22।।
<39.7.23>जेपुस्ते मुनयः सर्वे द्वादशाब्दमहर्निशम्।
समाप्ते द्वादशे वर्षे मुनयस्ते तपोधनाः ।।23।।
%अगस्त्यादिकृतो भगवत्सेवापूर्वकः स्वावासगमनोद्योगः%
<39.7.24>अगस्त्यप्रमुखाः सर्वे समाराध्य जगत्पतिम्।
शङ्खचक्रधरं देवं चतुर्बाहुं किरीटिनम् ।।24।।
<39.7.25>श्रीभूमिसहितं देवं उदयादित्यसन्निभम्।
सहस्रशो विमानं तत् कृत्वा चापि प्रदक्षिणम् ।।25।।
<39.7.26>प्रणम्य च जगन्नाथं सर्वलोकेश्वरं हरिम्।
गन्तुं प्रचक्रमुस्तस्मात् वेङ्कटाख्यात् नगोत्तमात् ।।26।।
%भगवद्विमानमन्तर्हितं दृष्ट्वा अगस्त्यादिकृता चिन्ता%
<39.7.27>एतस्मिन्नन्तरे तत्र विमानं मुनिसेवितम्।
पश्यतामेव सर्वेषां मुनीन्द्राणां महात्मनाम् ।।27।।
<39.7.28>पुनश्चापि जगद्धातुः मायया दिव्यया स्वया।
अन्तर्हितं कृतञ्चासीत् तदद्भुतमिवाभवत् ।।28।।
<39.7.29>ततस्तु मुनयः सर्वे परं विस्मयमागताः।
मुनयः----
अहोऽतीव महाश्चर्यं कृतमेतन्महात्मना ।।29।।
<39.7.30>पुनश्च देवदेवेन हरिणाऽद्भुतकारिणा।
यदेतन्महदाश्चर्यं विमानं पुण्यसेवितम् ।।30।।
<39.7.31>अन्तर्हितं कृतं पूर्वं दर्शितञ्च पुनस्तथा।
इदानीञ्च पुनस्तेन माययाऽन्तर्हितं कृतम् ।।31।।
<39.7.32>अहो बत! महाश्चर्यं अहो बत! महाद्भुतम्।
दृष्टमेतत्तदध्यक्षे सेविते माधवे शुभे ।।32।।
<39.7.33>एवंविधानि वाक्यानि प्रोच्य प्रोच्य पुनः पुनः।
विस्मयाविष्टहृदयाः तस्थुस्तत्रैव ते द्विजाः ।।33।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये
भगवद्विमानान्तर्धानहेत्वादिनिरूपणं नाम
एकोनचत्वारिंशोऽध्यायः।
-----------
अथ चत्वारिंशोऽध्यायः
--------------
%शेषाद्रिवायव्यभागस्थितमहाभूतस्य नारायणाद्रित्ववर्णनम्%
जनकः------
<40.7.1>वायव्यां दिशि यो देवो गिरेस्तस्य महीयसः।
दृष्टो मुनिवरैः पूर्वं कोऽसौ ब्रह्मन्! वदस्व मे ।।1।।
वामदेवः-----
<40.7.2>स राजन् नगराजस्तु नारायणगिरिः स्वयम्।
आसीनो वपुरास्थाय स्वकं दिव्यं महाद्भुतम् ।।2।।
%वसोर्भगवन्मन्त्रोपासनापूर्वकं स्वामितीर्थस्थितिवर्णनम्%
जनकः----
<40.7.3>अन्तर्हिते जगन्नाथे वसुः परमधार्मिकः।
तपः परं सा राजर्षिः अकरोत्किं महामुने! ।।3।।
वामदेवः----
<40.7.4>स राजाऽन्तर्हिते देवे देवदेव सनातने।
कृतवान् यन्महीपाल! तदाख्यास्ये निशामय ।।4।।
<40.7.5>तस्मिन्नेव विमानेऽसौ राजोपरिचरो वसुः।
आराधयन् हृषीकेशं वासुदेवं सनातनम् ।।5।।
<40.7.6>द्वादशाक्षरमेवैकं परं मन्त्रं जजाप ह।
सेवमानश्च तां दिव्यां स्वामिपुष्करिणीं शुभाम् ।।6।।
<40.7.7>उवास परया भक्त्या द्वादशाब्दं महामतिः।
नृपेन्द्र कथयिष्येऽन्यत् श्रूयतामित्यथाब्रवीत् ।।7।।
%श्वेतद्वीपवासिसिद्धादीनां श्रीवेङ्कटाचलात् स्वावासगमनम्%
<40.7.8>ते सर्वे सङ्गतास्तत्र नारायणगिरौ नृप।
शङ्खचक्रधराः सर्वे श्वेतद्वीपनिवासिनः ।।8।।
<40.7.9>"नमो भगवते वासुदेवा"येत्यजपंस्तदा।
तस्मिन् विमाने न्यवसन् चिरकालमथो नृप! ।।9।।
<40.7.10>अर्चयन्तश्च गोविन्दं भक्त्या परमया तदा।
अनुज्ञाताश्च देवेन श्वेतद्वीपमथागमन् ।।10।।
<40.7.11>एतञ्चापि समाख्यातं यत्पृष्टोऽहं त्वया नृप!।
यदन्यत्तव वक्तव्यं तत्पृच्छ कथयामि ते ।।11।।
जनकः----
<40.7.12>सनकाद्या महात्मानो येऽन्ये तत्र समागताः।
अन्तर्हिते जगन्नाथे किमकुर्वंस्ततः परम् ।।12।।
वामदेवः-----
<40.7.13>सप्तर्षयश्च देवाश्च शुक्रश्चापि महामतिः।
बृहस्पतिश्च भगवान् सनकाद्याश्च योगिनः ।।13।।
<40.7.14>सर्व एते महाभागा नमस्कृत्य जनार्दनम्।
महीधरं प्रशंसन्तः स्वालयान् प्रतिपेदिरे ।।14।।
<40.7.15>शङ्खश्चापि जगद्धातुः प्रसादादेव भूपते!।
विमानमद्भुताकारं अप्सरोगणसेवितम् ।।15।।
<40.7.16>आरुह्य गीयमानस्तु शक्रलोकमवाप्तवान्।
विष्वक्सेनश्च भगवान् सचिवैः बलिभिर्वृतः ।।16।।
<40.7.17>सप्तभिः भूरितेजोभिः महेन्द्रसमविक्रमैः।
असुराणां वधं चक्रे यथोक्तं परमेष्ठिना ।।17।।
जनकः----
<40.7.18>अन्तर्हिते ततस्तस्मिन् विमाने मुनिसेविते।
अगस्त्यो भगवान् ब्रह्मन्! अकरोत् किं महामुनिः? ।।18।।
%अगस्त्यकृतभाविविमानाविर्भावहेतुनिरूपणम्%
वामदेवः-----
<40.7.19>अगस्त्यो भगवान् भूप! मुनीन्द्रानिदमब्रवीत्।
यदेतद्दर्शितं दिव्यं विमानं लोकपावनम् ।।19।।
<40.7.20>पूर्वं भगवता तेन विष्णुना प्रभविष्णुना।
तदत्रैव महाशैले सदा तिष्ठति पूजितम् ।।20।।
<40.7.21>अन्तर्हितं न केनापि शक्यते द्रष्टुमञ्जसा।
युगे युगे तु यः कश्चित् तपसा भावयेद्धरिम् ।।21।।
<40.7.22> स तस्य कृपया दिव्यं विमानं पश्यति ध्रुवम्।
आगामिनि कलौ चापि सम्प्राप्ते पुण्यमुत्तमम् ।।22।।
<40.7.23>विमानं सर्वपापघ्नं विष्णुनाऽधिष्ठितं सदा।
पश्यतां सर्वभूतानां आह्लादजनकं शुभम् ।।23।।
<40.7.24>देवर्षिदैत्यगन्धर्वदेवसिद्धनिषेवितम्।
मनुजैरेव तद्भक्तैः कारितं लक्षणान्वितम् ।।24।।
<40.7.25>भविष्यति महाश्चर्यं मुनीन्द्रा नात्र संशयः।
तत्रैव भगवान् विष्णुः स्थास्थत्यक्षयशक्तिधृक् ।।25।।
<40.7.26>विमाने तु जगन्नाथः पूर्वं दृष्टो हरिः स्वयम्।
शङ्खचक्रधरः श्रीमान् चतुर्बाहुस्वरूपवान् ।।26।।
<40.7.27>अस्मिन् जगति विप्रेन्द्रा! विश्रुतञ्च भविष्यति।
विमानं तदघौघघ्नं त्रैलोक्यतिलकोपमम् ।।27।।
वामदेवः-----
<40.7.28>एवमुक्त्वा मुनीन्द्रांस्तान् अगस्त्यो भगवांस्तदा।
गन्तुं चक्रे मनस्तस्मात् प्रणिपत्य जनार्दनम् ।।28।।
<40.7.29>अगस्त्योऽथ महातेजाः वरान् प्राप्य सुदुर्लभान्।
मुनिभिः संवृतो राजन्! महेन्द्रमगमद्गिरिम् ।।29।।
<40.7.30>एवमेषा पुरा वृत्ता कथा ते कथिता मया।
विश्रुता सर्वलोकेषु किमन्यत् ज्ञातुमिच्छसि? ।।30।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये
भविष्यद्विमानप्रादुर्भाववर्णनं नाम
चत्वारिंशोऽध्यायः।
----------
अथ एकचत्वारिंशोऽध्यायः
-------------
%देवजिदाद्यसुरकृतलोकोपद्रववर्णनम्%
जनकः-----
<41.7.1>ब्रह्मन्! नियुक्तो देवेन विष्वक्सेनः स वीर्यवान्।
तेषां वधं कथं चक्रे दैत्येन्द्राणां तरस्विनाम् ।।1।।
<41.7.2>एतन्मे महदाश्चर्यं चरितं तस्य धीमतः।
विष्वक्सेनस्य देवस्य तत्त्वेनाख्यातुमर्हसि ।।2।।
वामदेवः------
<41.7.3>एतत्ते कथयिष्यामि श्रृणुष्व श्रद्धयाऽन्वितः।
पुराऽवधीत् यथा दैत्यान् विष्वक्सेनो महाबलः ।।3।।
<41.7.4>पुराऽभवन्महावीर्याः हिरण्याक्षस्य वंशजाः।
"देवजिन्मृत्युजिच्चापि शत्रुजि"च्चेति ते त्रयः ।।4।।
<41.7.5>भ्रातरः सुमहासत्त्वाः महामाया महौजसः।
ब्रह्माणं ते समाराध्य स्रष्टारं भुवनेश्वरम् ।।5।।
<41.7.6>सर्वदेवैरवध्यत्वमवापुर्मनुजेश्वर!।
ततः सकलदैतेयैर्महामात्यैर्महाबलैः ।।6।।
<41.7.7>अनेकशतसाहस्रैः संवृतास्ते महीमिमाम्।
विचेरुरवनीपाल! नाशयन्त इमाः प्रजाः ।।7।।
<41.7.8>क्षोभितास्तैस्तु सहसा शोषिता वरुणालयाः।
तेषां वीर्येण महता पर्वताश्च चकम्पिरे ।।8।।
<41.7.9>ययुर्विनाशं सहसा प्रजाः सर्वाः प्रजेश्वर।
यज्ञभागभुजो देवा यज्ञभागं न लेभिरे ।।9।।
<41.7.10>त एव बुभुजुर्दैत्या यज्ञभागान् सुदुर्मदाः।
न यज्ञाः समवर्तन्त तपश्चक्रुर्न तापसाः ।।10।।
<41.7.11>न तताप तदा सूर्यो न जज्वाल च पावकः।
निर्जिताश्चाभवन्देवा युद्धे परमदारुणे ।।11।।
<41.7.12>दैतेयैर्विजिता देवाः शरणं प्रतिपेदिरे।
नारायणाचले दिव्ये वसन्तं पुरुषोत्तमम् ।।12।।
%देवजिदाद्यसुरवधार्थं सपरिकरस्य विष्वक्सेनस्य गमनम्%
<41.7.13>एवं प्रवृत्ते लोकेऽस्मिन् दैतेयैस्तैर्मदोत्कटैः।
विष्वक्सेनः समाज्ञप्तो विभुना हरिणा बली ।।13।।
<41.7.14>तेषां वधार्थं सर्वेषां दैत्येन्द्राणां बलीयसाम्।
अभ्यगात्सचिवैः सार्धं सप्तभिर्बलशालिभिः ।।14।।
<41.7.15>अनेकशतसाहस्रैर्भूतसङ्घैः समावृतः।
महाबलैर्महावीर्यैः भूभारहरणक्षमैः ।।15।।
<41.7.16>संवृतस्तैर्महातेजाः सोऽगच्छद्विमलेऽम्बरे।
व्यराजत यथा शक्रः संवृतस्त्रिदशेश्वरैः ।।16।।
<41.7.17>आकाशं तदनाकाशं कृतमासीदभास्करम्।
आयान्तमथ चाकर्ण्य विष्वक्सेनं च तद्बलम् ।।17।।
<41.7.18>तेऽपि दैत्या महावीर्या बलवन्तो यशस्विनः।
आहूय सर्वानसुरान् पातालतलवासिनः ।।18।।
<41.7.19>सागरेषु च शैलेषु नदीषु च वनेषु च।
ये वसन्ति महावीर्या दारुणा दानवेश्वराः ।।19।।
<41.7.20>तान्सर्वांस्ते समाहूय समरेष्वनिवर्तिनः।
युद्धाभिमानिनस्तेऽथ सह दैतेयदानवैः ।।20।।
<41.7.21>देवजित्प्रमुखा जग्मुः योद्धुं तेन महात्मना।
विष्वक्सेनेन ते तेन गिरिशेनेव राक्षसाः ।।21।।
%विष्वक्सेनासुरसैनिकयोर्युद्धक्रमः%
<41.7.22>देवस्य सैनिकाश्चापि दैत्येन्द्राणाञ्च सैनिकाः।
ततो युद्धं महारौद्रं समवर्तत दारुणम् ।।22।।
<41.7.23>सेनयोरुभयोश्चापि दैवासुरमिवापरम्।
नानाप्रहरणैरुग्रैः निजघ्नुस्ते परस्परम् ।।23।।
<41.7.24>विष्वक्सेनानुगाश्चापि दैत्येन्द्राश्च बलीयसः।
तैर्मुक्तैरस्त्रजालैश्च शस्त्रौघैश्चापि संयुगे ।।24।।
<41.7.25>दह्यमानमिवाकाशं आसीत्सर्वग्रहाकुलम्।
जाज्वल्यमानं तं दृष्ट्वा गगनं गगनेचराः ।।25।।
<41.7.26>परित्यज्य नृपाकाशं भयाज्जग्मुर्दिशो दश।
ततो देवजिता मुक्ताः घोरा माया महौजसा ।।26।।
<41.7.27>तान् सर्वान् मोहयामासुः विष्वक्सेनस्य सैनिकान्।
विष्वक्सेनस्य सचिवस्ततः क्रुद्धो महामतिः ।।27।।
<41.7.28>"मेधावी"नाम बलवान् सर्वमायाविशारदः।
मायाबलेन तां मायां अजयत्सर्वमोहिनीम् ।।28।।
<41.7.29>ततो धनुर्महद्दिव्यं आदाय विमलप्रभम्।
अच्छेद्यं सर्वशत्रूणां दत्तमव्यक्तरूपिणा ।।29।।
<41.7.30>अनेकरत्नसंछन्नं जाम्बूनदपरिष्कृतम्।
मुमोच निशितान् बाणान् दैत्येन्द्राणां महौजसाम् ।।30।।
<41.7.31>निहतास्तेन दैतेयाः शतशोऽथ सहस्रशः।
मुक्त्वा प्रियतरान् प्राणान् निपेतुर्धरणीतले ।।31।।
<41.7.32>नियतांस्तानथालोक्य मृत्युजित् क्रोधमूर्च्छितः।
मोहयामास सर्वास्तान् मायया देवसैनिकान् ।।32।।
<41.7.33>"शत्रुघ्नो"नाम शत्रुघ्नः क्रोधेन महतान्वितः।
असिरत्नं समादाय विमलार्कसमप्रभम् ।।33।।
<41.7.34>चिच्छेद तस्य दैत्यस्य शिरोज्वलितकुण्डलम्।
तस्यासीद्भूय एवाशु शिरस्तुङ्गकिरीटवत् ।।34।।
<41.7.35>शत्रुजित्तस्य तत्कर्म शत्रुघ्नस्य बलीयसः।
सम्पश्यन् घोरसङ्काशो मायामुग्रामथाददे ।।35।।
<41.7.36>विजेतुं दुर्मदः सर्वान् विष्वक्सेनमुखान् मृधे।
तया ते निष्प्रभा आसन् विष्वक्सेनस्य सैनिकाः ।।36।।
<41.7.37>तां दृष्ट्वा सहसा क्रुद्धः सचिवस्तस्य धीमतः।
मायामुग्रां महातेजाः "कालाग्नि"र्नाम वीर्यवान् ।।37।।
<41.7.38>आसुरीं नाशयामास तदद्भुतमिवाभवत्।
आददे महतीं शक्तिं शत्रुजिद्वधकारणात् ।।38।।
<41.7.39>मुमोचाथ सतां दीप्तां "कालाग्नि"स्तरसा बली।
शक्त्या विदारितो दैत्यः पपाताथ महीतले ।।39।।
<41.7.40>गतासुरिव निश्चेष्टः पुनश्चापि समुत्थितः।
देवजिन्मृत्युजिञ्चापि शत्रुजिञ्चाप्यथात्मवान् ।।40।।
<41.7.41>क्रोधेन महताविष्टाः त्रयस्त्रय इवाग्नयः।
धनूंष्याकृष्य दिव्यानि दत्तान्यव्यक्तजन्मना ।।41।।
<41.7.42>ब्रह्मणा देवदेवेन कल्पादौ परमेष्ठिना।
महास्त्रञ्च तथा दिव्यं भीमं पाशुपतं तथा ।।42।।
<41.7.43>वायव्यं वारुणञ्चापि सौरमाग्नेयमेव च।
ऐन्द्रञ्चापि तथा रौद्रं याम्यञ्चापि सुदुस्तरम् ।।43।।
<41.7.44>विमोहनकरं घोरं गान्धर्वञ्च सुदुर्जयम्।
जृम्भणास्त्रं तथा घोरं कौबेरं वारुणं तथा ।।44।।
<41.7.45>एवमादीनि चान्यानि दिव्यान्यस्त्राणि संयुगे।
मुमुचुः शतशो राजन्! सेनायां तस्य धीमतः ।।45।।
<41.7.46>ब्रह्मास्त्राद्यैस्तथा दीप्तैः अस्त्रैः शत्रुभयङ्करैः।
ज्वालार्चिष्मत्तदाकाशं अपेतग्रहभास्करम् ।।46।।
<41.7.47>अपेतचन्द्रतारौघं निपतच्छुकसारिकम्।
दृश्यते सङ्कुलं तत्र संहारसमये यथा ।।47।।
%विष्वक्सेनकृतनारायणास्त्रप्रयोगपूर्वकासुरवधप्रकारः%
<41.7.48>ततो देवः स भगवान् विष्वक्सेनः प्रतापवान्।
दृष्ट्वा विस्मयमापन्नो दैतेयांस्तानलोकयत् ।।48।।
<41.7.49>"साधु साध्वि"ति चाभाष्य जहर्ष च ननाद च।
स्वकं धनुर्महद्दिव्यं तप्तजाम्बूनदप्रभम् ।।49।।
<41.7.50>विस्फार्य स महातेजाः शार्ङ्गञ्चापमिवापरम्।
नारायणीयं सहसा सन्दधेऽस्त्रं शरासने ।।50।।
<41.7.51>तदस्त्रं मृत्युसङ्काशं अनिवार्यं सुरासुरैः।
कालाग्निरिव जज्वाल कल्पान्ते सर्वनाशनः ।।51।।
<41.7.52>ततः सङ्क्षोभमायातं जगदेतच्चराचरम्।
चुक्षुभुः सागराः सर्वे पर्वताश्च चकम्पिरे ।।52।।
<41.7.53>तदस्त्रं तेन निर्मुक्तं ज्वालामालि महात्मना।
समीक्ष्य सर्वभूतानि राजन्! नेदुः सुदारुणम् ।।53।।
<41.7.54>आगतास्तेऽपि ये तत्र शुद्धदर्शनलालसाः।
ते सर्वे गगनं त्यक्त्वा दुद्रुवुः सर्वतो दिशम् ।।54।।
<41.7.55>देवाश्चापि तदा सर्वे मुनयश्च तपोधनाः।
दृष्ट्वा तदस्त्रमत्युग्रं प्रोचुरेवं परस्परम् ।।55।।
<41.7.56>संहारसमयः प्राप्तो विस्मयः क्रियतेऽत्र किम्?।
नारायणेन भूतानां आदिभूतेन शार्ङ्गिणा ।।56।।
<41.7.57>संहारः क्रियते नूनं लोकानामद्य विष्णुना।
विष्वक्सेनेन सर्वात्मा जगत्संहारमीश्वरः ।।57।।
<41.7.58>करोति नूनं भगवान् संहारकुतुकी हरिः।
किमयं क्रियते तेन व्यापारः परमेष्ठिना ।।58।।
<41.7.59>अकाले जातमस्माकं निष्फलं दर्शनं विभोः।
एवंविधान्यनेकानि वाक्यानि त्रिदशालयाः ।।59।।
<41.7.60>वदन्तो भृशमुद्विग्ना जग्मुस्ते सर्वतो दिशम्।
अथ देवः स भगवन् विष्वक्सेनस्तदा नृप! ।।60।।
<41.7.61>नारायणीयमस्त्रं तत् मुमोचादित्यसन्निभम्।
मुक्तं तदस्त्रमत्युग्रं सर्वसंहारकारणम् ।।61।।
<41.7.62>अदहद्वाहिनीं तां तु दैत्येन्द्राणां दुरात्मनाम्।
देवजित्प्रमुखैः सार्धं वृत्रकल्पैर्महाबलैः ।।62।।
<41.7.63>सा तु सेना प्रजज्वाल दह्यमानास्त्रपावकैः।
शम्भुना दह्यमानानि त्रिपुराणि यथा पुरा ।।63।।
<41.7.64>अस्त्राग्निदग्धदेहास्ते साश्वाः सरथकुञ्जराः।
देवजित्प्रमुखाः सर्वे सानुगाः सहबान्धवाः।
निपेतुर्धरणीपृष्ठे दग्धपक्षा इव द्विजाः ।।64।।
<41.7.65>गतासवस्ते न्यपतन् सहस्रशो नरेन्द्र भूमौ दितिजेश्वरात्मजाः।
प्रच्छादयन्तः सकलां महीमिमां प्रदग्धकेशाम्बरभूषणोत्तमाः ।।65।।
<41.7.66>सा चोग्रवेगा दितिजेश्वराणां सेनाऽतिभीमा समरेष्वजेया।
अस्त्राग्निदग्धा न च भूतसङ्घैः अदृश्यताऽकाशगतैर्न देवैः ।।66।।
%देवादिकृतविजयोपचारस्तुत्यादिः%
<41.7.67>ततस्तु देवाश्च निशाचराश्च गन्धर्वयक्षोरगपन्नगाश्च।
महर्षयश्चाप्रतिमप्रभावा निपातितांस्तानवलोक्य दैत्यान् ।।67।।
<41.7.68>अपूजयंस्ते समुपेत्य सर्वे देवं महावीर्यमुपस्थितं तम्।
प्रणम्य देवाधिपतेरमात्यं शिरोभिरुत्फुल्लविलोललोचनैः ।।68।।
<41.7.69>तमूचुरेनं वचनैर्नरेन्द्र! सर्वे सुराद्याः परमं प्रहृष्टाः।
समं ततस्तं परिवार्य देवं गृहीतचापं निहतेन्द्रशत्रुम् ।।69।।
इन्द्रादयः------
<41.7.70>कृतं त्वयैतद्भगवन्! सुराणां सुदुष्करं कर्म तवानुरूपम्।
अन्येन नैते समरे निहन्तुं शक्या विना त्वां समुदग्रवीर्यम् ।।70।।
<41.7.71>तैरेवमुक्तः सहसा महात्मा सम्पूजितस्तान् प्रतिपूज्य सर्वान्।
अन्तर्दधे सानुचरः सवाहनः तत्रैव तेषामथ पश्यतां तथा ।।71।।
<41.7.72>मया नृपेन्द्राखिलमेतदुक्तं तवाद्भुतं देवजिदादिनाशनम्।
एवंविधं नैव पुरा प्रवृत्तं ऋते दशग्रीववधात् सुघोरात् ।।72।।
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये
विष्वक्सेनकृतदेवजिदादिवधवर्णनं नाम
एकचत्वारिंशोऽध्यायः।
-----------
अथ द्विचत्वारिंशोऽध्यायः
------*---------
%भविष्यच्छ्रीभगवद्दिव्यविमानवर्णनम्%
वामदेवः-----
<42.7.1>"एवं दैत्यवधं देवो विष्वक्सेनस्तु वीर्यवान्।
चक्रे पुरा महीपाल! देवदेवाज्ञया बली ।।1।।
</42.7.1>
<42.7.2>एतन्मया समाख्यातं पुरावृत्तमनुत्तमम्।
इतिहासं महापुण्यं सर्वलोकेषु विश्रुतम् ।।2।।
</42.7.2>
<42.7.3>वेङ्कटाख्ये गिरौ तस्मिन् अत्यर्थं तेन धीमता।
अगस्त्येन मुनीन्द्राणां भविष्यत्कथितं नृप! ।।3।।
</42.7.3>
<42.7.4>आगामिनि युगे चापि सम्प्राप्ते तु कलौ युगे।
अदृश्यत्वाद्विमानस्य नित्यस्यामिततेजसः ।।4।।
</42.7.4>
<42.7.5>तस्या एव शुभे तीरे पुष्करिण्या महाद्भुतम्।
अतुलं कारितं भक्तैः विमानं सूर्यसन्निभम् ।।5।।
</42.7.5>
<42.7.6>भविष्यतीति तस्यापि माहात्म्यं कथये तव।
तच्चापि महदाश्चर्यं विमानं सुरपूजितम् ।।6।।
</42.7.6>
<42.7.7>शोभितं देवदेवेन भविष्यति न संशयः।
बहुवर्षशतैः राजन्! न च शक्यं सुरैरपि ।।7।।
</42.7.7>
<42.7.8>वक्तुं तस्य विमानस्य माहात्म्यं विस्तरेण तु।
यत्र देवाधिदेवोऽसौ सान्निध्यं कुरुते हरिः ।।8।।
</42.7.8>
<42.7.9>स्वभक्तानां हितार्थाय त्रैलोक्यानुग्रहाय च।
शोभितं देवदेवेन श्रीभूमिसहितेन तत् ।।9।।
</42.7.9>
<42.7.10>विमानं मनुजैः राजन्! यैर्दृष्टं पापनाशनम्।
विष्णोस्तस्य प्रसादेन ते नरा ध्वस्तबन्धनाः ।।10।।
</42.7.10>
<42.7.11>प्राप्नुवन्ति परं धाम ब्रह्म यत्तत्सनातनम्।
तत्रापि तु युगे राजन्! तद्विमानदिदृक्षवः ।।11।।
</42.7.11>
<42.7.12>देवाः सर्वेऽपि गच्छन्ति सिद्धाश्च सहचारणैः।
ऋषयश्च सगन्धर्वा यक्षाश्च सहपन्नगैः ।।12।।
</42.7.12>
<42.7.13>आदित्या वसवो रुद्रा दिक्पाला मरुतस्तथा।
ब्रह्मा चतुर्मुखो देवो भगवाञ्छम्भुरेव च ।।13।।
</42.7.13>
<42.7.14>एवमाद्यास्तथाऽन्ये च भक्त्या परमया युताः।
उपतिष्ठन्ति तं देवं देवदेवशमीश्वरम् ।।14।।
</42.7.14>
<42.7.15>स्नात्वा च मनुजास्तस्मिन् स्वामिपुष्करिणीजले।
प्रणम्य देवदेवेशं नारायणमनामयम् ।।15।।
</42.7.15>
<42.7.16>तस्मिन् विमाने गोविन्दं वसन्तं पुरुषोत्तमम्।
स्तुवन्ति दिव्यैः स्तोत्रैश्च नमन्तश्चाप्यहर्निशम् ।।16।।
</42.7.16>
<42.7.17>सर्वे पातकिनश्चापि तद्दृष्ट्वा पुण्यमुत्तमम्।
विमानं सर्वशोकघ्नं सर्वरोगप्रणाशनम् ।।17।।
</42.7.17>
<42.7.18>विमुक्ताः सर्वपापेभ्यो भविष्यन्ति न संशयः।
यत्र क्वापि वसन् देशे विमानाभिमुखं नरः ।।18।।
</42.7.18>
<42.7.19>वेङ्कटाद्रिं नमस्कृत्य सद्यः पापैर्विमुच्यते।
सङ्क्षेपेण मयाऽप्येतन्माहात्म्यं कथितं तव ।।19।।
</42.7.19>
<42.7.20>तस्य पुण्यस्य भूपाल! विमानस्य महीयसः।
अतः परं तु स्नेहेन स्वयमेव वदाम्यहम् ।।20।।
</42.7.20>
<42.7.21>त्वया न पृष्टं राजेन्द्र! गुह्याद् गुह्यतरं महत्।
अत्यद्भुतमिदं भूप! श्रृणुष्व गदतो मम ।।21।।
</42.7.21>
<42.7.22>नारायणगिरौ तस्मिन् आस्ते नारायणः स्वयम्।
गुहासु चापि सर्वासु सर्वेषु शिखरेषु च ।।22।।
</42.7.22>
<42.7.23>कन्दरेषु च सर्वेषु निर्झरेषु शुभेषु च।
भगवान् देवदेवेशः सर्वस्मिन् गिरिमूर्धनि ।।23।।
</42.7.23>
<42.7.24>नानाविधानि रूपाणि बिभ्रद्विहरति स्वयम्।
क्वचिञ्च देवरूपेण क्वचिन्मानुषरूपतः ।।24।।
</42.7.24>
<42.7.25>क्वचिच्च मृगरूपेण क्वचिद्वृक्षादिरूपतः।
यत्र कुत्रचिदासीनः तस्मिन् दिव्ये महागिरौ ।।25।।
</42.7.25>
<42.7.26>देवदेवं समाराध्य य उपास्ते जनार्दनम्।
करोति तस्य सान्निध्यं भगवानादिकृद्धरिः ।।26।।
</42.7.26>
<42.7.27>वृषभाचलभूभागे घटिकामपि यो वसेत्।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ।।27।।
</42.7.27>
<42.7.28>ये तत्र कुर्वते पापं अज्ञानाद्वेङ्कटाचले।
हन्युस्तान् सर्व एवैते गन्धर्वाः शस्त्रपाणयः ।।28।।
</42.7.28>
<42.7.29>आज्ञया तस्य देवस्य विष्वक्सेनस्य धीमतः।
तस्मान्न कुर्यात्पापन्तु नरस्तस्मिन् महीधरे ।।29।।
</42.7.29>
<42.7.30>न हि तत्र गिरौ कश्चिद् वृक्षः पक्षी मृगोऽथ वा।
प्राकृतो जायते देवाः सर्वे तद्रूपिणस्तथा ।।30।।
</42.7.30>
<42.7.31>तस्य देवस्य सेवार्थं सान्निध्यं कुर्वते सदा।
एवं प्राह पुराऽगस्त्यो भगवान् मुनिसत्तमाः! ।।31।।
</42.7.31>
<42.7.32>मया पृष्टः समाचख्यौ गन्धमादनपर्वते।
नारायणगिरेस्तस्य माहात्म्यं परमाद्भुतम् ।।32।।
</42.7.32>
<42.7.33>विस्तरेण समाख्यातं मयाऽपि तव भूपते!।
अन्यच्चापि समाख्यास्ये त्वयाऽपृष्टं नराधिप! ।।33।।
</42.7.33>
<42.7.34>तस्मिन्नद्रौ तु यत्पुण्यं दानानि ददतां नृप!"।
इत्युक्तो जनकस्तेन पप्रच्छाऽथ मुनिं पुनः ।।34।।
</42.7.34>
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये
भविष्यद्विमानवर्णनं नाम
द्विचत्वारिंशोऽध्यायः।
---------
अथ त्रिचत्वारिंशोऽध्यायः
----------------
%स्वामिपुष्करिणीतीरकृतान्नदानादिप्रशंसा%
जनकः-----
<43.7.1>"श्रुतमेतन्मयाऽऽख्यानं वामदेव! त्वयोदितम्।
सर्वज्ञं परमं ब्रह्म जानीमो मुनिसत्तम! ।।1।।
</43.7.1>
<43.7.2>क्षेत्रखण्डे त्वया सर्वाण्युक्तानि तपतां वर!।
क्षेत्राणि यानि पुण्यानि तीर्थानि विमलानि च।।2।।
</43.7.2>
<43.7.3>तेषु तेषु च दानानि प्रशस्तानि त्वया मुने!।
नारायणगिरावस्मिन् कृत्वा दानमनुत्तमम् ।।3।।
</43.7.3>
<43.7.4>यत्फलं प्राप्नुयाद्देही पापराशिं विधूय वै।
तद्वदस्व मुनिश्रेष्ठ! श्रोतुं कौतूहलं हि मे" ।।4।।
</43.7.4>
शतानन्दः----
<43.7.5>इति पृष्टस्तदा तेन जनकेन महात्मना।
यत्पुण्यं ददतां तत्र दानानाञ्च यथाफलम् ।।5।।
</43.7.5>
<43.7.6>तत्सर्वं मुनिशार्दूलो वक्तुं समुपचक्रमे।
वामदेवः---
"श्रृणुष्वावहितो राजन्! यत्पृष्टोऽहमिह त्वया" ।।6।।
</43.7.6>
<43.7.7>नारायणगिरावस्मिन् स्वामिपुष्करिणीतटे।
अन्नदानं प्रशस्तं हि दानानां दानमुत्तमम् ।।7।।
</43.7.7>
<43.7.8>नित्यमस्मिन्निवसतां अन्नपानादिकन्तु यः।
प्रयच्छेत् स इहैवाशु सर्वरोगैर्विमुच्यते ।।8।।
</43.7.8>
<43.7.9>भूमेर्गौश्च हिरण्यस्य वस्त्रगन्धादिकस्य च।
कन्यायाश्च चरेद्दानं तिलानामपि यो नरः ।।9।।
</43.7.9>
<43.7.10>प्रेत्य सोऽनुत्तमाँल्लोकान् प्राप्नुयात् पुण्यकर्मणाम्।
तेषां वसति लोकेषु यावत्कल्पमरिन्दम! ।।10।।
</43.7.10>
<43.7.11>ततो भक्तिं परां प्राप्य विष्णुलोके महीयते।
निष्कामो यो ददात्यन्नं स्वामिपुष्करिणीतटे ।।11।।
</43.7.11>
<43.7.12>स पुष्कलः प्रशस्तात्मा विष्णुभक्तिं प्रयास्यति।
तद्भक्तभावमापन्नः कालेनाल्पेन भूपते! ।।12।।
</43.7.12>
<43.7.13>प्राप्य योगं मुनिप्रोक्तं परमां गतिमाप्नुयात्।
स्वामिपुष्करिणीं प्राप्य स्नात्वा पीत्वा च तज्जलम् ।।13।।
</43.7.13>
<43.7.14>विधूय सर्वपापेभ्यो विष्णुलोके महीयते।
यावच्छक्त्यनुसारं वै सुवर्णं गामथापि वा ।।14।।
</43.7.14>
<43.7.15>वस्त्राणि वसुधां वापि तिलान् गन्धाननुत्तमान्।
यो ददाति स दीर्घायुः आरोग्यञ्चापि विन्दति ।।15।।
</43.7.15>
<43.7.16>प्राप्नुयात्सर्वकामांश्च भोगान् भुङ्क्ते च पुष्कलान्।
मुक्तश्च सर्वपापेभ्यः प्राप्नुयात् परमां गतिम् ।।16।।
</43.7.16>
%वामदेवं प्रति ब्रह्मोपदिष्टस्वामिपुष्करिणीमाहात्म्यम्%
<43.7.17>श्रृणु चास्मिन् पुरावृत्तं आख्यानं पर्वतोत्तमे।
यथा मे कथितं पूर्वं ब्रह्मणा परमेष्ठिना ।।17।।
</43.7.17>
<43.7.18>पूर्वं भूमिधरेन्द्रेऽस्मिन् ब्रह्माणं कमलासनम्।
उपासीनः समासीनो पर्वाणामधिकं शतम् ।।18।।
</43.7.18>
<43.7.19>अहं तीव्रं तपोऽकार्षं ब्रह्माणं प्रति भूमिप!।
कालेन महता तात! भगवान् कमलासनः ।।19।।
</43.7.19>
<43.7.20>आविर्बभूव पुरतः तपसा तोषितो मया।
स्वयमेव चतुर्वक्त्रो मां प्रबोध्य जनाधिप! ।।20।।
</43.7.20>
<43.7.21>मेघगम्भीरया वाचा प्रसन्नो वाक्यमब्रवीत्।
"परितुष्टोऽस्मि ते ब्रह्मन्! वामदेव द्विजोत्तम!"।।21।।
</43.7.21>
<43.7.22>यदिच्छसीह तद्दातुं वरदोऽहमिहागतः।
वरं वरय भद्रं ते यदिच्छसि महामुने!" ।।22।।
</43.7.22>
<43.7.23>इत्युक्तो ब्रह्मणा तेन प्रसन्नेन महात्मना।
अहमेवं नृपश्रेष्ठ! वृणे वरमनुत्तमम् ।।23।।
</43.7.23>
<43.7.24>स्वामिपुष्करिणी येयं अत्रास्ते पर्वतोत्तमे।
तस्या एव तु महात्म्यं ज्ञातुमिच्छामि तत्त्वतः ।।24।।
</43.7.24>
<43.7.25>माहात्म्यञ्च फलञ्चापि दर्शने स्नानपानयोः।
अस्यास्तीरे च दानानां यत्फलं तद्वदस्व मे ।।25।।
</43.7.25>
ब्रह्मोवाच---
<43.7.26>"अस्यास्तीरे पुरा ब्रह्मन्! चन्द्रः क्षीरोदसम्भवः।
सौवर्णं भूषणं दत्त्वा लावण्यं परमं ययौ ।।26।।
</43.7.26>
<43.7.27>कन्यां दत्त्वा पुरा ब्रह्मन्! कामः कामत्वमाप्तवान्।
धनदोऽपि धनेशत्वं स्वर्णदानादवाप्तवान् ।।27।।
</43.7.27>
<43.7.28>इन्द्रः षोडशदानानि स्वामिपुष्करिणीतटे।
कृत्वा षोडशदानानि दुर्जयानजयत् पुरा ।।28।।
</43.7.28>
<43.7.29>अस्मिन् गिरौ पुरा कश्चित् आगत्य ब्राह्मणोत्तमः।
जिज्ञासुः काव्यविन्नाम ब्रह्मज्ञानस्य मानद! ।।29।।
</43.7.29>
<43.7.30>स्वयमाहूय विप्रेन्द्रं ब्रह्मज्ञानमनुत्तमम्।
ददत् परमधर्मात्मा वाचस्पतिरभून्मुने ।।30।।
</43.7.30>
<43.7.31>धरण्यां नित्यसान्निध्यं वेङ्कटाद्रौ विशेषतः।
तस्मात्तत्रैव कार्याणि महादानानि पार्थिवैः ।।31।।
</43.7.31>
<43.7.32>यत्किञ्चिञ्च मुने! तस्मिन् स्वामिपुष्करिणीतटे।
दद्यादनुत्तमाँल्लोकान् आप्नुयात्पुण्यकर्मणाम् ।।32।।
</43.7.32>
%ब्रह्मकारितश्रीवेङ्कटाचलाधीशमहोत्सवप्रशंसा%
<43.7.33>मासि भाद्रपदे पुण्ये शुक्लपक्षे तु चैत्रभे।
स्वामिपुष्करिणीतीरे देवस्य परमात्मनः ।।33।।
</43.7.33>
<43.7.34>उत्सवः कारितः पूर्वं मयैव प्रीतये हरेः।
तत्र तत्र युगे चास्य विष्णोः स्वामिसरस्तटे ।।34।।
</43.7.34>
<43.7.35>उत्सवान् कारयिष्यन्ति नराः पुण्यकृतोऽमलाः।
किञ्चिदाराधनेनैव विष्णुर्भाद्रपदोत्सवे ।।35।।
</43.7.35>
<43.7.36>ददाति सर्वलोकानां वरानत्यन्तदुर्लभान्।
उत्सवेषु च देवस्य नारायणगिरिं प्रति।
गच्छन्ति ये नराः पुण्यास्तेषामपि फलं श्रृणु ।।36।।
</43.7.36>
<43.7.37>यानि त्वादधते पदानि च मुने! नारायणाद्रिं प्रति स्तोकं स्तोकमपि द्विजा अपि जनास्तेषां फलं यच्छृणु।
यावद्वेङ्कटशैलमात्मगृहतस्तावत्पदानां क्रमात् प्रायश्चैव पदेपदे क्रतुफलं भूयाद्भुवि प्राणिनाम् ।।37।।
</43.7.37>
%महोत्सवसेवार्थमागतजनाराधकपुण्यफलवर्णनम्%
<43.7.38>ये सेवार्थमुपागतान् वृषगिरौ देवस्य दिव्योत्सवे यावच्छक्त्युपलालयन्ति भगवांस्तेषामभीष्टप्रदः।
यस्तेषामुपकारमीषदपि वा कुर्यान्न लोभादिना तस्याकल्पमवस्थितिः श्रृणु मुने!घोरे महारौरवे ।।38।।
</43.7.38>
<43.7.39>यः स्वामिसरसस्तीरे पुष्पोद्यानानि कारयेत्।
नन्दनोपवने तस्य यावत्कल्पमवस्थितिः ।।39।।
</43.7.39>
<43.7.40>किमनेन बहूक्तेन यः स्वामिसरसस्तटे।
यत्किञ्चित्कुरुते पुण्यं तस्यान्तो नैव विद्यते! ।।40।।
</43.7.40>
वामदेवः-----
<43.7.41>इत्युक्त्वा भगवान् ब्रह्मा लोककृल्लोकपूजितः।
अन्तर्दधे तदा तस्मात् श्रुतमेतन्मया पुरा" ।।41।।
</43.7.41>
शतानन्दः-----
<43.7.42>इतीरितं तन्मुनिना समस्तं श्रुत्वा महौजा जनको महात्मा।
प्रफुल्लनेत्रः पुलकाञ्चिताङ्गो नारायणाद्रिं प्रययौ प्रहृष्टः ।।42।।
<43.7.42>
<43.7.43>समाप्य यज्ञं जनको महात्मा धुरं धरित्र्याः सचिवे नियोज्य।
द्रष्टुं परं ब्रह्म वृषाद्रिमूर्ध्नि स्वयं ययौ मैथिलराजराजः ।।43।।
</43.7.43>
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये
श्रीस्वामिपुष्करणीतीरकृतदानफलवर्णनं नाम
त्रिचत्वारिंशोऽध्यायः।
-------------
अथ चतुश्चत्वारिंशोऽध्यायः
-------*---------
%स्वामिपुष्करिणीं प्रति सार्धत्रिकोटितीर्थागमनकालनिर्णयः%
व्यासः----
<44.7.1>श्रुत्वैतदथ माहात्म्यं स्वामिपुष्करिणीं प्रति।
जनकस्तु शतानन्दं पप्रच्छेदं मुदाऽन्वितः ।।1।।
</44.7.1>
जनकः----
<44.7.2>"लोकेषु सर्वतीर्थानि कथमायान्ति तज्जले।
किमर्थं वा तदेतन्मे कथयस्व महामुने!" ।।2।।
</44.7.2>
शतानन्दः-----
<44.7.3>पुरा भागीरथीतीरे मार्कण्डेयो महामुनिः।
तपः परममास्थाय स तेपे परमं तपः ।।3।।
</44.7.3>
<44.7.4>ध्यायन् विश्वस्य जगतः स्रष्टारं भुवनेश्वरम्।
ततः कालेन महता ब्रह्मा लोकपितामहः ।।4।।
</44.7.4>
<44.7.5>सान्निध्यमकरोत्प्रीत्या मार्कण्डेयस्य धीमतः।
वचनं व्याजहारेदं मार्कण्डेयं पितामहः ।।5।।
</44.7.5>
<44.7.6>"वरं वरय दास्यामि यमिच्छसि महामुने!"।
मार्कण्डेयः----
"वरं देहि मम ब्रह्मन्! याचे श्रद्धासमन्वित: ।।6।।
</44.7.6>
<44.7.7>त्रैलोक्ये यानि पुण्यानि सन्ति तीर्थानि वै प्रभौ!।
तेषु सर्वेषु तीर्थेषु यात्रायां शक्तिरस्त्विति" ।।7।।
</44.7.7>
<44.7.8>तस्य तद्वचनं श्रुत्वा भगवांश्चतुराननः।
प्रहसन् व्याजहारेदं मार्कण्डेयं तपस्विनम् ।।8।।
</44.7.8>
ब्रह्मोवाच----
<44.7.9>"लोके सर्वेषु तीर्थेषु स्नानं वर्षशतैरपि।
कर्तुं न शक्यते ब्रह्मन्! न मया न च शम्भुना ।।9।।
</44.7.9>
<44.7.10>अन्यं वक्ष्यामि ते ब्रह्मन्! उपायं मुनिसत्तम!।
इतो दक्षिणदिग्भागे मुने! द्विशतयोजने ।।10।।
</44.7.10>
<44.7.11>अस्ति श्रीवेङ्कटो नाम प्रथितः पर्वतोत्तमः।
द्रविडेषु महापुण्यः सेवितस्त्रिदशैर्गिरिः ।।11।।
</44.7.11>
<44.7.12>तस्य श्रृङ्गे सुमहति पुण्या पापविनाशिनी।
"स्वामिपुष्करिणी"नाम सरसी सर्वकामदा ।।12।।
</44.7.12>
<44.7.13>त्रैलोक्यवर्तिनां ब्रह्मन्! तीर्थानां स्वामिनी हि सा।
मासे तु मार्गशीर्षाख्ये द्वादश्यां पूर्वपक्षके ।।13।।
</44.7.13>
<44.7.14>अरुणोदयवेलायां त्रिषु लोकेषु विश्रुताः।
तिस्रः कोट्योऽर्धकोटीश्च तीर्थानां सुमहामते! ।।14।।
</44.7.14>
<44.7.15>सान्निध्यं तत्र कुर्वन्ति स्वामिपुष्करिणीजले।
पापं स्वेषु विनिर्मुक्तं लोकैरघसमन्वितैः ।।15।।
</44.7.15>
<44.7.16>निर्हरन्तीह तीर्थानि तस्यास्तीर्थसमन्वयात्।
मार्कण्डेय! महाभाग! भुवनत्रयवासिनाम् ।।16।।
</44.7.16>
<44.7.17>तीर्थानां तत्र गत्वा त्वं सेवाफलमवाप्नुहि।
स्वामिपुष्करिणीत्येतत् नामधेयञ्च तत्कृतम् ।।17।।
</44.7.17>
<44.7.18>मार्कण्डेय! समस्तानां तीर्थानां स्वामिनी यतः।
अन्यच्च तव वक्ष्यामि रहस्यं धर्मगोचरम् ।।18।।
</44.7.18>
<44.7.19>यज्ज्ञात्वा मुनिशार्दूल! ज्ञातव्यं नावशिष्यते।
गङ्गादिपुण्यतीर्थानि यावन्तीह महीतले ।।19।।
</44.7.19>
<44.7.20>यानि वा मेरुश्रृङ्गाग्रे कैलासे मन्दरोपरि।
पाताले सिन्धुतीरेषु तथा द्वीपान्तरेष्वपि ।।20।।
</44.7.20>
<44.7.21>तेषु तेषु च दानानां व्रतानां जपहोमयोः।
श्रुतिस्मृतिपुराणेषु विविधं श्रूयते फलम् ।।21।।
</44.7.21>
<44.7.22>तत्सर्वं युगपत्प्राप्तं य इच्छेन्मुनिसत्तम!।
समार्गशीर्षद्वादश्यां शुक्लायां नियतात्मकः ।।22।।
</44.7.22>
<44.7.23>वेङ्कटाद्रौ महापुण्ये स्वामिपुष्करिणीतटे।
कुर्यादेकतमं दानं विप्राय श्रुतशालिने ।।23।।
</44.7.23>
<44.7.24>विष्णुभक्ताय शान्ताय दरिद्रायाऽनसूयवे।
तेन सर्वेषु तीर्थेषु तद्दत्तं नात्र संशयः ।।24।।
</44.7.24>
<44.7.25>यानि षोडश दानानि महान्त्याहुर्मुनीश्वराः।
तेषामेकं तु यः कुर्यात् स्वामिपुष्करिणीतटे ।।25।।
</44.7.25>
<44.7.26>मार्गशीर्षे सिते पक्षे द्वादश्यां विजितेन्द्रियः।
तेन षोडश दानानि तीर्थेषु सकलेष्वपि।
मार्कण्डेय! कृतानि स्युः युगपत्तत् महाद्भुतम् ।।26।।
</44.7.26>
<44.7.27>"धुनर्मासे सिते पक्षे द्वादश्यामरुणोदये।
आयान्ति सर्वतीर्थानि स्वामिपुष्करिणीजले" ।।27।।
</44.7.27>
<44.7.28>इमं मंत्रं समुच्चार्य स्नातस्तत्फलमाप्नुयात्।
एतद् गुह्यं पुरा विष्णुः प्रोवाच भगवान् मम" ।।28।।
</44.7.28>
शतानन्दः-----९
<44.7.29>इत्युक्त्वाऽन्तर्दधे ब्रह्मा मार्कण्डेयस्य पश्यतः।
मार्कण्डेयस्तु नृपते! विस्मयाविष्टमानसः ।।29।।
</44.7.29>
<44.7.30>नारायणगिरिं प्रायात् तथैव प्रीतमानसः।
गत्वा तस्मिन्गिरौ पुण्ये स्वामिपुष्करिणीं शुभाम् ।।30।।
</44.7.30>
<44.7.31>दृष्ट्वा स्नात्वाऽथ तस्या वै विपुले विमले जले।
तस्यास्तीरे महीपाल! भगवन्तं जनार्दनम् ।।31।।
</44.7.31>
<44.7.32>समभ्यर्च्य हृषीकेशं प्रसन्नेनान्तरात्मना।
वत्सराणां त्रयं राजन्! उवास स महीधरे ।।32।।
</44.7.32>
<44.7.33>प्रतिवर्षञ्च तीर्थानामागमं प्रेक्ष्य तत्तिथौ।
मार्कण्डेयो महीपाल! प्रसादात् शार्ङ्गधन्वनः।
अवाप परमानन्दं अनन्तं शाश्वतं मुनिः ।।33।।
</44.7.33>
वामदेवः------
<44.7.34>"य इदं श्रावयेन्नित्यं स्वामितीर्थस्य वैभवम्।
श्रृणोति परया भक्त्या द्वादश्यां मार्गशीर्षके ।।34।।
</44.7.34>
<44.7.35>तस्य प्रसन्नो भगवान् सर्वामिष्टं प्रयच्छति।
एकादश्यामुपोष्यास्मिन् पर्वते वेङ्कटाह्वये ।।35।।
</44.7.35>
<44.7.36>द्वादश्यां मार्गशीर्षे तु पूर्वपक्षे च ये नराः।
स्नानं कृत्वा यथान्यायं स्वामितीर्थे समागताः ।।36।।
</44.7.36>
<44.7.37>प्रणमन्ति जगन्नाथं तत्तीरतलवासिनम्।
ते नरास्तत्प्रसादेन पापराशिं विधूय वै।
तत्प्रयान्ति परं धाम शाश्वतं ब्रह्मसंज्ञितम् ।।37।।
</44.7.37>
%स्वामिपुष्करिणीतीर्थस्नानार्थं श्रीवेङ्कटाचलं प्रति जनकनृपागमनम्%
<44.7.38>शास्त्राणां परमो वेदो देवानां परमो हरिः।
तीर्थानां परमं तीर्थं स्वामिपुष्करिणी नृप! ।।38।।
</44.7.38>
<44.7.39>तस्मात्त्वमपि राजेन्द्र! गत्वा नारायणाचलम्।
स्वामिपुष्करिणीतोये स्नात्वा नियतमानसः ।।39।।
</44.7.39>
<44.7.40>तत्तीरवासिनं देवं शरण्यं सर्वदेहिनाम्।
नारायणं समाराध्य सर्वान् कामानवाप्स्यसि" ।।40।।
</44.7.40>
श्रीवेदव्यासः-----
<44.7.41>एतच्छ्रुत्वा तु जनकः शतानन्दोदितं तदा।
प्रहर्षमतुलं लब्ध्वा मन्त्रिभिः सहितो नृपः ।।41।।
</44.7.41>
<44.7.42>गत्वा वृषाचलं तीव्रं स्वामिपुष्करिणीजले।
स्नात्वा दृष्ट्वाऽथ देवेशं श्रीभूमिसहितं ततः ।।42।।
</44.7.42>
<44.7.43>तत्र स्थित्वा चिरं कालं सर्वान् कामानवाप्य च।
आगत्य मिथिलां राजा शशास पृथिवीमिमाम् ।।43।।
</44.7.43>
इति श्रीवामनपुराणे क्षेत्रकाण्डे श्रीवेङ्कटाचलमाहात्म्ये स्वामिपुष्करिणीं प्रति सार्धत्रिकोटितीर्थागमन-तत्कालकृतदानफलादिवर्णनं नाम
चतुश्चत्वारिंशोऽध्यायः।
----------------
इत्थं श्रीवामनपुराणे विंशप्रभृतिचतुश्चत्वारिंशपर्यन्तं पञ्चविंशअध्यायात्मकः श्रीवेङ्कटाचलमाहात्म्य परोभागः
समाप्तिमगमत्।
------------
श्रीवेङ्कटाद्रिनिलयः कमलाकामुकः पुमान्।
अभङ्गुरविभूतिर्नः तरङ्गयतु मङ्गलम्।।
<44.7.44>। ।।44।।
</44.7.44>